अद्वैतशारदा

श्रीमद्भगवद्गीताभाष्यम्

अष्टादशोऽध्यायः

व्याख्याः

सर्वस्यैव गीताशास्त्रस्य अर्थः अस्मिन् अध्याये उपसंहृत्य सर्वश्च वेदार्थो वक्तव्यः इत्येवमर्थः अयम् अध्यायः आरभ्यते । सर्वेषु हि अतीतेषु अध्यायेषु उक्तः अर्थः अस्मिन् अध्याये अवगम्यते । अर्जुनस्तु संन्या­स­त्या­ग­श­ब्दा­र्थ­यो­रेव विशेषबुभुत्सुः उवाच —

अर्जुन उवाच —

संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १ ॥

संन्यासस्य संन्या­स­श­ब्दा­र्थस्य इत्येतत् , हे महाबाहो, तत्त्वं तस्य भावः तत्त्वम् , याथा­त्म्य­मि­त्ये­तत् , इच्छामि वेदितुं ज्ञातुम् , त्यागस्य च त्याग­श­ब्दा­र्थ­स्ये­त्ये­तत् , हृषीकेश, पृथक् इतरेतरविभागतः केशिनिषूदन केशिनामा हयच्छद्मा कश्चित् असुरः तं निषूदितवान् भगवान् वासुदेवः, तेन तन्नाम्ना सम्बोध्यते अर्जुनेन ॥ १ ॥

संन्या­स­त्या­ग­शब्दौ तत्र तत्र निर्दिष्टौ, न निर्लुठितार्थौ पूर्वेषु अध्यायेषु । अतः अर्जुनाय पृष्टवते तन्निर्णयाय भगवान् उवाच —

श्रीभगवानुवाच —

काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
सर्व­क­र्म­फ­ल­त्यागं प्राहुस्त्यागं विचक्षणाः ॥ २ ॥

काम्यानाम् अश्वमेधादीनां कर्मणां न्यासं संन्या­स­श­ब्दा­र्थम् , अनुष्ठेयत्वेन प्राप्तस्य अनुष्ठानम् , कवयः पण्डिताः केचित् विदुः विजानन्ति । नित्य­नै­मि­त्ति­का­नाम् अनुष्ठीयमानानां सर्वकर्मणाम् आत्मसम्बन्धितया प्राप्तस्य फलस्य परित्यागः सर्व­क­र्म­फ­ल­त्यागः तं प्राहुः कथयन्ति त्यागं त्यागशब्दार्थं विचक्षणाः पण्डिताः । यदि काम्य­क­र्म­प­रि­त्यागः फलपरित्यागो वा अर्थः वक्तव्यः, सर्वथा परित्यागमात्रं संन्या­स­त्या­ग­श­ब्दयोः एकः अर्थः स्यात् , न घटपटशब्दाविव जात्य­न्त­र­भू­तार्थौ ॥

ननु नित्य­नै­मि­त्ति­कानां कर्मणां फलमेव नास्ति इति आहुः । कथम् उच्यते तेषां फलत्यागः, यथा वन्ध्यायाः पुत्रत्यागः ? नैष दोषः, नित्यानामपि कर्मणां भगवता फलवत्त्वस्य इष्टत्वात् । वक्ष्यति हि भगवान् ‘अनिष्टमिष्टं मिश्रं च’(भ. गी. १८ । १२) इति ‘न तु संन्यासिनाम्’(भ. गी. १८ । १२) इति च । संन्यासिनामेव हि केवलं कर्मफलासम्बन्धं दर्शयन् असंन्यासिनां नित्य­क­र्म­फ­ल­प्रा­प्तिम् ‘भवत्यत्यागिनां प्रेत्य’(भ. गी. १८ । १२) इति दर्शयति ॥ २ ॥

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ ३ ॥

त्याज्यं त्यक्तव्यं दोषवत् दोषः अस्य अस्तीति दोषवत् । किं तत् ? कर्म बन्धहेतुत्वात् सर्वमेव । अथवा, दोषः यथा रागादिः त्यज्यते, तथा त्याज्यम् इति एके कर्म प्राहुः मनीषिणः पण्डिताः साङ्ख्या­दि­दृ­ष्टिम् आश्रिताः, अधिकृतानां कर्मिणामपि इति । तत्रैव यज्ञदानतपःकर्म न त्याज्यम् इति च अपरे ॥

कर्मिणः एव अधिकृताः, तान् अपेक्ष्य एते विकल्पाः, न तु ज्ञाननिष्ठान् व्युत्थायिनः संन्यासिनः अपेक्ष्य । ‘ज्ञानयोगेन साङ्ख्यानां निष्ठा मया पुरा प्रोक्ता’(भ. गी. ३ । ३) इति कर्माधिकारात् अपोद्धृताः ये, न तान् प्रति चिन्ता ॥

ननु ‘कर्मयोगेन योगिनाम्’(भ. गी. ३ । ३) इति अधिकृताः पूर्वं विभक्तनिष्ठाः अपि इह सर्व­शा­स्त्रा­र्थो­प­सं­हा­र­प्र­क­रणे यथा विचार्यन्ते, तथा साङ्ख्या अपि ज्ञाननिष्ठाः विचार्यन्ताम् इति । न, तेषां मोह­दुः­ख­नि­मि­त्त­त्या­गा­नु­प­पत्तेः । न काय­क्ले­श­नि­मित्तं दुःखं साङ्ख्याः आत्मनि पश्यन्ति, इच्छादीनां क्षेत्र­ध­र्म­त्वे­नैव दर्शितत्वात् । अतः ते न काय­क्ले­श­दुः­ख­भ­यात् कर्म परित्यजन्ति । नापि ते कर्माणि आत्मनि पश्यन्ति, येन नियतं कर्म मोहात् परित्यजेयुः । गुणानां कर्म ‘नैव किञ्चित्करोमि’(भ. गी. ५ । ८) इति हि ते संन्यस्यन्ति । ‘सर्वकर्माणि मनसा संन्यस्य’(भ. गी. ५ । १३) इत्यादिभिः तत्त्वविदः संन्यासप्रकारः उक्तः । तस्मात् ये अन्ये अधिकृताः कर्मणि अनात्मविदः, येषां च मोहनिमित्तः त्यागः सम्भवति कायक्लेशभयाच्च, ते एव तामसाः त्यागिनः राजसाश्च इति निन्द्यन्ते कर्मिणाम् अनात्मज्ञानां कर्म­फ­ल­त्या­ग­स्तु­त्य­र्थम् ; ‘सर्वा­र­म्भ­प­रि­त्यागी’(भ. गी. १२ । १६) ‘मौनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतिः’(भ. गी. १२ । १९) इति गुणातीतलक्षणे च पर­मा­र्थ­सं­न्या­सिनः विशेषितत्वात् । वक्ष्यति च ‘निष्ठा ज्ञानस्य या परा’(भ. गी. १८ । ५८) इति । तस्मात् ज्ञाननिष्ठाः संन्यासिनः न इह विवक्षिताः । कर्मफलत्यागः एव सात्त्विकत्वेन गुणेन ताम­स­त्वा­द्य­पे­क्षया संन्यासः उच्यते, न मुख्यः सर्व­क­र्म­सं­न्यासः ॥

सर्व­क­र्म­सं­न्या­सा­स­म्भवे च ‘न हि देहभृता’(भ. गी. १८ । ११) इति हेतुवचनात् मुख्य एव इति चेत् , न ; हेतुवचनस्य स्तुत्य­र्थ­त्वात् । यथा ‘त्यागा­च्छा­न्ति­र­न­न्त­रम्’(भ. गी. १२ । १२) इति कर्म­फ­ल­त्या­ग­स्तु­ति­रेव यथो­क्ता­ने­क­प­क्षा­नु­ष्ठा­ना­श­क्ति­म­न्तम् अर्जुनम् अज्ञं प्रति विधानात् ; तथा इदमपि ‘न हि देहभृता शक्यम्’(भ. गी. १८ । ११) इति कर्म­फ­ल­त्या­ग­स्तु­त्य­र्थम् ; न ‘सर्वकर्माणि मनसा संन्यस्य नैव कुर्वन्न कारयन्नास्ते’(भ. गी. ५ । १३) इत्यस्य पक्षस्य अपवादः केनचित् दर्शयितुं शक्यः । तस्मात् कर्मणि अधिकृतान् प्रत्येव एषः संन्या­स­त्या­ग­वि­कल्पः । ये तु परमार्थदर्शिनः साङ्ख्याः, तेषां ज्ञान­नि­ष्ठा­या­मेव सर्व­क­र्म­सं­न्या­स­ल­क्ष­णा­याम् अधिकारः, न अन्यत्र, इति न ते विकल्पार्हाः । तच्च उपपादितम् अस्माभिः ‘वेदाविनाशिनम्’(भ. गी. २ । २१) इत्य­स्मि­न्प्र­देशे, तृतीयादौ च ॥ ३ ॥

तत्र एतेषु विकल्पभेदेषु —

निश्चयं शृणु मे तत्र
त्यागे भरतसत्तम ।
त्यागो हि पुरुषव्याघ्र
त्रिविधः सम्प्रकीर्तितः ॥ ४ ॥

निश्चयं शृणु अवधारय मे मम वचनात् ; तत्र त्यागे त्याग­सं­न्या­स­वि­कल्पे यथादर्शिते भरतसत्तम भरतानां साधुतम । त्यागो हि, त्याग­सं­न्या­स­श­ब्द­वाच्यो हि यः अर्थः सः एक एवेति अभिप्रेत्य आह — त्यागो हि इति । पुरुषव्याघ्र, त्रिविधः त्रिप्रकारः तामसादिप्रकारैः सम्प्रकीर्तितः शास्त्रेषु सम्यक् कथितः यस्मात् तामसादिभेदेन त्याग­सं­न्या­स­श­ब्द­वाच्यः अर्थः अधिकृतस्य कर्मिणः अनात्मज्ञस्य त्रिविधः सम्भवति, न परमार्थदर्शिनः, इत्ययमर्थः दुर्ज्ञानः, तस्मात् अत्र तत्त्वं न अन्यः वक्तुं समर्थः । तस्मात् निश्चयं पर­मा­र्थ­शा­स्त्रा­र्थ­वि­ष­यम् अध्यवसायम् ऐश्वरं मे मत्तः शृणु ॥ ४ ॥

कः पुनः असौ निश्चयः इति, आह —

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५ ॥

यज्ञः दानं तपः इत्येतत् त्रिविधं कर्म न त्याज्यं न त्यक्तव्यम् , कार्यं करणीयम् एव तत् । कस्मात् ? यज्ञः दानं तपश्चैव पावनानि विशुद्धिकराणि मनीषिणां फलानभिसन्धीनाम् इत्येतत् ॥ ५ ॥

एतान्यपि तु कर्माणि
सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ
निश्चितं मतमुत्तमम् ॥ ६ ॥

एतान्यपि तु कर्माणि यज्ञदानतपांसि पावनानि उक्तानि सङ्गम् आसक्तिं तेषु त्यक्त्वा फलानि च तेषां परित्यज्य कर्तव्यानि इति अनुष्ठेयानि इति मे मम निश्चितं मतम् उत्तमम् ॥

‘निश्चयं शृणु मे तत्र’(भ. गी. १८ । ४) इति प्रतिज्ञाय, पावनत्वं च हेतुम् उक्त्वा, ‘एतान्यपि कर्माणि कर्तव्यानि’ इत्येतत् ‘निश्चितं मतमुत्तमम्’ इति प्रति­ज्ञा­ता­र्थो­प­सं­हार एव, न अपूर्वार्थं वचनम् , ‘एतान्यपि’ इति प्रकृ­त­सं­नि­कृ­ष्टा­र्थ­त्वो­प­पत्तेः । सासङ्गस्य फलार्थिनः बन्धहेतवः एतान्यपि कर्माणि मुमुक्षोः कर्तव्यानि इति अपिशब्दस्य अर्थः । न तु अन्यानि कर्माणि अपेक्ष्य ‘एतान्यपि’ इति उच्यते ॥

अन्ये तु वर्णयन्ति — नित्यानां कर्मणां फलाभावात् ‘सङ्गं त्यक्त्वा फलानि च’ इति न उपपद्यते । अतः ‘एतान्यपि’ इति यानि काम्यानि कर्मणि नित्येभ्यः अन्यानि, एतानि अपि कर्तव्यानि, किमुत यज्ञदानतपांसि नित्यानि इति । तत् असत् , नित्यानामपि कर्मणाम् इह फलवत्त्वस्य उपपादितत्वात् ‘यज्ञो दानं तपश्चैव पावनानि’(भ. गी. १८ । ५) इत्यादिना वचनेन । नित्यान्यपि कर्माणि बन्ध­हे­तु­त्वा­श­ङ्कया जिहासोः मुमुक्षोः कुतः काम्येषु प्रसङ्गः ? ‘दूरेण ह्यवरं कर्म’(भ. गी. २ । ४९) इति च निन्दितत्वात् , ‘यज्ञार्थात् कर्मणोऽन्यत्र’(भ. गी. ३ । ९) इति च काम्यकर्मणां बन्धहेतुत्वस्य निश्चितत्वात् , ‘त्रैगुण्यविषया वेदाः’(भ. गी. २ । ४५) ‘त्रैविद्या मां सोमपाः’(भ. गी. ९ । २०) ‘क्षीणे पुण्ये मर्त्यलोकं विशन्ति’(भ. गी. ९ । २१) इति च, दूर­व्य­व­हि­त­त्वाच्च, न काम्येषु ‘एतान्यपि’ इति व्यपदेशः ॥ ६ ॥

तस्मात् अज्ञस्य अधिकृतस्य मुमुक्षोः —

नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ ७ ॥

नियतस्य तु नित्यस्य संन्यासः परित्यागः कर्मणः न उपपद्यते, अज्ञस्य पावनत्वस्य इष्टत्वात् । मोहात् अज्ञानात् तस्य नियतस्य परित्यागः — नियतं च अवश्यं कर्तव्यम् , त्यज्यते च, इति विप्रतिषिद्धम् ; अतः मोहनिमित्तः परित्यागः तामसः परिकीर्तितः मोहश्च तमः इति ॥ ७ ॥

किंच

दुःखमित्येव यत्कर्म काय­क्ले­श­भ­या­त्त्य­जेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ ८ ॥

दुःखम् इति एव यत् कर्म कायक्लेशभयात् शरीरदुःखभयात् त्यजेत् , सः कृत्वा राजसं रजोनिर्वर्त्यं त्यागं नैव त्यागफलं ज्ञानपूर्वकस्य सर्व­क­र्म­त्या­गस्य फलं मोक्षाख्यं न लभेत् नैव लभेत ॥ ८ ॥

कः पुनः सात्त्विकः त्यागः इति, आह —

कार्यमित्येव यत्कर्म
नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव
स त्यागः सात्त्विको मतः ॥ ९ ॥

कार्यं कर्तव्यम् इत्येव यत् कर्म नियतं नित्यं क्रियते निर्वर्त्यते हे अर्जुन, सङ्गं त्यक्त्वा फलं च एव । एतत् नित्यानां कर्मणां फलवत्त्वे भगवद्वचनं प्रमाणम् अवोचाम । अथवा, यद्यपि फलं न श्रूयते नित्यस्य कर्मणः, तथापि नित्यं कर्म कृतम् आत्मसंस्कारं प्रत्य­वा­य­प­रि­हारं वा फलं करोति आत्मनः इति कल्पयत्येव अज्ञः । तत्र तामपि कल्पनां निवारयति ‘फलं त्यक्त्वा’ इत्यनेन । अतः साधु उक्तम् ‘सङ्गं त्यक्त्वा फलं च’ इति । सः त्यागः नित्यकर्मसु सङ्गफलपरित्यागः सात्त्विकः सत्त्व­नि­र्वृत्तः मतः अभिप्रेतः ॥

ननु कर्मपरित्यागः त्रिविधः संन्यासः इति च प्रकृतः । तत्र तामसो राजसश्च उक्तः त्यागः । कथम् इह सङ्गफलत्यागः तृतीयत्वेन उच्यते ? यथा त्रयो ब्राह्मणाः आगताः, तत्र षडङ्गविदौ द्वौ, क्षत्रियः तृतीयः इति तद्वत् । नैष दोषः त्यागसामान्येन स्तुत्य­र्थ­त्वात् । अस्ति हि कर्मसंन्यासस्य फला­भि­स­न्धि­त्या­गस्य च त्याग­त्व­सा­मा­न्यम् । तत्र राजसतामसत्वेन कर्म­त्या­ग­नि­न्दया कर्म­फ­ला­भि­स­न्धि­त्यागः सात्त्विकत्वेन स्तूयते ‘स त्यागः सात्त्विको मतः’ इति ॥ ९ ॥

यस्तु अधिकृतः सङ्गं त्यक्त्वा फलाभिसन्धिं च नित्यं कर्म करोति, तस्य फलरागादिना अक­लु­षी­क्रि­य­मा­णम् अन्तःकरणं नित्यैश्च कर्मभिः संस्क्रियमाणं विशुध्यति । तत् विशुद्धं प्रसन्नम् आत्मालोचनक्षमं भवति । तस्यैव नित्य­क­र्मा­नु­ष्ठा­नेन विशु­द्धा­न्तः­क­र­णस्य आत्म­ज्ञा­ना­भि­मु­खस्य क्रमेण यथा तन्निष्ठा स्यात् , तत् वक्तव्यमिति आह —

न द्वेष्ट्यकुशलं कर्म
कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टो
मेधावी च्छिन्नसंशयः ॥ १० ॥

१०

न द्वेष्टि अकुशलम् अशोभनं काम्यं कर्म, शरी­रा­र­म्भ­द्वा­रेण संसारकारणम् , ‘किमनेन ? ’ इत्येवम् । कुशले शोभने नित्ये कर्मणि सत्त्व­शु­द्धि­ज्ञा­नो­त्प­त्ति­त­न्नि­ष्ठा­हे­तु­त्वेन ‘मोक्षकारणम् इदम्’ इत्येवं न अनुषज्जते अनुषङ्गं प्रीतिं न करोति इत्येतत् । कः पुनः असौ ? त्यागी पूर्वोक्तेन सङ्गफलत्यागेन तद्वान् त्यागी, यः कर्मणि सङ्गं त्यक्त्वा तत्फलं च नित्य­क­र्मा­नु­ष्ठायी सः त्यागी । कदा पुनः असौ अकुशलं कर्म न द्वेष्टि, कुशले च न अनुषज्जते इति, उच्यते — सत्त्वसमाविष्टः यदा सत्त्वेन आत्मा­ना­त्म­वि­वे­क­वि­ज्ञा­न­हे­तुना समाविष्टः संव्याप्तः, संयुक्त इत्येतत् । अत एव च मेधावी मेधया आत्म­ज्ञा­न­ल­क्ष­णया प्रज्ञया संयुक्तः तद्वान् मेधावी । मेधावित्वादेव च्छिन्नसंशयः छिन्नः अविद्याकृतः संशयः यस्य ‘आत्म­स्व­रू­पा­व­स्था­न­मेव परं निःश्रेयससाधनम् , न अन्यत् किञ्चित्’ इत्येवं निश्चयेन च्छिन्नसंशयः ॥

यः अधिकृतः पुरुषः पूर्वोक्तेन प्रकारेण कर्म­यो­गा­नु­ष्ठा­नेन क्रमेण संस्कृतात्मा सन् जन्मा­दि­वि­क्रि­या­र­हि­त­त्वेन निष्क्रियम् आत्मानम् आत्मत्वेन सम्बुद्धः, सः सर्वकर्माणि मनसा संन्यस्य नैव कुर्वन् न कारयन् आसीनः नैष्क­र्म्य­ल­क्षणां ज्ञाननिष्ठाम् अश्नुते इत्येतत् । पूर्वोक्तस्य कर्मयोगस्य प्रयोजनम् अनेनैव श्लोकेन उक्तम् ॥ १० ॥

