अद्वैतशारदा

श्रीमद्भगवद्गीताभाष्यम्

द्वितीयोऽध्यायः

व्याख्याः

सञ्जय उवाच —

तं तथा कृप­या­वि­ष्ट­म­श्रु­पू­र्णा­कु­ले­क्ष­णम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥

श्रीभगवानुवाच —

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अना­र्य­जु­ष्ट­म­स्व­र्ग्य­म­की­र्ति­क­र­म­र्जुन ॥ २ ॥

क्लैब्यं मा स्म गमः पार्थ नैत­त्त्व­य्यु­प­प­द्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वो­त्तिष्ठ परन्तप ॥ ३ ॥

अर्जुन उवाच —

कथं भीष्ममहं सं‍ख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥

गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्षमपीह लोके ।
हत्वा­र्थ­का­मांस्तु गुरूनिहैव भुञ्जीय भोगा­न्रु­धि­र­प्र­दि­ग्धान् ॥ ५ ॥

न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजी­वि­षा­म­स्तेऽ­व­स्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६ ॥

कार्प­ण्य­दो­षो­प­ह­त­स्व­भावः पृच्छामि त्वां धर्मसंमूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥

न हि प्रपश्यामि ममा­प­नु­द्या­द्य­च्छो­क­मु­च्छो­ष­ण­मि­न्द्रि­या­णाम् ।
अवाप्य भूमा­व­स­प­त्न­मृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥ ८ ॥

सञ्जय उवाच —

एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ ९ ॥

तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेन­यो­रु­भ­यो­र्मध्ये विषीदन्तमिदं वचः ॥ १० ॥

१०

अत्र ‘दृष्ट्वा तु पाण्डवानीकम्’(भ. गी. १ । २) इत्यारभ्य यावत् ‘न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह’(भ. गी. २ । ९) इत्येतदन्तः प्राणिनां शोक­मो­हा­दि­सं­सा­र­बी­ज­भू­त­दो­षो­द्भ­व­का­र­ण­प्र­द­र्श­ना­र्थ­त्वेन व्याख्येयो ग्रन्थः । तथाहि — अर्जुनेन राज्य­गु­रु­पु­त्र­मि­त्र­सु­हृ­त्स्व­ज­न­स­म्ब­न्धि­बा­न्ध­वेषु ‘अहमेतेषाम्’ ‘ममैते’ इत्ये­वं­प्र­त्य­य­नि­मि­त्त­स्ने­ह­वि­च्छे­दा­दि­नि­मित्तौ आत्मनः शोकमोहौ प्रदर्शितौ ‘कथं भीष्ममहं सङ्‍ख्ये’(भ. गी. २ । ४) इत्यादिना । शोकमोहाभ्यां ह्यभि­भू­त­वि­वे­क­वि­ज्ञानः स्वत एव क्षत्रधर्मे युद्धे प्रवृत्तोऽपि तस्मा­द्यु­द्धा­दु­प­र­राम ; परधर्मं च भिक्षाजीवनादिकं कर्तुं प्रववृते । तथा च सर्वप्राणिनां शोक­मो­हा­दि­दो­षा­वि­ष्ट­चे­तसां स्वभावत एव स्वध­र्म­प­रि­त्यागः प्रतिषिद्धसेवा च स्यात् । स्वधर्मे प्रवृत्तानामपि तेषां वाङ्म­नः­का­या­दीनां प्रवृत्तिः फला­भि­स­न्धि­पू­र्वि­कैव साहङ्कारा च भवति । तत्रैवं सति धर्मा­ध­र्मो­प­च­यात् इष्टा­नि­ष्ट­ज­न्म­सु­ख­दुः­ख़ा­दि­प्रा­प्ति­ल­क्षणः संसारः अनुपरतो भवति । इत्यतः संसारबीजभूतौ शोकमोहौ तयोश्च सर्व­क­र्म­सं­न्या­स­पू­र्व­का­दा­त्म­ज्ञा­नात् नान्यतो निवृत्तिरिति तदुपदिदिक्षुः सर्व­लो­का­नु­ग्र­हा­र्थम् अर्जुनं निमित्तीकृत्य आह भगवान्वासुदेवः — ‘अशोच्यान्’(भ. गी. २ । ११) इत्यादि ॥

अत्र केचिदाहुः — सर्व­क­र्म­सं­न्या­स­पू­र्व­का­दा­त्म­ज्ञा­न­नि­ष्ठा­मा­त्रा­देव केवलात् कैवल्यं न प्राप्यत एव । किं तर्हि ? अग्नि­हो­त्रा­दि­श्रौ­त­स्मा­र्त­क­र्म­स­हि­तात् ज्ञानात् कैव­ल्य­प्रा­प्ति­रिति सर्वासु गीतासु निश्चितोऽर्थ इति । ज्ञापकं च आहुरस्यार्थस्य — ‘अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि’(भ. गी. २ । ३३) ‘कर्म­ण्ये­वा­धि­का­रस्ते’(भ. गी. २ । ४७) ‘कुरु कर्मैव तस्मात्त्वम्’(भ. गी. ४ । १५) इत्यादि । हिंसा­दि­यु­क्त­त्वात् वैदिकं कर्म अधर्माय इतीयमप्याशङ्का न कार्या । कथम् ? क्षात्रं कर्म युद्धलक्षणं गुरु­भ्रा­तृ­पु­त्रा­दि­हिं­सा­ल­क्ष­ण­म­त्यन्तं क्रूरमपि स्वधर्म इति कृत्वा न अधर्माय ; तदकरणे च ‘ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि’(भ. गी. २ । ३३) इति ब्रुवता याव­ज्जी­वा­दि­श्रु­ति­चो­दि­तानां पश्वा­दि­हिं­सा­ल­क्ष­णानां च कर्मणां प्रागेव नाधर्मत्वमिति सुनिश्चितमुक्तं भवति — इति ॥

तदसत् ; ज्ञान­क­र्म­नि­ष्ठ­यो­र्वि­भा­ग­व­च­ना­द्बु­द्धि­द्व­या­श्र­ययोः । ‘अशोच्यान्’(भ. गी. २ । ११) इत्यादिना भगवता यावत् ‘स्वधर्ममपि चावेक्ष्य’(भ. गी. २ । ३१) इत्येतदन्तेन ग्रन्थेन यत्प­र­मा­र्था­त्म­त­त्त्व­नि­रू­पणं कृतम् , तत्साङ्ख्यम् । तद्विषया बुद्धिः आत्मनो जन्मा­दि­ष­ड्वि­क्रि­या­भा­वा­द­कर्ता आत्मेति प्रक­र­णा­र्थ­नि­रू­प­णात् या जायते, सा साङ्ख्या बुद्धिः । सा येषां ज्ञानिनामुचिता भवति, ते साङ्ख्याः । एतस्या बुद्धेः जन्मनः प्राक् आत्मनो देहा­दि­व्य­ति­रि­क्त­त्व­क­र्तृ­त्व­भो­क्तृ­त्वा­द्य­पेक्षो धर्मा­ध­र्म­वि­वे­क­पू­र्वको मोक्ष­सा­ध­ना­नु­ष्ठा­न­ल­क्षणो योगः । तद्विषया बुद्धिः योगबुद्धिः । सा येषां कर्मिणामुचिता भवति ते योगिनः । तथा च भगवता विभक्ते द्वे बुद्धी निर्दिष्टे ‘एषा तेऽभिहिता साङ्‍ख्ये बुद्धिर्योगे त्विमां शृणु’(भ. गी. २ । ३९) इति । तयोश्च साङ्‍ख्य­बु­द्ध्या­श्रयां ज्ञानयोगेन निष्ठां साङ्‍ख्यानां विभक्तां वक्ष्यति ‘पुरा वेदात्मना मया प्रोक्ता’(भ. गी. ३ । ३) इति । तथा च योग­बु­द्ध्या­श्रयां कर्मयोगेन निष्ठां विभक्तां वक्ष्यति — ‘कर्मयोगेन योगिनाम्’ इति । एवं साङ्‍ख्यबुद्धिं योगबुद्धिं च आश्रित्य द्वे निष्ठे विभक्ते भगवतैव उक्ते ज्ञानकर्मणोः कर्तृ­त्वा­क­र्तृ­त्वै­क­त्वा­ने­क­त्व­बु­द्ध्या­श्र­ययोः युग­प­दे­क­पु­रु­षा­श्र­य­त्वा­स­म्भवं पश्यता । यथा एतद्विभागवचनम् , तथैव दर्शितं शातपथीये ब्राह्मणे — ‘एतमेव प्रव्राजिनो लोकमिच्छन्तो ब्राह्मणाः प्रव्रजन्ति’ इति सर्व­क­र्म­सं­न्यासं विधाय तच्छेषेण ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’(बृ. उ. ४ । ४ । २२) इति । तत्र च प्राक् दारपरिग्रहात् पुरुषः आत्मा प्राकृतो धर्म­जि­ज्ञा­सो­त्त­र­कालं लोकत्रयसाधनम् — पुत्रम् , द्विप्रकारं च वित्तं मानुषं दैवं च ; तत्र मानुषं कर्मरूपं पितृ­लो­क­प्रा­प्ति­सा­धनं विद्यां च दैवं वित्तं देव­लो­क­प्रा­प्ति­सा­ध­नम् — ‘सोऽकामयत’(बृ. उ. १ । ४ । १७) इति अविद्याकामवत एव सर्वाणि कर्माणि श्रौतादीनि दर्शितानि । तेभ्यः ‘व्युत्थाय, प्रव्रजन्ति’ इति व्युत्था­न­मा­त्मा­न­मेव लोक­मि­च्छ­तोऽ­का­मस्य विहितम् । तदे­त­द्वि­भा­ग­व­च­न­म­नु­प­पन्नं स्याद्यदि श्रौत­क­र्म­ज्ञा­नयोः समु­च्च­योऽ­भि­प्रेतः स्याद्भगवतः ॥

न च अर्जुनस्य प्रश्न उपपन्नो भवति ‘ज्यायसी चेत्कर्मणस्ते’(भ. गी. ३ । १) इत्यादिः । एक­पु­रु­षा­नु­ष्ठे­य­त्वा­स­म्भवं बुद्धिकर्मणोः भगवता पूर्वमनुक्तं कथमर्जुनः अश्रुतं बुद्धेश्च कर्मणो ज्यायस्त्वं भग­व­त्य­ध्या­रो­प­ये­न्मृ­षैव ‘ज्यायसी चेत्कर्मणस्ते मता बुद्धिः’(भ. गी. ३ । १) इति ॥

किञ्च — यदि बुद्धिकर्मणोः सर्वेषां समुच्चय उक्तः स्यात् अर्जुनस्यापि स उक्त एवेति, ‘यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्’(भ. गी. ५ । १) इति कथमुभयोरुपदेशे सति अन्यतरविषय एव प्रश्नः स्यात् ? न हि पित्त­प्र­श­म­ना­र्थिनः वैद्येन मधुरं शीतलं च भोक्तव्यम् इत्युपदिष्टे तयो­र­न्य­त­र­त्पि­त्त­प्र­श­म­न­का­रणं ब्रूहि इति प्रश्नः सम्भवति ॥

अथ अर्जुनस्य भग­व­दु­क्त­व­च­ना­र्थ­वि­वे­का­न­व­धा­र­ण­नि­मित्तः प्रश्नः कल्प्येत, तथापि भगवता प्रश्नानुरूपं प्रतिवचनं देयम् — मया बुद्धिकर्मणोः समुच्चय उक्तः, किमर्थमित्थं त्वं भ्रान्तोऽसि — इति । न तु पुनः प्रति­व­च­न­म­न­नु­रूपं पृष्टादन्यदेव ‘द्वे निष्ठे मया पुरा प्रोक्ते’(भ. गी. ३ । ३) इति वक्तुं युक्तम् ॥

नापि स्मार्तेनैव कर्मणा बुद्धेः समुच्चये अभिप्रेते विभागवचनादि सर्वमुपपन्नम् । किञ्च — क्षत्रियस्य युद्धं स्मार्तं कर्म स्वधर्म इति जानतः ‘तत्किं कर्मणि घोरे मां नियोजयसि’(भ. गी. ३ । १) इति उपा­ल­म्भोऽ­नु­प­पन्नः ॥

