अद्वैतशारदा

श्रीमद्भगवद्गीताभाष्यम्

षोडशोऽध्यायः

व्याख्याः

दैवी आसुरी राक्षसी इति प्राणिनां प्रकृतयः नवमे अध्याये सूचिताः । तासां विस्तरेण प्रदर्शनाय ‘अभयं सत्त्व­सं­शुद्धिः’ इत्यादिः अध्यायः आरभ्यते । तत्र संसारमोक्षाय दैवी प्रकृतिः, निबन्धाय आसुरी राक्षसी च इति दैव्याः आदानाय प्रदर्शनं क्रियते, इतरयोः परिवर्जनाय च ॥

श्रीभगवानुवाच —

अभयं सत्त्व­सं­शु­द्धि­र्ज्ञा­न­यो­ग­व्य­व­स्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १ ॥

अभयम् अभीरुता । सत्त्वसंशुद्धिः सत्त्वस्य अन्तःकरणस्य संशुद्धिः संव्यवहारेषु पर­व­ञ्च­ना­मा­या­नृ­ता­दि­प­रि­व­र्जनं शुद्ध­स­त्त्व­भा­वेन व्यवहारः इत्यर्थः । ज्ञान­यो­ग­व्य­व­स्थितिः ज्ञानं शास्त्रतः आचार्यतश्च आत्मा­दि­प­दा­र्था­नाम् अवगमः, अवगतानाम् इन्द्रि­या­द्यु­प­सं­हा­रेण एकाग्रतया स्वात्म­सं­वे­द्य­ता­पा­दनं योगः, तयोः ज्ञानयोगयोः व्यवस्थितिः व्यवस्थानं तन्निष्ठता । एषा प्रधाना दैवी सात्त्विकी सम्पत् । यत्र येषाम् अधिकृतानां या प्रकृतिः सम्भवति, सात्त्विकी सा उच्यते । दानं यथाशक्ति संविभागः अन्नादीनाम् । दमश्च बाह्यकरणानाम् उपशमः ; अन्तःकरणस्य उपशमं शान्तिं वक्ष्यति । यज्ञश्च श्रौतः अग्निहोत्रादिः । स्मार्तश्च देवयज्ञादिः, स्वाध्यायः ऋग्वे­दा­द्य­ध्य­य­नम् अदृष्टार्थम् । तपः वक्ष्यमाणं शारीरादि । आर्जवम् ऋजुत्वं सर्वदा ॥ १ ॥

किञ्च —

अहिंसा सत्य­म­क्रो­ध­स्त्यागः शान्तिरपैशुनम् ।
दया भूते­ष्व­लो­लुप्त्वं मार्दवं ह्रीरचापलम् ॥ २ ॥

अहिंसा अहिंसनं प्राणिनां पीडावर्जनम् । सत्यम् अप्रि­या­नृ­त­व­र्जितं यथाभूतार्थवचनम् । अक्रोधः परैः आक्रुष्टस्य अभिहतस्य वा प्राप्तस्य क्रोधस्य उपशमनम् । त्यागः संन्यासः, पूर्वं दानस्य उक्तत्वात् । शान्तिः अन्तःकरणस्य उपशमः । अपैशुनं अपिशुनता ; परस्मै पर­र­न्ध्र­प्र­क­टी­क­रणं पैशुनम् , तदभावः अपैशुनम् । दया कृपा भूतेषु दुःखितेषु । अलोलुप्त्वम् इन्द्रियाणां विषयसंनिधौ अविक्रिया । मार्दवं मृदुता अक्रौर्यम् । ह्रीः लज्जा । अचापलम् असति प्रयोजने वाक्पा­णि­पा­दा­दी­नाम् अव्या­पा­र­यि­तृ­त्वम् ॥ २ ॥