यः पुनः अधिकृतः सन् देहा­त्मा­भि­मा­नि­त्वेन देहभृत् अज्ञः अबा­धि­ता­त्म­क­र्तृ­त्व­वि­ज्ञा­न­तया ‘अहं कर्ता’ इति निश्चितबुद्धिः तस्य अशे­ष­क­र्म­प­रि­त्या­गस्य अशक्यत्वात् कर्मफलत्यागेन चोदि­त­क­र्मा­नु­ष्ठाने एव अधिकारः, न तत्त्यागे इति एतम् अर्थं दर्शयितुम् आह —

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागी­त्य­भि­धी­यते ॥ ११ ॥

११

न हि यस्मात् देहभृता, देहं बिभर्तीति देहभृत् , देहा­त्मा­भि­मा­न­वान् देहभृत् उच्यते, न विवेकी ; स हि ‘वेदाविनाशिनम्’(भ. गी. २ । २१) इत्यादिना कर्तृ­त्वा­धि­का­रात् निवर्तितः । अतः तेन देहभृता अज्ञेन न शक्यं त्यक्तुं संन्यसितुं कर्माणि अशेषतः निःशेषेण । तस्मात् यस्तु अज्ञः अधिकृतः नित्यानि कर्माणि कुर्वन् कर्मफलत्यागी कर्म­फ­ला­भि­स­न्धि­मा­त्र­सं­न्यासी सः त्यागी इति अभिधीयते कर्मी अपि सन् इति स्तुत्य­भि­प्रा­येण । तस्मात् परमार्थदर्शिनैव अदेहभृता देहा­त्म­भा­व­र­हि­तेन अशे­ष­क­र्म­सं­न्यासः शक्यते कर्तुम् ॥ ११ ॥

किं पुनः तत् प्रयोजनम् , यत् सर्व­क­र्म­सं­न्या­सात् स्यादिति, उच्यते —

अनिष्टमिष्टं मिश्रं च
त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य
न तु संन्यासिनां क्वचित् ॥ १२ ॥

१२

अनिष्टं नर­क­ति­र्य­गा­दि­ल­क्ष­णम् , इष्टं देवादिलक्षणम् , मिश्रम् इष्टा­नि­ष्ट­सं­युक्तं मनुष्यलक्षणं च, तत्र त्रिविधं त्रिप्रकारं कर्मणः धर्मा­ध­र्म­ल­क्ष­णस्य फलं बाह्या­ने­क­का­र­क­व्या­पा­र­नि­ष्पन्नं सत् अविद्याकृतम् इन्द्र­जा­ल­मा­यो­पमं महामोहकरं प्रत्य­गा­त्मो­प­सर्पि इव — फल्गुतया लयम् अदर्शनं गच्छतीति फलनिर्वचनम् — तत् एतत् एवंलक्षणं फलं भवति अत्यागिनाम् अज्ञानां कर्मिणां अप­र­मा­र्थ­सं­न्या­सिनां प्रेत्य शरीरपातात् ऊर्ध्वम् । न तु संन्यासिनां पर­मा­र्थ­सं­न्या­सिनां पर­म­हं­स­प­रि­व्रा­ज­कानां केव­ल­ज्ञा­न­नि­ष्ठानां क्वचित् । न हि केव­ल­स­म्य­ग्द­र्श­न­निष्ठा अवि­द्या­दि­सं­सा­र­बीजं न उन्मूलयति कदाचित् इत्यर्थः ॥ १२ ॥

अतः परमार्थदर्शिनः एव अशे­ष­क­र्म­सं­न्या­सित्वं सम्भवति, अवि­द्या­ध्या­रो­पि­त­त्वात् आत्मनि क्रिया­का­र­क­फ­ला­नाम् ; न तु अज्ञस्य अधिष्ठानादीनि क्रिया­क­र्तृ­का­र­काणि आत्मत्वेनैव पश्यतः अशे­ष­क­र्म­सं­न्यासः सम्भवति तदेतत् उत्तरैः श्लोकैः दर्शयति —

पञ्चैतानि महाबाहो
कारणानि निबोध मे ।
साङ्ख्ये कृतान्ते प्रोक्तानि
सिद्धये सर्वकर्मणाम् ॥ १३ ॥

१३

पञ्च एतानि वक्ष्यमाणानि हे महाबाहो, कारणानि निर्वर्तकानि । निबोध मे मम इति उत्तरत्र चेतः­स­मा­धा­ना­र्थम् , वस्तु­वै­ष­म्य­प्र­द­र्श­नार्थं च । तानि च कारणानि ज्ञातव्यतया स्तौति — साङ्ख्ये ज्ञातव्याः पदार्थाः सङ्ख्यायन्ते यस्मिन् शास्त्रे तत् साङ्ख्यं वेदान्तः । कृतान्ते इति तस्यैव विशेषणम् । कृतम् इति कर्म उच्यते, तस्य अन्तः परिसमाप्तिः यत्र सः कृतान्तः, कर्मान्तः इत्येतत् । ‘यावानर्थ उदपाने’(भ. गी. २ । ४६) ‘सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते’(भ. गी. ४ । ३३) इति आत्मज्ञाने सञ्जाते सर्वकर्मणां निवृत्तिं दर्शयति । अतः तस्मिन् आत्मज्ञानार्थे साङ्ख्ये कृतान्ते वेदान्ते प्रोक्तानि कथितानि सिद्धये निष्पत्त्यर्थं सर्वकर्मणाम् ॥ १३ ॥

कानि तानीति, उच्यते —

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १४ ॥

१४

अधिष्ठानम् इच्छा­द्वे­ष­सु­ख­दुः­ख­ज्ञा­ना­दी­नाम् अभि­व्य­क्ते­रा­श्रयः अधिष्ठानं शरीरम् , तथा कर्ता उपाधिलक्षणः भोक्ता, करणं च श्रोत्रादि शब्दा­द्यु­प­ल­ब्धये पृथग्विधं नानाप्रकारं तत् द्वादशसङ्ख्यं विविधाश्च पृथक्चेष्टाः वायवीयाः प्राणापानाद्याः दैवं चैव दैवमेव च अत्र एतेषु चतुर्षु पञ्चमं पञ्चानां पूरणम् आदित्यादि चक्षु­रा­द्य­नु­ग्रा­ह­कम् ॥ १४ ॥

शरी­र­वा­ङ्म­नो­भि­र्य­त्कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १५ ॥

१५

शरीरवाङ्मनोभिः यत् कर्म त्रिभिः एतैः प्रारभते निर्वर्तयति नरः, न्याय्यं वा धर्म्यं शास्त्रीयम् , विपरीतं वा अशास्त्रीयम् अधर्म्यं यच्चापि निमि­षि­त­चे­ष्टि­तादि जीवनहेतुः तदपि पूर्व­कृ­त­ध­र्मा­ध­र्म­यो­रेव कार्यमिति न्याय्य­वि­प­री­त­यो­रेव ग्रहणेन गृहीतम् , पञ्च एते यथोक्ताः तस्य सर्वस्यैव कर्मणो हेतवः कारणानि ॥

ननु एतानि अधिष्ठानादीनि सर्वकर्मणां निर्वर्तकानि । कथम् उच्यते ‘शरीरवाङ्मनोभिः यत् कर्म प्रारभते’ इति ? नैष दोषः ; विधि­प्र­ति­षे­ध­ल­क्षणं सर्वं कर्म शरी­रा­दि­त्र­य­प्र­धा­नम् ; तदङ्गतया दर्शनश्रवणादि च जीवनलक्षणं त्रिधैव राशीकृतम् उच्यते शरीरादिभिः आरभ्यते इति । फलकालेऽपि तत्प्रधानैः साधनैः भुज्यते इति पञ्चानामेव हेतुत्वं न विरुध्यते इति ॥ १५ ॥

तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
पश्य­त्य­कृ­त­बु­द्धि­त्वान्न स पश्यति दुर्मतिः ॥ १६ ॥

१६

तत्र इति प्रकृतेन सम्बध्यते । एवं सति एवं यथोक्तैः पञ्चभिः हेतुभिः निर्वर्त्ये सति कर्मणि । तत्रैवं सति इति दुर्मतित्वस्य हेतुत्वेन सम्बध्यते । तत्र एतेषु आत्मानन्यत्वेन अविद्यया परिकल्पितैः क्रियमाणस्य कर्मणः ‘अहमेव कर्ता’ इति कर्तारम् आत्मानं केवलं शुद्धं तु यः पश्यति अविद्वान् ; कस्मात् ? वेदा­न्ता­चा­र्यो­प­दे­श­न्यायैः अकृ­त­बु­द्धि­त्वात् असं­स्कृ­त­बु­द्धि­त्वात् ; योऽपि देहा­दि­व्य­ति­रि­क्ता­त्म­वादी आत्मानमेव केवलं कर्तारं पश्यति, असावपि अकृतबुद्धिः ; अतः अकृ­त­बु­द्धि­त्वात् न सः पश्यति आत्मनः तत्त्वं कर्मणो वा इत्यर्थः । अतः दुर्मतिः, कुत्सिता विपरीता दुष्टा अजस्रं जन­न­म­र­ण­प्र­ति­प­त्ति­हे­तु­भूता मतिः अस्य इति दुर्मतिः । सः पश्यन्नपि न पश्यति, यथा तैमिरिकः अनेकं चन्द्रम् , यथा वा अभ्रेषु धावत्सु चन्द्रं धावन्तम् , यथा वा वाहने उपविष्टः अन्येषु धावत्सु आत्मानं धावन्तम् ॥ १६ ॥

कः पुनः सुमतिः यः सम्यक् पश्यतीति, उच्यते —

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
हत्वापि स इमांल्लोकान्न हन्ति न निबध्यते ॥ १७ ॥

१७

यस्य शास्त्रा­चा­र्यो­प­दे­श­न्या­य­सं­स्कृ­ता­त्मनः न भवति अहङ्कृतः ‘अहं कर्ता’ इत्येवंलक्षणः भावः भावना प्रत्ययः — एते एव पञ्च अधिष्ठानादयः अविद्यया आत्मनि कल्पिताः सर्वकर्मणां कर्तारः, न अहम् , अहं तु तद्व्यापाराणां साक्षिभूतः ‘अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः’(मु. उ. २ । १ । २) केवलः अविक्रियः इत्येवं पश्यतीति एतत् — बुद्धिः अन्तःकरणं यस्य आत्मनः उपाधिभूता न लिप्यते न अनुशयिनी भवति — ‘इदमहमकार्षम् , तेन अहं नरकं गमिष्यामि’ इत्येवं यस्य बुद्धिः न लिप्यते — सः सुमतिः, सः पश्यति । हत्वा अपि सः इमान् लोकान् , सर्वान् इमान् प्राणिनः इत्यर्थः, न हन्ति हननक्रियां न करोति, न निबध्यते नापि तत्कार्येण अधर्मफलेन सम्बध्यते ॥

ननु हत्वापि न हन्ति इति विप्रतिषिद्धम् उच्यते यद्यपि स्तुतिः । नैष दोषः, लौकि­क­पा­र­मा­र्थि­क­दृ­ष्ट्य­पे­क्षया तदुपपत्तेः । देहा­द्या­त्म­बुद्ध्या ‘हन्ता अहम्’ इति लौकिकीं दृष्टिम् आश्रित्य ‘हत्वापि’ इति आह । यथादर्शितां पारमार्थिकीं दृष्टिम् आश्रित्य ‘न हन्ति न निबध्यते’ इति । एतत् उभयम् उपपद्यते एव ॥

ननु अधिष्ठानादिभिः सम्भूय करोत्येव आत्मा, ‘कर्तारमात्मानं केवलं तु’(भ. गी. १८ । १६) इति केव­ल­श­ब्द­प्र­यो­गात् । नैष दोषः, आत्मनः अवि­क्रि­य­स्व­भा­वत्वे अधिष्ठानादिभिः, संह­त­त्वा­नु­प­पत्तेः । विक्रियावतो हि अन्यैः संहननं सम्भवति, संहत्य वा कर्तृत्वं स्यात् । न तु अविक्रियस्य आत्मनः केनचित् संहननम् अस्ति इति न सम्भूय कर्तृत्वम् उपपद्यते । अतः केवलत्वम् आत्मनः स्वाभाविकमिति केवलशब्दः अनुवादमात्रम् । अविक्रियत्वं च आत्मनः श्रुति­स्मृ­ति­न्या­य­प्र­सि­द्धम् । ‘अवि­का­र्योऽ­य­मु­च्यते’(भ. गी. २ । २५) ‘गुणैरेव कर्माणि क्रियन्ते’(भ. गी. ३ । २७) ‘शरीरस्थोऽपि न करोति’(भ. गी. १३ । ३१) इत्यादि असकृत् उपपादितं गीतास्वेव तावत् । श्रुतिषु च ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) इत्येवमाद्यासु । न्यायतश्च — निरवयवम् अपरतन्त्रम् अविक्रियम् आत्मतत्त्वम् इति राजमार्गः । विक्रि­या­व­त्त्वा­भ्यु­प­ग­मेऽपि आत्मनः स्वकीयैव विक्रिया स्वस्य भवितुम् अर्हति, न अधिष्ठानादीनां कर्माणि आत्मकर्तृकाणि स्युः । न हि परस्य कर्म परेण अकृतम् आगन्तुम् अर्हति । यत्तु अविद्यया गमितम् , न तत् तस्य । यथा रजतत्वं न शुक्तिकायाः ; यथा वा तलमलिनत्वं बालैः गमितम् अविद्यया, न आकाशस्य, तथा अधि­ष्ठा­ना­दि­वि­क्रि­यापि तेषामेव, न आत्मनः । तस्मात् युक्तम् उक्तम् ‘अह­ङ्कृ­त­त्व­बु­द्धि­ले­पा­भा­वात् विद्वान् न हन्ति न निबध्यते’ इति । ‘नायं हन्ति न हन्यते’(भ. गी. २ । १९) इति प्रतिज्ञाय ‘न जायते’(भ. गी. २ । २०) इत्या­दि­हे­तु­व­च­नेन अविक्रियत्वम् आत्मनः उक्त्वा, ‘वेदाविनाशिनम्’(भ. गी. २ । २१) इति विदुषः कर्मा­धि­का­र­नि­वृत्तिं शास्त्रादौ सङ्क्षेपतः उक्त्वा, मध्ये प्रसारितां तत्र तत्र प्रसङ्गं कृत्वा इह उपसंहरति शास्त्रा­र्थ­पि­ण्डी­क­र­णाय ‘विद्वान् न हन्ति न निबध्यते’ इति । एवं च सति देह­भृ­त्त्वा­भि­मा­ना­नु­प­पत्तौ अवि­द्या­कृ­ता­शे­ष­क­र्म­सं­न्या­सो­प­पत्तेः संन्यासिनाम् अनिष्टादि त्रिविधं कर्मणः फलं न भवति इति उपपन्नम् ; तद्विपर्ययाच्च इतरेषां भवति इत्येतच्च अपरिहार्यम् इति एषः गीता­शा­स्त्रार्थः उपसंहृतः । स एषः सर्ववेदार्थसारः निपुणमतिभिः पण्डितैः विचार्य प्रतिपत्तव्यः इति तत्र तत्र प्रकरणविभागेन दर्शितः अस्माभिः शास्त्र­न्या­या­नु­सा­रेण ॥ १७ ॥

अथ इदानीं कर्मणां प्रवर्तकम् उच्यते —

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥ १८ ॥

१८

ज्ञानं ज्ञायते अनेन इति सर्वविषयम् अविशेषेण उच्यते । तथा ज्ञेयं ज्ञातव्यम् , तदपि सामान्येनैव सर्वम् उच्यते । तथा परिज्ञाता उपाधिलक्षणः अविद्याकल्पितः भोक्ता । इति एतत् त्रयम् अविशेषेण सर्वकर्मणां प्रवर्तिका त्रिविधा त्रिप्रकारा कर्मचोदना । ज्ञानादीनां हि त्रयाणां संनिपाते हानो­पा­दा­ना­दि­प्र­यो­जनः सर्वकर्मारम्भः स्यात् । ततः पञ्चभिः अधिष्ठानादिभिः आरब्धं वाङ्म­नः­का­या­श्र­य­भे­देन त्रिधा राशीभूतं त्रिषु करणादिषु सङ्गृह्यते इत्येतत् उच्यते — करणं क्रियते अनेन इति बाह्यं श्रोत्रादि, अन्तःस्थं बुद्ध्यादि, कर्म ईप्सिततमं कर्तुः क्रियया व्याप्यमानम् , कर्ता करणानां व्यापारयिता उपाधिलक्षणः, इति त्रिविधः त्रिप्रकारः कर्मसङ्ग्रहः, सङ्गृह्यते अस्मिन्निति सङ्ग्रहः, कर्मणः सङ्ग्रहः कर्मसङ्ग्रहः, कर्म एषु हि त्रिषु समवैति, तेन अयं त्रिविधः कर्मसङ्ग्रहः ॥ १८ ॥

अथ इदानीं क्रिया­का­र­क­फ­लानां सर्वेषां गुणात्मकत्वात् सत्त्व­र­ज­स्त­मो­गु­ण­भे­दतः त्रिविधः भेदः वक्तव्य इति आरभ्यते —

ज्ञानं कर्म च कर्ता च
त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसङ्ख्याने
यथावच्छृणु तान्यपि ॥ १९ ॥

१९

ज्ञानं कर्म च, कर्म क्रिया, न कारकं पारिभाषिकम् ईप्सिततमं कर्म, कर्ता च निर्वर्तकः क्रियाणां त्रिधा एव, अवधारणं गुण­व्य­ति­रि­क्त­जा­त्य­न्त­रा­भा­व­प्र­द­र्श­नार्थं गुणभेदतः सत्त्वादिभेदेन इत्यर्थः । प्रोच्यते कथ्यते गुणसङ्ख्याने कापिले शास्त्रे तदपि गुण­स­ङ्ख्या­न­शास्त्रं गुणभोक्तृविषये प्रमाणमेव । पर­मा­र्थ­ब्र­ह्मै­क­त्व­वि­षये यद्यपि विरुध्यते, तथापि ते हि कापिलाः गुण­गौ­ण­व्या­पा­र­नि­रू­पणे अभियुक्ताः इति तच्छास्त्रमपि वक्ष्य­मा­णा­र्थ­स्तु­त्य­र्थ­त्वेन उपादीयते इति न विरोधः । यथावत् यथान्यायं यथाशास्त्रं शृणु तान्यपि ज्ञानादीनि तद्भेदजातानि गुणभेदकृतानि शृणु, वक्ष्यमाणे अर्थे मनःसमाधिं कुरु इत्यर्थः ॥ १९ ॥

ज्ञानस्य तु तावत् त्रिविधत्वम् उच्यते —

सर्वभूतेषु येनैकं
भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु
तज्ज्ञानं विद्धि सात्त्विकम् ॥ २० ॥

२०

सर्वभूतेषु अव्य­क्ता­दि­स्था­व­रा­न्तेषु भूतेषु येन ज्ञानेन एकं भावं वस्तु — भावशब्दः वस्तुवाची, एकम् आत्मवस्तु इत्यर्थः ; अव्ययं न व्येति स्वात्मना स्वधर्मेण वा, कूटस्थम् इत्यर्थः ; ईक्षते पश्यति येन ज्ञानेन, तं च भावम् अविभक्तं प्रतिदेहं विभक्तेषु देहभेदेषु न विभक्तं तत् आत्मवस्तु, व्योमवत् निर­न्त­र­मि­त्यर्थः ; तत् ज्ञानं साक्षात् सम्यग्दर्शनम् अद्वैतात्मविषयं सात्त्विकं विद्धि इति ॥ २० ॥

यानि द्वैतदर्शनानि तानि असम्यग्भूतानि राजसानि तामसानि च इति न साक्षात् संसारोच्छित्तये भवन्ति —

