अद्वैतशारदा

श्रीमद्भगवद्गीताभाष्यम्

तृतीयोऽध्यायः

व्याख्याः

शास्त्रस्य प्रवृ­त्ति­नि­वृ­त्ति­वि­ष­य­भूते द्वे बुद्धी भगवता निर्दिष्टे, साङ्‍ख्ये बुद्धिः योगे बुद्धिः इति च । तत्र ‘प्रजहाति यदा कामान्’(भ. गी. २ । ५५) इत्यारभ्य आ अध्या­य­प­रि­स­माप्तेः साङ्‍ख्य­बु­द्ध्या­श्रि­तानां संन्यासं कर्तव्यमुक्त्वा तेषां तन्निष्ठतयैव च कृतार्थता उक्ता — ‘एषा ब्राह्मी स्थितिः’(भ. गी. २ । ७२) इति । अर्जुनाय च ‘कर्म­ण्ये­वा­धि­का­रस्ते . . . मा ते सङ्गोऽ­स्त्व­क­र्मणि’(भ. गी. २ । ४७) इति कर्मैव कर्त­व्य­मु­क्त­वान् योग­बु­द्धि­मा­श्रित्य, न तत एव श्रेयः­प्रा­प्तिम् उक्तवान् । तदेतदालक्ष्य पर्या­कु­ली­कृ­त­बुद्धिः अर्जुनः उवाच । कथं भक्ताय श्रेयोर्थिने यत् साक्षात् श्रेयः­प्रा­प्ति­सा­धनं साङ्‍ख्य­बु­द्धि­निष्ठां श्रावयित्वा मां कर्मणि दृष्टा­ने­का­न­र्थ­युक्ते पारम्पर्येणापि अनै­का­न्ति­क­श्रे­यः­प्रा­प्ति­फले नियुञ्ज्यात् इति युक्तः पर्याकुलीभावः अर्जुनस्य, तदनुरूपश्च प्रश्नः ‘ज्यायसी चेत्’(भ. गी. ३ । १) इत्यादिः, प्रश्ना­पा­क­र­ण­वाक्यं च भगवतः युक्तं यथो­क्त­वि­भा­ग­वि­षये शास्त्रे ॥

केचित्तु — अर्जुनस्य प्रश्ना­र्थ­म­न्यथा कल्पयित्वा तत्प्रतिकूलं भगवतः प्रतिवचनं वर्णयन्ति, यथा च आत्मना सम्बन्धग्रन्थे गीतार्थो निरूपितः तत्प्रतिकूलं च इह पुनः प्रश्न­प्र­ति­व­च­नयोः अर्थं निरूपयन्ति । कथम् ? तत्र सम्बन्धग्रन्थे तावत् — सर्वे­षा­मा­श्र­मिणां ज्ञानकर्मणोः समुच्चयः गीताशास्त्रे निरूपितः अर्थः इत्युक्तम् ; पुनः विशेषितं च याव­ज्जी­व­श्रु­ति­चो­दि­तानि कर्माणि परित्यज्य केवलादेव ज्ञानात् मोक्षः प्राप्यते इत्येतत् एकान्तेनैव प्रतिषिद्धमिति । इह तु आश्रमविकल्पं दर्शयता याव­ज्जी­व­श्रु­ति­चो­दि­ता­ना­मेव कर्मणां परित्याग उक्तः । तत् कथम् ईदृशं विरुद्धमर्थम् अर्जुनाय ब्रूयात् भगवान् , श्रोता वा कथं विरु­द्ध­म­र्थ­म­व­धा­र­येत् ॥

तत्रैतत् स्यात् — गृहस्थानामेव श्रौत­क­र्म­प­रि­त्या­गेन केवलादेव ज्ञानात् मोक्षः प्रतिषिध्यते, न तु आश्र­मा­न्त­रा­णा­मिति । एतदपि पूर्वो­त्त­र­वि­रु­द्ध­मेव । कथम् ? सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयो गीताशास्त्रे निश्चितः अर्थः इति प्रतिज्ञाय इह कथं तद्विरुद्धं केवलादेव ज्ञानात् मोक्षं ब्रूयात् आश्रमान्तराणाम् ॥

अथ मतं श्रौत­क­र्मा­पे­क्षया एतद्वचनम् ‘केवलादेव ज्ञानात् श्रौत­क­र्म­र­हि­तात् गृहस्थानां मोक्षः प्रतिषिध्यते’ इति ; तत्र गृहस्थानां विद्यमानमपि स्मार्तं कर्म अविद्यमानवत् उपेक्ष्य ‘ज्ञानादेव केवलात्’ इत्युच्यते इति । एतदपि विरुद्धम् । कथम् ? गृहस्थस्यैव स्मार्तकर्मणा समुच्चितात् ज्ञानात् मोक्षः प्रतिषिध्यते न तु आश्र­मा­न्त­रा­णा­मिति कथं विवेकिभिः शक्यमवधारयितुम् । किञ्च — यदि मोक्षसाधनत्वेन स्मार्तानि कर्माणि ऊर्ध्वरेतसां समुच्चीयन्ते तथा गृहस्थस्यापि इष्यतां स्मार्तैरेव समुच्चयो न श्रौतैः ॥

अथ श्रौतैः स्मार्तैश्च गृहस्थस्यैव समुच्चयः मोक्षाय, ऊर्ध्वरेतसां तु स्मार्त­क­र्म­मा­त्र­स­मु­च्चि­तात् ज्ञानात् मोक्ष इति । तत्रैवं सति गृहस्थस्य आयासबाहुल्यात् , श्रौतं स्मार्तं च बहुदुःखरूपं कर्म शिरसि आरोपितं स्यात् ॥

अथ गृहस्थस्यैव आया­स­बा­हु­ल्य­का­र­णात् मोक्षः स्यात् , न आश्रमान्तराणां श्रौत­नि­त्य­क­र्म­र­हि­त­त्वात् इति । तदप्यसत् , सर्वोपनिषत्सु इति­हा­स­पु­रा­ण­यो­ग­शा­स्त्रेषु च ज्ञानाङ्गत्वेन मुमुक्षोः सर्व­क­र्म­सं­न्या­स­वि­धा­नात् , आश्र­म­वि­क­ल्प­स­मु­च्च­य­वि­धा­नाच्च श्रुतिस्मृत्योः ॥

सिद्धस्तर्हि सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयः — न, मुमुक्षोः सर्व­क­र्म­सं­न्या­स­वि­धा­नात् । ‘पुत्रैषणाया वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’(बृ. उ. ३ । ५ । १) ‘तस्मात् न्यासमेषां तप­सा­म­ति­रि­क्त­माहुः’(तै. ना. ७९) ‘न्यास एवात्यरेचयत्’(तै. ना. ७८) इति, ‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः’(तै. ना. १२) इति च । ‘ब्रह्मचर्यादेव प्रव्रजेत्’(जा. उ. ४) इत्याद्याः श्रुतयः । ‘त्यज धर्ममधर्मं च उभे सत्यानृते त्यज । उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज । ’(मो. ध. ३२९ । ४०) ‘संसारमेव निःसारं दृष्ट्वा सारदिदृक्षया । प्रव्र­ज­न्त्य­कृ­तो­द्वाहाः परं वैरा­ग्य­मा­श्रिताः’(?) इति बृहस्पतिः । ‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः’(मो. ध. २४१ । ७) इति शुकानुशासनम् । इहापि च ‘सर्वकर्माणि मनसा संन्यस्य’(भ. गी. ५ । १३) इत्यादि ॥

