अद्वैतशारदा

श्रीमद्भगवद्गीताभाष्यम्

पञ्चमोऽध्यायः

व्याख्याः

‘कर्मण्यकर्म यः पश्येत्’(भ. गी. ४ । १८) इत्यारभ्य ‘स युक्तः कृत्स्न­क­र्म­कृत्’(भ. गी. ४ । १८) ‘ज्ञाना­ग्नि­द­ग्ध­क­र्मा­णम्’(भ. गी. ४ । १९) ‘शारीरं केवलं कर्म कुर्वन्’(भ. गी. ४ । २१) ‘यदृ­च्छा­ला­भ­स­न्तुष्टः’(भ. गी. ४ । २२) ‘ब्रह्मार्पणं ब्रह्म हविः’(भ. गी. ४ । २४) ‘कर्मजान् विद्धि तान् सर्वान्’(भ. गी. ४ । ३२) ‘सर्वं कर्माखिलं पार्थ’(भ. गी. ४ । ३३) ‘ज्ञानाग्निः सर्वकर्माणि’(भ. गी. ४ । ३७) ‘योग­सं­न्य­स्त­क­र्मा­णम्’(भ. गी. ४ । ४१) इत्येतैः वचनैः सर्व­क­र्म­सं­न्या­सम् अवोचत् भगवान् । ‘छित्त्वैनं संशयं योगमातिष्ठ’(भ. गी. ४ । ४२) इत्यनेन वचनेन योगं च कर्मा­नु­ष्ठा­न­ल­क्ष­णम् अनुतिष्ठ इत्युक्तवान् । तयोरुभयोश्च कर्मा­नु­ष्ठा­न­क­र्म­सं­न्या­सयोः स्थितिगतिवत् परस्परविरोधात् एकेन सह कर्तु­म­श­क्य­त्वात् , कालभेदेन च अनु­ष्ठा­न­वि­धा­ना­भा­वात् , अर्थात् एतयोः अन्य­त­र­क­र्त­व्य­ता­प्राप्तौ सत्यां यत् प्रशस्यतरम् एतयोः कर्मा­नु­ष्ठा­न­क­र्म­सं­न्या­सयोः तत् कर्तव्यं न इतरत् इत्येवं मन्यमानः प्रश­स्य­त­र­बु­भु­त्सया अर्जुन उवाच — ‘संन्यासं कर्मणां कृष्ण’(भ. गी. ५ । १) इत्यादिना ॥

ननु च आत्मविदः ज्ञानयोगेन निष्ठां प्रतिपिपादयिषन् पूर्वोदाहृतैः वचनैः भगवान् सर्व­क­र्म­सं­न्या­सम् अवोचत् , न तु अनात्मज्ञस्य । अतश्च कर्मा­नु­ष्ठा­न­क­र्म­सं­न्या­सयोः भिन्न­पु­रु­ष­वि­ष­य­त्वात् अन्यतरस्य प्रश­स्य­त­र­त्व­बु­भु­त्सया अयं प्रश्नः अनुपपन्नः । सत्यमेव त्वदभिप्रायेण प्रश्नो न उपपद्यते ; प्रष्टुः स्वाभिप्रायेण पुनः प्रश्नः युज्यत एवेति वदामः । कथम् ? पूर्वोदाहृतैः वचनैः भगवता कर्मसंन्यासस्य कर्तव्यतया विवक्षितत्वात् , प्राधा­न्य­म­न्त­रेण च कर्तारं तस्य कर्त­व्य­त्वा­स­म्भ­वात् अनात्मविदपि कर्ता पक्षे प्राप्तः अनूद्यत एव ; न पुनः आत्म­वि­त्क­र्तृ­क­त्व­मेव संन्यासस्य विवक्षितम् , इत्येवं मन्वानस्य अर्जुनस्य कर्मा­नु­ष्ठा­न­क­र्म­सं­न्या­सयोः अवि­द्व­त्पु­रु­ष­क­र्तृ­क­त्व­मपि अस्तीति पूर्वोक्तेन प्रकारेण तयोः परस्परविरोधात् अन्यतरस्य कर्तव्यत्वे प्राप्ते प्रशस्यतरं च कर्तव्यम् न इतरत् इति प्रश­स्य­त­र­वि­वि­दि­षया प्रश्नः न अनुपपन्नः ॥

प्रति­व­च­न­वा­क्या­र्थ­नि­रू­प­णे­नापि प्रष्टुः अभिप्रायः एवमेवेति गम्यते । कथम् ? ‘संन्या­स­क­र्म­योगौ निःश्रेयसकरौ तयोस्तु कर्मयोगो विशिष्यते’(भ. गी. ५ । २) इति प्रतिवचनम् । एतत् निरूप्यम् — किं अनेन आत्म­वि­त्क­र्तृ­कयोः संन्या­स­क­र्म­यो­गयोः निःश्रेयसकरत्वं प्रयोजनम् उक्त्वा तयोरेव कुतश्चित् विशेषात् कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वम् उच्यते ? आहोस्वित् अना­त्म­वि­त्क­र्तृ­कयोः संन्या­स­क­र्म­यो­गयोः तदुभयम् उच्यते ? इति । किञ्चातः — यदि आत्म­वि­त्क­र्तृ­कयोः कर्म­सं­न्या­स­क­र्म­यो­गयोः निःश्रे­य­स­क­र­त्वम् , तयोस्तु कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वम् उच्यते ; यदि वा अना­त्म­वि­त्क­र्तृ­कयोः संन्या­स­क­र्म­यो­गयोः तदुभयम् उच्यते इति । अत्र उच्यते — आत्म­वि­त्क­र्तृ­कयोः संन्या­स­क­र्म­यो­गयोः असम्भवात् तयोः निःश्रे­य­स­क­र­त्व­व­चनं तदीयाच्च कर्मसंन्यासात् कर्मयोगस्य विशि­ष्ट­त्वा­भि­धा­नम् इत्येतत् उभयम् अनुपपन्नम् । यदि अनात्मविदः कर्मसंन्यासः तत्प्रतिकूलश्च कर्मा­नु­ष्ठा­न­ल­क्षणः कर्मयोगः सम्भवेताम् , तदा तयोः निःश्रे­य­स­क­र­त्वोक्तिः कर्मयोगस्य च कर्मसंन्यासात् विशि­ष्ट­त्वा­भि­धा­नम् इत्येतत् उभयम् उपपद्येत । आत्मविदस्तु संन्या­स­क­र्म­यो­गयोः असम्भवात् तयोः निःश्रे­य­स­क­र­त्वा­भि­धानं कर्मसंन्यासाच्च कर्मयोगः विशिष्यते इति च अनुपपन्नम् ॥

