भामतीव्याख्या
१ परिच्छेदः
विधिशेषत्वं वा नेतुं न शक्यः ।
कुतः
आत्मत्वादेव ।
न ह्यात्मा अन्यार्थोऽन्यत्तु सर्वमात्मार्थम् । तथा च श्रुतिः - “न वा अरे सर्वस्य कामाय सर्वं प्रियं भवति आत्मनस्तु कामाय सर्वं प्रियं भवति”(बृ. उ. ४ । ५ । ६) इति । अपि चातः सर्वेषामात्मत्वादेव न हेयो नाप्युपादेयः । सर्वस्य हि प्रपञ्चजातस्य ब्रह्मैव तत्त्वमात्मा । न च स्वभावो हेयः, अशक्यहानत्वात् । न चोपादेयः, उपात्तत्वात् । तस्माद्धेयोपादेयविषयौ विधिनिषेधौ न तद्विपरीतमात्मतत्त्वं विषयीकुरुत इति सर्वस्य प्रपञ्चजातस्यात्मैव तत्त्वमिति ।
एतदुपपादयति -
सर्वं हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति ।
अयमर्थः - पुरुषो हि श्रुतिस्मृतीतिहासपुराणतदविरुद्धन्यायव्यवस्थापितत्वात्परमार्थसन् । प्रपञ्चस्त्वनाद्यविद्योपदर्शितोऽपरमार्थसन् । यश्च परमार्थसन्नसौ प्रकृतिः रज्जुतत्त्वमिव सर्पविभ्रमस्य विकारस्य । अत एवास्यानिर्वाच्यत्वेनादृढस्वभावस्य विनाशः । पुरुषस्तु परमार्थसन्नासौ कारणसहस्रेणाप्यसन् शक्यः कर्तुम् । न हि सहस्रमपि शिल्पिनो घटं पटयितुमीशत इत्युक्तम् । तस्मादविनाशिपुरुषान्तो विकारविनाशः शुक्तिरज्जुतत्त्वान्त इव रजतभुजङ्गविनाशः । पुरुष एव हि सर्वस्य प्रपञ्चविकारजातस्य तत्त्वम् ।
न च पुरुषस्यास्ति विनाशो यतोऽनन्तो विनाशः स्यादित्यत आह -
पुरुषो विनाशहेत्वभावादिति ।
नहि कारणानि सहस्रमप्यन्यदन्यथयितुमीशत इत्युक्तम् । अथ मा भूत्स्वरूपेण पुरुषो हेय उपादेयो वा, तदीयस्तु कश्चिद्धर्मो हास्यते, कश्चिच्चोपादास्यत इत्यत आह -
विक्रियाहेत्वभावाच्च कूटस्थनित्यः ।
त्रिविधोऽपि धर्मलक्षणावस्थापरिणामलक्षणो विकारो नास्तीत्युक्तम् । अपि चात्मनः परमार्थसतो धर्मोऽपि परमार्थसन्निति न तस्यात्मवदन्यथात्वं कारणैः शक्यं कर्तुम् । न च धर्मान्यथात्वादन्यो विकारः । तदिदमुक्तम् - विक्रियाहेत्वभावादिति । सुगममन्यत् ।
यत्पुनरेकदेशिना शास्त्रविद्वचनं साक्षित्वेनानुक्रान्तं तदन्यथोपपादयति -
यदपि शास्त्रतात्पर्यविदामनुक्रमणमिति ।
“दृष्टो हि तस्यार्थः प्रयोजनवदर्थावबोधनम्” इति वक्तव्ये, धर्मजिज्ञासायाः प्रकृतत्वाद्धर्मस्य च कर्मत्वात् “कर्मावबोधनम्” इत्युक्तम् । न तु सिद्धरूपब्रह्मावबोधनव्यापारं वेदस्य वारयति । न हि सोमशर्मणि प्रकृते तद्गुणाभिधानं परिसञ्चष्टे विष्णुशर्मणो गुणवत्ताम् । विधिशास्त्रं विधीयमानकर्मविषयम् , प्रतिषेधशास्त्रं च प्रतिषिध्यमानकर्मविषयमित्युभयमपि कर्मावबोधनपरम् । अपि च “आम्नायस्य क्रियार्थत्वात्” इति शास्त्रकृद्वचनम् ।
तत्रार्थग्रहणं यद्यभिधेयवाचि ततो भूतार्थानां द्रव्यगुणकर्मणामानर्थक्यमनभिधेयत्वं प्रसज्येत, नहि ते क्रियार्था इत्यत आह -
अपि चाम्नायस्येति ।
यद्युच्येत नहि क्रियार्थत्वं क्रियाभिधेयत्वम् , अपि तु क्रियाप्रयोजनत्वम् । द्रव्यगुणशब्दानां च क्रियार्थत्वेनैव भूतद्रव्यगुणाभिधानम् , न स्वनिष्ठतया । यथाहुः शास्त्रविदः - “चोदना हि भूतं भवन्तम्” इत्यादि । एतदुक्तं भवति - कार्यमर्थमवगमयन्ती चोदना तदर्थं भूतादिकमप्यर्थं गमयतीति ।
तत्राह -
प्रवृत्तिनिवृत्तिव्यतिरेकेण भूतं चेदिति ।
अयमभिसन्धिः - न तावत्कार्यार्थ एव स्वार्थे पदानां सङ्गतिग्रहो नान्यार्थ इत्युपपादितं भूतेऽप्यर्थे व्युत्पत्तिं दर्शयद्भिः । नापि स्वार्थमात्रपरतैव पदानाम् । तथा सति न वाक्यार्थप्रत्ययः स्यात् । न हि प्रत्येकं स्वप्रधानतया गुणप्रधानभावरहितानामेकवाक्यता दृष्टा । तस्मात्पदानां स्वार्थमभिदधतामेकप्रयोजनवत्पदार्थपरतयैकवाक्यता । तथा च तत्तदर्थान्तरविशिष्टैकवाक्यार्थप्रत्यय उपपन्नो भवति । यथाहुः शास्त्रविदः - “साक्षाद्यद्यपि कुर्वन्तिपदार्थप्रतिपादनम् । वर्णास्तथापि नैतस्मिन्पर्यवस्यन्ति निष्फले ॥ वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम्” ॥ इति । तथा चार्थान्तरसंसर्गपरतामात्रेण वाक्यार्थप्रत्ययोपपत्तौ न कार्यसंसर्गपरत्वनियमः पदानाम् । एवं च सति कूटस्थनित्यब्रह्मरूपपरत्वेऽप्यदोष इति । भव्यं कार्यम् ।
ननु यद्भव्यार्थं भूतमुपदिश्यते न तद्भूतम् , भव्यसंसर्गिणा रूपेण तस्यापि भव्यत्वादित्यत आह -
न हि भूतमुपदिश्यमानमिति ।
न तादात्म्यलक्षणः संसर्गः, किं तु कार्येण सह प्रयोजनप्रयोजनिलक्षणोऽन्वयः । तद्विषयेण तु भावार्थेन भूतार्थानां क्रियाकारकलक्षण इति न भूतार्थानां क्रियार्थत्वमित्यर्थः ।
शङ्कते -
अक्रियात्वेऽपीति ।
एवं चाक्रियार्थकूटस्थनित्यब्रह्मोपदेशानुपपत्तिरिति भावः ।
परिहरति -
नैष दोषः ।
क्रियार्थत्वेऽपीति ।
न हि क्रियार्थं भूतमुपदिश्यमानमभूतं भवति, अपि तु क्रियानिवर्तनयोग्यं भूतमेव तत् । तथा च भूतेऽर्थेऽवधृतशक्तयः शब्दाः क्वचित्स्वनिष्ठभूतविषया दृश्यमाना मृत्वा शीर्त्वा वा न कथञ्चित्क्रियानिष्ठतां गमयितुमुचिताः । नह्युपहितं शतशो दृष्टमप्यनुपहितं क्वचिद्दृष्टमदृष्टं भवति । तथा च वर्तमानापदेशा अस्तिक्रियोपहिता अकार्यार्था अप्यटवीवर्णकादयो लोके बहुलमुपलभ्यन्ते । एवं क्रियानिष्ठा अपि सम्बन्धमात्रपर्यवसायिनः, यथाकस्यैष पुरुष इति प्रश्ने उत्तरंराज्ञ इति । तथा प्रातिपदिकार्थमात्रनिष्ठाः, यथा - कीदृशास्तरव इति प्रश्ने उत्तरम्फलिन इति । न हि पृच्छता पुरुषस्य वा तरूणां वास्तित्वनास्तित्वे प्रतिपित्सिते, किं तु पुरुषस्य स्वामिभेदस्तरूणां च प्रकारभेदः । प्रष्टुरपेक्षितं चाचक्षाणः स्वामिभेदमेव प्रकारभेदमेव च प्रतिवक्ति, न पुनरस्तित्वम् , तस्य तेनाप्रतिपित्सितत्वात् । उपपादिता च भूतेऽप्यर्थे व्युत्पत्तिः प्रयोजनवति पदानाम् ।
चोदयति -
यदि नामोपदिष्टं
भूतं
किं तव -
उपदेष्टुः श्रोतुर्वा प्रयोजनं
तस्माद्भूतमपि प्रयोजनवदेवोपदेष्टव्यं नाप्रयोजनम् । अप्रयोजनं च ब्रह्म, तस्योदासीनस्य सर्वक्रियारहितत्वेनानुपकारकत्वादिति भावः ।
स्यात् ।
परिहरति -
अनवगतात्मवस्तूपदेशश्च तथैव -
प्रयोजनवानेव -
भवितुमर्हति ।
अप्यर्थश्चकारः । एतदुक्तं भवति - यद्यपि ब्रह्मोदासीनम् , तथापि तद्विषयं शाब्दज्ञानमवगतिपर्यन्तं विद्या स्वविरोधिनीं संसारमूलनिदानमविद्यामुच्छिन्दत्प्रयोजनवदित्यर्थः । अपि च येऽपि कार्यपरत्वं सर्वेषां पदानामास्थिषत, तैरपि “ब्राह्मणो न हन्तव्यः”, “न सुरा पातव्या” इत्यादीनां न कार्यपरता शक्या आस्थातुम् । कृत्युपहितमर्यादं हि कार्यं कृत्या व्याप्तं तन्निवृत्तौ निवर्तते, शिंशपात्वमिव वृक्षत्वनिवृत्तौ । कृतिर्हि पुरुषप्रयत्नः - स च विषयाधीननिरूपणः । विषयश्चास्य साध्यस्वभावतया भावार्थ एव पूर्वापरीभूतोऽन्योत्पादानुकूलात्मा भवितुमर्हति, न द्रव्यगुणौ । साक्षात्कृतिव्याप्यो हि कृतेर्विषयः । न च द्रव्यगुणयोः सिद्धयोरस्ति कृतिव्याप्यता । अत एव शास्त्रकृद्वचः - “भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेत” इति । द्रव्यगुणशब्दानां नैमित्तिकावस्थायां कार्यावमर्शेऽपि, भावस्य स्वतः, द्रव्यगुणशब्दानां तु भावयोगात्कार्यावमर्श इति भावार्थेभ्य एवापूर्वावगतिः, न द्रव्यगुणशब्देभ्य इति । न च ‘दध्ना जुहोति’ , ‘सन्ततमाघारयति’ इत्यादिषु द्रव्यादीनां कार्यविषयता । तत्रापि हि होमाघारभावार्थविषयमेव कार्यम् । न चैतावता ‘सोमेन यजेत’ इतिवत् , दधिसन्ततादिविशिष्टहोमाघारविधानात् , ‘अग्निहोत्रं जुहोति’ , ‘आघारमाघारयति’ इति तदनुवादः । यद्यप्यत्रापि भावार्थविषयमेव कार्यं, तथापि भावार्थानुबन्धतया द्रव्यगुणावविषयावपि विधीयेते । भावार्थो हि कारकव्यापारमात्रतयाविशिष्टः कारकविशेषेण द्रव्यादिना विशेष्यत इति द्रव्यादिस्तदनुबन्धः । तथा च भावार्थे विधीयमाने स एव सानुबन्धो विधीयत इति द्रव्यगुणावविषयावपि तदनुबन्धतया विहितौ भवतः । एवं च भावार्थप्रणालिकया द्रव्यादिसङ्क्रान्तो विधिर्गौरवाद्बिभ्यत्स्वविषयस्य चान्यतः प्राप्ततया तदनुवादेन तदनुबन्धीभूतद्रव्यादिपरो भवतीति सर्वत्र भावार्थविषय एव विधिः । एतेन ‘यदाग्नेयोऽष्टाकपालो भवति’ इत्यत्र सम्बन्धविषयो विधिरिति परास्तम् । ननु न भवत्यर्थो विधेयः, सिद्धे भवितरि लब्धरूपस्य भवनं प्रत्यकर्तृत्वात् । न खलु गगनं भवति । नाप्यसिद्धे, असिद्धस्यानियोज्यत्वात् , गगनकुसुमवत् । तस्माद्भवनेन प्रयोज्यव्यापारेणाक्षिप्तः प्रयोजकस्य भावयितुर्व्यापारो विधेयः । स च व्यापारो भावना, कृतिः, प्रयत्न इति निर्विषयश्चासावशक्यप्रतिपत्तिरतो विषयापेक्षायामाग्नेयशब्दोपस्थापितो द्रव्यदेवतासम्बन्ध एवास्य विषयः । ननु व्यापारविषयः पुरुषप्रयत्नः कथमव्यापाररूपं सम्बन्धं गोचरयेत् । न हि घटं कुर्वित्यत्रापि साक्षान्नामार्थं घटं पुरुषप्रयत्नो गोचरयत्यपि तु दण्डादि हस्तादिना व्यापारयति । तस्माद्घटार्थां कृतिं व्यापारविषयामेव पुरुषः प्रतिपद्यते, न तु रूपतो घटविषयाम् । उद्देश्यतया त्वस्यामस्ति घटो न तु विषयतया । विषयतया तु हस्तादिव्यापार एव । अत एवाग्नेय इत्यत्रापि द्रव्यदेवतासम्बन्धाक्षिप्तो यजिरेव कार्यविषयो विधेयः । किमुक्तं भवति, आग्नेयो भवतीति आग्नेयेन यागेन भावयेदिति । अत एव ‘य एवं विद्वान् पौर्णमासीं यजते’ ‘य एवं विद्वानमावास्यां यजते’ इत्यनुवादो भवति ‘यदाग्नेयः’ इत्यादिविहितस्य यागषट्कस्य । अत एव च विहितानूदितस्य तस्यैव ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इत्याधिकारसम्बन्धः । तस्मात्सर्वत्र कृतिप्रणालिकया भावार्थविषय एव विधिरित्येकान्तः । तथा च ‘न हन्यात्’ ‘न पिबेत्’ इत्यादिषु यदि कार्यमभ्युपेयेत, ततस्तद्व्यापिका कृतिरभ्युपेतव्या, तद्व्यापकश्च भावार्थो विषयः । एवं च प्रजापतिव्रतन्यायेन पर्युदासवृत्त्याऽहननापानसङ्कल्पलक्षणया तद्विषयो विधिः स्यात् । तथा च प्रसज्यप्रतिषेधो दत्तजलाञ्जलिः प्रसज्येत । न च सति सम्भवे लक्षणा न्याय्या । “नेक्षेतोद्यन्तम्” इत्यादौ तु “तस्य व्रतम्” इत्यधिकारात्प्रसज्यप्रतिषेधासम्भवेन पर्युदासवृत्त्यानीक्षणसङ्कल्पलक्षणा युक्ता ।
तस्मात् ‘न हन्यात्’ , ‘न पिबेत्’ इत्यादिषु प्रसज्यप्रतिषेधेषु भावार्थाभावात्तद्व्याप्तायाः कृतेरभावः, तदभावे च तद्व्याप्तस्य कार्यस्याभाव इति न कार्यपरत्वनियमः सर्वत्र वाक्ये इत्याह -
ब्राह्मणो न हन्तव्य इत्येवमाद्या इति ।
ननु कस्मान्निवृत्तिरेव कार्यं न भवति, तत्साधनं वेत्यत आह -
न च सा क्रियेति ।
क्रियाशब्दः कार्यवचनः ।
एतदेव विभजते -
अक्रियार्थानामिति ।
स्यादेतत् । विधिविभक्तिश्रवणात्कार्यं तावदत्र प्रतीयते तच्च न भावार्थमन्तरेण । न च रागतः प्रवृत्तस्य हननपानादावकस्मादौदासीन्यमुपपद्यते विना विधारकप्रयत्नम् । तस्मात्स एव प्रवृत्त्युन्मुखानां मनोवाग्देहानां विधारकः प्रयत्नो निषेधविधिगोचरः क्रियेति नाक्रियापरमस्ति वाक्यं किञ्चिदपीति आह -
न च हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण नञः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुम् ।
केन हेतुना न शक्यमित्यत आह -
स्वभावप्राप्तहन्त्यर्थानुरागेण
नञः । अयमर्थः - हननपानपरो हि विधिप्रत्ययः प्रतीयमानस्ते एव विधत्ते इत्युत्सर्गः । न चैते शक्ये विधातुम् , रागतः प्राप्तत्वात् । न च नञः प्रसज्यप्रतिषेधो विधेयः, तस्याप्यौदासीन्यरूपस्य सिद्धतया प्राप्तत्वात् । न च विधारकः प्रयत्नः, तस्याश्रुतत्वेन लक्ष्यमाणत्वात् , सति सम्भवे च लक्षणाया अन्याय्यत्वात् , विधिविभक्तेश्च रागतः प्राप्तप्रवृत्त्यनुवादकत्वेन विधिविषयत्वायोगात् । तस्माद्यत्पिबेद्धन्याद्वेत्यनूद्य तन्नेति निषिध्यते, तदभावो ज्ञाप्यते, न तु नञर्थो विधीयते । अभावश्च स्वविरोधिभावनिरूपणतया भावच्छायानुपातीति सिद्धे सिद्धवत् , साध्ये च साध्यवद्भासत इति साध्यविषयो नञर्थः साध्यवद्भासत इति नञर्थः कार्य इति भ्रमः ।
तदिदमाह -
नञश्चैष स्वभाव इति ।
ननु बोधयतु सम्बन्धिनोऽभावं नञ्प्रवृत्त्युन्मुखानां तु मनोवाग्देहानां कुतोऽकस्मान्निवृत्तिरित्यत आह -
अभावबुद्धिश्चौदासीन्य
पालन
कारणम् ।
अयमभिप्रायः - ‘ज्वरितः पथ्यमश्नीयात्’ , ‘न सर्पायाङ्गुलिं दद्यात्’ इत्यादिवचनश्रवणसमनन्तरं प्रयोज्यवृद्धस्य पथ्याशने प्रवृत्तिं भुजङ्गाङ्गुलिदानोन्मुखस्य च ततो निवृत्तिमुपलभ्य बालो व्युत्पित्सुः प्रयोज्यवृद्धस्य प्रवृत्तिनिवृत्तिहेतू इच्छाद्वेषावनुमिमीते । तथा हि - इच्छाद्वेषहेतुके वृद्धस्य प्रवृत्तिनिवृत्ती स्वतन्त्रप्रवृत्तिनिवृत्तित्वात् , मदीयस्वतन्त्रप्रवृत्तिनिवृत्तिवत् । कर्तव्यतैकार्थसमवेतेष्टानिष्टसाधनभावावगमपूर्वकौ चास्येच्छाद्वेषौ, प्रवृत्तिनिवृत्तिहेतुभूतेच्छाद्वेषत्वात् , मत्प्रवृत्तिनिवृत्तिहेतुभूतेच्छाद्वेषवत् । न जातु मम शब्दतद्व्यापारपुरुषाशयत्रैकाल्यानविच्छन्नभावनापूर्वप्रत्ययपूर्वाविच्छाद्वेषावभूताम् । अपि तु भूयोभूयः स्वगतमालोचयत उक्तकारणपूर्वावेव प्रत्यवभासेते । तस्माद्वृद्धस्य स्वतन्त्रप्रवृत्तिनिवृत्ती इच्छाद्वेषभेदौ च कर्तव्यतैकार्थसमवेतेष्टानिष्टसाधनभावावगमपूर्वावित्यानुपूर्व्या सिद्धः कार्यकारणाभाव इतीष्टानिष्टसाधनतावगमात्प्रयोज्यवृद्धप्रवृत्तिनिवृत्ती इति सिद्धम् । स चावगमः प्रागभूतः शब्दश्रवणानन्तरमुपजायमानः शब्दश्रवणहेतुक इति प्रवर्तकेषु वाक्येषु ‘यजेत’ इत्यादिषु शब्द एव कर्तव्यमिष्टसाधनं व्यापारमवगमयंस्तस्येष्टसाधनतां कर्तव्यतां चावगमयति अनन्यलभ्यत्वादुभयोः, अनन्यलभ्यस्य च शब्दार्थत्वात् । यत्र तु कर्तव्यतान्यत एव लभ्यते, यथा ‘न हन्यात्’ , ‘न पिबेत्’ इत्यादिषु हननपानप्रवृत्त्यो रागतः प्रतिलम्भात् , तत्र तदनुवादेन नञ्समभिव्याहृता लिङादिविभक्तिरन्यतोऽप्राप्तमनयोरनर्थहेतुभावमात्रमवगमयति । प्रत्यक्षं हि तयोरिष्टसाधनभावोऽवगम्यते, अन्यथा रागविषयत्वायोगात् । तस्माद्रागादिप्राप्तकर्तव्यतानुवादेनानर्थसाधनताप्रज्ञापनपरम् ‘न हन्यात्’ , ‘न पिबेत्’ इत्यादिवाक्यम् , न तु कर्तव्यतापरमिति सुष्ठूक्तमकार्यनिष्ठत्वं निषेधानाम् । निषेध्यानां चानर्थसाधनताबुद्धिरेव निषेध्याभावबुद्धिः । तया खल्वयं चेतन आपाततो रमणीयतां पश्यन्नप्यायतिमालोच्य प्रवृत्त्यभावं निवृत्तिमवबुध्य निवर्तते । औदासीन्यमात्मनोऽवस्थापयतीति यावत् ।
स्यादेतत् । अभावबुद्धिश्चेदौदासीन्यस्थापनकारणम् , यावदौदासीन्यमनुवर्तेत । न चानुवर्तते । न ह्युदासीनोऽपि विषयान्तरव्यासक्तचित्तस्तदभावबुद्धिमान् । न चावस्थापककारणाभावे कार्यावस्थानं दृष्टम् । न हि स्तम्भावपाते प्रासादोऽवतिष्ठते अत आह -
सा च दग्धेन्धनाग्निवत्स्वयमेवोपशाम्यति ।
तावदेव खल्वयं प्रवृत्त्युन्मुखो न यावदस्यानर्थहेतुभावमधिगच्छति । अनर्थहेतुत्वाधिगमोऽस्य समूलोद्धारं प्रवृत्तिमुद्धृत्य दग्धेन्धनाग्निवत्स्वयमेवोपशाम्यति । एतदुक्तं भवति - यथा प्रासादावस्थानकारणं स्तम्भो नैवमौदासीन्यावस्थानकारणमभावबुद्धिः, अपि त्वागन्तुकाद्विनाशहेतोस्त्राणेनावस्थानकारणम् । यथा कमठपृष्ठनिष्ठुरः कवचः शस्त्रप्रहारत्राणेन राजन्यजीवावस्थानहेतुः । न च कवचापगमे च असति च शस्त्रप्रहारे, राजन्यजीवनाश इति ।
उपसंहरति -
तस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेवेति ।
औदासीन्यमजानतोऽप्यस्तीति प्रसक्तक्रियानिवृत्त्योपलक्ष्य विशिनष्टि । तत्किमक्रियार्थत्वेनानर्थक्यमाशङ्क्य क्रियार्थत्वोपवर्णनं जैमिनीयमसमञ्जसमेवेत्युपसंहारव्याजेन परिहरति -
तस्मात्पुरुषार्थेति ।
पुरुषार्थानुपयोग्युपाख्यानादिविषयावक्रियार्थतया क्रियार्थतया च पूर्वोत्तरपक्षौ, न तूपनिषद्विषयौ । उपनिषदां स्वयं पुरुषार्थब्रह्मरूपावगममपर्यवसानादित्यर्थः ।
यदप्यौपनिषदात्मज्ञानमपुरुषार्थं मन्यमानेनोक्तम् -
कर्तव्यविध्यनुप्रवेशमन्तरेणेति ।
अत्र निगूढाभिसन्धिः पूर्वोक्तं परिहारं स्मारयति -
तत्परिहृतमिति ।
अत्राक्षेप्ता स्वोक्तमर्थं स्मारयति -
ननु श्रुतब्रह्मणोऽपीति ।
निगूढमभिसन्धिं समाधातोद्घाटयति -
अत्रोच्यते - नावगतब्रह्मात्मभावस्येति ।
सत्यं, न ब्रह्मज्ञानमात्रं सांसारिकधर्मनिवृत्तिकारणम् , अपि तु साक्षात्कारपर्यन्तम् । ब्रह्मसाक्षात्कारश्चान्तःकरणवृत्तिभेदः श्रवणमननादिजनितसंस्कारसचिवमनोजन्मा, षड्जादिभेदसाक्षात्कार इव गान्धर्वशास्त्रश्रवणाभ्याससंस्कृतमनोयोनिः । स च निखिलप्रपञ्चमहेन्द्रजालसाक्षात्कारं समूलमुन्मूलयन्नात्मानमपि प्रपञ्चत्वाविशेषादुन्मूलयतीत्युपपादितमधस्तात् । तस्माद्रज्जुस्वरूपकथनतुल्यतैवात्रेति सिद्धम् ।