किञ्च —

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ ३ ॥

तेजः प्रागल्भ्यं न त्वग्गता दीप्तिः । क्षमा आक्रुष्टस्य ताडितस्य वा अन्त­र्वि­क्रि­या­नु­त्पत्तिः, उत्पन्नायां विक्रियायाम् उपशमनम् अक्रोधः इति अवोचाम । इत्थं क्षमायाः अक्रोधस्य च विशेषः । धृतिः देहेन्द्रियेषु अवसादं प्राप्तेषु तस्य प्रतिषेधकः अन्तः­क­र­ण­वृ­त्ति­वि­शेषः, येन उत्तम्भितानि करणानि देहश्च न अवसीदन्ति । शौचं द्विविधं मृज्जलकृतं बाह्यम् आभ्यन्तरं च मनोबुद्ध्योः नैर्मल्यं माया­रा­गा­दि­का­लु­ष्या­भावः ; एवं द्विविधं शौचम् । अद्रोहः परजिघांसाभावः अहिंसनम् । नातिमानिता अत्यर्थं मानः अतिमानः, सः यस्य विद्यते सः अतिमानी, तद्भावः अतिमानिता, तदभावः नातिमानिता आत्मनः पूज्य­ता­ति­श­य­भा­व­ना­भाव इत्यर्थः । भवन्ति अभयादीनि एतदन्तानि सम्पदं अभिजातस्य । किंविशिष्टां सम्पदम् ? दैवीं देवानां या सम्पत् ताम् अभिलक्ष्य जातस्य देव­वि­भू­त्य­र्हस्य भाविकल्याणस्य इत्यर्थः, हे भारत ॥ ३ ॥

अथ इदानीं आसुरी सम्पत् उच्यते —

दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ ४ ॥

दम्भः धर्मध्वजित्वम् । दर्पः विद्या­ध­न­स्व­ज­ना­दि­नि­मित्तः उत्सेकः । अतिमानः पूर्वोक्तः । क्रोधश्च । पारुष्यमेव च परुषवचनम् — यथा काणम् ‘चक्षुष्मान्’ विरूपम् ‘रूपवान्’ हीनाभिजनम् ‘उत्तमाभिजनः’ इत्यादि । अज्ञानं च अविवेकज्ञानं कर्त­व्या­क­र्त­व्या­दि­वि­ष­य­मि­थ्या­प्र­त्ययः । अभिजातस्य पार्थ । किम् अभिजातस्येति, आह — सम्पदम् आसुरीम् असुराणां सम्पत् आसुरी ताम् अभिजातस्य इत्यर्थः ॥ ४ ॥

अनयोः सम्पदोः कार्यम् उच्यते —

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ ५ ॥

दैवी सम्पत् या, सा विमोक्षाय संसारबन्धनात् । निबन्धाय नियतः बन्धः निबन्धः तदर्थम् आसुरी सम्पत् मता अभिप्रेता । तथा राक्षसी च । तत्र एवम् उक्ते सति अर्जुनस्य अन्तर्गतं भावम् ‘किम् अहम् आसु­र­स­म्प­द्युक्तः ? किं वा दैवसम्पद्युक्तः ? ’ इत्येवम् आलोचनारूपम् आलक्ष्य आह भगवान् — मा शुचः शोकं मा कार्षीः । सम्पदं दैवीम् अभिजातः असि अभिलक्ष्य जातोऽसि, भाविकल्याणः त्वम् असि इत्यर्थः, हे पाण्डव ॥ ५ ॥

द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ ६ ॥

द्वौ द्विसङ्ख्याकौ भूतसर्गौ भूतानां मनुष्याणां सर्गौ सृष्टी भूतसर्गौ सृज्येतेति सर्गौ भूतान्येव सृज्यमानानि दैवा­सु­र­स­म्प­द्द्व­य­यु­क्तानि इति द्वौ भूतसर्गौ इति उच्यते, ‘द्वया ह वै प्राजापत्या देवा­श्चा­सु­राश्च’(बृ. उ. १ । ३ । १) इति श्रुतेः । लोके अस्मिन् , संसारे इत्यर्थः, सर्वेषां द्वैवि­ध्यो­प­पत्तेः । कौ तौ भूतसर्गौ इति, उच्यते — प्रकृतावेव दैव आसुर एव च । उक्तयोरेव पुनः अनुवादे प्रयोजनम् आह — दैवः भूतसर्गः ‘अभयं सत्त्व­सं­शुद्धिः’(भ. गी. १६ । १) इत्यादिना विस्तरशः विस्तरप्रकारैः प्रोक्तः कथितः, न तु आसुरः विस्तरशः ; अतः तत्प­रि­व­र्ज­ना­र्थम् आसुरं पार्थ, मे मम वचनात् उच्यमानं विस्तरशः शृणु अवधारय ॥ ६ ॥

