अद्वैतशारदा

श्रीमद्भगवद्गीताभाष्यम्

त्रयोदशोऽध्यायः

व्याख्याः

सप्तमे अध्याये सूचिते द्वे प्रकृती ईश्वरस्य — त्रिगुणात्मिका अष्टधा भिन्ना अपरा, संसारहेतुत्वात् ; परा च अन्या जीवभूता क्षेत्र­ज्ञ­ल­क्षणा ईश्वरात्मिका — याभ्यां प्रकृ­ति­भ्या­मी­श्वरः जग­दु­त्प­त्ति­स्थि­ति­ल­य­हे­तुत्वं प्रतिपद्यते । तत्र क्षेत्र­क्षे­त्र­ज्ञ­ल­क्ष­ण­प्र­कृ­ति­द्व­य­नि­रू­प­ण­द्वा­रेण तद्वतः ईश्वरस्य तत्त्व­नि­र्धा­र­णार्थं क्षेत्राध्यायः आरभ्यते । अती­ता­न­न्त­रा­ध्याये च ‘अद्वेष्टा सर्वभूतानाम्’(भ. गी. १२ । १३) इत्यादिना यावत् अध्या­य­प­रि­स­माप्तिः तावत् तत्त्वज्ञानिनां संन्यासिनां निष्ठा यथा ते वर्तन्ते इत्येतत् उक्तम् । केन पुनः ते तत्त्वज्ञानेन युक्ताः यथो­क्त­ध­र्मा­च­र­णात् भगवतः प्रिया भवन्तीति एवमर्थश्च अयमध्यायः आरभ्यते । प्रकृतिश्च त्रिगुणात्मिका सर्व­का­र्य­क­र­ण­वि­ष­या­का­रेण परिणता पुरुषस्य भोगा­प­व­र्गा­र्थ­क­र्त­व्य­तया देहे­न्द्रि­या­द्या­का­रेण संहन्यते । सोऽयं सङ्घातः इदं शरीरम् । तदेतत् भगवान् उवाच —

श्रीभगवानुवाच —

इदं शरीरं कौन्तेय क्षेत्र­मि­त्य­भि­धी­यते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १ ॥

इदम् इति सर्वनाम्ना उक्तं विशिनष्टि शरीरम् इति । हे कौन्तेय, क्षतत्राणात् , क्षयात् , क्षरणात् , क्षेत्रवद्वा अस्मिन् कर्म­फ­ल­नि­ष्पत्तेः क्षेत्रम् इति — इतिशब्दः एवंशब्दपदार्थकः — क्षेत्रम् इत्येवम् अभिधीयते कथ्यते । एतत् शरीरं क्षेत्रं यः वेत्ति विजानाति, आपादतलमस्तकं ज्ञानेन विषयीकरोति, स्वाभाविकेन औपदेशिकेन वा वेदनेन विषयीकरोति विभागशः, तं वेदितारं प्राहुः कथयन्ति क्षेत्रज्ञः इति — इतिशब्दः एवंशब्दपदार्थकः एव पूर्ववत् — क्षेत्रज्ञः इत्येवम् आहुः । के ? तद्विदः तौ क्षेत्र­क्षे­त्रज्ञौ ये विदन्ति ते तद्विदः ॥ १ ॥

एवं क्षेत्र­क्षे­त्रज्ञौ उक्तौ । किम् एतावन्मात्रेण ज्ञानेन ज्ञातव्यौ इति ? न इति उच्यते —

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्र­क्षे­त्र­ज्ञ­यो­र्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥

क्षेत्रज्ञं यथोक्तलक्षणं चापि मां परमेश्वरम् असंसारिणं विद्धि जानीहि । सर्वक्षेत्रेषु यः क्षेत्रज्ञः ब्रह्मा­दि­स्त­म्ब­प­र्य­न्ता­ने­क­क्षे­त्रो­पा­धि­प्र­वि­भक्तः, तं निर­स्त­स­र्वो­पा­धि­भेदं सद­स­दा­दि­श­ब्द­प्र­त्य­या­गो­चरं विद्धि इति अभिप्रायः । हे भारत, यस्मात् क्षेत्र­क्षे­त्र­ज्ञे­श्व­र­या­था­त्म्य­व्य­ति­रे­केण न ज्ञानगोचरम् अन्यत् अवशिष्टम् अस्ति, तस्मात् क्षेत्र­क्षे­त्र­ज्ञयोः ज्ञेयभूतयोः यत् ज्ञानं क्षेत्र­क्षे­त्रज्ञौ येन ज्ञानेन विषयीक्रियेते, तत् ज्ञानं सम्यग्ज्ञानम् इति मतम् अभिप्रायः मम ईश्वरस्य विष्णोः ॥

ननु सर्वक्षेत्रेषु एक एव ईश्वरः, न अन्यः तद्व्यतिरिक्तः भोक्ता विद्यते चेत् , ततः ईस्वरस्य संसारित्वं प्राप्तम् ; ईश्वरव्यतिरेकेण वा संसारिणः अन्यस्य अभावात् संसा­रा­भा­व­प्र­सङ्गः । तच्च उभयमनिष्टम् , बन्ध­मो­क्ष­त­द्धे­तु­शा­स्त्रा­न­र्थ­क्य­प्र­स­ङ्गात् , प्रत्य­क्षा­दि­प्र­मा­ण­वि­रो­धाच्च । प्रत्यक्षेण तावत् सुख­दुः­ख­त­द्धे­तु­ल­क्षणः संसारः उपलभ्यते ; जग­द्वै­चि­त्र्यो­प­ल­ब्धेश्च धर्मा­ध­र्म­नि­मित्तः संसारः अनुमीयते । सर्वमेतत् अनु­प­प­न्न­मा­त्मे­श्व­रै­कत्वे ॥

न ; ज्ञानाज्ञानयोः अन्य­त्वे­नो­प­पत्तेः — ‘दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता’(क. उ. १ । २ । ४) । तथा तयोः विद्या­वि­द्या­वि­ष­ययोः फलभेदोऽपि विरुद्धः निर्दिष्टः — ‘श्रेयश्च प्रेयश्च’(क. उ. १ । २ । २) इति ; विद्याविषयः श्रेयः, प्रेयस्तु अविद्याकार्यम् इति । तथा च व्यासः — ‘द्वाविमावथ पन्थानौ’(मो. ध. २४१ । ६) इत्यादि, ‘इमौ द्वावेव पन्थानौ’ इत्यादि च । इह च द्वे निष्ठे उक्ते । अविद्या च सह कार्येण हातव्या इति श्रुति­स्मृ­ति­न्या­येभ्यः अवगम्यते । श्रुतयः तावत् — ‘इह चेदवेदीदथ सत्यमस्ति न चेदि­हा­वे­दी­न्म­हती विनष्टिः’(के. उ. २ । ५) ‘तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यतेऽयनाय’(तै. आ. ३ । १३) ‘विद्वान्न बिभेति कुतश्चन’(तै. उ. २ । ९ । १) । अविदुषस्तु — ‘अथ तस्य भयं भवति’(तै. उ. २ । ७ । १) , ‘अवि­द्या­या­म­न्तरे वर्तमानाः’(क. उ. १ । २ । ५) , ‘ब्रह्म वेद ब्रह्मैव भवति’ ‘अन्योऽ­सा­व­न्योऽ­ह­म­स्मीति न स वेद यथा पशुरेवं स देवानाम्’(बृ. उ. १ । ४ । १०) आत्मवित् यः ‘स इदं सर्वं भवति’(बृ. उ. १ । ४ । १०) ; ‘यदा चर्मवत्’(श्वे. उ. ६ । २०) इत्याद्याः सहस्रशः । स्मृतयश्च — ‘अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः’(भ. गी. ५ । १५) ‘इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः’(भ. गी. ५ । १९) ‘समं पश्यन् हि सर्वत्र’(भ. गी. १३ । २८) इत्याद्याः । न्यायतश्च — ‘सर्पा­न्कु­शा­ग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति । अज्ञानतस्तत्र पतन्ति केचिज्ज्ञाने फलं पश्य यथाविशिष्टम्’(मो. ध. २०१ । १७) । तथा च — देहादिषु आत्मबुद्धिः अविद्वान् राग­द्वे­षा­दि­प्र­युक्तः धर्मा­ध­र्मा­नु­ष्ठा­न­कृत् जायते म्रियते च इति अवगम्यते ; देहा­दि­व्य­ति­रि­क्ता­त्म­द­र्शिनः राग­द्वे­षा­दि­प्र­हा­णा­पे­क्ष­ध­र्मा­ध­र्म­प्र­वृ­त्त्यु­प­श­मात् मुच्यन्ते इति न केनचित् प्रत्याख्यातुं शक्यं न्यायतः । तत्र एवं सति, क्षेत्रज्ञस्य ईश्वरस्यैव सतः अवि­द्या­कृ­तो­पा­धि­भे­दतः संसारित्वमिव भवति, यथा देहा­द्या­त्म­त्व­मा­त्मनः । सर्वजन्तूनां हि प्रसिद्धः देहादिषु अनात्मसु आत्मभावः निश्चितः अविद्याकृतः, यथा स्थाणौ पुरुषनिश्चयः ; न च एतावता पुरुषधर्मः स्थाणोः भवति, स्थाणुधर्मो वा पुरुषस्य, तथा न चैतन्यधर्मो देहस्य, देहधर्मो वा चेतनस्य सुख­दुः­ख­मो­हा­त्म­क­त्वादिः आत्मनः न युक्तः ; अवि­द्या­कृ­त­त्वा­वि­शे­षात् , जरामृत्युवत् ॥

न, अतुल्यत्वात् ; इति चेत् — स्थाणुपुरुषौ ज्ञेयावेव सन्तौ ज्ञात्रा अन्योन्यस्मिन् अध्यस्तौ अविद्यया ; देहात्मनोस्तु ज्ञेय­ज्ञा­त्रो­रेव इतरेतराध्यासः, इति न समः दृष्टान्तः । अतः देहधर्मः ज्ञेयोऽपि ज्ञातुरात्मनः भवतीति चेत् , न ; अचै­त­न्या­दि­प्र­स­ङ्गात् । यदि हि ज्ञेयस्य देहादेः क्षेत्रस्य धर्माः सुख­दुः­ख­मो­हे­च्छा­दयः ज्ञातुः भवन्ति, तर्हि, ‘ज्ञेयस्य क्षेत्रस्य धर्माः केचित् आत्मनः भवन्ति अवि­द्या­ध्या­रो­पिताः, जरामरणादयस्तु न भवन्ति’ इति विशेषहेतुः वक्तव्यः । ‘न भवन्ति’ इति अस्ति अनुमानम् — अवि­द्या­ध्या­रो­पि­त­त्वात् जरामरणादिवत् इति, हेयत्वात् , उपादेयत्वाच्च इत्यादि । तत्र एवं सति, कर्तृ­त्व­भो­क्तृ­त्व­ल­क्षणः संसारः ज्ञेयस्थः ज्ञातरि अविद्यया अध्यारोपितः इति, न तेन ज्ञातुः किञ्चित् दुष्यति, यथा बालैः अध्यारोपितेन आकाशस्य तलमलिनत्वादिना ॥

एवं च सति, सर्व­क्षे­त्रे­ष्वपि सतः भगवतः क्षेत्रज्ञस्य ईश्वरस्य संसा­रि­त्व­ग­न्ध­मा­त्र­मपि नाशङ्क्यम् । न हि क्वचिदपि लोके अविद्याध्यस्तेन धर्मेण कस्यचित् उपकारः अपकारो वा दृष्टः ॥

यत्तु उक्तम् — न समः दृष्टान्तः इति, तत् असत् । कथम् ? अवि­द्या­ध्या­स­मात्रं हि दृष्टा­न्त­दा­र्ष्टा­न्ति­कयोः साधर्म्यं विवक्षितम् । तत् न व्यभिचरति । यत्तु ज्ञातरि व्यभिचरति इति मन्यसे, तस्यापि अनैकान्तिकत्वं दर्शितं जरादिभिः ॥

अवि­द्या­व­त्त्वात् क्षेत्रज्ञस्य संसारित्वम् इति चेत् , न ; अविद्यायाः तामसत्वात् । तामसो हि प्रत्ययः, आवरणात्मकत्वात् अविद्या विपरीतग्राहकः, संशयोपस्थापको वा, अग्रहणात्मको वा ; विवेकप्रकाशभावे तदभावात् , तामसे च आवरणात्मके तिमिरादिदोषे सति अग्रहणादेः अविद्यात्रयस्य उपलब्धेः ॥

