अद्वैतशारदा

श्रीमद्भगवद्गीताभाष्यम्

चतुर्थोऽध्यायः

व्याख्याः

योऽयं योगः अध्या­य­द्व­ये­नोक्तः ज्ञान­नि­ष्ठा­ल­क्षणः , ससंन्यासः कर्मयोगोपायः, यस्मिन् वेदार्थः परिसमाप्तः, प्रवृत्तिलक्षणः निवृ­त्ति­ल­क्ष­णश्च, गीतासु च सर्वासु अयमेव योगो विवक्षितो भगवता । अतः परिसमाप्तं वेदार्थं मन्वानः तं वंशकथनेन स्तौति श्रीभगवान् —

श्रीभगवानुवाच —

इमं विवस्वते योगं प्रोक्त­वा­न­ह­म­व्य­यम् ।
विवस्वान्मनवे प्राह मनु­रि­क्ष्वा­क­वेऽ­ब्र­वीत् ॥ १ ॥

इमम् अध्या­य­द्व­ये­नोक्तं योगं विवस्वते आदित्याय सर्गादौ प्रोक्तवान् अहं जग­त्प­रि­पा­ल­यि­तॄणां क्षत्रियाणां बलाधानाय तेन योगबलेन युक्ताः समर्था भवन्ति ब्रह्म परिरक्षितुम् । ब्रह्मक्षत्रे परिपालिते जगत् परिपालयितुमलम् । अव्ययम् अव्ययफलत्वात् । न ह्यस्य योगस्य सम्य­ग्द­र्श­न­नि­ष्ठा­ल­क्ष­णस्य मोक्षाख्यं फलं व्येति । स च विवस्वान् मनवे प्राह । मनुः इक्ष्वाकवे स्वपुत्राय आदिराजाय अब्रवीत् ॥ १ ॥

एवं पर­म्प­रा­प्रा­प्त­मिमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परन्तप ॥ २ ॥

एवं क्षत्रि­य­प­र­म्प­रा­प्रा­प्तम् इमं राजर्षयः राजानश्च ते ऋषयश्च राजर्षयः विदुः इमं योगम् । स योगः कालेन इह महता दीर्घेण नष्टः विच्छि­न्न­स­म्प्र­दायः संवृत्तः । हे परन्तप, आत्मनः विपक्षभूताः परा इति उच्यन्ते, तान् शौर्य­ते­जो­ग­भ­स्तिभिः भानुरिव तापयतीति परन्तपः शत्रुतापन इत्यर्थः ॥ २ ॥

दुर्ब­ला­न­जि­ते­न्द्रि­यान् प्राप्य नष्टं योगमिममुपलभ्य लोकं च अपु­रु­षा­र्थ­स­म्ब­न्धि­नम् —

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३ ॥

स एव अयं मया ते तुभ्यम् अद्य इदानीं योगः प्रोक्तः पुरातनः भक्तः असि मे सखा

च असि इति । रहस्यं हि यस्मात् एतत् उत्तमं योगः ज्ञानम् इत्यर्थः ॥ ३ ॥

भगवता विप्र­ति­षि­द्ध­मु­क्त­मिति मा भूत् कस्यचित् बुद्धिः इति परिहारार्थं चोद्यमिव कुर्वन् अर्जुन उवाच —

अर्जुन उवाच —

अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथ­मे­त­द्वि­जा­नीयां त्वमादौ प्रोक्तवानिति ॥ ४ ॥

अपरम् अर्वाक् वसुदेवगृहे भवतो जन्म । परं पूर्वं सर्गादौ जन्म उत्पत्तिः विवस्वतः आदित्यस्य । तत् कथम् एतत् विजानीयाम् अवि­रु­द्धा­र्थ­तया, यः त्वमेव आदौ प्रोक्तवान् इमं योगं स एव इदानीं मह्यं प्रोक्तवानसि इति ॥ ४ ॥

या वासुदेवे अनी­श्व­रा­स­र्व­ज्ञा­शङ्का मूर्खाणाम् , तां परिहरन् श्रीभगवानुवाच, यदर्थो ह्यर्जुनस्य प्रश्नः —

श्रीभगवानुवाच —

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ५ ॥

बहूनि मे मम व्यतीतानि अतिक्रान्तानि जन्मानि तव च हे अर्जुन । तानि अहं वेद जाने सर्वाणि न त्वं वेत्थ न जानीषे, धर्मा­ध­र्मा­दि­प्र­ति­ब­द्ध­ज्ञा­न­श­क्ति­त्वात् । अहं पुनः नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भा­व­त्वात् अना­व­र­ण­ज्ञा­न­श­क्ति­रिति वेद अहं हे परन्तप ॥ ५ ॥

कथं तर्हि तव नित्येश्वरस्य धर्मा­ध­र्मा­भा­वेऽपि जन्म इति, उच्यते —

अजोऽपि सन्नव्ययात्मा
भूता­ना­मी­श्व­रोऽपि सन् ।
प्रकृतिं स्वामधिष्ठाय
सम्भ­वा­म्या­त्म­मा­यया ॥ ६ ॥

अजोऽपि जन्मरहितोऽपि सन् , तथा अव्ययात्मा अक्षी­ण­ज्ञा­न­श­क्ति­स्व­भा­वोऽपि सन् , तथा भूतानां ब्रह्मा­दि­स्त­म्ब­प­र्य­न्ता­नाम् ईश्वरः ईशनशीलोऽपि सन् , प्रकृतिं स्वां मम वैष्णवीं मायां त्रिगु­णा­त्मि­काम् , यस्या वशे सर्वं जगत् वर्तते, यया मोहितं सत् स्वमात्मानं वासुदेवं न जानाति, तां प्रकृतिं स्वाम् अधिष्ठाय वशीकृत्य सम्भवामि देहवानिव भवामि जात इव आत्ममायया आत्मनः मायया, न परमार्थतो लोकवत् ॥ ६ ॥

तच्च जन्म कदा किमर्थं च इत्युच्यते —

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्यु­त्था­न­म­ध­र्मस्य तदात्मानं सृजाम्यहम् ॥ ७ ॥

यदा यदा हि धर्मस्य ग्लानिः हानिः वर्णा­श्र­मा­दि­ल­क्ष­णस्य प्राणि­ना­म­भ्यु­द­य­निः­श्रे­य­स­सा­ध­नस्य भवति भारत, अभ्युत्थानम् उद्भवः अधर्मस्य, तदा तदा आत्मानं सृजामि अहं मायया ॥ ७ ॥

किमर्थम् ? —

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्म­सं­स्था­प­ना­र्थाय सम्भवामि युगे युगे ॥ ८ ॥

परित्राणाय परिरक्षणाय साधूनां सन्मा­र्ग­स्था­नाम् , विनाशाय च दुष्कृतां पापकारिणाम् , किञ्च धर्म­सं­स्था­प­ना­र्थाय धर्मस्य सम्यक् स्थापनं तदर्थं सम्भवामि युगे युगे प्रतियुगम् ॥ ८ ॥

तत् —

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ९ ॥

जन्म मायारूपं कर्म च साधूनां परित्राणादि मे मम दिव्यम् अप्राकृतम् ऐश्वरम् एवं यथोक्तं यः वेत्ति तत्त्वतः तत्त्वेन यथावत् त्यक्त्वा देहम् इमं पुनर्जन्म पुनरुत्पत्तिं न एति न प्राप्नोति । माम् एति आगच्छति सः मुच्यते हे अर्जुन ॥ ९ ॥

नैष मोक्षमार्ग इदानीं प्रवृत्तः ; किं तर्हि ? पूर्वमपि —

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ १० ॥

१०

वीतरागभयक्रोधाः रागश्च भयं च क्रोधश्च वीताः विगताः येभ्यः ते वीतरागभयक्रोधाः मन्मयाः ब्रह्मविदः ईश्व­रा­भे­द­द­र्शिनः मामेव च परमेश्वरम् उपाश्रिताः केवलज्ञाननिष्ठा इत्यर्थः । बहवः अनेके ज्ञानतपसा ज्ञानमेव च परमात्मविषयं तपः तेन ज्ञानतपसा पूताः परां शुद्धिं गताः सन्तः मद्भावम् ईश्वरभावं मोक्षम् आगताः समनुप्राप्ताः । इत­र­त­पो­नि­र­पे­क्ष­ज्ञा­न­निष्ठा इत्यस्य लिङ्गम् ‘ज्ञानतपसा’ इति विशेषणम् ॥ १० ॥

तव तर्हि रागद्वेषौ स्तः, येन केभ्यश्चिदेव आत्मभावं प्रयच्छसि न सर्वेभ्यः इत्युच्यते —

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
मम वर्त्मा­नु­व­र्तन्ते मनुष्याः पार्थ सर्वशः ॥ ११ ॥