मोक्षस्य च अकार्यत्वात् मुमुक्षोः कर्मानर्थक्यम् । नित्यानि प्रत्य­वा­य­प­रि­हा­रा­र्थानि इति चेत् , न ; असं­न्या­सि­वि­ष­य­त्वात् प्रत्य­वा­य­प्राप्तेः । न हि अग्नि­का­र्या­द्य­क­र­णात् संन्यासिनः प्रत्यवायः कल्पयितुं शक्यः, यथा ब्रह्म­चा­रि­णा­म­सं­न्या­सि­ना­मपि कर्मिणाम् । न तावत् नित्यानां कर्मणामभावादेव भावरूपस्य प्रत्यवायस्य उत्पत्तिः कल्पयितुं शक्या, ‘कथमसतः सज्जायेत’(छा. उ. ६ । २ । २) इति असतः सज्ज­न्मा­स­म्भ­व­श्रुतेः । यदि विहिताकरणात् असम्भाव्यमपि प्रत्यवायं ब्रूयात् वेदः, तदा अनर्थकरः वेदः अप्र­मा­ण­मि­त्युक्तं स्यात् ; विहितस्य करणाकरणयोः दुःख­मा­त्र­फ­ल­त्वात् । तथा च कारकं शास्त्रं न ज्ञापकम् इत्य­नु­प­प­न्नार्थं कल्पितं स्यात् । न चैतदिष्टम् । तस्मात् न संन्यासिनां कर्माणि । अतो ज्ञानकर्मणोः समु­च्च­या­नु­प­पत्तिः ; ‘ज्यायसी चेत् कर्मणस्ते मता बुद्धिः’(भ. गी. ३ । १) इति अर्जुनस्य प्रश्ना­नु­प­प­त्तेश्च ॥

यदि हि भगवता द्वितीयेऽध्याये ज्ञानं कर्म च समुच्चित्य त्वया अनुष्ठेयम् इत्युक्तं स्यात् , ततः अर्जुनस्य प्रश्नः अनुपपन्नः ‘ज्यायसी चेत्कर्मणस्ते मता बुद्धिः’(भ. गी. ३ । १) इति । अर्जुनाय चेत् बुद्धिकर्मणी त्वया अनुष्ठेये इत्युक्ते, या कर्मणो ज्यायसी बुद्धिः सापि उक्तैव इति ‘तत् किं कर्मणि घोरे मां नियोजयसि केशव’(भ. गी. ३ । १) इति उपालम्भः प्रश्नो वा न कथञ्चन उपपद्यते । न च अर्जुनस्यैव ज्यायसी बुद्धिः न अनुष्ठेया इति भगवता उक्तं पूर्वम् इति कल्पयितुं युक्तम् , येन ‘ज्यायसी चेत्’ इति विवेकतः प्रश्नः स्यात् ॥

यदि पुनः एकस्य पुरुषस्य ज्ञान­क­र्म­णो­र्वि­रो­धात् युगपदनुष्ठानं न सम्भवतीति भिन्न­पु­रु­षा­नु­ष्ठे­यत्वं भगवता पूर्वमुक्तं स्यात् , ततोऽयं प्रश्न उपपन्नः ‘ज्यायसी चेत्’ इत्यादिः । अविवेकतः प्रश्न­क­ल्प­ना­या­मपि भिन्न­पु­रु­षा­नु­ष्ठे­य­त्वेन ज्ञान­क­र्म­नि­ष्ठयोः भगवतः प्रतिवचनं नोपपद्यते । न च अज्ञाननिमित्तं भगवत्प्रतिवचनं कल्पनीयम् । अस्माच्च भिन्न­पु­रु­षा­नु­ष्ठे­य­त्वेन ज्ञान­क­र्म­नि­ष्ठयोः भगवतः प्रति­व­च­न­द­र्श­नात् ज्ञानकर्मणोः समु­च्च­या­नु­प­पत्तिः । तस्मात् केवलादेव ज्ञानात् मोक्ष इत्येषोऽर्थो निश्चितो गीतासु सर्वोपनिषत्सु च ॥

ज्ञानकर्मणोः ‘एकं वद निश्चित्य’(भ. गी. ३ । २) इति च एकविषयैव प्रार्थना अनुपपन्ना, उभयोः समुच्चयसम्भवे । ‘कुरु कर्मैव तस्मात्त्वम्’(भ. गी. ४ । १५) इति च ज्ञान­नि­ष्ठा­स­म्भ­वम् अर्जुनस्य अवधारणेन दर्शयिष्यति ॥

अर्जुन उवाच —

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥

ज्यायसी श्रेयसी चेत् यदि कर्मणः सकाशात् ते तव मता अभिप्रेता बुद्धिर्ज्ञानं हे जनार्दन । यदि बुद्धिकर्मणी समुच्चिते इष्टे तदा एकं श्रेयःसाधनमिति कर्मणो ज्यायसी बुद्धिः इति कर्मणः अतिरिक्तकरणं बुद्धे­र­नु­प­प­न्नम् अर्जुनेन कृतं स्यात् ; न हि तदेव तस्मात् फलतोऽतिरिक्तं स्यात् । तथा च, कर्मणः श्रेयस्करी भगवतोक्ता बुद्धिः, अश्रेयस्करं च कर्म कुर्विति मां प्रतिपादयति, तत् किं नु कारणमिति भगवत उपालम्भमिव कुर्वन् तत् किं कस्मात् कर्मणि घोरे क्रूरे हिंसालक्षणे मां नियोजयसि केशव इति च यदाह, तच्च नोपपद्यते । अथ स्मार्तेनैव कर्मणा समुच्चयः सर्वेषां भगवता उक्तः अर्जुनेन च अवधारितश्चेत् , ‘तत्किं कर्मणि घोरे मां नियोजयसि’(भ. गी. ३ । १) इत्यादि कथं युक्तं वचनम् ॥ १ ॥

किञ्च—

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽ­ह­मा­प्नु­याम् ॥ २ ॥

व्यामिश्रेणेव, यद्यपि विविक्ताभिधायी भगवान् , तथापि मम मन्दबुद्धेः व्यामिश्रमिव भगवद्वाक्यं प्रतिभाति । तेन मम बुद्धिं मोहयसि इव, मम बुद्धि­व्या­मो­हा­प­न­याय हि प्रवृत्तः त्वं तु कथं मोहयसि ? अतः ब्रवीमि बुद्धिं मोहयसि इव मे मम इति । त्वं तु भिन्नकर्तृकयोः ज्ञानकर्मणोः एक­पु­रु­षा­नु­ष्ठा­ना­स­म्भवं यदि मन्यसे, तत्रैवं सति तत् तयोः एकं बुद्धिं कर्म वा इदमेव अर्जुनस्य योग्यं बुद्धि­श­क्त्य­व­स्था­नु­रू­प­मिति निश्चित्य वद ब्रूहि, येन ज्ञानेन कर्मणा वा अन्यतरेण श्रेयः अहम् आप्नुयां प्राप्नुयाम् ; इति यदुक्तं तदपि नोपपद्यते ॥

यदि हि कर्मनिष्ठायां गुणभूतमपि ज्ञानं भगवता उक्तं स्यात् , तत् कथं तयोः ‘एकं वद’ इति एकविषयैव अर्जुनस्य शुश्रूषा स्यात् । न हि भगवता पूर्वमुक्तम् ‘अन्यतरदेव ज्ञानकर्मणोः वक्ष्यामि, नैव द्वयम्’ इति, येन उभ­य­प्रा­प्त्य­स­म्भ­वम् आत्मनो मन्यमानः एकमेव प्रार्थयेत् ॥ २ ॥

प्रश्नानुरूपमेव प्रतिवचनं श्रीभगवानुवाच —

श्रीभगवानुवाच —

लोकेऽ­स्मि­न्द्वि­विधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन साङ्‍ख्यानां कर्मयोगेन योगिनाम् ॥ ३ ॥

