भामतीव्याख्या
१ परिच्छेदः
भामतीव्याख्या श्रीवाचस्पतिमिश्रप्रणीता । ।
अनिर्वाच्याविद्याद्वितयसचिवस्य प्रभवतो विवर्ता यस्यैते वियदनिलतेजोऽबवनयः ।
यतश्चाभूद्विश्वं चरमचरमुच्चावचमिदं नमामस्तद्ब्रह्मापरिमितसुखज्ञानममृतम् ॥ १ ॥
निःश्वसितमस्य वेदा वीक्षितमेतस्य पञ्च भूतानि ।
स्मितमेतस्य चराचरमस्य च सुप्तं महाप्रलयः ॥ २ ॥
षड्भिरङ्गैरुपेताय विविधैरव्ययैरपि ।
शाश्वताय नमस्कुर्मो वेदाय च भवाय च ॥ ३ ॥
मार्तण्डतिलकस्वामिमहागणपतीन् वयम् ।
विश्ववन्द्यान्नमस्यामः सर्वसिद्धिविधायिनः ॥ ४ ॥
ब्रह्मसूत्रकृते तस्मै वेदव्यासाय वेधसे ।
ज्ञानशक्त्यवताराय नमो भगवतो हरेः ॥ ५ ॥
नत्वा विशुद्धविज्ञानं शङ्करं करुणानिधिम् ।
भाष्यं प्रसन्नगम्भीरं तत्प्रणीतं विभज्यते ॥ ६ ॥
आचार्यकृतिनिवेशनमप्यवधूतं वचोऽस्मदादीनाम् ।
रथ्योदकमिव गङ्गाप्रवाहपातः पवित्रयति ॥ ७ ॥
अथ यदसन्दिग्धमप्रयोजनं च न तत्प्रेक्षावत्प्रतिपित्सागोचरः, यथा समनस्केन्द्रियसंनिकृष्टः स्फीतालोकमध्यवर्ती घटः, करटदन्ता वा तथा चेदं ब्रह्मेति व्यापकविरुद्धोपलब्धिः । तथा हि ‘बृहत्त्वाद्बृंहणत्वाद्वात्मैव’ ब्रह्मेति गीयते । स चायमाकीटपतङ्गेभ्य आ च देवर्षिभ्यः प्राणभृन्मात्रस्येदङ्कारास्पदेभ्यो देहेन्द्रियमनोबुद्धिविषयेभ्यो विवेकेन ’ अहम्'' इत्यसन्दिग्धाविपर्यस्तापरोक्षानुभवसिद्ध इति न जिज्ञासास्पदम् । न हि जातु कश्चिदत्र सन्दिग्धेऽहं वा नाहं वेति । न च विपर्यस्यति नाहमेव इति । न च अहं कृशः, स्थूलः, गच्छामि इत्यादिदेहधर्मसामानाधिकरण्यदर्शनाद्देहालम्बनोऽयमहङ्कार इति साम्प्रतम् । तदालम्बनत्वे हि योऽहं बाल्ये पितरावन्वभवं स एव स्थाविरे प्रणप्तॄननुभवामीति प्रतिसन्धानं न भवेत् । न हि बालस्थविरयोः शरीरयोरस्ति मनागपि प्रत्यभिज्ञानगन्धो येनैकत्वमध्यवसीयेत । तस्माद्येषु व्यावर्तमानेषु यदनुवर्तते तत्तेभ्यो भिन्नं यथा च कुसुमेभ्यः सूत्रम् । तथा बालादिशरीरेषु व्यावर्तमानेष्वपि परं परमहङ्कारास्पदमनुवर्तमानं तेभ्यो भिद्यते । अपि च स्वप्नान्ते दिव्यशरीरभेदमास्थाय तदुचितान्भोगान्भुञ्जान एव प्रतिबुद्धो मनुष्यशरीरमात्मानं पश्यन् ‘नाहं देवो मनुष्य एव’ इति देवशरीरे बाध्यमानेऽप्यहमास्पदमबाध्यमानं शरीराद्भिन्नं प्रतिपद्यते । अपि च योगव्याघ्रः शरीरभेदेऽप्यात्मानमभिन्नमनुभवतीति नाहङ्कारालम्बनं देहः । अत एव नेन्द्रियाण्यप्यस्यालम्बनम् , इन्द्रियभेदेऽपि ‘योऽहमद्राक्षं स एवैतर्हि स्पृशामि’ इत्यहमालम्बनस्य प्रत्यभिज्ञानात् । विषयेभ्यस्त्वस्य विवेकः स्थवीयानेव । बुद्धिमनसोश्च करणयोः अहम् इति कर्तृप्रतिभासप्रख्यानालम्बनत्वायोगः । ‘कृशोऽहम्’ ’ अन्धोऽहम्’ इत्यादयश्च प्रयोगा असत्यप्यभेदे कथञ्चिन्मञ्चाः क्रोशन्ति इत्यादिवदौपचारिका इति युक्तमुत्पश्यामः । तस्मादिदङ्कारास्पदेभ्यो देहेन्द्रियमनोबुद्धिविषयेभ्यो व्यावृत्तः, स्फुटतराहमनुभवगम्य आत्मा संशयाभावादजिज्ञास्य इति सिद्धम् । अप्रयोजनत्वाच्च । तथा हि - संसारनिवृत्तिरपवर्ग इह प्रयोजनं विवक्षितम् । संसारश्च आत्मयाथात्म्याननुभवनिमित्त आत्मयाथात्म्यज्ञानेन निवर्तनीयः । स चेदयमनादिरनादिना आत्मयाथात्म्यज्ञानेन सहानुवर्तते, कुतोऽस्य निवृत्तिरविरोधात् ? कुतश्चात्मयाथात्म्याननुभवः ? न हि अहम् इत्यनुभवादन्यदात्मयाथात्म्यज्ञानमस्ति । न च अहम् इति सर्वजनीनस्फुटतरानुभवसमर्थित आत्मा देहेन्द्रियादिव्यतिरिक्तः शक्य उपनिषदां सहस्रैरप्यन्यथयितुम् , अनुभवविरोधात् । न ह्यागमाः सहस्रमपि घटं पटयितुमीशते । तस्मादनुभवविरोधादुपचरितार्था एवोपनिषद इति युक्तमुत्पश्याम इत्याशयवानाशङ्क्य परिहरति -
युष्मदस्मत्प्रत्ययगोचरयोः इति ।
अत्र च युष्मदस्मदित्यादिर्मिथ्याभवितुं युक्तमित्यन्तः शङ्काग्रन्थः । तथापीत्यादिपरिहारग्रन्थः । तथापीत्यभिसम्बन्धाच्छङ्कायां यद्यपीति पठितव्यम् । इदमस्मत्प्रत्ययगोचरयोरिति वक्तव्ये युष्मद्ग्रहणमत्यन्तभेदोपलक्षणार्थम् । यथा ह्यहङ्कारप्रतियोगी त्वङ्कारो नैवमिदङ्कारः, एते वयमिमे वयमास्महे इति बहुलं प्रयोगदर्शनादिति । चित्स्वभाव आत्मा विषयी, जडस्वभावा बुद्धीन्द्रियदेहविषया विषयाः । एते हि चिदात्मानं विसिन्वन्ति अवबध्नन्ति । स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत् । परस्परानध्यासहेतावत्यन्तवैलक्षण्ये दृष्टान्तः -
तमः प्रकाशवदिति ।
न हि जातु कश्चित्समुदाचरद्वृत्तिनी प्रकाशतमसी परस्परात्मतया प्रतिपत्तुमर्हति । तदिदमुक्तम् -
इतरेतरभावानुपपत्ताविति ।
इतरेतरभावः इतरेतरत्वम् , तादात्म्यमिति यावत् तस्यानुपपत्ताविति । स्यादेतत् । मा भूद्धर्मिणोः परस्परभावः तद्धर्माणां तु जाड्यचैतन्यनित्यत्वानित्यत्वादीनामितरेतराध्यासो भविष्यति ।
दृश्यते हि धर्मिणोर्विवेकग्रहणेऽपि तद्धर्माणामध्यासः, यथा कुसुमाद्भेदेन गृह्यमाणेऽपि स्फटिकमणावतिस्वच्छतया जपाकुसुमप्रतिबिम्बोद्ग्राहिण्यरुणः स्फटिकैत्यारुण्यविभ्रम इत्यत उक्तम् -
तद्धर्माणामपीति ।
इतरेतरत्र धर्मिणि धर्माणां भावो विनिमयस्तस्यानुपपत्तिः । अयमभिसन्धिः - रूपवद्धि द्रव्यमतिस्वच्छतया रूपवतो द्रव्यान्तरस्य तद्विवेकेन गृह्यमाणस्यापि छायां गृह्णीयात् , चिदात्मा त्वरूपो विषयी न विषयच्छायामुद्ग्राहयितुमर्हति । यथाहुः -'शब्दगन्धरसानां च कीदृशी प्रतिबिम्बता” इति । तदिह पारिशेष्याद्विषयविषयिणोरन्योन्यात्मसम्भेदेनैव तद्धर्माणामपि परस्परसम्भेदेन विनिमयात्मना भवितव्यम् , तौ चेद्धर्मिणावत्यन्तविवेकेन गृह्यमाणावसम्भिन्नौ, असम्भिन्नाः सुतरां तयोर्धर्माः, स्वाश्रयाभ्यां व्यवधानेन दूरापेतत्वात् ।
तदिदमुक्तम् -
सुतरामिति ।
तद्विपर्ययेणेति ।
विषयविपर्ययेणेत्यर्थः । मिथ्याशब्दोऽपह्नववचनः । एतदुक्तं भवति - अध्यासो भेदाग्रहेण व्याप्तः, तद्विरुद्धश्चेहास्ति भेदग्रहः, स भेदाग्रहं निवर्तयंस्तद्व्याप्तमध्यासमपि निवर्तयतीति । मिथ्येति भवितुं युक्तं यद्यपि तथापीति योजना ।। इदमत्राकूतम् - भवेदेतदेवं यद्यहमित्यनुभवे आत्मतत्वं प्रकाशेत । न त्वेतदस्ति । तथाहि समस्तोपाध्यनवच्छिन्नानन्तानन्दचैतन्यैकरसमुदासीनमेकमद्वितीयमात्मतत्त्वं श्रुतिस्मृतीतिहासपुराणेषु गीयते । न चैतान्युपक्रमपरामर्शोपसंहारैः क्रियासमभिहारेणेदृगात्मतत्त्वमभिदधति तत्पराणि सन्ति शक्यानि शक्रेणाप्युपचरितार्थानि कर्तुम् । अभ्यासे हि भूयस्त्वमर्थस्य भवति, यथाहो दर्शनीयाहो दर्शनीयेति न न्यूनत्वं, प्रागेवोपचरितत्वमिति । अहमनुभवस्तु प्रादेशिकमनेकविधशोकदुःखादिप्रपञ्चोपप्लुतमात्मानमादर्शयन् कथमात्मतत्त्वगोचरः कथं वानुपप्लवः । न च ज्येष्ठप्रमाणप्रत्यक्षविरोधादाम्नायस्यैव तदपेक्षस्याप्रामाण्यमुपचरितार्थत्वं चेति युक्तम् , तस्यापौरुषेयतया निरस्तसमस्तदोषाशङ्कस्य, बोधकतया स्वतःसिद्धप्रमाणभावस्य स्वकार्ये प्रमितावनपेक्षत्वात् । प्रमितावनपेक्षत्वेऽप्युत्पत्तौ प्रत्यक्षापेक्षत्वात्तद्विरोधादनुत्पत्तिलक्षणमप्रामाण्यमिति चेन्न । उत्पादकाप्रतिद्वन्द्वित्वात् । न ह्यागमज्ञानं सांव्यवहारिकं प्रत्यक्षस्य प्रामाण्यमुपहन्ति येन कारणाभावान्न भवेदपि तु तात्त्विकम् । न च तत्तस्योत्पादकम् । अतात्त्विकप्रमाणभावेभ्योऽपि सांव्यवहारिकप्रमाणेभ्यस्तत्त्वज्ञानोत्पत्तिदर्शनात् । तथा च वर्णे ह्रस्वत्वदीर्घत्वादयोऽन्यधर्मा अपि समारोपिताः तत्त्वप्रतिपत्तिहेतवः । न हि लौकिकाः नाग इति वा नग इति वा पदात्कुञ्चरं वा तरुं वा प्रतिपद्यमाना भवन्ति भ्रान्ताः । न चानन्यपरं वाक्यं स्वार्थमुपचरितार्थं युक्तम् । उक्तं हि ‘न विधौ परः शब्दार्थ’ इति । ज्येष्ठत्वं च अनपेक्षितस्य बाध्यत्वे हेतुः न तु बाधकत्वे, रजतज्ञानस्य ज्यायसः शुक्तिज्ञानेन कनीयसा बाधदर्शनात् । तदनपबाधने तदपबाधात्मनस्तस्योत्पत्तेरनुत्पत्तेः । दर्शितं च तात्त्विकप्रमाणभावस्यानपेक्षितत्वम् । तथा च पारमर्षं सूत्रं, “पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्”(आ. ६ पा. ५ सू. ५४) इति । तथा “पूर्वात्परबलीयस्त्वं तत्र नाम प्रतीयताम् । अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत्” ॥ इति । अपि च येऽप्यहङ्कारास्पदमात्मानमास्थिषत तैरप्यस्य न तात्त्विकत्वमभ्युपेतव्यम् - ’ अहमिहैवास्मि सदने जानानः’ इति सर्वव्यापिनः प्रादेशिकत्वेन ग्रहात् । उच्चतरगिरिशिखरवर्तिषु महातरुषु भूमिष्ठस्य दूर्वाप्रवालनिर्भासप्रत्ययवत् । न चेदं देहस्य प्रादेशिकत्वमनुभूयते न त्वात्मन इति साम्प्रतम् । न हि तदैवं भवति - ’ अहम्’ इति; गौणत्वे वा न ’ जानानः’ इति । अपि च परशब्दः परत्र लक्ष्यमाणगुणयोगेन वर्तत इति यत्र प्रयोक्तृप्रतिपत्रोः सम्प्रतिपत्तिः स गौणः, स च भेदप्रत्ययपुरःसरः । तद्यथा नैयमिकाग्निहोत्रवचनोऽग्निहोत्रशब्दः (आ.१. पा.४. सू.४)प्रकरणान्तरावधृतभेदे कौण्डपायिनामयनगते कर्मणि “मासमग्मिहोत्रं जुहोति”(आ. ७ पा. ३ सू. १) इत्यत्र साध्यसादृश्येन गौणः, माणवके चानुभवसिद्धभेदे सिंहात्सिंहशब्दः । न त्वहङ्कारस्य मुख्योऽर्थो निर्लुठितगर्भतया देहादिभ्यो भिन्नोऽनुभूयते, येन परशब्दः शरीरादौ गौणो भवेत् । न चात्यन्तनिरूठतया गौणेऽपि न गौणत्वाभिमानः सार्षपादिषु तैलशब्दवदिति वेदितव्यम् । तत्रापि स्नेहात्तिलभवाद्भेदे सिद्ध एव सार्षपादीनां तैलशब्दवाच्यत्वाभिमानो, न त्वर्थयोस्तैलसार्षपयोरभेदाध्यवसायः । तत्सिद्धं गौणत्वमुभयदर्शिनो गौणमुख्यविवेकविज्ञानेन व्याप्तं तदिदं व्यापकं विवेकज्ञानं निवर्तमानं गौणतामपि निवर्तयतीति । न च बालस्थविरशरीरभेदेऽपि सोऽहमित्येकस्यात्मनः प्रतिसन्धानाद्देहादिभ्यो भेदेन अस्त्यात्मानुभव इति वाच्यम् । परीक्षकाणां खल्वियं कथा न लौकिकानाम् । परीक्षका अपि हि व्यवहारसमये न लोकसामान्यमतिवर्तन्ते । वक्ष्यत्यनन्तरमेव हि भगवान्भाष्यकारः - “पश्वादिभिश्चाविशेषात्” इति । बाह्या अप्याहुः - “शास्त्रचिन्तकाः खल्वेवं विवेचयन्ति न प्रतिपत्तारः” इति । तत्पारिशेष्याच्चिदात्मगोचरमहङ्कारमहमिहास्मि सदन इति प्रयुञ्जानो लौकिकः शरीराद्यभेदग्रहादात्मनः प्रादेशिकत्वमभिमन्यते, नभस इव घटमणिकमल्लिकाद्युपाध्यवच्छेदादिति युक्तमुत्पश्यामः । न चाहङ्कारप्रामाण्याय देहादिवदात्मापि प्रादेशिक इति युक्तम् । तदा खल्वयमणुपरिमाणो वा स्याद्देहपरिमाणो वा ? अणुपरिमाणत्वे स्थूलोऽहम् दीर्घ इति च न स्यात् , देहपरिमाणत्वे तु सावयवतया देहवदनित्यत्वप्रसङ्गः । किञ्च अस्मिन्पक्षे अवयवसमुदायो वा चेतयेत्प्रत्येकं वावयवाः ? प्रत्येकं चेतनत्वपक्षे बहूनां चेतनानां स्वतन्त्राणामेकवाक्यताभावादपर्यायं विरुद्धदिक्क्रियतया शरीरमुन्मथ्येत, अक्रियं वा प्रसज्येत । समुदायस्य तु चैतन्ययोगे वृक्ण एकस्मिन्नवयवे चिदात्मनोऽप्यवयवो वृक्ण इति न चेतयेत् । न च बहूनामवयवानां परस्पराविनाभावनियमो दृष्टः । य एवावयवो विशीर्णस्तदा तदभावे न चेतयेत् । विज्ञानालम्बनत्वेऽप्यहंप्रत्ययस्य भ्रान्तत्वं तदवस्थमेव । तस्य स्थिरवस्तुनिर्भासत्वादस्थिरत्वाच्च विज्ञानानाम् । एतेन स्थूलोऽहमन्धोऽहं गच्छामीत्यादयोऽप्यध्यासतया व्याख्याताः । तदेवमुक्तेन क्रमेणाहंप्रत्यये पूतिकूष्माण्डीकृते भगवती श्रुतिरप्रत्यूहं कर्तृत्वभोक्तृत्वदुःखशोकाद्यात्मत्वमहमनुभवप्रसञ्जितमात्मनो निषेद्धुमर्हतीति ।
तदेवं सर्वप्रवादिश्रुतिस्मृतीतिहासपुराणप्रथितमिथ्याभावस्याहंप्रत्ययस्य स्वरूपनिमित्तफलैरुपव्याख्यानम् -
अन्योन्यस्मिन्नित्यादि ।
अत्र चान्योन्यस्मिन्धर्मिण्यात्मशरीरादौ ‘अन्योन्यात्मकताम्’ अध्यस्याहमिदं शरीरादीति । इदमिति च वस्तुतः, न प्रतीतितः । लोकव्यवहारो लोकानां व्यवहारः, स चायमहमिति व्यपदेशः । इतिशब्दसूचितश्च शरीराद्यनुकूलं प्रतिकूलं च प्रमेयजातं प्रमाय प्रमाणेन तदुपादानपरिवर्जनादिः । “अन्योन्यधर्मांश्चाध्यस्य” अन्योन्यस्मिन्धर्मिणि देहादिधर्माञ्जन्ममरणजराव्याध्यादीनात्मनि धर्मिणि अध्यस्तदेहादिभावे समारोप्य, तथा चैतन्यादीनात्मधर्मान् देहादावध्यस्तात्मभावे समारोप्य, ममेदं जरामरणपुत्रपशुस्वाम्यादीति व्यवहारो व्यपदेशः, इतिशब्दसूचितश्च तदनुरूपः प्रवृत्त्यादिः । अत्र च अध्यासव्यवहारक्रियाभ्यां यः कर्तोन्नीतः स समान इति समानकर्तृकत्वेनाध्यस्य व्यवहार इत्युपपन्नम् ।
पूर्वकालत्वसूचितमध्यासस्य व्यवहारकारणत्वं स्फुटयति -
मिथ्याज्ञाननिमित्तः व्यवहारः ।
मिथ्याज्ञानमध्यासस्तन्निमित्तः । तद्भावाभावानुविधानाद्व्यवहारभावाभावयोरित्यर्थः ।
तदेवमध्यासस्वरूपं फलं च व्यवहारमुक्त्वा तस्य निमित्तमाह -
इतरेतराविवेकेन ।
विवेकाग्रहणेत्यर्थः ।
अथाविवेक एव कस्मान्न भवति, तथा च नाध्यास इत्यत आह -
अत्यन्तविविक्तयोर्धर्मधर्मिणोः ।
परमार्थतो धर्मिणोरतादात्म्यं विवेको धर्माणां चासङ्कीर्णता विवेकः । स्यादेतत् । विविक्तयोर्वस्तुसतोर्भेदाग्रहनिबन्धनस्तादात्म्यविभ्रमो युज्यते, शुक्तेरिव रजताद्भेदाग्रह निबन्धनो रजततादात्म्यविभ्रमः ।
इह तु परमार्थसतश्चिदात्मनोऽत्यन्तभिन्नं न देहाद्यस्ति वस्तुसत् , तत्कुतश्चिदात्मनो भेदाग्रहः कुतश्च तादात्म्यविभ्रमः इत्यत आह -
सत्यानृते मिथुनीकृत्य इति ।
विवेकाग्रहादध्यस्येति योजना । सत्यं चिदात्मा, अनृतं बुद्धीन्द्रियदेहादि, ते द्वे धर्मिणी मिथुनीकृत्य युगलीकृत्येत्यर्थः । न च संवृतिपरमार्थसतोः पारमार्थिकं मिथुनमस्तीत्यभूततद्भावार्थस्य च्वेः प्रयोगः ।
एतदुक्तं भवति - अप्रतीतस्यारोपायोगादारोप्यस्य प्रतीतिरुपयुज्यते न वस्तुसत्तेति । स्यादेतत् । आरोप्यस्य प्रतीतौ सत्यां पूर्वदृष्टस्य समारोपः समारोपनिबन्धना च प्रतीतिरिति दुर्वारं परस्पराश्रयत्वमित्यत आह -
नैसर्गिक इति ।
स्वाभाविकोऽनादिरयं व्यवहारः । व्यवहारानादितया तत्कारणस्याध्यासस्यानादितोक्ता, ततश्च पूर्वपूर्वमिथ्याज्ञानोपदर्शितस्य बुद्धीन्द्रियशरीरादेरुत्तरोत्तराध्यासोपयोग इत्यनादित्वात्बीजाङ्कुरवन्न परस्पराश्रयत्वमित्यर्थः । स्यादेतत् । अद्धा पूर्वप्रतीतिमात्रमुपयुज्यत आरोपे, न तु प्रतीयमानस्य परमार्थसत्ता । प्रतीतिरेव तु अत्यन्तासतो गगनकमलिनीकल्पस्य देहेन्द्रियादेर्नोपपद्यते । प्रकाशमानत्वमेव हि चिदात्मनोऽपि सत्त्वं न तु तदतिरिक्तं सत्तासामान्यसमवायोऽर्थक्रियाकारिता वा, द्वैतापत्तेः । सत्तायाश्चार्थक्रियाकारितायाश्च सत्तान्तरार्थक्रियाकारितान्तरकल्पनेऽनवस्थापातात् , प्रकाशमानतैव सत्ताभ्युपेतव्या । तथा च देहादयः प्रकाशमानत्वान्नासन्तः, चिदात्मवत् ।
असत्त्वे वा न प्रकाशमानाः, तत्कथं सत्यानृतयोर्मिथुनीभावः, तदभावे वा कस्य कुतो भेदाग्रहः, तदसम्भवे कुतोऽध्यास इत्याशयवानाह -
आह
आक्षेप्ता -
कोऽयमध्यासो नाम ।
क इत्याक्षेपे ।
समाधाता लोकसिद्धमध्यासलक्षणमाचक्षाण एवाक्षेपं प्रतिक्षिपति -
उच्यते - स्मृतिरूपः परत्र पूर्वदृष्टावभासः ।
अवसन्नोऽवमतो वा भासोऽवभासः । प्रत्ययान्तरबाधश्चास्यवसादोऽवमानो वा । एतावता मिथ्याज्ञानमित्युक्तं भवति । तस्येदमुपव्याख्यानम् “पूर्वदृष्ट” इत्यादि । पूर्वदृष्टस्यावभासः पूर्वदृष्टावभासः । मिथ्याप्रत्ययश्चारोपविषयारोपणीयमिथुनमन्तरेण न भवतीति पूर्वदृष्टग्रहणेनानृतमारोपणीयमुपस्थापयति । तस्य च दृष्टत्वमात्रमुपयुज्यते न वस्तुसत्तेति दृष्टग्रहणम् । तथापि वर्तमानं दृष्टं दर्शनं नारोपोपयोगीति पूर्वेत्युक्तम् । तच्च पूर्वदृष्टं स्वरूपेण सदप्यारोपणीयतया अनिर्वाच्यमित्यनृतम् ।
आरोपविषयं सत्यमाह -
परत्रेति ।
परत्र शुक्तिकादौ परमार्थसति, तदनेन सत्यानृतमिथुनमुक्तम् । स्यादेतत् । परत्र पूर्वदृष्टावभास इत्यलक्षणम् , अतिव्यापकत्वात् । अस्ति हि स्वस्तिमत्यां गवि पूर्वदृष्टस्य गोत्वस्य, परत्र कालाक्ष्यामवभासः । अस्ति च पाटलिपुत्रे पूर्वदृष्टस्य देवदत्तस्य परत्र माहिष्मत्यामवभासः समीचीनः ।
अवभासपदं च समीचीनेऽपि प्रत्यये प्रसिद्धम् , यथा नीलस्यावभासः पीतस्यावभास इत्यत आह -
स्मृतिरूप इति ।
स्मृते रूपमिव रूपमस्येति स्मृतिरूपः । असंनिहितविषयत्वं च स्मृतिरूपत्वम् , संनिहितविषयं च प्रत्यभिज्ञानं समीचीनमिति नातिव्याप्तिः । नाप्यव्याप्तिः, स्वप्नज्ञानस्यापि स्मृतिविभ्रमरूपस्यैवंरूपत्वात् । अत्रापि हि स्मर्यमाणे पित्रादौ निद्रोपप्लववशादसंनिधानापरामर्शे, तत्र तत्र पूर्वदृष्टस्यैव संनिहितदेशकालत्वस्य समारोपः । एवं पीतः शङ्खस्तिक्तो गुडैत्यत्राप्येतल्लक्षणं योजनीयम् । तथा हि - बहिर्विनिर्गच्छदत्यच्छनयनरश्मिसम्पृक्तपित्तद्रव्यवर्तिनीं पीततां पित्तरहितामनुभवन् , शङ्खं च दोषाच्छादितशुक्लिमां न द्रव्यमात्रमनुभवन् , पीततायाश्च शङ्खासम्बन्धमननुभवन् , असम्बन्धाग्रहणसारूप्येणपीतं तपनीयपिण्डम्पीतं बिल्वफलमित्यादौ पूर्वदृष्टं सामानाधिकरण्यं पीतत्वशङ्खत्वयोरारोप्याहपीतः शङ्ख इति । एतेनतिक्तो गुड इति प्रत्ययो व्याख्यातः । एवं विज्ञातृपुरुषाभिमुखेष्वादर्शोदकादिषु स्वच्छेषु चाक्षुषं तेजो लग्नमपि बलीयसा सौर्येण तेजसा प्रतिस्रोतः प्रवर्तितं मुखसंयुक्तं मुखं ग्राहयत् , दोषवशात्तद्देशतामनभिमुखतां च मुखस्याग्राहयत् , पूर्वदृष्टाभिमुखादर्शोदकदेशतामाभिमुख्यं च मुखस्यारोपयतीति प्रतिबिम्बविभ्रमोऽपि लक्षितो भवति । एतेन द्विचन्द्रदिङ्मोहालातचक्रगन्धर्वनगरवंशोरगादिविभ्रमेष्वपि यथासम्भवं लक्षणं योजनीयम् । एतदुक्तं भवति - न प्रकाशमानतामात्रं सत्त्वम् , येन देहेन्द्रियादेः प्रकाशमानतया सद्भावो भवेत् । न हि सर्पादिभावेन रज्ज्वादयो वा स्फटिकादयो वा रक्तादिगुणयोगिनो न प्रतिभासन्ते, प्रतिभासमाना वा भवन्ति तदात्मानस्तद्धर्माणो वा । तथा सति मरुषु मरीचिचयम् , उच्चावचमुच्चलत्तुङ्गतरङ्गभङ्गमालेयमभ्यर्णवमवतीर्णा मन्दाकिनी, इत्यभिसन्धाय प्रवृत्तस्तत्तोयमापीय पिपासामुपशमयेत् । तस्मादकामेनाप्यारोपितस्य प्रकाशमानस्यापि न वस्तुसत्त्वमभ्युपगमनीयम् । न च मरीचिरूपेण सलिलमवस्तुसत्स्वरूपेण तु परमार्थसदेव, देहेन्द्रियादयस्तु स्वरूपेणाप्यसन्त इत्यनुभवागोचरत्वात्कथमारोप्यन्त इति साम्प्रतम् यतो यद्यसन्नानुभवगोचरः कथं तर्हि मरीच्यादीनामसतां तोयतयानुभवगोचरत्वम् , न च स्वरूपसत्त्वेन तोयात्मनापि सन्तो भवन्ति । यद्युच्येत नाभावो नाम भावादन्यः कश्चिदस्ति, अपि तु भाव एव भावान्तरात्मनाभावः स्वरूपेण तु भावः । यथाहुः - “भावान्तरमभावो हि कयाचित्तु व्यपेक्षया”(मण्डनमिश्रभ्रमविवेकः) इति । ततश्च भावात्मनोपाख्येयतयास्य युज्येतानुभवगोचरता । प्रपञ्चस्य पुनरत्यन्तासतो निरस्तसमस्तसामर्थ्यस्य निस्तत्त्वस्य कुतोऽनुभवविषयभावः, कुतो वा चिदात्मन्यारोपः । न च विषयस्य समस्तसामर्थ्यविरहेऽपि ज्ञानमेव तत्तादृशं स्वप्रत्ययसामर्थ्यासादितादृष्टान्तसिद्धस्वभावभेदमुपजातमसतः प्रकाशनं, तस्मादसत्प्रकाशनशक्तिरेवास्याविद्येति साम्प्रतम् । यतो येयमसत्प्रकाशनशक्तिर्विज्ञानस्य किं पुनरस्याः शक्यम् , असदिति चेत् , किमेतत्कार्यमाहोस्विदस्या ज्ञाप्यम् । न तावत्कार्यम् , असतस्तत्त्वानुपपत्तेः । नापि ज्ञाप्यं, ज्ञानान्तरानुपलब्धेः, अनवस्थापाताच्च । विज्ञानस्वरूपमेव असतः प्रकाश इति चेत् , कः पुनरेष सदसतोः सम्बन्धः ? असदधीननिरूपणत्वं सतो ज्ञानस्यासता सम्बन्ध इति चेत् , अहो बतायमतिनिर्वृत्तः प्रत्ययतपस्वी यस्यासत्यपि निरूपणमायतते, न च प्रत्ययस्तत्राधत्ते किञ्चित् , असत आधारत्वायोगात् । असदन्तरेण प्रत्ययो न प्रथत इति प्रत्ययस्यैवैष स्वभावो न त्वसदधीनमस्य किञ्चिदिति चेत् , अहो बतास्यासत्पक्षपातो यदयमतदुत्पत्तिरतदात्मा च तदविनाभावनियतः प्रत्यय इति । तस्मादत्यन्तासन्तः शरीरेन्द्रियादयो निस्तत्त्वा नानुभवविषया भवितुमर्हन्तीति । अत्र ब्रूमः - निस्तत्त्वं चेन्नानुभवगोचरः, तत्किमिदानीं मरीचयोऽपि तोयात्मना सतत्त्वा यदनुभवगोचराः स्युः । न सतत्त्वाः, तदात्मना मरीचीनामसत्त्वात् । द्विविधं च वस्तूनां तत्त्वं सत्त्वमसत्त्वं च । तत्र पूर्वं स्वतः, परं तु परतः । यथाहुः - “स्वरूपपररूपाभ्यां नित्यं सदसदात्मके । वस्तुनि ज्ञायते किञ्चिद्रूपं कैश्चित्कदा च न॥”(तत्वसङ्ग्रहः) इति । तत्किं मरीचिषु तोयनिर्भासप्रत्ययस्तत्त्वगोचरः, तथा च समीचीन इति न भ्रान्तो नापि बाध्येत । अद्धा न बाध्येत यदि मरीचीनतोयात्मतत्त्वानतोयात्मना गृह्णीयात् । तोयात्मना तु गृह्णन् कथमभ्रान्तः, कथं वा बाध्यः हन्त तोयाभावात्मनां मरीचिनां तोयभावात्मत्वं तावन्न सत् , तेषां तोयाभावादभेदेन तोयभावात्मतानुपपत्तेः । नाप्यसत् । वस्त्वन्तरमेव हि वस्त्वन्तरस्यासत्त्वमास्थीयते “भावान्तरमभावोऽन्यो न कश्चिदनिरूपणात्”(तत्वसङ्ग्रहः) इति वदद्भिः, न चारोपितं रूपं वस्त्वन्तरम् , तद्धि मरीचयो वा भवेयुः, गङ्गादिगतं तोयं वा । पूर्वस्मिन्कल्पे मरीचयः इति प्रत्ययः स्यात् , न तोयमिति । उत्तरस्मिंस्तु गङ्गायां तोयमिति स्यात् , न पुनरिहेति । देशभेदास्मरणे तोयमिति स्यान्न पुनरिहेति । न चेदमत्यन्तमसन्निरस्तसमस्तस्वरूपमलीकमेवास्तु इति साम्प्रतम् , तस्यानुभवगोचरत्वानुपपत्तेरित्युक्तमधस्तात् । तस्मान्न सत् , नासन्नापि सदसत् , परस्परविरोधादित्यनिर्वाच्यमेवारोपणीयं मरीचिषु तोयमास्थेयम् , तदनेन क्रमेणाध्यस्तं तोयं परमार्थतोयमिव, अत एव पूर्वदृष्टमिव, तत्त्वतस्तु न तोयं न च पूर्वदृष्टं, किं त्वनृतमनिर्वाच्यम् । एवं च देहेन्द्रियादिप्रपञ्चोऽप्यनिर्वाच्यः, अपूर्वोऽपि पूर्वमिथ्याप्रत्ययोपदर्शित इव परत्र चिदात्मन्यध्यस्यत इति उपपन्नम् , अध्यासलक्षणयोगात् । देहेन्द्रियादिप्रपञ्चबाधनं चोपपादयिष्यते । चिदात्मा तु श्रुतिस्मृतीतिहासपुराणगोचरः, तन्मूलतदविरुद्धन्यायनिर्णीतशुद्धबुद्धमुक्तस्वभावः सत्त्वेनैव निर्वाच्यः । अबाधिता स्वयम्प्रकाशतैव अस्य सत्ता, सा च स्वरूपमेव चिदात्मनः, न तु तदतिरिक्तं सत्तासामान्यसमवायोऽर्थक्रियाकारिता वेति सर्वमवदातम् ।
