अद्वैतशारदा

श्रीमद्भगवद्गीताभाष्यम्

सप्तमोऽध्यायः

व्याख्याः

‘योगिनामपि सर्वेषां मद्ग­ते­ना­न्त­रा­त्मना । श्रद्धावान्भजते यो मां स मे युक्ततमो मतः’(भ. गी. ६ । ४७) इति प्रश्नबीजम् उपन्यस्य, स्वयमेव ‘ईदृशं मदीयं तत्त्वम् , एवं मद्गतान्तरात्मा स्यात्’ इत्येतत् विवक्षुः श्रीभगवानुवाच —

श्रीभगवानुवाच —

मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥

मयि वक्ष्य­मा­ण­वि­शे­षणे परमेश्वरे आसक्तं मनः यस्य सः मय्यासक्तमनाः, हे पार्थ योगं युञ्जन् मनःसमाधानं कुर्वन् , मदाश्रयः अहमेव परमेश्वरः आश्रयो यस्य सः मदाश्रयः । यो हि कश्चित् पुरुषार्थेन केनचित् अर्थी भवति स तत्साधनं कर्म अग्निहोत्रादि तपः दानं वा किञ्चित् आश्रयं प्रतिपद्यते, अयं तु योगी मामेव आश्रयं प्रतिपद्यते, हित्वा अन्यत् साधनान्तरं मय्येव आसक्तमनाः भवति । यः त्वं एवंभूतः सन् असंशयं समग्रं समस्तं विभू­ति­ब­ल­श­क्त्यै­श्व­र्या­दि­गु­ण­स­म्पन्नं मां यथा येन प्रकारेण ज्ञास्यसि संशयमन्तरेण ‘एवमेव भगवान्’ इति, तत् शृणु उच्यमानं मया ॥ १ ॥

तच्च मद्विषयम् —

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽ­न्य­ज्ज्ञा­त­व्य­म­व­शि­ष्यते ॥ २ ॥

ज्ञानं ते तुभ्यम् अहं सविज्ञानं विज्ञानसहितं स्वानुभवयुक्तम् इदं वक्ष्यामि कथयिष्यामि अशेषतः कार्‌त्स्न्येन । तत् ज्ञानं विवक्षितं स्तौति श्रोतुः अभिमुखीकरणाय — यत् ज्ञात्वा यत् ज्ञानं ज्ञात्वा न इह भूयः पुनः अन्यत् ज्ञातव्यं पुरुषार्थसाधनम् अवशिष्यते नावशिष्टं भवति । इति मत्तत्त्वज्ञो यः, सः सर्वज्ञो भवतीत्यर्थः । अतो विशिष्टफलत्वात् दुर्लभं ज्ञानम् ॥ २ ॥

कथमित्युच्यते —

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ३ ॥

मनुष्याणां मध्ये सहस्रेषु अनेकेषु कश्चित् यतति प्रयत्नं करोति सिद्धये सिद्ध्यर्थम् । तेषां यततामपि सिद्धानाम् , सिद्धा एव हि ते ये मोक्षाय यतन्ते, तेषां कश्चित् एव हि मां वेत्ति तत्त्वतः यथावत् ॥ ३ ॥

श्रोतारं प्ररोचनेन अभिमुखीकृत्याह —

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ४ ॥

भूमिः इति पृथि­वी­त­न्मा­त्र­मु­च्यते, न स्थूला, ‘भिन्ना प्रकृतिरष्टधा’ इति वचनात् । तथा अबादयोऽपि तन्मात्राण्येव उच्यन्ते — आपः अनलः वायुः खम् । मनः इति मनसः कारणमहङ्कारो गृह्यते । बुद्धिः इति अहङ्कारकारणं महत्तत्त्वम् । अहङ्कारः इति अवि­द्या­सं­यु­क्त­म­व्य­क्तम् । यथा विषसंयुक्तमन्नं विषमित्युच्यते, एव­म­ह­ङ्का­र­वा­स­ना­वत् अव्यक्तं मूलकारणमहङ्कार इत्युच्यते, प्रवर्तकत्वात् अहङ्कारस्य । अहङ्कार एव हि सर्वस्य प्रवृत्तिबीजं दृष्टं लोके । इतीयं यथोक्ता प्रकृतिः मे मम ऐश्वरी मायाशक्तिः अष्टधा भिन्ना भेदमागता ॥ ४ ॥

