अद्वैतशारदा

श्रीमद्भगवद्गीताभाष्यम्

द्वादशोऽध्यायः

व्याख्याः

द्विती­या­ध्या­य­प्र­भृ­तिषु विभूत्यन्तेषु अध्यायेषु परमात्मनः ब्रह्मणः अक्षरस्य विध्व­स्त­स­र्वो­पा­धि­वि­शे­षस्य उपासनम् उक्तम् ; सर्व­यो­गै­श्व­र्य­स­र्व­ज्ञा­न­श­क्ति­म­त्स­त्त्वो­पाधेः ईश्वरस्य तव च उपासनं तत्र तत्र उक्तम् । विश्वरूपाध्याये तु ऐश्वरम् आद्यं सम­स्त­ज­ग­दा­त्म­रूपं विश्वरूपं त्वदीयं दर्शितम् उपासनार्थमेव त्वया । तच्च दर्शयित्वा उक्तवानसि ‘मत्कर्मकृत्’(भ. गी. ११ । ५५) इत्यादि । अतः अहम् अनयोः उभयोः पक्षयोः विशि­ष्ट­त­र­बु­भु­त्सया त्वां पृच्छामि इति अर्जुन उवाच —

अर्जुन उवाच —

एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्य­क्ष­र­म­व्यक्तं तेषां के योगवित्तमाः ॥ १ ॥

एवम् इति अती­ता­न­न्त­र­श्लो­केन उक्तम् अर्थं परामृशति ‘मत्कर्मकृत्’(भ. गी. ११ । ५५) इत्यादिना । एवं सततयुक्ताः, नैरन्तर्येण भगवत्कर्मादौ यथोक्ते अर्थे समाहिताः सन्तः प्रवृत्ता इत्यर्थः । ये भक्ताः अनन्यशरणाः सन्तः त्वां यथादर्शितं विश्वरूपं पर्युपासते ध्यायन्ति ; ये चान्येऽपि त्यक्तसर्वैषणाः संन्य­स्त­स­र्व­क­र्माणः यथाविशेषितं ब्रह्म अक्षरं निर­स्त­स­र्वो­पा­धि­त्वात् अव्यक्तम् अकरणगोचरम् । यत् हि करणगोचरं तत् व्यक्तम् उच्यते, अञ्जेः धातोः तत्कर्मकत्वात् ; इदं तु अक्षरं तद्विपरीतम् , शिष्टैश्च उच्यमानैः विशेषणैः विशिष्टम् , तत् ये चापि पर्युपासते, तेषाम् उभयेषां मध्ये के योगवित्तमाः ? के अतिशयेन योगविदः इत्यर्थः ॥ १ ॥

श्रीभगवान् उवाच — ये तु अक्षरोपासकाः सम्यग्दर्शिनः निवृत्तैषणाः, ते तावत् तिष्ठन्तु ; तान् प्रति यत् वक्तव्यम् , तत् उपरिष्टात् वक्ष्यामः । ये तु इतरे —

श्रीभगवानुवाच —

मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ २ ॥

मयि विश्वरूपे परमेश्वरे आवेश्य समाधाय मनः, ये भक्ताः सन्तः, मां सर्व­यो­गे­श्व­रा­णाम् अधीश्वरं सर्वज्ञं विमु­क्त­रा­गा­दि­क्ले­श­ति­मि­र­दृ­ष्टिम् , नित्ययुक्ताः अती­ता­न­न्त­रा­ध्या­या­न्तो­क्त­श्लो­का­र्थ­न्या­येन सततयुक्ताः सन्तः उपासते श्रद्धया परया प्रकृष्टया उपेताः, ते मे मम मताः अभिप्रेताः युक्ततमाः इति । नैरन्तर्येण हि ते मच्चित्ततया अहोरात्रम् अतिवाहयन्ति । अतः युक्तं तान् प्रति युक्ततमाः इति वक्तुम् ॥ २ ॥

किमितरे युक्ततमाः न भवन्ति ? न ; किन्तु तान् प्रति यत् वक्तव्यम् , तत् शृणु —

ये त्वक्ष­र­म­नि­र्दे­श्य­म­व्यक्तं पर्युपासते ।
सर्व­त्र­ग­म­चिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३ ॥

