अद्वैतशारदा

श्रीमद्भगवद्गीताभाष्यम्

षष्ठोऽध्यायः

व्याख्याः

अती­ता­न­न्त­रा­ध्या­यान्ते ध्यानयोगस्य सम्यग्दर्शनं प्रति अन्तरङ्गस्य सूत्रभूताः श्लोकाः ‘स्पर्शान् कृत्वा बहिः’(भ. गी. ५ । २७) इत्यादयः उपदिष्टाः । तेषां वृत्तिस्थानीयः अयं षष्ठोऽध्यायः आरभ्यते । तत्र ध्यानयोगस्य बहिरङ्गं कर्म इति, यावत् ध्यान­यो­गा­रो­ह­ण­स­मर्थः तावत् गृहस्थेन अधिकृतेन कर्तव्यं कर्म इत्यतः तत् स्तौति — अनाश्रित इति ॥

ननु किमर्थं ध्यान­यो­गा­रो­ह­ण­सी­मा­क­र­णम् , यावता अनुष्ठेयमेव विहितं कर्म यावज्जीवम् । न, ‘आरु­रु­क्षो­र्मु­ने­र्योगं कर्म कारणमुच्यते’(भ. गी. ६ । ३) इति विशेषणात् , आरूढस्य च शमेनैव सम्बन्धकरणात् । आरुरुक्षोः आरूढस्य च शमः कर्म च उभयं कर्तव्यत्वेन अभिप्रेतं चेत्स्यात् , तदा ‘आरुरुक्षोः’ ‘आरूढस्य च’ इति शमकर्मविषयभेदेन विशेषणं विभागकरणं च अनर्थकं स्यात् ॥

तत्र आश्रमिणां कश्चित् योगमारुरुक्षुः भवति, आरूढश्च कश्चित् , अन्ये न आरुरुक्षवः न च आरूढाः ; तानपेक्ष्य ‘आरुरुक्षोः’ ‘आरूढस्य च’ इति विशेषणं विभागकरणं च उपपद्यत एवेति चेत् , न ; ‘तस्यैव’ इति वचनात् , पुनः योगग्रहणाच्च ‘योगारूढस्य’ इति ; य आसीत् पूर्वं योगमारुरुक्षुः, तस्यैव आरूढस्य शम एव कर्तव्यः कारणं योगफलं प्रति उच्यते इति । अतो न यावज्जीवं कर्त­व्य­त्व­प्राप्तिः कस्यचिदपि कर्मणः । योग­वि­भ्र­ष्ट­व­च­नाच्च — गृहस्थस्य चेत् कर्मिणो योगो विहितः षष्ठे अध्याये, सः योगविभ्रष्टोऽपि कर्मगतिं कर्मफलं प्राप्नोति इति तस्य नाशाशङ्का अनुपपन्ना स्यात् । अवश्यं हि कृतं कर्म काम्यं नित्यं वा — मोक्षस्य नित्यत्वात् अनारभ्यत्वे — स्वं फलं आरभत एव । नित्यस्य च कर्मणः वेद­प्र­मा­णा­व­बु­द्ध­त्वात् फलेन भवितव्यम् इति अवोचाम, अन्यथा वेदस्य आन­र्थ­क्य­प्र­स­ङ्गात् इति । न च कर्मणि सति उभ­य­वि­भ्र­ष्ट­व­च­नम् , अर्थवत् कर्मणो विभ्रं­श­का­र­णा­नु­प­पत्तेः ॥

कर्म कृतम् ईश्वरे संन्यस्य इत्यतः कर्तुः कर्म फलं नारभत इति चेत् , न ; ईश्वरे संन्यासस्य अधि­क­त­र­फ­ल­हे­तु­त्वो­प­पत्तेः ॥

मोक्षायैव इति चेत् , स्वकर्मणां कृतानां ईश्वरे संन्यासो मोक्षायैव, न फलान्तराय योगसहितः ; योगाच्च विभ्रष्टः ; इत्यतः तं प्रति नाशाशङ्का युक्तैव इति चेत् , न ; ‘एकाकी यतचित्तात्मा निरा­शी­र­प­रि­ग्रहः’(भ. गी. ६ । १०) ‘ब्रह्म­चा­रि­व्रते स्थितः’(भ. गी. ६ । १४) इति कर्म­सं­न्या­स­वि­धा­नात् । न च अत्र ध्यानकाले स्त्रीस­हा­य­त्वा­शङ्का, येन एकाकित्वं विधीयते । न च गृहस्थस्य ‘निरा­शी­र­प­रि­ग्रहः’ इत्यादिवचनम् अनुकूलम् । उभ­य­वि­भ्र­ष्ट­प्र­श्ना­नु­प­प­त्तेश्च ॥

अनाश्रित इत्यनेन कर्मिण एव संन्यासित्वं योगित्वं च उक्तम् , प्रतिषिद्धं च निरग्नेः अक्रियस्य च संन्यासित्वं योगित्वं चेति चेत् , न ; ध्यानयोगं प्रति बहिरङ्गस्य यतः कर्मणः फला­का­ङ्क्षा­सं­न्या­स­स्तु­ति­प­र­त्वात् । न केवलं निरग्निः अक्रियः एव संन्यासी योगी च । किं तर्हि ? कर्म्यपि, कर्मफलासङ्गं संन्यस्य कर्मयोगम् अनुतिष्ठन् सत्त्व­शु­द्ध्य­र्थम् , ‘स संन्यासी च योगी च भवति’ इति स्तूयते । न च एकेन वाक्येन कर्म­फ­ला­स­ङ्ग­सं­न्या­स­स्तुतिः चतु­र्था­श्र­म­प्र­ति­षे­धश्च उपपद्यते । न च प्रसिद्धं निरग्नेः अक्रियस्य पर­मा­र्थ­सं­न्या­सिनः श्रुति­स्मृ­ति­पु­रा­णे­ति­हा­स­यो­ग­शा­स्त्रेषु विहितं संन्यासित्वं योगित्वं च प्रतिषेधति भगवान् । स्ववचनविरोधाच्च — ‘सर्वकर्माणि मनसा संन्सस्य . . . नैव कुर्वन्न कारयन् आस्ते’(भ. गी. ५ । १३) ‘मौनी सन्तुष्टो येन केनचित् अनिकेतः स्थिरमतिः’(भ. गी. १२ । १९) ‘विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः’(भ. गी. २ । ७१) ‘सर्वा­र­म्भ­प­रि­त्यागी’(भ. गी. १२ । १६) इति च तत्र तत्र भगवता स्ववचनानि दर्शितानि ; तैः विरुध्येत चतु­र्था­श्र­म­प्र­ति­षेधः । तस्मात् मुनेः योगम् आरुरुक्षोः प्रति­प­न्न­गा­र्ह­स्थ्यस्य अग्नि­हो­त्रा­दि­कर्म फलनिरपेक्षम् अनुष्ठीयमानं ध्यान­यो­गा­रो­ह­ण­सा­ध­नत्वं सत्त्व­शु­द्धि­द्वा­रेण प्रतिपद्यते इति ‘स संन्यासी च योगी च’ इति स्तूयते ॥