अत्र आह — एवं तर्हि ज्ञातृधर्मः अविद्या । न ; करणे चक्षुषि तैमि­रि­क­त्वा­दि­दो­षो­प­लब्धेः । यत्तु मन्यसे — ज्ञातृधर्मः अविद्या, तदेव च अवि­द्या­ध­र्म­वत्त्वं क्षेत्रज्ञस्य संसारित्वम् ; तत्र यदुक्तम् ‘ईश्वर एव क्षेत्रज्ञः, न संसारी’ इत्येतत् अयुक्तमिति — तत् न ; यथा करणे चक्षुषि विप­री­त­ग्रा­ह­का­दि­दो­षस्य दर्शनात् । न विपरीतादिग्रहणं तन्निमित्तं वा तैमि­रि­क­त्वा­दि­दोषः ग्रहीतुः, चक्षुषः संस्कारेण तिमिरे अपनीते ग्रहीतुः अदर्शनात् न ग्रहीतुर्धर्मः यथा ; तथा सर्वत्रैव अग्र­ह­ण­वि­प­री­त­सं­श­य­प्र­त्य­या­स्त­न्नि­मित्ताः करणस्यैव कस्यचित् भवितुमर्हन्ति, न ज्ञातुः क्षेत्रज्ञस्य । संवेद्यत्वाच्च तेषां प्रदीपप्रकाशवत् न ज्ञातृधर्मत्वम् — संवेद्यत्वादेव स्वात्म­व्य­ति­रि­क्त­सं­वे­द्य­त्वम् ; सर्वकरणवियोगे च कैवल्ये सर्ववादिभिः अवि­द्या­दि­दो­ष­व­त्त्वा­न­भ्यु­प­ग­मात् । आत्मनः यदि क्षेत्रज्ञस्य अग्न्युष्णवत् स्वः धर्मः, ततः न कदाचिदपि तेन वियोगः स्यात् । अविक्रियस्य च व्योमवत् सर्वगतस्य अमूर्तस्य आत्मनः केनचित् संयो­ग­वि­यो­गा­नु­प­पत्तेः, सिद्धं क्षेत्रज्ञस्य नित्यमेव ईश्वरत्वम् ; ‘अना­दि­त्वा­न्नि­र्गु­ण­त्वात्’(भ. गी. १३ । ३१) इत्या­दी­श्व­र­व­च­नाच्च ॥

ननु एवं सति संसा­र­सं­सा­रि­त्वा­भावे शास्त्रा­न­र्थ­क्या­दि­दोषः स्यादिति चेत् , न ; सर्वै­र­भ्यु­प­ग­त­त्वात् । सर्वैः आत्मवादिभिः अभ्युपगतः दोषः न एकेन परिहर्तव्यः भवति । कथम् अभ्युपगतः इति ? मुक्तात्मनां हि संसा­र­सं­सा­रि­त्व­व्य­व­हा­रा­भावः सर्वैरेव आत्मवादिभिः इष्यते । न च तेषां शास्त्रा­न­र्थ­क्या­दि­दो­ष­प्राप्तिः अभ्युपगता । तथा नः क्षेत्रज्ञानाम् ईश्वरैकत्वे सति, शास्त्रा­न­र्थक्यं भवतु ; अविद्याविषये च अर्थवत्त्वम् — यथा द्वैतिनां सर्वेषां बन्धावस्थायामेव शास्त्रा­द्य­र्थ­व­त्त्वम् , न मुक्तावस्थायाम् , एवम् ॥

ननु आत्मनः बन्धमुक्तावस्थे परमार्थत एव वस्तुभूते द्वैतिनां सर्वेषाम् । अतः हेयो­पा­दे­य­त­त्सा­ध­न­स­द्भावे शास्त्रा­द्य­र्थ­वत्त्वं स्यात् । अद्वैतिनां पुनः, द्वैतस्य अपरमार्थत्वात् , अवि­द्या­कृ­त­त्वात् बन्धावस्थायाश्च आत्मनः अपरमार्थत्वे निर्विषयत्वात् , शास्त्रा­द्या­न­र्थ­क्यम् इति चेत् , न ; आत्मनः अव­स्था­भे­दा­नु­प­पत्तेः । यदि तावत् आत्मनः बन्ध­मु­क्ता­वस्थे, युगपत् स्याताम् , क्रमेण वा । युगपत् तावत् विरोधात् न सम्भवतः स्थितिगती इव एकस्मिन् । क्रमभावित्वे च, निर्निमित्तत्वे अनि­र्मो­क्ष­प्र­सङ्गः । अन्यनिमित्तत्वे च स्वतः अभावात् अप­र­मा­र्थ­त्व­प्र­सङ्गः । तथा च सति अभ्युपगमहानिः । किञ्च, बन्ध­मु­क्ता­व­स्थयोः पौर्वा­प­र्य­नि­रू­प­णायां बन्धावस्था पूर्वं प्रकल्प्या, अनादिमती अन्तवती च ; तच्च प्रमाणविरुद्धम् । तथा मोक्षावस्था आदिमती अनन्ता च प्रमाणविरुद्धैव अभ्युपगम्यते । न च अवस्थावतः अवस्थान्तरं गच्छतः नित्यत्वम् उपपादयितुं शक्यम् । अथ अनि­त्य­त्व­दो­ष­प­रि­हा­राय बन्ध­मु­क्ता­व­स्था­भेदो न कल्प्यते, अतः द्वैतिनामपि शास्त्रा­न­र्थ­क्या­दि­दोषः अपरिहार्य एव ; इति समानत्वात् न अद्वैतवादिना परिहर्तव्यः दोषः ॥

न च शास्त्रा­न­र्थ­क्यम् , यथा­प्र­सि­द्धा­वि­द्व­त्पु­रु­ष­वि­ष­य­त्वात् शास्त्रस्य । अविदुषां हि फलहेत्वोः अनात्मनोः आत्मदर्शनम् , न विदुषाम् ; विदुषां हि फलहेतुभ्याम् आत्मनः अन्यत्वदर्शने सति, तयोः अहमिति आत्म­द­र्श­ना­नु­प­पत्तेः । न हि अत्यन्तमूढः उन्मत्तादिरपि जलाग्न्योः छाया­प्र­का­श­योर्वा ऐकात्म्यं पश्यति ; किमुत विवेकी । तस्मात् न विधि­प्र­ति­षे­ध­शास्त्रं तावत् फलहेतुभ्याम् आत्मनः अन्यत्वदर्शिनः भवति । न हि ‘देवदत्त, त्वम् इदं कुरु’ इति कस्मिंश्चित् कर्मणि नियुक्ते, विष्णुमित्रः ‘अहं नियुक्तः’ इति तत्रस्थः नियोगं शृण्वन्नपि प्रतिपद्यते । वियो­ग­वि­ष­य­वि­वे­का­ग्र­ह­णात् तु उपपद्यते प्रतिपत्तिः ; तथा फलहेत्वोरपि ॥

ननु प्राकृ­त­स­म्ब­न्धा­पे­क्षया युक्तैव प्रतिपत्तिः शास्त्रा­र्थ­वि­षया — फलहेतुभ्याम् अन्या­त्म­वि­ष­य­द­र्श­नेऽपि सति — इष्टफलहेतौ प्रवर्तितः अस्मि, अनिष्टफलहेतोश्च निवर्तितः अस्मीति ; यथा पितृ­पु­त्रा­दी­नाम् इत­रे­त­रा­त्मा­न्य­त्व­द­र्शने सत्यपि अन्यो­न्य­नि­यो­ग­प्र­ति­षे­धा­र्थ­प्र­ति­पत्तिः । न ; व्यति­रि­क्ता­त्म­द­र्श­न­प्र­ति­पत्तेः प्रागेव फलहेत्वोः आत्माभिमानस्य सिद्धत्वात् । प्रति­प­न्न­नि­यो­ग­प्र­ति­षे­धार्थो हि फलहेतुभ्याम् आत्मनः अन्यत्वं प्रतिपद्यते, न पूर्वम् । तस्मात् विधि­प्र­ति­षे­ध­शा­स्त्रम् अविद्वद्विषयम् इति सिद्धम् ॥

ननु ‘स्वर्गकामो यजेत’(?) ‘न कलञ्जं भक्षयेत्’(?) इत्यादौ आत्म­व्य­ति­रे­क­द­र्शि­नाम् अप्रवृत्तौ, केव­ल­दे­हा­द्या­त्म­दृ­ष्टीनां च ; अतः कर्तुः अभावात् शास्त्रा­न­र्थ­क्य­मिति चेत् , न ; यथाप्रसिद्धित एव प्रवृ­त्ति­नि­वृ­त्त्यु­प­पत्तेः । ईश्व­र­क्षे­त्र­ज्ञै­क­त्व­दर्शी ब्रह्मवित् तावत् न प्रवर्तते । तथा नैरा­त्म्य­वा­द्यपि नास्ति परलोकः इति न प्रवर्तते । यथा­प्र­सि­द्धि­तस्तु विधि­प्र­ति­षे­ध­शा­स्त्र­श्र­व­णा­न्य­था­नु­प­पत्त्या अनु­मि­ता­त्मा­स्तित्वः आत्म­वि­शे­षा­न­भिज्ञः कर्म­फ­ल­स­ञ्जा­त­तृष्णः श्रद्दधानतया च प्रवर्तते । इति सर्वेषां नः प्रत्यक्षम् । अतः न शास्त्रा­न­र्थ­क्यम् ॥

विवेकिनाम् अप्र­वृ­त्ति­द­र्श­नात् तदनुगामिनाम् अप्रवृत्तौ शास्त्रा­न­र्थ­क्यम् इति चेत् , न ;

कस्यचिदेव विवेकोपपत्तेः । अनेकेषु हि प्राणिषु कश्चिदेव विवेकी स्यात् , यथेदानीम् । न च विवेकिनम् अनुवर्तन्ते मूढाः, रागा­दि­दो­ष­त­न्त्र­त्वात् प्रवृत्तेः, अभिचरणादौ च प्रवृ­त्ति­द­र्श­नात् , स्वाभाव्याच्च प्रवृत्तेः — ‘स्वभावस्तु प्रवर्तते’(भ. गी. ५ । १४) इति हि उक्तम् ॥

तस्मात् अविद्यामात्रं संसारः यथादृष्टविषयः एव । न क्षेत्रज्ञस्य केवलस्य अविद्या तत्कार्यं च । न च मिथ्याज्ञानं परमार्थवस्तु दूषयितुं समर्थम् । न हि ऊषरदेशं स्नेहेन पङ्कीकर्तुं शक्नोति मरीच्युदकम् । तथा अविद्या क्षेत्रज्ञस्य न किञ्चित् कर्तुं शक्नोति । अतश्चेदमुक्तम् — ‘क्षेत्रज्ञं चापि मां विद्धि’(भ. गी. १३ । २) , ‘अज्ञानेनावृतं ज्ञानम्’(भ. गी. ५ । १५) इति च ॥

अथ किमिदं संसारिणामिव ‘अहमेवं’ ‘ममैवेदम्’ इति पण्डितानामपि ? शृणु ; इदं तत् पाण्डित्यम् , यत् क्षेत्रे एव आत्मदर्शनम् । यदि पुनः क्षेत्रज्ञम् अविक्रियं पश्येयुः, ततः न भोगं कर्म वा आकाङ्क्षेयुः ‘मम स्यात्’ इति । विक्रियैव भोगकर्मणी । अथ एवं सति, फलार्थित्वात् अविद्वान् प्रवर्तते । विदुषः पुनः अवि­क्रि­या­त्म­द­र्शिनः फला­र्थि­त्वा­भा­वात् प्रवृ­त्त्य­नु­प­पत्तौ कार्य­क­र­ण­स­ङ्घा­त­व्या­पा­रो­प­रमे निवृत्तिः उपचर्यते ॥

इदं च अन्यत् पाण्डित्यं केषाञ्चित् अस्तु — क्षेत्रज्ञः ईश्वर एव । क्षेत्रं च अन्यत् क्षेत्रज्ञस्यैव विषयः । अहं तु संसारी सुखी दुःखी च । संसारोपरमश्च मम कर्तव्यः क्षेत्र­क्षे­त्र­ज्ञ­वि­ज्ञा­नेन, ध्यानेन च ईश्वरं क्षेत्रज्ञं साक्षात्कृत्वा तत्स्व­रू­पा­व­स्था­ने­नेति । यश्च एवं बुध्यते, यश्च बोधयति, नासौ क्षेत्रज्ञः इति । एवं मन्वानः यः सः पण्डितापशदः, संसारमोक्षयोः शास्त्रस्य च अर्थवत्त्वं करोमीति ; आत्महा स्वयं मूढः अन्यांश्च व्यामोहयति शास्त्रा­र्थ­स­म्प्र­दा­य­र­हि­त­त्वात् , श्रुतहानिम् अश्रुतकल्पनां च कुर्वन् । तस्मात् असम्प्रदायवित् सर्व­शा­स्त्र­वि­दपि मूर्खवदेव उपेक्षणीयः ॥

यत्तूक्तम् ‘ईश्वरस्य क्षेत्र­ज्ञै­कत्वे संसारित्वं प्राप्नोति, क्षेत्रज्ञानां च ईश्वरैकत्वे संसारिणः अभावात् संसा­रा­भा­व­प्र­सङ्गः’ इति, एतौ दोषौ प्रत्युक्तौ ‘विद्याविद्ययोः वैल­क्ष­ण्या­भ्यु­प­ग­मात्’ इति । कथम् ? अवि­द्या­प­रि­क­ल्पि­त­दो­षेण तद्विषयं वस्तु पारमार्थिकं न दुष्यतीति । तथा च दृष्टान्तः दर्शितः — मरीच्यम्भसा ऊषरदेशो न पङ्कीक्रियते इति । संसारिणः अभावात् संसा­रा­भा­व­प्र­स­ङ्ग­दो­षोऽपि संसारसंसारिणोः अवि­द्या­क­ल्पि­त­त्वो­प­पत्त्या प्रत्युक्तः ॥