लोके अस्मिन् शास्त्रा­र्था­नु­ष्ठा­ना­धि­कृ­तानां त्रैवर्णिकानां द्विविधा द्विप्रकारा निष्ठा स्थितिः अनु­ष्ठे­य­ता­त्पर्यं पुरा पूर्वं सर्गादौ प्रजाः सृष्ट्वा तासाम् अभ्यु­द­य­निः­श्रे­य­स­प्रा­प्ति­सा­धनं वेदा­र्थ­स­म्प्र­दा­य­मा­वि­ष्कु­र्वता प्रोक्ता मया सर्वज्ञेन ईश्वरेण हे अनघ अपाप । तत्र का सा द्विविधा निष्ठा इत्याह — तत्र ज्ञानयोगेन ज्ञानमेव योगः तेन साङ्ख्यानाम् आत्मा­ना­त्म­वि­ष­य­वि­वे­क­वि­ज्ञा­न­वतां ब्रह्म­च­र्या­श्र­मा­देव कृतसंन्यासानां वेदा­न्त­वि­ज्ञा­न­सु­नि­श्चि­ता­र्थानां पर­म­हं­स­प­रि­व्रा­ज­कानां ब्रह्मण्येव अवस्थितानां निष्ठा प्रोक्ता । कर्मयोगेन कर्मैव योगः कर्मयोगः तेन कर्मयोगेन योगिनां कर्मिणां निष्ठा प्रोक्ता इत्यर्थः । यदि च एकेन पुरुषेण एकस्मै पुरुषार्थाय ज्ञानं कर्म च समुच्चित्य अनुष्ठेयं भगवता इष्टम् उक्तं वक्ष्यमाणं वा गीतासु वेदेषु चोक्तम् , कथमिह अर्जुनाय उपसन्नाय प्रियाय विशि­ष्ट­भि­न्न­पु­रु­ष­क­र्तृके एव ज्ञानकर्मनिष्ठे ब्रूयात् ? यदि पुनः ‘अर्जुनः ज्ञानं कर्म च द्वयं श्रुत्वा स्वय­मे­वा­नु­ष्ठा­स्यति अन्येषां तु भिन्न­पु­रु­षा­नु­ष्ठे­यतां वक्ष्यामि इति’ मतं भगवतः कल्प्येत, तदा रागद्वेषवान् अप्रमाणभूतो भगवान् कल्पितः स्यात् । तच्चायुक्तम् । तस्मात् कयापि युक्त्या न समुच्चयो ज्ञानकर्मणोः ॥

यत् अर्जुनेन उक्तं कर्मणो ज्यायस्त्वं बुद्धेः, तच्च स्थितम् , अनिराकरणात् । तस्याश्च ज्ञाननिष्ठायाः संन्या­सि­ना­मे­वा­नु­ष्ठे­य­त्वम् , भिन्न­पु­रु­षा­नु­ष्ठे­य­त्व­व­च­नात् । भगवतः एवमेव अनुमतमिति गम्यते ॥ ३ ॥

‘मां च बन्धकारणे कर्मण्येव नियोजयसि’ इति विष­ण्ण­म­न­स­म­र्जु­नम् ‘कर्म नारभे’ इत्येवं मन्वानमालक्ष्य आह भगवान् — न कर्म­णा­म­ना­र­म्भात् इति । अथवा — ज्ञान­क­र्म­नि­ष्ठयोः परस्परविरोधात् एकेन पुरुषेण युगपत् अनु­ष्ठा­तु­म­श­क्त्यत्वे सति इत­रे­त­रा­न­पे­क्ष­यो­रेव पुरु­षा­र्थ­हे­तुत्वे प्राप्ते कर्मनिष्ठाया ज्ञान­नि­ष्ठा­प्रा­प्ति­हे­तु­त्वेन पुरु­षा­र्थ­हे­तु­त्वम् , न स्वातन्त्र्येण ; ज्ञाननिष्ठा तु कर्म­नि­ष्ठो­पा­य­ल­ब्धा­त्मिका सती स्वातन्त्र्येण पुरुषार्थहेतुः अन्यानपेक्षा, इत्येतमर्थं प्रदर्शयिष्यन् आह भगवान् —

न कर्म­णा­म­ना­र­म्भा­न्नै­ष्कर्म्यं पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥

न कर्मणां क्रियाणां यज्ञादीनाम् इह जन्मनि जन्मान्तरे वा अनुष्ठितानाम् उपा­त्त­दु­रि­त­क्ष­य­हे­तु­त्वेन सत्त्व­शु­द्धि­का­र­णानां तत्कारणत्वेन च ज्ञानो­त्प­त्ति­द्वा­रेण ज्ञान­नि­ष्ठा­हे­तू­नाम् , ‘ज्ञान­मु­त्प­द्यते पुंसां क्षयात्पापस्य कर्मणः । यथा­द­र्श­त­ल­प्रख्ये पश्य­त्या­त्मा­न­मा­त्मनि’(मो. ध. २०४ । ८) इत्यादिस्मरणात् , अनारम्भात् अननुष्ठानात् नैष्कर्म्यं निष्कर्मभावं कर्मशून्यतां ज्ञानयोगेन निष्ठां निष्क्रि­या­त्म­स्व­रू­पे­णैव अवस्थानमिति यावत् । पुरुषः न अश्नुते न प्राप्नो­ती­त्यर्थः ॥

कर्म­णा­म­ना­र­म्भा­न्नै­ष्कर्म्यं नाश्नुते इति वचनात् तद्विपर्ययात् तेषामारम्भात् नैष्क­र्म्य­म­श्नुते इति गम्यते । कस्मात् पुनः कारणात् कर्म­णा­म­ना­र­म्भा­न्नै­ष्कर्म्यं नाश्नुते इति ? उच्यते, कर्मारम्भस्यैव नैष्क­र्म्यो­पा­य­त्वात् । न ह्युपायमन्तरेण उपे­य­प्रा­प्ति­रस्ति । कर्मयोगोपायत्वं च नैष्क­र्म्य­ल­क्ष­णस्य ज्ञानयोगस्य, श्रुतौ इह च, प्रतिपादनात् । श्रुतौ तावत् प्रकृतस्य आत्मलोकस्य वेद्यस्य वेदनोपायत्वेन ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन’(बृ. उ. ४ । ४ । २२) इत्यादिना कर्मयोगस्य ज्ञान­यो­गो­पा­यत्वं प्रतिपादितम् । इहापि च — ‘संन्यासस्तु महाबाहो दुःख­मा­प्तु­म­यो­गतः’(भ. गी. ५ । ६) ‘योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वा­त्म­शु­द्धये’(भ. गी. ५ । ११) ‘यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्’(भ. गी. १८ । ५) इत्यादि प्रतिपादयिष्यति ॥

ननु च ‘अभयं सर्वभूतेभ्यो दत्त्वा नैष्क­र्म्य­मा­च­रेत्’(अश्व. ४६ । १८) इत्यादौ कर्त­व्य­क­र्म­सं­न्या­सा­दपि नैष्क­र्म्य­प्राप्तिं दर्शयति । लोके च कर्म­णा­म­ना­र­म्भा­न्नै­ष्क­र्म्य­मिति प्रसिद्धतरम् । अतश्च नैष्क­र्म्या­र्थिनः किं कर्मारम्भेण ? इति प्राप्तम् । अत आह — न च संन्यसनादेवेति । नापि संन्यसनादेव केवलात् कर्म­प­रि­त्या­ग­मा­त्रा­देव ज्ञानरहितात् सिद्धिं नैष्क­र्म्य­ल­क्षणां ज्ञानयोगेन निष्ठां समधिगच्छति न प्राप्नोति ॥ ४ ॥