श्रीभगवानुवाच —

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ १ ॥

अनाश्रितः न आश्रितः अनाश्रितः । किम् ? कर्मफलं कर्मणां फलं कर्मफलं यत् तदनाश्रितः, कर्म­फ­ल­तृ­ष्णा­र­हित इत्यर्थः । यो हि कर्मफले तृष्णावान् सः कर्मफलमाश्रितो भवति, अयं तु तद्विपरीतः, अतः अनाश्रितः कर्मफलम् । एवंभूतः सन् कार्यं कर्तव्यं नित्यं काम्यविपरीतम् अग्निहोत्रादिकं कर्म करोति निर्वर्तयति यः कश्चित् ईदृशः कर्मी स कर्म्यन्तरेभ्यो विशिष्यते इत्येवमर्थमाह — ‘स संन्यासी च योगी च’ इति । संन्यासः परित्यागः स यस्यास्ति स संन्यासी च, योगी च योगः चित्तसमाधानं स यस्यास्ति स योगी च इति एवंगुणसम्पन्नः अयं मन्तव्यः’ न केवलं निरग्निः अक्रिय एव संन्यासी योगी च इति मन्तव्यः । निर्गताः अग्नयः कर्माङ्गभूताः यस्मात् स निरग्निः, अक्रियश्च अनग्निसाधना अपि अविद्यमानाः क्रियाः तपोदानादिकाः यस्य असौ अक्रियः ॥ १ ॥

ननु च निरग्नेः अक्रियस्यैव श्रुति­स्मृ­ति­यो­ग­शा­स्त्रेषु संन्यासित्वं योगित्वं च प्रसिद्धम् । कथम् इह साग्नेः सक्रियस्य च संन्यासित्वं योगित्वं च अप्र­सि­द्ध­मु­च्यते इति । नैष दोषः, कयाचित् गुणवृत्त्या उभयस्य सम्पि­पा­द­यि­षि­त­त्वात् । तत् कथम् ? कर्म­फ­ल­स­ङ्क­ल्प­सं­न्या­सात् संन्यासित्वम् , योगाङ्गत्वेन च कर्मानुष्ठानात् कर्म­फ­ल­स­ङ्क­ल्पस्य च चित्त­वि­क्षे­प­हेतोः परित्यागात् योगित्वं च इति गौणमुभयम् ; न पुनः मुख्यं संन्यासित्वं योगित्वं च अभि­प्रे­त­मि­त्ये­त­मर्थं दर्शयितुमाह —

यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
न ह्यसं­न्य­स्त­स­ङ्कल्पो योगी भवति कश्चन ॥ २ ॥

यं सर्व­क­र्म­त­त्फ­ल­प­रि­त्या­ग­ल­क्षणं परमार्थसंन्यासं संन्यासम् इति प्राहुः श्रुति­स्मृ­ति­विदः, योगं कर्मा­नु­ष्ठा­न­ल­क्षणं तं परमार्थसंन्यासं विद्धि जानीहि हे पाण्डव । कर्मयोगस्य प्रवृ­त्ति­ल­क्ष­णस्य तद्विपरीतेन निवृत्तिलक्षणेन पर­मा­र्थ­सं­न्या­सेन कीदृशं सामा­न्य­म­ङ्गी­कृत्य तद्भाव उच्यते इत्यपेक्षायाम् इदमुच्यते — अस्ति हि पर­मा­र्थ­सं­न्या­सेन सादृश्यं कर्तृद्वारकं कर्मयोगस्य । यो हि परमार्थसंन्यासी स त्यक्त­स­र्व­क­र्म­सा­ध­न­तया सर्व­क­र्म­त­त्फ­ल­वि­षयं सङ्कल्पं प्रवृ­त्ति­हे­तु­का­म­का­रणं संन्यस्यति । अयमपि कर्मयोगी कर्म कुर्वाण एव फलविषयं सङ्कल्पं संन्यस्यति इत्येतमर्थं दर्शयिष्यन् आह — न हि यस्मात् असं­न्य­स्त­स­ङ्कल्पः असंन्यस्तः अपरित्यक्तः फलविषयः सङ्कल्पः अभिसन्धिः येन सः असं­न्य­स्त­स­ङ्कल्पः कश्चन कश्चिदपि कर्मी योगी समाधानवान् भवति न सम्भवतीत्यर्थः, फलसङ्कल्पस्य चित्त­वि­क्षे­प­हे­तु­त्वात् । तस्मात् यः कश्चन कर्मी संन्य­स्त­फ­ल­स­ङ्कल्पो भवेत् स योगी समाधानवान् अवि­क्षि­प्त­चित्तो भवेत् , चित्त­वि­क्षे­प­हेतोः फलसङ्कल्पस्य संन्य­स्त­त्वा­दि­त्य­भि­प्रायः ॥ २ ॥

एवं पर­मा­र्थ­सं­न्या­स­क­र्म­यो­गयोः कर्तृद्वारकं संन्या­स­सा­मा­न्य­म­पेक्ष्य ‘यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव’ इति कर्मयोगस्य स्तुत्यर्थं संन्यासत्वम् उक्तम् । ध्यानयोगस्य फलनिरपेक्षः कर्मयोगो बहिरङ्गं साधनमिति तं संन्यासत्वेन स्तुत्वा अधुना कर्मयोगस्य ध्यान­यो­ग­सा­ध­नत्वं दर्शयति —

आरु­रु­क्षो­र्मु­ने­र्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ३ ॥

आरुरुक्षोः आरोढुमिच्छतः, अनारूढस्य, ध्यानयोगे अव­स्था­तु­म­श­क्त­स्यै­वे­त्यर्थः । कस्य तस्य आरुरुक्षोः ? मुनेः, कर्मफलसंन्यासिन इत्यर्थः । किमारुरुक्षोः ? योगम् । कर्म कारणं साधनम् उच्यते । योगारूढस्य पुनः तस्यैव शमः उपशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढस्य साधनम् उच्यते इत्यर्थः । यावद्यावत् कर्मभ्यः उपरमते, तावत्तावत् निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते । तथा सति स झटिति योगारूढो भवति । तथा चोक्तं व्यासेन — ‘नैतादृशं ब्राह्म­ण­स्यास्ति वित्तं यथैकता समता सत्यता च । शीलं स्थिति­र्द­ण्ड­नि­धा­न­मा­र्जवं ततस्ततश्चोपरमः क्रियाभ्यः’(मो. ध. १७५ । ३७) इति ॥ ३ ॥

अथेदानीं कदा योगारूढो भवति इत्युच्यते —

यदा हि नेन्द्रि­या­र्थेषु न कर्मस्वनुषज्जते ।
सर्व­स­ङ्क­ल्प­सं­न्यासी योगा­रू­ढ­स्त­दो­च्यते ॥ ४ ॥