अत्र च वेदप्रमाणमूलतया वेदप्रमाणजनितेत्युक्तम् । अत्रैव सुखदुःखानुत्पादभेदेन निदर्शनद्वयमाह -
न हि धनिन इति ।
श्रुतिमत्रोदाहरति -
तदुक्तमिति ।
चोदयति -
शरीरे पतित इति ।
परिहरति -
न सशरीरत्वस्येति ।
यदि वास्तवं सशरीरत्वं भवेन्न जीवतस्तन्निवर्तेत । मिथ्याज्ञाननिमित्तं तु तत् । तच्चोत्पन्नतत्त्वज्ञानेन जीवतापि शक्यं निवर्तयितुम् ।
यत्पुनरशरीरत्वं तदस्य स्वभाव इति न शक्यं निवर्तयितुम् , स्वभावहानेन भावविनाशप्रसङ्गादित्याह -
नित्यमशरीरत्वमिति ।
स्यादेतत् । न मिथ्याज्ञाननिमित्तं सशरीरत्वमपि तु धर्माधर्मनिमित्तम् , तच्च स्वकारणधर्माधर्मनिवृत्तिमन्तरेण न निवर्तते । तन्निवृत्तौ च प्रायणमेवेति न जीवतोऽशरीरत्वमिति शङ्कते -
तत्कृतेति ।
तदित्यात्मानं परामृशति ।
निराकरोति -
न, शरीरसम्बन्धस्येति ।
न तावदात्मा साक्षाद्धर्माधर्मौ कर्तुमर्हति, वाग्बुद्धिशरीरारम्भजनितौ हि तौ नासति शरीरसम्बन्धे भवतः, ताभ्यां तु शरीरसम्बन्धं रोचयमानो व्यक्तं परस्पराश्रयं दोषमावहति ।
तदिदमाह -
शरीरसम्बन्धस्येति ।
यद्युच्येत सत्यमस्ति परस्पराश्रयः, न त्वेष दोषोऽनादित्वात् , बीजाङ्कुरवदित्यत आह -
अन्धपरम्परैषानादित्वकल्पना
यस्तु मन्यते नेयमन्धपरम्परातुल्यानादिता ।
न हि यतो धर्माधर्मभेदादात्मशरीरसम्बन्धभेदस्तत एव स धर्माधर्मभेदः किन्त्वेष पूर्वस्मादात्मशरीरसम्बन्धात्पूर्वधर्माधर्मभेदजन्मनः, एष त्वात्मशरीरसम्बन्धोऽस्माद्धर्माधर्मभेदादिति, तं प्रत्याह -
क्रियासमवायाभावादिति ।
शङ्कते -
संनिधानमात्रेणेति ।
परिहरति -
नेति ।
उपार्जनं स्वीकरणम् ।
न त्वियं विधात्मनीत्याह -
न त्वात्मन इति ।
ये तु देहादावात्माभिमानो न मिथ्या, अपि तु गौणः, माणवकादाविव सिंहाभिमान इति मन्यन्ते, तन्मतमुपन्यस्य दूषयति -
अत्राहुरिति ।
प्रसिद्धो वस्तुभेदो यस्य पुरुषस्य स तथोक्तः । उपपादितं चैतदस्माभिरध्यासभाष्य इति नेहोपपाद्यते । यथा मन्दान्धकारे स्थाणुरयमित्यगृह्यमाणविशेषे वस्तुनि पुरुषात् , सांशयिकौ पुरुषशब्दप्रत्ययौ स्थाणुविषयौ, तत्र हि पुरुषत्वमनियतमपि समारोपितमेव ।
एवं संशये समारोपितमनिश्चितमुदाहृत्य विपर्ययज्ञाने निश्चितमुदाहरति -
यथा वा शुक्तिकायामिति ।
शुक्लभास्वरस्य द्रव्यस्य पुरःस्थितस्य सति शुक्तिकारजतसाधारण्ये यावदत्र रजतविनिश्चयो भवति तावत्कस्माच्छुक्तिविनिश्चय एव न भवति । संशयो वा द्वेधा युक्तः, समानधर्मधर्मिणोर्दर्शनात् उपलब्घ्यनुपलब्ध्यव्यवस्थातोविशेषद्वयस्मृतेश्च ।
संस्कारोन्मेषहेतोः सादृश्यस्य द्विष्ठत्वेनोभयत्र तुल्यमेतदित्यत उक्तम् -
अकस्मादिति ।
अनेन दृष्टस्य हेतोः समानत्वेऽप्यदृष्टं हेतुरुक्तः । तच्च कार्यदर्शनोन्नेयत्वेनासाधारणमिति भावः ।
आत्मानात्मविवेकिनामिति ।
श्रवणमननकुशलतामात्रेण पण्डितानाम् । अनुत्पन्नतत्त्वसाक्षात्काराणामिति यावत् । तदुक्तम् - “पश्वादिभिश्चाविशेषात्” इति । शेषमतिरोहितार्थम् ।
जीवतो विदुषोऽशरीरत्वे च श्रुतिस्मृती उदाहरति -
तथा चेति ।
सुबोधम् ।
प्रकृतमुपसंहरति -
तस्मान्नावगतब्रह्मात्मभावस्येति ।
ननूक्तं यदि जीवस्य ब्रह्मात्मत्वावगतिरेव सांसारिकधर्मनिवृत्तिहेतुः, हन्त मननादिविधानानर्थक्यम् , तस्मात्प्रतिपत्तिविधिपरा वेदान्ता इति, तदनुभाष्य दूषयति -
यत्पुनरुक्तं श्रवणात्पराचीनयोरिति ।
मनननिदिध्यासनयोरपि न विधिः, तयोरन्वयव्यतिरेकसिद्धसाक्षात्कारफलयोर्विधिसरूपैर्वचनैरनुवादात् । तदिदमुक्तम् -
अवगत्यर्थत्वादिति ।
ब्रह्मसाक्षात्कारोऽवगतस्तदर्थत्वं मनननिदिध्यासनयोरन्वयव्यतिरेकसिद्धमित्यर्थः ।
अथ कस्मान्मननादिविधिरेव न भवतीत्यत आह -
यदि ह्यवगतमिति ।
न तावन्मनननिदिध्यासने प्रधानकर्मणी अपूर्वविषये अमृतत्वफले इत्युक्तमधस्तात् । अतो गुणकर्मत्वमनयोरवघातप्रोक्षणादिवत्परिशिष्यते, तदप्ययुक्तम् , अन्यत्रोपयुक्तोपयोक्ष्यमाणत्वाभावादात्मनः, विशेषतस्त्वौपनिषदस्य कर्मानुष्ठानविरोधादित्यर्थः ।
प्रकृतमुपसंहरति -
तस्मादिति ।
एवं सिद्धरूपब्रह्मपरत्वं उपनिषदाम् ।
ब्रह्मणः शास्त्रार्थस्य धर्मादन्यत्वात् , भिन्नविषयत्वेन शास्त्रभेदात् , “अथातो ब्रह्मजिज्ञासा”(ब्र.सू.१ । १ । १) इत्यस्य शास्त्रारम्भत्वमुपपद्यत इत्याह -
एवं च सतीति ।
इतरथा तु धर्मजिज्ञासैवेति न शास्त्रान्तरमिति न शास्त्रारम्भत्वं स्यादित्यत आह -
प्रतिपत्तिविधिपरत्व इति ।
न केवलं सिद्धरूपत्वाद्ब्रह्मात्मैक्यस्य धर्मादन्यत्वमपि तु तद्विरोधादपीत्युपसंहारव्याजेनाह -
तस्मादहं ब्रह्मास्मीति ।
इतिकरणेन ज्ञानं परामृशति । विधयो हि धर्मे प्रमाणम् । ते च साध्यसाधनेतिकर्तव्यताभेदाधिष्ठाना धर्मोत्पादिनश्च तदधिष्ठाना न ब्रह्मात्मैक्ये सति प्रभवन्ति, विरोधादित्यर्थः ।
न केवलं धर्मप्रमाणस्य शास्त्रस्येयं गतिः, अपि तु सर्वेषां प्रमाणानामित्याह -
सर्वाणि चेतराणि प्रमाणानीति ।
कुतः,
न हीति ।
अद्वैते हि विषयविषयिभावो नास्ति । न च कर्तृत्वम् , कार्याभावात् । न च कारणत्वम् , अत एव ।
तदिदमुक्तम् -
अप्रमातृकाणि च ।
इति चकारेण ।
अत्रैव ब्रह्मविदां गाथा उदाहरति -
अपि चाहुरिति ।
पुत्रदारादिष्वात्माभिमानो गौणः । यथा स्वदुःखेन दुःखी, यथा स्वसुखेन सुखी, तथा पुत्रादिगतेनापीति सोऽयं गुणः । न त्वेकत्वाभिमानः, भेदस्यानुभवसिद्धत्वात् । तस्मात् ‘गौर्वाहीकः’ इतिवद्गौणः । देहेन्द्रियादिषु त्वभेदानुभवान्न गौण आत्माभिमानः, किं तु शुक्तौ रजतज्ञानवन्मिथ्या, तदेवं द्विविधोऽयमात्माभिमानो लोकयात्रां वहति । तदसत्त्वे तु न लोकयात्रा, नापि ब्रह्मात्मैकत्वानुभवः, तदुपायस्य श्रवणमननादेरभावात् ।
तदिदमाह -
पुत्रदेहादिबाधनात् ।
गौणात्मनोऽसत्त्वे पुत्रकलत्रादिबाधनम् । ममकाराभाव इति यावत् । मिथ्यात्मनोऽसत्त्वे देहेन्द्रियादिबाधनं श्रवणादिबाधनं च । ततश्च न केवलं लोकयात्रासमुच्छेदःसद्ब्रह्माहमित्येवंबोधशीलं यत्कार्यम् , अद्वैतसाक्षात्कार इति यावत् ।
तदपि
कथं भवेत् ।
कुतस्तदसम्भव इत्यत आह -
अन्वेष्टव्यात्मविज्ञानात्प्राक्प्रमातृत्वमात्मनः ।
उपलक्षणं चैतत् । प्रमाप्रमेयप्रमाणविभाग इत्यपि द्रष्टव्यम् । एतदुक्तं भवति - एष हि विभागोऽद्वैतसाक्षात्कारकारणम् , ततो नियमेन प्राग्भावात् । तेन तदभावे कार्यं नोत्पद्यत इति ।
न च प्रमातुरात्मनोऽन्वेष्टव्य आत्मान्य इत्याह -
अन्विष्टः स्यात्प्रमातैव पाप्मदोषादिवर्जितः ।
उक्तं ग्रीवास्थग्रैवेयकनिदर्शनम् ।
स्यादेतत् । अप्रमाणात्कथं पारमार्थिकाद्वैतानुभवोत्पत्तिरित्यत आह -
देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः ।
लौकिकं तद्वदेवेदं प्रमाणं तु ।
अस्यावधिमाह -
आत्मनिश्चयात् ।
आब्रह्मस्वरूपसाक्षात्कारादित्यर्थः । एतदुक्तं भवति - पारमार्थिकप्रपञ्चवादिभिरपि देहादिष्वात्माभिमानो मिथ्येति वक्तव्यम् , प्रमाणबाधितत्वात् । तस्य च समस्तप्रमाणकारणत्वं भाविकलोकयात्रावाहित्वं चाभ्युपेयम् । सेयमस्माकमप्यद्वैतसाक्षात्कारे विधा भविष्यति । न चायमद्वैतसाक्षात्कारोऽप्यन्तःकरणवृत्तिभेद एकान्ततः परमार्थः । यस्तु साक्षात्कारो भाविकः, नासौ कार्यः, तस्य ब्रह्मस्वरूपत्वात् । अविद्या तु यद्यविद्यामुच्छिन्द्याज्जनयेद्वा, न तत्र काचिदनुपपत्तिः । तथा च श्रुतिः - “विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते”(ई. उ. ११) ॥ इति । तस्मात्सर्वमवदातम् ॥ ४ ॥
इति चतुःसूत्री समाप्ता ।