अत्र आह — किम् आत्मविदः संन्या­स­क­र्म­यो­गयोः उभयोरपि असम्भवः ? आहोस्वित् अन्यतरस्य असम्भवः ? यदा च अन्यतरस्य असम्भवः, तदा किं कर्मसंन्यासस्य, उत कर्मयोगस्य ? इति ; असम्भवे कारणं च वक्तव्यम् इति । अत्र उच्यते — आत्मविदः निवृ­त्त­मि­थ्या­ज्ञा­न­त्वात् विप­र्य­य­ज्ञा­न­मू­लस्य कर्मयोगस्य असम्भवः स्यात् । जन्मा­दि­स­र्व­वि­क्रि­या­र­हि­त­त्वेन निष्क्रियम् आत्मानम् आत्मत्वेन यो वेत्ति तस्य आत्मविदः सम्यग्दर्शनेन अपा­स्त­मि­थ्या­ज्ञा­नस्य निष्क्रि­या­त्म­स्व­रू­पा­व­स्था­न­ल­क्षणं सर्व­क­र्म­सं­न्या­सम् उक्त्वा तद्विपरीतस्य मिथ्या­ज्ञा­न­मू­ल­क­र्तृ­त्वा­भि­मा­न­पु­रः­स­रस्य सक्रि­या­त्म­स्व­रू­पा­व­स्था­न­रू­पस्य कर्मयोगस्य इह गीताशास्त्रे तत्र तत्र आत्म­स्व­रू­प­नि­रू­प­ण­प्र­दे­शेषु सम्य­ग्ज्ञा­न­मि­थ्या­ज्ञा­न­त­त्का­र्य­वि­रो­धात् अभावः प्रतिपाद्यते यस्मात् , तस्मात् आत्मविदः निवृ­त्त­मि­थ्या­ज्ञा­नस्य विप­र्य­य­ज्ञा­न­मूलः कर्मयोगो न सम्भवतीति युक्तम् उक्तं स्यात् ॥

केषु केषु पुनः आत्म­स्व­रू­प­नि­रू­प­ण­प्र­दे­शेषु आत्मविदः कर्माभावः प्रतिपाद्यते इति अत्र उच्यते — ‘अविनाशि तु तत्’(भ. गी. २ । १७) इति प्रकृत्य ‘य एनं वेत्ति हन्तारम्’(भ. गी. २ । १९) ‘वेदाविनाशिनं नित्यम्’(भ. गी. २ । २१) इत्यादौ तत्र तत्र आत्मविदः कर्माभावः उच्यते ॥

ननु च कर्मयोगोऽपि आत्म­स्व­रू­प­नि­रू­प­ण­प्र­दे­शेषु तत्र तत्र प्रतिपाद्यते एव ; तद्यथा — ‘तस्मा­द्यु­ध्यस्व भारत’(भ. गी. २ । १८) ‘स्वधर्ममपि चावेक्ष्य’(भ. गी. २ । ३१) ‘कर्म­ण्ये­वा­धि­का­रस्ते’(भ. गी. २ । ४७) इत्यादौ । अतश्च कथम् आत्मविदः कर्मयोगस्य असम्भवः स्यादिति ? अत्र उच्यते — सम्य­ग्ज्ञा­न­मि­थ्या­ज्ञा­न­त­त्का­र्य­वि­रो­धात् , ‘ज्ञानयोगेन साङ्ख्यानाम्’(भ. गी. ३ । ३) इत्यनेन साङ्ख्यानाम् आत्म­त­त्त्व­वि­दाम् अना­त्म­वि­त्क­र्तृ­क­क­र्म­यो­ग­नि­ष्ठातः निष्क्रि­या­त्म­स्व­रू­पा­व­स्था­न­ल­क्ष­णायाः ज्ञान­यो­ग­नि­ष्ठायाः पृथक्करणात् , कृतकृत्यत्वेन आत्मविदः प्रयो­ज­ना­न्त­रा­भा­वात् , ‘तस्य कार्यं न विद्यते’(भ. गी. ३ । १७) इति कर्त­व्या­न्त­रा­भा­व­व­च­नाच्च, ‘न कर्म­णा­म­ना­र­म्भात्’(भ. गी. ३ । ४) ‘संन्यासस्तु महाबाहो दुःख­मा­प्तु­म­यो­गतः’(भ. गी. ५ । ६) इत्यादिना च आत्म­ज्ञा­ना­ङ्ग­त्वेन कर्मयोगस्य विधानात् , ‘योगारूढस्य तस्यैव शमः कारणमुच्यते’(भ. गी. ६ । ३) इत्यनेन च उत्प­न्न­स­म्य­ग्द­र्श­नस्य कर्म­यो­गा­भा­व­व­च­नात् , ‘शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्’(भ. गी. ४ । २१) इति च शरी­र­स्थि­ति­का­र­णा­ति­रि­क्तस्य कर्मणो निवारणात् , ‘नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित्’(भ. गी. ५ । ८) इत्यनेन च शरी­र­स्थि­ति­मा­त्र­प्र­यु­क्ते­ष्वपि दर्श­न­श्र­व­णा­दि­क­र्मसु आत्म­या­था­त्म्य­विदः ‘करोमि’ इति प्रत्ययस्य समाहितचेतस्तया सदा अक­र्त­व्य­त्वो­प­दे­शात् आत्मतत्त्वविदः सम्य­ग्द­र्श­न­वि­रुद्धो मिथ्या­ज्ञा­न­हे­तुकः कर्मयोगः स्वप्नेऽपि न सम्भावयितुं शक्यते यस्मात् , तस्मात् अना­त्म­वि­त्क­र्तृ­क­यो­रेव संन्या­स­क­र्म­यो­गयोः निःश्रे­य­स­क­र­त्व­व­च­नम् , तदीयाच्च कर्मसंन्यासात् पूर्वो­क्ता­त्म­वि­त्क­र्तृ­क­स­र्व­क­र्म­सं­न्या­स­वि­ल­क्ष­णात् सत्येव कर्तृ­त्व­वि­ज्ञाने कर्मै­क­दे­श­वि­ष­यात् यम­नि­य­मा­दि­स­हि­त­त्वेन च दुरनुष्ठेयात् सुकरत्वेन च कर्मयोगस्य विशि­ष्ट­त्वा­भि­धा­नम् इत्येवं प्रति­व­च­न­वा­क्या­र्थ­नि­रू­प­णे­नापि पूर्वोक्तः प्रष्टु­र­भि­प्रायः निश्चीयते इति स्थितम् ॥