यदा समाधीयमानचित्तो योगी हि इन्द्रियार्थेषु इन्द्रि­या­णा­मर्थाः शब्दादयः तेषु इन्द्रियार्थेषु कर्मसु च नित्य­नै­मि­त्ति­क­का­म्य­प्र­ति­षि­द्धेषु प्रयो­ज­ना­भा­व­बुद्ध्या न अनुषज्जते अनुषङ्गं कर्त­व्य­ता­बुद्धिं न करोतीत्यर्थः । सर्व­स­ङ्क­ल्प­सं­न्यासी सर्वान् सङ्कल्पान् इहा­मु­त्रा­र्थ­का­म­हे­तून् संन्यसितुं शीलम् अस्य इति सर्व­स­ङ्क­ल्प­सं­न्यासी, योगारूढः प्राप्तयोग इत्येतत् , तदा तस्मिन् काले उच्यते । ‘सर्व­स­ङ्क­ल्प­सं­न्यासी’ इति वचनात् सर्वांश्च कामान् सर्वाणि च कर्माणि संन्य­स्ये­दि­त्यर्थः । सङ्कल्पमूला हि सर्वे कामाः — ‘सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः । ’(मनु. २ । ३) ‘काम जानामि ते मूलं सङ्कल्पात्किल जायसे । न त्वां सङ्कल्पयिष्यामि तेन मे न भविष्यसि’(मो. ध. १७७ । २५) इत्यादिस्मृतेः । सर्व­का­म­प­रि­त्यागे च सर्व­क­र्म­सं­न्यासः सिद्धो भवति, ‘स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते’(बृ. उ. ४ । ४ । ५) इत्या­दि­श्रु­तिभ्यः ; ‘यद्यद्धि कुरुते जन्तुः तत्तत् कामस्य चेष्टितम्’(मनु. २ । ४) इत्या­दि­स्मृ­ति­भ्यश्च ; न्यायाच्च — न हि सर्व­स­ङ्क­ल्प­सं­न्यासे कश्चित् स्पन्दितुमपि शक्तः । तस्मात् ‘सर्व­स­ङ्क­ल्प­सं­न्यासी’ इति वचनात् सर्वान् कामान् सर्वाणि कर्माणि च त्याजयति भगवान् ॥ ४ ॥

यदा एवं योगारूढः, तदा तेन आत्मा उद्धृतो भवति संसा­रा­द­न­र्थ­जा­तात् । अतः —

उद्ध­रे­दा­त्म­ना­त्मानं नात्मा­न­म­व­सा­द­येत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ५ ॥

उद्धरेत् संसारसागरे निमग्नम् आत्मना आत्मानं ततः उत् ऊर्ध्वं हरेत् उद्धरेत् , योगा­रू­ढ­ता­मा­पा­द­ये­दि­त्यर्थः । न आत्मानम् अवसादयेत् न अधः नयेत् , न अधः गमयेत् । आत्मैव हि यस्मात् आत्मनः बन्धुः । न हि अन्यः कश्चित् बन्धुः, यः संसारमुक्तये भवति । बन्धुरपि तावत् मोक्षं प्रति प्रतिकूल एव, स्नेहा­दि­ब­न्ध­ना­य­त­न­त्वात् । तस्मात् युक्तमवधारणम् ‘आत्मैव ह्यात्मनो बन्धुः’ इति । आत्मैव रिपुः शत्रुः । यः अन्यः अपकारी बाह्यः शत्रुः सोऽपि आत्मप्रयुक्त एवेति युक्तमेव अवधारणम् ‘आत्मैव रिपुरात्मनः’ इति ॥ ५ ॥

आत्मैव बन्धुः आत्मैव रिपुः आत्मनः इत्युक्तम् । तत्र किंलक्षण आत्मा आत्मनो बन्धुः, किंलक्षणो वा आत्मा आत्मनो रिपुः इत्युच्यते —

बन्धु­रा­त्मा­त्म­न­स्तस्य येनात्मैवात्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६ ॥

बन्धुः आत्मा आत्मनः तस्य, तस्य आत्मनः स आत्मा बन्धुः येन आत्मना आत्मैव जितः, आत्मा कार्यकरणसङ्घातो येन वशीकृतः, जितेन्द्रिय इत्यर्थः । अनात्मनस्तु अजितात्मनस्तु शत्रुत्वे शत्रुभावे वर्तेत आत्मैव शत्रुवत् , यथा अनात्मा शत्रुः आत्मनः अपकारी, तथा आत्मा आत्मन अपकारे वर्तेत इत्यर्थः ॥ ६ ॥

जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीतो­ष्ण­सु­ख­दुः­खेषु तथा मानापमानयोः ॥ ७ ॥

जितात्मनः कार्यकरणसङ्घात आत्मा जितो येन सः जितात्मा तस्य जितात्मनः, प्रशान्तस्य प्रस­न्ना­न्तः­क­र­णस्य सतः संन्यासिनः परमात्मा समाहितः साक्षा­दा­त्म­भा­वेन वर्तते इत्यर्थः । किञ्च शीतो­ष्ण­सु­ख­दुः­खेषु तथा माने अपमाने च मानापमानयोः पूजापरिभवयोः समः स्यात् ॥ ७ ॥

ज्ञान­वि­ज्ञा­न­तृ­प्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी सम­लो­ष्टा­श्म­का­ञ्चनः ॥ ८ ॥

ज्ञान­वि­ज्ञा­न­तृ­प्तात्मा ज्ञानं शास्त्रो­क्त­प­दा­र्थानां परिज्ञानम् , विज्ञानं तु शास्त्रतो ज्ञातानां तथैव स्वानुभवकरणम् , ताभ्यां ज्ञान­वि­ज्ञा­नाभ्यां तृप्तः सञ्जा­ता­लं­प्र­त्ययः आत्मा अन्तःकरणं यस्य सः ज्ञान­वि­ज्ञा­न­तृ­प्तात्मा, कूटस्थः अप्रकम्प्यः, भवति इत्यर्थः ; विजि­ते­न्द्रि­यश्च । य ईदृशः, युक्तः समाहितः इति स उच्यते कथ्यते । स योगी सम­लो­ष्टा­श्म­का­ञ्चनः लोष्टा­श्म­का­ञ्च­नानि समानि यस्य सः सम­लो­ष्टा­श्म­का­ञ्चनः ॥ ८ ॥

किञ्च —

सुहृ­न्मि­त्रा­र्यु­दा­सी­न­म­ध्य­स्थ­द्वे­ष्य­ब­न्धुषु ।
साधुष्वपि च पापेषु सम­बु­द्धि­र्वि­शि­ष्यते ॥ ९ ॥

