अद्वैतशारदा

भामतीव्याख्या

१ परिच्छेदः

व्याख्याः

भामतीव्याख्या श्रीवा­च­स्प­ति­मि­श्र­प्र­णीता । ।

अनि­र्वा­च्या­वि­द्या­द्वि­त­य­स­चि­वस्य प्रभवतो विवर्ता यस्यैते विय­द­नि­ल­ते­जोऽ­ब­व­नयः ।
यत­श्चा­भू­द्विश्वं चर­म­च­र­मु­च्चा­व­च­मिदं नमा­म­स्त­द्ब्र­ह्मा­प­रि­मि­त­सु­ख­ज्ञा­न­म­मृ­तम् ॥ १ ॥
निःश्वसितमस्य वेदा वीक्षितमेतस्य पञ्च भूतानि ।
स्मितमेतस्य चराचरमस्य च सुप्तं महाप्रलयः ॥ २ ॥
षड्भि­र­ङ्गै­रु­पे­ताय विविधैरव्ययैरपि ।
शाश्वताय नमस्कुर्मो वेदाय च भवाय च ॥ ३ ॥
मार्त­ण्ड­ति­ल­क­स्वा­मि­म­हा­ग­ण­प­तीन् वयम् ।
विश्व­व­न्द्या­न्न­म­स्यामः सर्व­सि­द्धि­वि­धा­यिनः ॥ ४ ॥
ब्रह्मसूत्रकृते तस्मै वेदव्यासाय वेधसे ।
ज्ञान­श­क्त्य­व­ता­राय नमो भगवतो हरेः ॥ ५ ॥
नत्वा विशुद्धविज्ञानं शङ्करं करुणानिधिम् ।
भाष्यं प्रसन्नगम्भीरं तत्प्रणीतं विभज्यते ॥ ६ ॥
आचा­र्य­कृ­ति­नि­वे­श­न­म­प्य­व­धूतं वचोऽस्मदादीनाम् ।
रथ्योदकमिव गङ्गाप्रवाहपातः पवित्रयति ॥ ७ ॥

अथ यद­स­न्दि­ग्ध­म­प्र­यो­जनं च न तत्प्रे­क्षा­व­त्प्र­ति­पि­त्सा­गो­चरः, यथा सम­न­स्के­न्द्रि­य­सं­नि­कृष्टः स्फीता­लो­क­म­ध्य­वर्ती घटः, करटदन्ता वा तथा चेदं ब्रह्मेति व्याप­क­वि­रु­द्धो­प­लब्धिः । तथा हि ‘बृह­त्त्वा­द्बृं­ह­ण­त्वा­द्वा­त्मैव’ ब्रह्मेति गीयते । स चाय­मा­की­ट­प­त­ङ्गेभ्य आ च देवर्षिभ्यः प्राण­भृ­न्मा­त्र­स्ये­द­ङ्का­रा­स्प­देभ्यो देहे­न्द्रि­य­म­नो­बु­द्धि­वि­ष­येभ्यो विवेकेन ’ अहम्'' इत्य­स­न्दि­ग्धा­वि­प­र्य­स्ता­प­रो­क्षा­नु­भ­व­सिद्ध इति न जिज्ञासास्पदम् । न हि जातु कश्चिदत्र सन्दिग्धेऽहं वा नाहं वेति । न च विपर्यस्यति नाहमेव इति । न च अहं कृशः, स्थूलः, गच्छामि इत्या­दि­दे­ह­ध­र्म­सा­मा­ना­धि­क­र­ण्य­द­र्श­ना­द्दे­हा­ल­म्ब­नोऽ­य­म­ह­ङ्कार इति साम्प्रतम् । तदालम्बनत्वे हि योऽहं बाल्ये पितरावन्वभवं स एव स्थाविरे प्रण­प्तॄ­न­नु­भ­वा­मीति प्रतिसन्धानं न भवेत् । न हि बालस्थविरयोः शरीरयोरस्ति मनागपि प्रत्य­भि­ज्ञा­न­गन्धो येनै­क­त्व­म­ध्य­व­सी­येत । तस्माद्येषु व्यावर्तमानेषु यदनुवर्तते तत्तेभ्यो भिन्नं यथा च कुसुमेभ्यः सूत्रम् । तथा बालादिशरीरेषु व्याव­र्त­मा­ने­ष्वपि परं पर­म­ह­ङ्का­रा­स्प­द­म­नु­व­र्त­मानं तेभ्यो भिद्यते । अपि च स्वप्नान्ते दिव्य­श­री­र­भे­द­मा­स्थाय तदु­चि­ता­न्भो­गा­न्भु­ञ्जान एव प्रतिबुद्धो मनु­ष्य­श­री­र­मा­त्मानं पश्यन् ‘नाहं देवो मनुष्य एव’ इति देवशरीरे बाध्य­मा­नेऽ­प्य­ह­मा­स्प­द­म­बा­ध्य­मानं शरीराद्भिन्नं प्रतिपद्यते । अपि च योगव्याघ्रः शरी­र­भे­देऽ­प्या­त्मा­न­म­भि­न्न­म­नु­भ­व­तीति नाहङ्कारालम्बनं देहः । अत एव नेन्द्रि­या­ण्य­प्य­स्या­ल­म्ब­नम् , इन्द्रियभेदेऽपि ‘योऽहमद्राक्षं स एवैतर्हि स्पृशामि’ इत्यहमालम्बनस्य प्रत्य­भि­ज्ञा­नात् । विष­ये­भ्य­स्त्वस्य विवेकः स्थवीयानेव । बुद्धिमनसोश्च करणयोः अहम् इति कर्तृ­प्र­ति­भा­स­प्र­ख्या­ना­ल­म्ब­न­त्वा­योगः । ‘कृशोऽहम्’ ’ अन्धोऽहम्’ इत्यादयश्च प्रयोगा असत्यप्यभेदे कथञ्चिन्मञ्चाः क्रोशन्ति इत्या­दि­व­दौ­प­चा­रिका इति युक्त­मु­त्प­श्यामः । तस्मा­दि­द­ङ्का­रा­स्प­देभ्यो देहे­न्द्रि­य­म­नो­बु­द्धि­वि­ष­येभ्यो व्यावृत्तः, स्फुट­त­रा­ह­म­नु­भ­व­गम्य आत्मा संश­या­भा­वा­द­जि­ज्ञास्य इति सिद्धम् । अप्रयोजनत्वाच्च । तथा हि - संसा­र­नि­वृ­त्ति­र­प­वर्ग इह प्रयोजनं विवक्षितम् । संसारश्च आत्म­या­था­त्म्या­न­नु­भ­व­नि­मित्त आत्म­या­था­त्म्य­ज्ञा­नेन निवर्तनीयः । स चेद­य­म­ना­दि­र­ना­दिना आत्म­या­था­त्म्य­ज्ञा­नेन सहानुवर्तते, कुतोऽस्य निवृ­त्ति­र­वि­रो­धात् ? कुत­श्चा­त्म­या­था­त्म्या­न­नु­भवः ? न हि अहम् इत्य­नु­भ­वा­द­न्य­दा­त्म­या­था­त्म्य­ज्ञा­न­मस्ति । न च अहम् इति सर्व­ज­नी­न­स्फु­ट­त­रा­नु­भ­व­स­म­र्थित आत्मा देहे­न्द्रि­या­दि­व्य­ति­रिक्तः शक्य उपनिषदां सह­स्रै­र­प्य­न्य­थ­यि­तुम् , अनुभवविरोधात् । न ह्यागमाः सहस्रमपि घटं पटयितुमीशते । तस्मा­द­नु­भ­व­वि­रो­धा­दु­प­च­रि­तार्था एवोपनिषद इति युक्तमुत्पश्याम इत्या­श­य­वा­ना­शङ्क्य परिहरति -
युष्म­द­स्म­त्प्र­त्य­य­गो­च­रयोः इति ।
अत्र च युष्म­द­स्म­दि­त्या­दि­र्मि­थ्या­भ­वितुं युक्तमित्यन्तः शङ्काग्रन्थः । तथा­पी­त्या­दि­प­रि­हा­र­ग्रन्थः । तथा­पी­त्य­भि­स­म्ब­न्धा­च्छ­ङ्कायां यद्यपीति पठितव्यम् । इद­म­स्म­त्प्र­त्य­य­गो­च­र­यो­रिति वक्तव्ये युष्म­द्ग्र­ह­ण­म­त्य­न्त­भे­दो­प­ल­क्ष­णा­र्थम् । यथा ह्यह­ङ्का­र­प्र­ति­योगी त्वङ्कारो नैवमिदङ्कारः, एते वयमिमे वयमास्महे इति बहुलं प्रयो­ग­द­र्श­ना­दिति । चित्स्वभाव आत्मा विषयी, जडस्वभावा बुद्धी­न्द्रि­य­दे­ह­वि­षया विषयाः । एते हि चिदात्मानं विसिन्वन्ति अवबध्नन्ति । स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत् । पर­स्प­रा­न­ध्या­स­हे­ता­व­त्य­न्त­वै­ल­क्षण्ये दृष्टान्तः -
तमः प्रकाशवदिति ।

न हि जातु कश्चि­त्स­मु­दा­च­र­द्वृ­त्तिनी प्रकाशतमसी परस्परात्मतया प्रति­प­त्तु­म­र्हति । तदिदमुक्तम् -
इत­रे­त­र­भा­वा­नु­प­प­त्ता­विति ।
इतरेतरभावः इतरेतरत्वम् , तादात्म्यमिति यावत् तस्या­नु­प­प­त्ता­विति । स्यादेतत् । मा भूद्धर्मिणोः परस्परभावः तद्धर्माणां तु जाड्य­चै­त­न्य­नि­त्य­त्वा­नि­त्य­त्वा­दी­ना­मि­त­रे­त­रा­ध्यासो भविष्यति ।

दृश्यते हि धर्मि­णो­र्वि­वे­क­ग्र­ह­णेऽपि तद्ध­र्मा­णा­म­ध्यासः, यथा कुसुमाद्भेदेन गृह्यमाणेऽपि स्फटि­क­म­णा­व­ति­स्व­च्छ­तया जपा­कु­सु­म­प्र­ति­बि­म्बो­द्ग्रा­हि­ण्य­रुणः स्फटि­कै­त्या­रु­ण्य­वि­भ्रम इत्यत उक्तम् -
तद्धर्माणामपीति ।
इतरेतरत्र धर्मिणि धर्माणां भावो विनि­म­य­स्त­स्या­नु­प­पत्तिः । अयमभिसन्धिः - रूपवद्धि द्रव्य­म­ति­स्व­च्छ­तया रूपवतो द्रव्यान्तरस्य तद्विवेकेन गृह्यमाणस्यापि छायां गृह्णीयात् , चिदात्मा त्वरूपो विषयी न विष­य­च्छा­या­मु­द्ग्रा­ह­यि­तु­म­र्हति । यथाहुः -'शब्द­ग­न्ध­र­सानां च कीदृशी प्रतिबिम्बता” इति । तदिह पारि­शे­ष्या­द्वि­ष­य­वि­ष­यि­णो­र­न्यो­न्या­त्म­स­म्भे­दे­नैव तद्धर्माणामपि परस्परसम्भेदेन विनिमयात्मना भवितव्यम् , तौ चेद्ध­र्मि­णा­व­त्य­न्त­वि­वे­केन गृह्य­मा­णा­व­स­म्भिन्नौ, असम्भिन्नाः सुतरां तयोर्धर्माः, स्वाश्रयाभ्यां व्यवधानेन दूरापेतत्वात् ।

तदिदमुक्तम् -
सुतरामिति ।

तद्विपर्ययेणेति ।
विष­य­वि­प­र्य­ये­णे­त्यर्थः । मिथ्या­श­ब्दोऽ­प­ह्न­व­व­चनः । एतदुक्तं भवति - अध्यासो भेदाग्रहेण व्याप्तः, तद्वि­रु­द्ध­श्चे­हास्ति भेदग्रहः, स भेदाग्रहं निव­र्त­यं­स्त­द्व्या­प्त­म­ध्या­स­मपि निवर्तयतीति । मिथ्येति भवितुं युक्तं यद्यपि तथापीति योजना ।। इदमत्राकूतम् - भवेदेतदेवं यद्यहमित्यनुभवे आत्मतत्वं प्रकाशेत । न त्वेतदस्ति । तथाहि सम­स्तो­पा­ध्य­न­व­च्छि­न्ना­न­न्ता­न­न्द­चै­त­न्यै­क­र­स­मु­दा­सी­न­मे­क­म­द्वि­ती­य­मा­त्म­तत्त्वं श्रुति­स्मृ­ती­ति­हा­स­पु­रा­णेषु गीयते । न चैता­न्यु­प­क्र­म­प­रा­म­र्शो­प­सं­हारैः क्रिया­स­म­भि­हा­रे­णे­दृ­गा­त्म­त­त्त्व­म­भि­द­धति तत्पराणि सन्ति शक्यानि शक्रे­णा­प्यु­प­च­रि­ता­र्थानि कर्तुम् । अभ्यासे हि भूयस्त्वमर्थस्य भवति, यथाहो दर्शनीयाहो दर्शनीयेति न न्यूनत्वं, प्रागे­वो­प­च­रि­त­त्व­मिति । अहमनुभवस्तु प्रादे­शि­क­म­ने­क­वि­ध­शो­क­दुः­खा­दि­प्र­प­ञ्चो­प­प्लु­त­मा­त्मा­न­मा­द­र्श­यन् कथ­मा­त्म­त­त्त्व­गो­चरः कथं वानुपप्लवः । न च ज्येष्ठ­प्र­मा­ण­प्र­त्य­क्ष­वि­रो­धा­दा­म्ना­य­स्यैव तद­पे­क्ष­स्या­प्रा­मा­ण्य­मु­प­च­रि­ता­र्थत्वं चेति युक्तम् , तस्यापौरुषेयतया निर­स्त­स­म­स्त­दो­षा­श­ङ्कस्य, बोधकतया स्वतः­सि­द्ध­प्र­मा­ण­भा­वस्य स्वकार्ये प्रमि­ता­व­न­पे­क्ष­त्वात् । प्रमि­ता­व­न­पे­क्ष­त्वेऽ­प्यु­त्पत्तौ प्रत्य­क्षा­पे­क्ष­त्वा­त्त­द्वि­रो­धा­द­नु­त्प­त्ति­ल­क्ष­ण­म­प्रा­मा­ण्य­मिति चेन्न । उत्पा­द­का­प्र­ति­द्व­न्द्वि­त्वात् । न ह्यागमज्ञानं सांव्यवहारिकं प्रत्यक्षस्य प्रामा­ण्य­मु­प­हन्ति येन कारणाभावान्न भवेदपि तु तात्त्विकम् । न च तत्त­स्यो­त्पा­द­कम् । अता­त्त्वि­क­प्र­मा­ण­भा­वे­भ्योऽपि सांव्य­व­हा­रि­क­प्र­मा­णे­भ्य­स्त­त्त्व­ज्ञा­नो­त्प­त्ति­द­र्श­नात् । तथा च वर्णे ह्रस्व­त्व­दी­र्घ­त्वा­द­योऽ­न्य­धर्मा अपि समारोपिताः तत्त्व­प्र­ति­प­त्ति­हे­तवः । न हि लौकिकाः नाग इति वा नग इति वा पदात्कुञ्चरं वा तरुं वा प्रतिपद्यमाना भवन्ति भ्रान्ताः । न चानन्यपरं वाक्यं स्वार्थ­मु­प­च­रि­तार्थं युक्तम् । उक्तं हि ‘न विधौ परः शब्दार्थ’ इति । ज्येष्ठत्वं च अनपेक्षितस्य बाध्यत्वे हेतुः न तु बाधकत्वे, रजतज्ञानस्य ज्यायसः शुक्तिज्ञानेन कनीयसा बाधदर्शनात् । तदनपबाधने तद­प­बा­धा­त्म­न­स्त­स्यो­त्प­त्ते­र­नु­त्पत्तेः । दर्शितं च तात्त्वि­क­प्र­मा­ण­भा­व­स्या­न­पे­क्षि­त­त्वम् । तथा च पारमर्षं सूत्रं, “पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्”(आ. ६ पा. ५ सू. ५४) इति । तथा “पूर्वा­त्प­र­ब­ली­यस्त्वं तत्र नाम प्रतीयताम् । अन्यो­न्य­नि­र­पे­क्षाणां यत्र जन्म धियां भवेत्” ॥ इति । अपि च येऽप्य­ह­ङ्का­रा­स्प­द­मा­त्मा­न­मा­स्थि­षत तैरप्यस्य न तात्त्वि­क­त्व­म­भ्यु­पे­त­व्यम् - ’ अहमिहैवास्मि सदने जानानः’ इति सर्वव्यापिनः प्रादेशिकत्वेन ग्रहात् । उच्च­त­र­गि­रि­शि­ख­र­व­र्तिषु महातरुषु भूमिष्ठस्य दूर्वा­प्र­वा­ल­नि­र्भा­स­प्र­त्य­य­वत् । न चेदं देहस्य प्रादे­शि­क­त्व­म­नु­भू­यते न त्वात्मन इति साम्प्रतम् । न हि तदैवं भवति - ’ अहम्’ इति; गौणत्वे वा न ’ जानानः’ इति । अपि च परशब्दः परत्र लक्ष्य­मा­ण­गु­ण­यो­गेन वर्तत इति यत्र प्रयो­क्तृ­प्र­ति­पत्रोः सम्प्रतिपत्तिः स गौणः, स च भेद­प्र­त्य­य­पु­रः­सरः । तद्यथा नैय­मि­का­ग्नि­हो­त्र­व­च­नोऽ­ग्नि­हो­त्र­शब्दः (आ.१. पा.४. सू.४)प्रक­र­णा­न्त­रा­व­धृ­त­भेदे कौण्ड­पा­यि­ना­म­य­न­गते कर्मणि “मासमग्मिहोत्रं जुहोति”(आ. ७ पा. ३ सू. १) इत्यत्र साध्यसादृश्येन गौणः, माणवके चानुभवसिद्धभेदे सिंहा­त्सिं­ह­शब्दः । न त्वहङ्कारस्य मुख्योऽर्थो निर्लु­ठि­त­ग­र्भ­तया देहादिभ्यो भिन्नोऽनुभूयते, येन परशब्दः शरीरादौ गौणो भवेत् । न चात्य­न्त­नि­रू­ठ­तया गौणेऽपि न गौणत्वाभिमानः सार्षपादिषु तैलशब्दवदिति वेदितव्यम् । तत्रापि स्नेहा­त्ति­ल­भ­वा­द्भेदे सिद्ध एव सार्षपादीनां तैल­श­ब्द­वा­च्य­त्वा­भि­मानो, न त्वर्थ­यो­स्तै­ल­सा­र्ष­प­यो­र­भे­दा­ध्य­व­सायः । तत्सिद्धं गौण­त्व­मु­भ­य­द­र्शिनो गौण­मु­ख्य­वि­वे­क­वि­ज्ञा­नेन व्याप्तं तदिदं व्यापकं विवेकज्ञानं निवर्तमानं गौणतामपि निवर्तयतीति । न च बाल­स्थ­वि­र­श­री­र­भे­देऽपि सोऽह­मि­त्ये­क­स्या­त्मनः प्रति­स­न्धा­ना­द्दे­हा­दिभ्यो भेदेन अस्त्यात्मानुभव इति वाच्यम् । परीक्षकाणां खल्वियं कथा न लौकिकानाम् । परीक्षका अपि हि व्यवहारसमये न लोक­सा­मा­न्य­म­ति­व­र्तन्ते । वक्ष्य­त्य­न­न्त­र­मेव हि भगवान्भाष्यकारः - “पश्वा­दि­भि­श्चा­वि­शे­षात्” इति । बाह्या अप्याहुः - “शास्त्र­चि­न्तकाः खल्वेवं विवेचयन्ति न प्रतिपत्तारः” इति । तत्पा­रि­शे­ष्या­च्चि­दा­त्म­गो­च­र­म­ह­ङ्का­र­म­ह­मि­हास्मि सदन इति प्रयुञ्जानो लौकिकः शरी­रा­द्य­भे­द­ग्र­हा­दा­त्मनः प्रादे­शि­क­त्व­म­भि­म­न्यते, नभस इव घट­म­णि­क­म­ल्लि­का­द्यु­पा­ध्य­व­च्छे­दा­दिति युक्त­मु­त्प­श्यामः । न चाह­ङ्का­र­प्रा­मा­ण्याय देहादिवदात्मापि प्रादेशिक इति युक्तम् । तदा खल्वयमणुपरिमाणो वा स्याद्दे­ह­प­रि­माणो वा ? अणुपरिमाणत्वे स्थूलोऽहम् दीर्घ इति च न स्यात् , देहपरिमाणत्वे तु सावयवतया देह­व­द­नि­त्य­त्व­प्र­सङ्गः । किञ्च अस्मिन्पक्षे अवयवसमुदायो वा चेत­ये­त्प्र­त्येकं वावयवाः ? प्रत्येकं चेतनत्वपक्षे बहूनां चेतनानां स्वत­न्त्रा­णा­मे­क­वा­क्य­ता­भा­वा­द­प­र्यायं विरु­द्ध­दि­क्क्रि­य­तया शरीरमुन्मथ्येत, अक्रियं वा प्रसज्येत । समुदायस्य तु चैतन्ययोगे वृक्ण एकस्मिन्नवयवे चिदा­त्म­नोऽ­प्य­व­यवो वृक्ण इति न चेतयेत् । न च बहूनामवयवानां पर­स्प­रा­वि­ना­भा­व­नि­यमो दृष्टः । य एवावयवो विशीर्णस्तदा तदभावे न चेतयेत् । विज्ञा­ना­ल­म्ब­न­त्वेऽ­प्य­हं­प्र­त्य­यस्य भ्रान्तत्वं तदवस्थमेव । तस्य स्थिर­व­स्तु­नि­र्भा­स­त्वा­द­स्थि­र­त्वाच्च विज्ञानानाम् । एतेन स्थूलोऽ­ह­म­न्धोऽहं गच्छा­मी­त्या­द­योऽ­प्य­ध्या­स­तया व्याख्याताः । तदेवमुक्तेन क्रमे­णा­हं­प्र­त्यये पूति­कू­ष्मा­ण्डी­कृते भगवती श्रुति­र­प्र­त्यूहं कर्तृ­त्व­भो­क्तृ­त्व­दुः­ख­शो­का­द्या­त्म­त्व­म­ह­म­नु­भ­व­प्र­स­ञ्जि­त­मा­त्मनो निषे­द्धु­म­र्ह­तीति ।

तदेवं सर्व­प्र­वा­दि­श्रु­ति­स्मृ­ती­ति­हा­स­पु­रा­ण­प्र­थि­त­मि­थ्या­भा­व­स्या­हं­प्र­त्य­यस्य स्वरू­प­नि­मि­त्त­फ­लै­रु­प­व्या­ख्या­नम् -
अन्यो­न्य­स्मि­न्नि­त्यादि ।
अत्र चान्यो­न्य­स्मि­न्ध­र्मि­ण्या­त्म­श­री­रादौ ‘अन्यो­न्या­त्म­क­ताम्’ अध्यस्याहमिदं शरीरादीति । इदमिति च वस्तुतः, न प्रतीतितः । लोकव्यवहारो लोकानां व्यवहारः, स चायमहमिति व्यपदेशः । इतिशब्दसूचितश्च शरीराद्यनुकूलं प्रतिकूलं च प्रमेयजातं प्रमाय प्रमाणेन तदु­पा­दा­न­प­रि­व­र्ज­नादिः । “अन्यो­न्य­ध­र्मां­श्चा­ध्यस्य” अन्यो­न्य­स्मि­न्ध­र्मिणि देहा­दि­ध­र्मा­ञ्ज­न्म­म­र­ण­ज­रा­व्या­ध्या­दी­ना­त्मनि धर्मिणि अध्य­स्त­दे­हा­दि­भावे समारोप्य, तथा चैत­न्या­दी­ना­त्म­ध­र्मान् देहा­दा­व­ध्य­स्ता­त्म­भावे समारोप्य, ममेदं जरा­म­र­ण­पु­त्र­प­शु­स्वा­म्या­दीति व्यवहारो व्यपदेशः, इतिशब्दसूचितश्च तदनुरूपः प्रवृत्त्यादिः । अत्र च अध्या­स­व्य­व­हा­र­क्रि­याभ्यां यः कर्तोन्नीतः स समान इति समा­न­क­र्तृ­क­त्वे­ना­ध्यस्य व्यवहार इत्युपपन्नम् ।

पूर्व­का­ल­त्व­सू­चि­त­म­ध्या­सस्य व्यवहारकारणत्वं स्फुटयति -
मिथ्या­ज्ञा­न­नि­मित्तः व्यवहारः ।
मिथ्या­ज्ञा­न­म­ध्या­स­स्त­न्नि­मित्तः । तद्भा­वा­भा­वा­नु­वि­धा­ना­द्व्य­व­हा­र­भा­वा­भा­व­यो­रि­त्यर्थः ।

तदे­व­म­ध्या­स­स्व­रूपं फलं च व्यवहारमुक्त्वा तस्य निमित्तमाह -
इतरेतराविवेकेन ।
विवे­का­ग्र­ह­णे­त्यर्थः ।

अथाविवेक एव कस्मान्न भवति, तथा च नाध्यास इत्यत आह -
अत्य­न्त­वि­वि­क्त­यो­र्ध­र्म­ध­र्मिणोः ।
परमार्थतो धर्मि­णो­र­ता­दात्म्यं विवेको धर्माणां चासङ्कीर्णता विवेकः । स्यादेतत् । विवि­क्त­यो­र्व­स्तु­स­तो­र्भे­दा­ग्र­ह­नि­ब­न्ध­न­स्ता­दा­त्म्य­वि­भ्रमो युज्यते, शुक्तेरिव रजताद्भेदाग्रह निबन्धनो रज­त­ता­दा­त्म्य­वि­भ्रमः ।

इह तु पर­मा­र्थ­स­त­श्चि­दा­त्म­नोऽ­त्य­न्त­भिन्नं न देहाद्यस्ति वस्तुसत् , तत्कु­त­श्चि­दा­त्मनो भेदाग्रहः कुतश्च तादा­त्म्य­वि­भ्रमः इत्यत आह -
सत्यानृते मिथुनीकृत्य इति ।
विवे­का­ग्र­हा­द­ध्य­स्येति योजना । सत्यं चिदात्मा, अनृतं बुद्धी­न्द्रि­य­दे­हादि, ते द्वे धर्मिणी मिथुनीकृत्य युग­ली­कृ­त्ये­त्यर्थः । न च संवृ­ति­प­र­मा­र्थ­सतोः पारमार्थिकं मिथु­न­म­स्ती­त्य­भू­त­त­द्भा­वा­र्थस्य च्वेः प्रयोगः ।

एतदुक्तं भवति - अप्र­ती­त­स्या­रो­पा­यो­गा­दा­रो­प्यस्य प्रती­ति­रु­प­यु­ज्यते न वस्तुसत्तेति । स्यादेतत् । आरोप्यस्य प्रतीतौ सत्यां पूर्वदृष्टस्य समारोपः समारोपनिबन्धना च प्रतीतिरिति दुर्वारं पर­स्प­रा­श्र­य­त्व­मि­त्यत आह -
नैसर्गिक इति ।
स्वाभा­वि­कोऽ­ना­दि­रयं व्यवहारः । व्यवहारानादितया तत्का­र­ण­स्या­ध्या­स­स्या­ना­दि­तोक्ता, ततश्च पूर्व­पू­र्व­मि­थ्या­ज्ञा­नो­प­द­र्शि­तस्य बुद्धी­न्द्रि­य­श­री­रा­दे­रु­त्त­रो­त्त­रा­ध्या­सो­प­योग इत्य­ना­दि­त्वा­त्बी­जा­ङ्कु­र­वन्न पर­स्प­रा­श्र­य­त्व­मि­त्यर्थः । स्यादेतत् । अद्धा पूर्व­प्र­ती­ति­मा­त्र­मु­प­यु­ज्यत आरोपे, न तु प्रतीयमानस्य परमार्थसत्ता । प्रतीतिरेव तु अत्यन्तासतो गग­न­क­म­लि­नी­क­ल्पस्य देहे­न्द्रि­या­दे­र्नो­प­प­द्यते । प्रकाशमानत्वमेव हि चिदात्मनोऽपि सत्त्वं न तु तदतिरिक्तं सत्ता­सा­मा­न्य­स­म­वा­योऽ­र्थ­क्रि­या­का­रिता वा, द्वैतापत्तेः । सत्ता­या­श्चा­र्थ­क्रि­या­का­रि­ता­याश्च सत्ता­न्त­रा­र्थ­क्रि­या­का­रि­ता­न्त­र­क­ल्प­नेऽ­न­व­स्था­पा­तात् , प्रकाशमानतैव सत्ता­भ्यु­पे­तव्या । तथा च देहादयः प्रका­श­मा­न­त्वा­न्ना­सन्तः, चिदात्मवत् ।

असत्त्वे वा न प्रकाशमानाः, तत्कथं सत्या­नृ­त­यो­र्मि­थु­नी­भावः, तदभावे वा कस्य कुतो भेदाग्रहः, तदसम्भवे कुतोऽध्यास इत्याशयवानाह -
आह

आक्षेप्ता -
कोऽयमध्यासो नाम ।
क इत्याक्षेपे ।

समाधाता लोक­सि­द्ध­म­ध्या­स­ल­क्ष­ण­मा­च­क्षाण एवाक्षेपं प्रतिक्षिपति -
उच्यते - स्मृतिरूपः परत्र पूर्व­दृ­ष्टा­व­भासः ।
अवसन्नोऽवमतो वा भासोऽवभासः । प्रत्य­या­न्त­र­बा­ध­श्चा­स्य­व­सा­दोऽ­व­मानो वा । एतावता मिथ्या­ज्ञा­न­मि­त्युक्तं भवति । तस्ये­द­मु­प­व्या­ख्या­नम् “पूर्वदृष्ट” इत्यादि । पूर्व­दृ­ष्ट­स्या­व­भासः पूर्व­दृ­ष्टा­व­भासः । मिथ्या­प्र­त्य­य­श्चा­रो­प­वि­ष­या­रो­प­णी­य­मि­थु­न­म­न्त­रेण न भवतीति पूर्व­दृ­ष्ट­ग्र­ह­णे­ना­नृ­त­मा­रो­प­णी­य­मु­प­स्था­प­यति । तस्य च दृष्ट­त्व­मा­त्र­मु­प­यु­ज्यते न वस्तुसत्तेति दृष्टग्रहणम् । तथापि वर्तमानं दृष्टं दर्शनं नारोपोपयोगीति पूर्वेत्युक्तम् । तच्च पूर्वदृष्टं स्वरूपेण सदप्यारोपणीयतया अनि­र्वा­च्य­मि­त्य­नृ­तम् ।

आरोपविषयं सत्यमाह -
परत्रेति ।
परत्र शुक्तिकादौ परमार्थसति, तदनेन सत्या­नृ­त­मि­थु­न­मु­क्तम् । स्यादेतत् । परत्र पूर्वदृष्टावभास इत्यलक्षणम् , अतिव्यापकत्वात् । अस्ति हि स्वस्तिमत्यां गवि पूर्वदृष्टस्य गोत्वस्य, परत्र काला­क्ष्या­म­व­भासः । अस्ति च पाटलिपुत्रे पूर्वदृष्टस्य देवदत्तस्य परत्र माहि­ष्म­त्या­म­व­भासः समीचीनः ।

अवभासपदं च समीचीनेऽपि प्रत्यये प्रसिद्धम् , यथा नीलस्यावभासः पीतस्यावभास इत्यत आह -
स्मृतिरूप इति ।
स्मृते रूपमिव रूपमस्येति स्मृतिरूपः । असं­नि­हि­त­वि­ष­यत्वं च स्मृतिरूपत्वम् , संनिहितविषयं च प्रत्यभिज्ञानं समीचीनमिति नातिव्याप्तिः । नाप्यव्याप्तिः, स्वप्न­ज्ञा­न­स्यापि स्मृति­वि­भ्र­म­रू­प­स्यै­वं­रू­प­त्वात् । अत्रापि हि स्मर्यमाणे पित्रादौ निद्रो­प­प्ल­व­व­शा­द­सं­नि­धा­ना­प­रा­मर्शे, तत्र तत्र पूर्वदृष्टस्यैव संनि­हि­त­दे­श­का­ल­त्वस्य समारोपः । एवं पीतः शङ्खस्तिक्तो गुडै­त्य­त्रा­प्ये­त­ल्ल­क्षणं योजनीयम् । तथा हि - बहि­र्वि­नि­र्ग­च्छ­द­त्य­च्छ­न­य­न­र­श्मि­स­म्पृ­क्त­पि­त्त­द्र­व्य­व­र्तिनीं पीततां पित्त­र­हि­ता­म­नु­भ­वन् , शङ्खं च दोषा­च्छा­दि­त­शु­क्लिमां न द्रव्य­मा­त्र­म­नु­भ­वन् , पीततायाश्च शङ्खा­स­म्ब­न्ध­म­न­नु­भ­वन् , अस­म्ब­न्धा­ग्र­ह­ण­सा­रू­प्ये­ण­पीतं तप­नी­य­पि­ण्ड­म्पीतं बिल्वफलमित्यादौ पूर्वदृष्टं सामानाधिकरण्यं पीत­त्व­श­ङ्ख­त्व­यो­रा­रो­प्या­ह­पीतः शङ्ख इति । एतेनतिक्तो गुड इति प्रत्ययो व्याख्यातः । एवं विज्ञा­तृ­पु­रु­षा­भि­मु­खे­ष्वा­द­र्शो­द­का­दिषु स्वच्छेषु चाक्षुषं तेजो लग्नमपि बलीयसा सौर्येण तेजसा प्रतिस्रोतः प्रवर्तितं मुखसंयुक्तं मुखं ग्राहयत् , दोष­व­शा­त्त­द्दे­श­ता­म­न­भि­मु­खतां च मुखस्याग्राहयत् , पूर्व­दृ­ष्टा­भि­मु­खा­द­र्शो­द­क­दे­श­ता­मा­भि­मुख्यं च मुखस्यारोपयतीति प्रति­बि­म्ब­वि­भ्र­मोऽपि लक्षितो भवति । एतेन द्विच­न्द्र­दि­ङ्मो­हा­ला­त­च­क्र­ग­न्ध­र्व­न­ग­र­वं­शो­र­गा­दि­वि­भ्र­मे­ष्वपि यथासम्भवं लक्षणं योजनीयम् । एतदुक्तं भवति - न प्रका­श­मा­न­ता­मात्रं सत्त्वम् , येन देहेन्द्रियादेः प्रकाशमानतया सद्भावो भवेत् । न हि सर्पादिभावेन रज्ज्वादयो वा स्फटिकादयो वा रक्ता­दि­गु­ण­यो­गिनो न प्रतिभासन्ते, प्रतिभासमाना वा भवन्ति तदा­त्मा­न­स्त­द्ध­र्माणो वा । तथा सति मरुषु मरीचिचयम् , उच्चा­व­च­मु­च्च­ल­त्तु­ङ्ग­त­र­ङ्ग­भ­ङ्ग­मा­ले­य­म­भ्य­र्ण­व­म­व­तीर्णा मन्दाकिनी, इत्यभिसन्धाय प्रवृ­त्त­स्त­त्तो­य­मा­पीय पिपासामुपशमयेत् । तस्मा­द­का­मे­ना­प्या­रो­पि­तस्य प्रकाशमानस्यापि न वस्तु­स­त्त्व­म­भ्यु­प­ग­म­नी­यम् । न च मरीचिरूपेण सलि­ल­म­व­स्तु­स­त्स्व­रू­पेण तु परमार्थसदेव, देहे­न्द्रि­या­द­यस्तु स्वरू­पे­णा­प्य­सन्त इत्य­नु­भ­वा­गो­च­र­त्वा­त्क­थ­मा­रो­प्यन्त इति साम्प्रतम् यतो यद्य­स­न्ना­नु­भ­व­गो­चरः कथं तर्हि मरी­च्या­दी­ना­म­सतां तोय­त­या­नु­भ­व­गो­च­र­त्वम् , न च स्वरूपसत्त्वेन तोयात्मनापि सन्तो भवन्ति । यद्युच्येत नाभावो नाम भावादन्यः कश्चिदस्ति, अपि तु भाव एव भावा­न्त­रा­त्म­ना­भावः स्वरूपेण तु भावः । यथाहुः - “भावान्तरमभावो हि कयाचित्तु व्यपेक्षया”(मण्ड­न­मि­श्र­भ्र­म­वि­वेकः) इति । ततश्च भावा­त्म­नो­पा­ख्ये­य­त­यास्य युज्ये­ता­नु­भ­व­गो­च­रता । प्रपञ्चस्य पुनरत्यन्तासतो निर­स्त­स­म­स्त­सा­म­र्थ्यस्य निस्तत्त्वस्य कुतोऽ­नु­भ­व­वि­ष­य­भावः, कुतो वा चिदात्मन्यारोपः । न च विषयस्य सम­स्त­सा­म­र्थ्य­वि­र­हेऽपि ज्ञानमेव तत्तादृशं स्वप्र­त्य­य­सा­म­र्थ्या­सा­दि­ता­दृ­ष्टा­न्त­सि­द्ध­स्व­भा­व­भे­द­मु­प­जा­त­म­सतः प्रकाशनं, तस्मा­द­स­त्प्र­का­श­न­श­क्ति­रे­वा­स्या­वि­द्येति साम्प्रतम् । यतो येय­म­स­त्प्र­का­श­न­श­क्ति­र्वि­ज्ञा­नस्य किं पुनरस्याः शक्यम् , असदिति चेत् , किमे­त­त्का­र्य­मा­हो­स्वि­दस्या ज्ञाप्यम् । न तावत्कार्यम् , अस­त­स्त­त्त्वा­नु­प­पत्तेः । नापि ज्ञाप्यं, ज्ञाना­न्त­रा­नु­प­लब्धेः, अनवस्थापाताच्च । विज्ञा­न­स्व­रू­प­मेव असतः प्रकाश इति चेत् , कः पुनरेष सदसतोः सम्बन्धः ? अस­द­धी­न­नि­रू­प­णत्वं सतो ज्ञानस्यासता सम्बन्ध इति चेत् , अहो बता­य­म­ति­नि­र्वृत्तः प्रत्ययतपस्वी यस्यासत्यपि निरूपणमायतते, न च प्रत्य­य­स्त­त्रा­धत्ते किञ्चित् , असत आधारत्वायोगात् । असदन्तरेण प्रत्ययो न प्रथत इति प्रत्ययस्यैवैष स्वभावो न त्वसदधीनमस्य किञ्चिदिति चेत् , अहो बता­स्या­स­त्प­क्ष­पातो यद­य­म­त­दु­त्प­त्ति­र­त­दात्मा च तदविनाभावनियतः प्रत्यय इति । तस्मा­द­त्य­न्ता­सन्तः शरी­रे­न्द्रि­या­दयो निस्तत्त्वा नानुभवविषया भवितुमर्हन्तीति । अत्र ब्रूमः - निस्तत्त्वं चेन्ना­नु­भ­व­गो­चरः, तत्किमिदानीं मरीचयोऽपि तोयात्मना सतत्त्वा यदनुभवगोचराः स्युः । न सतत्त्वाः, तदात्मना मरी­ची­ना­म­स­त्त्वात् । द्विविधं च वस्तूनां तत्त्वं सत्त्वमसत्त्वं च । तत्र पूर्वं स्वतः, परं तु परतः । यथाहुः - “स्वरू­प­प­र­रू­पाभ्यां नित्यं सदसदात्मके । वस्तुनि ज्ञायते किञ्चिद्रूपं कैश्चित्कदा च न॥”(तत्वसङ्ग्रहः) इति । तत्किं मरीचिषु तोय­नि­र्भा­स­प्र­त्य­य­स्त­त्त्व­गो­चरः, तथा च समीचीन इति न भ्रान्तो नापि बाध्येत । अद्धा न बाध्येत यदि मरी­ची­न­तो­या­त्म­त­त्त्वा­न­तो­या­त्मना गृह्णीयात् । तोयात्मना तु गृह्णन् कथमभ्रान्तः, कथं वा बाध्यः हन्त तोयाभावात्मनां मरीचिनां तोयभावात्मत्वं तावन्न सत् , तेषां तोयाभावादभेदेन तोय­भा­वा­त्म­ता­नु­प­पत्तेः । नाप्यसत् । वस्त्वन्तरमेव हि वस्त्व­न्त­र­स्या­स­त्त्व­मा­स्थी­यते “भावा­न्त­र­म­भा­वोऽन्यो न कश्चि­द­नि­रू­प­णात्”(तत्वसङ्ग्रहः) इति वदद्भिः, न चारोपितं रूपं वस्त्वन्तरम् , तद्धि मरीचयो वा भवेयुः, गङ्गादिगतं तोयं वा । पूर्व­स्मि­न्कल्पे मरीचयः इति प्रत्ययः स्यात् , न तोयमिति । उत्तरस्मिंस्तु गङ्गायां तोयमिति स्यात् , न पुनरिहेति । देशभेदास्मरणे तोयमिति स्यान्न पुनरिहेति । न चेद­म­त्य­न्त­म­स­न्नि­र­स्त­स­म­स्त­स्व­रू­प­म­ली­क­मे­वास्तु इति साम्प्रतम् , तस्या­नु­भ­व­गो­च­र­त्वा­नु­प­प­त्ते­रि­त्यु­क्त­म­ध­स्तात् । तस्मान्न सत् , नासन्नापि सदसत् , पर­स्प­र­वि­रो­धा­दि­त्य­नि­र्वा­च्य­मे­वा­रो­प­णीयं मरीचिषु तोयमास्थेयम् , तदनेन क्रमेणाध्यस्तं तोयं परमार्थतोयमिव, अत एव पूर्वदृष्टमिव, तत्त्वतस्तु न तोयं न च पूर्वदृष्टं, किं त्वनृ­त­म­नि­र्वा­च्यम् । एवं च देहे­न्द्रि­या­दि­प्र­प­ञ्चोऽ­प्य­नि­र्वाच्यः, अपूर्वोऽपि पूर्व­मि­थ्या­प्र­त्य­यो­प­द­र्शित इव परत्र चिदा­त्म­न्य­ध्य­स्यत इति उपपन्नम् , अध्या­स­ल­क्ष­ण­यो­गात् । देहे­न्द्रि­या­दि­प्र­प­ञ्च­बा­धनं चोपपादयिष्यते । चिदात्मा तु श्रुति­स्मृ­ती­ति­हा­स­पु­रा­ण­गो­चरः, तन्मू­ल­त­द­वि­रु­द्ध­न्या­य­नि­र्णी­त­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावः सत्त्वेनैव निर्वाच्यः । अबाधिता स्वयम्प्रकाशतैव अस्य सत्ता, सा च स्वरूपमेव चिदात्मनः, न तु तदतिरिक्तं सत्ता­सा­मा­न्य­स­म­वा­योऽ­र्थ­क्रि­या­का­रिता वेति सर्वमवदातम् ।