ननु अवि­द्या­व­त्त्व­मेव क्षेत्रज्ञस्य संसारित्वदोषः । तत्कृतं च सुखि­त्व­दुः­खि­त्वादि प्रत्यक्षम् उपलभ्यते इति चेत् , न ; ज्ञेयस्य क्षेत्र­ध­र्म­त्वात् , ज्ञातुः क्षेत्रज्ञस्य तत्कृ­त­दो­षा­नु­प­पत्तेः । यावत् किञ्चित् क्षेत्रज्ञस्य दोषजातम् अविद्यमानम् आसञ्जयसि, तस्य ज्ञेय­त्वो­प­पत्तेः क्षेत्र­ध­र्म­त्व­मेव, न क्षेत्र­ज्ञ­ध­र्म­त्वम् । न च तेन क्षेत्रज्ञः दुष्यति, ज्ञेयेन ज्ञातुः संस­र्गा­नु­प­पत्तेः । यदि हि संसर्गः स्यात् , ज्ञेयत्वमेव नोपपद्येत । यदि आत्मनः धर्मः अविद्यावत्त्वं दुःखित्वादि च कथं भोः प्रत्यक्षम् उपलभ्यते, कथं वा क्षेत्रज्ञधर्मः । ‘ज्ञेयं च सर्वं क्षेत्रं ज्ञातैव क्षेत्रज्ञः’ इति अवधारिते, ‘अवि­द्या­दुः­खि­त्वादेः क्षेत्र­ज्ञ­वि­शे­ष­णत्वं क्षेत्र­ज्ञ­ध­र्मत्वं तस्य च प्रत्य­क्षो­प­ल­भ्य­त्वम्’ इति विरुद्धम् उच्यते अवि­द्या­मा­त्रा­व­ष्ट­म्भात् केवलम् ॥

अत्र आह — सा अविद्या कस्य इति । यस्य दृश्यते तस्य एव । कस्य दृश्यते इति । अत्र उच्यते — ‘अविद्या कस्य दृश्यते ? ’ इति प्रश्नः निरर्थकः । कथम् ? दृश्यते चेत् अविद्या, तद्वन्तमपि पश्यसि । न च तद्वति उपलभ्यमाने ‘सा कस्य ? ’ इति प्रश्नो युक्तः । न हि गोमति उपलभ्यमाने ‘गावः कस्य ? ’ इति प्रश्नः अर्थवान् भवति । ननु विषमो दृष्टान्तः । गवां तद्वतश्च प्रत्यक्षत्वात् तत्सम्बन्धोऽपि प्रत्यक्ष इति प्रश्नो निरर्थकः । न तथा अविद्या तद्वांश्च प्रत्यक्षौ, यतः प्रश्नः निरर्थकः स्यात् । अप्रत्यक्षेण अविद्यावता अविद्यासम्बन्धे ज्ञाते, किं तव स्यात् ? अविद्यायाः अनर्थहेतुत्वात् परिहर्तव्या स्यात् । यस्य अविद्या, सः तां परिहरिष्यति । ननु ममैव अविद्या । जानासि तर्हि अविद्यां तद्वन्तं च आत्मानम् । जानामि, न तु प्रत्यक्षेण । अनुमानेन चेत् जानासि, कथं सम्बन्धग्रहणम् ? न हि तव ज्ञातुः ज्ञेयभूतया अविद्यया तत्काले सम्बन्धः ग्रहीतुं शक्यते, अविद्याया विषयत्वेनैव ज्ञातुः उपयुक्तत्वात् । न च ज्ञातुः अविद्यायाश्च सम्बन्धस्य यः ग्रहीता, ज्ञानं च अन्यत् तद्विषयं सम्भवति ; अन­व­स्था­प्राप्तेः । यदि ज्ञात्रापि ज्ञेयसम्बन्धो ज्ञायते, अन्यः ज्ञाता कल्प्यः स्यात् , तस्यापि अन्यः, तस्यापि अन्यः इति अनवस्था अपरिहार्या । यदि पुनः अविद्या ज्ञेया, अन्यद्वा ज्ञेयं ज्ञेयमेव । तथा ज्ञातापि ज्ञातैव, न ज्ञेयं भवति । यदा च एवम् , अवि­द्या­दुः­खि­त्वाद्यैः न ज्ञातुः क्षेत्रज्ञस्य किञ्चित् दुष्यति ॥

ननु अयमेव दोषः, यत् दोष­व­त्क्षे­त्र­वि­ज्ञा­तृ­त्वम् ; न च विज्ञा­न­स्व­रू­प­स्यैव अविक्रियस्य विज्ञा­तृ­त्वो­प­चा­रात् ; यथा उष्णतामात्रेण अग्नेः तप्ति­क्रि­यो­प­चारः तद्वत् । यथा अत्र भगवता क्रिया­का­र­क­फ­ला­त्म­त्वा­भावः आत्मनि स्वत एव दर्शितः — अवि­द्या­ध्या­रो­पितः एव क्रियाकारकादिः आत्मनि उपचर्यते ; तथा तत्र तत्र ‘य एवं वेत्ति हन्तारम्’(भ. गी. २ । १९) , ‘प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः’(भ. गी. ३ । २७) , ‘नादत्ते कस्यचित्पापम्’(भ. गी. ५ । १५) इत्या­दि­प्र­क­र­णेषु दर्शितः । तथैव च व्याख्यातम् अस्माभिः । उत्तरेषु च प्रकरणेषु दर्शयिष्यामः ॥

हन्त । तर्हि आत्मनि क्रिया­का­र­क­फ­ला­त्म­तायाः स्वतः अभावे, अविद्यया च अध्यारोपितत्वे, कर्माणि अवि­द्व­त्क­र्त­व्या­न्येव, न विदुषाम् इति प्राप्तम् । सत्यम् एवं प्राप्तम् , एतदेव च ‘न हि देहभृता शक्यम्’(भ. गी. १८ । ११) इत्यत्र दर्शयिष्यामः । सर्व­शा­स्त्रा­र्थो­प­सं­हा­र­प्र­क­रणे च ‘समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा’(भ. गी. १८ । ५०) इत्यत्र विशेषतः दर्शयिष्यामः । अलम् इह बहुप्रपञ्चनेन, इति उपसंह्रियते ॥ २ ॥

‘इदं शरीरम्’ इत्या­दि­श्लो­को­प­दि­ष्टस्य क्षेत्रा­ध्या­या­र्थस्य सङ्ग्रहश्लोकः अयम् उपन्यस्यते ‘तत्क्षेत्रं यच्च’ इत्यादि, व्याचि­ख्या­सि­तस्य हि अर्थस्य सङ्ग्रहोपन्यासः न्याय्यः इति —

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ ३ ॥

यत् निर्दिष्टम् ‘इदं शरीरम्’ इति तत् तच्छब्देन परामृशति । यच्च इदं निर्दिष्टं क्षेत्रं तत् यादृक् यादृशं स्वकीयैः धर्मैः । च - शब्दः समुच्चयार्थः । यद्विकारि यः विकारः यस्य तत् यद्विकारि, यतः यस्मात् च यत् , कार्यम् उत्पद्यते इति वाक्यशेषः । स च यः क्षेत्रज्ञः निर्दिष्टः सः यत्प्रभावः ये प्रभावाः उपाधिकृताः शक्तयः यस्य सः यत्प्रभावश्च । तत् क्षेत्र­क्षे­त्र­ज्ञयोः याथात्म्यं यथाविशेषितं समासेन सङ्क्षेपेण मे मम वाक्यतः शृणु, श्रुत्वा अवधारय इत्यर्थः ॥ ३ ॥

तत् क्षेत्र­क्षे­त्र­ज्ञ­या­थात्म्यं विवक्षितं स्तौति श्रोतृ­बु­द्धि­प्र­रो­च­ना­र्थम् —

ऋषिभिर्बहुधा गीतं छन्दो­भि­र्वि­विधैः पृथक् ।
ब्रह्म­सू­त्र­प­दै­श्चैव हेतु­म­द्भि­र्वि­नि­श्चितैः ॥ ४ ॥

ऋषिभिः वसिष्ठादिभिः बहुधा बहुप्रकारं गीतं कथितम् । छन्दोभिः छन्दांसि ऋगादीनि तैः छन्दोभिः विविधैः नानाभावैः नानाप्रकारैः पृथक् विवेकतः गीतम् । किञ्च, ब्रह्म­सू­त्र­प­दैश्च एव ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणि तैः पद्यते गम्यते ज्ञायते इति तानि पदानि उच्यन्ते तैरेव च क्षेत्र­क्षे­त्र­ज्ञ­या­था­त्म्यम् ‘गीतम्’ इति अनुवर्तते । ‘आत्मे­त्ये­वो­पा­सीत’(बृ. उ. १ । ४ । ७) इत्येवमादिभिः ब्रह्मसूत्रपदैः आत्मा ज्ञायते, हेतुमद्भिः युक्तियुक्तैः विनिश्चितैः निःसंशयरूपैः निश्चि­त­प्र­त्य­यो­त्पा­दकैः इत्यर्थः ॥ ४ ॥

स्तुत्या अभिमुखीभूताय अर्जुनाय आह भगवान् —

महा­भू­ता­न्य­ह­ङ्कारो बुद्धि­र­व्य­क्त­मेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ ५ ॥

महाभूतानि महान्ति च तानि सर्व­वि­का­र­व्या­प­क­त्वात् भूतानि च सूक्ष्माणि । स्थूलानि तु इन्द्रि­य­गो­च­र­श­ब्देन अभिधायिष्यन्ते अहङ्कारः महाभूतकारणम् अहं­प्र­त्य­य­ल­क्षणः । अहङ्कारकारणं बुद्धिः अध्यवसायलक्षणा । तत्कारणम् अव्यक्तमेव च, न व्यक्तम् अव्यक्तम् अव्याकृतम् ईश्वरशक्तिः ‘मम माया दुरत्यया’(भ. गी. ७ । १४) इत्युक्तम् । एवशब्दः प्रकृ­त्य­व­धा­र­णार्थः एतावत्येव अष्टधा भिन्ना प्रकृतिः । च - शब्दः भेदसमुच्चयार्थः । इन्द्रियाणि दश, श्रोत्रादीनि पञ्च बुद्ध्यु­त्पा­द­क­त्वात् बुद्धी­न्द्रि­याणि, वाक्पाण्यादीनि पञ्च कर्म­नि­व­र्त­क­त्वात् कर्मेन्द्रियाणि ; तानि दश । एकं च ; किं तत् ? मनः एकादशं सङ्क­ल्पा­द्या­त्म­कम् । पञ्च च इन्द्रियगोचराः शब्दादयो विषयाः । तानि एतानि साङ्ख्याः चतु­र्विं­श­ति­त­त्त्वानि आचक्षते ॥ ५ ॥

अथ इदानीम् आत्मगुणा इति यानाचक्षते वैशेषिकाः तेपि क्षेत्रधर्मा एव न तु क्षेत्रज्ञस्य इत्याह भगवान् -

इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ६ ॥

इच्छा, यज्जातीयं सुखहेतुमर्थम् उपलब्धवान् पूर्वम् , पुनः तज्जा­ती­य­मु­प­ल­भ­मानः तमादातुमिच्छति सुखहेतुरिति ; सा इयं इच्छा अन्तःकरणधर्मः ज्ञेयत्वात् क्षेत्रम् । तथा द्वेषः, यज्जातीयमर्थं दुःखहेतुत्वेन अनुभूतवान् , पुनः तज्जा­ती­य­म­र्थ­मु­प­ल­भ­मानः तं द्वेष्टि ; सोऽयं द्वेषः ज्ञेयत्वात् क्षेत्रमेव । तथा सुखम् अनुकूलं प्रस­न्न­स­त्त्वा­त्मकं ज्ञेयत्वात् क्षेत्रमेव । दुःखं प्रतिकूलात्मकम् ; ज्ञेयत्वात् तदपि क्षेत्रम् । सङ्घातः देहेन्द्रियाणां संहतिः । तस्या­म­भि­व्य­क्ता­न्तः­क­र­ण­वृत्तिः, तप्त इव लोहपिण्डे अग्निः आत्म­चै­त­न्या­भा­स­र­स­विद्धा चेतना ; सा च क्षेत्रं ज्ञेयत्वात् । धृतिः यया अवसादप्राप्तानि देहेन्द्रियाणि ध्रियन्ते ; सा च ज्ञेयत्वात् क्षेत्रम् । सर्वा­न्तः­क­र­ण­ध­र्मो­प­ल­क्ष­णा­र्थम् इच्छादिग्रहणम् । यत उक्तमुपसंहरति — एतत् क्षेत्रं समासेन सविकारं सह विकारेण महदादिना उदाहृतम् उक्तम् यस्य क्षेत्र­भे­द­जा­तस्य संहतिः ‘इदं शरीरं क्षेत्रम्’(भ. गी. १३ । १) इति उक्तम् , तत् क्षेत्रं व्याख्यातं महा­भू­ता­दि­भे­द­भिन्नं धृत्यन्तम् । ॥ ६ ॥

क्षेत्रज्ञः वक्ष्य­मा­ण­वि­शे­षणः — यस्य सप्रभावस्य क्षेत्रज्ञस्य परिज्ञानात् अमृतत्वं भवति, तम् ‘ज्ञेयं यत्त­त्प्र­व­क्ष्यामि’(भ. गी. १३ । १२) इत्यादिना सविशेषणं स्वयमेव वक्ष्यति भगवान् । अधुना तु तज्ज्ञा­न­सा­ध­न­ग­ण­म­मा­नि­त्वा­दि­ल­क्ष­णम् , यस्मिन् सति तज्ज्ञे­य­वि­ज्ञाने योग्यः अधिकृतः भवति, यत्परः संन्यासी ज्ञाननिष्ठः उच्यते, तम् अमानित्वादिगणं ज्ञानसाधनत्वात् ज्ञानशब्दवाच्यं विदधाति भगवान् —