‘सुहृत्’ इत्या­दि­श्लो­का­र्धम् एकं पदम् । सुहृत् इति प्रत्यु­प­का­र­म­न­पेक्ष्य उपकर्ता, मित्रं स्नेहवान् , अरिः शत्रुः, उदासीनः न कस्यचित् पक्षं भजते, मध्यस्थः यो विरुद्धयोः उभयोः हितैषी, द्वेष्यः आत्मनः अप्रियः, बन्धुः सम्बन्धी इत्येतेषु साधुषु शास्त्रा­नु­व­र्तिषु अपि च पापेषु प्रति­षि­द्ध­का­रिषु सर्वेषु एतेषु समबुद्धिः ‘कः किङ्कर्मा’ इत्य­व्या­पृ­त­बु­द्धि­रि­त्यर्थः । विशिष्यते, ‘विमुच्यते’ इति वा पाठान्तरम् । योगारूढानां सर्वेषाम् अयम् उत्तम इत्यर्थः ॥ ९ ॥

अत एव­मु­त्त­म­फ­ल­प्रा­प्तये —

योगी युञ्जीत सततमात्मानं रहसि स्थितः ।
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ १० ॥

१०

योगी ध्यायी युञ्जीत समादध्यात् सततं सर्वदा आत्मानम् अन्तःकरणं रहसि एकान्ते गिरिगुहादौ स्थितः सन् एकाकी असहायः । ‘रहसि स्थितः एकाकी च’ इति विशेषणात् संन्यासं कृत्वा इत्यर्थः । यतचित्तात्मा चित्तम् अन्तःकरणम् आत्मा देहश्च संयतौ यस्य सः यतचित्तात्मा, निराशीः वीततृष्णः अपरिग्रहः परि­ग्र­ह­र­हि­त­श्चे­त्यर्थः । संन्यासित्वेऽपि त्यक्त­स­र्व­प­रि­ग्रहः सन् युञ्जीत इत्यर्थः ॥ १० ॥

अथेदानीं योगं युञ्जतः आस­ना­हा­र­वि­हा­रा­दीनां योगसाधनत्वेन नियमो वक्तव्यः, प्राप्तयोगस्य लक्षणं तत्फलादि च, इत्यत आरभ्यते । तत्र आसनमेव तावत् प्रथममुच्यते —

शुचौ देशे प्रतिष्ठाप्य स्थिर­मा­स­न­मा­त्मनः ।
नात्युच्छ्रितं नातिनीचं चैला­जि­न­कु­शो­त्त­रम् ॥ ११ ॥

११

शुचौ शुद्धे विविक्ते स्वभावतः संस्कारतो वा, देशे स्थाने प्रतिष्ठाप्य स्थिरम् अचलम् आत्मनः आसनं नात्युच्छ्रितं नातीव उच्छ्रितं न अपि अतिनीचम् , तच्च चैला­जि­न­कु­शो­त्तरं चैलम् अजिनं कुशाश्च उत्तरे यस्मिन् आसने तत् आसनं चैला­जि­न­कु­शो­त्त­रम् । पाठ­क्र­मा­द्वि­प­रीतः अत्र क्रमः चैलादीनाम् ॥ ११ ॥

प्रतिष्ठाप्य, किम् ? —

तत्रैकाग्रं मनः कृत्वा यत­चि­त्ते­न्द्रि­य­क्रियः ।
उपविश्यासने युञ्ज्या­द्यो­ग­मा­त्म­वि­शु­द्धये ॥ १२ ॥

१२

तत्र तस्मिन् आसने उपविश्य योगं युञ्ज्यात् । कथम् ? सर्वविषयेभ्यः उपसंहृत्य एकाग्रं मनः कृत्वा यत­चि­त्ते­न्द्रि­य­क्रियः चित्तं च इन्द्रियाणि च चित्ते­न्द्रि­याणि तेषां क्रियाः संयता यस्य सः यत­चि­त्ते­न्द्रि­य­क्रियः । स किमर्थं योगं युञ्ज्यात् इत्याह — आत्मविशुद्धये अन्तःकरणस्य विशु­द्ध्य­र्थ­मि­त्ये­तत् ॥ १२ ॥

बाह्य­मा­स­न­मु­क्तम् ; अधुना शरीरधारणं कथम् इत्युच्यते —

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १३ ॥

१३

समं कायशिरोग्रीवं कायश्च शिरश्च ग्रीवा च कायशिरोग्रीवं तत् समं धारयन् अचलं च । समं धारयतः चलनं सम्भवति ; अतः विशिनष्टि — अचलमिति । स्थिरः स्थिरो भूत्वा इत्यर्थः । स्वं नासिकाग्रं सम्प्रेक्ष्य सम्यक् प्रेक्षणं दर्शनं कृत्वेव इति । इवशब्दो लुप्तो द्रष्टव्यः । न हि स्वना­सि­का­ग्र­स­म्प्रे­क्ष­ण­मिह विधित्सितम् । किं तर्हि ? चक्षुषो दृष्टिसंनिपातः । स च अन्तः­क­र­ण­स­मा­धा­ना­पेक्षो विवक्षितः । स्वना­सि­का­ग्र­स­म्प्रे­क्ष­ण­मेव चेत् विवक्षितम् , मनः तत्रैव समाधीयेत, नात्मनि । आत्मनि हि मनसः समाधानं वक्ष्यति ‘आत्मसंस्थं मनः कृत्वा’(भ. गी. ६ । २५) इति । तस्मात् इवशब्दलोपेन अक्ष्णोः दृष्टिसंनिपात एव ‘सम्प्रेक्ष्य’ इत्युच्यते । दिशश्च अनवलोकयन् दिशां च अव­लो­क­न­म­न्त­रा­कु­र्वन् इत्येतत् ॥ १३ ॥

किञ्च —

प्रशान्तात्मा विग­त­भी­र्ब्र­ह्म­चा­रि­व्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ १४ ॥

१४

प्रशान्तात्मा प्रकर्षेण शान्तः आत्मा अन्तःकरणं यस्य सोऽयं प्रशान्तात्मा, विगतभीः विगतभयः, ब्रह्मचारिव्रते स्थितः ब्रह्मचारिणो व्रतं ब्रह्मचर्यं गुरु­शु­श्रू­षा­भि­क्षा­न्न­भु­क्त्यादि तस्मिन् स्थितः, तदनुष्ठाता भवेदित्यर्थः । किञ्च, मनः संयम्य मनसः वृत्तीः उपसंहृत्य इत्येतत् , मच्चित्तः मयि परमेश्वरे चित्तं यस्य सोऽयं मच्चित्तः, युक्तः समाहितः सन् आसीत उपविशेत् । मत्परः अहं परो यस्य सोऽयं मत्परो भवति । कश्चित् रागी स्त्रीचित्तः, न तु स्त्रियमेव परत्वेन गृह्णाति ; किं तर्हि ? राजानं महादेवं वा । अयं तु मच्चित्तो मत्परश्च ॥ १४ ॥

अथेदानीं योगफलमुच्यते —

युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।
शान्तिं निर्वाणपरमां मत्सं­स्था­म­धि­ग­च्छति ॥ १५ ॥

