अद्वैतशारदा

श्रीमद्भगवद्गीताभाष्यम्

अष्टमोऽध्यायः

व्याख्याः

‘ते ब्रह्म तद्विदुः कृत्स्नम्’(भ. गी. ७ । २९) इत्यादिना भगवता अर्जुनस्य प्रश्नबीजानि उपदिष्टानि । अतः तत्प्रश्नार्थम् अर्जुनः उवाच —

अर्जुन उवाच —

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥

अधियज्ञः कथं कोऽत्र देहेऽ­स्मि­न्म­धु­सू­दन ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ २ ॥

एषां प्रश्नानां यथाक्रमं निर्णयाय श्रीभगवानुवाच —

श्रीभगवानुवाच —

अक्षरं ब्रह्म परमं स्वभा­वोऽ­ध्या­त्म­मु­च्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ३ ॥

अक्षरं न क्षरतीति अक्षरं परमात्मा, ‘एतस्य वा अक्षरस्य प्रशासने गार्गि’(बृ. उ. ३ । ८ । ९) इति श्रुतेः । ओङ्कारस्य च ‘ओमित्येकाक्षरं ब्रह्म’(भ. गी. ८ । १३) इति परेण विशेषणात् अग्रहणम् । परमम् इति च निरतिशये ब्रह्मणि अक्षरे उपपन्नतरम् विशेषणम् । तस्यैव परस्य ब्रह्मणः प्रतिदेहं प्रत्यगात्मभावः स्वभावः, स्वो भावः स्वभावः अध्यात्मम् उच्यते । आत्मानं देहम् अधिकृत्य प्रत्यगात्मतया प्रवृत्तं पर­मा­र्थ­ब्र­ह्मा­व­सानं वस्तु स्वभावः अध्यात्मम् उच्यते अध्यात्मशब्देन अभिधीयते । भूतभावोद्भवकरः भूतानां भावः भूतभावः तस्य उद्भवः भूतभावोद्भवः तं करोतीति भूतभावोद्भवकरः, भूत­व­स्तू­त्प­त्ति­कर इत्यर्थः । विसर्गः विसर्जनं देवतोद्देशेन चरुपुरोडाशादेः द्रव्यस्य परित्यागः ; स एष विसर्गलक्षणो यज्ञः कर्मसंज्ञितः कर्मशब्दित इत्येतत् । एतस्मात् हि बीजभूतात् वृष्ट्या­दि­क्र­मेण स्थावरजङ्गमानि भूतानि उद्भवन्ति ॥ ३ ॥

अधिभूतं क्षरो भावः पुरु­ष­श्चा­धि­दै­व­तम् ।
अधि­य­ज्ञोऽ­ह­मे­वात्र देहे देहभृतां वर ॥ ४ ॥

अधिभूतं प्राणिजातम् अधिकृत्य भवतीति । कोऽसौ ? क्षरः क्षरतीति क्षरः विनाशी, भावः यत्किञ्चित् जनिमत् वस्तु इत्यर्थः । पुरुषः पूर्णम् अनेन सर्वमिति, पुरि शयनात् वा, पुरुषः आदित्यान्तर्गतो हिरण्यगर्भः, सर्व­प्रा­णि­क­र­णा­नाम् अनुग्राहकः, सः अधिदैवतम् । अधियज्ञः सर्व­य­ज्ञा­भि­मा­निनी विष्ण्वाख्या देवता, ‘यज्ञो वै विष्णुः’(तै. सं. १ । ७ । ४) इति श्रुतेः । स हि विष्णुः अहमेव ; अत्र अस्मिन् देहे यो यज्ञः तस्य अहम् अधियज्ञः ; यज्ञो हि देह­नि­र्व­र्त्य­त्वेन देहसमवायी इति देहाधिकरणो भवति, देहभृतां वर ॥ ४ ॥

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेबरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ५ ॥

अन्तकाले मरणकाले च मामेव परमेश्वरं विष्णुं स्मरन् मुक्त्वा परित्यज्य कलेबरं शरीरं यः प्रयाति गच्छति, सः मद्भावं वैष्णवं तत्त्वं याति । नास्ति न विद्यते अत्र अस्मिन् अर्थे संशयः — याति वा न वा इति ॥ ५ ॥