तस्मा­द्गी­ता­शास्त्रे ईषन्मात्रेणापि श्रौतेन स्मार्तेन वा कर्मणा आत्मज्ञानस्य समुच्चयो न केन­चि­द्द­र्श­यितुं शक्यः । यस्य तु अज्ञानात् रागादिदोषतो वा कर्मणि प्रवृत्तस्य यज्ञेन दानेन तपसा वा विशु­द्ध­स­त्त्वस्य ज्ञान­मु­त्प­न्न­म्प­र­मा­र्थ­त­त्त्व­वि­ष­यम् ‘एकमेवेदं सर्वं ब्रह्म अकर्तृ च’ इति, तस्य कर्मणि कर्मप्रयोजने च निवृत्तेऽपि लोकसङ्ग्रहार्थं यत्नपूर्वं यथा प्रवृत्तिः, तथैव प्रवृत्तस्य यत्प्र­वृ­त्ति­रूपं दृश्यते न तत्कर्म येन बुद्धेः समुच्चयः स्यात् ; यथा भगवतो वासुदेवस्य क्षत्र­ध­र्म­चे­ष्टितं न ज्ञानेन समुच्चीयते पुरु­षा­र्थ­सि­द्धये, तद्वत् तत्फ­ला­भि­स­न्ध्य­ह­ङ्का­रा­भा­वस्य तुल्य­त्वा­द्वि­दुषः । तत्त्वविन्नाहं करोमीति मन्यते, न च तत्फ­ल­म­भि­स­न्धत्ते । यथा च स्वर्गा­दि­का­मा­र्थिनः अग्नि­हो­त्रा­दि­क­र्म­ल­क्ष­ण­ध­र्मा­नु­ष्ठा­नाय आहिताग्नेः काम्ये एव अग्निहोत्रादौ प्रवृत्तस्य सामि कृते विनष्टेऽपि कामे तदेव अग्नि­हो­त्रा­द्य­नु­ति­ष्ठ­तोऽपि न तत्का­म्य­म­ग्नि­हो­त्रादि भवति । तथा च दर्शयति भगवान् — ‘कुर्वन्नपि न लिप्यते’(भ. गी. ५ । ७) ‘न करोति न लिप्यते’(भ. गी. १३ । ३१) इति तत्र तत्र ॥

यच्च ‘पूर्वैः पूर्वतरं कृतम्’(भ. गी. ४ । १५) ‘कर्मणैव हि संसि­द्धि­मा­स्थिता जनकादयः’(भ. गी. ३ । २०) इति, तत्तु प्रविभज्य विज्ञेयम् । तत्कथम् ? यदि तावत् पूर्वे जनकादयः तत्त्वविदोऽपि प्रवृत्तकर्माणः स्युः, ते लोक­स­ङ्ग्र­हा­र्थम् ‘गुणा गुणेषु वर्तन्ते’(भ. गी. ३ । २८) इति ज्ञानेनैव संसि­द्धि­मा­स्थिताः, कर्मसंन्यासे प्राप्तेऽपि कर्मणा सहैव संसि­द्धि­मा­स्थिताः, न कर्मसंन्यासं कृतवन्त इत्यर्थः । अथ न ते तत्त्वविदः ; ईश्वरसमर्पितेन कर्मणा साधनभूतेन संसिद्धिं सत्त्वशुद्धिम् , ज्ञानो­त्प­त्ति­ल­क्षणां वा संसिद्धिम् , आस्थिता जनकादय इति व्याख्येयम् । एवमेवार्थं वक्ष्यति भगवान् ‘सत्त्वशुद्धये कर्म कुर्वन्ति’(भ. गी. ५ । ११) इति । ‘स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः’(भ. गी. १८ । ४६) इत्युक्त्वा सिद्धिं प्राप्तस्य पुन­र्ज्ञा­न­निष्ठां वक्ष्यति — ‘सिद्धिं प्राप्तो यथा ब्रह्म’(भ. गी. १८ । ५०) इत्यादिना ॥

तस्मा­द्गी­ता­शास्त्रे केवलादेव तत्त्व­ज्ञा­ना­न्मो­क्ष­प्राप्तिः न कर्मसमुच्चितात् , इति निश्चितोऽर्थः । यथा चायमर्थः, तथा प्रकरणशो विभज्य तत्र तत्र दर्शयिष्यामः ॥

तत्रैवं धर्मसंमूढचेतसो मिथ्याज्ञानवतो महति शोकसागरे निमग्नस्य अर्जुनस्य अन्य­त्रा­त्म­ज्ञा­ना­दु­द्ध­र­ण­म­प­श्यन् भगवान्वासुदेवः ततः कृपया अर्जु­न­मु­द्दि­धा­र­यिषुः आत्म­ज्ञा­ना­या­व­ता­र­य­न्नाह —

श्रीभगवानुवाच —

अशो­च्या­न­न्व­शो­चस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥

११

अशोच्यान् इत्यादि । न शोच्या अशोच्याः भीष्मद्रोणादयः, सद्वृत्तत्वात् परमार्थस्वरूपेण च नित्यत्वात् , तान् अशोच्यान् अन्वशोचः अनुशोचितवानसि ‘ते म्रियन्ते मन्निमित्तम् , अहं तैर्विनाभूतः किं करिष्यामि राज्यसुखादिना’ इति । त्वं प्रज्ञावादान् प्रज्ञावतां बुद्धिमतां वादांश्च वचनानि च भाषसे | तदेतत् मौढ्यं पाण्डित्यं च विरुद्धम् आत्मनि दर्शयसि उन्मत्त इव इत्यभिप्रायः । यस्मात् गतासून् गतप्राणान् मृतान् , अगतासून् अगतप्राणान् जीवतश्च न अनुशोचन्ति पण्डिताः आत्मज्ञाः । पण्डा आत्मविषया बुद्धिः येषां ते हि पण्डिताः, ‘पाण्डित्यं निर्विद्य’(बृ. उ. ३ । ५ । १) इति श्रुतेः । परमार्थतस्तु तान् नित्यान् अशोच्यान् अनुशोचसि, अतो मूढोऽसि इत्यभिप्रायः ॥ ११ ॥

कुतस्ते अशोच्याः, यतो नित्याः । कथम् ? —

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥ १२ ॥

१२

न तु एव जातु कदाचित् अहं नासम् , किं तु आसमेव । अतीतेषु देहो­त्प­त्ति­वि­ना­शेषु घटादिषु वियदिव नित्य एव अह­मा­स­मि­त्य­भि­प्रायः । तथा न त्वं न आसीः, किं तु आसीरेव । तथा न इमे जनाधिपाः न आसन् , किं तु आसन्नेव । तथा न च एव न भविष्यामः, किं तु भविष्याम एव, सर्वे वयम् अतः अस्मात् देहविनाशात् परम् उत्तरकाले अपि । त्रिष्वपि कालेषु नित्या आत्मस्वरूपेण इत्यर्थः । देह­भे­दा­नु­वृत्त्या बहुवचनम् , नात्म­भे­दा­भि­प्रा­येण ॥ १२ ॥

तत्र कथमिव नित्य आत्मेति दृष्टान्तमाह —

देहि­नोऽ­स्मि­न्यथा देहे कौमारं यौवनं जरा ।
तथा देहा­न्त­र­प्रा­प्ति­र्धी­र­स्तत्र न मुह्यति ॥ १३ ॥

१३

देहः अस्य अस्तीति देही, तस्य देहिनो देहवतः आत्मनः अस्मिन् वर्तमाने देहे यथा येन प्रकारेण कौमारं कुमारभावो बाल्यावस्था, यौवनं यूनो भावो मध्यमावस्था, जरा वयोहानिः जीर्णावस्था, इत्येताः तिस्रः अवस्थाः अन्यो­न्य­वि­ल­क्षणाः । तासां प्रथमावस्थानाशे न नाशः, द्विती­या­व­स्थो­प­जने न उपजन आत्मनः । किं तर्हि ? अविक्रियस्यैव द्विती­य­तृ­ती­या­व­स्था­प्राप्तिः आत्मनो दृष्टा । तथा तद्वदेव देहात् अन्यो देहो देहान्तरम् , तस्य प्राप्तिः देहा­न्त­र­प्राप्तिः अविक्रियस्यैव आत्मनः इत्यर्थः । धीरो धीमान् , तत्र एवं सति न मुह्यति न मोहमापद्यते ॥ १३ ॥

यद्यपि आत्म­वि­ना­श­नि­मित्तो मोहो न सम्भवति नित्य आत्मा इति विजानतः, तथापि शीतो­ष्ण­सु­ख­दुः­ख­प्रा­प्ति­नि­मित्तो मोहो लौकिको दृश्यते, सुख­वि­यो­ग­नि­मित्तो मोहः दुःख­सं­यो­ग­नि­मि­त्तश्च शोकः । इत्येतदर्जुनस्य वचनमाशङ्क्य भगवानाह —

मात्रा­स्प­र्शास्तु कौन्तेय शीतो­ष्ण­सु­ख­दुः­खदाः ।
आग­मा­पा­यि­नोऽ­नि­त्या­स्तां­स्ति­ति­क्षस्व भारत ॥ १४ ॥

१४

मात्राः आभिः मीयन्ते शब्दादय इति श्रोत्रादीनि इन्द्रियाणि । मात्राणां स्पर्शाः शब्दादिभिः संयोगाः । ते शीतो­ष्ण­सु­ख­दुः­खदाः शीतम् उष्णं सुखं दुःखं च प्रयच्छन्तीति । अथवा स्पृश्यन्त इति स्पर्शाः विषयाः शब्दादयः । मात्राश्च स्पर्शाश्च शीतो­ष्ण­सु­ख­दुः­खदाः । शीतं कदाचित् सुखं कदाचित् दुःखम् । तथा उष्णमपि अनियतस्वरूपम् । सुखदुःखे पुनः नियतरूपे यतो न व्यभिचरतः । अतः ताभ्यां पृथक् शीतोष्णयोः ग्रहणम् । यस्मात् ते मात्रा­स्प­र्शा­दयः आगमापायिनः आगमापायशीलाः तस्मात् अनित्याः । अतः तान् शीतोष्णादीन् तितिक्षस्व प्रसहस्व । तेषु हर्षं विषादं वा मा कार्षीः इत्यर्थः ॥ १४ ॥

शीतोष्णादीन् सहतः किं स्यादिति शृणु —

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५ ॥

१५

यं हि पुरुषं समे दुःखसुखे यस्य तं समदुःखसुखं सुखदुःखप्राप्तौ हर्षविषादरहितं धीरं धीमन्तं न व्यथयन्ति न चालयन्ति नित्या­त्म­द­र्श­नात् एते यथोक्ताः शीतोष्णादयः, सः नित्या­त्म­स्व­रू­प­द­र्श­न­निष्ठो द्वन्द्व­स­हिष्णुः अमृतत्वाय अमृतभावाय मोक्षा­ये­त्यर्थः, कल्पते समर्थो भवति ॥ १५ ॥

इतश्च शोकमोहौ अकृत्वा शीतोष्णादिसहनं युक्तम् , यस्मात् —

नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽ­न्त­स्त्व­न­यो­स्त­त्त्व­द­र्शिभिः ॥ १६ ॥

१६

न असतः अविद्यमानस्य शीतोष्णादेः सकारणस्य न विद्यते नास्ति भावो भवनम् अस्तिता ॥

न हि शीतोष्णादि सकारणं प्रमा­णै­र्नि­रू­प्य­माणं वस्तुसद्भवति । विकारो हि सः, विकारश्च व्यभिचरति । यथा घटादिसंस्थानं चक्षुषा निरूप्यमाणं मृद्व्य­ति­रे­के­णा­नु­प­ल­ब्धे­र­सत् , तथा सर्वो विकारः कार­ण­व्य­ति­रे­के­णा­नु­प­ल­ब्धे­र­सन् । जन्म­प्र­ध्वं­साभ्यां प्रागूर्ध्वं च अनुपलब्धेः कार्यस्य घटादेः मृदादिकारणस्य च तत्का­र­ण­व्य­ति­रे­के­णा­नु­प­ल­ब्धे­र­स­त्त्वम् ॥

तदसत्त्वे सर्वाभावप्रसङ्ग इति चेत् , न ; सर्वत्र बुद्धि­द्व­यो­प­लब्धेः, सद्बु­द्धि­र­स­द्बु­द्धि­रिति । यद्विषया बुद्धिर्न व्यभिचरति, तत् सत् ; यद्विषया व्यभिचरति, तदसत् ; इति सदसद्विभागे बुद्धितन्त्रे स्थिते, सर्वत्र द्वे बुद्धी सर्वैरुपलभ्येते समानाधिकरणे न नीलोत्पलवत् , सन् घटः, सन् पटः, सन् हस्ती इति । एवं सर्वत्र तयोर्बुद्ध्योः घटादिबुद्धिः व्यभिचरति । तथा च दर्शितम् । न तु सद्बुद्धिः । तस्मात् घटा­दि­बु­द्धि­वि­षयः असन् , व्यभिचारात् ; न तु सद्बुद्धिविषयः, अव्यभिचारात् ॥

घटे विनष्टे घटबुद्दौ व्यभिचरन्त्यां सद्बुद्धिरपि व्यभिचरतीति चेत् , न ; पटादावपि सद्बु­द्धि­द­र्श­नात् । विशेषणविषयैव सा सद्बुद्धिः ॥

सद्बुद्धिवत् घटबुद्धिरपि घटान्तरे दृश्यत इति चेत् , न ; पटादौ अदर्शनात् ॥

सद्बुद्धिरपि नष्टे घटे न दृश्यत इति चेत् , न ; विशेष्याभावात् सद्बुद्धिः विशेषणविषया सती विशेष्याभावे विशेषणानुपपत्तौ किंविषया स्यात् ? न तु पुनः सद्बुद्धेः विषयाभावात् ॥

एकाधिकरणत्वं घटा­दि­वि­शे­ष्या­भावे न युक्तमिति चेत् , न ; ‘इदमुदकम्’ इति मरीच्यादौ अन्यतराभावेऽपि सामा­ना­धि­क­र­ण्य­द­र्श­नात् ॥