आ अध्या­य­प­रि­स­माप्तेः आसुरी सम्पत् प्राणि­वि­शे­ष­ण­त्वेन प्रदर्श्यते, प्रत्यक्षीकरणेन च शक्यते तस्याः परिवर्जनं कर्तुमिति —

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ ७ ॥

प्रवृत्तिं च प्रवर्तनं यस्मिन् पुरुषार्थसाधने कर्तव्ये प्रवृत्तिः ताम् , निवृत्तिं च एतद्विपरीतां यस्मात् अनर्थहेतोः निवर्तितव्यं सा निवृत्तिः तां च, जनाः आसुराः न विदुः न जानन्ति । न केवलं प्रवृ­त्ति­नि­वृत्ती एव ते न विदुः, न शौचं नापि च आचारः न सत्यं तेषु विद्यते ; अशौचाः अनाचाराः मायाविनः अनृतवादिनो हि आसुराः ॥ ७ ॥

किञ्च —

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किम­न्य­त्का­म­है­तु­कम् ॥ ८ ॥

असत्यं यथा वयम् अनृतप्रायाः तथा इदं जगत् सर्वम् असत्यम् , अप्रतिष्ठं च न अस्य धर्माधर्मौ प्रतिष्ठा अतः अप्रतिष्ठं च, इति ते आसुराः जनाः जगत् आहुः, अनीश्वरम् न च धर्मा­ध­र्म­स­व्य­पे­क्षकः अस्य शासिता ईश्वरः विद्यते इति अतः अनीश्वरं जगत् आहुः । किञ्च, अपरस्परसम्भूतं कामप्रयुक्तयोः स्त्रीपुरुषयोः अन्यो­न्य­सं­यो­गात् जगत् सर्वं सम्भूतम् । किमन्यत् कामहैतुकं कामहेतुकमेव कामहैतुकम् । किमन्यत् जगतः कारणम् ? न किञ्चित् अदृष्टं धर्माधर्मादि कारणान्तरं विद्यते जगतः ‘काम एव प्राणिनां कारणम्’ इति लोकायतिकदृष्टिः इयम् ॥ ८ ॥

एतां दृष्टिमवष्टभ्य नष्टा­त्मा­नोऽ­ल्प­बु­द्धयः ।
प्रभ­व­न्त्यु­ग्र­क­र्माणः क्षयाय जगतोऽहिताः ॥ ९ ॥

एतां दृष्टिम् अवष्टभ्य आश्रित्य नष्टात्मानः नष्टस्वभावाः विभ्र­ष्ट­प­र­लो­क­सा­धनाः अल्पबुद्धयः विषयविषया अल्पैव बुद्धिः येषां ते अल्पबुद्धयः प्रभवन्ति उद्भवन्ति उग्रकर्माणः क्रूरकर्माणः हिंसात्मकाः । क्षयाय जगतः प्रभवन्ति इति सम्बन्धः । जगतः अहिताः, शत्रवः इत्यर्थः ॥ ९ ॥

ते च —

काममाश्रित्य दुष्पूरं दम्भ­मा­न­म­दा­न्विताः ।
मोहा­द्गृ­ही­त्वा­स­द्ग्रा­हा­न्प्र­व­र्त­न्तेऽ­शु­चि­व्रताः ॥ १० ॥

१०

कामम् इच्छाविशेषम् आश्रित्य अवष्टभ्य दुष्पूरम् अशक्यपूरणं दम्भ­मा­न­म­दा­न्विताः दम्भश्च मानश्च मदश्च दम्भमानमदाः तैः अन्विताः दम्भ­मा­न­म­दा­न्विताः मोहात् अविवेकतः गृहीत्वा उपादाय असद्ग्राहान् अशुभनिश्चयान् प्रवर्तन्ते लोके अशुचिव्रताः अशुचीनि व्रतानि येषां ते अशुचिव्रताः ॥ १० ॥