कस्मात् पुनः कारणात् कर्म­सं­न्या­स­मा­त्रा­देव केवलात् ज्ञानरहितात् सिद्धिं नैष्क­र्म्य­ल­क्षणां पुरुषो नाधिगच्छति इति हेत्वा­का­ङ्क्षा­या­माह —

न हि कश्चित्क्षणमपि जातु तिष्ठ­त्य­क­र्म­कृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृ­ति­जै­र्गुणैः ॥ ५ ॥

न हि यस्मात् क्षणमपि कालं जातु कदाचित् कश्चित् तिष्ठति अकर्मकृत् सन् । कस्मात् ? कार्यते प्रवर्त्यते हि यस्मात् अवश एव अस्वतन्त्र एव कर्म सर्वः प्राणी प्रकृतिजैः प्रकृतितो जातैः सत्त्व­र­ज­स्त­मोभिः गुणैः । अज्ञ इति वाक्यशेषः, यतो वक्ष्यति ‘गुणैर्यो न विचाल्यते’(भ. गी. १४ । २३) इति । साङ्‍ख्यानां पृथक्करणात् अज्ञानामेव हि कर्मयोगः, न ज्ञानिनाम् । ज्ञानिनां तु गुणै­र­चा­ल्य­मा­नानां स्वत­श्च­ल­ना­भा­वात् कर्मयोगो नोपपद्यते । तथा च व्याख्यातम् ‘वेदाविनाशिनम्’(भ. गी. २ । २१) इत्यत्र ॥ ५ ॥

यत्त्वनात्मज्ञः चोदितं कर्म नारभते इति तदसदेवेत्याह —

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रि­या­र्था­न्वि­मू­ढात्मा मिथ्याचारः स उच्यते ॥ ६ ॥

कर्मेन्द्रियाणि हस्तादीनि संयम्य संहृत्य यः आस्ते तिष्ठति मनसा स्मरन् चिन्तयन् इन्द्रियार्थान् विषयान् विमूढात्मा विमूढान्तःकरणः मिथ्याचारो मृषाचारः पापाचारः

सः उच्यते ॥ ६ ॥

यस्त्वि­न्द्रि­याणि मनसा निय­म्या­र­भ­तेऽ­र्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ७ ॥

यस्तु पुनः कर्मण्यधिकृतः अज्ञः बुद्धी­न्द्रि­याणि मनसा नियम्य आरभते अर्जुन कर्मेन्द्रियैः वाक्पाण्यादिभिः । किमारभते इत्याह — कर्मयोगम् असक्तः सन् फला­भि­स­न्धि­व­र्जितः सः विशिष्यते इतरस्मात् मिथ्याचारात् ॥ ७ ॥

यतः एवम् अतः —

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसि­ध्ये­द­क­र्मणः ॥ ८ ॥

नियतं नित्यं शास्त्रो­प­दि­ष्टम् , यो यस्मिन् कर्मणि अधिकृतः फलाय च अश्रुतं तत् नियतं कर्म, तत् कुरु त्वं हे अर्जुन, यतः कर्म ज्यायः अधिकतरं फलतः, हि यस्मात् अकर्मणः अकरणात् अनारम्भात् । कथम् ? शरीरयात्रा शरीरस्थितिः अपि च ते तव न प्रसिध्येत् प्रसिद्धिं न गच्छेत् अकर्मणः अकरणात् । अतः दृष्टः कर्मा­क­र्म­णो­र्वि­शेषो लोके ॥ ८ ॥

यच्च मन्यसे बन्धार्थत्वात् कर्म न कर्तव्यमिति तदप्यसत् । कथम् —

यज्ञा­र्था­त्क­र्म­णोऽ­न्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ९ ॥

‘यज्ञो वै विष्णुः’(तै. स. १ । ७ । ४) इति श्रुतेः यज्ञः ईश्वरः, तदर्थं यत् क्रियते तत् यज्ञार्थं कर्म । तस्मात् कर्मणः अन्यत्र अन्येन कर्मणा लोकः अयम् अधिकृतः कर्मकृत् कर्मबन्धनः कर्म बन्धनं यस्य सोऽयं कर्मबन्धनः लोकः, न तु यज्ञार्थात् । अतः तदर्थं यज्ञार्थं कर्म कौन्तेय, मुक्तसङ्गः कर्म­फ­ल­स­ङ्ग­व­र्जितः सन् समाचर निर्वर्तय ॥ ९ ॥

इतश्च अधिकृतेन कर्म कर्तव्यम् —

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमेष वोऽस्त्वि­ष्ट­का­म­धुक् ॥ १० ॥

१०

सहयज्ञाः यज्ञसहिताः प्रजाः त्रयो वर्णाः ताः सृष्ट्वा उत्पाद्य पुरा पूर्वं सर्गादौ उवाच उक्तवान् प्रजापतिः प्रजानां स्रष्टा अनेन यज्ञेन प्रसविष्यध्वं प्रसवः वृद्धिः उत्पत्तिः तं कुरुध्वम् । एष यज्ञः वः युष्माकम् अस्तु भवतु इष्टकामधुक् इष्टान् अभिप्रेतान् कामान् फलविशेषान् दोग्धीति इष्टकामधुक् ॥ १० ॥

कथम् —

देवान्भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥

११

देवान् इन्द्रादीन् भावयत वर्धयत अनेन यज्ञेन । ते देवा भावयन्तु आप्याययन्तु वृष्ट्यादिना वः युष्मान् । एवं परस्परम् अन्योन्यं भावयन्तः श्रेयः परं मोक्षलक्षणं ज्ञान­प्रा­प्ति­क्र­मेण अवाप्स्यथ । स्वर्गं वा परं श्रेयः अवाप्स्यथ ॥ ११ ॥

किञ्च—

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्द­त्ता­न­प्र­दा­यैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ १२ ॥

१२

इष्टान् अभिप्रेतान् भोगान् हि वः युष्मभ्यं देवाः दास्यन्ते वितरिष्यन्ति स्त्रीप­शु­पु­त्रा­दीन् यज्ञभाविताः यज्ञैः वर्धिताः तोषिताः इत्यर्थः । तैः देवैः दत्तान् भोगान् अप्रदाय अदत्त्वा, आनृण्यमकृत्वा इत्यर्थः, एभ्यः देवेभ्यः, यः भुङ्क्ते स्वदे­हे­न्द्रि­या­ण्येव तर्पयति स्तेन एव तस्कर एव सः देवादिस्वापहारी ॥ १२ ॥

ये पुनः —

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पच­न्त्या­त्म­का­र­णात् ॥ १३ ॥

१३

देवयज्ञादीन् निर्वर्त्य तच्छिष्टम् अशनम् अमृताख्यम् अशितुं शीलं येषां ते यज्ञशिष्टाशिनः सन्तः मुच्यन्ते सर्वकिल्बिषैः सर्वपापैः चुल्ल्या­दि­प­ञ्च­सू­ना­कृतैः प्रमा­द­कृ­त­हिं­सा­दि­ज­नि­तैश्च अन्यैः । ये तु आत्मम्भरयः, भुञ्जते ते तु अघं पापं स्वयमपि पापाः — ये पचन्ति पाकं निर्वर्तयन्ति आत्मकारणात् आत्महेतोः ॥ १३ ॥

इतश्च अधिकृतेन कर्म कर्तव्यम् जग­च्च­क्र­प्र­वृ­त्ति­हे­तुर्हि कर्म । कथमिति उच्यते —

अन्नाद्भवन्ति भूतानि पर्ज­न्या­द­न्न­स­म्भवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ १४ ॥