एवं - “कार्यान्वयं विना सिद्धरूपे ब्रह्मणि मानता । पुरुषार्थे स्वयं तावद्वेदान्तानां प्रसाधिता” ॥ ब्रह्मजिज्ञासां प्रतिज्ञाय “जन्माद्यस्य यतः”(ब्र.सू.१ । १ । २) इत्यादिना “तत्तु समन्वयात्”(ब्र.सू.१ । १ । ३) इत्यन्तेन सूत्रसन्दर्भेण सर्वज्ञे सर्वशक्तौ जगदुत्पत्तिस्थितिविनाशकारणे प्रामाण्यं वेदान्तानामुपपादितम् । तच्च ब्रह्मणीति परमार्थतः । न त्वद्यापि ब्रह्मण्येवेति व्युत्पादितम् । तदत्र सन्दिह्यते - तज्जगदुपादानकारणं किं चेतनमुताचेतनमिति । अत्र च विप्रतिपत्तेः प्रवादिनां विशेषानुपलम्भे सति संशयः । तत्र च प्रधानमचेतनं जगदुपादानकारणमनुमानसिद्धमनुवदन्त्युपनिषद इति साङ्ख्याः । जीवाणुव्यतिरिक्तचेतनेश्वरनिमित्ताधिष्ठिताश्चतुर्विधाः परमाणवो जगदुपादानकारणमनुमितमनुवदन्तीति काणादाः । आदिग्रहणेनाभावोपादानत्वादि ग्रहीतव्यम् । अनिर्वचनीयानाद्यविद्याशक्तिमच्चेतनोपादानं जगदागमिकमिति ब्रह्मविदः । एतासां च विप्रतिपत्तीनामनुमानवाक्यानुमानवाक्यतदाभासा बीजम् । तदेवं विप्रतिपत्तेः संशये किं तावत्प्राप्तम् । तत्र “ज्ञानक्रियाशक्त्यभावाद्ब्रह्मणोऽपरिणामिनः । न सर्वशक्तिविज्ञाने प्रधाने त्वस्ति सम्भवः” ॥ ज्ञानक्रियाशक्ती खलु ज्ञानक्रियाकार्यदर्शनोन्नेयसद्भावे । न च ज्ञानक्रिये चिदात्मनि स्तः, तस्यापरिणामित्वादेकत्वाच्च । त्रिगुणे तु प्रधाने परिणामिनि सम्भवतः । यद्यपि च साम्यावस्थायां प्रधाने समुदाचरद्वृत्तिनी क्रियाज्ञाने न स्तः, तथाप्यव्यक्तेन शक्त्यात्मना रूपेण सम्भवत एव । तथा च प्रधानमेव सर्वज्ञं च सर्वशक्ति च । न तु ब्रह्म । स्वरूपचैतन्यं त्वस्यावृत्तितमनुपयोगि जीवात्मनामिवास्माकम् । न च स्वरूपचैतन्ये कर्तृत्वम् , अकार्यत्वात्तस्य । कार्यत्वे वा न सर्वदा सर्वज्ञता । भोगापवर्गलक्षणपुरुषार्थद्वयप्रयुक्तानादिप्रधानपुरुषसंयोगनिमित्तस्तु महदहङ्कारादिक्रमेणाचेतनस्यापि चेतनानधिष्ठितस्य प्रधानस्य परिणामः सर्गः । दृष्टं चाचेतनं चेतनानधिष्ठितं पुरुषार्थे प्रवर्तमानम् । यथा वत्सविवृद्ध्यर्थमचेतनं क्षीरं प्रवर्तते । “तदैक्षत बहु स्यां प्रजायेय”(छा. उ. ६ । २ । ३) इत्याद्याश्च श्रुतयोऽचेतनेऽपि चेतनवदुपचारात्स्वकार्योन्मुखत्वमादर्शयन्ति, यथा कूलं पिपतिषतीति । “यत्प्राये श्रूयते यच्च तत्तादृगवगम्यते । भाक्तप्राये श्रुतमिदमतो भाक्तं प्रतीयते” ॥ अपि चाहुर्वृद्धाः - “यथाग्र्यप्राये लिखितं दृष्ट्वा वदन्ति भवेदयमग्र्यः” इति, तथेदमपि “ता आप ऐक्षन्त”(छा. उ. ६ । २ । ४) “तत्तेज ऐक्षत”(छा. उ. ६ । २ । ३) इत्याद्युपचारप्राये क्षुतं “तदैक्षत”(छा. उ. ६ । २ । ३) इत्यौपचारिकमेव विज्ञेयम् । “अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि”(छा. उ. ६ । ३ । २) इति च प्रधानस्य जीवात्मत्वं जीवार्थकारितयाह । यथा हि भद्रसेनो राजार्थकारी राज्ञा भद्रसेनो ममात्मेत्युपचर्यते, एवं “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्याद्याः श्रुतयो भाक्ताः सम्पत्त्यर्था वा द्रष्टव्याः । “स्वमपीतो भवति”(छा. उ. ६ । ८ । १) इति च निरुक्तं जीवस्य प्रधाने स्वकीयेऽप्ययं सुषुप्तावस्थायां ब्रूते । प्रधानांशतमःसमुद्रके हि जीवोनिद्राणस्तमसीव मग्नो भवति । यथाहुः - “अभावप्रत्ययालम्बना वृत्तिर्निद्रा”(यो.सू. १.१०) इति । वृत्तीनामन्यासां प्रमाणादीनामभावस्तस्य प्रत्ययकारणं तमस्तदालम्बना निद्रा जीवस्य वृत्तिरित्यर्थः । तथा सर्वज्ञं प्रस्तुत्य श्वेताश्वतरमन्त्रोऽपि “सकारणं करणाधिपाधिपः” इति प्राधानाभिप्रायः । प्रधानस्यैव सर्वज्ञत्वं प्रतिपादितमधस्तात् । तस्मादचेतनं प्रधानं जगदुपादानमनुवदन्ति श्रुतय इति पूर्वः पक्षः । एवं काणादादिमतेऽपि कथञ्चिद्योजनीयाः श्रुतयः । अक्षरार्थस्तु -
प्रधानकारणपक्षेऽपीति प्रधानस्यापीति ।
अपिकारावेवकारार्थौ ।
स्यादेतत् । सत्त्वसम्पत्त्या चेदस्य सर्वज्ञताथ तमःसम्पत्त्या - सर्वज्ञतैवास्य कस्मान्न भवतीत्यत आह -
तेन च सत्त्वधर्मेण ज्ञानेनेति ।
सत्त्वं हि प्रकाशशीलं निरतिशयोत्कर्षं सर्वज्ञताबीजम् । तथाहुः - “निरतिशयं सर्वज्ञताबीजं” इति । यत्खलु सातिशयं तत्क्वचिन्निरतिशयं दृष्टं, यथा कुवलामलकबिल्वेषु, सातिशयं महत्त्वं व्योम्नि परममहति निरतिशयम् । एवं ज्ञानमप्येकद्विबहुविषयतया सातिशयमित्यनेनापि क्वचिन्निरतिशयेन भवितव्यम् । इदमेव चास्य निरतिशयत्वं यद्विदितसमस्तवेदितव्यत्वम् । तदिदं सर्वज्ञत्वं सत्त्वस्य निरतिशयोत्कर्षत्वे सम्भवति । एतदुक्तं भवति - यद्यपि रजस्तमसी अपि स्तः तथापि पुरुषार्थप्रयुक्तगुणवैषम्यातिशयात्सत्त्वस्य निरतिशयोत्कर्षे सार्वज्ञ्यं कार्यमुत्पद्यत इति प्रधानावस्थायामपि तन्मात्रं विवक्षित्वाविवक्षित्वा च तमःकार्यं प्रधानं सर्वज्ञमुपचर्यत इति ।
अपिभ्यामवधारणस्य व्यवच्छेद्यमाह -
न केवलस्येति ।
नहि किञ्चिदेकं कार्यं जनयेदपि तु बहूनि । चिदात्मा चैकः, प्रधानं तु त्रिगुणमिति तत एव कार्यमुत्पत्तुमर्हति, न चिदात्मन इत्यर्थः ।
तवापि च योग्यतामात्रेणैव चिदात्मनःसर्Sवज्ञताभ्युपगमो न कार्ययोगादित्याह -
त्वयापीति ।
न केवलस्याकार्यकारणस्येत्येतत्सिंहावलोकितेन प्रपञ्चयति -
प्रागुत्पत्तेरिति ।
अपि च प्रधानस्येति ।
चस्त्वर्थः ।
एवं प्राप्त उच्यते -
ईक्षतेर्नाशब्दम् ।
नामरूपप्रपञ्चलक्षणकार्यदर्शनादेतत्कारणमात्रवदिति सामान्यकल्पनायामस्ति प्रमाणं, न तु तदचेतनं चेतनमिति वा विशेषकल्पनायामस्त्यनुमानमित्युपरिष्टात्प्रवेदयिष्यते । तस्मान्नामरूपप्रपञ्चकारणभेदप्रमायामाम्नाय एव भगवानुपासनीयः । तदेवमाम्नायैकसमधिगमनीये जगत्कारणे “पौर्वापर्यपरामर्शाद्यदाम्नायोऽञ्जसा वदेत् । जगद्बीजं तदेवेष्टं चेतने च स आञ्जसः” ॥ तेषु तेषु खल्वाम्नायप्रदेशेषु “तदैक्षत”(छा. उ. ६ । २ । ३) इत्येवंजातीयकैर्वाक्यैरीक्षितुः कारणाज्जगज्जन्माख्यायत इति । न च प्रधानपरमाण्वादेरचेतनस्येक्षितृत्वमाञ्जसम् । सत्त्वांशेनेक्षितृ प्रधानं, तस्य प्रकाशकत्वादिति चेन्न । तस्य जाड्येन तत्त्वानुपपत्तेः । कस्तर्हि रजस्तमोभ्यां सत्त्वस्य विशेषः । स्वच्छता । स्वच्छं हि सत्त्वम् । अस्वच्छे च रजस्तमसी । स्वच्छस्य च चैतन्यबिम्बोद्ग्राहितया प्रकाशकत्वव्यपदेशो नेतरयोः, अस्वच्छतया तद्ग्राहित्वाभावात् । पार्थिवत्वे तुल्य इव मणेर्बिम्बोद्ग्राहिता न लोष्टादीनाम् । ब्रह्मणस्त्वीक्षितृत्वमाञ्जसं, तस्याम्नायतो नित्यज्ञानस्वभावत्वविनिश्चयात् । नन्वत एवास्य नेक्षितृत्वं, नित्यस्य ज्ञानस्वभावभूतस्येक्षणस्याक्रियात्वेन ब्रह्मणस्तत्प्रति निमित्तभावाभावात् । अक्रियानिमित्तस्य च कारकत्वनिवृत्तौ तद्व्याप्तस्य तद्विशेषस्य कर्तृत्वस्य निवृत्तेः । सत्यं, ब्रह्मस्वभावश्चैतन्यं नित्यतया न क्रिया, तस्य त्वनवच्छिन्नस्य तत्तद्विषयोपधानभेदावच्छेदेन कल्पितभेदस्यानित्यत्वं कार्यत्वं चोपपद्यते । तथा चैवंलक्षण ईक्षणे सर्वविषये ब्रह्मणः स्वातन्त्र्यलक्षणं कर्तृत्वमुपपन्नम् । यद्यपि च कूटस्थनित्यस्यापरिणामिन औदासीन्यमस्य वास्तवं तथाप्यनाद्यनिर्वचनीयाविद्यावच्छिन्नस्य व्यापारवत्त्वमवभासत इति कर्तृत्वोपपत्तिः । परैरपि च चिच्छेक्तेः कूटस्थनित्याया वृत्तीः प्रति कर्तृत्वमीदृशमेवाभ्युपेयं, चैतन्यसामान्याधिकरण्येन ज्ञातृत्वोपलब्धेः । नहि प्राधानिकान्यन्तर्बहिःकरणानि त्रयोदश सत्त्वगुणप्रधानान्यपि स्वयमेवाचेतनानि, तद्वृत्तयश्च स्वं वा परं वा वेदितुमुत्सहन्ते । नो खल्वन्धाः सहस्रमपि पान्थाः पन्थानं विदन्ति । चक्षुष्मता चैकेन चेद्वेद्यते, स एव तर्हि मार्गदर्शी स्वतन्त्रः कर्ता नेता तेषाम् । एवं बुद्धिसत्त्वस्य स्वयमचेतनस्य चितिबिम्बसङ्क्रान्त्या चेदापन्नं चैतन्यस्य ज्ञातृत्वं, चितिरेव ज्ञात्री स्वतन्त्रा, नान्तर्बहिष्करणान्यन्धसहस्रप्रतिमान्यस्वतन्त्राणि । न चास्याश्चितेः कूटस्थनित्याया अस्ति व्यापारयोगः । न च तदयोगेऽप्यज्ञातृत्वं, व्यापारवतामपि जडानामज्ञत्वात् । तस्मादन्तःकरणवर्तिनं व्यापारमारोप्य चितिशक्तौ कर्तृत्वाभिमानः । अन्तःकरणे वा चैतन्यमारोप्य तस्य ज्ञातृत्वाभिमानः । सर्वथा भवन्मतेऽपि नेदं स्वाभाविकं क्वचिदपि ज्ञातृत्वं, अपि तु सांव्यवहारिकमेवेति परमार्थः । नित्यस्यात्मनो ज्ञानं परिणाम इति च भेदाभेदपक्षमपाकुर्वद्भिरपास्तम् । कूटस्थस्य नित्यस्यात्मनोऽव्यापारवत एव भिन्नं ज्ञानं धर्म इति चोपरिष्टादपाकरिष्यते । तस्माद्वस्तुतोऽनवच्छिन्नं चैतन्यं तत्त्वान्यत्वाभ्यामनिर्वचनीयाव्याकृतव्याचिकीर्षितनामरूपविषयावच्छिन्नं सज्ज्ञानं कार्यं, तस्य कर्ता ईश्वरो ज्ञाता सर्वज्ञः सर्वशक्तिरिति सिद्धम् । तथा च श्रुतिः - “तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥”(मु.उ. १.१.