किञ्च —

चिन्तामपरिमेयां च प्रल­या­न्ता­मु­पा­श्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः ॥ ११ ॥

११

चिन्ताम् अपरिमेयां च, न परिमातुं शक्यते यस्याः चिन्तायाः इयत्ता सा अपरिमेया, ताम् अपरिमेयाम् , प्रलयान्तां मरणान्ताम् उपाश्रिताः, सदा चिन्तापराः इत्यर्थः । कामोपभोगपरमाः, काम्यन्ते इति कामाः विषयाः शब्दादयः तदुपभोगपरमाः ‘अयमेव परमः पुरुषार्थः यः कामोपभोगः’ इत्येवं निश्चितात्मानः, एतावत् इति निश्चिताः ॥ ११ ॥

आशा­पा­श­श­तै­र्बद्धाः कामक्रोधपरायणाः ।
ईहन्ते काम­भो­गा­र्थ­म­न्या­ये­ना­र्थ­स­ञ्च­यान् ॥ १२ ॥

१२

आशापाशशतैः आशा एव पाशाः तच्छतैः बद्धाः नियन्त्रिताः सन्तः सर्वतः आकृष्यमाणाः, कामक्रोधपरायणाः कामक्रोधौ परम् अयनम् आश्रयः येषां ते काम­क्रो­ध­प­रा­यणाः, ईहन्ते चेष्टन्ते कामभोगार्थं कामभोगप्रयोजनाय न धर्मार्थम् , अन्यायेन परस्वापहरणादिना इत्यर्थः ; किम् ? अर्थसञ्चयान् अर्थप्रचयान् ॥ १२ ॥

ईदृशश्च तेषाम् अभिप्रायः —

इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १३ ॥

१३

इदं द्रव्यं अद्य इदानीं मया लब्धम् । इदं च अन्यत् प्राप्स्ये मनोरथं मनस्तुष्टिकरम् । इदं च अस्ति इदमपि मे भविष्यति आगामिनि संवत्सरे पुनः धनं तेन अहं धनी विख्यातः भविष्यामि इति ॥ १३ ॥

असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १४ ॥

१४

असौ देवदत्तनामा मया हतः दुर्जयः शत्रुः । हनिष्ये च अपरान् अन्यान् वराकान् अपि । किम् एते करिष्यन्ति तपस्विनः ; सर्वथापि नास्ति मत्तुल्यः । कथम् ? ईश्वरः अहम् , अहं भोगी । सर्वप्रकारेण च सिद्धः अहं सम्पन्नः पुत्रैः नप्तृभिः, न केवलं मानुषः, बलवान् सुखी च अहमेव ; अन्ये तु भूमि­भा­रा­या­व­तीर्णाः ॥ १४ ॥

आढ्योऽ­भि­ज­न­वा­नस्मि
कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य
इत्य­ज्ञा­न­वि­मो­हिताः ॥ १५ ॥

१५

आढ्यः धनेन, अभिजनवान् सप्तपुरुषं श्रोत्रि­य­त्वा­दि­स­म्पन्नः — तेनापि न मम तुल्यः अस्ति कश्चित् । कः अन्यः अस्ति सदृशः तुल्यः मया ? किञ्च, यक्ष्ये यागेनापि अन्यान् अभिभविष्यामि, दास्यामि नटादिभ्यः, मोदिष्ये हर्षं च अतिशयं प्राप्स्यामि, इति एवम् अज्ञानविमोहिताः अज्ञानेन विमोहिताः विविधम् अविवेकभावम् आपन्नाः ॥ १५ ॥

अने­क­चि­त्त­वि­भ्रान्ता मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ १६ ॥

१६

अने­क­चि­त्त­वि­भ्रान्ताः उक्तप्रकारैः अनेकैः चित्तैः विविधं भ्रान्ताः अने­क­चि­त्त­वि­भ्रान्ताः, मोहजालसमावृताः मोहः अविवेकः अज्ञानं तदेव जालमिव आवरणात्मकत्वात् , तेन समावृताः । प्रसक्ताः कामभोगेषु तत्रैव निषण्णाः सन्तः तेन उपचितकल्मषाः पतन्ति नरके अशुचौ वैतरण्यादौ ॥ १६ ॥