अप­रे­य­मि­त­स्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५ ॥

अपरा न परा निकृष्टा अशुद्धा अनर्थकरी संसा­र­ब­न्ध­ना­त्मिका इयम् । इतः अस्याः यथोक्तायाः तु अन्यां विशुद्धां प्रकृतिं मम आत्मभूतां विद्धि मे परां प्रकृष्टां जीवभूतां क्षेत्र­ज्ञ­ल­क्षणां प्राण­धा­र­ण­नि­मि­त्त­भूतां हे महाबाहो, यया प्रकृत्या इदं धार्यते जगत् अन्तः प्रविष्टया ॥ ५ ॥

एतद्योनीनि भूतानि सर्वा­णी­त्यु­प­धा­रय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ६ ॥

एतद्योनीनि एते परापरे क्षेत्र­क्षे­त्र­ज्ञ­ल­क्षणे प्रकृती योनिः येषां भूतानां तानि एतद्योनीनि, भूतानि सर्वाणि इति एवम् उपधारय जानीहि । यस्मात् मम प्रकृती योनिः कारणं सर्वभूतानाम् , अतः अहं कृत्स्नस्य समस्तस्य जगतः प्रभवः उत्पत्तिः प्रलयः विनाशः तथा । प्रकृ­ति­द्व­य­द्वा­रेण अहं सर्वज्ञः ईश्वरः जगतः कारणमित्यर्थः ॥ ६ ॥

यतः तस्मात् —

मत्तः परतरं नान्य­त्कि­ञ्चि­दस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७ ॥

मत्तः परमेश्वरात् परतरम् अन्यत् कारणान्तरं किञ्चित् नास्ति न विद्यते, अहमेव जग­त्का­र­ण­मि­त्यर्थः, हे धनञ्जय । यस्मादेवं तस्मात् मयि परमेश्वरे सर्वाणि भूतानि सर्वमिदं जगत् प्रोतं अनुस्यूतम् अनुगतम् अनुविद्धं ग्रथितमित्यर्थ, दीर्घतन्तुषु पटवत् , सूत्रे च मणिगणा इव ॥ ७ ॥

केन केन धर्मेण विशिष्टे त्वयि सर्वमिदं प्रोत­मि­त्यु­च्यते —

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८ ॥

रसः अहम् , अपां यः सारः स रसः, तस्मिन् रसभूते मयि आपः प्रोता इत्यर्थः । एवं सर्वत्र । यथा अहम् अप्सु रसः, एवं प्रभा अस्मि शशिसूर्ययोः । प्रणवः ओङ्कारः सर्ववेदेषु, तस्मिन् प्रणवभूते मयि सर्वे वेदाः प्रोताः । तथा खे आकाशे शब्दः सारभूतः, तस्मिन् मयि खं प्रोतम् । तथा पौरुषं पुरुषस्य भावः पौरुषं यतः पुम्बुद्धिः नृषु, तस्मिन् मयि पुरुषाः प्रोताः ॥ ८ ॥

पुण्यो गन्धः पृथिव्यां च
तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु
तपश्चास्मि तपस्विषु ॥ ९ ॥

पुण्यः सुरभिः गन्धः पृथिव्यां च अहम् , तस्मिन् मयि गन्धभूते पृथिवी प्रोता । पुण्यत्वं गन्धस्य स्वभावत एव पृथिव्यां दर्शितम् अबादिषु रसादेः पुण्य­त्वो­प­ल­क्ष­णा­र्थम् । अपुण्यत्वं तु गन्धादीनाम् अवि­द्या­ध­र्मा­द्य­पेक्षं संसारिणां भूत­वि­शे­ष­सं­स­र्ग­नि­मित्तं भवति । तेजश्च दीप्तिश्च अस्मि विभावसौ अग्नौ । तथा जीवनं सर्वभूतेषु, येन जीवन्ति सर्वाणि भूतानि तत् जीवनम् । तपश्च अस्मि तपस्विषु, तस्मिन् तपसि मयि तपस्विनः प्रोताः ॥ ९ ॥

