अद्वैतशारदा

श्रीमद्भगवद्गीताभाष्यम्

पञ्चदशोऽध्यायः

व्याख्याः

यस्मात् मदधीनं कर्मिणां कर्मफलं ज्ञानिनां च ज्ञानफलम् , अतः भक्तियोगेन मां ये सेवंते ते मम प्रसादात् ज्ञान­प्रा­प्ति­क्र­मेण गुणातीताः मोक्षं गच्छन्ति । किमु वक्तव्यम् आत्मनः तत्त्वमेव सम्यक् विजानन्तः इति अतः भगवान् अर्जुनेन अपृष्टोऽपि आत्मनः तत्त्वं विवक्षुः उवाच ‘ऊर्ध्वमूलम्’ इत्यादिना । तत्र तावत् वृक्ष­रू­प­क­क­ल्प­नया वैराग्यहेतोः संसारस्वरूपं वर्णयति — विरक्तस्य हि संसारात् भग­व­त्त­त्त्व­ज्ञाने अधिकारः, न अन्यस्येति ॥

श्रीभगवानुवाच —

ऊर्ध्व­मू­ल­म­धः­शा­ख­म­श्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १ ॥

ऊर्ध्वमूलं कालतः सूक्ष्मत्वात् कारणत्वात् नित्यत्वात् महत्त्वाच्च ऊर्ध्वम् ; उच्यते ब्रह्म अव्यक्तं मायाशक्तिमत् , तत् मूलं अस्येति सोऽयं संसारवृक्षः ऊर्ध्वमूलः । श्रुतेश्च — ‘ऊर्ध्व­मू­लोऽ­वा­क्शाख एषोऽश्वत्थः सनातनः’(क. उ. २ । ३ । १) इति । पुराणे च —

‘अव्य­क्त­मू­ल­प्र­भ­व­स्त­स्यै­वा­नु­ग्र­हो­च्छ्रितः । बुद्धि­स्क­न्ध­म­य­श्चैव इन्द्रि­या­न्त­र­को­टरः ॥
महाभूतविशाखश्च विषयैः पत्रवांस्तथा । धर्मा­ध­र्म­सु­पु­ष्पश्च सुखदुःखफलोदयः ॥
आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः । एतद्ब्रह्मवनं चैव ब्रह्माचरति नित्यशः ॥
एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमासिना । ततश्चात्मरतिं प्राप्य तस्मान्नावर्तते पुनः ॥ ’इत्यादि । तम् ऊर्ध्वमूलं संसारं मायामयं वृक्षम् अधःशाखं मह­द­ह­ङ्का­र­त­न्मा­त्रा­दयः शाखा इव अस्य अधः भवन्तीति सोऽयं अधःशाखः, तम् अधःशाखम् न श्वोऽपि स्थाता इति अश्वत्थः तं क्षण­प्र­ध्वं­सि­नम् अश्वत्थं प्राहुः कथयन्ति ।

अव्ययं संसारमायायाः अना­दि­का­ल­प्र­वृ­त्त­त्वात् सोऽयं संसारवृक्षः अव्ययः, अना­द्य­न्त­दे­हा­दि­स­न्ता­ना­श्रयः हि सुप्रसिद्धः, तम् अव्ययम् । तस्यैव संसारवृक्षस्य इदम् अन्यत् विशेषणम् — छन्दांसि यस्य पर्णानि, छन्दांसि च्छादनात् ऋग्य­जुः­सा­म­ल­क्ष­णानि यस्य संसारवृक्षस्य पर्णानीव पर्णानि । यथा वृक्षस्य परिरक्षणार्थानि पर्णानि, तथा वेदाः संसा­र­वृ­क्ष­प­रि­र­क्ष­णार्थाः, धर्मा­ध­र्म­त­द्धे­तु­फ­ल­प्र­द­र्श­ना­र्थ­त्वात् । यथाव्याख्यातं संसारवृक्षं समूलं यः तं वेद सः वेदवित् , वेदार्थवित् इत्यर्थः । न हि समूलात् संसारवृक्षात् अस्मात् ज्ञेयः अन्यः अणुमात्रोऽपि अवशिष्टः अस्ति इत्यतः सर्वज्ञः सर्व­वे­दा­र्थ­वि­दिति समू­ल­सं­सा­र­वृ­क्ष­ज्ञानं स्तौति ॥ १ ॥