स चायमेवंलक्षणकोऽध्यासोऽनिर्वचनीयः सर्वेषामेव संमतः परीक्षकाणां, तद्भेदे परं विप्रतिपत्तिरित्यनिर्वचनीयतां द्रढयितुमाह -
तं केचिदन्यत्रान्यधर्माध्यास इति वदन्ति ।
अन्यधर्मस्य, ज्ञानधर्मस्य रजतस्य । ज्ञानाकारस्येति यावत् । अध्यासोऽन्यत्र बाह्ये । सौत्रान्तिकनये तावद्बाह्यमस्ति वस्तु सत् , तत्र ज्ञानाकारस्यारोपः । विज्ञानवादिनामपि यद्यपि न बाह्यं वस्तु सत् , तथाप्यनाद्यविद्यावासनारोपितमलीकं बाह्यम् , तत्र ज्ञानाकारस्याध्यारोपः । उपपत्तिश्च यद्यादृशमनुभवसिद्धं रूपं तत्तादृशमेवाभ्युपेतव्यमित्युत्सर्गः, अन्यथात्वं पुनरस्य बलवद्बाधकप्रत्ययवशात् नेदं रजतमिति च बाधकस्येदन्तामात्रबाधेनोपपत्तौ न रजतगोचरतोचिता । रजतस्य धर्मिणो बाधे हि रजतं च तस्य च धर्म इदन्ता बाधिते भवेताम् , तद्वरमिदन्तैवास्य धर्मो बाध्यतां न पुना रजतमपि धर्मि, तथा च रजतं बहिर्बाधितमर्थादान्तरे ज्ञाने व्यवतिष्ठत इति ज्ञानाकारस्य बहिरध्यासः सिध्यति ।
केचित्तु -
ज्ञानाकारख्यातावपरितुष्यन्तो वदन्ति -
यत्र यदध्यासस्तद्विवेकाग्रहनिबन्धनो भ्रम इति ।
अपरितोषकारणं चाहुः - विज्ञानकारता रजतादेरनुभवाद्वा व्यवस्थाप्येतानुमानाद्वा । तत्रानुमानमुपरिष्टान्निराकरिष्यते । अनुभवोऽपि रजतप्रत्ययो वा स्यात् , बाधकप्रत्ययो वा । न तावद्रजतानुभवः । स हीदङ्कारास्पदं रजतमावेदयति न त्वान्तरम् । अहमिति हि तदा स्यात् , प्रतिपत्तुः प्रत्ययादव्यतिरेकात् । भ्रान्तं विज्ञानं स्वाकारमेव बाह्यतयाध्यवस्यति, तथा च नाहङ्कारास्पदमस्य गोचरः, ज्ञानाकारता पुनरस्य बाधकप्रत्ययप्रवेदनीयेति चेत् , हन्त बाधकप्रत्ययमालोचयत्वायुष्मान् । किं पुरोवर्ति द्रव्यं रजताद्विवेचयत्याहोस्वित् ज्ञानाकारतामप्यस्य दर्शयति । तत्र ज्ञानाकारतोपदर्शनव्यापारं बाधकप्रत्ययस्य ब्रुवाणः श्लाघनीयप्रज्ञो देवानांप्रियः । पुरोवर्तित्वप्रतिषेधादर्थादस्य ज्ञानाकारतेति चेन्न । असंनिधानाग्रहनिषेधादसंनिहितो भवति । प्रतिपत्तुरत्यन्तसंनिधानं त्वस्य प्रतिपत्त्रात्मकं कुतस्त्यम् । न चैष रजतस्य निषेधः, न चेदन्तायाः, किं तु विवेकाग्रहप्रसञ्जितस्य रजतव्यवहारस्य । न च रजतमेव शुक्तिकायां प्रसञ्जितं रजतज्ञानेन । नहि रजतनिर्भासनं शुक्तिकालम्बनं युक्तम् अनुभवविरोधात् । न खलु सत्तामात्रेणालम्बनम् , अतिप्रसङ्गात् । सर्वेषामर्थानां सत्त्वाविशेषादालम्बनत्वप्रसङ्गात् । नापि कारणत्वेन, इन्द्रियादीनामपि कारणत्वात् । तथा च भासमानतैवालम्बनार्थः । न च रजतज्ञाने शुक्तिका भासते, इति कथमालम्बनम् , भासमानताभ्युपगमे वा कथं नानुभवविरोधः । अपि चेन्द्रियादीनां समीचीनज्ञानोपजनने सामर्थ्यमुपलब्धमिति कथमेभ्यो मिथ्याज्ञानसम्भवः । दोषसहितानां तेषां मिथ्याप्रत्ययेऽपि सामर्थ्यमिति चेन्न, दोषाणां कार्योपजननसामर्थ्यविघातमात्रहेतुत्वात् , अन्यथा दुष्टादपि कुटजबीजाद्वटाङ्कुरोत्पत्तिप्रसङ्गात् । अपि च स्वगोचरव्यभिचारे विज्ञानानां सर्वत्रानाश्वासप्रसङ्गः । तस्मात्सर्वं ज्ञानं समीचीनमास्थेयम् । तथा च रजतम् , इदमिति च द्वे विज्ञाने स्मृत्यनुभवरूपे, तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम् , दोषवशात्तद्गतशुक्तित्वसामान्यविशेषस्याग्रहात् , तन्मात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेण रजते स्मृतिं जनयति । सा च गृहीतग्रहणस्वभावापि दोषवशाद्गृहीतत्वांशप्रमोषाद्ग्रहणमात्रमवतिष्ठते । तथा च रजतस्मृतेः पुरोवर्तिद्रव्यमात्रग्रहणस्य च मिथः स्वरूपतो विषयतश्च भेदाग्रहात् , संनिहितरजतगोचरज्ञानसारूप्येण, इदं रजतमिति भिन्ने अपि स्मरणग्रहणे अभेदव्यवहारं च सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः । क्वचित्पुनर्ग्रहणे एव मिथोऽनुगृहीतभेदे, यथा पीतः शङ्ख इति । अत्र हि बहिर्विनिर्गच्छन्नयनरश्मिवर्तिनः पित्तद्रव्यस्य काचस्येव स्वच्छस्य पीतत्वं गृह्यते पित्तं तु न गृह्यते । शङ्खोऽपि दोषवशाच्छुक्लगुणरहितः स्वरूपमात्रेण गृह्यते । तदनयोर्गुणगुणिनोरसंसर्गाग्रहसारूप्यात्पीततपनीयपिण्डप्रत्ययाविशेषेणाभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च । भेदाग्रहप्रसञ्जिताभेदव्यवहारबाधनाच्च नेदमिति विवेकप्रत्ययस्य बाधकत्वमप्युपपद्यते, तदुपपत्तौ च प्राचीनस्य प्रत्ययस्य भ्रान्तत्वमपि लोकसिद्धं सिद्धं भवति । तस्माद्यथार्थाः सर्वे विप्रतिपन्नाः सन्देहविभ्रमाः, प्रत्ययत्वात् , घटादिप्रत्ययवत् ।
तदिदमुक्तम् -
यत्र यदध्यास इति ।
यस्मिन्शुक्तिकादौ यस्य रजतादेरध्यास इति लोकप्रसिद्धिः नासावन्यथाख्यातिनिबन्धना, किन्तु गृहीतस्य रजतादेस्तत्स्मरणस्य च गृहीततांशप्रमोषेण, गृहीतमात्रस्य च यः इदमिति पुरोऽवस्थिताद्द्रव्यमात्रात्तज्ज्ञानाच्च विवेकः, तदग्रहणनिबन्धनो भ्रमः । भ्रान्तत्वं च ग्रहणस्मरणयोरितरेतरसामानाधिकरण्यव्यपदेशो रजतव्यवहारश्चेति ।अन्ये तु - अत्राप्यपरितुष्यन्तः, यत्र यदध्यासस्तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते । अत्रेदमाकूतम् - अस्ति तावद्रजतार्थिनोरजतमिदमिति प्रत्ययात्पुरोवर्तिनि द्रव्ये प्रवृत्तिः, सामानाधिकरण्यव्यपदेशश्चेति सर्वजनीनम् । तदेतन्न तावद्ग्रहणस्मरणयोस्तद्गोचरयोश्च मिथो भेदाग्रहमात्राद्भवितुमर्हति । ग्रहणनिबन्धनौ हि चेतनस्य व्यवहारव्यपदेशौ कथमग्रहणमात्राद्भवेताम् । ननूक्तं नाग्रहणमात्रात् , किं तु ग्रहणस्मरणे एव मिथः स्वरूपतो विषयतश्चागृहीतभेदे, समीचीनपुरःस्थितरजतविज्ञानसारूप्येणाभेदव्यवहारं सामानाधिकण्यव्यपदेशं च प्रवर्तयतः । अथ समीचीनज्ञानसारूप्यमनयोर्गृह्यमाणं वा व्यवहारप्रवृत्तिहेतुः, अगृह्यमाणं वा सत्तामात्रेण । गृह्यमाणत्वेऽपि ‘समीचीनज्ञानसारूप्यमनयोरिदमिति रजतमिति च ज्ञानयोः’ इति ग्रहणम् , ‘अथवानयोरेव स्वरूपतो विषयतश्च मिथो भेदाग्रहः’ इति ग्रहणम् । तत्र न तावत्समीचीनज्ञानसदृशे इति ज्ञानं समीचीनज्ञानवद्व्यवहारप्रवर्तकम् । न हिगोसदृशो गवय इति ज्ञानं गवार्थिनं गवये प्रवर्तयति । अनयोरेव भेदाग्रह इति तु ज्ञानं पराहतम् , न हि भेदाग्रहेऽनयोरिति भवति, अनयोरिति ग्रहे भेदाग्रहणमिति च भवति । तस्मात्सत्तामात्रेण भेदाग्रहोऽगृहीत एव व्यवहारहेतुरिति वक्तव्यम् । तत्र किमयमारोपोत्पादक्रमेण व्यवहारहेतुरस्त्वाहोऽनुत्पादितारोप एव स्वत इति । वयं तु पश्यामः - चेतनव्यवहारस्याज्ञानपूर्वकत्वानुपपत्तेः, आरोपज्ञानोत्पादक्रमेणैवैति । ननु सत्यं चेतनव्यवहारो नाज्ञानपूर्वकः किं त्वविदितविवेकग्रहणस्मरणपूर्वक इति । मैवम् । नहि रजतप्रातिपदिकार्थमात्रस्मरणं प्रवृत्तावुपयुज्यते । इदङ्कारास्पदाभिमुखी खलु रजतार्थिनां प्रवृत्तिरित्यविवादम् । कथं चायमिदङ्कारास्पदे प्रवर्तेत यदि न तदिच्छेत् । अन्यदिच्छत्यन्यत्करोतीति व्याहतम् । न चेदिदङ्कारास्पदं रजतमिति जानीयात्कथं रजतार्थी तदिच्छेत् । यद्यतथात्वेनाग्रहणादिति ब्रूयात्स प्रतिवक्तव्योऽथ तथात्वेनाग्रहणात्कस्मादयं नोपेक्षेतेति । सोऽयमुपादानोपेक्षाभ्यामभित आकृष्यमाणश्चेतनोऽव्यवस्थित इतीदङ्कारास्पदे रजतसमारोपेणोपादान एव व्यवस्थाप्यत इति भेदाग्रहः समारोपोत्पादक्रमेण चेतनप्रवृत्तिहेतुः । तथाहि - भेदाग्रहादिदङ्कारास्पदे रजतत्वं समारोप्य, तज्जातीयस्योपकारहेतुभावमनुचिन्त्य, तज्जातीयतयेदङ्कारास्पदे रजते तमनुमाय, तदर्थी प्रवर्तत इत्यानुपूर्व्यं सिद्धम् । न च तटस्थरजतस्मृतिरिदङ्कारास्पदस्योपकारहेतुभावमनुमापयितुमर्हति, रजतत्वस्य हेतोरपक्षधर्मत्वात् । एकदेशदर्शनं खल्वनुमापकं न त्वनेकदेशदर्शनम् । यथाहुः - ज्ञातसम्बन्धस्यैकदेशदर्शनादिति । समारोपे त्वेकदेशदर्शनमस्ति । तत्सिद्धमेतद्विवादाध्यासितं रजतादिज्ञानं, पुरोवर्तिवस्तुविषयम् , रजताद्यर्थिनस्तत्र नियमेन प्रवर्तकत्वात् , यद्यदर्थिनं यत्र नियमेन प्रवर्तयति तज्ज्ञानं तद्विषयं यथोभयसिद्धसमीचीनरजतज्ञानम् , तथा चेदम् , तस्मात्तथेति । यच्चोक्तमनवभासमानतया न शुक्तिरालम्बनमिति, तत्र भवान् पृष्टो व्याचष्टाम् , किं शुक्तिकात्वस्य इदं रजतमिति ज्ञानं प्रत्यनालम्बनत्वमाहोस्विद्द्रव्यमात्रस्य पुरःस्थितस्य सितभास्वरस्य । यदि शुक्तिकात्वस्यानालम्बनत्वम् , अद्धा । उत्तरस्यानालम्बनत्वं ब्रुवाणस्य तवैवानुभवविरोधः । तथा हि - रजतमिदमित्यनुभवन्ननुभविता पुरोवर्ति वस्त्वङ्गुल्यादिना निर्दिशति । दृष्टं च दुष्टानां कारणानामौत्सर्गिककार्यप्रतिबन्धेन कार्यान्तरोपजननसामर्थ्यम् , यथा दावाग्निदग्धानां वेत्रबीजानां कदलीकाण्डजनकत्वम् । भस्मकदुष्टस्य चोदर्यस्य तेजसो बह्वन्नपचनमिति । प्रत्यक्षबाधकापहृतविषयं च विभ्रमाणां यथार्थत्वानुमानमाभासः, हुतवहानुष्णत्वानुमानवत् । यच्चोक्तं मिथ्याप्रत्ययस्य व्यभिचारे सर्वप्रमाणेष्वनाश्वास इति, तत् बोधकत्वेन स्वतःप्रामाण्यं नाव्यभिचारेणेति व्युत्पादयद्भिरस्माभिः परिहृतं न्यायकणिकायामिति नेह प्रतन्यते । दिङ्मात्रं चास्य स्मृतिप्रमोषभङ्गस्योक्तम् । विस्तरस्तु ब्रह्मतत्त्वसमीक्षायामवगन्तव्य इति, तदिदमुक्तम् - “अन्ये तु यत्र यदध्यासस्तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते” इति । यत्र शुक्तिकादौ यस्य रजतादेरध्यासस्तस्यैव शुक्तिकादेर्विपरीतधर्मकल्पनां रजतत्वधर्मकल्पनामिति योजना ।
ननु सन्तु नाम परीक्षकाणां विप्रतिपत्तयः, प्रकृते तु किमायातमित्यत आह -
सर्वथापि त्वन्यस्यान्यधर्मकल्पनां न व्यभिचरति ।
अन्यस्यान्यधर्मकल्पनानृतता, सा चानिर्वचनीयतेत्यधस्तादुपपादितम् । तेन सर्वेषामेव परीक्षकाणां मतेऽन्यस्यान्यधर्मकल्पनानिर्वचनीयतावश्यम्भाविनीत्यनिर्वचनीयता सर्वतन्त्रसिद्धान्त इत्यर्थः । अख्यातिवादिभिरकामैरपि सामानाधिकरण्यव्यपदेशप्रवृत्तिनियमस्नेहादिदमभ्युपेयमिति भावः ।
न केवलमियमनृतता परीक्षकाणां सिद्धा, अपि तु लौकिकानामपीत्याह -
तथा च लोकेऽनुभवः - शुक्तिका हि रजतवदवभासत इति ।
न पुना रजतमिदमिति शेषः ।
स्यादेतत् । अन्यस्यान्यात्मताविभ्रमो लोकसिद्धः, एकस्य त्वभिन्नस्य भेदभ्रमो न दृष्ट इति कुतश्चिदात्मनोऽभिन्नानां जीवानां भेदविभ्रम इत्यताह -
एकश्चन्द्रः सद्वितीयवदिति ।
पुनरपि चिदात्मन्यध्यासमाक्षिपति -
कथं पुनः प्रत्यगात्मन्यविषयेऽध्यासो विषयतद्धर्माणाम् ।
अयमर्थः - चिदात्मा प्रकाशते न वान चेत्प्रकाशते, कथमस्मिन्नध्यासो विषयतद्धर्माणाम् । न खल्वप्रतिभासमाने पुरोवर्तिनि द्रव्ये रजतस्य वा तद्धर्माणां वा समारोपः सम्भवतीति । प्रतिभासे वा (न)तावदयमात्मा जडो घटादिवत्पराधीनप्रकाश इति युक्तम् । न खलु स एव कर्ता च कर्म च भवति, विरोधात् । परसमवेतक्रियाफलशालि हि कर्म, न च ज्ञानक्रिया परसमवायिनीति कथमस्यां कर्म, न च तदेव स्वं च परं च, विरोधात् । आत्मान्तरसमवायाभ्युपगमे तु ज्ञेयस्यात्मनोऽनात्मत्वप्रसङ्गः । एवं तस्य तस्येत्यनवस्थाप्रसङ्गः । स्यादेतत् । आत्मा जडोऽपि सर्वार्थज्ञानेषु भासमानोऽपि कर्तैव न कर्म, परसमवेतक्रियाफलशालित्वाभावात् , चैत्रवत् । यथा हि चैत्रसमवेतक्रियया चैत्रनगरप्राप्तावुभयसमवेतायामपि क्रियमाणायां नगरस्यैव कर्मता, परसमवेतक्रियाफलशालित्वात् , न तु चैत्रस्य क्रियाफलशालिनोऽपि, चैत्रसमवायाद्गमनक्रियाया इति, तन्न । श्रुतिविरोधात् । श्रूयते हि “सत्यं ज्ञानमनन्तं ब्रह्म”(तै. उ. २ । १ । १) इति उपपद्यते च, तथा हि - योऽयमर्थप्रकाशः फलं यस्मिन्नर्थश्च आत्मा च प्रथेते स किं जडः स्वयम्प्रकाशो वा । जडश्चेद्विषयात्मानावपि जडाविति कस्मिन्किं प्रकाशेताविशेषात् , इति प्राप्तमान्ध्यमशेषस्य जगतः । तथा चाभाणकः - “अन्धस्येवान्धलग्नस्य विनिपातः पदे पदे” । न च निलीनमेव विज्ञानमर्थात्मानौ ज्ञापयति, चक्षुरादिवदिति वाच्यम् । ज्ञापनं हि ज्ञानजननम् , जनितं च ज्ञानं जडं सन्नोक्तदूषणमतिवर्तेतेति । एवमुत्तरोत्तराण्यपि ज्ञानानि जडानीत्यनवस्था । तस्मादपराधीनप्रकाशा संविदुपेतव्या । तथापि किमायातं विषयात्मनोः स्वभावजडयोः । एतदायातं यत्तयोः संविदजडेति । तत्किं पुत्रः पण्डित इति पितापि पण्डितोऽस्तु । स्वभाव एष संविदः स्वयम्प्रकाशाया यदर्थात्मसम्बन्धितेति चेत् , हन्त पुत्रस्यापि पण्डितस्य स्वभाव एष यत्पितृसम्बन्धितेति समानम् । सहार्थात्मप्रकाशेन संवित्प्रकाशो न त्वर्थात्मप्रकाशं विनेति तस्याः स्वभाव इति चेत् , तत्किं संविदो भिन्नौ संविदर्थात्मप्रकाशौ । तथा च न स्वयम्प्रकाशा संवित् , न च संविदर्थात्मप्रकाश इति । अथ ‘संविदर्थात्मप्रकाशो न संविदो भिद्येते’ , संविदेव तौ । एवं चेत् यावदुक्तं भवति संवितात्मार्थौ सहेति तावदुक्तं भवति संविदर्थात्मप्रकाशौ सहेति, तथा च न विवक्षितार्थसिद्धिः । न चातीतानागतार्थगोचरायाः संविदोऽर्थसहभावोऽपि । तद्विषयहानोपादानोपेक्षाबुद्धिजननादर्थसहभाव इति चेन्न, अर्थसंविद इव हानादिबुद्धीनामपि तद्विषयत्वानुपपत्तेः । हानादिजननाद्धानादिबुद्धीनामर्थविषयत्वम् , अर्थविषयहानादिबुद्धिजननाच्च अर्थसंविदस्तद्विषयत्वमिति चेत् , तत्किं देहस्य प्रयत्नवदात्मसंयोगो देहप्रवृत्तिनिवृत्तिहेतुरर्थे इत्यर्थप्रकाशोऽस्तु । जाड्याद्देहात्मसंयोगो नार्थप्रकाश इति चेत् , नन्वयं स्वयम्प्रकाशोऽपि स्वात्मन्येव खद्योतवत्प्रकाशः, अर्थे तु जड इत्युपपादितम् । न च प्रकाशस्यात्मानो विषयाः ते हि विच्छिन्नदीर्घस्थूलतयानुभूयन्ते, प्रकाशश्चायमान्तरोऽस्थूलोऽनणुरह्रस्वोऽदीर्धश्चेति प्रकाशते, तस्माच्चन्द्रेऽनुभूयमान इव द्वितीयश्चन्द्रमाः स्वप्रकाशादन्योऽर्थः अनिर्वचनीय एवेति युक्तमुत्पश्यामः । न चास्य प्रकाशस्याजानतः स्वलक्षणभेदोऽनुभूयते । न च अनिर्वाच्यार्थभेदः प्रकाशं निर्वाच्यं भेत्तुमर्हति, अतिप्रसङ्गात् । न च अर्थानामपि परस्परं भेदः समीचीनज्ञानपद्धतिमध्यास्ते इत्युपरिष्टादुपपादयिष्यते । तदयं प्रकाश एव स्वयम्प्रकाश एकः कूटस्थनित्यो निरंशः प्रत्यगात्माशक्यनिर्वचनीयेभ्यो देहेन्द्रियादिभ्य आत्मानं प्रतीपं निर्वचनीयमञ्चति जानातीति प्रत्यङ्स चात्मेति प्रत्यगात्मा, स चापराधीनप्रकाशत्वात् , अनंशत्वाच्च, अविषयः, तस्मिन्नध्यासो विषयधर्माणाम् , देहेन्द्रियादिधर्माणां कथम् , किमाक्षेपे । अयुक्तोऽयमध्यास इत्याक्षेपः ।
कस्मादयमयुक्त इत्यत आह -
सर्वो हि पुरोऽवस्थिते विषये विषयान्तरमध्यस्यति ।
एतदुक्तं भवति - यत्पराधीनप्रकाशमंशवच्च तत्सामान्यांशग्रहे कारणदोषवशाच्च विशेषाग्रहेऽन्यथा प्रकाशते । प्रत्यगात्मा त्वपराधीनप्रकाशतया न स्वज्ञाने कारणान्यपेक्षते, येन तदाश्रयैर्दोषैर्दुष्येत । न चांशवान् , येन कश्चिदस्यांशो गृह्येत, कश्चिन्न गृह्येत । नहि तदेव तदानीमेव तेनैव गृहीतमगृहीतं च सम्भवतीति न स्वयम्प्रकाशपक्षेऽध्यासः । सदातनेऽप्यप्रकाशे पुरोऽवस्थितत्वस्यापरोक्षत्वस्याभावान्नाध्यासः । न हि शुक्तौ अपुरःस्थितायां रजतमध्यस्यतीदं रजतमिति । तस्मादत्यन्तग्रहे अत्यन्ताग्रहे च नाध्यास इति सिद्धम् ।
स्यादेतत् । अविषयत्वे हि चिदात्मनो नाध्यासः, विषय एव तु चिदात्मास्मत्प्रत्ययस्य, तत्कथं नाध्यास इत्यत आह -
युष्मत्प्रत्ययापेतस्य च प्रत्यगात्मनोऽविषयत्वं ब्रवीषि ।
विषयत्वे हि चिदात्मनोऽन्यो विषयी भवेत् । तथा च यो विषयी स एव चिदात्मा । विषयस्तु ततोऽन्यो युष्मत्प्रत्ययगोचरोऽभ्युपेयः । तस्मादनात्मत्वप्रसङ्गादनवस्थापरिहाराय युष्मत्प्रत्ययापेतत्वम्, अत एवाविषयत्वमात्मनो वक्तव्यम् , तथा च नाध्यास इत्यर्थः ।
परिहरति -
उच्यते - न तावदयमेकान्तेनाविषयः ।
कुतः,
अस्मत्प्रत्ययविषयत्वात् ।
अयमर्थः - सत्यं प्रत्यगात्मा स्वयम्प्रकाशत्वादविषयोऽनंशश्च, तथापि अनिर्वचनीयानाद्यविद्यापरिकल्पितबुद्धिमनः सूक्ष्मस्थूलशरीरेन्द्रियावच्छेदेनानवच्छिन्नोऽपि वस्तुतोऽवच्छिन्न इव अभिन्नोऽपि भिन्न इव, अकर्तापि कर्तेव, अभोक्तापि भोक्तेव, अविषयोऽप्यस्मत्प्रत्ययविषय इव, जीवभावमापन्नोऽवभासते, नभ इव घटमणिकमल्लिकाद्यवच्छेदभेदेन भिन्नमिवानेकविधधर्मकमिवेति । न हि चिदेकरसस्यात्मनः चिदंशे गृहीते अगृहीतं किञ्चिदस्ति । न खल्वानन्दनित्यत्वविभुत्वादयोऽस्य चिद्रूपाद्वस्तुतो भिद्यन्ते, येन तद्ग्रहे न गृह्येरन् । गृहीता एव तु कल्पितेन भेदेन न विवेचिता इत्यगृहीता इवाभान्ति । न च आत्मनो बुद्ध्यादिभ्यो भेदस्तात्त्विकः, येन चिदात्मनि गृह्यमाणे सोऽपि गृहीतो भवेत् , बुद्ध्यादीनामनिर्वाच्यत्वेन तद्भेदस्याप्यनिर्वचनीयत्वात् । तस्माच्चिदात्मनः स्वयम्प्रकाशस्यैव अनवच्छिन्नस्य अवच्छिन्नेभ्यो बुद्ध्यादिभ्यो भेदाग्रहात्, तदध्यासेन जीवभाव इति । तस्य चानिदमिदमात्मनोऽस्मत्प्रत्ययविषयत्वमुपपद्यते । तथा हि - कर्ता भोक्ता चिदात्मा अहंप्रत्यये प्रत्यवभासते । न चोदासीनस्य तस्य क्रियाशक्तिर्भोगशक्तिर्वा सम्भवति । यस्य च बुद्ध्यादेः कार्यकारणसङ्घातस्य क्रियाभोगशक्ती न तस्य चैतन्यम् । तस्माच्चिदात्मैव कार्यकरणसङ्घातेन ग्रथितो लब्धक्रियाभोगशक्तिः स्वयम्प्रकाशोऽपि बुद्ध्यादिविषयविच्छुरणात्, कथञ्चिदस्मत्प्रत्ययविषयोऽहङ्कारास्पदं जीव इति च, जन्तुरिति च क्षेत्रज्ञ इति च आख्यायते । न खलु जीवश्चिदात्मनो भिद्यते । तथा च श्रुतिः - “अनेन जीवेनात्मना”(छा. उ. ६ । ३ । २) इति । तस्माच्चिदात्मनोऽव्यतिरेकाज्जीवः स्वयम्प्रकाशोऽप्यहंप्रत्ययेन कर्तृभोक्तृतया व्यवहारयोग्यः क्रियत इत्यहंप्रत्ययालम्बनमुच्यते । न च अध्यासे सति विषयत्वं विषयत्वे च अध्यासः इत्यन्योन्याश्रयत्वमिति साम्प्रतम् , बीजाङ्कुरवदनादित्वात् , पूर्वपूर्वाध्यासतद्वासनाविषयीकृतस्योत्तरोत्तराध्यासविषयत्वाविरोधादित्युक्तम् “नैसर्गिकोऽयं लोकव्यवहारः” इति भाष्यग्रन्थेन ।
तस्मात्सुष्टूक्तम् -
न तावदयमेकान्तेनाविषय इति ।
जीवो हि चिदात्मतया स्वयम्प्रकाशतयाविषयोऽप्यौपाधिकेन रूपेण विषय इति भावः । स्यादेतत् । न वयमपराधीनप्रकाशतयाविषयत्वेनाध्यासमपाकुर्मः, किन्तु प्रत्यगात्मा न स्वतो नापि परतः प्रथत इत्यविषयः इति ब्रूमः ।
तथा च सर्वथाप्रथमाने प्रत्यगात्मनि कुतोऽध्यास इत्यत आह -
अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः ।
प्रतीच आत्मनः प्रसिद्धिः प्रथा, तस्या अपरोक्षत्वात् । यद्यपि प्रत्यगात्मनि नान्या प्रथास्ति, तथापि भेदोपचारः । यथा पुरुषस्य चैतन्यमिति । एतदुक्तं भवति - अवश्यं चिदात्मापरोक्षोऽभ्युपेतव्यः तदप्रथायां सर्वस्याप्रथनेन जगदान्ध्यप्रसङ्गादित्युक्तम् । श्रुतिश्चात्र भवति “तमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभाति”(क.उ.२-२-१५) इति ।
तदेवं परमार्थपरिहारमुक्त्वाभ्युपेत्यापि चिदात्मनः परोक्षतां प्रौढवादितया परिहारान्तरमाह -
न चायमस्ति नियमः पुरोऽवस्थित एव,
अपरोक्ष एव,
विषये विषयान्तरमध्यसितव्यम् ।
कस्मादयं न नियम इत्यत आह -
अप्रत्यक्षेऽपि ह्याकाशे बालास्तलमलिनताद्यध्यस्यन्ति ।
हिर्यस्मादर्थे । नभो हि द्रव्यं सत् रूपस्पर्शविरहान्न बाह्येन्द्रियप्रत्यक्षम् । नापि मानसम् , मनसोऽसहायस्य बाह्येऽप्रवृत्तेः, तस्मादप्रत्यक्षम् । अथ च तत्र बाला अविवेकिनः परदर्शितदर्शिनः कदाचित्पार्थिवच्छायां श्यामतामारोप्य, कदाचित्तैजसं शुक्लत्वमारोप्य, नीलोत्पलपलाशश्याममिति वा राजहंसमालाधवलमिति वा निर्वर्णयन्ति । तत्रापि पूर्वदृष्टस्य तैजसस्य वा तामसस्य रूपस्य परत्र नभसि स्मृतिरूपोऽवभास इति । एवं तदेव तलमध्यस्यन्ति अवाङ्मुखीभूतम् महेन्द्रनीलमणिमयमहाकटाहकल्पमित्यर्थः ।
उपसंहरति -
एवम् -
उक्तेन प्रकारेण सर्वाक्षेपपरिहारात् ,
अविरुद्धः प्रत्यगात्मन्यप्यनात्मनाम् -
बुद्ध्यादीनामध्यासः ।
ननु सन्ति च सहस्रमध्यासाः, तत्किमर्थमयमेवाध्यास आक्षेपसमाधानाभ्यां व्युत्पादितः नाध्यासमात्रमित्यत आह -
तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते ।
अविद्या हि सर्वानर्थबीजमिति श्रुतिस्मृतीतिहासपुराणादिषु प्रसिद्धम् । तदुच्छेदाय वेदान्ताः प्रवृत्ता इति वक्ष्यति । प्रत्यगात्मन्यनात्माध्यास एव सर्वानर्थहेतुः न पुना रजतादिविभ्रमा इति स एवाविद्या, तत्स्वरूपं चाविज्ञातं न शक्यमुच्छेत्तुमिति तदेव व्युत्पाद्यं नाध्यासमात्रम् । अत्र च ‘एवं लक्षणम्’ इत्येवंरूपतयानर्थहेतुतोक्ता । यस्मात्प्रत्यगात्मन्यशनायादिरहितेऽशनायाद्युपेतान्तःकरणाद्यहितारोपणे प्रत्यगात्मानमदुःखं दुःखाकरोति, तस्मादनर्थहेतुः ।
न चैवं पृथग्जना अपि मन्यन्तेऽध्यासम् , येन न व्युत्पाद्येतेत्यत उक्तम् -
पण्डिता मन्यन्ते ।
नन्वियमनादिरतिनिरूढनिबिडवासनानुबद्धाविद्या न शक्या निरोद्धुम् , उपायाभावादिति यो मन्यते तं प्रति तन्निरोधोपायमाह -
तद्विवेकेन च वस्तुस्वरूपावधारणम् -
निर्विचिकित्सं ज्ञानम्
विद्यामाहुः,
पण्डिताः । प्रत्यगात्मनि खल्वत्यन्तविविक्ते बुद्ध्यादिभ्यः बुद्ध्यादिभेदाग्रहनिमित्तो बुद्ध्याद्यात्मत्वतद्धर्माध्यासः । तत्र श्रवणमननादिभिर्यद्विवेकविज्ञानं तेन विवेकाग्रहे निवर्तिते, अध्यासापबाधात्मकं वस्तुस्वरूपावधारणं विद्या चिदात्मरूपं स्वरूपे व्यवतिष्ठत इत्यर्थः ।
स्यादेतत् । अतिनिरूढनिबिढवासनानुविद्धाविद्या विद्ययापबाधितापि स्ववासनावशात्पुनरुद्भविष्यति प्रवर्तयिष्यति च वासनादि कार्यं स्वोचितमित्यत आह -