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धि­र्बु­द्धि­म­ता­मस्मि तेज­स्ते­ज­स्वि­ना­म­हम् ॥ १० ॥

१०

बीजं प्ररोहकारणं मां विद्धि सर्वभूतानां हे पार्थ सनातनं चिरन्तनम् । किञ्च, बुद्धिः विवेकशक्तिः अन्तःकरणस्य बुद्धिमतां विवेकशक्तिमताम् अस्मि, तेजः प्रागल्भ्यं तद्वतां तेजस्विनाम् अहम् ॥ १० ॥

बलं बलवतां चाहं काम­रा­ग­वि­व­र्जि­तम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ११ ॥

११

बलं सामर्थ्यम् ओजो बलवताम् अहम् , तच्च बलं काम­रा­ग­वि­व­र्जि­तम् , कामश्च रागश्च कामरागौ — कामः तृष्णा असंनिकृष्टेषु विषयेषु, रागो रञ्जना प्राप्तेषु विषयेषु — ताभ्यां कामरागाभ्यां विवर्जितं देहा­दि­धा­र­ण­मा­त्रार्थं बलं सत्त्वमहमस्मि ; न तु यत्संसारिणां तृष्णारागकारणम् । किञ्च — धर्माविरुद्धः धर्मेण शास्त्रार्थेन अविरुद्धो यः प्राणिषु भूतेषु कामः, यथा देह­धा­र­ण­मा­त्रा­द्यर्थः अशनपानादिविषयः, स कामः अस्मि हे भरतर्षभ ॥ ११ ॥

किञ्च —

ये चैव सात्त्विका भावा राजसास्तमसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ १२ ॥

१२

ये चैव सात्त्विकाः सत्त्व­नि­र्वृत्ताः भावाः पदार्थाः, राजसाः रजोनिर्वृत्ताः, तामसाः तमो­नि­र्वृ­त्ताश्च, ये केचित् प्राणिनां स्वकर्मवशात् जायन्ते भावाः, तान् मत्त एव जायमानान् इति एवं विद्धि सर्वान् समस्तानेव । यद्यपि ते मत्तः जायन्ते, तथापि न तु अहं तेषु तदधीनः तद्वशः, यथा संसारिणः । ते पुनः मयि मद्वशाः मदधीनाः ॥ १२ ॥

एवंभूतमपि परमेश्वरं नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावं सर्वभूतात्मानं निर्गुणं संसा­र­दो­ष­बी­ज­प्र­दा­ह­का­रणं मां नाभिजानाति जगत् इति अनुक्रोशं दर्शयति भगवान् । तच्च किंनिमित्तं जगतः अज्ञा­न­मि­त्यु­च्यते —

त्रिभि­र्गु­ण­म­यै­र्भा­वै­रेभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ १३ ॥

१३

त्रिभिः गुणमयैः गुणविकारैः राग­द्वे­ष­मो­हा­दि­प्र­कारैः भावैः पदार्थैः एभिः यथोक्तैः सर्वम् इदं प्राणिजातं जगत् मोहितम् अवि­वे­कि­ता­मा­पा­दितं सत् न अभिजानाति माम् , एभ्यः यथोक्तेभ्यः गुणेभ्यः परं व्यतिरिक्तं विलक्षणं च अव्ययं व्ययरहितं जन्मा­दि­स­र्व­भा­व­वि­का­र­व­र्जि­तम् इत्यर्थः ॥ १३ ॥