तस्य एतस्य संसारवृक्षस्य अपरा अवयवकल्पना उच्यते —

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
गुणप्रवृद्धा विषयप्रवालाः ।
अधश्च मूला­न्य­नु­स­न्त­तानि
कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥

अधः मनुष्यादिभ्यो यावत् स्थावरम् ऊर्ध्वं च यावत् ब्रह्मणः विश्वसृजो धाम इत्येतदन्तं यथाकर्म यथाश्रुतं ज्ञानकर्मफलानि, तस्य वृक्षस्य शाखा इव शाखाः प्रसृताः प्रगताः, गुणप्रवृद्धाः गुणैः सत्त्व­र­ज­स्त­मोभिः प्रवृद्धाः स्थूलीकृताः उपादानभूतैः, विषयप्रवालाः विषयाः शब्दादयः प्रवालाः इव देहा­दि­क­र्म­फ­लेभ्यः शाखाभ्यः अङ्कुरीभवन्तीव, तेन विषयप्रवालाः शाखाः । संसारवृक्षस्य परममूलं उपादानकारणं पूर्वम् उक्तम् । अथ इदानीं कर्म­फ­ल­ज­नि­त­रा­ग­द्वे­षा­दि­वा­सनाः मूलानीव धर्मा­ध­र्म­प्र­वृ­त्ति­का­र­णानि अवान्तरभावीनि तानि अधश्च देवाद्यपेक्षया मूलानि अनुसन्ततानि अनुप्रविष्टानि कर्मानुबन्धीनि कर्म धर्मा­ध­र्म­ल­क्ष­णम् अनुबन्धः पश्चाद्भावि, येषाम् उद्भूतिम् अनु उद्भवति, तानि कर्मानुबन्धीनि मनुष्यलोके विशेषतः । अत्र हि मनुष्याणां कर्माधिकारः प्रसिद्धः ॥ २ ॥

यस्तु अयं वर्णितः संसारवृक्षः —

न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा ।
अश्वत्थमेनं सुवि­रू­ढ­मू­ल­म­स­ङ्ग­श­स्त्रेण दृढेन छित्त्वा ॥ ३ ॥

न रूपम् अस्य इह यथा उपवर्णितं तथा नैव उपलभ्यते, स्वप्न­म­री­च्यु­द­क­मा­या­ग­न्ध­र्व­न­ग­र­स­म­त्वात् ; दृष्ट­न­ष्ट­स्व­रूपो हि स इति अत एव न अन्तः न पर्यन्तः निष्ठा परिसमाप्तिर्वा विद्यते । तथा न च आदिः, ‘इतः आरभ्य अयं प्रवृत्तः’ इति न केनचित् गम्यते । न च सम्प्रतिष्ठा स्थितिः मध्यम् अस्य न केनचित् उपलभ्यते । अश्वत्थम् एनं यथोक्तं सुविरूढमूलं सुष्ठु विरूढानि विरोहं गतानि सुदृढानि मूलानि यस्य तम् एनं सुविरूढमूलम् , असङ्गशस्त्रेण असङ्गः पुत्र­वि­त्त­लो­कै­ष­णाभ्यः व्युत्थानं तेन असङ्गशस्त्रेण दृढेन पर­मा­त्मा­भि­मु­ख्य­नि­श्च­य­दृ­ढी­कृ­तेन पुनः पुनः विवे­का­भ्या­सा­श्म­नि­शि­तेन च्छित्वा संसारवृक्षं सबीजम् उद्धृत्य ॥ ३ ॥

ततः पदं तत्प­रि­मा­र्गि­तव्यं
यस्मिन्गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये
यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥

ततः पश्चात् यत् पदं वैष्णवं तत् परिमार्गितव्यम् , परिमार्गणम् अन्वेषणं ज्ञात­व्य­मि­त्यर्थः । यस्मिन् पदे गताः प्रविष्टाः न निवर्तन्ति न आवर्तन्ते भूयः पुनः संसाराय । कथं परि­मा­र्गि­त­व्य­मिति आह — तमेव च यः पदशब्देन उक्तः आद्यम् आदौ भवम् आद्यं पुरुषं प्रपद्ये इत्येवं परिमार्गितव्यं तच्छरणतया इत्यर्थः । कः असौ पुरुषः इति, उच्यते — यतः यस्मात् पुरुषात् संसा­र­मा­या­वृ­क्ष­प्र­वृत्तिः प्रसृता निःसृता, ऐन्द्रजालिकादिव माया, पुराणी चिरन्तनी ॥ ४ ॥