११

ये यथा येन प्रकारेण येन प्रयोजनेन यत्फलार्थितया मां प्रपद्यन्ते तान् तथैव तत्फलदानेन भजामि अनुगृह्णामि अहम् इत्येतत् । तेषां मोक्षं प्रति अनर्थित्वात् । न हि एकस्य मुमुक्षुत्वं फलार्थित्वं च युगपत् सम्भवति । अतः ये फलार्थिनः तान् फलप्रदानेन, ये यथोक्तकारिणस्तु अफलार्थिनः मुमुक्षवश्च तान् ज्ञानप्रदानेन, ये ज्ञानिनः संन्यासिनः मुमुक्षवश्च तान् मोक्षप्रदानेन, तथा आर्तान् आर्तिहरणेन इत्येवं यथा प्रपद्यन्ते ये तान् तथैव भजामि इत्यर्थः । न पुनः राग­द्वे­ष­नि­मित्तं मोहनिमित्तं वा कञ्चित् भजामि । सर्वथापि सर्वावस्थस्य मम ईश्वरस्य वर्त्म मार्गम् अनुवर्तन्ते मनुष्याः — यत्फलार्थितया यस्मिन् कर्मणि अधिकृताः ये प्रयतन्ते ते मनुष्या अत्र उच्यन्ते — हे पार्थ सर्वशः सर्वप्रकारैः ॥ ११ ॥

यदि तव ईश्वरस्य रागा­दि­दो­षा­भा­वात् सर्वप्राणिषु अनुजिघृक्षायां तुल्यायां सर्व­फ­ल­प्र­दा­न­स­मर्थे च त्वयि सति ‘वासुदेवः सर्वम्’ इति ज्ञानेनैव मुमुक्षवः सन्तः कस्मात् त्वामेव सर्वे न प्रतिपद्यन्ते इति ? शृणु तत्र कारणम् —

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥

१२

काङ्क्षन्तः अभीप्सन्तः कर्मणां सिद्धिं फलनिष्पत्तिं प्रार्थयन्तः यजन्ते इह अस्मिन् लोके देवताः इन्द्रा­ग्न्याद्याः ; ‘अथ योऽन्यां देवतामुपास्ते अन्योऽ­सा­व­न्योऽ­ह­म­स्मीति न स वेद यथा पशुरेवं स देवानाम्’(बृ. उ. १ । ४ । १०) इति श्रुतेः । तेषां हि भिन्न­दे­व­ता­या­जिनां फलाकाङ्क्षिणां क्षिप्रं शीघ्रं हि यस्मात् मानुषे लोके, मनुष्यलोके हि शास्त्राधिकारः । ‘क्षिप्रं हि मानुषे लोके’ इति विशेषणात् अन्येष्वपि कर्मफलसिद्धिं दर्शयति भगवान् । मानुषे लोके वर्णा­श्र­मा­दि­क­र्माणि इति विशेषः, तेषां च वर्णा­श्र­मा­द्य­धि­का­रि­क­र्मणां फलसिद्धिः क्षिप्रं भवति । कर्मजा कर्मणो जाता ॥ १२ ॥

मानुषे एव लोके वर्णा­श्र­मा­दि­क­र्मा­धि­कारः, न अन्येषु लोकेषु इति नियमः किंनिमित्त इति ? अथवा वर्णा­श्र­मा­दि­प्र­वि­भा­गो­पेताः मनुष्याः मम वर्त्म अनुवर्तन्ते सर्वशः इत्युक्तम् । कस्मात्पुनः कारणात् नियमेन तवैव वर्त्म अनुवर्तन्ते न अन्यस्य इति ? उच्यते —

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
तस्य कर्तारमपि मां विद्ध्य­क­र्ता­र­म­व्य­यम् ॥ १३ ॥

१३

चत्वार एव वर्णाः चातुर्वर्ण्यं मया ईश्वरेण सृष्टम् उत्पादितम् , ‘ब्राह्मणोऽस्य मुखमासीत्’(ऋ. १० । ८ । ९१) इत्यादिश्रुतेः । गुणकर्मविभागशः गुणविभागशः कर्मविभागशश्च । गुणाः सत्त्व­र­ज­स्त­मांसि । तत्र सात्त्विकस्य सत्त्वप्रधानस्य ब्राह्मणस्य ‘शमो दमस्तपः’(भ. गी. १८ । ४२) इत्यादीनि कर्माणि, सत्त्वो­प­स­र्ज­न­र­जः­प्र­धा­नस्य क्षत्रियस्य शौर्य­ते­जः­प्र­भृ­तीनि कर्माणि, तम­उ­प­स­र्ज­न­र­जः­प्र­धा­नस्य वैश्यस्य कृष्यादीनि कर्माणि, रज­उ­प­स­र्ज­न­त­मः­प्र­धा­नस्य शूद्रस्य शुश्रूषैव कर्म इत्येवं गुणकर्मविभागशः चातुर्वर्ण्यं मया सृष्टम् इत्यर्थः । तच्च इदं चातुर्वर्ण्यं न अन्येषु लोकेषु, अतः मानुषे लोके इति विशेषणम् । हन्त तर्हि चातुर्वर्ण्यस्य सर्गादेः कर्मणः कर्तृत्वात् तत्फलेन युज्यसे, अतः न त्वं नित्यमुक्तः नित्येश्वरश्च इति ? उच्यते — यद्यपि मायासंव्यवहारेण तस्य कर्मणः कर्तारमपि सन्तं मां परमार्थतः विद्धि अकर्तारम् । अत एव अव्ययम् असंसारिणं च मां विद्धि ॥ १३ ॥

येषां तु कर्मणां कर्तारं मां मन्यसे परमार्थतः तेषाम् अकर्ता एवाहम् , यतः —

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ १४ ॥

१४

न मां तानि कर्माणि लिम्पन्ति देहा­द्या­र­म्भ­क­त्वेन, अहङ्काराभावात् । न च तेषां कर्मणां फलेषु मे मम स्पृहा तृष्णा । येषां तु संसारिणाम् ‘अहं कर्ता’ इत्यभिमानः कर्मसु, स्पृहा तत्फलेषु च, तान् कर्माणि लिम्पन्ति इति युक्तम् , तदभावात् न मां कर्माणि लिम्पन्ति । इति एवं यः अन्योऽपि माम् आत्मत्वेन अभिजानाति ‘नाहं कर्ता न मे कर्मफले स्पृहा’ इति सः कर्मभिः न बध्यते, तस्यापि न देहा­द्या­र­म्भ­काणि कर्माणि भवन्ति इत्यर्थः ॥ १४ ॥

‘नाहं कर्ता न मे कर्मफले स्पृहा’ इति —

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ १५ ॥

१५

एवं ज्ञात्वा कृतं कर्म पूर्वैः अपि अतिक्रान्तैः मुमुक्षुभिः । कुरु तेन कर्मैव त्वम् , न तूष्णीमासनं नापि संन्यासः कर्तव्यः, तस्मात् त्वं पूर्वैरपि अनुष्ठितत्वात् , यदि अनात्मज्ञः त्वं तदा आत्म­शु­द्ध्य­र्थम् , तत्त्वविच्चेत् लोकसङ्ग्रहार्थं पूर्वैः जनकादिभिः पूर्वतरं कृतं न अधुनातनं कृतं निर्वर्तितम् ॥ १५ ॥

तत्र कर्म चेत् कर्तव्यं त्वद्वचनादेव करोम्यहम् , किं विशेषितेन ‘पूर्वैः पूर्वतरं कृतम्’ इत्युच्यते ; यस्मात् महत् वैषम्यं कर्मणि । कथम् ? —

किं कर्म किमकर्मेति
कवयोऽप्यत्र मोहिताः ।
तत्ते कर्म प्रवक्ष्यामि
यज्ज्ञात्वा मोक्ष्य­सेऽ­शु­भात् ॥ १६ ॥

१६

किं कर्म किं च अकर्म इति कवयः मेधाविनः अपि अत्र अस्मिन् कर्मादिविषये मोहिताः मोहं गताः । तत् अतः ते तुभ्यम् अहं कर्म अकर्म च प्रवक्ष्यामि, यत् ज्ञात्वा विदित्वा कर्मादि मोक्ष्यसे अशुभात् संसारात् ॥ १६ ॥

न चैतत्त्वया मन्तव्यम् — कर्म नाम देहादिचेष्टा लोकप्रसिद्धम् , अकर्म नाम तदक्रिया तूष्णीमासनम् ; किं तत्र बोद्धव्यम् ? इति । कस्मात् , उच्यते —

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ १७ ॥

१७

कर्मणः शास्त्रविहितस्य हि यस्मात् अपि अस्ति बोद्धव्यम् , बोद्धव्यं च अस्त्येव विकर्मणः प्रतिषिद्धस्य, तथा अकर्मणश्च तूष्णीम्भावस्य बोद्धव्यम् अस्ति इति त्रिष्व­प्य­ध्या­हारः कर्तव्यः । यस्मात् गहना विषमा दुर्ज्ञेया — कर्मणः इति उपलक्षणार्थं कर्मादीनाम् — कर्मा­क­र्म­वि­क­र्मणां गतिः याथात्म्यं तत्त्वम् इत्यर्थः ॥ १७ ॥

किं पुनस्तत्त्वं कर्मादेः यत् बोद्धव्यं वक्ष्यामि इति प्रतिज्ञातम् ? उच्यते —

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धि­मा­न्म­नु­ष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥

१८

कर्मणि, क्रियते इति कर्म व्यापारमात्रम् , तस्मिन् कर्मणि अकर्म कर्माभावं यः पश्येत् , अकर्मणि च कर्माभावे कर्तृ­त­न्त्र­त्वात् प्रवृ­त्ति­नि­वृत्त्योः — वस्तु अप्राप्यैव हि सर्व एव क्रिया­का­र­का­दि­व्य­व­हारः अविद्याभूमौ एव — कर्म यः पश्येत् पश्यति, सः बुद्धिमान् मनुष्येषु, सः युक्तः योगी च, कृत्स्नकर्मकृत् समस्तकर्मकृच्च सः, इति स्तूयते कर्मा­क­र्म­णो­रि­त­रे­त­र­दर्शी ॥

ननु किमिदं विरुद्धमुच्यते ‘कर्मणि अकर्म यः पश्येत्’ इति ‘अकर्मणि च कर्म’ इति ; न हि कर्म अकर्म स्यात् , अकर्म वा कर्म । तत्र विरुद्धं कथं पश्येत् द्रष्टा ? — न, अकर्म एव परमार्थतः सत् कर्मवत् अवभासते मूढदृष्टेः लोकस्य, तथा कर्मैव अकर्मवत् । तत्र यथा­भू­त­द­र्श­ना­र्थ­माह भगवान् — ‘कर्मण्यकर्म यः पश्येत्’ इत्यादि । अतो न विरुद्धम् । बुद्धि­म­त्त्वा­द्यु­प­प­त्तेश्च । ‘बोद्धव्यम्’(भ. गी. ४ । १७) इति च यथा­भू­त­द­र्श­न­मु­च्यते । न च विपरीतज्ञानात् अशुभात् मोक्षणं स्यात् ; ‘यत् ज्ञात्वा मोक्ष्य­सेऽ­शु­भात्’(भ. गी. ४ । १६) इति च उक्तम् । तस्मात् कर्माकर्मणी विपर्ययेण गृहीते प्राणिभिः तद्वि­प­र्य­य­ग्र­ह­ण­नि­वृ­त्त्यर्थं भगवतो वचनम् ‘कर्मण्यकर्म यः’ इत्यादि । न च अत्र कर्माधिकरणमकर्म अस्ति, कुण्डे बदराणीव । नापि अकर्माधिकरणं कर्मास्ति, कर्मा­भा­व­त्वा­द­क­र्मणः । अतः विपरीतगृहीते एव कर्माकर्मणी लौकिकैः, यथा मृग­तृ­ष्णि­का­या­मु­दकं शुक्तिकायां वा रजतम् । ननु कर्म कर्मैव सर्वेषां न क्वचित् व्यभिचरति — तत् न, नौस्थस्य नावि गच्छन्त्यां तटस्थेषु अगतिषु नगेषु प्रति­कू­ल­ग­ति­द­र्श­नात् , दूरेषु चक्षुषा असंनिकृष्टेषु गच्छत्सु गत्यभावदर्शनात् , एवम् इहापि अकर्मणि कर्मदर्शनं कर्मणि च अकर्मदर्शनं विपरीतदर्शनं येन तन्नि­रा­क­र­णा­र्थ­मु­च्यते ‘कर्मण्यकर्म यः पश्येत्’ इत्यादि ॥

तदेतत् उक्तप्रतिवचनमपि असकृत् अत्य­न्त­वि­प­री­त­द­र्श­न­भा­वि­त­तया मोमुह्यमानो लोकः श्रुतमपि असकृत् तत्त्वं विस्मृत्य विस्मृत्य मिथ्याप्रसङ्गम् अवतार्यावतार्य चोदयति इति पुनः पुनः उत्तरमाह भगवान् , दुर्विज्ञेयत्वं च आलक्ष्य वस्तुनः । ‘अव्य­क्तोऽ­य­म­चि­न्त्योऽ­यम्’(भ. गी. २ । २५) ‘न जायते म्रियते’(भ. गी. २ । २०) इत्यादिना आत्मनि कर्माभावः श्रुति­स्मृ­ति­न्या­य­प्र­सिद्धः उक्तः वक्ष्यमाणश्च । तस्मिन् आत्मनि कर्माभावे अकर्मणि कर्म­वि­प­री­त­द­र्श­नम् अत्यन्तनिरूढम् ; यतः, ‘किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः’(भ. गी. ४ । १६) । देहाद्याश्रयं कर्म आत्म­न्य­ध्या­रोप्य ‘अहं कर्ता, मम एतत् कर्म, मया अस्य कर्मणः फलं भोक्तव्यम्’ इति च, तथा ‘अहं तूष्णीं भवामि, येन अहं निरायासः अकर्मा सुखी स्याम्’ इति कार्यकरणाश्रयं व्यापारोपरमं तत्कृतं च सुखित्वम् आत्मनि अध्यारोप्य ‘न करोमि किञ्चित् , तूष्णीं सुखमासे’ इति अभिमन्यते लोकः । तत्रेदं लोकस्य विप­र­री­त­द­र्श­ना­प­न­याय आह भगवान् — ‘कर्मण्यकर्म यः पश्येत्’ इत्यादि ॥

अत्र च कर्म कर्मैव सत् कार्यकरणाश्रयं कर्मरहिते अविक्रिये आत्मनि सर्वैः अध्यस्तम् , यतः पण्डितोऽपि ‘अहं करोमि’ इति मन्यते । अतः आत्मसमवेततया सर्व­लो­क­प्र­सिद्धे कर्मणि नदीकूलस्थेष्विव वृक्षेषु गति­प्रा­ति­लो­म्येन अकर्म कर्माभावं यथाभूतं गत्यभावमिव वृक्षेषु यः पश्येत् , अकर्मणि च कार्य­क­र­ण­व्या­पा­रो­प­रमे कर्मवत् आत्मनि अध्यारोपिते, ‘तूष्णीं अकुर्वन् सुखं आसे’ इत्य­ह­ङ्का­रा­भि­स­न्धि­हे­तु­त्वात् , तस्मिन् अकर्मणि च कर्म यः पश्येत् , यः एवं कर्मा­क­र्म­वि­भा­गज्ञः सः बुद्धिमान् पण्डितः मनुष्येषु, सः युक्तः योगी कृत्स्न­क­र्म­कृच्च सः अशुभात् मोक्षितः कृतकृत्यो भवति इत्यर्थः ॥

अयं श्लोकः अन्यथा व्याख्यातः कैश्चित् । कथम् ? नित्यानां किल कर्मणाम् ईश्वरार्थे अनुष्ठीयमानानां तत्फलाभावात् अकर्माणि तानि उच्यन्ते गौण्या वृत्त्या । तेषां च अकरणम् अकर्म ; तच्च प्रत्य­वा­य­फ­ल­त्वात् कर्म उच्यते गौण्यैव वृत्त्या । तत्र नित्ये कर्मणि अकर्म यः पश्येत् फलाभावात् ; यथा धेनुरपि गौः अगौः इत्युच्यते क्षीराख्यं फलं न प्रयच्छति इति, तद्वत् । तथा नित्याकरणे तु अकर्मणि च कर्म यः पश्येत् नर­का­दि­प्र­त्य­वा­य­फलं प्रयच्छति इति ॥

नैतत् युक्तं व्याख्यानम् । एवं ज्ञानात् अशुभात् मोक्षानुपपत्तेः ‘यज्ज्ञात्वा मोक्ष्य­सेऽ­शु­भात्’(भ. गी. ४ । १६) इति भगवता उक्तं वचनं बाध्येत । कथम् ? नित्या­ना­म­नु­ष्ठा­नात् अशुभात् स्यात् नाम मोक्षणम् , न तु तेषां फलाभावज्ञानात् । न हि नित्यानां फलाभावज्ञानम् अशु­भ­मु­क्ति­फ­ल­त्वेन चोदितम् , नित्यकर्मज्ञानं वा । न च भगवतैवेहोक्तम् । एतेन अकर्मणि कर्मदर्शनं प्रत्युक्तम् । न हि अकर्मणि ‘कर्म’ इति दर्शनं कर्तव्यतया इह चोद्यते, नित्यस्य तु कर्त­व्य­ता­मा­त्रम् । न च ‘अकरणात् नित्यस्य प्रत्यवायो भवति’ इति विज्ञानात् किञ्चित् फलं स्यात् । नापि नित्याकरणं ज्ञेयत्वेन चोदितम् । नापि ‘कर्म अकर्म’ इति मिथ्यादर्शनात् अशुभात् मोक्षणं बुद्धिमत्त्वं युक्तता कृत्स्न­क­र्म­कृ­त्त्वादि च फलम् उपपद्यते, स्तुतिर्वा । मिथ्याज्ञानमेव हि साक्षात् अशुभरूपम् । कुतः अन्यस्मादशुभात् मोक्षणम् ? न हि तमः तमसो निवर्तकं भवति ॥