तस्माद्देहादेः द्वन्द्वस्य च सकारणस्य असतो न विद्यते भाव इति । तथा सतश्च आत्मनः अभावः अविद्यमानता न विद्यते, सर्वत्र अव्यभिचारात् इति अवोचाम ॥

एवम् आत्मानात्मनोः सदसतोः उभयोरपि दृष्टः उपलब्धः अन्तो निर्णयः सत् सदेव असत् असदेवेति, तु अनयोः यथोक्तयोः तत्त्वदर्शिभिः । तदिति सर्वनाम, सर्वं च ब्रह्म, तस्य नाम तदिति, तद्भावः तत्त्वम् , ब्रह्मणो याथात्म्यम् । तत् द्रष्टुं शीलं येषां ते तत्त्वदर्शिनः, तैः तत्त्वदर्शिभिः । त्वमपि तत्त्वदर्शिनां दृष्टिमाश्रित्य शोकं मोहं च हित्वा शीतोष्णादीनि नियतानियतरूपाणि द्वन्द्वानि ‘विका­रोऽ­य­म­स­न्नेव मरी­चि­ज­ल­व­न्मि­थ्या­व­भा­सते’ इति मनसि निश्चित्य तितिक्षस्व इत्यभिप्रायः ॥ १६ ॥

किं पुनस्तत् , यत् सदेव सर्वदा इति ; उच्यते —

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विना­श­म­व्य­य­स्यास्य न कश्चि­त्क­र्तु­म­र्हति ॥ १७ ॥

१७

अविनाशि न विनष्टुं शीलं यस्येति । तुशब्दः असतो विशेषणार्थः । तत् विद्धि विजानीहि । किम् ? येन सर्वम् इदं जगत् ततं व्याप्तं सदाख्येन ब्रह्मणा साकाशम् , आकाशेनेव घटादयः । विनाशम् अदर्शनम् अभावम् । अव्ययस्य न व्येति उपचयापचयौ न याति इति अव्ययं तस्य अव्ययस्य । नैतत् सदाख्यं ब्रह्म स्वेन रूपेण व्येति व्यभिचरति, निरवयवत्वात् , देहादिवत् । नाप्यात्मीयेन, आत्मीयाभावात् । यथा देवदत्तो धनहान्या व्येति, न तु एवं ब्रह्म व्येति । अतः अव्ययस्य अस्य ब्रह्मणः विनाशं न कश्चित् कर्तुमर्हति, न कश्चित् आत्मानं विनाशयितुं शक्नोति ईश्वरोऽपि । आत्मा हि ब्रह्म, स्वात्मनि च क्रियाविरोधात् ॥ १७ ॥

किं पुनस्तदसत् , यत्स्वा­त्म­सत्तां व्यभिचरतीति, उच्यते —

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अना­शि­नोऽ­प्र­मे­यस्य तस्माद्युध्यस्व भारत ॥ १८ ॥

१८

अन्तः विनाशः विद्यते येषां ते अन्तवन्तः । यथा मृगतृष्णिकादौ सद्बुद्धिः अनुवृत्ता प्रमा­ण­नि­रू­प­णान्ते विच्छिद्यते, स तस्य अन्तः ; तथा इमे देहाः स्वप्न­मा­या­दे­हा­दि­वच्च अन्तवन्तः नित्यस्य शरीरिणः शरीरवतः अनाशिनः अप्रमेयस्य आत्मनः अन्तवन्त इति उक्ताः विवे­कि­भि­रि­त्यर्थः । ‘नित्यस्य’ ‘अनाशिनः’ इति न पुनरुक्तम् ; नित्यत्वस्य द्विविधत्वात् लोके, नाशस्य च । यथा देहो भस्मीभूतः अदर्शनं गतो नष्ट उच्यते । विद्यमानोऽपि यथा अन्यथा परिणतो व्याध्या­दि­युक्तो जातो नष्ट उच्यते । तत्र ‘नित्यस्य’ ‘अनाशिनः’ इति द्विविधेनापि नाशेन असम्बन्धः अस्येत्यर्थः । अन्यथा पृथिव्यादिवदपि नित्यत्वं स्यात् आत्मनः ; तत् मा भूदिति ‘नित्यस्य’ ‘अनाशिनः’ इत्याह । अप्रमेयस्य न प्रमेयस्य प्रत्य­क्षा­दि­प्र­माणैः अप­रि­च्छे­द्य­स्ये­त्यर्थः ॥

ननु आगमेन आत्मा परिच्छिद्यते, प्रत्यक्षादिना च पूर्वम् । न ; आत्मनः स्वतः­सि­द्ध­त्वात् । सिद्धे हि आत्मनि प्रमातरि प्रमित्सोः प्रमाणान्वेषणा भवति । न हि पूर्वम् ‘इत्थमहम्’ इति आत्मानमप्रमाय पश्चात् प्रमे­य­प­रि­च्छे­दाय प्रवर्तते । न हि आत्मा नाम कस्यचित् अप्रसिद्धो भवति । शास्त्रं तु अन्त्यं प्रमाणम् अत­द्ध­र्मा­ध्या­रो­प­ण­मा­त्र­नि­व­र्त­क­त्वेन प्रमाणत्वम् आत्मनः प्रतिपद्यते, न तु अज्ञा­ता­र्थ­ज्ञा­प­क­त्वेन । तथा च श्रुतिः — ‘यत्सा­क्षा­द­प­रो­क्षा­द्ब्रह्म य आत्मा सर्वान्तरः’(बृ. उ. ३ । ५ । १) इति ॥

यस्मादेवं नित्यः अविक्रियश्च आत्मा तस्मात् युध्यस्व, युद्धात् उपरमं मा कार्षीः इत्यर्थः ॥

न हि अत्र युद्धकर्तव्यता विधीयते, युद्धे प्रवृत्त एव हि असौ शोक­मो­ह­प्र­ति­बद्धः तूष्णीमास्ते । अतः तस्य प्रति­ब­न्धा­प­न­य­न­मात्रं भगवता क्रियते । तस्मात् ‘युध्यस्व’ इति अनुवादमात्रम् , न विधिः ॥ १८ ॥

शोक­मो­हा­दि­सं­सा­र­का­र­ण­नि­वृ­त्त्यर्थः गीताशास्त्रम् , न प्रवर्तकम् इत्ये­त­स्या­र्थस्य साक्षिभूते ऋचौ आनीनाय भगवान् । यत्तु मन्यसे ‘युद्धे भीष्मादयो मया हन्यन्ते’ ‘अहमेव तेषां हन्ता’ इति, एषा बुद्धिः मृषैव ते । कथम् ? —

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥

१९

य एनं प्रकृतं देहिनं वेत्ति विजानाति हन्तारं हननक्रियायाः कर्तारं यश्च एनम् अन्यो मन्यते हतं देहहननेन ‘हतः अहम्’ इति हननक्रियायाः कर्मभूतम् , तौ उभौ न विजानीतः न ज्ञातवन्तौ अविवेकेन आत्मानम् । ‘हन्ता अहम्’ ‘हतः अस्मि अहम्’ इति देहहननेन आत्मानमहं प्रत्ययविषयं यौ विजानीतः तौ आत्म­स्व­रू­पा­न­भिज्ञौ इत्यर्थः । यस्मात् न अयम् आत्मा हन्ति न हननक्रियायाः कर्ता भवति, न च हन्यते न च कर्म भवतीत्यर्थः, अविक्रियत्वात् ॥ १९ ॥

कथमविक्रय आत्मेति द्वितीयो मन्त्रः —

न जायते म्रियते वा कदाचिन्नायं भूत्वाभविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ २० ॥

२०

न जायते न उत्पद्यते, जनिलक्षणा वस्तुविक्रिया न आत्मनो विद्यते इत्यर्थः । तथा न म्रियते वा । वाशब्दः चार्थे । न म्रियते च इति अन्त्या विनाशलक्षणा विक्रिया प्रतिषिध्यते । कदाचिच्छब्दः सर्व­वि­क्रि­या­प्र­ति­षेधैः सम्बध्यते — न कदाचित् जायते, न कदाचित् म्रियते, इत्येवम् । यस्मात् अयम् आत्मा भूत्वा भवनक्रियामनुभूय पश्चात् अभविता अभावं गन्ता न भूयः पुनः, तस्मात् न म्रियते । योहि भूत्वा न भविता स म्रियत इत्युच्यते लोके । वाशब्दात् नशब्दाच्च अयमात्मा अभूत्वा वा भविता देहवत् न भूयः । तस्मात् न जायते । यो हि अभूत्वा भविता स जायत इत्युच्यते । नैवमात्मा । अतो न जायते । यस्मादेवं तस्मात् अजः, यस्मात् न म्रियते तस्मात् नित्यश्च । यद्यपि आद्य­न्त­यो­र्वि­क्रि­ययोः प्रतिषेधे सर्वा विक्रियाः प्रतिषिद्धा भवन्ति, तथापि मध्यभाविनीनां विक्रियाणां स्वशब्दैरेव प्रतिषेधः कर्तव्यः अनुक्तानामपि यौव­ना­दि­स­म­स्त­वि­क्रि­याणां प्रतिषेधो यथा स्यात् इत्याह — शाश्वत इत्यादिना । शाश्वत इति अपक्षयलक्षणा विक्रिया प्रतिषिध्यते । शश्वद्भवः शाश्वतः । न अपक्षीयते स्वरूपेण, निरवयवत्वात् । नापि गुणक्षयेण अपक्षयः, निर्गुणत्वात् । अपक्षयविपरीतापि वृद्धिलक्षणा विक्रिया प्रतिषिध्यते — पुराण इति । यो हि अवयवागमेन उपचीयते स वर्धते अभिनव इति च उच्यते । अयं तु आत्मा निरवयवत्वात् पुरापि नव एवेति पुराणः ; न वर्धते इत्यर्थः । तथा न हन्यते । हन्ति ; अत्र विपरिणामार्थे द्रष्टव्यः अपुनरुक्ततायै । न विपरिणम्यते इत्यर्थः । हन्यमाने विप­रि­ण­म्य­मा­नेऽपि शरीरे । अस्मिन् मन्त्रे षड् भावविकारा लौकि­क­व­स्तु­वि­क्रिया आत्मनि प्रतिषिध्यन्ते । सर्व­प्र­का­र­वि­क्रि­या­र­हित आत्मा इति वाक्यार्थः । यस्मादेवं तस्मात् ‘उभौ तौ न विजानीतः’ इति पूर्वेण मन्त्रेण अस्य सम्बन्धः ॥ २० ॥

‘य एनं वेत्ति हन्तारम्’(भ. गी. २ । १९) इत्यनेन मन्त्रेण हननक्रियायाः कर्ता कर्म च न भवति इति प्रतिज्ञाय, ‘न जायते’ इत्यनेन अविक्रियत्वं हेतुमुक्त्वा प्रति­ज्ञा­ता­र्थ­मु­प­सं­ह­रति —

वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥

२१

वेद विजानाति अविनाशिनम् अन्त्य­भा­व­वि­का­र­र­हितं नित्यं विपरिणामरहितं यो वेद इति सम्बन्धः । एनं पूर्वेण मन्त्रे­णो­क्त­ल­क्ष­णम् अजं जन्मरहितम् अव्ययम् अपक्षयरहितं कथं केन प्रकारेण सः विद्वान् पुरुषः अधिकृतः हन्ति हननक्रियां करोति, कथं वा घातयति हन्तारं प्रयोजयति । न कथञ्चित् कञ्चित् हन्ति, न कथञ्चित् कञ्चित् घातयति इति उभयत्र आक्षेप एवार्थः, प्रश्ना­र्था­स­म्भ­वात् । हेत्वर्थस्य च अविक्रियत्वस्य तुल्यत्वात् विदुषः सर्व­क­र्म­प्र­ति­षेध एव प्रकरणार्थः अभिप्रेतो भगवता । हन्तेस्तु आक्षेपः उदाहरणार्थत्वेन कथितः ॥

विदुषः कं कर्मा­स­म्भ­व­हे­तु­वि­शेषं पश्यन् कर्मा­ण्या­क्षि­पति भगवान् ‘कथं स पुरुषः’ इति । ननु उक्त एवात्मनः अविक्रियत्वं सर्व­क­र्मा­स­म्भ­व­का­र­ण­वि­शेषः । सत्यमुक्तः । न तु सः कारणविशेषः, अन्यत्वात् विदुषः अवि­क्रि­या­दा­त्मनः । न हि अविक्रियं स्थाणुं विदितवतः कर्म न सम्भवति इति चेत् , न ; विदुषः आत्मत्वात् । न देहादिसङ्घातस्य विद्वत्ता । अतः पारिशेष्यात् असंहतः आत्मा विद्वान् अविक्रियः इति तस्य विदुषः कर्मासम्भवात् आक्षेपो युक्तः ‘कथं स पुरुषः’ इति । यथा बुद्ध्या­द्या­हृ­तस्य शब्दाद्यर्थस्य अविक्रिय एव सन् बुद्धि­वृ­त्त्य­वि­वे­क­वि­ज्ञा­नेन अविद्यया उपलब्धा आत्मा कल्प्यते, एवमेव आत्मा­ना­त्म­वि­वे­क­ज्ञा­नेन बुद्धिवृत्त्या विद्यया असत्यरूपयैव परमार्थतः अविक्रिय एव आत्मा विद्वानुच्यते । विदुषः कर्मा­स­म्भ­व­व­च­नात् यानि कर्माणि शास्त्रेण विधीयन्ते तानि अविदुषो विहितानि इति भगवतो निश्चयोऽवगम्यते ॥