कथम्भूताः तत् पदं गच्छन्तीति, उच्यते —

निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वै­र्वि­मुक्ताः सुख­दुः­ख­सं­ज्ञै­र्ग­च्छ­न्त्य­मूढाः पदमव्ययं तत् ॥ ५ ॥

निर्मानमोहाः मानश्च मोहश्च मानमोहौ, तौ निर्गतौ येभ्यः ते निर्मानमोहाः मानमोहवर्जिताः । जितसङ्गदोषाः सङ्ग एव दोषः सङ्गदोषः, जितः सङ्गदोषः यैः ते जितसङ्गदोषाः । अध्यात्मनित्याः पर­मा­त्म­स्व­रू­पा­लो­च­न­नित्याः तत्पराः । विनिवृत्तकामाः विशेषतो निर्लेपेन निवृत्ताः कामाः येषां ते विनिवृत्तकामाः यतयः संन्यासिनः द्वन्द्वैः प्रिया­प्रि­या­दिभिः विमुक्ताः सुखदुःखसंज्ञैः परित्यक्ताः गच्छन्ति अमूढाः मोहवर्जिताः पदम् अव्ययं तत् यथोक्तम् ॥ ५ ॥

तदेव पदं पुनः विशेष्यते —

न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ ६ ॥

तत् धाम इति व्यवहितेन धाम्ना सम्बध्यते । तत् धाम तेजोरूपं पदं न भासयते सूर्यः आदित्यः सर्वा­व­भा­स­न­श­क्ति­म­त्त्वेऽपि सति । तथा न शशाङ्कः चन्द्रः, न पावकः न अग्निरपि । यत् धाम वैष्णवं पदं गत्वा प्राप्य न निवर्तन्ते, यच्च सूर्यादिः न भासयते, तत् धाम पदं परमं विष्णोः मम पदम् , ॥ ६ ॥

यत् गत्वा न निवर्तन्ते इत्युक्तम्ननु सर्वा हि गतिः आगत्यन्ता, ‘संयोगाः विप्रयोगान्ताः’ इति प्रसिद्धम् । कथम् उच्यते ‘तत् धाम गतानां नास्ति निवृत्तिः’ इति ? शृणु तत्र कारणम् —

ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनः­ष­ष्ठा­नी­न्द्रि­याणि प्रकृतिस्थानि कर्षति ॥ ७ ॥

ममैव परमात्मनः नारायणस्य, अंशः भागः अवयवः एकदेशः इति अनर्थान्तरं जिवलोके जीवानां लोके संसारे जीवभूतः कर्ता भोक्ता इति प्रसिद्धः सनातनः चिरन्तनः ; यथा जलसूर्यकः सूर्यांशः जलनिमित्तापाये सूर्यमेव गत्वा न निवर्तते च तेनैव आत्मना गच्छति, एवमेव ; यथा घटा­द्यु­पा­धि­प­रि­च्छिन्नो घटाद्याकाशः आकाशांशः सन् घटा­दि­नि­मि­त्ता­पाये आकाशं प्राप्य न निवर्तते । अतः उपपन्नम् उक्तम् ‘यद्गत्वा न निवर्तन्ते’(भ. गी. १५ । ६) इति । ननु निरवयवस्य परमात्मनः कुतः अवयवः एकदेशः अंशः इति ? सावयवत्वे च विनाशप्रसङ्गः अवयवविभागात् । नैष दोषः, अवि­द्या­कृ­तो­पा­धि­प­रि­च्छिन्नः एकदेशः अंश इव कल्पितो यतः । दर्शितश्च अयमर्थः क्षेत्राध्याये विस्तरशः । स च जीवो मदंशत्वेन कल्पितः कथं संसरति उत्क्रामति च इति, उच्यते — मनःषष्ठानि इन्द्रियाणि श्रोत्रादीनि प्रकृतिस्थानि स्वस्थाने कर्णशष्कुल्यादौ प्रकृतौ स्थितानि कर्षति आकर्षति ॥ ७ ॥