ये तु अक्षरम् अनिर्देश्यम् , अव्यक्तत्वात् अशब्दगोचर इति न निर्देष्टुं शक्यते, अतः अनिर्देश्यम् , अव्यक्तं न केनापि प्रमाणेन व्यज्यत इत्यव्यक्तं पर्युपासते परि समन्तात् उपासते । उपासनं नाम यथाशास्त्रम् उपास्यस्य अर्थस्य विषयीकरणेन सामीप्यम् उपगम्य तैलधारावत् समा­न­प्र­त्य­य­प्र­वा­हेण दीर्घकालं यत् आसनम् , तत् उपासनमाचक्षते । अक्षरस्य विशेषणमाह उपास्यस्य — सर्वत्रगं व्योमवत् व्यापि अचिन्त्यं च अव्य­क्त­त्वा­द­चि­न्त्यम् । यद्धि करणगोचरम् , तत् मनसापि चिन्त्यम् , तद्विपरीतत्वात् अचिन्त्यम् अक्षरम् , कूटस्थं दृश्यमानगुणम् अन्तर्दोषं वस्तु कूटम् । ‘कूटरूपम्’ ’ कूटसाक्ष्यम्’ इत्यादौ कूटशब्दः प्रसिद्धः लोके । तथा च अवि­द्या­द्य­ने­क­सं­सा­र­बी­जम् अन्तर्दोषवत् माया­व्या­कृ­ता­दि­श­ब्द­वा­च्य­तया ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’(श्वे. उ. ४ । १०) ‘मम माया दुरत्यया’(भ. गी. ७ । १४) इत्यादौ प्रसिद्धं यत् तत् कूटम् , तस्मिन् कूटे स्थितं कूटस्थं तदध्यक्षतया । अथवा, राशिरिव स्थितं कूटस्थम् । अत एव अचलम् । यस्मात् अचलम् , तस्मात् ध्रुवम् , नित्यमित्यर्थः ॥ ३ ॥

संनि­य­म्ये­न्द्रि­य­ग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ ४ ॥

सन्नियम्य सम्यक् नियम्य उपसंहृत्य इन्द्रियग्रामम् इन्द्रियसमुदायं सर्वत्र सर्वस्मिन् काले समबुद्धयः समा तुल्या बुद्धिः येषाम् इष्टा­नि­ष्ट­प्राप्तौ ते समबुद्धयः । ते ये एवंविधाः ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः । न तु तेषां वक्तव्यं किञ्चित् ‘मां ते प्राप्नुवन्ति’ इति ; ‘ज्ञानी त्वात्मैव मे मतम्’(भ. गी. ७ । १८) इति हि उक्तम् । न हि भगवत्स्वरूपाणां सतां युक्त­त­म­त्व­म­यु­क्त­त­मत्वं वा वाच्यम् ॥ ४ ॥

किं तु —

क्लेशोऽ­धि­क­त­र­स्ते­षा­म­व्य­क्ता­स­क्त­चे­त­साम् ।
अव्यक्ता हि गतिर्दुःखं देह­व­द्भि­र­वा­प्यते ॥ ५ ॥

क्लेशः अधिकतरः, यद्यपि मत्क­र्मा­दि­प­राणां क्लेशः अधिक एव क्लेशः अधिकतरस्तु अक्षरात्मनां परमात्मदर्शिनां देहा­भि­मा­न­प­रि­त्या­ग­नि­मित्तः । अव्य­क्ता­स­क्त­चे­त­साम् अव्यक्ते आसक्तं चेतः येषां ते अव्य­क्ता­स­क्त­चे­तसः तेषाम् अव्य­क्ता­स­क्त­चे­त­साम् । अव्यक्ता हि यस्मात् या गतिः अक्षरात्मिका दुःखं सा देहवद्भिः देहाभिमानवद्भिः अवाप्यते, अतः क्लेशः अधिकतरः ॥ ५ ॥

अक्षरोपासकानां यत् वर्तनम् , तत् उप­रि­ष्टा­द्व­क्ष्यामः —

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६ ॥

ये तु सर्वाणि कर्माणि मयि ईश्वरे संन्यस्य मत्पराः अहं परः येषां ते मत्पराः सन्तः अनन्येनैव अविद्यमानम् अन्यत् आलम्बनं विश्वरूपं देवम् आत्मानं मुक्त्वा यस्य सः अनन्यः तेन अनन्येनैव ; केन ? योगेन समाधिना मां ध्यायन्तः चिन्तयन्तः उपासते ॥ ६ ॥

तेषां किम् ? —

तेषामहं समुद्धर्ता मृत्यु­सं­सा­र­सा­ग­रात् ।
भवामि न चिरात्पार्थ मय्या­वे­शि­त­चे­त­साम् ॥ ७ ॥