ननु विद्यापि अविदुष एव विधीयते, विदितविद्यस्य पिष्टपेषणवत् विद्या­वि­धा­ना­न­र्थ­क्यात् । तत्र अविदुषः कर्माणि विधीयन्ते न विदुषः इति विशेषो नोपपद्यते इति चेत् , न ; अनुष्ठेयस्य भावा­भा­व­वि­शे­षो­प­पत्तेः । अग्नि­हो­त्रा­दि­वि­ध्य­र्थ­ज्ञा­नो­त्त­र­का­लम् अग्नि­हो­त्रा­दि­कर्म अने­क­सा­ध­नो­प­सं­हा­र­पू­र्व­क­म­नु­ष्ठे­यम् ‘कर्ता अहम् , मम कर्तव्यम्’ इत्ये­वं­प्र­का­र­वि­ज्ञा­न­वतः अविदुषः यथा अनुष्ठेयं भवति, न तु तथा ‘न जायते’ इत्या­द्या­त्म­स्व­रू­प­वि­ध्य­र्थ­ज्ञा­नो­त्त­र­का­ल­भावि किञ्चिदनुष्ठेयं भवति ; किं तु ‘नाहं कर्ता, नाहं भोक्ता’ इत्या­द्या­त्मै­क­त्वा­क­र्तृ­त्वा­दि­वि­ष­य­ज्ञा­नात् नान्यदुत्पद्यते इति एष विशेष उपपद्यते । यः पुनः ‘कर्ता अहम्’ इति वेत्ति आत्मानम् , तस्य ‘मम इदं कर्तव्यम्’ इति अवश्यंभाविनी बुद्धिः स्यात् ; तदपेक्षया सः अधिक्रियते इति तं प्रति कर्माणि सम्भवन्ति । स च अविद्वान् , ‘उभौ तौ न विजानीतः’(भ. गी. २ । १९) इति वचनात् , विशेषितस्य च विदुषः कर्मा­क्षे­प­व­च­नाच्च ‘कथं स पुरुषः’ इति । तस्मात् विशेषितस्य अवि­क्रि­या­त्म­द­र्शिनः विदुषः मुमुक्षोश्च सर्व­क­र्म­सं­न्यासे एव अधिकारः । अत एव भगवान् नारायणः साङ्ख्यान् विदुषः अविदुषश्च कर्मिणः प्रविभज्य द्वे निष्ठे ग्राहयति — ‘ज्ञानयोगेन साङ्‍ख्यानां कर्मयोगेन योगिनाम्’(भ. गी. ३ । ३) इति । तथा च पुत्राय आह भगवान् व्यासः — ‘द्वाविमावथ पन्थानौ’(शां. २४१ । ६) इत्यादि । तथा च क्रियापथश्चैव पुरस्तात् पश्चा­त्सं­न्या­स­श्चेति । एतमेव विभागं पुनः पुन­र्द­र्श­यि­ष्यति भगवान् — अतत्त्ववित् ‘अह­ङ्का­र­वि­मू­ढात्मा कर्ताहमिति मन्यते’(भ. गी. ३ । २७) , तत्त्ववित्तु नाहं करोमि इति । तथा च ‘सर्वकर्माणि मनसा संन्यस्यास्ते’(भ. गी. ५ । १३) इत्यादि ॥

तत्र केचि­त्प­ण्डि­तं­मन्या वदन्ति — ‘जन्मा­दि­ष­ड्भा­व­वि­क्रि­या­र­हितः अविक्रियः अकर्ता एकः अहमात्मा’ इति न कस्यचित् ज्ञानम् उत्पद्यते, यस्मिन् सति सर्व­क­र्म­सं­न्यासः उपदिश्यते इति । तन्न ; ‘न जायते’(भ. गी. २ । २०) इत्या­दि­शा­स्त्रो­प­दे­शा­न­र्थ­क्य­प्र­स­ङ्गात् । यथा च शास्त्रो­प­दे­श­सा­म­र्थ्यात् धर्मा­ध­र्मा­स्ति­त्व­वि­ज्ञानं कर्तुश्च देहा­न्त­र­स­म्ब­न्ध­वि­ज्ञा­न­मु­त्प­द्यते, तथा शास्त्रात् तस्यैव आत्मनः अवि­क्रि­य­त्वा­क­र्तृ­त्वै­क­त्वा­दि­वि­ज्ञानं कस्मात् नोत्पद्यते इति प्रष्टव्याः ते । करणागोचरत्वात् इति चेत् , न ; ‘मन­सै­वा­नु­द्र­ष्ट­व्यम्’(बृ. उ. ४ । ४ । १९) इति श्रुतेः । शास्त्रा­चा­र्यो­प­दे­श­श­म­द­मा­दि­सं­स्कृतं मनः आत्मदर्शने करणम् । तथा च तदधिगमाय अनुमाने आगमे च सति ज्ञानं नोत्पद्यत इति साहसमात्रमेतत् । ज्ञानं च उत्पद्यमानं तद्वि­प­री­त­म­ज्ञा­नम् अवश्यं बाधते इत्य­भ्यु­प­ग­न्त­व्यम् । तच्च अज्ञानं दर्शितम् ‘हन्ता अहम् , हतः अस्मि’ इति ‘उभौ तौ न विजानीतः’ इति । अत्र च आत्मनः हननक्रियायाः कर्तृत्वं कर्मत्वं हेतुकर्तृत्वं च अज्ञानकृतं दर्शितम् । तच्च सर्वक्रियास्वपि समानं कर्तृत्वादेः अविद्याकृतत्वम् , अविक्रियत्वात् आत्मनः । विक्रियावान् हि कर्ता आत्मनः कर्मभूतमन्यं प्रयोजयति ‘कुरु’ इति । तदेतत् अविशेषेण विदुषः सर्वक्रियासु कर्तृत्वं हेतुकर्तृत्वं च प्रतिषेधति भगवान्वासुदेवः विदुषः कर्मा­धि­का­रा­भा­व­प्र­द­र्श­ना­र्थम् ‘वेदाविनाशिनं . . . कथं स पुरुषः’ इत्यादिना । क्व पुनः विदुषः अधिकार इति एतदुक्तं पूर्वमेव ‘ज्ञानयोगेन साङ्ख्यानाम्’(भ. गी. ३ । ३) इति । तथा च सर्व­क­र्म­सं­न्यासं वक्ष्यति ‘सर्वकर्माणि मनसा’(भ. गी. ५ । १३) इत्यादिना ॥

ननु मनसा इति वचनात् न वाचिकानां कायिकानां च संन्यासः इति चेत् , न ; सर्वकर्माणि इति विशेषितत्वात् । मानसानामेव सर्वकर्मणामिति चेत् , न ; मनो­व्या­पा­र­पू­र्व­क­त्वा­द्वा­क्का­य­व्या­पा­राणां मनोव्यापाराभावे तदनुपपत्तेः । शास्त्रीयाणां वाक्कायकर्मणां कारणानि मानसानि कर्माणि वर्जयित्वा अन्यानि सर्वकर्माणि मनसा संन्यस्येदिति चेत् , न ; ‘नैव कुर्वन्न कारयन्’(भ. गी. ५ । १३) इति विशेषणात् । सर्व­क­र्म­सं­न्यासः अयं भगवता उक्तः मरिष्यतः न जीवतः इति चेत् , न ; ‘नवद्वारे पुरे देही आस्ते’(भ. गी. ५ । १३) इति विशे­ष­णा­नु­प­पत्तेः । न हि सर्व­क­र्म­सं­न्या­सेन मृतस्य तद्देहे आसनं सम्भवति । अकुर्वतः अकारयतश्च देहे संन्यस्य इति सम्बन्धः न देहे आस्ते इति चेत् , न ; सर्वत्र आत्मनः अवि­क्रि­य­त्वा­व­धा­र­णात् , आसनक्रियायाश्च अधि­क­र­णा­पे­क्ष­त्वात् , तदनपेक्षत्वाच्च संन्यासस्य । सम्पूर्वस्तु न्यासशब्दः अत्र त्यागार्थः, न निक्षेपार्थः । तस्मात् गीताशास्त्रे आत्मज्ञानवतः संन्यासे एव अधिकारः, न कर्मणि इति तत्र तत्र उपरिष्टात् आत्म­ज्ञा­न­प्र­क­रणे दर्शयिष्यामः ॥ २१ ॥

प्रकृतं तु वक्ष्यामः । तत्र आत्मनः अविनाशित्वं प्रतिज्ञातम् । तत् किमिवेति, उच्यते —

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ २२ ॥

२२

वासांसि वस्त्राणि जीर्णानि दुर्बलतां गतानि यथा लोके विहाय परित्यज्य नवानि अभिनवानि गृह्णाति उपादत्ते नरः पुरुषः अपराणि अन्यानि, तथा तद्वदेव शरीराणि विहाय जीर्णानि अन्यानि संयाति सङ्गच्छति नवानि देही आत्मा पुरुषवत् अविक्रिय एवेत्यर्थः ॥ २२ ॥

कस्मात् अविक्रिय एवेति, आह —

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २३ ॥

२३

एनं प्रकृतं देहिनं न च्छिन्दन्ति शस्त्राणि, निरवयवत्वात् न अवयवविभागं कुर्वन्ति । शस्त्राणि अस्यादीनि । तथा न एनं दहति पावकः, अग्निरपि न भस्मीकरोति । तथा न च एनं क्लेदयन्ति आपः । अपां हि सावयवस्य वस्तुनः आर्द्रीभावकरणेन अव­य­व­वि­श्ले­षा­पा­दने सामर्थ्यम् । तत् न निरवयवे आत्मनि सम्भवति । तथा स्नेहवत् द्रव्यं स्नेहशोषणेन नाशयति वायुः । एनं तु आत्मानं न शोषयति मारुतोऽपि ॥ २३ ॥

यतः एवं तस्मात् —

अच्छे­द्योऽ­य­म­दा­ह्योऽ­य­म­क्ले­द्योऽ­शोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥

२४

यस्मात् अन्यो­न्य­ना­श­हे­तु­भू­तानि एनमात्मानं नाशयितुं नोत्सहन्ते अस्यादीनि तस्मात् नित्यः । नित्यत्वात् सर्वगतः । सर्वगतत्वात् स्थाणुः इव, स्थिर इत्येतत् । स्थिरत्वात् अचलः अयम् आत्मा । अतः सनातनः चिरन्तनः, न कार­णा­त्कु­त­श्चित् निष्पन्नः, अभिनव इत्यर्थः ॥

नैतेषां श्लोकानां पौनरुक्त्यं चोदनीयम् , यतः एकेनैव श्लोकेन आत्मनः नित्य­त्व­म­वि­क्रि­यत्वं चोक्तम् ‘न जायते म्रियते वा’(भ. गी. २ । २०) इत्यादिना । तत्र यदेव आत्मविषयं किञ्चिदुच्यते, तत् एतस्मात् श्लोकार्थात् न अतिरिच्यते ; किञ्चिच्छब्दतः पुनरुक्तम् , किञ्चिदर्थतः इति । दुर्बोधत्वात् आत्मवस्तुनः पुनः पुनः प्रसङ्गमापाद्य शब्दान्तरेण तदेव वस्तु निरूपयति भगवान् वासुदेवः कथं नु नाम संसा­रि­णा­म­सं­सा­रि­त्व­बु­द्धि­गो­च­र­ता­मा­पन्नं सत् अव्यक्तं तत्त्वं संसारनिवृत्तये स्यात् इति ॥ २४ ॥

किं च —

अव्य­क्तोऽ­य­म­चि­न्त्योऽ­य­म­वि­का­र्योऽ­य­मु­च्यते ।
तस्मादेवं विदित्वैनं नानु­शो­चि­तु­म­र्हसि ॥ २५ ॥

२५

सर्व­क­र­णा­वि­ष­य­त्वात् न व्यज्यत इति अव्यक्तः अयम् आत्मा । अत एव अचिन्त्यः अयम् । यद्धि इन्द्रियगोचरः तत् चिन्ता­वि­ष­य­त्व­मा­प­द्यते । अयं त्वात्मा अनि­न्द्रि­य­गो­च­र­त्वात् अचिन्त्यः । अत एव अविकार्यः, यथा क्षीरं दध्यातञ्चनादिना विकारि न तथा अयमात्मा । निरवयवत्वाच्च अविक्रियः । न हि निरवयवं किञ्चित् विक्रियात्मकं दृष्टम् । अविक्रियत्वात् अविकार्यः अयम् आत्मा उच्यते । तस्मात् एवं यथोक्तप्रकारेण एनम् आत्मानं विदित्वा