कस्मिन् काले ? —

शरीरं यदवाप्नोति यच्चा­प्यु­त्क्रा­म­ती­श्वरः ।
गृहीत्वैतानि संयाति वायु­र्ग­न्धा­नि­वा­श­यात् ॥ ८ ॥

यच्चापि यदा चापि उत्क्रामति ईश्वरः देहा­दि­स­ङ्घा­त­स्वामी जीवः, तदा ‘कर्षति’ इति श्लोकस्य द्वितीयपादः अर्थवशात् प्राथम्येन सम्बध्यते । यदा च पूर्वस्मात् शरीरात् शरीरान्तरम् अवाप्नोति तदा गृहीत्वा एतानि मनःषष्ठानि इन्द्रियाणि संयाति सम्यक् याति गच्छति । किमिव इति, आह — वायुः पवनः गन्धानिव आशयात् पुष्पादेः ॥ ८ ॥

कानि पुनः तानि —

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ ९ ॥

श्रोत्रं चक्षुः स्पर्शनं च त्वगिन्द्रियं रसनं घ्राणमेव च मनश्च षष्ठं प्रत्येकम् इन्द्रियेण सह, अधिष्ठाय देहस्थः विषयान् शब्दादीन् उपसेवते ॥ ९ ॥

एवं देहगतं देहात् —

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १० ॥

१०

उत्क्रामन्तं देहं पूर्वोपात्तं परित्यजन्तं स्थितं वापि देहे तिष्ठन्तं भुञ्जानं वा शब्दादींश्च उपलभमानं गुणान्वितं सुख­दुः­ख­मो­हाद्यैः गुणैः अन्वितम् अनुगतं संयु­क्त­मि­त्यर्थः । एवंभूतमपि एनम् अत्य­न्त­द­र्श­न­गो­च­र­प्राप्तं विमूढाः दृष्टा­दृ­ष्ट­वि­ष­य­भो­ग­ब­ला­कृ­ष्ट­चे­त­स्तया अनेकधा मूढाः न अनुपश्यन्ति — अहो कष्टं वर्तते इति अनुक्रोशति च भगवान् — ये तु पुनः प्रमा­ण­ज­नि­त­ज्ञा­न­च­क्षुषः ते एनं पश्यन्ति ज्ञानचक्षुषः विविक्तदृष्टयः इत्यर्थः ॥ १० ॥

केचित्तु —

यतन्तो योगिनश्चैनं पश्य­न्त्या­त्म­न्य­व­स्थि­तम् ।
यत­न्तोऽ­प्य­कृ­ता­त्मानो नैनं पश्यन्त्यचेतसः ॥ ११ ॥

११

यतन्तः प्रयत्नं कुर्वन्तः योगिनश्च समाहितचित्ताः एनं प्रकृतम् आत्मानं पश्यन्ति ‘अयम् अहम् अस्मि’ इति उपलभन्ते आत्मनि स्वस्यां बुद्धौ अवस्थितम् । यतन्तोऽपि शास्त्रा­दि­प्र­माणैः, अकृतात्मानः असंस्कृतात्मानः तपसा इन्द्रियजयेन च, दुश्चरितात् अनुपरताः, अशान्तदर्पाः, प्रयत्नं कुर्वन्तोऽपि न एवं पश्यन्ति अचेतसः अविवेकिनः ॥ ११ ॥

यत् पदं सर्वस्य अवभासकमपि अग्न्या­दि­त्या­दिकं ज्योतिः न अवभासयते, यत् प्राप्ताश्च मुमुक्षवः पुनः संसाराभिमुखाः न निवर्तन्ते, यस्य च पदस्य उपाधिभेदम् अनुविधीयमानाः जीवाः — घटाकाशादयः इव आकाशस्य — अंशाः, तस्य पदस्य सर्वात्मत्वं सर्व­व्य­व­हा­रा­स्प­दत्वं च विवक्षुः चतुर्भिः श्लोकैः विभू­ति­स­ङ्क्षे­प­माह भगवान् —

यदादित्यगतं तेजो जग­द्भा­स­य­तेऽ­खि­लम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १२ ॥