१४

अन्नात् भुक्तात् लोहि­त­रे­तः­प­रि­ण­तात् प्रत्यक्षं भवन्ति जायन्ते भूतानि । पर्जन्यात् वृष्टेः अन्नस्य सम्भवः अन्नसम्भवः । यज्ञात् भवति पर्जन्यः, ‘अग्नौ प्रास्ताहुतिः सम्य­गा­दि­त्य­मु­प­ति­ष्ठते । आदित्याज्जायते वृष्टि­र्वृ­ष्टे­रन्नं ततः प्रजाः’(मनु. ३ । ७६) इति स्मृतेः । यज्ञः अपूर्वम् । स च यज्ञः कर्मसमुद्भवः ऋत्वि­ग्य­ज­मा­न­योश्च व्यापारः कर्म, तत् समुद्भवः यस्य यज्ञस्य अपूर्वस्य स यज्ञः कर्मसमुद्भवः ॥ १४ ॥

तच्चैवंविधं कर्म कुतो जातमित्याह —

कर्म ब्रह्मोद्भवं विद्धि ब्रह्मा­क्ष­र­स­मु­द्भ­वम् ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ १५ ॥

१५

कर्म ब्रह्मोद्भवं ब्रह्म वेदः सः उद्भवः कारणं प्रकाशको यस्य तत् कर्म ब्रह्मोद्भवं विद्धि विजानीहि । ब्रह्म पुनः वेदाख्यम् अक्षरसमुद्भवम् अक्षरं ब्रह्म परमात्मा समुद्भवो यस्य तत् अक्षरसमुद्भवम् । ब्रह्म वेद इत्यर्थः । यस्मात् साक्षात् परमात्माख्यात् अक्षरात् पुरु­ष­निः­श्वा­स­वत् समुद्भूतं ब्रह्म तस्मात् सर्वा­र्थ­प्र­का­श­क­त्वात् सर्वगतम् ; सर्वगतमपि सत् नित्यं सदा यज्ञ­वि­धि­प्र­धा­न­त्वात् यज्ञे प्रतिष्ठितम् ॥ १५ ॥

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघा­यु­रि­न्द्रि­या­रामो मोघं पार्थ स जीवति ॥ १६ ॥

१६

एवम् इत्थम् ईश्वरेण वेदयज्ञपूर्वकं जगच्चक्रं प्रवर्तितं न अनुवर्तयति इह लोके यः कर्मणि अधिकृतः सन् अघायुः अघं पापम् आयुः जीवनं यस्य सः अघायुः, पापजीवनः इति यावत् । इन्द्रियारामः इन्द्रियैः आरामः आरमणम् आक्रीडा विषयेषु यस्य सः इन्द्रियारामः मोघं वृथा हे पार्थ, स जीवति ॥

तस्मात् अज्ञेन अधिकृतेन कर्तव्यमेव कर्मेति प्रकरणार्थः । प्राक् आत्म­ज्ञा­न­नि­ष्ठा­यो­ग्य­ता­प्राप्तेः तादर्थ्येन कर्म­यो­गा­नु­ष्ठा­नम् अधिकृतेन अनात्मज्ञेन कर्त­व्य­मे­वे­त्ये­तत् ‘न कर्म­णा­म­ना­र­म्भात्’(भ. गी. ३ । ४) इत्यत आरभ्य ‘शरीरयात्रापि च ते न प्रसि­ध्ये­द­क­र्मणः’(भ. गी. ३ । ८) इत्येवमन्तेन प्रतिपाद्य, ‘यज्ञार्थात् कर्मणोऽन्यत्र’(भ. गी. ३ । ९) इत्यादिना ‘मोघं पार्थ स जीवति’(भ. गी. ३ । १६) इत्येवमन्तेनापि ग्रन्थेन प्रासङ्गिकम् अधिकृतस्य अनात्मविदः कर्मानुष्ठाने बहु कारणमुक्तम् । तदकरणे च दोषसङ्कीर्तनं कृतम् ॥ १६ ॥

एवं स्थिते किमेवं प्रवर्तितं चक्रं सर्वे­णा­नु­व­र्त­नी­यम् , आहोस्वित् पूर्वो­क्त­क­र्म­यो­गा­नु­ष्ठा­नो­पा­य­प्रा­प्याम् अनात्मविदः ज्ञानयोगेनैव निष्ठाम् आत्मविद्भिः साङ्ख्यैः अनु­ष्ठे­या­म­प्रा­प्ते­नैव, इत्येवमर्थम् अर्जुनस्य प्रश्नमाशङ्क्य स्वयमेव वा शास्त्रार्थस्य विवे­क­प्र­ति­प­त्त्य­र्थम् ‘एतं वै तमात्मानं विदित्वा निवृ­त्त­मि­थ्या­ज्ञानाः सन्तः ब्राह्मणाः मिथ्या­ज्ञा­न­वद्भिः अवश्यं कर्तव्येभ्यः पुत्रैषणादिभ्यो व्युत्थायाथ भिक्षाचर्यं शरी­र­स्थि­ति­मा­त्र­प्र­युक्तं चरन्ति न तेषा­मा­त्म­ज्ञा­न­नि­ष्ठा­व्य­ति­रे­केण अन्यत् कार्यमस्ति’(बृ. उ. ३ । ५ । १) इत्येवं श्रुत्यर्थमिह गीताशास्त्रे प्रति­पि­पा­द­यि­षि­त­मा­वि­ष्कु­र्वन् आह भगवान् —

यस्त्वा­त्म­र­ति­रेव स्यादा­त्म­तृ­प्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ १७ ॥

१७

यस्तु साङ्ख्यः आत्मज्ञाननिष्ठः आत्मरतिः आत्मन्येव रतिः न विषयेषु यस्य सः आत्मरतिरेव स्यात् भवेत् आत्मतृप्तश्च आत्मनैव तृप्तः न अन्नरसादिना सः मानवः मनुष्यः संन्यासी आत्मन्येव च सन्तुष्टः । सन्तोषो हि बाह्यार्थलाभे सर्वस्य भवति, तमनपेक्ष्य आत्मन्येव च सन्तुष्टः सर्वतो वीततृष्ण इत्येतत् । यः ईदृशः आत्मवित् तस्य कार्यं करणीयं न विद्यते नास्ति इत्यर्थः ॥ १७ ॥

किञ्च —

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चि­द­र्थ­व्य­पा­श्रयः ॥ १८ ॥

१८

नैव तस्य परमात्मरतेः कृतेन कर्मणा अर्थः प्रयोजनमस्ति । अस्तु तर्हि अकृतेन अकरणेन प्रत्यवायाख्यः अनर्थः, न अकृतेन इह लोके कश्चन कश्चिदपि प्रत्य­वा­य­प्रा­प्ति­रूपः आत्महानिलक्षणो वा नैव अस्ति । न च अस्य सर्वभूतेषु ब्रह्मा­दि­स्था­व­रा­न्तेषु भूतेषु कश्चित् अर्थव्यपाश्रयः प्रयो­ज­न­नि­मि­त्त­क्रि­या­साध्यः व्यपाश्रयः व्यपाश्रयणम् आलम्बनं कञ्चित् भूत­वि­शे­ष­मा­श्रित्य न साध्यः कश्चिदर्थः अस्ति, येन तदर्था क्रिया अनुष्ठेया स्यात् । न त्वम् एतस्मिन् सर्व­तः­स­म्प्लु­तो­द­क­स्था­नीये सम्यग्दर्शने वर्तसे ॥ १८ ॥

यतः एवम् —

तस्मादसक्तः सततं कार्यं कर्म समाचर ।
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ १९ ॥