ननु कर्मणि यत् अकर्मदर्शनम् अकर्मणि वा कर्मदर्शनं न तत् मिथ्याज्ञानम् ; किं तर्हि ? गौणं फल­भा­वा­भा­व­नि­मि­त्तम् — न, कर्मा­क­र्म­वि­ज्ञा­ना­दपि गौणात् फलस्य अश्रवणात् । नापि श्रुत­हा­न्य­श्रु­त­प­रि­क­ल्प­नायां कश्चित् विशेष उपलभ्यते । स्वशब्देनापि शक्यं वक्तुम् ‘नित्यकर्मणां फलं नास्ति, अकरणाच्च तेषां नरकपातः स्यात्’ इति ; तत्र व्याजेन परव्यामोहरूपेण ‘कर्मण्यकर्म यः पस्येत्’ इत्यादिना किम् ? तत्र एवं व्याचक्षाणेन भगवतोक्तं वाक्यं लोक­व्या­मो­हा­र्थ­मिति व्यक्तं कल्पितं स्यात् । न च एतत् छद्मरूपेण वाक्येन रक्षणीयं वस्तु ; नापि शब्दान्तरेण पुनः पुनः उच्यमानं सुबोधं स्यात् इत्येवं वक्तुं युक्तम् । ‘कर्म­ण्ये­वा­धि­का­रस्ते’(भ. गी. २ । ४७) इत्यत्र हि स्फुटतर उक्तः अर्थः, न पुनर्वक्तव्यो भवति । सर्वत्र च प्रशस्तं बोद्धव्यं च कर्तव्यमेव । न निष्प्रयोजनं बोद्ध­व्य­मि­त्यु­च्यते ॥

न च मिथ्याज्ञानं बोद्धव्यं भवति, तत्प्र­त्यु­प­स्था­पितं वा वस्त्वाभासम् । नापि नित्यानाम् अकरणात् अभावात् प्रत्य­वा­य­भा­वो­त्पत्तिः, ‘नासतो विद्यते भावः’(भ. गी. २ । १६) इति वचनात् ‘कथं असतः सज्जायेत’(छा. उ. ६ । २ । २) इति च दर्शितम् असतः सज्ज­न्म­प्र­ति­षे­धात् । असतः सदुत्पत्तिं ब्रुवता असदेव सद्भवेत् , सच्चापि असत् भवेत् इत्युक्तं स्यात् । तच्च अयुक्तम् , सर्व­प्र­मा­ण­वि­रो­धात् । न च निष्फलं विदध्यात् कर्म शास्त्रम् , दुःख­स्व­रू­प­त्वात् , दुःखस्य च बुद्धिपूर्वकतया कार्य­त्वा­नु­प­पत्तेः । तदकरणे च नर­क­पा­ता­भ्यु­प­ग­मात् अनर्थायैव उभयथापि करणे च अकरणे च शास्त्रं निष्फलं कल्पितं स्यात् । स्वाभ्यु­प­ग­म­वि­रो­धश्च ‘नित्यं निष्फलं कर्म’ इति अभ्युपगम्य ‘मोक्षफलाय’ इति ब्रुवतः । तस्मात् यथाश्रुत एवार्थः ‘कर्मण्यकर्म यः’ इत्यादेः । तथा च व्याख्यातः अस्माभिः श्लोकः ॥ १८ ॥

तदेतत् कर्मणि अकर्मदर्शनं स्तूयते —

यस्य सर्वे समारम्भाः काम­स­ङ्क­ल्प­व­र्जिताः ।
ज्ञाना­ग्नि­द­ग्ध­क­र्माणं तमाहुः पण्डितं बुधाः ॥ १९ ॥

१९

यस्य यथोक्तदर्शिनः सर्वे यावन्तः समारम्भाः सर्वाणि कर्माणि, समारभ्यन्ते इति समारम्भाः, काम­स­ङ्क­ल्प­व­र्जिताः कामैः तत्कारणैश्च सङ्कल्पैः वर्जिताः मुधैव चेष्टामात्रा अनुष्ठीयन्ते ; प्रवृत्तेन चेत् लोक­स­ङ्ग्र­हा­र्थम् , निवृत्तेन चेत् जीवनमात्रार्थम् । तं ज्ञाना­ग्नि­द­ग्ध­क­र्माणं कर्मादौ अकर्मादिदर्शनं ज्ञानं तदेव अग्निः तेन ज्ञानाग्निना दग्धानि शुभाशुभलक्षणानि कर्माणि यस्य तम् आहुः परमार्थतः पण्डितं बुधाः ब्रह्मविदः ॥ १९ ॥

यस्तु अकर्मादिदर्शी, सः अक­र्मा­दि­द­र्श­ना­देव निष्कर्मा संन्यासी जीव­न­मा­त्रा­र्थ­चेष्टः सन् कर्मणि न प्रवर्तते, यद्यपि प्राक् विवेकतः प्रवृत्तः । यस्तु प्रारब्धकर्मा सन् उत्त­र­का­ल­मु­त्प­न्ना­त्म­स­म्य­ग्द­र्शनः स्यात् , सः सर्वकर्मणि प्रयोजनमपश्यन् ससाधनं कर्म परित्यजत्येव । सः कुतश्चित् निमित्तात् कर्म­प­रि­त्या­गा­स­म्भवे सति कर्मणि तत्फले च सङ्गरहिततया स्वप्र­यो­ज­ना­भा­वात् लोकसङ्ग्रहार्थं पूर्ववत् कर्मणि प्रवृत्तोऽपि नैव किञ्चित् करोति, ज्ञाना­ग्नि­द­ग्ध­क­र्म­त्वात् तदीयं कर्म अकर्मैव सम्पद्यते इत्येतमर्थं दर्शयिष्यन् आह —

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्म­ण्य­भि­प्र­वृ­त्तोऽपि नैव किञ्चित्करोति सः ॥ २० ॥

२०

त्यक्त्वा कर्मसु अभिमानं फलासङ्गं च यथोक्तेन ज्ञानेन नित्यतृप्तः निराकाङ्क्षो विषयेषु इत्यर्थः । निराश्रयः आश्रयरहितः, आश्रयो नाम यत् आश्रित्य पुरुषार्थं सिसाधयिषति, दृष्टा­दृ­ष्टे­ष्ट­फ­ल­सा­ध­ना­श्र­य­र­हित इत्यर्थः । विदुषा क्रियमाणं कर्म पर­मा­र्थ­तोऽ­क­र्मैव, तस्य निष्क्रि­या­त्म­द­र्श­न­स­म्प­न्न­त्वात् । तेन एवंभूतेन स्वप्र­यो­ज­ना­भा­वात् ससाधनं कर्म परित्यक्तव्यमेव इति प्राप्ते, ततः निर्गमासम्भवात् लोक­स­ङ्ग्र­ह­चि­की­र्षया शिष्ट­वि­ग­र्ह­णा­प­रि­जि­ही­र्षया वा पूर्ववत् कर्मणि अभिप्रवृत्तोऽपि निष्क्रि­या­त्म­द­र्श­न­स­म्प­न्न­त्वात् नैव किञ्चित् करोति सः ॥ २० ॥

यः पुनः पूर्वो­क्त­वि­प­रीतः प्रागेव कर्मारम्भात् ब्रह्मणि सर्वान्तरे प्रत्यगात्मनि निष्क्रिये सञ्जा­ता­त्म­द­र्शनः स दृष्टा­दृ­ष्टे­ष्ट­वि­ष­या­शी­र्वि­व­र्जि­त­तया दृष्टा­दृ­ष्टार्थे कर्मणि प्रयोजनमपश्यन् ससाधनं कर्म संन्यस्य शरी­र­या­त्रा­मा­त्र­चेष्टः यतिः ज्ञाननिष्ठो मुच्यते इत्येतमर्थं दर्शयितुमाह —

निरा­शी­र्य­त­चि­त्तात्मा त्यक्त­स­र्व­प­रि­ग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ २१ ॥

२१

निराशीः निर्गताः आशिषः यस्मात् सः निराशीः, यतचित्तात्मा चित्तम् अन्तःकरणम् आत्मा बाह्यः कार्यकरणसङ्घातः तौ उभावपि यतौ संयतौ येन सः यतचित्तात्मा, त्यक्त­स­र्व­प­रि­ग्रहः त्यक्तः सर्वः परिग्रहः येन सः त्यक्त­स­र्व­प­रि­ग्रहः, शारीरं शरी­र­स्थि­ति­मा­त्र­प्र­यो­ज­नम् , केवलं तत्रापि अभिमानवर्जितम् , कर्म कुर्वन् न आप्नोति न प्राप्नोति किल्बिषम् अनिष्टरूपं पापं धर्मं च । धर्मोऽपि मुमुक्षोः किल्बिषमेव बन्धापादकत्वात् । तस्मात् ताभ्यां मुक्तः भवति, संसारात् मुक्तो भवति इत्यर्थः ॥