त्वं न अनुशोचितुमर्हसि हन्ताहमेषाम् , मयैते हन्यन्त इति ॥ २५ ॥

आत्मनः अनि­त्य­त्व­म­भ्यु­प­गम्य इदमुच्यते —

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ २६ ॥

२६

अथ च इति अभ्युपगमार्थः । एनं प्रकृतमात्मानं नित्यजातं लोकप्रसिद्ध्या प्रत्य­ने­क­श­री­रो­त्पत्ति जातो जात इति मन्यसे तथा प्रति­त­त्त­द्वि­नाशं नित्यं वा मन्यसे मृतं मृतो मृत इति ; तथापि तथाभावेऽपि आत्मनि त्वं महाबाहो, न एवं शोचितुमर्हसि, जन्मवतो जन्म नाशवतो नाश­श्चे­त्ये­ता­व­व­श्य­म्भा­वि­ना­विति ॥ २६ ॥

तथा च सति —

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मा­द­प­रि­हा­र्येऽर्थे न त्वं शोचितुमर्हसि ॥ २७ ॥

२७

जातस्य हि लब्धजन्मनः ध्रुवः अव्यभिचारी मृत्युः मरणं ध्रुवं जन्म मृतस्य च । तस्मा­द­प­रि­हा­र्योऽयं जन्म­म­र­ण­ल­क्ष­णोऽर्थः । तस्मि­न्न­प­रि­हा­र्येऽर्थे न त्वं शोचितुमर्हसि ॥ २७ ॥

कार्य­क­र­ण­स­ङ्घा­ता­त्म­का­न्यपि भूतान्युद्दिश्य शोको न युक्तः कर्तुम् , यतः —

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्य­क्त­नि­ध­ना­न्येव तत्र का परिदेवना ॥ २८ ॥

२८

अव्यक्तादीनि अव्यक्तम् अदर्शनम् अनुपलब्धिः आदिः येषां भूतानां पुत्र­मि­त्रा­दि­का­र्य­क­र­ण­स­ङ्घा­ता­त्म­कानां तानि अव्यक्तादीनि भूतानि प्रागुत्पत्तेः, उत्पन्नानि च प्राङ्मरणात् व्यक्तमध्यानि । अव्य­क्त­नि­ध­ना­न्येव पुनः अव्यक्तम् अदर्शनं निधनं मरणं येषां तानि अव्यक्तनिधनानि । मर­णा­दू­र्ध्व­म­प्य­व्य­क्त­ता­मेव प्रतिपद्यन्ते इत्यर्थः । तथा चोक्तम् — ‘अदर्शनादापतितः पुनश्चादर्शनं गतः । नासौ तव न तस्य त्वं वृथा का परिदेवना’(मो. ध. १७४ । १७) इति । तत्र का परिदेवना को वा प्रलापः अदृ­ष्ट­दृ­ष्ट­प्र­न­ष्ट­भ्रा­न्ति­भू­तेषु भूतेष्वित्यर्थः ॥ २८ ॥

दुर्विज्ञेयोऽयं प्रकृत आत्मा ; किं त्वामे­वै­क­मु­पा­लभे साधारणे भ्रान्ति­नि­मित्ते । कथं दुर्वि­ज्ञे­योऽ­य­मात्मा इत्यत आह —

आश्च­र्य­व­त्प­श्यति कश्चि­दे­न­मा­श्च­र्य­व­द्व­दति तथैव चान्यः ।
आश्च­र्य­व­च्चै­न­मन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २९ ॥

२९

आश्चर्यवत् आश्चर्यम् अदृष्टपूर्वम् अद्भुतम् अक­स्मा­द्दृ­श्य­मानं तेन तुल्यं आश्चर्यवत् आश्चर्यमिति एनम् आत्मानं पश्यति कश्चित् । आश्चर्यवत् एनं वदति तथैव च अन्यः । आश्चर्यवच्च एनमन्यः शृणोति । श्रुत्वा दृष्ट्वा उक्त्वापि एनमात्मानं वेद न चैव कश्चित् । अथवा योऽयमात्मानं पश्यति स आश्चर्यतुल्यः, यो वदति यश्च शृणोति सः अनेकसहस्रेषु कश्चिदेव भवति । अतो दुर्बोध आत्मा इत्यभिप्रायः ॥ २९ ॥

अथेदानीं प्रक­र­णा­र्थ­मु­प­सं­ह­र­न्ब्रूते —

देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ ३० ॥

३०

देही शरीरी नित्यं सर्वदा सर्वावस्थासु अवध्यः निर­व­य­व­त्वा­न्नि­त्य­त्वाच्च तत्र अवध्योऽयं देहे शरीरे सर्वस्य सर्व­ग­त­त्वा­त्स्था­व­रा­दिषु स्थितोऽपि सर्वस्य प्राणिजातस्य देहे वध्यमानेऽपि अयं देही न वध्यः यस्मात् , तस्मात् भीष्मादीनि सर्वाणि भूतानि उद्दिश्य न त्वं शोचितुमर्हसि ॥ ३० ॥

इह पर­मा­र्थ­त­त्त्वा­पे­क्षायां शोको मोहो वा न सम्भ­व­ती­त्यु­क्तम् । न केवलं पर­मा­र्थ­त­त्त्वा­पे­क्षा­या­मेव । किं तु —

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धा­च्छ्रे­योऽ­न्य­त्क्ष­त्त्रि­यस्य न विद्यते ॥ ३१ ॥

३१

स्वधर्ममपि स्वो धर्मः क्षत्रियस्य युद्धं तमपि अवेक्ष्य त्वं न विकम्पितुं प्रचलितुम् नार्हसि क्षत्रियस्य स्वाभा­वि­का­द्ध­र्मात् आत्म­स्वा­भा­व्या­दि­त्य­भि­प्रायः । तच्च युद्धं पृथिवीजयद्वारेण धर्मार्थं प्रजारक्षणार्थं चेति धर्मादनपेतं परं धर्म्यम् । तस्मात् धर्म्यात् युद्धात् श्रेयः अन्यत् क्षत्रियस्य न विद्यते हि यस्मात् ॥ ३१ ॥

कुतश्च तत् युद्धं कर्तव्यमिति, उच्यते —

यदृच्छया चोपपन्नं स्वर्ग­द्वा­र­म­पा­वृ­तम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३२ ॥

३२

यदृच्छया च अप्रार्थिततया उपपन्नम् आगतं स्वर्गद्वारम् अपावृतम् उद्धाटितं ये एतत् ईदृशं युद्धं लभन्ते क्षत्रियाः हे पार्थ, किं न सुखिनः ते ? ॥ ३२ ॥

एवं कर्त­व्य­ता­प्रा­प्त­मपि —

अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ ३३ ॥

३३

अथ चेत् त्वम् इमं धर्म्यं धर्मादनपेतं विहितं सङ्ग्रामं युद्धं न करिष्यसि चेत् , ततः तदकरणात् स्वधर्मं कीर्तिं च महा­दे­वा­दि­स­मा­ग­म­नि­मित्तां हित्वा केवलं पापम् अवाप्स्यसि ॥ ३३ ॥

न केवलं स्वध­र्म­की­र्ति­प­रि­त्यागः —

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
सम्भावितस्य चाकी­र्ति­र्म­र­णा­द­ति­रि­च्यते ॥ ३४ ॥

३४

अकीर्तिं चापि युद्धे भूतानि कथयिष्यन्ति ते तव अव्ययां दीर्घकालाम् । धर्मात्मा शूर इत्येवमादिभिः गुणैः सम्भावितस्य च अकीर्तिः मरणात् अतिरिच्यते, सम्भावितस्य च

अकीर्तेः वरं मरणमित्यर्थः ॥ ३४ ॥

किञ्च —

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ ३५ ॥

३५

भयात् कर्णादिभ्यः रणात् युद्धात् उपरतं निवृत्तं मंस्यन्ते चिन्तयिष्यन्ति न कृपयेति त्वां महारथाः दुर्यो­ध­न­प्र­भृ­तयः । येषां च त्वं दुर्योधनादीनां बहुमतो बहुभिः गुणैः युक्तः इत्येवं मतः बहुमतः भूत्वा पुनः यास्यसि लाघवं लघुभावम् ॥ ३५ ॥

किञ्च—

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ ३६ ॥

३६

अवाच्यवादान् अव­क्त­व्य­वा­दांश्च बहून् अनेकप्रकारान् वदिष्यन्ति तव अहिताः शत्रवः निन्दन्तः कुत्सयन्तः तव त्वदीयं सामर्थ्यं निवा­त­क­व­चा­दि­यु­द्ध­नि­मि­त्तम् । ततः तस्मात् निन्दा­प्रा­प्ते­र्दुः­खात् दुःखतरं नु किम् , ततः कष्टतरं दुःखं नास्तीत्यर्थः ॥ ३६ ॥

युद्धे पुनः क्रियमाणे कर्णादिभिः —

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥

३७

हतो वा प्राप्स्यसि स्वर्गम् , हतः सन् स्वर्गं प्राप्स्यसि । जित्वा वा कर्णादीन् शूरान् भोक्ष्यसे महीम् । उभयथापि तव लाभ एवेत्यभिप्रायः । यत एवं तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ‘जेष्यामि शत्रून् , मरिष्यामि वा’ इति निश्चयं कृत्वेत्यर्थः ॥ ३७ ॥

तत्र युद्धं स्वधर्मं इत्येवं युध्य­मा­न­स्यो­प­दे­श­मिमं शृणु —

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ ३८ ॥

३८

सुखदुःखे समे तुल्ये कृत्वा, राग­द्वे­षा­व­प्य­कृ­त्वे­त्ये­तत् । तथा लाभालाभौ जयाजयौ च समौ कृत्वा ततो युद्धाय युज्यस्व घटस्व । न एवं युद्धं कुर्वन् पापम् अवाप्स्यसि । इत्येष उपदेशः प्रासङ्गिकः ॥ ३८ ॥

शोकमोहापनयनाय लौकिको न्यायः ‘स्वधर्ममपि चावेक्ष्य’(भ. गी. २ । ३१) इत्याद्यैः श्लोकैरुक्तः, न तु तात्पर्येण । परमार्थदर्शनमिह प्रकृतम् । तच्चो­क्त­मु­प­सं­ह्रि­यते — ‘एषा तेऽभिहिता’(भ. गी. २ । ३९) इति शास्त्र­वि­ष­य­वि­भा­ग­प्र­द­र्श­नाय । इह हि प्रदर्शिते पुनः शास्त्र­वि­ष­य­वि­भागे उपरिष्टात् ‘ज्ञानयोगेन साङ्‍ख्यानां कर्मयोगेन योगिनाम्’(भ. गी. ३ । ३) इति निष्ठाद्वयविषयं शास्त्रं सुखं प्रवर्तिष्यते, श्रोतारश्च विषयविभागेन सुखं ग्रहीष्यन्ति इत्यत आह —

एषा तेऽभिहिता साङ्‍ख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ३९ ॥

३९

एषा ते तुभ्यम् अभिहिता उक्ता साङ्‍ख्ये पर­मा­र्थ­व­स्तु­वि­वे­क­वि­षये बुद्धिः ज्ञानं साक्षात् शोक­मो­हा­दि­सं­सा­र­हे­तु­दो­ष­नि­वृ­त्ति­का­र­णम् । योगे तु तत्प्रा­प्त्यु­पाये निःसङ्गतया द्वन्द्व­प्र­हा­ण­पू­र्व­कम् ईश्वराराधनार्थे कर्मयोगे कर्मानुष्ठाने समाधियोगे च इमाम् अन­न्त­र­मे­वो­च्य­मानां बुद्धिं शृणु । तां च बुद्धिं स्तौति प्ररोचनार्थम् — बुद्ध्या यया योगविषयया युक्तः हे पार्थ, कर्मबन्धं कर्मैव धर्माधर्माख्यो बन्धः कर्मबन्धः तं प्रहास्यसि ईश्व­र­प्र­सा­द­नि­मि­त्त­ज्ञा­न­प्रा­प्त्यैव इत्यभिप्रायः ॥ ३९ ॥

किञ्च अन्यत् —

नेहा­भि­क्र­म­ना­शोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥

४०

न इह मोक्षमार्गे कर्मयोगे अभिक्रमनाशः अभि­क्र­म­ण­म­भि­क्रमः प्रारम्भः तस्य नाशः नास्ति यथा कृष्यादेः । योगविषये प्रारम्भस्य न अनै­का­न्ति­क­फ­ल­त्व­मि­त्यर्थः । किञ्च — नापि चिकित्सावत् प्रत्यवायः विद्यते भवति । किं तु स्वल्पमपि अस्य धर्मस्य योगधर्मस्य अनुष्ठितं त्रायते रक्षति महतः भयात् संसारभयात् जन्म­म­र­णा­दि­ल­क्ष­णात् ॥ ४० ॥

येयं साङ्‍ख्ये बुद्धिरुक्ता योगे च, वक्ष्यमाणलक्षणा सा —

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्ध­योऽ­व्य­व­सा­यि­नाम् ॥ ४१ ॥