१२

यत् आदित्यगतम् आदित्याश्रयम् । किं तत् ? तेजः दीप्तिः प्रकाशः जगत् भासयते प्रकाशयति अखिलं समस्तम् ; यत् चन्द्रमसि शशभृति तेजः अवभासकं वर्तते, यच्च अग्नौ हुतवहे, तत् तेजः विद्धि विजानीहि मामकं मदीयं मम विष्णोः तत् ज्योतिः । अथवा, आदित्यगतं तेजः चैतन्यात्मकं ज्योतिः, यच्चन्द्रमसि, यच्च अग्नौ वर्तते तत् तेजः विद्धि मामकं मदीयं मम विष्णोः तत् ज्योतिः ॥

ननु स्थावरेषु जङ्गमेषु च तत् समानं चैतन्यात्मकं ज्योतिः । तत्र कथम् इदं विशेषणम् — ‘यदादित्यगतम्’ इत्यादि । नैष दोषः, सत्त्वाधिक्यात् आवि­स्त­र­त्वो­प­पत्तेः । आदित्यादिषु हि सत्त्वं अत्यन्तप्रकाशम् अत्यन्तभास्वरम् ; अतः तत्रैव आविस्तरं ज्योतिः इति तत् विशिष्यते, न तु तत्रैव तत् अधिकमिति । यथा हि श्लोके तुल्येऽपि मुखसंस्थाने न काष्ठकुड्यादौ मुखम् आविर्भवति, आदर्शादौ तु स्वच्छे स्वच्छतरे च तारतम्येन आविर्भवति ; तद्वत् ॥ १२ ॥

किञ्च —

गामाविश्य च भूतानि
धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः
सोमो भूत्वा रसात्मकः ॥ १३ ॥

१३

गां पृथिवीम् आविश्य प्रविश्य धारयामि भूतानि जगत् अहम् ओजसा बलेन ; यत् बलं काम­रा­ग­वि­व­र्जि­तम् ऐश्वरं रूपं जगद्विधारणाय पृथिव्याम् आविष्टं येन पृथिवी गुर्वी न अधः पतति न विदीर्यते च । तथा च मन्त्रवर्णः — ‘येन द्यौरुग्रा पृथिवी च दृढा’(तै. सं. ४ । १ । ८) इति, ‘स दाधार पृथिवीम्’(तै. सं. ४ । १ । ८) इत्यादिश्च । अतः गामाविश्य च भूतानि चराचराणि धारयामि इति युक्तमुक्तम् । किञ्च, पृथिव्यां जाताः ओषधीः सर्वाः व्रीहियवाद्याः पुष्णामि पुष्टिमतीः रसस्वादुमतीश्च करोमि सोमो भूत्वा रसात्मकः सोमः सन् रसात्मकः रसस्वभावः । सर्वरसानाम् आकरः सोमः । स हि सर्वरसात्मकः सर्वाः ओषधीः स्वात्मरसान् अनुप्रवेशयन् पुष्णाति ॥ १३ ॥

किञ्च —

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणा­पा­न­स­मा­युक्तः पचाम्यन्नं चतुर्विधम् ॥ १४ ॥

१४

अहमेव वैश्वानरः उदरस्थः अग्निः भूत्वा — ‘अय­म­ग्नि­र्वै­श्वा­नरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते’(बृ. उ. ५ । ९ । १) इत्यादिश्रुतेः ; वैश्वानरः सन् प्राणिनां प्राणवतां देहम् आश्रितः प्रविष्टः प्राणा­पा­न­स­मा­युक्तः प्राणापानाभ्यां समायुक्तः संयुक्तः पचामि पक्तिं करोमि अन्नम् अशनं चतुर्विधं चतुष्प्रकारं भोज्यं भक्ष्यं चोष्यं लेह्यं च । ‘भोक्ता वैश्वानरः अग्निः, अग्नेः भोज्यम् अन्नं सोमः, तदेतत् उभयम् अग्नीषोमौ सर्वम्’ इति पश्यतः अन्नदोषलेपः न भवति ॥ १४ ॥

किञ्च —

सर्वस्य चाहं हृदि संनिविष्टो
मत्तः स्मृति­र्ज्ञा­न­म­पो­हनं च ।
वेदैश्च सर्वैरहमेव वेद्यो
वेदा­न्त­कृ­द्वे­द­वि­देव चाहम् ॥ १५ ॥