स चाय­मे­वं­ल­क्ष­ण­कोऽ­ध्या­सोऽ­नि­र्व­च­नीयः सर्वेषामेव संमतः परीक्षकाणां, तद्भेदे परं विप्र­ति­प­त्ति­रि­त्य­नि­र्व­च­नी­यतां द्रढयितुमाह -
तं केचि­द­न्य­त्रा­न्य­ध­र्मा­ध्यास इति वदन्ति ।
अन्यधर्मस्य, ज्ञानधर्मस्य रजतस्य । ज्ञानाकारस्येति यावत् । अध्यासोऽन्यत्र बाह्ये । सौत्रान्तिकनये तावद्बाह्यमस्ति वस्तु सत् , तत्र ज्ञाना­का­र­स्या­रोपः । विज्ञा­न­वा­दि­ना­मपि यद्यपि न बाह्यं वस्तु सत् , तथा­प्य­ना­द्य­वि­द्या­वा­स­ना­रो­पि­त­म­लीकं बाह्यम् , तत्र ज्ञाना­का­र­स्या­ध्या­रोपः । उपपत्तिश्च यद्या­दृ­श­म­नु­भ­व­सिद्धं रूपं तत्ता­दृ­श­मे­वा­भ्यु­पे­त­व्य­मि­त्यु­त्सर्गः, अन्यथात्वं पुनरस्य बल­व­द्बा­ध­क­प्र­त्य­य­व­शात् नेदं रजतमिति च बाध­क­स्ये­द­न्ता­मा­त्र­बा­धे­नो­प­पत्तौ न रजतगोचरतोचिता । रजतस्य धर्मिणो बाधे हि रजतं च तस्य च धर्म इदन्ता बाधिते भवेताम् , तद्व­र­मि­द­न्तै­वास्य धर्मो बाध्यतां न पुना रजतमपि धर्मि, तथा च रजतं बहि­र्बा­धि­त­म­र्था­दा­न्तरे ज्ञाने व्यवतिष्ठत इति ज्ञानाकारस्य बहिरध्यासः सिध्यति ।

केचित्तु -

ज्ञाना­का­र­ख्या­ता­व­प­रि­तु­ष्यन्तो वदन्ति -
यत्र यद­ध्या­स­स्त­द्वि­वे­का­ग्र­ह­नि­ब­न्धनो भ्रम इति ।
अपरितोषकारणं चाहुः - विज्ञानकारता रज­ता­दे­र­नु­भ­वाद्वा व्यव­स्था­प्ये­ता­नु­मा­नाद्वा । तत्रा­नु­मा­न­मु­प­रि­ष्टा­न्नि­रा­क­रि­ष्यते । अनुभवोऽपि रजतप्रत्ययो वा स्यात् , बाधकप्रत्ययो वा । न तावद्रजतानुभवः । स हीदङ्कारास्पदं रजतमावेदयति न त्वान्तरम् । अहमिति हि तदा स्यात् , प्रतिपत्तुः प्रत्य­या­द­व्य­ति­रे­कात् । भ्रान्तं विज्ञानं स्वाकारमेव बाह्य­त­या­ध्य­व­स्यति, तथा च नाह­ङ्का­रा­स्प­द­मस्य गोचरः, ज्ञानाकारता पुनरस्य बाध­क­प्र­त्य­य­प्र­वे­द­नी­येति चेत् , हन्त बाध­क­प्र­त्य­य­मा­लो­च­य­त्वा­यु­ष्मान् । किं पुरोवर्ति द्रव्यं रज­ता­द्वि­वे­च­य­त्या­हो­स्वित् ज्ञाना­का­र­ता­म­प्यस्य दर्शयति । तत्र ज्ञाना­का­र­तो­प­द­र्श­न­व्या­पारं बाधकप्रत्ययस्य ब्रुवाणः श्लाघनीयप्रज्ञो देवानांप्रियः । पुरो­व­र्ति­त्व­प्र­ति­षे­धा­द­र्था­दस्य ज्ञानाकारतेति चेन्न । असं­नि­धा­ना­ग्र­ह­नि­षे­धा­द­सं­नि­हितो भवति । प्रति­प­त्तु­र­त्य­न्त­सं­नि­धानं त्वस्य प्रति­प­त्त्रा­त्मकं कुतस्त्यम् । न चैष रजतस्य निषेधः, न चेदन्तायाः, किं तु विवे­का­ग्र­ह­प्र­स­ञ्जि­तस्य रजतव्यवहारस्य । न च रजतमेव शुक्तिकायां प्रसञ्जितं रजतज्ञानेन । नहि रजतनिर्भासनं शुक्तिकालम्बनं युक्तम् अनुभवविरोधात् । न खलु सत्ता­मा­त्रे­णा­ल­म्ब­नम् , अतिप्रसङ्गात् । सर्वेषामर्थानां सत्त्वा­वि­शे­षा­दा­ल­म्ब­न­त्व­प्र­स­ङ्गात् । नापि कारणत्वेन, इन्द्रि­या­दी­ना­मपि कारणत्वात् । तथा च भास­मा­न­तै­वा­ल­म्ब­नार्थः । न च रजतज्ञाने शुक्तिका भासते, इति कथमालम्बनम् , भास­मा­न­ता­भ्यु­प­गमे वा कथं नानुभवविरोधः । अपि चेन्द्रियादीनां समी­ची­न­ज्ञा­नो­प­ज­नने साम­र्थ्य­मु­प­ल­ब्ध­मिति कथमेभ्यो मिथ्या­ज्ञा­न­स­म्भवः । दोषसहितानां तेषां मिथ्या­प्र­त्य­येऽपि सामर्थ्यमिति चेन्न, दोषाणां कार्यो­प­ज­न­न­सा­म­र्थ्य­वि­घा­त­मा­त्र­हे­तु­त्वात् , अन्यथा दुष्टादपि कुट­ज­बी­जा­द्व­टा­ङ्कु­रो­त्प­त्ति­प्र­स­ङ्गात् । अपि च स्वगो­च­र­व्य­भि­चारे विज्ञानानां सर्व­त्रा­ना­श्वा­स­प्र­सङ्गः । तस्मात्सर्वं ज्ञानं समीचीनमास्थेयम् । तथा च रजतम् , इदमिति च द्वे विज्ञाने स्मृत्य­नु­भ­व­रूपे, तत्रेदमिति पुरो­व­र्ति­द्र­व्य­मा­त्र­ग्र­ह­णम् , दोष­व­शा­त्त­द्ग­त­शु­क्ति­त्व­सा­मा­न्य­वि­शे­ष­स्या­ग्र­हात् , तन्मात्रं च गृहीतं सदृशतया संस्का­रो­द्बो­ध­क्र­मेण रजते स्मृतिं जनयति । सा च गृही­त­ग्र­ह­ण­स्व­भा­वापि दोष­व­शा­द्गृ­ही­त­त्वां­श­प्र­मो­षा­द्ग्र­ह­ण­मा­त्र­म­व­ति­ष्ठते । तथा च रजतस्मृतेः पुरो­व­र्ति­द्र­व्य­मा­त्र­ग्र­ह­णस्य च मिथः स्वरूपतो विषयतश्च भेदाग्रहात् , संनि­हि­त­र­ज­त­गो­च­र­ज्ञा­न­सा­रू­प्येण, इदं रजतमिति भिन्ने अपि स्मरणग्रहणे अभेदव्यवहारं च सामा­ना­धि­क­र­ण्य­व्य­प­देशं च प्रवर्तयतः । क्वचि­त्पु­न­र्ग्र­हणे एव मिथोऽ­नु­गृ­ही­त­भेदे, यथा पीतः शङ्ख इति । अत्र हि बहि­र्वि­नि­र्ग­च्छ­न्न­य­न­र­श्मि­व­र्तिनः पित्तद्रव्यस्य काचस्येव स्वच्छस्य पीतत्वं गृह्यते पित्तं तु न गृह्यते । शङ्खोऽपि दोष­व­शा­च्छु­क्ल­गु­ण­र­हितः स्वरूपमात्रेण गृह्यते । तद­न­यो­र्गु­ण­गु­णि­नो­र­सं­स­र्गा­ग्र­ह­सा­रू­प्या­त्पी­त­त­प­नी­य­पि­ण्ड­प्र­त्य­या­वि­शे­षे­णा­भे­द­व्य­व­हारः सामा­ना­धि­क­र­ण्य­व्य­प­दे­शश्च । भेदा­ग्र­ह­प्र­स­ञ्जि­ता­भे­द­व्य­व­हा­र­बा­ध­नाच्च नेदमिति विवेकप्रत्ययस्य बाध­क­त्व­म­प्यु­प­प­द्यते, तदुपपत्तौ च प्राचीनस्य प्रत्ययस्य भ्रान्तत्वमपि लोकसिद्धं सिद्धं भवति । तस्माद्यथार्थाः सर्वे विप्रतिपन्नाः सन्देहविभ्रमाः, प्रत्ययत्वात् , घटादिप्रत्ययवत् ।

तदिदमुक्तम् -
यत्र यदध्यास इति ।
यस्मि­न्शु­क्ति­कादौ यस्य रजतादेरध्यास इति लोकप्रसिद्धिः नासा­व­न्य­था­ख्या­ति­नि­ब­न्धना, किन्तु गृहीतस्य रज­ता­दे­स्त­त्स्म­र­णस्य च गृही­त­तां­श­प्र­मो­षेण, गृहीतमात्रस्य च यः इदमिति पुरोऽ­व­स्थि­ता­द्द्र­व्य­मा­त्रा­त्त­ज्ज्ञा­नाच्च विवेकः, तदग्रहणनिबन्धनो भ्रमः । भ्रान्तत्वं च ग्रह­ण­स्म­र­ण­यो­रि­त­रे­त­र­सा­मा­ना­धि­क­र­ण्य­व्य­प­देशो रज­त­व्य­व­हा­र­श्चेति ।अन्ये तु - अत्रा­प्य­प­रि­तु­ष्यन्तः, यत्र यदध्यासस्तस्यैव विप­री­त­ध­र्म­त्व­क­ल्प­ना­मा­च­क्षते । अत्रेदमाकूतम् - अस्ति ताव­द्र­ज­ता­र्थि­नो­र­ज­त­मि­द­मिति प्रत्य­या­त्पु­रो­व­र्तिनि द्रव्ये प्रवृत्तिः, सामा­ना­धि­क­र­ण्य­व्य­प­दे­श­श्चेति सर्वजनीनम् । तदेतन्न ताव­द्ग्र­ह­ण­स्म­र­ण­यो­स्त­द्गो­च­र­योश्च मिथो भेदा­ग्र­ह­मा­त्रा­द्भ­वि­तु­म­र्हति । ग्रहणनिबन्धनौ हि चेतनस्य व्यवहारव्यपदेशौ कथ­म­ग्र­ह­ण­मा­त्रा­द्भ­वे­ताम् । ननूक्तं नाग्रहणमात्रात् , किं तु ग्रहणस्मरणे एव मिथः स्वरूपतो विष­य­त­श्चा­गृ­ही­त­भेदे, समी­ची­न­पु­रः­स्थि­त­र­ज­त­वि­ज्ञा­न­सा­रू­प्ये­णा­भे­द­व्य­व­हारं सामा­ना­धि­क­ण्य­व्य­प­देशं च प्रवर्तयतः । अथ समी­ची­न­ज्ञा­न­सा­रू­प्य­म­न­यो­र्गृ­ह्य­माणं वा व्यव­हा­र­प्र­वृ­त्ति­हेतुः, अगृह्यमाणं वा सत्तामात्रेण । गृह्यमाणत्वेऽपि ‘समी­ची­न­ज्ञा­न­सा­रू­प्य­म­न­यो­रि­द­मिति रजतमिति च ज्ञानयोः’ इति ग्रहणम् , ‘अथवानयोरेव स्वरूपतो विषयतश्च मिथो भेदाग्रहः’ इति ग्रहणम् । तत्र न ताव­त्स­मी­ची­न­ज्ञा­न­स­दृशे इति ज्ञानं समी­ची­न­ज्ञा­न­व­द्व्य­व­हा­र­प्र­व­र्त­कम् । न हिगोसदृशो गवय इति ज्ञानं गवार्थिनं गवये प्रवर्तयति । अनयोरेव भेदाग्रह इति तु ज्ञानं पराहतम् , न हि भेदा­ग्र­हेऽ­न­यो­रिति भवति, अनयोरिति ग्रहे भेदाग्रहणमिति च भवति । तस्मा­त्स­त्ता­मा­त्रेण भेदाग्रहोऽगृहीत एव व्यवहारहेतुरिति वक्तव्यम् । तत्र किम­य­मा­रो­पो­त्पा­द­क्र­मेण व्यव­हा­र­हे­तु­र­स्त्वा­होऽ­नु­त्पा­दि­ता­रोप एव स्वत इति । वयं तु पश्यामः - चेत­न­व्य­व­हा­र­स्या­ज्ञा­न­पू­र्व­क­त्वा­नु­प­पत्तेः, आरो­प­ज्ञा­नो­त्पा­द­क्र­मे­णै­वैति । ननु सत्यं चेतनव्यवहारो नाज्ञानपूर्वकः किं त्ववि­दि­त­वि­वे­क­ग्र­ह­ण­स्म­र­ण­पू­र्वक इति । मैवम् । नहि रज­त­प्रा­ति­प­दि­का­र्थ­मा­त्र­स्म­रणं प्रवृ­त्ता­वु­प­यु­ज्यते । इद­ङ्का­रा­स्प­दा­भि­मुखी खलु रजतार्थिनां प्रवृ­त्ति­रि­त्य­वि­वा­दम् । कथं चाय­मि­द­ङ्का­रा­स्पदे प्रवर्तेत यदि न तदिच्छेत् । अन्य­दि­च्छ­त्य­न्य­त्क­रो­तीति व्याहतम् । न चेदि­द­ङ्का­रा­स्पदं रजतमिति जानीयात्कथं रजतार्थी तदिच्छेत् । यद्य­त­था­त्वे­ना­ग्र­ह­णा­दिति ब्रूयात्स प्रतिवक्तव्योऽथ तथा­त्वे­ना­ग्र­ह­णा­त्क­स्मा­दयं नोपेक्षेतेति । सोऽय­मु­पा­दा­नो­पे­क्षा­भ्या­म­भित आकृ­ष्य­मा­ण­श्चे­त­नोऽ­व्य­व­स्थित इतीदङ्कारास्पदे रज­त­स­मा­रो­पे­णो­पा­दान एव व्यवस्थाप्यत इति भेदाग्रहः समा­रो­पो­त्पा­द­क्र­मेण चेत­न­प्र­वृ­त्ति­हेतुः । तथाहि - भेदा­ग्र­हा­दि­द­ङ्का­रा­स्पदे रजतत्वं समारोप्य, तज्जा­ती­य­स्यो­प­का­र­हे­तु­भा­व­म­नु­चिन्त्य, तज्जा­ती­य­त­ये­द­ङ्का­रा­स्पदे रजते तमनुमाय, तदर्थी प्रवर्तत इत्यानुपूर्व्यं सिद्धम् । न च तट­स्थ­र­ज­त­स्मृ­ति­रि­द­ङ्का­रा­स्प­द­स्यो­प­का­र­हे­तु­भा­व­म­नु­मा­प­यि­तु­म­र्हति, रजतत्वस्य हेतो­र­प­क्ष­ध­र्म­त्वात् । एकदेशदर्शनं खल्वनुमापकं न त्वने­क­दे­श­द­र्श­नम् । यथाहुः - ज्ञात­स­म्ब­न्ध­स्यै­क­दे­श­द­र्श­ना­दिति । समारोपे त्वेक­दे­श­द­र्श­न­मस्ति । तत्सि­द्ध­मे­त­द्वि­वा­दा­ध्या­सितं रजतादिज्ञानं, पुरो­व­र्ति­व­स्तु­वि­ष­यम् , रज­ता­द्य­र्थि­न­स्तत्र नियमेन प्रवर्तकत्वात् , यद्यदर्थिनं यत्र नियमेन प्रवर्तयति तज्ज्ञानं तद्विषयं यथो­भ­य­सि­द्ध­स­मी­ची­न­र­ज­त­ज्ञा­नम् , तथा चेदम् , तस्मात्तथेति । यच्चो­क्त­म­न­व­भा­स­मा­न­तया न शुक्ति­रा­ल­म्ब­न­मिति, तत्र भवान् पृष्टो व्याचष्टाम् , किं शुक्तिकात्वस्य इदं रजतमिति ज्ञानं प्रत्य­ना­ल­म्ब­न­त्व­मा­हो­स्वि­द्द्र­व्य­मा­त्रस्य पुरःस्थितस्य सितभास्वरस्य । यदि शुक्ति­का­त्व­स्या­ना­ल­म्ब­न­त्वम् , अद्धा । उत्त­र­स्या­ना­ल­म्ब­नत्वं ब्रुवाणस्य तवैवानुभवविरोधः । तथा हि - रज­त­मि­द­मि­त्य­नु­भ­व­न्न­नु­भ­विता पुरोवर्ति वस्त्व­ङ्गु­ल्या­दिना निर्दिशति । दृष्टं च दुष्टानां कार­णा­ना­मौ­त्स­र्गि­क­का­र्य­प्र­ति­ब­न्धेन कार्या­न्त­रो­प­ज­न­न­सा­म­र्थ्यम् , यथा दावा­ग्नि­द­ग्धानां वेत्रबीजानां कद­ली­का­ण्ड­ज­न­क­त्वम् । भस्मकदुष्टस्य चोदर्यस्य तेजसो बह्वन्नपचनमिति । प्रत्य­क्ष­बा­ध­का­प­हृ­त­वि­षयं च विभ्रमाणां यथा­र्थ­त्वा­नु­मा­न­मा­भासः, हुत­व­हा­नु­ष्ण­त्वा­नु­मा­न­वत् । यच्चोक्तं मिथ्या­प्र­त्य­यस्य व्यभिचारे सर्व­प्र­मा­णे­ष्व­ना­श्वास इति, तत् बोधकत्वेन स्वतःप्रामाण्यं नाव्यभिचारेणेति व्युत्पा­द­य­द्भि­र­स्माभिः परिहृतं न्याय­क­णि­का­या­मिति नेह प्रतन्यते । दिङ्मात्रं चास्य स्मृति­प्र­मो­ष­भ­ङ्ग­स्यो­क्तम् । विस्तरस्तु ब्रह्म­त­त्त्व­स­मी­क्षा­या­म­व­ग­न्तव्य इति, तदिदमुक्तम् - “अन्ये तु यत्र यदध्यासस्तस्यैव विप­री­त­ध­र्म­त्व­क­ल्प­ना­मा­च­क्षते” इति । यत्र शुक्तिकादौ यस्य रज­ता­दे­र­ध्या­स­स्त­स्यैव शुक्ति­का­दे­र्वि­प­री­त­ध­र्म­क­ल्पनां रज­त­त्व­ध­र्म­क­ल्प­ना­मिति योजना ।

ननु सन्तु नाम परीक्षकाणां विप्रतिपत्तयः, प्रकृते तु किमायातमित्यत आह -
सर्वथापि त्वन्य­स्या­न्य­ध­र्म­क­ल्पनां न व्यभिचरति ।
अन्य­स्या­न्य­ध­र्म­क­ल्प­ना­नृ­तता, सा चानि­र्व­च­नी­य­ते­त्य­ध­स्ता­दु­प­पा­दि­तम् । तेन सर्वेषामेव परीक्षकाणां मतेऽ­न्य­स्या­न्य­ध­र्म­क­ल्प­ना­नि­र्व­च­नी­य­ता­व­श्य­म्भा­वि­नी­त्य­नि­र्व­च­नी­यता सर्व­त­न्त्र­सि­द्धान्त इत्यर्थः । अख्या­ति­वा­दि­भि­र­का­मै­रपि सामा­ना­धि­क­र­ण्य­व्य­प­दे­श­प्र­वृ­त्ति­नि­य­म­स्ने­हा­दि­द­म­भ्यु­पे­य­मिति भावः ।

न केवलमियमनृतता परीक्षकाणां सिद्धा, अपि तु लौकि­का­ना­म­पी­त्याह -
तथा च लोकेऽनुभवः - शुक्तिका हि रजतवदवभासत इति ।
न पुना रजतमिदमिति शेषः ।

स्यादेतत् । अन्य­स्या­न्या­त्म­ता­वि­भ्रमो लोकसिद्धः, एकस्य त्वभिन्नस्य भेदभ्रमो न दृष्ट इति कुत­श्चि­दा­त्म­नोऽ­भि­न्नानां जीवानां भेदविभ्रम इत्यताह -
एकश्चन्द्रः सद्वितीयवदिति ।

पुनरपि चिदा­त्म­न्य­ध्या­स­मा­क्षि­पति -
कथं पुनः प्रत्य­गा­त्म­न्य­वि­ष­येऽ­ध्यासो विष­य­त­द्ध­र्मा­णाम् ।
अयमर्थः - चिदात्मा प्रकाशते न वान चेत्प्रकाशते, कथ­म­स्मि­न्न­ध्यासो विष­य­त­द्ध­र्मा­णाम् । न खल्व­प्र­ति­भा­स­माने पुरोवर्तिनि द्रव्ये रजतस्य वा तद्धर्माणां वा समारोपः सम्भवतीति । प्रतिभासे वा (न)तावदयमात्मा जडो घटा­दि­व­त्प­रा­धी­न­प्र­काश इति युक्तम् । न खलु स एव कर्ता च कर्म च भवति, विरोधात् । पर­स­म­वे­त­क्रि­या­फ­ल­शालि हि कर्म, न च ज्ञानक्रिया परसमवायिनीति कथमस्यां कर्म, न च तदेव स्वं च परं च, विरोधात् । आत्मा­न्त­र­स­म­वा­या­भ्यु­प­गमे तु ज्ञेय­स्या­त्म­नोऽ­ना­त्म­त्व­प्र­सङ्गः । एवं तस्य तस्ये­त्य­न­व­स्था­प्र­सङ्गः । स्यादेतत् । आत्मा जडोऽपि सर्वा­र्थ­ज्ञा­नेषु भासमानोऽपि कर्तैव न कर्म, पर­स­म­वे­त­क्रि­या­फ­ल­शा­लि­त्वा­भा­वात् , चैत्रवत् । यथा हि चैत्र­स­म­वे­त­क्रि­यया चैत्र­न­ग­र­प्रा­प्ता­वु­भ­य­स­म­वे­ता­या­मपि क्रियमाणायां नगरस्यैव कर्मता, पर­स­म­वे­त­क्रि­या­फ­ल­शा­लि­त्वात् , न तु चैत्रस्य क्रिया­फ­ल­शा­लि­नोऽपि, चैत्र­स­म­वा­या­द्ग­म­न­क्रि­याया इति, तन्न । श्रुतिविरोधात् । श्रूयते हि “सत्यं ज्ञानमनन्तं ब्रह्म”(तै. उ. २ । १ । १) इति उपपद्यते च, तथा हि - योऽयमर्थप्रकाशः फलं यस्मिन्नर्थश्च आत्मा च प्रथेते स किं जडः स्वयम्प्रकाशो वा । जड­श्चे­द्वि­ष­या­त्मा­ना­वपि जडाविति कस्मिन्किं प्रका­शे­ता­वि­शे­षात् , इति प्राप्त­मा­न्ध्य­म­शे­षस्य जगतः । तथा चाभाणकः - “अन्ध­स्ये­वा­न्ध­ल­ग्नस्य विनिपातः पदे पदे” । न च निलीनमेव विज्ञा­न­म­र्था­त्मानौ ज्ञापयति, चक्षुरादिवदिति वाच्यम् । ज्ञापनं हि ज्ञानजननम् , जनितं च ज्ञानं जडं सन्नो­क्त­दू­ष­ण­म­ति­व­र्ते­तेति । एव­मु­त्त­रो­त्त­रा­ण्यपि ज्ञानानि जडानीत्यनवस्था । तस्मा­द­प­रा­धी­न­प्र­काशा संविदुपेतव्या । तथापि किमायातं विषयात्मनोः स्वभावजडयोः । एतदायातं यत्तयोः संविदजडेति । तत्किं पुत्रः पण्डित इति पितापि पण्डितोऽस्तु । स्वभाव एष संविदः स्वयम्प्रकाशाया यद­र्था­त्म­स­म्ब­न्धि­तेति चेत् , हन्त पुत्रस्यापि पण्डितस्य स्वभाव एष यत्पि­तृ­स­म्ब­न्धि­तेति समानम् । सहा­र्था­त्म­प्र­का­शेन संवित्प्रकाशो न त्वर्था­त्म­प्र­काशं विनेति तस्याः स्वभाव इति चेत् , तत्किं संविदो भिन्नौ संवि­द­र्था­त्म­प्र­काशौ । तथा च न स्वयम्प्रकाशा संवित् , न च संवि­द­र्था­त्म­प्र­काश इति । अथ ‘संवि­द­र्था­त्म­प्र­काशो न संविदो भिद्येते’ , संविदेव तौ । एवं चेत् यावदुक्तं भवति संवितात्मार्थौ सहेति तावदुक्तं भवति संवि­द­र्था­त्म­प्र­काशौ सहेति, तथा च न विव­क्षि­ता­र्थ­सिद्धिः । न चाती­ता­ना­ग­ता­र्थ­गो­च­रायाः संवि­दोऽ­र्थ­स­ह­भा­वोऽपि । तद्वि­ष­य­हा­नो­पा­दा­नो­पे­क्षा­बु­द्धि­ज­न­ना­द­र्थ­स­ह­भाव इति चेन्न, अर्थसंविद इव हाना­दि­बु­द्धी­ना­मपि तद्वि­ष­य­त्वा­नु­प­पत्तेः । हाना­दि­ज­न­ना­द्धा­ना­दि­बु­द्धी­ना­म­र्थ­वि­ष­य­त्वम् , अर्थ­वि­ष­य­हा­ना­दि­बु­द्धि­ज­न­नाच्च अर्थ­सं­वि­द­स्त­द्वि­ष­य­त्व­मिति चेत् , तत्किं देहस्य प्रय­त्न­व­दा­त्म­सं­योगो देह­प्र­वृ­त्ति­नि­वृ­त्ति­हे­तु­रर्थे इत्य­र्थ­प्र­का­शोऽस्तु । जाड्या­द्दे­हा­त्म­सं­योगो नार्थप्रकाश इति चेत् , नन्वयं स्वय­म्प्र­का­शोऽपि स्वात्मन्येव खद्यो­त­व­त्प्र­काशः, अर्थे तु जड इत्युपपादितम् । न च प्रका­श­स्या­त्मानो विषयाः ते हि विच्छि­न्न­दी­र्घ­स्थू­ल­त­या­नु­भू­यन्ते, प्रका­श­श्चा­य­मा­न्त­रोऽ­स्थू­लोऽ­न­णु­र­ह्र­स्वोऽ­दी­र्ध­श्चेति प्रकाशते, तस्मा­च्च­न्द्रेऽ­नु­भू­य­मान इव द्विती­य­श्च­न्द्रमाः स्वप्र­का­शा­द­न्योऽर्थः अनिर्वचनीय एवेति युक्त­मु­त्प­श्यामः । न चास्य प्रकाशस्याजानतः स्वल­क्ष­ण­भे­दोऽ­नु­भू­यते । न च अनि­र्वा­च्या­र्थ­भेदः प्रकाशं निर्वाच्यं भेत्तुमर्हति, अतिप्रसङ्गात् । न च अर्थानामपि परस्परं भेदः समी­ची­न­ज्ञा­न­प­द्ध­ति­म­ध्यास्ते इत्यु­प­रि­ष्टा­दु­प­पा­द­यि­ष्यते । तदयं प्रकाश एव स्वयम्प्रकाश एकः कूटस्थनित्यो निरंशः प्रत्य­गा­त्मा­श­क्य­नि­र्व­च­नी­येभ्यो देहे­न्द्रि­या­दिभ्य आत्मानं प्रतीपं निर्वचनीयमञ्चति जानातीति प्रत्यङ्स चात्मेति प्रत्यगात्मा, स चाप­रा­धी­न­प्र­का­श­त्वात् , अनंशत्वाच्च, अविषयः, तस्मिन्नध्यासो विषयधर्माणाम् , देहे­न्द्रि­या­दि­ध­र्माणां कथम् , किमाक्षेपे । अयुक्तोऽयमध्यास इत्याक्षेपः ।

कस्मादयमयुक्त इत्यत आह -
सर्वो हि पुरोऽवस्थिते विषये विष­या­न्त­र­म­ध्य­स्यति ।
एतदुक्तं भवति - यत्प­रा­धी­न­प्र­का­श­मं­श­वच्च तत्सा­मा­न्यां­श­ग्रहे कारणदोषवशाच्च विशे­षा­ग्र­हेऽ­न्यथा प्रकाशते । प्रत्यगात्मा त्वप­रा­धी­न­प्र­का­श­तया न स्वज्ञाने कार­णा­न्य­पे­क्षते, येन तदा­श्र­यै­र्दो­षै­र्दु­ष्येत । न चांशवान् , येन कश्चिदस्यांशो गृह्येत, कश्चिन्न गृह्येत । नहि तदेव तदानीमेव तेनैव गृहीतमगृहीतं च सम्भवतीति न स्वय­म्प्र­का­श­प­क्षेऽ­ध्यासः । सदा­त­नेऽ­प्य­प्र­काशे पुरोऽ­व­स्थि­त­त्व­स्या­प­रो­क्ष­त्व­स्या­भा­वा­न्ना­ध्यासः । न हि शुक्तौ अपुरःस्थितायां रजतमध्यस्यतीदं रजतमिति । तस्मा­द­त्य­न्त­ग्रहे अत्यन्ताग्रहे च नाध्यास इति सिद्धम् ।

स्यादेतत् । अविषयत्वे हि चिदात्मनो नाध्यासः, विषय एव तु चिदा­त्मा­स्म­त्प्र­त्य­यस्य, तत्कथं नाध्यास इत्यत आह -
युष्म­त्प्र­त्य­या­पे­तस्य च प्रत्य­गा­त्म­नोऽ­वि­ष­यत्वं ब्रवीषि ।
विषयत्वे हि चिदात्मनोऽन्यो विषयी भवेत् । तथा च यो विषयी स एव चिदात्मा । विषयस्तु ततोऽन्यो युष्म­त्प्र­त्य­य­गो­च­रोऽ­भ्यु­पेयः । तस्मा­द­ना­त्म­त्व­प्र­स­ङ्गा­द­न­व­स्था­प­रि­हा­राय युष्म­त्प्र­त्य­या­पे­त­त्वम्, अत एवा­वि­ष­य­त्व­मा­त्मनो वक्तव्यम् , तथा च नाध्यास इत्यर्थः ।

परिहरति -
उच्यते - न ताव­द­य­मे­का­न्ते­ना­वि­षयः ।

कुतः,
अस्म­त्प्र­त्य­य­वि­ष­य­त्वात् ।
अयमर्थः - सत्यं प्रत्यगात्मा स्वय­म्प्र­का­श­त्वा­द­वि­ष­योऽ­नं­शश्च, तथापि अनि­र्व­च­नी­या­ना­द्य­वि­द्या­प­रि­क­ल्पि­त­बु­द्धि­मनः सूक्ष्म­स्थू­ल­श­री­रे­न्द्रि­या­व­च्छे­दे­ना­न­व­च्छि­न्नोऽपि वस्तु­तोऽ­व­च्छिन्न इव अभिन्नोऽपि भिन्न इव, अकर्तापि कर्तेव, अभोक्तापि भोक्तेव, अवि­ष­योऽ­प्य­स्म­त्प्र­त्य­य­वि­षय इव, जीव­भा­व­मा­प­न्नोऽ­व­भा­सते, नभ इव घट­म­णि­क­म­ल्लि­का­द्य­व­च्छे­द­भे­देन भिन्न­मि­वा­ने­क­वि­ध­ध­र्म­क­मि­वेति । न हि चिदे­क­र­स­स्या­त्मनः चिदंशे गृहीते अगृहीतं किञ्चिदस्ति । न खल्वा­न­न्द­नि­त्य­त्व­वि­भु­त्वा­द­योऽस्य चिद्रू­पा­द्व­स्तुतो भिद्यन्ते, येन तद्ग्रहे न गृह्येरन् । गृहीता एव तु कल्पितेन भेदेन न विवेचिता इत्यगृहीता इवाभान्ति । न च आत्मनो बुद्ध्यादिभ्यो भेद­स्ता­त्त्विकः, येन चिदात्मनि गृह्यमाणे सोऽपि गृहीतो भवेत् , बुद्ध्या­दी­ना­म­नि­र्वा­च्य­त्वेन तद्भे­द­स्या­प्य­नि­र्व­च­नी­य­त्वात् । तस्मा­च्चि­दा­त्मनः स्वय­म्प्र­का­श­स्यैव अनवच्छिन्नस्य अवच्छिन्नेभ्यो बुद्ध्यादिभ्यो भेदाग्रहात्, तदध्यासेन जीवभाव इति । तस्य चानि­द­मि­द­मा­त्म­नोऽ­स्म­त्प्र­त्य­य­वि­ष­य­त्व­मु­प­प­द्यते । तथा हि - कर्ता भोक्ता चिदात्मा अहंप्रत्यये प्रत्यवभासते । न चोदासीनस्य तस्य क्रिया­श­क्ति­र्भो­ग­श­क्तिर्वा सम्भवति । यस्य च बुद्ध्यादेः कार्य­का­र­ण­स­ङ्घा­तस्य क्रियाभोगशक्ती न तस्य चैतन्यम् । तस्मा­च्चि­दा­त्मैव कार्य­क­र­ण­स­ङ्घा­तेन ग्रथितो लब्ध­क्रि­या­भो­ग­शक्तिः स्वय­म्प्र­का­शोऽपि बुद्ध्या­दि­वि­ष­य­वि­च्छु­र­णात्, कथ­ञ्चि­द­स्म­त्प्र­त्य­य­वि­ष­योऽ­ह­ङ्का­रा­स्पदं जीव इति च, जन्तुरिति च क्षेत्रज्ञ इति च आख्यायते । न खलु जीवश्चिदात्मनो भिद्यते । तथा च श्रुतिः - “अनेन जीवेनात्मना”(छा. उ. ६ । ३ । २) इति । तस्मा­च्चि­दा­त्म­नोऽ­व्य­ति­रे­का­ज्जीवः स्वय­म्प्र­का­शोऽ­प्य­हं­प्र­त्य­येन कर्तृभोक्तृतया व्यवहारयोग्यः क्रियत इत्य­हं­प्र­त्य­या­ल­म्ब­न­मु­च्यते । न च अध्यासे सति विषयत्वं विषयत्वे च अध्यासः इत्य­न्यो­न्या­श्र­य­त्व­मिति साम्प्रतम् , बीजा­ङ्कु­र­व­द­ना­दि­त्वात् , पूर्व­पू­र्वा­ध्या­स­त­द्वा­स­ना­वि­ष­यी­कृ­त­स्यो­त्त­रो­त्त­रा­ध्या­स­वि­ष­य­त्वा­वि­रो­धा­दि­त्यु­क्तम् “नैसर्गिकोऽयं लोकव्यवहारः” इति भाष्यग्रन्थेन ।

तस्मा­त्सु­ष्टू­क्तम् -
न ताव­द­य­मे­का­न्ते­ना­वि­षय इति ।
जीवो हि चिदात्मतया स्वय­म्प्र­का­श­त­या­वि­ष­योऽ­प्यौ­पा­धि­केन रूपेण विषय इति भावः । स्यादेतत् । न वय­म­प­रा­धी­न­प्र­का­श­त­या­वि­ष­य­त्वे­ना­ध्या­स­म­पा­कुर्मः, किन्तु प्रत्यगात्मा न स्वतो नापि परतः प्रथत इत्यविषयः इति ब्रूमः ।

तथा च सर्वथाप्रथमाने प्रत्यगात्मनि कुतोऽध्यास इत्यत आह -
अपरोक्षत्वाच्च प्रत्य­गा­त्म­प्र­सिद्धेः ।
प्रतीच आत्मनः प्रसिद्धिः प्रथा, तस्या अपरोक्षत्वात् । यद्यपि प्रत्यगात्मनि नान्या प्रथास्ति, तथापि भेदोपचारः । यथा पुरुषस्य चैतन्यमिति । एतदुक्तं भवति - अवश्यं चिदा­त्मा­प­रो­क्षोऽ­भ्यु­पे­तव्यः तदप्रथायां सर्वस्याप्रथनेन जग­दा­न्ध्य­प्र­स­ङ्गा­दि­त्यु­क्तम् । श्रुतिश्चात्र भवति “तमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभाति”(क.उ.२-२-१५) इति ।

तदेवं पर­मा­र्थ­प­रि­हा­र­मु­क्त्वा­भ्यु­पे­त्यापि चिदात्मनः परोक्षतां प्रौढवादितया परिहारान्तरमाह -
न चायमस्ति नियमः पुरोऽवस्थित एव,
अपरोक्ष एव,

विषये विष­या­न्त­र­म­ध्य­सि­त­व्यम् ।

कस्मादयं न नियम इत्यत आह -
अप्रत्यक्षेऽपि ह्याकाशे बाला­स्त­ल­म­लि­न­ता­द्य­ध्य­स्यन्ति ।
हिर्यस्मादर्थे । नभो हि द्रव्यं सत् रूप­स्प­र्श­वि­र­हान्न बाह्ये­न्द्रि­य­प्र­त्य­क्षम् । नापि मानसम् , मनसोऽसहायस्य बाह्येऽ­प्र­वृत्तेः, तस्मा­द­प्र­त्य­क्षम् । अथ च तत्र बाला अविवेकिनः परदर्शितदर्शिनः कदा­चि­त्पा­र्थि­व­च्छायां श्यामतामारोप्य, कदाचित्तैजसं शुक्ल­त्व­मा­रोप्य, नीलो­त्प­ल­प­ला­श­श्या­म­मिति वा राज­हं­स­मा­ला­ध­व­ल­मिति वा निर्वर्णयन्ति । तत्रापि पूर्वदृष्टस्य तैजसस्य वा तामसस्य रूपस्य परत्र नभसि स्मृतिरूपोऽवभास इति । एवं तदेव तलमध्यस्यन्ति अवाङ्मुखीभूतम् महे­न्द्र­नी­ल­म­णि­म­य­म­हा­क­टा­ह­क­ल्प­मि­त्यर्थः ।

उपसंहरति -
एवम् -
उक्तेन प्रकारेण सर्वा­क्षे­प­प­रि­हा­रात् ,

अविरुद्धः प्रत्य­गा­त्म­न्य­प्य­ना­त्म­नाम् -
बुद्ध्या­दी­ना­म­ध्यासः ।

ननु सन्ति च सहस्रमध्यासाः, तत्कि­म­र्थ­म­य­मे­वा­ध्यास आक्षे­प­स­मा­धा­नाभ्यां व्युत्पादितः नाध्या­स­मा­त्र­मि­त्यत आह -
तमे­त­मे­वं­ल­क्ष­ण­म­ध्यासं पण्डिता अविद्येति मन्यन्ते ।
अविद्या हि सर्वा­न­र्थ­बी­ज­मिति श्रुति­स्मृ­ती­ति­हा­स­पु­रा­णा­दिषु प्रसिद्धम् । तदुच्छेदाय वेदान्ताः प्रवृत्ता इति वक्ष्यति । प्रत्य­गा­त्म­न्य­ना­त्मा­ध्यास एव सर्वानर्थहेतुः न पुना रजतादिविभ्रमा इति स एवाविद्या, तत्स्वरूपं चाविज्ञातं न शक्य­मु­च्छे­त्तु­मिति तदेव व्युत्पाद्यं नाध्यासमात्रम् । अत्र च ‘एवं लक्षणम्’ इत्ये­वं­रू­प­त­या­न­र्थ­हे­तु­तोक्ता । यस्मा­त्प्र­त्य­गा­त्म­न्य­श­ना­या­दि­र­हि­तेऽ­श­ना­या­द्यु­पे­ता­न्तः­क­र­णा­द्य­हि­ता­रो­पणे प्रत्य­गा­त्मा­न­म­दुःखं दुःखाकरोति, तस्मादनर्थहेतुः ।