पृथक्त्वेन तु यज्ज्ञानं
नाना­भा­वा­न्पृ­थ­ग्वि­धान् ।
वेत्ति सर्वेषु भूतेषु
तज्ज्ञानं विद्धि राजसम् ॥ २१ ॥

२१

पृथक्त्वेन तु भेदेन प्रतिशरीरम् अन्यत्वेन यत् ज्ञानं नानाभावान् भिन्नान् आत्मनः पृथग्विधान् पृथक्प्रकारान् भिन्नलक्षणान् इत्यर्थः, वेत्ति विजानाति यत् ज्ञानं सर्वेषु भूतेषु, ज्ञानस्य कर्तृ­त्वा­स­म्भ­वात् येन ज्ञानेन वेत्ति इत्यर्थः, तत् ज्ञानं विद्धि राजसं रजो­गु­ण­नि­र्वृ­त्तम् ॥ २१ ॥

यत्तु कृत्स्न­व­दे­क­स्मि­न्कार्ये सक्तमहैतुकम् ।
अत­त्त्वा­र्थ­व­दल्पं च तत्ता­म­स­मु­दा­हृ­तम् ॥ २२ ॥

२२

यत् ज्ञानं कृत्स्नवत् समस्तवत् सर्वविषयमिव एकस्मिन् कार्ये देहे बहिर्वा प्रतिमादौ सक्तम् ‘एतावानेव आत्मा ईश्वरो वा, न अतः परम् अस्ति’ इति, यथा नग्न­क्ष­प­ण­का­दीनां शरीरान्तर्वर्ती देहपरिमाणो जीवः, ईश्वरो वा पाषा­ण­दा­र्वा­दि­मा­त्रम् , इत्येवम् एकस्मिन् कार्ये सक्तम् अहैतुकं हेतुवर्जितं निर्युक्तिकम् , अतत्त्वार्थवत् अयथाभूतार्थवत् , यथाभूतः अर्थः तत्त्वार्थः, सः अस्य ज्ञेयभूतः अस्तीति तत्त्वार्थवत् , न तत्त्वार्थवत् अतत्त्वार्थवत् ; अहैतुकत्वादेव अल्पं च, अल्पविषयत्वात् अल्पफलत्वाद्वा । तत् तामसम् उदाहृतम् । तामसानां हि प्राणिनाम् अविवेकिनाम् ईदृशं ज्ञानं दृश्यते ॥ २२ ॥

अथ इदानीं कर्मणः त्रैविध्यम् उच्यते —

नियतं सङ्ग­र­हि­त­म­रा­ग­द्वे­ष­तः­कृ­तम् ।
अफलप्रेप्सुना कर्म यत्त­त्सा­त्त्वि­क­मु­च्यते ॥ २३ ॥

२३

नियतं नित्यं सङ्गरहितम् आसक्तिवर्जितम् अरागद्वेषतःकृतं रागप्रयुक्तेन द्वेषप्रयुक्तेन च कृतं रागद्वेषतःकृतम् , तद्विपरीतम् अरा­ग­द्वे­ष­तः­कृ­तम् , अफलप्रेप्सुना फलं प्रेप्सतीति फलप्रेप्सुः फलतृष्णः तद्विपरीतेन अफलप्रेप्सुना कर्त्रा कृतं कर्म यत् , तत् सात्त्विकम् उच्यते ॥ २३ ॥

यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद्रा­ज­स­मु­दा­हृ­तम् ॥ २४ ॥

२४

यत्तु कामेप्सुना कर्म­फ­ल­प्रे­प्सुना इत्यर्थः, कर्म साहङ्कारेण इति न तत्त्व­ज्ञा­ना­पे­क्षया । किं तर्हि ? लौकि­क­श्रो­त्रि­य­नि­र­ह­ङ्का­रा­पे­क्षया । यो हि पर­मा­र्थ­नि­र­ह­ङ्कारः आत्मवित् , न तस्य कामे­प्सु­त्व­ब­हु­ला­या­स­क­र्तृ­त्व­प्राप्तिः अस्ति । सात्त्विकस्यापि कर्मणः अनात्मवित् साहङ्कारः कर्ता, किमुत राजसतामसयोः । लोके अनात्मविदपि श्रोत्रियो निरहङ्कारः उच्यते ‘निरहङ्कारः अयं ब्राह्मणः’ इति । तस्मात् तदपेक्षयैव ‘साहङ्कारेण वा’ इति उक्तम् । पुनःशब्दः पादपूरणार्थः । क्रियते बहुलायासं कर्त्रा महता आयासेन निर्वर्त्यते, तत् कर्म राजसम् उदाहृतम् ॥ २४ ॥

अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म यत्त­त्ता­म­स­मु­च्यते ॥ २५ ॥

२५

अनुबन्धं पश्चाद्भावि यत् वस्तु सः अनुबन्धः उच्यते तं च अनुबन्धम् , क्षयं यस्मिन् कर्मणि क्रियमाणे शक्तिक्षयः अर्थक्षयो वा स्यात् तं क्षयम् , हिंसां प्राणिबाधां च ; अनपेक्ष्य च पौरुषं पुरुषकारम् ‘शक्नोमि इदं कर्म समापयितुम्’ इत्येवम् आत्मसामर्थ्यम् , इत्येतानि अनुबन्धादीनि अनपेक्ष्य पौरुषान्तानि मोहात् अविवेकतः आरभ्यते कर्म यत् , तत् तामसं तमोनिर्वृत्तम् उच्यते ॥ २५ ॥

इदानीं कर्तृभेदः उच्यते —

मुक्त­स­ङ्गोऽ­न­हं­वादी
धृत्यु­त्सा­ह­स­म­न्वितः ।
सिद्ध्य­सि­द्ध्यो­र्नि­र्वि­कारः
कर्ता सात्त्विक उच्यते ॥ २६ ॥

२६

मुक्तसङ्गः मुक्तः परित्यक्तः सङ्गः येन सः मुक्तसङ्गः, अनहंवादी न अहंवदनशीलः, धृत्यु­त्सा­ह­स­म­न्वितः धृतिः धारणम् उत्साहः उद्यमः ताभ्यां समन्वितः संयुक्तः धृत्यु­त्सा­ह­स­म­न्वितः, सिद्ध्य­सिद्ध्योः क्रियमाणस्य कर्मणः फलसिद्धौ असिद्धौ च सिद्ध्य­सिद्ध्योः निर्विकारः, केवलं शास्त्रप्रमाणेन प्रयुक्तः न फलरागादिना यः सः निर्विकारः उच्यते । एवंभूतः कर्ता यः सः सात्त्विकः उच्यते ॥ २६ ॥

रागी कर्म­फ­ल­प्रे­प्सु­र्लुब्धो हिंसा­त्म­कोऽ­शुचिः ।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ २७ ॥

२७

रागी रागः अस्य अस्तीति रागी, कर्मफलप्रेप्सुः कर्मफलार्थी इत्यर्थः, लुब्धः परद्रव्येषु सञ्जाततृष्णः, तीर्थादौ स्वद्र­व्या­प­रि­त्यागी वा, हिंसात्मकः पर­पी­डा­क­र­स्व­भावः, अशुचिः बाह्या­भ्य­न्त­र­शौ­च­व­र्जितः, हर्षशोकान्वितः इष्टप्राप्तौ हर्षः अनिष्टप्राप्तौ इष्टवियोगे च शोकः ताभ्यां हर्षशोकाभ्याम् अन्वितः संयुक्तः, तस्यैव च कर्मणः सम्प­त्ति­वि­प­त्तिभ्यां हर्षशोकौ स्याताम् , ताभ्यां संयुक्तो यः कर्ता सः राजसः परिकीर्तितः ॥ २७ ॥

अयुक्तः प्राकृतः स्तब्धः
शठो नैकृतिकोऽलसः ।
विषादी दीर्घसूत्री च
कर्ता तामस उच्यते ॥ २८ ॥

२८

अयुक्तः न युक्तः असमाहितः, प्राकृतः अत्य­न्ता­सं­स्कृ­त­बुद्धिः बालसमः, स्तब्धः दण्डवत् न नमति कस्मैचित् , शठः मायावी शक्तिगूहनकारी, नैकृतिकः परविभेदनपरः, अलसः अप्रवृत्तिशीलः कर्तव्येष्वपि, विषादी विषादवान् सर्वदा अवसन्नस्वभावः, दीर्घसूत्री च कर्तव्यानां दीर्घप्रसारणः, सर्वदा मन्दस्वभावः, यत् अद्य श्वो वा कर्तव्यं तत् मासेनापि न करोति, यश्च एवंभूतः, सः कर्ता तामसः उच्यते ॥ २८ ॥

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।
प्रोच्य­मा­न­म­शे­षेण पृथक्त्वेन धनञ्जय ॥ २९ ॥

२९

बुद्धेः भेदं धृतेश्चैव भेदं गुणतः सत्त्वादिगुणतः त्रिविधं शृणु इति सूत्रोपन्यासः । प्रोच्यमानं कथ्यमानम् अशेषेण निरवशेषतः यथावत् पृथक्त्वेन विवेकतः धनञ्जय, दिग्विजये मानुषं दैवं च प्रभूतं धनं जितवान् , तेन असौ धनञ्जयः अर्जुनः ॥ २९ ॥

प्रवृत्तिं च निवृत्तिं च
कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति
बुद्धिः सा पार्थ सात्त्विकी ॥ ३० ॥

३०

प्रवृत्तिं च प्रवृत्तिः प्रवर्तनं बन्धहेतुः कर्ममार्गः शास्त्र­वि­हि­त­वि­षयः, निवृत्तिं च निर्वृत्तिः मोक्षहेतुः संन्यासमार्गः — बन्ध­मो­क्ष­स­मा­न­वा­क्य­त्वात् प्रवृ­त्ति­नि­वृत्ती कर्म­सं­न्या­स­मार्गौ इति अवगम्यते — कार्याकार्ये विहि­त­प्र­ति­षिद्धे लौकिके वैदिके वा शास्त्रबुद्धेः कर्त­व्या­क­र्तव्ये करणाकरणे इत्येतत् ; कस्य ? देश­का­ला­द्य­पे­क्षया दृष्टा­दृ­ष्टा­र्थानां कर्मणाम् । भयाभये बिभेति अस्मादिति भयं चोरव्याघ्रादि, न भयं अभयम् , भयं च अभयं च भयाभये, दृष्टा­दृ­ष्ट­वि­ष­ययोः भयाभययोः कारणे इत्यर्थः । बन्धं सहेतुकं मोक्षं च सहेतुकं या वेत्ति विजानाति बुद्धिः, सा पार्थ सात्त्विकी । तत्र ज्ञानं बुद्धेः वृत्तिः ; बुद्धिस्तु वृत्तिमती । धृतिरपि वृत्तिविशेषः एव बुद्धेः ॥ ३० ॥

यया धर्ममधर्मं च
कार्यं चाकार्यमेव च ।
अय­था­व­त्प्र­जा­नाति
बुद्धिः सा पार्थ राजसी ॥ ३१ ॥

३१

यया धर्मं शास्त्रचोदितम् अधर्मं च तत्प्रतिषिद्धं कार्यं च अकार्यमेव च पूर्वोक्ते एव कार्याकार्ये अयथावत् न यथावत् सर्वतः निर्णयेन न प्रजानाति, बुद्धिः सा पार्थ, राजसी ॥ ३१ ॥

अधर्मं धर्ममिति या
मन्यते तमसावृता ।
सर्वा­र्था­न्वि­प­री­तांश्च
बुद्धिः सा पार्थ तामसी ॥ ३२ ॥

३२

अधर्मं प्रतिषिद्धं धर्मं विहितम् इति या मन्यते जानाति तमसा आवृता सती, सर्वार्थान् सर्वानेव ज्ञेयपदार्थान् विपरीतांश्च विपरीतानेव विजानाति, बुद्धिः सा पार्थ, तामसी ॥ ३२ ॥

धृत्या यया धारयते
मनः­प्रा­णे­न्द्रि­य­क्रियाः ।
योगे­ना­व्य­भि­चा­रिण्या
धृतिः सा पार्थ सात्त्विकी ॥ ३३ ॥

३३

धृत्या यया — अव्यभिचारिण्या इति व्यवहितेन सम्बन्धः, धारयते ; किम् ? मनः­प्रा­णे­न्द्रि­य­क्रियाः मनश्च प्राणाश्च इन्द्रियाणि च मनः­प्रा­णे­न्द्रि­याणि, तेषां क्रियाः चेष्टाः, ताः उच्छा­स्त्र­मा­र्ग­प्र­वृत्तेः धारयते धारयति — धृत्या हि धार्यमाणाः उच्छा­स्त्र­मा­र्ग­वि­षयाः न भवन्ति — योगेन समाधिना, अव्यभिचारिण्या, नित्य­स­मा­ध्य­नु­ग­तया इत्यर्थः । एतत् उक्तं भवति — अव्यभिचारिण्या धृत्या मनः­प्रा­णे­न्द्रि­य­क्रियाः धार्यमाणाः योगेन धारयतीति । या एवंलक्षणा धृतिः, सा पार्थ, सात्त्विकी ॥ ३३ ॥

यया तु धर्म­का­मा­र्था­न्धृत्या धारयतेऽर्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ ३४ ॥

३४

यया तु धर्मकामार्थान् धर्मश्च कामश्च अर्थश्च धर्मकामार्थाः तान् धर्मकामार्थान् धृत्या यया धारयते मनसि नित्यमेव कर्तव्यरूपान् अवधारयति हे अर्जुन, प्रसङ्गेन यस्य यस्य धर्मादेः धारणप्रसङ्गः तेन तेन प्रसङ्गेन फलाकाङ्क्षी च भवति यः पुरुषः, तस्य धृतिः या, सा पार्थ, राजसी ॥ ३४ ॥

यया स्वप्नं भयं शोकं
विषादं मदमेव च ।
न विमुञ्चति दुर्मेधा
धृतिः सा तामसी मता ॥ ३५ ॥

३५

यया स्वप्नं निद्रां भयं त्रासं शोकं विषादं विषण्णतां मदं विषयसेवाम् आत्मनः बहुमन्यमानः मत्त इव मदम् एव च मनसि नित्यमेव कर्तव्यरूपतया कुर्वन् न विमुञ्चति धारयत्येव दुर्मेधाः कुत्सितमेधाः पुरुषः यः, तस्य धृतिः या, सा तामसी मता ॥ ३५ ॥

गुणभेदेन क्रियाणां कारकाणां च त्रिविधो भेदः उक्तः । अथ इदानीं फलस्य सुखस्य त्रिविधो भेदः उच्यते —

सुखं त्विदानीं त्रिविधं
शृणु मे भरतर्षभ ।
अभ्यासाद्रमते यत्र
दुःखान्तं च निगच्छति ॥ ३६ ॥

३६

सुखं तु इदानीं त्रिविधं शृणु, समाधानं कुरु इत्येतत् , मे मम भरतर्षभ । अभ्यासात् परिचयात् आवृत्तेः रमते रतिं प्रतिपद्यते यत्र यस्मिन् सुखानुभवे दुःखान्तं च दुःखावसानं दुःखोपशमं च निगच्छति निश्चयेन प्राप्नोति ॥ ३६ ॥

यत्तदग्रे विषमिव परि­णा­मेऽ­मृ­तो­प­मम् ।
तत्सुखं सात्त्विकं प्रोक्त­मा­त्म­बु­द्धि­प्र­सा­द­जम् ॥ ३७ ॥

३७

यत् तत् सुखम् अग्रे पूर्वं प्रथमसंनिपाते ज्ञान­वै­रा­ग्य­ध्या­न­स­मा­ध्या­रम्भे अत्य­न्ता­या­स­पू­र्व­क­त्वात् विषमिव दुःखात्मकं भवति, परिणामे ज्ञान­वै­रा­ग्या­दि­प­रि­पा­कजं सुखम् अमृतोपमम् , तत् सुखं सात्त्विकं प्रोक्तं विद्वद्भिः, आत्मनः बुद्धिः आत्मबुद्धिः, आत्मबुद्धेः प्रसादः नैर्मल्यं सलिलस्य इव स्वच्छता, ततः जातं आत्म­बु­द्धि­प्र­सा­द­जम् । आत्मविषया वा आत्मावलम्बना वा बुद्धिः आत्मबुद्धिः, तत्प्र­सा­द­प्र­क­र्षाद्वा जातमित्येतत् । तस्मात् सात्त्विकं तत् ॥ ३७ ॥

विष­ये­न्द्रि­य­सं­यो­गा­द्य­त्त­द­ग्रेऽ­मृ­तो­प­मम् ।
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ ३८ ॥

३८

विष­ये­न्द्रि­य­सं­यो­गात् जायते यत् सुखम् तत् सुखम् अग्रे प्रथमक्षणे अमृतोपमम् अमृतसमम् , परिणामे विषमिव, बल­वी­र्य­रू­प­प्र­ज्ञा­मे­धा­ध­नो­त्सा­ह­हा­नि­हे­तु­त्वात् अध­र्म­त­ज्ज­नि­त­न­र­का­दि­हे­तु­त्वाच्च परिणामे तदु­प­भो­ग­प­रि­णा­मान्ते विषमिव, तत् सुखं राजसं स्मृतम् ॥ ३८ ॥

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रा­ल­स्य­प्र­मा­दोत्थं तत्ता­म­स­मु­दा­हृ­तम् ॥ ३९ ॥

३९

यत् अग्रे च अनुबन्धे च अवसानोत्तरकाले च सुखं मोहनं मोहकरम् आत्मनः निद्रा­ल­स्य­प्र­मा­दोत्थं निद्रा च आलस्यं च प्रमादश्च तेभ्यः समुत्तिष्ठतीति निद्रा­ल­स्य­प्र­मा­दो­त्थम् , तत् तामसम् उदाहृतम् ॥ ३९ ॥

अथ इदानीं प्रक­र­णो­प­सं­हा­रार्थः श्लोकः आरभ्यते —

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृ­ति­जै­र्मुक्तं यदेभिः स्यात्त्रि­भि­र्गुणैः ॥ ४० ॥

४०

न तत् अस्ति तत् नास्ति पृथिव्यां वा मनुष्यादिषु सत्त्वं प्राणिजातम् अन्यद्वा अप्राणि, दिवि देवेषु वा पुनः सत्त्वम् , प्रकृतिजैः प्रकृतितः जातैः एभिः त्रिभिः गुणैः सत्त्वादिभिः मुक्तं परित्यक्तं यत् स्यात् , न तत् अस्ति इति पूर्वेण सम्बन्धः ॥ ४० ॥

सर्वः संसारः क्रिया­का­र­क­फ­ल­ल­क्षणः सत्त्व­र­ज­स्त­मो­गु­णा­त्मकः अवि­द्या­प­रि­क­ल्पितः समूलः अनर्थः उक्तः, वृक्षरूपकल्पनया च ‘ऊर्ध्वमूलम्’(भ. गी. १५ । १) इत्यादिना,तं च ‘असङ्गशस्त्रेण दृढेन च्छित्त्वा' 'ततः पदं तत्प­रि­मा­र्गि­त­व्यम्’(भ. गी. १५ । ३) , इति च उक्तम् । तत्र च सर्वस्य त्रिगु­णा­त्म­क­त्वात् संसा­र­का­र­ण­नि­वृ­त्त्य­नु­प­पत्तौ प्राप्तायाम् , यथा तन्निवृत्तिः स्यात् तथा वक्तव्यम् , सर्वश्च गीता­शा­स्त्रार्थः उपसंहर्तव्यः, एतावानेव च सर्व­वे­द­स्मृ­त्यर्थः पुरुषार्थम् इच्छद्भिः अनुष्ठेयः इत्येवमर्थम् ‘ब्राह्म­ण­क्ष­त्रि­य­वि­शाम्’ इत्यादिः आरभ्यते —