‘ज्यायसी चेत्कर्मणस्ते’(भ. गी. ३ । १) इत्यत्र ज्ञानकर्मणोः सह असम्भवे ‘यच्छ्रेय एतयोः तद्ब्रूहि’(भ. गी. ३ । २) इत्येवं पृष्टोऽर्जुनेन भगवान् साङ्‍ख्यानां संन्यासिनां ज्ञानयोगेन निष्ठा पुनः कर्मयोगेन योगिनां निष्ठा प्रोक्तेति निर्णयं चकार । ‘न च संन्यसनादेव केवलात् सिद्धिं समधिगच्छति’(भ. गी. ३ । ४) इति वचनात् ज्ञानसहितस्य सिद्धिसाधनत्वम् इष्टम्’ कर्मयोगस्य च, विधानात् । ज्ञानरहितस्य संन्यासः श्रेयान् , किं वा कर्मयोगः श्रेयान् ? ’ इति एतयोः विशेषबुभुत्सया —

अर्जुन उवाच —

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ १ ॥

संन्यासं परित्यागं कर्मणां शास्त्रीयाणाम् अनु­ष्ठे­य­वि­शे­षाणां शंससि प्रशंससि कथयसि इत्येतत् । पुनः योगं च तेषामेव अनुष्ठानम् अवश्यकर्तव्यं शंससि । अतः मे कतरत् श्रेयः इति संशयः — किं कर्मानुष्ठानं श्रेयः, किं वा तद्धानम् इति । प्रशस्यतरं च अनुष्ठेयम् । अतश्च यत् श्रेयः प्रशस्यतरम् एतयोः कर्म­सं­न्या­स­क­र्म­यो­गयोः यदनुष्ठानात् श्रेयोवाप्तिः मम स्यादिति मन्यसे, तत् एकम् अन्यतरम् सह एक­पु­रु­षा­नु­ष्ठे­य­त्वा­स­म्भ­वात् मे ब्रूहि सुनिश्चितम् अभिप्रेतं तवेति ॥ १ ॥

स्वाभिप्रायम् आचक्षाणो निर्णयाय श्रीभगवानुवाच —

श्रीभगवानुवाच —

संन्यासः कर्मयोगश्च निःश्रे­य­स­क­रा­वुभौ ।
तयोस्तु कर्म­सं­न्या­सा­त्क­र्म­योगो विशिष्यते ॥ २ ॥

संन्यासः कर्मणां परित्यागः कर्मयोगश्च तेषामनुष्ठानं तौ उभौ अपि निःश्रेयसकरौ मोक्षं कुर्वाते ज्ञानो­त्प­त्ति­हे­तु­त्वेन । उभौ यद्यपि निःश्रेयसकरौ, तथापि तयोस्तु निःश्रे­य­स­हेत्वोः कर्मसंन्यासात् केवलात् कर्मयोगो विशिष्यते इति कर्मयोगं स्तौति ॥ २ ॥

कस्मात् इति आह —

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धा­त्प्र­मु­च्यते ॥ ३ ॥

ज्ञेयः ज्ञातव्यः स कर्मयोगी नित्यसंन्यासी इति यो न द्वेष्टि किञ्चित् न काङ्क्षति दुःखसुखे तत्साधने च । एवंविधो यः, कर्मणि वर्तमानोऽपि स नित्यसंन्यासी इति ज्ञातव्यः इत्यर्थः । निर्द्वन्द्वः द्वन्द्ववर्जितः हि यस्मात् महाबाहो सुखं बन्धात् अनायासेन प्रमुच्यते ॥ ३ ॥

संन्या­स­क­र्म­यो­गयोः भिन्न­पु­रु­षा­नु­ष्ठे­ययोः विरुद्धयोः फलेऽपि विरोधो युक्तः, न तु उभयोः निःश्रे­य­स­क­र­त्व­मेव इति प्राप्ते इदम् उच्यते —

साङ्‍ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्य­गु­भ­यो­र्वि­न्दते फलम् ॥ ४ ॥

साङ्‍ख्ययोगौ पृथक् विरुद्धभिन्नफलौ बालाः प्रवदन्ति न पण्डिताः । पण्डितास्तु ज्ञानिन एकं फलम् अविरुद्धम् इच्छन्ति । कथम् ? एकमपि साङ्ख्ययोगयोः सम्यक् आस्थितः सम्य­ग­नु­ष्ठि­त­वान् इत्यर्थः, उभयोः विन्दते फलम् । उभयोः तदेव हि निःश्रेयसं फलम् ; अतः न फले विरोधः अस्ति ॥

ननु संन्या­स­क­र्म­यो­ग­श­ब्देन प्रस्तुत्य साङ्‍ख्ययोगयोः फलैकत्वं कथम् इह अप्रकृतं ब्रवीति ? नैष दोषः — यद्यपि अर्जुनेन संन्यासं कर्मयोगं च केवलम् अभिप्रेत्य प्रश्नः कृतः, भगवांस्तु तदपरित्यागेनैव स्वाभिप्रेतं च विशेषं संयोज्य शब्दा­न्त­र­वा­च्य­तया प्रतिवचनं ददौ ‘साङ्‍ख्ययोगौ’ इति । तौ एव संन्यासकर्मयोगौ ज्ञान­त­दु­पा­य­स­म­बु­द्धि­त्वा­दि­सं­युक्तौ साङ्‍ख्य­यो­ग­श­ब्द­वाच्यौ इति भगवतो मतम् । अतः न अप्र­कृ­त­प्र­क्रि­येति ॥ ४ ॥

एकस्यापि सम्यगनुष्ठानात् कथम् उभयोः फलं विन्दते इति उच्यते —

यत्साङ्‍ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं साङ्‍ख्यं च योगं च यः पश्यति स पश्यति ॥ ५ ॥