न चैवं पृथग्जना अपि मन्य­न्तेऽ­ध्या­सम् , येन न व्युत्पा­द्ये­ते­त्यत उक्तम् -
पण्डिता मन्यन्ते ।

नन्वि­य­म­ना­दि­र­ति­नि­रू­ढ­नि­बि­ड­वा­स­ना­नु­ब­द्धा­विद्या न शक्या निरोद्धुम् , उपायाभावादिति यो मन्यते तं प्रति तन्निरोधोपायमाह -
तद्विवेकेन च वस्तु­स्व­रू­पा­व­धा­र­णम् -

निर्विचिकित्सं ज्ञानम्
विद्यामाहुः,
पण्डिताः । प्रत्यगात्मनि खल्व­त्य­न्त­वि­विक्ते बुद्ध्यादिभ्यः बुद्ध्या­दि­भे­दा­ग्र­ह­नि­मित्तो बुद्ध्या­द्या­त्म­त्व­त­द्ध­र्मा­ध्यासः । तत्र श्रव­ण­म­न­ना­दि­भि­र्य­द्वि­वे­क­वि­ज्ञानं तेन विवेकाग्रहे निवर्तिते, अध्या­सा­प­बा­धा­त्मकं वस्तु­स्व­रू­पा­व­धा­रणं विद्या चिदात्मरूपं स्वरूपे व्यवतिष्ठत इत्यर्थः ।

स्यादेतत् । अति­नि­रू­ढ­नि­बि­ढ­वा­स­ना­नु­वि­द्धा­विद्या विद्य­या­प­बा­धि­तापि स्ववा­स­ना­व­शा­त्पु­न­रु­द्भ­वि­ष्यति प्रवर्तयिष्यति च वासनादि कार्यं स्वोचितमित्यत आह -
तत्रैवं सति, -
एवं­भू­त­व­स्तु­त­त्त्वा­व­धा­रणे सति,

यत्र यद­ध्या­स­स्त­त्कृ­तेन दोषेण गुणेन वाणुमात्रेणापि स न सम्बध्यते -
अन्तः­क­र­णा­दि­दो­षे­णा­श­ना­या­दिना चिदात्मा, चिदात्मनो गुणेन चैत­न्या­न­न्दा­दि­ना­न्तः­क­र­णादि न सम्बध्यते । एतदुक्तं भवति - तत्त्वा­व­धा­र­णा­भ्या­सस्य हि स्वभाव एव स तादृशः, यदनादिमपि निरू­ढ­नि­बि­ड­वा­स­न­मपि मिथ्या­प्र­त्य­य­म­प­न­यति । तत्त्वपक्षपातो हि स्वभावो धियाम् , यथाहुर्बाह्या अपि - “निरु­प­द्र­व­भू­ता­र्थ­स्व­भा­वस्य विपर्ययैः । न बाधो­य­त्न­व­त्त्वेऽपि बुद्धे­स्त­त्प­क्ष­पा­ततः ॥”(प्रमा­ण­वा­र्ति­कम्-२१२) इति । विशेषतस्तु चिदा­त्म­स्व­भा­वस्य तत्त्व­ज्ञा­न­स्या­त्य­न्ता­न्त­र­ङ्गस्य कुतोऽ­नि­र्वा­च्य­या­वि­द्यया बाध इति । यदुक्तम् , सत्यानृते मिथुनीकृत्य, विवे­का­ग्र­हा­द­ध्य­स्या­ह­मि­दं­म­मे­द­मिति लोकव्यवहार इति तत्र व्यपदेशलक्षणो व्यवहारः कण्ठोक्तः ।

इतिशब्दसूचितं लोक­व्य­व­हा­र­मा­द­र्श­यति -
तमे­त­म­वि­द्या­ख्य­मिति ।
निगदव्याख्यातम् ।

आक्षिपति -
कथं पुन­र­वि­द्या­व­द्वि­ष­याणि प्रत्यक्षादीनि प्रमाणानि ।
तत्त्वपरिच्छेदो हि प्रमा विद्या, तत्साधनानि प्रमाणानि कथ­म­वि­द्या­व­द्वि­ष­याणि । नाविद्यावन्तं प्रमा­णा­न्या­श्र­यन्ति, तत्कार्यस्य विद्याया अवि­द्या­वि­रो­धि­त्वा­दिति भावः ।

सन्तु वा प्रत्यक्षादीनि संवृत्यापि यथा तथा, शास्त्राणि तु पुरु­ष­हि­ता­नु­शा­स­न­प­रा­ण्य­वि­द्या­प्र­ति­प­क्ष­तया नावि­द्या­व­द्वि­ष­याणि भवि­तु­म­र्ह­न्ती­त्याह -
शास्त्राणि चेति ।

समाधत्ते - उच्यते - देहे­न्द्रि­या­दि­ष्व­हं­म­मा­भि­मा­न­ही­नस्य, तादा­त्म्य­त­द्ध­र्मा­ध्या­स­ही­नस्य प्रमा­तृ­त्वा­नु­प­पत्तौ सत्यां प्रमा­ण­प्र­वृ­त्त्य­नु­प­पत्तेः । अयमर्थः - प्रमातृत्वं हि प्रमां प्रति कर्तृत्वं तच्च स्वातन्त्र्यम् । स्वातन्त्र्यं च प्रमा­तु­रि­त­र­का­र­का­प्र­यो­ज्यस्य सम­स्त­का­र­क­प्र­यो­क्तृ­त्वम् । तदनेन प्रमाकरणं प्रमाणं प्रयोजनीयम् । न च स्वव्या­पा­र­म­न्त­रेण करणं प्रयोक्तुमर्हति । न च कूट­स्थ­नि­त्य­श्चि­दा­त्मा­प­रि­णामी स्वतो व्यापारवान् । तस्मा­द्व्या­पा­र­व­द्बु­द्ध्या­दि­ता­दा­त्म्या­ध्या­सात् , व्यापारवत्तया प्रमा­ण­म­धि­ष्ठा­तु­म­र्ह­तीति भव­त्य­वि­द्या­व­त्पु­रु­ष­वि­ष­य­त्व­म­वि­द्या­व­त्पु­रु­षा­श्र­यत्वं प्रमाणानामिति ।

अथ मा प्रवर्तिषत प्रमाणानि किं नश्छिन्नमित्यत आह -
न हीन्द्रि­या­ण्य­नु­पा­दाय प्रत्य­क्षा­दि­व्य­व­हारः सम्भवति ।
व्यवह्रियते अनेनेति व्यवहारः फलम् , प्रत्यक्षादीनां प्रमाणानां फलमित्यर्थः । ‘इन्द्रियाणि’ इति, इन्द्रि­य­लि­ङ्गा­दी­नीति द्रष्टव्यम् , दण्डिनो गच्छन्तीतिवत् । एवं हि ‘प्रत्यक्षादि’ इत्युपपद्यते । व्यवहारक्रियया च व्यव­हा­र्या­क्षे­पा­त्स­मा­न­क­र्तृ­कता । अनुपादाय यो व्यवहार इति योजना ।

किमिति पुनः प्रमातोपादत्ते प्रमाणानि, अथ स्वयमेव कस्मान्न प्रवर्तत इत्यत आह -
न चाधि­ष्ठा­न­म­न्त­रे­णे­न्द्रि­याणां व्यापारः -
प्रमाणानां व्यापारः

सम्भवति ।
न जातु कर­णा­न्य­न­धि­ष्ठि­तानि कर्त्रा स्वकार्ये व्याप्रियन्ते, मा भूत्कु­वि­न्द­र­हि­तेभ्यो वेमादिभ्यः पटोत्पत्तिरिति ।

अथ देह एवाधिष्ठाता कस्मान्न भवति, कृत­म­त्रा­त्मा­ध्या­से­ने­त्यत आह -
न चान­ध्य­स्ता­त्म­भा­वेन देहेन कश्चि­द्व्या­प्रि­यते ।
सुषुप्तेऽपि व्यापा­र­प्र­स­ङ्गादि भावः ।

स्यादेतत् । यथा­न­ध्य­स्ता­त्म­भावं वेमादिकं कुविन्दो व्यापारयन्पटस्य कर्ता, एव­म­न­ध्य­स्ता­त्म­भावं देहे­न्द्रि­या­दिति व्यापारयन् भविष्यति तदभिज्ञः प्रमातेत्यत आह -
न चैत­स्मि­न्स­र्व­स्मिन् -

इतरेतराध्यासे इत­रे­त­र­ध­र्मा­ध्यासे च,
असति, आत्मनोऽसङ्गस्य -
सर्वथा सर्वदा सर्व­ध­र्म­वि­यु­क्तस्य

प्रमा­तृ­त्व­मु­प­प­द्यते ।
व्यापारवन्तो हिकुविन्दादयो वेमादीनधिष्ठाय व्यापारयन्ति, अन­ध्य­स्ता­त्म­भा­वस्य तु देहादिष्वात्मनो न व्यापा­र­यो­गोऽ­स­ङ्ग­त्वा­दि­त्यर्थः ।

आत­श्चा­ध्या­सा­श्र­याणि प्रमाणानीत्याह -
न च प्रमा­तृ­त्व­म­न्त­रेण प्रमा­ण­प्र­वृ­त्ति­रस्ति ।
प्रमायां खलु फले स्वतन्त्रः प्रमाता भवति । अन्तः­क­र­ण­प­रि­णा­म­भे­दश्च प्रमेयप्रवणः कर्तृ­स्थ­श्चि­त्स्व­भावः प्रमा । कथं च जड­स्या­न्तः­क­र­णस्य परि­णा­म­श्चि­द्रूपो भवेत् , यदि चिदात्मा तत्र नाध्यस्येत । कथं चैष चिदात्मकर्तृको भवेत् , यद्यन्तःकरणं व्यापा­र­व­च्चि­दा­त्मनि नाध्यस्येत् । तस्मा­दि­त­रे­त­रा­ध्या­सा­च्चि­दा­त्म­क­र्तृस्थं प्रमाफलं सिध्यति । तत्सिद्धौ च प्रमातृत्वम् , तामेव च प्रमामुररीकृत्य प्रमाणस्य प्रवृत्तिः । प्रमातृत्वेन च प्रमोपलक्ष्यते । प्रमायाः फलस्याभावे प्रमाणं न प्रवर्तेत । तथा च प्रमाणमप्रमाणं स्यादित्यर्थः ।

उपसंहरति -
तस्मा­द­वि­द्या­व­द्वि­ष­या­ण्येव प्रत्यक्षादीनि प्रमाणानि ।

स्यादेतत् । भवतु पृथग्जनानामेवम् । आग­मो­प­प­त्ति­प्र­ति­प­न्न­प्र­त्य­गा­त्म­त­त्त्वानां व्युत्प­न्ना­ना­मपि पुंसां प्रमा­ण­प्र­मे­य­व्य­व­हारा दृश्यन्त इति कथ­म­वि­द्या­व­द्वि­ष­या­ण्येव प्रमाणानीत्यत आह -
पश्वा­दि­भि­श्चा­वि­शे­षा­दिति ।
विदन्तु नामा­ग­मो­प­प­त्तिभ्यां देहे­न्द्रि­या­दिभ्यो भिन्नं प्रत्यगात्मानम् । प्रमा­ण­प्र­मे­य­व्य­व­हारे तु प्राण­भृ­न्मा­त्र­ध­र्मा­न्ना­ति­व­र्तन्ते । यादृशो हि पशु­श­कु­न्ता­दी­ना­म­वि­प्र­ति­प­न्न­मु­ग्ध­भा­वानां व्यवहारस्तादृशो व्युत्प­न्ना­ना­मपि पुंसां दृश्यते । तेन तत्सा­मा­न्या­त्ते­षा­मपि व्यवहारसमये अवि­द्या­व­त्त्व­म­नु­मे­यम् । चशब्दः समुच्चये । उक्त­श­ङ्का­नि­व­र्त­न­स­हि­त­पू­र्वो­क्तो­प­पत्तिः अवि­द्या­व­त्पु­रु­ष­वि­ष­यत्वं प्रमाणानां साधयतीत्यर्थः ।

एतदेव विभजते -
यथा हि पश्वादय इति ।

अत्र च
शब्दादिभिः श्रोत्रादीनां सम्बन्धे सति
इति प्रत्यक्षं प्रमाणं दर्शितम् ।

शब्दादिविज्ञाने
इति तत्फलमुक्तम् ।

प्रतिकूले
इति च अनुमानफलम् । तथा हि - शब्दा­दि­स्व­रू­प­मु­प­लभ्य तज्जातीयस्य प्रति­कू­ल­ता­म­नु­स्मृत्य तज्जा­ती­य­त­यो­प­ल­भ्य­मा­नस्य प्रति­कू­ल­ता­म­नु­मि­मीत इति ।

उदाहरति -
यथा दण्डेति ।
शेष­म­ति­रो­हि­ता­र्थम् । स्यादेतत् । भवन्तु प्रत्य­क्षा­दी­न्य­वि­द्या­व­द्वि­ष­याणि । शास्त्रं तु ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादि न देहात्माध्यासेन प्रव­र्ति­तु­म­र्हति । अत्र खल्वा­मु­ष्मि­क­फ­लो­प­भो­ग­यो­ग्योऽ­धि­कारी प्रतीयते । तथा च पारमर्षं सूत्रम् - “शास्त्रफलं प्रयोक्तरि तल्ल­क्ष­ण­त्वा­त्त­स्मा­त्स्वयं प्रयोगे स्यात्”(अ. ३ पा. ७ सू. १८) इति ।

न च देहादि भस्मीभूतं पारलौकिकाय फलाय कल्पत इति देहाद्यतिरिक्तं कञ्चि­दा­त्मा­न­म­धि­का­रि­ण­मा­क्षि­पति शास्त्रम् , तदवगमश्च विद्येति कथ­म­वि­द्या­व­द्वि­षयं शास्त्र­मि­त्या­श­ङ्क्याह -
शास्त्रीये त्विति ।
तु शब्दः प्रत्य­क्षा­दि­व्य­व­हा­रा­द्भि­नत्ति शास्त्रीयम् । अधिकारशास्त्रं हि स्वर्गकामस्य पुंसः परलोकसम्बन्धं विना न निर्वहतीति ताव­न्मा­त्र­मा­क्षि­पेत् , न त्वस्या­सं­सा­रि­त्व­मपि, तस्या­धि­का­रेऽ­नु­प­यो­गात् । प्रत्युत औपनिषदस्य पुरु­ष­स्या­क­र्तु­र­भो­क्तु­र­धि­का­र­वि­रो­धात् । प्रयोक्ता हि कर्मणः कर्म­ज­नि­त­फ­ल­भो­ग­भागी कर्मण्यधिकारी स्वामी भवति । तत्र कथमकर्ता प्रयोक्ता, कथं वाऽभोक्ता कर्म­ज­नि­त­फ­ल­भो­ग­भागी । तस्मा­द­ना­द्य­वि­द्या­ल­ब्ध­क­र्तृ­त्व­भो­क्तृ­त्व­ब्रा­ह्म­ण­त्वा­द्य­भि­मा­निनं नरमधिकृत्य विधि­नि­षे­ध­शास्त्रं प्रवर्तते । एवं वेदान्ता अप्य­वि­द्या­व­त्पु­रु­ष­वि­षया एव । न हि प्रमा­त्रा­दि­वि­भा­गा­दृते तदर्थाधिगमः । ते त्ववि­द्या­व­न्त­म­नु­शा­सन्तो निर्मृ­ष्ट­नि­खि­ला­वि­द्य­म­नु­शिष्टं स्वरूपे व्यव­स्था­प­य­न्ती­त्ये­ता­वा­नेषां विशेषः । तस्मा­द­वि­द्या­व­त्पु­रु­ष­वि­ष­या­ण्येव शास्त्राणीति सिद्धम् ।

स्यादेतत् । यद्यपि विरो­धा­नु­प­यो­गा­भ्या­मौ­प­नि­षदः पुरुषोऽधिकारे नापेक्ष्यते, तथा­प्यु­प­नि­ष­द्भ्योऽ­व­ग­म्य­मानः शक्नोत्यधिकारं निरोद्धुम् । तथा च पर­स्प­रा­प­ह­ता­र्थ­त्वेन कृत्स्न एव वेदः प्रामा­ण्य­म­प­ज­ह्या­दि­त्यत आह -
प्राक्च तथाभूतात्मेति ।
सत्य­मौ­प­नि­ष­द­पु­रु­षा­धि­ग­मोऽ­धि­का­र­वि­रोधी, तस्मात्तु पुर­स्ता­त्क­र्म­वि­धयः स्वोचितं व्यवहारं निर्वर्तयन्तो नानुपजातेन ब्रह्मज्ञानेन शक्या निरोद्धुम् । न च परस्परापहतिः, विद्या­वि­द्या­व­त्पु­रु­ष­भे­देन व्यवस्थोपपत्तेः । यथा “न हिंस्यात्सर्वा भूतानि” इति साध्यां­श­नि­षे­धेऽपि ‘श्येनेनाभिचरन् यजेत’ इति शास्त्रं प्रवर्तमानं न हिंस्यादित्यनेन न विरुध्यते, तत्कस्य हेतोः, पुरुषभेदादिति ।

अव­जि­त­क्रो­धा­रा­तयः पुरुषा निषे­धेऽ­धि­क्रि­यन्ते, क्रोधा­रा­ति­व­शी­कृ­तास्तु श्येनादिशास्त्र इति अवि­द्या­व­त्पु­रु­ष­वि­ष­यत्वं नातिवर्तत इति यदुक्तं तदेव स्फोरयति -
तथा हिति ।

वर्णाध्यासः - ‘राजा राजसूयेन यजेत’ इत्यादिः । आश्रमाध्यासः - ‘गृहस्थः सदृशीं भार्यां विन्देत’ इत्यादिः । वयोऽध्यासः - ‘कृष्ण­के­शोऽ­ग्नी­ना­द­धीत’ इत्यादिः । अवस्थाध्यासः - “अप्र­ति­स­मा­धे­य­व्या­धीनां जलादिप्रवेशेन प्राणत्यागः” इति । आदिग्रहणं महा­पा­त­को­प­पा­त­क­स­ङ्क­री­क­र­णा­पा­त्री­क­र­ण­म­लि­नी­क­र­णा­द्य­ध्या­सो­प­स­ङ्ग्र­हा­र्थम् । तदे­व­मा­त्मा­ना­त्मनोः पर­स्प­रा­ध्या­स­मा­क्षे­प­स­मा­धा­ना­भ्या­मु­प­पाद्य प्रमा­ण­प्र­मे­य­व्य­व­हा­र­प्र­व­र्त­नेन च दृढीकृत्य तस्या­न­र्थ­हे­तु­त्व­मु­दा­ह­र­ण­प्र­प­ञ्चेन प्रतिपादयितुं तत्स्वरुपमुक्तं स्मारयति -
अध्यासो नाम अत­स्मिं­स्त­द्बु­द्धि­रि­त्य­वो­चाम ।

'स्मृति­रूपः परत्र पूर्व­दृ­ष्टा­व­भासः” इत्यस्य सङ्क्षे­पा­भि­धा­न­मे­तत् । तत्र अहमिति धर्मि­ता­दा­त्म्या­ध्या­स­मा­त्रम् , ममे­त्य­नु­त्पा­दि­त­ध­र्मा­ध्यासं नानर्थहेतुरिति धर्माध्यासमेव ममकारं साक्षा­द­शे­षा­न­र्थ­सं­सा­र­का­र­ण­मु­दा­ह­र­ण­प्र­प­ञ्चे­नाह -
तद्यथा पुत्र­भा­र्या­दि­ष्विति ।
देह­ता­दा­त्म्य­मा­त्म­न्य­ध्यस्य देहधर्मं पुत्र­क­ल­त्रा­दि­स्वाम्यं च कृश­त्वा­दि­व­दा­रोप्य आह - अहमेव विकलः, सकलः इति । स्वस्य खलु साकल्येन स्वाम्य­सा­क­ल्या­त्स्वा­मी­श्वरः सकलः सम्पूर्णो भवति । तथा स्वस्य वैकल्येन स्वाम्य­वै­क­ल्यात् , स्वामीश्वरो विकलोऽसम्पूर्णो भवति । बाह्यधर्मा ये वैकल्यादयः स्वाम्य­प्र­णा­लि­कया सञ्चरिताः शरीरे ताना­त्म­न्य­ध्य­स्य­ती­त्यर्थः ।

यदा च परोपाध्यपेक्षे देहधर्मे स्वाम्ये इयं गतिः, तदा कैव कथा अनौपाधिकेषु देहधर्मेषु कृश­त्वा­दि­ष्वि­त्या­श­य­वा­नाह -
तथा देहधर्मानिति ।
देहा­दे­र­प्य­न्त­र­ङ्गा­णा­मि­न्द्रि­या­णा­म­ध्य­स्ता­त्म­भा­वानां धर्मा­न्मू­क­त्वा­दीन् , ततोऽ­प्य­न्त­र­ङ्ग­स्या­न्तः­क­र­णस्य अध्य­स्ता­त्म­भा­वस्य धर्मान् कामसङ्कल्पादीन् आत्म­न्य­ध्य­स्य­तीति योजना ।

तदनेन प्रपञ्चेन धर्मा­ध्या­स­मुक्त्वा तस्य मूलं धर्म्यध्यासमाह -
एव­म­हं­प्र­त्य­यि­नम् -
अहंप्रत्ययो वृत्ति­र्य­स्मि­न्न­न्तः­क­र­णादौ, सोऽय­म­हं­प्र­त्य­यी­तम् ।

स्वप्र­चा­र­सा­क्षिणि -
अन्तः­क­र­ण­प्र­चा­र­सा­क्षिणि,

चैत­न्यो­दा­सी­न­ताभ्यां,
प्रत्य­गा­त्म­न्य­ध्यस्य ।
तदनेन कर्तृ­त्व­भो­क्तृत्वे उपपादिते ।

चैतन्यमुपपादयति -
तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेण -
अन्तः­क­र­णा­दि­वि­प­र्य­येण, अन्तः­क­र­णा­द्य­चे­त­नम् , तस्य विपर्ययः चैतन्यम् , तेन । इत्थम्भूतलक्षणे तृतीया ।

अन्तः­क­र­णा­दि­ष्व­ध्य­स्यति ।
तद­ने­ना­न्तः­क­र­णा­द्य­व­च्छिन्नः प्रत्यगात्मा इद­म­नि­दं­स्व­रू­प­श्चे­तनः कर्ता भोक्ता कार्य­का­र­णा­वि­द्या­द्व­या­धा­रोऽ­ह­ङ्का­रा­स्पदं संसारी सर्वा­न­र्थ­स­म्भा­र­भा­जनं जीवात्मा इत­रे­त­रा­ध्या­सो­पा­दानः, तदु­पा­दा­न­श्चा­ध्यास इत्यनादित्वाद् बीजा­ङ्कु­र­व­न्ने­त­रे­त­रा­श्र­य­त्व­मि­त्युक्तं भवति ।

प्रमा­ण­प्र­मे­य­व्य­व­हा­र­दृ­ढी­कृ­त­मपि शिष्यहिताय स्वरू­पा­भि­धा­न­पू­र्वकं सर्व­लो­क­प्र­त्य­क्ष­त­या­ध्यासं सुदृढीकरोति -
एवमयमनादिरनन्तः -
तत्त्व­ज्ञा­न­म­न्त­रे­णा­श­क्य­स­मु­च्छेदः ।

अनाद्यनन्तत्वे हेतुरुक्तः -
नैसर्गिक इति । मिथ्या­प्र­त्य­य­रूपः -
मिथ्या­प्र­त्य­यानां रूप­म­नि­र्व­च­नी­य­त्वम् तद्यस्य स तथोक्तः । अनिर्वचनीय इत्यर्थः ।

प्रकृतमुपसंहरति -
अस्यानर्थहेतोः प्रहाणाय ।

विरोधिप्रत्ययं विना कुतोऽस्य प्रहाणमित्यत उक्तम् -
आत्मै­क­त्व­वि­द्या­प्र­ति­प­त्तये इति ।
प्रतिपत्तिः प्राप्तिः तस्यै, न तु जपमात्राय, नापि कर्मसु प्रवृत्तये, आत्मैकत्वं विग­लि­त­नि­खि­ल­प्र­प­ञ्च­त्व­मा­न­न्द­रू­पस्य सतः, तत्प्रतिपत्तिं निर्विचिकित्सां भावयन्तो वेदान्ताः समू­ल­घा­त­म­ध्या­स­मु­प­घ्नन्ति । एतदुक्तं भवति - अस्म­त्प्र­त्य­य­स्या­त्म­वि­ष­यस्य समीचीनत्वे सति ब्रह्मणो ज्ञात­त्वा­न्नि­ष्प्र­यो­ज­न­त्वाच्च न जिज्ञासा स्यात् । तदभावे च न ब्रह्मज्ञानाय वेदान्ताः पठ्येरन् । अपि त्ववि­व­क्षि­तार्था जपमात्रे उपयुज्येरन् । न हि तदौ­प­नि­ष­दा­त्म­प्र­त्ययः प्रमाणतामश्नुते । न चासा­व­प्र­मा­ण­म­भ्य­स्तोऽपि वास्तवं कर्तृ­त्व­भो­क्तृ­त्वा­द्या­त्म­नोऽ­प­नो­दि­तु­म­र्हति । आरोपितं हि रूपं तत्त्व­ज्ञा­ने­ना­पो­द्यते, न तु वास्त­व­म­त­त्त्व­ज्ञा­नेन । न हि रज्ज्वा रज्जुत्वं सहस्रमपि सर्प­धा­रा­प्र­त्यया अपवदितुं समुत्सहन्ते । मिथ्या­ज्ञा­न­प्र­स­ञ्जितं च स्वरूपं शक्यं तत्त्व­ज्ञा­ने­ना­प­व­दि­तुम् । मिथ्या­ज्ञा­न­सं­स्का­रश्च सुदृढोऽपि तत्त्व­ज्ञा­न­सं­स्का­रे­णा­द­र­नै­र­न्त­र्य­दी­र्घ­का­ला­त­त्त्व­ज्ञा­ना­भ्या­स­ज­न्म­नेति ।

स्यादेतत् । प्राणाद्युपासना अपि वेदान्तेषु बहु­ल­मु­प­ल­भ्यन्ते, तत्कथं सर्वेषां वेदा­न्ता­ना­मा­त्मै­क­त्व­प्र­ति­पा­द­न­मर्थ इत्यत आह -
यथा चायमर्थः सर्वेषां वेदान्तानां तथा वयमस्यां शारी­र­क­मी­मां­सायां प्रदर्शयिष्यामः ।
शरीरमेव शरीरकम् तत्र निवासी शारीरको जीवात्मा, तस्य त्वम्प­दा­भि­धे­यस्य तत्प­दा­भि­धे­य­प­र­मा­त्म­रू­प­ता­मी­मांसा या सा तथोक्ता । एता­वा­न­त्रा­र्थ­स­ङ्क्षेपः - यद्यपि स्वाध्या­या­ध्य­य­न­प­र­वि­धिना स्वाध्या­य­प­द­वा­च्यस्य वेदराशेः फल­व­द­र्था­व­बो­ध­प­र­ता­मा­पा­द­यता कर्म­वि­धि­नि­षे­धा­ना­मिव वेदान्तानामपि स्वाध्या­य­श­ब्द­वा­च्यानां फल­व­द­र्था­व­बो­ध­प­र­त्व­मा­पा­दि­तम् , यद्यपि च “अविशिष्टस्तु वाक्यार्थः” इति न्यायात् मन्त्राणामिव वेदा­न्ता­ना­म­र्थ­प­र­त्व­मौ­त्स­र्गि­कम् , यद्यपि च वेदा­न्ते­भ्य­श्चै­त­न्या­न­न्द­घनः कर्तृ­त्व­भो­क्तृ­त्व­र­हितो निष्प्रपञ्च एकः प्रत्यगात्मा अवगम्यते, तथापि कर्तृ­त्व­भो­क्तृ­त्व­दुः­ख­शो­क­मो­ह­म­य­मा­त्मा­न­म­व­गा­ह­मा­ने­ना­हं­प्र­त्य­येन सन्दे­ह­बा­ध­वि­र­हिणा विरुध्यमाना वेदान्ताः स्वार्था­त्प्र­च्युता उपचरितार्था वा जपमात्रोपयोगिनो वेत्य­वि­व­क्षि­त­स्वार्थाः । तथा च तद­र्थ­वि­चा­रा­त्मिका चतुर्लक्षणी शारीरकमीमांसा नारब्धव्या । न च सर्व­ज­नी­ना­ह­म­नु­भ­व­सिद्ध आत्मा सन्दिग्धो वा सप्रयोजनो वा, येन जिज्ञास्यः सन् विचारं प्रयुञ्जीतेति पूर्वः पक्षः । सिद्धान्तस्तु भवेदेतदेवं यद्यहंप्रत्ययः प्रमाणम् । तस्य तूक्तेन प्रकारेण श्रुत्या­दि­बा­ध­क­त्वा­नु­प­पत्तेः, श्रुत्यादिभिश्च सम­स्त­ती­र्थ­क­रैश्च प्रामा­ण्या­न­भ्यु­प­ग­मा­द­ध्या­स­त्वम् । एवं च वेदान्ता नावि­व­क्षि­तार्थाः, नाप्यु­प­च­रि­तार्थाः, किं तूक्तलक्षणाः । प्रत्यगात्मैव तेषां मुख्योऽर्थः ।

तस्य च वक्ष्यमाणेन क्रमेण सन्दिग्धत्वात् प्रयोजनवत्वाच्च युक्ता जिज्ञासा, इत्या­श­य­वा­न्सू­त्र­कारः तज्जि­ज्ञा­सा­म­सू­त्र­यत् -
अथातो ब्रह्म­जि­ज्ञा­सेति ।
जिज्ञासया सन्देहप्रयोजने सूचयति । तत्र साक्षा­दि­च्छा­व्या­प्य­त्वा­द्ब्र­ह्म­ज्ञानं कण्ठोक्तं प्रयोजनम् । न च कर्म­ज्ञा­ना­त्प­रा­ची­न­म­नु­ष्ठा­न­मिव ब्रह्म­ज्ञा­ना­त्प­रा­चीनं किञ्चिदस्ति, येनै­त­द­वा­न्त­र­प्र­यो­जनं भवेत् । किन्तु ब्रह्म­मी­मां­सा­ख्य­त­र्के­ति­क­र्त­व्य­ता­नु­ज्ञा­त­वि­ष­यै­र्वे­दा­न्तै­रा­हितं निर्विचिकित्सं ब्रह्मज्ञानमेव सम­स्त­दुः­खो­प­श­म­रू­प­मा­न­न्दै­क­रसं परमं नः प्रयोजनम् । तमर्थमधिकृत्य हि प्रेक्षावन्तः प्रव­र्त­न्ते­त­राम् । तच्च प्राप्त­म­प्य­ना­द्य­वि­द्या­व­शा­द­प्रा­प्त­मि­वेति प्रेप्सितं भवति । यथा स्वग्रीवागतमपि ग्रैवेयकं कुत­श्चि­द्भ्र­मा­न्ना­स्तीति मन्यमानः परेण प्रति­पा­दि­त­म­प्रा­प्त­मिव प्राप्नोति । जिज्ञासा तु संशयस्य कार्यमिति स्वकारणं संशयं सूचयति । संशयश्च मीमांसारम्भं प्रयोजयति ।

तथा च शास्त्रे प्रेक्षा­व­त्प्र­वृ­त्ति­हे­तु­सं­श­य­प्र­यो­ज­न­सू­च­नात्, युक्तमस्य सूत्रस्य शास्त्रा­दि­त्व­मि­त्याह भगवान्भाष्यकारः -
वेदा­न्त­मी­मां­सा­शा­स्त्रस्य व्याचि­ख्या­सि­तस्य
अस्माभिः,

इदमादिमं सूत्रम् ।
पूजितविचारवचनो मीमांसाशब्दः । पर­म­पु­रु­षा­र्थ­हे­तु­भू­त­सू­क्ष्म­त­मा­र्थ­नि­र्ण­य­फ­लता विचारस्य पूजितता । तस्या मीमांसायाः शास्त्रम् , सा ह्यनेन शिष्यते शिष्येभ्यो यथा­व­त्प्र­ति­पा­द्यत इति । सूत्रं च बह्वर्थसूचनात् भवति । यथाहुः - “लघूनि सूचितार्थानि स्वल्पा­क्ष­र­प­दानि च । सर्वतः सारभूतानि सूत्रा­ण्या­हु­र्म­नी­षिणः” ॥ इति ।

तदेवं सूत्रतात्पर्यं व्याख्याय तस्य प्रथमपदमथेति व्याचष्टे -
तत्राथशब्द आनन्तर्यार्थः परिगृह्यते ।
तेषु सूत्रपदेषु मध्ये योऽयमथशब्दः स आनन्तर्यार्थ इति योजना ।

नन्वा­धि­का­रा­र्थोऽ­प्य­थ­शब्दो दृश्यते, यथा ‘अथैष ज्योतिः’ इति वेदे । यथा वा लोके ‘अथ शब्दानुशासनम्’ , ‘अथ योगानुशासनम्’ इति । तत्कि­म­त्रा­धि­का­रार्थो न गृह्यत इत्यत आह -
नाधिकारार्थः ।

कुतः,
ब्रह्म­जि­ज्ञा­साया अनधिकार्यत्वात् ।
जिज्ञासा तावदिह सूत्रे ब्रह्मणश्च तत्प्र­ज्ज्ञा­नाच्च शब्दतः प्रधानं प्रतीयते । न च यथा ‘दण्डी प्रैषानन्वाह’ इत्य­त्रा­प्र­धा­न­मपि दण्डशब्दार्थो विवक्ष्यते, एवमिहापि ब्रह्मतज्ज्ञाने इति युक्तम्; ब्रह्म­मी­मां­सा­शा­स्त्र­प्र­वृ­त्त्य­ङ्ग­सं­श­य­प्र­यो­ज­न­सू­च­ना­र्थ­त्वेन जिज्ञासाया एव विवक्षितत्वात् । तदविवक्षायां तदसूचनेन काक­द­न्त­प­री­क्षा­या­मिव ब्रह्म­मी­मां­सायां, न प्रेक्षावन्तः प्रवर्तेरन् । न हि तदानीं ब्रह्म वा तज्ज्ञानं वाभिधेयप्रयोजने भवितुमर्हतः, अन­ध्य­स्ता­हं­प्र­त्य­य­वि­रो­धेन वेदा­न्ता­ना­मे­वं­वि­धेऽर्थे प्रामा­ण्या­नु­प­पत्तेः । कर्म­प्र­वृ­त्त्यु­प­यो­गि­त­यो­प­च­रि­ता­र्थानां वा जपोपयोगिनां वा ‘हुं फड्’ इत्ये­व­मा­दी­ना­मि­वा­वि­व­क्षि­ता­र्था­ना­मपि स्वाध्या­या­ध्य­य­न­वि­ध्य­धी­न­ग्र­ह­ण­त्वस्य सम्भवात् । तस्मा­त्स­न्दे­ह­प्र­यो­ज­न­सू­चनी जिज्ञासा इह पदतो वाक्यतश्च प्रधानं विवक्षितव्या । न च तस्या अधिकार्यत्वम् , अप्र­स्तू­य­मा­न­त्वात् , येन तत्स­म­भि­व्या­हृ­तोऽ­थ­श­ब्दोऽ­धि­का­रार्थः स्यात् । जिज्ञासाविशेषणं तु ब्रह्म­त­ज्ज्ञा­न­म­धि­कार्यं भवेत् । न च तदप्यथशब्देन सम्बध्यते, प्राधा­न्या­भा­वात् । न च जिज्ञासा मीमांसा, येन योगा­नु­शा­स­न­व­द­धि­क्रि­येत, नान्तत्वं निपात्य ‘माङ्माने’ इत्यस्माद्वा ‘मानपूजायाम्’ इत्यस्माद्वा धातोः ‘मान्बध’ इत्या­दि­ना­नि­च्छार्थे सनि व्युत्पादितस्य मीमांसाशब्दस्य पूजि­त­वि­चा­र­व­च­न­त्वात् । ज्ञाने­च्छा­वा­च­क­त्वात्तु जिज्ञासापदस्य, प्रवर्तिका हि मीमांसायां जिज्ञासा स्यात् । न च प्रव­र्त्य­प्र­व­र्त­क­यो­रै­क्यम् , एकत्वे तद्भा­वा­नु­प­पत्तेः । न च स्वार्थ­प­र­त्व­स्यो­प­पत्तौ सत्या­म­न्या­र्थ­प­र­त्व­क­ल्पना युक्ता, अतिप्रसङ्गात् । तस्मा­त्सु­ष्ठू­क्तम् “जिज्ञासाया अन­धि­का­र्य­त्वात्” इति ।

अथ मङ्ग­ला­र्थोऽ­थ­शब्दः कस्मान्न भवति । तथा च मङ्ग­ल­हे­तु­त्वा­त्प्र­त्यहं ब्रह्मजिज्ञासा कर्तव्येति सूत्रार्थः सम्पद्यत इत्यत आह -
मङ्गलस्य च वाक्यार्थे समन्वयाभावात् ।
पदार्थ एव हि वाक्यार्थे समन्वीयते, स च वाच्यो वा लक्ष्यो वा । न चेह मङ्गलमथशब्दस्य वाच्यं वा लक्ष्यं वा, किं तु मृद­ङ्ग­श­ङ्ख­ध्व­नि­व­द­थ­श­ब्द­श्र­व­ण­मा­त्र­का­र्यम् । न च कार्य­ज्ञा­प्य­यो­र्वा­क्यार्थे समन्वयः शब्दव्यवहारे दृष्ट इत्यर्थः ।

तत्किमिदानीं मङ्ग­ला­र्थोऽ­थ­शब्दः तेषु तेषु न प्रयोक्तव्यः । तथा च “ओङ्का­र­श्चा­थ­श­ब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मा­न्मा­ङ्ग­लि­का­वुभौ” ॥ इति स्मृतिव्याकोप इत्यत आह -
अर्था­न्त­र­प्र­युक्त एव ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवति ।
अर्था­न्त­रे­ष्वा­न­न्त­र्या­दिषु प्रयु­क्तोऽ­थ­शब्दः श्रुत्या श्रवणमात्रेण वेणु­वी­णा­ध्व­नि­व­न्म­ङ्गलं कुर्वन् , मङ्गलप्रयोजनो भवति, अन्या­र्थ­मा­नी­य­मा­नो­द­कु­म्भ­द­र्श­न­वत् । तेन न स्मृतिव्याकोपः । न चेहा­न­न्त­र्या­र्थस्य सतो न श्रवणमात्रेण मङ्ग­ला­र्थ­ते­त्यर्थः ।

स्यादेतत् । पूर्व­प्र­कृ­ता­पे­क्षोऽ­थ­शब्दो भविष्यति विनै­वा­न­न्त­र्या­र्थ­त्वम् । तद्य­थे­म­मे­वा­थ­शब्दं प्रकृत्य विमृश्यते किमयमथशब्द आनन्तर्ये अथाधिकार इति । अत्र विम­र्श­वा­क्येऽ­थ­शब्दः पूर्व­प्र­कृ­त­म­थ­श­ब्द­म­पेक्ष्य प्रथ­म­प­क्षो­प­न्या­स­पू­र्वकं पक्षा­न्त­रो­प­न्यासे । न चास्या­न­न्त­र्य­मर्थः, पूर्वप्रकृतस्य प्रथ­म­प­क्षो­प­न्या­सेन व्यवायात् । न च प्रकृतानपेक्षा, तदनपेक्षस्य तद्वि­ष­य­त्वा­भा­वे­ना­स­मा­न­वि­ष­य­तया विक­ल्पा­नु­प­पत्तेः । न हि जातु भवति किं नित्य आत्मा, अथ अनित्या बुद्धिरिति । तस्मादानन्तर्यं विना पूर्व­प्र­कृ­ता­पेक्ष इहाथशब्दः कस्मान्न भवतीत्यत आह -
पूर्व­प्र­कृ­ता­पे­क्षा­याश्च फलत आन­न्त­र्या­व्य­ति­रे­कात् ।
अस्यार्थः - न वय­मा­न­न्त­र्या­र्थतां व्यसनितया रोचयामहे, किं तु ब्रह्म­जि­ज्ञा­सा­हे­तु­भू­त­पू­र्व­प्र­कृ­त­सि­द्धये, सा च पूर्व­प्र­कृ­ता­र्था­पे­क्ष­त्वेऽ­प्य­थ­श­ब्दस्य सिध्यतीति व्यर्थ­मा­न­न्त­र्या­र्थ­त्वा­व­धा­र­णा­ग्र­होऽ­स्मा­क­मिति । तदिदमुक्तम् ‘फलतः’ इति । परमार्थतस्तु कल्पा­न्त­रो­प­न्यासे पूर्व­प्र­कृ­ता­पेक्षा । न चेह कल्पा­न्त­रो­प­न्यास इति पारि­शे­ष्या­दा­न­न्त­र्यार्थ एवेति युक्तम् ।

भव­त्वा­न­न्त­र्यार्थः, किमेवं सतीत्यत आह -
सति चान­न्त­र्या­र्थत्व इति ।
न तावद्यस्य कस्य­चि­द­त्रा­न­न्त­र्य­मिति वक्तव्यम् , तस्या­भि­धा­न­म­न्त­रे­णापि प्राप्तत्वात् । अवश्यं हि पुरुषः किञ्चित्कृत्वा किञ्चित्करोति । न चान­न्त­र्य­मा­त्रस्य दृष्टमदृष्टं वा प्रयोजनं पश्यामः । तस्मा­त्त­स्या­त्रा­न­न्तर्यं वक्तव्यं यद्विना ब्रह्मजिज्ञासा न भवति, यस्मिन्सति तु भवन्ती भवत्येव ।