अमा­नि­त्व­म­द­म्भि­त्व­म­हिंसा क्षान्ति­रा­र्ज­वम् ।
आचार्योपासनं शौचं स्थैर्य­मा­त्म­वि­नि­ग्रहः ॥ ७ ॥

अमानित्वं मानिनः भावः मानित्वमात्मनः श्लाघनम् , तदभावः अमानित्वम् । अदम्भित्वं स्वध­र्म­प्र­क­टी­क­रणं दम्भित्वम् , तदभावः अदम्भित्वम् । अहिंसा अहिंसनं प्राणिनामपीडनम् । क्षान्तिः परापराधप्राप्तौ अविक्रिया । आर्जवम् ऋजुभावः अवक्रत्वम् । आचार्योपासनं मोक्ष­सा­ध­नो­प­देष्टुः आचार्यस्य शुश्रू­षा­दि­प्र­यो­गेण सेवनम् । शौचं कायमलानां मृज्जलाभ्यां प्रक्षालनम् ; अन्तश्च मनसः प्रतिपक्षभावनया रागा­दि­म­ला­ना­म­प­न­यनं शौचम् । स्थैर्यं स्थिरभावः, मोक्षमार्गे एव कृता­ध्य­व­सा­य­त्वम् । आत्मविनिग्रहः आत्मनः अपकारकस्य आत्म­श­ब्द­वा­च्यस्य कार्य­क­र­ण­स­ङ्घा­तस्य विनिग्रहः स्वभावेन सर्वतः प्रवृत्तस्य सन्मार्गे एव निरोधः आत्मविनिग्रहः ॥ ७ ॥

किञ्च —

इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्म­मृ­त्यु­ज­रा­व्या­धि­दुः­ख­दो­षा­नु­द­र्श­नम् ॥ ८ ॥

इन्द्रियार्थेषु शब्दादिषु दृष्टादृष्टेषु भोगेषु विरागभावो वैराग्यम् अनहङ्कारः अहङ्काराभावः एव च जन्म­मृ­त्यु­ज­रा­व्या­धि­दुः­ख­दो­षा­नु­द­र्शनं जन्म च मृत्युश्च जरा च व्याधयश्च दुःखानि च तेषु जन्मा­दि­दुः­खा­न्तेषु प्रत्येकं दोषानुदर्शनम् । जन्मनि गर्भ­वा­स­यो­नि­द्वा­र­निः­स­रणं दोषः, तस्य अनु­द­र्श­न­मा­लो­च­नम् । तथा मृत्यौ दोषानुदर्शनम् । तथा जरायां प्रज्ञा­श­क्ति­ते­जो­नि­रो­ध­दो­षा­नु­द­र्शनं परिभूतता चेति । तथा

व्याधिषु शिरोरोगादिषु दोषानुदर्शनम् । तथा दुःखेषु अध्या­त्मा­धि­भू­ता­धि­दै­व­नि­मि­त्तेषु । अथवा दुःखान्येव दोषः दुःखदोषः तस्य जन्मादिषु पूर्ववत् अनुदर्शनम् — दुःखं जन्म, दुःखं मृत्युः, दुःखं जरा, दुःखं व्याधयः । दुःख­नि­मि­त्त­त्वात् जन्मादयः दुःखम् , न पुनः स्वरूपेणैव दुःखमिति । एवं जन्मादिषु दुःख­दो­षा­नु­द­र्श­नात् देहे­न्द्रि­या­दि­वि­ष­य­भो­गेषु वैराग्यमुपजायते । ततः प्रत्यगात्मनि प्रवृत्तिः कर­णा­ना­मा­त्म­द­र्श­नाय । एवं ज्ञानहेतुत्वात् ज्ञानमुच्यते जन्मा­दि­दुः­ख­दो­षा­नु­द­र्श­नम् ॥ ८ ॥

किञ्च —

अस­क्ति­र­न­भि­ष्वङ्गः पुत्र­दा­र­गृ­हा­दिषु ।
नित्यं च सम­चि­त्त­त्व­मि­ष्टा­नि­ष्टो­प­प­त्तिषु ॥ ९ ॥

असक्तिः सक्तिः सङ्गनिमित्तेषु विषयेषु प्रीतिमात्रम् , तदभावः असक्तिः । अनभिष्वङ्गः अभिष्वङ्गाभावः । अभिष्वङ्गो नाम आसक्तिविशेष एव अन­न्या­त्म­भा­व­ना­ल­क्षणः ; यथा अन्यस्मिन् सुखिनि दुःखिनि वा ‘अहमेव सुखी, दुःखी च, ’ जीवति मृते वा ‘अहमेव जीवामि मरिष्यामि च’ इति । क्व इति आह — पुत्र­दा­र­गृ­हा­दिषु, पुत्रेषु दारेषु गृहेषु आदिग्रहणात् अन्येष्वपि अत्यन्तेष्टेषु दासवर्गादिषु । तच्च उभयं ज्ञानार्थत्वात् ज्ञानमुच्यते । नित्यं च समचित्तत्वं तुल्यचित्तता । क्व ? इष्टा­नि­ष्टो­प­प­त्तिषु इष्टा­ना­म­नि­ष्टानां च उपपत्तयः सम्प्राप्तयः तासु इष्टा­नि­ष्टो­प­प­त्तिषु नित्यमेव तुल्यचित्तता । इष्टोपपत्तिषु न हृष्यति, न कुप्यति च अनिष्टोपपत्तिषु । तच्च एतत् नित्यं समचित्तत्वं ज्ञानम् ॥ ९ ॥

किञ्च —

मयि चानन्ययोगेन भक्ति­र­व्य­भि­चा­रिणी ।
विवि­क्त­दे­श­से­वि­त्व­म­र­ति­र्ज­न­सं­सदि ॥ १० ॥

१०

मयि च ईश्वरे अनन्ययोगेन अपृथक्समाधिना ‘न अन्यो भगवतो वासुदेवात् परः अस्ति, अतः स एव नः गतिः’ इत्येवं निश्चिता अव्यभिचारिणी बुद्धिः अनन्ययोगः, तेन भजनं भक्तिः न व्यभिचरणशीला अव्यभिचारिणी । सा च ज्ञानम् । विवि­क्त­दे­श­से­वि­त्वम् , विविक्तः स्वभावतः संस्कारेण वा अशुच्यादिभिः सर्प­व्या­घ्रा­दि­भिश्च रहितः अर­ण्य­न­दी­पु­लि­न­दे­व­गृ­हा­दि­भि­र्वि­विक्तो देशः, तं सेवितुं शीलमस्य इति विविक्तदेशसेवी, तद्भावः विवि­क्त­दे­श­से­वि­त्वम् । विविक्तेषु हि देशेषु चित्तं प्रसीदति यतः ततः आत्मादिभावना विविक्ते उपजायते । अतः विवि­क्त­दे­श­से­वित्वं ज्ञानमुच्यते । अरतिः अरमणं जनसंसदि, जनानां प्राकृतानां संस्का­र­शू­न्या­नाम् अविनीतानां संसत् समवायः जनसंसत् ; न संस्कारवतां विनीतानां संसत् ; तस्याः ज्ञानो­प­का­र­क­त्वात् । अतः प्राकृतजनसंसदि अरतिः ज्ञानार्थत्वात् ज्ञानम् ॥ १० ॥

किञ्च —

अध्या­त्म­ज्ञा­न­नि­त्यत्वं तत्त्व­ज्ञा­ना­र्थ­द­र्श­नम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ ११ ॥

११

अध्या­त्म­ज्ञा­न­नि­त्य­त्वम् आत्मादिविषयं ज्ञानम् अध्यात्मज्ञानम् , तस्मिन् नित्यभावः नित्यत्वम् । अमानित्वादीनां ज्ञानसाधनानां भाव­ना­प­रि­पा­क­नि­मित्तं तत्त्वज्ञानम् , तस्य अर्थः मोक्षः संसारोपरमः ; तस्य आलोचनं तत्त्व­ज्ञा­ना­र्थ­द­र्श­नम् ; तत्त्व­ज्ञा­न­फ­ला­लो­चने हि तत्सा­ध­ना­नु­ष्ठाने प्रवृत्तिः स्यादिति । एतत् अमा­नि­त्वा­दि­त­त्त्व­ज्ञा­ना­र्थ­द­र्श­ना­न्त­मुक्तं ज्ञानम् इति प्रोक्तं ज्ञानार्थत्वात् । अज्ञानं यत् अतः अस्मात् यथोक्तात् अन्यथा विपर्ययेण । मानित्वं दम्भित्वं हिंसा अक्षान्तिः अनार्जवम् इत्यादि अज्ञानं विज्ञेयं परिहरणाय, संसा­र­प्र­वृ­त्ति­का­र­ण­त्वात् इति ॥ ११ ॥

यथोक्तेन ज्ञानेन ज्ञातव्यं किम् इत्या­का­ङ्क्षा­या­माह — ‘ज्ञेयं यत्तत्’ इत्यादि । ननु यमाः नियमाश्च अमानित्वादयः । न तैः ज्ञेयं ज्ञायते । न हि अमानित्वादि कस्यचित् वस्तुनः परिच्छेदकं दृष्टम् । सर्वत्रैव च यद्विषयं ज्ञानं तदेव तस्य ज्ञेयस्य परिच्छेदकं दृश्यते । न हि अन्यविषयेण ज्ञानेन अन्यत् उपलभ्यते, यथा घटविषयेण ज्ञानेन अग्निः । नैष दोषः, ज्ञान­नि­मि­त्त­त्वात् ज्ञानमुच्यते इति हि अवोचाम ; ज्ञान­स­ह­का­रि­का­र­ण­त्वाच्च —

ज्ञेयं यत्त­त्प्र­व­क्ष्यामि यज्ज्ञा­त्वा­मृ­त­म­श्नुते ।
अनादिमत्परं ब्रह्म न सत्त­न्ना­स­दु­च्यते ॥ १२ ॥

१२

ज्ञेयं ज्ञातव्यं यत् तत् प्रवक्ष्यामि प्रकर्षेण यथावत् वक्ष्यामि । किम्फलं तत् इति प्ररोचनेन श्रोतुः अभिमुखीकरणाय आह — यत् ज्ञेयं ज्ञात्वा अमृतम् अमृतत्वम् अश्नुते, न पुनः म्रियते इत्यर्थः । अनादिमत् आदिः अस्य अस्तीति आदिमत् , न आदिमत् अनादिमत् ; किं तत् ? परं निरतिशयं ब्रह्म, ‘ज्ञेयम्’ इति प्रकृतम् ॥

अत्र केचित् ‘अनादि मत्परम्’ इति पदं छिन्दन्ति, बहुव्रीहिणा उक्ते अर्थे मतुपः आनर्थक्यम् अनिष्टं स्यात् इति । अर्थविशेषं च दर्शयन्ति — अहं वासुदेवाख्या परा शक्तिः यस्य तत् मत्परम् इति । सत्य­मे­व­म­पु­न­रुक्तं स्यात् , अर्थः चेत् सम्भवति । न तु अर्थः सम्भवति, ब्रह्मणः सर्व­वि­शे­ष­प्र­ति­षे­धे­नैव विजि­ज्ञा­प­यि­षि­त­त्वात् ‘न सत्त­न्ना­स­दु­च्यते’ इति । विशि­ष्ट­श­क्ति­म­त्त्व­प्र­द­र्शनं विशे­ष­प्र­ति­षे­धश्च इति विप्रतिषिद्धम् । तस्मात् मतुपः बहुव्रीहिणा समानार्थत्वेऽपि प्रयोगः श्लोकपूरणार्थः ॥

अमृतत्वफलं ज्ञेयं मया उच्यते इति प्ररोचनेन अभिमुखीकृत्य आह — न सत् तत् ज्ञेयमुच्यते इति न अपि असत् तत् उच्यते ॥

ननु महता परिकरबन्धेन कण्ठरवेण उद्घुष्य ‘ज्ञेयं प्रवक्ष्यामि’ इति, अननुरूपमुक्तं ‘न सत्त­न्ना­स­दु­च्यते’ इति । न, अनुरूपमेव उक्तम् । कथम् ? सर्वासु हि उपनिषत्सु ज्ञेयं ब्रह्म ‘नेति नेति’(बृ. उ. २ । ३ । ६) ‘अस्थूलमनणु’(बृ. उ. ३ । ८ । ८) इत्या­दि­वि­शे­ष­प्र­ति­षे­धे­नैव निर्दिश्यते, न ‘इदं तत्’ इति, वाचः अगोचरत्वात् ॥

ननु न तदस्ति, यद्वस्तु अस्तिशब्देन नोच्यते । अथ अस्तिशब्देन नोच्यते, नास्ति तत् ज्ञेयम् । विप्रतिषिद्धं च — ‘ज्ञेयं तत् , ’ ‘अस्तिशब्देन नोच्यते’ इति च । न तावन्नास्ति, नास्ति­बु­द्ध्य­वि­ष­य­त्वात् ॥