तेषां मदु­पा­स­नै­क­प­रा­णाम् अहम् ईश्वरः समुद्धर्ता । कुतः इति आह — मृत्यु­सं­सा­र­सा­ग­रात् मृत्युयुक्तः संसारः मृत्युसंसारः, स एव सागर इव सागरः, दुस्तरत्वात् , तस्मात् मृत्यु­सं­सा­र­सा­ग­रात् अहं तेषां समुद्धर्ता भवामि न चिरात् । किं तर्हि ? क्षिप्रमेव हे पार्थ, मयि आवेशितचेतसां मयि विश्वरूपे आवेशितं समाहितं चेतः येषां ते मय्यावेशितचेतसः तेषाम् ॥ ७ ॥

यतः एवम् , तस्मात् —

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ ८ ॥

मयि एव विश्वरूपे ईश्वरे मनः सङ्क­ल्प­वि­क­ल्पा­त्मकं आधत्स्व स्थापय । मयि एव अध्यवसायं कुर्वतीं बुद्धिम् आधत्स्व निवेशय । ततः ते किं स्यात् इति शृणु — निवसिष्यसि निवत्स्यसि निश्चयेन मदात्मना मयि निवासं करिष्यसि एव अतः शरीरपातात् ऊर्ध्वम् । न संशयः संशयः अत्र न कर्तव्यः ॥ ८ ॥

अथ चित्तं समाधातुं
न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन ततो
मामिच्छाप्तुं धनञ्जय ॥ ९ ॥

अथ एवं यथा अवोचं तथा मयि चित्तं समाधातुं स्थापयितुं स्थिरम् अचलं न शक्नोषि चेत् , ततः पश्चात् अभ्यासयोगेन, चित्तस्य एकस्मिन् आलम्बने सर्वतः समाहृत्य पुनः पुनः स्थापनम् अभ्यासः, तत्पूर्वको योगः समाधानलक्षणः तेन अभ्यासयोगेन मां विश्वरूपम् इच्छ प्रार्थयस्व आप्तुं प्राप्तुं हे धनञ्जय ॥ ९ ॥

अभ्या­सेऽ­प्य­स­म­र्थोऽसि
मत्कर्मपरमो भव ।
मदर्थमपि कर्माणि
कुर्व­न्सि­द्धि­म­वा­प्स्यसि ॥ १० ॥

१०

अभ्यासे अपि असमर्थः असि अशक्तः असि, तर्हि मत्कर्मपरमः भव मदर्थं कर्म मत्कर्म तत्परमः मत्कर्मपरमः, मत्कर्मप्रधानः इत्यर्थः । अभ्यासेन विना मदर्थमपि कर्माणि केवलं कुर्वन् सिद्धिं सत्त्व­शु­द्धि­यो­ग­ज्ञा­न­प्रा­प्ति­द्वा­रेण अवाप्स्यसि ॥ १० ॥

अथै­त­द­प्य­श­क्तोऽसि कर्तुं मद्योगमाश्रितः ।
सर्व­क­र्म­फ­ल­त्यागं ततः कुरु यतात्मवान् ॥ ११ ॥

११

अथ पुनः एतदपि यत् उक्तं मत्कर्मपरमत्वम् , तत् कर्तुम् अशक्तः असि, मद्योगम् आश्रितः मयि क्रियमाणानि कर्माणि संन्यस्य यत् करणं तेषाम् अनुष्ठानं सः मद्योगः, तम् आश्रितः सन् , सर्व­क­र्म­फ­ल­त्यागं सर्वेषां कर्मणां फलसंन्यासं सर्व­क­र्म­फ­ल­त्यागं ततः अनन्तरं कुरु यतात्मवान् संयतचित्तः सन् इत्यर्थः ॥ ११ ॥

इदानीं सर्व­क­र्म­फ­ल­त्यागं स्तौति —

श्रेयो हि ज्ञान­म­भ्या­सा­ज्ज्ञा­ना­द्ध्यानं विशिष्यते ।
ध्याना­त्क­र्म­फ­ल­त्या­ग­स्त्या­गा­च्छा­न्ति­र­न­न्त­रम् ॥ १२ ॥