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नामयज्ञैस्ते दम्भे­ना­वि­धि­पू­र्व­कम् ॥ १७ ॥

१७

आत्मसम्भाविताः सर्व­गु­ण­वि­शि­ष्ट­तया आत्मनैव सम्भाविताः आत्मसम्भाविताः, न साधुभिः । स्तब्धाः अप्रणतात्मानः । धनमानमदान्विताः धननिमित्तः मानः मदश्च, ताभ्यां धनमानमदाभ्याम् अन्विताः । यजन्ते नामयज्ञैः नाममात्रैः यज्ञैः ते दम्भेन धर्मध्वजितया अविधिपूर्वकं विधि­वि­हि­ता­ङ्गे­ति­क­र्त­व्य­ता­र­हि­तम् ॥ १७ ॥

अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
मामात्मपरदेहेषु प्रद्वि­ष­न्तोऽ­भ्य­सू­यकाः ॥ १८ ॥

१८

अहङ्कारं अहङ्करणम् अहङ्कारः, विद्यमानैः अविद्यमानैश्च गुणैः आत्मनि अध्यारोपितैः ‘विशि­ष्ट­मा­त्मा­न­म­हम्’ इति मन्यते, सः अहङ्कारः अविद्याख्यः कष्टतमः, सर्वदोषाणां मूलं सर्वा­न­र्थ­प्र­वृ­त्तीनां च, तम् । तथा बलं पराभिभवनिमित्तं कामरागान्वितम् । दर्पं दर्पो नाम यस्य उद्भवे धर्मम् अतिक्रामति सः अयम् अन्तःकरणाश्रयः दोषविशेषः । कामं स्त्र्यादि­वि­ष­यम् । क्रोधम् अनिष्टविषयम् । एतान् अन्यांश्च महतो दोषान् संश्रिताः । किञ्च ते माम् ईश्वरम् आत्मपरदेहेषु स्वदेहे परदेहेषु च तद्बु­द्धि­क­र्म­सा­क्षि­भूतं मां प्रद्विषन्तः, मच्छा­स­ना­ति­व­र्तित्वं प्रद्वेषः, तं कुर्वन्तः अभ्यसूयकाः सन्मार्गस्थानां गुणेषु असहमानाः ॥ १८ ॥

तानहं द्विषतः क्रूरा­न्सं­सा­रेषु नराधमान् ।
क्षिपा­म्य­ज­स्र­म­शु­भा­ना­सु­री­ष्वेव योनिषु ॥ १९ ॥

१९

तान् अहं सन्मा­र्ग­प्र­ति­प­क्ष­भू­तान् साधुद्वेषिणः द्विषतश्च मां क्रूरान् संसारेषु एव अने­क­न­र­क­सं­स­र­ण­मा­र्गेषु नराधमान् अध­र्म­दो­ष­व­त्त्वात् क्षिपामि प्रक्षिपामि अजस्रं सन्ततम् अशुभान् अशुभकर्मकारिणः आसुरीष्वेव क्रूर­क­र्म­प्रा­यासु व्याघ्र­सिं­हा­दि­यो­निषु ‘क्षिपामि’ इत्यनेन सम्बन्धः ॥ १९ ॥

आसुरीं योनिमापन्ना
मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय
ततो यान्त्यधमां गतिम् ॥ २० ॥

२०

आसुरीं योनिम् आपन्नाः प्रतिपन्नाः मूढाः अविवेकिनः जन्मनि जन्मनि प्रतिजन्म तमोबहुलास्वेव योनिषु जायमानाः अधो गच्छन्तो मूढाः माम् ईश्वरम् अप्राप्य अनासाद्य एव हे कौन्तेय, ततः तस्मादपि यान्ति अधमां गतिं निकृष्टतमां गतिम् । ‘माम् अप्राप्यैव’ इति न मत्प्राप्तौ काचिदपि आशङ्का अस्ति, अतः मच्छि­ष्ट­सा­धु­मा­र्गम् अप्राप्य इत्यर्थः ॥ २० ॥