न मद्विषय एव अयं नियमः । किं तर्हि ? —

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ६ ॥

यं यं वापि यं यं भावं देवताविशेषं स्मरन् चिन्तयन् त्यजति परित्यजति अन्ते अन्तकाले प्राणवियोगकाले कलेबरं शरीरं तं तमेव स्मृतं भावमेव एति नान्यं कौन्तेय, सदा सर्वदा तद्भावभावितः तस्मिन् भावः तद्भावः स भावितः स्मर्यमाणतया अभ्यस्तः येन सः तद्भावभावितः सन् ॥ ६ ॥

यस्मात् एवम् अन्त्या भावना देहा­न्त­र­प्राप्तौ कारणम् —

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्य­र्पि­त­म­नो­बु­द्धि­र्मा­मे­वै­ष्य­स्य­सं­शयः ॥ ७ ॥

तस्मात् सर्वेषु कालेषु माम् अनुस्मर यथाशास्त्रम् । युध्य च युद्धं च स्वधर्मं कुरु । मयि वासुदेवे अर्पिते मनोबुद्धी यस्य तव स त्वं मयि अर्पि­त­म­नो­बुद्धिः सन् मामेव यथास्मृतम् एष्यसि आगमिष्यसि ; असंशयः न संशयः अत्र विद्यते ॥ ७ ॥

किञ्च—

अभ्या­स­यो­ग­यु­क्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्था­नु­चि­न्त­यन् ॥ ८ ॥

अभ्या­स­यो­ग­यु­क्तेन मयि चित्त­स­म­र्प­ण­वि­ष­य­भूते एकस्मिन् तुल्य­प्र­त्य­या­वृ­त्ति­ल­क्षणः विल­क्ष­ण­प्र­त्य­या­न­न्त­रितः अभ्यासः स चाभ्यासो योगः तेन युक्तं तत्रैव व्यापृतं योगिनः चेतः तेन, चेतसा नान्यगामिना न अन्यत्र विषयान्तरे गन्तुं शीलम् अस्येति नान्यगामि तेन नान्यगामिना, परमं निरतिशयं पुरुषं दिव्यं दिवि सूर्यमण्डले भवं याति गच्छति हे पार्थ अनुचिन्तयन् शास्त्रा­चा­र्यो­प­दे­शम् अनुध्यायन् इत्येतत् ॥ ८ ॥

किंविशिष्टं च पुरुषं याति इति उच्यते —

कविं पुरा­ण­म­नु­शा­सि­ता­र­म­णो­र­णी­यां­स­म­नु­स्म­रेद्यः ।
सर्वस्य धाता­र­म­चि­न्त्य­रू­प­मा­दि­त्य­वर्णं तमसः परस्तात् ॥ ९ ॥

कविं क्रान्तदर्शिनं सर्वज्ञं पुराणं चिरन्तनम् अनुशासितारं सर्वस्य जगतः प्रशासितारम् अणोः सूक्ष्मादपि अणीयांसं सूक्ष्मतरम् अनुस्मरेत् अनुचिन्तयेत् यः कश्चित् , सर्वस्य कर्मफलजातस्य धातारं विधातारं विचित्रतया प्राणिभ्यो विभक्तारम् , अचिन्त्यरूपं न अस्य रूपं नियतं विद्यमानमपि केनचित् चिन्तयितुं शक्यते इति अचिन्त्यरूपः तम् , आदित्यवर्णम् आदित्यस्येव नित्य­चै­त­न्य­प्र­काशो वर्णो यस्य तम् आदित्यवर्णम् , तमसः परस्तात् अज्ञानलक्षणात् मोहान्धकारात् परं तम् अनुचिन्तयन् याति इति पूर्वेण सम्बन्धः ॥ ९ ॥

किञ्च —

प्रयाणकाले मनसाचलेन
भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्य
क्स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥

१०

प्रयाणकाले मरणकाले मनसा अचलेन चलनवर्जितेन भक्त्या युक्तः भजनं भक्तिः तया युक्तः योगबलेन चैव योगस्य बलं योगबलं समा­धि­ज­सं­स्का­र­प्र­च­य­ज­नि­त­चि­त्त­स्थै­र्य­ल­क्षणं योगबलं तेन च युक्तः इत्यर्थः, पूर्वं हृदयपुण्डरीके वशीकृत्य चित्तं ततः ऊर्ध्वगामिन्या नाड्या भूमिजयक्रमेण भ्रुवोः मध्ये प्राणम् आवेश्य स्थापयित्वा सम्यक् अप्रमत्तः सन् , सः एवं विद्वान् योगी ‘कविं पुराणम्’(भ. गी. ८ । ९) इत्यादिलक्षणं तं परं परतरं पुरुषम् उपैति प्रतिपद्यते दिव्यं द्योतनात्मकम् ॥ १० ॥

पुनरपि वक्ष्यमाणेन उपायेन प्रतिपित्सितस्य ब्रह्मणो वेद­वि­द्व­द­ना­दि­वि­शे­ष­ण­वि­शे­ष्यस्य अभिधानं करोति भगवान् —

यदक्षरं वेदविदो वदन्ति
विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥

११

यत् अक्षरं न क्षरतीति अक्षरम् अविनाशि वेदविदः वेदार्थज्ञाः वदन्ति, ‘तद्वा एतदक्षरं गार्गि ब्राह्मणा अभिवदन्ति’(बृ. उ. ३ । ८ । ८) इति श्रुतेः, सर्व­वि­शे­ष­नि­व­र्त­क­त्वेन अभिवदन्ति ‘अस्थूलमनणु’ इत्यादि । किञ्च — विशन्ति प्रविशन्ति सम्य­ग्द­र्श­न­प्राप्तौ सत्यां यत् यतयः यतनशीलाः संन्यासिनः वीतरागाः वीतः विगतः रागः येभ्यः ते वीतरागाः । यच्च अक्षरमिच्छन्तः — ज्ञातुम् इति वाक्यशेषः — ब्रह्मचर्यं गुरौ चरन्ति आचरन्ति, तत् ते पदं तत् अक्षराख्यं पदं पदनीयं ते तव सङ्ग्रहेण सङ्ग्रहः सङ्क्षेपः तेन सङ्क्षेपेण प्रवक्ष्ये कथयिष्यामि ॥ ११ ॥

‘स यो ह वै तद्भ­ग­व­न्म­नु­ष्येषु प्राय­णा­न्त­मो­ङ्का­र­म­भि­ध्या­यीत कतमम् वाव स तेन लोकं जयतीति । ’(प्र. उ. ५ । १) ‘तस्मै स होवाच एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः’(प्र. उ. ५ । २) इत्युपक्रम्य ‘यः पुनरेतं त्रिमा­त्रे­णो­मि­त्ये­ते­नै­वा­क्ष­रेण परं पुरुषमभिध्यायीत — स सामभिरुन्नीयते ब्रह्मलोकम्’(प्र. उ. ५ । ५) इत्यादिना वचनेन, ‘अन्यत्र धर्मा­द­न्य­त्रा­ध­र्मात्’(क. उ. १ । २ । १४) इति च उपक्रम्य ‘सर्वे वेदा यत्पदमामनन्ति । तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवी­म्यो­मि­त्ये­तत्’(क. उ. १ । २ । १५) इत्यादिभिश्च वचनैः परस्य ब्रह्मणो वाचकरूपेण, प्रतिमावत् प्रतीकरूपेण वा, पर­ब्र­ह्म­प्र­ति­प­त्ति­सा­ध­न­त्वेन मन्द­म­ध्य­म­बु­द्धीनां विवक्षितस्य ओङ्कारस्य उपासनं कालान्तरे मुक्तिफलम् उक्तं यत् , तदेव इहापि ‘कविं पुरा­ण­म­नु­शा­सि­ता­रम्’(भ. गी. ८ । ९) ‘यदक्षरं वेदविदो वदन्ति’(भ. गी. ८ । ११) इति च उपन्यस्तस्य परस्य ब्रह्मणः पूर्वोक्तरूपेण प्रति­प­त्त्यु­पा­य­भू­तस्य ओङ्कारस्य काला­न्त­र­मु­क्ति­फ­लम् उपासनं योगधारणासहितं वक्तव्यम् , प्रस­क्ता­नु­प्र­सक्तं च यत्किञ्चित् , इत्येवमर्थः उत्तरो ग्रन्थ आरभ्यते —