४१

व्यवसायात्मिका निश्चयस्वभावा एका एव बुद्धिः इत­र­वि­प­री­त­बु­द्धि­शा­खा­भे­दस्य बाधिका, सम्य­क्प्र­मा­ण­ज­नि­त­त्वात् , इह श्रेयोमार्गे हे कुरुनन्दन । याः पुनः इतरा विपरीतबुद्धयः, यासां शाखा­भे­द­प्र­चा­र­व­शात् अनन्तः अपारः अनुपरतः संसारो नित्यप्रततो विस्तीर्णो भवति, प्रमा­ण­ज­नि­त­वि­वे­क­बु­द्धि­नि­मि­त्त­व­शाच्च उप­र­ता­स्व­न­न्त­भे­द­बु­द्धिषु संसा­रोऽ­प्यु­प­र­मते ता बुद्धयः बहुशाखाः बह्वयः शाखाः यासां ताः बहुशाखाः, बहुभेदा इत्येतत् । प्रतिशाखाभेदेन हि अनन्ताश्च बुद्धयः । केषाम् ? अव्यवसायिनां प्रमा­ण­ज­नि­त­वि­वे­क­बु­द्धि­र­हि­ता­ना­मि­त्यर्थः ॥ ४१ ॥

येषां व्यवसायात्मिका बुद्धिर्नास्ति ते —

यामिमां पुष्पितां वाचं प्रव­द­न्त्य­वि­प­श्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ ४२ ॥

४२

याम् इमां वक्ष्यमाणां पुष्पितां पुष्पित इव वृक्षः शोभमानां श्रूयमाणरमणीयां वाचं वाक्यलक्षणां प्रवदन्ति । के ? अविपश्चितः अमेधसः अविवेकिन इत्यर्थः । वेदवादरताः बह्व­र्थ­वा­द­फ­ल­सा­ध­न­प्र­का­श­केषु वेदवाक्येषु रताः हे पार्थ, न अन्यत् स्वर्ग­प­श्वा­दि­फ­ल­सा­ध­नेभ्यः कर्मभ्यः अस्ति इति एवं वादिनः वदनशीलाः ॥ ४२ ॥

ते च —

कामात्मानः स्वर्गपरा जन्म­क­र्म­फ­ल­प्र­दाम् ।
क्रिया­वि­शे­ष­ब­हुलां भोगैश्वर्यगतिं प्रति ॥ ४३ ॥

४३

कामात्मानः कामस्वभावाः, कामपरा इत्यर्थः । स्वर्गपराः स्वर्गः परः पुरुषार्थः येषां ते स्वर्गपराः स्वर्गप्रधानाः । जन्म­क­र्म­फ­ल­प्रदां कर्मणः फलं कर्मफलं जन्मैव कर्मफलं जन्मकर्मफलं तत् प्रददातीति जन्म­क­र्म­फ­ल­प्रदा, तां वाचम् । प्रवदन्ति इत्यनुषज्यते । क्रिया­वि­शे­ष­ब­हुलां क्रियाणां विशेषाः क्रियाविशेषाः ते बहुला यस्यां वाचि तां स्वर्ग­प­शु­पु­त्रा­द्यर्थाः यया वाचा बाहुल्येन प्रकाश्यन्ते । भोगैश्वर्यगतिं प्रति भोगश्च ऐश्वर्यं च भोगैश्वर्ये, तयोर्गतिः प्राप्तिः भोगैश्वर्यगतिः, तां प्रति साधनभूताः ये क्रियाविशेषाः तद्बहुलां तां वाचं प्रवदन्तः मूढाः संसारे परिवर्तन्ते इत्यभिप्रायः ॥ ४३ ॥

तेषां च —

भोगै­श्व­र्य­प्र­स­क्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ ४४ ॥

४४

भोगै­श्व­र्य­प्र­स­क्तानां भोगः कर्तव्यः ऐश्वर्यं च इति भोगैश्वर्ययोरेव प्रणयवतां तदात्मभूतानाम् । तया क्रिया­वि­शे­ष­ब­हु­लया वाचा अपहृतचेतसाम् आच्छा­दि­त­वि­वे­क­प्र­ज्ञानां व्यवसायात्मिका साङ्‍ख्ये योगे वा बुद्धिः समाधौ समाधीयते अस्मिन् पुरुषोपभोगाय सर्वमिति समाधिः अन्तःकरणं बुद्धिः तस्मिन् समाधौ, न विधीयते न भवति इत्यर्थः ॥ ४४ ॥

ये एवं विवे­क­बु­द्धि­र­हिताः तेषां कामात्मनां यत् फलं तदाह —

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ ४५ ॥

४५

त्रैगुण्यविषयाः त्रैगुण्यं संसारो विषयः प्रकाशयितव्यः येषां ते वेदाः त्रैगुण्यविषयाः । त्वं तु निस्त्रैगुण्यो भव अर्जुन, निष्कामो भव इत्यर्थः । निर्द्वन्द्वः सुखदुःखहेतू सप्रतिपक्षौ पदार्थौ द्वन्द्व­श­ब्द­वाच्यौ, ततः निर्गतः निर्द्वन्द्वो भव । नित्यसत्त्वस्थः सदा सत्त्व­गु­णा­श्रितो भव । तथा निर्योगक्षेमः अनुपात्तस्य उपादानं योगः, उपात्तस्य रक्षणं क्षेमः, योग­क्षे­म­प्र­धा­नस्य श्रेयसि प्रवृ­त्ति­र्दु­ष्करा इत्यतः निर्योगक्षेमो भव । आत्मवान् अप्रमत्तश्च भव । एष तव उपदेशः स्वध­र्म­म­नु­ति­ष्ठतः ॥ ४५ ॥

सर्वेषु वेदोक्तेषु कर्मसु यान्यु­क्ता­न्य­न­न्तानि फलानि तानि नापेक्ष्यन्ते चेत् , किमर्थं तानि ईश्व­रा­ये­त्य­नु­ष्ठी­यन्ते इत्युच्यते ; शृणु —

यावानर्थ उदपाने सर्व­तः­स­म्प्लु­तो­दके ।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६ ॥

४६

यथा लोके कूप­त­डा­गा­द्य­ने­क­स्मिन् उदपाने परिच्छिन्नोदके यावान् यावत्परिमाणः स्नानपानादिः अर्थः फलं प्रयोजनं स सर्वः अर्थः सर्वतः सम्प्लुतोदकेऽपि यः अर्थः तावानेव सम्पद्यते, तत्र अन्त­र्भ­व­ती­त्यर्थः । एवं तावान् तावत्परिमाण एव सम्पद्यते सर्वेषु वेदेषु वेदोक्तेषु कर्मसु यः अर्थः यत्कर्मफलं सः अर्थः ब्राह्मणस्य संन्यासिनः परमार्थतत्त्वं विजानतः यः अर्थः यत् विज्ञानफलं सर्व­तः­स­म्प्लु­तो­द­क­स्था­नीयं तस्मिन् तावानेव सम्पद्यते तत्रै­वा­न्त­र्भ­व­ती­त्यर्थः । ‘यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति यत् किञ्चित् प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद’(छा. उ. ४ । १ । ४) इति श्रुतेः । ‘सर्वं कर्माखिलम्’(भ. गी. ४ । ३३) इति च वक्ष्यति । तस्मात् प्राक् ज्ञान­नि­ष्ठा­धि­का­र­प्राप्तेः कर्मण्यधिकृतेन कूप­त­डा­गा­द्य­र्थ­स्था­नी­य­मपि कर्म कर्तव्यम् ॥ ४६ ॥

तव च —

कर्म­ण्ये­वा­धि­का­रस्ते मा फलेषु कदाचन ।
मा कर्म­फ­ल­हे­तु­र्भूर्मा ते सङ्गोऽ­स्त्व­क­र्मणि ॥ ४७ ॥

४७

कर्मण्येव अधिकारः न ज्ञाननिष्ठायां ते तव । तत्र च कर्म कुर्वतः मा फलेषु अधिकारः अस्तु, कर्मफलतृष्णा मा भूत् कदाचन कस्या­ञ्चि­द­प्य­व­स्था­या­मि­त्यर्थः । यदा कर्मफले तृष्णा ते स्यात् तदा कर्मफलप्राप्तेः हेतुः स्याः, एवं मा कर्मफलहेतुः भूः । यदा हि कर्म­फ­ल­तृ­ष्णा­प्र­युक्तः कर्मणि प्रवर्तते तदा कर्मफलस्यैव जन्मनो हेतुर्भवेत् । यदि कर्मफलं नेष्यते, किं कर्मणा दुःखरूपेण ? इति मा ते तव सङ्गः अस्तु अकर्मणि अकरणे प्रीतिर्मा भूत् ॥ ४७ ॥

यदि कर्म­फ­ल­प्र­यु­क्तेन न कर्तव्यं कर्म, कथं तर्हि कर्तव्यमिति ; उच्यते —

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्य­सिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ ४८ ॥

४८

योगस्थः सन् कुरु कर्माणि केव­ल­मी­श्व­रा­र्थम् ; तत्रापि ‘ईश्वरो मे तुष्यतु’ इति सङ्गं त्यक्त्वा धनञ्जय । फलतृष्णाशून्येन क्रियमाणे कर्मणि सत्त्वशुद्धिजा ज्ञान­प्रा­प्ति­ल­क्षणा सिद्धिः, तद्विपर्ययजा असिद्धिः, तयोः सिद्ध्य­सिद्ध्योः अपि समः तुल्यः भूत्वा कुरु कर्माणि । कोऽसौ योगः यत्रस्थः कुरु इति उक्तम् ? इदमेव तत् — सिद्ध्य­सिद्ध्योः समत्वं योगः उच्यते ॥ ४८ ॥

यत्पुनः सम­त्व­बु­द्धि­यु­क्त­मी­श्व­रा­रा­ध­नार्थं कर्मोक्तम् , एतस्मात्कर्मणः —

दूरेण ह्यवरं कर्म बुद्धि­यो­गा­द्ध­न­ञ्जय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ४९ ॥

४९

दूरेण अतिविप्रकर्षेण अत्यन्तमेव हि अवरम् अधमं निकृष्टं कर्म फलार्थिना क्रियमाणं बुद्धियोगात् सम­त्व­बु­द्धि­यु­क्तात् कर्मणः, जन्म­म­र­णा­दि­हे­तु­त्वात् । हे धनञ्जय, यत एवं ततः योगविषयायां बुद्धौ तत्परिपाकजायां वा साङ्‍ख्यबुद्धौ शरणम् आश्र­य­म­भ­य­प्रा­प्ति­का­र­णम् अन्विच्छ प्रार्थयस्व, पर­मा­र्थ­ज्ञा­न­श­रणो भवेत्यर्थः । यतः अवरं कर्म कुर्वाणाः कृपणाः दीनाः फलहेतवः फल­तृ­ष्णा­प्र­युक्ताः सन्तः, ‘यो वा एतदक्षरं गार्ग्य­वि­दि­त्वा­स्मा­ल्लो­का­त्प्रैति स कृपणः’(बृ. उ. ३ । ८ । १०) इति श्रुतेः ॥ ४९ ॥

सम­त्व­बु­द्धि­युक्तः सन् स्वध­र्म­म­नु­ति­ष्ठन् यत्फलं प्राप्नोति तच्छृणु —

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ ५० ॥

५०

बुद्धियुक्तः कर्मसमत्वविषयया बुद्ध्या युक्तः बुद्धियुक्तः सः जहाति परित्यजति इह अस्मिन् लोके उभे सुकृतदुष्कृते पुण्यपापे सत्त्व­शु­द्धि­ज्ञा­न­प्रा­प्ति­द्वा­रेण यतः, तस्मात् सम­त्व­बु­द्धि­यो­गाय युज्यस्व घटस्व । योगो हि कर्मसु कौशलम् , स्वधर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्या­सिद्ध्योः समत्वबुद्धिः ईश्व­रा­र्पि­त­चे­त­स्तया तत् कौशलं कुशलभावः । तद्धि कौशलं यत् बन्ध­न­स्व­भा­वा­न्यपि कर्माणि समत्वबुद्ध्या स्वभावात् निवर्तन्ते । तस्मा­त्स­म­त्व­बु­द्धि­युक्तो भव त्वम् ॥ ५० ॥

यस्मात् —

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्म­ब­न्ध­वि­नि­र्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥

५१

कर्मजं फलं त्यक्त्वा इति व्यवहितेन सम्बन्धः । इष्टा­नि­ष्ट­दे­ह­प्राप्तिः कर्मजं फलं कर्मभ्यो जातं बुद्धियुक्ताः सम­त्व­बु­द्धि­युक्ताः सन्तः हि यस्मात् फलं त्यक्त्वा परित्यज्य मनीषिणः ज्ञानिनो भूत्वा, जन्म­ब­न्ध­वि­नि­र्मुक्ताः जन्मैव बन्धः जन्मबन्धः तेन विनिर्मुक्ताः जीवन्त एव जन्मबन्धात् विनिर्मुक्ताः सन्तः, पदं परमं विष्णोः मोक्षाख्यं गच्छन्ति अनामयं सर्वो­प­द्र­व­र­हि­त­मि­त्यर्थः । अथवा ‘बुद्धि­यो­गा­द्ध­न­ञ्जय’(भ. गी. २ । ४९) इत्यारभ्य पर­मा­र्थ­द­र्श­न­ल­क्ष­णैव सर्व­तः­स­म्प्लु­तो­द­क­स्था­नीया कर्म­यो­ग­ज­स­त्त्व­शु­द्धि­ज­निता बुद्धि­र्द­र्शिता, साक्षा­त्सु­कृ­त­दु­ष्कृ­त­प्र­हा­णा­दि­हे­तु­त्व­श्र­व­णात् ॥ ५१ ॥