यत् साङ्ख्यैः ज्ञाननिष्ठैः संन्यासिभिः प्राप्यते स्थानं मोक्षाख्यम् , तत् योगैरपि ज्ञान­प्रा­प्त्यु­पा­य­त्वेन ईश्वरे समर्प्य कर्माणि आत्मनः फलम् अनभिसन्धाय अनुतिष्ठन्ति ये ते योगाः योगिनः तैरपि पर­मा­र्थ­ज्ञा­न­सं­न्या­स­प्रा­प्ति­द्वा­रेण गम्यते इत्यभिप्रायः । अतः एकं साङ्‍ख्यं च योगं च यः पश्यति फलैकत्वात् स पश्यति सम्यक् पश्यतीत्यर्थः — ॥ ५ ॥

एवं तर्हि योगात् संन्यास एव विशिष्यते ; कथं तर्हि इदमुक्तम् ‘तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते’(भ. गी. ५ । २) इति ? शृणु तत्र कारणम् — त्वया पृष्टं केवलं कर्मसंन्यासं कर्मयोगं च अभिप्रेत्य तयोः अन्यतरः कः श्रेयान् इति । तदनुरूपं प्रतिवचनं मया उक्तं कर्मसंन्यासात् कर्मयोगः विशिष्यते इति ज्ञानम् अनपेक्ष्य । ज्ञानापेक्षस्तु संन्यासः साङ्‍ख्यमिति मया अभिप्रेतः । परमार्थयोगश्च स एव । यस्तु कर्मयोगः वैदिकः स च तादर्थ्यात् योगः संन्यास इति च उपचर्यते । कथं तादर्थ्यम् इति उच्यते

संन्यासस्तु महाबाहो दुःख­मा­प्तु­म­यो­गतः ।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ ६ ॥

संन्यासस्तु पारमार्थिकः हे महाबाहो दुःखम् आप्तुं प्राप्तुम् अयोगतः योगेन विना । योगयुक्तः वैदिकेन कर्मयोगेन ईश्व­र­स­म­र्पि­त­रू­पेण फलनिरपेक्षेण युक्तः, मुनिः मननात् ईश्वरस्वरूपस्य मुनिः, ब्रह्म — पर­मा­त्म­ज्ञा­न­नि­ष्ठा­ल­क्ष­ण­त्वात् प्रकृतः संन्यासः ब्रह्म उच्यते, ‘न्यास इति ब्रह्मा ब्रह्मा हि परः’(तै. ना. ७८) इति श्रुतेः — ब्रह्म परमार्थसंन्यासं पर­मा­र्थ­ज्ञा­न­नि­ष्ठा­ल­क्षणं नचिरेण क्षिप्रमेव अधिगच्छति प्राप्नोति । अतः मया उक्तम् ‘कर्मयोगो विशिष्यते’(भ. गी. ५ । २) इति ॥ ६ ॥

यदा पुनः अयं सम्य­ग्ज्ञा­न­प्रा­प्त्यु­पा­य­त्वेन —

योगयुक्तो विशुद्धात्मा
विजितात्मा जितेन्द्रियः ।
सर्व­भू­ता­त्म­भू­तात्मा
कुर्वन्नपि न लिप्यते ॥ ७ ॥

योगेन युक्तः योगयुक्तः, विशुद्धात्मा विशुद्धसत्त्वः, विजितात्मा विजितदेहः, जितेन्द्रियश्च, सर्व­भू­ता­त्म­भू­तात्मा सर्वेषां ब्रह्मादीनां स्तम्ब­प­र्य­न्तानां भूतानाम् आत्मभूतः आत्मा प्रत्यक्चेतनो यस्य सः सर्व­भू­ता­त्म­भू­तात्मा सम्य­ग्द­र्शी­त्यर्थः, स तत्रैवं वर्तमानः लोकसङ्ग्रहाय कर्म कुर्वन्नपि न लिप्यते न कर्मभिः बध्यते इत्यर्थः ॥ ७ ॥

न च असौ परमार्थतः करोतीत्यतः —

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्य­ञ्शृ­ण्व­न्स्पृ­श­ञ्जि­घ्र­न्न­श्न­न्ग­च्छ­न्स्व­प­ञ्श्व­सन् ॥ ८ ॥

प्रलपन् विसृ­ज­न्गृ­ह्ण­न्नु­न्मि­ष­न्नि­मि­ष­न्नपि ।
इन्द्रि­या­णी­न्द्रि­या­र्थेषु वर्तन्त इति धारयन् ॥ ९ ॥

नैव किञ्चित् करोमीति युक्तः समाहितः सन् मन्येत चिन्तयेत् , तत्त्ववित् आत्मनो याथात्म्यं तत्त्वं वेत्तीति तत्त्ववित् पर­मा­र्थ­द­र्शी­त्यर्थः ॥

कदा कथं वा तत्त्वमवधारयन् मन्येत इति, उच्यते — पश्यन्निति । मन्येत इति पूर्वेण सम्बन्धः । यस्य एवं तत्त्वविदः सर्व­का­र्य­क­र­ण­चे­ष्टासु कर्मसु अकर्मैव, पश्यतः सम्यग्दर्शिनः तस्य सर्व­क­र्म­सं­न्यासे एव अधिकारः, कर्मणः अभावदर्शनात् । न हि मृगतृष्णिकायाम् उदकबुद्ध्या पानाय प्रवृत्तः उद­का­भा­व­ज्ञा­नेऽपि तत्रैव पानप्रयोजनाय प्रवर्तते ॥ ९ ॥

यस्तु पुनः अतत्त्ववित् प्रवृत्तश्च कर्मयोगे —

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्म­प­त्र­मि­वा­म्भसा ॥ १० ॥

१०

ब्रह्मणि ईश्वरे आधाय निक्षिप्य ‘तदर्थं कर्म करोमि’ इति भृत्य इव स्वाम्यर्थं सर्वाणि कर्माणि मोक्षेऽपि फले सङ्गं त्यक्त्वा करोति यः सर्वकर्माणि, लिप्यते न स पापेन न सम्बध्यते पद्मपत्रमिव अम्भसा उदकेन । केवलं सत्त्व­शु­द्धि­मा­त्र­मेव फलं तस्य कर्मणः स्यात् ॥ १० ॥

यस्मात् —

कायेन मनसा बुद्ध्या केव­लै­रि­न्द्रि­यै­रपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वा­त्म­शु­द्धये ॥ ११ ॥