कथं पुनः दैवीम् एतां त्रिगुणात्मिकां वैष्णवीं मायामतिक्रामति इत्युच्यते —

दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४ ॥

१४

दैवी देवस्य मम ईश्वरस्य विष्णोः स्वभावभूता हि यस्मात् एषा यथोक्ता गुणमयी मम माया दुरत्यया दुःखेन अत्ययः अतिक्रमणं यस्याः सा दुरत्यया । तत्र एवं सति सर्वधर्मान् परित्यज्य मामेव मायाविनं स्वात्मभूतं सर्वात्मना ये प्रपद्यन्ते ते मायाम् एतां सर्वभूतमोहिनीं तरन्ति अतिक्रामन्ति ; ते संसारबन्धनात् मुच्यन्ते इत्यर्थः ॥ १४ ॥

यदि त्वां प्रपन्नाः मायामेतां तरन्ति, कस्मात् त्वामेव सर्वे न प्रपद्यन्ते इत्युच्यते —

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ १५ ॥

१५

न मां परमेश्वरं नारायणं दुष्कृतिनः पापकारिणः मूढाः प्रपद्यन्ते नराधमाः नराणां मध्ये अधमाः निकृष्टाः । ते च मायया अपहृतज्ञानाः संमुषितज्ञानाः आसुरं भावं हिंसा­नृ­ता­दि­ल­क्ष­णम् आश्रिताः ॥ १५ ॥

ये पुनर्नरोत्तमाः पुण्यकर्माणः —

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञा­सु­र­र्थार्थी ज्ञानी च भरतर्षभ ॥ १६ ॥

१६

चतुर्विधाः चतुःप्रकाराः भजन्ते सेवंते मां जनाः सुकृतिनः पुण्यकर्माणः हे अर्जुन । आर्तः आर्तिपरिगृहीतः तस्क­र­व्या­घ्र­रो­गा­दिना अभिभूतः आपन्नः, जिज्ञासुः भगवत्तत्त्वं ज्ञातुमिच्छति यः, अर्थार्थी धनकामः, ज्ञानी विष्णोः तत्त्वविच्च हे भरतर्षभ ॥ १६ ॥

तेषां ज्ञानी नित्ययुक्त एक­भ­क्ति­र्वि­शि­ष्यते ।
प्रियो हि ज्ञानि­नोऽ­त्य­र्थ­महं स च मम प्रियः ॥ १७ ॥

१७

तेषां चतुर्णां मध्ये ज्ञानी तत्त्ववित् तत्ववित्त्वात् नित्ययुक्तः भवति एकभक्तिश्च, अन्यस्य भजनीयस्य अदर्शनात् ; अतः स एकभक्तिः विशिष्यते विशेषम् आधिक्यम् आपद्यते, अतिरिच्यते इत्यर्थः । प्रियो हि यस्मात् अहम् आत्मा ज्ञानिनः, अतः तस्य अहम् अत्यर्थं प्रियः ; प्रसिद्धं हि लोके ‘आत्मा प्रियो भवति’ इति । तस्मात् ज्ञानिनः आत्मत्वात् वासुदेवः प्रियो भवतीत्यर्थः । स च ज्ञानी मम वासुदेवस्य आत्मैवेति मम अत्यर्थं प्रियः ॥ १७ ॥

न तर्हि आर्तादयः त्रयः वासुदेवस्य प्रियाः ? न ; किं तर्हि ? —

उदाराः सर्व एवैते
ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा
मामेवानुत्तमां गतिम् ॥ १८ ॥

१८

उदाराः उत्कृष्टाः सर्व एव एते, त्रयोऽपि मम प्रिया एवेत्यर्थः । न हि कश्चित् मद्भक्तः मम वासुदेवस्य अप्रियः भवति । ज्ञानी तु अत्यर्थं प्रियो भवतीति विशेषः । तत् कस्मात् इत्यत आह — ज्ञानी तु आत्मैव न अन्यो मत्तः इति मे मम मतं निश्चयः । आस्थितः आरोढुं प्रवृत्तः सः ज्ञानी हि यस्मात् ‘अहमेव भगवान् वासुदेवः न अन्योऽस्मि’ इत्येवं युक्तात्मा समाहितचित्तः सन् मामेव परं ब्रह्म गन्तव्यम् अनुत्तमां गन्तुं प्रवृत्त इत्यर्थः ॥ १८ ॥