१५

सर्वस्य च प्राणिजातस्य अहम् आत्मा सन् हृदि बुद्धौ संनिविष्टः । अतः मत्तः आत्मनः सर्वप्राणिनां स्मृतिः ज्ञानं तदपोहनं च अपगमनं च ; येषां यथा पुण्यकर्मणां पुण्य­क­र्मा­नु­रो­धेन ज्ञानस्मृती भवतः, तथा पापकर्मणां पापकर्मानुरूपेण स्मृतिज्ञानयोः अपोहनं च अपायनम् अपगमनं च । वेदैश्च सर्वैः अहमेव परमात्मा वेद्यः वेदितव्यः । वेदान्तकृत् वेदा­न्ता­र्थ­स­म्प्र­दा­य­कृत् इत्यर्थः, वेदवित् वेदार्थवित् एव च अहम् ॥ १५ ॥

भगवतः ईश्वरस्य नारायणाख्यस्य विभूतिसङ्क्षेपः उक्तः विशि­ष्टो­पा­धि­कृतः ‘यदादित्यगतं तेजः’(भ. गी. १५ । १२) इत्यादिना । अथ अधुना तस्यैव क्षरा­क्ष­रो­पा­धि­प्र­वि­भ­क्त­तया निरुपाधिकस्य केवलस्य स्वरू­प­नि­र्दि­धा­र­यि­षया उत्तरे श्लोकाः आरभ्यन्ते । तत्र सर्वमेव अती­ता­ना­ग­ता­ध्या­या­र्थ­जातं त्रिधा राशीकृत्य आह —

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥

१६

द्वौ इमौ पृथग्राशीकृतौ पुरुषौ इति उच्येते लोके संसारे — क्षरश्च क्षरतीति क्षरः विनाशी इति एको राशिः ; अपरः पुरुषः अक्षरः तद्विपरीतः, भगवतः मायाशक्तिः, क्षराख्यस्य पुरुषस्य उत्पत्तिबीजम् अने­क­सं­सा­रि­ज­न्तु­का­म­क­र्मा­दि­सं­स्का­रा­श्रयः, अक्षरः पुरुषः उच्यते । कौ तौ पुरुषौ इति आह स्वयमेव भगवान् — क्षरः सर्वाणि भूतानि, समस्तं विकारजातम् इत्यर्थः । कूटस्थः कूटः राशी राशिरिव स्थितः । अथवा, कूटः माया वञ्चना जिह्मता कुटिलता इति पर्यायाः, अने­क­मा­या­व­ञ्च­ना­दि­प्र­का­रेण स्थितः कूटस्थः, संसा­र­बी­जा­न­न्त्यात् न क्षरति इति अक्षरः उच्यते ॥ १६ ॥

आभ्यां क्षराक्षराभ्यां अन्यः विलक्षणः क्षरा­क्ष­रो­पा­धि­द्व­य­दो­षेण अस्पृष्टः नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावः —

उत्तमः पुरुषस्त्वन्यः पर­मा­त्मे­त्यु­दा­हृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १७ ॥

१७

उत्तमः उत्कृष्टतमः पुरुषस्तु अन्यः अत्यन्तविलक्षणः आभ्यां परमात्मा इति परमश्च असौ देहा­द्य­वि­द्या­कृ­ता­त्मभ्यः, आत्मा च सर्वभूतानां प्रत्यक्चेतनः, इत्यतः परमात्मा इति उदाहृतः उक्तः वेदान्तेषु । स एव विशिष्यते यः लोकत्रयं भूर्भु­वः­स्व­राख्यं स्वकीयया चैतन्यबलशक्त्या आविश्य प्रविश्य बिभर्ति स्वरू­प­स­द्भा­व­मा­त्रेण बिभर्ति धारयति ; अव्ययः न अस्य व्ययः विद्यते इति अव्ययः । कः ? ईश्वरः सर्वज्ञः नारायणाख्यः ईशनशीलः ॥ १७ ॥

यथाव्याख्यातस्य ईश्वरस्य ‘पुरुषोत्तमः’ इत्येतत् नाम प्रसिद्धम् । तस्य नाम­नि­र्व­च­न­प्र­सिद्ध्या अर्थवत्त्वं नाम्नो दर्शयन् ‘निरतिशयः अहम् ईश्वरः’ इति आत्मानं दर्शयति भगवान् —