ब्राह्म­ण­क्ष­त्रि­य­विशां शूद्राणां च परन्तप ।
कर्माणि प्रविभक्तानि स्वभा­व­प्र­भ­वै­र्गुणैः ॥ ४१ ॥

४१

ब्राह्मणाश्च क्षत्रियाश्च विशश्च ब्राह्म­ण­क्ष­त्रि­य­विशः, तेषां ब्राह्म­ण­क्ष­त्रि­य­विशां शूद्राणां च — शूद्राणाम् असमासकरणम् एकजातित्वे सति वेदानधिकारात् — हे परन्तप, कर्माणि प्रविभक्तानि इतरेतरविभागेन व्यवस्थापितानि । केन ? स्वभावप्रभवैः गुणैः, स्वभावः ईश्वरस्य प्रकृतिः त्रिगुणात्मिका माया सा प्रभवः येषां गुणानां ते स्वभावप्रभवाः, तैः, शमादीनि कर्माणि प्रविभक्तानि ब्राह्मणादीनाम् । अथवा ब्राह्म­ण­स्व­भा­वस्य सत्त्वगुणः प्रभवः कारणम् , तथा क्षत्रि­य­स्व­भा­वस्य सत्त्वोपसर्जनं रजः प्रभवः, वैश्यस्वभावस्य तमउपसर्जनं रजः प्रभवः, शूद्रस्वभावस्य रजउपसर्जनं तमः प्रभवः, प्रशा­न्त्यै­श्व­र्ये­हा­मू­ढ­ता­स्व­भा­व­द­र्श­नात् चतुर्णाम् । अथवा, जन्मा­न्त­र­कृ­त­सं­स्कारः प्राणिनां वर्तमानजन्मनि स्वका­र्या­भि­मु­ख­त्वेन अभिव्यक्तः स्वभावः, सः प्रभवो येषां गुणानां ते स्वभावप्रभवाः गुणाः ; गुण­प्रा­दु­र्भा­वस्य निष्का­र­ण­त्वा­नु­प­पत्तेः । ‘स्वभावः कारणम्’ इति च कार­ण­वि­शे­षो­पा­दा­नम् । एवं स्वभावप्रभवैः प्रकृतिभवैः सत्त्व­र­ज­स्त­मोभिः गुणैः स्वका­र्या­नु­रू­पेण शमादीनि कर्माणि प्रविभक्तानि ॥

ननु शास्त्र­प्र­वि­भ­क्तानि शास्त्रेण विहितानि ब्राह्मणादीनां शमादीनि कर्माणि ; कथम् उच्यते सत्त्वा­दि­गु­ण­प्र­वि­भ­क्तानि इति ? नैष दोषः ; शास्त्रेणापि ब्राह्मणादीनां सत्त्वा­दि­गु­ण­वि­शे­षा­पे­क्ष­यैव शमादीनि कर्माणि प्रविभक्तानि, न गुणानपेक्षया, इति शास्त्र­प्र­वि­भ­क्ता­न्यपि कर्माणि गुणप्रविभक्तानि इति उच्यते ॥ ४१ ॥

कानि पुनः तानि कर्माणि इति, उच्यते —

शमो दमस्तपः शौचं
क्षान्ति­रा­र्ज­व­मेव च ।
ज्ञानं विज्ञा­न­मा­स्तिक्यं
ब्रह्मकर्म स्वभावजम् ॥ ४२ ॥

४२

शमः दमश्च यथा­व्या­ख्या­तार्थौ, तपः यथोक्तं शारीरादि, शौचं व्याख्यातम् , क्षान्तिः क्षमा, आर्जवम् ऋजुता एव च ज्ञानं विज्ञानम् , आस्तिक्यम् आस्तिकभावः श्रद्दधानता आगमार्थेषु, ब्रह्मकर्म ब्राह्मणजातेः कर्म स्वभावजम् — यत् उक्तं स्वभा­व­प्र­भ­वै­र्गुणैः प्रविभक्तानि इति तदेवोक्तं स्वभावजम् इति ॥ ४२ ॥

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ ४३ ॥

४३

शौर्यं शूरस्य भावः, तेजः प्रागल्भ्यम् , धृतिः धारणम् , सर्वावस्थासु अनवसादः भवति यया धृत्या उत्तम्भितस्य, दाक्ष्यं दक्षस्य भावः, सहसा प्रत्यु­त्प­न्नेषु कार्येषु अव्यामोहेन प्रवृत्तिः, युद्धे चापि अपलायनम् अपराङ्मुखीभावः शत्रुभ्यः, दानं देयद्रव्येषु मुक्तहस्तता, ईश्वरभावश्च ईश्वरस्य भावः, प्रभु­श­क्ति­प्र­क­टी­क­र­णम् ईशितव्यान् प्रति, क्षात्रं कर्म क्षत्रियजातेः विहितं कर्म क्षात्रं कर्म स्वभावजम् ॥ ४३ ॥

कृषि­गौ­र­क्ष्य­वा­णिज्यं वैश्यकर्म स्वभावजम् ।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ ४४ ॥

४४

कृषि­गौ­र­क्ष्य­वा­णिज्यं कृषिश्च गौरक्ष्यं च वाणिज्यं च कृषि­गौ­र­क्ष्य­वा­णि­ज्यम् , कृषिः भूमेः विलेखनम् , गौरक्ष्यं गाः रक्षतीति गोरक्षः तस्य भावः गौरक्ष्यम् , पाशुपाल्यम् इत्यर्थः, वाणिज्यं वणिक्कर्म क्रय­वि­क्र­या­दि­ल­क्षणं वैश्यकर्म वैश्यजातेः कर्म वैश्यकर्म स्वभावजम् । परिचर्यात्मकं शुश्रूषास्वभावं कर्म शूद्रस्यापि स्वभावजम् ॥ ४४ ॥

एतेषां जातिविहितानां कर्मणां सम्य­ग­नु­ष्ठि­तानां स्वर्गप्राप्तिः फलं स्वभावतः, ‘वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशि­ष्ट­दे­श­जा­ति­कु­ल­ध­र्मा­युः­श्रु­त­वृ­त्त­वि­त्त­सु­ख­मे­धसो जन्म प्रतिपद्यन्ते’(गौ. ध. २ । २ । २९) , इत्या­दि­स्मृ­तिभ्यः ; पुराणे च वर्णिनाम् आश्रमिणां च लोक­फ­ल­भे­द­वि­शे­ष­स्म­र­णात् । कारणान्तरात्तु इदं वक्ष्यमाणं फलम् —

स्वे स्वे कर्मण्यभिरतः
संसिद्धिं लभते नरः ।
स्वकर्मनिरतः सिद्धिं
यथा विन्दति तच्छृणु ॥ ४५ ॥

४५

स्वे स्वे यथोक्तलक्षणभेदे कर्मणि अभिरतः तत्परः संसिद्धिं स्वक­र्मा­नु­ष्ठा­नात् अशुद्धिक्षये सति कायेन्द्रियाणां ज्ञान­नि­ष्ठा­यो­ग्य­ता­ल­क्षणां संसिद्धिं लभते प्राप्नोति नरः अधिकृतः पुरुषः ; किं स्वक­र्मा­नु­ष्ठा­नत एव साक्षात् संसिद्धिः ? न ; कथं तर्हि ? स्वकर्मनिरतः सिद्धिं यथा येन प्रकारेण विन्दति, तत् शृणु ॥ ४५ ॥

यतः प्रवृ­त्ति­र्भू­तानां
येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य
सिद्धिं विन्दति मानवः ॥ ४६ ॥

४६

यतः यस्मात् प्रवृत्तिः उत्पत्तिः चेष्टा वा यस्मात् अन्तर्यामिणः ईश्वरात् भूतानां प्राणिनां स्यात् , येन ईश्वरेण सर्वम् इदं ततं जगत् व्याप्तं स्वकर्मणा पूर्वोक्तेन प्रतिवर्णं तम् ईश्वरम् अभ्यर्च्य पूजयित्वा आराध्य केवलं ज्ञान­नि­ष्ठा­यो­ग्य­ता­ल­क्षणां सिद्धिं विन्दति मानवः मनुष्यः ॥ ४६ ॥

यतः एवम् , अतः —

श्रेया­न्स्व­धर्मो विगुणः
पर­ध­र्मा­त्स्व­नु­ष्ठि­तात् ।
स्वभावनियतं कर्म
कुर्वन्नाप्नोति किल्बिषम् ॥ ४७ ॥

४७

श्रेयान् प्रशस्यतरः स्वो धर्मः स्वधर्मः, विगुणोऽपि इति अपिशब्दो द्रष्टव्यः, परधर्मात् । स्वभावनियतं स्वभावेन नियतम् , यदुक्तं स्वभावजमिति, तदेवोक्तं स्वभावनियतम् इति ; यथा विषजातस्य कृमेः विषं न दोषकरम् , तथा स्वभावनियतं कर्म कुर्वन् न आप्नोति किल्बिषं पापम् ॥ ४७ ॥

स्वभावनियतं कर्म कुर्वाणो विषजः इव कृमिः किल्बिषं न आप्नोतीति उक्तम् ; परधर्मश्च भयावहः इति, अनात्मज्ञश्च ‘न हि कश्चित्क्षणमपि अक­र्म­कृ­त्ति­ष्ठति’(भ. गी. ३ । ५) इति । अतः —

सहजं कर्म कौन्तेय
सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण
धूमे­ना­ग्नि­रि­वा­वृताः ॥ ४८ ॥

४८

सहजं सह जन्मनैव उत्पन्नम् । किं तत् ? कर्म कौन्तेय सदोषमपि त्रिगु­णा­त्म­क­त्वात् न त्यजेत् । सर्वारम्भाः आरभ्यन्त इति आरम्भाः, सर्वकर्माणि इत्येतत् ; प्रकरणात् ये केचित् आरम्भाः स्वधर्माः परधर्माश्च, ते सर्वे हि यस्मात् — त्रिगु­णा­त्म­क­त्वम् अत्र हेतुः — त्रिगु­णा­त्म­क­त्वात् दोषेण धूमेन सहजेन अग्निरिव, आवृताः । सहजस्य कर्मणः स्वधर्माख्यस्य परित्यागेन पर­ध­र्मा­नु­ष्ठा­नेऽपि दोषात् नैव मुच्यते ; भयावहश्च परधर्मः । न च शक्यते अशेषतः त्यक्तुम् अज्ञेन कर्म यतः, तस्मात् न त्यजेत् इत्यर्थः ॥

किम् अशेषतः त्यक्तुम् अशक्यं कर्म इति न त्यजेत् ? किं वा सहजस्य कर्मणः त्यागे दोषो भवतीति ? किं च अतः ? यदि तावत् अशेषतः त्यक्तुम् अशक्यम् इति न त्याज्यं सहजं कर्म, एवं तर्हि अशेषतः त्यागे गुण एव स्यादिति सिद्धं भवति । सत्यम् एवम् ; अशेषतः त्याग एव न उपपद्यते इति चेत् , किं नित्य­प्र­च­लि­ता­त्मकः पुरुषः, यथा साङ्ख्यानां गुणाः ? किं वा क्रियैव कारकम् , यथा बौद्धानां स्कन्धाः क्षणप्रध्वंसिनः ? उभयथापि कर्मणः अशेषतः त्यागः न सम्भवति । अथ तृतीयोऽपि पक्षः — यदा करोति तदा सक्रियं वस्तु । यदा न करोति, तदा निष्क्रियं तदेव । तत्र एवं सति शक्यं कर्म अशेषतः त्यक्तुम् । अयं तु अस्मिन् तृतीये पक्षे विशेषः — न नित्यप्रचलितं वस्तु, नापि क्रियैव कारकम् । किं तर्हि ? व्यवस्थिते द्रव्ये अविद्यमाना क्रिया उत्पद्यते, विद्यमाना च विनश्यति । शुद्धं तत् द्रव्यं शक्तिमत् अवतिष्ठते । इति एवम् आहुः काणादाः । तदेव च कारकम् इति । अस्मिन् पक्षे को दोषः इति । अयमेव तु दोषः — यतस्तु अभागवतं मतम् इदम् । कथं ज्ञायते ? यतः आह भगवान् ‘नासतो विद्यते भावः’(भ. गी. २ । १६) इत्यादि । काणादानां हि असतः भावः, सतश्च अभावः, इति इदं मतम् अभागवतम् । अभागवतमपि न्यायवच्चेत् को दोषः इति चेत् , उच्यते — दोषवत्तु इदम् , सर्व­प्र­मा­ण­वि­रो­धात् । कथम् ? यदि तावत् द्व्यणुकादि द्रव्यं प्राक् उत्पत्तेः अत्यन्तमेव असत् , उत्पन्नं च स्थितं कञ्चित् कालं पुनः अत्यन्तमेव असत्त्वम् आपद्यते, तथा च सति असदेव सत् जायते, सदेव असत्त्वम् आपद्यते, अभावः भावो भवति, भावश्च अभावो भवति ; तत्र अभावः जायमानः प्राक् उत्पत्तेः शशविषाणकल्पः सम­वा­य्य­स­म­वा­यि­नि­मि­त्ताख्यं कारणम् अपेक्ष्य जायते इति । न च एवम् अभावः उत्पद्यते, कारणं च अपेक्षते इति शक्यं वक्तुम् , असतां शशविषाणादीनाम् अदर्शनात् । भावात्मकाश्चेत् घटादयः उत्पद्यमानाः, किञ्चित् अभि­व्य­क्ति­मात्रे कारणम् अपेक्ष्य उत्पद्यन्ते इति शक्यं प्रतिपत्तुम् । किञ्च, असतश्च सतश्च सद्भावे असद्भावे न क्वचित् प्रमा­ण­प्र­मे­य­व्य­व­हा­रेषु विश्वासः कस्यचित् स्यात् , ‘सत् सदेव असत् असदेव’ इति निश्च­या­नु­प­पत्तेः ॥

किञ्च, उत्पद्यते इति द्व्यणुकादेः द्रव्यस्य स्वका­र­ण­स­त्ता­स­म्ब­न्धम् आहुः । प्राक् उत्पत्तेश्च असत् , पश्चात् कारणव्यापारम् अपेक्ष्य स्वकारणैः परमाणुभिः सत्तया च समवायलक्षणेन सम्बन्धेन सम्बध्यते । सम्बद्धं सत् कारणसमवेतं सत् भवति । तत्र वक्तव्यं कथम् असतः स्वं कारणं भवेत् सम्बन्धो वा केनचित् स्यात् ? न हि वन्ध्यापुत्रस्य स्वं कारणं सम्बन्धो वा केनचित् प्रमाणतः कल्पयितुं शक्यते ॥

ननु नैवं वैशेषिकैः अभावस्य सम्बन्धः कल्प्यते । द्व्यणुकादीनां हि द्रव्याणां स्वका­र­ण­स­म­वा­य­ल­क्षणः सम्बन्धः सतामेव उच्यते इति । न ; सम्बन्धात् प्राक् सत्त्वा­न­भ्यु­प­ग­मात् । न हि वैशेषिकैः कुला­ल­द­ण्ड­च­क्रा­दि­व्या­पा­रात् प्राक् घटादीनाम् अस्तित्वम् इष्यते । न च मृद एव घटा­द्या­का­र­प्रा­प्तिम् इच्छन्ति । ततश्च असत एव सम्बन्धः पारिशेष्यात् इष्टो भवति ॥

ननु असतोऽपि समवायलक्षणः सम्बन्धः न विरुद्धः । न ; वन्ध्या­पु­त्रा­दी­नाम् अदर्शनात् । घटादेरेव प्रागभावस्य स्वकारणसम्बन्धो भवति न वन्ध्या­पु­त्रादेः, अभावस्य तुल्यत्वेऽपि इति विशेषः अभावस्य वक्तव्यः । एकस्य अभावः, द्वयोः अभावः, सर्वस्य अभावः, प्रागभावः, प्रध्वंसाभावः, इतरेतराभावः, अत्यन्ताभावः इति लक्षणतो न केनचित् विशेषो दर्शयितुं शक्यः । असति च विशेषे घटस्य प्रागभावः एव कुलालादिभिः घटभावम् आपद्यते सम्बध्यते च भावेन कपालाख्येन, सम्बद्धश्च सर्व­व्य­व­हा­र­यो­ग्यश्च भवति, न तु घटस्यैव प्रध्वंसाभावः अभावत्वे सत्यपि, इति प्रध्वं­सा­द्य­भा­वानां न क्वचित् व्यव­हा­र­यो­ग्य­त्वम् , प्रागभावस्यैव द्व्यणु­का­दि­द्र­व्या­ख्यस्य उत्प­त्त्या­दि­व्य­व­हा­रा­र्ह­त्वम् इत्येतत् असमञ्जसम् ; अभा­व­त्वा­वि­शे­षात् अत्य­न्त­प्र­ध्वं­सा­भा­व­यो­रिव ॥

ननु नैव अस्माभिः प्रागभावस्य भावापत्तिः उच्यते । भावस्यैव तर्हि भावापत्तिः ; यथा घटस्य घटापत्तिः, पटस्य वा पटापत्तिः । एतदपि अभावस्य भावापत्तिवदेव प्रमाणविरुद्धम् । साङ्ख्यस्यापि यः परिणामपक्षः सोऽपि अपू­र्व­ध­र्मो­त्प­त्ति­वि­ना­शा­ङ्गी­क­र­णात् वैशेषिकपक्षात् न विशिष्यते । अभि­व्य­क्ति­ति­रो­भा­वा­ङ्गी­क­र­णेऽपि अभि­व्य­क्ति­ति­रो­भा­वयोः विद्य­मा­न­त्वा­वि­द्य­मा­न­त्व­नि­रू­पणे पूर्ववदेव प्रमाणविरोधः । एतेन कारणस्यैव संस्थानम् उत्पत्त्यादि इत्येतदपि प्रत्युक्तम् ॥

पारिशेष्यात् सत् एकमेव वस्तु अविद्यया उत्प­त्ति­वि­ना­शा­दि­धर्मैः अनेकधा नटवत् विकल्प्यते इति । इदं भागवतं मतम् उक्तम् ‘नासतो विद्यते भावः’(भ. गी. २ । १६) इत्यस्मिन् श्लोके, सत्प्रत्ययस्य अव्यभिचारात् , व्यभिचाराच्च इतरेषामिति ॥

कथं तर्हि आत्मनः अविक्रियत्वे अशेषतः कर्मणः त्यागः न उपपद्यते इति ? यदि वस्तुभूताः गुणाः, यदि वा अवि­द्या­क­ल्पिताः, तद्धर्मः कर्म, तदा आत्मनि अवि­द्या­ध्या­रो­पि­त­मेव इति अविद्वान् ‘न हि कश्चित् क्षणमपि अशेषतः त्यक्तुं शक्नोति’(भ. गी. ३ । ५) इति उक्तम् । विद्वांस्तु पुनः विद्यया अविद्यायां निवृत्तायां शक्नोत्येव अशेषतः कर्म परित्यक्तुम् , अवि­द्या­ध्या­रो­पि­तस्य शेषानुपपत्तेः । न हि तैमिरिकदृष्ट्या अध्यारोपितस्य द्विचन्द्रादेः तिमिरापगमेऽपि शेषः अवतिष्ठते । एवं च सति इदं वचनम् उपपन्नम् ‘सर्वकर्माणि मनसा’(भ. गी. ५ । १३) इत्यादि, ‘स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः’(भ. गी. १८ । ४५) ‘स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः’(भ. गी. १८ । ४६) इति च ॥ ४८ ॥

या कर्मजा सिद्धिः उक्ता ज्ञान­नि­ष्ठा­यो­ग्य­ता­ल­क्षणा, तस्याः फलभूता नैष्क­र्म्य­सिद्धिः ज्ञान­नि­ष्ठा­ल­क्षणा च वक्तव्येति श्लोकः आरभ्यते —