तदिदमुक्तम् -
यत्पूर्ववृत्तं नियमेनापेक्षत इति ।
स्यादेतत् । धर्मजिज्ञासाया इव ब्रह्म­जि­ज्ञा­साया अपि योग्य­त्वा­त्स्वा­ध्या­या­ध्य­य­ना­न­न्त­र्यम् , धर्म­व­द्ब्र­ह्म­णोऽ­प्या­म्ना­यै­क­प्र­मा­ण­ग­म्य­त्वात् । तस्य चागृहीतस्य स्वविषये विज्ञानाजननात् , ग्रहणस्य च स्वाध्या­योऽ­ध्ये­तव्य इत्यध्ययनेनैव नियतत्वात् ।

तस्मा­द्वे­दा­ध्य­य­ना­न­न्त­र्य­मेव ब्रह्म­जि­ज्ञा­साया अप्यथशब्दार्थ इत्यत आह -
स्वाध्या­या­न­न्तर्यं तु समानं,
धर्म­ब्र­ह्म­जि­ज्ञा­सयोः । अत्र च स्वाध्यायेन विषयेण तद्विषयमध्ययनं लक्षयति । तथा च “अथातो धर्मजिज्ञासा”(जै.सू. १-१-१) इत्यनेनैव गतमिति नेदं सूत्र­मा­र­ब्ध­व्यम् । धर्मशब्दस्य वेदा­र्थ­मा­त्रो­प­ल­क्ष­ण­तया धर्म­व­द्ब्र­ह्म­णोऽपि वेदा­र्थ­त्वा­वि­शे­षेण वेदा­ध्य­य­ना­न­न्त­र्यो­प­दे­श­सा­म्या­दि­त्यर्थः ।

चोदयति -
नन्विह कर्मा­व­बो­धा­न­न्तर्यं विशेषः,
धर्मजिज्ञासातो ब्रह्म­जि­ज्ञा­सायाः । अस्यार्थः - “विविदिषन्ति यज्ञेन”(बृ. उ. ४ । ४ । २२) इति तृतीयाश्रुत्या यज्ञा­दी­ना­म­ङ्ग­त्वेन ब्रह्मज्ञाने विनियोगात् , ज्ञानस्यैव कर्मतयेच्छां प्रति प्राधान्यात् , प्रधा­न­स­म्ब­न्धा­च्चा­प्र­धा­नानां पदा­र्था­न्त­रा­णाम् । तत्रापि च न वाक्या­र्थ­ज्ञा­नो­त्प­त्ता­व­ङ्ग­भावो यज्ञादीनाम् , वाक्या­र्थ­ज्ञा­नस्य वाक्या­दे­वो­त्पत्तेः । न च वाक्यं सहकारितया कर्माण्यपेक्षत इति युक्तम् , अकृतकर्मणामपि विदि­त­प­द­प­दा­र्थ­स­म्ब­न्धानां सम­धि­ग­त­शा­ब्द­न्या­य­त­त्त्वानां गुण­प्र­धा­न­भू­त­पू­र्वा­प­र­प­दा­र्था­का­ङ्क्षा­सं­नि­धि­यो­ग्य­ता­नु­स­न्धा­न­व­ता­म­प्र­त्यूहं वाक्या­र्थ­प्र­त्य­यो­त्पत्तेः । अनुत्पत्तौ वा विधि­नि­षे­ध­वा­क्या­र्थ­प्र­त्य­या­भा­वेन तद­र्था­नु­ष्ठा­न­प­रि­व­र्ज­ना­भा­व­प्र­सङ्गः । तद्बोधतस्तु तद­र्था­नु­ष्ठा­न­प­रि­व­र्जने परस्पराश्रयः, तस्मिन् सति तद­र्था­नु­ष्ठा­न­प­रि­व­र्जनं ततश्च तद्बोध इति । न च वेदा­न्त­वा­क्या­ना­मेव स्वार्थ­प्र­त्या­यने कर्मापेक्षा, न वाक्या­न्त­रा­णा­मिति साम्प्रतम् , विशे­ष­हे­तो­र­भा­वात् । ननु “तत्त्वमसि”(छा. उ. ६ । ८ । ७)“तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति वाक्यात्, त्वम्पदार्थस्य, कर्तृ­भो­क्तृ­रू­पस्य जीवात्मनो नित्य­शु­द्ध­बु­द्धो­दा­सी­न­स्व­भा­वेन तत्पदार्थेन पर­मा­त्म­नै­क्य­म­शक्यं द्रागित्येव प्रतिपत्तुम् आपा­त­तोऽ­शु­द्ध­स­त्त्वै­र्यो­ग्य­ता­वि­र­ह­वि­नि­श्च­यात् । यज्ञ­दा­न­त­पोऽ­ना­श­क­त­नू­कृ­ता­न्त­र्म­लास्तु विशुद्धसत्त्वाः श्रद्द­धा­ना­यो­ग्य­ता­व­ग­म­पु­रः­सरं तादा­त्म्य­म­व­ग­मि­ष्य­न्तीति चेत् , तत्किमिदानीं प्रमाणकारणं योग्य­ता­व­धा­र­ण­म­प्र­मा­णा­त्क­र्मणो वक्तु­म­ध्य­व­सि­तोऽसि, प्रत्य­क्षा­द्य­ति­रिक्तं वा कर्मापि प्रमाणम् । वेदा­न्ता­वि­रु­द्ध­त­न्मू­ल­न्या­य­ब­लेन तु योग्यतावधारणे कृतं कर्मभिः । तस्मात् “तत्त्वमसि” इत्यादेः श्रुतमयेन ज्ञानेन जीवात्मनः परमात्मभावं गृहीत्वा, तन्मूलया चोपपत्त्या व्यवस्थाप्य, तदुपासनायां भाव­ना­प­रा­भि­धा­नायां दीर्घ­का­ल­नै­र­न्त­र्य­वत्यां ब्रह्म­सा­क्षा­त्का­र­फ­लायां यज्ञा­दी­ना­मु­प­योगः । यथाहुः - “स तु दीर्ध­का­ल­नै­र­न्त­र्य­स­त्का­रा­से­वितो दृढभूमिः”(यो.सू.१-१४) इति ब्रह्म­च­र्य­त­पः­श्र­द्धा­य­ज्ञा­द­यश्च सत्काराः । अत एव श्रुतिः - “तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः”(बृ. उ. ४ । ४ । २१) । इति । विज्ञाय तर्कोपकरणेन शब्देन प्रज्ञां भावनां कुर्वीतेत्यर्थः । अत्र च यज्ञादीनां श्रेयः­प­रि­प­न्थि­क­ल्म­ष­नि­ब­र्ह­ण­द्वा­रे­णो­प­योग इति केचित् । पुरु­ष­सं­स्का­र­द्वा­रे­णे­त्यन्ये । यज्ञादिसंस्कृतो हि पुरुषः आद­र­नै­र­न्त­र्य­दी­र्घ­का­लै­रा­से­व­मानो ब्रह्म­भा­व­ना­म­ना­द्य­वि­द्या­वा­सनां समूलकाषं कषति, ततोऽस्य प्रत्यगात्मा सुप्रसन्नः केवलो विशदीभवति । अत एव स्मृतिः - “महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः” ।(मनु. २ । २८) “यस्यै­तेऽ­ष्टा­च­त्वा­रिं­श­त्सं­स्काराः”(दत्तपुराण) इति च । अपरे तु ऋणत्रयापाकरणे ब्रह्म­ज्ञा­नो­प­योगं कर्मणामाहुः । अस्ति हि स्मृतिः - “ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्”(मनु. ६। ३५) इति । अन्ये तु “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन”(बृ. उ. ४ । ४ । २२) इत्या­दि­श्रु­ति­भ्य­स्त­त्त­त्फ­लाय चोदितानामपि कर्मणां संयोगपृथक्त्वेन ब्रह्मभावनां प्रत्य­ङ्ग­भा­व­मा­च­क्षते, क्रत्वर्थस्येव खादिरत्वस्य वीर्यार्थताम् , ‘एकस्य तूभयार्थत्वे संयो­ग­पृ­थ­क्त्वम्’ इति न्यायात् । अत्र च पारमर्षं सूत्रम् - “सर्वापेक्षा च यज्ञा­दि­श्रु­ते­र­श्व­वत्”(ब्र . अ. ३. पा. ४ सू. २६) इति । यज्ञतपोदानादि सर्वम् , तदपेक्षा ब्रह्म­भा­व­ने­त्यर्थः । तस्माद्यदि श्रुत्यादयः प्रमाणं यदि वा पारमर्षं सूत्रं सर्वथा यज्ञा­दि­क­र्म­स­मु­च्चिता ब्रह्मोपासना विशेषणत्रयवती अना­द्य­वि­द्या­त­द्वा­स­ना­स­मु­च्छे­द­क्र­मेण ब्रह्म­सा­क्षा­त्का­राय मोक्षापरनाम्ने कल्पत इति तदर्थं कर्मा­ण्य­नु­ष्ठे­यानि । न चैतानि दृष्टा­दृ­ष्ट­सा­म­वा­यि­का­रा­दु­प­का­र­हे­तु­भू­तौ­प­दे­शि­का­ति­दे­शि­क­क्र­म­प­र्य­न्ता­ङ्ग­ग्रा­म­स­हि­त­प­र­स्प­र­वि­भि­न्न­क­र्म­स्व­रू­प­त­द­धि­का­रि­भे­द­प­रि­ज्ञानं विना शक्या­न्य­नु­ष्ठा­तुम् । न च धर्म­मी­मां­सा­प­रि­शी­लनं विना तत्परिज्ञानम् । तस्मा­त्सा­धू­क्तम् ‘कर्मा­व­बो­धा­न­न्तर्यं विशेषः’ इति कर्मावबोधेन हि कर्मा­नु­ष्ठा­न­सा­हित्यं भवति ब्रह्मोपासनाया इत्यर्थः ।

तदेतन्निराकरोति -
न ।

कुतः, कर्मावबोधात्
प्राग­प्य­धी­त­वे­दा­न्तस्य ब्रह्म­जि­ज्ञा­सो­प­पत्तेः ।
इदमत्राकूतम् - ब्रह्मोपासनया भावनापराभिधानया कर्मा­ण्य­पे­क्ष्यन्त इत्युक्तम् , तत्र ब्रूमः - क्व पुनरस्याः कर्मापेक्षा, किं कार्ये, यथाग्नेयादीनां परमापूर्वे चिर­भा­वि­फ­ला­नु­कूले जनयितव्ये समिदाद्यपेक्षा । स्वरूपे वा, यथा तेषामेव द्विर­व­त्त­पु­रो­डा­शा­दि­द्र­व्या­ग्नि­दे­व­ता­द्य­पेक्षा । न तावत्कार्ये, तस्य विकल्पासहत्वात् । तथा हि - ब्रह्मोपासनाया ब्रह्म­स्व­रू­प­सा­क्षा­त्कारः कार्यमभ्युपेयः, स चोत्पाद्यो वा स्यात् , यथा संयवनस्य पिण्डः । विकार्यो वा, यथावघातस्य व्रीहयः । संस्कार्यो वा, यथा प्रोक्ष­ण­स्यो­लू­ख­ला­दयः । प्राप्यो वा, यथा दोहनस्य पयः । न तावदुत्पाद्यः । न खलु घटा­दि­सा­क्षा­त्कार इव जडस्वभावेभ्यो घटादिभ्यो भिन्न इन्द्रि­या­द्या­धेयो ब्रह्म­सा­क्षा­त्कारो भावनाधेयः सम्भवति, ब्रह्म­णोऽ­प­रा­धी­न­प्र­का­श­तया तत्सा­क्षा­त्का­रस्य तत्स्वाभाव्येन नित्य­त­यो­त्पा­द्य­त्वा­नु­प­पत्तेः, ततो भिन्नस्य वा भावनाधेयस्य साक्षात्कारस्य प्रति­भा­प्र­त्य­य­व­त्सं­श­या­क्रा­न्त­तया प्रामा­ण्या­यो­गात् , तद्विधस्य तत्सा­म­ग्री­क­स्यैव बहुलं व्यभि­चा­रो­प­लब्धेः । न खल्व­नु­मा­न­वि­बुद्धं वह्निं भावयतः शीतातुरस्य शिशि­र­भ­र­म­न्थ­र­त­र­का­य­का­ण्डस्य स्फुर­ज्ज्वा­ला­ज­टि­ला­न­ल­सा­क्षा­त्कारः प्रमाणान्तरेण संवाद्यते, विसंवादस्य बहुलमुपलम्भात् , तस्मा­त्प्रा­मा­णि­क­सा­क्षा­त्का­र­ल­क्ष­ण­का­र्या­भा­वा­न्नो­पा­स­नाया उत्पाद्ये कर्मापेक्षा । न च कूटस्थनित्यस्य सर्वव्यापिनो ब्रह्मण उपासनातो विका­र­सं­स्का­र­प्रा­प्तयः सम्भवन्ति । स्यादेतत् । मा भूद्ब्र­ह्म­सा­क्षा­त्कार उत्पाद्यादिरूप उपासनायाः, संस्कार्यस्तु अनिर्वचनीया नाद्य­वि­द्या­द्व­य­पि­धा­ना­प­न­य­नेन भविष्यति, प्रतिसीरापिहिता नर्तकीव प्रति­सी­रा­प­न­य­द्वारा रङ्गव्यापृतेन । तत्र च कर्मणामुपयोगः । एतावांस्तु विशेषः - प्रतिसीरापनये पारिषदानां नर्तकीविषयः साक्षात्कारो भवति । इह तु अवि­द्या­पि­धा­ना­प­न­य­मा­त्र­मेव नाप­र­मु­त्पा­द्य­मस्ति, ब्रह्म­सा­क्षा­त्का­रस्य ब्रह्मस्वभावस्य नित्यत्वेन अनु­त्पा­द्य­त्वात् । अत्रोच्यते - का पुनरियं ब्रह्मोपासना । किं शाब्द­ज्ञा­न­मा­त्र­स­न्ततिः, आहो निर्वि­चि­कि­त्स­शा­ब्द­ज्ञा­न­स­न्ततिः । यदि शाब्द­ज्ञा­न­मा­त्र­स­न्ततिः, किमि­य­म­भ्य­स्य­मा­ना­प्य­विद्यां समु­च्छे­त्तु­म­र्हति । तत्त्व­वि­नि­श्च­य­स्त­द­भ्यासो वा सवासनं विप­र्या­स­मु­न्मू­ल­येत् , न संशयाभ्यासः, सामा­न्य­मा­त्र­द­र्श­ना­भ्यासो वा । न हि स्थाणुर्वा पुरुषो वेति वा, आरोहपरिणाहवत् द्रव्यमिति वा शतशोऽपि ज्ञान­म­भ्य­स्य­मानं पुरुष एवेति निश्चयाय पर्याप्तम् , ऋते विशेषदर्शनात् । ननूक्तं श्रुतमयेन ज्ञानेन जीवात्मनः परमात्मभावं गृहीत्वा युक्तिमयेन च व्यवस्थाप्यत इति । तस्मा­न्नि­र्वि­चि­क­त्स­शा­ब्द­ज्ञा­न­स­न्त­ति­रू­पो­पा­सना कर्म­स­ह­का­रि­ण्य­वि­द्या­द्व­यो­च्छे­द­हेतुः । न चासा­व­नु­त्पा­दि­त­ब्र­ह्मा­नु­भवा तदुच्छेदाय पर्याप्ता । साक्षात्काररूपो हि विपर्यासः साक्षा­त्का­र­रू­पे­णैव तत्त्व­ज्ञा­ने­नो­च्छि­द्यते, न तु परोक्षावभासेन, दिङ्मो­हा­ला­त­च­क्र­च­ल­द्वृ­क्ष­म­रु­म­री­चि­स­लि­ला­दि­वि­भ्र­मे­ष्व­प­रो­क्षा­व­भा­सिषु अप­रो­क्षा­व­भा­सि­भि­रेव दिगा­दि­त­त्त्व­प्र­त्य­यै­र्नि­वृ­त्ति­द­र्श­नात् । नो खल्वा­प्त­व­च­न­लि­ङ्गा­दि­नि­श्चि­त­दि­गा­दि­त­त्त्वानां दिङ्मोहादयो निवर्तन्ते । तस्मा­त्त्व­म्प­दा­र्थस्य तत्पदार्थत्वेन साक्षात्कार एषितव्यः । एतावता हि त्वम्पदार्थस्य दुःखि­शो­कि­त्वा­दि­सा­क्षा­त्का­र­नि­वृत्तिः, नान्यथा । न चैष साक्षात्कारो मीमां­सा­स­हि­त­स्यापि शब्दप्रमाणस्य फलम् , अपि तु प्रत्यक्षस्य, तस्यैव तत्फलत्वनियमात् । अन्यथा कुटजबीजादपि वटा­ङ्कु­रो­त्प­त्ति­प्र­स­ङ्गात् । तस्मा­न्नि­र्वि­चि­कि­त्सा­वा­क्या­र्थ­भा­व­ना­प­रि­पा­क­स­हि­त­म­न्तः­क­रणं त्वम्प­दा­र्थ­स्या­प­रो­क्षस्य तत्त­दु­पा­ध्या­का­र­नि­षे­धेन तत्प­दा­र्थ­ता­म­नु­भा­व­य­तीति युक्तम् । न चायमनुभवो ब्रह्मस्वभावो येन न जन्येत, अपि तु अन्तःकरणस्यैव वृत्तिभेदो ब्रह्मविषयः । न चैतावता ब्रह्मणो नाप­रा­धी­न­प्र­का­शता । न हि शाब्द­ज्ञा­न­प्र­काश्यं ब्रह्म स्वयं प्रकाशं न भवति । सर्वोपाधिरहितं हि स्वय­ञ्ज्यो­ति­रिति गीयते, न तूपहितमपि । यथाह स्म भगवान् भाष्यकारः - “नाय­मे­का­न्ते­ना­वि­षयः” इति । न चान्तः­क­र­ण­वृ­त्ता­व­प्यस्य साक्षात्कारे सर्वो­पा­धि­वि­नि­र्मोकः, तस्यैव तदु­पा­धे­र्वि­न­श्य­द­व­स्थस्य स्वप­र­रू­पो­पा­धि­वि­रो­धिनो विद्यमानत्वात् । अन्यथा चैत­न्य­च्छा­या­पत्तिं विना­न्तः­क­र­ण­वृत्तेः स्वयमचेतनायाः स्वप्र­का­श­त्वा­नु­प­पत्तौ साक्षा­त्का­र­त्वा­यो­गात् । न चानु­मि­त­भा­वि­त­व­ह्नि­सा­क्षा­त्का­र­वत् प्रति­भा­त्वे­ना­स्या­प्रा­मा­ण्यम् , तत्र वह्नि­स्व­ल­क्ष­णस्य परोक्षत्वात् । इह तु ब्रह्म­स्व­रू­प­स्यो­पा­धि­क­लु­षि­तस्य जीवस्य प्राग­प्य­प­रो­क्ष­तेति । नहि शुद्ध­बु­द्ध­त्वा­दयो वस्तु­त­स्त­तोऽ­ति­रि­च्यन्ते । जीव एव तु तत्तदुपाधिरहितः शुद्ध­बु­द्ध­त्वा­दि­स्व­भावो ब्रह्मेति गीयते । न च तत्त­दु­पा­धि­वि­र­होऽपि ततोऽतिरिच्यते । तस्मात्यथा गान्ध­र्व­शा­स्त्रा­र्थ­ज्ञा­ना­भ्या­सा­हि­त­सं­स्का­र­स­चि­व­श्रो­त्रे­न्द्रि­येण षड्जा­दि­स्व­र­ग्रा­म­मू­र्छ­ना­भे­द­म­ध्य­क्ष­म­नु­भ­वति, एवं वेदा­न्ता­र्थ­ज्ञा­ना­भ्या­सा­हि­त­सं­स्कारो जीवः स्वस्य ब्रह्म­भा­व­म­न्तः­क­र­णे­नेति । अन्तःकरणवृत्तौ ब्रह्म­सा­क्षा­त्कारे जनयितव्ये अस्ति तदुपासनायाः कर्मापेक्षेति चेत् न, तस्याः कर्मा­नु­ष्ठा­न­स­ह­भा­वा­भा­वेन तत्स­ह­का­रि­त्वा­नु­प­पत्तेः । न खलु “तत्त्वमसि”(छा. उ. ६ । ८ । ७)“तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्या­दे­र्वा­क्या­न्नि­र्वि­चि­कित्सं शुद्ध­बु­द्धो­दा­सी­न­स्व­भा­व­म­क­र्तृ­त्वा­द्यु­पे­त­म­पे­त­ब्रा­ह्म­ण­त्वा­दि­जातिं देहा­द्य­ति­रि­क्त­मे­क­मा­त्मानं प्रतिपद्यमानः कर्म­स्व­धि­का­र­म­व­बो­द्धु­म­र्हति । अनर्हश्च कथं कर्ता वाधिकृतो वा । यद्युच्येत निश्चितेऽपि तत्त्वे विप­र्या­स­नि­ब­न्धनो व्यव­हा­रोऽ­नु­व­र्त­मानो दृश्यते, यथा गुडस्य माधु­र्य­वि­नि­श्चये अपि पित्तो­प­ह­ते­न्द्रि­याणां तिक्त­ता­व­भा­सा­नु­वृत्तिः, आस्वाद्य थूत्कृत्य त्यागात् । तस्मा­द­वि­द्या­सं­स्का­रा­नु­वृत्त्या कर्मानुष्ठानम् , तेन च विद्यासहकारिणा तत्समुच्छेद उपपत्स्यते । न च कर्मा­वि­द्या­त्मकं कथ­म­वि­द्या­मु­च्छि­नत्ति, कर्मणो वा तदुच्छेदकस्य कुत उच्छेदः इति वाच्यम् , सजा­ती­य­स्व­प­र­वि­रो­धिनां भावानां बहुलमुपलब्धेः । यथा पयः पयोऽन्तरं जरयति, स्वयं च जीर्यति, यथा विषं विषान्तरं शमयति, स्वयं च शाम्यति, यथा वा कतकरजो रजोऽन्तराविले पाथसि प्रक्षिप्तं रजोऽन्तराणि भिन्दत्स्वयमपि भिद्यमानमनाविलं पाथः करोति । एवं कर्मा­वि­द्या­त्म­क­मपि अवि­द्या­न्त­रा­ण्य­प­ग­म­य­त्स्व­य­म­प्य­प­ग­च्छ­तीति । अत्रोच्यते - सत्यम् , “सदेव सोम्येदमग्र आसीत्”(छा. उ. ६ । २ । १) इत्युपक्रमात् “तत्त्वमसि” इत्य­न्ता­च्छ­ब्दात् ब्रह्म­मी­मां­सो­प­क­र­णा­द­स­कृ­द­भ्य­स्तात् , निर्वि­चि­कि­त्सेऽ­ना­द्य­वि­द्यो­पा­दा­न­दे­हा­द्य­ति­रि­क्त­प्र­त्य­गा­त्म­त­त्त्वा­व­बोधे जातेऽपि अवि­द्या­सं­स्का­रा­नु­वृ­त्ता­नु­व­र्तन्ते सांसारिकाः प्रत्य­या­स्त­द्व्य­व­हा­राश्च, तथाविधानाप्ययं व्यव­हा­र­प्र­त्य­या­न्मि­थ्येति मन्यमानो विद्वान्न श्रद्धत्ते, पित्तो­प­ह­ते­न्द्रिय इव गुडं थूत्कृत्य त्यजन्नपि तस्य तिक्तताम् । तथा चायं क्रिया­क­र्तृ­क­र­णे­ति­क­र्त­व्य­ता­फ­ला­प्र­प­ञ्च­म­ता­त्त्विकं विनिश्चिन्वन् कथमधिकृतो नाम, विदुषो ह्यधिकारः, अन्यथा पशु­शू­द्रा­दी­ना­म­प्य­धि­कारो दुर्वारः स्यात् । क्रिया­क­र्त्रा­दि­स्व­रू­प­वि­भागं च विद्वस्यमान इह विद्वानभिमतः कर्मकाण्डे । अत एव भगवान् विद्वद्विषयत्वं शास्त्रस्य वर्णयाम्बभूव भाष्यकारः । तस्माद्यथा राज­जा­ती­या­भि­मा­न­क­र्तृके राजसूये न विप्र­वै­श्य­जा­ती­या­भि­मा­नि­नो­र­धि­कारः । एवं द्विजा­ति­क­र्तृ­क्रि­या­क­र­णा­दि­वि­भा­गा­भि­मा­नि­क­र्तृके कर्मणि न तद­न­भि­मा­नि­नोऽ­धि­कारः । न चानधिकृतेन समर्थेनापि कृतं वैदिकं कर्म फलाय कल्पते, वैश्यस्तोम इव ब्राह्म­ण­रा­ज­न्या­भ्याम् । तेन दृष्टार्थेषु कर्मसु शक्तः प्रवर्तमानः प्राप्नोतु फलम् , दृष्टत्वात् । अदृष्टार्थेषु तु शास्त्रै­क­स­म­धि­गम्यं फलमनधिकारिणि न युज्यत इति नोपासनायाः कार्ये कर्मापेक्षा । स्यादेतत् । मनु­ष्या­भि­मा­न­व­द­धि­का­रिके कर्मणि विहिते यथा तद­भि­मा­न­र­हि­त­स्या­न­धि­कारः, एवं निषेधविधयोऽपि मनुष्याधिकारा इति तद­भि­मा­न­र­हि­त­स्ते­ष्वपि नाधिक्रियेत, पश्वादिवत् । तथा चायं निषि­द्ध­म­नु­ति­ष्ठन्न प्रत्यवेयात् , तिर्यगादिवदिति भिन्नकर्मतापातः । मैवम् । न खल्वयं सर्वथा मनु­ष्या­भि­मा­न­र­हितः, किं त्ववि­द्या­सं­स्का­रा­नु­वृ­त्त्यास्य मात्रया तद­भि­मा­नोऽ­नु­व­र्तते । अनुवर्तमानं च मिथ्येति मन्यमानो न श्रद्धत्त इत्युक्तम् । किमतो यद्येवम् , एतदतो भवतिविधिषु श्राद्धोऽधिकारी नाश्राद्धः । ततश्च मनु­ष्या­द्य­भि­मानं नश्रद्धधानो न विधि­शा­स्त्रे­ष्व­धि­क्रि­यते । तथा च स्मृतिः - “अश्रद्धया हुतं दत्तम्”(भ.गी.१७-२८) इत्यादिका । निषेधशास्त्रं तु न श्रद्धामपेक्षते । अपि तु निषि­ध्य­मा­न­क्रि­यो­न्मुखो नर इत्येव प्रवर्तते । तथा च सांसारिक इव शब्दा­व­ग­त­ब्र­ह्म­त­त्त्वोऽपि निषेधमतिक्रम्य प्रवर्तमानः प्रत्यवैतीति न भिन्न­क­र्म­द­र्श­ना­भ्यु­प­गमः । तस्मा­न्नो­पा­स­नायाः कार्ये कर्मापेक्षा । अत एव नोपा­स­नो­त्प­त्ता­वपि, निर्वि­चि­कि­त्स­शा­ब्द­ज्ञा­नो­त्प­त्त्यु­त्त­र­का­ल­म­न­धि­कारः कर्मणीत्युक्तम् । तथा च श्रुतिः - “नकर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ।”(कैवल्योपनिषत्) तत्कि­मि­दा­नी­म­नु­प­योग एव सर्वथेह कर्मणाम् , तथा च “विविदिषन्ति यज्ञेन”(बृ. उ. ४ । ४ । २२) इत्याद्याः श्रुतयो विरुध्येरन् । न विरुध्यन्ते । आरा­दु­प­का­र­क­त्वा­त्क­र्मणां यज्ञादीनाम् । तथा हि - तमेतमात्मानं वेदा­नु­व­च­ने­न-नि­त्य­स्वा­ध्या­येन, ब्राह्मणा विवि­दि­ष­न्ति-वे­दि­तु­मि­च्छन्ति, न तु विदन्ति । वस्तुतः प्रधानस्यापि वेदनस्य प्रकृत्यर्थतया शब्दतो गुणत्वात् , इच्छायाश्च प्रत्ययार्थतया प्राधान्यात् , प्रधानेन च कार्य­सं­प्र­त्य­यात् । नहि राज­पु­रु­ष­मा­न­ये­त्युक्ते वस्तुतः प्रधानमपि राजा पुरुषविशेषणतया शब्दत उपसर्जन आनीयतेऽपि तु पुरुष एव, शब्दतस्तस्य प्राधान्यात् । एवं वेदानुवचनस्येव यज्ञ­स्या­पी­च्छा­सा­ध­न­तया विधानम् । एवं तपसोऽनाशकस्य । कामानशनमेव तपः, हित­मि­त­मे­ध्या­शिनो हि ब्रह्मणि विविदिषा भवति, न तु सर्वथानश्नतो मरणात् । नापि चान्द्रायणादि तपःशीलस्य, धातु­वै­ष­म्या­पत्तेः । एतानि च नित्या­न्यु­पा­त्त­दु­रि­त­नि­ब­र्ह­णेन पुरुषं संस्कुर्वन्ति । तथा च श्रुतिः - “स ह वा आत्मयाजी यो वेद इदं मेऽनेनाङ्गं संस्क्रियत इदं मेऽने­ना­ङ्ग­मु­प­धी­यते”(शत. ब्रा. ११ । २ । ६ । १३) इति । अनेनेति हि प्रकृतं यज्ञादि परामृशति । स्मृतिश्च - “यस्यै­तेऽ­ष्टा­च­त्वा­रिं­श­त्सं­स्काराः”(दत्तपुराण) इति । नित्य­नै­मि­त्ति­का­नु­ष्ठा­न­प्र­क्षी­ण­क­ल्म­षस्य च विशु­द्ध­स­त्त्व­स्या­वि­दुष एव उत्प­न्न­वि­वि­दि­षस्य ज्ञानो­त्त्पत्तिं दर्शयत्याथर्वणी श्रुतिः - “विशु­द्ध­स­त्त्व­स्त­तस्तु तं पश्यति निष्कलं ध्यायमानः”(मु. उ. ३ । १ । ८) इति । स्मृतिश्च - “ज्ञान­मु­त्प­द्यते पुंसां क्षयात्पापस्य कर्मणः”(म. भा. शां. २०४ । ८) इत्यादिका । कॢप्तेनैव च नित्यानां कर्मणां नित्ये­हि­ते­नो­पा­त्त­दु­रि­त­नि­ब­र्ह­ण­द्वा­रेण पुरुषसंस्कारेण ज्ञानो­त्प­त्ता­व­ङ्ग­भा­वो­प­पत्तौ न संयोग पृथक्त्वेन साक्षादङ्गभावो युक्तः, कल्प­ना­गौ­र­वा­पत्तेः । तथा हि - नित्य­क­र्म­णा­म­नु­ष्ठा­ना­द्ध­र्मो­त्पादः, ततः पाप्मा निवर्तते, स हि अनि­त्या­शु­चि­दुः­ख­रूपे संसारे नित्य­शु­चि­सु­ख­ख्या­ति­ल­क्ष­णेन विपर्यासेन चित्तसत्त्वं मलिनयति, ततः पापनिवृत्तौ प्रत्य­क्षो­प­प­त्ति­प्र­वृ­त्ति­द्वा­रा­पा­व­रणे सति प्रत्य­क्षो­प­प­त्तिभ्यां संसारस्य अनि­त्या­शु­चि­दुः­ख­रू­प­ता­म­प्र­त्यू­ह­म­व­बु­ध्यते, ततोऽस्य अस्मि­न्न­न­भि­र­ति­संज्ञं वैरा­ग्य­मु­प­जा­यते, तत­स्त­ज्जि­हा­सो­पा­व­र्तते, ततो हानोपायं पर्येषते, पर्ये­ष­मा­ण­श्चा­त्म­त­त्त्व­ज्ञा­न­म­स्यो­पाय इत्युपश्रुत्य तज्जिज्ञासते, ततः श्रवणादिक्रमेण तज्ज्ञा­ना­ती­त्या­रा­दु­प­का­र­कत्वं तत्त्व­ज्ञा­नो­त्पादं प्रति चित्त­स­त्त्व­शुद्ध्या कर्मणां युक्तम् । इम­मे­वा­र्थ­म­नु­व­दति भगवद्गीता - “आरु­रु­क्षो­र्मु­ने­र्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते”(भ. गी. ६ । ३) ॥ एवं चान­नु­ष्ठि­त­क­र्मापि प्राग्भ­वी­य­क­र्म­व­शाद्यो विशुद्धसत्त्वः संसा­रा­सा­र­ता­द­र्श­नेन निष्प­न्न­वै­राग्यः, कृतं तस्य कर्मानुष्ठानेन वैरा­ग्यो­त्पा­दो­प­यो­गिना, प्राग्भ­वी­य­क­र्मा­नु­ष्ठा­ना­देव तत्सिद्धेः, इममेव च पुरु­ष­धौ­रे­य­भे­द­म­धि­कृत्य प्रववृते श्रुतिः - “यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत्”(जा. उ. ४) इति ।

तदिदमुक्तम् - कर्मावबोधात् -
प्राग­प्य­धी­त­वे­दा­न्तस्य ब्रह्म­जि­ज्ञा­सो­प­प­त्ते­रिति ।
अत एव न ब्रह्मचारिण ऋणानि सन्ति, येन तदपाकरणार्थं कर्मानुतिष्ठेत् । एतदनुरोधाच्च “जायमानो वै ब्राह्म­ण­स्त्रि­भि­रृ­णवा जायते” इति गृहस्थः सम्पद्यमान इति व्याख्येयम् । अन्यथा “यदि वेतरथा ब्रह्मचर्यादेव ”(जा. उ. ४) इति श्रुति­र्वि­रु­ध्येत । गृहस्थस्यापि च ऋणापाकरणं सत्त्व­शु­द्ध्य­र्थ­मेव । जरामर्यवादो भस्मा­न्त­ता­वा­दोऽ­न्त्ये­ष्ट­यश्च कर्मजडानविदुषः प्रति, न त्वात्म­त­त्त्व­प­ण्डि­तान् । तस्मा­त्त­स्या­न­न्त­र्य­म­थ­श­ब्दार्थः, यद्विना ब्रह्मजिज्ञासा न भवति यस्मिंस्तु सति भवन्ती भवत्येव । न चेत्थं कर्मावबोधः तस्मान्न कर्मा­व­बो­धा­न­न्त­र्य­म­थ­श­ब्दार्थ इति सर्वमवदातम् ।

स्यादेतत् । मा भूद­ग्नि­हो­त्र­य­वा­गू­पा­क­व­दार्थः क्रमः, श्रौतस्तु भविष्यति, “गृही भूत्वा वनी भवेत्वनी भूत्वा प्रव्रजेत्”(जा. उ. ४) इति जाबा­ल­श्रु­ति­र्गा­र्ह­स्थ्येन हि यज्ञा­द्य­नु­ष्ठानं सूचयति । स्मरन्ति च “अधीत्य विधि­व­द्वे­दा­न्पु­त्रां­श्चो­त्पाद्य धर्मतः । इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥”(मनु. ६। ३६) निन्दन्ति च - “अनधीत्य द्विजो वेदाननुत्पाद्य तथात्मजान् । अनिष्ट्वा चैव यज्ञैश्च मोक्ष­मि­च्छ­न्व्र­ज­त्यधः ॥”(मनु. ६। ३७) इत्यत आह -
यथा च हृद­या­द्य­व­दा­ना­ना­मा­न­न्त­र्य­नि­यमः ।
कुतः, “हृद­य­स्या­ग्रेऽ­व­द्यति अथ जिह्वाया अथ वक्षसः”(आ.श्रौ.सू. ७-२४) इत्य­था­ग्र­श­ब्दाभ्यां क्रमस्य विवक्षितत्वात् । न तथेह क्रम नियमो विवक्षितः, श्रुत्या तयै­वा­नि­य­म­प्र­द­र्श­नात् , “यदि वेतरथा ब्रह्मचर्यादेव प्रव्र­जे­द्गृ­हाद्वा वनाद्वा”(जा. उ. ४) इति । एतावता हि वैरा­ग्य­मु­प­ल­क्ष­यति । अत एव “यदहरेव विरजेत्तदहरेव प्रव्रजेत्”(जा. उ. ४) इति श्रुतिः । निन्दावचनं च अवि­शु­द्ध­स­त्त्व­पु­रु­षा­भि­प्रा­यम् । अविशुद्धसत्त्वो हि मोक्ष­मि­च्छ­न्ना­ल­स्या­त्त­दु­पा­येऽ­प्र­व­र्त­मानो गृहस्थधर्ममपि नित्य­नै­मि­त्ति­क­म­ना­च­र­न्प्र­ति­क्ष­ण­मु­प­ची­य­मा­न­पा­प्माधो गच्छतीत्यर्थः ।

स्यादेतत् । मा भूच्छ्रौत आर्थो वा क्रमः, पाठ­स्था­न­मु­ख्य­प्र­वृ­त्ति­प्र­मा­ण­कस्तु कस्मान्न भवतीत्यत आह -
शेषशेषित्वे प्रमाणाभावात् ।
शेषाणां समिदादीनां शेषिणां चाग्ने­या­दी­ना­मे­क­फ­ल­व­दु­प­का­रो­प­नि­ब­द्धा­ना­मे­क­फ­ला­व­च्छि­न्ना­ना­मे­क­प्र­यो­ग­व­च­नो­प­गृ­ही­ता­नाम् एका­धि­का­रि­क­र्तृ­का­णा­मे­क­पौ­र्ण­मा­स्य­मा­वा­स्या­का­ल­स­म्ब­द्धानां युग­प­द­नु­ष्ठा­ना­शक्तेः, साम­र्थ्या­त्क्र­म­प्राप्तौ, तद्वि­शे­षा­पे­क्षायां पाठा­द­य­स्त­द्भे­द­नि­य­माय प्रभवन्ति । यत्र तु न शेषशेषिभावः नाप्ये­का­धि­का­रा­व­च्छेदः यथा सौर्या­र्य­म्ण­प्रा­जा­प­त्या­दी­नाम् , तत्र क्रम­भे­दा­पे­क्षा­भा­वान्न पाठादिः क्रमविशेषनियमे प्रमाणम् , अवर्जनीयतया तस्य तत्रावगतत्वात् । न चेह धर्म­ब्र­ह्म­जि­ज्ञा­सयोः शेषशेषिभावे श्रुत्या­दी­ना­म­न्य­तमं प्रमाणमस्तीति ।

स्यादेतत् । शेष­शे­षि­भा­वा­भा­वेऽपि क्रमनियमो दृष्टः, यथा गोदोहनस्य पुरुषार्थस्य दर्श­पौ­र्ण­मा­सि­कै­रङ्गैः सह, यथा वा “दर्श­पू­र्ण­मा­सा­भ्या­मिष्ट्वा सोमेन यजे­त”द­र्श­पू­र्ण­मा­सा­भ्या­मिष्ट्वा सोमेन यजेत।(तै.सं. २.५.६.१) इति दर्श­पौ­र्ण­मा­स­सो­म­यो­र­शे­ष­शे­षि­णो­रि­त्यत आह -
अधिकृताधिकारे वा प्रमाणाभावात् ।
इति योजना । स्वर्गकामस्य हि दर्श­पौ­र्ण­मा­सा­धि­कृ­तस्य पशुकामस्य सतो दर्श­पौ­र्ण­मा­स­क्र­त्व­र्था­प्प्र­ण­य­ना­श्रिते गोदोहने अधिकारः । नो खलु गोदो­ह­न­द्र­व्य­म­व्या­प्रि­य­माणं साक्षात्पशून् भावयितुमर्हति । न च व्यापा­रा­न्त­रा­विष्टं श्रूयते, यत­स्त­द­ङ्ग­क्र­म­म­ति­प­तेत् अप्प्र­ण­य­ना­श्रितं तु प्रतीयते, ‘चमसेनापः प्रण­ये­द्गो­दो­ह­ने­न­प­शु­का­मस्य’ इति समभिव्याहारात् , योग्य­त्वा­च्चा­स्यापां प्रणयनं प्रति । तस्मा­त्क्र­त्व­र्था­प्प्र­ण­य­ना­श्रि­त­त्वा­द्गो­दो­ह­नस्य तत्क्रमेण पुरुषार्थमपि गोदोहनं क्रमवदिति सिद्धम् । श्रुति­नि­रा­क­र­णे­नैव इष्टि­सो­म­क्र­म­व­दपि क्रमोऽपास्तो वेदितव्यः ।

शेष­शे­षि­त्वा­धि­कृ­ता­धि­का­रा­भा­वेऽपि क्रमो विवक्ष्येत यद्ये­क­फ­ला­व­च्छेदो भवेत् । यथाग्नेयादीनां, षण्णा­मे­क­स्व­र्ग­फ­ला­व­च्छि­न्ना­नाम् यदि वा जिज्ञा­स्य­ब्र­ह्म­णोऽशो धर्मः स्यात् , यथा चतु­र्ल­क्ष­णी­व्यु­त्पाद्यं ब्रह्म केन­चि­त्के­न­चि­दं­शे­नै­कै­केन लक्षणेन व्युत्पाद्यते, तत्र चतुर्णां लक्षणानां जिज्ञास्याभेदेन परस्परसम्बन्धे सति क्रमो विवक्षितः, तथे­हा­प्ये­क­जि­ज्ञा­स्य­तया धर्म­ब्र­ह्म­जि­ज्ञा­सयोः क्रमो विवक्ष्येत न चैत­दु­भ­य­म­प्य­स्ती­त्याह -
फल­जि­ज्ञा­स्य­भे­दाच्च ।