११

कायेन देहेन मनसा बुद्ध्या च केवलैः ममत्ववर्जितैः ‘ईश्वरायैव कर्म करोमि, न मम फलाय’ इति मम­त्व­बु­द्धि­शून्यैः इन्द्रियैरपि — केवलशब्दः कायादिभिरपि प्रत्येकं सम्बध्यते — सर्वव्यापारेषु ममतावर्जनाय । योगिनः कर्मिणः कर्म कुर्वन्ति सङ्गं त्यक्त्वा फलविषयम् आत्मशुद्धये सत्त्वशुद्धये इत्यर्थः । तस्मात् तत्रैव तव अधिकारः इति कुरु कर्मैव ॥ ११ ॥

यस्माच्च —

युक्तः कर्मफलं त्यक्त्वा
शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण
फले सक्तो निबध्यते ॥ १२ ॥

१२

युक्तः ‘ईश्वराय कर्माणि करोमि न मम फलाय’ इत्येवं समाहितः सन् कर्मफलं त्यक्त्वा परित्यज्य शान्तिं मोक्षाख्याम् आप्नोति नैष्ठिकीं निष्ठायां भवां सत्त्व­शु­द्धि­ज्ञा­न­प्रा­प्ति­स­र्व­क­र्म­सं­न्या­स­ज्ञा­न­नि­ष्ठा­क्र­मे­णेति वाक्यशेषः । यस्तु पुनः अयुक्तः असमाहितः कामकारेण करणं कारः कामस्य कारः कामकारः तेन कामकारेण, काम­प्रे­रि­त­त­ये­त्यर्थः, ‘मम फलाय इदं करोमि कर्म’ इत्येवं फले सक्तः निबध्यते । अतः त्वं युक्तो भव इत्यर्थः ॥ १२ ॥

यस्तु परमार्थदर्शी सः —

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥

१३

सर्वाणि कर्माणि सर्वकर्माणि संन्यस्य परित्यज्य नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं च तानि सर्वाणि कर्माणि मनसा विवेकबुद्ध्या, कर्मादौ अकर्मसन्दर्शनेन सन्त्य­ज्ये­त्यर्थः, आस्ते तिष्ठति सुखम् । त्यक्त­वा­ङ्म­नः­का­य­चेष्टः निरायासः प्रसन्नचित्तः आत्मनः अन्यत्र निवृ­त्त­स­र्व­बा­ह्य­प्र­यो­जनः इति ‘सुखम् आस्ते’ इत्युच्यते । वशी जितेन्द्रिय इत्यर्थः । क्व कथम् आस्ते इति, आह — नवद्वारे पुरे । सप्त शीर्षण्यानि आत्मन उप­ल­ब्धि­द्वा­राणि, अवाक् द्वे मूत्र­पु­री­ष­वि­स­र्गार्थे, तैः द्वारैः नवद्वारं पुरम् उच्यते शरीरम् , पुरमिव पुरम् , आत्मैकस्वामिकम् , तद­र्थ­प्र­यो­ज­नैश्च इन्द्रि­य­म­नो­बु­द्धि­वि­षयैः अने­क­फ­ल­वि­ज्ञा­नस्य उत्पादकैः पौरैरिव अधिष्ठितम् । तस्मिन् नवद्वारे पुरे देही सर्वं कर्म संन्यस्य आस्ते ; किं विशेषणेन ? सर्वो हि देही संन्यासी असंन्यासी वा देहे एव आस्ते ; तत्र अनर्थकं विशेषणमिति । उच्यते — यस्तु अज्ञः देही देहे­न्द्रि­य­स­ङ्घा­त­मा­त्रा­त्म­दर्शी स सर्वोऽपि ‘गेहे भूमौ आसने वा आसे’ इति मन्यते । न हि देह­मा­त्रा­त्म­द­र्शिनः गेहे इव देहे आसे इति प्रत्ययः सम्भवति । देहा­दि­स­ङ्घा­त­व्य­ति­रि­क्ता­त्म­द­र्शि­नस्तु ‘देहे आसे’ इति प्रत्ययः उपपद्यते । परकर्मणां च परस्मिन् आत्मनि अविद्यया अध्यारोपितानां विद्यया विवेकज्ञानेन मनसा संन्यास उपपद्यते । उत्प­न्न­वि­वे­क­ज्ञा­नस्य सर्व­क­र्म­सं­न्या­सि­नोऽपि गेहे इव देहे एव नवद्वारे पुरे आसनम् प्रार­ब्ध­फ­ल­क­र्म­सं­स्का­र­शे­षा­नु­वृत्त्या देह एव विशे­ष­वि­ज्ञा­नो­त्पत्तेः । देहे एव आस्ते इति अस्त्येव विशेषणफलम् , विद्व­द­वि­द्व­त्प्र­त्य­य­भे­दा­पे­क्ष­त्वात् ॥

यद्यपि कार्यकरणकर्माणि अविद्यया आत्मनि अध्यारोपितानि ‘संन्यस्यास्ते’ इत्युक्तम् , तथापि आत्मसमवायि तु कर्तृत्वं कारयितृत्वं च स्यात् इति आशङ्क्य आह — नैव कुर्वन् स्वयम् , न च कार्यकरणानि कारयन् क्रियासु प्रवर्तयन् । किं यत् तत् कर्तृत्वं कारयितृत्वं च देहिनः स्वात्मसमवायि सत् संन्यासात् न सम्भवति, यथा गच्छतो गतिः गम­न­व्या­पा­र­प­रि­त्यागे न स्यात् तद्वत् ? किं वा स्वत एव आत्मनः न अस्ति इति ? अत्र उच्यते — न अस्ति आत्मनः स्वतः कर्तृत्वं कारयितृत्वं च । उक्तं हि ‘अवि­का­र्योऽ­य­मु­च्यते’(भ. गी. २ । २५) ‘शरीरस्थोऽपि न करोति न लिप्यते’(भ. गी. १३ । ३१) इति । ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) इति श्रुतेः ॥ १३ ॥

किञ्च—

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥

१४

न कर्तृत्वं स्वतः कुरु इति नापि कर्माणि रथ­घ­ट­प्रा­सा­दा­दीनि ईप्सिततमानि लोकस्य सृजति उत्पादयति प्रभुः आत्मा । नापि रथादि कृतवतः तत्फलेन संयोगं न कर्मफलसंयोगम् । यदि किञ्चिदपि स्वतः न करोति न कारयति च देही, कः तर्हि कुर्वन् कारयंश्च प्रवर्तते इति, उच्यते — स्वभावस्तु स्वो भावः स्वभावः अविद्यालक्षणा प्रकृतिः माया प्रवर्तते ‘दैवी हि’(भ. गी. ७ । १४) इत्यादिना वक्ष्यमाणा ॥ १४ ॥