ज्ञानी पुनरपि स्तूयते —

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ १९ ॥

१९

बहूनां जन्मनां ज्ञाना­र्थ­सं­स्का­रा­श्र­या­णाम् अन्ते समाप्तौ ज्ञानवान् प्राप्त­प­रि­पा­क­ज्ञानः मां वासुदेवं प्रत्यगात्मानं प्रत्यक्षतः प्रपद्यते । कथम् ? वासुदेवः सर्वम् इति । यः एवं सर्वात्मानं मां नारायणं प्रतिपद्यते, सः महात्मा ; न तत्समः अन्यः अस्ति, अधिको वा । अतः सुदुर्लभः, ‘मनुष्याणां सहस्रेषु’(भ. गी. ७ । ३) इति हि उक्तम् ॥ १९ ॥

आत्मैव सर्वो वासुदेव इत्ये­व­म­प्र­ति­पत्तौ कारणमुच्यते —

कामै­स्तै­स्तै­र्हृ­त­ज्ञानाः प्रप­द्य­न्तेऽ­न्य­दे­वताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ २० ॥

२०

कामैः तैस्तैः पुत्र­प­शु­स्व­र्गा­दि­वि­षयैः हृतज्ञानाः अप­हृ­त­वि­वे­क­वि­ज्ञानाः प्रपद्यन्ते अन्यदेवताः प्राप्नुवन्ति वासुदेवात् आत्मनः अन्याः देवताः ; तं तं नियमं देवताराधने प्रसिद्धो यो यो नियमः तं तम् आस्थाय आश्रित्य प्रकृत्या स्वभावेन जन्मा­न्त­रा­र्जि­त­सं­स्का­र­वि­शे­षेण नियताः नियमिताः स्वया आत्मीयया ॥ २० ॥

तेषां च कामीनाम् —

यो यो यां यां तनुं भक्तः श्रद्ध­या­र्चि­तु­मि­च्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ २१ ॥

२१

यः यः कामी यां यां देवतातनुं श्रद्धया संयुक्तः भक्तश्च सन् अर्चितुं पूजयितुम् इच्छति, तस्य तस्य कामिनः अचलां स्थिरां श्रद्धां तामेव विदधामि स्थिरीकरोमि ॥ २१ ॥

ययैव पूर्वं प्रवृत्तः स्वभावतो यः यां देवतातनुं श्रद्धया अर्चितुम् इच्छति —

स तया श्रद्धया युक्तस्तस्या राधनमीहते ।
लभते च ततः कामान्मयैव विहितान्हि तान् ॥ २२ ॥

२२

स तया मद्विहितया श्रद्धया युक्तः सन् तस्याः देवतातन्वाः राधनम् आराधनम् ईहते चेष्टते । लभते च ततः तस्याः आराधितायाः देवतातन्वाः कामान् ईप्सितान् मयैव परमेश्वरेण सर्वज्ञेन कर्म­फ­ल­वि­भा­ग­ज्ञ­तया विहितान् निर्मितान् तान् , हि यस्मात् ते भगवता विहिताः कामाः तस्मात् तान् अवश्यं लभते इत्यर्थः । ‘हितान्’ इति पदच्छेदे हितत्वं कामानामुपचरितं कल्प्यम् ; न हि कामा हिताः कस्यचित् ॥ २२ ॥

यस्मात् अन्त­व­त्सा­ध­न­व्या­पारा अविवेकिनः कामिनश्च ते, अतः —

अन्तवत्तु फलं तेषां
तद्भ­व­त्य­ल्प­मे­ध­साम् ।
देवान्देवयजो यान्ति
मद्भक्ता यान्ति मामपि ॥ २३ ॥