तत्रैवं सति, -
एवंभूतवस्तुतत्त्वावधारणे सति,
यत्र यदध्यासस्तत्कृतेन दोषेण गुणेन वाणुमात्रेणापि स न सम्बध्यते -
अन्तःकरणादिदोषेणाशनायादिना चिदात्मा, चिदात्मनो गुणेन चैतन्यानन्दादिनान्तःकरणादि न सम्बध्यते । एतदुक्तं भवति - तत्त्वावधारणाभ्यासस्य हि स्वभाव एव स तादृशः, यदनादिमपि निरूढनिबिडवासनमपि मिथ्याप्रत्ययमपनयति । तत्त्वपक्षपातो हि स्वभावो धियाम् , यथाहुर्बाह्या अपि - “निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः । न बाधोयत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥”(प्रमाणवार्तिकम्-२१२) इति । विशेषतस्तु चिदात्मस्वभावस्य तत्त्वज्ञानस्यात्यन्तान्तरङ्गस्य कुतोऽनिर्वाच्ययाविद्यया बाध इति । यदुक्तम् , सत्यानृते मिथुनीकृत्य, विवेकाग्रहादध्यस्याहमिदंममेदमिति लोकव्यवहार इति तत्र व्यपदेशलक्षणो व्यवहारः कण्ठोक्तः ।
इतिशब्दसूचितं लोकव्यवहारमादर्शयति -
तमेतमविद्याख्यमिति ।
निगदव्याख्यातम् ।
आक्षिपति -
कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि ।
तत्त्वपरिच्छेदो हि प्रमा विद्या, तत्साधनानि प्रमाणानि कथमविद्यावद्विषयाणि । नाविद्यावन्तं प्रमाणान्याश्रयन्ति, तत्कार्यस्य विद्याया अविद्याविरोधित्वादिति भावः ।
सन्तु वा प्रत्यक्षादीनि संवृत्यापि यथा तथा, शास्त्राणि तु पुरुषहितानुशासनपराण्यविद्याप्रतिपक्षतया नाविद्यावद्विषयाणि भवितुमर्हन्तीत्याह -
शास्त्राणि चेति ।
समाधत्ते - उच्यते - देहेन्द्रियादिष्वहंममाभिमानहीनस्य, तादात्म्यतद्धर्माध्यासहीनस्य प्रमातृत्वानुपपत्तौ सत्यां प्रमाणप्रवृत्त्यनुपपत्तेः । अयमर्थः - प्रमातृत्वं हि प्रमां प्रति कर्तृत्वं तच्च स्वातन्त्र्यम् । स्वातन्त्र्यं च प्रमातुरितरकारकाप्रयोज्यस्य समस्तकारकप्रयोक्तृत्वम् । तदनेन प्रमाकरणं प्रमाणं प्रयोजनीयम् । न च स्वव्यापारमन्तरेण करणं प्रयोक्तुमर्हति । न च कूटस्थनित्यश्चिदात्मापरिणामी स्वतो व्यापारवान् । तस्माद्व्यापारवद्बुद्ध्यादितादात्म्याध्यासात् , व्यापारवत्तया प्रमाणमधिष्ठातुमर्हतीति भवत्यविद्यावत्पुरुषविषयत्वमविद्यावत्पुरुषाश्रयत्वं प्रमाणानामिति ।
अथ मा प्रवर्तिषत प्रमाणानि किं नश्छिन्नमित्यत आह -
न हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः सम्भवति ।
व्यवह्रियते अनेनेति व्यवहारः फलम् , प्रत्यक्षादीनां प्रमाणानां फलमित्यर्थः । ‘इन्द्रियाणि’ इति, इन्द्रियलिङ्गादीनीति द्रष्टव्यम् , दण्डिनो गच्छन्तीतिवत् । एवं हि ‘प्रत्यक्षादि’ इत्युपपद्यते । व्यवहारक्रियया च व्यवहार्याक्षेपात्समानकर्तृकता । अनुपादाय यो व्यवहार इति योजना ।
किमिति पुनः प्रमातोपादत्ते प्रमाणानि, अथ स्वयमेव कस्मान्न प्रवर्तत इत्यत आह -
न चाधिष्ठानमन्तरेणेन्द्रियाणां व्यापारः -
प्रमाणानां व्यापारः
सम्भवति ।
न जातु करणान्यनधिष्ठितानि कर्त्रा स्वकार्ये व्याप्रियन्ते, मा भूत्कुविन्दरहितेभ्यो वेमादिभ्यः पटोत्पत्तिरिति ।
अथ देह एवाधिष्ठाता कस्मान्न भवति, कृतमत्रात्माध्यासेनेत्यत आह -
न चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते ।
सुषुप्तेऽपि व्यापारप्रसङ्गादि भावः ।
स्यादेतत् । यथानध्यस्तात्मभावं वेमादिकं कुविन्दो व्यापारयन्पटस्य कर्ता, एवमनध्यस्तात्मभावं देहेन्द्रियादिति व्यापारयन् भविष्यति तदभिज्ञः प्रमातेत्यत आह -
न चैतस्मिन्सर्वस्मिन् -
इतरेतराध्यासे इतरेतरधर्माध्यासे च,
असति, आत्मनोऽसङ्गस्य -
सर्वथा सर्वदा सर्वधर्मवियुक्तस्य
प्रमातृत्वमुपपद्यते ।
व्यापारवन्तो हिकुविन्दादयो वेमादीनधिष्ठाय व्यापारयन्ति, अनध्यस्तात्मभावस्य तु देहादिष्वात्मनो न व्यापारयोगोऽसङ्गत्वादित्यर्थः ।
आतश्चाध्यासाश्रयाणि प्रमाणानीत्याह -
न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति ।
प्रमायां खलु फले स्वतन्त्रः प्रमाता भवति । अन्तःकरणपरिणामभेदश्च प्रमेयप्रवणः कर्तृस्थश्चित्स्वभावः प्रमा । कथं च जडस्यान्तःकरणस्य परिणामश्चिद्रूपो भवेत् , यदि चिदात्मा तत्र नाध्यस्येत । कथं चैष चिदात्मकर्तृको भवेत् , यद्यन्तःकरणं व्यापारवच्चिदात्मनि नाध्यस्येत् । तस्मादितरेतराध्यासाच्चिदात्मकर्तृस्थं प्रमाफलं सिध्यति । तत्सिद्धौ च प्रमातृत्वम् , तामेव च प्रमामुररीकृत्य प्रमाणस्य प्रवृत्तिः । प्रमातृत्वेन च प्रमोपलक्ष्यते । प्रमायाः फलस्याभावे प्रमाणं न प्रवर्तेत । तथा च प्रमाणमप्रमाणं स्यादित्यर्थः ।
उपसंहरति -
तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि ।
स्यादेतत् । भवतु पृथग्जनानामेवम् । आगमोपपत्तिप्रतिपन्नप्रत्यगात्मतत्त्वानां व्युत्पन्नानामपि पुंसां प्रमाणप्रमेयव्यवहारा दृश्यन्त इति कथमविद्यावद्विषयाण्येव प्रमाणानीत्यत आह -
पश्वादिभिश्चाविशेषादिति ।
विदन्तु नामागमोपपत्तिभ्यां देहेन्द्रियादिभ्यो भिन्नं प्रत्यगात्मानम् । प्रमाणप्रमेयव्यवहारे तु प्राणभृन्मात्रधर्मान्नातिवर्तन्ते । यादृशो हि पशुशकुन्तादीनामविप्रतिपन्नमुग्धभावानां व्यवहारस्तादृशो व्युत्पन्नानामपि पुंसां दृश्यते । तेन तत्सामान्यात्तेषामपि व्यवहारसमये अविद्यावत्त्वमनुमेयम् । चशब्दः समुच्चये । उक्तशङ्कानिवर्तनसहितपूर्वोक्तोपपत्तिः अविद्यावत्पुरुषविषयत्वं प्रमाणानां साधयतीत्यर्थः ।
एतदेव विभजते -
यथा हि पश्वादय इति ।
अत्र च
शब्दादिभिः श्रोत्रादीनां सम्बन्धे सति
इति प्रत्यक्षं प्रमाणं दर्शितम् ।
शब्दादिविज्ञाने
इति तत्फलमुक्तम् ।
प्रतिकूले
इति च अनुमानफलम् । तथा हि - शब्दादिस्वरूपमुपलभ्य तज्जातीयस्य प्रतिकूलतामनुस्मृत्य तज्जातीयतयोपलभ्यमानस्य प्रतिकूलतामनुमिमीत इति ।
उदाहरति -
यथा दण्डेति ।
शेषमतिरोहितार्थम् । स्यादेतत् । भवन्तु प्रत्यक्षादीन्यविद्यावद्विषयाणि । शास्त्रं तु ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादि न देहात्माध्यासेन प्रवर्तितुमर्हति । अत्र खल्वामुष्मिकफलोपभोगयोग्योऽधिकारी प्रतीयते । तथा च पारमर्षं सूत्रम् - “शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्तस्मात्स्वयं प्रयोगे स्यात्”(अ. ३ पा. ७ सू. १८) इति ।
न च देहादि भस्मीभूतं पारलौकिकाय फलाय कल्पत इति देहाद्यतिरिक्तं कञ्चिदात्मानमधिकारिणमाक्षिपति शास्त्रम् , तदवगमश्च विद्येति कथमविद्यावद्विषयं शास्त्रमित्याशङ्क्याह -
शास्त्रीये त्विति ।
तु शब्दः प्रत्यक्षादिव्यवहाराद्भिनत्ति शास्त्रीयम् । अधिकारशास्त्रं हि स्वर्गकामस्य पुंसः परलोकसम्बन्धं विना न निर्वहतीति तावन्मात्रमाक्षिपेत् , न त्वस्यासंसारित्वमपि, तस्याधिकारेऽनुपयोगात् । प्रत्युत औपनिषदस्य पुरुषस्याकर्तुरभोक्तुरधिकारविरोधात् । प्रयोक्ता हि कर्मणः कर्मजनितफलभोगभागी कर्मण्यधिकारी स्वामी भवति । तत्र कथमकर्ता प्रयोक्ता, कथं वाऽभोक्ता कर्मजनितफलभोगभागी । तस्मादनाद्यविद्यालब्धकर्तृत्वभोक्तृत्वब्राह्मणत्वाद्यभिमानिनं नरमधिकृत्य विधिनिषेधशास्त्रं प्रवर्तते । एवं वेदान्ता अप्यविद्यावत्पुरुषविषया एव । न हि प्रमात्रादिविभागादृते तदर्थाधिगमः । ते त्वविद्यावन्तमनुशासन्तो निर्मृष्टनिखिलाविद्यमनुशिष्टं स्वरूपे व्यवस्थापयन्तीत्येतावानेषां विशेषः । तस्मादविद्यावत्पुरुषविषयाण्येव शास्त्राणीति सिद्धम् ।
स्यादेतत् । यद्यपि विरोधानुपयोगाभ्यामौपनिषदः पुरुषोऽधिकारे नापेक्ष्यते, तथाप्युपनिषद्भ्योऽवगम्यमानः शक्नोत्यधिकारं निरोद्धुम् । तथा च परस्परापहतार्थत्वेन कृत्स्न एव वेदः प्रामाण्यमपजह्यादित्यत आह -
प्राक्च तथाभूतात्मेति ।
सत्यमौपनिषदपुरुषाधिगमोऽधिकारविरोधी, तस्मात्तु पुरस्तात्कर्मविधयः स्वोचितं व्यवहारं निर्वर्तयन्तो नानुपजातेन ब्रह्मज्ञानेन शक्या निरोद्धुम् । न च परस्परापहतिः, विद्याविद्यावत्पुरुषभेदेन व्यवस्थोपपत्तेः । यथा “न हिंस्यात्सर्वा भूतानि” इति साध्यांशनिषेधेऽपि ‘श्येनेनाभिचरन् यजेत’ इति शास्त्रं प्रवर्तमानं न हिंस्यादित्यनेन न विरुध्यते, तत्कस्य हेतोः, पुरुषभेदादिति ।
अवजितक्रोधारातयः पुरुषा निषेधेऽधिक्रियन्ते, क्रोधारातिवशीकृतास्तु श्येनादिशास्त्र इति अविद्यावत्पुरुषविषयत्वं नातिवर्तत इति यदुक्तं तदेव स्फोरयति -
तथा हिति ।
वर्णाध्यासः - ‘राजा राजसूयेन यजेत’ इत्यादिः । आश्रमाध्यासः - ‘गृहस्थः सदृशीं भार्यां विन्देत’ इत्यादिः । वयोऽध्यासः - ‘कृष्णकेशोऽग्नीनादधीत’ इत्यादिः । अवस्थाध्यासः - “अप्रतिसमाधेयव्याधीनां जलादिप्रवेशेन प्राणत्यागः” इति । आदिग्रहणं महापातकोपपातकसङ्करीकरणापात्रीकरणमलिनीकरणाद्यध्यासोपसङ्ग्रहार्थम् । तदेवमात्मानात्मनोः परस्पराध्यासमाक्षेपसमाधानाभ्यामुपपाद्य प्रमाणप्रमेयव्यवहारप्रवर्तनेन च दृढीकृत्य तस्यानर्थहेतुत्वमुदाहरणप्रपञ्चेन प्रतिपादयितुं तत्स्वरुपमुक्तं स्मारयति -
अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम ।
'स्मृतिरूपः परत्र पूर्वदृष्टावभासः” इत्यस्य सङ्क्षेपाभिधानमेतत् । तत्र अहमिति धर्मितादात्म्याध्यासमात्रम् , ममेत्यनुत्पादितधर्माध्यासं नानर्थहेतुरिति धर्माध्यासमेव ममकारं साक्षादशेषानर्थसंसारकारणमुदाहरणप्रपञ्चेनाह -
तद्यथा पुत्रभार्यादिष्विति ।
देहतादात्म्यमात्मन्यध्यस्य देहधर्मं पुत्रकलत्रादिस्वाम्यं च कृशत्वादिवदारोप्य आह - अहमेव विकलः, सकलः इति । स्वस्य खलु साकल्येन स्वाम्यसाकल्यात्स्वामीश्वरः सकलः सम्पूर्णो भवति । तथा स्वस्य वैकल्येन स्वाम्यवैकल्यात् , स्वामीश्वरो विकलोऽसम्पूर्णो भवति । बाह्यधर्मा ये वैकल्यादयः स्वाम्यप्रणालिकया सञ्चरिताः शरीरे तानात्मन्यध्यस्यतीत्यर्थः ।
यदा च परोपाध्यपेक्षे देहधर्मे स्वाम्ये इयं गतिः, तदा कैव कथा अनौपाधिकेषु देहधर्मेषु कृशत्वादिष्वित्याशयवानाह -
तथा देहधर्मानिति ।
देहादेरप्यन्तरङ्गाणामिन्द्रियाणामध्यस्तात्मभावानां धर्मान्मूकत्वादीन् , ततोऽप्यन्तरङ्गस्यान्तःकरणस्य अध्यस्तात्मभावस्य धर्मान् कामसङ्कल्पादीन् आत्मन्यध्यस्यतीति योजना ।
तदनेन प्रपञ्चेन धर्माध्यासमुक्त्वा तस्य मूलं धर्म्यध्यासमाह -
एवमहंप्रत्ययिनम् -
अहंप्रत्ययो वृत्तिर्यस्मिन्नन्तःकरणादौ, सोऽयमहंप्रत्ययीतम् ।
स्वप्रचारसाक्षिणि -
अन्तःकरणप्रचारसाक्षिणि,
चैतन्योदासीनताभ्यां,
प्रत्यगात्मन्यध्यस्य ।
तदनेन कर्तृत्वभोक्तृत्वे उपपादिते ।
चैतन्यमुपपादयति -
तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेण -
अन्तःकरणादिविपर्ययेण, अन्तःकरणाद्यचेतनम् , तस्य विपर्ययः चैतन्यम् , तेन । इत्थम्भूतलक्षणे तृतीया ।
अन्तःकरणादिष्वध्यस्यति ।
तदनेनान्तःकरणाद्यवच्छिन्नः प्रत्यगात्मा इदमनिदंस्वरूपश्चेतनः कर्ता भोक्ता कार्यकारणाविद्याद्वयाधारोऽहङ्कारास्पदं संसारी सर्वानर्थसम्भारभाजनं जीवात्मा इतरेतराध्यासोपादानः, तदुपादानश्चाध्यास इत्यनादित्वाद् बीजाङ्कुरवन्नेतरेतराश्रयत्वमित्युक्तं भवति ।
प्रमाणप्रमेयव्यवहारदृढीकृतमपि शिष्यहिताय स्वरूपाभिधानपूर्वकं सर्वलोकप्रत्यक्षतयाध्यासं सुदृढीकरोति -
एवमयमनादिरनन्तः -
तत्त्वज्ञानमन्तरेणाशक्यसमुच्छेदः ।
अनाद्यनन्तत्वे हेतुरुक्तः -
नैसर्गिक इति । मिथ्याप्रत्ययरूपः -
मिथ्याप्रत्ययानां रूपमनिर्वचनीयत्वम् तद्यस्य स तथोक्तः । अनिर्वचनीय इत्यर्थः ।
प्रकृतमुपसंहरति -
अस्यानर्थहेतोः प्रहाणाय ।
विरोधिप्रत्ययं विना कुतोऽस्य प्रहाणमित्यत उक्तम् -
आत्मैकत्वविद्याप्रतिपत्तये इति ।
प्रतिपत्तिः प्राप्तिः तस्यै, न तु जपमात्राय, नापि कर्मसु प्रवृत्तये, आत्मैकत्वं विगलितनिखिलप्रपञ्चत्वमानन्दरूपस्य सतः, तत्प्रतिपत्तिं निर्विचिकित्सां भावयन्तो वेदान्ताः समूलघातमध्यासमुपघ्नन्ति । एतदुक्तं भवति - अस्मत्प्रत्ययस्यात्मविषयस्य समीचीनत्वे सति ब्रह्मणो ज्ञातत्वान्निष्प्रयोजनत्वाच्च न जिज्ञासा स्यात् । तदभावे च न ब्रह्मज्ञानाय वेदान्ताः पठ्येरन् । अपि त्वविवक्षितार्था जपमात्रे उपयुज्येरन् । न हि तदौपनिषदात्मप्रत्ययः प्रमाणतामश्नुते । न चासावप्रमाणमभ्यस्तोऽपि वास्तवं कर्तृत्वभोक्तृत्वाद्यात्मनोऽपनोदितुमर्हति । आरोपितं हि रूपं तत्त्वज्ञानेनापोद्यते, न तु वास्तवमतत्त्वज्ञानेन । न हि रज्ज्वा रज्जुत्वं सहस्रमपि सर्पधाराप्रत्यया अपवदितुं समुत्सहन्ते । मिथ्याज्ञानप्रसञ्जितं च स्वरूपं शक्यं तत्त्वज्ञानेनापवदितुम् । मिथ्याज्ञानसंस्कारश्च सुदृढोऽपि तत्त्वज्ञानसंस्कारेणादरनैरन्तर्यदीर्घकालातत्त्वज्ञानाभ्यासजन्मनेति ।
स्यादेतत् । प्राणाद्युपासना अपि वेदान्तेषु बहुलमुपलभ्यन्ते, तत्कथं सर्वेषां वेदान्तानामात्मैकत्वप्रतिपादनमर्थ इत्यत आह -
यथा चायमर्थः सर्वेषां वेदान्तानां तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः ।
शरीरमेव शरीरकम् तत्र निवासी शारीरको जीवात्मा, तस्य त्वम्पदाभिधेयस्य तत्पदाभिधेयपरमात्मरूपतामीमांसा या सा तथोक्ता । एतावानत्रार्थसङ्क्षेपः - यद्यपि स्वाध्यायाध्ययनपरविधिना स्वाध्यायपदवाच्यस्य वेदराशेः फलवदर्थावबोधपरतामापादयता कर्मविधिनिषेधानामिव वेदान्तानामपि स्वाध्यायशब्दवाच्यानां फलवदर्थावबोधपरत्वमापादितम् , यद्यपि च “अविशिष्टस्तु वाक्यार्थः” इति न्यायात् मन्त्राणामिव वेदान्तानामर्थपरत्वमौत्सर्गिकम् , यद्यपि च वेदान्तेभ्यश्चैतन्यानन्दघनः कर्तृत्वभोक्तृत्वरहितो निष्प्रपञ्च एकः प्रत्यगात्मा अवगम्यते, तथापि कर्तृत्वभोक्तृत्वदुःखशोकमोहमयमात्मानमवगाहमानेनाहंप्रत्ययेन सन्देहबाधविरहिणा विरुध्यमाना वेदान्ताः स्वार्थात्प्रच्युता उपचरितार्था वा जपमात्रोपयोगिनो वेत्यविवक्षितस्वार्थाः । तथा च तदर्थविचारात्मिका चतुर्लक्षणी शारीरकमीमांसा नारब्धव्या । न च सर्वजनीनाहमनुभवसिद्ध आत्मा सन्दिग्धो वा सप्रयोजनो वा, येन जिज्ञास्यः सन् विचारं प्रयुञ्जीतेति पूर्वः पक्षः । सिद्धान्तस्तु भवेदेतदेवं यद्यहंप्रत्ययः प्रमाणम् । तस्य तूक्तेन प्रकारेण श्रुत्यादिबाधकत्वानुपपत्तेः, श्रुत्यादिभिश्च समस्ततीर्थकरैश्च प्रामाण्यानभ्युपगमादध्यासत्वम् । एवं च वेदान्ता नाविवक्षितार्थाः, नाप्युपचरितार्थाः, किं तूक्तलक्षणाः । प्रत्यगात्मैव तेषां मुख्योऽर्थः ।
तस्य च वक्ष्यमाणेन क्रमेण सन्दिग्धत्वात् प्रयोजनवत्वाच्च युक्ता जिज्ञासा, इत्याशयवान्सूत्रकारः तज्जिज्ञासामसूत्रयत् -
अथातो ब्रह्मजिज्ञासेति ।
जिज्ञासया सन्देहप्रयोजने सूचयति । तत्र साक्षादिच्छाव्याप्यत्वाद्ब्रह्मज्ञानं कण्ठोक्तं प्रयोजनम् । न च कर्मज्ञानात्पराचीनमनुष्ठानमिव ब्रह्मज्ञानात्पराचीनं किञ्चिदस्ति, येनैतदवान्तरप्रयोजनं भवेत् । किन्तु ब्रह्ममीमांसाख्यतर्केतिकर्तव्यतानुज्ञातविषयैर्वेदान्तैराहितं निर्विचिकित्सं ब्रह्मज्ञानमेव समस्तदुःखोपशमरूपमानन्दैकरसं परमं नः प्रयोजनम् । तमर्थमधिकृत्य हि प्रेक्षावन्तः प्रवर्तन्तेतराम् । तच्च प्राप्तमप्यनाद्यविद्यावशादप्राप्तमिवेति प्रेप्सितं भवति । यथा स्वग्रीवागतमपि ग्रैवेयकं कुतश्चिद्भ्रमान्नास्तीति मन्यमानः परेण प्रतिपादितमप्राप्तमिव प्राप्नोति । जिज्ञासा तु संशयस्य कार्यमिति स्वकारणं संशयं सूचयति । संशयश्च मीमांसारम्भं प्रयोजयति ।
तथा च शास्त्रे प्रेक्षावत्प्रवृत्तिहेतुसंशयप्रयोजनसूचनात्, युक्तमस्य सूत्रस्य शास्त्रादित्वमित्याह भगवान्भाष्यकारः -
वेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्य
अस्माभिः,
इदमादिमं सूत्रम् ।
पूजितविचारवचनो मीमांसाशब्दः । परमपुरुषार्थहेतुभूतसूक्ष्मतमार्थनिर्णयफलता विचारस्य पूजितता । तस्या मीमांसायाः शास्त्रम् , सा ह्यनेन शिष्यते शिष्येभ्यो यथावत्प्रतिपाद्यत इति । सूत्रं च बह्वर्थसूचनात् भवति । यथाहुः - “लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च । सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः” ॥ इति ।
तदेवं सूत्रतात्पर्यं व्याख्याय तस्य प्रथमपदमथेति व्याचष्टे -
तत्राथशब्द आनन्तर्यार्थः परिगृह्यते ।
तेषु सूत्रपदेषु मध्ये योऽयमथशब्दः स आनन्तर्यार्थ इति योजना ।
नन्वाधिकारार्थोऽप्यथशब्दो दृश्यते, यथा ‘अथैष ज्योतिः’ इति वेदे । यथा वा लोके ‘अथ शब्दानुशासनम्’ , ‘अथ योगानुशासनम्’ इति । तत्किमत्राधिकारार्थो न गृह्यत इत्यत आह -
नाधिकारार्थः ।
कुतः,
ब्रह्मजिज्ञासाया अनधिकार्यत्वात् ।
जिज्ञासा तावदिह सूत्रे ब्रह्मणश्च तत्प्रज्ज्ञानाच्च शब्दतः प्रधानं प्रतीयते । न च यथा ‘दण्डी प्रैषानन्वाह’ इत्यत्राप्रधानमपि दण्डशब्दार्थो विवक्ष्यते, एवमिहापि ब्रह्मतज्ज्ञाने इति युक्तम्; ब्रह्ममीमांसाशास्त्रप्रवृत्त्यङ्गसंशयप्रयोजनसूचनार्थत्वेन जिज्ञासाया एव विवक्षितत्वात् । तदविवक्षायां तदसूचनेन काकदन्तपरीक्षायामिव ब्रह्ममीमांसायां, न प्रेक्षावन्तः प्रवर्तेरन् । न हि तदानीं ब्रह्म वा तज्ज्ञानं वाभिधेयप्रयोजने भवितुमर्हतः, अनध्यस्ताहंप्रत्ययविरोधेन वेदान्तानामेवंविधेऽर्थे प्रामाण्यानुपपत्तेः । कर्मप्रवृत्त्युपयोगितयोपचरितार्थानां वा जपोपयोगिनां वा ‘हुं फड्’ इत्येवमादीनामिवाविवक्षितार्थानामपि स्वाध्यायाध्ययनविध्यधीनग्रहणत्वस्य सम्भवात् । तस्मात्सन्देहप्रयोजनसूचनी जिज्ञासा इह पदतो वाक्यतश्च प्रधानं विवक्षितव्या । न च तस्या अधिकार्यत्वम् , अप्रस्तूयमानत्वात् , येन तत्समभिव्याहृतोऽथशब्दोऽधिकारार्थः स्यात् । जिज्ञासाविशेषणं तु ब्रह्मतज्ज्ञानमधिकार्यं भवेत् । न च तदप्यथशब्देन सम्बध्यते, प्राधान्याभावात् । न च जिज्ञासा मीमांसा, येन योगानुशासनवदधिक्रियेत, नान्तत्वं निपात्य ‘माङ्माने’ इत्यस्माद्वा ‘मानपूजायाम्’ इत्यस्माद्वा धातोः ‘मान्बध’ इत्यादिनानिच्छार्थे सनि व्युत्पादितस्य मीमांसाशब्दस्य पूजितविचारवचनत्वात् । ज्ञानेच्छावाचकत्वात्तु जिज्ञासापदस्य, प्रवर्तिका हि मीमांसायां जिज्ञासा स्यात् । न च प्रवर्त्यप्रवर्तकयोरैक्यम् , एकत्वे तद्भावानुपपत्तेः । न च स्वार्थपरत्वस्योपपत्तौ सत्यामन्यार्थपरत्वकल्पना युक्ता, अतिप्रसङ्गात् । तस्मात्सुष्ठूक्तम् “जिज्ञासाया अनधिकार्यत्वात्” इति ।
अथ मङ्गलार्थोऽथशब्दः कस्मान्न भवति । तथा च मङ्गलहेतुत्वात्प्रत्यहं ब्रह्मजिज्ञासा कर्तव्येति सूत्रार्थः सम्पद्यत इत्यत आह -
मङ्गलस्य च वाक्यार्थे समन्वयाभावात् ।
पदार्थ एव हि वाक्यार्थे समन्वीयते, स च वाच्यो वा लक्ष्यो वा । न चेह मङ्गलमथशब्दस्य वाच्यं वा लक्ष्यं वा, किं तु मृदङ्गशङ्खध्वनिवदथशब्दश्रवणमात्रकार्यम् । न च कार्यज्ञाप्ययोर्वाक्यार्थे समन्वयः शब्दव्यवहारे दृष्ट इत्यर्थः ।
तत्किमिदानीं मङ्गलार्थोऽथशब्दः तेषु तेषु न प्रयोक्तव्यः । तथा च “ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ” ॥ इति स्मृतिव्याकोप इत्यत आह -
अर्थान्तरप्रयुक्त एव ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवति ।
अर्थान्तरेष्वानन्तर्यादिषु प्रयुक्तोऽथशब्दः श्रुत्या श्रवणमात्रेण वेणुवीणाध्वनिवन्मङ्गलं कुर्वन् , मङ्गलप्रयोजनो भवति, अन्यार्थमानीयमानोदकुम्भदर्शनवत् । तेन न स्मृतिव्याकोपः । न चेहानन्तर्यार्थस्य सतो न श्रवणमात्रेण मङ्गलार्थतेत्यर्थः ।
स्यादेतत् । पूर्वप्रकृतापेक्षोऽथशब्दो भविष्यति विनैवानन्तर्यार्थत्वम् । तद्यथेममेवाथशब्दं प्रकृत्य विमृश्यते किमयमथशब्द आनन्तर्ये अथाधिकार इति । अत्र विमर्शवाक्येऽथशब्दः पूर्वप्रकृतमथशब्दमपेक्ष्य प्रथमपक्षोपन्यासपूर्वकं पक्षान्तरोपन्यासे । न चास्यानन्तर्यमर्थः, पूर्वप्रकृतस्य प्रथमपक्षोपन्यासेन व्यवायात् । न च प्रकृतानपेक्षा, तदनपेक्षस्य तद्विषयत्वाभावेनासमानविषयतया विकल्पानुपपत्तेः । न हि जातु भवति किं नित्य आत्मा, अथ अनित्या बुद्धिरिति । तस्मादानन्तर्यं विना पूर्वप्रकृतापेक्ष इहाथशब्दः कस्मान्न भवतीत्यत आह -
पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात् ।
अस्यार्थः - न वयमानन्तर्यार्थतां व्यसनितया रोचयामहे, किं तु ब्रह्मजिज्ञासाहेतुभूतपूर्वप्रकृतसिद्धये, सा च पूर्वप्रकृतार्थापेक्षत्वेऽप्यथशब्दस्य सिध्यतीति व्यर्थमानन्तर्यार्थत्वावधारणाग्रहोऽस्माकमिति । तदिदमुक्तम् ‘फलतः’ इति । परमार्थतस्तु कल्पान्तरोपन्यासे पूर्वप्रकृतापेक्षा । न चेह कल्पान्तरोपन्यास इति पारिशेष्यादानन्तर्यार्थ एवेति युक्तम् ।
भवत्वानन्तर्यार्थः, किमेवं सतीत्यत आह -
सति चानन्तर्यार्थत्व इति ।
न तावद्यस्य कस्यचिदत्रानन्तर्यमिति वक्तव्यम् , तस्याभिधानमन्तरेणापि प्राप्तत्वात् । अवश्यं हि पुरुषः किञ्चित्कृत्वा किञ्चित्करोति । न चानन्तर्यमात्रस्य दृष्टमदृष्टं वा प्रयोजनं पश्यामः । तस्मात्तस्यात्रानन्तर्यं वक्तव्यं यद्विना ब्रह्मजिज्ञासा न भवति, यस्मिन्सति तु भवन्ती भवत्येव ।
तदिदमुक्तम् -
यत्पूर्ववृत्तं नियमेनापेक्षत इति ।
स्यादेतत् । धर्मजिज्ञासाया इव ब्रह्मजिज्ञासाया अपि योग्यत्वात्स्वाध्यायाध्ययनानन्तर्यम् , धर्मवद्ब्रह्मणोऽप्याम्नायैकप्रमाणगम्यत्वात् । तस्य चागृहीतस्य स्वविषये विज्ञानाजननात् , ग्रहणस्य च स्वाध्यायोऽध्येतव्य इत्यध्ययनेनैव नियतत्वात् ।
तस्माद्वेदाध्ययनानन्तर्यमेव ब्रह्मजिज्ञासाया अप्यथशब्दार्थ इत्यत आह -
स्वाध्यायानन्तर्यं तु समानं,
धर्मब्रह्मजिज्ञासयोः । अत्र च स्वाध्यायेन विषयेण तद्विषयमध्ययनं लक्षयति । तथा च “अथातो धर्मजिज्ञासा”(जै.सू. १-१-१) इत्यनेनैव गतमिति नेदं सूत्रमारब्धव्यम् । धर्मशब्दस्य वेदार्थमात्रोपलक्षणतया धर्मवद्ब्रह्मणोऽपि वेदार्थत्वाविशेषेण वेदाध्ययनानन्तर्योपदेशसाम्यादित्यर्थः ।
चोदयति -
नन्विह कर्मावबोधानन्तर्यं विशेषः,