१९

तस्मात् असक्तः सङ्गवर्जितः सततं सर्वदा कार्यं कर्तव्यं नित्यं कर्म समाचर निर्वर्तय । असक्तो हि यस्मात् समाचरन् ईश्वरार्थं कर्म कुर्वन् परं मोक्षम् आप्नोति पूरुषः सत्त्व­शु­द्धि­द्वा­रेण इत्यर्थः ॥ १९ ॥

यस्माच्च —

कर्मणैव हि संसि­द्धि­मा­स्थिता जनकादयः ।
लोक­स­ङ्ग्र­ह­मे­वापि सम्प­श्य­न्क­र्तु­म­र्हसि ॥ २० ॥

२०

कर्मणैव हि यस्मात् पूर्वे क्षत्रियाः विद्वांसः संसिद्धिं मोक्षं गन्तुम् आस्थिताः प्रवृत्ताः । के ? जनकादयः जन­का­श्व­प­ति­प्र­भृ­तयः । यदि ते प्राप्त­स­म्य­ग्द­र्शनाः, ततः लोकसङ्ग्रहार्थं प्रार­ब्ध­क­र्म­त्वात् कर्मणा सहैव असंन्यस्यैव कर्म संसि­द्धि­मा­स्थिता इत्यर्थः । अथ अप्रा­प्त­स­म्य­ग्द­र्शनाः जनकादयः, तदा कर्मणा सत्त्व­शु­द्धि­सा­ध­न­भू­तेन क्रमेण संसि­द्धि­मा­स्थिता इति व्याख्येयः श्लोकः । अथ मन्यसे पूर्वैरपि जनकादिभिः अजानद्भिरेव कर्तव्यं कर्म कृतम् ; तावता नावश्यमन्येन कर्तव्यं सम्यग्दर्शनवता कृतार्थेनेति ; तथापि प्रार­ब्ध­क­र्मा­यत्तः त्वं लोकसङ्ग्रहम् एव अपि लोकस्य उन्मा­र्ग­प्र­वृ­त्ति­नि­वा­रणं लोकसङ्ग्रहः तमेवापि प्रयोजनं सम्पश्यन् कर्तुम् अर्हसि ॥ २० ॥

लोकसङ्ग्रहः किमर्थं कर्तव्य इत्युच्यते —

यद्यदाचरति श्रेष्ठ­स्त­त्त­दे­वे­तरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥

२१

यद्यत् कर्म आचरति करोति श्रेष्ठः प्रधानः तत्तदेव कर्म आचरति इतरः अन्यः जनः तदनुगतः । किञ्च सः श्रेष्ठः यत् प्रमाणं कुरुते लौकिकं वैदिकं वा लोकः तत् अनुवर्तते तदेव प्रमाणीकरोति इत्यर्थः ॥ २१ ॥

यदि अत्र ते लोक­स­ङ्ग्र­ह­क­र्त­व्य­तायां विप्रतिपत्तिः तर्हि मां किं न पश्यसि ? —

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नान­वा­प्त­म­वा­प्तव्यं वर्त एव च कर्मणि ॥ २२ ॥

२२

न मे मम पार्थ न अस्ति न विद्यते कर्तव्यं त्रिषु अपि लोकेषु किञ्चन किञ्चिदपि । कस्मात् ? न अनवाप्तम् अप्राप्तम् अवाप्तव्यं प्रापणीयम् , तथापि वर्ते एव च कर्मणि अहम् ॥ २२ ॥

यदि ह्यहं न वर्तेय जातु कर्म­ण्य­त­न्द्रितः ।
मम वर्त्मा­नु­व­र्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥

२३

यदि हि पुनः अहं न वर्तेय जातु कदाचित् कर्मणि अतन्द्रितः अनलसः सन् मम श्रेष्ठस्य सतः वर्त्म मार्गम् अनुवर्तन्ते मनुष्याः हे पार्थ, सर्वशः सर्वप्रकारैः ॥ २३ ॥

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
सङ्करस्य च कर्ता स्यामु­प­ह­न्या­मिमाः प्रजाः ॥ २४ ॥

२४

उत्सीदेयुः विनश्येयुः इमे सर्वे लोकाः लोक­स्थि­ति­नि­मि­त्तस्य कर्मणः अभावात् न कुर्यां कर्म चेत् अहम् । किञ्च, सङ्करस्य च कर्ता स्याम् । तेन कारणेन उपहन्याम् इमाः प्रजाः । प्रजा­ना­म­नु­ग्र­हाय प्रवृत्तः उपहतिम् उपहननं कुर्याम् इत्यर्थः । मम ईश्वरस्य अननुरूपमापद्येत ॥ २४ ॥

यदि पुनः अहमिव त्वं कृतार्थबुद्धिः, आत्मवित् अन्यो वा, तस्यापि आत्मनः कर्तव्याभावेऽपि परानुग्रह एव कर्तव्य इत्याह —

सक्ताः कर्म­ण्य­वि­द्वांसो यथा कुर्वन्ति भारत ।
कुर्या­द्वि­द्वां­स्त­था­स­क्त­श्चि­की­र्षु­र्लो­क­स­ङ्ग्र­हम् ॥ २५ ॥

२५

सक्ताः कर्मणि ‘अस्य कर्मणः फलं मम भविष्यति’ इति केचित् अविद्वांसः यथा कुर्वन्ति भारत, कुर्यात् विद्वान् आत्मवित् तथा असक्तः सन् । तद्वत् किमर्थं करोति ? तत् शृणु — चिकीर्षुः कर्तुमिच्छुः लोकसङ्ग्रहम् ॥ २५ ॥

एवं लोकसङ्ग्रहं चिकीर्षोः न मम आत्मविदः कर्तव्यमस्ति अन्यस्य वा लोकसङ्ग्रहं मुक्त्वा । ततः तस्य आत्मविदः इदमुपदिश्यते —

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोष­ये­त्स­र्व­क­र्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥

२६

बुद्धेर्भेदः बुद्धिभेदः ‘मया इदं कर्तव्यं भोक्तव्यं चास्य कर्मणः फलम्’ इति निश्चयरूपाया बुद्धेः भेदनं चालनं बुद्धिभेदः तं न जनयेत् न उत्पादयेत् अज्ञानाम् अविवेकिनां कर्मसङ्गिनां कर्मणि आसक्तानां आसङ्गवताम् । किं नु कुर्यात् ? जोषयेत् कारयेत् सर्वकर्माणि विद्वान् स्वयं तदेव अविदुषां कर्म युक्तः अभियुक्तः समाचरन् ॥ २६ ॥

अविद्वानज्ञः कथं कर्मसु सज्जते इत्याह —

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अह­ङ्का­र­वि­मू­ढात्मा कर्ताहमिति मन्यते ॥ २७ ॥

२७

प्रकृतेः प्रकृतिः प्रधानं सत्त्वरजस्तमसां गुणानां साम्यावस्था तस्याः प्रकृतेः गुणैः विकारैः कार्यकरणरूपैः क्रियमाणानि कर्माणि लौकिकानि शास्त्रीयाणि च सर्वशः सर्वप्रकारैः अह­ङ्का­र­वि­मू­ढात्मा कार्य­क­र­ण­स­ङ्घा­ता­त्म­प्र­त्ययः अहङ्कारः तेन विविधं नानाविधं मूढः आत्मा अन्तःकरणं यस्य सः अयं कार्यकरणधर्मा कार्यकरणाभिमानी अविद्यया कर्माणि आत्मनि मन्यमानः तत्तत्कर्मणाम् अहं कर्ता इति मन्यते ॥ २७ ॥