असक्तबुद्धिः सर्वत्र
जितात्मा विगतस्पृहः ।
नैष्क­र्म्य­सिद्धिं परमां
संन्या­से­ना­धि­ग­च्छति ॥ ४९ ॥

४९

असक्तबुद्धिः असक्ता सङ्गरहिता बुद्धिः अन्तःकरणं यस्य सः असक्तबुद्धिः सर्वत्र पुत्रदारादिषु आस­क्ति­नि­मि­त्तेषु, जितात्मा जितः वशीकृतः आत्मा अन्तःकरणं यस्य सः जितात्मा, विगतस्पृहः विगता स्पृहा तृष्णा देहजीवितभोगेषु यस्मात् सः विगतस्पृहः, यः एवंभूतः आत्मज्ञः सः नैष्क­र्म्य­सिद्धिं निर्गतानि कर्माणि यस्मात् निष्क्रि­य­ब्र­ह्मा­त्म­स­म्बो­धात् सः निष्कर्मा तस्य भावः नैष्कर्म्यम् , नैष्कर्म्यं च तत् सिद्धिश्च सा नैष्क­र्म्य­सिद्धिः, निष्कर्मत्वस्य वा निष्क्रि­या­त्म­रू­पा­व­स्था­न­ल­क्ष­णस्य सिद्धिः निष्पत्तिः, तां नैष्क­र्म्य­सिद्धिं परमां प्रकृष्टां कर्म­ज­सि­द्धि­वि­ल­क्षणां सद्यो­मु­क्त्य­व­स्था­न­रूपां संन्यासेन सम्यग्दर्शनेन तत्पूर्वकेण वा सर्व­क­र्म­सं­न्या­सेन, अधिगच्छति प्राप्नोति । तथा च उक्तम् — ‘सर्वकर्माणि मनसा संन्यस्य नैव कुर्वन्न कारयन्नास्ते’(भ. गी. ५ । १३) इति ॥ ४९ ॥

पूर्वोक्तेन स्वक­र्मा­नु­ष्ठा­नेन ईश्व­रा­भ्य­र्च­न­रू­पेण जनितां प्रागु­क्त­ल­क्षणां सिद्धिं प्राप्तस्य उत्प­न्ना­त्म­वि­वे­क­ज्ञा­नस्य केव­ला­त्म­ज्ञा­न­नि­ष्ठा­रूपा नैष्क­र्म्य­ल­क्षणा सिद्धिः येन क्रमेण भवति, तत् वक्तव्यमिति आह —

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥

५०

सिद्धिं प्राप्तः स्वकर्मणा ईश्वरं समभ्यर्च्य तत्प्रसादजां कायेन्द्रियाणां ज्ञान­नि­ष्ठा­यो­ग्य­ता­ल­क्षणां सिद्धिं प्राप्तः — सिद्धिं प्राप्तः इति तदनुवादः उत्तरार्थः । किं तत् उत्तरम् , यदर्थः अनुवादः इति, उच्यते — यथा येन प्रकारेण ज्ञान­नि­ष्ठा­रू­पेण ब्रह्म परमात्मानम् आप्नोति, तथा तं प्रकारं ज्ञान­नि­ष्ठा­प्रा­प्ति­क्रमं मे मम वचनात् निबोध त्वं निश्चयेन अवधारय इत्येतत् । किं विस्तरेण ? न इति आह — समासेनैव सङ्क्षेपेणैव हे कौन्तेय, यथा ब्रह्म प्राप्नोति तथा निबोधेति । अनेन या प्रतिज्ञाता ब्रह्म­प्राप्तिः, ताम् इदन्तया दर्शयितुम् आह — ‘निष्ठा ज्ञानस्य या परा’ इति । निष्ठा पर्यवसानं परिसमाप्तिः इत्येतत् । कस्य ? ब्रह्मज्ञानस्य या परा । कीदृशी सा ? यादृशम् आत्मज्ञानम् । कीदृक् तत् ? यादृशः आत्मा । कीदृशः सः ? यादृशो भगवता उक्तः, उप­नि­ष­द्वा­क्यैश्च न्यायतश्च ॥

ननु विषयाकारं ज्ञानम् । न ज्ञानविषयः, नापि आकारवान् आत्मा इष्यते क्वचित् । ननु ‘आदित्यवर्णम्’(श्वे. उ. ३ । ८)‘आदित्यवर्णम्’(श्वे. उ. ३ । ८) ‘भारूपः’(छा. उ. ३ । १४ । २) ‘स्वयञ्ज्योतिः’(बृ. उ. ४ । ३ । ९) इति आकारवत्त्वम् आत्मनः श्रूयते । न ; तमो­रू­प­त्व­प्र­ति­षे­धा­र्थ­त्वात् तेषां वाक्यानाम् — द्रव्य­गु­णा­द्या­का­र­प्र­ति­षेधे आत्मनः तमोरूपत्वे प्राप्ते तत्प्र­ति­षे­धा­र्थानि ‘आदित्यवर्णम्’ इत्यादीनि वाक्यानि । ‘अरूपम्’(क. उ. १ । ३ । १५) इति च विशेषतः रूपप्रतिषेधात् । अविषयत्वाच्च — ‘न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्’(श्वे. उ. ४ । २०) ‘अश­ब्द­म­स्प­र्शम्’(क. उ. १ । ३ । १५) इत्यादेः । तस्मात् आत्माकारं ज्ञानम् इति अनुपपन्नम् ॥

कथं तर्हि आत्मनः ज्ञानम् ? सर्वं हि यद्विषयं यत् ज्ञानम् , तत् तदाकारं भवति । निराकारश्च आत्मा इत्युक्तम् । ज्ञानात्मनोश्च उभयोः निराकारत्वे कथं तद्भावनानिष्ठा इति ? न ; अत्य­न्त­नि­र्म­ल­त्वा­ति­स्व­च्छ­त्वा­ति­सू­क्ष्म­त्वो­प­पत्तेः आत्मनः । बुद्धेश्च आत्मवत् नैर्म­ल्या­द्यु­प­पत्तेः आत्म­चै­त­न्या­का­रा­भा­स­त्वो­प­पत्तिः । बुद्ध्याभासं मनः, तदाभासानि इन्द्रियाणि, इन्द्रियाभासश्च देहः । अतः लौकिकैः देहमात्रे एव आत्मदृष्टिः क्रियते ॥

देह­चै­त­न्य­वा­दि­नश्च लोकायतिकाः ‘चैतन्यविशिष्टः कायः पुरुषः’ इत्याहुः । तथा अन्ये इन्द्रि­य­चै­त­न्य­वा­दिनः, अन्ये मन­श्चै­त­न्य­वा­दिनः, अन्ये बुद्धि­चै­त­न्य­वा­दिनः । ततोऽपि आन्तरम् अव्यक्तम् अव्याकृताख्यम् अविद्यावस्थम् आत्मत्वेन प्रतिपन्नाः केचित् । सर्वत्र बुद्ध्या­दि­दे­हान्ते आत्म­चै­त­न्या­भा­सता आत्म­भ्रा­न्ति­का­र­णम् इत्यतश्च आत्मविषयं ज्ञानं न विधातव्यम् । किं तर्हि ? नाम­रू­पा­द्य­ना­त्मा­ध्या­रो­प­ण­नि­वृ­त्ति­रेव कार्या, नात्म­चै­त­न्य­वि­ज्ञानं कार्यम् , अवि­द्या­ध्या­रो­पि­त­स­र्व­प­दा­र्था­कारैः अविशिष्टतया दृश्यमानत्वात् इति । अत एव हि विज्ञानवादिनो बौद्धाः विज्ञा­न­व्य­ति­रे­केण वस्त्वेव नास्तीति प्रतिपन्नाः, प्रमा­णा­न्त­र­नि­र­पे­क्षतां च स्वसं­वि­दि­त­त्वा­भ्यु­प­ग­मेन । तस्मात् अवि­द्या­ध्या­रो­पि­त­नि­रा­क­र­ण­मात्रं ब्रह्मणि कर्तव्यम् , न तु ब्रह्मविज्ञाने यत्नः, अत्य­न्त­प्र­सि­द्ध­त्वात् । अवि­द्या­क­ल्पि­त­ना­म­रू­प­वि­शे­षा­का­रा­प­हृ­त­बु­द्धी­नाम् अत्य­न्त­प्र­सिद्धं सुविज्ञेयम् आसन्नतरम् आत्मभूतमपि, अप्रसिद्धं दुर्विज्ञेयम् अतिदूरम् अन्यदिव च प्रतिभाति अविवेकिनाम् । बाह्या­का­र­नि­वृ­त्त­बु­द्धीनां तु लब्ध­गु­र्वा­त्म­प्र­सा­दानां न अतः परं सुखं सुप्रसिद्धं सुविज्ञेयं स्वासन्नतरम् अस्ति । तथा चोक्तम् — ‘प्रत्यक्षावगमं धर्म्यम्’(भ. गी. ९ । २) इत्यादि ॥

केचित्तु पण्डितंमन्याः ‘निराकारत्वात् आत्मवस्तु न उपैति बुद्धिः । अतः दुःसाध्या सम्य­ग्ज्ञा­न­निष्ठा’ इत्याहुः। सत्यम् ; एवं गुरु­स­म्प्र­दा­य­र­हि­ता­नाम् अश्रु­त­वे­दा­न्ता­नाम् अत्य­न्त­ब­हि­र्वि­ष­या­स­क्त­बु­द्धीनां सम्यक्प्रमाणेषु अकृतश्रमाणाम् । तद्विपरीतानां तु लौकि­क­ग्रा­ह्य­ग्रा­ह­क­द्वै­त­व­स्तुनि सद्बुद्धिः नितरां दुःसम्पादा, आत्म­चै­त­न्य­व्य­ति­रे­केण वस्त्वन्तरस्य अनुपलब्धेः, यथा च ‘एतत् एवमेव, न अन्यथा’ इति अवोचाम ; उक्तं च भगवता ‘यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः’(भ. गी. २ । ६९) इति । तस्मात् बाह्या­का­र­भे­द­बु­द्धि­नि­वृ­त्ति­रेव आत्म­स्व­रू­पा­व­ल­म्ब­न­का­र­णम् । न हि आत्मा नाम कस्यचित् कदाचित् अप्रसिद्धः प्राप्यः हेयः उपादेयो वा ; अप्रसिद्धे हि तस्मिन् आत्मनि स्वार्थाः सर्वाः प्रवृत्तयः व्यर्थाः प्रसज्येरन् । न च देहा­द्य­चे­त­ना­र्थत्वं शक्यं कल्पयितुम् । न च सुखार्थं सुखम् , दुःखार्थं दुःखम् । आत्मा­व­ग­त्य­व­सा­ना­र्थ­त्वाच्च सर्वव्यवहारस्य । तस्मात् यथा स्वदेहस्य परिच्छेदाय न प्रमा­णा­न्त­रा­पेक्षा, ततोऽपि आत्मनः अन्तरतमत्वात् तदवगतिं प्रति न प्रमा­णा­न्त­रा­पेक्षा ; इति आत्मज्ञाननिष्ठा विवेकिनां सुप्रसिद्धा इति सिद्धम् ॥

येषामपि निराकारं ज्ञानम् अप्रत्यक्षम् , तेषामपि ज्ञानवशेनैव ज्ञेयावगतिरिति ज्ञानम् अत्य­न्त­प्र­सिद्धं सुखादिवदेव इति अभ्युपगन्तव्यम् । जिज्ञा­सा­नु­प­प­त्तेश्च — अप्रसिद्धं चेत् ज्ञानम् , ज्ञेयवत् जिज्ञास्येत । यथा ज्ञेयं घटादिलक्षणं ज्ञानेन ज्ञाता व्याप्तुम् इच्छति, तथा ज्ञानमपि ज्ञानान्तरेण ज्ञातव्यम् आप्तुम् इच्छेत् । न एतत् अस्ति । अतः अत्य­न्त­प्र­सिद्धं ज्ञानम् , ज्ञातापि अत एव प्रसिद्धः इति । तस्मात् ज्ञाने यत्नो न कर्तव्यः, किं तु अनात्मनि आत्म­बु­द्धि­नि­वृ­त्ता­वेव । तस्मात् ज्ञाननिष्ठा सुसम्पाद्या ॥ ५० ॥

सा इयं ज्ञानस्य परा निष्ठा उच्यते, कथं कार्या इति —

बुद्ध्या विशुद्धया युक्तो
धृत्यात्मानं नियम्य च ।
शब्दा­दी­न्वि­ष­यां­स्त्यक्त्वा
रागद्वेषौ व्युदस्य च ॥ ५१ ॥

५१

बुद्ध्या अध्यवसायलक्षणया विशुद्धया मायारहितया युक्तः सम्पन्नः, धृत्या धैर्येण आत्मानं कार्यकरणसङ्घातं नियम्य च नियमनं कृत्वा वशीकृत्य, शब्दादीन् शब्दः आदिः येषां तान् विषयान् त्यक्त्वा, सामर्थ्यात् शरी­र­स्थि­ति­मा­त्र­हे­तु­भू­तान् केवलान् मुक्त्वा ततः अधिकान् सुखार्थान् त्यक्त्वा इत्यर्थः, शरी­र­स्थि­त्य­र्थ­त्वेन प्राप्तेषु रागद्वेषौ व्युदस्य च परित्यज्य च ॥ ५१ ॥

ततः —

विविक्तसेवी लघ्वाशी
यतवाक्कायमानसः ।
ध्यानयोगपरो नित्यं
वैराग्यं समुपाश्रितः ॥ ५२ ॥

५२

विविक्तसेवी अर­ण्य­न­दी­पु­लि­न­गि­रि­गु­हा­दीन् विविक्तान् देशान् सेवितुं शीलम् अस्य इति विविक्तसेवी, लघ्वाशी लघ्वशनशीलः — विवि­क्त­से­वा­ल­घ्व­श­नयोः निद्रा­दि­दो­ष­नि­व­र्त­क­त्वेन चित्त­प्र­सा­द­हे­तु­त्वात् ग्रहणम् ; यतवाक्कायमानसः वाक् च कायश्च मानसं च यतानि संयतानि यस्य ज्ञाननिष्ठस्य सः ज्ञाननिष्ठः यतिः यतवाक्कायमानसः स्यात् । एवम् उपरतसर्वकरणः सन् ध्यानयोगपरः ध्यानम् आत्म­स्व­रू­प­चि­न्त­नम् , योगः आत्मविषये एकाग्रीकरणम् तौ परत्वेन कर्तव्यौ यस्य सः ध्यानयोगपरः नित्यं नित्यग्रहणं मन्त्र­ज­पा­द्य­न्य­क­र्त­व्या­भा­व­प्र­द­र्श­ना­र्थम् , वैराग्यं विरागस्य भावः दृष्टादृष्टेषु विषयेषु वैतृष्ण्यं समुपाश्रितः सम्यक् उपाश्रितः नित्यमेव इत्यर्थः ॥ ५२ ॥

किञ्च —

अहङ्कारं बलं दर्पं
कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो
ब्रह्मभूयाय कल्पते ॥ ५३ ॥

५३

अहङ्कारम् अहङ्करणम् अहङ्कारः देहादिषु तम् , बलं सामर्थ्यं कामरागसंयुक्तम् — न इतरत् शरी­रा­दि­सा­मर्थ्यं स्वाभाविकत्वेन तत्त्यागस्य अशक्यत्वात् — दर्पं दर्पो नाम हर्षानन्तरभावी धर्मा­ति­क्र­म­हेतुः ‘हृष्टो दृप्यति दृप्तो धर्ममतिक्रामति’(आ. ध. सू. १ । १३ । ४) इति स्मरणात् ; तं च, कामम् इच्छां क्रोधं द्वेषं परिग्रहम् इन्द्रि­य­म­नो­ग­त­दो­ष­प­रि­त्या­गेऽपि शरी­र­धा­र­ण­प्र­स­ङ्गेन धर्मा­नु­ष्ठा­न­नि­मि­त्तेन वा बाह्यः परिग्रहः प्राप्तः, तं च विमुच्य परित्यज्य, पर­म­हं­स­प­रि­व्रा­जको भूत्वा, देह­जी­व­न­मा­त्रेऽपि निर्गतममभावः निर्ममः, अत एव शान्तः उपरतः, यः संहृतहर्षायासः यतिः ज्ञाननिष्ठः ब्रह्मभूयाय ब्रह्मभवनाय कल्पते समर्थो भवति ॥ ५३ ॥

अनेन क्रमेण —

ब्रह्मभूतः प्रसन्नात्मा
न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु
मद्भक्तिं लभते पराम् ॥ ५४ ॥

५४

ब्रह्मभूतः ब्रह्मप्राप्तः प्रसन्नात्मा लब्धा­ध्या­त्म­प्र­सा­द­स्व­भावः न शोचति, किञ्चित् अर्थवैकल्यम् आत्मनः वैगुण्यं वा उद्दिश्य न शोचति न सन्तप्यते ; न काङ्क्षति, न हि अप्रा­प्त­वि­ष­या­काङ्क्षा ब्रह्मविदः उपपद्यते ; अतः ब्रह्मभूतस्य अयं स्वभावः अनूद्यते — न शोचति न काङ्क्षति इति । ‘न हृष्यति’ इति वा पाठान्तरम् । समः सर्वेषु भूतेषु, आत्मौपम्येन सर्वभूतेषु सुखं दुःखं वा सममेव पश्यति इत्यर्थः । न आत्मसमदर्शनम् इह, तस्य वक्ष्यमाणत्वात् ‘भक्त्या मामभिजानाति’(भ. गी. १८ । ५५) इति । एवंभूतः ज्ञाननिष्ठः, मद्भक्तिं मयि परमेश्वरे भक्तिं भजनं पराम् उत्तमां ज्ञानलक्षणां चतुर्थीं लभते, ‘चतुर्विधा भजन्ते माम्’(भ. गी. ७ । १६) इति हि उक्तम् ॥ ५४ ॥

ततः ज्ञानलक्षणया —

भक्त्या मामभिजानाति
यावान्यश्चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा
विशते तदनन्तरम् ॥ ५५ ॥

५५

भक्त्या माम् अभिजानाति यावान् अहम् उपा­धि­कृ­त­वि­स्त­र­भेदः, यश्च अहम् अस्मि विध्व­स्त­स­र्वो­पा­धि­भेदः उत्तमः पुरुषः आकाशकल्पः, तं माम् अद्वैतं चैत­न्य­मा­त्रै­क­र­सम् अजरम् अभयम् अनिधनं तत्त्वतः अभिजानाति । ततः माम् एवं तत्त्वतः ज्ञात्वा विशते तदनन्तरं मामेव ज्ञानानन्तरम् । नात्र ज्ञान­प्र­वे­श­क्रिये भिन्ने विवक्षिते ‘ज्ञात्वा विशते तदनन्तरम्’ इति । किं तर्हि ? फलान्तराभावात् ज्ञानमात्रमेव, ‘क्षेत्रज्ञं चापि मां विद्धि’(भ. गी. १३ । २) इति उक्तत्वात् ॥