परमार्थतस्तु —

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५ ॥

१५

न आदत्ते न च गृह्णाति भक्तस्यापि कस्यचित् पापम् । न चैव आदत्ते सुकृतं भक्तैः प्रयुक्तं विभुः । किमर्थं तर्हि भक्तैः पूजादिलक्षणं यागदानहोमादिकं च सुकृतं प्रयुज्यते इत्याह — अज्ञानेन आवृतं ज्ञानं विवेकविज्ञानम् , तेन मुह्यन्ति ‘करोमि कारयामि भोक्ष्ये भोजयामि’ इत्येवं मोहं गच्छन्ति अविवेकिनः संसारिणो जन्तवः ॥ १५ ॥

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषा­मा­दि­त्य­व­ज्ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥

१६

ज्ञानेन तु येन अज्ञानेन आवृताः मुह्यन्ति जन्तवः तत् अज्ञानं येषां जन्तूनां विवेकज्ञानेन आत्मविषयेण नाशितम् आत्मनः भवति, तेषां जन्तूनाम् आदित्यवत् यथा आदित्यः समस्तं रूपजातम् अवभासयति तद्वत् ज्ञानं ज्ञेयं वस्तु सर्वं प्रकाशयति तत् परं परमार्थतत्त्वम् ॥ १६ ॥

यत् परं ज्ञानं प्रकाशितम् —

तद्बु­द्ध­य­स्त­दा­त्मा­न­स्त­न्नि­ष्ठा­स्त­त्प­रा­यणाः ।
गच्छ­न्त्य­पु­न­रा­वृत्तिं ज्ञान­नि­र्धू­त­क­ल्मषाः ॥ १७ ॥

१७

तस्मिन् ब्रह्मणि गता बुद्धिः येषां ते तद्बुद्धयः, तदात्मानः तदेव परं ब्रह्म आत्मा येषां ते तदात्मानः, तन्निष्ठाः निष्ठा अभिनिवेशः तात्पर्यं सर्वाणि कर्माणि संन्यस्य तस्मिन् ब्रह्मण्येव अवस्थानं येषां ते तन्निष्ठाः, तत्परायणाश्च तदेव परम् अयनं परा गतिः येषां भवति ते तत्परायणाः केवलात्मरतय इत्यर्थः । येषां ज्ञानेन नाशितम् आत्मनः अज्ञानं ते गच्छन्ति एवंविधाः अपुनरावृत्तिम् अपु­न­र्दे­ह­स­म्बन्धं ज्ञान­नि­र्धू­त­क­ल्मषाः यथोक्तेन ज्ञानेन निर्धूतः नाशितः कल्मषः पापा­दि­सं­सा­र­का­र­ण­दोषः येषां ते ज्ञान­नि­र्धू­त­क­ल्मषाः यतयः इत्यर्थः ॥ १७ ॥

येषां ज्ञानेन नाशितम् आत्मनः अज्ञानं ते पण्डिताः कथं तत्त्वं पश्यन्ति इत्युच्यते —

विद्या­वि­न­य­स­म्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १८ ॥

१८

विद्या­वि­न­य­स­म्पन्ने विद्या च विनयश्च विद्याविनयौ, विनयः उपशमः, ताभ्यां विद्या­वि­न­याभ्यां सम्पन्नः विद्या­वि­न­य­स­म्पन्नः विद्वान् विनीतश्च यो ब्राह्मणः तस्मिन् ब्राह्मणे गवि हस्तिनि शुनि चैव श्वपाके च पण्डिताः समदर्शिनः । विद्या­वि­न­य­स­म्पन्ने उत्तमसंस्कारवति ब्राह्मणे सात्त्विके, मध्यमायां च राजस्यां गवि, संस्कारहीनायां अत्यन्तमेव केवलतामसे हस्त्यादौ च, सत्त्वादिगुणैः तज्जैश्च संस्कारैः तथा राजसैः तथा तामसैश्च संस्कारैः अत्यन्तमेव अस्पृष्टं समम् एकम् अविक्रियं तत् ब्रह्म द्रष्टुं शीलं येषां ते पण्डिताः समदर्शिनः ॥ १८ ॥

ननु अभोज्यान्नाः ते दोषवन्तः, ‘समासमाभ्यां विषमसमे पूजातः’(गौ. ध. २ । ८ । २० ; १७ । १८) इति स्मृतेः । न ते दोषवन्तः । कथम् ? —

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥ १९ ॥

१९

इह एव जीवद्भिरेव तैः समदर्शिभिः पण्डितैः जितः वशीकृतः सर्गः जन्म, येषां साम्ये सर्वभूतेषु ब्रह्मणि समभावे स्थितं निश्चलीभूतं मनः अन्तःकरणम् । निर्दोषं यद्यपि दोषवत्सु श्वपाकादिषु मूढैः तद्दोषैः दोषवत् इव विभाव्यते, तथापि तद्दोषैः अस्पृष्टम् इति निर्दोषं दोषवर्जितं हि यस्मात् ; नापि स्वगु­ण­भे­द­भि­न्नम् , निर्गुणत्वात् चैतन्यस्य । वक्ष्यति च भगवान् इच्छादीनां क्षेत्र­ध­र्म­त्वम् , ‘अना­दि­त्वा­न्नि­र्गु­ण­त्वात्’(भ. गी. १३ । ३१) इति च । नापि अन्त्या विशेषाः आत्मनो भेदकाः सन्ति, प्रतिशरीरं तेषां सत्त्वे प्रमा­णा­नु­प­पत्तेः । अतः समं ब्रह्म एकं च । तस्मात् ब्रह्मणि एव ते स्थिताः । तस्मात् न दोषगन्धमात्रमपि तान् स्पृशति, देहा­दि­स­ङ्घा­ता­त्म­द­र्श­ना­भि­मा­ना­भा­वात् तेषाम् । देहा­दि­स­ङ्घा­ता­त्म­द­र्श­ना­भि­मा­न­व­द्वि­षयं तु तत् सूत्रम् ‘समासमाभ्यां विषमसमे पूजातः’(गौ. ध. २ । ८ । २०) इति, पूजाविषयत्वेन विशेषणात् । दृश्यते हि ब्रह्मवित् षडङ्गवित् चतुर्वेदवित् इति पूजादानादौ गुण­वि­शे­ष­स­म्बन्धः कारणम् । ब्रह्म तु सर्व­गु­ण­दो­ष­स­म्ब­न्ध­व­र्जि­त­मि­त्यतः ‘ब्रह्मणि ते स्थिताः’ इति युक्तम् । कर्मविषयं च ‘समासमाभ्याम्’(गौ. ध. २ । ८ । २०) इत्यादि । इदं तु सर्व­क­र्म­सं­न्या­स­वि­षयं प्रस्तुतम् , ‘सर्वकर्माणि मनसा’(भ. गी. ५ । १३) इत्यारभ्य अध्या­य­प­रि­स­माप्तेः ॥ १९ ॥