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्या­धा­या­त्मनः प्राणमास्थितो योगधारणाम् ॥ १२ ॥

१२

सर्वद्वाराणि सर्वाणि च तानि द्वाराणि च सर्वद्वाराणि उपलब्धौ, तानि सर्वाणि संयम्य संयमनं कृत्वा मनः हृदि हृदयपुण्डरीके निरुध्य निरोधं कृत्वा निष्प्र­चा­र­मा­पाद्य, तत्र वशीकृतेन मनसा हृदयात् ऊर्ध्वगामिन्या नाड्या ऊर्ध्वमारुह्य मूर्ध्नि आधाय आत्मनः प्राणम् आस्थितः प्रवृत्तः योगधारणां धारयितुम् ॥ १२ ॥

तत्रैव च धारयन् —

ओमित्येकाक्षरं ब्रह्म
व्याह­र­न्मा­म­नु­स्म­रन् ।
यः प्रयाति त्यजन्देहं
स याति परमां गतिम् ॥ १३ ॥

१३

ओमिति एकाक्षरं ब्रह्म ब्रह्मणः अभिधानभूतम् ओङ्कारं व्याहरन् उच्चारयन् , तदर्थभूतं माम् ईश्वरम् अनुस्मरन् अनुचिन्तयन् यः प्रयाति म्रियते, सः त्यजन् परित्यजन् देहं शरीरम् — ‘त्यजन् देहम्’ इति प्रया­ण­वि­शे­ष­णा­र्थम् देहत्यागेन प्रयाणम् आत्मनः, न स्वरू­प­ना­शे­ने­त्यर्थः — सः एवं याति गच्छति परमां प्रकृष्टां गतिम् ॥ १३ ॥

किञ्च —

अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ १४ ॥

१४

अनन्यचेताः न अन्यविषये चेतः यस्य सोऽयम् अनन्यचेताः, योगी सततं सर्वदा यः मां परमेश्वरं स्मरति नित्यशः । सततम् इति नैरन्तर्यम् उच्यते, नित्यशः इति दीर्घकालत्वम् उच्यते । न षण्मासं संवत्सरं वा ; किं तर्हि ? यावज्जीवं नैरन्तर्येण यः मां स्मरतीत्यर्थः । तस्य योगिनः अहं सुलभः सुखेन लभ्यः हे पार्थ, नित्ययुक्तस्य सदा समाहितचित्तस्य योगिनः । यतः एवम् , अतः अनन्यचेताः सन् मयि सदा समाहितः भवेत् ॥ १४ ॥

तव सौलभ्येन किं स्यात् इत्युच्यते ; शृणु तत् मम सौलभ्येन यत् भवति —

मामुपेत्य पुनर्जन्म दुःखा­ल­य­म­शा­श्व­तम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ १५ ॥

१५

माम् उपेत्य माम् ईश्वरम् उपेत्य मद्भावमापद्य पुनर्जन्म पुनरुत्पत्तिं नाप्नुवन्ति न प्राप्नुवन्ति । किंविशिष्टं पुनर्जन्म न प्राप्नुवन्ति इति, तद्विशेषणमाह — दुःखालयं दुःखानाम् आध्या­त्मि­का­दीनां आलयम् आश्रयम् आलीयन्ते यस्मिन् दुःखानि इति दुःखालयं जन्म । न केवलं दुःखालयम् , अशाश्वतम् अनवस्थितस्वरूपं च । नाप्नुवन्ति ईदृशं पुनर्जन्म महात्मानः यतयः संसिद्धिं मोक्षाख्यां परमां प्रकृष्टां गताः प्राप्ताः । ये पुनः मां न प्राप्नुवन्ति ते पुनः आवर्तन्ते ॥ १५ ॥