१२

श्रेयः हि प्रशस्यतरं ज्ञानम् । कस्मात् ? विवेकपूर्वकात् अभ्यासात् । तस्मादपि ज्ञानात् ज्ञानपूर्वकं ध्यानं विशिष्यते । ज्ञानवतो ध्यानात् अपि कर्मफलत्यागः, ‘विशिष्यते’ इति अनुषज्यते । एवं कर्मफलत्यागात् पूर्वविशेषणवतः शान्तिः उपशमः सहेतुकस्य संसारस्य अनन्तरमेव स्यात् , न तु कालान्तरम् अपेक्षते ॥

अज्ञस्य कर्मणि प्रवृत्तस्य पूर्वो­प­दि­ष्टो­पा­या­नु­ष्ठा­ना­शक्तौ सर्वकर्मणां फलत्यागः श्रेयःसाधनम् उपदिष्टम् , न प्रथममेव । अतश्च ‘श्रेयो हि ज्ञानमभ्यासात्’ इत्यु­त्त­रो­त्त­र­वि­शि­ष्ट­त्वो­प­दे­शेन सर्व­क­र्म­फ­ल­त्यागः स्तूयते, सम्प­न्न­सा­ध­ना­नु­ष्ठा­ना­शक्तौ अनुष्ठेयत्वेन श्रुतत्वात् । केन साधर्म्येण स्तुतित्वम् ? ‘यदा सर्वे प्रमुच्यन्ते’(क. उ. २ । ३ । १४) इति सर्व­का­म­प्र­हा­णात् अमृतत्वम् उक्तम् ; तत् प्रसिद्धम् । कामाश्च सर्वे श्रौत­स्मा­र्त­क­र्मणां फलानि । तत्त्यागे च विदुषः ध्याननिष्ठस्य अनन्तरैव शान्तिः इति सर्व­का­म­त्या­ग­सा­मा­न्यम् अज्ञ­क­र्म­फ­ल­त्या­गस्य अस्ति इति तत्सामान्यात् सर्व­क­र्म­फ­ल­त्या­ग­स्तुतिः इयं प्ररोचनार्था । यथा अगस्त्येन ब्राह्मणेन समुद्रः पीतः इति इदानीन्तनाः अपि ब्राह्मणाः ब्राह्म­ण­त्व­सा­मा­न्यात् स्तूयन्ते, एवं कर्मफलत्यागात् कर्मयोगस्य श्रेयः­सा­ध­न­त्व­म­भि­हि­तम् ॥ १२ ॥

अत्र च आत्मे­श्व­र­भे­द­मा­श्रित्य विश्वरूपे ईश्वरे चेतः­स­मा­धा­न­ल­क्षणः योगः उक्तः, ईश्वरार्थं कर्मानुष्ठानादि च । ‘अथै­त­द­प्य­श­क्तोऽसि’(भ. गी. १२ । ११) इति अज्ञा­न­का­र्य­सू­च­नात् न अभेददर्शिनः अक्षरोपासकस्य कर्मयोगः उपपद्यते इति दर्शयति ; तथा कर्मयोगिनः अक्ष­रो­पा­स­ना­नु­प­प­त्तिम् । ‘ते प्राप्नुवन्ति मामेव’(भ. गी. १२ । ४) इति अक्षरोपासकानां कैवल्यप्राप्तौ स्वातन्त्र्यम् उक्त्वा, इतरेषां पारतन्त्र्यात् ईश्वराधीनतां दर्शितवान् ‘तेषामहं समुद्धर्ता’(भ. गी. १२ । ७) इति । यदि हि ईश्वरस्य आत्मभूताः ते मताः अभेददर्शित्वात् , अक्षरस्वरूपाः एव ते इति समु­द्ध­र­ण­क­र्म­व­चनं तान् प्रति अपेशलं स्यात् । यस्माच्च अर्जुनस्य अत्यन्तमेव हितैषी भगवान् तस्य सम्य­ग्द­र्श­ना­न­न्वितं कर्मयोगं भेद­दृ­ष्टि­म­न्त­मेव उपदिशति । न च आत्मानम् ईश्वरं प्रमाणतः बुद्ध्वा कस्यचित् गुणभावं जिगमिषति कश्चित् , विरोधात् । तस्मात् अक्षरोपासकानां सम्य­ग्द­र्श­न­नि­ष्ठानां संन्यासिनां त्यक्त­स­र्वै­ष­णा­नाम् ‘अद्वेष्टा सर्वभूतानाम्’ इत्यादिधर्मपूगं साक्षात् अमृतत्वकारणं वक्ष्यामीति प्रवर्तते —