फलभेदं विभजते -
अभ्युदयफलं धर्मज्ञानमिति ।
जिज्ञासाया वस्तुतो ज्ञान­त­न्त्र­त्वा­ज्ज्ञा­न­फलं जिज्ञासाफलमिति भावः ।

न केवलं स्वरूपतः फलभेदः, तदु­त्पा­द­न­प्र­का­र­भे­दा­दपि तद्भेद इत्याह -
तच्चा­नु­ष्ठा­ना­पे­क्षम् ।

ब्रह्मज्ञानं च नानु­ष्ठा­ना­न्त­रा­पे­क्षम् ।
शाब्द­ज्ञा­ना­भ्या­सा­न्ना­नु­ष्ठा­ना­न्त­र­म­पे­क्षते, नित्य­नै­मि­त्ति­क­क­र्मा­नु­ष्ठा­न­स­ह­भा­व­स्या­पा­स्त­त्वा­दिति भावः ।

जिज्ञा­स्य­भे­द­मा­त्य­न्ति­क­माह -
भव्यश्च धर्म इति ।
भविता भव्यः, कर्तरि कृत्यः । भविता च भाव­क­व्या­पा­र­नि­र्व­र्त्य­तया तत्तन्त्र इति ततः प्राग्ज्ञानकाले नास्तीत्यर्थः । भूतं सत्यम् । सदेकान्ततः न कदा­चि­द­स­दि­त्यर्थः ।

न केवलं स्वरूपतो जिज्ञा­स्य­यो­र्भेदः, ज्ञाप­क­प्र­मा­ण­प्र­वृ­त्ति­भे­दा­दपि भेद इत्याह -
चोद­ना­प्र­वृ­त्ति­भे­दाच्च ।
चोदनेति वैदिकं शब्दमाह, विशेषेण सामान्यस्य लक्षणात् ।

प्रवृत्तिभेदं विभजते -
या हि चोदना धर्मस्येति ।
आज्ञादीनां पुरु­षा­भि­प्रा­य­भे­दा­ना­म­स­म्भ­वात् अपौरुषेये वेदे चोदनोपदेशः । अत एवोक्तम् - “तस्य ज्ञानमुपदेशः”(जै. सू. १ । १ । ५) इति । सा च स्वसाध्ये पुरुषव्यापारे भावनायां, तद्विषये च यागादौ, स हि भावनाविषयः, तद­धी­न­नि­रू­प­ण­त्वात् विष­या­धी­न­प्र­य­त्नस्य भावनायाः । ‘षिञ् बन्धने’ इत्यस्य धातो­र्वि­ष­य­प­द­व्यु­त्पत्तेः । भाव­ना­या­स्त­द्द्वा­रेण च यागा­दे­र­पे­क्षि­तो­पा­य­ता­म­व­ग­म­यन्ती तत्रे­च्छो­प­हा­र­मु­खेन पुरुषं नियुञ्जानैव यागा­दि­ध­र्म­म­व­बो­ध­यति नान्यथा । ब्रह्मचोदना तु पुरु­ष­म­व­बो­ध­य­त्येव केवलं न तु प्रव­र्त­य­न्त्य­व­बो­ध­यति । कुतः, अवबोधस्य प्रवृ­त्ति­र­हि­तस्य चोदनाजन्यत्वात् ।

ननु ‘आत्मा ज्ञातव्यः’ इत्ये­त­द्वि­धि­प­रै­र्वे­दान्तैः तदे­क­वा­क्य­त­या­व­बोधे प्रवर्तयद्भिरेव पुरुषो ब्रह्मावबोध्यत इति समानत्वं धर्म­चो­द­ना­भि­र्ब्र­ह्म­चो­द­ना­ना­मि­त्यत आह -
न पुरुषोऽवबोधे नियुज्यते ।
अयमभिसन्धिः - न ताव­द्ब्र­ह्म­सा­क्षा­त्कारे पुरुषो नियोक्तव्यः, तस्य ब्रह्म­स्वा­भा­व्येन नित्यत्वात् , अकार्यत्वात् । नाप्युपासनायाम् , तस्या अपि ज्ञानप्रकर्षे हेतु­भा­व­स्या­न्व­य­व्य­ति­रे­क­सि­द्ध­तया प्राप्त­त्वे­ना­वि­धे­य­त्वात् । नापि शाब्दबोधे, तस्या­प्य­धी­त­वे­दस्य पुरुषस्य विदितपदतदर्थस्य सम­धि­ग­त­शा­ब्द­न्या­य­त­त्त्व­स्या­प्र­त्यू­ह­मु­त्पत्तेः ।

अत्रैव दृष्टान्तमाह -
यथाक्षार्थेति ।

दार्ष्टान्तिके योजयति -
तद्वदिति ।
अपि चात्म­ज्ञा­न­वि­धि­प­रेषु वेदान्तेषु नात्म­त­त्त्व­वि­नि­श्चयः शाब्दः स्यात् । न हि तदा­त्म­त­त्त्व­प­रास्ते, किन्तु तज्ज्ञा­न­वि­धि­पराः, यत्पराश्च ते त एव तेषामर्थाः । न च बोधस्य बोध्य­नि­ष्ठ­त्वा­द­पे­क्षि­त­त्वात् , अन्यपरेभ्योऽपि बोध्य­त­त्त्व­वि­नि­श्चयः, समारोपेणापि तदुपपत्तेः । तस्मान्न बोधविधिपरा वेदान्ता इति सिद्धम् ।

प्रकृतमुपसंहरति -
तस्मात्किमपि वक्तव्यमिति ।
यस्मिन्नसति ब्रह्मजिज्ञासा न भवति सति तु भवन्ती भवत्येवेत्यर्थः ।

तदाह -
उच्यते - नित्या­नि­त्य­व­स्तु­वि­वेक इत्यादि ।
नित्यः प्रत्यगात्मा, अनित्या देहे­न्द्रि­य­वि­ष­या­दयः । तद्वि­ष­य­श्चे­द्वि­वेको निश्चयः, कृतमस्य ब्रह्म­जि­ज्ञा­सया, ज्ञात­त्वा­द्ब्र­ह्मणः । अथ विवेको ज्ञानमात्रम् , न निश्चयः, तथा सति एष विपर्यासादन्यः संशयः स्यात् , तथा च न वैराग्यं भावयेत् , अभावयन्कथं ब्रह्म­जि­ज्ञा­सा­हेतुः, तस्मादेवं व्याख्येयम् । नित्या­नि­त्य­यो­र्व­स­तीति नित्या­नि­त्य­वस्तु तद्धर्मः, नित्या­नि­त्य­यो­र्ध­र्मि­णो­स्त­द्ध­र्माणां च विवेको नित्या­नि­त्य­व­स्तु­वि­वेकः । एतदुक्तं भवति - मा भूदिदम् तदृतं नित्यम् , इदं तदनृतमनित्यमिति धर्मि­वि­शे­ष­यो­र्वि­वेकः, धर्मि­मा­त्र­यो­र्नि­त्या­नि­त्य­यो­स्त­द्ध­र्म­योश्च विवेकं निश्चिनोत्येव । नित्यत्वं सत्यत्वं तद्यस्यास्ति तन्नित्यं सत्यम् , तथा चास्थागोचरः । अनि­त्य­त्व­म­स­त्यत्वं तद्यस्यास्ति तदनित्यमनृतम् , तथा चानास्थागोचरः । तदे­ते­ष्व­नु­भू­य­मा­नेषु युष्म­द­स्म­त्प्र­त्य­य­गो­च­रेषु विषयविषयिषु यदृतं नित्यं सुखं व्यवस्थास्यते तदास्थागोचरो भविष्यति, यत्त्व­नि­त्य­म­नृतं भविष्यति तापत्रयपरीतं तत्त्यक्ष्यत इति । सोऽयं नित्या­नि­त्य­व­स्तु­वि­वेकः प्राग्भ­वी­या­दै­हि­काद्वा वैदिकात्कर्मणो विशु­द्ध­स­त्त्वस्य भव­त्य­नु­भ­वो­प­प­त्ति­भ्याम् । न खलु सत्यं नाम न किञ्चिदस्तीति वाच्यम् । तदभावे तद­धि­ष्ठा­न­स्या­नृ­त­स्या­प्य­नु­प­पत्तेः, शून्यवादिनामपि शून्यताया एव सत्यत्वात् ।

अथास्य पुरु­ष­धौ­रे­य­स्या­नु­भ­वो­प­प­त्ति­भ्या­मेवं सुनिपुणं निरूपयतः आ च सत्यलोकात् आचावीचेः “जायस्व म्रियस्व”(छा. उ. ५ । १० । ८) इति विपरिवर्तमानं, क्षण­मु­हू­र्त­या­मा­हो­रा­त्रा­र्ध­मा­स­मा­स­र्त्व­य­न­व­त्स­र­यु­ग­च­तु­र्यु­ग­म­न्व­न्त­र­प्र­ल­य­म­हा­प्र­ल­य­म­हा­स­र्गा­वा­न्त­र­स­र्ग­सं­सा­र­सा­ग­रो­र्मि­भि­र­नि­शम् उह्यमानं, ताप­त्र­य­प­री­त­मा­त्मानं च जीवलोकं चावलोक्य अस्मि­न्सं­सा­र­म­ण्डले अनि­त्या­शु­चि­दुः­खा­त्मकं प्रस­ङ्ख्या­न­मु­पा­व­र्तते; ततोऽ­स्यै­ता­दृ­शा­न्नि­त्या­नि­त्य­व­स्तु­वि­वे­क­ल­क्ष­णा­त्प्र­स­ङ्ख्या­नात् -
इहा­मु­त्रा­र्थ­भो­ग­वि­रागः ।
भवति । अर्थ्यते प्रार्थ्यत इत्यर्थः । फलमिति यावत् । तस्मि­न्वि­रा­गोऽ­ना­मा­ना­भो­गा­त्मि­को­पे­क्षा­बुद्धिः ।

ततः शम­द­मा­दि­सा­ध­न­स­म्पत् ।
रागा­दि­क­षा­य­म­दि­रा­मत्तं हि मनस्तेषु तेषु विष­ये­षू­च्चा­व­च­मि­न्द्रि­याणि प्रवर्तयत् , विविधाश्च प्रवृत्तीः पुण्यापुण्यफला भावयत् , पुरुषमतिघोरे विवि­ध­दुः­ख­ज्वा­ला­ज­टिले संसारहुतभुजि जुहोति । प्रस­ङ्ख्या­ना­भ्या­स­ल­ब्ध­वै­रा­ग्य­प­रि­पा­क­भ­ग्न­रा­गा­दि­क­षा­य­म­दि­रा­मदं तु मनः पुरुषेणावजीयते वशीक्रियते, सोऽयमस्य वैराग्यहेतुको मनोविजयः शम इति वशीकारसंज्ञ इति चाख्यायते । विजितं च मन­स्त­त्त्व­वि­ष­य­वि­नि­यो­ग­यो­ग्यतां नीयते, सेयमस्य योग्यता दमः । यथा दान्तोऽयं वृषभयुवा हल­श­क­टा­दि­व­ह­न­योग्यः कृत इति गम्यते । आदिग्रहणेन च विष­य­ति­ति­क्षा­त­दु­प­र­म­त­त्त्व­श्रद्धाः सङ्गृह्यन्ते । अत एव श्रुतिः - “तस्माच्छान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वा­त्म­न्ये­वा­त्मानं पश्यन् , सर्वमात्मनि पश्यति”(बृ. उ. ४-४-२३) इति । तदेतस्य शमदमादिरूपस्य साधनस्य सम्पत् , प्रकर्षः, शम­द­मा­दि­सा­ध­न­स­म्पत् ।

ततोऽस्य संसा­र­ब­न्ध­ना­न्मु­मुक्षा भवतीत्याह -
मुमुक्षुत्वं च ।

तस्य च नित्य­शु­द्ध­बु­द्ध­मु­क्त­स­त्य­स्व­भा­व­ब्र­ह्म­ज्ञानं मोक्षस्य कार­ण­मि­त्यु­प­श्रुत्य तज्जिज्ञासा भवति धर्मजिज्ञासायाः प्रागूर्ध्वं च, तस्मा­त्ते­षा­मे­वा­न­न्तर्यं न धर्मजिज्ञासाया इत्याह -
तेषु हीति ।

न केवलं जिज्ञासामात्रम् , अपि तु ज्ञानमपीत्याह -
ज्ञातुं च ।

उपसंहरति -
तस्मादिति ।

क्रम­प्रा­प्त­म­तः­शब्दं व्याचष्टे -
अतःशब्दो हेत्वर्थः ।

तमेवातःशब्दस्य हेतुरूपमर्थमाह -
यस्माद्वेद एवेति ।
अत्रैवं परिचोद्यते - सत्यं यथो­क्त­सा­ध­न­स­म्प­त्त्य­न­न्तरं ब्रह्मजिज्ञासा भवति । सैव त्वनुपपन्ना, इहा­मु­त्र­फ­ल­भो­ग­वि­रा­ग­स्या­नु­प­पत्तेः । अनुकूलवेदनीयं हि फलम् , इष्ट­ल­क्ष­ण­त्वा­त्फ­लस्य । न चानुरागहेतावस्य वैराग्यं भवितुमर्हति । दुःखा­नु­ष­ङ्ग­द­र्श­ना­त्सु­खेऽपि वैराग्यमिति चेत् , हन्त भोः सुखा­नु­ष­ङ्गा­द्दुः­खेऽ­प्य­नु­रागो न कस्माद्भवति । तस्मात्सुख उपादीयमाने दुःखपरिहारे प्रयतितव्यम् । अवर्जनीयतया दुःखमागतमपि परिहृत्य सुखमात्रं भोक्ष्यते । तद्य­था­म­त्स्यार्थी सश­ल्का­न्स­क­ण्ट­का­न्म­त्स्या­नु­पा­दत्ते, स यावदादेयं तावदादाय विनिवर्तते । यथा वा धान्यार्थी सपलालानि धान्यान्याहरति, स यावदादेयं तावदुपादाय निवर्तते, तस्मा­द्दुः­ख­भ­या­न्ना­नु­कू­ल­वे­द­नी­य­मै­हिकं वामुष्मिकं वा सुखं परि­त्य­क्तु­मु­चि­तम् । न हि मृगाः सन्तीति शालयो नोप्यन्ते, भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते । अपि च दृष्टं सुखं चन्द­न­व­नि­ता­दि­स­ङ्ग­जन्म क्षयितालक्षणेन दुःखे­ना­घ्रा­त­त्वा­द­ति­भी­रुणा त्यज्येतापि, न त्वामुष्मिकं स्वर्गादि, तस्या­वि­ना­शि­त्वात् । श्रूयते हि - “अपाम सोमममृता अभूम”(ऋक् संं. ६ - ४ - ११) इति । तथा च “अक्षय्यं ह वै चातु­र्मा­स्य­या­जिनः सुकृतं भवति”(श.ब्रा.२.६.३.१) । न च कृतकत्वहेतुकं विना­शि­त्वा­नु­मा­न­मत्र सम्भवति, नर­शि­रः­क­पा­ल­शौ­चा­नु­मा­न­वत् आग­म­बा­धि­त­वि­ष­य­त्वात् । तस्मा­द्य­थो­क्त­सा­ध­न­स­म्प­त्त्य­भा­वान्न ब्रह्म­जि­ज्ञा­सेति प्राप्तम् ।

एवं प्राप्ते आह भगवान्सूत्रकारः -
अत इति ।

तस्यार्थं व्याचष्टे भाष्यकारः -
यस्माद्वेद एवेति ।
अयमभिसन्धिः - सत्यं मृगभिक्षुकादयः शक्याः परिहर्तुं पाच­क­कृ­षी­व­ला­दिभिः, दुःखं त्वने­क­वि­धा­ने­क­का­र­ण­स­म्पा­त­ज­म­श­क्य­प­रि­हा­रम् , अन्ततः साध­ना­पा­र­त­न्त्र्य­क्ष­यि­त­ल­क्ष­ण­यो­र्दुः­खयोः सम­स्त­कृ­त­क­सु­खा­वि­ना­भा­व­नि­य­मात् । न हि मधु­वि­ष­स­म्पृ­क्त­मन्नं विषं परित्यज्य समधु शक्यं शिल्पिवरेणापि भोक्तुम् । क्षयि­ता­नु­मा­नो­पो­द्ब­लितं च “तद्यथेह कर्मजितः”(छा.उ. ८.१.६) इत्यादि वचनं क्षयि­ता­प्र­ति­पा­द­कम् “अपाम सोमम्”(ऋक् संं. ६ - ४ - ११) इत्यादिकं वचनं मुख्यासम्भवे जघ­न्य­वृ­त्ति­ता­मा­पा­द­यति । यथाहुः - पौराणिकाः “आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते”(वि. पु. २ । ८ । ९७) इति । अत्र च ब्रह्मपदेन तत्प्रमाणं वेद उपस्थापितः । स च योग्यत्वात् “तद्यथेह कर्मचितः”(छा.उ. ८.१.६) इत्यादिरतः इति सर्वनाम्ना परामृश्य, हेतुपञ्चम्या निर्दिश्यते ।

स्यादेतत् । यथा स्वर्गादेः कृतकस्य सुखस्य दुःखा­नु­ष­ङ्ग­स्तथा ब्रह्मणोऽपीत्यत आह -
तथा ब्रह्म­वि­ज्ञा­ना­द­पीति ।
तेनायमर्थः - अतः स्वर्गादीनां क्षयि­ता­प्र­ति­पा­द­कात् , ब्रह्मज्ञानस्य च पर­म­पु­रु­षा­र्थ­ता­प्र­ति­पा­द­कात् आगमात् , यथो­क्त­सा­ध­न­स­म्पत् ततश्च ब्रह्म जिज्ञासेति सिद्धम् ।

ब्रह्म­जि­ज्ञा­सा­प­द­व्या­ख्या­न­माह -
ब्रह्मण इति ।
षष्ठी­स­मा­स­प्र­द­र्श­नेन प्राचां वृत्तिकृतां ब्रह्मणे जिज्ञासा ब्रह्म­जि­ज्ञा­सेति चतुर्थीसमासः परास्तो वेदितव्यः । “तादर्थ्यसमासे प्रकृ­ति­वि­कृ­ति­ग्र­हणं कर्तव्यम्” इति कात्यायनीयवचनेन यूप­दा­र्वा­दि­ष्वेव प्रकृ­ति­वि­का­र­भावे चतु­र्थी­स­मा­स­नि­य­मात् , अप्र­कृ­ति­वि­का­र­भूते इत्येवमादौ तन्निषेधात् , “अश्वघासादयः षष्ठीसमासा भविष्यन्ति” इत्यश्वघासादिषु षष्ठी­स­मा­स­प्र­ति­वि­धा­नात् । षष्ठीसमासेऽपि च ब्रह्मणो वास्त­व­प्रा­धा­न्यो­प­प­त्ते­रिति ।

स्यादेतत् । ब्रह्मणो जिज्ञा­से­त्युक्ते तत्रा­ने­का­र्थ­त्वा­द्ब्र­ह्म­श­ब्दस्य संशयः, कस्य ब्रह्मणो जिज्ञासेति । अस्ति ब्रह्मशब्दो विप्रत्वजातौ, यथा­ब्र­ह्म­ह­त्येति । अस्ति च वेदे, यथा­ब्र­ह्मो­ज्झ­मिति । अस्ति च परमात्मनि, यथा “ब्रह्म वेद ब्रह्मैव भवति”(मु. उ. ३ । २ । ९) इति, तमिमं संशयमपाकरोति -
ब्रह्म च वक्ष्य­मा­ण­ल­क्ष­ण­मिति ।
यतो ब्रह्मजिज्ञासां प्रतिज्ञाय तज्ज्ञापनाय परमात्मलक्षणं प्रणयति ततोऽवगच्छामः पर­मा­त्म­जि­ज्ञा­सै­वेयं न विप्र­त्व­जा­त्या­दि­जि­ज्ञा­से­त्यर्थः । षष्ठी­स­मा­स­प­रि­ग्र­हेऽपि नेयं कर्मषष्ठी, किं तु शेषलक्षणा, सम्बन्धमात्रं च शेष इति ब्रह्मणो जिज्ञा­से­त्युक्ते ब्रह्म­स­म्ब­न्धिनी जिज्ञा­से­त्युक्तं भवति । तथा च ब्रह्म­स्व­रू­प­प्र­मा­ण­यु­क्ति­सा­ध­न­प्र­यो­ज­न­जि­ज्ञासाः सर्वा ब्रह्म­जि­ज्ञा­सार्था ब्रह्म­जि­ज्ञा­स­या­व­रुद्धा भवन्ति । साक्षा­त्पा­र­म्प­र्येण च ब्रह्म­स­म्ब­न्धात् ।

कर्मषष्ठ्यां तु ब्रह्मशब्दार्थः कर्म, स च स्वरूपमेवेति तत्प्रमाणादयो नावरुध्येरन् , तथा चाप्र­ति­ज्ञा­ता­र्थ­चिन्ता प्रमाणादिषु भवेदिति ये मन्यन्ते तान्प्रत्याह -
ब्रह्मण इति । कर्मणि इति ।

अत्र हेतुमाह -
जिज्ञास्येति ।
इच्छायाः प्रति­प­त्त्य­नु­बन्धो ज्ञानम् , ज्ञानस्य च ज्ञेयं ब्रह्म । न खलु ज्ञानं ज्ञेयं विना निरूप्यते, न च जिज्ञासा ज्ञानं विनेति प्रति­प­त्त्य­नु­ब­न्ध­त्वा­त्प्र­थमं जिज्ञासा कर्मैवापेक्षते, न तु सम्ब­न्धि­मा­त्रम्; तदन्तरेणापि सति कर्मणि तन्निरूपणात् । न हि चन्द्र­म­स­मा­दित्यं चोपलभ्य कस्यायमिति सम्ब­न्ध्य­न्वे­षणा भवति । भवति तु ज्ञानमित्युक्ते विषयान्वेषणा किंविषयमिति । तस्मा­त्प्र­थ­म­म­पे­क्षि­त­त्वा­त्क­र्म­त­यैव ब्रह्म सम्बध्यते, न सम्ब­न्धि­ता­मा­त्रेण, तस्य जघन्यत्वात् । तथा च कर्मणि षष्ठीत्यर्थः ।

ननु सत्यं न जिज्ञा­स्य­म­न्त­रेण जिज्ञासा निरूप्यते, जिज्ञास्यान्तरं त्वस्या भविष्यति, ब्रह्म तु शेषतया सम्भन्त्स्यत इत्यत आह -
जिज्ञा­स्या­न्त­रेति ।

निगू­ढा­भि­प्रा­य­श्चो­द­यति -
ननु शेष­ष­ष्ठी­प­रि­ग्र­हेऽ­पीति ।
सामा­न्य­स­म्ब­न्धस्य विशे­ष­स­म्ब­न्धा­वि­रो­ध­क­त्वेन कर्मताया अविघातेन जिज्ञा­सा­नि­रू­प­णो­प­प­त्ते­रि­त्यर्थः ।

निगूढाभिप्राय एव दूषयति -
एवमपि प्रत्यक्षं ब्रह्मण इति ।
वाच्यस्य कर्मत्वस्य जिज्ञासया प्रथ­म­म­पे­क्षि­तस्य प्रथ­म­स­म्ब­न्धा­र्हस्य चान्व­य­प­रि­त्या­गेन पश्चा­त्क­थ­ञ्चि­द­पे­क्षि­तस्य सम्ब­न्धि­मा­त्रस्य सम्बन्धो, जघन्यः प्रथमः, प्रथमश्च जघन्य इति सुव्याहृतं न्यायतत्त्वम् । प्रत्य­क्ष­प­रो­क्षा­ता­भि­धानं च प्राथ­म्या­प्रा­थ­म्य­स्फु­ट­त्वा­भि­प्रा­यम् ।

चोदकः स्वाभि­प्रा­य­मु­द्घा­ट­यति -
न व्यर्थः, ब्रह्मा­श्रि­ता­शे­षेति ।
व्याख्या­त­मे­त­द­ध­स्तात् ।

समाधाता स्वाभि­स­न्धि­मु­द्घा­ट­यति -
न प्रधानपरिग्रह इति ।
वास्तवं प्राधान्यम् ब्रह्मणः । शेषं सनि­द­र्श­न­म­ति­रो­हि­ता­र्थम् , श्रुत्य­नु­ग­म­श्चा­ति­रो­हितः ।

तदेवमभिमतं समासं व्यवस्थाप्य जिज्ञा­सा­प­दा­र्थ­माह -
ज्ञातुमिति ।

स्यादेतत् । न ज्ञान­मि­च्छा­वि­षयः । सुख­दुः­खा­वा­प्ति­प­रि­हारौ वा तदुपायो वा तद्द्वा­रे­णे­च्छा­गो­चरः । न चैवं ब्रह्मविज्ञानम् । न खल्वे­त­द­नु­कू­ल­मिति वा प्रति­कू­ल­नि­वृ­त्ति­रिति वानुभूयते । नापि तयोरुपायः, तस्मिन्सत्यपि सुख­भे­द­स्या­द­र्श­नात् । अनुवर्तमानस्य च दुःख­स्या­नि­वृत्तेः । तस्मान्न सूत्र­का­र­व­च­न­मा­त्रा­दि­षि­क­र्मता ज्ञानस्येत्यत आह -
अव­ग­ति­प­र्य­न्त­मिति ।
न केवलं ज्ञानमिष्यते किन्त्ववगतिं साक्षात्कारं कुर्व­द­व­ग­ति­प­र्यन्तं सन्वाच्याया इच्छायाः कर्म । कस्मात् । फल­वि­ष­य­त्वा­दि­च्छायाः, तदुपायं फलपर्यन्तं गोचरयतीच्छेति शेषः ।

ननु भव­त्व­व­ग­ति­प­र्यन्तं ज्ञानम् , किमेतावतापीष्टं भवति । नह्य­न­पे­क्ष­णी­य­वि­ष­य­म­व­ग­ति­प­र्य­न्त­मपि ज्ञानमिष्यत इत्यत आह -
ज्ञानेन हि प्रमा­णे­ना­व­ग­न्तु­मिष्टं ब्रह्म ।

भवतु ब्रह्म­वि­ष­या­व­गतिः, एवमपि कथमिष्टेत्यत आह -
ब्रह्मावगतिर्हि पुरुषार्थः ।
किमभ्युदयः, न, किं तु निःश्रेयसं विग­लि­त­नि­खि­ल­दुः­खा­नु­ष­ङ्ग­प­र­मा­न­न्द­घ­न­ब्र­ह्मा­व­ग­ति­र्ब्र­ह्मणः स्वभाव इति सैव निःश्रेयसं पुरुषार्थ इति ।

स्यादेतत् । न ब्रह्मावगतिः पुरुषार्थः । पुरु­ष­व्या­पा­र­व्याप्यो हि पुरुषार्थः । न चास्या ब्रह्म­स्व­भा­व­भू­ताया उत्प­त्ति­वि­का­र­सं­स्का­र­प्रा­प्तयः सम्भवन्ति, तथा सत्यनित्यत्वेन तत्स्वा­भा­व्या­नु­प­पत्तेः । न चोत्प­त्त्या­द्य­भावे व्यापा­र­व्या­प्यता । तस्मान्न ब्रह्मावगतिः पुरुषार्थ इत्यत आह -
निःशे­ष­सं­सा­र­बी­जा­वि­द्या­द्य­न­र्थ­नि­ब­र्ह­णात् ।
सत्यम् , ब्रह्मावगतौ ब्रह्मस्वभावे नोत्पत्त्यादयः सम्भवन्ति, तथा­प्य­नि­र्व­च­नी­या­ना­द्य­वि­द्या­व­शा­द्ब्र­ह्म­स्व­भा­वोऽ­प­रा­धी­न­प्र­का­शोऽपि प्रतिभानपि न प्रतिभातीव पराधीनप्रकाश इव देहे­न्द्रि­या­दिभ्यो भिन्नोऽप्यभिन्न इव भासत इति संसा­र­बी­जा­वि­द्या­द्य­न­र्थ­नि­ब­र्ह­णा­त्प्रा­ग­प्राप्त इव तस्मिन्सति प्राप्त इव भवतीति पुरु­षे­णा­र्थ्य­मा­न­त्वा­त्पु­रु­षार्थ इति युक्तम् । अवि­द्या­दी­त्या­दि­ग्र­ह­णेन तत्सं­स्का­रोऽ­व­रु­ध्यते । अवि­द्या­दि­नि­वृ­त्ति­स्तू­पा­स­ना­का­र्या­द­न्तः­क­र­ण­वृ­त्ति­भे­दा­त्सा­क्षा­त्का­रा­दिति द्रष्टव्यम् ।

उपसंहरति -
तस्माद्ब्रह्म जिज्ञासितव्यम् ।
उक्तलक्षणेन मुमुक्षुणा । न खलु तज्ज्ञानं विना सवा­स­न­वि­वि­ध­दुः­ख­नि­दा­न­म­वि­द्यो­च्छि­द्यते । न च तदुच्छेदमन्तरेण विग­लि­त­नि­खि­ल­दुः­खा­नु­ष­ङ्गा­न­न्द­घ­न­ब्र­ह्मा­त्म­ता­सा­क्षा­त्का­रा­वि­र्भावो जीवस्य । तस्मा­दा­न­न्द­घ­न­ब्र­ह्मा­त्म­ता­मि­च्छता तदुपायो ज्ञानमेषितव्यम् । तच्च न केवलेभ्यो वेदान्तेभ्योऽपि तु ब्रह्म­मी­मां­सो­प­क­र­णेभ्य इति इच्छामुखेन ब्रह्म­मी­मां­सायां प्रवर्त्यते, न तु वेदान्तेषु तदर्थविवक्षायां वा । तत्र फल­व­द­र्था­व­बो­ध­प­रतां स्वाध्या­या­ध्य­य­न­विधेः सूत्रयता “अथातो धर्मजिज्ञासा”(जै. सू. १ । १ । १) इत्यनेनैव प्रवर्तितत्वात् , धर्मग्रहणस्य च वेदा­र्थो­प­ल­क्ष­ण­त्वे­ना­ध­र्म­व­द्ब्र­ह्म­णोऽ­प्यु­प­ल­क्ष­ण­त्वात् । यद्यपि च धर्ममीमांसावत् वेदार्थमीमांसया ब्रह्म­मी­मां­सा­प्या­क्षेप्तुं शक्या, तथापि प्राच्या मीमांसया न तद्व्यु­त्पा­द्यते, नापि ब्रह्ममीमांसाया अध्य­य­न­मा­त्रा­न­न्त­र्य­मिति ब्रह्म­मी­मां­सा­र­म्भाय नित्या­नि­त्य­वि­वे­का­द्या­न­न्त­र्य­प्र­द­र्श­नाय चेदं सूत्र­मा­र­म्भ­णी­य­मि­त्य­पौ­न­रु­क्त्यम् ।

स्यादेतत् । एतेन सूत्रेण ब्रह्मज्ञानं प्रत्युपायता मीमांसायाः प्रतिपाद्यत इत्युक्तं तदयुक्तम् , विकल्पासहत्वात् , इति चोदयति -
तत्पु­न­र्ब्र­ह्मेति ।
वेदा­न्ते­भ्योऽ­पौ­रु­षे­य­तया स्वतः­सि­द्ध­प्र­मा­ण­भा­वेभ्यः प्रसि­द्ध­म­प्र­सिद्धं वा स्यात् । यदि प्रसिद्धम् , वेदा­न्त­वा­क्य­स­मु­त्थेन निश्चयज्ञानेन विषयीकृतम् , ततो न जिज्ञासितव्यम् , निष्पादितक्रिये कर्मणि अविशेषाधायिनः । साधनस्य साध­न­न्या­या­ति­पा­तात् । अथाप्रसिद्धं वेदा­न्ते­भ्य­स्तर्हि न तद्वेदान्ताः प्रतिपादयन्तीति सर्व­थाऽ­प्र­सिद्धं नैव शक्यं जिज्ञासितुम् । अनुभूते हि प्रिये भवतीच्छा न तु सर्व­था­न­नु­भू­त­पूर्वे । न चेष्यमाणमपि शक्यं ज्ञातुं, प्रमाणाभावात् । शब्दो हि तस्य प्रमाणं वक्तव्यः । यथा वक्ष्यति - “शास्त्र­यो­नि­त्वात्”(ब्र.सू. १-१-३) इति । स चेत्त­न्ना­व­बो­ध­यति, कुतस्तस्य तत्र प्रामाण्यम् । न च प्रमाणान्तरं ब्रह्मणि प्रक्रमते । तस्मा­त्प्र­सि­द्धस्य ज्ञातुं शक्य­स्या­प्य­जि­ज्ञा­स­नात् , अप्र­सि­द्ध­स्ये­च्छाया अविषयत्वात् , अश­क्य­ज्ञा­न­त्वाच्च न ब्रह्म जिज्ञा­स्य­मि­त्या­क्षेपः ।

परिहरति -
उच्यते - अस्ति तावद्ब्रह्म नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भा­वम् ।
अयमर्थः - प्रागपि ब्रह्ममीमांसाया पूर्वमधीतवेदस्य निग­म­नि­रु­क्त­व्या­क­र­णा­दि­प­रि­शी­ल­न­वि­दि­त­प­द­त­द­र्थ­स­म्ब­न्धस्य “सदेव सोम्येदमग्र आसीत्”(छा. उ. ६ । २ । १) इत्युपक्रमात् , “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्य­न्ता­त्स­न्द­र्भात् नित्य­त्वा­द्यु­पे­त­ब्र­ह्म­स्व­रू­पा­व­ग­म­स्ता­व­दा­पा­ततो विचा­रा­द्वि­ना­प्यस्ति । अत्र च ब्रह्मे­त्या­दि­ना­व­ग­म्येन तद्विषयमवगमं लक्षयति, तदस्तित्वस्य सति विमर्शे विचा­रा­त्प्रा­ग­नि­श्च­यात् । नित्येति क्षयितालक्षणं दुःखमुपक्षिपति । शुद्धेति देहा­द्यु­पा­धि­क­मपि दुःखमपाकरोति । बुद्धे­त्य­प­रा­धी­न­प्र­का­श­मा­न­न्दा­त्मानं दर्शयति, आन­न्द­प्र­का­श­यो­र­भे­दात् ।

स्यादेतत् । मुक्तौ सत्यामस्यैते शुद्धत्वादयः प्रथन्ते, ततस्तु प्राक् देहाद्यभेदेन तद्ध­र्म­ज­न्म­ज­रा­म­र­णा­दि­दुः­ख­यो­गा­दि­त्यत उक्तम् -
मुक्तेति ।
सदैव मुक्तः सदैव केव­लोऽ­ना­द्य­वि­द्या­व­शात् भ्रान्त्या तथावभासत इत्यर्थः ।

तदेवमनौपाधिकं ब्रह्मणो रूपं दर्श­यि­त्वा­वि­द्यो­पा­धिकं रूपमाह -
सर्वज्ञं सर्व­श­क्ति­स­म­न्वि­तम् ।
तदनेन जगत्कारणत्वमस्य दर्शितम् , शक्ति­ज्ञा­न­भा­वा­भा­वा­नु­वि­धा­ना­त्का­र­ण­त्व­भा­वा­भा­वयोः ।

कुतः पुन­रे­वं­भू­त­ब्र­ह्म­स्व­रू­पा­व­ग­ति­रि­त्यत आह -
ब्रह्मशब्दस्य हीति ।
न केवलं “सदेव सोम्येदम्”(छा. उ. ६ । २ । १) इत्यादीनां वाक्यानां पौर्वा­प­र्या­लो­च­नया इत्थ­म्भू­त­ब्र­ह्मा­व­गतिः । अपि तु ब्रह्मपदमपि निर्व­च­न­सा­म­र्थ्या­दि­म­मे­वार्थं स्वहस्तयति ।

निर्वचनमाह -
बृह­ते­र्धा­तो­र­र्था­नु­ग­मात् ।
वृद्धिकर्मा हि बृहतिरतिशायने वर्तते । तच्चे­द­म­ति­शा­य­न­म­न­व­च्छिन्नं पदान्तरावगमितं नित्य­शु­द्ध­बु­द्ध­त्वा­द्य­स्या­भ्य­नु­जा­ना­ती­त्यर्थः ।

तदेवं तत्पदार्थस्य शुद्धत्वादेः प्रसिद्धिमभिधाय त्वम्प­दा­र्थ­स्या­प्याह -
सर्व­स्या­त्म­त्वाच्च ब्रह्मा­स्ति­त्व­प्र­सिद्धिः ।
सर्व­स्य­पां­सु­ल­पा­द­कस्य हालिकस्यापि ब्रह्मा­स्ति­त्व­प्र­सिद्धिः, कुतः, आत्मत्वात् ।

एतदेव स्फुटयति -
सर्वो हीति ।

प्रतीतिमेव अप्र­ती­ति­नि­रा­क­र­णेन द्रढयति -
न नेति ।
न न प्रत्ये­त्य­ह­म­स्मीति, किन्तु प्रत्येत्येवेति योजना ।

नन्वहमस्मीति च ज्ञास्यति मा च ज्ञासी­दा­त्मा­न­मि­त्यत आह -
यदीति ।

अहमस्मीति न प्रतीयात् ।
अहङ्कारास्पदं हि जीवात्मानं चेन्न प्रतीयात् , अहमिति न प्रती­या­दि­त्यर्थः ।

ननु प्रत्येतु सर्वो जन आत्मा­न­म­ह­ङ्का­रा­स्प­दम् , ब्रह्मणि तु किमायातमित्यत आह -
आत्मा च ब्रह्म ।
तदस्त्वमा सामा­ना­धि­क­र­ण्यात् । तस्मा­त्त­त्प­दा­र्थस्य शुद्ध­बु­द्ध­त्वादेः शब्दतः, त्वम्पदार्थस्य च जीवात्मनः प्रत्यक्षतः प्रसिद्धेः, पदा­र्थ­ज्ञा­न­पू­र्व­क­त्वाच्च वाक्या­र्थ­ज्ञा­नस्य, त्वम्पदार्थस्य ब्रह्मभावावगमः “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति वाक्यादुपपद्यत इति भावः ।

आक्षेप्ता प्रथमकल्पाश्रयं दोषमाह -
यदि तर्हि लोक इति ।
अध्या­प­का­ध्ये­तृ­प­र­म्परा लोकः । तत्र “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति वाक्याद्यदि ब्रह्मात्मत्वेन प्रसिद्धमस्ति । आत्मा ब्रह्मत्वेनेति वक्तव्ये ब्रह्मा­त्म­त्वे­ने­त्य­भे­द­वि­व­क्षया गमयितव्यम् ।

परिहरति -
न ।

कुतः,
तद्विशेषं प्रति विप्रतिपत्तेः ।
तदनेन विप्रतिपत्तिः साध­क­बा­ध­क­प्र­मा­णा­भावे सति संशयबीजमुक्तम् । ततश्च संश­या­ज्जि­ज्ञा­सो­प­प­द्यत इति भावः । विवादाधिकरणं धर्मी सर्व­त­न्त्र­सि­द्धा­न्त­सि­द्धोऽ­भ्यु­पेयः । अन्यथा अनाश्रया भिन्नाश्रया वा विप्रतिपत्तयो न स्युः । विरुद्धा हि प्रतिपत्तयो विप्रतिपत्तयः । न चानाश्रयाः प्रतिपत्तयो भवन्ति, अना­ल­म्ब­न­त्वा­पत्तेः । न च भिन्नाश्रया विरुद्धाः । नह्यनित्या बुद्धिः, नित्य आत्मेति प्रति­प­त्ति­वि­प्र­ति­पत्ती । तस्मा­त्त­त्प­दा­र्थस्य शुद्ध­बु­द्ध­त्वा­दे­र्वे­दा­न्तेभ्यः प्रतीतिः, त्वम्पदार्थस्य च जीवात्मनो लोकतः सिद्धिः सर्व­त­न्त्र­सि­द्धान्तः । तदा­भा­स­त्वा­ना­भा­स­त्व­त­त्त­द्वि­शे­षेषु परमत्र विप्रतिपत्तयः । तस्मा­त्सा­मा­न्यतः प्रसिद्धे धर्मिणि विशेषतो विप्रतिपत्तौ युक्त­स्त­द्वि­शे­षेषु संशयः ।

तत्र त्वम्पदार्थे ताव­द्वि­प्र­ति­प­त्ती­र्द­र्श­यति -
देह­मा­त्र­मि­त्या­दिना, भोक्तैव केवलं न कर्त्ता इत्यन्तेन ।
अत्र देहे­न्द्रि­य­म­नः­क्ष­णि­क­वि­ज्ञा­न­चै­त­न्य­पक्षे न तत्प­दा­र्थ­नि­त्य­त्वा­दयः त्वम्पदार्थेन सम्बध्यन्ते, योग्यताविरहात् । शून्यपक्षेऽपि सर्वो­पा­ख्या­न­र­हि­त­म­प­दार्थः कथं तत्त्वमोर्गोचरः । कर्तृ­भो­क्तृ­स्व­भा­व­स्यापि परिणामितया तत्प­दा­र्थ­नि­त्य­त्वा­द्य­स­ङ्ग­ति­रेव । अकर्तृत्वेऽपि भोक्तृत्वपक्षे परिणामितया नित्य­त्वा­द्य­स­ङ्गतिः । अभोक्तृत्वेऽपि नाना­त्वे­ना­व­च्छि­न्न­त्वा­द­नि­त्य­त्वा­दि­प्र­स­क्ता­व­द्वै­त­हा­नाच्च तत्प­दा­र्था­स­ङ्ग­ति­स्त­द­व­स्थैव । त्वम्प­दा­र्थ­वि­प्र­ति­पत्त्या च तत्पदार्थेऽपि विप्र­ति­प­त्ति­र्द­र्शिता । वेदा­प्रा­मा­ण्य­वा­दिनो हि लौका­य­ति­का­द­य­स्त­त्प­दा­र्थ­प्र­त्ययं मिथ्येति मन्यन्ते । वेद­प्रा­मा­ण्य­वा­दि­नोऽ­प्यौ­प­चा­रिकं तत्प­दा­र्थ­म­वि­व­क्षितं वा मन्यन्त इति ।