यः पुनर्विद्वान् —

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ २८ ॥

२८

तत्त्ववित् तु महाबाहो । कस्य तत्त्ववित् ? गुणकर्मविभागयोः गुणविभागस्य कर्मविभागस्य च तत्त्ववित् इत्यर्थः । गुणाः करणात्मकाः गुणेषु विषयात्मकेषु वर्तन्ते न आत्मा इति मत्वा न सज्जते सक्तिं न करोति ॥ २८ ॥

ये पुनः —

प्रकृ­ते­र्गु­ण­सं­मूढाः सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दा­न्कृ­त्स्न­विन्न विचालयेत् ॥ २९ ॥

२९

प्रकृतेः गुणैः सम्यक् मूढाः संमोहिताः सन्तः सज्जन्ते गुणानां कर्मसु गुणकर्मसु ‘वयं कर्म कुर्मः फलाय’ इति | तान् कर्मसङ्गिनः अकृत्स्नविदः कर्म­फ­ल­मा­त्र­द­र्शिनः मन्दान् मन्दप्रज्ञान् कृत्स्नवित् आत्मवित् स्वयं न विचालयेत् बुद्धिभेदकरणमेव चालनं तत् न कुर्यात् इत्यर्थः ॥ २९ ॥

कथं पुनः कर्मण्यधिकृतेन अज्ञेन मुमुक्षुणा कर्म कर्तव्यमिति, उच्यते —

मयि सर्वाणि कर्माणि संन्य­स्या­ध्या­त्म­चे­तसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ३० ॥

३०

मयि वासुदेवे परमेश्वरे सर्वज्ञे सर्वात्मनि सर्वाणि कर्माणि संन्यस्य निक्षिप्य अध्यात्मचेतसा विवेकबुद्ध्या ‘अहं कर्ता ईश्वराय भृत्यवत् करोमि’ इत्यनया बुद्ध्या । किञ्च, निराशीः त्यक्ताशीः निर्ममः ममभावश्च निर्गतः यस्य तव स त्वं निर्ममो भूत्वा युध्यस्व विगतज्वरः विगतसन्तापः विगतशोकः सन्नित्यर्थः ॥ ३० ॥

यदेतन्मम मतं कर्म कर्तव्यम् इति सप्रमाणमुक्तं तत् तथा —

ये मे मतमिदं नित्य­म­नु­ति­ष्ठन्ति मानवाः ।
श्रद्धा­व­न्तोऽ­न­सू­यन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३१ ॥

३१

ये मे मदीयम् इदं मतं नित्यम् अनुतिष्ठन्ति अनुवर्तन्ते मानवाः मनुष्याः श्रद्धावन्तः श्रद्धधानाः अनसूयन्तः असूयां च मयि परमगुरौ वासुदेवे अकुर्वन्तः, मुच्यन्ते तेऽपि एवं भूताः कर्मभिः धर्माधर्माख्यैः ॥ ३१ ॥

ये त्वेत­द­भ्य­सू­यन्तो नानुतिष्ठन्ति मे मतम् ।
सर्व­ज्ञा­न­वि­मू­ढां­स्ता­न्विद्धि नष्टानचेतसः ॥ ३२ ॥

३२

ये तु तद्विपरीताः एतत् मम मतम् अभ्यसूयन्तः निन्दन्तः न अनुतिष्ठन्ति नानुवर्तन्ते मे मतम् , सर्वेषु ज्ञानेषु विविधं मूढाः ते । सर्व­ज्ञा­न­वि­मू­ढान् तान् विद्धि जानीहि

नष्टान् नाशं गतान् अचेतसः अविवेकिनः ॥ ३२ ॥

कस्मात् पुनः कारणात् त्वदीयं मतं नानुतिष्ठन्ति, परधर्मान् अनुतिष्ठन्ति, स्वधर्मं च नानुवर्तन्ते, त्वत्प्रतिकूलाः कथं न बिभ्यति त्वच्छा­स­ना­ति­क्र­म­दो­षात् ? तत्राह —

सदृशं चेष्टते स्वस्याः प्रकृ­ते­र्ज्ञा­न­वा­नपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३३ ॥

३३

सदृशम् अनुरूपं चेष्टते चेष्टां करोति | कस्य ? स्वस्याः स्वकीयायाः प्रकृतेः । प्रकृतिर्नाम पूर्व­कृ­त­ध­र्मा­ध­र्मा­दि­सं­स्कारः वर्तमानजन्मादौ अभिव्यक्तः ; सा प्रकृतिः । तस्याः सदृशमेव सर्वो जन्तुः ज्ञानवानपि चेष्टते, किं पुनर्मूर्खः । तस्मात् प्रकृतिं यान्ति अनुगच्छन्ति भूतानि प्राणिनः । निग्रहः निषेधरूपः किं करिष्यति मम वा अन्यस्य वा ॥ ३३ ॥

यदि सर्वो जन्तुः आत्मनः प्रकृतिसदृशमेव चेष्टते, न च प्रकृतिशून्यः कश्चित् अस्ति, ततः पुरुषकारस्य विषयानुपपत्तेः शास्त्रा­न­र्थ­क्य­प्राप्तौ इदमुच्यते —

इन्द्रि­य­स्ये­न्द्रि­य­स्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३४ ॥

३४

इन्द्रि­य­स्ये­न्द्रि­यस्य अर्थे सर्वे­न्द्रि­या­णा­मर्थे शब्दादिविषये इष्टे रागः अनिष्टे द्वेषः इत्येवं प्रती­न्द्रि­यार्थं रागद्वेषौ अवश्यंभाविनौ तत्र अयं पुरुषकारस्य शास्त्रार्थस्य च विषय उच्यते । शास्त्रार्थे प्रवृत्तः पूर्वमेव रागद्वेषयोर्वशं नागच्छेत् । या हि पुरुषस्य प्रकृतिः सा राग­द्वे­ष­पु­रः­स­रैव स्वकार्ये पुरुषं प्रवर्तयति । तदा स्वध­र्म­प­रि­त्यागः परधर्मानुष्ठानं च भवति । यदा पुनः रागद्वेषौ तत्प्रतिपक्षेण नियमयति तदा शास्त्र­दृ­ष्टि­रेव पुरुषः भवति, न प्रकृतिवशः । तस्मात् तयोः रागद्वेषयोः वशं न आगच्छेत् , यतः तौ हि अस्य पुरुषस्य परिपन्थिनौ श्रेयोमार्गस्य विघ्नकर्तारौ तस्करौ इव पथीत्यर्थः ॥ ३४ ॥

तत्र राग­द्वे­ष­प्र­युक्तो मन्यते शास्त्रा­र्थ­म­प्य­न्यथा ‘परधर्मोऽपि धर्मत्वात् अनुष्ठेय एव’ इति, तदसत् —

श्रेया­न्स्व­धर्मो विगुणः पर­ध­र्मा­त्स्व­नु­ष्ठि­तात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥

३५

श्रेयान् प्रशस्यतरः स्वो धर्मः स्वधर्मः विगुणः अपि विगतगुणोऽपि अनुष्ठीयमानः परधर्मात् स्वनुष्ठितात् साद्गुण्येन सम्पादितादपि । स्वधर्मे स्थितस्य निधनं मरणमपि श्रेयः परधर्मे स्थितस्य जीवितात् । कस्मात् ? परधर्मः भयावहः नरकादिलक्षणं भयमावहति यतः ॥

यद्यपि अनर्थमूलम् ‘ध्यायतो विषयान्पुंसः’(भ. गी. २ । ६२) इति ‘रागद्वेषौ ह्यस्य परिपन्थिनौ’(भ. गी. ३ । ३४) इति च उक्तम् , विक्षिप्तम् अनवधारितं च तदुक्तम् । तत् सङ्क्षिप्तं निश्चितं च इदमेवेति ज्ञातुमिच्छन् अर्जुनः उवाच ‘ज्ञाते हि तस्मिन् तदुच्छेदाय यत्नं कुर्याम्’ इति ॥ ३५ ॥