योगा­नु­ष्ठा­न­ज­नि­त­स­त्त्व­शु­द्धिजा बुद्धिः कदा प्राप्स्यते इत्युच्यते —

यदा ते मोहकलिलं बुद्धि­र्व्य­ति­त­रि­ष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ ५२ ॥

५२

यदा यस्मिन्काले ते तव मोहकलिलं मोहा­त्म­क­म­वि­वे­क­रूपं कालुष्यं येन आत्मा­ना­त्म­वि­वे­क­बोधं कलुषीकृत्य विषयं प्रत्यन्तःकरणं प्रवर्तते, तत् तव बुद्धिः व्यतितरिष्यति व्यति­क्र­मि­ष्यति, अति­शु­द्ध­भा­व­मा­प­त्स्यते इत्यर्थः । तदा तस्मिन् काले गन्तासि प्राप्स्यसि निर्वेदं वैराग्यं श्रोतव्यस्य श्रुतस्य च, तदा श्रोतव्यं श्रुतं च ते निष्फलं प्रति­भा­ती­त्य­भि­प्रायः ॥ ५२ ॥

मोह­क­लि­ला­त्य­य­द्वा­रेण लब्धा­त्म­वि­वे­क­ज­प्रज्ञः कदा कर्मयोगजं फलं पर­मा­र्थ­यो­ग­म­वा­प्स्या­मीति चेत् , तत् शृणु —

श्रुति­वि­प्र­ति­पन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३ ॥

५३

श्रुति­वि­प्र­ति­पन्ना अने­क­सा­ध्य­सा­ध­न­स­म्ब­न्ध­प्र­का­श­न­श्रु­तिभिः श्रवणैः प्रवृ­त्ति­नि­वृ­त्ति­ल­क्षणैः विप्रतिपन्ना नानाप्रतिपन्ना विक्षिप्ता सती ते तव बुद्धिः यदि यस्मिन् काले स्थास्यति स्थिरीभूता भविष्यति निश्चला विक्षे­प­च­ल­न­व­र्जिता सती समाधौ, समाधीयते चित्त­म­स्मि­न्निति समाधिः आत्मा, तस्मिन् आत्मनि इत्येतत् । अचला तत्रापि विकल्पवर्जिता इत्येतत् । बुद्धिः अन्तःकरणम् । तदा तस्मिन्काले योगम् अवाप्स्यसि विवेकप्रज्ञां समाधिं प्राप्स्यसि ॥ ५३ ॥

प्रश्नबीजं प्रतिलभ्य अर्जुन उवाच लब्ध­स­मा­धि­प्र­ज्ञस्य लक्षणबुभुत्सया —

अर्जुन उवाच —

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं पृभाषेत किमासीत व्रजेत किम् ॥ ५४ ॥

५४

स्थिता प्रतिष्ठिता ‘अहमस्मि परं ब्रह्म’ इति प्रज्ञा यस्य सः स्थितप्रज्ञः तस्य स्थितप्रज्ञस्य का भाषा किं भाषणं वचनं कथमसौ परैर्भाष्यते समाधिस्थस्य समाधौ स्थितस्य हे केशव । स्थितधीः स्थितप्रज्ञः स्वयं वा किं प्रभाषेत । किम् आसीत व्रजेत किम् आसनं व्रजनं वा तस्य कथमित्यर्थः । स्थितप्रज्ञस्य लक्षणमनेन श्लोकेन पृच्छ्यते ॥ ५४ ॥

यो ह्यादित एव संन्यस्य कर्माणि ज्ञान­यो­ग­नि­ष्ठायां प्रवृत्तः, यश्च कर्मयोगेन, तयोः ‘प्रजहाति’ इत्यारभ्य आ अध्या­य­प­रि­स­माप्तेः स्थित­प्र­ज्ञ­ल­क्षणं साधनं चोपदिश्यते । सर्वत्रैव हि अध्या­त्म­शास्त्रे कृतार्थलक्षणानि यानि तान्येव साधनानि उपदिश्यन्ते, यत्नसाध्यत्वात् । यानि यत्नसाध्यानि साधनानि लक्षणानि च भवन्ति तानि श्रीभगवानुवाच —

श्रीभगवानुवाच —

प्रजहाति यदा कामा­न्स­र्वा­न्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थित­प्र­ज्ञ­स्त­दो­च्यते ॥ ५५ ॥

५५

प्रजहाति प्रकर्षेण जहाति परित्यजति यदा यस्मिन्काले सर्वान् समस्तान् कामान् इच्छाभेदान् हे पार्थ, मनोगतान् मनसि प्रविष्टान् हृदि प्रविष्टान् । सर्व­का­म­प­रि­त्यागे तुष्टि­का­र­णा­भा­वात् शरी­र­धा­र­ण­नि­मि­त्त­शेषे च सति उन्म­त्त­प्र­म­त्त­स्येव प्रवृत्तिः प्राप्ता, इत्यत उच्यते — आत्मन्येव प्रत्य­गा­त्म­स्व­रूपे एव आत्मना स्वेनैव बाह्य­ला­भ­नि­र­पेक्षः तुष्टः पर­मा­र्थ­द­र्श­ना­मृ­त­र­स­ला­भेन अन्य­स्मा­द­लं­प्र­त्य­य­वान् स्थितप्रज्ञः स्थिता प्रतिष्ठिता आत्मा­ना­त्म­वि­वे­कजा प्रज्ञा यस्य सः स्थितप्रज्ञः विद्वान् तदा उच्यते । त्यक्त­पु­त्र­वि­त्त­लो­कै­षणः संन्यासी आत्माराम आत्मक्रीडः स्थितप्रज्ञ इत्यर्थः ॥ ५५ ॥

किञ्च —

दुःखे­ष्व­नु­द्वि­ग्न­मनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थित­धी­र्मु­नि­रु­च्यते ॥ ५६ ॥

५६

दुःखेषु आध्यात्मिकादिषु प्राप्तेषु न उद्विग्नं न प्रक्षुभितं दुःखप्राप्तौ मनो यस्य सोऽयम् अनुद्विग्नमनाः । तथा सुखेषु प्राप्तेषु विगता स्पृहा तृष्णा यस्य, न अग्निरिव इन्धनाद्याधाने सुखान्यनु विवर्धते स विगतस्पृहः । वीतरागभयक्रोधः रागश्च भयं च क्रोधश्च वीता विगता यस्मात् स वीतरागभयक्रोधः । स्थितधीः स्थितप्रज्ञो मुनिः संन्यासी तदा उच्यते ॥ ५६ ॥

किञ्च —

यः सर्व­त्रा­न­भि­स्ने­ह­स्त­त्त­त्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥

५७

यः मुनिः सर्वत्र देह­जी­वि­ता­दि­ष्वपि अनभिस्नेहः अभिस्नेहवर्जितः तत्तत् प्राप्य शुभाशुभं तत्तत् शुभं अशुभं वा लब्ध्वा न अभिनन्दति न द्वेष्टि शुभं प्राप्य न तुष्यति न हृष्यति, अशुभं च प्राप्य न द्वेष्टि इत्यर्थः । तस्य एवं हर्ष­वि­षा­द­व­र्जि­तस्य विवेकजा प्रज्ञा प्रतिष्ठिता भवति ॥ ५७ ॥

किञ्च—

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रि­या­णी­न्द्रि­या­र्थे­भ्य­स्तस्य प्रज्ञा प्रतिष्ठिता ॥ ५८ ॥

५८

यदा संहरते सम्यगुपसंहरते च अयं ज्ञाननिष्ठायां प्रवृत्तो यतिः कूर्मः अङ्गानि इव यथा कूर्मः भयात् स्वान्यङ्गानि उपसंहरति सर्वशः सर्वतः, एवं ज्ञाननिष्ठः इन्द्रियाणि इन्द्रि­या­र्थेभ्यः सर्वविषयेभ्यः उपसंहरते । तस्य प्रज्ञा प्रतिष्ठिता इत्युक्तार्थं वाक्यम् ॥ ५८ ॥

तत्र विषयाननाहरतः आतुरस्यापि इन्द्रियाणि कूर्माङ्गानीव संह्रियन्ते न तु तद्विषयो रागः स कथं संह्रियते इति उच्यते —

विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ ५९ ॥

५९

यद्यपि विषयाः विषयोपलक्षितानि विष­य­श­ब्द­वा­च्यानि इन्द्रियाणि निराहारस्य अना­ह्रि­य­मा­ण­वि­ष­यस्य कष्टे तपसि स्थितस्य मूर्खस्यापि विनिवर्तन्ते देहिनो देहवतः रसवर्जं रसो रागो विषयेषु यः तं वर्जयित्वा । रसशब्दो रागे प्रसिद्धः, स्वरसेन प्रवृत्तः रसिकः रसज्ञः, इत्यादिदर्शनात् । सोऽपि रसो रञ्जनारूपः सूक्ष्मः अस्य यतेः परं परमार्थतत्त्वं ब्रह्म दृष्ट्वा उपलभ्य ‘अहमेव तत्’ इति वर्तमानस्य निवर्तते निर्बीजं विषयविज्ञानं सम्पद्यते इत्यर्थः । न असति सम्यग्दर्शने रसस्य उच्छेदः । तस्मात् सम्य­ग्द­र्श­ना­त्मि­कायाः प्रज्ञायाः स्थैर्यं कर्त­व्य­मि­त्य­भि­प्रायः ॥ ५९ ॥

सम्य­ग्द­र्श­न­ल­क्ष­ण­प्र­ज्ञा­स्थैर्यं चिकीर्षता आदौ इन्द्रियाणि स्ववशे स्थापयितव्यानि, यस्मा­त्त­द­न­व­स्था­पने दोषमाह —

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ ६० ॥

६०

यततः प्रयत्नं कुर्वतः हि यस्मात् कौन्तेय पुरुषस्य विपश्चितः मेधाविनः अपि इति व्यवहितेन सम्बन्धः । इन्द्रियाणि प्रमाथीनि प्रमथनशीलानि विषयाभिमुखं हि पुरुषं विक्षोभयन्ति आकुलीकुर्वन्ति, आकुलीकृत्य च हरन्ति प्रसभं प्रसह्य प्रकाशमेव पश्यतो विवे­क­वि­ज्ञा­न­युक्तं मनः ॥ ६० ॥

यतः तस्मात् —

तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ ६१ ॥

६१

तानि सर्वाणि संयम्य संयमनं वशीकरणं कृत्वा युक्तः समाहितः सन् आसीत मत्परः अहं वासुदेवः सर्व­प्र­त्य­गात्मा परो यस्य सः मत्परः, ‘न अन्योऽहं तस्मात्’ इति आसीत इत्यर्थः । एवमासीनस्य यतेः वशे हि यस्य इन्द्रियाणि वर्तन्ते अभ्यासबलात् तस्य प्रज्ञा प्रतिष्ठिता ॥ ६१ ॥

अथेदानीं पराभविष्यतः सर्वा­न­र्थ­मू­ल­मि­द­मु­च्यते —

ध्यायतो विषयान्पुंसः सङ्ग­स्ते­षू­प­जा­यते ।
सङ्गात्सञ्जायते कामः कामा­त्क्रो­धोऽ­भि­जा­यते ॥ ६२ ॥

६२

ध्यायतः चिन्तयतः विषयान् शब्दादीन् विषयविशेषान् आलोचयतः पुंसः पुरुषस्य सङ्गः आसक्तिः प्रीतिः तेषु विषयेषु उपजायते उत्पद्यते । सङ्गात् प्रीतेः सञ्जायते समुत्पद्यते कामः तृष्णा । कामात् कुतश्चित् प्रतिहतात् क्रोधः अभिजायते ॥ ६२ ॥

क्रोधाद्भवति संमोहः संमो­हा­त्स्मृ­ति­वि­भ्रमः ।
स्मृति­भ्रं­शा­द्बु­द्धि­नाशो बुद्धि­ना­शा­त्प्र­ण­श्यति ॥ ६३ ॥

६३

क्रोधात् भवति संमोहः अविवेकः कार्या­का­र्य­वि­षयः । क्रुद्धो हि संमूढः सन् गुरु­म­प्या­क्रो­शति । संमोहात् स्मृतिविभ्रमः शास्त्रा­चा­र्यो­प­दे­शा­हि­त­सं­स्का­र­ज­नि­तायाः स्मृतेः स्यात् विभ्रमो भ्रंशः स्मृत्यु­त्प­त्ति­नि­मि­त्त­प्राप्तौ अनुत्पत्तिः । ततः स्मृतिभ्रंशात् बुद्धिनाशः बुद्धेर्नाशः । कार्या­का­र्य­वि­ष­य­वि­वे­का­यो­ग्यता अन्तःकरणस्य बुद्धेर्नाश उच्यते । बुद्धिनाशात् प्रणश्यति । तावदेव हि पुरुषः यावदन्तःकरणं तदीयं कार्या­का­र्य­वि­ष­य­वि­वे­क­यो­ग्यम् । तदयोग्यत्वे नष्ट एव पुरुषो भवति । अतः तस्यान्तःकरणस्य बुद्धेर्नाशात् प्रणश्यति पुरु­षा­र्था­योग्यो भवतीत्यर्थः ॥ ६३ ॥