तदेवं त्वम्प­दा­र्थ­वि­प्र­ति­प­त्ति­द्वारा तत्पदार्थे विप्रतिपत्तिं सूचयित्वा साक्षा­त्त­त्प­दार्थे विप्रतिपत्तिमाह -
अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित् ।
तदिति जीवात्मानं परामृशति । न केवलं शरीरादिभ्यः, जीवात्मभ्योऽपि व्यतिरिक्तः । स च सर्वस्यैव जगत ईष्टे ।

ऐश्व­र्य­सि­द्ध्यर्थं स्वाभाविकमस्य रूपद्वयमुक्तम् -
सर्वज्ञः सर्वशक्तिरिति ।

तस्यापि जीवात्मभ्योऽपि व्यतिरेकात् , न त्वम्पदार्थेन सामा­ना­धि­क­र­ण्य­मिति स्वमतमाह -
अत्मा स भोक्तुरित्यपरे ।
भोक्तु­र्जी­वा­त्म­नोऽ­वि­द्यो­पा­धि­कस्य स ईश्व­र­स्त­त्प­दार्थ आत्मा, तत ईश्वरादभिन्नो जीवात्मा । परमाकाशादिव घटाकाशादय इत्यर्थः ।

विप्र­ति­प­त्ती­रु­प­सं­ह­रन् विप्र­ति­प­त्ति­बी­ज­माह -
एवं बहव इति ।
युक्ति­यु­क्त्या­भा­स­वा­क्य­वा­क्या­भा­स­स­मा­श्रयाः सन्त इति योजना ।

ननु सन्तु विप्रतिपत्तयः, तन्निमित्तश्च संशयः तथापि किमर्थं ब्रह्म­मी­मां­सा­र­भ्यत इत्यत आह -
तत्राविचार्येति ।
तत्त्वज्ञानाच्च निःश्रेयसाधिगमो नात­त्त्व­ज्ञा­ना­द्भ­वि­तु­म­र्हति । अपि च अत­त्त्व­ज्ञा­ना­न्ना­स्तिक्ये सत्य­न­र्थ­प्रा­प्ति­रि­त्यर्थः ।

सूत्र­ता­त्प­र्य­मु­प­सं­ह­रति -
तस्मादिति ।
वेदान्तमीमांसा तावत्तर्क एव, तदविरोधिनश्च येऽन्येऽपि तर्का अध्वरमीमांसायां न्याये च वेद­प्र­त्य­क्षा­दि­प्रा­मा­ण्य­प­रि­शो­ध­ना­दि­षू­क्तास्त उपकरणं यस्याः सा तथोक्ता । तस्मादियं पर­म­निः­श्रे­य­स­सा­ध­न­ब्र­ह्म­ज्ञा­न­प्र­यो­जना ब्रह्म­मी­मां­सा­र­ब्ध­व्येति सिद्धम् ॥ १ ॥

तदेवं प्रथमसूत्रेण मीमां­सा­र­म्भ­मु­प­पाद्य ब्रह्म­मी­मां­सा­मा­र­भते -
जन्माद्यस्य यतः ।

एतस्य सूत्रस्य पातनिकामाह भाष्यकारः -
ब्रह्म जिज्ञा­सि­त­व्य­मि­त्यु­क्तम् ।

किंलक्षणं पुनस्तद्ब्रह्म ।
यत्र यद्यपि ब्रह्म­स्व­रू­प­ज्ञा­नस्य प्रधानस्य प्रतिज्ञया तदङ्गान्यपि प्रमाणादीनि प्रतिज्ञातानि, तथापि स्वरूपस्य प्राधा­न्या­त्त­दे­वा­क्षिप्य प्रथमं समर्थ्यते । तत्र यद्यावदनुभूयते तत्सर्वं परि­मि­त­म­वि­शु­द्ध­म­बुद्धं विध्वंसि, न तेनोपलब्धेन तद्विरुद्धस्य नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भा­वस्य ब्रह्मणः स्वरूपं शक्यं लक्षयितुम् , न हि जातु कश्चि­त्कृ­त­क­त्वेन नित्यं लक्षयति । न च तद्धर्मेण नित्यत्वादिना तल्लक्ष्यते, तस्या­नु­प­ल­ब्ध­च­र­त्वात् । प्रसिद्धं हि लक्षणं भवति, नात्य­न्ता­प्र­सि­द्धम् । एवं च न शब्दोऽप्यत्र प्रक्रमते, अत्य­न्ता­प्र­सि­द्ध­तया ब्रह्म­णोऽ­प­दा­र्थ­स्या­वा­क्या­र्थ­त्वात् । तस्मा­ल्ल­क्ष­णा­भा­वात् , न ब्रह्म जिज्ञा­सि­त­व्य­मि­त्या­त्या­क्षे­पा­भि­प्रायः । तमिममाक्षेपं भगवान् सूत्रकारः परिहरति - “जन्माद्यस्य यतः”(ब्र. सू. १ । १ । २) इति । मा भूदनुभूयमानं जगत्तद्धर्मतया तादात्म्येन वा ब्रह्मणो लक्षणम् , तदुत्पत्त्या तु भविष्यति । देशा­न्त­र­प्रा­प्ति­रिव सवि­तु­र्व्र­ज्याया इति तात्पर्यार्थः ।

सूत्रावयवान् विभजते -
जन्मो­त्प­त्ति­रा­दि­र­स्येति ।

लाघवाय सूत्रकृता जन्मादीति नपुंसकप्रयोगः कृतस्तदुपपादनाय समाहारमाह -
जन्म­स्थि­ति­भ­ङ्ग­मिति ।
जन्मनश्च इत्यादिः

कारणनिर्देशः
इत्यन्तः सन्दर्भो निगदव्याख्यातः ।

स्यादेतत् । प्रधा­न­का­ल­ग्र­ह­लो­क­पा­ल­क्रि­या­य­दृ­च्छा­स्व­भा­वा­भा­वे­षू­प­प्ल­व­मा­नेषु सत्सु सर्वज्ञं सर्व­श­क्ति­स्व­भावं ब्रह्म जग­ज्ज­न्मा­दि­का­र­ण­मिति कुतः सम्भावनेत्यत आह -
अस्य जगत इति ।

अत्र
नामरूपाभ्यां व्याकृतस्य इति
चेत­न­भा­व­क­र्तृ­क­त्व­स­म्भा­व­नया प्रधा­ना­द्य­चे­त­न­क­र्तृ­कत्वं निरु­पा­ख्य­क­र्तृ­कत्वं च व्यासेधति । यत्खलु नाम्ना रूपेण च व्याक्रियते तच्चेतनकर्तृकं दृष्टम् , यथा घटादि । विवादाध्यासितं च जग­न्ना­म­रू­पाभ्यां व्याकृतं तस्मा­च्चे­त­न­क­र्तृकं सम्भाव्यते । चेतनो हि बुद्धावालिख्य नामरूपे घट इति नाम्ना, रूपेण च कम्बुग्रीवादिना बाह्यं घटं निष्पादयति । अत एव घटस्य निर्व­र्त्य­स्या­प्यन्तः सङ्कल्पात्मना सिद्धस्य कर्मकारकभावो घटं करोतीति । यथाहुः - “बुद्धिसिद्धं तु न तदसत्”(न्या.सू. ४ । १ । ५०) इति । तथा चाचेतनो बुद्धावनालिखितं करोतीति न शक्यं सम्भावयितुमिति भावः ।

स्यादेतत् । चेतना ग्रहा लोकपाला वा नामरूपे बुद्धावालिख्य जग­ज्ज­न­यि­ष्यन्ति, कृत­मु­क्त­स्व­भा­वेन ब्रह्मणेत्यत आह -
अने­क­क­र्तृ­भो­क्तृ­सं­यु­क्त­स्येति ।
केचित्कर्तारो भवन्ति, यथा सूदर्त्विगादयः, न भोक्तारः । केचित्तु भोक्तारः, यथा श्राद्ध­वै­श्वा­न­री­ये­ष्ट्या­दिषु पितापुत्रादयः, न कर्तारः । तस्मा­दु­भ­य­ग्र­ह­णम् । देश­का­ल­नि­मि­त्त­क्रि­या­फ­लानि इती­त­रे­त­र­द्वन्द्वः । देशादीनि च तानि प्रतिनियतानि चेति विग्रहः । तदाश्रयो जगत्तस्य । केचित्खलु प्रति­नि­य­त­दे­शो­त्पादाः, यथा कृष्णमृगादयः । केचि­त्प्र­ति­नि­य­त­का­लो­त्पादाः, यथा कोकिलालापादयो वसन्ते । केचि­त्प्र­ति­नि­य­त­नि­मित्ताः, यथा नवा­म्बु­द­ध्वा­ना­दि­नि­मित्ता बलाकागर्भादयः । केचि­त्प्र­ति­नि­य­त­क्रियाः, यथा ब्राह्मणानां याजनादयो नेतरेषाम् । एवं प्रतिनियतफलाः, यथा केचित्सुखिनः, केचिद्दुःखिनः, एवं य एव सुखिनस्त एव कदाचिद्दुःखिनः । सर्व­मे­त­दा­क­स्मि­का­प­र­नाम्नि यादृच्छिकत्वे वा स्वाभाविकत्वे वा सर्व­ज्ञा­स­र्व­श­क्ति­क­र्तृ­कत्वे च न घटते, परि­मि­त­ज्ञा­न­श­क्ति­भि­र्ग्र­ह­लो­क­पा­ला­दि­भि­र्ज्ञातुं कर्तुं चाशक्यत्वात् ।

तदिदमुक्तम् -
मन­सा­प्य­चि­न्त्य­र­च­ना­रू­प­स्येति ।
एकस्या अपि हि शरीररचनाया रूपं मनसा न शक्यं चिन्तयितुं कदाचित् , प्रागेव जगद्रचनायाः, किमङ्ग पुनः कर्तुमित्यर्थः ।

सूत्रवाक्यं पूरयति -
तद्ब्रह्मेति वाक्यशेषः ।

स्यादेतत् । कस्मा­त्पु­न­र्ज­न्म­स्थि­ति­भ­ङ्ग­मा­त्र­मि­हा­दि­ग्र­ह­णेन गृह्यते, न तु वृद्धि­प­रि­णा­मा­प­क्षया अपीत्यत आह -
अन्येषामपि भावविकाराणां -
वृद्ध्यादीनां

त्रिष्वे­वा­न्त­र्भाव इति ।
वृद्धि­स्ता­व­द­व­य­वो­प­चयः । तेना­ल्पा­व­य­वा­द­व­य­विनो द्वित­न्तु­का­दे­रन्य एव महान्पटो जायत इति जन्मैव वृद्धिः । परिणामोऽपि त्रिविधो धर्म­ल­क्ष­णा­व­स्था­ल­क्षणः उत्पत्तिरेव । धर्मिणो हि हाट­का­दे­र्ध­र्म­ल­क्षणः परिणामः कट­क­मु­कु­टा­दि­स्त­स्यो­त्पत्तिः, एवं कटकादेरपि प्रत्यु­त्प­न्न­त्वा­दि­ल­क्षणः परिणाम उत्पत्तिः । एवमवस्थापरिणामो नव­पु­रा­ण­त्वा­दि­रु­त्पत्तिः । अप­क्ष­य­स्त्व­व­य­व­ह्रासो नाश एव । तस्मा­ज्ज­न्मा­दिषु यथा­स्व­म­न्त­र्भा­वा­द्वृ­द्ध्या­दयः पृथङ्नोक्ता इत्यर्थः ।

अथैते वृद्ध्यादयो न जन्मा­दि­ष्व­न्त­र्भ­वन्ति, तथा­प्यु­त्प­त्ति­स्थि­ति­भ­ङ्ग­मे­वो­पा­दा­त­व्यम् । तथा सति हि तत्प्रतिपादके “यतो वा इमानि भूतानि”(तै.उ. ३-१-१) इति वेदवाक्ये बुद्धिस्थीकृते जगन्मूलकारणं ब्रह्म लक्षितं भवति । अन्यथा तु जायतेऽस्ति वर्धते इत्यादीनां ग्रहणे तत्प्रतिपादकं नैरुक्तवाक्यं बुद्धौ भवेत् , तच्च न मूल­का­र­ण­प्र­ति­पा­द­न­प­रम् , महा­स­र्गा­दूर्ध्वं स्थितिकालेऽपि तद्वा­क्यो­दि­तानां जन्मादीनां भाव­वि­का­रा­णा­मु­प­पत्तेः, इति शङ्का­नि­रा­क­र­णार्थं वेदो­क्तो­त्प­त्ति­स्थि­ति­भ­ङ्ग­ग्र­ह­ण­मि­त्याह -
यास्क­प­रि­प­ठि­तानां त्विति ।

नन्वे­व­म­प्यु­त्प­त्ति­मात्रं सूच्यताम् , तन्नान्तरीयकतया तु स्थितिभङ्गं गम्यत इत्यत आह -
योत्प­त्ति­र्ब्र­ह्मणः
कारणादिति । त्रिभि­र­स्यो­पा­दा­नत्वं सूच्यते । उत्पत्तिमात्रं तु निमि­त्त­का­र­ण­सा­धा­र­ण­मिति नोपादानं सूचयेत् ।

तदिदमुक्तम् -
तत्रैवेति ।

पूर्वोक्तानां कार्य­का­र­ण­वि­शे­ष­णानां प्रयोजनमाह -
न यथोक्तेति ।
तदनेन प्रबन्धेन प्रति­ज्ञा­वि­ष­यस्य ब्रह्मस्वरूपस्य लक्षणद्वारेण सम्भावनोक्ता । तत्र प्रमाणं वक्तव्यम् । यथा­हु­र्नै­या­यिकाः - “सम्भावितः प्रतिज्ञायां पक्षः साध्येत हेतुना । न तस्य हेतु­भि­स्त्रा­ण­मु­त्प­त­न्नेव यो हतः” ॥

यथा च वन्ध्या जननी” इत्यादिरिति । इत्थं नाम जन्मादि सम्भावनाहेतुः, यदन्ये वैशेषिककादय इत एवा­नु­मा­ना­दी­श्व­र­वि­नि­श्च­य­मि­च्छ­न्तीति सम्भावनाहेतुतां द्रढयितुमाह -
एतदेवेति ।

चोदयति -
नन्विहापीति ।

एता­व­तै­वा­धि­क­र­णार्थे समाप्ते वक्ष्य­मा­णा­धि­क­र­णा­र्थ­म­नु­व­दन् सुहृद्भावेन परिहरति -
न वेदान्तेति ।

वेदा­न्त­वा­क्य­कु­सु­म­ग्र­थ­ना­र्थ­ता­मेव दर्शयति -
वेदान्तेति ।
विचा­र­स्या­ध्य­व­सानं सवा­स­ना­वि­द्या­द्व­यो­च्छेदः । ततो हि ब्रह्मा­व­ग­ते­र्नि­वृ­त्ति­रा­वि­र्भावः । तत्किं ब्रह्मणि शब्दादृते न माना­न्त­र­म­नु­स­र­णी­यम् ।

तथा च कुतो मननम् , कुतश्च तदनुभवः साक्षात्कार इत्यत आह -
सत्सु तु वेदा­न्त­वा­क्ये­ष्विति ।
अनुमानं वेदान्ताविरोधि तदुपजीवि चेत्यपि द्रष्टव्यम् । शब्दाविरोधिन्या तदुपजीविन्या च युक्त्या विवेचनं मननम् । युक्तिश्च अर्था­प­त्ति­र­नु­मानं वा ।

स्यादेतत् । यथा धर्मे न पुरु­ष­बु­द्धि­सा­हा­य्यम् , एवं ब्रह्मण्यपि कस्मान्न भवतीत्यत आह -
न धर्म­जि­ज्ञा­सा­या­मि­वेति ।

श्रुत्यादय इति ।
श्रुती­ति­हा­स­पु­रा­ण­स्मृ­तयः प्रमाणम् । अनु­भ­वोऽ­न्तः­क­र­ण­वृ­त्ति­भेदो ब्रह्म­सा­क्षा­त्का­र­स्त­स्या­वि­द्या­नि­वृ­त्ति­द्वा­रेण ब्रह्म­स्व­रू­पा­वि­र्भावः प्रमाणफलम् । तच्च फलमिव फलमिति गमयितव्यम् ।

यद्यपि धर्म­जि­ज्ञा­सा­या­मपि सामग्र्यां प्रत्यक्षादीनां व्यापारस्तथापि साक्षान्नास्ति । ब्रह्म­जि­ज्ञा­सायां तु साक्षा­द­नु­भ­वा­दीनां सम्भ­वोऽ­नु­भ­वार्था च ब्रह्म­जि­ज्ञा­से­त्याह -
अनु­भ­वा­व­सा­न­त्वात् ।
ब्रह्मानुभवो ब्रह्म­सा­क्षा­त्कारः परः पुरुषार्थः, निर्मृ­ष्ट­नि­खि­ल­दुः­ख­प­र­मा­न­न्द­रू­प­त्वा­दिति ।

ननु भवतु ब्रह्मा­नु­भ­वार्था जिज्ञासा, तदनुभव एव त्वशक्यः, ब्रह्म­ण­स्त­द्वि­ष­य­त्वा­यो­ग्य­त्वा­दि­त्यत आह -
भूत­व­स्तु­वि­ष­य­त्वाच्च ब्रह्म­वि­ज्ञा­नस्य ।
व्यति­रे­क­सा­क्षा­त्का­रस्य विकल्परूपो विषयविषयिभावः ।

नत्वेवं धर्म­ज्ञा­न­म­नु­भ­वा­व­सा­नम् , तदनुभवस्य स्वय­म­पु­रु­षा­र्थ­त्वात् , तद­नु­ष्ठा­न­सा­ध्य­त्वा­त्पु­रु­षा­र्थस्य, अनुष्ठानस्य च विनाप्यनुभवं शाब्द­ज्ञा­न­मा­त्रा­देव सिद्धेरित्याह -
कर्तव्ये हीत्यादिना ।

न चायं साक्षा­त्का­र­वि­ष­य­ता­यो­ग्योऽ­प्य­व­र्त­मा­न­त्वात् , अव­र्त­मा­न­श्चा­न­व­स्थि­त­त्वा­दि­त्याह -
पुरुषाधीनेति ।

पुरुषाधीनत्वमेव लौकि­क­वै­दि­क­का­र्या­णा­माह -
कर्तुमकर्तुमिति ।

लौकिकं कार्य­म­न­व­स्थि­त­मु­दा­ह­रति -
यथाश्वेनेति ।

लौकिकेनोदाहरणेन सह वैदिकमुदाहरणं समुच्चिनोति -
तथातिरात्र इति ।

कर्तु­म­क­र्तु­मि­त्य­स्ये­द­मु­दा­ह­र­ण­मु­क्तम् । कर्तुमन्यथा वा कर्तु­मि­त्य­स्यो­दा­ह­र­ण­माह -
उदित इति ।

स्यादेतत् । पुरु­ष­स्वा­त­न्त्र्या­त्क­र्तव्ये विधि­प्र­ति­षे­धा­ना­मा­न­र्थ­क्यम् , अत­द­धी­न­त्वा­त्पु­रु­ष­प्र­वृ­त्ति­नि­वृ­त्त्यो­रि­त्यत आह -
विधि­प्र­ति­षे­धा­श्चा­त्रा­र्थ­वन्तः स्युः ।
गृह्णातीति विधिः । न गृह्णातीति प्रतिषेधः । उदि­ता­नु­दि­त­हो­म­यो­र्विधी । एवं नारा­स्थि­स्प­र्श­न­नि­षेधो ब्रह्मघ्नश्च तद्वा­र­ण­वि­धि­रि­त्ये­वं­जा­ती­यका विधिप्रतिषेधा अर्थवन्तः ।

कुत इत्यत आह -
विक­ल्पो­त्स­र्गा­प­वा­दाश्च ।
चो हेतौ । यस्मा­द्ग्र­ह­णा­ग्र­ह­ण­यो­रु­दि­ता­नु­दि­त­हो­म­योश्च विरो­धा­त्स­मु­च्च­या­स­म्भवे तुल्यबलतया च बाध्य­बा­ध­क­भा­वा­भावे सत्यगत्या विकल्पः । नारा­स्थि­स्प­र्श­न­नि­षे­ध­त­द्वा­र­णा­योश्च विरु­द्ध­यो­र­तु­ल्य­ब­ल­तया न विकल्पः । किन्तु सामा­न्य­शा­स्त्रस्य स्पर्शननिषेधस्य धारणविधिविषयेण विशेषशास्त्रेण बाधः । एतदुक्तं भवति - विधि­प्र­ति­षे­धै­रेव स तादृशो विष­योऽ­ना­ग­तो­त्पा­द्य­रूप उपनीतः, येन पुरुषस्य विधि­नि­षे­धा­धी­न­प्र­वृ­त्ति­नि­वृ­त्त्यो­रपि स्वातन्त्र्यं भवतीति ।

भूते वस्तुनि तु नेयमस्ति विधेत्याह -
न तु वस्त्वेवं नैवमिति ।
तदनेन प्रकारविकल्पो निरस्तः ।

प्रकारिविकल्पं निषेधति -
अस्ति नास्तीति ।

स्यादेतत् । भूतेऽपि वस्तुनि विकल्पो दृष्टः, यथा स्थाणुर्वा पुरुषो वेति, तत्कथं न वस्तु विकल्प्यत इत्यत आह -
विक­ल्प­ना­स्त्विति ।
पुरुषबुद्धिः = अन्तःकरणं, तदपेक्षा विकल्पनाः = संशयविपर्यासाः । सवा­स­न­म­नो­मा­त्र­यो­नयो वा, यथा स्वप्ने । सवा­स­ने­न्द्रि­य­म­नो­यो­नयो वा, यथास्थाणुर्वा पुरुषो वेतिस्थाणौ संशयः, पुरुष एवेति वा विपर्यासः । अन्यशब्देन वस्तुतः स्थाणोरन्यस्य पुरु­ष­स्या­भि­धा­नात् । न तु पुरुषतत्त्वं वा स्थाणुतत्त्वं वापेक्षन्ते । समा­न­ध­र्म­ध­र्मि­द­र्श­न­मा­त्रा­धी­न­ज­न्म­त्वात् । तस्मादयथावस्तवो विकल्पना न वस्तु विकल्पयन्ति वान्यथयन्ति वेत्यर्थः ।

तत्त्वज्ञानं तु न बुद्धितन्त्रम् , किं तु वस्तुतन्त्रम् , अतस्ततो वस्तुविनिश्चयो युक्तः, न तु विकल्पनाभ्य इत्याह -
न वस्तु­या­था­त्म्येति ।

एवमुक्तेन प्रकारेण भूत­व­स्तु­वि­ष­याणां ज्ञानानां प्रामाण्यस्य वस्तुतन्त्रतां प्रसाध्य ब्रह्मज्ञानस्य वस्तु­त­न्त्र­ता­माह -
तत्रैवं सतीति ।

अत्र चोदयति -
ननु भूतेति ।
यत्किल भूतार्थं वाक्यं तत्प्र­मा­णा­न्त­र­गो­च­रा­र्थ­त­या­नु­वा­दकं दृष्टम् । यथा नद्यास्तीरे फलानि सन्तीति । तथा च वेदान्ताः । तस्मात् भूतार्थतया प्रमा­णा­न्त­र­दृ­ष्ट­मे­वा­र्थ­म­नु­व­देयुः । उक्तं च ब्रह्मणि जग­ज्ज­न्मा­दि­हे­तु­क­म­नु­मानं प्रमाणान्तरम् । एवं च मौलिकं तदेव परीक्षणीयम् , न तु वेदान्तवाक्यानि तद­धी­न­स­त्य­त्वा­नीति कथं वेदा­न्त­वा­क्य­ग्र­थ­ना­र्थता सूत्रा­णा­मि­त्यर्थः ।

परिहरति -
न । इन्द्रि­या­वि­ष­य­त्वेति ।

कस्मा­त्पु­न­र्ने­न्द्रि­य­वि­ष­यत्वं प्रतीच इत्यत आह -
स्वभावत इति ।
अत एव श्रुतिः - “पराञ्चि खानि व्यतृणत् स्वय­म्भू­स्त­स्मा­त्प­रा­ङ्प­श्यति नान्तरात्मन्”(क. उ. २ । १ । १) इति ।

सति हीन्द्रियेति ।
प्रत्य­गा­त्म­न­स्त्व­वि­ष­य­त्व­मु­प­पा­दि­तम् । यथा च सामान्यतो दृष्टमप्यनुमानं ब्रह्मणि न प्रवर्तते तथो­प­रि­ष्टा­न्नि­पु­ण­त­र­मु­प­पा­द­यि­ष्यामः । उपपादितं चैत­द­स्मा­भि­र्वि­स्त­रेण न्यायकणिकायाम् । न च भूता­र्थ­ता­मा­त्रे­णा­नु­वा­द­ते­त्यु­प­रि­ष्टा­दु­प­पा­द­यि­ष्यामः । तस्मा­त्स­र्व­म­व­दा­तम् । श्रुतिश्च - “यतो वा”(तै. उ. ३ । १ । १) इति जन्म दर्शयति, “येन जातानि जीवन्ति” इति जीवनं स्थितिम् , “यत्प्रयन्ति” इति तत्रैव लयम् ।

तस्य च निर्णयवाक्यम् ।

अत्र च प्रधानादिसंशये निर्णयवाक्यम् -
आन­न्दा­द्ध्ये­वेति ।
एतदुक्तं भवति - यथा रज्ज्व­ज्ञा­न­स­हि­त­र­ज्जू­पा­दाना हि धारा रज्ज्वां सत्यामस्ति, रज्ज्वामेव च लीयते, एव­म­वि­द्या­स­हि­त­ब्र­ह्मो­पा­दानं जगज्जायते, ब्रह्म­ण्ये­वास्ति, तत्रैव च लीयत इति सिद्धम् ॥ २ ॥

सूत्रा­न्त­र­म­व­ता­र­यितुं पुर्व­सू­त्र­स­ङ्ग­ति­माह -
जग­त्का­र­ण­त्व­प्र­द­र्श­ने­नेति ।

शास्त्र­यो­नि­त्वात् ॥
न केवलं जग­द्यो­नि­त्वा­दस्य भगवतः सर्वज्ञता, शास्त्र­यो­नि­त्वा­दपि बोद्धव्या ।

शास्त्र­यो­नि­त्वस्य सर्व­ज्ञ­ता­सा­ध­नत्वं समर्थयते -
महत ऋग्वेदादेः शास्त्रस्येति ।
चातुर्वर्ण्यस्य चातुराश्रम्यस्य च यथायथं निषे­का­दि­श्म­शा­ना­न्तासु ब्राह्म­मु­हू­र्तो­प­क्र­म­प्र­दो­ष­प­रि­स­मा­प­नी­यासु नित्य­नै­मि­त्ति­क­का­म्य­क­र्म­प­द्ध­तिषु च ब्रह्मतत्त्वे च शिष्याणां शासनात् शास्त्र­मृ­ग्वे­दादिः । अत एव महाविषयत्वात् महत् ।

न केवलं महा­वि­ष­य­त्वे­नास्य महत्त्वम् , अपि त्वने­का­ङ्गो­पा­ङ्गो­प­क­र­ण­त­या­पी­त्याह -
अने­क­वि­द्या­स्था­नो­प­बृं­हि­तस्य ।
पुरा­ण­न्या­य­मी­मां­सा­दयो दश विद्यास्थानानि तैस्तया तया द्वारोपकृतस्य । तदनेन सम­स्त­शि­ष्ट­ज­न­प­रि­ग्र­हे­णा­प्रा­मा­ण्य­श­ङ्का­प्य­पा­कृता । पुरा­णा­दि­प्र­णे­तारो हि महर्षयः शिष्टास्तैस्तया तया द्वारा वेदा­न्व्या­च­क्षा­णै­स्त­द­र्थ­ञ्चा­द­रे­णा­नु­ति­ष्ठद्भिः परिगृहीतो वेद इति ।

न चायमनवबोधको नाप्य­स्प­ष्ट­बो­धको येनाप्रमाणं स्यादित्याह -
प्रदी­प­व­त्स­र्वा­र्था­व­द्यो­तिनः ।
सर्वमर्थजातं सर्व­था­व­बो­ध­य­न्ना­न­व­बो­धको नाप्यस्पष्टबोधक इत्यर्थः ।

अत एव
सर्वज्ञकल्पस्य -
सर्वज्ञसदृशस्य ।

सर्वज्ञस्य हि ज्ञानं सर्वविषयं, शास्त्र­स्या­प्य­भि­धानं सर्वविषयमिति सादृश्यम् । तदे­व­म­न्व­य­मुक्त्वा व्यतिरेकमप्याह -
न हीदृशस्येति ।
सर्वज्ञस्य गुणः सर्व­वि­ष­य­ता­त­द­न्वितं शास्त्रम् , अस्यापि सर्वविषयत्वात् ।

उक्तमर्थं प्रमाणयति -
यद्य­द्वि­स्त­रार्थं शास्त्रं यस्मा­त्पु­रु­ष­वि­शे­षा­त्स­म्भ­वति स -
पुरुषविशेषः

ततोऽपि -
शास्त्रात्

अधिकतरविज्ञानः
इति योजना । अद्य­त्वेऽ­प्य­स्म­दा­दि­भि­र्य­त्स­मी­ची­ना­र्थ­वि­षयं शास्त्रं विरच्यते तत्रास्माकं वक्तृणां वाक्या­ज्ज्ञा­न­म­धि­क­वि­ष­यम् । नहि ते तेऽसाधारणधर्मा अनुभूयमाना अपि शक्या वक्तुम् । न खल्वि­क्षु­क्षी­र­गु­डा­दीनां मधुररसभेदाः शक्याः सर­स्व­त्या­प्या­ख्या­तुम् । विस्तरार्थमपि वाक्यं न वक्तृज्ञानेन तुल्यविषयमिति कथयितुं विस्तरग्रहणम् ।

सोपनयं निगमनमाह -
किमु वक्तव्यमिति ।
वेदस्य यस्मात् महतो भूतात् योनेः सम्भवः, तस्य महतो भूतस्य ब्रह्मणो निरतिशयं सर्वज्ञत्वं च सर्वशक्तित्वं च किमु वक्तव्यमिति योजना ।

अनेकशाखेति ।
अत्र चाने­क­शा­खा­भे­द­भि­न्न­स्य­वे­द­स्ये­त्यादिः सम्भव इत्यन्त उपनयः । तस्येत्यादि सर्व­श­क्ति­त्व­ञ्चे­त्यन्तं निगमनम् ।

अप्रयत्नेनैवेति ।
ईषत्प्रयत्नेन, यथालवणा यवागूरिति । देवर्षयो हि महापरिश्रमेणापि यत्रा­श­क्त­स्त­द­य­मी­ष­त्प्र­य­त्नेन लीलयैव करोतीति निरतिशयमस्य सर्वज्ञत्वं सर्वशक्तित्वं चोक्तं भवति । अप्रयत्नेनास्य वेदकर्तृत्वे श्रुतिरुक्ता - “अस्य महतो भूतस्य”(बृ. उ. २ । ४ । १०) इति । येऽपि तावत् वर्णानां नित्य­त्व­मा­स्थि­षत तैरपि पद­वा­क्या­दी­ना­म­नि­त्य­त्व­म­भ्यु­पे­यम् । आनु­पू­र्वी­भे­द­वन्तो हि वर्णाः पदम् । पदानि चानु­पू­र्वी­भे­द­वन्ति वाक्यम् । व्यक्ति­ध­र्म­श्चा­नु­पूर्वी न वर्णधर्मः, वर्णानां नित्यानां विभूनां च कालतो देशतो वा पौर्वा­प­र्या­यो­गात् । व्यक्ति­श्चा­नि­त्येति कथं तदुपगृहीतानां वर्णानां नित्यानामपि पदता नित्या । पदानित्यतया च वाक्या­दी­ना­म­प्य­नि­त्यता व्याख्याता । तस्मा­न्नृ­त्ता­नु­क­र­ण­व­त्प­दा­द्य­नु­क­र­णम् । यथा हि यादृशं गात्रचलनादि नर्तकः करोति तादृशमेव शिक्ष्य­मा­णा­नु­क­रोति नर्तकी, न तु तदेव व्यनक्ति, एवं यादृ­शी­मा­नु­पूर्वीं वैदिकानां वर्णपदादीनां करोत्यध्यापयिता तादृ­शी­मे­वा­नु­क­रोति माणवकः, न तु तामेवोच्चारयति, आचा­र्य­व्य­क्तिभ्यो माण­व­क­व्य­क्ती­ना­म­न्य­त्वात् । तस्मा­न्नि­त्या­नि­त्य­व­र्ण­वा­दिनां न लौकि­क­वै­दि­क­प­द­वा­क्या­दि­पौ­रु­षे­यत्वे विवादः, केवलं वेदवाक्येषु पुरु­ष­स्वा­त­न्त्र्या­स्वा­तन्त्र्ये विप्रतिपत्तिः । यथाहुः - “यत्नतः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता” । तत्र सृष्टि­प्र­ल­य­म­नि­च्छन्तो जैमिनीया वेदाध्ययनं प्रत्य­स्मा­दृ­श­गु­रु­शि­ष्य­प­र­म्प­रा­म­वि­च्छि­न्ना­मि­च्छन्ते वेद­म­ना­दि­मा­च­क्षते । वैयासिकं तु मतमनुवर्तमानाः श्रुति­स्मृ­ती­ति­हा­सा­दि­सि­द्ध­सृ­ष्टि­प्र­ल­या­नु­सा­रे­णा­ना­द्य­वि­द्यो­प­धा­न­ल­ब्ध­स­र्व­श­क्ति­ज्ञा­न­स्यापि परमात्मनो नित्यस्य वेदानां योनेरपि न तेषु स्वातन्त्र्यम् , पूर्व­पू­र्व­स­र्गा­नु­सा­रेण तादृ­श­ता­दृ­शा­नु­पू­र्वी­वि­र­च­नात् । यथा हि - यागा­दि­ब्र­ह्म­ह­त्या­द­योऽ­र्था­न­र्थ­हे­तवो ब्रह्मविवर्ता अपि न सर्गान्तरेऽपि विपरीयन्ते । न हि जातु क्वचित्सर्गे ब्रह्म­ह­त्याऽ­र्थ­हे­तु­र­न­र्थ­हे­तु­श्चा­श्व­मेधो भवति । अग्निर्वा क्लेदयति । आपो वा दहन्ति । तद्वत् । यथात्र सर्गे नियतानुपूर्व्यं वेदा­ध्य­य­न­म­भ्यु­द­य­निः­श्रे­य­स­हे­तु­र­न्यथा तदेव वाग्व­ज्र­त­या­न­र्थ­हेतुः, एवं सर्गा­न्त­रे­ष्व­पीति तद­नु­रो­धा­त्स­र्व­ज्ञोऽपि सर्वशक्तिरपि पूर्व­पू­र्व­स­र्गा­नु­सा­रेण वेदान्विरचयन्न स्वतन्त्रः । पुरु­षा­स्वा­त­न्त्र्य­मात्रं चापौरुषेयत्वं रोचयन्ते जैमिनीया अपि । तच्चास्माकमपि समा­न­म­न्य­त्रा­भि­नि­वे­शात् । न चैकस्य प्रति­भा­नेऽ­ना­श्वास इति युक्तम् । न हि बहू­ना­म­प्य­ज्ञानां विज्ञानां वाशयदोषवतां प्रतिभाने युक्त आश्वासः । तत्त्व­ज्ञा­न­व­त­श्चा­पा­स्त­स­म­स्त­दो­ष­स्यै­क­स्यापि प्रतिभाने युक्त एवाश्वासः । सर्गादिभुवां प्रजा­प­ति­दे­व­र्षीणां धर्म­ज्ञा­न­वै­रा­ग्यै­श्व­र्य­स­म्प­न्ना­ना­मु­प­प­द्यते तत्स्व­रू­पा­व­धा­र­णम् , तत्प्रत्ययेन चार्वाचीनानामपि तत्र संप्रत्यय इत्युपपन्नं ब्रह्मणः शास्त्र­यो­नि­त्वम् , शास्त्रस्य चापौरुषेयत्वम् , प्रामाण्यं चेति ।।
इति प्रथमवर्णकम् ।।

वर्ण­का­न्त­र­मा­र­भते -
अथवेति ।
पूर्वेणाधिकरणेन ब्रह्म­स्व­रू­प­ल­क्ष­णा­स­म्भ­वा­शङ्कां व्युदस्य लक्षणसम्भव उक्तः । तस्यैव तु लक्ष­ण­स्या­ने­ना­नु­मा­न­त्वा­श­ङ्का­म­पा­कृ­त्या­ग­मो­प­द­र्श­नेन ब्रह्मणि शास्त्रं प्रमाणमुक्तम् । अक्ष­रा­र्थ­स्त्व­ति­रो­हितः ॥ ३ ॥

शास्त्र­प्र­मा­ण­क­त्व­मुक्तं ब्रह्मणः प्रति­ज्ञा­मा­त्रेण, तदनेन सूत्रेण प्रति­पा­द­नी­य­मि­त्यु­त्सूत्रं पूर्व­प­क्ष­मा­र­च­यति भाष्यकारः -
कथं पुनरिति ।
किमाक्षेपे । शुद्ध­बु­द्धो­दा­सी­न­स्व­भा­व­त­यो­पे­क्ष­णीयं ब्रह्म, भूतमभिदधतां वेदा­न्ता­ना­म­पु­रु­षा­र्थो­प­दे­शि­ना­म­प्र­यो­ज­न­त्वा­पत्तेः, भूतार्थत्वेन च प्रत्यक्षादिभिः समानविषयतया लौकि­क­वा­क्य­व­त्त­द­र्था­नु­वा­द­क­त्वे­ना­प्रा­मा­ण्य­प्र­स­ङ्गात् । न खलु लौकिकानि वाक्यानि प्रमा­णा­न्त­र­वि­ष­य­म­र्थ­म­व­बो­ध­यन्ति स्वतः प्रमाणम् , एवं वेदान्ता अपी­त्य­न­पे­क्ष­त्व­ल­क्षणं प्रामाण्यमेषां व्याहन्येत । न चैतै­र­प्र­मा­णै­र्भ­वितुं युक्तम् । न चाप्रयोजनैः, स्वाध्या­या­ध्य­य­न­वि­ध्या­पा­दि­त­प्र­यो­ज­न­व­त्त्व­नि­य­मात् । तस्मा­त्त­त्त­द्वि­हि­त­क­र्मा­पे­क्षि­त­क­र्तृ­दे­व­ता­दि­प्र­ति­पा­द­न­प­र­त्वे­नैव क्रियार्थत्वम् । यदि त्वसं­नि­धा­ना­त्त­त्प­रत्वं न रोचयन्ते, ततः संनि­हि­तो­पा­स­ना­दि­क्रि­या­प­रत्वं वेदान्तानाम् । एवं हि प्रत्य­क्षा­द्य­न­धि­ग­त­गो­च­र­त्वे­ना­न­पे­क्ष­तया प्रामाण्यं च प्रयोजनवत्त्वं च सिध्यतीति तात्पर्यार्थः । पार­म­र्ष­सू­त्रो­प­न्या­सस्तु पूर्व­प­क्ष­दा­र्ढ्याय । आन­र्थ­क्य­ञ्चा­प्र­यो­ज­न­व­त्त्वम् , सापेक्षतया प्रमा­नु­त्पा­द­कत्वं, चानु­वा­द­क­त्वा­दिति ।

अतः इत्यादिवान्तं
ग्रहणकवाक्यम् ।

अस्य विभागभाष्यं
नहि इत्यादि उपपन्ना वा इत्यन्तम् ।
स्यादेतत् । अक्रि­या­र्थ­त्वेऽपि ब्रह्म­स्व­रू­प­वि­धि­परा वेदान्ता भविष्यन्ति, तथा च “विधिना त्वेक­वा­क्य­त्वात्”(जै.सू. २.१.) - इति राद्धा­न्त­सू­त्र­म­नु­ग्र­ही­ष्यते । न खल्व­प्र­वृ­त्त­प्र­व­र्त­न­मेव विधिः, उत्प­त्ति­वि­धे­र­ज्ञा­त­ज्ञा­प­ना­र्थ­त्वात् ।

वेदान्तानां चाज्ञातं ब्रह्म ज्ञापयतां तथाभावादित्यत आह -
न च परिनिष्ठित इति ।
अना­ग­तो­त्पा­द्य­भा­व­वि­षय एव हि सर्वो विधिरुपेयः, उत्प­त्त्य­धि­का­र­वि­नि­यो­ग­प्र­यो­गो­त्प­त्ति­रू­पाणां पर­स्प­रा­वि­ना­भा­वात् , सिद्धे च तेषामसम्भवात् , तद्वाक्यानां त्वैदम्पर्यं भिद्यते । यथा - ‘अग्निहोत्रं जुहु­या­त्स्व­र्ग­कामः’ इत्या­दि­भ्योऽ­धि­का­र­वि­नि­यो­ग­प्र­यो­गाणां प्रतिलम्भात् , ‘अग्निहोत्रं जुहोति’ इत्यु­त्प­त्ति­मा­त्र­परं वाक्यम् । न त्वत्र विनियोगादयो न सन्ति, सन्तोऽप्यन्यतो लब्ध­त्वा­त्के­व­ल­म­वि­व­क्षिताः । तस्मात् भावनाविषयो विधिर्न सिद्धे वस्तुनि भवितुमर्हतीति ।