‘शारीरं केवलं कर्म’ इत्यत्र किं शरीरनिर्वर्त्यं शारीरं कर्म अभिप्रेतम् , आहोस्वित् शरी­र­स्थि­ति­मा­त्र­प्र­यो­जनं शारीरं कर्म इति ? किं च अतः यदि शरीरनिर्वर्त्यं शारीरं कर्म यदि वा शरी­र­स्थि­ति­मा­त्र­प्र­यो­जनं शारीरम् इति ? उच्यते — यदा शरीरनिर्वर्त्यं कर्म शारीरम् अभिप्रेतं स्यात् , तदा दृष्टा­दृ­ष्ट­प्र­यो­जनं कर्म प्रतिषिद्धमपि शरीरेण कुर्वन् नाप्नोति किल्बिषम् इति ब्रुवतो विरुद्धाभिधानं प्रसज्येत । शास्त्रीयं च कर्म दृष्टा­दृ­ष्ट­प्र­यो­जनं शरीरेण कुर्वन् नाप्नोति किल्बिषम् इत्यपि ब्रुवतः अप्रा­प्त­प्र­ति­षे­ध­प्र­सङ्गः । ‘शारीरं कर्म कुर्वन्’ इति विशेषणात् केव­ल­श­ब्द­प्र­यो­गाच्च वाङ्म­न­स­नि­र्वर्त्यं कर्म विधि­प्र­ति­षे­ध­वि­षयं धर्मा­ध­र्म­श­ब्द­वाच्यं कुर्वन् प्राप्नोति किल्बिषम् इत्युक्तं स्यात् । तत्रापि वाङ्मनसाभ्यां विहि­ता­नु­ष्ठा­न­पक्षे किल्बि­ष­प्रा­प्ति­व­चनं विरुद्धम् आपद्येत । प्रति­षि­द्ध­से­वा­प­क्षेऽपि भूता­र्था­नु­वा­द­मा­त्रम् अनर्थकं स्यात् । यदा तु शरी­र­स्थि­ति­मा­त्र­प्र­यो­जनं शारीरं कर्म अभिप्रेतं भवेत् , तदा दृष्टा­दृ­ष्ट­प्र­यो­जनं कर्म विधि­प्र­ति­षे­ध­गम्यं शरी­र­वा­ङ्म­न­स­नि­र्व­र्त्यम् अन्यत् अकुर्वन् तैरेव शरीरादिभिः शरी­र­स्थि­ति­मा­त्र­प्र­यो­जनं केव­ल­श­ब्द­प्र­यो­गात् ‘अहं करोमि’ इत्य­भि­मा­न­व­र्जितः शरी­रा­दि­चे­ष्टा­मात्रं लोकदृष्ट्या कुर्वन् नाप्नोति किल्बिषं । एवंभूतस्य पाप­श­ब्द­वा­च्य­कि­ल्बि­ष­प्रा­प्त्य­स­म्भ­वात् किल्बिषं संसारं न आप्नोति ; ज्ञाना­ग्नि­द­ग्ध­स­र्व­क­र्म­त्वात् अप्रतिबन्धेन मुच्यत एव इति पूर्वो­क्त­स­म्य­ग्द­र्श­न­फ­ला­नु­वाद एव एषः । एवम् ‘शारीरं केवलं कर्म’ इत्यस्य अर्थस्य परिग्रहे निरवद्यं भवति ॥ २१ ॥

त्यक्त­स­र्व­प­रि­ग्र­हस्य यतेः अन्नादेः शरीरस्थितिहेतोः परिग्रहस्य अभावात् याचनादिना शरीरस्थितौ कर्तव्यतायां प्राप्तायाम् ‘अया­चि­त­म­स­ङ्क्लृ­प्त­मु­प­पन्नं यदृच्छया’(अश्व. ४६ । १९) इत्यादिना वचनेन अनुज्ञातं यतेः शरीरस्थितिहेतोः अन्नादेः प्राप्तिद्वारम् आविष्कुर्वन् आह —

यदृ­च्छा­ला­भ­स­न्तुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ २२ ॥

२२

यदृ­च्छा­ला­भ­स­न्तुष्टः अप्रार्थितोपनतो लाभो यदृच्छालाभः तेन सन्तुष्टः सञ्जा­ता­लं­प्र­त्ययः । द्वन्द्वातीतः द्वन्द्वैः शीतोष्णादिभिः हन्यमानोऽपि अविषण्णचित्तः द्वन्द्वातीतः उच्यते । विमत्सरः विगतमत्सरः निर्वैरबुद्दिः समः तुल्यः यदृच्छालाभस्य सिद्धौ असिद्धौ च । यः एवंभूतो यतिः अन्नादेः शरीरस्थितिहेतोः लाभालाभयोः समः हर्ष­वि­षा­द­व­र्जितः कर्मादौ अकर्मादिदर्शी यथा­भू­ता­त्म­द­र्श­न­निष्ठः सन् शरी­र­स्थि­ति­मा­त्र­प्र­यो­जने भिक्षा­ट­ना­दि­क­र्मणि शरी­रा­दि­नि­र्वर्त्ये ‘नैव किञ्चित् करोम्यहम्’(भ. गी. ५ । ८) , ‘गुणा गुणेषु वर्तन्ते’(भ. गी. ३ । २८) इत्येवं सदा सम्परिचक्षाणः आत्मनः कर्तृत्वाभावं पश्यन्नैव किञ्चित् भिक्षाटनादिकं कर्म करोति, लोक­व्य­व­हा­र­सा­मा­न्य­द­र्श­नेन तु लौकिकैः आरोपितकर्तृत्वे भिक्षाटनादौ कर्मणि कर्ता भवति । स्वानुभवेन तु शास्त्र­प्र­मा­णा­दि­ज­नि­तेन अकर्तैव । स एवं परा­ध्या­रो­पि­त­क­र्तृत्वः शरी­र­स्थि­ति­मा­त्र­प्र­यो­जनं भिक्षाटनादिकं कर्म कृत्वापि न निबध्यते बन्धहेतोः कर्मणः सहेतुकस्य ज्ञानाग्निना दग्धत्वात् इति उक्तानुवाद एव एषः ॥ २२ ॥

‘त्यक्त्वा कर्मफलासङ्गम्’(भ. गी. ४ । २०) इत्यनेन श्लोकेन यः प्रारब्धकर्मा सन् यदा निष्क्रि­य­ब्र­ह्मा­त्म­द­र्श­न­स­म्पन्नः स्यात् तदा तस्य आत्मनः कर्तृ­क­र्म­प्र­यो­ज­ना­भा­व­द­र्शिनः कर्मपरित्यागे प्राप्ते कुत­श्चि­न्नि­मि­त्तात् तदसम्भवे सति पूर्ववत् तस्मिन् कर्मणि अभिप्रवृत्तस्य अपि ‘नैव किञ्चित् करोति सः’(भ. गी. ४ । २०) इति कर्माभावः प्रदर्शितः । यस्य एवं कर्माभावो दर्शितः तस्यैव —

गतसङ्गस्य मुक्तस्य ज्ञाना­व­स्थि­त­चे­तसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥

२३

गतसङ्गस्य सर्व­तो­नि­वृ­त्ता­सक्तेः, मुक्तस्य निवृ­त्त­ध­र्मा­ध­र्मा­दि­ब­न्ध­नस्य, ज्ञाना­व­स्थि­त­चे­तसः ज्ञाने एव अवस्थितं चेतः यस्य सोऽयं ज्ञाना­व­स्थि­त­चेताः तस्य, यज्ञाय यज्ञ­नि­र्वृ­त्त्य­र्थम् आचरतः निर्वर्तयतः कर्म समग्रं सह अग्रेण फलेन वर्तते इति समग्रं कर्म तत् समग्रं प्रविलीयते विनश्यति इत्यर्थः ॥ २३ ॥

कस्मात् पुनः कारणात् क्रियमाणं कर्म स्वकार्यारम्भम् अकुर्वत् समग्रं प्रविलीयते इत्युच्यते यतः —

ब्रह्मार्पणं ब्रह्म हवि­र्ब्र­ह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्म­क­र्म­स­मा­धिना ॥ २४ ॥

२४

ब्रह्म अर्पणं येन करणेन ब्रह्मवित् हविः अग्नौ अर्पयति तत् ब्रह्मैव इति पश्यति, तस्य आत्मव्यतिरेकेण अभावं पश्यति, यथा शुक्तिकायां रजताभावं पश्यति ; तदुच्यते ब्रह्मैव अर्पणमिति, यथा यद्रजतं तत् शुक्तिकैवेति । ‘ब्रह्म अर्पणम्’ इति असमस्ते पदे । यत् अर्पणबुद्ध्या गृह्यते लोके तत् अस्य ब्रह्मविदः ब्रह्मैव इत्यर्थः । ब्रह्म हविः तथा यत् हविर्बुद्ध्या गृह्यमाणं तत् ब्रह्मैव अस्य । तथा ‘ब्रह्माग्नौ’ इति समस्तं पदम् । अग्निरपि ब्रह्मैव यत्र हूयते ब्रह्मणा कर्त्रा, ब्रह्मैव कर्तेत्यर्थः । यत् तेन हुतं हवनक्रिया तत् ब्रह्मैव । यत् तेन गन्तव्यं फलं तदपि ब्रह्मैव ब्रह्म­क­र्म­स­मा­धिना ब्रह्मैव कर्म ब्रह्मकर्म तस्मिन् समाधिः यस्य सः ब्रह्म­क­र्म­स­माधिः तेन ब्रह्म­क­र्म­स­मा­धिना ब्रह्मैव गन्तव्यम् ॥