सर्वस्या आसुर्याः सम्पदः सङ्क्षेपः अयम् उच्यते, यस्मिन् त्रिविधे सर्वः आसुरीसम्पद्भेदः अनन्तोऽपि अन्तर्भवति । यत्परिहारेण परिहृतश्च भवति, यत् मूलं सर्वस्य अनर्थस्य, तत् एतत् उच्यते —

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभ­स्त­स्मा­दे­त­त्त्रयं त्यजेत् ॥ २१ ॥

२१

त्रिविधं त्रिप्रकारं नरकस्य प्राप्तौ इदं द्वारं नाशनम् आत्मनः, यत् द्वारं प्रविशन्नेव नश्यति आत्मा ; कस्मैचित् पुरुषार्थाय योग्यो न भवति इत्येतत् , अतः उच्यते ‘द्वारं नाशनमात्मनः’ इति । किं तत् ? कामः क्रोधः तथा लोभः । तस्मात् एतत् त्रयं त्यजेत् । यतः एतत् द्वारं नाशनम् आत्मनः तस्मात् कामादित्रयमेतत् त्यजेत् ॥ २१ ॥

त्याग­स्तु­ति­रि­यम् —

एतैर्विमुक्तः कौन्तेय तमो­द्वा­रै­स्त्रि­भि­र्नरः ।
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ २२ ॥

२२

एतैः विमुक्तः कौन्तेय तमोद्वारैः तमसः नरकस्य दुःखमोहात्मकस्य द्वाराणि कामादयः तैः, एतैः त्रिभिः विमुक्तः नरः आचरति अनुतिष्ठति । किम् ? आत्मनः श्रेयः । यत्प्रतिबद्धः पूर्वं न आचचार, तदपगमात् आचरति । ततः तदाचरणात् याति परां गतिं मोक्षमपि इति ॥ २२ ॥

सर्वस्य एतस्य आसु­री­स­म्प­त्प­रि­व­र्ज­नस्य श्रेयआचरणस्य च शास्त्रं कारणम् । शास्त्र­प्र­मा­णात् उभयं शक्यं कर्तुम् , न अन्यथा । अतः —

यः शास्त्र­वि­धि­मु­त्सृज्य
वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति
न सुखं न परां गतिम् ॥ २३ ॥

२३

यः शास्त्रविधिं शास्त्रं वेदः तस्य विधिं कर्त­व्या­क­र्त­व्य­ज्ञा­न­का­रणं विधि­प्र­ति­षे­धा­ख्यम् उत्सृज्य त्यक्त्वा वर्तते कामकारतः कामप्रयुक्तः सन् , न सः सिद्धिं पुरु­षा­र्थ­यो­ग्य­ताम् अवाप्नोति, न अपि अस्मिन् लोके सुखं न अपि परां प्रकृष्टां गतिं स्वर्गं मोक्षं वा ॥ २३ ॥

तस्माच्छास्त्रं प्रमाणं ते
कार्या­का­र्य­व्य­व­स्थितौ ।
ज्ञात्वा शास्त्र­वि­धा­नोक्तं
कर्म कर्तुमिहार्हसि ॥ २४ ॥

२४

तस्मात् शास्त्रं प्रमाणं ज्ञानसाधनं ते तव कार्या­का­र्य­व्य­व­स्थितौ कर्त­व्या­क­र्त­व्य­व्य­व­स्था­याम् । अतः ज्ञात्वा बुद्ध्वा शास्त्र­वि­धा­नोक्तं विधिः विधानं शास्त्रमेव विधानं शास्त्रविधानम् ‘कुर्यात् , न कुर्यात्’ इत्येवंलक्षणम् , तेन उक्तं स्वकर्म यत् तत् कर्तुम् इह अर्हसि, इह इति कर्मा­धि­का­र­भू­मि­प्र­द­र्श­ना­र्थम् इति ॥ २४ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ श्रीम­द्भ­ग­व­द्गी­ता­भाष्ये षोडशोऽध्यायः ॥