ननु सर्वाः बुद्धयः अस्ति­ना­स्ति­बु­द्ध्य­नु­गताः एव । तत्र एवं सति ज्ञेयमपि अस्ति­बु­द्ध्य­नु­ग­त­प्र­त्य­य­वि­षयं वा स्यात् , नास्ति­बु­द्ध्य­नु­ग­त­प्र­त्य­य­वि­षयं वा स्यात् । न, अतीन्द्रियत्वेन उभ­य­बु­द्ध्य­नु­ग­त­प्र­त्य­या­वि­ष­य­त्वात् । यद्धि इन्द्रियगम्यं वस्तु घटादिकम् , तत् अस्ति­बु­द्ध्य­नु­ग­त­प्र­त्य­य­वि­षयं वा स्यात् , नास्ति­बु­द्ध्य­नु­ग­त­प्र­त्य­य­वि­षयं वा स्यात् । इदं तु ज्ञेयम् अतीन्द्रियत्वेन शब्दै­क­प्र­मा­ण­ग­म्य­त्वात् न घटादिवत् उभ­य­बु­द्ध्य­नु­ग­त­प्र­त्य­य­वि­ष­यम् इत्यतः ‘न सत्तन्नासत्’ इति उच्यते ॥

यत्तु उक्तम् — विरुद्धमुच्यते, ‘ज्ञेयं तत्’ ‘न सत्त­न्ना­स­दु­च्यते’ इति — न विरुद्धम् , ‘अन्यदेव तद्विदितादथो अविदितादधि’(के. उ. १ । ४) इति श्रुतेः । श्रुतिरपि विरुद्धार्था इति चेत् — यथा यज्ञाय शालामारभ्य ‘यद्य­मु­ष्मिं­ल्लो­केऽस्ति वा न वेति’(तै. सं. ६ । १ । १ । १) इत्येवमिति चेत् , न ; विदि­ता­वि­दि­ता­भ्या­म­न्य­त्व­श्रुतेः अव­श्य­वि­ज्ञे­या­र्थ­प्र­ति­पा­द­न­प­र­त्वात् ‘यद्यमुष्मिन्’ इत्यादि तु विधिशेषः अर्थवादः । उपपत्तेश्च सदसदादिशब्दैः ब्रह्म नोच्यते इति । सर्वो हि शब्दः अर्थप्रकाशनाय प्रयुक्तः, श्रूयमाणश्च श्रोतृभिः, जाति­क्रि­या­गु­ण­स­म्ब­न्ध­द्वा­रेण सङ्के­त­ग्र­ह­ण­स­व्य­पेक्षः अर्थं प्रत्याययति ; न अन्यथा, अदृष्टत्वात् । तत् यथा — ‘गौः’ ‘अश्वः’ इति वा जातितः, ‘पचति’ ‘पठति’ इति वा क्रियातः, ‘शुक्लः’ ‘कृष्णः’ इति वा गुणतः, ‘धनी’ ‘गोमान्’ इति वा सम्बन्धतः । न तु ब्रह्म जातिमत् , अतः न सदा­दि­श­ब्द­वा­च्यम् । नापि गुणवत् , येन गुणशब्देन उच्येत, निर्गुणत्वात् । नापि क्रिया­श­ब्द­वाच्यं निष्क्रियत्वात् ‘निष्कलं निष्क्रियं शान्तम्’(श्वे. उ. ६ । १९) इति श्रुतेः । न च सम्बन्धी, एकत्वात् । अद्वयत्वात् अविषयत्वात् आत्मत्वाच्च न केनचित् शब्देन उच्यते इति युक्तम् ; ‘यतो वाचो निवर्तन्ते’(तै. उ. २ । ९ । १) इत्या­दि­श्रु­ति­भिश्च ॥ १२ ॥

सच्छ­ब्द­प्र­त्य­या­वि­ष­य­त्वात् अस­त्त्वा­श­ङ्कायां ज्ञेयस्य सर्व­प्रा­णि­क­र­णो­पा­धि­द्वा­रेण तदस्तित्वं प्रतिपादयन् तदा­श­ङ्का­नि­वृ­त्त्य­र्थ­माह —

सर्वतःपाणिपादं तत्स­र्व­तो­क्षि­शि­रो­मु­खम् ।
सर्व­तः­श्रु­ति­म­ल्लोके सर्वमावृत्य तिष्ठति ॥ १३ ॥

१३

सर्वतःपाणिपादं सर्वतः पाणयः पादाश्च अस्य इति सर्वतःपाणिपादं तत् ज्ञेयम् । सर्व­प्रा­णि­क­र­णो­पा­धिभिः क्षेत्रज्ञस्य अस्तित्वं विभाव्यते । क्षेत्रज्ञश्च क्षेत्रोपाधितः उच्यते । क्षेत्रं च पाणिपादादिभिः अनेकधा भिन्नम् । क्षेत्रो­पा­धि­भे­द­कृतं विशेषजातं मिथ्यैव क्षेत्रज्ञस्य, इति तदपनयनेन ज्ञेयत्वमुक्तम् ‘न सत्त­न्ना­स­दु­च्यते’ इति । उपाधिकृतं मिथ्यारूपमपि अस्तित्वाधिगमाय ज्ञेयधर्मवत् परिकल्प्य उच्यते ‘सर्व­तः­पा­णि­पा­दम्’ इत्यादि । तथा हि सम्प्रदायविदां वचनम् — ‘अध्या­रो­पा­प­वा­दाभ्यां निष्प्रपञ्चं प्रपञ्च्यते’(?) इति । सर्वत्र सर्व­दे­हा­व­य­व­त्वेन गम्यमानाः पाणिपादादयः ज्ञेय­श­क्ति­स­द्भा­व­नि­मि­त्त­स्व­कार्याः इति ज्ञेयसद्भावे लिङ्गानि ‘ज्ञेयस्य’ इति उपचारतः उच्यन्ते । तथा व्याख्येयम् अन्यत् । सर्वतःपाणिपादं तत् ज्ञेयम् । सर्व­तो­क्षि­शि­रो­मुखं सर्वतः अक्षीणि शिरांसि मुखानि च यस्य तत् सर्व­तो­क्षि­शि­रो­मु­खम् ; सर्वतःश्रुतिमत् श्रुतिः श्रवणेन्द्रियम् , तत् यस्य तत् श्रुतिमत् , लोके प्राणिनिकाये, सर्वम् आवृत्य संव्याप्य तिष्ठति स्थितिं लभते ॥ १३ ॥

उपा­धि­भू­त­पा­णि­पा­दा­दी­न्द्रि­या­ध्या­रो­प­णात् ज्ञेयस्य तद्वत्ताशङ्का मा भूत् इत्येवमर्थः श्लोकारम्भः —

सर्वे­न्द्रि­य­गु­णा­भासं सर्वे­न्द्रि­य­वि­व­र्जि­तम् ।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ १४ ॥

१४

सर्वे­न्द्रि­य­गु­णा­भासं सर्वाणि च तानि इन्द्रियाणि श्रोत्रादीनि बुद्धी­न्द्रि­य­क­र्मे­न्द्रि­या­ख्यानि, अन्तःकरणे च बुद्धिमनसी, ज्ञेयो­पा­धि­त्वस्य तुल्यत्वात् , सर्वे­न्द्रि­य­ग्र­ह­णेन गृह्यन्ते । अपि च, अन्तः­क­र­णो­पा­धि­द्वा­रे­णैव श्रोत्रादीनामपि उपाधित्वम् इत्यतः अन्तः­क­र­ण­ब­हि­ष्क­र­णो­पा­धि­भूतैः सर्वे­न्द्रि­य­गुणैः अध्य­व­सा­य­स­ङ्क­ल्प­श्र­व­ण­व­च­ना­दिभिः अवभासते इति सर्वे­न्द्रि­य­गु­णा­भासं सर्वे­न्द्रि­य­व्या­पारैः व्यापृतमिव तत् ज्ञेयम् इत्यर्थः ; ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) इति श्रुतेः । कस्मात् पुनः कारणात् न व्यापृतमेवेति गृह्यते इत्यतः आह — सर्वे­न्द्रि­य­वि­व­र्जि­तम् , सर्व­क­र­ण­र­हि­त­मि­त्यर्थः । अतः न करणव्यापारैः व्यापृतं तत् ज्ञेयम् । यस्तु अयं मन्त्रः — ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः’(श्वे. उ. ३ । १९) इत्यादिः, स सर्वे­न्द्रि­यो­पा­धि­गु­णा­नु­गु­ण्य­भ­ज­न­श­क्ति­मत् तत् ज्ञेयम् इत्येवं प्रदर्शनार्थः, न तु साक्षादेव जव­ना­दि­क्रि­या­व­त्त्व­प्र­द­र्श­नार्थः । ‘अन्धो मणिमविन्दत्’(तै. आ. १ । ११) इत्या­दि­म­न्त्रा­र्थ­वत् तस्य मन्त्रस्य अर्थः । यस्मात् सर्वकरणवर्जितं ज्ञेयम् , तस्मात् असक्तं सर्व­सं­श्ले­ष­व­र्जि­तम् । यद्यपि एवम् , तथापि सर्वभृच्च एव । सदास्पदं हि सर्वं सर्वत्र सद्बु­द्ध्य­नु­ग­मात् । न हि मृग­तृ­ष्णि­का­द­योऽपि निरास्पदाः भवन्ति । अतः सर्वभृत् सर्वं बिभर्ति इति । स्यात् इदं च अन्यत् ज्ञेयस्य सत्त्वा­धि­ग­म­द्वा­रम् — निर्गुणं सत्त्व­र­ज­स्त­मांसि गुणाः तैः वर्जितं तत् ज्ञेयम् , तथापि गुणभोक्तृ च गुणानां सत्त्वरजस्तमसां शब्दादिद्वारेण सुख­दुः­ख­मो­हा­का­र­प­रि­ण­तानां भोक्तृ च उपलब्धृ च तत् ज्ञेयम् इत्यर्थः ॥ १४ ॥

किञ्च —

बहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्म­त्वा­त्त­द­वि­ज्ञेयं दूरस्थं चान्तिके च तत् ॥ १५ ॥

१५

बहिः त्वक्पर्यन्तं देहम् आत्मत्वेन अविद्याकल्पितम् अपेक्ष्य तमेव अवधिं कृत्वा बहिः उच्यते । तथा प्रत्य­गा­त्मा­न­म­पेक्ष्य देहमेव अवधिं कृत्वा अन्तः उच्यते । ‘बहिरन्तश्च’ इत्युक्ते मध्ये अभावे प्राप्ते, इदमुच्यते — अचरं चरमेव च, यत् चराचरं देहाभासमपि तदेव ज्ञेयं यथा रज्जुसर्पाभासः । यदि अचरं चरमेव च स्यात् व्यवहारविषयं सर्वं ज्ञेयम् , किमर्थम् ‘इदम्’ इति सर्वैः न विज्ञेयम् इति ? उच्यते — सत्यं सर्वाभासं तत् ; तथापि व्योमवत् सूक्ष्मम् । अतः सूक्ष्मत्वात् स्वेन रूपेण तत् ज्ञेयमपि अविज्ञेयम् अविदुषाम् । विदुषां तु, ‘आत्मैवेदं सर्वम्’(छा. उ. ७ । २५ । २) ‘ब्रह्मैवेदं सर्वम्’ इत्यादिप्रमाणतः नित्यं विज्ञातम् । अविज्ञाततया दूरस्थं वर्ष­स­ह­स्र­को­ट्यापि अविदुषाम् अप्राप्यत्वात् । अन्तिके च तत् , आत्मत्वात् विदुषाम् ॥ १५ ॥

किञ्च —

अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १६ ॥

१६

अविभक्तं च प्रतिदेहं व्योमवत् तदेकम् । भूतेषु सर्वप्राणिषु विभक्तमिव च स्थितं देहेष्वेव विभा­व्य­मा­न­त्वात् । भूतभर्तृ च भूतानि बिभर्तीति तत् ज्ञेयं भूतभर्तृ च स्थितिकाले । प्रलयकाले ग्रसिष्णु ग्रसनशीलम् । उत्पत्तिकाले प्रभविष्णु च प्रभवनशीलं यथा रज्ज्वादिः सर्पादेः मिथ्याकल्पितस्य ॥ १६ ॥

किञ्च, सर्वत्र विद्यमानमपि सत् न उपलभ्यते चेत् , ज्ञेयं तमः तर्हि ? न । किं तर्हि ? —

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १७ ॥

१७

ज्योतिषाम् आदित्यादीनामपि तत् ज्ञेयं ज्योतिः । आत्म­चै­त­न्य­ज्यो­तिषा इद्धानि हि आदित्यादीनि ज्योतींषि दीप्यन्ते, ‘येन सूर्यस्तपति तेजसेद्धः’(तै. ब्रा. ३ । १२ । ९) ‘तस्य भासा सर्वमिदं विभाति’(मु. उ. २ । २ । ११) इत्या­दि­श्रु­तिभ्यः ; स्मृतेश्च इहैव — ‘यदादित्यगतं तेजः’(भ. गी. १५ । १२) इत्यादेः । तमसः अज्ञानात् परम् अस्पृष्टम् उच्यते । ज्ञानादेः दुःस­म्पा­द­न­बुद्ध्या प्राप्तावसादस्य उत्तम्भनार्थमाह — ज्ञानम् अमानित्वादि ; ज्ञेयम् ‘ज्ञेयं यत् तत् प्रवक्ष्यामि’(भ. गी. १३ । १२) इत्यादिना उक्तम् ; ज्ञानगम्यम् ज्ञेयमेव ज्ञातं सत् ज्ञानफलमिति ज्ञान­ग­म्य­मु­च्यते ; ज्ञायमानं तु ज्ञेयम् । तत् एतत् त्रयमपि हृदि बुद्धौ सर्वस्य प्राणिजातस्य विष्ठितं विशेषेण स्थितम् । तत्रैव हि त्रयं विभाव्यते ॥ १७ ॥