१५

युञ्जन् समाधानं कुर्वन् एवं यतोक्तेन विधानेन सदा आत्मानं सर्वदा योगी नियतमानसः नियतं संयतं मानसं मनो यस्य सोऽयं नियतमानसः, शान्तिम् उपरतिं निर्वाणपरमां निर्वाणं मोक्षः तत् परमा निष्ठा यस्याः शान्तेः सा निर्वाणपरमा तां निर्वाणपरमाम् , मत्संस्थां मदधीनाम् अधिगच्छति प्राप्नोति ॥ १५ ॥

इदानीं योगिनः आहारादिनियम उच्यते —

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चाति­स्व­प्न­शी­लस्य जाग्रतो नैव चार्जुन ॥ १६ ॥

१६

न अत्यश्नतः आत्म­सं­मि­त­म­न्न­प­रि­मा­ण­म­ती­त्या­श्नतः अत्यश्नतः न योगः अस्ति । न च एकान्तम् अनश्नतः योगः अस्ति । ‘यदु ह वा आत्मसंमितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत् कनीयोऽन्नं न तदवति’(श. ब्रा. ?) इति श्रुतेः । तस्मात् योगी न आत्मसंमितात् अन्नात् अधिकं न्यूनं वा अश्नीयात् । अथवा, योगिनः योगशास्त्रे परिपठीतात् अन्नपरिमाणात् अतिमात्रमश्नतः योगो नास्ति । उक्तं हि — ‘अर्धं सव्यञ्जनान्नस्य तृतीयमुदकस्य च । वायोः सञ्चरणार्थं तु चतु­र्थ­म­व­शे­ष­येत्’(?) इत्यादिपरिमाणम् । तथा — न च अतिस्वप्नशीलस्य योगो भवति नैव च अतिमात्रं जाग्रतो भवति च अर्जुन ॥ १६ ॥

कथं पुनः योगो भवति इत्युच्यते —

युक्ता­हा­र­वि­हा­रस्य युक्तचेष्टस्य कर्मसु ।
युक्त­स्व­प्ना­व­बो­धस्य योगो भवति दुःखहा ॥ १७ ॥

१७

युक्ता­हा­र­वि­हा­रस्य आह्रियते इति आहारः अन्नम् , विहरणं विहारः पादक्रमः, तौ युक्तौ नियतपरिमाणौ यस्य सः युक्ताहारविहारः तस्य, तथा युक्तचेष्टस्य युक्ता नियता चेष्टा यस्य कर्मसु तस्य, तथा युक्त­स्व­प्ना­व­बो­धस्य युक्तौ स्वप्नश्च अवबोधश्च तौ नियतकालौ यस्य तस्य, युक्ता­हा­र­वि­हा­रस्य युक्तचेष्टस्य कर्मसु युक्त­स्व­प्ना­व­बो­धस्य योगिनो योगो भवति दुःखहा दुःखानि सर्वाणि हन्तीति दुःखहा, सर्व­सं­सा­र­दुः­ख­क्ष­य­कृत् योगः भवतीत्यर्थः ॥ १७ ॥

अथ अधुना कदा युक्तो भवति इत्युच्यते —

यदा विनियतं चित्त­मा­त्म­न्ये­वा­व­ति­ष्ठते ।
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८ ॥

१८

यदा विनियतं विशेषेण नियतं संयतम् एकाग्रतामापन्नं चित्तं हित्वा बाह्या­र्थ­चि­न्ताम् आत्मन्येव केवले अवतिष्ठते, स्वात्मनि स्थितिं लभते इत्यर्थः । निःस्पृहः सर्वकामेभ्यः निर्गता दृष्टा­दृ­ष्ट­वि­ष­येभ्यः स्पृहा तृष्णा यस्य योगिनः सः युक्तः समाहितः इत्युच्यते तदा तस्मिन्काले ॥ १८ ॥

तस्य योगिनः समाहितं यत् चित्तं तस्योपमा उच्यते —

यदा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ १९ ॥

१९

यथा दीपः प्रदीपः निवातस्थः निवाते वातवर्जिते देशे स्थितः न इङ्गते न चलति, सा उपमा उपमीयते अनया इत्युपमा योगज्ञैः चित्त­प्र­चा­र­द­र्शिभिः स्मृता चिन्तिता योगिनो यतचित्तस्य संयतान्तःकरणस्य युञ्जतो योगम् अनुतिष्ठतः आत्मनः समाधिमनुतिष्ठत इत्यर्थः ॥ १९ ॥

एवं योगा­भ्या­स­ब­ला­दे­का­ग्री­भूतं निवा­त­प्र­दी­प­कल्पं सत् —

यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ २० ॥

२०

यत्र यस्मिन् काले उपरमते चित्तम् उपरतिं गच्छति निरुद्धं सर्वतो निवारितप्रचारं योगसेवया योगानुष्ठानेन, यत्र चैव यस्मिंश्च काले आत्मना समाधिपरिशुद्धेन अन्तःकरणेन आत्मानं परं चैतन्यं ज्योतिःस्वरूपं पश्यन् उपलभमानः स्वे एव आत्मनि तुष्यति तुष्टिं भजते ॥ २० ॥

किञ्च —

सुखमात्यन्तिकं यत्त­द्बु­द्धि­ग्रा­ह्य­म­ती­न्द्रि­यम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ २१ ॥

२१

सुखम् आत्यन्तिकं अत्यन्तमेव भवति इत्यात्यन्तिकम् अनन्तमित्यर्थः, यत् तत् बुद्धिग्राह्यं बुद्ध्यैव इन्द्रि­य­नि­र­पे­क्षया गृह्यते इति बुद्धिग्राह्यम् अतीन्द्रियम् इन्द्रि­य­गो­च­रा­ती­तम् अवि­ष­य­ज­नि­त­मि­त्यर्थः, वेत्ति तत् ईदृशं सुखमनुभवति यत्र यस्मिन् काले, न च एव अयं विद्वान् आत्मस्वरूपे स्थितः तस्मात् नैव चलति तत्त्वतः तत्त्वस्वरूपात् न प्रच्यवते इत्यर्थः ॥ २१ ॥

किञ्च —

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ २२ ॥

२२

यं लब्ध्वा यम् आत्मलाभं लब्ध्वा प्राप्य च अपरम् अन्यत् लाभं लाभान्तरं ततः अधिकम् अस्तीति न मन्यते न चिन्तयति । किञ्च, यस्मिन् आत्मतत्त्वे स्थितः दुःखेन शस्त्र­नि­पा­ता­दि­ल­क्ष­णेन गुरुणा महता अपि न विचाल्यते ॥ २२ ॥

‘यत्रोपरमते’(भ. गी. ६ । २०) इत्याद्यारभ्य यावद्भिः विशेषणैः विशिष्ट आत्मा­व­स्था­वि­शेषः योगः उक्तः —