ननु विरुद्धम् इदम् उक्तम् ‘ज्ञानस्य या परा निष्ठा तया माम् अभिजानाति’ इति । कथं विरुद्धम् इति चेत् , उच्यते — यदैव यस्मिन् विषये ज्ञानम् उत्पद्यते ज्ञातुः, तदैव तं विषयम् अभिजानाति ज्ञाता इति न ज्ञाननिष्ठां ज्ञाना­वृ­त्ति­ल­क्ष­णाम् अपेक्षते इति ; अतश्च ज्ञानेन न अभिजानाति, ज्ञानावृत्त्या तु ज्ञाननिष्ठया अभिजानातीति । नैष दोषः ; ज्ञानस्य स्वात्मो­त्प­त्ति­प­रि­पा­क­हे­तु­यु­क्तस्य प्रति­प­क्ष­वि­ही­नस्य यत् आत्मा­नु­भ­व­नि­श्च­या­व­सा­नत्वं तस्य निष्ठा­श­ब्दा­भि­ला­पात् । शास्त्रा­चा­र्यो­प­दे­शेन ज्ञानो­त्प­त्ति­हेतुं सहकारिकारणं बुद्धि­वि­शु­द्ध­त्वादि अमानित्वादिगुणं च अपेक्ष्य जनितस्य क्षेत्र­ज्ञ­प­र­मा­त्मै­क­त्व­ज्ञा­नस्य कर्तृ­त्वा­दि­का­र­क­भे­द­बु­द्धि­नि­ब­न्ध­न­स­र्व­क­र्म­सं­न्या­स­स­हि­तस्य स्वात्मा­नु­भ­व­नि­श्च­य­रू­पेण यत् अवस्थानम् , सा परा ज्ञाननिष्ठा इति उच्यते । सा इयं ज्ञाननिष्ठा आर्ता­दि­भ­क्ति­त्र­या­पे­क्षया परा चतुर्थी भक्तिरिति उक्ता । तया परया भक्त्या भगवन्तं तत्त्वतः अभिजानाति, यदनन्तरमेव ईश्व­र­क्षे­त्र­ज्ञ­भे­द­बुद्धिः अशेषतः निवर्तते । अतः ज्ञान­नि­ष्ठा­ल­क्ष­णया भक्त्या माम् अभिजानातीति वचनं न विरुध्यते ।

अत्र च सर्वं निवृत्तिविधायि शास्त्रं वेदा­न्ते­ति­हा­स­पु­रा­ण­स्मृ­ति­ल­क्षणं न्यायप्रसिद्धम् अर्थवत् भवति — ‘विदित्वा . . . व्युत्थायाथ भिक्षाचर्यं चरन्ति’(बृ. उ. ३ । ५ । १) ‘तस्मा­न्न्या­स­मेषां तप­सा­म­ति­रि­क्त­माहुः’(तै. ना. ७९) ‘न्यास एवात्यरेचयत्’(तै. ना. ७८) इति । ‘संन्यासः कर्मणां न्यासः’(?) ‘वेदानिमं च लोकममुं च परित्यज्य’(आ. ध. २ । ९ । १३) ‘त्यज धर्ममधर्मं च’(मो. ध. ३२९ । ४०) इत्यादि । इह च प्रदर्शितानि वाक्यानि । न च तेषां वाक्यानाम् आनर्थक्यं युक्तम् ; न च अर्थवादत्वम् , स्वप्र­क­र­ण­स्थ­त्वात् , प्रत्य­गा­त्मा­वि­क्रि­य­स्व­रू­प­नि­ष्ठ­त्वाच्च मोक्षस्य । न हि पूर्वसमुद्रं जिगमिषोः प्रातिलोम्येन प्रत्य­क्स­मु­द्र­जि­ग­मि­षुणा समानमार्गत्वं सम्भवति । प्रत्य­गा­त्म­वि­ष­य­प्र­त्य­य­स­न्ता­न­क­र­णा­भि­नि­वे­शश्च ज्ञाननिष्ठा ; सा च प्रत्य­क्स­मु­द्र­ग­म­न­वत् कर्मणा सहभावित्वेन विरुध्यते । पर्वतसर्षपयोरिव अन्तरवान् विरोधः प्रमाणविदां निश्चितः । तस्मात् सर्व­क­र्म­सं­न्या­से­नैव ज्ञाननिष्ठा कार्या इति सिद्धम् ॥ ५५ ॥

स्वकर्मणा भगवतः अभ्य­र्च­न­भ­क्ति­यो­गस्य सिद्धिप्राप्तिः फलं ज्ञान­नि­ष्ठा­यो­ग्यता, यन्निमित्ता ज्ञाननिष्ठा मोक्षफलावसाना । सः भगवद्भक्तियोगः अधुना स्तूयते शास्त्रा­र्थो­पा­सं­हा­र­प्र­क­रणे शास्त्रा­र्थ­नि­श्च­य­दा­र्ढ्याय —

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
मत्प्र­सा­दा­द­वा­प्नोति शाश्वतं पदमव्ययम् ॥ ५६ ॥

५६

सर्वकर्माण्यपि प्रति­षि­द्धा­न्यपि सदा कुर्वाणः अनुतिष्ठन् मद्व्यपाश्रयः अहं वासुदेवः ईश्वरः व्यपाश्रयो व्यपाश्रयणं यस्य सः मद्व्यपाश्रयः मय्य­र्पि­त­स­र्व­भावः इत्यर्थः । सोऽपि मत्प्रसादात् मम ईश्वरस्य प्रसादात् अवाप्नोति शाश्वतं नित्यं वैष्णवं पदम् अव्ययम् ॥ ५६ ॥

यस्मात् एवम् —

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।
बुद्धि­यो­ग­म­पा­श्रित्य मच्चित्तः सततं भव ॥ ५७ ॥

५७

चेतसा विवेकबुद्ध्या सर्वकर्माणि दृष्टा­दृ­ष्टा­र्थानि मयि ईश्वरे संन्यस्य ‘यत् करोषि यदश्नासि’(भ. गी. ९ । २७) इति उक्तन्यायेन, मत्परः अहं वासुदेवः परो यस्य तव सः त्वं मत्परः सन् मय्य­र्पि­त­स­र्वा­त्म­भावः बुद्धियोगं समा­हि­त­बु­द्धित्वं बुद्धियोगः तं बुद्धियोगम् अपाश्रित्य अपाश्रयः अनन्यशरणत्वं मच्चित्तः मय्येव चित्तं यस्य तव सः त्वं मच्चित्तः सततं सर्वदा भव ॥ ५७ ॥

मच्चित्तः सर्वदुर्गाणि मत्प्र­सा­दा­त्त­रि­ष्यसि ।
अथ चेत्त्व­म­ह­ङ्का­रान्न श्रोष्यसि विनङ्क्ष्यसि ॥ ५८ ॥

५८

मच्चित्तः सर्वदुर्गाणि सर्वाणि दुस्तराणि संसारहेतुजातानि मत्प्रसादात् तरिष्यसि अतिक्रमिष्यसि । अथ चेत् यदि त्वं मदुक्तम् अहङ्कारात् ‘पण्डितः अहम्’ इति न श्रोष्यसि न ग्रहीष्यसि, ततः त्वं विनङ्क्ष्यसि विनाशं गमिष्यसि ॥ ५८ ॥

इदं च त्वया न मन्तव्यम् ‘स्वतन्त्रः अहम् , किमर्थं परोक्तं करिष्यामि ? ’ इति —

यद्य­ह­ङ्का­र­मा­श्रित्य
न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस्ते
प्रकृतिस्त्वां नियोक्ष्यति ॥ ५९ ॥

५९

यदि चेत् त्वम् अहङ्कारम् आश्रित्य न योत्स्ये इति न युद्धं करिष्यामि इति मन्यसे चिन्तयसि निश्चयं करोषि, मिथ्या एषः व्यवसायः निश्चयः ते तव ; यस्मात् प्रकृतिः क्षत्रियस्वभावः त्वां नियोक्ष्यति ॥ ५९ ॥

यस्माच्च —

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मो­हा­त्क­रि­ष्य­स्य­व­शोऽपि तत् ॥ ६० ॥

६०

स्वभावजेन शौर्यादिना यथोक्तेन कौन्तेय निबद्धः निश्चयेन बद्धः स्वेन आत्मीयेन कर्मणा कर्तुं न इच्छसि यत् कर्म, मोहात् अविवेकतः करिष्यसि अवशोऽपि परवश एव तत् कर्म ॥ ६० ॥

यस्मात् —

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्राम­य­न्स­र्व­भू­तानि यन्त्रारूढानि मायया ॥ ६१ ॥

६१

ईश्वरः ईशनशीलः नारायणः सर्वभूतानां सर्वप्राणिनां हृद्देशे हृदयदेशे अर्जुन शुक्ला­न्त­रा­त्म­स्व­भावः विशु­द्धा­न्तः­क­रणः — ‘अहश्च कृष्णमहरर्जुनं च’(ऋ. मं. ६ । १ । ९ । १) इति दर्शनात् — तिष्ठति स्थितिं लभते । तेषु सः कथं तिष्ठतीति, आह — भ्रामयन् भ्रमणं कारयन् सर्वभूतानि यन्त्रारूढानि यन्त्राणि आरूढानि अधिष्ठितानि इव — इति इवशब्दः अत्र द्रष्टव्यः — यथा दारु­कृ­त­पु­रु­षा­दीनि यन्त्रारूढानि । मायया च्छद्मना भ्रामयन् तिष्ठति इति सम्बन्धः ॥ ६१ ॥

तमेव शरणं गच्छ
सर्वभावेन भारत ।
तत्प्र­सा­दा­त्परां शान्तिं
स्थानं प्राप्स्यसि शाश्वतम् ॥ ६२ ॥

६२

तमेव ईश्वरं शरणम् आश्रयं संसा­रा­र्ति­ह­र­णार्थं गच्छ आश्रय सर्वभावेन सर्वात्मना हे भारत । ततः तत्प्रसादात् ईश्वरानुग्रहात् परां प्रकृष्टां शान्तिम् उपरतिं स्थानं च मम विष्णोः परमं पदं प्राप्स्यसि शाश्वतं नित्यम् ॥ ६२ ॥

इति ते ज्ञानमाख्यातं गुह्या­द्गु­ह्य­तरं मया ।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ ६३ ॥

६३

इति एतत् ते तुभ्यं ज्ञानम् आख्यातं कथितं गुह्यात् गोप्यात् गुह्यतरम् अतिशयेन गुह्यं रहस्यम् इत्यर्थः, मया सर्वज्ञेन ईश्वरेण । विमृश्य विमर्शनम् आलोचनं कृत्वा एतत् यथोक्तं शास्त्रम् अशेषेण समस्तं यथोक्तं च अर्थजातं यथा इच्छसि तथा कुरु ॥ ६३ ॥

भूयोऽपि मया उच्यमानं शृणु —

सर्वगुह्यतमं भूयः
शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति
ततो वक्ष्यामि ते हितम् ॥ ६४ ॥

६४

सर्वगुह्यतमं सर्वेभ्यः गुह्येभ्यः अत्य­न्त­गु­ह्य­त­मम् अत्यन्तरहस्यम् , उक्तमपि असकृत् भूयः पुनः शृणु मे मम परमं प्रकृष्टं वचः वाक्यम् । न भयात् नापि अर्थकारणाद्वा वक्ष्यामि ; किं तर्हि ? इष्टः प्रियः असि मे मम दृढम् अव्यभिचारेण इति कृत्वा ततः तेन कारणेन वक्ष्यामि कथयिष्यामि ते तव हितं परमं ज्ञान­प्रा­प्ति­सा­ध­नम् , तद्धि सर्वहितानां हिततमम् ॥ ६४ ॥

किं तत् इति, आह —

मन्मना भव मद्भक्तो
मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते
प्रतिजाने प्रियोऽसि मे ॥ ६५ ॥

६५

मन्मनाः भव मच्चित्तः भव । मद्भक्तः भव मद्भजनो भव । मद्याजी मद्यजनशीलो भव । मां नमस्कुरु नमस्कारम् अपि ममैव कुरु । तत्र एवं वर्तमानः वासुदेवे एव सम­र्पि­त­सा­ध्य­सा­ध­न­प्र­यो­जनः मामेव एष्यसि आगमिष्यसि । सत्यं ते तव प्रतिजाने, सत्यां प्रतिज्ञां करोमि एतस्मिन् वस्तुनि इत्यर्थः ; यतः प्रियः असि मे । एवं भगवतः सत्य­प्र­ति­ज्ञत्वं बुद्ध्वा भगवद्भक्तेः अवश्यंभावि मोक्षफलम् अवधार्य भग­व­च्छ­र­णै­क­प­रा­यणः भवेत् इति वाक्यार्थः ॥ ६५ ॥

कर्म­यो­ग­नि­ष्ठायाः परमरहस्यम् ईश्वरशरणताम् उपसंहृत्य, अथ इदानीं कर्म­यो­ग­नि­ष्ठा­फलं सम्यग्दर्शनं सर्व­वे­दा­न्त­सा­र­वि­हितं वक्तव्यमिति आह —

सर्व­ध­र्मा­न्प­रि­त्यज्य
मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो
मोक्षयिष्यामि मा शुचः ॥ ६६ ॥

६६

सर्वधर्मान् सर्वे च ते धर्माश्च सर्वधर्माः तान् — धर्मशब्देन अत्र अधर्मोऽपि गृह्यते, नैष्कर्म्यस्य विवक्षितत्वात् , ‘नाविरतो दुश्चरितात्’(क. उ. १ । २ । २४) ‘त्यज धर्ममधर्मं च’(मो. ध. ३२९ । ४०) इत्या­दि­श्रु­ति­स्मृ­तिभ्यः — सर्वधर्मान् परित्यज्य संन्यस्य सर्वकर्माणि इत्येतत् । माम् एकं सर्वात्मानं समं सर्वभूतस्थितम् ईश्वरम् अच्युतं गर्भ­ज­न्म­ज­रा­म­र­ण­व­र्जि­तम् ‘अहमेव’ इत्येवं शरणं व्रज, न मत्तः अन्यत् अस्ति इति अवधारय इत्यर्थः । अहं त्वा त्वाम् एवं निश्चितबुद्धिं सर्वपापेभ्यः सर्व­ध­र्मा­ध­र्म­ब­न्ध­न­रू­पेभ्यः मोक्षयिष्यामि स्वात्म­भा­व­प्र­का­शी­क­र­णेन । उक्तं च ‘नाश­या­म्या­त्म­भा­वस्थो ज्ञानदीपेन भास्वता’(भ. गी. १० । ११) इति । अतः मा शुचः शोकं मा कार्षीः इत्यर्थः ॥

अस्मि­न्गी­ता­शास्त्रे पर­म­निः­श्रे­य­स­सा­धनं निश्चितं किं ज्ञानम् , कर्म वा, आहोस्वित् उभयम् ? इति । कुतः संशयः ? ‘यज्ज्ञा­त्वा­मृ­त­म­श्नुते’(भ. गी. १३ । १२) ‘ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्’(भ. गी. १८ । ५५) इत्यादीनि वाक्यानि केवलाज्ज्ञानात् निःश्रे­य­स­प्राप्तिं दर्शयन्ति । ‘कर्म­ण्ये­वा­धि­का­रस्ते’(भ. गी. २ । ४७) ‘कुरु कर्मैव’(भ. गी. ४ । १५) इत्येवमादीनि कर्म­णा­म­व­श्य­क­र्त­व्यतां दर्शयन्ति । एवं ज्ञानकर्मणोः कर्त­व्य­त्वो­प­दे­शात् समुच्चितयोरपि निःश्रे­य­स­हे­तुत्वं स्यात् इति भवेत् संशयः कस्यचित् । किं पुनरत्र मीमांसाफलम् ? ननु एतदेव — एषामन्यतमस्य पर­म­निः­श्रे­य­स­सा­ध­न­त्वा­व­धा­र­णम् ; अतः विस्तीर्णतरं मीमांस्यम् एतत् ॥

आत्मज्ञानस्य तु केवलस्य निःश्रे­य­स­हे­तु­त्वम् , भेद­प्र­त्य­य­नि­व­र्त­क­त्वेन कैव­ल्य­फ­ला­व­सा­यि­त्वात् । क्रिया­का­र­क­फ­ल­भे­द­बुद्धिः अविद्यया आत्मनि नित्यप्रवृत्ता — ‘मम कर्म, अहं कर्तामुष्मै फलायेदं कर्म करिष्यामि’ इति इयम् अविद्या अना­दि­का­ल­प्र­वृत्ता । अस्या अविद्यायाः निवर्तकम् ‘अयमहमस्मि केवलोऽकर्ता अक्रियोऽफलः ; न मत्तोऽन्योऽस्ति कश्चित्’ इत्येवंरूपम् आत्मविषयं ज्ञानम् उत्पद्यमानम् , कर्म­प्र­वृ­त्ति­हे­तु­भू­तायाः भेदबुद्धेः निवर्तकत्वात् । तु - शब्दः पक्ष­व्या­वृ­त्त्यर्थः — न केवलेभ्यः कर्मभ्यः, न च ज्ञानकर्मभ्यां समुच्चिताभ्यां निःश्रे­य­स­प्राप्तिः इति पक्षद्वयं निवर्तयति । अकार्यत्वाच्च निःश्रेयसस्य कर्म­सा­ध­न­त्वा­नु­प­पत्तिः । न हि नित्यं वस्तु कर्मणा ज्ञानेन वा क्रियते । केवलं ज्ञानमपि अनर्थकं तर्हि ? न, अवि­द्या­नि­व­र्त­कत्वे सति दृष्ट­कै­व­ल्य­फ­ला­व­सा­न­त्वात् । अवि­द्या­त­मो­नि­व­र्त­कस्य ज्ञानस्य दृष्टं कैव­ल्य­फ­ला­व­सा­न­त्वम् , रज्ज्वादिविषये सर्पा­द्य­ज्ञा­न­त­मो­नि­व­र्त­क­प्र­दी­प­प्र­का­श­फ­ल­वत् । विनि­वृ­त्त­स­र्पा­दि­वि­क­ल्प­र­ज्जु­कै­व­ल्या­व­सानं हि प्रकाशफलम् ; तथा ज्ञानम् । दृष्टार्थानां च च्छिदि­क्रि­या­ग्नि­म­न्थ­ना­दीनां व्यापृ­त­क­र्त्रा­दि­का­र­काणां द्वैधी­भा­वा­ग्नि­द­र्श­ना­दि­फ­लात् अन्यफले कर्मान्तरे वा व्यापा­रा­नु­प­पत्तिः यथा, तथा दृष्टार्थायां ज्ञान­नि­ष्ठा­क्रि­यायां व्यापृतस्य ज्ञात्रा­दि­का­र­कस्य आत्मकैवल्यफलात् कर्मान्तरे प्रवृत्तिः अनुपपन्ना इति न ज्ञाननिष्ठा कर्मसहिता उपपद्यते । भुज्य­ग्नि­हो­त्रा­दि­क्रि­या­व­त्स्यात् इति चेत् , न ; कैवल्यफले ज्ञाने क्रिया­फ­ला­र्थि­त्वा­नु­प­पत्तेः । कैवल्यफले हि ज्ञाने प्राप्ते, सर्व­तः­स­म्प्लु­तो­द­क­फले कूप­त­टा­का­दि­क्रि­या­फ­ला­र्थि­त्वा­भा­व­वत् , फलान्तरे तत्साधनभूतायां वा क्रियायाम् अर्थि­त्वा­नु­प­पत्तिः । न हि राज्य­प्रा­प्ति­फले कर्मणि व्यापृतस्य क्षेत्र­मा­त्र­प्रा­प्ति­फले व्यापारः उपपद्यते, तद्विषयं वा अर्थित्वम् । तस्मात् न कर्मणोऽस्ति निःश्रे­य­स­सा­ध­न­त्वम् । न च ज्ञानकर्मणोः समुच्चितयोः । नापि ज्ञानस्य कैवल्यफलस्य कर्म­सा­हा­य्या­पेक्षा, अवि­द्या­नि­व­र्त­क­त्वेन विरोधात् । न हि तमः तमसः निवर्तकम् । अतः केवलमेव ज्ञानं निःश्रेयससाधनम् इति । न ; नित्याकरणे प्रत्य­वा­य­प्राप्तेः, कैवल्यस्य च नित्यत्वात् । यत् तावत् केवलाज्ज्ञानात् कैवल्यप्राप्तिः इत्येतत् , तत् असत् ; यतः नित्यानां कर्मणां श्रुत्यु­क्ता­नाम् अकरणे प्रत्यवायः नर­का­दि­प्रा­प्ति­ल­क्षणः स्यात् । ननु एवं तर्हि कर्मभ्यो मोक्षो नास्ति इति अनिर्मोक्ष एव । नैष दोषः ; नित्यत्वात् मोक्षस्य । नित्यानां कर्मणाम् अनुष्ठानात् प्रत्यवायस्य अप्राप्तिः, प्रतिषिद्धस्य च अकरणात् अनि­ष्ट­श­री­रा­नु­प­पत्तिः, काम्यानां च वर्जनात् इष्ट­श­री­रा­नु­प­पत्तिः, वर्त­मा­न­श­री­रा­र­म्भ­कस्य च कर्मणः फलोपभोगक्षये पतिते अस्मिन् शरीरे देहा­न्त­रो­त्पत्तौ च कारणाभावात् आत्मनः रागादीनां च अकरणे स्वरू­पा­व­स्था­न­मेव कैवल्यमिति अयत्नसिद्धं कैवल्यम् इति । अति­क्रा­न्ता­ने­क­ज­न्मा­न्त­र­कृ­तस्य स्वर्ग­न­र­का­दि­प्रा­प्ति­फ­लस्य अनारब्धकार्यस्य उपभोगानुपपत्तेः क्षयाभावः इति चेत् , न ; नित्य­क­र्मा­नु­ष्ठा­ना­या­स­दुः­खो­प­भो­गस्य तत्फ­लो­प­भो­ग­त्वो­प­पत्तेः । प्राय­श्चि­त्त­वद्वा पूर्वो­पा­त्त­दु­रि­त­क्ष­यार्थं नित्यं कर्म । आरब्धानां च कर्मणाम् उपभोगेनैव क्षीणत्वात् अपूर्वाणां च कर्मणाम् अनारम्भे अयत्नसिद्धं कैवल्यमिति । न ; ‘तमेव विदि­त्वा­ति­मृ­त्यु­मेति नान्यः पन्था विद्यतेऽयनाय’(श्वे. उ. ३ । ८) इति विद्याया अन्यः पन्थाः मोक्षाय न विद्यते इति श्रुतेः, चर्म­व­दा­का­श­वे­ष्ट­ना­स­म्भ­व­वत् अविदुषः मोक्षा­स­म्भ­व­श्रुतेः, ‘ज्ञाना­त्कै­व­ल्य­मा­प्नोति’(?) इति च पुराणस्मृतेः ; अनारब्धफलानां पुण्यानां कर्मणां क्षया­नु­प­प­त्तेश्च । यथा पूर्वोपात्तानां दुरितानाम् अनारब्धफलानां सम्भवः, तथा पुण्यानाम् अनारब्धफलानां स्यात्सम्भवः । तेषां च देहान्तरम् अकृत्वा क्षयानुपपत्तौ मोक्षानुपपत्तिः । धर्मा­ध­र्म­हे­तूनां च राग­द्वे­ष­मो­हा­नाम् अन्यत्र आत्मज्ञानात् उच्छे­दा­नु­प­पत्तेः धर्मा­ध­र्मो­च्छे­दा­नु­प­पत्तिः । नित्यानां च कर्मणां पुण्य­फ­ल­त्व­श्रुतेः, ‘वर्णा आश्रमाश्च स्वकर्मनिष्ठाः’(गौ. ध. सू. २ । २ । २९) इत्या­दि­स्मृ­तेश्च कर्म­क्ष­या­नु­प­पत्तिः ॥