यथो­क्ता­र्थो­प­सं­हा­रार्थः अयं श्लोकः आरभ्यते —

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद्विज्ञाय मद्भा­वा­यो­प­प­द्यते ॥ १८ ॥

१८

इति एवं क्षेत्रं महाभूतादि धृत्यन्तं तथा ज्ञानम् अमानित्वादि तत्त्व­ज्ञा­ना­र्थ­द­र्श­न­प­र्यन्तं ज्ञेयं च ‘ज्ञेयं यत् तत्’(भ. गी. १३ । १२) इत्यादि ‘तमसः परमुच्यते’(भ. गी. १३ । १७) इत्येवमन्तम् उक्तं समासतः सङ्क्षेपतः । एतावान् सर्वः हि वेदार्थः गीतार्थश्च उपसंहृत्य उक्तः । अस्मिन् सम्यग्दर्शने कः अधिक्रियते इति उच्यते — मद्भक्तः मयि ईश्वरे सर्वज्ञे परमगुरौ वासुदेवे सम­र्पि­त­स­र्वा­त्म­भावः, यत् पश्यति शृणोति स्पृशति वा ‘सर्वमेव भगवान् वासुदेवः’ इत्ये­वं­ग्र­हा­वि­ष्ट­बुद्धिः मद्भक्तः स एतत् यथोक्तं सम्यग्दर्शनं विज्ञाय, मद्भावाय मम भावः मद्भावः परमात्मभावः तस्मै मद्भावाय उपपद्यते मोक्षं गच्छति ॥ १८ ॥

तत्र सप्तमे ईश्वरस्य द्वे प्रकृती उपन्यस्ते, परापरे क्षेत्र­क्षे­त्र­ज्ञ­ल­क्षणे ; ‘एतद्योनीनि भूतानि’(भ. गी. ७ । ६) इति च उक्तम् । क्षेत्र­क्षे­त्र­ज्ञ­प्र­कृ­ति­द्व­य­यो­नित्वं कथं भूतानामिति अयमर्थः अधुना उच्यते —

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ १९ ॥

१९

प्रकृतिं पुरुषं चैव ईश्वरस्य प्रकृती तौ प्रकृतिपुरुषौ उभावपि अनादी विद्धि, न विद्यते आदिः ययोः तौ अनादी । नित्ये­श्व­र­त्वात् ईश्वरस्य तत्प्रकृत्योरपि युक्तं नित्यत्वेन भवितुम् । प्रकृ­ति­द्व­य­व­त्त्व­मेव हि ईश्वरस्य ईश्वरत्वम् । याभ्यां प्रकृतिभ्याम् ईश्वरः जग­दु­त्प­त्ति­स्थि­ति­प्र­ल­य­हेतुः, ते द्वे अनादी सत्यौ संसारस्य कारणम् ॥

न आदी अनादी इति तत्पुरुषसमासं केचित् वर्णयन्ति । तेन हि किल ईश्वरस्य कारणत्वं सिध्यति । यदि पुनः प्रकृ­ति­पु­रु­षा­वेव नित्यौ स्यातां तत्कृतमेव जगत् न ईश्वरस्य जगतः कर्तृत्वम् । तत् असत् ; प्राक् प्रकृतिपुरुषयोः उत्पत्तेः ईशितव्याभावात् ईश्वरस्य अनी­श्व­र­त्व­प्र­स­ङ्गात् , संसारस्य निर्निमित्तत्वे अनि­र्मो­क्ष­प्र­स­ङ्गात् शास्त्रा­न­र्थ­क्य­प्र­स­ङ्गात् बन्ध­मो­क्षा­भा­व­प्र­स­ङ्गाच्च । नित्यत्वे पुनः ईश्वरस्य प्रकृत्योः सर्वमेतत् उपपन्नं भवेत् । कथम् ?

विकारांश्च गुणांश्चैव वक्ष्य­मा­णा­न्वि­का­रान् बुद्ध्या­दि­दे­हे­न्द्रि­या­न्तान् गुणांश्च सुख­दुः­ख­मो­ह­प्र­त्य­या­का­र­प­रि­ण­तान् विद्धि जानीहि प्रकृतिसम्भवान् , प्रकृतिः ईश्वरस्य विकारकारणशक्तिः त्रिगुणात्मिका माया, सा सम्भवो येषां विकाराणां गुणानां च तान् विकारान् गुणांश्च विद्धि प्रकृतिसम्भवान् प्रकृ­ति­प­रि­णा­मान् ॥ १९ ॥

के पुनः ते विकाराः गुणाश्च प्रकृतिसम्भवाः —

कार्य­क­र­ण­क­र्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ २० ॥

२०

कार्य­क­र­ण­क­र्तृत्वे — कार्यं शरीरं करणानि तत्स्थानि त्रयोदश । देहस्यारम्भकाणि भूतानि पञ्च विषयाश्च प्रकृतिसम्भवाः विकाराः पूर्वोक्ताः इह कार्यग्रहणेन गृह्यन्ते । गुणाश्च प्रकृतिसम्भवाः सुख­दुः­ख­मो­हा­त्मकाः करणाश्रयत्वात् करणग्रहणेन गृह्यन्ते । तेषां कार्यकरणानां कर्तृत्वम् उत्पादकत्वं यत् तत् कार्य­क­र­ण­क­र्तृत्वं तस्मिन् कार्य­क­र­ण­क­र्तृत्वे हेतुः कारणम् आरम्भकत्वेन प्रकृतिः उच्यते । एवं कार्य­क­र­ण­क­र्तृ­त्वेन संसारस्य कारणं प्रकृतिः । कार्य­का­र­ण­क­र्तृत्वे इत्यस्मिन्नपि पाठे, कार्यं यत् यस्य परिणामः तत् तस्य कार्यं विकारः विकारि कारणं तयोः विकारविकारिणोः कार्यकारणयोः कर्तृत्वे इति । अथवा, षोडश विकाराः कार्यं सप्त प्रकृतिविकृतयः कारणम् तान्येव कार्य­का­र­णा­न्यु­च्यन्ते तेषां कर्तृत्वे हेतुः प्रकृतिः उच्यते, आरम्भकत्वेनैव । पुरुषश्च संसारस्य कारणं यथा स्यात् तत् उच्यते — पुरुषः जीवः क्षेत्रज्ञः भोक्ता इति पर्यायः, सुखदुःखानां भोग्यानां भोक्तृत्वे उपलब्धृत्वे हेतुः उच्यते ॥

कथं पुनः अनेन कार्य­क­र­ण­क­र्तृ­त्वेन सुख­दुः­ख­भो­क्तृ­त्वेन च प्रकृतिपुरुषयोः संसा­र­का­र­ण­त्व­मु­च्यते इति, अत्र उच्यते — कार्य­क­र­ण­सु­ख­दुः­ख­रू­पेण हेतुफलात्मना प्रकृतेः परिणामाभावे, पुरुषस्य च चेतनस्य असति तदुपलब्धृत्वे, कुतः संसारः स्यात् ? यदा पुनः कार्य­क­र­ण­सु­ख­दुः­ख­स्व­रू­पेण हेतुफलात्मना परिणतया प्रकृत्या भोग्यया पुरुषस्य तद्विपरीतस्य भोक्तृत्वेन अविद्यारूपः संयोगः स्यात् , तदा संसारः स्यात् इति । अतः यत् प्रकृतिपुरुषयोः कार्य­क­र­ण­क­र्तृ­त्वेन सुख­दुः­ख­भो­क्तृ­त्वेन च संसा­र­का­र­ण­त्व­मु­क्तम् , तत् युक्तम् । कः पुनः अयं संसारो नाम ? सुखदुःखसम्भोगः संसारः । पुरुषस्य च सुखदुःखानां सम्भोक्तृत्वं संसारित्वमिति ॥ २० ॥

यत् पुरुषस्य सुखदुःखानां भोक्तृत्वं संसारित्वम् इति उक्तं तस्य तत् किंनिमित्तमिति उच्यते —

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृ­ति­जा­न्गु­णान् ।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ २१ ॥

२१

पुरुषः भोक्ता प्रकृतिस्थः प्रकृतौ अवि­द्या­ल­क्ष­णायां कार्यकरणरूपेण परिणतायां स्थितः प्रकृतिस्थः, प्रकृ­ति­मा­त्म­त्वेन गतः इत्येतत् , हि यस्मात् , तस्मात् भुङ्क्ते उपलभते इत्यर्थः । प्रकृतिजान् प्रकृतितः जातान् सुख­दुः­ख­मो­हा­का­रा­भि­व्य­क्तान् गुणान् ‘सुखी, दुःखी, मूढः, पण्डितः अहम्’ इत्येवम् । सत्यामपि अविद्यायां सुखदुःखमोहेषु गुणेषु भुज्यमानेषु यः सङ्गः आत्मभावः संसारस्य सः प्रधानं कारणं जन्मनः, ‘सः यथाकामो भवति तत्क्रतुर्भवति’(बृ. उ. ४ । ४ । ५) इत्यादिश्रुतेः । तदेतत् आह — कारणं हेतुः गुणसङ्गः गुणेषु सङ्गः अस्य पुरुषस्य भोक्तुः सद­स­द्यो­नि­ज­न्मसु, सत्यश्च असत्यश्च योनयः सदसद्योनयः तासु सदसद्योनिषु जन्मानि सद­स­द्यो­नि­ज­न्मानि, तेषु सदसद्योनिजन्मसु विषयभूतेषु कारणं गुणसङ्गः । अथवा, सदसद्योनिजन्मसु अस्य संसारस्य कारणं गुणसङ्गः इति संसा­र­प­द­म­ध्या­हा­र्यम् । सद्योनयः देवादियोनयः ; असद्योनयः पश्वादियोनयः । सामर्थ्यात् सदसद्योनयः मनुष्ययोनयोऽपि अविरुद्धाः द्रष्टव्याः ॥

एतत् उक्तं भवति — प्रकृ­ति­स्थ­त्वाख्या अविद्या, गुणेषु च सङ्गः कामः, संसारस्य कारणमिति । तच्च परिवर्जनाय उच्यते । अस्य च निवृत्तिकारणं ज्ञानवैराग्ये ससंन्यासे गीताशास्त्रे प्रसिद्धम् । तच्च ज्ञानं पुरस्तात् उपन्यस्तं क्षेत्र­क्षे­त्र­ज्ञ­वि­ष­यम् ‘यज्ज्ञा­त्वा­मृ­त­म­श्नुते’(भ. गी. १३ । १२) इति । उक्तं च अन्यापोहेन अत­द्ध­र्मा­ध्या­रो­पेण च ॥ २१ ॥

तस्यैव पुनः साक्षात् निर्देशः क्रियते —

उप­द्र­ष्टा­नु­मन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽ­स्मि­न्पु­रुषः परः ॥ २२ ॥

२२

उपद्रष्टा समीपस्थः सन् द्रष्टा स्वयम् अव्यापृतः । यथा ऋत्विग्यजमानेषु यज्ञ­क­र्म­व्या­पृ­तेषु तटस्थः अन्यः अव्यापृतः यज्ञविद्याकुशलः ऋत्वि­ग्य­ज­मा­न­व्या­पा­र­गु­ण­दो­षा­णाम् ईक्षिता, तद्वच्च कार्य­क­र­ण­व्या­पा­रेषु अव्यापृतः अन्यः तद्विलक्षणः तेषां कार्यकरणानां सव्यापाराणां सामीप्येन द्रष्टा उपद्रष्टा । अथवा, देह­च­क्षु­र्म­नो­बु­द्ध्या­त्मानः द्रष्टारः, तेषां बाह्यः द्रष्टा देहः, ततः आरभ्य अन्तरतमश्च प्रत्यक् समीपे आत्मा द्रष्टा, यतः परः अन्तरतमः नास्ति द्रष्टा ; सः अतिशयसामीप्येन द्रष्टृत्वात् उपद्रष्टा स्यात् । यज्ञो­प­द्र­ष्टृ­वद्वा सर्वविषयीकरणात् उपद्रष्टा । अनुमन्ता च, अनुमोदनम् अनुमननं कुर्वत्सु तत्क्रियासु परितोषः, तत्कर्ता अनुमन्ता च । अथवा, अनुमन्ता, कार्य­क­र­ण­प्र­वृ­त्तिषु स्वयम् अप्रवृत्तोऽपि प्रवृत्त इव तदनुकूलः विभाव्यते, तेन अनुमन्ता । अथवा, प्रवृत्तान् स्वव्यापारेषु तत्साक्षिभूतः कदाचिदपि न निवारयति इति अनुमन्ता । भर्ता, भरणं नाम देहे­न्द्रि­य­म­नो­बु­द्धीनां संहतानां चैत­न्या­त्म­पा­रा­र्थ्येन निमित्तभूतेन चैतन्याभासानां यत् स्वरूपधारणम् , तत् चैत­न्या­त्म­कृ­त­मेव इति भर्ता आत्मा इति उच्यते । भोक्ता, अग्न्युष्णवत् नित्य­चै­त­न्य­स्व­रू­पेण बुद्धेः सुख­दुः­ख­मो­हा­त्मकाः प्रत्ययाः सर्वविषयविषयाः चैत­न्या­त्म­ग्रस्ता इव जायमानाः विभक्ताः विभाव्यन्ते इति भोक्ता आत्मा उच्यते । महेश्वरः, सर्वात्मत्वात् स्वत­न्त्र­त्वाच्च महान् ईश्वरश्च इति महेश्वरः । परमात्मा, देहादीनां बुद्ध्यन्तानां प्रत्य­गा­त्म­त्वेन कल्पितानाम् अविद्यया परमः उप­द्र­ष्टृ­त्वा­दि­ल­क्षणः आत्मा इति परमात्मा । सः अतः ‘परमात्मा’ इत्यनेन शब्देन च अपि उक्तः कथितः श्रुतौ । क्व असौ ? अस्मिन् देहे पुरुषः परः अव्यक्तात् , ‘उत्तमः पुरुषस्त्वन्यः पर­मा­त्मे­त्यु­दा­हृतः’(भ. गी. १५ । १७) इति यः वक्ष्यमाणः‘क्षेत्रज्ञं चापि मां विद्धि’(भ. गी. १३ । २) इति उपन्यस्तः व्याख्याय उपसंहृतश्च ॥ २२ ॥