अर्जुन उवाच —

अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ ३६ ॥

३६

अथ केन हेतुभूतेन प्रयुक्तः सन् राज्ञेव भृत्यः अयं पापं कर्म चरति आचरति पूरुषः पुरुषः स्वयम् अनिच्छन् अपि हे वार्ष्णेय वृष्णि­कु­ल­प्र­सूत, बलात् इव नियोजितः राज्ञेव इत्युक्तो दृष्टान्तः ॥

शृणु त्वं तं वैरिणं सर्वानर्थकरं यं त्वं पृच्छसि इति भगवान् उवाच — ॥ ३६ ॥

श्रीभगवानुवाच —

काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३७ ॥

३७

‘ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना’(वि. पु. ६ । ५ । ७४) ऐश्वर्यादिषट्कं यस्मिन् वासुदेवे नित्य­म­प्र­ति­ब­द्ध­त्वेन सामस्त्येन च वर्तते, ‘उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति’(वि. पु. ६ । ५ । ७८) उत्प­त्त्या­दि­वि­षयं च विज्ञानं यस्य स वासुदेवः वाच्यः भगवान् इति ॥

काम एषः सर्वलोकशत्रुः यन्निमित्ता सर्वा­न­र्थ­प्राप्तिः प्राणिनाम् । स एष कामः प्रतिहतः केनचित् क्रोधत्वेन परिणमते । अतः क्रोधः अपि एष एव रजोगुणसमुद्भवः रजश्च तत् गुणश्च रजोगुणः सः समुद्भवः यस्य सः कामः रजोगुणसमुद्भवः, रजोगुणस्य वा समुद्भवः । कामो हि उद्भूतः रजः प्रवर्तयन् पुरुषं प्रवर्तयति ; ‘तृष्णया हि अहं कारितः’ इति दुःखिनां रजःकार्ये सेवादौ प्रवृत्तानां प्रलापः श्रूयते । महाशनः महत् अशनं अस्येति महाशनः ; अत एव महापाप्मा ; कामेन हि प्रेरितः जन्तुः पापं करोति । अतः विद्धि एनं कामम् इह संसारे वैरिणम् ॥ ३७ ॥

कथं वैरी इति दृष्टान्तैः प्रत्याययति —

धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ ३८ ॥

३८

धूमेन सहजेन आव्रियते वह्निः प्रकाशात्मकः अप्रकाशात्मकेन, यथा वा आदर्शो मलेन च, यथा उल्बेन च जरायुणा गर्भवेष्टनेन आवृतः आच्छादितः गर्भः तथा तेन इदम् आवृतम् ॥ ३८ ॥

किं पुनस्तत् इदंशब्दवाच्यं यत् कामे­ना­वृ­त­मि­त्यु­च्यते —

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३९ ॥

३९

आवृतम् एतेन ज्ञानं ज्ञानिनः नित्यवैरिणा, ज्ञानी हि जानाति ‘अनेन अहमनर्थे प्रयुक्तः’ इति पूर्वमेव । दुःखी च भवति नित्यमेव । अतः असौ ज्ञानिनो नित्यवैरी, न तु मूर्खस्य । स हि कामं तृष्णाकाले मित्रमिव पश्यन् तत्कार्ये दुःखे प्राप्ते जानाति

‘तृष्णया अहं दुःखि­त्व­मा­पा­दितः’ इति, न पूर्वमेव । अतः ज्ञानिन एव नित्यवैरी । किंरूपेण ? कामरूपेण कामः इच्छैव रूपमस्य इति कामरूपः तेन दुष्पूरेण दुःखेन पूरणमस्य इति दुष्पूरः तेन अनलेन न अस्य अलं पर्याप्तिः विद्यते इत्यनलः तेन च ॥ ३९ ॥

किमधिष्ठानः पुनः कामः ज्ञानस्य आवरणत्वेन वैरी सर्वस्य लोकस्य ? इत्य­पे­क्षा­या­माह, ज्ञाते हि शत्रोरधिष्ठाने सुखेन निबर्हणं कर्तुं शक्यत इति —

इन्द्रियाणि मनो बुद्धि­र­स्या­धि­ष्ठा­न­मु­च्यते ।
एतै­र्वि­मो­ह­य­त्येष ज्ञानमावृत्य देहिनम् ॥ ४० ॥

४०

इन्द्रियाणि मनः बुद्धिश्च अस्य कामस्य अधिष्ठानम् आश्रयः उच्यते । एतैः इन्द्रियादिभिः आश्रयैः विमोहयति विविधं मोहयति एष कामः ज्ञानम् आवृत्य आच्छाद्य देहिनं शरीरिणम् ॥ ४० ॥

यतः एवम् —

तस्मा­त्त्व­मि­न्द्रि­या­ण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहिह्येनं ज्ञान­वि­ज्ञा­न­ना­श­नम् ॥ ४१ ॥

४१

तस्मात् त्वम् इन्द्रियाणि आदौ पूर्वमेव नियम्य वशीकृत्य भरतर्षभ पाप्मानं पापाचारं कामं प्रजहिहि परित्यज एनं प्रकृतं वैरिणं ज्ञान­वि­ज्ञा­न­ना­शनं ज्ञानं शास्त्रतः आचार्यतश्च आत्मादीनाम् अवबोधः, विज्ञानं विशेषतः तदनुभवः, तयोः ज्ञानविज्ञानयोः श्रेयः­प्रा­प्ति­हेत्वोः नाशनं नाशकरं प्रजहिहि आत्मनः परित्यजेत्यर्थः ॥ ४१ ॥

इन्द्रियाण्यादौ नियम्य कामं शत्रुं जहिहि इत्युक्तम् ; तत्र किमाश्रयः कामं जह्यात् इत्युच्यते —

इन्द्रियाणि परा­ण्या­हु­रि­न्द्रि­येभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ४२ ॥

४२

इन्द्रियाणि श्रोत्रादीनि पञ्च देहं स्थूलं बाह्यं परिच्छिन्नं च अपेक्ष्य सौक्ष्म्या­न्त­र­त्व­व्या­पि­त्वा­द्य­पे­क्षया पराणि प्रकृष्टानि आहुः पण्डिताः । तथा इन्द्रियेभ्यः परं मनः सङ्क­ल्प­वि­क­ल्पा­त्म­कम् । तथा मनसः तु परा बुद्धिः निश्चयात्मिका । तथा यः सर्वदृश्येभ्यः बुद्ध्यन्तेभ्यः आभ्यन्तरः, यं देहिनम् इन्द्रियादिभिः आश्रयैः युक्तः कामः ज्ञाना­व­र­ण­द्वा­रेण मोहयति इत्युक्तम् । बुद्धेः परतस्तु सः, सः बुद्धेः द्रष्टा पर आत्मा ॥ ४२ ॥

ततः किम् —

एवं बुद्धेः परं बुद्ध्वा संस्त­भ्या­त्मा­न­मा­त्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥

४३

एवं बुद्धेः परम् आत्मानं बुद्ध्वा ज्ञात्वा संस्तभ्य सम्यक् स्तम्भनं कृत्वा आत्मानं स्वेनैव आत्मना संस्कृतेन मनसा सम्यक् समाधायेत्यर्थः । जहि एनं शत्रुं हे महाबाहो कामरूपं दुरासदं दुःखेन आसदः आसादनं प्राप्तिः यस्य तं दुरासदं दुर्वि­ज्ञे­या­ने­क­वि­शे­ष­मिति ॥ ४३ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ श्रीम­द्भ­ग­व­द्गी­ता­भाष्ये तृतीयोऽध्यायः ॥