धर्मजिज्ञासातो ब्रह्मजिज्ञासायाः । अस्यार्थः - “विविदिषन्ति यज्ञेन”(बृ. उ. ४ । ४ । २२) इति तृतीयाश्रुत्या यज्ञादीनामङ्गत्वेन ब्रह्मज्ञाने विनियोगात् , ज्ञानस्यैव कर्मतयेच्छां प्रति प्राधान्यात् , प्रधानसम्बन्धाच्चाप्रधानानां पदार्थान्तराणाम् । तत्रापि च न वाक्यार्थज्ञानोत्पत्तावङ्गभावो यज्ञादीनाम् , वाक्यार्थज्ञानस्य वाक्यादेवोत्पत्तेः । न च वाक्यं सहकारितया कर्माण्यपेक्षत इति युक्तम् , अकृतकर्मणामपि विदितपदपदार्थसम्बन्धानां समधिगतशाब्दन्यायतत्त्वानां गुणप्रधानभूतपूर्वापरपदार्थाकाङ्क्षासंनिधियोग्यतानुसन्धानवतामप्रत्यूहं वाक्यार्थप्रत्ययोत्पत्तेः । अनुत्पत्तौ वा विधिनिषेधवाक्यार्थप्रत्ययाभावेन तदर्थानुष्ठानपरिवर्जनाभावप्रसङ्गः । तद्बोधतस्तु तदर्थानुष्ठानपरिवर्जने परस्पराश्रयः, तस्मिन् सति तदर्थानुष्ठानपरिवर्जनं ततश्च तद्बोध इति । न च वेदान्तवाक्यानामेव स्वार्थप्रत्यायने कर्मापेक्षा, न वाक्यान्तराणामिति साम्प्रतम् , विशेषहेतोरभावात् । ननु “तत्त्वमसि”(छा. उ. ६ । ८ । ७)“तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति वाक्यात्, त्वम्पदार्थस्य, कर्तृभोक्तृरूपस्य जीवात्मनो नित्यशुद्धबुद्धोदासीनस्वभावेन तत्पदार्थेन परमात्मनैक्यमशक्यं द्रागित्येव प्रतिपत्तुम् आपाततोऽशुद्धसत्त्वैर्योग्यताविरहविनिश्चयात् । यज्ञदानतपोऽनाशकतनूकृतान्तर्मलास्तु विशुद्धसत्त्वाः श्रद्दधानायोग्यतावगमपुरःसरं तादात्म्यमवगमिष्यन्तीति चेत् , तत्किमिदानीं प्रमाणकारणं योग्यतावधारणमप्रमाणात्कर्मणो वक्तुमध्यवसितोऽसि, प्रत्यक्षाद्यतिरिक्तं वा कर्मापि प्रमाणम् । वेदान्ताविरुद्धतन्मूलन्यायबलेन तु योग्यतावधारणे कृतं कर्मभिः । तस्मात् “तत्त्वमसि” इत्यादेः श्रुतमयेन ज्ञानेन जीवात्मनः परमात्मभावं गृहीत्वा, तन्मूलया चोपपत्त्या व्यवस्थाप्य, तदुपासनायां भावनापराभिधानायां दीर्घकालनैरन्तर्यवत्यां ब्रह्मसाक्षात्कारफलायां यज्ञादीनामुपयोगः । यथाहुः - “स तु दीर्धकालनैरन्तर्यसत्कारासेवितो दृढभूमिः”(यो.सू.१-१४) इति ब्रह्मचर्यतपःश्रद्धायज्ञादयश्च सत्काराः । अत एव श्रुतिः - “तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः”(बृ. उ. ४ । ४ । २१) । इति । विज्ञाय तर्कोपकरणेन शब्देन प्रज्ञां भावनां कुर्वीतेत्यर्थः । अत्र च यज्ञादीनां श्रेयःपरिपन्थिकल्मषनिबर्हणद्वारेणोपयोग इति केचित् । पुरुषसंस्कारद्वारेणेत्यन्ये । यज्ञादिसंस्कृतो हि पुरुषः आदरनैरन्तर्यदीर्घकालैरासेवमानो ब्रह्मभावनामनाद्यविद्यावासनां समूलकाषं कषति, ततोऽस्य प्रत्यगात्मा सुप्रसन्नः केवलो विशदीभवति । अत एव स्मृतिः - “महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः” ।(मनु. २ । २८) “यस्यैतेऽष्टाचत्वारिंशत्संस्काराः”(दत्तपुराण) इति च । अपरे तु ऋणत्रयापाकरणे ब्रह्मज्ञानोपयोगं कर्मणामाहुः । अस्ति हि स्मृतिः - “ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्”(मनु. ६। ३५) इति । अन्ये तु “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन”(बृ. उ. ४ । ४ । २२) इत्यादिश्रुतिभ्यस्तत्तत्फलाय चोदितानामपि कर्मणां संयोगपृथक्त्वेन ब्रह्मभावनां प्रत्यङ्गभावमाचक्षते, क्रत्वर्थस्येव खादिरत्वस्य वीर्यार्थताम् , ‘एकस्य तूभयार्थत्वे संयोगपृथक्त्वम्’ इति न्यायात् । अत्र च पारमर्षं सूत्रम् - “सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्”(ब्र . अ. ३. पा. ४ सू. २६) इति । यज्ञतपोदानादि सर्वम् , तदपेक्षा ब्रह्मभावनेत्यर्थः । तस्माद्यदि श्रुत्यादयः प्रमाणं यदि वा पारमर्षं सूत्रं सर्वथा यज्ञादिकर्मसमुच्चिता ब्रह्मोपासना विशेषणत्रयवती अनाद्यविद्यातद्वासनासमुच्छेदक्रमेण ब्रह्मसाक्षात्काराय मोक्षापरनाम्ने कल्पत इति तदर्थं कर्माण्यनुष्ठेयानि । न चैतानि दृष्टादृष्टसामवायिकारादुपकारहेतुभूतौपदेशिकातिदेशिकक्रमपर्यन्ताङ्गग्रामसहितपरस्परविभिन्नकर्मस्वरूपतदधिकारिभेदपरिज्ञानं विना शक्यान्यनुष्ठातुम् । न च धर्ममीमांसापरिशीलनं विना तत्परिज्ञानम् । तस्मात्साधूक्तम् ‘कर्मावबोधानन्तर्यं विशेषः’ इति कर्मावबोधेन हि कर्मानुष्ठानसाहित्यं भवति ब्रह्मोपासनाया इत्यर्थः ।
तदेतन्निराकरोति -
न ।
कुतः, कर्मावबोधात्
प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः ।
इदमत्राकूतम् - ब्रह्मोपासनया भावनापराभिधानया कर्माण्यपेक्ष्यन्त इत्युक्तम् , तत्र ब्रूमः - क्व पुनरस्याः कर्मापेक्षा, किं कार्ये, यथाग्नेयादीनां परमापूर्वे चिरभाविफलानुकूले जनयितव्ये समिदाद्यपेक्षा । स्वरूपे वा, यथा तेषामेव द्विरवत्तपुरोडाशादिद्रव्याग्निदेवताद्यपेक्षा । न तावत्कार्ये, तस्य विकल्पासहत्वात् । तथा हि - ब्रह्मोपासनाया ब्रह्मस्वरूपसाक्षात्कारः कार्यमभ्युपेयः, स चोत्पाद्यो वा स्यात् , यथा संयवनस्य पिण्डः । विकार्यो वा, यथावघातस्य व्रीहयः । संस्कार्यो वा, यथा प्रोक्षणस्योलूखलादयः । प्राप्यो वा, यथा दोहनस्य पयः । न तावदुत्पाद्यः । न खलु घटादिसाक्षात्कार इव जडस्वभावेभ्यो घटादिभ्यो भिन्न इन्द्रियाद्याधेयो ब्रह्मसाक्षात्कारो भावनाधेयः सम्भवति, ब्रह्मणोऽपराधीनप्रकाशतया तत्साक्षात्कारस्य तत्स्वाभाव्येन नित्यतयोत्पाद्यत्वानुपपत्तेः, ततो भिन्नस्य वा भावनाधेयस्य साक्षात्कारस्य प्रतिभाप्रत्ययवत्संशयाक्रान्ततया प्रामाण्यायोगात् , तद्विधस्य तत्सामग्रीकस्यैव बहुलं व्यभिचारोपलब्धेः । न खल्वनुमानविबुद्धं वह्निं भावयतः शीतातुरस्य शिशिरभरमन्थरतरकायकाण्डस्य स्फुरज्ज्वालाजटिलानलसाक्षात्कारः प्रमाणान्तरेण संवाद्यते, विसंवादस्य बहुलमुपलम्भात् , तस्मात्प्रामाणिकसाक्षात्कारलक्षणकार्याभावान्नोपासनाया उत्पाद्ये कर्मापेक्षा । न च कूटस्थनित्यस्य सर्वव्यापिनो ब्रह्मण उपासनातो विकारसंस्कारप्राप्तयः सम्भवन्ति । स्यादेतत् । मा भूद्ब्रह्मसाक्षात्कार उत्पाद्यादिरूप उपासनायाः, संस्कार्यस्तु अनिर्वचनीया नाद्यविद्याद्वयपिधानापनयनेन भविष्यति, प्रतिसीरापिहिता नर्तकीव प्रतिसीरापनयद्वारा रङ्गव्यापृतेन । तत्र च कर्मणामुपयोगः । एतावांस्तु विशेषः - प्रतिसीरापनये पारिषदानां नर्तकीविषयः साक्षात्कारो भवति । इह तु अविद्यापिधानापनयमात्रमेव नापरमुत्पाद्यमस्ति, ब्रह्मसाक्षात्कारस्य ब्रह्मस्वभावस्य नित्यत्वेन अनुत्पाद्यत्वात् । अत्रोच्यते - का पुनरियं ब्रह्मोपासना । किं शाब्दज्ञानमात्रसन्ततिः, आहो निर्विचिकित्सशाब्दज्ञानसन्ततिः । यदि शाब्दज्ञानमात्रसन्ततिः, किमियमभ्यस्यमानाप्यविद्यां समुच्छेत्तुमर्हति । तत्त्वविनिश्चयस्तदभ्यासो वा सवासनं विपर्यासमुन्मूलयेत् , न संशयाभ्यासः, सामान्यमात्रदर्शनाभ्यासो वा । न हि स्थाणुर्वा पुरुषो वेति वा, आरोहपरिणाहवत् द्रव्यमिति वा शतशोऽपि ज्ञानमभ्यस्यमानं पुरुष एवेति निश्चयाय पर्याप्तम् , ऋते विशेषदर्शनात् । ननूक्तं श्रुतमयेन ज्ञानेन जीवात्मनः परमात्मभावं गृहीत्वा युक्तिमयेन च व्यवस्थाप्यत इति । तस्मान्निर्विचिकत्सशाब्दज्ञानसन्ततिरूपोपासना कर्मसहकारिण्यविद्याद्वयोच्छेदहेतुः । न चासावनुत्पादितब्रह्मानुभवा तदुच्छेदाय पर्याप्ता । साक्षात्काररूपो हि विपर्यासः साक्षात्काररूपेणैव तत्त्वज्ञानेनोच्छिद्यते, न तु परोक्षावभासेन, दिङ्मोहालातचक्रचलद्वृक्षमरुमरीचिसलिलादिविभ्रमेष्वपरोक्षावभासिषु अपरोक्षावभासिभिरेव दिगादितत्त्वप्रत्ययैर्निवृत्तिदर्शनात् । नो खल्वाप्तवचनलिङ्गादिनिश्चितदिगादितत्त्वानां दिङ्मोहादयो निवर्तन्ते । तस्मात्त्वम्पदार्थस्य तत्पदार्थत्वेन साक्षात्कार एषितव्यः । एतावता हि त्वम्पदार्थस्य दुःखिशोकित्वादिसाक्षात्कारनिवृत्तिः, नान्यथा । न चैष साक्षात्कारो मीमांसासहितस्यापि शब्दप्रमाणस्य फलम् , अपि तु प्रत्यक्षस्य, तस्यैव तत्फलत्वनियमात् । अन्यथा कुटजबीजादपि वटाङ्कुरोत्पत्तिप्रसङ्गात् । तस्मान्निर्विचिकित्सावाक्यार्थभावनापरिपाकसहितमन्तःकरणं त्वम्पदार्थस्यापरोक्षस्य तत्तदुपाध्याकारनिषेधेन तत्पदार्थतामनुभावयतीति युक्तम् । न चायमनुभवो ब्रह्मस्वभावो येन न जन्येत, अपि तु अन्तःकरणस्यैव वृत्तिभेदो ब्रह्मविषयः । न चैतावता ब्रह्मणो नापराधीनप्रकाशता । न हि शाब्दज्ञानप्रकाश्यं ब्रह्म स्वयं प्रकाशं न भवति । सर्वोपाधिरहितं हि स्वयञ्ज्योतिरिति गीयते, न तूपहितमपि । यथाह स्म भगवान् भाष्यकारः - “नायमेकान्तेनाविषयः” इति । न चान्तःकरणवृत्तावप्यस्य साक्षात्कारे सर्वोपाधिविनिर्मोकः, तस्यैव तदुपाधेर्विनश्यदवस्थस्य स्वपररूपोपाधिविरोधिनो विद्यमानत्वात् । अन्यथा चैतन्यच्छायापत्तिं विनान्तःकरणवृत्तेः स्वयमचेतनायाः स्वप्रकाशत्वानुपपत्तौ साक्षात्कारत्वायोगात् । न चानुमितभावितवह्निसाक्षात्कारवत् प्रतिभात्वेनास्याप्रामाण्यम् , तत्र वह्निस्वलक्षणस्य परोक्षत्वात् । इह तु ब्रह्मस्वरूपस्योपाधिकलुषितस्य जीवस्य प्रागप्यपरोक्षतेति । नहि शुद्धबुद्धत्वादयो वस्तुतस्ततोऽतिरिच्यन्ते । जीव एव तु तत्तदुपाधिरहितः शुद्धबुद्धत्वादिस्वभावो ब्रह्मेति गीयते । न च तत्तदुपाधिविरहोऽपि ततोऽतिरिच्यते । तस्मात्यथा गान्धर्वशास्त्रार्थज्ञानाभ्यासाहितसंस्कारसचिवश्रोत्रेन्द्रियेण षड्जादिस्वरग्राममूर्छनाभेदमध्यक्षमनुभवति, एवं वेदान्तार्थज्ञानाभ्यासाहितसंस्कारो जीवः स्वस्य ब्रह्मभावमन्तःकरणेनेति । अन्तःकरणवृत्तौ ब्रह्मसाक्षात्कारे जनयितव्ये अस्ति तदुपासनायाः कर्मापेक्षेति चेत् न, तस्याः कर्मानुष्ठानसहभावाभावेन तत्सहकारित्वानुपपत्तेः । न खलु “तत्त्वमसि”(छा. उ. ६ । ८ । ७)“तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्यादेर्वाक्यान्निर्विचिकित्सं शुद्धबुद्धोदासीनस्वभावमकर्तृत्वाद्युपेतमपेतब्राह्मणत्वादिजातिं देहाद्यतिरिक्तमेकमात्मानं प्रतिपद्यमानः कर्मस्वधिकारमवबोद्धुमर्हति । अनर्हश्च कथं कर्ता वाधिकृतो वा । यद्युच्येत निश्चितेऽपि तत्त्वे विपर्यासनिबन्धनो व्यवहारोऽनुवर्तमानो दृश्यते, यथा गुडस्य माधुर्यविनिश्चये अपि पित्तोपहतेन्द्रियाणां तिक्ततावभासानुवृत्तिः, आस्वाद्य थूत्कृत्य त्यागात् । तस्मादविद्यासंस्कारानुवृत्त्या कर्मानुष्ठानम् , तेन च विद्यासहकारिणा तत्समुच्छेद उपपत्स्यते । न च कर्माविद्यात्मकं कथमविद्यामुच्छिनत्ति, कर्मणो वा तदुच्छेदकस्य कुत उच्छेदः इति वाच्यम् , सजातीयस्वपरविरोधिनां भावानां बहुलमुपलब्धेः । यथा पयः पयोऽन्तरं जरयति, स्वयं च जीर्यति, यथा विषं विषान्तरं शमयति, स्वयं च शाम्यति, यथा वा कतकरजो रजोऽन्तराविले पाथसि प्रक्षिप्तं रजोऽन्तराणि भिन्दत्स्वयमपि भिद्यमानमनाविलं पाथः करोति । एवं कर्माविद्यात्मकमपि अविद्यान्तराण्यपगमयत्स्वयमप्यपगच्छतीति । अत्रोच्यते - सत्यम् , “सदेव सोम्येदमग्र आसीत्”(छा. उ. ६ । २ । १) इत्युपक्रमात् “तत्त्वमसि” इत्यन्ताच्छब्दात् ब्रह्ममीमांसोपकरणादसकृदभ्यस्तात् , निर्विचिकित्सेऽनाद्यविद्योपादानदेहाद्यतिरिक्तप्रत्यगात्मतत्त्वावबोधे जातेऽपि अविद्यासंस्कारानुवृत्तानुवर्तन्ते सांसारिकाः प्रत्ययास्तद्व्यवहाराश्च, तथाविधानाप्ययं व्यवहारप्रत्ययान्मिथ्येति मन्यमानो विद्वान्न श्रद्धत्ते, पित्तोपहतेन्द्रिय इव गुडं थूत्कृत्य त्यजन्नपि तस्य तिक्तताम् । तथा चायं क्रियाकर्तृकरणेतिकर्तव्यताफलाप्रपञ्चमतात्त्विकं विनिश्चिन्वन् कथमधिकृतो नाम, विदुषो ह्यधिकारः, अन्यथा पशुशूद्रादीनामप्यधिकारो दुर्वारः स्यात् । क्रियाकर्त्रादिस्वरूपविभागं च विद्वस्यमान इह विद्वानभिमतः कर्मकाण्डे । अत एव भगवान् विद्वद्विषयत्वं शास्त्रस्य वर्णयाम्बभूव भाष्यकारः । तस्माद्यथा राजजातीयाभिमानकर्तृके राजसूये न विप्रवैश्यजातीयाभिमानिनोरधिकारः । एवं द्विजातिकर्तृक्रियाकरणादिविभागाभिमानिकर्तृके कर्मणि न तदनभिमानिनोऽधिकारः । न चानधिकृतेन समर्थेनापि कृतं वैदिकं कर्म फलाय कल्पते, वैश्यस्तोम इव ब्राह्मणराजन्याभ्याम् । तेन दृष्टार्थेषु कर्मसु शक्तः प्रवर्तमानः प्राप्नोतु फलम् , दृष्टत्वात् । अदृष्टार्थेषु तु शास्त्रैकसमधिगम्यं फलमनधिकारिणि न युज्यत इति नोपासनायाः कार्ये कर्मापेक्षा । स्यादेतत् । मनुष्याभिमानवदधिकारिके कर्मणि विहिते यथा तदभिमानरहितस्यानधिकारः, एवं निषेधविधयोऽपि मनुष्याधिकारा इति तदभिमानरहितस्तेष्वपि नाधिक्रियेत, पश्वादिवत् । तथा चायं निषिद्धमनुतिष्ठन्न प्रत्यवेयात् , तिर्यगादिवदिति भिन्नकर्मतापातः । मैवम् । न खल्वयं सर्वथा मनुष्याभिमानरहितः, किं त्वविद्यासंस्कारानुवृत्त्यास्य मात्रया तदभिमानोऽनुवर्तते । अनुवर्तमानं च मिथ्येति मन्यमानो न श्रद्धत्त इत्युक्तम् । किमतो यद्येवम् , एतदतो भवतिविधिषु श्राद्धोऽधिकारी नाश्राद्धः । ततश्च मनुष्याद्यभिमानं नश्रद्धधानो न विधिशास्त्रेष्वधिक्रियते । तथा च स्मृतिः - “अश्रद्धया हुतं दत्तम्”(भ.गी.१७-२८) इत्यादिका । निषेधशास्त्रं तु न श्रद्धामपेक्षते । अपि तु निषिध्यमानक्रियोन्मुखो नर इत्येव प्रवर्तते । तथा च सांसारिक इव शब्दावगतब्रह्मतत्त्वोऽपि निषेधमतिक्रम्य प्रवर्तमानः प्रत्यवैतीति न भिन्नकर्मदर्शनाभ्युपगमः । तस्मान्नोपासनायाः कार्ये कर्मापेक्षा । अत एव नोपासनोत्पत्तावपि, निर्विचिकित्सशाब्दज्ञानोत्पत्त्युत्तरकालमनधिकारः कर्मणीत्युक्तम् । तथा च श्रुतिः - “नकर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ।”(कैवल्योपनिषत्) तत्किमिदानीमनुपयोग एव सर्वथेह कर्मणाम् , तथा च “विविदिषन्ति यज्ञेन”(बृ. उ. ४ । ४ । २२) इत्याद्याः श्रुतयो विरुध्येरन् । न विरुध्यन्ते । आरादुपकारकत्वात्कर्मणां यज्ञादीनाम् । तथा हि - तमेतमात्मानं वेदानुवचनेन-नित्यस्वाध्यायेन, ब्राह्मणा विविदिषन्ति-वेदितुमिच्छन्ति, न तु विदन्ति । वस्तुतः प्रधानस्यापि वेदनस्य प्रकृत्यर्थतया शब्दतो गुणत्वात् , इच्छायाश्च प्रत्ययार्थतया प्राधान्यात् , प्रधानेन च कार्यसंप्रत्ययात् । नहि राजपुरुषमानयेत्युक्ते वस्तुतः प्रधानमपि राजा पुरुषविशेषणतया शब्दत उपसर्जन आनीयतेऽपि तु पुरुष एव, शब्दतस्तस्य प्राधान्यात् । एवं वेदानुवचनस्येव यज्ञस्यापीच्छासाधनतया विधानम् । एवं तपसोऽनाशकस्य । कामानशनमेव तपः, हितमितमेध्याशिनो हि ब्रह्मणि विविदिषा भवति, न तु सर्वथानश्नतो मरणात् । नापि चान्द्रायणादि तपःशीलस्य, धातुवैषम्यापत्तेः । एतानि च नित्यान्युपात्तदुरितनिबर्हणेन पुरुषं संस्कुर्वन्ति । तथा च श्रुतिः - “स ह वा आत्मयाजी यो वेद इदं मेऽनेनाङ्गं संस्क्रियत इदं मेऽनेनाङ्गमुपधीयते”(शत. ब्रा. ११ । २ । ६ । १३) इति । अनेनेति हि प्रकृतं यज्ञादि परामृशति । स्मृतिश्च - “यस्यैतेऽष्टाचत्वारिंशत्संस्काराः”(दत्तपुराण) इति । नित्यनैमित्तिकानुष्ठानप्रक्षीणकल्मषस्य च विशुद्धसत्त्वस्याविदुष एव उत्पन्नविविदिषस्य ज्ञानोत्त्पत्तिं दर्शयत्याथर्वणी श्रुतिः - “विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानः”(मु. उ. ३ । १ । ८) इति । स्मृतिश्च - “ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः”(म. भा. शां. २०४ । ८) इत्यादिका । कॢप्तेनैव च नित्यानां कर्मणां नित्येहितेनोपात्तदुरितनिबर्हणद्वारेण पुरुषसंस्कारेण ज्ञानोत्पत्तावङ्गभावोपपत्तौ न संयोग पृथक्त्वेन साक्षादङ्गभावो युक्तः, कल्पनागौरवापत्तेः । तथा हि - नित्यकर्मणामनुष्ठानाद्धर्मोत्पादः, ततः पाप्मा निवर्तते, स हि अनित्याशुचिदुःखरूपे संसारे नित्यशुचिसुखख्यातिलक्षणेन विपर्यासेन चित्तसत्त्वं मलिनयति, ततः पापनिवृत्तौ प्रत्यक्षोपपत्तिप्रवृत्तिद्वारापावरणे सति प्रत्यक्षोपपत्तिभ्यां संसारस्य अनित्याशुचिदुःखरूपतामप्रत्यूहमवबुध्यते, ततोऽस्य अस्मिन्ननभिरतिसंज्ञं वैराग्यमुपजायते, ततस्तज्जिहासोपावर्तते, ततो हानोपायं पर्येषते, पर्येषमाणश्चात्मतत्त्वज्ञानमस्योपाय इत्युपश्रुत्य तज्जिज्ञासते, ततः श्रवणादिक्रमेण तज्ज्ञानातीत्यारादुपकारकत्वं तत्त्वज्ञानोत्पादं प्रति चित्तसत्त्वशुद्ध्या कर्मणां युक्तम् । इममेवार्थमनुवदति भगवद्गीता - “आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते”(भ. गी. ६ । ३) ॥ एवं चाननुष्ठितकर्मापि प्राग्भवीयकर्मवशाद्यो विशुद्धसत्त्वः संसारासारतादर्शनेन निष्पन्नवैराग्यः, कृतं तस्य कर्मानुष्ठानेन वैराग्योत्पादोपयोगिना, प्राग्भवीयकर्मानुष्ठानादेव तत्सिद्धेः, इममेव च पुरुषधौरेयभेदमधिकृत्य प्रववृते श्रुतिः - “यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत्”(जा. उ. ४) इति ।
तदिदमुक्तम् - कर्मावबोधात् -
प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेरिति ।
अत एव न ब्रह्मचारिण ऋणानि सन्ति, येन तदपाकरणार्थं कर्मानुतिष्ठेत् । एतदनुरोधाच्च “जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते” इति गृहस्थः सम्पद्यमान इति व्याख्येयम् । अन्यथा “यदि वेतरथा ब्रह्मचर्यादेव ”(जा. उ. ४) इति श्रुतिर्विरुध्येत । गृहस्थस्यापि च ऋणापाकरणं सत्त्वशुद्ध्यर्थमेव । जरामर्यवादो भस्मान्ततावादोऽन्त्येष्टयश्च कर्मजडानविदुषः प्रति, न त्वात्मतत्त्वपण्डितान् । तस्मात्तस्यानन्तर्यमथशब्दार्थः, यद्विना ब्रह्मजिज्ञासा न भवति यस्मिंस्तु सति भवन्ती भवत्येव । न चेत्थं कर्मावबोधः तस्मान्न कर्मावबोधानन्तर्यमथशब्दार्थ इति सर्वमवदातम् ।
स्यादेतत् । मा भूदग्निहोत्रयवागूपाकवदार्थः क्रमः, श्रौतस्तु भविष्यति, “गृही भूत्वा वनी भवेत्वनी भूत्वा प्रव्रजेत्”(जा. उ. ४) इति जाबालश्रुतिर्गार्हस्थ्येन हि यज्ञाद्यनुष्ठानं सूचयति । स्मरन्ति च “अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः । इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥”(मनु. ६। ३६) निन्दन्ति च - “अनधीत्य द्विजो वेदाननुत्पाद्य तथात्मजान् । अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन्व्रजत्यधः ॥”(मनु. ६। ३७) इत्यत आह -
यथा च हृदयाद्यवदानानामानन्तर्यनियमः ।
कुतः, “हृदयस्याग्रेऽवद्यति अथ जिह्वाया अथ वक्षसः”(आ.श्रौ.सू. ७-२४) इत्यथाग्रशब्दाभ्यां क्रमस्य विवक्षितत्वात् । न तथेह क्रम नियमो विवक्षितः, श्रुत्या तयैवानियमप्रदर्शनात् , “यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा”(जा. उ. ४) इति । एतावता हि वैराग्यमुपलक्षयति । अत एव “यदहरेव विरजेत्तदहरेव प्रव्रजेत्”(जा. उ. ४) इति श्रुतिः । निन्दावचनं च अविशुद्धसत्त्वपुरुषाभिप्रायम् । अविशुद्धसत्त्वो हि मोक्षमिच्छन्नालस्यात्तदुपायेऽप्रवर्तमानो गृहस्थधर्ममपि नित्यनैमित्तिकमनाचरन्प्रतिक्षणमुपचीयमानपाप्माधो गच्छतीत्यर्थः ।
स्यादेतत् । मा भूच्छ्रौत आर्थो वा क्रमः, पाठस्थानमुख्यप्रवृत्तिप्रमाणकस्तु कस्मान्न भवतीत्यत आह -
शेषशेषित्वे प्रमाणाभावात् ।
शेषाणां समिदादीनां शेषिणां चाग्नेयादीनामेकफलवदुपकारोपनिबद्धानामेकफलावच्छिन्नानामेकप्रयोगवचनोपगृहीतानाम् एकाधिकारिकर्तृकाणामेकपौर्णमास्यमावास्याकालसम्बद्धानां युगपदनुष्ठानाशक्तेः, सामर्थ्यात्क्रमप्राप्तौ, तद्विशेषापेक्षायां पाठादयस्तद्भेदनियमाय प्रभवन्ति । यत्र तु न शेषशेषिभावः नाप्येकाधिकारावच्छेदः यथा सौर्यार्यम्णप्राजापत्यादीनाम् , तत्र क्रमभेदापेक्षाभावान्न पाठादिः क्रमविशेषनियमे प्रमाणम् , अवर्जनीयतया तस्य तत्रावगतत्वात् । न चेह धर्मब्रह्मजिज्ञासयोः शेषशेषिभावे श्रुत्यादीनामन्यतमं प्रमाणमस्तीति ।
स्यादेतत् । शेषशेषिभावाभावेऽपि क्रमनियमो दृष्टः, यथा गोदोहनस्य पुरुषार्थस्य दर्शपौर्णमासिकैरङ्गैः सह, यथा वा “दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत”दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत।(तै.सं. २.५.६.१) इति दर्शपौर्णमाससोमयोरशेषशेषिणोरित्यत आह -
अधिकृताधिकारे वा प्रमाणाभावात् ।
इति योजना । स्वर्गकामस्य हि दर्शपौर्णमासाधिकृतस्य पशुकामस्य सतो दर्शपौर्णमासक्रत्वर्थाप्प्रणयनाश्रिते गोदोहने अधिकारः । नो खलु गोदोहनद्रव्यमव्याप्रियमाणं साक्षात्पशून् भावयितुमर्हति । न च व्यापारान्तराविष्टं श्रूयते, यतस्तदङ्गक्रममतिपतेत् अप्प्रणयनाश्रितं तु प्रतीयते, ‘चमसेनापः प्रणयेद्गोदोहनेनपशुकामस्य’ इति समभिव्याहारात् , योग्यत्वाच्चास्यापां प्रणयनं प्रति । तस्मात्क्रत्वर्थाप्प्रणयनाश्रितत्वाद्गोदोहनस्य तत्क्रमेण पुरुषार्थमपि गोदोहनं क्रमवदिति सिद्धम् । श्रुतिनिराकरणेनैव इष्टिसोमक्रमवदपि क्रमोऽपास्तो वेदितव्यः ।
शेषशेषित्वाधिकृताधिकाराभावेऽपि क्रमो विवक्ष्येत यद्येकफलावच्छेदो भवेत् । यथाग्नेयादीनां, षण्णामेकस्वर्गफलावच्छिन्नानाम् यदि वा जिज्ञास्यब्रह्मणोऽशो धर्मः स्यात् , यथा चतुर्लक्षणीव्युत्पाद्यं ब्रह्म केनचित्केनचिदंशेनैकैकेन लक्षणेन व्युत्पाद्यते, तत्र चतुर्णां लक्षणानां जिज्ञास्याभेदेन परस्परसम्बन्धे सति क्रमो विवक्षितः, तथेहाप्येकजिज्ञास्यतया धर्मब्रह्मजिज्ञासयोः क्रमो विवक्ष्येत न चैतदुभयमप्यस्तीत्याह -
फलजिज्ञास्यभेदाच्च ।
फलभेदं विभजते -
अभ्युदयफलं धर्मज्ञानमिति ।
जिज्ञासाया वस्तुतो ज्ञानतन्त्रत्वाज्ज्ञानफलं जिज्ञासाफलमिति भावः ।
न केवलं स्वरूपतः फलभेदः, तदुत्पादनप्रकारभेदादपि तद्भेद इत्याह -
तच्चानुष्ठानापेक्षम् ।
ब्रह्मज्ञानं च नानुष्ठानान्तरापेक्षम् ।
शाब्दज्ञानाभ्यासान्नानुष्ठानान्तरमपेक्षते, नित्यनैमित्तिककर्मानुष्ठानसहभावस्यापास्तत्वादिति भावः ।
जिज्ञास्यभेदमात्यन्तिकमाह -
भव्यश्च धर्म इति ।