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १३ ॥

१३

अद्वेष्टा सर्वभूतानां न द्वेष्टा, आत्मनः दुःखहेतुमपि न किञ्चित् द्वेष्टि, सर्वाणि भूतानि आत्मत्वेन हि पश्यति । मैत्रः मित्रभावः मैत्री मित्रतया वर्तते इति मैत्रः । करुणः एव च, करुणा कृपा दुःखितेषु दया, तद्वान् करुणः, सर्व­भू­ता­भ­य­प्रदः, संन्यासी इत्यर्थः । निर्ममः मम­प्र­त्य­य­व­र्जितः । निरहङ्कारः निर्ग­ता­हं­प्र­त्ययः । समदुःखसुखः समे दुःखसुखे द्वेषरागयोः अप्रवर्तके यस्य सः समदुःखसुखः । क्षमी क्षमावान् , आक्रुष्टः अभिहतो वा अविक्रियः एव आस्ते ॥ १३ ॥

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्य­र्पि­त­म­नो­बु­द्धिर्यो मद्भक्तः स मे प्रियः ॥ १४ ॥

१४

सन्तुष्टः सततं नित्यं देह­स्थि­ति­का­र­णस्य लाभे अलाभे च उत्प­न्ना­लं­प्र­त्ययः । तथा गुणवल्लाभे विपर्यये च सन्तुष्टः । सततं योगी समाहितचित्तः । यतात्मा संयतस्वभावः । दृढनिश्चयः दृढः स्थिरः निश्चयः अध्यवसायः यस्य आत्मतत्त्वविषये स दृढनिश्चयः । मय्य­र्पि­त­म­नो­बुद्धिः सङ्क­ल्प­वि­क­ल्पा­त्मकं मनः, अध्यवसायलक्षणा बुद्धिः, ते मय्येव अर्पिते स्थापिते यस्य संन्यासिनः सः मय्य­र्पि­त­म­नो­बुद्धिः । यः ईदृशः मद्भक्तः सः मे प्रियः । ‘प्रियो हि ज्ञानि­नोऽ­त्य­र्थ­महं स च मम प्रियः’(भ. गी. ७ । १७) इति सप्तमे अध्याये सूचितम् , तत् इह प्रपञ्च्यते ॥ १४ ॥

यस्मा­न्नो­द्वि­जते लोको लोकान्नोद्विजते च यः ।
हर्षा­म­र्ष­भ­यो­द्वे­गै­र्मुक्तो यः स च मे प्रियः ॥ १५ ॥

१५

यस्मात् संन्यासिनः न उद्विजते न उद्वेगं गच्छति न सन्तप्यते न सङ्क्षुभ्यति लोकः, तथा लोकात् न उद्विजते च यः, हर्षा­म­र्ष­भ­यो­द्वेगैः हर्षश्च अमर्षश्च भयं च उद्वेगश्च तैः हर्षा­म­र्ष­भ­यो­द्वेगैः मुक्तः ; हर्षः प्रियलाभे अन्तःकरणस्य उत्कर्षः रोमा­ञ्च­ना­श्रु­पा­ता­दि­लिङ्गः, अमर्षः असहिष्णुता, भयं त्रासः, उद्वेगः उद्विग्नता, तैः मुक्तः यः स च मे प्रियः ॥ १५ ॥

अनपेक्षः शुचिर्दक्ष
उदासीनो गतव्यथः ।
सर्वा­र­म्भ­प­रि­त्यागी
यो मद्भक्तः स मे प्रियः ॥ १६ ॥

१६

देहे­न्द्रि­य­वि­ष­य­स­म्ब­न्धा­दिषु अपेक्षाविषयेषु अनपेक्षः निःस्पृहः । शुचिः बाह्येन आभ्यन्तरेण च शौचेन सम्पन्नः । दक्षः प्रत्यु­त्प­न्नेषु कार्येषु सद्यः यथावत् प्रतिपत्तुं समर्थः । उदासीनः न कस्यचित् मित्रादेः पक्षं भजते यः, सः उदासीनः यतिः । गतव्यथः गतभयः । सर्वा­र­म्भ­प­रि­त्यागी आरभ्यन्त इति आरम्भाः इहा­मु­त्र­फ­ल­भो­गा­र्थानि कामहेतूनि कर्माणि सर्वारम्भाः, तान् परित्यक्तुं शीलम् अस्येति सर्वा­र­म्भ­प­रि­त्यागी यः मद्भक्तः सः मे प्रियः ॥ १६ ॥