उपसंहरति -
तस्मादिति ।

अत्रा­रु­चि­का­र­ण­मुक्त्वा पक्षा­न्त­र­मु­प­स­ङ्क्र­मते -
अथेति ।
एवं च सत्युक्तरूपे ब्रह्मणि शब्द­स्या­ता­त्प­र्यात् प्रमाणान्तरेण यादृशमस्य रूपं व्यवस्थाप्यते न तच्छब्देन विरुध्यते, तस्यो­पा­स­ना­प­र­त्वात् , समारोपेण चोपासनाया उपपत्तेरिति ।

प्रकृतमुपसंहरति -
तस्मान्नेति ।

सूत्रेण सिद्धान्तयति -
एवं प्राप्त उच्यते - तत्तु समन्वयात् ॥

तदेतत् व्याचष्टे -
तुशब्द इति ।

तदि­त्यु­त्त­र­प­क्ष­प्र­तिज्ञां विभजते -
तद्ब्रह्मेति ।

पूर्वपक्षी कर्कशाशयः पृच्छति -
कथम् ।
कुतः प्रका­रा­दि­त्यर्थः ।

सिद्धान्ती स्वपक्षे हेतुं प्रकारभेदमाह -
समन्वयात् ।
सम्यगन्वयः समन्वयस्तस्मात् ।

एतदेव विभजते -
सर्वेषु हि वेदान्तेष्विति ।

वेदा­न्ता­ना­मै­का­न्तिकीं ब्रह्म­प­र­ता­मा­चि­ख्य­सु­र्ब­हूनि वाक्या­न्यु­दा­ह­रति -
सदेवेति ।
'यतो वा इमानि भूतानि” इति तु वाक्यं पूर्वमुदाहृतं जग­दु­त्प­त्ति­स्थि­ति­ना­श­का­र­ण­मिति चेह स्मारितमिति न पठितम् । येन हि वाक्य­मु­प­क्र­म्यते येन चोपसंह्रियते तदेव वाक्यार्थ इति शाब्दाः । यथो­पां­शु­या­ज­वा­क्येऽ­नूचोः पुरो­डा­श­यो­र्जा­मि­ता­दो­ष­स­ङ्की­र्त­न­पू­र्व­को­पां­शु­या­ज­वि­धाने तत्प्र­ति­स­मा­धा­नो­प­सं­हारे चापू­र्वो­पां­शु­या­ज­क­र्म­वि­धि­प­रता एक­वा­क्य­ता­ब­ला­दा­श्रिता, एवमत्रापि “सदेव सोम्येदम्”(छा. उ. ६ । २ । १) इति ब्रह्मोपक्रमात् “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति च जीवस्य ब्रह्मा­त्म­नो­प­सं­हा­रा­त्त­त्प­र­तैव वाक्यस्य । एवं वाक्या­न्त­रा­णा­मपि पौर्वा­प­र्या­लो­च­नया ब्रह्म­प­र­त्व­म­व­ग­न्त­व्यम् । न च तत्परत्वस्य दृष्टस्य सति सम्भवेऽन्यपरता अदृष्टा युक्ता कल्पयितुम् , अतिप्रसङ्गात् ।

न केवलं कर्तृपरता तेषामदृष्टा, अनुपपन्ना चेत्याह -
न च तेषामिति ।

सापे­क्ष­त्वे­ना­प्रा­माण्यं पूर्वपक्षबीजं दूषयति -
न च परि­नि­ष्ठि­त­व­स्तु­स्व­रू­प­त्वेऽ­पीति ।
अयमभिसन्धिः - पुंवा­क्य­नि­द­र्श­नेन हि भूतार्थतया वेदान्तानां सापे­क्ष­त्व­मा­श­ङ्क्यते । तत्रैवं भवान् पृष्टो व्याचष्टाम् , किं पुंवाक्यानां सापेक्षता भूतार्थत्वेन, आहो पौरुषेयत्वेन । यदि भूतार्थत्वेन ततः प्रत्य­क्षा­दी­ना­मपि पर­स्प­रा­पे­क्ष­त्वे­ना­प्रा­मा­ण्य­प्र­सङ्गः । तान्यपि हि भूतार्थान्येव । अथ पुरु­ष­बु­द्धि­प्र­भ­व­तया पुंवाक्यं सापेक्षम् , एवं तर्हि तदपूर्वकाणां वेदान्तानां भूतार्थानामपि नाप्रामाण्यं, प्रत्य­क्षा­दी­ना­मिव निय­ते­न्द्रि­य­लि­ङ्गा­दि­ज­न्म­नाम् । यद्युच्येत सिद्धे किलापौरुषेयत्वे वेदा­न्ता­ना­म­न­पे­क्ष­तया प्रामाण्यं सिध्येत् , तदेव तु भूतार्थत्वेन न सिध्यति, भूतार्थस्य शब्दानपेक्षेण पुरुषेण मानान्तरतः शक्य­ज्ञा­न­त्वा­द्बु­द्धि­पूर्वं विरचनोपपत्तेः, वाक्य­त्वा­दि­लि­ङ्ग­कस्य वेद­पौ­रु­षे­य­त्वा­नु­मा­न­स्या­प्र­त्यू­ह­मु­त्पत्तेः । तस्मात् पौरुषेयत्वेन सापेक्षत्वं दुर्वारं, न तु भूतार्थत्वेन । कार्यार्थत्वे तु कार्य­स्या­पू­र्वस्य माना­न्त­रा­गो­च­र­त­या­त्य­न्ता­न­नु­भू­त­पू­र्वस्य तत्त्वेन समारोपेण वा पुरु­ष­बु­द्धा­व­ना­रो­हा­त्त­द­र्थानां वेदा­न्ता­ना­म­श­क्य­र­च­न­तया पौरु­षे­य­त्वा­भा­वा­द­न­पेक्षं प्रमाणत्वं सिध्यतीति प्रामाण्याय वेदान्तानां कार्य­प­र­त्व­मा­ति­ष्ठा­महे । अत्रब्रूमः - किं पुनरिदं कार्य­म­भि­म­त­मा­यु­ष्मतः यदशक्यं पुरुषेण ज्ञातुम् । अपूर्वमिति चेत् , हन्त कुतस्त्यमस्य लिङाद्यर्थत्वम् , तेनालौकिकेन सङ्ग­ति­सं­वे­द­न­वि­र­हात् । लोकानुसारतः क्रियाया एव लौकिक्याः कार्याया लिङादेरवगमात् । ‘स्वर्गकामो यजेत’ इति साध्य­स्व­र्ग­वि­शिष्टो नियो­ज्योऽ­व­ग­म्यते, स च तदेव कार्यमवगच्छति यत्स्व­र्गा­नु­कू­लम् । न च क्रिया क्षण­भ­ङ्गु­रा­मु­ष्मि­काय स्वर्गाय कल्पत इति पारि­शे­ष्या­द्वे­दत एवापूर्वे कार्ये लिङादीनां सम्बन्धग्रह इति चेत् , हन्त चैत्य­व­न्द­ना­दि­वा­क्ये­ष्वपि स्वर्ग­का­मा­दि­प­द­स­म्ब­न्धा­द­पू­र्व­का­र्य­त्व­प्र­सङ्गः, तथा च तेषा­म­प्य­श­क्य­र­च­न­त्वे­ना­पौ­रु­षे­य­त्वा­पातः । स्पष्टदृष्टेन पौरुषेयत्वेन वा तेषा­म­पू­र्वा­र्थ­त्व­प्र­ति­षेधे वाक्यत्वादिना लिङ्गेन वेदानामपि पौरु­षे­य­त्व­म­नु­मि­त­मि­त्य­पू­र्वा­र्थता न स्यात् । अन्यतस्तु वाक्य­त्वा­दी­ना­म­नु­मा­ना­भा­म­त्वो­प­पा­दने कृत­म­पू­र्वा­र्थ­त्वे­नात्र तदुपपादकेन । उपपादितं चापौ­रु­षे­य­त्व­म­स्मा­भि­र्न्या­य­क­णि­का­याम्, इह तु विस्त­र­भ­या­न्नो­क्तम् । तेनापौरुषेयत्वे सिद्धे भूतार्थानामपि वेदान्तानां न सापेक्षतया प्रामाण्यविघातः । न चानधिगतगन्तृता नास्ति येन प्रामाण्यं न स्यात् , जीवस्य ब्रह्मताया अन्यतोऽनधिगमात् । तदिदमुक्तम्- ‘न च परि­नि­ष्ठि­त­व­स्तु­स्व­रू­प­त्वेऽपि’ इति ।

द्वितीयं पूर्वपक्षबीजं स्मारयित्वा दूषयति -
यत्तु हेयो­पा­दे­य­र­हि­त­त्वा­दिति ।
विध्य­र्था­व­ग­मा­त्खलु पारम्पर्येण पुरु­षा­र्थ­प्र­ति­लम्भः । इह तु - “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्य­व­ग­ति­प­र्य­न्ता­द्वा­क्या­र्थ­ज्ञा­नात् बाह्या­नु­ष्ठा­ना­या­सा­न­पे­क्षा­त्सा­क्षा­देव पुरु­षा­र्थ­प्र­ति­लम्भो नायं सर्पो रज्जु­रि­य­मि­ति­ज्ञा­ना­दि­वेति सोऽयमस्य विध्य­र्थ­ज्ञा­नात् प्रकर्षः । एतदुक्तं भवति - द्विविधं हीप्सितं पुरुषस्य । किञ्चि­द­प्रा­प्तम् , ग्रामादि, किञ्चित्पुनः प्राप्तमपि भ्रम­व­शा­द­प्रा­प्त­मि­त्य­व­ग­तम् , यथा स्वग्रीवावनद्धं ग्रैवेयकम् । एवं जिहासितमपि द्विविधम् , किञ्चिदहीनं जीहासति, यथा वलयितचरणं फणिनम् , किञ्चि­त्पु­न­र्ही­न­मेव जिहासति, यथा चरणाभरणे नूपुरे फणिनमारोपितम् । तत्रा­प्रा­प्त­प्राप्तौ चात्यक्तत्यागे च बाह्यो­पा­या­नु­ष्ठा­न­सा­ध्य­त्वा­त्त­दु­पा­य­त­त्त्व­ज्ञा­ना­दस्ति परा­ची­ना­नु­ष्ठा­ना­पेक्षा । न जातु ज्ञानमात्रं वस्त्वपनयति । न हि सहस्रमपि रज्जुप्रत्यया वस्तुसन्तं फणि­न­म­न्य­थ­यि­तु­मी­शते । समारोपिते तु प्रेप्सि­त­जि­हा­सिते तत्त्व­सा­क्षा­त्का­र­मा­त्रेण बाह्या­नु­ष्ठा­ना­न­पे­क्षेण शक्येते प्राप्तुमिव हातुमिव । समा­रो­प­मा­त्र­जी­विते हि ते, समारोपितं च तत्त्व­स­क्षा­त्कारः समू­ल­घा­त­मु­प­ह­न्तीति ।

तथे­हा­प्य­वि­द्या­स­मा­रो­पि­त­जी­व­भावे ब्रह्मण्यानन्दे वस्तुतः शोकदुःखादिरहिते समा­रो­पि­त­नि­ब­न्ध­न­स्त­द्भावः “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति वाक्या­र्थ­त­त्त्व­ज्ञा­ना­द­व­ग­ति­प­र्य­न्ता­न्नि­व­र्तते, तन्निवृत्तौ प्राप्त­म­प्या­न­न्द­रू­प­म­प्रा­प्त­मिव प्राप्तं भवति, त्यक्तमपि शोक­दुः­खा­द्य­त्य­क्त­मिव त्यक्तं भवति, तदिदमुक्तम् -
ब्रह्मा­त्मा­व­ग­मा­देव
जीवस्य सर्वक्लेशस्य सवासनस्य विपर्यासस्य । स हि क्लिश्नाति जन्तूनतः क्लेशः, तस्य प्रकर्षेण हाना­त्पु­रु­षा­र्थ­स्य­दुः­ख­नि­वृ­त्ति­सु­खा­प्ति­ल­क्ष­णस्य सिद्धेरिति ।

यत्तु “आत्मे­त्ये­वो­पा­सीत”(बृ. उ. १ । ४ । ७) “आत्मानमेव लोकमुपासीत”(बृ. उ. १ । ४ । १५) इत्यु­पा­स­ना­वा­क्य­ग­त­दे­व­ता­दि­प्र­ति­पा­द­ने­नो­पा­स­ना­प­रत्वं वेदा­न्ता­ना­मुक्तं, तद्दूषयति -
देव­ता­दि­प्र­ति­पा­द­नस्य तु आत्मे­त्ये­ता­व­न्मा­त्र­स्य­स्व­वा­क्य­ग­तो­पा­स­ना­र्थ­त्वेऽपि न कश्चिद्विरोधः ।

यदि न विरोधः, सन्तु तर्हि वेदान्ता देव­ता­प्र­ति­पा­द­न­द्वा­रे­णो­पा­स­ना­वि­धि­परा एवेत्यत आह -
न तु तथा ब्रह्मण इति ।
उपा­स्यो­पा­स­को­पा­स­ना­दि­भे­द­सि­द्ध्य­धी­नो­पा­सना न निर­स्त­स­म­स्त­भे­द­प्र­पञ्चे वेदान्तवेद्ये ब्रह्मणि सम्भवतीति नोपा­स­ना­वि­धि­शे­षत्वं वेदान्तानां तद्वि­रो­धि­त्वा­दि­त्यर्थः ।

स्यादेतत् । यदि विधिविरहेऽपि वेदान्तानां प्रामाण्यम् , हन्त तर्हि “सोऽरोदीत्”(तै. सं. १ । ५ । १ । १)“सोऽरोदीत्”(तै. सं. १ । ५ । १ । १)“सोऽरोदीत्”(तै. सं. १ । ५ । १ । १) इत्या­दी­ना­म­प्यस्तु स्वत­न्त्रा­णा­मे­वो­पे­क्ष­णी­या­र्थानां प्रामाण्यम् । न हि हानोपादानबुद्धी एव प्रामणस्य फले, उपे­क्षा­बु­द्धे­रपि तत्फलत्वेन प्रामा­णि­कै­र­भ्यु­पे­त­त्वा­दिति कृतम् ‘बर्हिषि रजतं न देयम्’ इत्या­दि­नि­षे­ध­वि­धि­प­र­त्वे­नै­ते­षा­मि­त्यत आह -
यद्यपीति ।
स्वाध्या­य­वि­ध्य­धी­न­ग्र­ह­ण­तया हि सर्वो वेदराशिः पुरुषार्थतन्त्र इत्यवगतम् । तत्रैकेनापि वर्णेन नापुरुषार्थेन भवितुं युक्तम् , किं पुनरियता “सोऽरोदीत्” इत्यादिना पदप्रबन्धेन । न च वेदान्तेभ्य इव तद­र्था­व­ग­म­मा­त्रा­देव कश्चि­त्पु­रु­षार्थ उपलभ्यते । तेनैष पदसन्दर्भः साकाङ्क्ष एवास्ते पुरु­षा­र्थ­मु­दी­क्ष­माणः । ‘बर्हिषि रजतं न देयम्’ इत्ययमपि निषेधविधिः स्वनिषेध्यस्य निन्दामपेक्षते । न ह्यन्यथा ततश्चेतनः शक्यो निवर्तयितुम् । तद्यदि दूरतोऽपि न निन्दा­म­वा­प्स्य­त्ततो निषेधविधिरेव रजतनिषेधे च निन्दायां च दर्वि­हो­म­व­त्सा­म­र्थ्य­द्व­य­म­क­ल्प­यि­ष्यत् । तदेवमुत्तप्तयोः “सोऽरोदीत्” इति ‘बर्हिषि रजतं न देयम्’ इति च पद­स­न्द­र्भ­यो­र्ल­क्ष्य­मा­ण­नि­न्दा­द्वा­रेण नष्टा­श्व­द­ग्ध­र­थ­व­त्प­र­स्परं समन्वयः । न त्वेवं वेदान्तेषु पुरु­षा­र्था­पेक्षा, तद­र्था­व­ग­मा­दे­वा­न­पे­क्षात् पर­म­पु­रु­षा­र्थ­ला­भा­दि­त्यु­क्तम् ।

ननु विध्य­सं­स्प­र्शिनो वेदस्यान्यस्य न प्रामाण्यं दृष्टमिति कथं वेदान्तानां तदस्पृशां तद्भविष्यतीत्यत आह -
न चानुमानगम्यमिति ।
अबा­धि­ता­न­धि­ग­ता­स­न्दि­ग्ध­बो­ध­ज­न­कत्वं हि प्रमाणत्वं प्रमाणानां तच्च स्वत इत्युपपादितम् । यद्यपि चैषा­मी­दृ­ग्बो­ध­ज­न­कत्वं कार्या­र्था­प­त्ति­स­म­धि­ग­म्यम् , तथापि तद्बोधोपजनने मानान्तरं नापेक्षते । नापी­मा­मे­वा­र्था­प­त्तिम् , पर­स्प­रा­श्र­य­प्र­स­ङ्गा­दिति स्वत इत्युक्तम् । ईदृग्बोधजनकत्वं च कार्ये इव विधीनाम् , वेदान्तानां ब्रह्मण्यस्तीति दृष्टा­न्ता­न­पेक्षं तेषां ब्रह्मणि प्रामाण्यं सिद्धं भवति । अन्यथा नेन्द्रि­या­न्त­राणां रूपप्रकाशनं दृष्टमिति चक्षुरपि न रूपं प्रकाशयेदिति ।

प्रकृतमुपसंहरति -
तस्मादिति ।

आचा­र्यै­क­दे­शी­यानां मतमुत्थापयति -
अत्रापरे प्रत्यवतिष्ठन्त इति ।
तथा हि- “अज्ञा­त­स­ङ्ग­ति­त्वेन शास्त्र­त्वे­ना­र्थ­व­त्तया । मननादिप्रतीत्या च कार्या­र्था­द्ब्र­ह्म­नि­श्चयः” ॥ न खलु वेदान्ताः सिद्ध­ब्र­ह्म­रू­प­परा भवितुमर्हन्ति, तत्रा­वि­दि­त­स­ङ्ग­ति­त्वात् । यत्र हि शब्दा लोकेन न प्रयुज्यन्ते तत्र न तेषां सङ्गतिग्रहः । न चाहेयमनुपादेयं रूपमात्रं कश्चिद्विवक्षति प्रेक्षावान् , तस्या­बु­भु­त्सि­त­त्वात् । अबु­भु­त्सि­ता­व­बो­धने च प्रेक्षा­व­त्ता­वि­घा­तात् । तस्मा­त्प्र­ति­पि­त्सितं प्रति­पि­पा­द­यि­ष­न्नयं लोकः प्रवृ­त्ति­नि­वृ­त्ति­हे­तु­भू­त­मे­वार्थं प्रतिपादयेत् , कार्यं चावगतं तद्धेतुरिति तदेव बोधयेत् । एवं च वृद्ध­व्य­व­हा­र­प्र­यो­गात् पदानां कार्य­प­र­ता­म­व­ग­च्छति । तत्र किञ्चि­त्सा­क्षा­त्का­र्या­भि­धा­यकं, किञ्चित्तु कार्या­र्थ­स्वा­र्था­भि­धा­यकं, न तु भूतार्थपरता पदानाम् । अपि च नरान्तरस्य व्युत्प­न्न­स्या­र्थ­प्र­त्य­य­म­नु­माय तस्य च शब्द­भा­वा­भा­वा­नु­वि­धा­न­म­व­गम्य शब्दस्य तद्विषयवाचकत्वं निश्चेतव्यम् । न च भूता­र्थ­रू­प­मा­त्र­प्र­त्यये परनरवर्तिनि किञ्चि­ल्लि­ङ्ग­मस्ति । कार्यप्रत्यये तु नरान्तरवर्तिनि प्रवृ­त्ति­नि­वृत्ती स्तो हेतू इत्य­ज्ञा­त­स­ङ्ग­ति­त्वान्न ब्रह्मरूपपरा वेदान्ताः । अपि च वेदान्तानां वेद­त्वा­च्छा­स्त्र­त्व­प्र­सि­द्धि­रस्ति । प्रवृ­त्ति­नि­वृ­त्ति­प­राणां च सन्दर्भाणां शास्त्रत्वम् । यथाहुः - “प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छा­स्त्र­म­भि­धी­यते” ॥ इति । तस्मा­च्छा­स्त्र­त्व­प्र­सिद्ध्या व्याहतमेषां ब्रह्म­स्व­रू­प­प­र­त्वम् । अपि च न ब्रह्म­रू­प­प्र­ति­पा­द­न­प­रा­णा­मे­षा­म­र्थ­वत्त्वं पश्यामः । न च रज्जुरियं न भुजङ्ग इति यथा­क­थ­ञ्चि­ल्ल­क्ष­णया वाक्या­र्थ­त­त्त्व­नि­श्चये यथा भय­क­म्पा­दि­नि­वृत्तिः, एवं “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति­वा­क्या­र्था­व­ग­मा­न्नि­वृ­त्ति­र्भ­वति सांसारिकाणां धर्माणाम् । श्रुत­वा­क्या­र्थ­स्यापि पुंसस्तेषां तादवस्थ्यात् । अपि च यदि श्रुतब्रह्मणो भवति सांसा­रि­क­ध­र्म­नि­वृत्तिः, कस्मात्पुनः श्रवणस्योपरि मननादयः श्रूयन्ते । तस्मात्तेषां वैय­र्थ्य­प्र­स­ङ्गा­दपि न ब्रह्मस्वरूपपरा वेदान्ताः, किं त्वात्म­प्र­ति­प­त्ति­वि­ष­य­का­र्य­पराः । तच्च कार्यं स्वात्मनि नियोज्यं नियुञ्जानं नियोग इति च माना­न्त­रा­पू­र्व­त­या­पू­र्व­मिति चाख्यायते । न च विषयानुष्ठानं विना तत्सिद्धिरिति स्वसिद्ध्यर्थं तदेव कार्यं स्वविषयस्य कर­ण­स्या­त्म­ज्ञा­न­स्या­नु­ष्ठा­न­मा­क्षि­पति । यथा च कार्यं स्ववि­ष­या­धी­न­नि­रू­प­ण­मिति ज्ञानेन विषेयेण निरूप्यते, एवं ज्ञानमपि स्ववि­ष­य­मा­त्मा­न­म­न्त­रे­णा­श­क्य­नि­रू­प­ण­मिति तन्निरूपणाय तादृ­श­मा­त्मा­न­मा­क्षि­पति, तदेव कार्यम् । यथाहुः - “यत्तु तत्सि­द्ध्य­र्थ­मु­पा­दी­यते आक्षिप्यते तदपि विधेयमिति तन्त्रे व्यवहारः” इति । विधेयता च नियोगविषयस्य ज्ञानस्य भावा­र्थ­त­या­नु­ष्ठे­यता, तद्विषयस्य त्वात्मनः स्वरू­प­स­त्ता­वि­नि­श्चितिः । आरोपिततद्भावस्य त्वन्यस्य निरूपकत्वे तेन तन्निरूपितं न स्यात् । तस्मा­त्ता­दृ­गा­त्म­प्र­ति­प­त्ति­वि­धि­प­रेभ्यो वेदा­न्ते­भ्य­स्ता­दृ­गा­त्म­वि­नि­श्चयः ।

तदेतत्सर्वमाह -
यद्यपीति ।

विधिपरेभ्योऽपि वस्तु­त­त्त्व­वि­नि­श्चय इत्यत्र विदर्शनमुक्तम् -
यथा यूपेति ।
'यूपे पशुं बध्नाति” इति बन्धनाय विनियुक्ते यूपे, तस्या­लौ­कि­क­त्वा­त्कोऽसौ यूप इत्यपेक्षिते ‘खादिरो यूपो भवति’ , ‘यूपं तक्षति’ , ‘यूप­म­ष्टा­श्री­क­रोति’ इत्या­दि­भि­र्वा­क्यै­स्त­क्ष­णा­दि­वि­धि­प­रै­रपि संस्काराविष्टं विशि­ष्ट­ल­क्ष­ण­सं­स्थानं दारु यूप इति गम्यते । एव­मा­ह­व­नी­या­द­योऽ­प्य­व­ग­न्तव्याः ।

प्रवृ­त्ति­नि­वृ­त्ति­प­रस्य शास्त्रत्वं न स्वरूपपरस्य, कार्य एव च सम्बन्धो न स्वरूपे, इति हेतुद्वयं भाष्य­वा­क्ये­नो­प­पा­दि­तम् -
प्रवृ­त्ति­नि­वृ­त्ति­प्र­यो­ज­न­त्वात् इत्यादिना तत्सा­मा­न्या­द्वे­दा­न्ता­ना­मपि तथैवार्थवत्त्वं स्यादित्यन्तेन ।

न च स्वतन्त्रं कार्यं नियो­ज्य­म­धि­का­रि­ण­म­नु­ष्ठा­ता­र­म­न्त­रे­णेति नियोज्यभेदमाह -
सति च विधिपरत्व इति ।
'ब्रह्म वेद ब्रह्मैव भवति” इति सिद्ध­व­द­र्थ­वा­दा­द­व­ग­त­स्यापि ब्रह्मभवनस्य नियो­ज्य­वि­शे­षा­का­ङ्क्षायां ब्रह्म बुभू­षो­र्नि­यो­ज्य­वि­शे­षस्य रात्रि­स­त्र­न्या­येन प्रतिलम्भः । पिण्ड­पि­तृ­य­ज्ञ­न्या­येन तु स्वर्गकामस्य नियोज्यस्य कल्प­ना­या­म­र्थ­वा­द­स्या­स­म­वे­ता­र्थ­त­या­त्य­न्त­प­रोक्षा वृत्तिः स्यादिति । ब्रह्म­भा­व­श्चा­मृ­त­त्व­मिति अमृतत्वकामस्य इत्युक्तम् । अमृतत्वं चामृतत्वादेव, न कृतकत्वेन शक्य­म­नि­त्य­म­नु­मा­तुम् । आगमविरोधादिति भावः ।

उक्तेन धर्म­ब्र­ह्म­ज्ञा­न­यो­र्वै­ल­क्ष­ण्येन विध्यविषयत्वं चोदयति -
नन्विति ।

परिहरति -
नार्हत्येवमिति ।
अत्र चात्मदर्शनं न विधेयम् । तद्धि दृशे­रु­प­ल­ब्धि­व­च­न­त्वात् श्रावणं वा स्यात्प्र­त्यक्षं वा । प्रत्यक्षमपि लौकि­क­म­हं­प्र­त्ययो वा, भाव­ना­प्र­क­र्ष­प­र्य­न्तजं वा । तत्र श्रावणं न विधेयम् , स्वाध्या­य­वि­धि­नै­वास्य प्रापितत्वात् , कर्मश्रावणवत् । नापि लौकिकं प्रत्यक्षम् , तस्य नैसर्गिकत्वात् । न चौप­नि­ष­दा­त्म­वि­षयं भाव­ना­धे­य­वै­शिष्ट्यं विधेयं, तस्यो­पा­स­ना­वि­धा­ना­देव वाजि­न­व­द­नु­नि­ष्पा­दि­त­त्वात् । तस्मा­दौ­प­नि­ष­दा­त्मो­पा­सना अमृतत्वकामं नियोज्यं प्रति विधीयते । ‘द्रष्टव्यः’ इत्यादयस्तु विधिसरूपा न विधयः इति ।

तदिदमुक्तम् -
तदुपासनाच्चेति ।
अर्थवत्तया मननादिप्रतीत्या चेत्यस्य शेषः प्रपञ्चो निगदव्याख्यातः ।

तदेकदेशिमतं दूषयति -
अत्राभिधीयते - न
एकदेशिमतम् ।

कुतः,
कर्म­ब्र­ह्म­वि­द्या­फ­ल­यो­र्वै­ल­क्ष­ण्यात् ।
पुण्या­पु­ण्य­क­र्मणोः फले सुखदुःखे । तत्र मनु­ष्य­लो­क­मा­र­भ्या­ब्र­ह्म­लो­का­त्सु­खस्य तार­त­म्य­म­धि­का­धि­को­त्कर्षः । एवं मनुष्यलोकमारभ्य दुःखतारतम्यया चावीचिलोकात् । तच्च सर्वं कार्यं च विनाशि च । आत्यन्तिकं त्वश­री­र­त्व­म­न­ति­शयं स्वभावसिद्धतया नित्य­म­का­र्य­मा­त्म­ज्ञा­नस्य फलम् । तद्धि फलमिव फलम् , अवि­द्या­प­न­य­न­मा­त्रे­णा­वि­र्भा­वात् । एतदुक्तं भवति - त्वया­प्यु­पा­स­ना­वि­धि­प­रत्वं वेदा­न्ता­ना­म­भ्यु­प­ग­च्छता नित्य­शु­द्ध­बु­द्ध­त्वा­दि­रू­प­ब्र­ह्मा­त्मता जीवस्य स्वाभाविकी वेदा­न्त­ग­म्या­स्थी­यते । सा चोपासनाविषयस्य विधेर्न फलम् , नित्य­त्वा­द­का­र्य­त्वात् । नाप्य­ना­द्य­वि­द्या­पि­धा­ना­प­नयः, तस्य स्ववि­रो­धि­वि­द्यो­द­या­देव भावात् । नापि विद्योदयः, तस्यापि श्रव­ण­म­न­न­पू­र्व­को­पा­स­ना­ज­नि­त­सं­स्का­र­स­चि­वा­देव चेतसो भावात् । उपा­स­ना­सं­स्का­र­व­दु­पा­स­ना­पू­र्व­मपि चेतःसहकारीति चेत् दृष्टं च खलु नैयोगिकं फलमैहिकमपि, यथा चित्रा­का­री­र्या­दि­नि­यो­गा­ना­म­नि­य­त­नि­य­त­फ­ला­ना­मै­हि­क­फ­लेति चेत् , न, गान्ध­र्व­शा­स्त्रा­र्थो­पा­स­ना­वा­स­नाया इवा­पू­र्वा­न­पे­क्षायाः षड्जा­दि­सा­क्षा­त्कारे वेदा­न्ता­र्थो­पा­स­ना­वा­स­नाया जीव­ब्र­ह्म­भा­व­सा­क्षा­त्का­रेऽ­न­पे­क्षाया एव सामर्थ्यात् । तथा चामृतीभावं प्रत्य­हे­तु­त्वा­दु­पा­स­ना­पू­र्वस्य, नामृ­त­त्व­का­म­स्त­त्का­र्य­म­व­बो­द्धु­म­र्हति । अन्य­दि­च्छ­त्य­न्य­त्क­रो­तीति हि विप्रतिषिद्धम् । न च तत्कामः क्रियामेव कार्यमवगमिष्यति नापूर्वमिति साम्प्रतम् , तस्या मानान्तरादेव तत्सा­ध­न­त्व­प्र­ती­ते­र्वि­धे­र्वै­य­र्थ्यात् , न चाव­घा­ता­दि­वि­धि­तु­ल्यता, तत्रापि निय­मा­पू­र्व­स्या­न्य­तोऽ­न­व­गतेः । न च ब्रह्म­भू­या­द­न्य­द­मृ­त­त्व­मा­र्थ­वा­दिकं किञ्चिदस्ति, येन तत्काम उपा­स­ना­या­म­धि­क्रि­येत, विश्व­जि­न्न्या­येन तु स्वर्गकल्पनायां तस्य सातिशयत्वं क्षयित्वं चेति न नित्य­फ­ल­त्व­मु­पा­स­नायाः । तस्मा­द्ब्र­ह्म­भू­य­स्या­वि­द्या­पि­धा­ना­प­न­य­मा­त्रे­णा­वि­र्भा­वात् , अविद्यापनयस्य च वेदा­न्ता­र्थ­वि­ज्ञा­ना­द­व­ग­ति­प­र्य­न्ता­देव सम्भवात् , उपासनायाः संस्का­र­हे­तु­भा­वस्य संस्कारस्य च साक्षा­त्का­रो­प­ज­नने मनःसाचिव्यस्य च माना­न्त­र­सि­द्ध­त्वात् , “आत्मे­त्ये­वो­पा­सीत”(बृ. उ. १ । ४ । ७) इति न विधिः, अपि तु विधिसरूपोऽयम् । यथो­पां­शु­या­ज­वाक्ये ‘विष्णुरुपांशु यष्टव्यः’ इत्यादयो विधिसरूपा न विधय इति तात्पर्यार्थः ।

श्रुति­स्मृ­ति­न्या­य­सि­द्ध­मि­त्यु­क्तम्, तत्र श्रुतिं दर्शयति -
तथा च श्रुतिरिति ।

न्यायमाह -
अत एवेति ।
यत्किल स्वाभाविकं तन्नित्यम् , यथा चैतन्यम् । स्वाभाविकं चेदम् , तस्मान्नित्यम् ।

परे हि द्वयीं नित्यतामाहुः - कूटस्थनित्यतां परिणामिनित्यतां च । तत्र नित्यमित्युक्ते मा भूदस्य परि­णा­मि­नि­त्य­ते­त्याह -
तत्र किञ्चिदिति ।
परिणामिनित्यता हि न पारमार्थिकी । तथा हि - तत्सर्वात्मना वा परिणमेदेकदेशेन वा । सर्वात्मना परिणामे कथं न तत्त्वव्याहृतिः । एकदेशपरिणामे वा स एकदेशस्ततो भिन्नो वा अभिन्नो वा । भिन्नश्चेत्कथं तस्य परिणामः । न ह्यन्यस्मिन् परिणममानेऽन्यः परिणमते, अतिप्रसङ्गात् । अभेदे वा कथं न सर्वात्मना परिणामः । भिन्नाभिन्नं तदिति चेत् , तथा हि - तदेव कार­णा­त्म­ना­भि­न्नम् , भिन्नं च कार्यात्मना, कटकादय इवाभिन्ना हाटकात्मना भिन्नाश्च कटकाद्यात्मना । न च भेदा­भे­द­यो­र्वि­रो­धा­न्नै­कत्र समवाय इति युक्तम् । विरुद्धमिति नः क्व संप्र­त्य­यो­य­त्प्र­मा­ण­वि­प­र्य­येण वर्तते । यत्तु यथा प्रमा­णे­ना­व­ग­म्यते तस्य तथाभाव एव । कुण्डलमिदं सुवर्णमिति सामा­ना­धि­क­र­ण्य­प्र­त्यये च व्यक्तं भेदाभेदौ चकास्तः । तथा हि - आत्य­न्ति­केऽ­भे­देऽ­न्य­त­रस्य द्विर­व­भा­स­प्र­सङ्गः । भेदे वात्यन्तिके न सामानाधिकरण्यं गवाश्ववत् । आधाराधेयभावे एकाश्रयत्वे वा न सामानाधिकरण्यम् , न हि भवति कुण्डं बदरमिति । नाप्ये­का­स­न­स्थ­यो­श्चै­त्र­मै­त्र­यो­श्चैत्रो मैत्र इति । सोऽय­म­बा­धि­तोऽ­स­न्दिग्धः सर्वजनीनः सामा­ना­धि­क­र­ण्य­प्र­त्यय एव कार्य­का­र­ण­यो­र्भे­दा­भेदौ व्यवस्थापयति । तथा च कार्याणां कारणात्मत्वात् , कारणस्य च सद्रूपस्य सर्वत्रानुगमात् , सद्रूपेणाभेदः कार्यस्य जगतः, भेदः कार्यरूपेण गोघटादिनेति । यथाहुः - “कार्यरूपेण नानात्वमभेदः कारणात्मना । हेमात्मना यथाभेदः कुण्ड­ला­द्या­त्मना भिदा” ॥ इति । अत्रोच्यते - कः पुनरयं भेदो नाम, यः सहाभेदेनैकत्र भवेत् । परस्पराभाव इति चेत् , किमयं कार्यकारणयोः कटकहाटकयोरस्ति न वा । न चेत् , एकत्वमेवास्ति, न च भेदः । अस्ति चेद्भेद एव, नाभेदः । न च भावा­भा­व­यो­र­वि­रोधः, सहा­व­स्था­ना­स­म्भ­वात् । सम्भवे वा कट­क­व­र्ध­मा­न­क­यो­रपि तत्त्वे­ना­भे­द­प्र­सङ्गः, भेद­स्या­भे­दा­वि­रो­धात् । अपि च कटकस्य हाटकादभेदे यथा हाटकात्मना कट­क­मु­कु­ट­कु­ण्ड­ला­दयो न भिद्यन्ते एवं कटकात्मनापि न भिद्येरन् , कटकस्य हाटकादभेदात् । तथा च हाटकमेव वस्तुसन्न कटकादयः, भेद­स्या­प्र­ति­भा­स­नात् । अथ हाट­क­त्वे­नै­वा­भेदो न कटकत्वेन, तेन तु भेद एव कुण्डलादेः । यदि हाटकादभिन्नः कटकः कथमयं कुण्डलादिषु नानुवर्तते । नानुवर्तते चेत्कथं हाटकादभिन्नः कटकः । ये हि यस्मि­न्न­नु­व­र्त­माने व्यावर्तन्ते ते ततो भिन्ना एव, यथा सूत्रा­त्कु­सु­म­भेदाः । नानुवर्तन्ते चानुवर्तमानेऽपि हाटकत्वे कुण्डलादयः, तस्मात्तेऽपि हाटकाद्भिन्ना एवेति । सत्तानुवृत्त्या च सर्ववस्त्वनुगमे ‘इदमिह नेदम् , इदमस्मान्नेदम् , इदमिदानीं नेदम् , इदमेवं नेदम्’ इति विभागो न स्यात् । कस्य­चि­त्क्व­चि­त्क­दा­चि­त्क­थ­ञ्चि­द्वि­वे­क­हे­तो­र­भा­वात् । अपि च दूरा­त्क­न­क­मि­त्य­व­गते न तस्य कुण्डलादयो विशेषा जिज्ञास्येरन् , कन­का­द­भे­दा­त्ते­षाम् , तस्य च ज्ञातत्वात् । अथ भेदोऽप्यस्ति कन­का­त्कु­ण्ड­ला­दी­ना­मिति कन­का­व­ग­मेऽ­प्य­ज्ञा­तास्ते । नन्व­भे­दोऽ­प्य­स्तीति किं न ज्ञाताः । प्रत्युत ज्ञानमेव तेषां युक्तम् , कारणाभावे हि कार्यभाव औत्सर्गिकः, स च कारणसत्तया अपोद्यते । अस्ति चाभेदे कारणसत्तेति कनके ज्ञाते ज्ञाता एव कुण्डलादय इति तज्जि­ज्ञा­सा­ज्ञा­नानि चानर्थकानि स्युः । तेन यस्मिन् गृह्यमाणे यन्न गृह्यते तत्ततो भिद्यते । यथा करभे गृह्य­मा­णेऽ­गृ­ह्य­माणो रासभः करभात् । गृह्यमाणे च दूरतो हेम्नि न गृह्यन्ते तस्य भेदाः कुण्डलादयः, तस्मात्ते हेम्नो भिद्यन्ते । कथं तर्हि हेम कुण्डलमिति सामा­ना­धि­क­र­ण्य­मिति चेत् , न ह्याधाराधेयभावे समानाश्रयत्वे वा सामा­ना­धि­क­र­ण्य­मि­त्यु­क्तम् । अथा­नु­वृ­त्ति­व्या­वृ­त्ति­व्य­वस्था च हेम्नि ज्ञाते कुण्ड­ला­दि­जि­ज्ञासा च कथम् । न खल्वभेदे ऐका­न्ति­केऽ­नै­का­न्तिके चैतदुभयमुपपद्यत इत्युक्तम् । तस्मा­द्भे­दा­भे­द­यो­र­न्य­त­र­स्मि­न्न­व­हे­येऽ­भे­दो­पा­दा­नैव भेदकल्पना, न भेदो­पा­दा­ना­भे­द­क­ल्प­नेति युक्तम् । भिद्य­मा­न­त­न्त्र­त्वा­द्भे­दस्य, भिद्यमानानां च प्रत्ये­क­मे­क­त्वात् , एकाभावे चानाश्रयस्य भेदस्यायोगात् , एकस्य च भेदानधीनत्वात् , नायमयमिति च भेदग्रहस्य प्रति­यो­गि­ग्र­ह­सा­पे­क्ष­त्वात् , एकत्वग्रहस्य चान्या­न­पे­क्ष­त्वात् , अभे­दो­पा­दा­नै­वा­नि­र्व­च­नी­य­भे­द­क­ल्प­नेति साम्प्रतम् । तथा च श्रुतिः - “मृत्तिकेत्येव सत्यम्”(छा. उ. ६ । १ । ४) इति । तस्मा­त्कू­ट­स्थ­नि­त्य­तैव पारमार्थिकी न परि­णा­मि­नि­त्य­तेति सिद्धम् ।

व्योमवत्
इति च दृष्टान्तः परसिद्धः, अस्मन्मते तस्यापि कार्य­त्वे­ना­नि­त्य­त्वात् ।