भविता भव्यः, कर्तरि कृत्यः । भविता च भावकव्यापारनिर्वर्त्यतया तत्तन्त्र इति ततः प्राग्ज्ञानकाले नास्तीत्यर्थः । भूतं सत्यम् । सदेकान्ततः न कदाचिदसदित्यर्थः ।
न केवलं स्वरूपतो जिज्ञास्ययोर्भेदः, ज्ञापकप्रमाणप्रवृत्तिभेदादपि भेद इत्याह -
चोदनाप्रवृत्तिभेदाच्च ।
चोदनेति वैदिकं शब्दमाह, विशेषेण सामान्यस्य लक्षणात् ।
प्रवृत्तिभेदं विभजते -
या हि चोदना धर्मस्येति ।
आज्ञादीनां पुरुषाभिप्रायभेदानामसम्भवात् अपौरुषेये वेदे चोदनोपदेशः । अत एवोक्तम् - “तस्य ज्ञानमुपदेशः”(जै. सू. १ । १ । ५) इति । सा च स्वसाध्ये पुरुषव्यापारे भावनायां, तद्विषये च यागादौ, स हि भावनाविषयः, तदधीननिरूपणत्वात् विषयाधीनप्रयत्नस्य भावनायाः । ‘षिञ् बन्धने’ इत्यस्य धातोर्विषयपदव्युत्पत्तेः । भावनायास्तद्द्वारेण च यागादेरपेक्षितोपायतामवगमयन्ती तत्रेच्छोपहारमुखेन पुरुषं नियुञ्जानैव यागादिधर्ममवबोधयति नान्यथा । ब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलं न तु प्रवर्तयन्त्यवबोधयति । कुतः, अवबोधस्य प्रवृत्तिरहितस्य चोदनाजन्यत्वात् ।
ननु ‘आत्मा ज्ञातव्यः’ इत्येतद्विधिपरैर्वेदान्तैः तदेकवाक्यतयावबोधे प्रवर्तयद्भिरेव पुरुषो ब्रह्मावबोध्यत इति समानत्वं धर्मचोदनाभिर्ब्रह्मचोदनानामित्यत आह -
न पुरुषोऽवबोधे नियुज्यते ।
अयमभिसन्धिः - न तावद्ब्रह्मसाक्षात्कारे पुरुषो नियोक्तव्यः, तस्य ब्रह्मस्वाभाव्येन नित्यत्वात् , अकार्यत्वात् । नाप्युपासनायाम् , तस्या अपि ज्ञानप्रकर्षे हेतुभावस्यान्वयव्यतिरेकसिद्धतया प्राप्तत्वेनाविधेयत्वात् । नापि शाब्दबोधे, तस्याप्यधीतवेदस्य पुरुषस्य विदितपदतदर्थस्य समधिगतशाब्दन्यायतत्त्वस्याप्रत्यूहमुत्पत्तेः ।
अत्रैव दृष्टान्तमाह -
यथाक्षार्थेति ।
दार्ष्टान्तिके योजयति -
तद्वदिति ।
अपि चात्मज्ञानविधिपरेषु वेदान्तेषु नात्मतत्त्वविनिश्चयः शाब्दः स्यात् । न हि तदात्मतत्त्वपरास्ते, किन्तु तज्ज्ञानविधिपराः, यत्पराश्च ते त एव तेषामर्थाः । न च बोधस्य बोध्यनिष्ठत्वादपेक्षितत्वात् , अन्यपरेभ्योऽपि बोध्यतत्त्वविनिश्चयः, समारोपेणापि तदुपपत्तेः । तस्मान्न बोधविधिपरा वेदान्ता इति सिद्धम् ।
प्रकृतमुपसंहरति -
तस्मात्किमपि वक्तव्यमिति ।
यस्मिन्नसति ब्रह्मजिज्ञासा न भवति सति तु भवन्ती भवत्येवेत्यर्थः ।
तदाह -
उच्यते - नित्यानित्यवस्तुविवेक इत्यादि ।
नित्यः प्रत्यगात्मा, अनित्या देहेन्द्रियविषयादयः । तद्विषयश्चेद्विवेको निश्चयः, कृतमस्य ब्रह्मजिज्ञासया, ज्ञातत्वाद्ब्रह्मणः । अथ विवेको ज्ञानमात्रम् , न निश्चयः, तथा सति एष विपर्यासादन्यः संशयः स्यात् , तथा च न वैराग्यं भावयेत् , अभावयन्कथं ब्रह्मजिज्ञासाहेतुः, तस्मादेवं व्याख्येयम् । नित्यानित्ययोर्वसतीति नित्यानित्यवस्तु तद्धर्मः, नित्यानित्ययोर्धर्मिणोस्तद्धर्माणां च विवेको नित्यानित्यवस्तुविवेकः । एतदुक्तं भवति - मा भूदिदम् तदृतं नित्यम् , इदं तदनृतमनित्यमिति धर्मिविशेषयोर्विवेकः, धर्मिमात्रयोर्नित्यानित्ययोस्तद्धर्मयोश्च विवेकं निश्चिनोत्येव । नित्यत्वं सत्यत्वं तद्यस्यास्ति तन्नित्यं सत्यम् , तथा चास्थागोचरः । अनित्यत्वमसत्यत्वं तद्यस्यास्ति तदनित्यमनृतम् , तथा चानास्थागोचरः । तदेतेष्वनुभूयमानेषु युष्मदस्मत्प्रत्ययगोचरेषु विषयविषयिषु यदृतं नित्यं सुखं व्यवस्थास्यते तदास्थागोचरो भविष्यति, यत्त्वनित्यमनृतं भविष्यति तापत्रयपरीतं तत्त्यक्ष्यत इति । सोऽयं नित्यानित्यवस्तुविवेकः प्राग्भवीयादैहिकाद्वा वैदिकात्कर्मणो विशुद्धसत्त्वस्य भवत्यनुभवोपपत्तिभ्याम् । न खलु सत्यं नाम न किञ्चिदस्तीति वाच्यम् । तदभावे तदधिष्ठानस्यानृतस्याप्यनुपपत्तेः, शून्यवादिनामपि शून्यताया एव सत्यत्वात् ।
अथास्य पुरुषधौरेयस्यानुभवोपपत्तिभ्यामेवं सुनिपुणं निरूपयतः आ च सत्यलोकात् आचावीचेः “जायस्व म्रियस्व”(छा. उ. ५ । १० । ८) इति विपरिवर्तमानं, क्षणमुहूर्तयामाहोरात्रार्धमासमासर्त्वयनवत्सरयुगचतुर्युगमन्वन्तरप्रलयमहाप्रलयमहासर्गावान्तरसर्गसंसारसागरोर्मिभिरनिशम् उह्यमानं, तापत्रयपरीतमात्मानं च जीवलोकं चावलोक्य अस्मिन्संसारमण्डले अनित्याशुचिदुःखात्मकं प्रसङ्ख्यानमुपावर्तते; ततोऽस्यैतादृशान्नित्यानित्यवस्तुविवेकलक्षणात्प्रसङ्ख्यानात् -
इहामुत्रार्थभोगविरागः ।
भवति । अर्थ्यते प्रार्थ्यत इत्यर्थः । फलमिति यावत् । तस्मिन्विरागोऽनामानाभोगात्मिकोपेक्षाबुद्धिः ।
ततः शमदमादिसाधनसम्पत् ।
रागादिकषायमदिरामत्तं हि मनस्तेषु तेषु विषयेषूच्चावचमिन्द्रियाणि प्रवर्तयत् , विविधाश्च प्रवृत्तीः पुण्यापुण्यफला भावयत् , पुरुषमतिघोरे विविधदुःखज्वालाजटिले संसारहुतभुजि जुहोति । प्रसङ्ख्यानाभ्यासलब्धवैराग्यपरिपाकभग्नरागादिकषायमदिरामदं तु मनः पुरुषेणावजीयते वशीक्रियते, सोऽयमस्य वैराग्यहेतुको मनोविजयः शम इति वशीकारसंज्ञ इति चाख्यायते । विजितं च मनस्तत्त्वविषयविनियोगयोग्यतां नीयते, सेयमस्य योग्यता दमः । यथा दान्तोऽयं वृषभयुवा हलशकटादिवहनयोग्यः कृत इति गम्यते । आदिग्रहणेन च विषयतितिक्षातदुपरमतत्त्वश्रद्धाः सङ्गृह्यन्ते । अत एव श्रुतिः - “तस्माच्छान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वात्मन्येवात्मानं पश्यन् , सर्वमात्मनि पश्यति”(बृ. उ. ४-४-२३) इति । तदेतस्य शमदमादिरूपस्य साधनस्य सम्पत् , प्रकर्षः, शमदमादिसाधनसम्पत् ।
ततोऽस्य संसारबन्धनान्मुमुक्षा भवतीत्याह -
मुमुक्षुत्वं च ।
तस्य च नित्यशुद्धबुद्धमुक्तसत्यस्वभावब्रह्मज्ञानं मोक्षस्य कारणमित्युपश्रुत्य तज्जिज्ञासा भवति धर्मजिज्ञासायाः प्रागूर्ध्वं च, तस्मात्तेषामेवानन्तर्यं न धर्मजिज्ञासाया इत्याह -
तेषु हीति ।
न केवलं जिज्ञासामात्रम् , अपि तु ज्ञानमपीत्याह -
ज्ञातुं च ।
उपसंहरति -
तस्मादिति ।
क्रमप्राप्तमतःशब्दं व्याचष्टे -
अतःशब्दो हेत्वर्थः ।
तमेवातःशब्दस्य हेतुरूपमर्थमाह -
यस्माद्वेद एवेति ।
अत्रैवं परिचोद्यते - सत्यं यथोक्तसाधनसम्पत्त्यनन्तरं ब्रह्मजिज्ञासा भवति । सैव त्वनुपपन्ना, इहामुत्रफलभोगविरागस्यानुपपत्तेः । अनुकूलवेदनीयं हि फलम् , इष्टलक्षणत्वात्फलस्य । न चानुरागहेतावस्य वैराग्यं भवितुमर्हति । दुःखानुषङ्गदर्शनात्सुखेऽपि वैराग्यमिति चेत् , हन्त भोः सुखानुषङ्गाद्दुःखेऽप्यनुरागो न कस्माद्भवति । तस्मात्सुख उपादीयमाने दुःखपरिहारे प्रयतितव्यम् । अवर्जनीयतया दुःखमागतमपि परिहृत्य सुखमात्रं भोक्ष्यते । तद्यथामत्स्यार्थी सशल्कान्सकण्टकान्मत्स्यानुपादत्ते, स यावदादेयं तावदादाय विनिवर्तते । यथा वा धान्यार्थी सपलालानि धान्यान्याहरति, स यावदादेयं तावदुपादाय निवर्तते, तस्माद्दुःखभयान्नानुकूलवेदनीयमैहिकं वामुष्मिकं वा सुखं परित्यक्तुमुचितम् । न हि मृगाः सन्तीति शालयो नोप्यन्ते, भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते । अपि च दृष्टं सुखं चन्दनवनितादिसङ्गजन्म क्षयितालक्षणेन दुःखेनाघ्रातत्वादतिभीरुणा त्यज्येतापि, न त्वामुष्मिकं स्वर्गादि, तस्याविनाशित्वात् । श्रूयते हि - “अपाम सोमममृता अभूम”(ऋक् संं. ६ - ४ - ११) इति । तथा च “अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति”(श.ब्रा.२.६.३.१) । न च कृतकत्वहेतुकं विनाशित्वानुमानमत्र सम्भवति, नरशिरःकपालशौचानुमानवत् आगमबाधितविषयत्वात् । तस्माद्यथोक्तसाधनसम्पत्त्यभावान्न ब्रह्मजिज्ञासेति प्राप्तम् ।
एवं प्राप्ते आह भगवान्सूत्रकारः -
अत इति ।
तस्यार्थं व्याचष्टे भाष्यकारः -
यस्माद्वेद एवेति ।
अयमभिसन्धिः - सत्यं मृगभिक्षुकादयः शक्याः परिहर्तुं पाचककृषीवलादिभिः, दुःखं त्वनेकविधानेककारणसम्पातजमशक्यपरिहारम् , अन्ततः साधनापारतन्त्र्यक्षयितलक्षणयोर्दुःखयोः समस्तकृतकसुखाविनाभावनियमात् । न हि मधुविषसम्पृक्तमन्नं विषं परित्यज्य समधु शक्यं शिल्पिवरेणापि भोक्तुम् । क्षयितानुमानोपोद्बलितं च “तद्यथेह कर्मजितः”(छा.उ. ८.१.६) इत्यादि वचनं क्षयिताप्रतिपादकम् “अपाम सोमम्”(ऋक् संं. ६ - ४ - ११) इत्यादिकं वचनं मुख्यासम्भवे जघन्यवृत्तितामापादयति । यथाहुः - पौराणिकाः “आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते”(वि. पु. २ । ८ । ९७) इति । अत्र च ब्रह्मपदेन तत्प्रमाणं वेद उपस्थापितः । स च योग्यत्वात् “तद्यथेह कर्मचितः”(छा.उ. ८.१.६) इत्यादिरतः इति सर्वनाम्ना परामृश्य, हेतुपञ्चम्या निर्दिश्यते ।
स्यादेतत् । यथा स्वर्गादेः कृतकस्य सुखस्य दुःखानुषङ्गस्तथा ब्रह्मणोऽपीत्यत आह -
तथा ब्रह्मविज्ञानादपीति ।
तेनायमर्थः - अतः स्वर्गादीनां क्षयिताप्रतिपादकात् , ब्रह्मज्ञानस्य च परमपुरुषार्थताप्रतिपादकात् आगमात् , यथोक्तसाधनसम्पत् ततश्च ब्रह्म जिज्ञासेति सिद्धम् ।
ब्रह्मजिज्ञासापदव्याख्यानमाह -
ब्रह्मण इति ।
षष्ठीसमासप्रदर्शनेन प्राचां वृत्तिकृतां ब्रह्मणे जिज्ञासा ब्रह्मजिज्ञासेति चतुर्थीसमासः परास्तो वेदितव्यः । “तादर्थ्यसमासे प्रकृतिविकृतिग्रहणं कर्तव्यम्” इति कात्यायनीयवचनेन यूपदार्वादिष्वेव प्रकृतिविकारभावे चतुर्थीसमासनियमात् , अप्रकृतिविकारभूते इत्येवमादौ तन्निषेधात् , “अश्वघासादयः षष्ठीसमासा भविष्यन्ति” इत्यश्वघासादिषु षष्ठीसमासप्रतिविधानात् । षष्ठीसमासेऽपि च ब्रह्मणो वास्तवप्राधान्योपपत्तेरिति ।
स्यादेतत् । ब्रह्मणो जिज्ञासेत्युक्ते तत्रानेकार्थत्वाद्ब्रह्मशब्दस्य संशयः, कस्य ब्रह्मणो जिज्ञासेति । अस्ति ब्रह्मशब्दो विप्रत्वजातौ, यथाब्रह्महत्येति । अस्ति च वेदे, यथाब्रह्मोज्झमिति । अस्ति च परमात्मनि, यथा “ब्रह्म वेद ब्रह्मैव भवति”(मु. उ. ३ । २ । ९) इति, तमिमं संशयमपाकरोति -
ब्रह्म च वक्ष्यमाणलक्षणमिति ।
यतो ब्रह्मजिज्ञासां प्रतिज्ञाय तज्ज्ञापनाय परमात्मलक्षणं प्रणयति ततोऽवगच्छामः परमात्मजिज्ञासैवेयं न विप्रत्वजात्यादिजिज्ञासेत्यर्थः । षष्ठीसमासपरिग्रहेऽपि नेयं कर्मषष्ठी, किं तु शेषलक्षणा, सम्बन्धमात्रं च शेष इति ब्रह्मणो जिज्ञासेत्युक्ते ब्रह्मसम्बन्धिनी जिज्ञासेत्युक्तं भवति । तथा च ब्रह्मस्वरूपप्रमाणयुक्तिसाधनप्रयोजनजिज्ञासाः सर्वा ब्रह्मजिज्ञासार्था ब्रह्मजिज्ञासयावरुद्धा भवन्ति । साक्षात्पारम्पर्येण च ब्रह्मसम्बन्धात् ।
कर्मषष्ठ्यां तु ब्रह्मशब्दार्थः कर्म, स च स्वरूपमेवेति तत्प्रमाणादयो नावरुध्येरन् , तथा चाप्रतिज्ञातार्थचिन्ता प्रमाणादिषु भवेदिति ये मन्यन्ते तान्प्रत्याह -
ब्रह्मण इति । कर्मणि इति ।
अत्र हेतुमाह -
जिज्ञास्येति ।
इच्छायाः प्रतिपत्त्यनुबन्धो ज्ञानम् , ज्ञानस्य च ज्ञेयं ब्रह्म । न खलु ज्ञानं ज्ञेयं विना निरूप्यते, न च जिज्ञासा ज्ञानं विनेति प्रतिपत्त्यनुबन्धत्वात्प्रथमं जिज्ञासा कर्मैवापेक्षते, न तु सम्बन्धिमात्रम्; तदन्तरेणापि सति कर्मणि तन्निरूपणात् । न हि चन्द्रमसमादित्यं चोपलभ्य कस्यायमिति सम्बन्ध्यन्वेषणा भवति । भवति तु ज्ञानमित्युक्ते विषयान्वेषणा किंविषयमिति । तस्मात्प्रथममपेक्षितत्वात्कर्मतयैव ब्रह्म सम्बध्यते, न सम्बन्धितामात्रेण, तस्य जघन्यत्वात् । तथा च कर्मणि षष्ठीत्यर्थः ।
ननु सत्यं न जिज्ञास्यमन्तरेण जिज्ञासा निरूप्यते, जिज्ञास्यान्तरं त्वस्या भविष्यति, ब्रह्म तु शेषतया सम्भन्त्स्यत इत्यत आह -
जिज्ञास्यान्तरेति ।
निगूढाभिप्रायश्चोदयति -
ननु शेषषष्ठीपरिग्रहेऽपीति ।
सामान्यसम्बन्धस्य विशेषसम्बन्धाविरोधकत्वेन कर्मताया अविघातेन जिज्ञासानिरूपणोपपत्तेरित्यर्थः ।
निगूढाभिप्राय एव दूषयति -
एवमपि प्रत्यक्षं ब्रह्मण इति ।
वाच्यस्य कर्मत्वस्य जिज्ञासया प्रथममपेक्षितस्य प्रथमसम्बन्धार्हस्य चान्वयपरित्यागेन पश्चात्कथञ्चिदपेक्षितस्य सम्बन्धिमात्रस्य सम्बन्धो, जघन्यः प्रथमः, प्रथमश्च जघन्य इति सुव्याहृतं न्यायतत्त्वम् । प्रत्यक्षपरोक्षाताभिधानं च प्राथम्याप्राथम्यस्फुटत्वाभिप्रायम् ।
चोदकः स्वाभिप्रायमुद्घाटयति -
न व्यर्थः, ब्रह्माश्रिताशेषेति ।
व्याख्यातमेतदधस्तात् ।
समाधाता स्वाभिसन्धिमुद्घाटयति -
न प्रधानपरिग्रह इति ।
वास्तवं प्राधान्यम् ब्रह्मणः । शेषं सनिदर्शनमतिरोहितार्थम् , श्रुत्यनुगमश्चातिरोहितः ।
तदेवमभिमतं समासं व्यवस्थाप्य जिज्ञासापदार्थमाह -
ज्ञातुमिति ।
स्यादेतत् । न ज्ञानमिच्छाविषयः । सुखदुःखावाप्तिपरिहारौ वा तदुपायो वा तद्द्वारेणेच्छागोचरः । न चैवं ब्रह्मविज्ञानम् । न खल्वेतदनुकूलमिति वा प्रतिकूलनिवृत्तिरिति वानुभूयते । नापि तयोरुपायः, तस्मिन्सत्यपि सुखभेदस्यादर्शनात् । अनुवर्तमानस्य च दुःखस्यानिवृत्तेः । तस्मान्न सूत्रकारवचनमात्रादिषिकर्मता ज्ञानस्येत्यत आह -
अवगतिपर्यन्तमिति ।
न केवलं ज्ञानमिष्यते किन्त्ववगतिं साक्षात्कारं कुर्वदवगतिपर्यन्तं सन्वाच्याया इच्छायाः कर्म । कस्मात् । फलविषयत्वादिच्छायाः, तदुपायं फलपर्यन्तं गोचरयतीच्छेति शेषः ।
ननु भवत्ववगतिपर्यन्तं ज्ञानम् , किमेतावतापीष्टं भवति । नह्यनपेक्षणीयविषयमवगतिपर्यन्तमपि ज्ञानमिष्यत इत्यत आह -
ज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्म ।
भवतु ब्रह्मविषयावगतिः, एवमपि कथमिष्टेत्यत आह -
ब्रह्मावगतिर्हि पुरुषार्थः ।
किमभ्युदयः, न, किं तु निःश्रेयसं विगलितनिखिलदुःखानुषङ्गपरमानन्दघनब्रह्मावगतिर्ब्रह्मणः स्वभाव इति सैव निःश्रेयसं पुरुषार्थ इति ।
स्यादेतत् । न ब्रह्मावगतिः पुरुषार्थः । पुरुषव्यापारव्याप्यो हि पुरुषार्थः । न चास्या ब्रह्मस्वभावभूताया उत्पत्तिविकारसंस्कारप्राप्तयः सम्भवन्ति, तथा सत्यनित्यत्वेन तत्स्वाभाव्यानुपपत्तेः । न चोत्पत्त्याद्यभावे व्यापारव्याप्यता । तस्मान्न ब्रह्मावगतिः पुरुषार्थ इत्यत आह -
निःशेषसंसारबीजाविद्याद्यनर्थनिबर्हणात् ।
सत्यम् , ब्रह्मावगतौ ब्रह्मस्वभावे नोत्पत्त्यादयः सम्भवन्ति, तथाप्यनिर्वचनीयानाद्यविद्यावशाद्ब्रह्मस्वभावोऽपराधीनप्रकाशोऽपि प्रतिभानपि न प्रतिभातीव पराधीनप्रकाश इव देहेन्द्रियादिभ्यो भिन्नोऽप्यभिन्न इव भासत इति संसारबीजाविद्याद्यनर्थनिबर्हणात्प्रागप्राप्त इव तस्मिन्सति प्राप्त इव भवतीति पुरुषेणार्थ्यमानत्वात्पुरुषार्थ इति युक्तम् । अविद्यादीत्यादिग्रहणेन तत्संस्कारोऽवरुध्यते । अविद्यादिनिवृत्तिस्तूपासनाकार्यादन्तःकरणवृत्तिभेदात्साक्षात्कारादिति द्रष्टव्यम् ।
उपसंहरति -
तस्माद्ब्रह्म जिज्ञासितव्यम् ।
उक्तलक्षणेन मुमुक्षुणा । न खलु तज्ज्ञानं विना सवासनविविधदुःखनिदानमविद्योच्छिद्यते । न च तदुच्छेदमन्तरेण विगलितनिखिलदुःखानुषङ्गानन्दघनब्रह्मात्मतासाक्षात्काराविर्भावो जीवस्य । तस्मादानन्दघनब्रह्मात्मतामिच्छता तदुपायो ज्ञानमेषितव्यम् । तच्च न केवलेभ्यो वेदान्तेभ्योऽपि तु ब्रह्ममीमांसोपकरणेभ्य इति इच्छामुखेन ब्रह्ममीमांसायां प्रवर्त्यते, न तु वेदान्तेषु तदर्थविवक्षायां वा । तत्र फलवदर्थावबोधपरतां स्वाध्यायाध्ययनविधेः सूत्रयता “अथातो धर्मजिज्ञासा”(जै. सू. १ । १ । १) इत्यनेनैव प्रवर्तितत्वात् , धर्मग्रहणस्य च वेदार्थोपलक्षणत्वेनाधर्मवद्ब्रह्मणोऽप्युपलक्षणत्वात् । यद्यपि च धर्ममीमांसावत् वेदार्थमीमांसया ब्रह्ममीमांसाप्याक्षेप्तुं शक्या, तथापि प्राच्या मीमांसया न तद्व्युत्पाद्यते, नापि ब्रह्ममीमांसाया अध्ययनमात्रानन्तर्यमिति ब्रह्ममीमांसारम्भाय नित्यानित्यविवेकाद्यानन्तर्यप्रदर्शनाय चेदं सूत्रमारम्भणीयमित्यपौनरुक्त्यम् ।
स्यादेतत् । एतेन सूत्रेण ब्रह्मज्ञानं प्रत्युपायता मीमांसायाः प्रतिपाद्यत इत्युक्तं तदयुक्तम् , विकल्पासहत्वात् , इति चोदयति -
तत्पुनर्ब्रह्मेति ।
वेदान्तेभ्योऽपौरुषेयतया स्वतःसिद्धप्रमाणभावेभ्यः प्रसिद्धमप्रसिद्धं वा स्यात् । यदि प्रसिद्धम् , वेदान्तवाक्यसमुत्थेन निश्चयज्ञानेन विषयीकृतम् , ततो न जिज्ञासितव्यम् , निष्पादितक्रिये कर्मणि अविशेषाधायिनः । साधनस्य साधनन्यायातिपातात् । अथाप्रसिद्धं वेदान्तेभ्यस्तर्हि न तद्वेदान्ताः प्रतिपादयन्तीति सर्वथाऽप्रसिद्धं नैव शक्यं जिज्ञासितुम् । अनुभूते हि प्रिये भवतीच्छा न तु सर्वथाननुभूतपूर्वे । न चेष्यमाणमपि शक्यं ज्ञातुं, प्रमाणाभावात् । शब्दो हि तस्य प्रमाणं वक्तव्यः । यथा वक्ष्यति - “शास्त्रयोनित्वात्”(ब्र.सू. १-१-३) इति । स चेत्तन्नावबोधयति, कुतस्तस्य तत्र प्रामाण्यम् । न च प्रमाणान्तरं ब्रह्मणि प्रक्रमते । तस्मात्प्रसिद्धस्य ज्ञातुं शक्यस्याप्यजिज्ञासनात् , अप्रसिद्धस्येच्छाया अविषयत्वात् , अशक्यज्ञानत्वाच्च न ब्रह्म जिज्ञास्यमित्याक्षेपः ।
परिहरति -
उच्यते - अस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावम् ।
अयमर्थः - प्रागपि ब्रह्ममीमांसाया पूर्वमधीतवेदस्य निगमनिरुक्तव्याकरणादिपरिशीलनविदितपदतदर्थसम्बन्धस्य “सदेव सोम्येदमग्र आसीत्”(छा. उ. ६ । २ । १) इत्युपक्रमात् , “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्यन्तात्सन्दर्भात् नित्यत्वाद्युपेतब्रह्मस्वरूपावगमस्तावदापाततो विचाराद्विनाप्यस्ति । अत्र च ब्रह्मेत्यादिनावगम्येन तद्विषयमवगमं लक्षयति, तदस्तित्वस्य सति विमर्शे विचारात्प्रागनिश्चयात् । नित्येति क्षयितालक्षणं दुःखमुपक्षिपति । शुद्धेति देहाद्युपाधिकमपि दुःखमपाकरोति । बुद्धेत्यपराधीनप्रकाशमानन्दात्मानं दर्शयति, आनन्दप्रकाशयोरभेदात् ।
स्यादेतत् । मुक्तौ सत्यामस्यैते शुद्धत्वादयः प्रथन्ते, ततस्तु प्राक् देहाद्यभेदेन तद्धर्मजन्मजरामरणादिदुःखयोगादित्यत उक्तम् -
मुक्तेति ।
सदैव मुक्तः सदैव केवलोऽनाद्यविद्यावशात् भ्रान्त्या तथावभासत इत्यर्थः ।
तदेवमनौपाधिकं ब्रह्मणो रूपं दर्शयित्वाविद्योपाधिकं रूपमाह -
सर्वज्ञं सर्वशक्तिसमन्वितम् ।
तदनेन जगत्कारणत्वमस्य दर्शितम् , शक्तिज्ञानभावाभावानुविधानात्कारणत्वभावाभावयोः ।
कुतः पुनरेवंभूतब्रह्मस्वरूपावगतिरित्यत आह -
ब्रह्मशब्दस्य हीति ।
न केवलं “सदेव सोम्येदम्”(छा. उ. ६ । २ । १) इत्यादीनां वाक्यानां पौर्वापर्यालोचनया इत्थम्भूतब्रह्मावगतिः । अपि तु ब्रह्मपदमपि निर्वचनसामर्थ्यादिममेवार्थं स्वहस्तयति ।
निर्वचनमाह -
बृहतेर्धातोरर्थानुगमात् ।
वृद्धिकर्मा हि बृहतिरतिशायने वर्तते । तच्चेदमतिशायनमनवच्छिन्नं पदान्तरावगमितं नित्यशुद्धबुद्धत्वाद्यस्याभ्यनुजानातीत्यर्थः ।
तदेवं तत्पदार्थस्य शुद्धत्वादेः प्रसिद्धिमभिधाय त्वम्पदार्थस्याप्याह -
सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिः ।
सर्वस्यपांसुलपादकस्य हालिकस्यापि ब्रह्मास्तित्वप्रसिद्धिः, कुतः, आत्मत्वात् ।
एतदेव स्फुटयति -
सर्वो हीति ।
प्रतीतिमेव अप्रतीतिनिराकरणेन द्रढयति -
न नेति ।
न न प्रत्येत्यहमस्मीति, किन्तु प्रत्येत्येवेति योजना ।
नन्वहमस्मीति च ज्ञास्यति मा च ज्ञासीदात्मानमित्यत आह -
यदीति ।
अहमस्मीति न प्रतीयात् ।
अहङ्कारास्पदं हि जीवात्मानं चेन्न प्रतीयात् , अहमिति न प्रतीयादित्यर्थः ।
ननु प्रत्येतु सर्वो जन आत्मानमहङ्कारास्पदम् , ब्रह्मणि तु किमायातमित्यत आह -
आत्मा च ब्रह्म ।
तदस्त्वमा सामानाधिकरण्यात् । तस्मात्तत्पदार्थस्य शुद्धबुद्धत्वादेः शब्दतः, त्वम्पदार्थस्य च जीवात्मनः प्रत्यक्षतः प्रसिद्धेः, पदार्थज्ञानपूर्वकत्वाच्च वाक्यार्थज्ञानस्य, त्वम्पदार्थस्य ब्रह्मभावावगमः “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति वाक्यादुपपद्यत इति भावः ।
आक्षेप्ता प्रथमकल्पाश्रयं दोषमाह -
यदि तर्हि लोक इति ।
अध्यापकाध्येतृपरम्परा लोकः । तत्र “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति वाक्याद्यदि ब्रह्मात्मत्वेन प्रसिद्धमस्ति । आत्मा ब्रह्मत्वेनेति वक्तव्ये ब्रह्मात्मत्वेनेत्यभेदविवक्षया गमयितव्यम् ।
परिहरति -
न ।
कुतः,
तद्विशेषं प्रति विप्रतिपत्तेः ।
तदनेन विप्रतिपत्तिः साधकबाधकप्रमाणाभावे सति संशयबीजमुक्तम् । ततश्च संशयाज्जिज्ञासोपपद्यत इति भावः । विवादाधिकरणं धर्मी सर्वतन्त्रसिद्धान्तसिद्धोऽभ्युपेयः । अन्यथा अनाश्रया भिन्नाश्रया वा विप्रतिपत्तयो न स्युः । विरुद्धा हि प्रतिपत्तयो विप्रतिपत्तयः । न चानाश्रयाः प्रतिपत्तयो भवन्ति, अनालम्बनत्वापत्तेः । न च भिन्नाश्रया विरुद्धाः । नह्यनित्या बुद्धिः, नित्य आत्मेति प्रतिपत्तिविप्रतिपत्ती । तस्मात्तत्पदार्थस्य शुद्धबुद्धत्वादेर्वेदान्तेभ्यः प्रतीतिः, त्वम्पदार्थस्य च जीवात्मनो लोकतः सिद्धिः सर्वतन्त्रसिद्धान्तः । तदाभासत्वानाभासत्वतत्तद्विशेषेषु परमत्र विप्रतिपत्तयः । तस्मात्सामान्यतः प्रसिद्धे धर्मिणि विशेषतो विप्रतिपत्तौ युक्तस्तद्विशेषेषु संशयः ।
तत्र त्वम्पदार्थे तावद्विप्रतिपत्तीर्दर्शयति -
देहमात्रमित्यादिना, भोक्तैव केवलं न कर्त्ता इत्यन्तेन ।
अत्र देहेन्द्रियमनःक्षणिकविज्ञानचैतन्यपक्षे न तत्पदार्थनित्यत्वादयः त्वम्पदार्थेन सम्बध्यन्ते, योग्यताविरहात् । शून्यपक्षेऽपि सर्वोपाख्यानरहितमपदार्थः कथं तत्त्वमोर्गोचरः । कर्तृभोक्तृस्वभावस्यापि परिणामितया तत्पदार्थनित्यत्वाद्यसङ्गतिरेव । अकर्तृत्वेऽपि भोक्तृत्वपक्षे परिणामितया नित्यत्वाद्यसङ्गतिः । अभोक्तृत्वेऽपि नानात्वेनावच्छिन्नत्वादनित्यत्वादिप्रसक्तावद्वैतहानाच्च तत्पदार्थासङ्गतिस्तदवस्थैव । त्वम्पदार्थविप्रतिपत्त्या च तत्पदार्थेऽपि विप्रतिपत्तिर्दर्शिता । वेदाप्रामाण्यवादिनो हि लौकायतिकादयस्तत्पदार्थप्रत्ययं मिथ्येति मन्यन्ते । वेदप्रामाण्यवादिनोऽप्यौपचारिकं तत्पदार्थमविवक्षितं वा मन्यन्त इति ।
तदेवं त्वम्पदार्थविप्रतिपत्तिद्वारा तत्पदार्थे विप्रतिपत्तिं सूचयित्वा साक्षात्तत्पदार्थे विप्रतिपत्तिमाह -
अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित् ।
तदिति जीवात्मानं परामृशति । न केवलं शरीरादिभ्यः, जीवात्मभ्योऽपि व्यतिरिक्तः । स च सर्वस्यैव जगत ईष्टे ।
ऐश्वर्यसिद्ध्यर्थं स्वाभाविकमस्य रूपद्वयमुक्तम् -
सर्वज्ञः सर्वशक्तिरिति ।
तस्यापि जीवात्मभ्योऽपि व्यतिरेकात् , न त्वम्पदार्थेन सामानाधिकरण्यमिति स्वमतमाह -
अत्मा स भोक्तुरित्यपरे ।
भोक्तुर्जीवात्मनोऽविद्योपाधिकस्य स ईश्वरस्तत्पदार्थ आत्मा, तत ईश्वरादभिन्नो जीवात्मा । परमाकाशादिव घटाकाशादय इत्यर्थः ।
विप्रतिपत्तीरुपसंहरन् विप्रतिपत्तिबीजमाह -
एवं बहव इति ।
युक्तियुक्त्याभासवाक्यवाक्याभाससमाश्रयाः सन्त इति योजना ।
ननु सन्तु विप्रतिपत्तयः, तन्निमित्तश्च संशयः तथापि किमर्थं ब्रह्ममीमांसारभ्यत इत्यत आह -
तत्राविचार्येति ।
तत्त्वज्ञानाच्च निःश्रेयसाधिगमो नातत्त्वज्ञानाद्भवितुमर्हति । अपि च अतत्त्वज्ञानान्नास्तिक्ये सत्यनर्थप्राप्तिरित्यर्थः ।
सूत्रतात्पर्यमुपसंहरति -
तस्मादिति ।
वेदान्तमीमांसा तावत्तर्क एव, तदविरोधिनश्च येऽन्येऽपि तर्का अध्वरमीमांसायां न्याये च वेदप्रत्यक्षादिप्रामाण्यपरिशोधनादिषूक्तास्त उपकरणं यस्याः सा तथोक्ता । तस्मादियं परमनिःश्रेयससाधनब्रह्मज्ञानप्रयोजना ब्रह्ममीमांसारब्धव्येति सिद्धम् ॥ १ ॥
तदेवं प्रथमसूत्रेण मीमांसारम्भमुपपाद्य ब्रह्ममीमांसामारभते -
जन्माद्यस्य यतः ।
एतस्य सूत्रस्य पातनिकामाह भाष्यकारः -
ब्रह्म जिज्ञासितव्यमित्युक्तम् ।
किंलक्षणं पुनस्तद्ब्रह्म ।
यत्र यद्यपि ब्रह्मस्वरूपज्ञानस्य प्रधानस्य प्रतिज्ञया तदङ्गान्यपि प्रमाणादीनि प्रतिज्ञातानि, तथापि स्वरूपस्य प्राधान्यात्तदेवाक्षिप्य प्रथमं समर्थ्यते । तत्र यद्यावदनुभूयते तत्सर्वं परिमितमविशुद्धमबुद्धं विध्वंसि, न तेनोपलब्धेन तद्विरुद्धस्य नित्यशुद्धबुद्धमुक्तस्वभावस्य ब्रह्मणः स्वरूपं शक्यं लक्षयितुम् , न हि जातु कश्चित्कृतकत्वेन नित्यं लक्षयति । न च तद्धर्मेण नित्यत्वादिना तल्लक्ष्यते, तस्यानुपलब्धचरत्वात् । प्रसिद्धं हि लक्षणं भवति, नात्यन्ताप्रसिद्धम् । एवं च न शब्दोऽप्यत्र प्रक्रमते, अत्यन्ताप्रसिद्धतया ब्रह्मणोऽपदार्थस्यावाक्यार्थत्वात् । तस्माल्लक्षणाभावात् , न ब्रह्म जिज्ञासितव्यमित्यात्याक्षेपाभिप्रायः । तमिममाक्षेपं भगवान् सूत्रकारः परिहरति - “जन्माद्यस्य यतः”(ब्र. सू. १ । १ । २) इति । मा भूदनुभूयमानं जगत्तद्धर्मतया तादात्म्येन वा ब्रह्मणो लक्षणम् , तदुत्पत्त्या तु भविष्यति । देशान्तरप्राप्तिरिव सवितुर्व्रज्याया इति तात्पर्यार्थः ।
सूत्रावयवान् विभजते -
जन्मोत्पत्तिरादिरस्येति ।
लाघवाय सूत्रकृता जन्मादीति नपुंसकप्रयोगः कृतस्तदुपपादनाय समाहारमाह -
जन्मस्थितिभङ्गमिति ।
जन्मनश्च इत्यादिः
कारणनिर्देशः
इत्यन्तः सन्दर्भो निगदव्याख्यातः ।
स्यादेतत् । प्रधानकालग्रहलोकपालक्रियायदृच्छास्वभावाभावेषूपप्लवमानेषु सत्सु सर्वज्ञं सर्वशक्तिस्वभावं ब्रह्म जगज्जन्मादिकारणमिति कुतः सम्भावनेत्यत आह -
अस्य जगत इति ।
अत्र
नामरूपाभ्यां व्याकृतस्य इति
चेतनभावकर्तृकत्वसम्भावनया प्रधानाद्यचेतनकर्तृकत्वं निरुपाख्यकर्तृकत्वं च व्यासेधति । यत्खलु नाम्ना रूपेण च व्याक्रियते तच्चेतनकर्तृकं दृष्टम् , यथा घटादि । विवादाध्यासितं च जगन्नामरूपाभ्यां व्याकृतं तस्माच्चेतनकर्तृकं सम्भाव्यते । चेतनो हि बुद्धावालिख्य नामरूपे घट इति नाम्ना, रूपेण च कम्बुग्रीवादिना बाह्यं घटं निष्पादयति । अत एव घटस्य निर्वर्त्यस्याप्यन्तः सङ्कल्पात्मना सिद्धस्य कर्मकारकभावो घटं करोतीति । यथाहुः - “बुद्धिसिद्धं तु न तदसत्”(न्या.सू. ४ । १ । ५०) इति । तथा चाचेतनो बुद्धावनालिखितं करोतीति न शक्यं सम्भावयितुमिति भावः ।
स्यादेतत् । चेतना ग्रहा लोकपाला वा नामरूपे बुद्धावालिख्य जगज्जनयिष्यन्ति, कृतमुक्तस्वभावेन ब्रह्मणेत्यत आह -
अनेककर्तृभोक्तृसंयुक्तस्येति ।
केचित्कर्तारो भवन्ति, यथा सूदर्त्विगादयः, न भोक्तारः । केचित्तु भोक्तारः, यथा श्राद्धवैश्वानरीयेष्ट्यादिषु पितापुत्रादयः, न कर्तारः । तस्मादुभयग्रहणम् । देशकालनिमित्तक्रियाफलानि इतीतरेतरद्वन्द्वः । देशादीनि च तानि प्रतिनियतानि चेति विग्रहः । तदाश्रयो जगत्तस्य । केचित्खलु प्रतिनियतदेशोत्पादाः, यथा कृष्णमृगादयः । केचित्प्रतिनियतकालोत्पादाः, यथा कोकिलालापादयो वसन्ते । केचित्प्रतिनियतनिमित्ताः, यथा नवाम्बुदध्वानादिनिमित्ता बलाकागर्भादयः । केचित्प्रतिनियतक्रियाः, यथा ब्राह्मणानां याजनादयो नेतरेषाम् । एवं प्रतिनियतफलाः, यथा केचित्सुखिनः, केचिद्दुःखिनः, एवं य एव सुखिनस्त एव कदाचिद्दुःखिनः । सर्वमेतदाकस्मिकापरनाम्नि यादृच्छिकत्वे वा स्वाभाविकत्वे वा सर्वज्ञासर्वशक्तिकर्तृकत्वे च न घटते, परिमितज्ञानशक्तिभिर्ग्रहलोकपालादिभिर्ज्ञातुं कर्तुं चाशक्यत्वात् ।
तदिदमुक्तम् -
मनसाप्यचिन्त्यरचनारूपस्येति ।
एकस्या अपि हि शरीररचनाया रूपं मनसा न शक्यं चिन्तयितुं कदाचित् , प्रागेव जगद्रचनायाः, किमङ्ग पुनः कर्तुमित्यर्थः ।
सूत्रवाक्यं पूरयति -
तद्ब्रह्मेति वाक्यशेषः ।
स्यादेतत् । कस्मात्पुनर्जन्मस्थितिभङ्गमात्रमिहादिग्रहणेन गृह्यते, न तु वृद्धिपरिणामापक्षया अपीत्यत आह -
अन्येषामपि भावविकाराणां -
वृद्ध्यादीनां
त्रिष्वेवान्तर्भाव इति ।
वृद्धिस्तावदवयवोपचयः । तेनाल्पावयवादवयविनो द्वितन्तुकादेरन्य एव महान्पटो जायत इति जन्मैव वृद्धिः । परिणामोऽपि त्रिविधो धर्मलक्षणावस्थालक्षणः उत्पत्तिरेव । धर्मिणो हि हाटकादेर्धर्मलक्षणः परिणामः कटकमुकुटादिस्तस्योत्पत्तिः, एवं कटकादेरपि प्रत्युत्पन्नत्वादिलक्षणः परिणाम उत्पत्तिः । एवमवस्थापरिणामो नवपुराणत्वादिरुत्पत्तिः । अपक्षयस्त्ववयवह्रासो नाश एव । तस्माज्जन्मादिषु यथास्वमन्तर्भावाद्वृद्ध्यादयः पृथङ्नोक्ता इत्यर्थः ।
अथैते वृद्ध्यादयो न जन्मादिष्वन्तर्भवन्ति, तथाप्युत्पत्तिस्थितिभङ्गमेवोपादातव्यम् । तथा सति हि तत्प्रतिपादके “यतो वा इमानि भूतानि”(तै.उ. ३-१-१) इति वेदवाक्ये बुद्धिस्थीकृते जगन्मूलकारणं ब्रह्म लक्षितं भवति । अन्यथा तु जायतेऽस्ति वर्धते इत्यादीनां ग्रहणे तत्प्रतिपादकं नैरुक्तवाक्यं बुद्धौ भवेत् , तच्च न मूलकारणप्रतिपादनपरम् , महासर्गादूर्ध्वं स्थितिकालेऽपि तद्वाक्योदितानां जन्मादीनां भावविकाराणामुपपत्तेः, इति शङ्कानिराकरणार्थं वेदोक्तोत्पत्तिस्थितिभङ्गग्रहणमित्याह -
यास्कपरिपठितानां त्विति ।
नन्वेवमप्युत्पत्तिमात्रं सूच्यताम् , तन्नान्तरीयकतया तु स्थितिभङ्गं गम्यत इत्यत आह -
योत्पत्तिर्ब्रह्मणः
कारणादिति । त्रिभिरस्योपादानत्वं सूच्यते । उत्पत्तिमात्रं तु निमित्तकारणसाधारणमिति नोपादानं सूचयेत् ।
तदिदमुक्तम् -
तत्रैवेति ।
पूर्वोक्तानां कार्यकारणविशेषणानां प्रयोजनमाह -
न यथोक्तेति ।
तदनेन प्रबन्धेन प्रतिज्ञाविषयस्य ब्रह्मस्वरूपस्य लक्षणद्वारेण सम्भावनोक्ता । तत्र प्रमाणं वक्तव्यम् । यथाहुर्नैयायिकाः - “सम्भावितः प्रतिज्ञायां पक्षः साध्येत हेतुना । न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो हतः” ॥
यथा च वन्ध्या जननी” इत्यादिरिति । इत्थं नाम जन्मादि सम्भावनाहेतुः, यदन्ये वैशेषिककादय इत एवानुमानादीश्वरविनिश्चयमिच्छन्तीति सम्भावनाहेतुतां द्रढयितुमाह -
एतदेवेति ।
चोदयति -
नन्विहापीति ।
एतावतैवाधिकरणार्थे समाप्ते वक्ष्यमाणाधिकरणार्थमनुवदन् सुहृद्भावेन परिहरति -
न वेदान्तेति ।
वेदान्तवाक्यकुसुमग्रथनार्थतामेव दर्शयति -
वेदान्तेति ।
विचारस्याध्यवसानं सवासनाविद्याद्वयोच्छेदः । ततो हि ब्रह्मावगतेर्निवृत्तिराविर्भावः । तत्किं ब्रह्मणि शब्दादृते न मानान्तरमनुसरणीयम् ।
तथा च कुतो मननम् , कुतश्च तदनुभवः साक्षात्कार इत्यत आह -
सत्सु तु वेदान्तवाक्येष्विति ।
अनुमानं वेदान्ताविरोधि तदुपजीवि चेत्यपि द्रष्टव्यम् । शब्दाविरोधिन्या तदुपजीविन्या च युक्त्या विवेचनं मननम् । युक्तिश्च अर्थापत्तिरनुमानं वा ।
स्यादेतत् । यथा धर्मे न पुरुषबुद्धिसाहाय्यम् , एवं ब्रह्मण्यपि कस्मान्न भवतीत्यत आह -
न धर्मजिज्ञासायामिवेति ।
श्रुत्यादय इति ।
श्रुतीतिहासपुराणस्मृतयः प्रमाणम् । अनुभवोऽन्तःकरणवृत्तिभेदो ब्रह्मसाक्षात्कारस्तस्याविद्यानिवृत्तिद्वारेण ब्रह्मस्वरूपाविर्भावः प्रमाणफलम् । तच्च फलमिव फलमिति गमयितव्यम् ।
यद्यपि धर्मजिज्ञासायामपि सामग्र्यां प्रत्यक्षादीनां व्यापारस्तथापि साक्षान्नास्ति । ब्रह्मजिज्ञासायां तु साक्षादनुभवादीनां सम्भवोऽनुभवार्था च ब्रह्मजिज्ञासेत्याह -
अनुभवावसानत्वात् ।
ब्रह्मानुभवो ब्रह्मसाक्षात्कारः परः पुरुषार्थः, निर्मृष्टनिखिलदुःखपरमानन्दरूपत्वादिति ।
ननु भवतु ब्रह्मानुभवार्था जिज्ञासा, तदनुभव एव त्वशक्यः, ब्रह्मणस्तद्विषयत्वायोग्यत्वादित्यत आह -
भूतवस्तुविषयत्वाच्च ब्रह्मविज्ञानस्य ।
व्यतिरेकसाक्षात्कारस्य विकल्परूपो विषयविषयिभावः ।
नत्वेवं धर्मज्ञानमनुभवावसानम् , तदनुभवस्य स्वयमपुरुषार्थत्वात् , तदनुष्ठानसाध्यत्वात्पुरुषार्थस्य, अनुष्ठानस्य च विनाप्यनुभवं शाब्दज्ञानमात्रादेव सिद्धेरित्याह -
कर्तव्ये हीत्यादिना ।
न चायं साक्षात्कारविषयतायोग्योऽप्यवर्तमानत्वात् , अवर्तमानश्चानवस्थितत्वादित्याह -
पुरुषाधीनेति ।
पुरुषाधीनत्वमेव लौकिकवैदिककार्याणामाह -
कर्तुमकर्तुमिति ।
लौकिकं कार्यमनवस्थितमुदाहरति -
यथाश्वेनेति ।
लौकिकेनोदाहरणेन सह वैदिकमुदाहरणं समुच्चिनोति -
तथातिरात्र इति ।
कर्तुमकर्तुमित्यस्येदमुदाहरणमुक्तम् । कर्तुमन्यथा वा कर्तुमित्यस्योदाहरणमाह -
उदित इति ।
स्यादेतत् । पुरुषस्वातन्त्र्यात्कर्तव्ये विधिप्रतिषेधानामानर्थक्यम् , अतदधीनत्वात्पुरुषप्रवृत्तिनिवृत्त्योरित्यत आह -
विधिप्रतिषेधाश्चात्रार्थवन्तः स्युः ।
गृह्णातीति विधिः । न गृह्णातीति प्रतिषेधः । उदितानुदितहोमयोर्विधी । एवं नारास्थिस्पर्शननिषेधो ब्रह्मघ्नश्च तद्वारणविधिरित्येवंजातीयका विधिप्रतिषेधा अर्थवन्तः ।
कुत इत्यत आह -
विकल्पोत्सर्गापवादाश्च ।
चो हेतौ । यस्माद्ग्रहणाग्रहणयोरुदितानुदितहोमयोश्च विरोधात्समुच्चयासम्भवे तुल्यबलतया च बाध्यबाधकभावाभावे सत्यगत्या विकल्पः । नारास्थिस्पर्शननिषेधतद्वारणायोश्च विरुद्धयोरतुल्यबलतया न विकल्पः । किन्तु सामान्यशास्त्रस्य स्पर्शननिषेधस्य धारणविधिविषयेण विशेषशास्त्रेण बाधः । एतदुक्तं भवति - विधिप्रतिषेधैरेव स तादृशो विषयोऽनागतोत्पाद्यरूप उपनीतः, येन पुरुषस्य विधिनिषेधाधीनप्रवृत्तिनिवृत्त्योरपि स्वातन्त्र्यं भवतीति ।
भूते वस्तुनि तु नेयमस्ति विधेत्याह -
न तु वस्त्वेवं नैवमिति ।
तदनेन प्रकारविकल्पो निरस्तः ।
प्रकारिविकल्पं निषेधति -
अस्ति नास्तीति ।
स्यादेतत् । भूतेऽपि वस्तुनि विकल्पो दृष्टः, यथा स्थाणुर्वा पुरुषो वेति, तत्कथं न वस्तु विकल्प्यत इत्यत आह -
विकल्पनास्त्विति ।
पुरुषबुद्धिः = अन्तःकरणं, तदपेक्षा विकल्पनाः = संशयविपर्यासाः । सवासनमनोमात्रयोनयो वा, यथा स्वप्ने । सवासनेन्द्रियमनोयोनयो वा, यथास्थाणुर्वा पुरुषो वेतिस्थाणौ संशयः, पुरुष एवेति वा विपर्यासः । अन्यशब्देन वस्तुतः स्थाणोरन्यस्य पुरुषस्याभिधानात् । न तु पुरुषतत्त्वं वा स्थाणुतत्त्वं वापेक्षन्ते । समानधर्मधर्मिदर्शनमात्राधीनजन्मत्वात् । तस्मादयथावस्तवो विकल्पना न वस्तु विकल्पयन्ति वान्यथयन्ति वेत्यर्थः ।
तत्त्वज्ञानं तु न बुद्धितन्त्रम् , किं तु वस्तुतन्त्रम् , अतस्ततो वस्तुविनिश्चयो युक्तः, न तु विकल्पनाभ्य इत्याह -
न वस्तुयाथात्म्येति ।
एवमुक्तेन प्रकारेण भूतवस्तुविषयाणां ज्ञानानां प्रामाण्यस्य वस्तुतन्त्रतां प्रसाध्य ब्रह्मज्ञानस्य वस्तुतन्त्रतामाह -
तत्रैवं सतीति ।
अत्र चोदयति -
ननु भूतेति ।
यत्किल भूतार्थं वाक्यं तत्प्रमाणान्तरगोचरार्थतयानुवादकं दृष्टम् । यथा नद्यास्तीरे फलानि सन्तीति । तथा च वेदान्ताः । तस्मात् भूतार्थतया प्रमाणान्तरदृष्टमेवार्थमनुवदेयुः । उक्तं च ब्रह्मणि जगज्जन्मादिहेतुकमनुमानं प्रमाणान्तरम् । एवं च मौलिकं तदेव परीक्षणीयम् , न तु वेदान्तवाक्यानि तदधीनसत्यत्वानीति कथं वेदान्तवाक्यग्रथनार्थता सूत्राणामित्यर्थः ।
परिहरति -
न । इन्द्रियाविषयत्वेति ।
कस्मात्पुनर्नेन्द्रियविषयत्वं प्रतीच इत्यत आह -
स्वभावत इति ।
अत एव श्रुतिः - “पराञ्चि खानि व्यतृणत् स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन्”(क. उ. २ । १ । १) इति ।
सति हीन्द्रियेति ।
प्रत्यगात्मनस्त्वविषयत्वमुपपादितम् । यथा च सामान्यतो दृष्टमप्यनुमानं ब्रह्मणि न प्रवर्तते तथोपरिष्टान्निपुणतरमुपपादयिष्यामः । उपपादितं चैतदस्माभिर्विस्तरेण न्यायकणिकायाम् । न च भूतार्थतामात्रेणानुवादतेत्युपरिष्टादुपपादयिष्यामः । तस्मात्सर्वमवदातम् । श्रुतिश्च - “यतो वा”(तै. उ. ३ । १ । १) इति जन्म दर्शयति, “येन जातानि जीवन्ति” इति जीवनं स्थितिम् , “यत्प्रयन्ति” इति तत्रैव लयम् ।
तस्य च निर्णयवाक्यम् ।
अत्र च प्रधानादिसंशये निर्णयवाक्यम् -
आनन्दाद्ध्येवेति ।
एतदुक्तं भवति - यथा रज्ज्वज्ञानसहितरज्जूपादाना हि धारा रज्ज्वां सत्यामस्ति, रज्ज्वामेव च लीयते, एवमविद्यासहितब्रह्मोपादानं जगज्जायते, ब्रह्मण्येवास्ति, तत्रैव च लीयत इति सिद्धम् ॥ २ ॥
सूत्रान्तरमवतारयितुं पुर्वसूत्रसङ्गतिमाह -
जगत्कारणत्वप्रदर्शनेनेति ।
शास्त्रयोनित्वात् ॥
न केवलं जगद्योनित्वादस्य भगवतः सर्वज्ञता, शास्त्रयोनित्वादपि बोद्धव्या ।
शास्त्रयोनित्वस्य सर्वज्ञतासाधनत्वं समर्थयते -
महत ऋग्वेदादेः शास्त्रस्येति ।
चातुर्वर्ण्यस्य चातुराश्रम्यस्य च यथायथं निषेकादिश्मशानान्तासु ब्राह्ममुहूर्तोपक्रमप्रदोषपरिसमापनीयासु नित्यनैमित्तिककाम्यकर्मपद्धतिषु च ब्रह्मतत्त्वे च शिष्याणां शासनात् शास्त्रमृग्वेदादिः । अत एव महाविषयत्वात् महत् ।
न केवलं महाविषयत्वेनास्य महत्त्वम् , अपि त्वनेकाङ्गोपाङ्गोपकरणतयापीत्याह -
अनेकविद्यास्थानोपबृंहितस्य ।
पुराणन्यायमीमांसादयो दश विद्यास्थानानि तैस्तया तया द्वारोपकृतस्य । तदनेन समस्तशिष्टजनपरिग्रहेणाप्रामाण्यशङ्काप्यपाकृता । पुराणादिप्रणेतारो हि महर्षयः शिष्टास्तैस्तया तया द्वारा वेदान्व्याचक्षाणैस्तदर्थञ्चादरेणानुतिष्ठद्भिः परिगृहीतो वेद इति ।
न चायमनवबोधको नाप्यस्पष्टबोधको येनाप्रमाणं स्यादित्याह -
प्रदीपवत्सर्वार्थावद्योतिनः ।
सर्वमर्थजातं सर्वथावबोधयन्नानवबोधको नाप्यस्पष्टबोधक इत्यर्थः ।
अत एव
सर्वज्ञकल्पस्य -
सर्वज्ञसदृशस्य ।
सर्वज्ञस्य हि ज्ञानं सर्वविषयं, शास्त्रस्याप्यभिधानं सर्वविषयमिति सादृश्यम् । तदेवमन्वयमुक्त्वा व्यतिरेकमप्याह -
न हीदृशस्येति ।
सर्वज्ञस्य गुणः सर्वविषयतातदन्वितं शास्त्रम् , अस्यापि सर्वविषयत्वात् ।
उक्तमर्थं प्रमाणयति -
यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात्सम्भवति स -
पुरुषविशेषः
ततोऽपि -
शास्त्रात्
अधिकतरविज्ञानः
इति योजना । अद्यत्वेऽप्यस्मदादिभिर्यत्समीचीनार्थविषयं शास्त्रं विरच्यते तत्रास्माकं वक्तृणां वाक्याज्ज्ञानमधिकविषयम् । नहि ते तेऽसाधारणधर्मा अनुभूयमाना अपि शक्या वक्तुम् । न खल्विक्षुक्षीरगुडादीनां मधुररसभेदाः शक्याः सरस्वत्याप्याख्यातुम् । विस्तरार्थमपि वाक्यं न वक्तृज्ञानेन तुल्यविषयमिति कथयितुं विस्तरग्रहणम् ।
सोपनयं निगमनमाह -
किमु वक्तव्यमिति ।
वेदस्य यस्मात् महतो भूतात् योनेः सम्भवः, तस्य महतो भूतस्य ब्रह्मणो निरतिशयं सर्वज्ञत्वं च सर्वशक्तित्वं च किमु वक्तव्यमिति योजना ।
अनेकशाखेति ।
अत्र चानेकशाखाभेदभिन्नस्यवेदस्येत्यादिः सम्भव इत्यन्त उपनयः । तस्येत्यादि सर्वशक्तित्वञ्चेत्यन्तं निगमनम् ।
अप्रयत्नेनैवेति ।
ईषत्प्रयत्नेन, यथालवणा यवागूरिति । देवर्षयो हि महापरिश्रमेणापि यत्राशक्तस्तदयमीषत्प्रयत्नेन लीलयैव करोतीति निरतिशयमस्य सर्वज्ञत्वं सर्वशक्तित्वं चोक्तं भवति । अप्रयत्नेनास्य वेदकर्तृत्वे श्रुतिरुक्ता - “अस्य महतो भूतस्य”(बृ. उ. २ । ४ । १०) इति । येऽपि तावत् वर्णानां नित्यत्वमास्थिषत तैरपि पदवाक्यादीनामनित्यत्वमभ्युपेयम् । आनुपूर्वीभेदवन्तो हि वर्णाः पदम् । पदानि चानुपूर्वीभेदवन्ति वाक्यम् । व्यक्तिधर्मश्चानुपूर्वी न वर्णधर्मः, वर्णानां नित्यानां विभूनां च कालतो देशतो वा पौर्वापर्यायोगात् । व्यक्तिश्चानित्येति कथं तदुपगृहीतानां वर्णानां नित्यानामपि पदता नित्या । पदानित्यतया च वाक्यादीनामप्यनित्यता व्याख्याता । तस्मान्नृत्तानुकरणवत्पदाद्यनुकरणम् । यथा हि यादृशं गात्रचलनादि नर्तकः करोति तादृशमेव शिक्ष्यमाणानुकरोति नर्तकी, न तु तदेव व्यनक्ति, एवं यादृशीमानुपूर्वीं वैदिकानां वर्णपदादीनां करोत्यध्यापयिता तादृशीमेवानुकरोति माणवकः, न तु तामेवोच्चारयति, आचार्यव्यक्तिभ्यो माणवकव्यक्तीनामन्यत्वात् । तस्मान्नित्यानित्यवर्णवादिनां न लौकिकवैदिकपदवाक्यादिपौरुषेयत्वे विवादः, केवलं वेदवाक्येषु पुरुषस्वातन्त्र्यास्वातन्त्र्ये विप्रतिपत्तिः । यथाहुः - “यत्नतः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता” । तत्र सृष्टिप्रलयमनिच्छन्तो जैमिनीया वेदाध्ययनं प्रत्यस्मादृशगुरुशिष्यपरम्परामविच्छिन्नामिच्छन्ते वेदमनादिमाचक्षते । वैयासिकं तु मतमनुवर्तमानाः श्रुतिस्मृतीतिहासादिसिद्धसृष्टिप्रलयानुसारेणानाद्यविद्योपधानलब्धसर्वशक्तिज्ञानस्यापि परमात्मनो नित्यस्य वेदानां योनेरपि न तेषु स्वातन्त्र्यम् , पूर्वपूर्वसर्गानुसारेण तादृशतादृशानुपूर्वीविरचनात् । यथा हि - यागादिब्रह्महत्यादयोऽर्थानर्थहेतवो ब्रह्मविवर्ता अपि न सर्गान्तरेऽपि विपरीयन्ते । न हि जातु क्वचित्सर्गे ब्रह्महत्याऽर्थहेतुरनर्थहेतुश्चाश्वमेधो भवति । अग्निर्वा क्लेदयति । आपो वा दहन्ति । तद्वत् । यथात्र सर्गे नियतानुपूर्व्यं वेदाध्ययनमभ्युदयनिःश्रेयसहेतुरन्यथा तदेव वाग्वज्रतयानर्थहेतुः, एवं सर्गान्तरेष्वपीति तदनुरोधात्सर्वज्ञोऽपि सर्वशक्तिरपि पूर्वपूर्वसर्गानुसारेण वेदान्विरचयन्न स्वतन्त्रः । पुरुषास्वातन्त्र्यमात्रं चापौरुषेयत्वं रोचयन्ते जैमिनीया अपि । तच्चास्माकमपि समानमन्यत्राभिनिवेशात् । न चैकस्य प्रतिभानेऽनाश्वास इति युक्तम् । न हि बहूनामप्यज्ञानां विज्ञानां वाशयदोषवतां प्रतिभाने युक्त आश्वासः । तत्त्वज्ञानवतश्चापास्तसमस्तदोषस्यैकस्यापि प्रतिभाने युक्त एवाश्वासः । सर्गादिभुवां प्रजापतिदेवर्षीणां धर्मज्ञानवैराग्यैश्वर्यसम्पन्नानामुपपद्यते तत्स्वरूपावधारणम् , तत्प्रत्ययेन चार्वाचीनानामपि तत्र संप्रत्यय इत्युपपन्नं ब्रह्मणः शास्त्रयोनित्वम् , शास्त्रस्य चापौरुषेयत्वम् , प्रामाण्यं चेति ।।
इति प्रथमवर्णकम् ।।
वर्णकान्तरमारभते -
अथवेति ।
पूर्वेणाधिकरणेन ब्रह्मस्वरूपलक्षणासम्भवाशङ्कां व्युदस्य लक्षणसम्भव उक्तः । तस्यैव तु लक्षणस्यानेनानुमानत्वाशङ्कामपाकृत्यागमोपदर्शनेन ब्रह्मणि शास्त्रं प्रमाणमुक्तम् । अक्षरार्थस्त्वतिरोहितः ॥ ३ ॥
शास्त्रप्रमाणकत्वमुक्तं ब्रह्मणः प्रतिज्ञामात्रेण, तदनेन सूत्रेण प्रतिपादनीयमित्युत्सूत्रं पूर्वपक्षमारचयति भाष्यकारः -
कथं पुनरिति ।
किमाक्षेपे । शुद्धबुद्धोदासीनस्वभावतयोपेक्षणीयं ब्रह्म, भूतमभिदधतां वेदान्तानामपुरुषार्थोपदेशिनामप्रयोजनत्वापत्तेः, भूतार्थत्वेन च प्रत्यक्षादिभिः समानविषयतया लौकिकवाक्यवत्तदर्थानुवादकत्वेनाप्रामाण्यप्रसङ्गात् । न खलु लौकिकानि वाक्यानि प्रमाणान्तरविषयमर्थमवबोधयन्ति स्वतः प्रमाणम् , एवं वेदान्ता अपीत्यनपेक्षत्वलक्षणं प्रामाण्यमेषां व्याहन्येत । न चैतैरप्रमाणैर्भवितुं युक्तम् । न चाप्रयोजनैः, स्वाध्यायाध्ययनविध्यापादितप्रयोजनवत्त्वनियमात् । तस्मात्तत्तद्विहितकर्मापेक्षितकर्तृदेवतादिप्रतिपादनपरत्वेनैव क्रियार्थत्वम् । यदि त्वसंनिधानात्तत्परत्वं न रोचयन्ते, ततः संनिहितोपासनादिक्रियापरत्वं वेदान्तानाम् । एवं हि प्रत्यक्षाद्यनधिगतगोचरत्वेनानपेक्षतया प्रामाण्यं च प्रयोजनवत्त्वं च सिध्यतीति तात्पर्यार्थः । पारमर्षसूत्रोपन्यासस्तु पूर्वपक्षदार्ढ्याय । आनर्थक्यञ्चाप्रयोजनवत्त्वम् , सापेक्षतया प्रमानुत्पादकत्वं, चानुवादकत्वादिति ।
अतः इत्यादिवान्तं
ग्रहणकवाक्यम् ।
अस्य विभागभाष्यं
नहि इत्यादि उपपन्ना वा इत्यन्तम् ।
स्यादेतत् । अक्रियार्थत्वेऽपि ब्रह्मस्वरूपविधिपरा वेदान्ता भविष्यन्ति, तथा च “विधिना त्वेकवाक्यत्वात्”(जै.सू. २.१.) - इति राद्धान्तसूत्रमनुग्रहीष्यते । न खल्वप्रवृत्तप्रवर्तनमेव विधिः, उत्पत्तिविधेरज्ञातज्ञापनार्थत्वात् ।
वेदान्तानां चाज्ञातं ब्रह्म ज्ञापयतां तथाभावादित्यत आह -
न च परिनिष्ठित इति ।
अनागतोत्पाद्यभावविषय एव हि सर्वो विधिरुपेयः, उत्पत्त्यधिकारविनियोगप्रयोगोत्पत्तिरूपाणां परस्पराविनाभावात् , सिद्धे च तेषामसम्भवात् , तद्वाक्यानां त्वैदम्पर्यं भिद्यते । यथा - ‘अग्निहोत्रं जुहुयात्स्वर्गकामः’ इत्यादिभ्योऽधिकारविनियोगप्रयोगाणां प्रतिलम्भात् , ‘अग्निहोत्रं जुहोति’ इत्युत्पत्तिमात्रपरं वाक्यम् । न त्वत्र विनियोगादयो न सन्ति, सन्तोऽप्यन्यतो लब्धत्वात्केवलमविवक्षिताः । तस्मात् भावनाविषयो विधिर्न सिद्धे वस्तुनि भवितुमर्हतीति ।
उपसंहरति -
तस्मादिति ।
अत्रारुचिकारणमुक्त्वा पक्षान्तरमुपसङ्क्रमते -
अथेति ।
एवं च सत्युक्तरूपे ब्रह्मणि शब्दस्यातात्पर्यात् प्रमाणान्तरेण यादृशमस्य रूपं व्यवस्थाप्यते न तच्छब्देन विरुध्यते, तस्योपासनापरत्वात् , समारोपेण चोपासनाया उपपत्तेरिति ।