किं पुनः त्वत्तः अन्यत् प्राप्ताः पुनरावर्तन्ते इति, उच्यते —

आ ब्रह्म­भु­व­ना­ल्लोकाः पुन­रा­व­र्ति­नोऽ­र्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥

१६

आ ब्रह्मभुवनात् भवन्ति अस्मिन् भूतानि इति भुवनम् , ब्रह्मणो भुवनं ब्रह्मभुवनम् , ब्रह्मलोक इत्यर्थः, आ ब्रह्मभुवनात् सह ब्रह्मभुवनेन लोकाः सर्वे पुनरावर्तिनः पुन­रा­व­र्त­न­स्व­भावाः हे अर्जुन । माम् एकम् उपेत्य तु कौन्तेय पुनर्जन्म पुनरुत्पत्तिः न विद्यते ॥ १६ ॥

ब्रह्मलोकसहिताः लोकाः कस्मात् पुनरावर्तिनः ? काल­प­रि­च्छि­न्न­त्वात् । कथम् ? —

सह­स्र­यु­ग­प­र्य­न्त­म­ह­र्य­द्ब्र­ह्मणो विदुः ।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ १७ ॥

१७

सह­स्र­यु­ग­प­र्यन्तं सहस्राणि युगानि पर्यन्तः पर्यवसानं यस्य अह्नः तत् अहः सह­स्र­यु­ग­प­र्य­न्तम् , ब्रह्मणः प्रजापतेः विराजः विदुः, रात्रिम् अपि युगसहस्रान्तां अहःपरिमाणामेव । के विदुरित्याह — ते अहोरात्रविदः कालसङ्ख्याविदो जनाः इत्यर्थः । यतः एवं कालपरिच्छिन्नाः ते, अतः पुनरावर्तिनो लोकाः ॥ १७ ॥

प्रजापतेः अहनि यत् भवति रात्रौ च, तत् उच्यते —

अव्य­क्ता­द्व्य­क्तयः सर्वाः प्रभ­व­न्त्य­ह­रा­गमे ।
रात्र्यागमे प्रलीयन्ते तत्रै­वा­व्य­क्त­सं­ज्ञके ॥ १८ ॥

१८

अव्यक्तात् अव्यक्तं प्रजापतेः स्वापावस्था तस्मात् अव्यक्तात् व्यक्तयः व्यज्यन्त इति व्यक्तयः स्थाव­र­ज­ङ्ग­म­ल­क्षणाः सर्वाः प्रजाः प्रभवन्ति अभिव्यज्यन्ते, अह्नः आगमः अहरागमः तस्मिन् अहरागमे काले ब्रह्मणः प्रबोधकाले । तथा रात्र्यागमे ब्रह्मणः स्वापकाले प्रलीयन्ते सर्वाः व्यक्तयः तत्रैव पूर्वोक्ते अव्यक्तसंज्ञके ॥ १८ ॥

अकृ­ता­भ्या­ग­म­कृ­त­वि­प्र­णा­श­दो­ष­प­रि­हा­रा­र्थम् , बन्ध­मो­क्ष­शा­स्त्र­प्र­वृ­त्ति­सा­फ­ल्य­प्र­द­र्श­ना­र्थम् अवि­द्या­दि­क्ले­श­मू­ल­क­र्मा­श­य­व­शाच्च अवशः भूतग्रामः भूत्वा भूत्वा प्रलीयते इत्यतः संसारे वैरा­ग्य­प्र­द­र्श­नार्थं च इदमाह —

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ १९ ॥

१९

भूतग्रामः भूतसमुदायः स्थाव­र­ज­ङ्ग­म­ल­क्षणः यः पूर्वस्मिन् कल्पे आसीत् स एव अयं नान्यः । भूत्वा भूत्वा अहरागमे, प्रलीयते पुनः पुनः रात्र्यागमे अह्नः क्षये अवशः अस्वतन्त्र एव, हे पार्थ, प्रभवति जायते अवश एव अहरागमे ॥ १९ ॥