यस्मात् निर्दोषं समं ब्रह्म आत्मा, तस्मात् —

न प्रहृ­ष्ये­त्प्रियं प्राप्य नोद्वि­जे­त्प्राप्य चाप्रियम् ।
स्थिर­बु­द्धि­र­सं­मूढो ब्रह्म­वि­द्ब्र­ह्मणि स्थितः ॥ २० ॥

२०

न प्रहृष्येत् प्रहर्षं न कुर्यात् प्रियम् इष्टं प्राप्य लब्ध्वा । न उद्विजेत् प्राप्य च अप्रियम् अनिष्टं लब्ध्वा । देह­मा­त्रा­त्म­द­र्शिनां हि प्रिया­प्रि­य­प्राप्ती हर्षविषादौ कुर्वाते, न केव­ला­त्म­द­र्शिनः, तस्य प्रिया­प्रि­य­प्रा­प्त्य­स­म्भ­वात् । किञ्च — ‘सर्वभूतेषु एकः समः निर्दोषः आत्मा’ इति स्थिरा निर्विचिकित्सा बुद्धिः यस्य सः स्थिरबुद्धिः असंमूढः संमोहवर्जितश्च स्यात् यथो­क्त­ब्र­ह्म­वित् ब्रह्मणि स्थितः, अकर्मकृत् सर्व­क­र्म­सं­न्यासी इत्यर्थः ॥ २० ॥

किञ्च, ब्रह्मणि स्थितः —

बाह्य­स्प­र्शे­ष्व­स­क्तात्मा
विन्दत्यात्मनि यत्सुखम् ।
स ब्रह्म­यो­ग­यु­क्तात्मा
सुखमक्षयमश्नुते ॥ २१ ॥

२१

बाह्यस्पर्शेषु बाह्याश्च ते स्पर्शाश्च बाह्यस्पर्शाः स्पृश्यन्ते इति स्पर्शाः शब्दादयो विषयाः तेषु बाह्यस्पर्शेषु, असक्तः आत्मा अन्तःकरणं यस्य सः अयम् असक्तात्मा विषयेषु प्रीतिवर्जितः सन् विन्दति लभते आत्मनि यत् सुखं तत् विन्दति इत्येतत् । स ब्रह्म­यो­ग­यु­क्तात्मा ब्रह्मणि योगः समाधिः ब्रह्मयोगः तेन ब्रह्मयोगेन युक्तः समाहितः तस्मिन् व्यापृतः आत्मा अन्तःकरणं यस्य सः ब्रह्म­यो­ग­यु­क्तात्मा, सुखम् अक्षयम् अश्नुते व्याप्नोति । तस्मात् बाह्य­वि­ष­य­प्रीतेः क्षणिकायाः इन्द्रियाणि निवर्तयेत् आत्मनि अक्षयसुखार्थी इत्यर्थः ॥ २१ ॥

इतश्च निवर्तयेत् —

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ २२ ॥

२२

ये हि यस्मात् संस्पर्शजाः विष­ये­न्द्रि­य­सं­स्प­र्शेभ्यो जाताः भोगा भुक्तयः दुःखयोनय एव ते, अवि­द्या­कृ­त­त्वात् । दृश्यन्ते हि आध्यात्मिकादीनि दुःखानि तन्नि­मि­त्ता­न्येव । यथा इहलोके तथा परलोकेऽपि इति गम्यते एवशब्दात् । न संसारे सुखस्य गन्धमात्रमपि अस्ति इति बुद्ध्वा विष­य­मृ­ग­तृ­ष्णि­काया इन्द्रियाणि निवर्तयेत् । न केवलं दुःखयोनय एव, आद्यन्तवन्तश्च, आदिः विष­ये­न्द्रि­य­सं­योगो भोगानाम् अन्तश्च तद्वियोग एव ; अतः आद्यन्तवन्तः अनित्याः, मध्य­क्ष­ण­भा­वि­त्वात् इत्यर्थः । कौन्तेय, न तेषु भोगेषु रमते बुधः विवेकी अव­ग­त­प­र­मा­र्थ­तत्त्वः ; अत्य­न्त­मू­ढा­ना­मेव हि विषयेषु रतिः दृश्यते, यथा पशुप्रभृतीनाम् ॥ २२ ॥

अयं च श्रेयो­मा­र्ग­प्र­ति­पक्षी कष्टतमो दोषः सर्वा­न­र्थ­प्रा­प्ति­हेतुः दुर्निवारश्च इति तत्परिहारे यत्नाधिक्यं कर्तव्यम् इत्याह भगवान् —

शक्नोतीहैव यः सोढुं प्राक्छ­री­र­वि­मो­क्ष­णात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ २३ ॥

२३

शक्नोति उत्सहते इहैव जीवन्नेव यः सोढुं प्रसहितुं प्राक् पूर्वं शरीरविमोक्षणात् आ मरणात् इत्यर्थः । मरणसीमाकरणं जीव­तोऽ­व­श्य­म्भावि हि कामक्रोधोद्भवो वेगः, अन­न्त­नि­मि­त्त­वान् हि सः इति यावत् मरणं तावत् न विस्रम्भणीय इत्यर्थः । कामः इन्द्रि­य­गो­च­र­प्राप्ते इष्टे विषये श्रूयमाणे स्मर्यमाणे वा अनुभूते सुखहेतौ या गर्धिः तृष्णा स कामः ; क्रोधश्च आत्मनः प्रतिकूलेषु दुःखहेतुषु दृश्यमानेषु श्रूयमाणेषु स्मर्यमाणेषु वा यो द्वेषः सः क्रोधः ; तौ कामक्रोधौ उद्भवो यस्य वेगस्य सः कामक्रोधोद्भवः वेगः । रोमा­ञ्च­न­प्र­हृ­ष्ट­ने­त्र­व­द­ना­दि­लिङ्गः अन्तः­क­र­ण­प्र­क्षो­भ­रूपः कामोद्भवो वेगः, गात्र­प्र­क­म्प­प्र­स्वे­द­स­न्द­ष्टो­ष्ठ­पु­ट­र­क्त­ने­त्रा­दि­लिङ्गः क्रोधोद्भवो वेगः, तं कामक्रोधोद्भवं वेगं यः उत्सहते प्रसहते सोढुं प्रसहितुम् , सः युक्तः योगी सुखी च इह लोके नरः ॥ २३ ॥