तं विद्या­द्दुः­ख­सं­यो­ग­वि­योगं योगसंज्ञितम् ।
स निश्चयेन योक्तव्यो योगोऽ­नि­र्वि­ण्ण­चे­तसा ॥ २३ ॥

२३

तं विद्यात् विजानीयात् दुःखसंयोगवियोगं दुःखैः संयोगः दुःखसंयोगः, तेन वियोगः दुःख­सं­यो­ग­वि­योगः, तं दुःखसंयोगवियोगं योग इत्येव संज्ञितं विपरीतलक्षणेन विद्यात् विजा­नी­या­दि­त्यर्थः । योगफलमुपसंहृत्य पुनरन्वारम्भेण योगस्य कर्तव्यता उच्यते निश्च­या­नि­र्वे­दयोः योग­सा­ध­न­त्व­वि­धा­ना­र्थम् । स यथोक्तफलो योगः निश्चयेन अध्यवसायेन योक्तव्यः अनिर्विण्णचेतसा न निर्विण्णम् अनिर्विण्णम् । किं तत् ? चेतः तेन निर्वेदरहितेन चेतसा चित्तेनेत्यर्थः ॥ २३ ॥

किञ्च —

सङ्क­ल्प­प्र­भ­वा­न्का­मां­स्त्यक्त्वा सर्वानशेषतः ।
मन­सै­वे­न्द्रि­य­ग्रामं विनियम्य समन्ततः ॥ २४ ॥

२४

सङ्कल्पप्रभवान् सङ्कल्पः प्रभवः येषां कामानां ते सङ्कल्पप्रभवाः कामाः तान् त्यक्त्वा परित्यज्य सर्वान् अशेषतः निर्लेपेन । किञ्च, मनसैव विवेकयुक्तेन इन्द्रियग्रामम् इन्द्रियसमुदायं विनियम्य नियमनं कृत्वा समन्ततः समन्तात् ॥ २४ ॥

शनैः शनै­रु­प­र­मे­द्बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ २५ ॥

२५

शनैः शनैः न सहसा उपरमेत् उपरतिं कुर्यात् । कया ? बुद्ध्या । किंविशिष्टया ? धृतिगृहीतया धृत्या धैर्येण गृहीतया धृतिगृहीतया धैर्येण युक्तया इत्यर्थः । आत्मसंस्थम् आत्मनि संस्थितम् ‘आत्मैव सर्वं न ततोऽन्यत् किञ्चिदस्ति’ इत्ये­व­मा­त्म­संस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् । एष योगस्य परमो विधिः ॥ २५ ॥

तत्र एवमात्मसंस्थं मनः कर्तुं प्रवृत्तो योगी —

यतो यतो निश्चरति मन­श्च­ञ्च­ल­म­स्थि­रम् ।
ततस्ततो निय­म्यै­त­दा­त्म­न्येव वशं नयेत् ॥ २६ ॥

२६

यतो यतः यस्माद्यस्मात् निमित्तात् शब्दादेः निश्चरति निर्गच्छति स्वभावदोषात् मनः चञ्चलम् अत्यर्थं चलम् , अत एव अस्थिरम् , ततस्ततः तस्मात्तस्मात् शब्दादेः निमित्तात् नियम्य तत्तन्निमित्तं याथा­त्म्य­नि­रू­प­णेन आभासीकृत्य वैराग्यभावनया च एतत् मनः आत्मन्येव वशं नयेत् आत्म­व­श्य­ता­मा­पा­द­येत् । एवं योगाभ्यासबलात् योगिनः आत्मन्येव प्रशाम्यति मनः ॥ २६ ॥

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्म­भू­त­म­क­ल्म­षम् ॥ २७ ॥

२७

प्रशान्तमनसं प्रकर्षेण शान्तं मनः यस्य सः प्रशान्तमनाः तं प्रशान्तमनसं हि एनं योगिनं सुखम् उत्तमं निरतिशयम् उपैति उपगच्छति शान्तरजसं प्रक्षी­ण­मो­हा­दि­क्ले­श­र­ज­स­मि­त्यर्थः, ब्रह्मभूतं जीवन्मुक्तम् , ‘ब्रह्मैव सर्वम्’ इत्येवं निश्चयवन्तं ब्रह्मभूतम् अकल्मषं धर्मा­ध­र्मा­दि­व­र्जि­तम् ॥ २७ ॥

युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ।
सुखेन ब्रह्म­सं­स्प­र्श­म­त्यन्तं सुखमश्नुते ॥ २८ ॥

२८

युञ्जन् एवं यथोक्तेन क्रमेण योगी योगा­न्त­रा­य­व­र्जितः सदा सर्वदा आत्मानं विगतकल्मषः विगतपापः, सुखेन अनायासेन ब्रह्मसंस्पर्शं ब्रह्मणा परेण संस्पर्शो यस्य तत् ब्रह्मसंस्पर्शं सुखम् अत्यन्तम् अन्तमतीत्य वर्तत इत्यत्यन्तम् उत्कृष्टं निरतिशयम् अश्नुते व्याप्नोति ॥ २८ ॥

इदानीं योगस्य यत् फलं ब्रह्मै­क­त्व­द­र्शनं सर्व­सं­सा­र­वि­च्छे­द­का­रणं तत् प्रदर्श्यते —

सर्व­भू­त­स्थ­मा­त्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ २९ ॥

२९

सर्वभूतस्थं सर्वेषु भूतेषु स्थितं स्वम् आत्मानं सर्वभूतानि च आत्मनि ब्रह्मादीनि स्तम्ब­प­र्य­न्तानि च सर्वभूतानि आत्मनि एकतां गतानि ईक्षते पश्यति योगयुक्तात्मा समाहितान्तःकरणः सर्वत्र समदर्शनः सर्वेषु ब्रह्मा­दि­स्था­व­रा­न्तेषु विषमेषु सर्वभूतेषु समं निर्विशेषं ब्रह्मा­त्मै­क­त्व­वि­षयं दर्शनं ज्ञानं यस्य स सर्वत्र समदर्शनः ॥ २९ ॥

एतस्य आत्मै­क­त्व­द­र्श­नस्य फलम् उच्यते —

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ३० ॥

३०

यो मां पश्यति वासुदेवं सर्वस्य आत्मानं सर्वत्र सर्वेषु भूतेषु सर्वं च ब्रह्मा­दि­भू­त­जातं मयि सर्वात्मनि पश्यति, तस्य एवं आत्मै­क­त्व­द­र्शिनः अहम् ईश्वरो न प्रणश्यामि न परोक्षतां गमिष्यामि । स च मे न प्रणश्यति स च विद्वान् मम वासुदेवस्य न प्रणश्यति न परोक्षो भवति, तस्य च मम च एकात्मकत्वात् ; स्वात्मा हि नाम आत्मनः प्रिय एव भवति, यस्माच्च अहमेव सर्वा­त्मै­क­त्व­दर्शी ॥ ३० ॥