ये तु आहुः — नित्यानि कर्माणि दुःखरूपत्वात् पूर्व­कृ­त­दु­रि­त­क­र्मणां फलमेव, न तु तेषां स्वरू­प­व्य­ति­रे­केण अन्यत् फलम् अस्ति, अश्रुतत्वात् , जीवनादिनिमित्ते च विधानात् इति । न अप्रवृत्तानां कर्मणां फलदानासम्भवात् ; दुःख­फ­ल­वि­शे­षा­नु­प­प­त्तिश्च स्यात् । यदुक्तं पूर्व­ज­न्म­कृ­त­दु­रि­तानां कर्मणां फलं नित्य­क­र्मा­नु­ष्ठा­ना­या­स­दुःखं भुज्यत इति, तदसत् । न हि मरणकाले फलदानाय अनङ्कुरीभूतस्य कर्मणः फलम् अन्यकर्मारब्धे जन्मनि उपभुज्यते इति उपपत्तिः । अन्यथा स्वर्गफलोपभोगाय अग्नि­हो­त्रा­दि­क­र्मा­रब्धे जन्मनि नर­क­फ­लो­प­भो­गा­नु­प­पत्तिः न स्यात् । तस्य दुरितस्य दुःख­वि­शे­ष­फ­ल­त्वा­नु­प­प­त्तेश्च — अनेकेषु हि दुरितेषु सम्भवत्सु भिन्न­दुः­ख­सा­ध­न­फ­लेषु नित्य­क­र्मा­नु­ष्ठा­ना­या­स­दुः­ख­मा­त्र­फ­लेषु कल्प्यमानेषु द्वन्द्व­रो­गा­दि­बा­धनं निर्निमित्तं न हि शक्यते कल्पयितुम् , नित्य­क­र्मा­नु­ष्ठा­ना­या­स­दुः­ख­मेव पूर्वो­पा­त्त­दु­रि­त­फलं न शिरसा पाषा­ण­व­ह­ना­दि­दुः­ख­मिति । अप्रकृतं च इदम् उच्यते — नित्य­क­र्मा­नु­ष्ठा­ना­या­स­दुःखं पूर्व­कृ­त­दु­रि­त­क­र्म­फ­लम् इति । कथम् ? अप्रसूतफलस्य हि पूर्व­कृ­त­दु­रि­तस्य क्षयः न उपपद्यत इति प्रकृतम् । तत्र प्रसूतफलस्य कर्मणः फलं नित्य­क­र्मा­नु­ष्ठा­ना­या­स­दुः­खम् आह भवान् , न अप्रसूतफलस्येति । अथ सर्वमेव पूर्वकृतं दुरितं प्रसूतफलमेव इति मन्यते भवान् , ततः नित्य­क­र्मा­नु­ष्ठा­ना­या­स­दुः­ख­मेव फलम् इति विशेषणम् अयुक्तम् । नित्य­क­र्म­वि­ध्या­न­र्थ­क्य­प्र­स­ङ्गश्च, उपभोगेनैव प्रसूतफलस्य दुरितकर्मणः क्षयोपपत्तेः । किञ्च, श्रुतस्य नित्यस्य कर्मणः दुःखं चेत् फलम् , नित्य­क­र्मा­नु­ष्ठा­ना­या­सा­देव तत् दृश्यते व्यायामादिवत् ; तत् अन्यस्य इति कल्पनानुपपत्तिः । जीवनादिनिमित्ते च विधानात् , नित्यानां कर्मणां प्रायश्चित्तवत् पूर्व­कृ­त­दु­रि­त­फ­ल­त्वा­नु­प­पत्तिः । यस्मिन् पापकर्मणि निमित्ते यत् विहितं प्रायश्चित्तम् न तु तस्य पापस्य तत् फलम् । अथ तस्यैव पापस्य निमित्तस्य प्राय­श्चि­त्त­दुःखं फलम् , जीव­ना­दि­नि­मि­त्तेऽपि नित्य­क­र्मा­नु­ष्ठा­ना­या­स­दुःखं जीव­ना­दि­नि­मि­त्त­स्यैव फलं प्रसज्येत, नित्य­प्रा­य­श्चि­त्तयोः नैमि­त्ति­क­त्वा­वि­शे­षात् । किञ्च अन्यत् — नित्यस्य काम्यस्य च अग्निहोत्रादेः अनु­ष्ठा­ना­या­स­दुः­खस्य तुल्यत्वात् नित्या­नु­ष्ठा­ना­या­स­दुः­ख­मेव पूर्व­कृ­त­दु­रि­तस्य फलम् , न तु काम्या­नु­ष्ठा­ना­या­स­दुः­खम् इति विशेषो नास्तीति तदपि पूर्व­कृ­त­दु­रि­त­फलं प्रसज्येत । तथा च सति नित्यानां फलाश्रवणात् तद्वि­धा­ना­न्य­था­नु­प­प­त्तेश्च नित्या­नु­ष्ठा­ना­या­स­दुःखं पूर्व­कृ­त­दु­रि­त­फ­लम् इति अर्था­प­त्ति­क­ल्पना च अनुपपन्ना, एवं विधा­ना­न्य­था­नु­प­पत्तेः अनु­ष्ठा­ना­या­स­दुः­ख­व्य­ति­रि­क्त­फ­ल­त्वा­नु­मा­नाच्च नित्यानाम् । विरोधाच्च ; विरुद्धं च इदम् उच्यते — नित्यकर्मणा अनुष्टीयमानेन अन्यस्य कर्मणः फलं भुज्यते इति अभ्युपगम्यमाने स एव उपभोगः नित्यस्य कर्मणः फलम् इति, नित्यस्य कर्मणः फलाभाव इति च विरुद्धम् उच्यते । किञ्च, काम्या­ग्नि­हो­त्रादौ अनुष्ठीयमाने नित्यमपि अग्निहोत्रादि तन्त्रेणैव अनुष्ठितं भवतीति तदायासदुःखेनैव काम्या­ग्नि­हो­त्रा­दि­फ­लम् उपक्षीणं स्यात् , तत्तन्त्रत्वात् । अथ काम्या­ग्नि­हो­त्रा­दि­फ­लम् अन्यदेव स्वर्गादि, तद­नु­ष्ठा­ना­या­स­दुः­ख­मपि भिन्नं प्रसज्येत । न च तदस्ति, दृष्टविरोधात् ; न हि काम्या­नु­ष्ठा­ना­या­स­दुः­खात् केव­ल­नि­त्या­नु­ष्ठा­ना­या­स­दुःखं भिन्नं दृश्यते । किञ्च अन्यत् — अवि­हि­त­म­प्र­ति­षिद्धं च कर्म तत्कालफलम् , न तु शास्त्रचोदितं प्रतिषिद्धं वा तत्कालफलं भवेत् । तदा स्वर्गादिष्वपि अदृष्टफलाशासनेन उद्यमो न स्यात् — अग्नि­हो­त्रा­दी­ना­मेव कर्म­स्व­रू­पा­वि­शेषे अनु­ष्ठा­ना­या­स­दुः­ख­मा­त्रेण उपक्षयः नित्यानाम् ; स्वर्गा­दि­म­हा­फ­लत्वं काम्यानाम् , अङ्गे­ति­क­र्त­व्य­ता­द्या­धिक्ये तु असति, फल­का­मि­त्व­मा­त्रे­णेति । तस्माच्च न नित्यानां कर्मणाम् अदृष्टफलाभावः कदाचिदपि उपपद्यते । अतश्च अवि­द्या­पू­र्व­कस्य कर्मणः विद्यैव शुभस्य अशुभस्य वा क्षयकारणम् अशेषतः, न नित्य­क­र्मा­नु­ष्ठा­नम् । अविद्याकामबीजं हि सर्वमेव कर्म । तथा च उप­पा­दि­त­म­वि­द्व­द्वि­षयं कर्म, विद्वद्विषया च सर्व­क­र्म­सं­न्या­स­पू­र्विका ज्ञाननिष्ठा — ‘उभौ तौ न विजानीतः’(भ. गी. २ । १९) ‘वेदाविनाशिनं नित्यम्’(भ. गी. २ । २१) ‘ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्’(भ. गी. ३ । ३) ‘अज्ञानां कर्मसङ्गिनाम्’(भ. गी. ३ । २६) ‘तत्त्ववित्तु महाबाहो गुणा गुणेषु वर्तन्ते इति मत्वा न सज्जते’(भ. गी. ३ । २८) ‘सर्वकर्माणि मनसा संन्यस्यास्ते’(भ. गी. ५ । १३) ‘नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित्’(भ. गी. ५ । ८) , अर्थात् अज्ञः करोमि इति ; आरुरुक्षोः कर्म कारणम् , आरूढस्य योगस्थस्य शम एव कारणम् ; उदाराः त्रयोऽपि अज्ञाः, ‘ज्ञानी त्वात्मैव मे मतम्’(भ. गी. ७ । १८) ‘अज्ञाः कर्मिणः गतागतं कामकामाः लभन्ते’ ; अन­न्या­श्चि­न्त­यन्तो मां नित्ययुक्ताः यथोक्तम् आत्मानम् आकाशकल्पम् उपासते ; ‘ददामि बुद्धियोगं तं येन मामुपयान्ति ते’, अर्थात् न कर्मिणः अज्ञाः उपयान्ति । भगवत्कर्मकारिणः ये युक्ततमा अपि कर्मिणः अज्ञाः, ते उत्त­रो­त्त­र­ही­न­फ­ल­त्या­गा­व­सा­न­सा­धनाः ; अनि­र्दे­श्या­क्ष­रो­पा­स­कास्तु ‘अद्वेष्टा सर्वभूतानाम्’(भ. गी. १२ । १३) इति आध्या­य­प­रि­स­माप्ति उक्तसाधनाः क्षेत्रा­ध्या­या­द्य­ध्या­य­त्र­यो­क्त­ज्ञा­न­सा­ध­नाश्च । अधि­ष्ठा­ना­दि­प­ञ्च­क­हे­तु­क­स­र्व­क­र्म­सं­न्या­सिनां आत्मै­क­त्वा­क­र्तृ­त्व­ज्ञा­न­वतां परस्यां ज्ञाननिष्ठायां वर्तमानानां भग­व­त्त­त्त्व­वि­दाम् अनि­ष्टा­दि­क­र्म­फ­ल­त्रयं पर­म­हं­स­प­रि­व्रा­ज­का­ना­मेव लब्ध­भ­ग­व­त्स्व­रू­पा­त्मै­क­त्व­श­र­णानां न भवति ; भवत्येव अन्येषामज्ञानां कर्मि­णा­म­सं­न्या­सि­नाम् इत्येषः गीता­शा­स्त्रो­क्त­क­र्त­व्या­र्थस्य विभागः ॥

अवि­द्या­पू­र्व­कत्वं सर्वस्य कर्मणः असिद्धमिति चेत् , न ; ब्रह्म­ह­त्या­दि­वत् । यद्यपि शास्त्रावगतं नित्यं कर्म, तथापि अविद्यावत एव भवति । यथा प्रति­षे­ध­शा­स्त्रा­व­ग­त­मपि ब्रह्म­ह­त्या­दि­ल­क्षणं कर्म अनर्थकारणम् अवि­द्या­का­मा­दि­दो­ष­वतः भवति, अन्यथा प्रवृ­त्त्य­नु­प­पत्तेः, तथा नित्य­नै­मि­त्ति­क­का­म्या­न्य­पीति । देह­व्य­ति­रि­क्ता­त्मनि अज्ञाते प्रवृत्तिः नित्यादिकर्मसु अनुपपन्ना इति चेत् , न ; चलनात्मकस्य कर्मणः अनात्मकर्तृकस्य ‘अहं करोमि’ इति प्रवृ­त्ति­द­र्श­नात् । देहादिसङ्घाते अहंप्रत्ययः गौणः, न मिथ्या इति चेत् , न ; तत्कार्येष्वपि गौणत्वोपपत्तेः । आत्मीये देहादिसङ्घाते अहंप्रत्ययः गौणः ; यथा आत्मीये पुत्रे ‘आत्मा वै पुत्रनामासि’(तै. आ. एका. २ । ११) इति, लोके च ‘मम प्राण एव अयं गौः’ इति, तद्वत् । नैवायं मिथ्याप्रत्ययः । मिथ्या­प्र­त्य­यस्तु स्थाणुपुरुषयोः अगृ­ह्य­मा­ण­वि­शे­षयोः । न गौणप्रत्ययस्य मुख्य­का­र्या­र्थता, अधि­क­र­ण­स्तु­त्य­र्थ­त्वात् लुप्तोपमाशब्देन । यथा ‘सिंहो देवदत्तः’ ‘अग्निर्माणवकः’ इति सिंह इव अग्निरिव क्रौर्य­पै­ङ्ग­ल्या­दि­सा­मा­न्य­व­त्त्वात् देव­द­त्त­मा­ण­व­का­धि­क­र­ण­स्तु­त्य­र्थ­मेव, न तु सिंहकार्यम् अग्निकार्यं वा गौण­श­ब्द­प्र­त्य­य­नि­मित्तं किञ्चित्साध्यते ; मिथ्या­प्र­त्य­य­कार्यं तु अनर्थमनुभवति इति । गौणप्रत्ययविषयं जानाति ‘नैष सिंहः देवदत्तः’, तथा ‘नाय­म­ग्नि­र्मा­ण­वकः’ इति । तथा गौणेन देहादिसङ्घातेन आत्मना कृतं कर्म न मुख्येन अहं­प्र­त्य­य­वि­ष­येण आत्मना कृतं स्यात् । न हि गौण­सिं­हा­ग्निभ्यां कृतं कर्म मुख्य­सिं­हा­ग्निभ्यां कृतं स्यात् । न च क्रौर्येण पैङ्गल्येन वा मुख्य­सिं­हाग्न्योः कार्यं किञ्चित् क्रियते, स्तुत्यर्थत्वेन उपक्षीणत्वात् । स्तूयमानौ च जानीतः ‘न अहं सिंहः’ ‘न अहम् अग्निः’ इति ; न हि ‘सिंहस्य कर्म मम अग्नेश्च’ इति । तथा ‘न सङ्घातस्य कर्म मम मुख्यस्य आत्मनः’ इति प्रत्ययः युक्ततरः स्यात् ; न पुनः ‘अहं कर्ता मम कर्म’ इति । यच्च आहुः ‘आत्मीयैः स्मृती­च्छा­प्र­यत्नैः कर्म­हे­तु­भि­रात्मा कर्म करोति’ इति, न ; तेषां मिथ्या­प्र­त्य­य­पू­र्व­क­त्वात् । मिथ्या­प्र­त्य­य­नि­मि­त्ते­ष्टा­नि­ष्टा­नु­भू­त­क्रि­या­फ­ल­ज­नि­त­सं­स्का­र­पू­र्वकाः हि स्मृती­च्छा­प्र­य­त्ना­दयः । यथा अस्मिन् जन्मनि देहा­दि­स­ङ्घा­ता­भि­मा­न­रा­ग­द्वे­षा­दि­कृतौ धर्माधर्मौ तत्फलानुभवश्च, तथा अतीते अतीततरेऽपि जन्मनि इति अना­दि­र­वि­द्या­कृतः संसारः अतीतोऽनागतश्च अनुमेयः । ततश्च सर्व­क­र्म­सं­न्या­स­स­हि­त­ज्ञा­न­नि­ष्ठया आत्यन्तिकः संसारोपरम इति सिद्धम् । अवि­द्या­त्म­क­त्वाच्च देहाभिमानस्य, तन्निवृत्तौ देहानुपपत्तेः संसारानुपपत्तिः । देहादिसङ्घाते आत्माभिमानः अविद्यात्मकः । न हि लोके ‘गवा­दि­भ्योऽ­न्योऽ­हम् , मत्तश्चान्ये गवादयः’ इति जानन् तान् ‘अहम्’ इति मन्यते कश्चित् । अजानंस्तु स्थाणौ पुरुषविज्ञानवत् अविवेकतः देहादिसङ्घाते कुर्यात् ‘अहम्’ इति प्रत्ययम् , न विवेकतः जानन् । यस्तु ‘आत्मा वै पुत्र नामासि’(तै. आ. एका. २ । ११) इति पुत्रे अहंप्रत्ययः, स तु जन्य­ज­न­क­स­म्ब­न्ध­नि­मित्तः गौणः । गौणेन च आत्मना भोजनादिवत् परमार्थकार्यं न शक्यते कर्तुम् , गौण­सिं­हा­ग्निभ्यां मुख्य­सिं­हा­ग्नि­का­र्य­वत् ॥