२३

अन्तवत् विनाशि तु फलं तेषां तत् भवति अल्पमेधसां अल्पप्रज्ञानाम् । देवान्देवयजो यान्ति देवान् यजन्त इति देवयजः, ते देवान् यान्ति, मद्भक्ता यान्ति मामपि । एवं समाने अपि आयासे मामेव न प्रपद्यन्ते अनन्तफलाय, अहो खलु कष्टं वर्तन्ते, इत्यनुक्रोशं दर्शयति भगवान् ॥ २३ ॥

किंनिमित्तं मामेव न प्रपद्यन्ते इत्युच्यते —

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममा­व्य­य­म­नु­त्त­मम् ॥ २४ ॥

२४

अव्यक्तम् अप्रकाशं व्यक्तिम् आपन्नं प्रकाशं गतम् इदानीं मन्यन्ते मां नित्य­प्र­सि­द्ध­मी­श्व­र­मपि सन्तम् अबुद्धयः अविवेकिनः परं भावं परमात्मस्वरूपम् अजानन्तः अविवेकिनः मम अव्ययं व्ययरहितम् अनुत्तमं निरतिशयं मदीयं भावमजानन्तः मन्यन्ते इत्यर्थः ॥ २४ ॥

तदज्ञानं किंनि­मि­त्त­मि­त्यु­च्यते —

नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ २५ ॥

२५

न अहं प्रकाशः सर्वस्य लोकस्य, केषाञ्चिदेव मद्भक्तानां प्रकाशः अहमित्यभिप्रायः । योगमायासमावृतः योगः गुणानां युक्तिः घटनं सैव माया योगमाया, तया योगमायया समावृतः, सञ्छन्नः इत्यर्थः । अत एव मूढो लोकः अयं न अभिजानाति माम् अजम् अव्ययम् ॥

यया योगमायया समावृतं मां लोकः नाभिजानाति, नासौ योगमाया मदीया सती मम ईश्वरस्य मायाविनो ज्ञानं प्रतिबध्नाति, यथा अन्यस्यापि मायाविनः मायाज्ञानं तद्वत् ॥ २५ ॥

यतः एवम् , अतः —

वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ २६ ॥

२६

अहं तु वेद जाने समतीतानि समतिक्रान्तानि भूतानि, वर्तमानानि च अर्जुन, भविष्याणि च भूतानि वेद अहम् । मां तु वेद न कश्चन मद्भक्तं मच्छरणम् एकं मुक्त्वा ; मत्त­त्त्व­वे­द­ना­भा­वा­देव न मां भजते ॥ २६ ॥

केन पुनः मत्त­त्त्व­वे­द­न­प्र­ति­ब­न्धेन प्रतिबद्धानि सन्ति जायमानानि सर्वभूतानि मां न विदन्ति इत्य­पे­क्षा­या­मि­द­माह —