तमेतं यथोक्तलक्षणम् आत्मानम् —

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ २३ ॥

२३

यः एवं यथोक्तप्रकारेण वेत्ति पुरुषं साक्षात् अहमिति प्रकृतिं च यथोक्ताम् अविद्यालक्षणां गुणैः स्वविकारैः सह निवर्तिताम् अभावम् आपादितां विद्यया, सर्वथा सर्वप्रकारेण वर्तमानोऽपि सः भूयः पुनः पतिते अस्मिन् विद्वच्छरीरे देहान्तराय न अभिजायते न उत्पद्यते, देहान्तरं न गृह्णाति इत्यर्थः । अपिशब्दात् किमु वक्तव्यं स्ववृत्तस्थो न जायते इति अभिप्रायः ॥

ननु, यद्यपि ज्ञानो­त्प­त्त्य­न­न्तरं पुनर्जन्माभाव उक्तः, तथापि प्राक् ज्ञानोत्पत्तेः कृतानां कर्मणाम् उत्तरकालभाविनां च, यानि च अति­क्रा­न्ता­ने­क­ज­न्म­कृ­तानि तेषां च, फलमदत्त्वा नाशो न युक्त इति, स्युः त्रीणि जन्मानि, कृतविप्रणाशो हि न युक्त इति, यथा फले प्रवृत्तानाम् आरब्धजन्मनां कर्मणाम् । न च कर्मणां विशेषः अवगम्यते । तस्मात् त्रिप्र­का­रा­ण्यपि कर्माणि त्रीणि जन्मानि आरभेरन् ; संहतानि वा सर्वाणि एकं जन्म आरभेरन् । अन्यथा कृतविनाशे सति सर्वत्र अना­श्वा­स­प्र­सङ्गः, शास्त्रा­न­र्थक्यं च स्यात् । इत्यतः इदमयुक्तमुक्तम् ‘न स भूयोऽभिजायते’ इति । न ; ‘क्षीयन्ते चास्य कर्माणि’(मु. उ. २ । २ । ९) ‘ब्रह्म वेद ब्रह्मैव भवति’(मु. उ. ३ । २ । ९) ‘तस्य तावदेव चिरम्’(छा. उ. ६ । १४ । २) ‘इषीकातूलवत् सर्वाणि कर्माणि प्रदूयन्ते’(छा. उ. ५ । २४ । ३) इत्या­दि­श्रु­ति­श­तेभ्यः उक्तो विदुषः सर्वकर्मदाहः । इहापि च उक्तः ‘यथैधांसि’(भ. गी. ४ । ३७) इत्यादिना सर्वकर्मदाहः, वक्ष्यति च । उपपत्तेश्च — अवि­द्या­का­म­क्ले­श­बी­ज­नि­मि­त्तानि हि कर्माणि जन्मा­न्त­रा­ङ्कु­रम् आरभन्ते ; इहापि च ‘साह­ङ्का­रा­भि­स­न्धीनि कर्माणि फलारम्भकाणि, न इतराणि’ इति तत्र तत्र भगवता उक्तम् । ‘बीजा­न्य­ग्न्यु­प­द­ग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः’(मो. २११ । १७) इति च । अस्तु तावत् ज्ञानो­त्प­त्त्यु­त्त­र­का­ल­कृ­तानां कर्मणां ज्ञानेन दाहः ज्ञान­स­ह­भा­वि­त्वात् । न तु इह जन्मनि ज्ञानोत्पत्तेः प्राक् कृतानां कर्मणां अतीतजन्मकृतानां च दाहः युक्तः । न ; ‘सर्वकर्माणि’(भ. गी. ४ । ३७) इति विशेषणात् । ज्ञानो­त्त­र­का­ल­भा­वि­ना­मेव सर्वकर्मणाम् इति चेत् , न ; सङ्कोचे कारणानुपपत्तेः । यत्तु उक्तम् ‘यथा वर्त­मा­न­ज­न्मा­र­म्भ­काणि कर्माणि न क्षीयन्ते फलदानाय प्रवृत्तान्येव सत्यपि ज्ञाने, तथा अनारब्धफलानामपि कर्मणां क्षयो न युक्तः’ इति, तत् असत् । कथम् ? तेषां मुक्तेषुवत् प्रवृ­त्त­फ­ल­त्वात् । यथा पूर्वं लक्ष्यवेधाय मुक्तः इषुः धनुषः लक्ष्य­वे­धो­त्त­र­का­ल­मपि आरब्धवेगक्षयात् पतनेनैव निवर्तते, एवं शरीरारम्भकं कर्म शरी­र­स्थि­ति­प्र­यो­जने निवृत्तेऽपि, आ संस्का­र­वे­ग­क्ष­यात् पूर्ववत् वर्तते एव । यथा स एव इषुः प्रवृ­त्ति­नि­मि­त्ता­ना­र­ब्ध­वे­गस्तु अमुक्तो धनुषि प्रयुक्तोऽपि उपसंह्रियते, तथा अनारब्धफलानि कर्माणि स्वाश्र­य­स्था­न्येव ज्ञानेन निर्बी­जी­क्रि­यन्ते इति, पतिते अस्मिन् विद्वच्छरीरे ‘न स भूयोऽभिजायते’ इति युक्तमेव उक्तमिति सिद्धम् ॥ २३ ॥

अत्र आत्मदर्शने उपायविकल्पाः इमे ध्यानादयः उच्यन्ते —

ध्यानेनात्मनि पश्यन्ति केचि­दा­त्मा­न­मा­त्मना ।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ २४ ॥

२४

ध्यानेन, ध्यानं नाम शब्दादिभ्यो विषयेभ्यः श्रोत्रादीनि करणानि मनसि उपसंहृत्य, मनश्च प्रत्य­क्चे­त­यि­तरि, एकाग्रतया यत् चिन्तनं तत् ध्यानम् ; तथा, ध्यायतीव बकः, ध्यायतीव पृथिवी, ध्यायन्तीव पर्वताः इति उपमोपादानात् । तैलधारावत् सन्ततः अवि­च्छि­न्न­प्र­त्ययो ध्यानम् ; तेन ध्यानेन आत्मनि बुद्धौ पश्यन्ति आत्मानं प्रत्यक्चेतनम् आत्मना स्वेनैव प्रत्यक्चेतनेन ध्यानसंस्कृतेन अन्तःकरणेन केचित् योगिनः । अन्ये साङ्ख्येन योगेन, साङ्ख्यं नाम ‘इमे सत्त्व­र­ज­स्त­मांसि गुणाः मया दृश्या अहं तेभ्योऽन्यः तद्व्या­पा­र­सा­क्षि­भूतः नित्यः गुणविलक्षणः आत्मा’ इति चिन्तनम् एषः साङ्ख्यो योगः, तेन ‘पश्यन्ति आत्मानमात्मना’ इति वर्तते । कर्मयोगेन, कर्मैव योगः, ईश्व­रा­र्प­ण­बुद्ध्या अनुष्ठीयमानं घटनरूपं योगार्थत्वात् योगः उच्यते गुणतः ; तेन सत्त्व­शु­द्धि­ज्ञा­नो­त्प­त्ति­द्वा­रेण च अपरे ॥ २४ ॥

अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ २५ ॥

२५

अन्ये तु एषु विकल्पेषु अन्यतमेनापि एवं यथोक्तम् आत्मानम् अजानन्तः अन्येभ्यः आचार्येभ्यः श्रुत्वा ‘इदमेव चिन्तयत’ इति उक्ताः उपासते श्रद्दधानाः सन्तः चिन्तयन्ति । तेऽपि च अतितरन्त्येव अतिक्रामन्त्येव मृत्युम् , मृत्युयुक्तं संसारम् इत्येतत् । श्रुतिपरायणाः श्रुतिः श्रवणं परम् अयनं गमनं मोक्ष­मा­र्ग­प्र­वृत्तौ परं साधनं येषां ते श्रुतिपरायणाः ; केव­ल­प­रो­प­दे­श­प्र­माणाः स्वयं विवेकरहिताः इत्यभिप्रायः । किमु वक्तव्यम् प्रमाणं प्रति स्वतन्त्राः विवेकिनः मृत्युम् अतितरन्ति इति अभिप्रायः ॥ २५ ॥

क्षेत्र­ज्ञे­श्व­रै­क­त्व­वि­षयं ज्ञानं मोक्षसाधनम् ‘यज्ज्ञा­त्वा­मृ­त­म­श्नुते’(भ. गी. १३ । १२) इत्युक्तम् , तत् कस्मात् हेतोरिति, तद्धे­तु­प्र­द­र्श­नार्थं श्लोकः आरभ्यते —

यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
क्षेत्र­क्षे­त्र­ज्ञ­सं­यो­गा­त्त­द्विद्धि भरतर्षभ ॥ २६ ॥

२६

यावत् यत् किञ्चित् सञ्जायते समुत्पद्यते सत्त्वं वस्तु ; किम् अविशेषेण ? नेत्याह — स्थावरजङ्गमं स्थावरं जङ्गमं च क्षेत्र­क्षे­त्र­ज्ञ­सं­यो­गात् तत् जायते इत्येवं विद्धि जानीहि भरतर्षभ ॥

कः पुनः अयं क्षेत्र­क्षे­त्र­ज्ञयोः संयोगः अभिप्रेतः ? न तावत् रज्ज्वेव घटस्य अव­य­व­सं­श्ले­ष­द्वा­रकः सम्बन्धविशेषः संयोगः क्षेत्रेण क्षेत्रज्ञस्य सम्भवति, आकाशवत् निरवयवत्वात् । नापि समवायलक्षणः तन्तुपटयोरिव क्षेत्र­क्षे­त्र­ज्ञयोः इत­रे­त­र­का­र्य­का­र­ण­भा­वा­न­भ्यु­प­ग­मात् इति, उच्यते — क्षेत्र­क्षे­त्र­ज्ञयोः विषयविषयिणोः भिन्नस्वभावयोः इत­रे­त­र­त­द्ध­र्मा­ध्या­स­ल­क्षणः संयोगः क्षेत्र­क्षे­त्र­ज्ञ­स्व­रू­प­वि­वे­का­भा­व­नि­ब­न्धनः, रज्जु­शु­क्ति­का­दीनां तद्वि­वे­क­ज्ञा­ना­भा­वात् अध्या­रो­पि­त­स­र्प­र­ज­ता­दि­सं­यो­ग­वत् । सः अयं अध्यासस्वरूपः क्षेत्र­क्षे­त्र­ज्ञ­सं­योगः मिथ्या­ज्ञा­न­ल­क्षणः । यथाशास्त्रं क्षेत्र­क्षे­त्र­ज्ञ­ल­क्ष­ण­भे­द­प­रि­ज्ञा­न­पू­र्वकं प्राक् दर्शितरूपात् क्षेत्रात् मुञ्जादिव इषीकां यथोक्तलक्षणं क्षेत्रज्ञं प्रविभज्य ‘न सत्त­न्ना­स­दु­च्यते’(भ. गी. १३ । १२) इत्यनेन निर­स्त­स­र्वो­पा­धि­वि­शेषं ज्ञेयं ब्रह्मस्वरूपेण यः पश्यति, क्षेत्रं च माया­नि­र्मि­त­ह­स्ति­स्व­प्न­दृ­ष्ट­व­स्तु­ग­न्ध­र्व­न­ग­रा­दि­वत् ‘असदेव सदिव अवभासते’ इति एवं निश्चितविज्ञानः यः, तस्य यथो­क्त­स­म्य­ग्द­र्श­न­वि­रो­धात् अपगच्छति मिथ्याज्ञानम् । तस्य जन्महेतोः अपगमात् ‘य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह’(भ. गी. १३ । २३) इत्यनेन ‘विद्वान् भूयः न अभिजायते’ इति यत् उक्तम् , तत् उपपन्नमुक्तम् ॥ २६ ॥