८) इति । तपसा ज्ञानेन अव्याकृतनामरूपविषयेण चीयते तद्व्याचिकीर्षवद्भवति, यथा कुविन्दादिरव्याकृतं पटादि बुद्धावालिख्य चिकीर्षति । एकधर्मवान् द्वितीयधर्मोपजननेन उपचित उच्यते । व्याचिकीर्षायां चोपचये सति ततो नामरूपमन्नमदनीयं साधारणं संसारिणां व्याचिकीर्षितमभिजायते । तस्मादव्याकृताद्व्याचिकीर्षितादन्नात्प्राणो हिरण्यगर्भो ब्रह्मणो ज्ञानक्रियाशक्त्यधिष्ठानं जगत्सूत्रात्मा साधारणो जायते, यथाऽव्याकृतात्व्याचिकीर्षितात्पटादवान्तरकार्यं द्वितन्तुकादि । तस्माच्च प्राणान्मन अख्यं सङ्कल्पविकल्पादिव्याकरणात्मकं जायते । ततो व्याकरणात्मकान्मनसः सत्यशब्दवाच्यान्याकाशादीनि जायन्ते । तेभ्यश्च सत्याख्येभ्योऽनुक्रमेण लोका भूरादयः तेषु मनुष्यादिप्राणिनो वर्णाश्रमक्रमेण कर्माणि धर्माधर्मरूपाणि जायन्ते । कर्मसु चामृतं फलं स्वर्गनरकादि । तच्च स्वनिमित्तयोर्धर्माधर्मयोः सतोर्न विनश्यतीत्यमृतम् । यावद्धर्माधर्मभावीति यावत् । यः सर्वज्ञः सामान्यतः, सर्वविद्विशेषतः । यस्य भगवतो ज्ञानमयं तपो धर्मो नायासमयम् , तस्माद्ब्रह्मणः पूर्वस्मादेतत्परं कार्यं ब्रह्म । किञ्च नामरूपमन्नं च व्रीहियवादि जायत इति । तस्मात्प्रधानस्य साम्यावस्थायामनीक्षितृत्वात् , क्षेत्रज्ञानां च सत्यपि चैतन्ये सर्गादौ विषयानीक्षणात् , मुख्यसम्भवे चोपचारस्यान्याय्यत्वात् , मुमुक्षोश्चायथार्थोपदेशानुपपत्तेः, मुक्तिविरोधित्वात् , तेजःप्रभृतीनां च मुख्यासम्भवेनोपचाराश्रयणस्य युक्तिसिद्धत्वात् , संशये च तत्प्रायपाठस्य निश्चायकत्वात् , इह तु मुख्यस्यौत्सर्गिकत्वेन निश्चये सति संशयाभावात् , अन्यथा किरातशतसङ्कीर्णदेशनिवासिनो ब्राह्मणायनस्यापि किरातत्वापत्तेः, ब्रह्मैवेक्षित्रनाद्यनिर्वाच्याविद्यासचिवं जगदुपादानं, शुक्तिरिव समारोपितस्य रजतस्य, मरीचय इव जलस्य, एकश्चन्द्रमा इव द्वतीयस्य चद्रमसः । न त्वचेतनं प्रधानपरमाण्वादि । अशब्दं हि तत् । न च प्रधानं परमाणवो वा तदतिरिक्तसर्वज्ञेश्वराधिष्ठिता जगदुपादानमिति साम्प्रतं कार्यत्वात् । कारणात्कार्याणां भेदाभावात् कारणज्ञानेन समस्तकार्यपरिज्ञानस्य मृदादिनिदर्शनेनागमेन प्रसाधितत्वात् , भेदे च तदनुपपत्तेः । साक्षाच्च “एकमेवाद्वितीयम्”(छा. उ. ६ । २ । १) “नेह नानास्ति किञ्चन”(बृ. उ. ४ । ४ । १९) “मृत्योः स मृत्युमाप्नोति”(क. उ. २ । ४ । १०) इत्यादिभिर्बहुभिर्वचोभिर्ब्रह्मातिरिक्तस्य प्रपञ्चस्य प्रतिषेधाचेतनोपादानमेव जगत् , भुजङ्ग इवारोपितो रज्जूपादान इति सिद्धान्तः ।
सदुपादानत्वे हि सिद्धे जगतस्तदुपादानं चेतनमचेतनं वेति संशय्य मीमांस्येत । अद्यापि तु सदुपादानत्वमसिद्धमित्यत आह -
तत्रेदंशब्दवाच्यमित्यादिदर्शयतिइत्यन्तेन ।
तथापीक्षिता पारमार्थिकप्रधानक्षेत्रज्ञातिरिक्त ईश्वरो भविष्यति, यथाहुर्हैरण्यगर्भा इत्यतः श्रुतिः पठिता “एकमेवाद्वितीयम्”(छा. उ. ६ । २ । १) इति । “बहु स्याम्”(छा. उ. ६ । २ । ३) इति चाचेतनं कारणमात्मन एव बहुभावमाह । तेनापि कारणाच्चेतनादभिन्नं कार्यमभ्युपगम्यते ।
यद्यप्याकाशाद्या भूतसृष्टिस्तथापि तेजोऽबन्नानामेव त्रिवृत्करणस्य विवक्षितत्वात्तत्र तेजसः प्राथम्यात्तेजः प्रथममुक्तम् । एकमद्वितीयं जगदुपादानमित्यत्र श्रुत्यन्तरमपि पठति -
तथान्यत्रेति ।
ब्रह्म चतुष्पादष्टाशफं षोडशकलशम् । तद्यथा - प्राची प्रतीची दक्षिणोदीचीति चतस्रः कला ब्रह्मणः प्रकाशवान्नाम प्रथमः पादः । तदर्धं शफः । तथा पृथिव्यन्तरिक्षं द्यौः समुद्र इत्यपरश्चतस्रः कला द्वितीयः पादोऽनन्तवान्नाम । तथाग्निः सूर्यश्चन्द्रमा विद्युदिति चतस्रः कलाः, स ज्योतिष्मान्नाम तृतीयः पादः । प्राणश्चक्षुः श्रोत्रं वागिति चतस्रः कालाः, स चतुर्थमायतनवान्नाम ब्रह्मणः पादः । तदेवं षोडशकलं षोडशावयवं ब्रह्मोपास्यमिति सिद्धम् ।
स्यादेतत् । ईक्षतेरिति तिपा धातुस्वरूपमुच्यते । न चाविवक्षितार्थस्य धातुस्वरूपस्य चेतनोपादानसाधनत्वसम्भव इत्यत आह -
ईक्षतेरिति
धात्वर्थनिर्देशोऽभिमतः, विषयिणां विषयलक्षणात् ।
प्रसिद्धा चेयं लक्षणेत्याह -
यजतेरितिवदिति ।
‘यः सर्वज्ञः’ इति सामान्यतः; ‘सर्ववित्’ इति विशेषतः ।
साङ्ख्यीयं स्वमतसमाधानमुपन्यस्य दूषयति -
यत्तूक्तं सत्त्वधर्मेणेति ।
पुनः साङ्ख्यमुत्थापयति -
ननूक्तमिति ।
परिहरति -
तदपीति ।
समुदाचरद्वृत्ति तावन्न भवति सत्त्वं, गुणवैषम्यप्रसङ्गेन साम्यानुपपत्तेः । न चाव्यक्तेन रूपेण ज्ञानमुपयुज्यते, रजस्तमसोस्तत्प्रतिबन्धस्यापि सूक्ष्मेण रूपेण सद्भावादित्यर्थः ।
अपि च चैतन्यप्रधानवृत्तिवचनो जानातिर्न चाचेतने वृत्तिमात्रे दृष्टचरप्रयोग इत्याह -
अपि च नासाक्षिकेति ।
कथं तर्हि योगिनां सत्त्वांशोत्कर्षहेतुकं सर्वज्ञत्वमित्यत आह -
योगिनां त्विति ।
सत्त्वांशोत्कर्षो हि योगिनां चैतन्यचक्षुष्मतामुपकरोति, नान्धस्य प्रधानस्येत्यर्थः ।
यदि तु कापिलमतमपहाय हैरण्यगर्भमास्थीयेत तत्राप्याह -
अथ पुनः साक्षिनिमित्तमिति ।
तेषामपि हि प्रकृष्टसत्त्वोपादानं पुरुषविशेषस्यैव क्लेशकर्मविपाकाशयापरामृष्टस्य सर्वज्ञत्वं, न तु प्रधानस्याचेतनस्य । तदपि चाद्वैतश्रुतिभिरपास्तमिति भावः ।
पूर्वपक्षबीजमनुभाषते -
यत्पुनरुक्तं ब्रह्मणोऽपीति ।
चैतन्यस्य शुद्धस्य नित्यत्वेऽप्युपहितं सदनित्यं कार्यं, आकाशमिव घटावच्छिन्नमित्यभिसन्धाय परिहरति -
इदं तावद्भवानिति ।
प्रततौष्ण्यप्रकाशे सवितरि
इत्येतदपि विषयावच्छिन्नप्रकाशः कार्यमित्येतदभिप्रायम् ।
वैषम्यं चोदयति -
ननु सवितुरिति ।
किं वास्तवं कर्माभावमभिप्रेत्य वैषम्यमाह भवान् उत तद्विवक्षाभावम् । तत्र यदि तद्विवक्षाभावं, तदा प्रकाशयतीत्यनेन मा भूत्साम्यं, प्रकाशत इत्यनेन त्वस्ति । नह्यत्र कर्म विवक्षितम् ।
अथ च प्रकाशस्वभावं प्रत्यस्ति स्वातन्त्र्यं सवितुरिति परिहरति -
न ।
असत्यपि कर्मणीति ।
असत्यपीत्यविवक्षितेऽपीत्यर्थः ।
अथ वास्तवं कर्माभावमभिसन्धाय वैषम्यमुच्येत, तन्न, असिद्धत्वात्कर्माभावस्य, विविक्षितत्वाच्चात्र कर्मण इति परिहरति -
कर्मापेक्षायां त्विति ।
यासां सति कर्मण्यविवक्षिते श्रुतीनामुपपत्तिस्तासां सति कर्मणि विवक्षिते सुतरामित्यर्थः ।
यत्प्रसादादिति ।
यस्य भगवत ईश्वरस्य प्रसादात् तस्य नित्यसिद्धस्येश्वरस्य नित्यं ज्ञानं भवतीति किमु वक्तव्यमिति योजना । यथाहुर्योगशास्त्रकाराः - “ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च”(यो.सू. १.२९) इति । तद्भाष्यकाराश्च ‘भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णाति ज्ञानवैराग्यादिना’ इति ।
सवितृप्रकाशवदिति ।
वस्तुतो नित्यस्य कारणानपेक्षां स्वरूपेणोक्त्वा व्यतिरेकमुखेनाप्याह -
अपि चाविद्यादिमत इत्यादि ।
आदिग्रहणेन कामकर्मादयः सङ्गृह्यन्ते ।
न ज्ञानप्रतिबन्धकारणरहितस्येति ।
संसारिणां वस्तुतो नित्यज्ञानत्वेऽप्यविद्यादयः प्रतिबन्धकारणानि सन्ति, न तु ईश्वरस्याविद्यारहितस्य ज्ञानप्रतिबन्धकारणसम्भव इति भावः । न तस्य कार्यमावरणाद्यपगमो विद्यते, अनावृत्तत्वादिति भावः । ज्ञानबलेन क्रिया । प्रधानस्य त्वचेतनस्य ज्ञानबलाभावाज्जगतो न क्रियेत्यर्थः । अपाणिर्गृहीता, अपादो जवनो वेगवान् विहरणवान् । अतिरोहितार्थमन्यत् ।
स्यादेतेत् । अनात्मनि व्योम्नि घटाद्युपाधिकृतो भवत्ववच्छेदकविभ्रमः, न तु आत्मनि स्वभावसिद्धप्रकाशे स घटत इत्यत आह -
दृश्यते चात्मन एव सत इति ।
अभिनिवेशः
मिथ्याभिमानः ।
मिथ्याबुद्धिमात्रेण पूर्वेणेति ।
अनेनानादिता दर्शिता । मात्रग्रहणेन विचारासहत्वेन निर्वचनीयता निरस्ता । परिशिष्टं निगदव्याख्यातम् ॥ ५ ॥ ॥ ६ ॥
तन्निष्ठस्य मोक्षोपदेशादिति ।
शङ्कोत्तरत्वेन वा स्वातन्त्र्येण वा प्रधाननिराकरणार्थं सूत्रम् । शङ्का च भाष्ये उक्ता ॥ ७ ॥
स्यादेतत् । ब्रह्मैव ज्ञीप्सितं, तच्च न प्रथमं सूक्ष्मतया शक्यं श्वेतकेतुं ग्राहयितुमिति तत्सम्बद्धं प्रधानमेव स्थूलतयात्मत्वेन ग्राह्यते श्वेतकेतुररुन्धतीमिवातीव सूक्ष्मां दर्शयितुं तत्संनिहितां स्थूलतारकां दर्शयतीयमसावरुन्धतीति । अस्यां शङ्कायामुत्तरम् -
हेयत्वावचनाच्च
इति सूत्रम् । चकारोऽनुक्तसमुच्चयार्थः । तच्चानुक्तं भाष्य उक्तम् ॥ ८ ॥