यत् उपन्यस्तम् अक्षरम् , तस्य प्राप्त्युपायो निर्दिष्टः ‘ओमित्येकाक्षरं ब्रह्म’(भ. गी. ८ । १३) इत्यादिना । अथ इदानीम् अक्षरस्यैव स्वरू­प­नि­र्दि­दि­क्षया इदम् उच्यते, अनेन योगमार्गेण इदं गन्तव्यमिति —

परस्तस्मात्तु भावोऽ­न्योऽ­व्य­क्तोऽ­व्य­क्ता­त्स­ना­तनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥

२०

परः व्यतिरिक्तः भिन्नः ; कुतः ? तस्मात् पूर्वोक्तात् । तु—शब्दः अक्षरस्य विवक्षितस्य अव्यक्तात् वैल­क्ष­ण्य­वि­शे­ष­णार्थः । भावः अक्षराख्यं परं ब्रह्म । व्यतिरिक्तत्वे सत्यपि साल­क्ष­ण्य­प्र­स­ङ्गोऽ­स्तीति तद्वि­नि­वृ­त्त्य­र्थम् आह — अन्यः इति । अन्यः विलक्षणः । स च अव्यक्तः अनिन्द्रियगोचरः । ‘परस्तस्मात्’ इत्युक्तम् ; कस्मात् पुनः परः ? पूर्वोक्तात् भूत­ग्रा­म­बी­ज­भू­तात् अविद्यालक्षणात् अव्यक्तात् । अन्यः विलक्षणः भावः इत्यभिप्रायः । सनातनः चिरन्तनः यः सः भावः सर्वेषु भूतेषु ब्रह्मादिषु नश्यत्सु न विनश्यति ॥ २० ॥

अव्यक्तोऽक्षर इत्यु­क्त­स्त­माहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥

२१

योऽसौ अव्यक्तः अक्षरः इत्युक्तः, तमेव अक्षरसंज्ञकम् अव्यक्तं भावम् आहुः परमां प्रकृष्टां गतिम् । यं परं भावं प्राप्य गत्वा न निवर्तन्ते संसाराय, तत् धाम स्थानं परमं प्रकृष्टं मम, विष्णोः परमं पदमित्यर्थः ॥ २१ ॥

तल्लब्धेः उपायः उच्यते —

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥

२२

पुरुषः पुरि शयनात् पूर्णत्वाद्वा, स परः पार्थ, परः निरतिशयः, यस्मात् पुरुषात् न परं किञ्चित् । सः भक्त्या लभ्यस्तु ज्ञानलक्षणया अनन्यया आत्मविषयया । यस्य पुरुषस्य अन्तःस्थानि मध्यस्थानि भूतानि कार्यभूतानि ; कार्यं हि कारणस्य अन्तर्वर्ति भवति । येन पुरुषेण सर्वं इदं जगत् ततं व्याप्तम् आकाशेनेव घटादि ॥ २२ ॥

प्रकृतानां योगिनां प्रण­वा­वे­शि­त­ब्र­ह्म­बु­द्धीनां काला­न्त­र­मु­क्ति­भाजां ब्रह्म­प्र­ति­प­त्तये उत्तरो मार्गो वक्तव्य इति ‘यत्र काले’ इत्यादि विव­क्षि­ता­र्थ­स­म­र्प­णा­र्थम् उच्यते, आवृ­त्ति­मा­र्गो­प­न्यासः इत­र­मा­र्ग­स्तु­त्यर्थः —

यत्र काले त्वना­वृ­त्ति­मा­वृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥

२३

यत्र काले प्रयाताः इति व्यवहितेन सम्बन्धः । यत्र यस्मिन् काले तु अनावृत्तिम् अपुनर्जन्म आवृत्तिं तद्विपरीतां चैव । योगिनः इति योगिनः कर्मिणश्च उच्यन्ते, कर्मिणस्तु गुणतः — ‘कर्मयोगेन योगिनाम्’(भ. गी. ३ । ३) इति विशेषणात् — योगिनः । यत्र काले प्रयाताः मृताः योगिनः अनावृत्तिं यान्ति, यत्र काले च प्रयाताः आवृत्तिं यान्ति, तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥

तं कालमाह —

अग्नि­र्ज्यो­ति­रहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ २४ ॥

२४

अग्निः कालाभिमानिनी देवता । तथा ज्योतिरपि देवतैव कालाभिमानिनी । अथवा, अग्निज्योतिषी यथाश्रुते एव देवते । भूयसा तु निर्देशो ‘यत्र काले’ ‘तं कालम्’ इति आम्रवणवत् । तथा अहः देवता अहरभिमानिनी ; शुक्लः शुक्लपक्षदेवता ; षण्मासा उत्तरायणम् , तत्रापि देवतैव मार्गभूता इति स्थितः अन्यत्र अयं न्यायः । तत्र तस्मिन् मार्गे प्रयाताः मृताः गच्छन्ति ब्रह्म ब्रह्मविदो ब्रह्मोपासकाः ब्रह्मोपासनपरा जनाः । ‘क्रमेण’ इति वाक्यशेषः । न हि सद्यो­मु­क्ति­भाजां सम्य­ग्द­र्श­न­नि­ष्ठानां गतिः आगतिर्वा क्वचित् अस्ति, ‘न तस्य प्राणा उत्क्रामन्ति’(बृ. उ. ४ । ४ । ६) इति श्रुतेः । ब्रह्म­सं­ली­न­प्राणा एव ते ब्रह्ममया ब्रह्मभूता एव ते ॥ २४ ॥

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ २५ ॥

२५

धूमो रात्रिः धूमाभिमानिनी रात्र्यभिमानिनी च देवता । तथा कृष्णः कृष्णपक्षदेवता । षण्मासा दक्षिणायनम् इति च पूर्ववत् देवतैव । तत्र चन्द्रमसि भवं चान्द्रमसं ज्योतिः फलम् इष्टादिकारी योगी कर्मी प्राप्य भुक्त्वा तत्क्षयात् इह पुनः निवर्तते ॥ २५ ॥

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्य­ना­वृ­त्ति­म­न्य­या­व­र्तते पुनः ॥ २६ ॥

२६

शुक्लकृष्णे शुक्ला च कृष्णा च शुक्लकृष्णे, ज्ञान­प्र­का­श­क­त्वात् शुक्ला, तदभावात् कृष्णा ; एते शुक्लकृष्णे हि गती जगतः इति अधिकृतानां ज्ञानकर्मणोः, न जगतः सर्वस्यैव एते गती सम्भवतः ; शाश्वते नित्ये, संसारस्य नित्यत्वात् , मते अभिप्रेते । तत्र एकया शुक्लया याति अनावृत्तिम् , अन्यया इतरया आवर्तते पुनः भूयः ॥ २६ ॥

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥

२७

न एते यथोक्ते सृती मार्गौ पार्थ जानन् संसाराय एका, अन्या मोक्षाय इति, योगी न मुह्यति कश्चन कश्चिदपि । तस्मात् सर्वेषु कालेषु योगयुक्तः समाहितो भव अर्जुन ॥ २७ ॥

शृणु तस्य योगस्य माहात्म्यम् —

वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥

२८

वेदेषु सम्यगधीतेषु यज्ञेषु च साद्गुण्येन अनुष्ठितेषु तपःसु च सुतप्तेषु दानेषु च सम्यग्दत्तेषु, एतेषु यत् पुण्यफलं प्रदिष्टं शास्त्रेण, अत्येति अतीत्य गच्छति तत् सर्वं फलजातम् ; इदं विदित्वा सप्त­प्र­श्न­नि­र्ण­य­द्वा­रेण उक्तम् अर्थं सम्यक् अवधार्य अनुष्ठाय योगी, परम् उत्कृष्टम् ऐश्वरं स्थानम् उपैति च प्रतिपद्यते आद्यम् आदौ भवम् , कारणं ब्रह्म इत्यर्थः ॥ २८ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ श्रीम­द्भ­ग­व­द्गी­ता­भाष्ये अष्टमोऽध्यायः ॥