‘न स भूयोऽभिजायते’(भ. गी. १३ । २३) इति सम्यग्दर्शनफलम् अवि­द्या­दि­सं­सा­र­बी­ज­नि­वृ­त्ति­द्वा­रेण जन्माभावः उक्तः । जन्मकारणं च अवि­द्या­नि­मि­त्तकः क्षेत्र­क्षे­त्र­ज्ञ­सं­योगः उक्तः ; अतः तस्याः अविद्यायाः निवर्तकं सम्यग्दर्शनम् उक्तमपि पुनः शब्दान्तरेण उच्यते —

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विन­श्य­त्स्व­वि­न­श्यन्तं यः पश्यति स पश्यति ॥ २७ ॥

२७

समं निर्विशेषं तिष्ठन्तं स्थितिं कुर्वन्तम् ; क्व ? सर्वेषु समस्तेषु भूतेषु ब्रह्मा­दि­स्था­व­रा­न्तेषु प्राणिषु ; कम् ? परमेश्वरं देहे­न्द्रि­य­म­नो­बु­द्ध्य­व्य­क्ता­त्मनः अपेक्ष्य परमेश्वरः, तं सर्वेषु भूतेषु समं तिष्ठन्तम् । तानि विशिनष्टि विनश्यत्सु इति, तं च परमेश्वरम् अविनश्यन्तम् इति, भूतानां परमेश्वरस्य च अत्य­न्त­वै­ल­क्ष­ण्य­प्र­द­र्श­ना­र्थम् । कथम् ? सर्वेषां हि भावविकाराणां जनिलक्षणः भावविकारो मूलम् ; जन्मो­त्त­र­का­ल­भा­विनः अन्ये सर्वे भावविकाराः विनाशान्ताः ; विनाशात् परो न कश्चित् अस्ति भावविकारः, भावाभावात् । सति हि धर्मिणि धर्माः भवन्ति । अतः अन्त्य­भा­व­वि­का­रा­भा­वा­नु­वा­देन पूर्वभाविनः सर्वे भावविकाराः प्रतिषिद्धाः भवन्ति सह कार्यैः । तस्मात् सर्वभूतैः वैलक्षण्यम् अत्यन्तमेव परमेश्वरस्य सिद्धम् , निर्विशेषत्वम् एकत्वं च । यः एवं यथोक्तं परमेश्वरं पश्यति, सः पश्यति ॥

ननु सर्वोऽपि लोकः पश्यति, किं विशेषणेन इति । सत्यं पश्यति ; किं तु विपरीतं पश्यति । अतः विशिनष्टि — स एव पश्यतीति । यथा तिमिरदृष्टिः अनेकं चन्द्रं पश्यति, तमपेक्ष्य एकचन्द्रदर्शी विशिष्यते — स एव पश्यतीति ; तथा इहापि एकम् अविभक्तं यथोक्तं आत्मानं यः पश्यति, सः विभ­क्ता­ने­का­त्म­वि­प­री­त­द­र्शिभ्यः विशिष्यते — स एव पश्यतीति । इतरे पश्यन्तोऽपि न पश्यन्ति, विप­री­त­द­र्शि­त्वात् अने­क­च­न्द्र­द­र्शि­वत् इत्यर्थः ॥ २७ ॥

यथोक्तस्य सम्यग्दर्शनस्य फलवचनेन स्तुतिः कर्तव्या इति श्लोकः आरभ्यते —

समं पश्यन्हि सर्वत्र
सम­व­स्थि­त­मी­श्व­रम् ।
न हिन­स्त्या­त्म­ना­त्मानं
ततो याति परां गतिम् ॥ २८ ॥

२८

समं पश्यन् उपलभमानः हि यस्मात् सर्वत्र सर्वभूतेषु समवस्थितं तुल्यतया अवस्थितम् ईश्वरम् अती­ता­न­न्त­र­श्लो­को­क्त­ल­क्ष­ण­मि­त्यर्थः । समं पश्यन् किम् ? न हिनस्ति हिंसां न करोति आत्मना स्वेनैव स्वमात्मानम् । ततः तदहिंसनात् याति परां प्रकृष्टां गतिं मोक्षाख्याम् ॥

ननु नैव कश्चित् प्राणी स्वयं स्वम् आत्मानं हिनस्ति । कथम् उच्यते अप्राप्तम् ‘न हिनस्ति’ इति ? यथा ‘न पृथि­व्या­म­ग्नि­श्चे­तव्यो नान्तरिक्षे’(तै. सं. ५ । २ । ७) इत्यादि । नैष दोषः, अज्ञानाम् आत्म­ति­र­स्क­र­णो­प­पत्तेः । सर्वो हि अज्ञः अत्य­न्त­प्र­सिद्धं साक्षात् अपरोक्षात् आत्मानं तिरस्कृत्य अनात्मानम् आत्मत्वेन परिगृह्य, तमपि धर्माधर्मौ कृत्वा उपात्तम् आत्मानं हत्वा अन्यम् आत्मानम् उपादत्ते नवं तं चैवं हत्वा अन्यमेवं तमपि हत्वा अन्यम् इत्येवम् उपात्तमुपात्तम् आत्मानं हन्ति, इति आत्महा सर्वः अज्ञः । यस्तु परमार्थात्मा, असावपि सर्वदा अविद्यया हत इव, विद्य­मा­न­फ­ला­भा­वात् , इति सर्वे आत्महनः एव अविद्वांसः । यस्तु इतरः यथो­क्ता­त्म­दर्शी, सः उभयथापि आत्मना आत्मानं न हिनस्ति न हन्ति । ततः याति परां गतिम् यथोक्तं फलं तस्य भवति इत्यर्थः ॥ २८ ॥

सर्वभूतस्थम् ईश्वरं समं पश्यन् ‘न हिनस्ति आत्मना आत्मानम्’ इति उक्तम् । तत् अनुपपन्नं स्वगु­ण­क­र्म­वै­ल­क्ष­ण्य­भे­द­भि­न्नेषु आत्मसु, इत्येतत् आशङ्क्य आह —

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथा­त्मा­न­म­क­र्तारं स पश्यति ॥ २९ ॥

२९

प्रकृत्या प्रकृतिः भगवतः माया त्रिगुणात्मिका, ‘मायां तु प्रकृतिं विद्यात्’(श्वे. उ. ४ । १०) इति मन्त्रवर्णात् , तया प्रकृत्यैव च न अन्येन मह­दा­दि­का­र्य­का­र­णा­का­र­प­रि­ण­तया कर्माणि वाङ्म­नः­का­या­र­भ्याणि क्रियमाणानि निर्व­र्त्य­मा­नानि सर्वशः सर्वप्रकारैः यः पश्यति उपलभते, तथा आत्मानं क्षेत्रज्ञम् अकर्तारं सर्वो­पा­धि­वि­व­र्जितं सः पश्यति, सः परमार्थदर्शी इत्यभिप्रायः ; निर्गुणस्य अकर्तुः निर्विशेषस्य आकाशस्येव भेदे प्रमा­णा­नु­प­पत्तिः इत्यर्थः ॥ २९ ॥

पुनरपि तदेव सम्यग्दर्शनं शब्दान्तरेण प्रपञ्चयति —

यदा भूत­पृ­थ­ग्भा­व­मे­क­स्थ­म­नु­प­श्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३० ॥

३०

यदा यस्मिन् काले भूतपृथग्भावं भूतानां पृथग्भावं पृथक्त्वम् एकस्मिन् आत्मनि स्थितं एकस्थम् अनुपश्यति शास्त्रा­चा­र्यो­प­दे­शम् , अनु आत्मानं प्रत्यक्षत्वेन पश्यति ‘आत्मैव इदं सर्वम्’(छा. उ. ७ । २५ । २) इति, तत एव च तस्मादेव च विस्तारं उत्पत्तिं विकासम् ‘आत्मतः प्राण आत्मत आशा आत्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आवि­र्भा­व­ति­रो­भा­वा­वा­त्म­तोऽ­न्नम्’(छा. उ. ७ । २६ । १) इत्ये­व­मा­दि­प्र­कारैः विस्तारं यदा पश्यति, ब्रह्म सम्पद्यते ब्रह्मैव भवति तदा तस्मिन् काले इत्यर्थः ॥ ३० ॥

एकस्य आत्मानः सर्वदेहात्मत्वे तद्दोषसम्बन्धे प्राप्ते, इदम् उच्यते —

अना­दि­त्वा­न्नि­र्गु­ण­त्वा­त्प­र­मा­त्मा­य­म­व्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ ३१ ॥

३१

अनादित्वात् अनादेः भावः अनादित्वम् , आदिः कारणम् , तत् यस्य नास्ति तत् आनादि । यद्धि आदिमत् तत् स्वेन आत्मना व्येति ; अयं तु अनादित्वात् निरवयव इति कृत्वा न व्येति । तथा निर्गुणत्वात् । सगुणो हि गुणव्ययात् व्येति ; अयं तु निर्गुणत्वाच्च न व्येति ; इति परमात्मा अयम् अव्ययः ; न अस्य व्ययो विद्यते इति अव्ययः । यत एवमतः शरीरस्थोऽपि, शरीरेषु आत्मनः उपलब्धिः भवतीति शरीरस्थः उच्यते ; तथापि न करोति । तदकरणादेव तत्फलेन न लिप्यते । यो हि कर्ता, सः कर्मफलेन लिप्यते । अयं तु अकर्ता, अतः न फलेन लिप्यते इत्यर्थः ॥

कः पुनः देहेषु करोति लिप्यते च ? यदि तावत् अन्यः परमात्मनो देही करोति लिप्यते च, ततः इदम् अनुपपन्नम् उक्तं क्षेत्र­ज्ञे­श्व­रै­क­त्वम् ‘क्षेत्रज्ञं चापि मां विद्धि’(भ. गी. १३ । २) इत्यादि । अथ नास्ति ईश्वरादन्यो देही, कः करोति लिप्यते च ? इति वाच्यम् ; परो वा नास्ति इति सर्वथा दुर्विज्ञेयं दुर्वाच्यं च इति भगवत्प्रोक्तम् औपनिषदं दर्शनं परित्यक्तं वैशेषिकैः साङ्ख्या­र्ह­त­बौ­द्धैश्च । तत्र अयं परिहारो भगवता स्वेनैव उक्तः ‘स्वभावस्तु प्रवर्तते’(भ. गी. ५ । १४) इति । अवि­द्या­मा­त्र­स्व­भावो हि करोति लिप्यते इति व्यवहारो भवति, न तु परमार्थत एकस्मिन् परमात्मनि तत् अस्ति । अतः एतस्मिन् पर­मा­र्थ­सा­ङ्ख्य­द­र्शने स्थितानां ज्ञाननिष्ठानां पर­म­हं­स­प­रि­व्रा­ज­कानां तिर­स्कृ­ता­वि­द्या­व्य­व­हा­राणां कर्माधिकारो नास्ति इति तत्र तत्र दर्शितं भगवता ॥ ३१ ॥

किमिव न करोति न लिप्यते इति अत्र दृष्टान्तमाह —

यथा सर्वगतं सौक्ष्म्या­दा­काशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ ३२ ॥

३२

यथा सर्वगतं व्यापि अपि सत् सौक्ष्म्यात् सूक्ष्मभावात् आकाशं खं न उपलिप्यते न सम्बध्यते, सर्वत्र अवस्थितः देहे तथा आत्मा न उपलिप्यते ॥ ३२ ॥

किञ्च —

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥

३३

यथा प्रकाशयति अवभासयति एकः कृत्स्नं लोकम् इमं रविः सविता आदित्यः, तथा तद्वत् महाभूतादि धृत्यन्तं क्षेत्रम् एकः सन् प्रकाशयति । कः ? क्षेत्री परमात्मा इत्यर्थः । रविदृष्टान्तः अत्र आत्मनः उभयार्थोऽपि भवति — रविवत् सर्वक्षेत्रेषु एक एव आत्मा, अलेपकश्च इति ॥ ३३ ॥

सम­स्ता­ध्या­या­र्थो­प­सं­हा­रार्थः अयं श्लोकः —

क्षेत्र­क्षे­त्र­ज्ञ­यो­रे­व­म­न्तरं ज्ञानचक्षुषा ।
भूत­प्र­कृ­ति­मोक्षं च ये विदुर्यान्ति ते परम् ॥ ३४ ॥

३४

क्षेत्र­क्षे­त्र­ज्ञयोः यथाव्याख्यातयोः एवं यथा­प्र­द­र्शि­त­प्र­का­रेण अन्तरम् इत­रे­त­र­वै­ल­क्ष­ण्य­वि­शेषं ज्ञानचक्षुषा शास्त्रा­चा­र्य­प्र­सा­दो­प­दे­श­ज­नि­तम् आत्मप्रत्ययिकं ज्ञानं चक्षुः, तेन ज्ञानचक्षुषा, भूत­प्र­कृ­ति­मोक्षं च, भूतानां प्रकृतिः अविद्यालक्षणा अव्यक्ताख्या, तस्याः भूतप्रकृतेः मोक्षणम् अभावगमनं च ये विदुः विजानन्ति, यान्ति गच्छन्ति ते परं परमात्मतत्त्वं ब्रह्म, न पुनः देहं आददते इत्यर्थः ॥ ३४ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ श्रीम­द्भ­ग­व­द्गी­ता­भाष्ये त्रयोदशोऽध्यायः ॥