अपि च जगत्कारणं प्रकृत्य स्वपितीत्यस्य निरुक्तं कुर्वती श्रुतिश्चेतनमेव जगत्कारणं ब्रूते । यदि स्वशब्द आत्मवचनस्तथापि चेतनस्य पुरुषस्याचेतनप्रधानत्वानुपपत्तिः । अथात्मीयवचनस्थथाप्यचेतने पुरुषार्थतयात्मीयेऽपि चेतनस्य प्रलयानुपपत्तिः । नहि मृदात्मा घट आत्मीयेऽपि पाथसि प्रलीयतेऽपि त्वात्मभूतायां मृद्येव । नच रजतमनात्मभूते हस्तिनि प्रलीयते, किन्त्वात्मभूतायां शुक्तावेवेत्याह -
स्वाप्ययात् ॥ ९ ॥
गतिसामान्यात् ।
गतिरवगतिः ।
तार्किकसमय इवेति ।
यथा हि तार्किकाणां समयभेदेषु परस्परपराहतार्थता, नैवं वेदान्तेषु परस्परपराहृतिः, अपि तु तेषु सर्वत्र जगत्कारणचैतन्यावगतिः समानेति ।
चक्षुरादीनामिव रूपादिष्विति ।
यथा हि सर्वेषां चक्षू रूपमेव ग्राहयति, न पुना रसादिकं कस्यचिद्दर्शयति कस्यचिद्रूपम् । एवं रसनादिष्वपि गतिसामान्यं दर्शनीयम् ॥ १० ॥
श्रुतत्वाच्च ।
'तदैक्षत” इत्यत्र ईक्षणमात्रं जगत्कारणस्य श्रुतं न तु सर्वविषयम् । जगत्कारणसम्बन्धितया तु तदर्थात्सर्वविषयमवगतं, श्वेताश्वतराणां तूपनिषदि सर्वज्ञ ईश्वरो जगत्कारणमिति साक्षादुक्तमिति विशेषः ।
उत्तरसूत्रसन्दर्भमाक्षिपति -
जन्माद्यस्य यत इत्यारभ्येति ।
ब्रह्म जिज्ञासितव्यमिति हि प्रतिज्ञातं, तच्च शस्त्रैकसमधिगम्यं, शस्त्रं च सर्वज्ञे सर्वशक्तौ जगदुत्पत्तिस्थितिप्रलयकारणे ब्रह्मण्येव प्रमाणं न प्रधानादाविति न्यायतो व्युत्पादितम् । न चास्ति कश्चिद्वेदान्तभागो यस्तद्विपरीतमपि बोधयेदिति च “गतिसामान्यात्”(ब्र.सू. १.१.१०) इत्युक्तम् । तत्किमपरमवशिष्यते, यदर्थान्तरसूत्रसन्दर्भस्यावतारः स्यादिति ।
किमुत्थानमिति ।
किमाक्षेपे ।
समाधत्ते -
उच्यते - द्विरूपं हीति ।
यद्यपि तत्त्वतो निरस्तसमस्तोपाधिरूपं ब्रह्म तथापि न तेन रूपेण शक्यमुपदेष्टुमित्युपहितेन रूपेणोपदेष्टव्यमिति । तत्र च क्वचिदुपाधिर्विवक्षितः ।
तदुपासनानि
कानिचित् अभ्युदयार्थानि
मनोमात्रसाधनतयात्र पठितानि ।
कानिचित्क्रममुक्त्यर्थानि, कानिचित्कर्मसमृद्ध्यर्थानि ।
क्वचित्पुनरुक्तोऽप्युपाधिरविवक्षितः, यथात्रैवान्नमयादय आनन्दमयान्ताः पञ्च कोशाः । तदत्र कस्मिन्नुपाधिर्विवक्षितः कस्मिन्नेति नाद्यापि विवेचितम् । तथा गतिसामान्यमपि सिद्धवदुक्तं, न त्वद्यापि साधितमिति तदर्थमुत्तरग्रन्थसन्दर्भारम्भ इत्यर्थः ।
स्यादेतत् । परस्यात्मनस्तत्तदुपाधिभेदविशिष्टस्याप्यभेदात्कथमुपासनाभेदः, कथं च फलभेदमित्यत आह -
एक एव त्विति ।
रूपाभेदेऽप्युपाधिभेदादुपहितभेदादुपासनाभेदस्तथा च फलभेद इत्यर्थः । क्रतुः सङ्कल्पः ।
ननु यद्येक आत्मा कूटस्थनित्यो निरतिशयः सर्वभूतेषु गूढः, कथमेतस्मिन् भूताश्रये तारतम्यश्रुतय इत्यत आह -
यद्यप्येक आत्मेति ।
यद्यपि निरतिशयमेकमेव रूपमात्मन ऐश्वर्यं च ज्ञानं चानन्दश्च, तथाप्यनाद्यविद्यातमःसमावृतं तेषु तेषु प्राणभृद्भेदेषु क्वचिदसदिव, क्वचित्सदिव, क्वचिदत्यन्तापकृष्टमिव, क्वचिदपकृष्टमिव, क्वचित्प्रकर्षवत् , क्वचिदत्यन्तप्रकर्षवदिव भासते, तत्कस्य हेतोः, अविद्यातमसः प्रकर्षनिकर्षतारतम्यादिति । यथोत्तमप्रकाशः सविता दिङ्मण्डलमेकरूपेणैव प्रकाशेनापूरयन्नपि वर्षासु निकृष्टप्रकाश इव शरदि तु प्रकृष्टप्रकाश इव प्रथते, तथेदमपीति ।
अपेक्षितोपाधिसम्बन्धम्
उपास्यत्वेन ।
निरस्तोपाधिसम्बन्धं
ज्ञेयत्वेनेति ॥ ११ ॥
आनन्दमयोऽभ्यासात् ।
तत्र तावत्प्रथममेकदेशिमतेनाधिकरणमारचयति -
तैत्तिरीयकेऽन्नमयमित्यादि ।
'गौणप्रवाहपातेऽपि युज्यते मुख्यमीक्षणम् । मुख्यत्वे तूभयोस्तुल्ये प्रायदृष्टिर्विशेषिका” ॥ आनन्दमय इति हि विकारे प्राचुर्ये च मयटस्तुल्यं मुख्यार्थत्वमिति विकारार्थान्नमयादिपदप्रायपाठादानन्दमयपदमपि विकारार्थमेवेति युक्तम् । न च प्राणमयादिषु विकारार्थत्वायोगात्स्वार्थिको मयडिति युक्तम् । प्राणाद्युपाध्यवच्छिन्नो ह्यात्मा भवति प्राणादिविकाराः, घटाकाशमिव घटविकाराः । न च सत्यर्थे स्वार्थिकत्वमुचितम् । “चतुःकोशान्तरत्वे तु न सर्वान्तरतोच्यते । प्रियादिभागी शरीरो जीवो न ब्रह्म युज्यते” ॥ न च सर्वान्तरतया ब्रह्मैवानन्दमयं, न जीव इति साम्प्रतम् । नहीयं श्रुतिरानन्दमयस्य सर्वान्तरतां ब्रूते अपि त्वन्नमयादिकोशचतुष्टयान्तरतामानन्दमयकोशस्य । न चास्मादन्यस्यान्तरस्याश्रवणादयमेव सर्वान्तर इति युक्तम् । यदपेक्षं यस्यान्तरत्वं श्रुतं तत्तस्मादेवान्तरं भवति । नहि देवदत्तो बलवानित्युक्ते सर्वान्सिंहशार्दूलादीनपि प्रति बलवानप्रतीयतेऽपि तु समानजातीयनरान्तरमपेक्ष्य । एवमानन्दमयोऽप्यन्नमयादिभ्योऽन्तरो न तु सर्वस्मात् । न च निष्कलस्य ब्रह्मणः प्रियाद्यवयवयोगः, नापि शरीरत्वं युज्यत इति संसार्येवानन्दमयः । तस्मादुपहितमेवात्रोपास्यत्वेन विवक्षितं, न तु ब्रह्मरूपं ज्ञेयत्वेनेति पूर्वः पक्षः । अपि च यदि प्राचुर्यार्थोऽपि मयट् , तथापि संसार्येवानन्दमय; न तु ब्रह्म । आनन्दप्राचुर्य हि तद्विपरीतदुःखलवसम्भवे भवति न तु तदत्यन्तासम्भवे ।
न च परमात्मनो मनागपि दुःखलवसम्भवः, आनन्दैकरसत्वादित्याह -
न च सशरीरस्य सत इति ।
अशरीरस्य पुनरप्रियसम्बन्धो मनागपि नास्तीति प्राचुर्यार्थोऽपि मयड्नोपपद्यत इत्यर्थः ।
उच्यते ।
आनन्दमयावयवस्य तावद्ब्रह्मणः पुच्छस्याङ्गतया न प्राधान्यं, अपि त्वङ्गिन आनन्दमयस्यैव ब्रह्मणः प्राधान्यम् । तथाच तदधिकारे पठितमभ्यस्यमानमानन्दपदं तद्बुद्धिमाधत्त इति तस्यैवानन्दमयस्याभ्यास इति युक्तम् । ज्योतिष्टोमाधिकारे ‘वसन्ते वसन्ते ज्योतिषा यजेत’ इति ज्योतिःपदमिव ज्योतिष्टोमाभ्यासः कालविशेषविधिपरः । अपि च साक्षादानन्दमयात्माभ्यासः श्रूयते - “एतमानन्दमयमात्मानमुपसङ्क्रामति”(तै. उ. २ । ८ । ५) इति ।
पूर्वपक्षबीजमनुभाष्यं दूषयति -
यत्तूक्तमन्नमयादिति ।
न हि मुख्यारुन्धतीदर्शनं तत्तदमुख्यारुन्धतीदर्शनप्रायपठितमप्यमुख्यारुन्धतीदर्शनं भवति । तादर्थ्यात्पूर्वदर्शनानामन्त्यदर्शनानुगुण्यं न तु तद्विरोधितेति चेत् , इहाप्यानन्दमयादान्तरस्यान्यस्याश्रवणात् , तस्य त्वन्नमयादिसर्वान्तरत्वश्रुतेस्तत्पर्यवसानात्तादर्थ्यं तुल्यम् । प्रियाद्यवयवयोगशरीरत्वे च निगदव्याख्यातेन भाष्येण समाहिते । प्रियाद्यवयवयोगाच्च दुःखलवयोगेऽपि परमात्मन औपाधिक उपपादितः । तथाचानन्दमय इति प्राचुर्यार्थता मयट उपपादितेति ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥
अपि च मन्त्रब्राह्मणयोरुपेयोपायभूतयोः सम्प्रतिपत्तेर्ब्रह्मैवानन्दमयपदार्थः । मन्त्रे हि पुनः पुनः “अन्योऽन्तर आत्मा”(तै. उ. २ । ५ । १) इति परब्रह्मण्यान्तरत्वश्रवणात् , तस्यैव च “अन्योऽन्तर आत्मानन्दमयः” इति ब्राह्मणे प्रत्यभिज्ञानात् , परब्रह्मैवानन्दमयमित्याह सूत्रकारः -
मान्त्रवर्णिकमेव च गीयते ।
मान्त्रवर्णिकमेव परं ब्रह्म ब्राह्मणेऽप्यानन्दमय इति गीयत इति ॥ १५ ॥
अपि चानन्दमयं प्रकृत्य शरीराद्युत्पत्तेः प्राक्स्रष्टृत्वश्रवणात् , “बहु स्याम्”(छा. उ. ६ । २ । ३) इति च सृज्यमानानां स्रष्टुरानन्दमयादभेदश्रवणात् , आनन्दमयः पर एवेत्याह । सूत्रम् -
नेतरोऽनुपपत्तेः ।
नेतरो जीव आनन्दमयः, तस्यानुपपत्तेरिति ॥ १६ ॥
भेदव्यपदेशाच्च ।
रसः सारो ह्ययमानन्दमय आत्मा “रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति”(तै. उ. २ । ७ । १) इति । सोऽयं जीवात्मनो लब्धृभावः, आनन्दमयस्य च लभ्यता, नाभेद उपपद्यते । तस्मादानन्दमयस्य जीवात्मनो भेदे परब्रह्मत्वं सिद्धं भवति ।
चोदयति -
कथं तर्हीति ।
यदि लब्धा न लब्धव्यः, कथं तर्हि परमात्मनो वस्तुतोऽभिन्नेन जीवात्मना परमात्मा लभ्यत इत्यर्थः ।
परिहरति -
बाढम् ।
तथापीति ।
सत्यम् , परमार्थतोऽभेदेऽप्यविद्यारोपितं भेदमुपाश्रित्य लब्धृलब्धव्यभाव उपपद्यते । जीवो ह्यविद्यया परब्रह्मणो भिन्नो दर्शितः, न तु जीवादपि । तथा चानन्दमयश्चेज्जीवः, न जीवस्याविद्ययापि स्वतो भेदो दर्शित इति न लब्धृलब्धव्यभाव इत्यर्थः । भेदाभेदौ च न जीवपरब्रह्मणोरित्युक्तमधस्तात् ।
स्यादेतत् । यथा परमेश्वराद्भिन्नो जीवात्मा द्रष्टा न भवत्येवं जीवात्मनोऽपि द्रष्टुर्न भिन्नः परमेश्वर इति जीवस्यानिर्वाच्यत्वे परमेश्वरोऽप्यनिर्वाच्यः स्यात् । तथा च न वस्तुसन्नित्यत आह -
परमेश्वरस्त्वविद्याकल्पितादिति ।
रजतं हि समारोपितं न शुक्तितो भिद्यते । न हि तद्भेदेनाभेदेन वा शक्यं निर्वक्तुम् । शुक्तिस्तु परमार्थसती निर्वचनीया अनिर्वचनीयाद्रजताद्भिद्यत एव ।