एवं लोकसङ्ग्रहं चिकीर्षुणापि क्रियमाणं कर्म परमार्थतः अकर्म, ब्रह्म­बु­द्ध्यु­प­मृ­दि­त­त्वात् । एवं सति निवृ­त्त­क­र्म­णोऽपि सर्व­क­र्म­सं­न्या­सिनः सम्य­ग्द­र्श­न­स्तु­त्यर्थं यज्ञत्वसम्पादनं ज्ञानस्य सुतरामुपपद्यते ; यत् अर्पणादि अधियज्ञे प्रसिद्धं तत् अस्य अध्यात्मं ब्रह्मैव परमार्थदर्शिन इति । अन्यथा सर्वस्य ब्रह्मत्वे अर्पणादीनामेव विशेषतो ब्रह्म­त्वा­भि­धा­नम् अनर्थकं स्यात् । तस्मात् ब्रह्मैव इदं सर्वमिति अभिजानतः विदुषः कर्माभावः । कार­क­बु­द्ध्य­भा­वाच्च । न हि कारकबुद्धिरहितं यज्ञाख्यं कर्म दृष्टम् । सर्वमेव अग्निहोत्रादिकं कर्म शब्द­स­म­र्पि­त­दे­व­ता­वि­शे­ष­स­म्प्र­दा­ना­दि­का­र­क­बु­द्धि­मत् कर्त्र­भि­मा­न­फ­ला­भि­स­न्धि­मच्च दृष्टम् ; न उप­मृ­दि­त­क्रि­या­का­र­क­फ­ल­भे­द­बु­द्धि­मत् कर्तृ­त्वा­भि­मा­न­फ­ला­भि­स­न्धि­र­हितं वा । इदं तु ब्रह्म­बु­द्ध्यु­प­मृ­दि­ता­र्प­णा­दि­का­र­क­क्रि­या­फ­ल­भे­द­बुद्धि कर्म । अतः अकर्मैव तत् । तथा च दर्शितम् ‘कर्मण्यकर्म यः पश्येत्’(भ. गी. ४ । १८) ‘कर्म­ण्य­भि­प्र­वृ­त्तोऽपि नैव किञ्चित्करोति सः’(भ. गी. ४ । २०) ‘गुणा गुणेषु वर्तन्ते’(भ. गी. ३ । २८) ‘नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित्’(भ. गी. ५ । ८) इत्यादिभिः । तथा च दर्शयन् तत्र तत्र क्रिया­का­र­क­फ­ल­भे­द­बु­द्ध्यु­प­मर्दं करोति । दृष्टा च काम्या­ग्नि­हो­त्रादौ कामोपमर्देन काम्या­ग्नि­हो­त्रा­दि­हानिः । तथा मति­पू­र्व­का­म­ति­पू­र्व­का­दीनां कर्मणां कार्यविशेषस्य आरम्भकत्वं दृष्टम् । तथा इहापि ब्रह्म­बु­द्ध्यु­प­मृ­दि­ता­र्प­णा­दि­का­र­क­क्रि­या­फ­ल­भे­द­बुद्धेः बाह्य­चे­ष्टा­मा­त्रेण कर्मापि विदुषः अकर्म सम्पद्यते । अतः उक्तम् ‘समग्रं प्रविलीयते’(भ. गी. ४ । २०) इति ॥

अत्र केचिदाहुः — यत् ब्रह्म तत् अर्पणादीनि ; ब्रह्मैव किल अर्पणादिना पञ्चविधेन कारकात्मना व्यवस्थितं सत् तदेव कर्म करोति । तत्र न अर्पणादिबुद्धिः निवर्त्यते, किं तु अर्पणादिषु ब्रह्मबुद्धिः आधीयते ; यथा प्रतिमादौ विष्ण्वा­दि­बुद्धिः, यथा वा नामादौ ब्रह्म­बु­द्धि­रिति ॥

सत्यम् , एवमपि स्यात् यदि ज्ञान­य­ज्ञ­स्तु­त्यर्थं प्रकरणं न स्यात् । अत्र तु सम्यग्दर्शनं ज्ञान­य­ज्ञ­श­ब्दि­तम् अनेकान् यज्ञशब्दितान् क्रियाविशेषान् उपन्यस्य ‘श्रेयान् द्रव्य­म­या­द्य­ज्ञात् ज्ञानयज्ञः’(भ. गी. ४ । ३३)‘श्रेयान् द्रव्य­म­या­द्य­ज्ञात् ज्ञानयज्ञः’(भ. गी. ४ । ३३) इति ज्ञानं स्तौति । अत्र च समर्थमिदं वचनम् ‘ब्रह्मार्पणम्’ इत्यादि ज्ञानस्य यज्ञत्वसम्पादने ; अन्यथा सर्वस्य ब्रह्मत्वे अर्पणादीनामेव विशेषतो ब्रह्म­त्वा­भि­धा­न­म­न­र्थकं स्यात् । ये तु अर्पणादिषु प्रतिमायां विष्णुदृष्टिवत् ब्रह्मदृष्टिः क्षिप्यते नामादिष्विव चेति ब्रुवते न तेषां ब्रह्मविद्या उक्ता इह विवक्षिता स्यात् , अर्प­णा­दि­वि­ष­य­त्वात् ज्ञानस्य । न च दृष्टि­स­म्पा­द­न­ज्ञा­नेन मोक्षफलं प्राप्यते । ‘ब्रह्मैव तेन गन्तव्यम्’ इति चोच्यते । विरुद्धं च सम्यग्दर्शनम् अन्तरेण मोक्षफलं प्राप्यते इति । प्रकृतविरोधश्च ; सम्यग्दर्शनम् च प्रकृतम् ‘कर्मण्यकर्म यः पश्येत्’(भ. गी. ४ । १८) इत्यत्र, अन्ते च सम्यग्दर्शनम् , तस्यैव उपसंहारात् । ‘श्रेयान् द्रव्य­म­या­द्य­ज्ञात् ज्ञानयज्ञः’ , ‘ज्ञानं लब्ध्वा परां शान्तिम्’(भ. गी. ४ । ३९) इत्यादिना सम्य­ग्द­र्श­न­स्तु­ति­मेव कुर्वन् उपक्षीणः अध्यायः । तत्र अकस्मात् अर्पणादौ ब्रह्मदृष्टिः अप्रकरणे प्रतिमायामिव विष्णुदृष्टिः उच्यते इति अनुपपन्नम् | तस्मात् यथा­व्या­ख्या­तार्थ एव अयं श्लोकः ॥ २४ ॥

तत्र अधुना सम्यग्दर्शनस्य यज्ञत्वं सम्पाद्य तत्स्तुत्यर्थम् अन्येऽपि यज्ञा उपक्षिप्यन्ते —

दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञे­नै­वो­प­जु­ह्वति ॥ २५ ॥

२५

दैवमेव देवा इज्यन्ते येन यज्ञेन असौ दैवो यज्ञः तमेव अपरे यज्ञं योगिनः कर्मिणः पर्युपासते कुर्व­न्ती­त्यर्थः । ब्रह्माग्नौ ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै. उ. २ । १ । १) ‘विज्ञानमानन्दं ब्रह्म’ ‘यत् साक्षा­द­प­रो­क्षात् ब्रह्म य आत्मा सर्वान्तरः’(बृ. उ. ३ । ४ । १) इत्या­दि­व­च­नो­क्तम् अश­ना­या­दि­स­र्व­सं­सा­र­ध­र्म­व­र्जि­तम् ‘नेति नेति’(बृ. उ. ४ । ४ । २२) इति निर­स्ता­शे­ष­वि­शेषं ब्रह्मशब्देन उच्यते । ब्रह्म च तत् अग्निश्च सः होमा­धि­क­र­ण­त्व­वि­व­क्षया ब्रह्माग्निः । तस्मिन् ब्रह्माग्नौ अपरे अन्ये ब्रह्मविदः यज्ञम् — यज्ञशब्दवाच्य आत्मा, आत्मनामसु यज्ञशब्दस्य पाठात् — तम् आत्मानं यज्ञं परमार्थतः परमेव ब्रह्म सन्तं बुद्ध्या­द्यु­पा­धि­सं­यु­क्तम् अध्य­स्त­स­र्वो­पा­धि­ध­र्म­कम् आहुतिरूपं यज्ञेनैव आत्मनैव उक्तलक्षणेन उपजुह्वति प्रक्षिपन्ति, सोपाधिकस्य आत्मनः निरुपाधिकेन पर­ब्र­ह्म­स्व­रू­पे­णैव यद्दर्शनं स तस्मिन् होमः तं कुर्वन्ति ब्रह्मा­त्मै­क­त्व­द­र्श­न­निष्ठाः संन्यासिनः इत्यर्थः ॥ २५ ॥

सोऽयं सम्य­ग्द­र्श­न­ल­क्षणः यज्ञः दैवयज्ञादिषु यज्ञेषु उपक्षिप्यते ‘ब्रह्मार्पणम्’ इत्यादिश्लोकैः प्रस्तुतः ‘श्रेयान् द्रव्य­म­या­द्य­ज्ञात् ज्ञानयज्ञः परन्तप’(भ. गी. ४ । ३३) इत्यादिना स्तुत्यर्थम् —

श्रोत्रा­दी­नी­न्द्रि­या­ण्यन्ये संयमाग्निषु जुह्वति ।
शब्दा­दी­न्वि­ष­या­नन्य इन्द्रियाग्निषु जुह्वति ॥ २६ ॥