इत्येतत् पूर्वश्लोकार्थं सम्य­ग्द­र्श­न­म­नूद्य तत्फलं मोक्षः अभिधीयते —

सर्वभूतस्थितं यो मां भज­त्ये­क­त्व­मा­स्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ३१ ॥

३१

सर्वथा सर्वप्रकारैः वर्तमानोऽपि सम्यग्दर्शी योगी मयि वैष्णवे परमे पदे वर्तते, नित्यमुक्त एव सः, न मोक्षं प्रति केनचित् प्रतिबध्यते इत्यर्थः ॥ ३१ ॥

किञ्च अन्यत् —

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ३२ ॥

३२

आत्मौपम्येन आत्मा स्वयमेव उपमीयते अनया इत्युपमा तस्या उपमाया भावः औपम्यं तेन आत्मौपम्येन, सर्वत्र सर्वभूतेषु समं तुल्यं पश्यति यः अर्जुन, स च किं समं पश्यति इत्युच्यते — यथा मम सुखम् इष्टं तथा सर्वप्राणिनां सुखम् अनुकूलम् । वाशब्दः चार्थे । यदि वा यच्च दुःखं मम प्रतिकूलम् अनिष्टं यथा तथा सर्वप्राणिनां दुःखम् अनिष्टं प्रतिकूलं इत्येवम् आत्मौपम्येन सुखदुःखे अनुकूलप्रतिकूले तुल्यतया सर्वभूतेषु समं पश्यति, न कस्यचित् प्रतिकूलमाचरति, अहिंसक इत्यर्थः । यः एवमहिंसकः सम्य­ग्द­र्श­न­निष्ठः स योगी परमः उत्कृष्टः मतः अभिप्रेतः सर्वयोगिनां मध्ये ॥ ३२ ॥

एतस्य यथोक्तस्य सम्य­ग्द­र्श­न­ल­क्ष­णस्य योगस्य दुःख­स­म्पा­द्य­ता­मा­लक्ष्य शुश्रूषुः ध्रुवं तत्प्रा­प्त्यु­पा­य­म­र्जुन उवाच —

अर्जुन उवाच —

योऽयं योगस्त्वया प्रोक्तः
साम्येन मधुसूदन ।
एतस्याहं न पश्यामि
चञ्च­ल­त्वा­त्स्थितिं स्थिराम् ॥ ३३ ॥

३३

यः अयं योगः त्वया प्रोक्तः साम्येन समत्वेन हे मधुसूदन एतस्य योगस्य अहं न पश्यामि नोपलभे, चञ्चलत्वात् मनसः । किम् ? स्थिराम् अचलां स्थितिम् ॥ ३३ ॥

प्रसिद्धमेतत् —

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ३४ ॥

३४

चञ्चलं हि मनः । कृष्ण इति कृषतेः विलेखनार्थस्य रूपम् । भक्त­ज­न­पा­पा­दि­दो­षा­क­र्ष­णात् कृष्णः, तस्य सम्बुद्धिः हे कृष्ण । हि यस्मात् मनः चञ्चलं न केवलमत्यर्थं चञ्चलम् , प्रमाथि च प्रमथनशीलम् , प्रमथ्नाति शरीरम् इन्द्रियाणि च विक्षिपत् सत् परवशीकरोति । किञ्च — बलवत् प्रबलम् , न केनचित् नियन्तुं शक्यम् , दुर्निवारत्वात् । किञ्च — दृढं तन्तुनागवत् अच्छेद्यम् । तस्य एवंभूतस्य मनसः अहं निग्रहं निरोधं मन्ये वायोरिव यथा वायोः दुष्करो निग्रहः ततोऽपि दुष्करं मन्ये इत्यभिप्रायः ॥ ३४ ॥

श्रीभगवानुवाच, एवम् एतत् यथा ब्रवीषि —

श्रीभगवानुवाच —

असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ३५ ॥

३५

असंशयं नास्ति संशयः ‘मनो दुर्निग्रहं चलम्’ इत्यत्र हे महाबाहो । किन्तु अभ्यासेन तु अभ्यासो नाम चित्तभूमौ कस्याञ्चित् समा­न­प्र­त्य­या­वृत्तिः चित्तस्य । वैराग्येण वैराग्यं नाम दृष्टा­दृ­ष्टे­ष्ट­भो­गेषु दोष­द­र्श­ना­भ्या­सात् वैतृष्ण्यम् । तेन च वैराग्येण गृह्यते विक्षेपरूपः प्रचारः चित्तस्य । एवं तत् मनः गृह्यते निगृह्यते निरुध्यते इत्यर्थः ॥ ३५ ॥

यः पुनः असंयतात्मा, तेन —

असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता शक्योऽ­वा­प्तु­मु­पा­यतः ॥ ३६ ॥

३६

असंयतात्मना अभ्या­स­वै­रा­ग्या­भ्या­म­सं­यतः आत्मा अन्तःकरणं यस्य सोऽयम् असंयतात्मा तेन असंयतात्मना योगो दुष्प्रापः दुःखेन प्राप्यत इति मे मतिः । यस्तु पुनः वश्यात्मा अभ्या­स­वै­रा­ग्याभ्यां वश्यत्वमापादितः आत्मा मनः यस्य सोऽयं वश्यात्मा तेन वश्यात्मना तु यतता भूयोऽपि प्रयत्नं कुर्वता शक्यः अवाप्तुं योगः उपायतः यथोक्तादुपायात् ॥ ३६ ॥

तत्र योगा­भ्या­सा­ङ्गी­क­र­णेन इह­लो­क­प­र­लो­क­प्रा­प्ति­नि­मि­त्तानि कर्माणि संन्यस्तानि, योगसिद्धिफलं च मोक्षसाधनं सम्यग्दर्शनं न प्राप्तमिति, योगी योगमार्गात् मरणकाले चलितचित्तः इति तस्य नाशमशङ्क्य अर्जुन उवाच —

अर्जुन उवाच —

अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ ३७ ॥

३७

अयतिः अप्रयत्नवान् योगमार्गे श्रद्धया आस्ति­क्य­बुद्ध्या च उपेतः योगात् अन्तकाले च चलितं मानसं मनो यस्य सः चलितमानसः भ्रष्टस्मृतिः सः अप्राप्य योगसंसिद्धिं योगफलं सम्यग्दर्शनं कां गतिं हे कृष्ण गच्छति ॥ ३७ ॥

कच्चि­न्नो­भ­य­वि­भ्र­ष्ट­श्छि­न्ना­भ्र­मिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ ३८ ॥

३८

कच्चित् किं न उभयविभ्रष्टः कर्ममार्गात् योगमार्गाच्च विभ्रष्टः सन् छिन्नाभ्रमिव नश्यति, किं वा न नश्यति अप्रतिष्ठो निराश्रयः हे महाबाहो विमूढः सन् ब्रह्मणः पथि ब्रह्म­प्रा­प्ति­मार्गे ॥ ३८ ॥