प्रकृतमुपसंहरति -
तस्मान्नेति ।
सूत्रेण सिद्धान्तयति -
एवं प्राप्त उच्यते - तत्तु समन्वयात् ॥
तदेतत् व्याचष्टे -
तुशब्द इति ।
तदित्युत्तरपक्षप्रतिज्ञां विभजते -
तद्ब्रह्मेति ।
पूर्वपक्षी कर्कशाशयः पृच्छति -
कथम् ।
कुतः प्रकारादित्यर्थः ।
सिद्धान्ती स्वपक्षे हेतुं प्रकारभेदमाह -
समन्वयात् ।
सम्यगन्वयः समन्वयस्तस्मात् ।
एतदेव विभजते -
सर्वेषु हि वेदान्तेष्विति ।
वेदान्तानामैकान्तिकीं ब्रह्मपरतामाचिख्यसुर्बहूनि वाक्यान्युदाहरति -
सदेवेति ।
'यतो वा इमानि भूतानि” इति तु वाक्यं पूर्वमुदाहृतं जगदुत्पत्तिस्थितिनाशकारणमिति चेह स्मारितमिति न पठितम् । येन हि वाक्यमुपक्रम्यते येन चोपसंह्रियते तदेव वाक्यार्थ इति शाब्दाः । यथोपांशुयाजवाक्येऽनूचोः पुरोडाशयोर्जामितादोषसङ्कीर्तनपूर्वकोपांशुयाजविधाने तत्प्रतिसमाधानोपसंहारे चापूर्वोपांशुयाजकर्मविधिपरता एकवाक्यताबलादाश्रिता, एवमत्रापि “सदेव सोम्येदम्”(छा. उ. ६ । २ । १) इति ब्रह्मोपक्रमात् “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति च जीवस्य ब्रह्मात्मनोपसंहारात्तत्परतैव वाक्यस्य । एवं वाक्यान्तराणामपि पौर्वापर्यालोचनया ब्रह्मपरत्वमवगन्तव्यम् । न च तत्परत्वस्य दृष्टस्य सति सम्भवेऽन्यपरता अदृष्टा युक्ता कल्पयितुम् , अतिप्रसङ्गात् ।
न केवलं कर्तृपरता तेषामदृष्टा, अनुपपन्ना चेत्याह -
न च तेषामिति ।
सापेक्षत्वेनाप्रामाण्यं पूर्वपक्षबीजं दूषयति -
न च परिनिष्ठितवस्तुस्वरूपत्वेऽपीति ।
अयमभिसन्धिः - पुंवाक्यनिदर्शनेन हि भूतार्थतया वेदान्तानां सापेक्षत्वमाशङ्क्यते । तत्रैवं भवान् पृष्टो व्याचष्टाम् , किं पुंवाक्यानां सापेक्षता भूतार्थत्वेन, आहो पौरुषेयत्वेन । यदि भूतार्थत्वेन ततः प्रत्यक्षादीनामपि परस्परापेक्षत्वेनाप्रामाण्यप्रसङ्गः । तान्यपि हि भूतार्थान्येव । अथ पुरुषबुद्धिप्रभवतया पुंवाक्यं सापेक्षम् , एवं तर्हि तदपूर्वकाणां वेदान्तानां भूतार्थानामपि नाप्रामाण्यं, प्रत्यक्षादीनामिव नियतेन्द्रियलिङ्गादिजन्मनाम् । यद्युच्येत सिद्धे किलापौरुषेयत्वे वेदान्तानामनपेक्षतया प्रामाण्यं सिध्येत् , तदेव तु भूतार्थत्वेन न सिध्यति, भूतार्थस्य शब्दानपेक्षेण पुरुषेण मानान्तरतः शक्यज्ञानत्वाद्बुद्धिपूर्वं विरचनोपपत्तेः, वाक्यत्वादिलिङ्गकस्य वेदपौरुषेयत्वानुमानस्याप्रत्यूहमुत्पत्तेः । तस्मात् पौरुषेयत्वेन सापेक्षत्वं दुर्वारं, न तु भूतार्थत्वेन । कार्यार्थत्वे तु कार्यस्यापूर्वस्य मानान्तरागोचरतयात्यन्ताननुभूतपूर्वस्य तत्त्वेन समारोपेण वा पुरुषबुद्धावनारोहात्तदर्थानां वेदान्तानामशक्यरचनतया पौरुषेयत्वाभावादनपेक्षं प्रमाणत्वं सिध्यतीति प्रामाण्याय वेदान्तानां कार्यपरत्वमातिष्ठामहे । अत्रब्रूमः - किं पुनरिदं कार्यमभिमतमायुष्मतः यदशक्यं पुरुषेण ज्ञातुम् । अपूर्वमिति चेत् , हन्त कुतस्त्यमस्य लिङाद्यर्थत्वम् , तेनालौकिकेन सङ्गतिसंवेदनविरहात् । लोकानुसारतः क्रियाया एव लौकिक्याः कार्याया लिङादेरवगमात् । ‘स्वर्गकामो यजेत’ इति साध्यस्वर्गविशिष्टो नियोज्योऽवगम्यते, स च तदेव कार्यमवगच्छति यत्स्वर्गानुकूलम् । न च क्रिया क्षणभङ्गुरामुष्मिकाय स्वर्गाय कल्पत इति पारिशेष्याद्वेदत एवापूर्वे कार्ये लिङादीनां सम्बन्धग्रह इति चेत् , हन्त चैत्यवन्दनादिवाक्येष्वपि स्वर्गकामादिपदसम्बन्धादपूर्वकार्यत्वप्रसङ्गः, तथा च तेषामप्यशक्यरचनत्वेनापौरुषेयत्वापातः । स्पष्टदृष्टेन पौरुषेयत्वेन वा तेषामपूर्वार्थत्वप्रतिषेधे वाक्यत्वादिना लिङ्गेन वेदानामपि पौरुषेयत्वमनुमितमित्यपूर्वार्थता न स्यात् । अन्यतस्तु वाक्यत्वादीनामनुमानाभामत्वोपपादने कृतमपूर्वार्थत्वेनात्र तदुपपादकेन । उपपादितं चापौरुषेयत्वमस्माभिर्न्यायकणिकायाम्, इह तु विस्तरभयान्नोक्तम् । तेनापौरुषेयत्वे सिद्धे भूतार्थानामपि वेदान्तानां न सापेक्षतया प्रामाण्यविघातः । न चानधिगतगन्तृता नास्ति येन प्रामाण्यं न स्यात् , जीवस्य ब्रह्मताया अन्यतोऽनधिगमात् । तदिदमुक्तम्- ‘न च परिनिष्ठितवस्तुस्वरूपत्वेऽपि’ इति ।
द्वितीयं पूर्वपक्षबीजं स्मारयित्वा दूषयति -
यत्तु हेयोपादेयरहितत्वादिति ।
विध्यर्थावगमात्खलु पारम्पर्येण पुरुषार्थप्रतिलम्भः । इह तु - “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्यवगतिपर्यन्ताद्वाक्यार्थज्ञानात् बाह्यानुष्ठानायासानपेक्षात्साक्षादेव पुरुषार्थप्रतिलम्भो नायं सर्पो रज्जुरियमितिज्ञानादिवेति सोऽयमस्य विध्यर्थज्ञानात् प्रकर्षः । एतदुक्तं भवति - द्विविधं हीप्सितं पुरुषस्य । किञ्चिदप्राप्तम् , ग्रामादि, किञ्चित्पुनः प्राप्तमपि भ्रमवशादप्राप्तमित्यवगतम् , यथा स्वग्रीवावनद्धं ग्रैवेयकम् । एवं जिहासितमपि द्विविधम् , किञ्चिदहीनं जीहासति, यथा वलयितचरणं फणिनम् , किञ्चित्पुनर्हीनमेव जिहासति, यथा चरणाभरणे नूपुरे फणिनमारोपितम् । तत्राप्राप्तप्राप्तौ चात्यक्तत्यागे च बाह्योपायानुष्ठानसाध्यत्वात्तदुपायतत्त्वज्ञानादस्ति पराचीनानुष्ठानापेक्षा । न जातु ज्ञानमात्रं वस्त्वपनयति । न हि सहस्रमपि रज्जुप्रत्यया वस्तुसन्तं फणिनमन्यथयितुमीशते । समारोपिते तु प्रेप्सितजिहासिते तत्त्वसाक्षात्कारमात्रेण बाह्यानुष्ठानानपेक्षेण शक्येते प्राप्तुमिव हातुमिव । समारोपमात्रजीविते हि ते, समारोपितं च तत्त्वसक्षात्कारः समूलघातमुपहन्तीति ।
तथेहाप्यविद्यासमारोपितजीवभावे ब्रह्मण्यानन्दे वस्तुतः शोकदुःखादिरहिते समारोपितनिबन्धनस्तद्भावः “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति वाक्यार्थतत्त्वज्ञानादवगतिपर्यन्तान्निवर्तते, तन्निवृत्तौ प्राप्तमप्यानन्दरूपमप्राप्तमिव प्राप्तं भवति, त्यक्तमपि शोकदुःखाद्यत्यक्तमिव त्यक्तं भवति, तदिदमुक्तम् -
ब्रह्मात्मावगमादेव
जीवस्य सर्वक्लेशस्य सवासनस्य विपर्यासस्य । स हि क्लिश्नाति जन्तूनतः क्लेशः, तस्य प्रकर्षेण हानात्पुरुषार्थस्यदुःखनिवृत्तिसुखाप्तिलक्षणस्य सिद्धेरिति ।
यत्तु “आत्मेत्येवोपासीत”(बृ. उ. १ । ४ । ७) “आत्मानमेव लोकमुपासीत”(बृ. उ. १ । ४ । १५) इत्युपासनावाक्यगतदेवतादिप्रतिपादनेनोपासनापरत्वं वेदान्तानामुक्तं, तद्दूषयति -
देवतादिप्रतिपादनस्य तु आत्मेत्येतावन्मात्रस्यस्ववाक्यगतोपासनार्थत्वेऽपि न कश्चिद्विरोधः ।
यदि न विरोधः, सन्तु तर्हि वेदान्ता देवताप्रतिपादनद्वारेणोपासनाविधिपरा एवेत्यत आह -
न तु तथा ब्रह्मण इति ।
उपास्योपासकोपासनादिभेदसिद्ध्यधीनोपासना न निरस्तसमस्तभेदप्रपञ्चे वेदान्तवेद्ये ब्रह्मणि सम्भवतीति नोपासनाविधिशेषत्वं वेदान्तानां तद्विरोधित्वादित्यर्थः ।
स्यादेतत् । यदि विधिविरहेऽपि वेदान्तानां प्रामाण्यम् , हन्त तर्हि “सोऽरोदीत्”(तै. सं. १ । ५ । १ । १)“सोऽरोदीत्”(तै. सं. १ । ५ । १ । १)“सोऽरोदीत्”(तै. सं. १ । ५ । १ । १) इत्यादीनामप्यस्तु स्वतन्त्राणामेवोपेक्षणीयार्थानां प्रामाण्यम् । न हि हानोपादानबुद्धी एव प्रामणस्य फले, उपेक्षाबुद्धेरपि तत्फलत्वेन प्रामाणिकैरभ्युपेतत्वादिति कृतम् ‘बर्हिषि रजतं न देयम्’ इत्यादिनिषेधविधिपरत्वेनैतेषामित्यत आह -
यद्यपीति ।
स्वाध्यायविध्यधीनग्रहणतया हि सर्वो वेदराशिः पुरुषार्थतन्त्र इत्यवगतम् । तत्रैकेनापि वर्णेन नापुरुषार्थेन भवितुं युक्तम् , किं पुनरियता “सोऽरोदीत्” इत्यादिना पदप्रबन्धेन । न च वेदान्तेभ्य इव तदर्थावगममात्रादेव कश्चित्पुरुषार्थ उपलभ्यते । तेनैष पदसन्दर्भः साकाङ्क्ष एवास्ते पुरुषार्थमुदीक्षमाणः । ‘बर्हिषि रजतं न देयम्’ इत्ययमपि निषेधविधिः स्वनिषेध्यस्य निन्दामपेक्षते । न ह्यन्यथा ततश्चेतनः शक्यो निवर्तयितुम् । तद्यदि दूरतोऽपि न निन्दामवाप्स्यत्ततो निषेधविधिरेव रजतनिषेधे च निन्दायां च दर्विहोमवत्सामर्थ्यद्वयमकल्पयिष्यत् । तदेवमुत्तप्तयोः “सोऽरोदीत्” इति ‘बर्हिषि रजतं न देयम्’ इति च पदसन्दर्भयोर्लक्ष्यमाणनिन्दाद्वारेण नष्टाश्वदग्धरथवत्परस्परं समन्वयः । न त्वेवं वेदान्तेषु पुरुषार्थापेक्षा, तदर्थावगमादेवानपेक्षात् परमपुरुषार्थलाभादित्युक्तम् ।
ननु विध्यसंस्पर्शिनो वेदस्यान्यस्य न प्रामाण्यं दृष्टमिति कथं वेदान्तानां तदस्पृशां तद्भविष्यतीत्यत आह -
न चानुमानगम्यमिति ।
अबाधितानधिगतासन्दिग्धबोधजनकत्वं हि प्रमाणत्वं प्रमाणानां तच्च स्वत इत्युपपादितम् । यद्यपि चैषामीदृग्बोधजनकत्वं कार्यार्थापत्तिसमधिगम्यम् , तथापि तद्बोधोपजनने मानान्तरं नापेक्षते । नापीमामेवार्थापत्तिम् , परस्पराश्रयप्रसङ्गादिति स्वत इत्युक्तम् । ईदृग्बोधजनकत्वं च कार्ये इव विधीनाम् , वेदान्तानां ब्रह्मण्यस्तीति दृष्टान्तानपेक्षं तेषां ब्रह्मणि प्रामाण्यं सिद्धं भवति । अन्यथा नेन्द्रियान्तराणां रूपप्रकाशनं दृष्टमिति चक्षुरपि न रूपं प्रकाशयेदिति ।
प्रकृतमुपसंहरति -
तस्मादिति ।
आचार्यैकदेशीयानां मतमुत्थापयति -
अत्रापरे प्रत्यवतिष्ठन्त इति ।
तथा हि- “अज्ञातसङ्गतित्वेन शास्त्रत्वेनार्थवत्तया । मननादिप्रतीत्या च कार्यार्थाद्ब्रह्मनिश्चयः” ॥ न खलु वेदान्ताः सिद्धब्रह्मरूपपरा भवितुमर्हन्ति, तत्राविदितसङ्गतित्वात् । यत्र हि शब्दा लोकेन न प्रयुज्यन्ते तत्र न तेषां सङ्गतिग्रहः । न चाहेयमनुपादेयं रूपमात्रं कश्चिद्विवक्षति प्रेक्षावान् , तस्याबुभुत्सितत्वात् । अबुभुत्सितावबोधने च प्रेक्षावत्ताविघातात् । तस्मात्प्रतिपित्सितं प्रतिपिपादयिषन्नयं लोकः प्रवृत्तिनिवृत्तिहेतुभूतमेवार्थं प्रतिपादयेत् , कार्यं चावगतं तद्धेतुरिति तदेव बोधयेत् । एवं च वृद्धव्यवहारप्रयोगात् पदानां कार्यपरतामवगच्छति । तत्र किञ्चित्साक्षात्कार्याभिधायकं, किञ्चित्तु कार्यार्थस्वार्थाभिधायकं, न तु भूतार्थपरता पदानाम् । अपि च नरान्तरस्य व्युत्पन्नस्यार्थप्रत्ययमनुमाय तस्य च शब्दभावाभावानुविधानमवगम्य शब्दस्य तद्विषयवाचकत्वं निश्चेतव्यम् । न च भूतार्थरूपमात्रप्रत्यये परनरवर्तिनि किञ्चिल्लिङ्गमस्ति । कार्यप्रत्यये तु नरान्तरवर्तिनि प्रवृत्तिनिवृत्ती स्तो हेतू इत्यज्ञातसङ्गतित्वान्न ब्रह्मरूपपरा वेदान्ताः । अपि च वेदान्तानां वेदत्वाच्छास्त्रत्वप्रसिद्धिरस्ति । प्रवृत्तिनिवृत्तिपराणां च सन्दर्भाणां शास्त्रत्वम् । यथाहुः - “प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते” ॥ इति । तस्माच्छास्त्रत्वप्रसिद्ध्या व्याहतमेषां ब्रह्मस्वरूपपरत्वम् । अपि च न ब्रह्मरूपप्रतिपादनपराणामेषामर्थवत्त्वं पश्यामः । न च रज्जुरियं न भुजङ्ग इति यथाकथञ्चिल्लक्षणया वाक्यार्थतत्त्वनिश्चये यथा भयकम्पादिनिवृत्तिः, एवं “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इतिवाक्यार्थावगमान्निवृत्तिर्भवति सांसारिकाणां धर्माणाम् । श्रुतवाक्यार्थस्यापि पुंसस्तेषां तादवस्थ्यात् । अपि च यदि श्रुतब्रह्मणो भवति सांसारिकधर्मनिवृत्तिः, कस्मात्पुनः श्रवणस्योपरि मननादयः श्रूयन्ते । तस्मात्तेषां वैयर्थ्यप्रसङ्गादपि न ब्रह्मस्वरूपपरा वेदान्ताः, किं त्वात्मप्रतिपत्तिविषयकार्यपराः । तच्च कार्यं स्वात्मनि नियोज्यं नियुञ्जानं नियोग इति च मानान्तरापूर्वतयापूर्वमिति चाख्यायते । न च विषयानुष्ठानं विना तत्सिद्धिरिति स्वसिद्ध्यर्थं तदेव कार्यं स्वविषयस्य करणस्यात्मज्ञानस्यानुष्ठानमाक्षिपति । यथा च कार्यं स्वविषयाधीननिरूपणमिति ज्ञानेन विषेयेण निरूप्यते, एवं ज्ञानमपि स्वविषयमात्मानमन्तरेणाशक्यनिरूपणमिति तन्निरूपणाय तादृशमात्मानमाक्षिपति, तदेव कार्यम् । यथाहुः - “यत्तु तत्सिद्ध्यर्थमुपादीयते आक्षिप्यते तदपि विधेयमिति तन्त्रे व्यवहारः” इति । विधेयता च नियोगविषयस्य ज्ञानस्य भावार्थतयानुष्ठेयता, तद्विषयस्य त्वात्मनः स्वरूपसत्ताविनिश्चितिः । आरोपिततद्भावस्य त्वन्यस्य निरूपकत्वे तेन तन्निरूपितं न स्यात् । तस्मात्तादृगात्मप्रतिपत्तिविधिपरेभ्यो वेदान्तेभ्यस्तादृगात्मविनिश्चयः ।
तदेतत्सर्वमाह -
यद्यपीति ।
विधिपरेभ्योऽपि वस्तुतत्त्वविनिश्चय इत्यत्र विदर्शनमुक्तम् -
यथा यूपेति ।
'यूपे पशुं बध्नाति” इति बन्धनाय विनियुक्ते यूपे, तस्यालौकिकत्वात्कोऽसौ यूप इत्यपेक्षिते ‘खादिरो यूपो भवति’ , ‘यूपं तक्षति’ , ‘यूपमष्टाश्रीकरोति’ इत्यादिभिर्वाक्यैस्तक्षणादिविधिपरैरपि संस्काराविष्टं विशिष्टलक्षणसंस्थानं दारु यूप इति गम्यते । एवमाहवनीयादयोऽप्यवगन्तव्याः ।
प्रवृत्तिनिवृत्तिपरस्य शास्त्रत्वं न स्वरूपपरस्य, कार्य एव च सम्बन्धो न स्वरूपे, इति हेतुद्वयं भाष्यवाक्येनोपपादितम् -
प्रवृत्तिनिवृत्तिप्रयोजनत्वात् इत्यादिना तत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यादित्यन्तेन ।
न च स्वतन्त्रं कार्यं नियोज्यमधिकारिणमनुष्ठातारमन्तरेणेति नियोज्यभेदमाह -
सति च विधिपरत्व इति ।
'ब्रह्म वेद ब्रह्मैव भवति” इति सिद्धवदर्थवादादवगतस्यापि ब्रह्मभवनस्य नियोज्यविशेषाकाङ्क्षायां ब्रह्म बुभूषोर्नियोज्यविशेषस्य रात्रिसत्रन्यायेन प्रतिलम्भः । पिण्डपितृयज्ञन्यायेन तु स्वर्गकामस्य नियोज्यस्य कल्पनायामर्थवादस्यासमवेतार्थतयात्यन्तपरोक्षा वृत्तिः स्यादिति । ब्रह्मभावश्चामृतत्वमिति अमृतत्वकामस्य इत्युक्तम् । अमृतत्वं चामृतत्वादेव, न कृतकत्वेन शक्यमनित्यमनुमातुम् । आगमविरोधादिति भावः ।
उक्तेन धर्मब्रह्मज्ञानयोर्वैलक्षण्येन विध्यविषयत्वं चोदयति -
नन्विति ।
परिहरति -
नार्हत्येवमिति ।
अत्र चात्मदर्शनं न विधेयम् । तद्धि दृशेरुपलब्धिवचनत्वात् श्रावणं वा स्यात्प्रत्यक्षं वा । प्रत्यक्षमपि लौकिकमहंप्रत्ययो वा, भावनाप्रकर्षपर्यन्तजं वा । तत्र श्रावणं न विधेयम् , स्वाध्यायविधिनैवास्य प्रापितत्वात् , कर्मश्रावणवत् । नापि लौकिकं प्रत्यक्षम् , तस्य नैसर्गिकत्वात् । न चौपनिषदात्मविषयं भावनाधेयवैशिष्ट्यं विधेयं, तस्योपासनाविधानादेव वाजिनवदनुनिष्पादितत्वात् । तस्मादौपनिषदात्मोपासना अमृतत्वकामं नियोज्यं प्रति विधीयते । ‘द्रष्टव्यः’ इत्यादयस्तु विधिसरूपा न विधयः इति ।
तदिदमुक्तम् -
तदुपासनाच्चेति ।
अर्थवत्तया मननादिप्रतीत्या चेत्यस्य शेषः प्रपञ्चो निगदव्याख्यातः ।
तदेकदेशिमतं दूषयति -
अत्राभिधीयते - न
एकदेशिमतम् ।
कुतः,
कर्मब्रह्मविद्याफलयोर्वैलक्षण्यात् ।
पुण्यापुण्यकर्मणोः फले सुखदुःखे । तत्र मनुष्यलोकमारभ्याब्रह्मलोकात्सुखस्य तारतम्यमधिकाधिकोत्कर्षः । एवं मनुष्यलोकमारभ्य दुःखतारतम्यया चावीचिलोकात् । तच्च सर्वं कार्यं च विनाशि च । आत्यन्तिकं त्वशरीरत्वमनतिशयं स्वभावसिद्धतया नित्यमकार्यमात्मज्ञानस्य फलम् । तद्धि फलमिव फलम् , अविद्यापनयनमात्रेणाविर्भावात् । एतदुक्तं भवति - त्वयाप्युपासनाविधिपरत्वं वेदान्तानामभ्युपगच्छता नित्यशुद्धबुद्धत्वादिरूपब्रह्मात्मता जीवस्य स्वाभाविकी वेदान्तगम्यास्थीयते । सा चोपासनाविषयस्य विधेर्न फलम् , नित्यत्वादकार्यत्वात् । नाप्यनाद्यविद्यापिधानापनयः, तस्य स्वविरोधिविद्योदयादेव भावात् । नापि विद्योदयः, तस्यापि श्रवणमननपूर्वकोपासनाजनितसंस्कारसचिवादेव चेतसो भावात् । उपासनासंस्कारवदुपासनापूर्वमपि चेतःसहकारीति चेत् दृष्टं च खलु नैयोगिकं फलमैहिकमपि, यथा चित्राकारीर्यादिनियोगानामनियतनियतफलानामैहिकफलेति चेत् , न, गान्धर्वशास्त्रार्थोपासनावासनाया इवापूर्वानपेक्षायाः षड्जादिसाक्षात्कारे वेदान्तार्थोपासनावासनाया जीवब्रह्मभावसाक्षात्कारेऽनपेक्षाया एव सामर्थ्यात् । तथा चामृतीभावं प्रत्यहेतुत्वादुपासनापूर्वस्य, नामृतत्वकामस्तत्कार्यमवबोद्धुमर्हति । अन्यदिच्छत्यन्यत्करोतीति हि विप्रतिषिद्धम् । न च तत्कामः क्रियामेव कार्यमवगमिष्यति नापूर्वमिति साम्प्रतम् , तस्या मानान्तरादेव तत्साधनत्वप्रतीतेर्विधेर्वैयर्थ्यात् , न चावघातादिविधितुल्यता, तत्रापि नियमापूर्वस्यान्यतोऽनवगतेः । न च ब्रह्मभूयादन्यदमृतत्वमार्थवादिकं किञ्चिदस्ति, येन तत्काम उपासनायामधिक्रियेत, विश्वजिन्न्यायेन तु स्वर्गकल्पनायां तस्य सातिशयत्वं क्षयित्वं चेति न नित्यफलत्वमुपासनायाः । तस्माद्ब्रह्मभूयस्याविद्यापिधानापनयमात्रेणाविर्भावात् , अविद्यापनयस्य च वेदान्तार्थविज्ञानादवगतिपर्यन्तादेव सम्भवात् , उपासनायाः संस्कारहेतुभावस्य संस्कारस्य च साक्षात्कारोपजनने मनःसाचिव्यस्य च मानान्तरसिद्धत्वात् , “आत्मेत्येवोपासीत”(बृ. उ. १ । ४ । ७) इति न विधिः, अपि तु विधिसरूपोऽयम् । यथोपांशुयाजवाक्ये ‘विष्णुरुपांशु यष्टव्यः’ इत्यादयो विधिसरूपा न विधय इति तात्पर्यार्थः ।
श्रुतिस्मृतिन्यायसिद्धमित्युक्तम्, तत्र श्रुतिं दर्शयति -
तथा च श्रुतिरिति ।
न्यायमाह -
अत एवेति ।
यत्किल स्वाभाविकं तन्नित्यम् , यथा चैतन्यम् । स्वाभाविकं चेदम् , तस्मान्नित्यम् ।
परे हि द्वयीं नित्यतामाहुः - कूटस्थनित्यतां परिणामिनित्यतां च । तत्र नित्यमित्युक्ते मा भूदस्य परिणामिनित्यतेत्याह -
तत्र किञ्चिदिति ।
परिणामिनित्यता हि न पारमार्थिकी । तथा हि - तत्सर्वात्मना वा परिणमेदेकदेशेन वा । सर्वात्मना परिणामे कथं न तत्त्वव्याहृतिः । एकदेशपरिणामे वा स एकदेशस्ततो भिन्नो वा अभिन्नो वा । भिन्नश्चेत्कथं तस्य परिणामः । न ह्यन्यस्मिन् परिणममानेऽन्यः परिणमते, अतिप्रसङ्गात् । अभेदे वा कथं न सर्वात्मना परिणामः । भिन्नाभिन्नं तदिति चेत् , तथा हि - तदेव कारणात्मनाभिन्नम् , भिन्नं च कार्यात्मना, कटकादय इवाभिन्ना हाटकात्मना भिन्नाश्च कटकाद्यात्मना । न च भेदाभेदयोर्विरोधान्नैकत्र समवाय इति युक्तम् । विरुद्धमिति नः क्व संप्रत्ययोयत्प्रमाणविपर्ययेण वर्तते । यत्तु यथा प्रमाणेनावगम्यते तस्य तथाभाव एव । कुण्डलमिदं सुवर्णमिति सामानाधिकरण्यप्रत्यये च व्यक्तं भेदाभेदौ चकास्तः । तथा हि - आत्यन्तिकेऽभेदेऽन्यतरस्य द्विरवभासप्रसङ्गः । भेदे वात्यन्तिके न सामानाधिकरण्यं गवाश्ववत् । आधाराधेयभावे एकाश्रयत्वे वा न सामानाधिकरण्यम् , न हि भवति कुण्डं बदरमिति । नाप्येकासनस्थयोश्चैत्रमैत्रयोश्चैत्रो मैत्र इति । सोऽयमबाधितोऽसन्दिग्धः सर्वजनीनः सामानाधिकरण्यप्रत्यय एव कार्यकारणयोर्भेदाभेदौ व्यवस्थापयति । तथा च कार्याणां कारणात्मत्वात् , कारणस्य च सद्रूपस्य सर्वत्रानुगमात् , सद्रूपेणाभेदः कार्यस्य जगतः, भेदः कार्यरूपेण गोघटादिनेति । यथाहुः - “कार्यरूपेण नानात्वमभेदः कारणात्मना । हेमात्मना यथाभेदः कुण्डलाद्यात्मना भिदा” ॥ इति । अत्रोच्यते - कः पुनरयं भेदो नाम, यः सहाभेदेनैकत्र भवेत् । परस्पराभाव इति चेत् , किमयं कार्यकारणयोः कटकहाटकयोरस्ति न वा । न चेत् , एकत्वमेवास्ति, न च भेदः । अस्ति चेद्भेद एव, नाभेदः । न च भावाभावयोरविरोधः, सहावस्थानासम्भवात् । सम्भवे वा कटकवर्धमानकयोरपि तत्त्वेनाभेदप्रसङ्गः, भेदस्याभेदाविरोधात् । अपि च कटकस्य हाटकादभेदे यथा हाटकात्मना कटकमुकुटकुण्डलादयो न भिद्यन्ते एवं कटकात्मनापि न भिद्येरन् , कटकस्य हाटकादभेदात् । तथा च हाटकमेव वस्तुसन्न कटकादयः, भेदस्याप्रतिभासनात् । अथ हाटकत्वेनैवाभेदो न कटकत्वेन, तेन तु भेद एव कुण्डलादेः । यदि हाटकादभिन्नः कटकः कथमयं कुण्डलादिषु नानुवर्तते । नानुवर्तते चेत्कथं हाटकादभिन्नः कटकः । ये हि यस्मिन्ननुवर्तमाने व्यावर्तन्ते ते ततो भिन्ना एव, यथा सूत्रात्कुसुमभेदाः । नानुवर्तन्ते चानुवर्तमानेऽपि हाटकत्वे कुण्डलादयः, तस्मात्तेऽपि हाटकाद्भिन्ना एवेति । सत्तानुवृत्त्या च सर्ववस्त्वनुगमे ‘इदमिह नेदम् , इदमस्मान्नेदम् , इदमिदानीं नेदम् , इदमेवं नेदम्’ इति विभागो न स्यात् । कस्यचित्क्वचित्कदाचित्कथञ्चिद्विवेकहेतोरभावात् । अपि च दूरात्कनकमित्यवगते न तस्य कुण्डलादयो विशेषा जिज्ञास्येरन् , कनकादभेदात्तेषाम् , तस्य च ज्ञातत्वात् । अथ भेदोऽप्यस्ति कनकात्कुण्डलादीनामिति कनकावगमेऽप्यज्ञातास्ते । नन्वभेदोऽप्यस्तीति किं न ज्ञाताः । प्रत्युत ज्ञानमेव तेषां युक्तम् , कारणाभावे हि कार्यभाव औत्सर्गिकः, स च कारणसत्तया अपोद्यते । अस्ति चाभेदे कारणसत्तेति कनके ज्ञाते ज्ञाता एव कुण्डलादय इति तज्जिज्ञासाज्ञानानि चानर्थकानि स्युः । तेन यस्मिन् गृह्यमाणे यन्न गृह्यते तत्ततो भिद्यते । यथा करभे गृह्यमाणेऽगृह्यमाणो रासभः करभात् । गृह्यमाणे च दूरतो हेम्नि न गृह्यन्ते तस्य भेदाः कुण्डलादयः, तस्मात्ते हेम्नो भिद्यन्ते । कथं तर्हि हेम कुण्डलमिति सामानाधिकरण्यमिति चेत् , न ह्याधाराधेयभावे समानाश्रयत्वे वा सामानाधिकरण्यमित्युक्तम् । अथानुवृत्तिव्यावृत्तिव्यवस्था च हेम्नि ज्ञाते कुण्डलादिजिज्ञासा च कथम् । न खल्वभेदे ऐकान्तिकेऽनैकान्तिके चैतदुभयमुपपद्यत इत्युक्तम् । तस्माद्भेदाभेदयोरन्यतरस्मिन्नवहेयेऽभेदोपादानैव भेदकल्पना, न भेदोपादानाभेदकल्पनेति युक्तम् । भिद्यमानतन्त्रत्वाद्भेदस्य, भिद्यमानानां च प्रत्येकमेकत्वात् , एकाभावे चानाश्रयस्य भेदस्यायोगात् , एकस्य च भेदानधीनत्वात् , नायमयमिति च भेदग्रहस्य प्रतियोगिग्रहसापेक्षत्वात् , एकत्वग्रहस्य चान्यानपेक्षत्वात् , अभेदोपादानैवानिर्वचनीयभेदकल्पनेति साम्प्रतम् । तथा च श्रुतिः - “मृत्तिकेत्येव सत्यम्”(छा. उ. ६ । १ । ४) इति । तस्मात्कूटस्थनित्यतैव पारमार्थिकी न परिणामिनित्यतेति सिद्धम् ।
व्योमवत्
इति च दृष्टान्तः परसिद्धः, अस्मन्मते तस्यापि कार्यत्वेनानित्यत्वात् ।
अत्र च
कूटस्थनित्यम्
इति निर्वर्त्यकर्मतामपाकरोति ।
सर्वव्यापि
इति प्राप्यकर्मताम् ।
सर्वविक्रियारहितम्