अदृ­ष्ट­वि­ष­य­चो­द­ना­प्रा­मा­ण्यात् आत्मकर्तव्यं गौणैः देहे­न्द्रि­या­त्मभिः क्रियत एव इति चेत् , न ; अवि­द्या­कृ­ता­त्म­त्वा­त्ते­षाम् । न च गौणाः आत्मानः देहेन्द्रियादयः ; किं तर्हि ? मिथ्या­प्र­त्य­ये­नैव अनात्मानः सन्तः आत्म­त्व­मा­पा­द्यन्ते, तद्भावे भावात् , तदभावे च अभावात् । अविवेकिनां हि अज्ञानकाले बालानां दृश्यते ‘दीर्घोऽहम्’ ‘गौरोऽहम्’ इति देहादिसङ्घाते अहंप्रत्ययः । न तु विवेकिनाम् ‘अन्योऽहं देहा­दि­स­ङ्घा­तात्’ इति जानतां तत्काले देहादिसङ्घाते अहंप्रत्ययः भवति । तस्मात् मिथ्या­प्र­त्य­या­भावे अभावात् तत्कृत एव, न गौणः । पृथ­ग्गृ­ह्य­मा­ण­वि­शे­ष­सा­मा­न्य­योर्हि सिंहदेवदत्तयोः अग्नि­मा­ण­व­क­योर्वा गौणः प्रत्ययः शब्दप्रयोगो वा स्यात् , न अगृ­ह्य­मा­ण­वि­शे­ष­सा­मा­न्ययोः । यत्तु उक्तम् ‘श्रुति­प्रा­मा­ण्यात्’ इति, तत् न ; तत्प्रामाण्यस्य अदृ­ष्ट­वि­ष­य­त्वात् । प्रत्य­क्षा­दि­प्र­मा­णा­नु­प­लब्धे हि विषये अग्नि­हो­त्रा­दि­सा­ध्य­सा­ध­न­स­म्बन्धे श्रुतेः प्रामाण्यम् , न प्रत्य­क्षा­दि­वि­षये, अदृ­ष्ट­द­र्श­ना­र्थ­वि­ष­य­त्वात् प्रामाण्यस्य । तस्मात् न दृष्ट­मि­थ्या­ज्ञा­न­नि­मि­त्तस्य अहंप्रत्ययस्य देहादिसङ्घाते गौणत्वं कल्पयितुं शक्यम् । न हि श्रुतिशतमपि ‘शीतोऽ­ग्नि­र­प्र­काशो वा’ इति ब्रुवत् प्रामाण्यमुपैति । यदि ब्रूयात् ‘शीतोऽ­ग्नि­र­प्र­काशो वा’ इति, तथापि अर्थान्तरं श्रुतेः विवक्षितं कल्प्यम् , प्रामा­ण्या­न्य­था­नु­प­पत्तेः, न तु प्रमा­णा­न्त­र­वि­रुद्धं स्ववचनविरुद्धं वा । कर्मणः मिथ्या­प्र­त्य­य­व­त्क­र्तृ­क­त्वात् कर्तुरभावे श्रुते­र­प्रा­मा­ण्य­मिति चेत् , न ; ब्रह्म­वि­द्या­या­म­र्थ­व­त्त्वो­प­पत्तेः ॥

कर्म­वि­धि­श्रु­ति­वत् ब्रह्म­वि­द्या­वि­धि­श्रु­ते­रपि अप्रा­मा­ण्य­प्र­सङ्ग इति चेत् , न ; बाध­क­प्र­त्य­या­नु­प­पत्तेः । यथा ब्रह्म­वि­द्या­वि­धि­श्रुत्या आत्मनि अवगते देहादिसङ्घाते अहंप्रत्ययः बाध्यते, तथा आत्मन्येव आत्मावगतिः न कदाचित् केनचित् कथञ्चिदपि बाधितुं शक्या, फला­व्य­ति­रे­का­द­व­गतेः, यथा अग्निः उष्णः प्रकाशश्च इति । न च एवं कर्म­वि­धि­श्रु­ते­र­प्रा­मा­ण्यम् , पूर्व­पू­र्व­प्र­वृ­त्ति­नि­रो­धेन उत्त­रो­त्त­रा­पू­र्व­प्र­वृ­त्ति­ज­न­नस्य प्रत्य­गा­त्मा­भि­मु­ख्येन प्रवृ­त्त्यु­त्पा­द­ना­र्थ­त्वात् । मिथ्यात्वेऽपि उपायस्य उपेयसत्यतया सत्यत्वमेव स्यात् , यथा अर्थवादानां विधिशेषाणाम् ; लोकेऽपि बालो­न्म­त्ता­दीनां पयआदौ पाययितव्ये चूडा­व­र्ध­ना­दि­व­च­नम् । प्रका­रा­न्त­र­स्थानां च साक्षादेव वा प्रामाण्यं सिद्धम् , प्रागा­त्म­ज्ञा­नात् देहा­भि­मा­न­नि­मि­त्त­प्र­त्य­क्षा­दि­प्रा­मा­ण्य­वत् । यत्तु मन्यसे — स्वय­म­व्या­प्रि­य­मा­णोऽपि आत्मा संनिधिमात्रेण करोति, तदेव मुख्यं कर्तृत्वमात्मनः ; यथा राजा युध्यमानेषु योधेषु युध्यत इति प्रसिद्धं स्वय­म­यु­ध्य­मा­नोऽपि संनिधानादेव जितः पराजितश्चेति, तथा सेनापतिः वाचैव करोति ; क्रिया­फ­ल­स­म्ब­न्धश्च राज्ञः सेनापतेश्च दृष्टः । यथा च ऋत्विक्कर्म यजमानस्य, तथा देहादीनां कर्म आत्मकृतं स्यात् , फलस्य आत्मगामित्वात् । यथा वा भ्रामकस्य लोह­भ्रा­म­यि­तृ­त्वात् अव्यापृतस्यैव मुख्यमेव कर्तृत्वम् , तथा च आत्मनः इति । तत् असत् ; अकुर्वतः कार­क­त्व­प्र­स­ङ्गात् । कार­क­म­ने­क­प्र­का­र­मिति चेत् , न ; राजप्रभृतीनां मुख्यस्यापि कर्तृत्वस्य दर्शनात् । राजा तावत् स्वव्यापारेणापि युध्यते ; योधानां च योधयितृत्वे धनदाने च मुख्यमेव कर्तृत्वम् , तथा जयपराजयफलोपभोगे । यजमानस्यापि प्रधानत्यागे दक्षिणादाने च मुख्यमेव कर्तृत्वम् । तस्मात् अव्यापृतस्य कर्तृत्वोपचारो यः, सः गौणः इति अवगम्यते । यदि मुख्यं कर्तृत्वं स्वव्या­पा­र­ल­क्षणं नोपलभ्यते राज­य­ज­मा­न­प्र­भृ­ती­नाम् , तदा संनि­धि­मा­त्रे­णापि कर्तृत्वं मुख्यं परिकल्प्येत ; यथा भ्रामकस्य लोहभ्रमणेन, न तथा राजयजमानादीनां स्वव्यापारो नोपलभ्यते । तस्मात् संनिधिमात्रेण कर्तृत्वं गौणमेव । तथा च सति तत्फ­ल­स­म्ब­न्धोऽपि गौण एव स्यात् । न गौणेन मुख्यं कार्यं निर्वर्त्यते । तस्मात् असदेव एतत् गीयते ‘देहादीनां व्यापारेण अव्यापृतः आत्मा कर्ता भोक्ता च स्यात्’ इति । भ्रान्ति­नि­मित्तं तु सर्वम् उपपद्यते, यथा स्वप्ने ; मायायां च एवम् । न च देहा­द्या­त्म­प्र­त्य­य­भ्रा­न्ति­स­न्ता­न­वि­च्छे­देषु सुषु­प्ति­स­मा­ध्या­दिषु कर्तृ­त्व­भो­क्तृ­त्वा­द्य­नर्थः उपलभ्यते । तस्मात् भ्रान्ति­प्र­त्य­य­नि­मित्तः एव अयं संसारभ्रमः, न तु परमार्थः ; इति सम्यग्दर्शनात् अत्यन्त एवोपरम इति सिद्धम् ॥ ६६ ॥

सर्वं गीता­शा­स्त्रा­र्थ­मु­प­सं­हृत्य अस्मिन्नध्याये, विशेषतश्च अन्ते, इह शास्त्रा­र्थ­दा­र्ढ्याय सङ्क्षेपतः उपसंहारं कृत्वा, अथ इदानीं शास्त्र­स­म्प्र­दा­य­वि­धि­माह —

इदं ते नातपस्काय
नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं
न च मां योऽभ्यसूयति ॥ ६७ ॥

६७

इदं शास्त्रं ते तव हिताय मया उक्तं संसा­र­वि­च्छि­त्तये अतपस्काय तपोरहिताय न वाच्यम् इति व्यवहितेन सम्बध्यते । तपस्विनेऽपि अभक्ताय गुरौ देवे च भक्तिरहिताय कदाचन कस्याञ्चिदपि अवस्थायां न वाच्यम् । भक्तः तपस्वी अपि सन् अशुश्रूषुः यो भवति तस्मै अपि न वाच्यम् । न च यो मां वासुदेवं प्राकृतं मनुष्यं मत्वा अभ्यसूयति आत्म­प्र­शं­सा­दि­दो­षा­ध्या­रो­प­णेन ईश्वरत्वं मम अजानन् न सहते, असावपि अयोग्यः, तस्मै अपि न वाच्यम् । भगवति अनसूयायुक्ताय तपस्विने भक्ताय शुश्रूषवे वाच्यं शास्त्रम् इति सामर्थ्यात् गम्यते । तत्र ‘मेधाविने तपस्विने वा’(यास्क. नि. २ । १ । ६) इति अनयोः विकल्पदर्शनात् शुश्रू­षा­भ­क्ति­यु­क्ताय तपस्विने तद्युक्ताय मेधाविने वा वाच्यम् । शुश्रू­षा­भ­क्ति­वि­यु­क्ताय न तपस्विने नापि मेधाविने वाच्यम् । भगवति असूयायुक्ताय समस्तगुणवतेऽपि न वाच्यम् । गुरु­शु­श्रू­षा­भ­क्ति­मते च वाच्यम् इत्येषः शास्त्र­स­म्प्र­दा­य­विधिः ॥ ६७ ॥

सम्प्रदायस्य कर्तुः फलम् इदानीम् आह —

य इमं परमं गुह्यं
मद्भ­क्ते­ष्व­भि­धा­स्यति ।
भक्तिं मयि परां कृत्वा
मामे­वै­ष्य­त्य­सं­शयः ॥ ६८ ॥

६८

यः इमं यथोक्तं परमं पर­म­निः­श्रे­य­सार्थं केशवार्जुनयोः संवादरूपं ग्रन्थं गुह्यं गोप्यतमं मद्भक्तेषु मयि भक्तिमत्सु अभिधास्यति वक्ष्यति, ग्रन्थतः अर्थतश्च स्थाप­यि­ष्य­ती­त्यर्थः, यथा त्वयि मया । भक्तेः पुनर्ग्रहणात् भक्तिमात्रेण केवलेन शास्त्र­स­म्प्र­दाने पात्रं भवतीति गम्यते । कथम् अभिधास्यति इति, उच्यते — भक्तिं मयि परां कृत्वा ‘भगवतः परमगुरोः अच्युतस्य शुश्रूषा मया क्रियते’ इत्येवं कृत्वेत्यर्थः । तस्य इदं फलम् — मामेव एष्यति मुच्यते एव । असंशयः अत्र संशयः न कर्तव्यः ॥ ६८ ॥

किञ्च —

न च तस्मा­न्म­नु­ष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ ६९ ॥

६९

न च तस्मात् शास्त्र­स­म्प्र­दा­य­कृतः मनुष्येषु मनुष्याणां मध्ये कश्चित् मे मम प्रियकृत्तमः अतिशयेन प्रियकरः, अन्यः प्रियकृत्तमः, नास्त्येव इत्यर्थः वर्तमानेषु । न च भविता भविष्यत्यपि काले तस्मात् द्वितीयः अन्यः प्रियतरः प्रियकृत्तरः भुवि लोकेऽस्मिन् न भविता ॥ ६९ ॥

योऽपि —

अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ ७० ॥

७०

अध्येष्यते च पठिष्यति यः इमं धर्म्यं धर्मादनपेतं संवादरूपं ग्रन्थं आवयोः, तेन इदं कृतं स्यात् । ज्ञानयज्ञेन — विधि­ज­पो­पां­शु­मा­न­सानां यज्ञानां ज्ञानयज्ञः मानसत्वात् विशिष्टतमः इत्यतः तेन ज्ञानयज्ञेन गीताशास्त्रस्य अध्ययनं स्तूयते ; फलविधिरेव वा, देव­ता­दि­वि­ष­य­ज्ञा­न­य­ज्ञ­फ­ल­तु­ल्यम् अस्य फलं भवतीति — तेन अध्ययनेन अहम् इष्टः पूजितः स्यां भवेयम् इति मे मम मतिः निश्चयः ॥ ७० ॥

अथ श्रोतुः इदं फलम् —

श्रद्धा­वा­न­न­सू­यश्च शृणुयादपि यो नरः ।
सोऽपि मुक्तः शुभां­ल्लो­का­न्प्रा­प्नु­या­त्पु­ण्य­क­र्म­णाम् ॥ ७१ ॥

७१

श्रद्धावान् श्रद्दधानः अनसूयश्च असूयावर्जितः सन् इमं ग्रन्थं शृणुयादपि यो नरः, अपिशब्दात् किमुत अर्थज्ञानवान् , सोऽपि पापात् मुक्तः शुभान् प्रशस्तान् लोकान् प्राप्नुयात् पुण्यकर्मणाम् अग्नि­हो­त्रा­दि­क­र्म­व­ताम् ॥ ७१ ॥

शिष्यस्य शास्त्रा­र्थ­ग्र­ह­णा­ग्र­ह­ण­वि­वे­क­बु­भु­त्सया पृच्छति । तदग्रहणे ज्ञाते पुनः ग्राहयिष्यामि उपायान्तरेणापि इति प्रष्टुः अभिप्रायः । यत्नान्तरं च आस्थाय शिष्यस्य कृतार्थता कर्तव्या इति आचार्यधर्मः प्रदर्शितो भवति —

कच्चि­दे­त­च्छ्रुतं पार्थ
त्वयैकाग्रेण चेतसा ।
कच्चि­द­ज्ञा­न­सं­मोहः
प्रणष्टस्ते धनञ्जय ॥ ७२ ॥

७२

कच्चित् किम् एतत् मया उक्तं श्रुतं श्रवणेन अवधारितं पार्थ, त्वया एकाग्रेण चेतसा चित्तेन ? किं वा अप्रमादतः ? कच्चित् अज्ञानसंमोहः अज्ञाननिमित्तः संमोहः अविविक्तभावः अविवेकः स्वाभाविकः किं प्रणष्टः ? यदर्थः अयं शास्त्र­श्र­व­णा­यासः तव, मम च उप­दे­ष्टृ­त्वा­यासः प्रवृत्तः, ते तुभ्यं हे धनञ्जय ॥ ७२ ॥

अर्जुन उवाच —

नष्टो मोहः स्मृतिर्लब्धा
त्वत्प्र­सा­दा­न्म­या­च्युत ।
स्थितोऽस्मि गतसन्देहः
करिष्ये वचनं तव ॥ ७३ ॥

७३

नष्टः मोहः अज्ञानजः सम­स्त­सं­सा­रा­न­र्थ­हेतुः, सागर इव दुरुत्तरः । स्मृतिश्च आत्मतत्त्वविषया लब्धा, यस्याः लाभात् सर्व­हृ­द­य­ग्र­न्थीनां विप्रमोक्षः ; त्वत्प्रसादात् तव प्रसादात् मया त्वत्प्रसादम् आश्रितेन अच्युत । अनेन मोह­ना­श­प्र­श्न­प्र­ति­व­च­नेन सर्व­शा­स्त्रा­र्थ­ज्ञा­न­फ­लम् एतावदेवेति निश्चितं दर्शितं भवति, यतः ज्ञानात् मोहनाशः आत्म­स्मृ­ति­ला­भ­श्चेति । तथा च श्रुतौ ‘अनात्मवित् शोचामि’(छा. उ. ७ । १ । ३) इति उपन्यस्य आत्मज्ञानेन सर्वग्रन्थीनां विप्रमोक्षः उक्तः ; ‘भिद्यते हृदयग्रन्थिः’(मु. उ. २ । २ । ९) ‘तत्र को मोहः कः शोकः एकत्वमनुपश्यतः’(ई. उ. ७) इति च मन्त्रवर्णः । अथ इदानीं त्वच्छासने स्थितः अस्मि गतसन्देहः मुक्तसंशयः । करिष्ये वचनं तव । अहं त्वत्प्रसादात् कृतार्थः, न मे कर्तव्यम् अस्ति इत्यभिप्रायः ॥ ७३ ॥

परिसमाप्तः शास्त्रार्थः । अथ इदानीं कथा­स­म्ब­न्ध­प्र­द­र्श­नार्थं सञ्जयः उवाच —

सञ्जय उवाच —

इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवा­द­मि­म­म­श्रौ­ष­म­द्भुतं रोमहर्षणम् ॥ ७४ ॥

७४

इति एवम् अहं वासुदेवस्य पार्थस्य च महात्मनः संवादम् इमं यथोक्तम् अश्रौषं श्रुतवान् अस्मि अद्भुतम् अत्य­न्त­वि­स्म­य­करं रोमहर्षणं रोमाञ्चकरम् ॥ ७४ ॥

तं च इमम् —

व्यास­प्र­सा­दा­च्छ्रु­त­वा­निमं गुह्यतमं परम् ।
योगं योगे­श्व­रा­त्कृ­ष्णा­त्सा­क्षा­त्क­थ­यतः स्वयम् ॥ ७५ ॥

७५

व्यासप्रसादात् ततः दिव्य­च­क्षु­र्ला­भात् श्रुतवान् इमं संवादं गुह्यतमं परं योगम् , योगार्थत्वात् ग्रन्थोऽपि योगः, संवादम् इमं योगमेव वा योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् , न परम्परया ॥ ७५ ॥

राजन् संस्मृत्य संस्मृत्य
संवा­द­मि­म­म­द्भु­तम् ।
केशवार्जुनयोः पुण्यं
हृष्यामि च मुहुर्मुहुः ॥ ७६ ॥

७६

हे राजन् धृतराष्ट्र, संस्मृत्य संस्मृत्य प्रतिक्षणं संवादम् इमम् अद्भुतं केशवार्जुनयोः पुण्यम् इमं श्रवणेनापि पापहरं श्रुत्वा हृष्यामि च मुहुर्मुहुः प्रतिक्षणम् ॥ ७६ ॥

तच्च संस्मृत्य संस्मृत्य
रूपमत्यद्भुतं हरेः ।
विस्मयो मे महान्राजन्
हृष्यामि च पुनः पुनः ॥ ७७ ॥

७७

तच्च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः विश्वरूपं विस्मयो मे महान् राजन् , हृष्यामि च पुनः पुनः ॥ ७७ ॥

किं बहुना —

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ७८ ॥

७८

यत्र यस्मिन् पक्षे योगेश्वरः सर्वयोगानाम् ईश्वरः, तत्प्रभवत्वात् सर्वयोगबीजस्य, कृष्णः, यत्र पार्थः यस्मिन् पक्षे धनुर्धरः गाण्डीवधन्वा, तत्र श्रीः तस्मिन् पाण्डवानां पक्षे श्रीः विजयः, तत्रैव भूतिः श्रियो विशेषः विस्तारः भूतिः, ध्रुवा अव्यभिचारिणी नीतिः नयः, इत्येवं मतिः मम इति ॥ ७८ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ श्रीम­द्भ­ग­व­द्गी­ता­भाष्ये अष्टादशोऽध्यायः ॥