इच्छा­द्वे­ष­स­मु­त्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ॥ २७ ॥

२७

इच्छा­द्वे­ष­स­मु­त्थेन इच्छा च द्वेषश्च इच्छाद्वेषौ ताभ्यां समुत्तिष्ठतीति इच्छा­द्वे­ष­स­मुत्थः तेन इच्छा­द्वे­ष­स­मु­त्थेन । केनेति विशे­षा­पे­क्षा­या­मि­द­माह — द्वन्द्वमोहेन द्वन्द्व­नि­मित्तः मोहः द्वन्द्वमोहः तेन । तावेव इच्छाद्वेषौ शीतोष्णवत् परस्परविरुद्धौ सुख­दुः­ख­त­द्धे­तु­वि­षयौ यथाकालं सर्वभूतैः सम्बध्यमानौ द्वन्द्वशब्देन अभिधीयेते । यत्र यदा इच्छाद्वेषौ सुख­दुः­ख­त­द्धे­तु­स­म्प्राप्त्या लब्धात्मकौ भवतः, तदा तौ सर्वभूतानां प्रज्ञायाः स्वव­शा­पा­द­न­द्वा­रेण पर­मा­र्था­त्म­त­त्त्व­वि­ष­य­ज्ञा­नो­त्प­त्ति­प्र­ति­ब­न्ध­का­रणं मोहं जनयतः । न हि इच्छा­द्वे­ष­दो­ष­व­शी­कृ­त­चि­त्तस्य यथा­भू­ता­र्थ­वि­ष­य­ज्ञा­न­मु­त्प­द्यते बहिरपि ; किमु वक्तव्यं ताभ्या­मा­वि­ष्ट­बुद्धेः संमूढस्य प्रत्यगात्मनि बहुप्रतिबन्धे ज्ञानं नोत्पद्यत इति । अतः तेन इच्छा­द्वे­ष­स­मु­त्थेन द्वन्द्वमोहेन, भारत भरतान्वयज, सर्वभूतानि संमोहितानि सन्ति संमोहं संमूढतां सर्गे जन्मनि, उत्पत्तिकाले इत्येतत् , यान्ति गच्छन्ति हे परन्तप । मोहवशान्येव सर्वभूतानि जायमानानि जायन्ते इत्यभिप्रायः । यतः एवम् , अतः तेन द्वन्द्वमोहेन प्रति­ब­द्ध­प्र­ज्ञा­नानि सर्वभूतानि संमोहितानि मामात्मभूतं न जानन्ति ; अत एव आत्मभावे मां न भजन्ते ॥ २७ ॥

के पुनः अनेन द्वन्द्वमोहेन निर्मुक्ताः सन्तः त्वां विदित्वा यथा­शा­स्त्र­मा­त्म­भा­वेन भजन्ते इत्य­पे­क्षि­त­मर्थं दर्शितुम् उच्यते —

येषां त्वन्तगतं पापं
जनानां पुण्यकर्मणाम् ।
ते द्वन्द्व­मो­ह­नि­र्मुक्ता
भजन्ते मां दृढव्रताः ॥ २८ ॥

२८

येषां तु पुनः अन्तगतं समाप्तप्रायं क्षीणं पापं जनानां पुण्यकर्मणां पुण्यं कर्म येषां सत्त्व­शु­द्धि­का­रणं विद्यते ते पुण्यकर्माणः तेषां पुण्यकर्मणाम् , ते द्वन्द्व­मो­ह­नि­र्मुक्ताः यथोक्तेन द्वन्द्वमोहेन निर्मुक्ताः भजन्ते मां परमात्मानं दृढव्रताः । ‘एवमेव परमार्थतत्त्वं नान्यथा’ इत्येवं सर्व­प­रि­त्या­ग­व्र­तेन निश्चि­त­वि­ज्ञानाः दृढव्रताः उच्यन्ते ॥ २८ ॥

ते किमर्थं भजन्ते इत्युच्यते —

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्न­म­ध्यात्मं कर्म चाखिलम् ॥ २९ ॥

२९

जरामरणमोक्षाय जरामरणयोः मोक्षार्थं मां परमेश्वरम् आश्रित्य मत्स­मा­हि­त­चित्ताः सन्तः यतन्ति प्रयतन्ते ये, ते यत् ब्रह्म परं तत् विदुः कृत्स्नं समस्तम् अध्यात्मं प्रत्य­गा­त्म­वि­षयं वस्तु तत् विदुः, कर्म च अखिलं समस्तं विदुः ॥ २९ ॥

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदु­र्यु­क्त­चे­तसः ॥ ३० ॥

३०

साधिभूताधिदैवम् अधिभूतं च अधिदैवं च अधिभूताधिदैवम् , सह अधिभूताधिदैवेन वर्तते इति साधिभूताधिदैवं च मां ये विदुः, साधियज्ञं च सह अधियज्ञेन साधियज्ञं ये विदुः, प्रयाणकाले मरणकाले अपि च मां ते विदुः युक्तचेतसः समाहितचित्ता इति ॥ ३० ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­वा­र­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज­य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ श्रीम­द्भ­ग­व­द्गी­ता­भाष्ये सप्तमोऽध्यायः ॥