अत्रैव सरूपमात्रं दृष्टान्तमाह -
यथा मायाविन इति ।
एतदपरितोषेणात्यन्तसरूपं दृष्टान्तमाह -
यथा वा घटाकाशादिति ।
शेषमतिरोहितार्थम् ॥ १७ ॥ ॥ १८ ॥
स्वमतपरिग्रहार्थमेकदेशिमतं दूषयति -
इदं त्विह वक्तव्यमिति ।
एष तावदुत्सर्गो यत् “ब्रह्म पुच्छं प्रतिष्ठेति ब्रह्मशब्दात्प्रतीयते । विशुद्धं ब्रह्म विकृतं त्वानन्दमयशब्दतः” ॥ तत्र किं पुच्छपदसमभिव्याहारात् अन्नमयादिषु चास्यावयवपरत्वेन प्रयोगात् , इहाप्यवयवपरत्वात्पुच्छपदस्य, तत्समानाधिकरणं ब्रह्मपदमपि स्वार्थत्यागेन कथञ्चिदवयवपरं व्याख्यायताम् । आनन्दमयपदं चान्नमयादिविकारवाचिप्रायपठितं विकारवाचि वा, कथञ्चित्प्रचुरानन्दवाचि वा, ब्रह्मण्यप्रसिद्धं कयाचिद्वृत्या ब्रह्मणि व्याख्यायताम् । आनन्दपदाभ्यासेन च ज्योतिःपदेनेव ज्योतिष्टोम आनन्दमयो लक्ष्यतां, उतानन्दमयपदं विकारार्थमस्तु, ब्रह्मपदं च ब्राह्मण्येव स्वार्थेऽस्तु, आनन्दपदाभ्यासश्च स्वार्थे, पुच्छपदमात्रमवयवप्रायलिखितमधिकरणपरतया व्याक्रियतामिति कृतबुद्धय एव विदाङ्कुर्वन्तु । तत्र “प्रायपाठपरित्यागो मुख्यत्रितयलङ्घनम् । पूर्वस्मिन्नुत्तरे पक्षे प्रायपाठस्य बाधनम्॥” पुच्छपदं हि वालधौ मुख्यं सदानन्दमयावयवे गौणमेवेति मुख्यशब्दार्थलङ्घनमवयवपरतायामधिकरणपरतायां च तुल्यम् । अवयवप्रायलेखबाधश्च विकारप्रायलेखबाधेन तुल्यः । ब्रह्मपदमानन्दमयपदमानन्दपदमिति त्रितयलङ्घनं त्वधिकम् । तस्मान्मुख्यत्रितयलङ्घनादसाधीयान्पूर्वः पक्षः । मुख्यत्रयानुगुण्येन तूत्तर एव पक्षो युक्तः । अपि चानन्दमयपदस्य ब्रह्मार्थत्वे, “ब्रह्म पुच्छम्”(तै. उ. २ । ५ । १) इति न समञ्जसम् । न हि तदेवावयव्यवयवश्चेति युक्तम् । आधारपरत्वे च पुच्छशब्दस्य, प्रतिष्ठेत्येतदप्युपपन्नतरं भवति । आनन्दमयस्य चान्तरत्वमन्नमयादिकोशापेक्षया । ब्रह्मणस्त्वान्तरत्वमानन्दमयादर्थाद्गम्यत इति न श्रुत्योक्तम् । एवं चान्नमयादिवदानन्दमयस्य प्रियाद्यवयवयोगो युक्तः । वाङ्मनसागोचरे तु परब्रह्मण्युपाधिमन्तर्भाव्य प्रियाद्यवयवयोगः, प्राचुर्यं च, क्लेशेन व्याख्यायेयाताम् । तथा च मान्त्रवर्णिकस्य ब्रह्मण एव “ब्रह्म पुच्छं प्रतिष्ठा”(तै. उ. २ । ५ । १) इति स्वप्रधानस्याभिधानात् , तस्यैवाधिकारो नानन्दमयस्येति । “सोऽकामयत”(तै. उ. २ । ६ । १) इत्याद्या अपि श्रुतयो ब्रह्मविषया न आनन्दमयविषया इत्यर्थसङ्क्षेपः । सुगममन्यत् ।
सूत्राणि त्वेवं व्याख्येयानीति ।
वेदसूत्रयोर्विरोधे “गुणे त्वन्याय्यकल्पना” इति सूत्राण्यन्यथा नेतव्यानि । आनन्दमयशब्देन तद्वाक्यस्य “ब्रह्म पुच्छं प्रतिष्ठा”(तै. उ. २ । ५ । १)“ब्रह्म पुच्छं प्रतिष्ठा”(तै. उ. २ । ५ । १) इत्येतद्गतं ब्रह्मपदमुपलक्ष्यते । एतदुक्तं भवति - आनन्दमय इत्यादिवाक्ये यत् “ब्रह्म पुच्छं प्रतिष्ठा” इति ब्रह्मपदं तत्स्वप्रधानमेवेति । यत्तु ब्रह्माधिकरणमिति वक्तव्ये “ब्रह्म पुच्छम्”(तै. उ. २ । ५ । १) इत्याह श्रुतिः, तत्कस्य हेतोः, पूर्वमवयवप्रधानप्रयोगात्तत्प्रयोगस्यैव बुद्धौ संनिधानात्तेनापि चाधिकरणलक्षणोपपत्तेरिति ।
मान्त्रवर्णिकमेव च गीयते ॥ १५ ॥
यत् “सत्यं ज्ञानम्”(तै. उ. २ । १ । १) इत्यादिना मन्त्रवर्णेन ब्रह्मोक्तं तदेवोपायभूतेन ब्राह्मणेन स्वप्रधान्येन गीयते “ब्रह्म पुच्छं प्रतिष्ठा”(तै. उ. २ । ५ । १) इति । अवयववचनत्वे त्वस्य मन्त्रे प्राधान्यं, ब्राह्मणे त्वप्राधान्यमित्युपायोपेययोर्मन्त्रब्राह्मणयोर्विप्रतिपत्तिः स्यादिति ।
नेतरोऽनुपपत्तेः ॥ १६ ॥
अत्र ‘इतश्चानन्दमयः’ इति भाष्यस्य स्थाने ‘इतश्च ब्रह्म पुच्छं प्रतिष्ठा’ इति पठितव्यम् ।
भेदव्यपदेशाच्च ॥ १७ ॥
अत्रापि “इतश्चानन्दमयः” इत्यस्य च ‘आनन्दमयाधिकारे’ इत्यस्य च भाष्यस्य स्थाने ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति ‘ब्रह्मपुच्छाधिकारे’ इति च पठितव्यम् ।
कामाच्च नानुमानापेक्षा ॥ १८ ॥
अस्मिन्नस्य च तद्योगं शास्ति ।। १९ ।।
इत्यनयोरपि सूत्रयोर्भाष्ये आनन्दमयस्थाने ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति पाठो द्रष्टव्यः ।
तद्धेतु व्यपदेशाच्च ।। १४ ।।
विकारस्यानन्दमयस्य ब्रह्म पुच्छमवयवश्चेत्कथं सर्वस्यास्य विकारजातस्य सानन्दमयस्य ब्रह्म पुच्छं कारणमुच्येत “इदं सर्वमसृजत । यदिदं किञ्च”(तै. उ. २ । ६ । १) इति श्रुत्या । नह्यानन्दमयविकारावयवो ब्रह्म विकारः सन् सर्वस्य कारणमुपपद्यते । तस्मादानन्दमयविकारावयवो ब्रह्मेति तदवयवयोग्यानन्दमयो विकार इह नोपास्यत्वेन विवक्षितः, किन्तु स्वप्रधानमिह ब्रह्म पुच्छं ज्ञेयत्वेनेति सिद्धम् ॥ १९ ॥
अन्तस्तद्धर्मोपदेशात् ।
पूर्वस्मिन्नधिकरणेऽपास्तसमस्तविशेषब्रह्मप्रतिपत्त्यर्थमुपायतामात्रेण पञ्च कोशा उपाधयः स्थिताः, नतु विवक्षिताः । ब्रह्मैव तु प्रधानं “ब्रह्म पुच्छं प्रतिष्ठा” इति ज्ञेयत्वेनोपक्षिप्तमिति निर्णीतम् । सम्प्रति तु ब्रह्म विवक्षितोपाधिभेदमुपास्यत्वेनोपक्षिप्यते, नतु विद्याकर्मातिशयलब्धोत्कर्षो जीवात्मादित्यपदवेदनीय इति निर्णीयते । तत् “मर्यादाधाररूपाणि संसारिणि परे न तु । तस्मादुपास्यः संसारी कर्मानधिकृतो रविः” ॥ “हिरण्यश्मश्रुः”(छा. उ. १ । ६ । ६) इत्यादिरूपश्रवणात् , “य एषोऽन्तरादित्ये”(छा. उ. १ । ६ । ६), “य एषोऽन्तरक्षिणी”(छा. उ. १ । ७ । ५) इति चाधारभेदश्रवणात् , “ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च” इत्यैश्वर्यमर्यादाश्रुतेश्च संसार्येव कार्यकारणसङ्घातात्मको रूपादिसम्पन्न इहोपास्यः, नतु परमात्मा “अशब्दमस्पर्शम्”(क. उ. १ । ३ । १५) इत्यादिश्रुतिभिः अपास्तसमस्तरूपश्च, “स्वे महिम्नि”(छा. उ. ७ । २४ । १) इत्यादिश्रुतिभिरपाकृताधारश्च, “एष सर्वेश्वरः”(बृ. उ. ४ । ४ । २२) इत्यादिश्रुतिभिरधिगतनिर्मर्यादैश्वर्यश्च शक्य उपास्यत्वेनेह प्रतिपत्तुम् । सर्वपाप्मविरहश्चादित्यपुरुषे सम्भवति, शास्त्रस्य मनुष्याधिकारतया देवतायाः पुण्यपापयोरनधिकारात् । रूपादिमत्त्वान्यथानुपपत्त्या च कार्यकारणात्मके जीवे उपास्यत्वेन विवक्षिते यत्तावदृगाद्यात्मकतयास्य सर्वात्मकत्वं श्रूयते तत्कथञ्चिदादित्यपुरुषस्यैव स्तुतिरिति आदित्यपुरुष एवोपास्यो न परमात्मेत्येवं प्राप्तम् । अनाधारत्वे च नित्यत्वं सर्वगतत्वं च हेतुः । अनित्यं हि कार्यं कारणाधारमिति नानाधारं, नित्यमप्यसर्वगतं च यत्तस्मादधरभावेनास्थितं तदेव तस्योत्तरस्याधार इति नानाधारं, तस्मादुभयमुक्तम् । एवं प्राप्तेऽभिधीयते “अन्तस्तद्धर्मोपदेशात्” । “सार्वात्म्यसर्वदुरितविरहाभ्यामिहोच्यते । ब्रह्मैवाव्यभिचारिभ्यां सर्वहेतुर्विकारवत्” ॥ नामनिरुक्तेन हि सर्वपाप्मापादानतयस्योदय उच्यते । न चादित्यस्य देवतायाः कर्मानधिकारेऽपि सर्वपाप्मविरहः प्राग्भवीयधर्माधर्मरूपपाप्मसम्भवे सति । न चैतेषां प्राग्भवीयो धर्म एवास्ति न पाप्मेति साम्प्रतम् । विद्याकर्मातिशयसमुदाचारेऽप्यनादिभवपरम्परोपार्जितानां पाप्मनामपि प्रसुप्तानां सम्भवात् । नच श्रुतिप्रामाण्यादादित्यशरीराभिमानिनः सर्वपाप्मविरह इति युक्तं, ब्रह्मविषयत्वेनाप्यस्याः प्रामाण्योपपत्तेः । नच विनिगमनाहेत्वभावः, तत्र तत्र सर्वपाप्मविरहस्य भूयोभूयो ब्रह्मण्येव श्रवणात् । तस्यैव चेह प्रत्यभिज्ञायमानस्य विनिगमनाहेतोर्विद्यमानत्वात् । अपिच सार्वात्म्यं जगत्कारणस्य ब्रह्मण एवोपपद्यते, कारणादभेदात्कार्यजातस्य, ब्रह्मणश्च जगत्कारणत्वात् । आदित्यशरीराभिमानिनस्तु जीवात्मनो न जगत्कारणत्वम् । नच मुख्यार्थसम्भवे प्राशस्त्यलक्षणया स्तुत्यर्थता युक्ता । रूपवत्त्वं चास्य परानुग्रहाय कायनिर्माणेन वा, तद्विकारतया वा सर्वस्य कार्यजातस्य, विकारस्य च विकारवतोऽनन्यत्वात्तादृशरूपभेदेनोपदिश्यते, यथा “सर्वगन्धः सर्वरसः”(छा. उ. ३ । १४ । २) इति । नच ब्रह्मनिर्मितं मायारूपमनुवदच्छास्त्रमशास्त्रं भवति, अपितु तां कुर्वत् इति नाशास्त्रत्वप्रसङ्गः । यत्र तु ब्रह्म निरस्तसमस्तोपाधिभेदं ज्ञेयत्वेनोपक्षिप्यते, तत्र शास्त्रम् “अशब्दमस्पर्शमरूपमव्ययम्”(क. उ. १ । ३ । १५) इति प्रवर्तते । तस्माद्रूपवत्त्वमपि परमात्मन्युपपद्यते । एतेनैव मर्यादाधारभेदावपि व्याख्यातौ । अपि चादित्यदेहाभिमानिनः संसारिणोऽन्तर्यामी भेदेनोक्तः, स एवान्तरादित्य इत्यन्तःश्रुतिसाम्येन प्रत्यभिज्ञायमानो भवितुमर्हति ।