किञ्च —

यो न हृष्यति न द्वेष्टि
न शोचति न काङ्क्षति ।
शुभा­शु­भ­प­रि­त्यागी
भक्तिमान्यः स मे प्रियः ॥ १७ ॥

१७

यः न हृष्यति इष्टप्राप्तौ, न द्वेष्टि अनिष्टप्राप्तौ, न शोचति प्रियवियोगे, न च अप्राप्तं काङ्क्षति, शुभाशुभे कर्मणी परित्यक्तुं शीलम् अस्य इति शुभा­शु­भ­प­रि­त्यागी भक्तिमान् यः सः मे प्रियः ॥ १७ ॥

समः शत्रौ च मित्रे च
तथा मानापमानयोः ।
शीतो­ष्ण­सु­ख­दुः­खेषु
समः सङ्गविवर्जितः ॥ १८ ॥

१८

समः शत्रौ च मित्रे च, तथा मानापमानयोः पूजापरिभवयोः, शीतो­ष्ण­सु­ख­दुः­खेषु समः, सर्वत्र च सङ्गविवर्जितः ॥ १८ ॥

किञ्च —

तुल्य­नि­न्दा­स्तु­ति­र्मौनी सन्तुष्टो येन केनचित् ।
अनिकेतः स्थिर­म­ति­र्भ­क्ति­मान्मे प्रियो नरः ॥ १९ ॥

१९

तुल्य­नि­न्दा­स्तुतिः निन्दा च स्तुतिश्च निन्दास्तुती ते तुल्ये यस्य सः तुल्य­नि­न्दा­स्तुतिः । मौनी मौनवान् संयतवाक् । सन्तुष्टः येन केनचित् शरी­र­स्थि­ति­हे­तु­मा­त्रेण ; तथा च उक्तम् — ‘येन केनचिदाच्छन्नो येन केनचिदाशितः । यत्र क्वचन शायी स्यात्तं देवा ब्राह्मणं विदुः’(मो. ध. २४५ । १२) इति । किञ्च, अनिकेतः निकेतः आश्रयः निवासः नियतः न विद्यते यस्य सः अनिकेतः, ‘नागारे’(?) इत्या­दि­स्मृ­त्य­न्त­रात् । स्थिरमतिः स्थिरा परमार्थविषया यस्य मतिः सः स्थिरमतिः । भक्तिमान् मे प्रियः नरः ॥ १९ ॥

‘अद्वेष्टा सर्वभूतानाम्’(भ. गी. १२ । १३) , इत्यादिना अक्षरोपासकानां निवृ­त्त­स­र्वै­ष­णानां सन्यासिनां पर­मा­र्थ­ज्ञा­न­नि­ष्ठानां धर्मजातं प्रक्रान्तम् उपसंह्रियते —

ये तु धर्म्यामृतमिदं
यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा
भक्तास्तेऽतीव मे प्रियाः ॥ २० ॥

२०

ये तु संन्यासिनः धर्म्यामृतं धर्मादनपेतं धर्म्यं च तत् अमृतं च तत् , अमृ­त­त्व­हे­तु­त्वात् , इदं यथोक्तम् ‘अद्वेष्टा सर्वभूतानाम्’(भ. गी. १२ । १३) इत्यादिना पर्युपासते अनुतिष्ठन्ति श्रद्दधानाः सन्तः मत्परमाः यथोक्तः अहं अक्षरात्मा परमः निरतिशया गतिः येषां ते मत्परमाः, मद्भक्ताः च उत्तमां पर­मा­र्थ­ज्ञा­न­ल­क्षणां भक्तिमाश्रिताः, ते अतीव मे प्रियाः । ‘प्रियो हि ज्ञानि­नोऽ­त्य­र्थम्’(भ. गी. ७ । १७) इति यत् सूचितं तत् व्याख्याय इह उपसंहृतम् ‘भक्तास्तेऽतीव मे प्रियाः’ इति । यस्मात् धर्म्यामृतमिदं यथो­क्त­म­नु­ति­ष्ठन् भगवतः विष्णोः परमेश्वरस्य अतीव प्रियः भवति, तस्मात् इदं धर्म्यामृतं मुमुक्षुणा यत्नतः अनुष्ठेयं विष्णोः प्रियं परं धाम जिगमिषुणा इति वाक्यार्थः ॥ २० ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ श्रीम­द्भ­ग­व­द्गी­ता­भाष्ये द्वादशोऽध्यायः ॥