२६

श्रोत्रादीनि इन्द्रियाणि अन्ये योगिनः संयमाग्निषु । प्रतीन्द्रियं संयमो भिद्यते इति बहुवचनम् । संयमा एव अग्नयः तेषु जुह्वति इन्द्रियसंयममेव कुर्वन्ति इत्यर्थः । शब्दादीन् विषयान् अन्ये इन्द्रियाग्निषु इन्द्रियाण्येव अग्नयः तेषु इन्द्रियाग्निषु जुह्वति श्रोत्रा­दि­भि­र­वि­रु­द्ध­वि­ष­य­ग्र­हणं होमं मन्यन्ते ॥ २६ ॥

किञ्च —

सर्वा­णी­न्द्रि­य­क­र्माणि प्राणकर्माणि चापरे ।
आत्म­सं­य­म­यो­गाग्नौ जुह्वति ज्ञानदीपिते ॥ २७ ॥

२७

सर्वाणि इन्द्रियकर्माणि इन्द्रियाणां कर्माणि इन्द्रि­य­क­र्माणि, तथा प्राणकर्माणि प्राणो वायुः आध्यात्मिकः तत्कर्माणि आकु­ञ्च­न­प्र­सा­र­णा­दीनि तानि च अपरे आत्म­सं­य­म­यो­गाग्नौ आत्मनि संयमः आत्मसंयमः स एव योगाग्निः तस्मिन् आत्म­सं­य­म­यो­गाग्नौ जुह्वति प्रक्षिपन्ति ज्ञानदीपिते स्नेहेनेव प्रदीपे विवेकविज्ञानेन उज्ज्वलभावम् आपादिते जुह्वति प्रविलापयन्ति इत्यर्थः ॥ २७ ॥

द्रव्य­य­ज्ञा­स्त­पो­यज्ञा योग­य­ज्ञा­स्त­था­परे ।
स्वाध्या­य­ज्ञा­न­य­ज्ञाश्च यतयः संशितव्रताः ॥ २८ ॥

२८

द्रव्ययज्ञाः तीर्थेषु द्रव्यविनियोगं यज्ञबुद्ध्या कुर्वन्ति ये ते द्रव्ययज्ञाः । तपोयज्ञाः तपः यज्ञः येषां तपस्विनां ते तपोयज्ञाः । योगयज्ञाः प्राणा­या­म­प्र­त्या­हा­रा­दि­ल­क्षणो योगो यज्ञो येषां ते योगयज्ञाः । तथा अपरे स्वाध्या­य­ज्ञा­न­य­ज्ञाश्च स्वाध्यायः यथाविधि ऋगाद्यभ्यासः यज्ञः येषां ते स्वाध्याययज्ञाः । ज्ञानयज्ञाः ज्ञानं शास्त्रा­र्थ­प­रि­ज्ञानं यज्ञः येषां ते ज्ञानयज्ञाश्च यतयः यतनशीलाः संशितव्रताः सम्यक् शितानि तनूकृतानि तीक्ष्णीकृतानि व्रतानि येषां ते संशितव्रताः ॥ २८ ॥

किञ्च —

अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।
प्राणापानगती रुद्ध्वा प्राणा­या­म­प­रा­यणाः ॥ २९ ॥

२९

अपाने अपानवृत्तौ जुह्वति प्रक्षिपन्ति प्राणं प्राणवृत्तिम् , पूरकाख्यं प्राणायामं कुर्व­न्ती­त्यर्थः । प्राणे अपानं तथा अपरे जुह्वति, रेचकाख्यं च प्राणायामं कुर्व­न्ती­त्ये­तत् । प्राणापानगती मुखनासिकाभ्यां वायोः निर्गमनं प्राणस्य गतिः, तद्विपर्ययेण अधोगमनम् अपानस्य गतिः, ते प्राणापानगती एते रुद्ध्वा निरुध्य प्राणा­या­म­प­रा­यणाः प्राणा­या­म­त­त्पराः ; कुम्भकाख्यं प्राणायामं कुर्व­न्ती­त्यर्थः ॥ २९ ॥

किञ्च —

अपरे नियताहाराः प्राणा­न्प्रा­णेषु जुह्वति ।
सर्वेऽप्येते यज्ञविदो यज्ञ­क्ष­पि­त­क­ल्मषाः ॥ ३० ॥

३०

अपरे नियताहाराः नियतः परिमितः आहारः येषां ते नियताहाराः सन्तः प्राणान् वायुभेदान् प्राणेषु एव जुह्वति यस्य यस्य वायोः जयः क्रियते इतरान् वायुभेदान् तस्मिन् तस्मिन् जुह्वति, ते तत्र प्रविष्टा इव भवन्ति । सर्वेऽपि एते यज्ञविदः यज्ञ­क्ष­पि­त­क­ल्मषाः यज्ञैः यथोक्तैः क्षपितः नाशितः कल्मषो येषां ते यज्ञ­क्ष­पि­त­क­ल्मषाः ॥ ३० ॥

एवं यथोक्तान् यज्ञान् निर्वर्त्य —

यज्ञ­शि­ष्टा­मृ­त­भुजो यान्ति ब्रह्म सनातनम् ।
नायं लोकोऽ­स्त्य­य­ज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ३१ ॥

३१

यज्ञ­शि­ष्टा­मृ­त­भुजः यज्ञानां शिष्टं यज्ञशिष्टं यज्ञशिष्टं च तत् अमृतं च यज्ञशिष्टामृतं तत् भुञ्जते इति यज्ञ­शि­ष्टा­मृ­त­भुजः । यथोक्तान् यज्ञान् कृत्वा तच्छिष्टेन कालेन यथाविधिचोदितम् अन्नम् अमृताख्यं भुञ्जते इति यज्ञ­शि­ष्टा­मृ­त­भुजः यान्ति गच्छन्ति ब्रह्म सनातनं चिरन्तनं मुमुक्षवश्चेत् ; काला­ति­क्र­मा­पे­क्षया इति सामर्थ्यात् गम्यते । न अयं लोकः सर्व­प्रा­णि­सा­धा­र­णोऽपि अस्ति यथोक्तानां यज्ञानां एकोऽपि यज्ञः यस्य नास्ति सः अयज्ञः तस्य । कुतः अन्यो विशि­ष्ट­सा­ध­न­साध्यः कुरुसत्तम ॥ ३१ ॥

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ ३२ ॥

३२

एवं यथोक्ता बहुविधा बहुप्रकारा यज्ञाः वितताः विस्तीर्णाः ब्रह्मणो वेदस्य मुखे द्वारे वेदद्वारेण अवगम्यमानाः ब्रह्मणो मुखे वितता उच्यन्ते ; तद्यथा ‘वाचि हि प्राणं जुहुमः’(ऐ. आ. ३ । २ । ६) इत्यादयः । कर्मजान् कायि­क­वा­चि­क­मा­न­स­क­र्मो­द्भा­वान् विद्धि तान् सर्वान् अनात्मजान् , निर्व्यापारो हि आत्मा । अत एवं ज्ञात्वा विमोक्ष्यसे अशुभात् । न मद्व्यापारा इमे, निर्व्या­पा­रोऽ­हम् उदासीन इत्येवं ज्ञात्वा अस्मात् सम्यग्दर्शनात् मोक्ष्यसे संसारबन्धनात् इत्यर्थः ॥ ३२ ॥

‘ब्रह्मार्पणम्’(भ. गी. ४ । २४) इत्यादिश्लोकेन सम्यग्दर्शनस्य यज्ञत्वं सम्पादितम् । यज्ञाश्च अनेके उपदिष्टाः । तैः सिद्ध­पु­रु­षा­र्थ­प्र­यो­जनैः ज्ञानं स्तूयते । कथम् ? —

श्रेया­न्द्र­व्य­म­या­द्य­ज्ञा­ज्ज्ञा­न­यज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥

३३

श्रेयान् द्रव्यमयात् द्रव्य­सा­ध­न­सा­ध्यात् यज्ञात् ज्ञानयज्ञः हे परन्तप । द्रव्यमयो हि यज्ञः फलस्यारम्भकः, ज्ञानयज्ञः न फलारम्भकः, अतः श्रेयान् प्रशस्यतरः । कथम् ? यतः सर्वं कर्म समस्तम् अखिलम् अप्रतिबद्धं पार्थ ज्ञाने मोक्षसाधने सर्व­तः­स­म्प्लु­तो­द­क­स्था­नीये परिसमाप्यते अन्त­र्भ­व­ती­त्यर्थः ‘यथा कृताय विजितायाधरेयाः संयन्त्येवमेवं सर्वं तदभिसमेति यत् किञ्चित्प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद’(छा. उ. ४ । १ । ४) इति श्रुतेः ॥ ३३ ॥

तदेतत् विशिष्टं ज्ञानं तर्हि केन प्राप्यते इत्युच्यते —

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानि­न­स्त­त्त्व­द­र्शिनः ॥ ३४ ॥

३४

तत् विद्धि विजानीहि येन विधिना प्राप्यते इति । आचार्यान् अभिगम्य, प्रणिपातेन प्रकर्षेण नीचैः पतनं प्रणिपातः दीर्घनमस्कारः तेन, ‘कथं बन्धः ? कथं मोक्षः ? का विद्या ? का चाविद्या ? ’ इति परिप्रश्नेन, सेवया गुरुशुश्रूषया एवमादिना । प्रश्रयेण आवर्जिता आचार्या उपदेक्ष्यन्ति कथयिष्यन्ति ते ज्ञानं यथोक्तविशेषणं ज्ञानिनः । ज्ञानवन्तोऽपि केचित् यथावत् तत्त्व­द­र्श­न­शीलाः, अपरे न ; अतो विशिनष्टि तत्त्वदर्शिनः इति । ये सम्यग्दर्शिनः तैः उपदिष्टं ज्ञानं कार्यक्षमं भवति नेतरत् इति भगवतो मतम् ॥ ३४ ॥