एतन्मे संशयं कृष्ण च्छेत्तु­म­र्ह­स्य­शे­षतः ।
त्वदन्यः संशयस्यास्य च्छेत्ता न ह्युपपद्यते ॥ ३९ ॥

३९

एतत् मे मम संशयं कृष्ण च्छेत्तुम् अपनेतुम् अर्हसि अशेषतः । त्वदन्यः त्वत्तः अन्यः ऋषिः देवो वा च्छेत्ता नाशयिता संशयस्य अस्य न हि यस्मात् उपपद्यते न सम्भवति । अतः त्वमेव च्छेत्तुमर्हसि इत्यर्थः ॥ ३९ ॥

श्रीभगवानुवाच —

पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्या­ण­कृ­त्क­श्चि­द्दु­र्गतिं तात गच्छति ॥ ४० ॥

४०

हे पार्थ नैव इह लोके नामुत्र परस्मिन् वा लोके विनाशः तस्य विद्यते नास्ति । नाशो नाम पूर्वस्मात् हीन­ज­न्म­प्राप्तिः स योगभ्रष्टस्य नास्ति । न हि यस्मात् कल्याणकृत् शुभकृत् कश्चित् दुर्गतिं कुत्सितां गतिं हे तात, तनोति आत्मानं पुत्ररूपेणेति पिता तात उच्यते । पितैव पुत्र इति पुत्रोऽपि तात उच्यते । शिष्योऽपि पुत्र उच्यते । यतो न गच्छति ॥ ४० ॥

किं तु अस्य भवति ? —

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योग­भ्र­ष्टोऽ­भि­जा­यते ॥ ४१ ॥

४१

योगमार्गे प्रवृत्तः संन्यासी सामर्थ्यात् प्राप्य गत्वा पुण्यकृताम् अश्व­मे­धा­दि­या­जिनां लोकान् , तत्र च उषित्वा वासमनुभूय शाश्वतीः नित्याः समाः संवत्सरान् , तद्भोगक्षये शुचीनां यथोक्तकारिणां श्रीमतां विभूतिमतां गेहे गृहे योगभ्रष्टः अभिजायते ॥ ४१ ॥

अथवा योगिनामेव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ४२ ॥

४२

अथवा श्रीमतां कुलात् अन्यस्मिन् योगिनामेव दरिद्राणां कुले भवति जायते धीमतां बुद्धिमताम् । एतत् हि जन्म, यत् दरिद्राणां योगिनां कुले, दुर्लभतरं दुःखलभ्यतरं पूर्वमपेक्ष्य लोके जन्म यत् ईदृशं यथोक्तविशेषणे कुले ॥ ४२ ॥

यस्मात् —

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ ४३ ॥

४३

तत्र योगिनां कुले तं बुद्धिसंयोगं बुद्ध्या संयोगं बुद्धिसंयोगं लभते पौर्वदेहिकं पूर्वस्मिन् देहे भवं पौर्वदेहिकम् । यतते च प्रयत्नं च करोति ततः तस्मात् पूर्वकृतात् संस्कारात् भूयः बहुतरं संसिद्धौ संसि­द्धि­नि­मित्तं हे कुरुनन्दन ॥ ४३ ॥

कथं पूर्व­दे­ह­बु­द्धि­सं­योग इति तदुच्यते —

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्द­ब्र­ह्मा­ति­व­र्तते ॥ ४४ ॥

४४

यः पूर्वजन्मनि कृतः अभ्यासः सः पूर्वाभ्यासः, तेनैव बलवता ह्रियते संसिद्धौ हि यस्मात् अवशोऽपि सः योगभ्रष्टः ; न कृतं चेत् योगाभ्यासजात् संस्कारात् बल­व­त्त­र­म­ध­र्मा­दि­ल­क्षणं कर्म, तदा योगाभ्यासजनितेन संस्कारेण ह्रियते ; अधर्मश्चेत् बलवत्तरः कृतः, तेन योगजोऽपि संस्कारः अभिभूयत एव, तत्क्षये तु योगजः संस्कारः स्वयमेव कार्यमारभते, न दीर्घ­का­ल­स्थ­स्यापि विनाशः तस्य अस्ति इत्यर्थः । अतः जिज्ञासुरपि योगस्य स्वरूपं ज्ञातुमिच्छन् अपि योगमार्गे प्रवृत्तः संन्यासी योगभ्रष्टः, सामर्थ्यात् सोऽपि शब्दब्रह्म वेदो­क्त­क­र्मा­नु­ष्ठा­न­फ­लम् अतिवर्तते अतिक्रामति अपाकरिष्यति ; किमुत बुद्ध्वा यः योगं तन्निष्ठः अभ्यासं कुर्यात् ॥ ४४ ॥

कुतश्च योगित्वं श्रेयः इति —

प्रय­त्ना­द्य­त­मा­नस्तु योगी संशुद्धकिल्बिषः ।
अने­क­ज­न्म­सं­सि­द्ध­स्ततो याति परां गतिम् ॥ ४५ ॥

४५

प्रयत्नात् यतमानः, अधिकं यतमान इत्यर्थः । तत्र योगी विद्वान् संशुद्धकिल्बिषः विशुद्धकिल्बिषः संशुद्धपापः अने­क­ज­न्म­सं­सिद्धः अनेकेषु जन्मसु किञ्चि­त्कि­ञ्चित् संस्कारजातम् उपचित्य तेन उपचितेन अनेकजन्मकृतेन संसिद्धः अने­क­ज­न्म­सं­सिद्धः ततः लब्ध­स­म्य­ग्द­र्शनः सन् याति परां प्रकृष्टां गतिम् ॥ ४५ ॥

यस्मादेवं तस्मात् —

तपस्विभ्योऽधिको योगी
ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मि­भ्य­श्चा­धिको योगी
तस्माद्योगी भवार्जुन ॥ ४६ ॥

४६

तपस्विभ्यः अधिकः योगी, ज्ञानिभ्योऽपि ज्ञानमत्र शास्त्रा­र्थ­पा­ण्डि­त्यम् , तद्वद्भ्योऽपि मतः ज्ञातः अधिकः श्रेष्ठः इति । कर्मिभ्यः, अग्निहोत्रादि कर्म, तद्वद्भ्यः अधिकः योगी विशिष्टः यस्मात् तस्मात् योगी भव अर्जुन ॥ ४६ ॥

योगिनामपि सर्वेषां मद्ग­ते­ना­न्त­रा­त्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ ४७ ॥

४७

योगिनामपि सर्वेषां रुद्रा­दि­त्या­दि­ध्या­न­प­राणां मध्ये मद्गतेन मयि वासुदेवे समाहितेन अन्तरात्मना अन्तःकरणेन श्रद्धावान् श्रद्दधानः सन् भजते सेवते यो माम् , स मे मम युक्ततमः अतिशयेन युक्तः मतः अभिप्रेतः इति ॥ ४७ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ श्रीम­द्भ­ग­व­द्गी­ता­भाष्ये षष्ठोऽध्यायः ॥