यस्मा­त्क्ष­र­म­ती­तोऽ­ह­म­क्ष­रा­दपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १८ ॥

१८

यस्मात् क्षरम् अतीतः अहं संसा­र­मा­या­वृ­क्षम् अश्वत्थाख्यम् अतिक्रान्तः अहम् अक्षरादपि संसा­र­मा­या­रू­प­वृ­क्ष­बी­ज­भू­ता­दपि च उत्तमः उत्कृष्टतमः ऊर्ध्वतमो वा, अतः ताभ्यां क्षरा­क्ष­रा­भ्याम् उत्तमत्वात् अस्मि लोके वेदे च प्रथितः प्रख्यातः । पुरुषोत्तमः इत्येवं मां भक्तजनाः विदुः । कवयः काव्यादिषु च इदं नाम निबध्नन्ति । पुरुषोत्तम इत्य­ने­ना­भि­धा­ने­ना­भि­गृ­णन्ति ॥ १८ ॥

अथ इदानीं यथानिरुक्तम् आत्मानं यो वेद, तस्य इदं फलम् उच्यते —

यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥ १९ ॥

१९

यः माम् ईश्वरं यथोक्तविशेषणम् एवं यथोक्तेन प्रकारेण असंमूढः संमोहवर्जितः सन् जानाति ‘अयम् अहम् अस्मि’ इति पुरुषोत्तमं सः सर्ववित् सर्वात्मना सर्वं वेत्तीति सर्वज्ञः सर्वभूतस्थं भजति मां सर्वभावेन सर्वात्मतया हे भारत ॥ १९ ॥

अस्मिन् अध्याये भग­व­त्त­त्त्व­ज्ञानं मोक्षफलम् उक्त्वा,अथ इदानीं तत् स्तौति —

इति गुह्यतमं शास्त्र­मि­द­मुक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धि­मा­न्स्या­त्कृ­त­कृ­त्यश्च भारत ॥ २० ॥

२०

इति एतत् गुह्यतमं गोप्यतमम् , अत्यन्तरहस्यं इत्येतत् । किं तत् ? शास्त्रम् । यद्यपि गीताख्यं समस्तम् ‘शास्त्रम्’ उच्यते, तथापि अयमेव अध्यायः इह ‘शास्त्रम्’ इति उच्यते स्तुत्यर्थं प्रकरणात् । सर्वो हि गीता­शा­स्त्रार्थः अस्मिन् अध्याये समासेन उक्तः । न केवलं गीताशास्त्रार्थ एव, किन्तु सर्वश्च वेदार्थः इह परिसमाप्तः । ‘यस्तं वेद स वेदवित्’(भ. गी. १५ । १) ‘वेदैश्च सर्वैरहमेव वेद्यः’(भ. गी. १५ । १५) इति च उक्तम् । इदम् उक्तं कथितं मया हे अनघ अपाप । एतत् शास्त्रं यथादर्शितार्थं बुद्ध्वा बुद्धिमान् स्यात् भवेत् न अन्यथा कृतकृत्यश्च भारत कृतं कृत्यं कर्तव्यं येन सः कृतकृत्यः ; विशि­ष्ट­ज­न्म­प्र­सू­तेन ब्राह्मणेन यत् कर्तव्यं तत् सर्वं भगवत्तत्त्वे विदिते कृतं भवेत् इत्यर्थः ; न च अन्यथा कर्तव्यं परिसमाप्यते कस्यचित् इत्यभिप्रायः । ‘सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते’(भ. गी. ४ । ३३) इति च उक्तम् । ‘एतद्धि जन्मसामग्र्यं ब्राह्मणस्य विशेषतः । प्राप्यै­त­त्कृ­त­कृत्यो हि द्विजो भवति नान्यथा’(मनु. १२ । ९३) इति च मानवं वचनम् । यतः एतत् परमार्थतत्त्वं मत्तः श्रुतवान् असि, अतः कृतार्थः त्वं भारत इति ॥ २० ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ श्रीम­द्भ­ग­व­द्गी­ता­भाष्ये पञ्चदशोऽध्यायः ॥