सर्वानर्थस्य मूलमुक्तं विषयाभिध्यानम् । अथ इदानीं मोक्ष­का­र­ण­मि­द­मु­च्यते —

राग­द्वे­ष­वि­यु­क्तैस्तु विष­या­नि­न्द्रि­यै­श्च­रन् ।
आत्म­व­श्यै­र्वि­धे­यात्मा प्रसादमधिगच्छति ॥ ६४ ॥

६४

राग­द्वे­ष­वि­युक्तैः रागश्च द्वेषश्च रागद्वेषौ, तत्पुरःसरा हि इन्द्रियाणां प्रवृत्तिः स्वाभाविकी, तत्र यो मुमुक्षुः भवति सः ताभ्यां वियुक्तैः श्रोत्रादिभिः इन्द्रियैः विषयान् अवर्जनीयान् चरन् उपलभमानः आत्मवश्यैः आत्मनः वश्यानि वशीभूतानि इन्द्रियाणि तैः आत्मवश्यैः विधेयात्मा इच्छातः विधेयः आत्मा अन्तःकरणं यस्य सः अयं प्रसादम् अधिगच्छति । प्रसादः प्रसन्नता स्वास्थ्यम् ॥ ६४ ॥

प्रसादे सति किं स्यात् इत्युच्यते —

प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ ६५ ॥

६५

प्रसादे सर्वदुःखानाम् आध्या­त्मि­का­दीनां हानिः विनाशः अस्य यतेः उपजायते । किञ्च — प्रसन्नचेतसः स्वस्था­न्तः­क­र­णस्य हि यस्मात् आशु शीघ्रं बुद्धिः पर्यवतिष्ठते आकाशमिव परि समन्तात् अवतिष्ठते, आत्मस्वरूपेणैव निश्च­ली­भ­व­ती­त्यर्थः ॥

एवं प्रसन्नचेतसः अवस्थितबुद्धेः कृतकृत्यता यतः, तस्मात् राग­द्वे­ष­वि­युक्तैः इन्द्रियैः शास्त्रा­वि­रु­द्धेषु अवर्जनीयेषु युक्तः समाचरेत् इति वाक्यार्थः ॥ ६५ ॥

सेयं प्रसन्नता स्तूयते —

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ ६६ ॥

६६

नास्ति न विद्यते न भवतीत्यर्थः, बुद्धिः आत्मस्वरूपविषया अयुक्तस्य अस­मा­हि­ता­न्तः­क­र­णस्य । न च अस्ति अयुक्तस्य भावना आत्म­ज्ञा­ना­भि­नि­वेशः । तथा — न च अस्ति अभावयतः आत्म­ज्ञा­ना­भि­नि­वे­श­म­कु­र्वतः शान्तिः उपशमः । अशान्तस्य कुतः सुखम् ? इन्द्रियाणां हि विष­य­से­वा­तृ­ष्णातः निवृत्तिर्या तत्सुखम् , न विषयविषया तृष्णा । दुःखमेव हि सा । न तृष्णायां सत्यां सुखस्य गन्ध­मा­त्र­म­प्यु­प­प­द्यते इत्यर्थः ॥ ६६ ॥

अयुक्तस्य कस्मा­द्बु­द्धि­र्नास्ति इत्युच्यते —

इन्द्रियाणां हि चरतां यन्म­नोऽ­नु­वि­धी­यते ।
तदस्य हरति प्रज्ञां वायु­र्ना­व­मि­वा­म्भसि ॥ ६७ ॥

६७

इन्द्रियाणां हि यस्मात् चरतां स्वस्वविषयेषु प्रवर्तमानानां यत् मनः अनुविधीयते अनुप्रवर्तते तत् इन्द्रि­य­वि­ष­य­वि­क­ल्प­नेन प्रवृत्तं मनः अस्य यतेः हरति प्रज्ञाम् आत्मा­ना­त्म­वि­वे­कजां नाशयति । कथम् ? वायुः नावमिव अम्भसि उदके जिगमिषतां मार्गादुद्धृत्य उन्मार्गे यथा वायुः नावं प्रवर्तयति, एवमात्मविषयां प्रज्ञां हृत्वा मनो विषयविषयां करोति ॥ ६७ ॥

‘यततो हि’(भ. गी. २ । ६०) इत्यु­प­न्य­स्त­स्या­र्थस्य अनेकधा उपपत्तिमुक्त्वा तं चार्थमुपपाद्य उपसंहरति —

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रि­या­णी­न्द्रि­या­र्थे­भ्य­स्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६८ ॥

६८

इन्द्रियाणां प्रवृत्तौ दोष उपपादितो यस्मात् , तस्मात् यस्य यतेः हे महाबाहो, निगृहीतानि सर्वशः सर्वप्रकारैः मानसादिभेदैः इन्द्रियाणि इन्द्रि­या­र्थेभ्यः शब्दादिभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥ ६८ ॥

योऽयं लौकिको वैदिकश्च व्यवहारः स उत्प­न्न­वि­वे­क­ज्ञा­नस्य स्थितप्रज्ञस्य अवि­द्या­का­र्य­त्वात् अविद्यानिवृत्तौ निवर्तते, अविद्यायाश्च विद्याविरोधात् निवृत्तिः, इत्येतमर्थं स्फुटीकुर्वन् आह —

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६९ ॥

६९

या निशा रात्रिः सर्व­प­दा­र्था­ना­म­वि­वे­क­करी तमःस्वभावत्वात् सर्वभूतानां सर्वेषां भूतानाम् । किं तत् परमार्थतत्त्वं स्थितप्रज्ञस्य विषयः । यथा नक्तञ्चराणाम् अहरेव सदन्येषां निशा भवति, तद्वत् नक्त­ञ्च­र­स्था­नी­या­ना­म­ज्ञानां सर्वभूतानां निशेव निशा परमार्थतत्त्वम् , अगो­च­र­त्वा­द­त­द्बु­द्धी­नाम् । तस्यां पर­मा­र्थ­त­त्त्व­ल­क्ष­णा­या­म­ज्ञा­न­नि­द्रायाः प्रबुद्धो जागर्ति संयमी संयमवान् , जितेन्द्रियो योगीत्यर्थः । यस्यां ग्राह्य­ग्रा­ह­क­भे­द­ल­क्ष­णा­या­म­वि­द्या­नि­शायां प्रसुप्तान्येव भूतानि जाग्रति इति उच्यन्ते, यस्यां निशायां प्रसुप्ता इव स्वप्नदृशः, सा निशा अवि­द्या­रू­प­त्वात् परमार्थतत्त्वं पश्यतो मुनेः ॥

अतः कर्माणि अवि­द्या­व­स्था­या­मेव चोद्यन्ते, न विद्यावस्थायाम् । विद्यायां हि सत्याम् उदिते सवितरि शार्वरमिव तमः प्रणाशमुपगच्छति अविद्या । प्राक् विद्योत्पत्तेः अविद्या प्रमाणबुद्ध्या गृह्यमाणा क्रिया­का­र­क­फ­ल­भे­द­रूपा सती सर्व­क­र्म­हे­तुत्वं प्रतिपद्यते । न अप्रमाणबुद्ध्या गृह्यमाणायाः कर्म­हे­तु­त्वो­प­पत्तिः, ‘प्रमाणभूतेन वेदेन मम चोदितं कर्तव्यं कर्म’ इति हि कर्मणि कर्ता प्रवर्तते, न ‘अवि­द्या­मा­त्र­मिदं सर्वं निशेव’ इति । यस्य पुनः ‘निशेव अवि­द्या­मा­त्र­मिदं सर्वं भेदजातम्’ इति ज्ञानं तस्य आत्मज्ञस्य सर्व­क­र्म­सं­न्यासे एव अधिकारो न प्रवृत्तौ । तथा च दर्शयिष्यति — ‘तद्बु­द्ध­य­स्त­दा­त्मानः’(भ. गी. ५ । १७) इत्यादिना ज्ञान­नि­ष्ठा­या­मेव तस्य अधिकारम् ॥

तत्रापि प्रव­र्त­क­प्र­मा­णा­भावे प्रवृ­त्त्य­नु­प­पत्तिः इति चेत् , न ; स्वात्म­वि­ष­य­त्वा­दा­त्म­वि­ज्ञा­नस्य । न हि आत्मनः स्वात्मनि प्रव­र्त­क­प्र­मा­णा­पे­क्षता, आत्मत्वादेव । तदन्तत्वाच्च सर्वप्रमाणानां प्रमाणत्वस्य । न हि आत्म­स्व­रू­पा­धि­गमे सति पुनः प्रमा­ण­प्र­मे­य­व्य­व­हारः सम्भवति । प्रमातृत्वं हि आत्मनः निवर्तयति अन्त्यं प्रमाणम् ; निवर्तयदेव च अप्रमाणीभवति, स्वप्न­का­ल­प्र­मा­ण­मिव प्रबोधे । लोके च वस्त्वधिगमे प्रवृ­त्ति­हे­तु­त्त्वा­द­र्श­नात् प्रमाणस्य । तस्मात् न आत्मविदः कर्मण्यधिकार इति सिद्धम् ॥ ६९ ॥

विदुषः त्यक्तैषणस्य स्थितप्रज्ञस्य यतेरेव मोक्षप्राप्तिः, न तु असंन्यासिनः कामकामिनः इत्येतमर्थं दृष्टान्तेन प्रतिपादयिष्यन् आह —

आपू­र्य­मा­ण­म­च­ल­प्र­तिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ ७० ॥

७०

आपूर्यमाणम् अद्भिः अचलप्रतिष्ठम् अचलतया प्रतिष्ठा अवस्थितिः यस्य तम् अचलप्रतिष्ठं समुद्रम् आपः सर्वतो गताः प्रविशन्ति स्वात्म­स्थ­म­वि­क्रि­य­मेव सन्तं यद्वत् , तद्वत् कामाः विषयसंनिधावपि सर्वतः इच्छाविशेषाः यं पुरुषम् — समुद्रमिव आपः — अविकुर्वन्तः प्रविशन्ति सर्वे आत्मन्येव प्रलीयन्ते न स्वात्मवशं कुर्वन्ति, सः शान्तिं मोक्षम् आप्नोति, न इतरः कामकामी, काम्यन्त इति कामाः विषयाः तान् कामयितुं शीलं यस्य सः कामकामी, नैव प्राप्नोति इत्यर्थः ॥ ७० ॥

यस्मादेवं तस्मात्—

विहाय कामान्यः सर्वा­न्पु­मां­श्च­रति निःस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ ७१ ॥

७१

विहाय परित्यज्य कामान् यः संन्यासी पुमान् सर्वान् अशेषतः कार्‌त्स्न्येन चरति, जीव­न­मा­त्र­चे­ष्टा­शेषः पर्यटतीत्यर्थः । निःस्पृहः शरी­र­जी­व­न­मा­त्रेऽपि निर्गता स्पृहा यस्य सः निःस्पृहः सन् , निर्ममः शरी­र­जी­व­न­मा­त्रा­क्षि­प्त­प­रि­ग्र­हेऽपि ममेदम् इत्य­प­भि­नि­वे­श­व­र्जितः, निरहङ्कारः विद्या­व­त्त्वा­दि­नि­मि­त्ता­त्म­स­म्भा­व­ना­र­हितः इत्येतत् । सः एवंभूतः स्थितप्रज्ञः ब्रह्मवित् शान्तिं सर्व­सं­सा­र­दुः­खो­प­र­म­ल­क्षणां निर्वाणाख्याम् अधिगच्छति प्राप्नोति ब्रह्मभूतो भवति इत्यर्थः ॥ ७१ ॥

सैषा ज्ञाननिष्ठा स्तूयते —

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वा­स्या­म­न्त­का­लेऽपि ब्रह्म­नि­र्वा­ण­मृ­च्छति ॥ ७२ ॥

७२

एषा यथोक्ता ब्राह्मी ब्रह्मणि भवा इयं स्थितिः सर्वं कर्म संन्यस्य ब्रह्मरूपेणैव अवस्थानम् इत्येतत् । हे पार्थ, न एनां स्थितिं प्राप्य लब्ध्वा न विमुह्यति न मोहं प्राप्नोति । स्थित्वा अस्यां स्थितौ ब्राह्म्यां यथोक्तायां अन्तकालेऽपि अन्त्ये वयस्यपि ब्रह्मनिर्वाणं ब्रह्मनिर्वृतिं मोक्षम् ऋच्छति गच्छति । किमु वक्तव्यं ब्रह्मचर्यादेव संन्यस्य यावज्जीवं यो ब्रह्मण्येव अवतिष्ठते स ब्रह्म­नि­र्वा­ण­मृ­च्छति इति ॥ ७२ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ श्रीम­त्भ­ग­व­द्गी­ता­भाष्ये द्वितीयोऽध्यायः ॥