अत्र च
कूटस्थनित्यम्
इति निर्व­र्त्य­क­र्म­ता­म­पा­क­रोति ।

सर्वव्यापि
इति प्राप्यकर्मताम् ।

सर्व­वि­क्रि­या­र­हि­तम्
इति विकार्यकर्मताम् ।

निरवयवम्
इति संस्का­र्य­क­र्म­ताम् । व्रीहीणां खलु प्रोक्षणेन संस्का­रा­ख्योंऽशो यथा जन्यते, नैवं ब्रह्मणि कश्चिदंशः क्रिया­धे­योऽस्ति, अनवयवत्वात् । अनं­श­त्वा­दि­त्यर्थः ।

पुरुषार्थतामाह -
नित्यतृप्तमिति ।
तृप्त्या दुःखरहितं सुखमुपलक्षयति । क्षुद्दुः­ख­नि­वृ­त्ति­स­हितं हि सुखं तृप्तिः ।

सुखं चाप्रतीयमानं न पुरुषार्थम् इत्यत आह -
स्वय­ञ्ज्यो­ति­रिति ।

तदेवं स्वमतेन मोक्षाख्यं फलं नित्यं श्रुत्या­दि­भि­रु­प­पाद्य क्रिया­नि­ष्पा­द्यस्य तु मोक्ष­स्या­नि­त्यत्वं प्रसञ्जयति -
तद्यदीति ।

न चागमबाधः, आगमस्योक्तेन प्रका­रे­णो­प­पत्तेः । अपि च ज्ञान­ज­न्या­पू­र्व­ज­नितो मोक्षो नैयोगिक इत्यस्यार्थस्य सन्ति भूयस्यः श्रुतयो निवारिका इत्याह -
अपि च ब्रह्म वेदेति ।

अवि­द्या­द्व­य­प्र­ति­ब­न्धा­प­न­य­मा­त्रेण च विद्याया मोक्षसाधनत्वं न स्वतोऽ­पू­र्वो­त्पा­देन चेत्यत्रापि श्रुतीरुदाहरति -
त्वं हि नः पितेति ।

न केव­ल­म­स्मि­न्नर्थे श्रुत्यादयः, अपि त्वक्ष­पा­दा­चा­र्य­सू­त्र­मपि न्याय­मू­ल­म­स्ती­त्याह -
तथा चाचा­र्य­प्र­णी­त­मिति ।
आचा­र्य­श्चो­क्त­ल­क्षणः पुराणे “आचिनोति च शास्त्रा­र्थ­मा­चारे स्थापयत्यपि । स्वयमाचरते यस्मा­दा­चा­र्य­स्तेन चोच्यते” ॥ इति । तेन हि प्रणीतं सूत्रम् - “दुःख­ज­न्म­प्र­वृ­त्ति­दो­ष­मि­थ्या­ज्ञा­ना­ना­मु­त्त­रो­त्त­रा­पाये तद­न­न्त­रा­पा­या­द­प­वर्गः”(न्या.सू.) इति । पाठापेक्षया कारणमुत्तरम् , कार्यं च पूर्वम् , कारणापाये कार्यापायः, कफापाय इव कफोद्भवस्य ज्वरस्यापायः । जन्मापाये दुःखापायः, प्रवृत्त्यपाये जन्मापायः, दोषापाये प्रवृत्त्यपायः, मिथ्या­ज्ञा­ना­पाये दोषापायः । मिथ्याज्ञानं चाविद्या रागा­द्यु­प­ज­न­न­क्र­मेण दृष्टेनैव संसारस्य परमं निदानम् । सा च तत्त्वज्ञानेन ब्रह्मा­त्मै­क­त्व­वि­ज्ञा­ने­नै­वा­व­ग­ति­प­र्य­न्तेन विरोधिना निवर्त्यते । ततोऽ­वि­द्या­नि­वृत्त्या ब्रह्म­रू­पा­वि­र्भावो मोक्षः । न तु विद्या­का­र्य­स्त­ज्ज­नि­ता­पू­र्व­कार्यो वेति सूत्रार्थः । तत्त्व­ज्ञा­ना­न्मि­थ्या­ज्ञा­ना­पाय इत्ये­ता­व­न्मा­त्रेण सूत्रोपन्यासः, न त्वक्षपादसंमतं तत्त्वज्ञानमिह संमतम् । तद­ने­ना­चा­र्या­न्त­र­सं­वा­दे­ना­य­मर्थो दृढीकृतः । स्यादेतत् । नैकत्वविज्ञानं यथा­व­स्थि­त­व­स्तु­वि­ष­यम् , येन मिथ्याज्ञानं भेदावभासं निवर्तयन्न विधिविषयो भवेत् । अपि तु सम्पदादिरूपम् । तथा च विधेः प्रागप्राप्तं पुरुषेच्छया कर्तव्यं सत् विधिगोचरो भविष्यति । यथा वृत्त्य­न्त­र­त्वेन मनसो विश्वे­दे­व­सा­म्या­द्वि­श्वा­न्दे­वा­न्म­नसि सम्पाद्य मन आल­म्ब­न­म­वि­द्य­मा­न­समं कृत्वा प्राधान्येन सम्पाद्यानां विश्वेषामेव देवा­ना­म­नु­चि­न्त­नम् , तेन चान­न्त­लो­क­प्राप्तिः । एवं चिद्रू­प­सा­म्या­ज्जी­वस्य ब्रह्मरूपतां सम्पाद्य जीव­मा­ल­म्ब­न­म­वि­द्य­मा­न­समं कृत्वा प्राधान्येन ब्रह्मा­नु­चि­न्त­नम् , तेन चामृ­त­त्व­फ­ल­प्राप्तिः । अध्यासे त्वालम्बनस्यैव प्राधा­न्ये­ना­रो­पि­त­त­द्भा­व­स्या­नु­चि­न्त­नम् , यथा “मनो ब्रह्मे­त्यु­पा­सीत”(छा. उ. ३ । १८ । १), “आदित्यो ब्रह्मे­त्या­देशः”(छा. उ. ३ । १९ । १) । एवं जीवमब्रह्म “ब्रह्मे­त्यु­पा­सीत” इति । क्रिया­वि­शे­ष­यो­गाद्वा, यथा “वायुर्वाव संवर्गः”(छा. उ. ४ । ३ । १) , “प्राणो वाव संवर्गः”(छा. उ. ४ । ३ । ३) इति । बाह्यान्खलु वायुदेवता वह्न्यादीन् संवृङ्क्ते । महाप्रलयसमये हि वायु­र्व­ह्न्या­दी­न्सं­वृज्य संहृत्यात्मनि स्थापयति । यथाह द्रविडाचार्यः - “संहरणाद्वा संवरणाद्वा स्वात्मी­भा­वा­द्वायुः संवर्गः” इति । अध्यात्मं च प्राणः संवर्ग इति । स हि सर्वाणि वागादीनि संवृङ्क्ते । प्रायाणकाले हि स एव सर्वा­णी­न्द्रि­याणि सङ्गृ­ह्यो­त्क्रा­म­तीति । सेयं संव­र्ग­दृ­ष्टि­र्वायौ प्राणे च दशाशागतं जगद्दर्शयति यथा, एवं जीवात्मनि बृंहणक्रियया ब्रह्म­दृ­ष्टि­र­मृ­त­त्वाय फलाय कल्पत इति । तदेतेषु त्रिष्वपि पक्षे­ष्वा­त्म­द­र्श­नो­पा­स­ना­दयः प्रधा­न­क­र्मा­ण्य­पू­र्व­वि­ष­य­त्वात् , स्तुतशस्त्रवत् । आत्मा तु द्रव्यं कर्मणि गुण इति संस्कारो वात्मनो दर्शनं विधीयते । यथा दर्श­पू­र्ण­मा­स­प्र­क­रणे ’ पत्न्य­वे­क्षि­त­माज्यं भवति’ इति समाम्नातम् , प्रकरणिना च गृही­त­मु­पां­शु­या­गा­ङ्ग­भू­ता­ज्य­द्र­व्य­सं­स्का­र­त­या­वे­क्षणं गुणकर्म विधीयते, एवं कर्तृत्वेन क्रत्वङ्गभूते आत्मनि “आत्मा वा अरे द्रष्टव्यः”(बृ. उ. २ । ४ । ५) इति दर्शनं गुणकर्म विधीयते ।

'यैस्तु द्रव्यं चिकीर्ष्यते गुणस्तत्र प्रतीयेत” इति न्यायादत आह -
न चेदं ब्रह्मा­त्मै­क­त्व­वि­ज्ञा­न­मिति ।

कुतः,
सम्पदादिरूपे हि ब्रह्मा­त्मै­क­त्व­वि­ज्ञान इति ।
दर्श­पू­र्ण­मा­स­प्र­क­रणे हि समा­म्ना­त­मा­ज्या­वे­क्षणं तद­ङ्ग­भू­ता­ज्य­सं­स्कार इति युज्यते । नच “आत्मा वा अरे द्रष्टव्यः”(बृ. उ. २ । ४ । ५) इत्यादि कस्यचित्प्रकरणे समाम्नातम् । न चानारभ्याधीतमपि । “यस्य पूर्णमयी जुहूर्भवति” इत्य­व्य­भि­च­रि­त­क्र­तु­स­म्ब­न्ध­जु­हू­द्वा­रेण जुहूपदं क्रतुं स्मारयद्वाक्येन यथा पर्णतायाः क्रतु­शे­ष­भा­व­मा­पा­द­यति, एवमात्मा नाव्य­भि­चा­रि­त­क्र­तु­स­म्बन्धः, येन तद्दर्शनं क्रत्वङ्गं सदात्मानं क्रत्वर्थं संस्कुर्यात् । तेन यद्ययं विधिस्तथापि “सुवर्णं भार्यम्” इतिवत् विनियोगभङ्गेन प्रधा­न­क­र्मै­वा­पू­र्व­वि­ष­य­त्वान्न गुणकर्मेति स्थवी­य­स्त­यै­त­द्दू­ष­ण­म­न­भि­धाय सर्वपक्षसाधारणं दूषणमुक्तम् , तद­ति­रो­हि­ता­र्थ­तया न व्याख्यातम् ।

किं च ज्ञान­क्रि­या­वि­ष­य­त्व­वि­धा­न­मस्य बहु­श्रु­ति­वि­रु­द्ध­मि­त्याह -
न च विदिक्रियेति ।

शङ्कते -
अविषयत्व इति ।
ततश्च शान्तिकर्मणि वेतालोदय इति भावः ।

निराकरोति -
न ।

कुतः
अवि­द्या­क­ल्पि­त­भे­द­नि­वृ­त्ति­प­र­त्वा­दिति ।
सर्वमेव हि वाक्यं नेदन्तया वस्तुभेदं बोधयितुमर्हति । न हीक्षु­क्षी­र­गु­डा­दीनां मधुररसभेदः शक्य आख्यातुम् । एवमन्यत्रापि सर्वत्र द्रष्टव्यम् । तेन प्रमा­णा­न्त­र­सिद्धे लौकिके एवार्थे यदा गतिरिदृशी शब्दस्य, तदा कैव कथा प्रत्य­गा­त्म­न्य­लौ­किके । अदूरविप्रकर्षेण तु कथ­ञ्चि­त्प्र­ति­पा­द­न­मि­हापि समानम् । त्वम्पदार्थो हि प्रमाता प्रमाणाधीनया प्रमित्या प्रमेयं घटादि व्याप्नो­ती­त्य­वि­द्या­वि­ल­सि­तम् । तदस्या विष­यी­भू­तो­दा­सी­न­त­त्प­दा­र्थ­प्र­त्य­गा­त्म­सा­मा­ना­धि­क­र­ण्येन प्रमा­तृ­त्वा­भा­वा­त्त­न्नि­वृत्तौ प्रमा­णा­द­य­स्तिस्रो विधा निवर्तन्ते । न हि पक्तुरवस्तुत्वे पाक्यपाकपचनानि वस्तुसन्ति भवितुमर्हन्तीति । तथा हि - “विग­लि­त­प­रा­ग्वृ­त्त्य­र्थत्वं त्वम्पदस्य तदस्तदा त्वमिति हि पदेनैकार्थत्वे त्वमित्यपि यत्पदम् । तदपि च तदा गत्वैकार्थ्यं विशु­द्ध­चि­दा­त्मतां त्यजति सक­ला­न्क­र्तृ­त्वा­दी­न्प­दा­र्थ­म­ला­न्नि­जान्” ॥ इत्यान्तरश्लोकः ।

अत्रैवार्थे श्रुतीरुदाहरति -
तथा च शास्त्रम् - यस्यामतमिति ।

प्रकृतमुपसंहरति -
अतोऽ­वि­द्या­क­ल्पि­तेति ।

परपक्षे मोक्ष­स्या­नि­त्य­ता­मा­पा­द­यति -
यस्य त्विति ।
कार्यमपूर्वं यागा­दि­व्या­पा­र­जन्यं तदपेक्षते मोक्षः स्वोत्पत्ताविति ।

तयोः पक्षयोरिति ।
निर्व­र्त्य­वि­का­र्ययोः क्षणिकं ज्ञानमात्मेति बौद्धाः । तथा च विशु­द्ध­वि­ज्ञा­नो­त्पादो मोक्ष इति निर्वर्त्यो मोक्षः । अन्येषां तु संस्का­र­रू­पा­व­स्था­म­प­हाय या कैव­ल्या­व­स्था­वा­प्ति­रा­त्मनः स मोक्ष इति विकार्यो मोक्षः । यथा पयसः पूर्वा­व­स्था­प­हा­ने­ना­व­स्था­न्त­र­प्रा­प्ति­र्वि­कारो दधीति । तदेतयोः पक्षयोरनित्यता मोक्षस्य, कार्यत्वात् , दधिघटादिवत् ।

अथ “यदतः परो दिवो ज्योति­र्दी­प्यते”(छा. उ. ३-१३-७) इति श्रुते­र्ब्र­ह्मणो विकृ­ता­वि­कृ­त­दे­श­भे­दा­व­ग­मा­द­वि­कृ­त­दे­श­ब्र­ह्म­प्रा­प्ति­रू­पा­स­ना­दि­वि­धि­कार्या भविष्यति । तथा च प्राप्यकर्मता ब्रह्मण इत्यत आह -
न चाप्यत्वेनापीति ।
अन्यदन्येन विकृ­त­दे­श­प­रि­हा­ण्या­वि­कृ­त­देशं प्राप्यते । तद्यथोपवेलं जल­धि­र­ति­ब­ह­ल­च­प­ल­क­ल्लो­ल­मा­ला­प­र­स्प­रा­स्फा­ल­न­स­मु­ल्ल­स­त्फे­न­पु­ञ्ज­स्त­ब­क­तया विकृतः, मध्ये तु प्रशा­न्त­स­क­ल­क­ल्लो­लो­प­सर्गः स्वस्थः स्थिर­त­या­वि­कृ­त­स्तस्य मध्यमविकृतं पौतिकः पोतेन प्राप्नोति । जीवस्तु ब्रह्मैवेति किं केन प्राप्यताम् । भेदा­श्र­य­त्वा­त्प्रा­प्ति­रि­त्यर्थः ।

अथ जीवो ब्रह्मणो भिन्नस्तथापि न तेन ब्रह्माप्यते, ब्रह्मणो विभुत्वेन नित्य­प्रा­प्त­त्वा­दि­त्याह -
स्वरू­प­व्य­ति­रि­क्त­त्वेऽ­पीति ।

संस्का­र­क­र्म­ता­म­पा­क­रोति -
नापि संस्कार्य इति ।
द्वयी हि संस्कार्यता, गुणाधानेन वा, यथा बीजपूरकुसुमस्य लाक्षारसावसेकः, तेन हि तत्कुसुमं संस्कृतं लाक्षारससवर्णं फलं प्रसूते । दोषापनयेन वा यथा मलिनमादर्शतलं निघृ­ष्ट­मि­ष्ट­का­चू­र्णे­नो­द्भा­सि­त­भा­स्व­रत्वं संस्कृतं भवति । तत्र न तावद्ब्रह्मणि गुणाधानं सम्भवति । गुणो हि ब्रह्मणः स्वभावो वा भिन्नो वा । स्वभा­व­श्चे­त्क­थ­मा­धेयः, तस्य नित्यवात् । भिन्नत्वे तु कार्यत्वेन मोक्ष­स्या­नि­त्य­त्व­प्र­सङ्गः । न च भेदे धर्मधर्मिभावः, गवाश्ववत् । भेदाभेदश्च व्युदस्तः, विरोधात् ।

तद­ने­ना­भि­स­न्धि­नो­क्तम् -
अना­धे­या­ति­श­य­ब्र­ह्म­स्व­रू­प­त्वा­न्मो­क्षस्य ।

द्वितीयं पक्षं प्रतिक्षिपति -
नापि दोषापनयनेनेति ।
अशुद्धिः सती दर्पणे निवर्तते, न तु ब्रह्मणि असतिति निवर्तनीया । नित्य­नि­वृ­त्त­त्वा­दि­त्यर्थः ।

शङ्कते -
स्वात्मधर्म एवेति ।
ब्रह्मस्वभाव एव मोक्षोऽ­ना­द्य­वि­द्या­म­ला­वृत उपा­स­ना­दि­क्रि­य­या­त्मनि संस्क्रि­य­मा­णेऽ­भि­व्य­ज्यते, न तु क्रियते । एतदुक्तं भवति नित्य­शु­द्ध­त्व­मा­त्म­नोऽ­सि­द्धम् , संसा­रा­व­स्था­या­म­वि­द्या­म­लि­न­त्वा­दिति ।

शङ्कां निराकरोति -
न ।

कुतः,
क्रिया­श्र­य­त्वा­नु­प­पत्तेः ।
नाविद्या ब्रह्माश्रया, किं तु जीवे, सा त्वनि­र्व­च­नी­ये­त्यु­क्तम् , तेन नित्यशुद्धमेव ब्रह्म । अभ्युपेत्य त्वशुद्धिं क्रिया­सं­स्का­र्यत्वं दूष्यते । क्रिया हि ब्रह्मसमवेता वा ब्रह्म संस्कुर्यात् , यथा निघ­र्ष­ण­मि­ष्ट­का­चू­र्ण­सं­यो­ग­वि­भा­ग­प्र­चयो निरन्तर आदर्शतलसमवेतः । अन्यसमवेता वा । न ताव­द्ब्र­ह्म­धर्मः क्रिया, तस्याः स्वाश्र­य­वि­का­र­हे­तु­त्वेन ब्रह्मणो नित्य­त्व­व्या­घा­तात् । अन्याश्रया तु कथ­म­न्य­स्यो­प­क­रोति, अतिप्रसङ्गात् । न हि दर्पणे निघृष्यमाणे मणिर्विशुद्धो दृष्टः ।

तच्चानिष्टमिति ।
तदा बाधनं परामृशति ।

अत्र व्यभिचारं चोदयति -
ननु देहाश्रययेति ।

परिहरति -
न ।

देहसंहतस्येति ।
अना­द्य­नि­र्वा­च्या­वि­द्यो­प­धा­न­मेव ब्रह्मणो जीव इति च क्षेत्रज्ञ इति चाचक्षते । स च स्थूल­सू­क्ष्म­श­री­रे­न्द्रि­या­दि­सं­ह­त­स्त­त्स­ङ्घा­त­म­ध्य­प­ति­त­स्त­द­भे­दे­ना­ह­मि­ति­प्र­त्य­य­वि­ष­यी­भूतः, अतः शरीरादिसंस्कारः शरी­रा­दि­ध­र्मोऽ­प्या­त्मनो भवति, तद­भे­दा­ध्य­व­सा­यात् । यथा अङ्गरागधर्मः सुगन्धिता कामिनीनां व्यपदिश्यते । तेनात्रापि यदाश्रिता क्रिया सांव्य­व­हा­रि­क­प्र­मा­ण­वि­ष­यी­कृता तस्यैव संस्कारो नान्यस्येति न व्यभिचारः । तत्त्वतस्तु न क्रिया न संस्कार इति । सनिदर्शनं तु शेषमध्यासभाष्ये एव कृत­व्या­ख्या­न­मिति नेह व्याख्यातम् ।

तयोरन्यः पिप्पलमिति ।
अन्यो जीवात्मा । पिप्पलं कर्मफलम् ।

अनश्नन्नन्य इति ।
परमात्मा ।

संहतस्यैव भोक्तृत्वमाह मन्त्रवर्णः -
आत्मेन्द्रियेति ।

अनु­प­हि­त­शु­द्ध­स्व­भा­व­ब्र­ह्म­प्र­द­र्श­न­परौ मन्त्रौ पठति -
एको देव इति ।
शुक्रं दीप्तिमत् । अव्रणं दुःखरहितम् । अस्राविरम् अविगलितम् । अविनाशीति यावत् ।

उपसंहरति -
तस्मादिति ।

ननु मा भून्नि­र्व­र्त्या­दि­क­र्म­ता­च­तु­ष्टयी । पञ्चमी तु काचित् विधा भविष्यति, यया मोक्षस्य कर्मता घटिष्यत इत्यत आह -
अतोऽन्यदिति ।
एभ्यः प्रकारेभ्यो न प्रका­रा­न्त­र­म­न्य­दस्ति, यतो मोक्षस्य क्रियानुप्रवेशो भविष्यति ।

एतदुक्तं भवति - चतसृणां विधानां मध्येऽन्यतमतया क्रियाफलत्वं व्याप्तम् , सा च मोक्षा­द्व्या­व­र्त­माना व्याप­का­नु­प­लब्ध्या मोक्षस्य क्रियाफलत्वं व्यावर्तयतीति । तत्किं मोक्षे क्रियैव नास्ति, तथा च तदर्थानि शास्त्राणि तदर्थाश्च प्रवृ­त्त­योऽ­न­र्थिका इत्यत उप­सं­हा­र­व्या­जे­नाह -
तस्मा­ज्ज्ञा­न­मे­क­मिति ।

अथ ज्ञानं क्रिया मानसी कस्मान्न विधिगोचरः, कस्माच्च तस्याः फलं निर्व­र्त्या­दि­ष्व­न्य­तमं न मोक्ष इति चोदयति -
ननु ज्ञानमिति ।

परिहरति -
न ।

कुतः
वैलक्षण्यात् ।
अयमर्थः - सत्यम् , ज्ञानं मानसी क्रिया, न त्वियं ब्रह्मणि फलं जनयितुमर्हति, तस्य स्वयम्प्रकाशतया विदि­क्रि­या­क­र्म­भा­वा­नु­प­प­त्ते­रि­त्यु­क्तम् ।

तदे­त­स्मि­न्वै­ल­क्षण्ये स्थिते एव वैल­क्ष­ण्या­न्त­र­माह -
क्रिया हि नाम सेति ।

यत्र
विषये

वस्तु­स्व­रू­प­नि­र­पे­क्षैव चोद्यते ।
यथा देव­ता­स­म्प्र­दा­न­क­ह­वि­र्ग्र­हणे देव­ता­व­स्तु­स्व­रू­पा­न­पेक्षा देव­ता­ध्या­न­क्रिया । यथा वा योषिति अग्नि­व­स्त्व­न­पे­क्षा­ग्नि­बु­द्धिर्या सा क्रिया हि नामेति योजना । न हि “यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्याये­द्व­ष­ट्क­रि­ष्यन्”(ऐ . ब्रा. ३ । ८ । १) इत्यस्माद्विधेः प्राग्दे­व­ता­ध्यानं प्राप्तम् , प्राप्तं त्वधी­त­वे­दा­न्तस्य विदि­त­प­द­त­द­र्थ­स­म्ब­न्ध­स्या­धि­ग­त­श­ब्द­न्या­य­त­त्त्वस्य “सदेव सोम्येदम्”(छा. उ. ६ । २ । १) इत्यादेः “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्य­न्ता­त्स­न्द­र्भात् ब्रह्मा­त्म­भा­व­ज्ञा­नम् , शब्द­प्र­मा­ण­सा­म­र्थ्यात् , इन्द्रि­या­र्थ­सं­नि­क­र्ष­सा­म­र्थ्या­दिव प्रणिहितमनसः स्फीता­लो­क­म­ध्य­व­र्ति­कु­म्भा­नु­भवः । न ह्यसौ स्वसा­म­ग्री­ब­ल­ल­ब्ध­जन्मा सन्म­नु­जे­च्छ­या­न्य­था­क­र्तु­म­कर्तुं वा शक्यः, देवताध्यानवत् , येनार्थवानत्र विधिः स्यात् । न चोपासना वानुभवपर्यन्तता वास्य विधेर्गोचरः, तयो­र­न्व­य­व्य­ति­रे­का­व­धृ­त­सा­म­र्थ्ययोः साक्षात्कारे वा अना­द्य­वि­द्या­प­नये वा विधिमन्तरेण प्राप्तत्वेन पुरु­षे­च्छ­या­न्य­था­क­र्तु­म­कर्तुं वा अशक्यत्वात् । तस्मा­द्ब्र­ह्म­ज्ञानं मानसी क्रियापि न विधिगोचरः । पुरु­ष­चि­त्त­व्या­पा­रा­धी­ना­यास्तु क्रियाया वस्तु­स्व­रू­प­नि­र­पे­क्षता क्वचिदविरोधिनी, यथा देव­ता­ध्या­न­क्रि­यायाः । न ह्यत्र वस्तुस्वरूपेण कश्चिद्विरोधः । क्वचि­द्व­स्तु­स्व­रू­प­वि­रो­धिनी, यथा योषि­त्पु­रु­ष­यो­र­ग्नि­बु­द्धि­रि­त्ये­ता­वता भेदेन निद­र्श­न­मि­थु­न­द्व­यो­प­न्यासः । क्रियै­वे­त्ये­व­का­रेण वस्तु­त­न्त्र­त्व­म­पा­क­रोति ।

ननु “आत्मे­त्ये­वो­पा­सीत”(बृ. उ. १ । ४ । ७) इत्यादयो विधयः श्रूयन्ते । न च प्रमत्तगीताः, तुल्यं हि साम्प्रदायिकम् , तस्मा­द्वि­धे­ये­नात्र भवितव्यमित्यत आह -
तद्विषया लिङादय इति ।
सत्यं श्रूयन्ते लिङादयः, न त्वमी विधिविषयाः, तद्वि­ष­य­त्वेऽ­प्रा­मा­ण्य­प्र­स­ङ्गात् । हेयोपादेयविषयो हि विधिः । स एव च हेय उपादेयो वा, यं पुरुषः कर्तु­म­क­र्तु­म­न्यथा वा कर्तुं शक्नोति । तत्रैव च समर्थः कर्ताधिकृतो नियोज्यो भवति । न चैव­म्भू­ता­न्या­त्म­श्र­व­ण­म­न­नो­पा­स­न­द­र्श­ना­नीति विष­य­त­द­नु­ष्ठा­त्रो­र्वि­धि­व्या­प­क­यो­र­भा­वा­द्वि­धे­र­भाव इति प्रयुक्ता अपि लिङादयः प्रव­र्त­ना­या­म­स­मर्था उपल इव क्षुरतैक्ष्ण्यं कुण्ठ­म­प्र­मा­णी­भ­वि­तु­म­र्ह­न्तीति ।

अनि­यो­ज्य­वि­ष­य­त्वा­दिति ।
समर्थो हि कर्ताधिकारी नियोज्यः । असामर्थ्ये तु न कर्तृता यतो नाधिकृतोऽतो न नियोज्य इत्यर्थः ।

यदि विधेरभावान्न विधिवचनानि, किमर्थानि तर्हि वचनान्येतानि विधिच्छायानीति पृच्छति -
किमर्थानीति ।
न चानर्थकानि युक्तानि, स्वाध्या­या­ध्य­य­न­वि­ध्य­धी­न­ग्र­ह­ण­त्वा­नु­प­प­त्ते­रिति भावः ।

उत्तरम् -
स्वाभाविकेति ।
अन्यतः प्राप्ता एव हि श्रवणादयो विधि­स­रू­पै­र्वा­क्यै­र­नू­द्यन्ते । न चानु­वा­दोऽ­प्य­प्र­यो­जनः, प्रवृ­त्ति­वि­शे­ष­क­र­त्वात् । तथाहि - तत्त­दि­ष्टा­नि­ष्ट­वि­ष­ये­प्सा­जि­हा­सा­प­हृ­त­हृ­द­य­तया बहिर्मुखो न प्रत्यगात्मनि समाधातुमर्हति । आत्म­श्र­व­णा­दि­वि­धि­स­रू­पैस्तु वचनैर्मनसो विषयस्रोतः खिलीकृत्य प्रत्य­गा­त्म­स्रोत उद्घाट्यत इति प्रवृ­त्ति­वि­शे­ष­क­रता अनु­वा­दा­ना­म­स्तीति सप्रयोजनतया स्वाध्या­य­वि­ध्य­धी­न­ग्र­ह­ण­त्व­मु­प­प­द्यत इति ।

यच्च चोदि­त­मा­त्म­ज्ञा­न­म­नु­ष्ठा­ना­न­ङ्ग­त्वा­द­पु­रु­षा­र्थ­मिति तदयुक्तम् । स्वतोऽस्य पुरुषार्थत्वे सिद्धे यद­नु­ष्ठा­ना­न­ङ्गत्वं तद्भूषणं न दूषणमित्याह -
यदपीति ।

अनुसञ्ज्वरेत्
शरीरं परि­त­प्य­मा­न­म­नु­त­प्येत । सुगममन्यत् ।

प्रकृतमुपसंहरति -
तस्मान्न प्रतिपत्तीति ।

प्रकृ­ति­सि­द्ध्य­र्थ­मे­क­दे­शि­मतं दूषयितुमनुभाषते -
यदपि केचिदाहुरिति ।

दूषयति -
तन्नेति ।
इदमत्राकूतम् - “कार्यबोधे यथा चेष्टा लिङ्गं हर्षादयस्तथा । सिद्ध­बो­धेऽ­र्थ­व­त्तैवं शास्त्रत्वं हितशासनात्” ॥ यदि हि पदानां कार्याभिधाने तद­न्वि­त­स्वा­र्था­भि­धाने वा, नियमेन वृद्ध­व्य­व­हा­रा­त्सा­म­र्थ्व­म­व­धृतं भवेत् , न भवे­द­हे­यो­पा­दे­य­भू­त­ब्र­ह्मा­त्म­ता­प­र­त्व­मु­प­नि­ष­दाम् । तत्रा­वि­दि­त­सा­म­र्थ्य­त्वा­त्प­दानां लोके, तत्पू­र्व­क­त्वाच्च वैदि­का­र्थ­प्र­तीतेः । अथ तु भूतेऽप्यर्थे पदानां लोके शक्यः सङ्गतिग्रहस्तत उप­नि­ष­दा­न्त­त्प­रत्वं पौर्वा­प­र्य­प­र्या­लो­च­न­या­व­ग­म्य­मा­न­म­प­हृत्य न कार्यपरत्वं शक्यं कल्पयितुम् , श्रुत­हा­न्य­श्रु­त­क­ल्प­ना­प्र­स­ङ्गात् । तत्र ताव­दे­व­म­का­र्येऽर्थे न सङ्गतिग्रहः, यदि तत्परः प्रयोगो न लोके दृश्येत, तत्प्रत्ययो वा व्युत्प­न्न­स्यो­न्नेतुं न शक्येत । न तावत्तत्परः प्रयोगो न दृश्यते लोके । कुतू­ह­ल­भ­या­दि­नि­वृ­त्त्य­र्था­ना­म­का­र्य­प­राणां पदसन्दर्भाणां प्रयोगस्य लोके बहुलमुपलब्धेः । तद्य­था­ख­ण्ड­ला­दि­लो­क­पा­ल­च­क्र­वा­ला­धि­व­सतिः, सिद्ध­वि­द्या­ध­र­ग­न्ध­र्वा­प्स­रः­प­रि­वारो ब्रह्म­लो­का­व­ती­र्ण­म­न्दा­कि­नी­प­यः­प्र­वा­ह­पा­त­धौ­त­क­ल­धौ­त­म­य­शि­ला­तलो नन्द­ना­दि­प्र­म­दा­व­न­वि­हा­रि­म­णि­म­य­श­कु­न्त­क­म­नी­य­नि­न­द­म­नो­हरः पर्वतराजः सुमेरुरिति । नैष भुजङ्गो रज्जु­रि­य­मि­त्यादिः । नापि भूता­र्थ­बु­द्धि­र्व्यु­त्प­न्न­पु­रु­ष­व­र्तिनी न शक्या समुन्नेतुम् , हर्षा­दे­रु­न्न­य­न­होतोः सम्भवात् । तथा ह्यवि­दि­ता­र्थ­दे­श­ज­न­भा­षार्थो द्रविडो नगरगमनोद्यतो राज­मा­र्गा­भ्यर्णं देव­द­त्त­म­न्दि­र­म­ध्या­सीनः प्रति­प­न्न­ज­न­का­न­न्द­नि­ब­न्ध­न­पु­त्र­जन्मा वार्त्ताहारेण सह नग­र­स्थ­दे­व­द­त्ता­भ्या­श­मा­गतः पट­वा­सो­पा­य­ना­र्प­ण­पु­रः­सरं दिष्ट्या वर्धसे देवदत्त पुत्रस्ते जातैति वार्त्ता­हा­र­व्या­हा­र­श्र­व­ण­स­म­न­न्त­र­मु­प­जा­त­रो­मा­ञ्च­क­ञ्चुकं विक­सि­त­न­य­नो­त्प­ल­म­ति­स्मे­र­मु­ख­म­हो­त्प­ल­म­व­लोक्य देव­द­त्त­मु­त्प­न्न­प्र­मो­द­म­नु­मि­मीते, प्रमोदस्य च प्रागभूतस्य तद्व्या­हा­र­श्र­व­ण­स­म­न­न्तरं प्रभ­व­त­स्त­द्धे­तु­ताम् । न चायमप्रतिपादयन् हर्षहेतुमर्थं हर्षाय कल्पत इत्यनेन हर्षहेतुरर्थ उक्त इति प्रतिपद्यते । हर्ष­हे­त्व­न्त­रस्य चाप्रतीतेः पुत्रजन्मनश्च तद्धे­तो­र­व­ग­मा­त्त­देव वार्त्ता­हा­रे­णा­भ्य­धा­यीति निश्चिनोति । एवं भय­शो­का­द­योऽ­प्यु­दा­हार्याः । तथा च प्रयोजनवत्तया भूता­र्था­भि­धा­नस्य प्रेक्षा­व­त्प्र­यो­गोऽ­प्यु­प­पन्नः । एवं च ब्रह्म­स्व­रू­प­ज्ञा­नस्य पर­म­पु­रु­षा­र्थ­हे­तु­भा­वा­द­नु­प­दि­श­ता­मपि पुरु­ष­प्र­वृ­त्ति­नि­वृत्ती वेदान्तानां पुरु­ष­हि­ता­नु­शा­स­ना­च्छा­स्त्रत्वं सिद्धं भवति । तत्सिद्धमेतत् , विवा­दा­ध्या­सि­तानि वचनानि भूतार्थविषयाणि, भूता­र्थ­वि­ष­य­प्र­मा­ज­न­क­त्वात् । यद्य­द्वि­ष­य­प्र­मा­ज­नकं तत्तद्विषयं, यथा रूपादिविषयं चक्षुरादि, तथा चैतानि, तस्मात्तथेति ।

तस्मा­त्सु­ष्ठू­क्तम् -
तन्न, औपनिषदस्य पुरु­ष­स्या­न­न्य­शे­ष­त्वा­दिति ।
उप­नि­पू­र्वा­त्स­दे­र्वि­श­र­णा­र्था­त्क्वि­प्यु­प­नि­ष­त्पदं व्युत्पादितम् , उपनीय अद्वयं ब्रह्म सवासनामविद्यां हिनस्तीति ब्रह्मविद्यामाह । तद्धे­तु­त्वा­द्वे­दान्ता अप्युपनिषदः, ततो विदितः औपनिषदः पुरुषः ।

एतदेव विभजते -
योऽसा­वु­प­नि­ष­त्स्वे­वेति ।

अहं­प्र­त्य­य­वि­ष­या­द्भि­नत्ति -
असंसारीति ।
अत एव क्रिया­र­हि­त­त्वा­च्च­तु­र्वि­ध­द्र­व्य­वि­ल­क्षणः अतश्च चतु­र्वि­ध­द्र­व्य­वि­ल­क्ष­णो­पे­तोऽ­य­म­न­न्य­शेषः, अन्यशेषं हि भूतं द्रव्यं चिकीर्षितं सदु­त्प­त्त्या­द्याप्यं सम्भवति । यथा ‘यूपं तक्षति’ इत्यादि । यत्पुनरन्यशेषं भूत­भा­व्यु­प­यो­ग­र­हि­तम् , यथा ‘सुवर्णं भार्यम्’ , ‘सक्तून् जुहोति’ इत्यादि, न तस्यो­त्प­त्त्या­द्या­प्यता ।

कस्मा­त्पु­न­र­स्या­न­न्य­शे­ष­ते­त्यत आह -
यतः­स्व­प्र­क­र­णस्थः ।
उप­नि­ष­दा­म­ना­र­भ्या­धी­तानां पौर्वा­प­र्य­प­र्या­लो­च­नया पुरु­ष­प्र­ति­पा­द­न­प­र­त्वेन पुरुषस्यैव प्राधान्येनेदं प्रकरणम् । न च जुह्वा­दि­व­द­व्य­भि­च­रि­त­क्र­तु­स­म्बन्धः पुरुष इत्युपपादितम् । अतः स्वप्रकरणस्थः सोऽयं तथाविध उपनिषद्भ्यः प्रतीयमानो न नास्तीति शक्यो वक्तुमित्यर्थः ।

स्यादेतत् - माना­न्त­रा­गो­च­र­त्वे­ना­गृ­ही­त­स­ङ्ग­ति­तया अपदार्थस्य ब्रह्मणो वाक्या­र्थ­त्वा­नु­प­पत्तेः कथ­मु­प­नि­ष­द­र्थ­ते­त्यत आह -
स एष नेति नेत्या­त्मे­त्या­त्म­श­ब्दात् ।
यद्यपि गवा­दि­व­न्मा­ना­न्त­र­गो­च­र­त्व­मा­त्मनो नास्ति, तथापि प्रकाशात्मन एव सत­स्त­त्त­दु­पा­धि­प­रि­हाण्या शक्यं वाक्यार्थत्वेन निरूपणम् , हाटकस्येव कट­क­कु­ण्ड­ला­दि­प­रि­हाण्या । नहि प्रकाशः स्वसंवेदनो न भासते, नापि तदवच्छेदकः कार्य­का­र­ण­स­ङ्घातः । तेन “स एष नेति नेत्यात्मा”(बृ. उ. ३ । ९ । २६) इति तत्त­द­व­च्छे­द­प­रि­हाण्या बृह­त्त्वा­दा­प­नाच्च स्वयम्प्रकाशः शक्यो वाक्यात् ब्रह्मेति चात्मेति च निरू­प­यि­तु­मि­त्यर्थः ।

अथो­पा­धि­नि­रा­स­व­दु­प­हि­त­म­प्या­त्म­रूपं कस्मान्न निरस्यत इत्यत आह -
आत्मनश्च प्रत्या­ख्या­तु­म­श­क्य­त्वात् ।
प्रकाशो हि सर्वस्यात्मा तद­धि­ष्ठा­न­त्वाच्च प्रप­ञ्च­वि­भ्र­मस्य । न चाधिष्ठानाभावे विभ्रमो भवितुमर्हति । न हि जातु रज्ज्वभावे रज्ज्वां भुजङ्ग इति वा धारेति वा विभ्रमो दृष्टपूर्वः । अपि चात्मानः प्रकाशस्य भासा प्रपञ्चस्य प्रभा । तथा च श्रुतिः - “तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति”(क.उ.२-२-१५) इति । न चात्मनः प्रकाशस्य प्रत्याख्याने प्रपञ्चप्रथा युक्ता । तस्मादात्मनः प्रत्या­ख्या­ना­यो­गा­द्वे­दा­न्तेभ्यः प्रमा­णा­न्त­रा­गो­च­र­स­र्वो­पा­धि­र­हि­त­ब्र­ह्म­स्व­रू­पा­व­ग­ति­सि­द्धि­रि­त्यर्थः ।

उप­नि­ष­त्स्वे­वा­व­गत इत्य­व­धा­र­ण­म­मृ­ष्य­माण आक्षिपति -
नन्वात्मेति ।
सर्व­ज­नी­ना­हं­प्र­त्य­य­वि­षयो ह्यात्मा कर्ता भोक्ता च संसारी, तत्रैव च लौकि­क­प­री­क्ष­का­णा­मा­त्म­प­द­प्र­यो­गात् । य एव लौकिकाः शब्दास्त एव वैदिकास्त एव च तेषामर्था इत्यौ­प­नि­ष­द­म­प्या­त्म­पदं तत्रैव प्रव­र्ति­तु­म­र्हति, नार्थान्तरे तद्विपरीत इत्यर्थः ।

समाधत्ते -

अहंप्रत्ययविषय औपिषदः पुरुषः ।

कुतः
तत्साक्षित्वेन ।

अहंप्रत्ययविषयो यः कर्ता कार्य­क­र­ण­स­ङ्घा­तो­प­हितो जीवा­त्मा­त­त्सा­क्षि­त्वेन, पर­मा­त्म­नोऽ­हं­प्र­त्य­य­वि­ष­य­त्वस्य -
प्रत्यु­क्त­त्वात् ।
एतदुक्तं भवति - यद्यपि “अनेन जीवेनात्मना”(छा. उ. ६ । ३ । २) इति जीवपरमात्मनोः पार­मा­र्थि­क­मै­क्यम् , तथापि तस्योपहितं रूपं जीवः, शुद्धं तु रूपं तस्य साक्षितच्च माना­न्त­रा­न­धि­ग­त­मु­प­नि­ष­द्गो­चर इति ।

एतदेव प्रपञ्चयति -
न ह्यहं­प्र­त्य­य­वि­ष­येति ।