तथा च सति इदमपि समर्थं वचनम् —

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्य­स्या­त्म­न्यथो मयि ॥ ३५ ॥

३५

यत् ज्ञात्वा यत् ज्ञानं तैः उपदिष्टं अधिगम्य प्राप्य पुनः भूयः मोहम् एवं यथा इदानीं मोहं गतोऽसि पुनः एवं न यास्यसि हे पाण्डव । किञ्च — येन ज्ञानेन भूतानि अशेषेण ब्रह्मादीनि स्तम्ब­प­र्य­न्तानि द्रक्ष्यसि साक्षात् आत्मनि प्रत्यगात्मनि ‘मत्संस्थानि इमानि भूतानि’ इति अथो अपि मयि वासुदेवे ‘परमेश्वरे च इमानि’ इति ; क्षेत्र­ज्ञे­श्व­रै­कत्वं सर्वो­प­नि­ष­त्प्र­सिद्धं द्रक्ष्यसि इत्यर्थः ॥ ३५ ॥

किञ्च एतस्य ज्ञानस्य माहात्म्यम् —

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ३६ ॥

३६

अपि चेत् असि पापेभ्यः पापकृद्भ्यः सर्वेभ्यः अतिशयेन पापकृत् पापकृत्तमः सर्वं ज्ञानप्लवेनैव ज्ञानमेव प्लवं कृत्वा वृजिनं वृजिनार्णवं पापसमुद्रं सन्तरिष्यसि । धर्मोऽपि इह मुमुक्षोः पापम् उच्यते ॥ ३६ ॥

ज्ञानं कथं नाशयति पापमिति दृष्टान्त उच्यते —

यथैधांसि समि­द्धोऽ­ग्नि­र्भ­स्म­सा­त्कु­रु­तेऽ­र्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥

३७

यथा एधांसि काष्ठानि समिद्धः सम्यक् इद्धः दीप्तः अग्निः भस्मसात् भस्मीभावं कुरुते हे अर्जुन, ज्ञानमेव अग्निः ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा निर्बी­जी­क­रो­ती­त्यर्थः । न हि साक्षादेव ज्ञानाग्निः कर्माणि इन्धनवत् भस्मीकर्तुं शक्नोति । तस्मात् सम्यग्दर्शनं सर्वकर्मणां निर्बीजत्वे कारणम् इत्यभिप्रायः । सामर्थ्यात् येन कर्मणा शरीरम् आरब्धं तत् प्रवृ­त्त­फ­ल­त्वात् उपभोगेनैव क्षीयते । अतो यानि अप्रवृत्तफलानि ज्ञानोत्पत्तेः प्राक् कृतानि ज्ञानसहभावीनि च अती­ता­ने­क­ज­न्म­कृ­तानि च तान्येव सर्वाणि भस्मसात् कुरुते ॥ ३७ ॥

यतः एवम् अतः —

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ३८ ॥

३८

न हि ज्ञानेन सदृशं तुल्यं पवित्रं पावनं शुद्धिकरम् इह विद्यते । तत् ज्ञानं स्वयमेव योगसंसिद्धः योगेन कर्मयोगेन समाधियोगेन च संसिद्धः संस्कृतः योग्यताम् आपन्नः सन् मुमुक्षुः कालेन महता आत्मनि विन्दति लभते इत्यर्थः ॥ ३८ ॥

येन एकान्तेन ज्ञानप्राप्तिः भवति स उपायः उपदिश्यते —

श्रद्धा­वां­ल्ल­भते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्ति­म­चि­रे­णा­धि­ग­च्छति ॥ ३९ ॥

३९

श्रद्धावान् श्रद्धालुः लभते ज्ञानम् । श्रद्धा­लु­त्वेऽपि भवति कश्चित् मन्दप्रस्थानः, अत आह — तत्परः, गुरूपसदनादौ अभियुक्तः ज्ञान­ल­ब्ध्यु­पाये श्रद्धावान् । तत्परः अपि अजितेन्द्रियः स्यात् इत्यतः आह — संयतेन्द्रियः, संयतानि विषयेभ्यो निवर्तितानि यस्य इन्द्रियाणि स संयतेन्द्रियः । य एवंभूतः श्रद्धावान् तत्परः संयतेन्द्रियश्च सः अवश्यं ज्ञानं लभते । प्रणिपातादिस्तु बाह्योऽ­नै­का­न्ति­कोऽपि भवति, माया­वि­त्वा­दि­स­म्भ­वात् ; न तु तत् श्रद्धा­व­त्त्वादौ इत्येकान्ततः ज्ञान­ल­ब्ध्यु­पायः । किं पुनः ज्ञानलाभात् स्यात् इत्युच्यते — ज्ञानं लब्ध्वा परां मोक्षाख्यां शान्तिम् उपरतिम् अचिरेण क्षिप्रमेव अधिगच्छति । सम्यग्दर्शनात् क्षिप्रमेव मोक्षो भवतीति सर्व­शा­स्त्र­न्या­य­प्र­सिद्धः सुनिश्चितः अर्थः ॥ ३९ ॥

अत्र संशयः न कर्तव्यः, पापिष्ठो हि संशयः ; कथम् इति उच्यते —

अज्ञ­श्चा­श्र­द्द­धा­नश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४० ॥

४०

अज्ञश्च अनात्मज्ञश्च अश्रद्दधानश्च गुरु­वा­क्य­शा­स्त्रेषु अविश्वासवांश्च संशयात्मा च संशयचित्तश्च विनश्यति । अज्ञाश्रद्दधानौ यद्यपि विनश्यतः, न तथा यथा संशयात्मा । संशयात्मा तु पापिष्ठः सर्वेषाम् । कथम् ? नायं साधारणोऽपि लोकोऽस्ति । तथा न परः लोकः । न सुखम् , तत्रापि संशयोत्पत्तेः संशयात्मनः संशयचित्तस्य । तस्मात् संशयो न कर्तव्यः ॥ ४० ॥

कस्मात् ? —

योग­सं­न्य­स्त­क­र्माणं ज्ञान­स­ञ्छि­न्न­सं­श­यम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४१ ॥

४१

योग­सं­न्य­स्त­क­र्माणं पर­मा­र्थ­द­र्श­न­ल­क्ष­णेन योगेन संन्यस्तानि कर्माणि येन परमार्थदर्शिना धर्मा­ध­र्मा­ख्यानि तं योग­सं­न्य­स्त­क­र्मा­णम् । कथं योग­सं­न्य­स्त­क­र्मे­त्याह — ज्ञान­स­ञ्छि­न्न­सं­शयं ज्ञानेन आत्मे­श्व­रै­क­त्व­द­र्श­न­ल­क्ष­णेन सञ्छिन्नः संशयो यस्य सः ज्ञान­स­ञ्छि­न्न­सं­शयः । य एवं योग­सं­न्य­स्त­कर्मा तम् आत्मवन्तम् अप्रमत्तं गुणचेष्टारूपेण दृष्टानि कर्माणि न निबध्नन्ति अनिष्टादिरूपं फलं नारभन्ते हे धनञ्जय ॥ ४१ ॥

यस्मात् कर्म­यो­गा­नु­ष्ठा­नात् अशु­द्धि­क्ष­य­हे­तु­क­ज्ञा­न­स­ञ्छि­न्न­सं­शयः न निबध्यते कर्मभिः ज्ञाना­ग्नि­द­ग्ध­क­र्म­त्वा­देव, यस्माच्च ज्ञान­क­र्मा­नु­ष्ठा­न­वि­षये संशयवान् विनश्यति —

तस्मा­द­ज्ञा­न­स­म्भूतं हृत्स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योग­मा­ति­ष्ठो­त्तिष्ठ भारत ॥ ४२ ॥

४२

तस्मात् पापिष्ठम् अज्ञानसम्भूतम् अज्ञानात् अविवेकात् जातं हृत्स्थं हृदि बुद्धौ स्थितं ज्ञानासिना शोकमोहादिदोषहरं सम्यग्दर्शनं ज्ञानं तदेव असिः खङ्गः तेन ज्ञानासिना आत्मनः स्वस्य, आत्मविषयत्वात् संशयस्य । न हि परस्य संशयः परेण च्छेत्तव्यतां प्राप्तः, येन स्वस्येति विशेष्येत । अतः आत्मविषयोऽपि स्वस्यैव भवति । छित्त्वा एनं संशयं स्ववि­ना­श­हे­तु­भू­तम् , योगं सम्य­ग्द­र्श­नो­पायं कर्मानुष्ठानम् आतिष्ठ कुर्वित्यर्थः । उत्तिष्ठ च इदानीं युद्धाय भारत इति ॥ ४२ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ श्रीम­द्भ­ग­व­द्गी­ता­भाष्ये चतुर्थोऽध्यायः ॥