इति विकार्यकर्मताम् ।
निरवयवम्
इति संस्कार्यकर्मताम् । व्रीहीणां खलु प्रोक्षणेन संस्काराख्योंऽशो यथा जन्यते, नैवं ब्रह्मणि कश्चिदंशः क्रियाधेयोऽस्ति, अनवयवत्वात् । अनंशत्वादित्यर्थः ।
पुरुषार्थतामाह -
नित्यतृप्तमिति ।
तृप्त्या दुःखरहितं सुखमुपलक्षयति । क्षुद्दुःखनिवृत्तिसहितं हि सुखं तृप्तिः ।
सुखं चाप्रतीयमानं न पुरुषार्थम् इत्यत आह -
स्वयञ्ज्योतिरिति ।
तदेवं स्वमतेन मोक्षाख्यं फलं नित्यं श्रुत्यादिभिरुपपाद्य क्रियानिष्पाद्यस्य तु मोक्षस्यानित्यत्वं प्रसञ्जयति -
तद्यदीति ।
न चागमबाधः, आगमस्योक्तेन प्रकारेणोपपत्तेः । अपि च ज्ञानजन्यापूर्वजनितो मोक्षो नैयोगिक इत्यस्यार्थस्य सन्ति भूयस्यः श्रुतयो निवारिका इत्याह -
अपि च ब्रह्म वेदेति ।
अविद्याद्वयप्रतिबन्धापनयमात्रेण च विद्याया मोक्षसाधनत्वं न स्वतोऽपूर्वोत्पादेन चेत्यत्रापि श्रुतीरुदाहरति -
त्वं हि नः पितेति ।
न केवलमस्मिन्नर्थे श्रुत्यादयः, अपि त्वक्षपादाचार्यसूत्रमपि न्यायमूलमस्तीत्याह -
तथा चाचार्यप्रणीतमिति ।
आचार्यश्चोक्तलक्षणः पुराणे “आचिनोति च शास्त्रार्थमाचारे स्थापयत्यपि । स्वयमाचरते यस्मादाचार्यस्तेन चोच्यते” ॥ इति । तेन हि प्रणीतं सूत्रम् - “दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः”(न्या.सू.) इति । पाठापेक्षया कारणमुत्तरम् , कार्यं च पूर्वम् , कारणापाये कार्यापायः, कफापाय इव कफोद्भवस्य ज्वरस्यापायः । जन्मापाये दुःखापायः, प्रवृत्त्यपाये जन्मापायः, दोषापाये प्रवृत्त्यपायः, मिथ्याज्ञानापाये दोषापायः । मिथ्याज्ञानं चाविद्या रागाद्युपजननक्रमेण दृष्टेनैव संसारस्य परमं निदानम् । सा च तत्त्वज्ञानेन ब्रह्मात्मैकत्वविज्ञानेनैवावगतिपर्यन्तेन विरोधिना निवर्त्यते । ततोऽविद्यानिवृत्त्या ब्रह्मरूपाविर्भावो मोक्षः । न तु विद्याकार्यस्तज्जनितापूर्वकार्यो वेति सूत्रार्थः । तत्त्वज्ञानान्मिथ्याज्ञानापाय इत्येतावन्मात्रेण सूत्रोपन्यासः, न त्वक्षपादसंमतं तत्त्वज्ञानमिह संमतम् । तदनेनाचार्यान्तरसंवादेनायमर्थो दृढीकृतः । स्यादेतत् । नैकत्वविज्ञानं यथावस्थितवस्तुविषयम् , येन मिथ्याज्ञानं भेदावभासं निवर्तयन्न विधिविषयो भवेत् । अपि तु सम्पदादिरूपम् । तथा च विधेः प्रागप्राप्तं पुरुषेच्छया कर्तव्यं सत् विधिगोचरो भविष्यति । यथा वृत्त्यन्तरत्वेन मनसो विश्वेदेवसाम्याद्विश्वान्देवान्मनसि सम्पाद्य मन आलम्बनमविद्यमानसमं कृत्वा प्राधान्येन सम्पाद्यानां विश्वेषामेव देवानामनुचिन्तनम् , तेन चानन्तलोकप्राप्तिः । एवं चिद्रूपसाम्याज्जीवस्य ब्रह्मरूपतां सम्पाद्य जीवमालम्बनमविद्यमानसमं कृत्वा प्राधान्येन ब्रह्मानुचिन्तनम् , तेन चामृतत्वफलप्राप्तिः । अध्यासे त्वालम्बनस्यैव प्राधान्येनारोपिततद्भावस्यानुचिन्तनम् , यथा “मनो ब्रह्मेत्युपासीत”(छा. उ. ३ । १८ । १), “आदित्यो ब्रह्मेत्यादेशः”(छा. उ. ३ । १९ । १) । एवं जीवमब्रह्म “ब्रह्मेत्युपासीत” इति । क्रियाविशेषयोगाद्वा, यथा “वायुर्वाव संवर्गः”(छा. उ. ४ । ३ । १) , “प्राणो वाव संवर्गः”(छा. उ. ४ । ३ । ३) इति । बाह्यान्खलु वायुदेवता वह्न्यादीन् संवृङ्क्ते । महाप्रलयसमये हि वायुर्वह्न्यादीन्संवृज्य संहृत्यात्मनि स्थापयति । यथाह द्रविडाचार्यः - “संहरणाद्वा संवरणाद्वा स्वात्मीभावाद्वायुः संवर्गः” इति । अध्यात्मं च प्राणः संवर्ग इति । स हि सर्वाणि वागादीनि संवृङ्क्ते । प्रायाणकाले हि स एव सर्वाणीन्द्रियाणि सङ्गृह्योत्क्रामतीति । सेयं संवर्गदृष्टिर्वायौ प्राणे च दशाशागतं जगद्दर्शयति यथा, एवं जीवात्मनि बृंहणक्रियया ब्रह्मदृष्टिरमृतत्वाय फलाय कल्पत इति । तदेतेषु त्रिष्वपि पक्षेष्वात्मदर्शनोपासनादयः प्रधानकर्माण्यपूर्वविषयत्वात् , स्तुतशस्त्रवत् । आत्मा तु द्रव्यं कर्मणि गुण इति संस्कारो वात्मनो दर्शनं विधीयते । यथा दर्शपूर्णमासप्रकरणे ’ पत्न्यवेक्षितमाज्यं भवति’ इति समाम्नातम् , प्रकरणिना च गृहीतमुपांशुयागाङ्गभूताज्यद्रव्यसंस्कारतयावेक्षणं गुणकर्म विधीयते, एवं कर्तृत्वेन क्रत्वङ्गभूते आत्मनि “आत्मा वा अरे द्रष्टव्यः”(बृ. उ. २ । ४ । ५) इति दर्शनं गुणकर्म विधीयते ।
'यैस्तु द्रव्यं चिकीर्ष्यते गुणस्तत्र प्रतीयेत” इति न्यायादत आह -
न चेदं ब्रह्मात्मैकत्वविज्ञानमिति ।
कुतः,
सम्पदादिरूपे हि ब्रह्मात्मैकत्वविज्ञान इति ।
दर्शपूर्णमासप्रकरणे हि समाम्नातमाज्यावेक्षणं तदङ्गभूताज्यसंस्कार इति युज्यते । नच “आत्मा वा अरे द्रष्टव्यः”(बृ. उ. २ । ४ । ५) इत्यादि कस्यचित्प्रकरणे समाम्नातम् । न चानारभ्याधीतमपि । “यस्य पूर्णमयी जुहूर्भवति” इत्यव्यभिचरितक्रतुसम्बन्धजुहूद्वारेण जुहूपदं क्रतुं स्मारयद्वाक्येन यथा पर्णतायाः क्रतुशेषभावमापादयति, एवमात्मा नाव्यभिचारितक्रतुसम्बन्धः, येन तद्दर्शनं क्रत्वङ्गं सदात्मानं क्रत्वर्थं संस्कुर्यात् । तेन यद्ययं विधिस्तथापि “सुवर्णं भार्यम्” इतिवत् विनियोगभङ्गेन प्रधानकर्मैवापूर्वविषयत्वान्न गुणकर्मेति स्थवीयस्तयैतद्दूषणमनभिधाय सर्वपक्षसाधारणं दूषणमुक्तम् , तदतिरोहितार्थतया न व्याख्यातम् ।
किं च ज्ञानक्रियाविषयत्वविधानमस्य बहुश्रुतिविरुद्धमित्याह -
न च विदिक्रियेति ।
शङ्कते -
अविषयत्व इति ।
ततश्च शान्तिकर्मणि वेतालोदय इति भावः ।
निराकरोति -
न ।
कुतः
अविद्याकल्पितभेदनिवृत्तिपरत्वादिति ।
सर्वमेव हि वाक्यं नेदन्तया वस्तुभेदं बोधयितुमर्हति । न हीक्षुक्षीरगुडादीनां मधुररसभेदः शक्य आख्यातुम् । एवमन्यत्रापि सर्वत्र द्रष्टव्यम् । तेन प्रमाणान्तरसिद्धे लौकिके एवार्थे यदा गतिरिदृशी शब्दस्य, तदा कैव कथा प्रत्यगात्मन्यलौकिके । अदूरविप्रकर्षेण तु कथञ्चित्प्रतिपादनमिहापि समानम् । त्वम्पदार्थो हि प्रमाता प्रमाणाधीनया प्रमित्या प्रमेयं घटादि व्याप्नोतीत्यविद्याविलसितम् । तदस्या विषयीभूतोदासीनतत्पदार्थप्रत्यगात्मसामानाधिकरण्येन प्रमातृत्वाभावात्तन्निवृत्तौ प्रमाणादयस्तिस्रो विधा निवर्तन्ते । न हि पक्तुरवस्तुत्वे पाक्यपाकपचनानि वस्तुसन्ति भवितुमर्हन्तीति । तथा हि - “विगलितपराग्वृत्त्यर्थत्वं त्वम्पदस्य तदस्तदा त्वमिति हि पदेनैकार्थत्वे त्वमित्यपि यत्पदम् । तदपि च तदा गत्वैकार्थ्यं विशुद्धचिदात्मतां त्यजति सकलान्कर्तृत्वादीन्पदार्थमलान्निजान्” ॥ इत्यान्तरश्लोकः ।
अत्रैवार्थे श्रुतीरुदाहरति -
तथा च शास्त्रम् - यस्यामतमिति ।
प्रकृतमुपसंहरति -
अतोऽविद्याकल्पितेति ।
परपक्षे मोक्षस्यानित्यतामापादयति -
यस्य त्विति ।
कार्यमपूर्वं यागादिव्यापारजन्यं तदपेक्षते मोक्षः स्वोत्पत्ताविति ।
तयोः पक्षयोरिति ।
निर्वर्त्यविकार्ययोः क्षणिकं ज्ञानमात्मेति बौद्धाः । तथा च विशुद्धविज्ञानोत्पादो मोक्ष इति निर्वर्त्यो मोक्षः । अन्येषां तु संस्काररूपावस्थामपहाय या कैवल्यावस्थावाप्तिरात्मनः स मोक्ष इति विकार्यो मोक्षः । यथा पयसः पूर्वावस्थापहानेनावस्थान्तरप्राप्तिर्विकारो दधीति । तदेतयोः पक्षयोरनित्यता मोक्षस्य, कार्यत्वात् , दधिघटादिवत् ।
अथ “यदतः परो दिवो ज्योतिर्दीप्यते”(छा. उ. ३-१३-७) इति श्रुतेर्ब्रह्मणो विकृताविकृतदेशभेदावगमादविकृतदेशब्रह्मप्राप्तिरूपासनादिविधिकार्या भविष्यति । तथा च प्राप्यकर्मता ब्रह्मण इत्यत आह -
न चाप्यत्वेनापीति ।
अन्यदन्येन विकृतदेशपरिहाण्याविकृतदेशं प्राप्यते । तद्यथोपवेलं जलधिरतिबहलचपलकल्लोलमालापरस्परास्फालनसमुल्लसत्फेनपुञ्जस्तबकतया विकृतः, मध्ये तु प्रशान्तसकलकल्लोलोपसर्गः स्वस्थः स्थिरतयाविकृतस्तस्य मध्यमविकृतं पौतिकः पोतेन प्राप्नोति । जीवस्तु ब्रह्मैवेति किं केन प्राप्यताम् । भेदाश्रयत्वात्प्राप्तिरित्यर्थः ।
अथ जीवो ब्रह्मणो भिन्नस्तथापि न तेन ब्रह्माप्यते, ब्रह्मणो विभुत्वेन नित्यप्राप्तत्वादित्याह -
स्वरूपव्यतिरिक्तत्वेऽपीति ।
संस्कारकर्मतामपाकरोति -
नापि संस्कार्य इति ।
द्वयी हि संस्कार्यता, गुणाधानेन वा, यथा बीजपूरकुसुमस्य लाक्षारसावसेकः, तेन हि तत्कुसुमं संस्कृतं लाक्षारससवर्णं फलं प्रसूते । दोषापनयेन वा यथा मलिनमादर्शतलं निघृष्टमिष्टकाचूर्णेनोद्भासितभास्वरत्वं संस्कृतं भवति । तत्र न तावद्ब्रह्मणि गुणाधानं सम्भवति । गुणो हि ब्रह्मणः स्वभावो वा भिन्नो वा । स्वभावश्चेत्कथमाधेयः, तस्य नित्यवात् । भिन्नत्वे तु कार्यत्वेन मोक्षस्यानित्यत्वप्रसङ्गः । न च भेदे धर्मधर्मिभावः, गवाश्ववत् । भेदाभेदश्च व्युदस्तः, विरोधात् ।
तदनेनाभिसन्धिनोक्तम् -
अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्य ।
द्वितीयं पक्षं प्रतिक्षिपति -
नापि दोषापनयनेनेति ।
अशुद्धिः सती दर्पणे निवर्तते, न तु ब्रह्मणि असतिति निवर्तनीया । नित्यनिवृत्तत्वादित्यर्थः ।
शङ्कते -
स्वात्मधर्म एवेति ।
ब्रह्मस्वभाव एव मोक्षोऽनाद्यविद्यामलावृत उपासनादिक्रिययात्मनि संस्क्रियमाणेऽभिव्यज्यते, न तु क्रियते । एतदुक्तं भवति नित्यशुद्धत्वमात्मनोऽसिद्धम् , संसारावस्थायामविद्यामलिनत्वादिति ।
शङ्कां निराकरोति -
न ।
कुतः,
क्रियाश्रयत्वानुपपत्तेः ।
नाविद्या ब्रह्माश्रया, किं तु जीवे, सा त्वनिर्वचनीयेत्युक्तम् , तेन नित्यशुद्धमेव ब्रह्म । अभ्युपेत्य त्वशुद्धिं क्रियासंस्कार्यत्वं दूष्यते । क्रिया हि ब्रह्मसमवेता वा ब्रह्म संस्कुर्यात् , यथा निघर्षणमिष्टकाचूर्णसंयोगविभागप्रचयो निरन्तर आदर्शतलसमवेतः । अन्यसमवेता वा । न तावद्ब्रह्मधर्मः क्रिया, तस्याः स्वाश्रयविकारहेतुत्वेन ब्रह्मणो नित्यत्वव्याघातात् । अन्याश्रया तु कथमन्यस्योपकरोति, अतिप्रसङ्गात् । न हि दर्पणे निघृष्यमाणे मणिर्विशुद्धो दृष्टः ।
तच्चानिष्टमिति ।
तदा बाधनं परामृशति ।
अत्र व्यभिचारं चोदयति -
ननु देहाश्रययेति ।
परिहरति -
न ।
देहसंहतस्येति ।
अनाद्यनिर्वाच्याविद्योपधानमेव ब्रह्मणो जीव इति च क्षेत्रज्ञ इति चाचक्षते । स च स्थूलसूक्ष्मशरीरेन्द्रियादिसंहतस्तत्सङ्घातमध्यपतितस्तदभेदेनाहमितिप्रत्ययविषयीभूतः, अतः शरीरादिसंस्कारः शरीरादिधर्मोऽप्यात्मनो भवति, तदभेदाध्यवसायात् । यथा अङ्गरागधर्मः सुगन्धिता कामिनीनां व्यपदिश्यते । तेनात्रापि यदाश्रिता क्रिया सांव्यवहारिकप्रमाणविषयीकृता तस्यैव संस्कारो नान्यस्येति न व्यभिचारः । तत्त्वतस्तु न क्रिया न संस्कार इति । सनिदर्शनं तु शेषमध्यासभाष्ये एव कृतव्याख्यानमिति नेह व्याख्यातम् ।
तयोरन्यः पिप्पलमिति ।
अन्यो जीवात्मा । पिप्पलं कर्मफलम् ।
अनश्नन्नन्य इति ।
परमात्मा ।
संहतस्यैव भोक्तृत्वमाह मन्त्रवर्णः -
आत्मेन्द्रियेति ।
अनुपहितशुद्धस्वभावब्रह्मप्रदर्शनपरौ मन्त्रौ पठति -
एको देव इति ।
शुक्रं दीप्तिमत् । अव्रणं दुःखरहितम् । अस्राविरम् अविगलितम् । अविनाशीति यावत् ।
उपसंहरति -
तस्मादिति ।
ननु मा भून्निर्वर्त्यादिकर्मताचतुष्टयी । पञ्चमी तु काचित् विधा भविष्यति, यया मोक्षस्य कर्मता घटिष्यत इत्यत आह -
अतोऽन्यदिति ।
एभ्यः प्रकारेभ्यो न प्रकारान्तरमन्यदस्ति, यतो मोक्षस्य क्रियानुप्रवेशो भविष्यति ।
एतदुक्तं भवति - चतसृणां विधानां मध्येऽन्यतमतया क्रियाफलत्वं व्याप्तम् , सा च मोक्षाद्व्यावर्तमाना व्यापकानुपलब्ध्या मोक्षस्य क्रियाफलत्वं व्यावर्तयतीति । तत्किं मोक्षे क्रियैव नास्ति, तथा च तदर्थानि शास्त्राणि तदर्थाश्च प्रवृत्तयोऽनर्थिका इत्यत उपसंहारव्याजेनाह -
तस्माज्ज्ञानमेकमिति ।
अथ ज्ञानं क्रिया मानसी कस्मान्न विधिगोचरः, कस्माच्च तस्याः फलं निर्वर्त्यादिष्वन्यतमं न मोक्ष इति चोदयति -
ननु ज्ञानमिति ।
परिहरति -
न ।
कुतः
वैलक्षण्यात् ।
अयमर्थः - सत्यम् , ज्ञानं मानसी क्रिया, न त्वियं ब्रह्मणि फलं जनयितुमर्हति, तस्य स्वयम्प्रकाशतया विदिक्रियाकर्मभावानुपपत्तेरित्युक्तम् ।
तदेतस्मिन्वैलक्षण्ये स्थिते एव वैलक्षण्यान्तरमाह -
क्रिया हि नाम सेति ।
यत्र
विषये
वस्तुस्वरूपनिरपेक्षैव चोद्यते ।
यथा देवतासम्प्रदानकहविर्ग्रहणे देवतावस्तुस्वरूपानपेक्षा देवताध्यानक्रिया । यथा वा योषिति अग्निवस्त्वनपेक्षाग्निबुद्धिर्या सा क्रिया हि नामेति योजना । न हि “यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्”(ऐ . ब्रा. ३ । ८ । १) इत्यस्माद्विधेः प्राग्देवताध्यानं प्राप्तम् , प्राप्तं त्वधीतवेदान्तस्य विदितपदतदर्थसम्बन्धस्याधिगतशब्दन्यायतत्त्वस्य “सदेव सोम्येदम्”(छा. उ. ६ । २ । १) इत्यादेः “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्यन्तात्सन्दर्भात् ब्रह्मात्मभावज्ञानम् , शब्दप्रमाणसामर्थ्यात् , इन्द्रियार्थसंनिकर्षसामर्थ्यादिव प्रणिहितमनसः स्फीतालोकमध्यवर्तिकुम्भानुभवः । न ह्यसौ स्वसामग्रीबललब्धजन्मा सन्मनुजेच्छयान्यथाकर्तुमकर्तुं वा शक्यः, देवताध्यानवत् , येनार्थवानत्र विधिः स्यात् । न चोपासना वानुभवपर्यन्तता वास्य विधेर्गोचरः, तयोरन्वयव्यतिरेकावधृतसामर्थ्ययोः साक्षात्कारे वा अनाद्यविद्यापनये वा विधिमन्तरेण प्राप्तत्वेन पुरुषेच्छयान्यथाकर्तुमकर्तुं वा अशक्यत्वात् । तस्माद्ब्रह्मज्ञानं मानसी क्रियापि न विधिगोचरः । पुरुषचित्तव्यापाराधीनायास्तु क्रियाया वस्तुस्वरूपनिरपेक्षता क्वचिदविरोधिनी, यथा देवताध्यानक्रियायाः । न ह्यत्र वस्तुस्वरूपेण कश्चिद्विरोधः । क्वचिद्वस्तुस्वरूपविरोधिनी, यथा योषित्पुरुषयोरग्निबुद्धिरित्येतावता भेदेन निदर्शनमिथुनद्वयोपन्यासः । क्रियैवेत्येवकारेण वस्तुतन्त्रत्वमपाकरोति ।
ननु “आत्मेत्येवोपासीत”(बृ. उ. १ । ४ । ७) इत्यादयो विधयः श्रूयन्ते । न च प्रमत्तगीताः, तुल्यं हि साम्प्रदायिकम् , तस्माद्विधेयेनात्र भवितव्यमित्यत आह -
तद्विषया लिङादय इति ।
सत्यं श्रूयन्ते लिङादयः, न त्वमी विधिविषयाः, तद्विषयत्वेऽप्रामाण्यप्रसङ्गात् । हेयोपादेयविषयो हि विधिः । स एव च हेय उपादेयो वा, यं पुरुषः कर्तुमकर्तुमन्यथा वा कर्तुं शक्नोति । तत्रैव च समर्थः कर्ताधिकृतो नियोज्यो भवति । न चैवम्भूतान्यात्मश्रवणमननोपासनदर्शनानीति विषयतदनुष्ठात्रोर्विधिव्यापकयोरभावाद्विधेरभाव इति प्रयुक्ता अपि लिङादयः प्रवर्तनायामसमर्था उपल इव क्षुरतैक्ष्ण्यं कुण्ठमप्रमाणीभवितुमर्हन्तीति ।
अनियोज्यविषयत्वादिति ।
समर्थो हि कर्ताधिकारी नियोज्यः । असामर्थ्ये तु न कर्तृता यतो नाधिकृतोऽतो न नियोज्य इत्यर्थः ।
यदि विधेरभावान्न विधिवचनानि, किमर्थानि तर्हि वचनान्येतानि विधिच्छायानीति पृच्छति -
किमर्थानीति ।
न चानर्थकानि युक्तानि, स्वाध्यायाध्ययनविध्यधीनग्रहणत्वानुपपत्तेरिति भावः ।
उत्तरम् -
स्वाभाविकेति ।
अन्यतः प्राप्ता एव हि श्रवणादयो विधिसरूपैर्वाक्यैरनूद्यन्ते । न चानुवादोऽप्यप्रयोजनः, प्रवृत्तिविशेषकरत्वात् । तथाहि - तत्तदिष्टानिष्टविषयेप्साजिहासापहृतहृदयतया बहिर्मुखो न प्रत्यगात्मनि समाधातुमर्हति । आत्मश्रवणादिविधिसरूपैस्तु वचनैर्मनसो विषयस्रोतः खिलीकृत्य प्रत्यगात्मस्रोत उद्घाट्यत इति प्रवृत्तिविशेषकरता अनुवादानामस्तीति सप्रयोजनतया स्वाध्यायविध्यधीनग्रहणत्वमुपपद्यत इति ।
यच्च चोदितमात्मज्ञानमनुष्ठानानङ्गत्वादपुरुषार्थमिति तदयुक्तम् । स्वतोऽस्य पुरुषार्थत्वे सिद्धे यदनुष्ठानानङ्गत्वं तद्भूषणं न दूषणमित्याह -
यदपीति ।
अनुसञ्ज्वरेत्
शरीरं परितप्यमानमनुतप्येत । सुगममन्यत् ।
प्रकृतमुपसंहरति -
तस्मान्न प्रतिपत्तीति ।
प्रकृतिसिद्ध्यर्थमेकदेशिमतं दूषयितुमनुभाषते -
यदपि केचिदाहुरिति ।
दूषयति -
तन्नेति ।
इदमत्राकूतम् - “कार्यबोधे यथा चेष्टा लिङ्गं हर्षादयस्तथा । सिद्धबोधेऽर्थवत्तैवं शास्त्रत्वं हितशासनात्” ॥ यदि हि पदानां कार्याभिधाने तदन्वितस्वार्थाभिधाने वा, नियमेन वृद्धव्यवहारात्सामर्थ्वमवधृतं भवेत् , न भवेदहेयोपादेयभूतब्रह्मात्मतापरत्वमुपनिषदाम् । तत्राविदितसामर्थ्यत्वात्पदानां लोके, तत्पूर्वकत्वाच्च वैदिकार्थप्रतीतेः । अथ तु भूतेऽप्यर्थे पदानां लोके शक्यः सङ्गतिग्रहस्तत उपनिषदान्तत्परत्वं पौर्वापर्यपर्यालोचनयावगम्यमानमपहृत्य न कार्यपरत्वं शक्यं कल्पयितुम् , श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् । तत्र तावदेवमकार्येऽर्थे न सङ्गतिग्रहः, यदि तत्परः प्रयोगो न लोके दृश्येत, तत्प्रत्ययो वा व्युत्पन्नस्योन्नेतुं न शक्येत । न तावत्तत्परः प्रयोगो न दृश्यते लोके । कुतूहलभयादिनिवृत्त्यर्थानामकार्यपराणां पदसन्दर्भाणां प्रयोगस्य लोके बहुलमुपलब्धेः । तद्यथाखण्डलादिलोकपालचक्रवालाधिवसतिः, सिद्धविद्याधरगन्धर्वाप्सरःपरिवारो ब्रह्मलोकावतीर्णमन्दाकिनीपयःप्रवाहपातधौतकलधौतमयशिलातलो नन्दनादिप्रमदावनविहारिमणिमयशकुन्तकमनीयनिनदमनोहरः पर्वतराजः सुमेरुरिति । नैष भुजङ्गो रज्जुरियमित्यादिः । नापि भूतार्थबुद्धिर्व्युत्पन्नपुरुषवर्तिनी न शक्या समुन्नेतुम् , हर्षादेरुन्नयनहोतोः सम्भवात् । तथा ह्यविदितार्थदेशजनभाषार्थो द्रविडो नगरगमनोद्यतो राजमार्गाभ्यर्णं देवदत्तमन्दिरमध्यासीनः प्रतिपन्नजनकानन्दनिबन्धनपुत्रजन्मा वार्त्ताहारेण सह नगरस्थदेवदत्ताभ्याशमागतः पटवासोपायनार्पणपुरःसरं दिष्ट्या वर्धसे देवदत्त पुत्रस्ते जातैति वार्त्ताहारव्याहारश्रवणसमनन्तरमुपजातरोमाञ्चकञ्चुकं विकसितनयनोत्पलमतिस्मेरमुखमहोत्पलमवलोक्य देवदत्तमुत्पन्नप्रमोदमनुमिमीते, प्रमोदस्य च प्रागभूतस्य तद्व्याहारश्रवणसमनन्तरं प्रभवतस्तद्धेतुताम् । न चायमप्रतिपादयन् हर्षहेतुमर्थं हर्षाय कल्पत इत्यनेन हर्षहेतुरर्थ उक्त इति प्रतिपद्यते । हर्षहेत्वन्तरस्य चाप्रतीतेः पुत्रजन्मनश्च तद्धेतोरवगमात्तदेव वार्त्ताहारेणाभ्यधायीति निश्चिनोति । एवं भयशोकादयोऽप्युदाहार्याः । तथा च प्रयोजनवत्तया भूतार्थाभिधानस्य प्रेक्षावत्प्रयोगोऽप्युपपन्नः । एवं च ब्रह्मस्वरूपज्ञानस्य परमपुरुषार्थहेतुभावादनुपदिशतामपि पुरुषप्रवृत्तिनिवृत्ती वेदान्तानां पुरुषहितानुशासनाच्छास्त्रत्वं सिद्धं भवति । तत्सिद्धमेतत् , विवादाध्यासितानि वचनानि भूतार्थविषयाणि, भूतार्थविषयप्रमाजनकत्वात् । यद्यद्विषयप्रमाजनकं तत्तद्विषयं, यथा रूपादिविषयं चक्षुरादि, तथा चैतानि, तस्मात्तथेति ।
तस्मात्सुष्ठूक्तम् -
तन्न, औपनिषदस्य पुरुषस्यानन्यशेषत्वादिति ।
उपनिपूर्वात्सदेर्विशरणार्थात्क्विप्युपनिषत्पदं व्युत्पादितम् , उपनीय अद्वयं ब्रह्म सवासनामविद्यां हिनस्तीति ब्रह्मविद्यामाह । तद्धेतुत्वाद्वेदान्ता अप्युपनिषदः, ततो विदितः औपनिषदः पुरुषः ।
एतदेव विभजते -
योऽसावुपनिषत्स्वेवेति ।
अहंप्रत्ययविषयाद्भिनत्ति -
असंसारीति ।
अत एव क्रियारहितत्वाच्चतुर्विधद्रव्यविलक्षणः अतश्च चतुर्विधद्रव्यविलक्षणोपेतोऽयमनन्यशेषः, अन्यशेषं हि भूतं द्रव्यं चिकीर्षितं सदुत्पत्त्याद्याप्यं सम्भवति । यथा ‘यूपं तक्षति’ इत्यादि । यत्पुनरन्यशेषं भूतभाव्युपयोगरहितम् , यथा ‘सुवर्णं भार्यम्’ , ‘सक्तून् जुहोति’ इत्यादि, न तस्योत्पत्त्याद्याप्यता ।
कस्मात्पुनरस्यानन्यशेषतेत्यत आह -
यतःस्वप्रकरणस्थः ।
उपनिषदामनारभ्याधीतानां पौर्वापर्यपर्यालोचनया पुरुषप्रतिपादनपरत्वेन पुरुषस्यैव प्राधान्येनेदं प्रकरणम् । न च जुह्वादिवदव्यभिचरितक्रतुसम्बन्धः पुरुष इत्युपपादितम् । अतः स्वप्रकरणस्थः सोऽयं तथाविध उपनिषद्भ्यः प्रतीयमानो न नास्तीति शक्यो वक्तुमित्यर्थः ।
स्यादेतत् - मानान्तरागोचरत्वेनागृहीतसङ्गतितया अपदार्थस्य ब्रह्मणो वाक्यार्थत्वानुपपत्तेः कथमुपनिषदर्थतेत्यत आह -
स एष नेति नेत्यात्मेत्यात्मशब्दात् ।
यद्यपि गवादिवन्मानान्तरगोचरत्वमात्मनो नास्ति, तथापि प्रकाशात्मन एव सतस्तत्तदुपाधिपरिहाण्या शक्यं वाक्यार्थत्वेन निरूपणम् , हाटकस्येव कटककुण्डलादिपरिहाण्या । नहि प्रकाशः स्वसंवेदनो न भासते, नापि तदवच्छेदकः कार्यकारणसङ्घातः । तेन “स एष नेति नेत्यात्मा”(बृ. उ. ३ । ९ । २६) इति तत्तदवच्छेदपरिहाण्या बृहत्त्वादापनाच्च स्वयम्प्रकाशः शक्यो वाक्यात् ब्रह्मेति चात्मेति च निरूपयितुमित्यर्थः ।
अथोपाधिनिरासवदुपहितमप्यात्मरूपं कस्मान्न निरस्यत इत्यत आह -
आत्मनश्च प्रत्याख्यातुमशक्यत्वात् ।
प्रकाशो हि सर्वस्यात्मा तदधिष्ठानत्वाच्च प्रपञ्चविभ्रमस्य । न चाधिष्ठानाभावे विभ्रमो भवितुमर्हति । न हि जातु रज्ज्वभावे रज्ज्वां भुजङ्ग इति वा धारेति वा विभ्रमो दृष्टपूर्वः । अपि चात्मानः प्रकाशस्य भासा प्रपञ्चस्य प्रभा । तथा च श्रुतिः - “तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति”(क.उ.२-२-१५) इति । न चात्मनः प्रकाशस्य प्रत्याख्याने प्रपञ्चप्रथा युक्ता । तस्मादात्मनः प्रत्याख्यानायोगाद्वेदान्तेभ्यः प्रमाणान्तरागोचरसर्वोपाधिरहितब्रह्मस्वरूपावगतिसिद्धिरित्यर्थः ।
उपनिषत्स्वेवावगत इत्यवधारणममृष्यमाण आक्षिपति -
नन्वात्मेति ।
सर्वजनीनाहंप्रत्ययविषयो ह्यात्मा कर्ता भोक्ता च संसारी, तत्रैव च लौकिकपरीक्षकाणामात्मपदप्रयोगात् । य एव लौकिकाः शब्दास्त एव वैदिकास्त एव च तेषामर्था इत्यौपनिषदमप्यात्मपदं तत्रैव प्रवर्तितुमर्हति, नार्थान्तरे तद्विपरीत इत्यर्थः ।
समाधत्ते -
न
अहंप्रत्ययविषय औपनिषदः पुरुषः ।
कुतः
तत्साक्षित्वेन ।
अहंप्रत्ययविषयो यः कर्ता कार्यकरणसङ्घातोपहितो जीवात्मातत्साक्षित्वेन, परमात्मनोऽहंप्रत्ययविषयत्वस्य -
प्रत्युक्तत्वात् ।
एतदुक्तं भवति - यद्यपि “अनेन जीवेनात्मना”(छा. उ. ६ । ३ । २) इति जीवपरमात्मनोः पारमार्थिकमैक्यम् , तथापि तस्योपहितं रूपं जीवः, शुद्धं तु रूपं तस्य साक्षितच्च मानान्तरानधिगतमुपनिषद्गोचर इति ।
एतदेव प्रपञ्चयति -
न ह्यहंप्रत्ययविषयेति ।