कथम्भूतश्च ब्रह्मणि स्थितः ब्रह्म प्राप्नोति इति आह भगवान् —

योऽन्तः­सु­खोऽ­न्त­रा­रा­म­स्त­था­न्त­र्ज्यो­ति­रेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्म­भू­तोऽ­धि­ग­च्छति ॥ २४ ॥

२४

यः अन्तःसुखः अन्तः आत्मनि सुखं यस्य सः अन्तःसुखः, तथा अन्तरेव आत्मनि आरामः आरमणं क्रीडा यस्य सः अन्तरारामः, तथा एव अन्तः एव आत्मन्येव ज्योतिः प्रकाशो यस्य सः अन्त­र्ज्यो­ति­रेव, यः ईदृशः सः योगी ब्रह्मनिर्वाणं ब्रह्मणि निर्वृतिं मोक्षम् इह जीवन्नेव ब्रह्मभूतः सन् अधिगच्छति प्राप्नोति ॥ २४ ॥

किञ्च —

लभन्ते ब्रह्म­नि­र्वा­ण­मृ­षयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥

२५

लभन्ते ब्रह्मनिर्वाणं मोक्षम् ऋषयः सम्यग्दर्शिनः संन्यासिनः क्षीणकल्मषाः क्षीणपापाः निर्दोषाः छिन्नद्वैधाः छिन्नसंशयाः यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः सर्वेषां भूतानां हिते आनुकूल्ये रताः अहिंसका इत्यर्थः ॥ २५ ॥

किञ्च —

काम­क्रो­ध­वि­यु­क्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥

२६

काम­क्रो­ध­वि­यु­क्तानां कामश्च क्रोधश्च कामक्रोधौ ताभ्यां वियुक्तानां यतीनां संन्यासिनां यतचेतसां संय­ता­न्तः­क­र­णा­नाम् अभितः उभयतः जीवतां मृतानां च ब्रह्मनिर्वाणं मोक्षो वर्तते विदितात्मनां विदितः ज्ञातः आत्मा येषां ते विदितात्मानः तेषां विदितात्मनां सम्य­ग्द­र्शि­ना­मि­त्यर्थः ॥ २६ ॥

सम्य­ग्द­र्श­न­नि­ष्ठानां संन्यासिनां सद्यः मुक्तिः उक्ता । कर्मयोगश्च ईश्व­रा­र्पि­त­स­र्व­भा­वेन ईश्वरे ब्रह्मणि आधाय क्रियमाणः सत्त्व­शु­द्धि­ज्ञा­न­प्रा­प्ति­स­र्व­क­र्म­सं­न्या­स­क्र­मेण मोक्षाय इति भगवान् पदे पदे अब्रवीत् , वक्ष्यति च । अथ इदानीं ध्यानयोगं सम्यग्दर्शनस्य अन्तरङ्गं विस्तरेण वक्ष्यामि इति तस्य सूत्रस्थानीयान् श्लोकान् उपदिशति स्म —

स्पर्शान्कृत्वा बहि­र्बा­ह्यां­श्च­क्षु­श्चै­वा­न्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासा­भ्य­न्त­र­चा­रिणौ ॥ २७ ॥

२७

यते­न्द्रि­य­म­नो­बु­द्धि­र्मु­नि­र्मो­क्ष­प­रा­यणः ।
विग­ते­च्छा­भ­य­क्रोधो यः सदा मुक्त एव सः ॥ २८ ॥

२८

स्पर्शान् शब्दादीन् कृत्वा बहिः बाह्यान् — श्रोत्रा­दि­द्वा­रेण अन्तः बुद्धौ प्रवेशिताः शब्दादयः विषयाः तान् अचिन्तयतः शब्दादयो बाह्या बहिरेव कृताः भवन्ति — तान् एवं बहिः कृत्वा चक्षुश्चैव अन्तरे भ्रुवोः ‘कृत्वा’ इति अनुषज्यते । तथा प्राणापानौ नासा­भ्य­न्त­र­चा­रिणौ समौ कृत्वा, यते­न्द्रि­य­म­नो­बुद्धिः यतानि संयतानि इन्द्रियाणि मनः बुद्धिश्च यस्य सः यते­न्द्रि­य­म­नो­बुद्धिः, मननात् मुनिः संन्यासी, मोक्षपरायणः एवं देहसंस्थानात् मोक्षपरायणः मोक्ष एव परम् अयनं परा गतिः यस्य सः अयं मोक्षपरायणो मुनिः भवेत् । विग­ते­च्छा­भ­य­क्रोधः इच्छा च भयं च क्रोधश्च इच्छाभयक्रोधाः ते विगताः यस्मात् सः विग­ते­च्छा­भ­य­क्रोधः, यः एवं वर्तते सदा संन्यासी, मुक्त एव सः न तस्य मोक्षायान्यः कर्तव्योऽस्ति ॥ २८ ॥

एवं समाहितचित्तेन किं विज्ञेयम् इति, उच्यते —

भोक्तारं यज्ञतपसां सर्व­लो­क­म­हे­श्व­रम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ २९ ॥

२९

भोक्तारं यज्ञतपसां यज्ञानां तपसां च कर्तृरूपेण देवतारूपेण च, सर्वलोकमहेश्वरं सर्वेषां लोकानां महान्तम् ईश्वरं सुहृदं सर्वभूतानां सर्वप्राणिनां प्रत्यु­प­का­र­नि­र­पे­क्ष­तया उपकारिणं सर्वभूतानां हृदयेशयं सर्व­क­र्म­फ­ला­ध्यक्षं सर्व­प्र­त्य­य­सा­क्षिणं मां नारायणं ज्ञात्वा शान्तिं सर्व­सं­सा­रो­प­र­तिम् ऋच्छति प्राप्नोति ॥ २९ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज­य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ श्रीम­द्भ­ग­व­द्गी­ता­भाष्ये पञ्चमोऽध्यायः ॥