तस्मात्ते धनसनय इति ।
धनवन्तो विभूतिमन्त इति यावत् ।
कस्मात्पुनर्विभूतिमत्त्वं परमेश्वरपरिग्रहे घटत इत्यत आह -
यद्यद्विभूतिमदिति ।
सर्वात्मकत्वेऽपि विभूतिमत्स्वेव परमेश्वरस्वरूपाभिव्यक्तिः, न त्वविद्यातमःपिहितपरमेश्वरस्वरूपेष्वविभूतिमत्स्वित्यर्थः ।
लोककामेशितृत्वमपीति ।
अतोऽत्यन्तापारार्थ्यन्यायेन निराङ्कुशमैश्वर्यमित्यर्थः ॥ २० ॥ ॥ २१ ॥
आकाशस्तल्लिङ्गात् ।
पूर्वस्मिन्नधिकरणे ब्रह्मणोऽसाधारणधर्मदर्शनाद्विवक्षितोपाधिनोऽस्यैवोपासना, न त्वादित्यशरीराभिमानिनो जीवात्मन इति निरूपितम् । इदानीं त्वसाधारणधर्मदर्शनात्तदेवोद्गीथे सम्पाद्योपास्यत्वेनोपदिश्यते, न भूताकाश इति निरूप्यते । तत्र “आकाश इति होवाच” इति किं मुख्याकाशपादानुरोधेन “अस्य लोकस्य का गतिः”(छा. उ. १ । ९ । १) इति, “सर्वाणि ह वा इमानि भूतानि” इति “ज्यायान्” इति च “परायणम्” इति च कथञ्चिद्व्याख्यायतां, उतैतदनुरोधेनाकाशशब्दो भक्त्या परात्माने व्याख्यायतामिति । तत्र “प्रथमत्वात्प्रधानत्वादाकाशं मुख्यमेव नः । तदानुगुण्येनान्यानि व्याख्येयानीति निश्चयः” ॥ “अस्य लोकस्य का गतिः” इति प्रश्नोत्तरे “आकाश इति होवाच” इत्याकाशस्य गतित्वेन प्रतिपाद्यतया प्राधान्यात् , “सर्वाणि ह वा” इत्यादीनां तु तद्विशेषणतया गुणत्वात् , “गुणे त्वन्याय्यकल्पना” इति बहून्यप्यप्रधानानि प्रधानानुरोधेन नेतव्यानि । अपिच “आकाश इति होवाच” इत्युत्तरे प्रथमावगतमाकाशमनुपजातविरोधि, तेन तदनुरक्तायां बुद्धौ यद्यदेव तदेकवाक्यगतमुपनिपतति तत्तज्जघन्यतया उपसञ्जातविरोधि तदानुगुण्येनैव व्यवस्थानमर्हति । नच क्कचिदाकाशशब्दो भक्त्या ब्रह्मणि प्रयुक्त इति सर्वत्र तेन तत्परेण भवितव्यम् । नहि गङ्गायां घोष इत्यत्र गङ्गपदमनुपपत्त्या तीरपरमिति यादांसि गङ्गायामित्यत्राप्यनेन तत्परेण भवितव्यम् । सम्भवश्चोभयत्र तुल्यः । नच ब्रह्मण्यप्याकाशशब्दो मुख्यः, अनैकार्थत्वस्यान्याय्यत्वात् , भक्त्या च ब्रह्मणि प्रयोगदर्शनोपपत्तेः । लोके चास्य नभसि निरूढत्वात् , तत्पूर्वकत्वाच्च वैदिकार्थप्रतीतेर्वैपरीत्यानुपपत्तेः । तदानुगुण्येन च “सर्वाणि ह वा” इत्यादीनि भाष्यकृता स्वयमेव नीतानि । तस्माद्भूताकाशमेवात्रोपास्यत्वेनोपदिश्यते, न परमात्मेति प्राप्तम् ।
एवं प्राप्तेऽभिधीयते -
आकाशशब्देन ब्रह्मणो ग्रहणम् ।
कुतः,
तल्लिङ्गात् ।
तथाहि - “सामानधिकरण्येन प्रश्नतत्प्रतिवाक्ययोः । पौर्वापर्यपरामर्शात्प्रधानत्वेऽपि गौणता” ॥ यद्यप्याकाशपदं प्रधानार्थं तथापि यत्पृष्टं तदेव प्रतिवक्तव्यम् । न खल्वनुन्मत्त आम्रान्पृष्टः कोविदारानाचष्टे । तदिह, “अस्य लोकस्य का गतिः” इति प्रश्नो दृश्यमाननामरूपप्रपञ्चमात्रगतिविषय इति तदनुरोधाद्य एव सर्वस्य लोकस्य गतिः स एवाकाशशब्देन प्रतिवक्तव्यः । नच भूताकाशः सर्वस्य लोकस्य गतिः, तस्यापि लोकमध्यपातित्वात् । तदेव तस्य गतिरित्यनुपपत्तेः । न चोत्तरे भूताकाशश्रवणाद्भूताकाशकार्यमेव पृष्टमिति युक्तं, प्रश्नस्य प्रथमावगतस्यानुपजातविरोधिनो लोकसामान्यविषयस्योपजातविरोधिनोत्तरेण सङ्कोचानुपपत्तेस्तदनुरोधेनोत्तरव्याख्यानात् । नच प्रश्नेन पूर्वपक्षरूपेणानवस्थितार्थेनोत्तरं व्यवस्थितार्थं न शक्यं नियन्तुमिति युक्तं, तन्निमित्तानामज्ञानसंशयविपरर्यासानामनवस्थानेऽपि तस्य स्वविषये व्यवस्थानात् । अन्यथोत्तरस्यानालम्बनत्वात्तेर्वैयधिकरण्यापत्तेर्वा । अपि चोत्तरेऽपि बह्वसमञ्जसम् । तथाहि - “सर्वाणि ह वा इमानि भूतान्यकाशादेव समुत्पद्यन्ते” इति सर्वशब्दः कथञ्चिदल्पविषयो व्याख्येयः । एवमेवकारोऽप्यसमञ्जसः । न खल्वपामाकाश एव कारणमपि तु तेजोऽपि । एवमन्नस्यापि नाकाशमेव कारणमपि तु पावकपाथसी अपि । मूलकारणविवक्षायां तु ब्रह्मण्येवावधारणं समञ्जसम् । असमञ्जसं तु भूताकाशे । एवं सर्वेषां भूतानां लयो ब्रह्मण्येव । एवं सर्वेभ्यो ज्यायस्त्वं ब्रह्मण एव । एवं परमयनं ब्रह्मैव । तस्मात्सर्वेषां लोकानामिति प्रश्नेनोपक्रमात् , उत्तरे च तत्तदसाधारणब्रह्मगुणपरामर्शात्पृष्टायाश्च गतेः परमयनमित्यसाधारणब्रह्मगुणोपसंहारात् , भूयसीनां श्रुतीनामनुग्रहाय “त्यजेदेकं कुलस्यार्थे” इतिवद्वरमाकाशपदमात्रमसमञ्जसमस्तु । एतावता हि बहु समञ्जसं स्यात् । न चाकाशस्य प्राधान्यमुत्तरे, किन्तु पृष्टार्थत्वादुत्तरस्य, लोकसामान्यगतेश्च पृष्टत्वात् , “परायणम्” इति च तस्यैवोपसंहाराद्ब्रह्मैव प्रधानम् । तथाच तदर्थं सत् आकाशपदं प्रधानार्थं भवति, नान्यथा । तस्माद्ब्रह्मैव प्रधानमाकाशपदेनेहोपास्यत्वेनोपक्षिप्तं, न भूताकाशमिति सिद्धम् ।
अपि च ।
अस्यैवोपक्रमे “अन्तवत्किल ते साम” इति
अन्तवत्त्वदोषेण शालावत्यस्येति ।
न चाकाशशब्दो गौणोऽपि विलम्बितप्रतिपत्तिः, तत्र तत्र ब्रह्मण्याकाशशब्दस्य तत्पर्यायस्य च प्रयोगप्राचुर्यादत्यन्ताभ्यासेनास्यापि मुख्यवत्प्रतिपत्तेरविलम्बनादिति दर्शनार्थं ब्रह्मणि प्रयोगप्राचुर्यं वैदिकं निदर्शितं भाष्यकृता । तत्रैव च प्रथमावगतानुगुण्येनोत्तरं नीयते, यत्र तदन्यथा कर्तुं शक्यम् । यत्र तु न शक्यं तत्रोत्तरानुगुण्येनैव प्रथमं नीयत इत्याह -
वाक्योपक्रमेऽपीति ॥ २२ ॥
अत एव प्राणः ।
उद्गीथे “या देवता प्रस्तावमन्वायत्ता”(छा. उ. १ । १० । ९) इत्युपक्रम्य श्रूयते - “कतमा सा देवतेति प्राण इति होवाच”(छा. उ. १ । ११ । ४) उषस्तिश्चाक्रायणः । उद्गीथोपासनप्रसङ्गेन प्रस्तावोपासनमप्युद्गीथ इत्युक्तं भाष्यकृता । प्रस्ताव इति साम्नो भक्तिविशेषस्तमन्वायत्ता अनुगता प्राणो देवता । अत्र प्राणशब्दस्य ब्रह्मणि वायुविकारे च दर्शनात्संशयःकिमयं ब्रह्मवचन उत वायुविकारवचन इति । तत्र अत एव ब्रह्मलिङ्गादेव प्राणोऽपि ब्रह्मैव न वायुविकार इति युक्तम् । यद्येवं तेनैव गतार्थमेतदिति कोऽधिकरणान्तरस्यारम्भार्थः । तत्रोच्यते - “अर्थे श्रुत्यैकगम्ये हि श्रुतिमेवाद्रियामहे । मानान्तरावगम्ये तु तद्वशात्तद्व्यवस्थितिः” ॥ ब्रह्मणो वासर्वभूतकारणत्वं, आकाशस्य वा वाय्वादिभूतकारणत्वं प्रति नागमादृते मानान्तरं प्रभवति । तत्र पौर्वापर्यपर्यालोचनया यत्रार्थे समञ्जस आगमः स एवार्थस्तस्य गृह्यते, त्यज्यते चेतरः । इह तु संवेशनोद्गमने भूतानां प्राणं प्रत्युच्यमाने किं ब्रह्म प्रत्युच्येते आहो वायुविकारं प्रतीति विशये “यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति”(श. ब्रा. १० । ३ । ३ । ६) इत्यादिकायाः श्रुतेः सर्वभूतसारेन्द्रियसंवेशनोद्गमनप्रतिपादनद्वारा सर्वभूतसंवेशनोद्गमनप्रतिपादिकाया मानान्तरानुग्रहलब्धसामर्थ्याया बलात्संवेशनोद्गमने वायुविकारस्यैव प्राणस्य, न ब्रह्मणः । अपि चात्रोद्गीथप्रतिहारयोः सामभक्त्योर्ब्रह्मणोऽन्ये आदित्यश्चान्नं च देवते अभिहिते कार्यकारणसङ्घातरूपे, तत्साहचर्यात्प्राणोऽपि कार्यकारणसङ्घातरूप एव देवता भवितुमर्हति । निरस्तोऽप्ययमर्थ ईक्षत्यधिकरणे, पूर्वोक्तपूर्वपक्षहेतूपोद्बलनाय पुनरुपन्यस्तः । तस्माद्वायुविकार एवात्र प्राणशब्दार्थ इति प्राप्तम् । एवं प्राप्तेऽभिधीयते “पुंवाक्यस्य बलीयस्त्वं मानान्तरसमागमात् । अपौरुषेये वाक्ये तत्सङ्गतिः किं करिष्यति” ॥ नो खलु स्वतःसिद्धप्रमाणभावमपौरुषेयं वचः स्वविषयज्ञानोत्पादे वा तद्व्यवहारे वा मानान्तरमपेक्षते, तस्यापौरुषेयस्य निरस्तसमस्तदोषाशङ्कस्य स्वत एव निश्चायकत्वात् , निश्चयपूर्वकत्वाद्व्यवहारप्रवृत्तेः । तस्मादसंवादिनो वा चक्षुष इव रूपे त्वगिन्द्रियसंवादिनो वा तस्यैव द्रव्ये नादार्ढ्यं वा दार्ढ्यं वा । तेन स्तामिन्द्रियमात्रसंवेशनोद्गमने वायुविकारे प्राणे । सर्वभूतसंवेशनोद्गमने तु न ततो वाक्यात्प्रतीयेते । प्रतीतौ वा तत्रापि प्राणो ब्रह्मैव भवेन्न वायुविकारः । “यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति”(कौ. उ. ३ । ३) इत्यत्र वाक्ये यथा प्राणशब्दो ब्रह्मवचनः । न चास्मिन्वायुविकारे सर्वेषां भूतानां संवेशनोद्गमने मानान्तरेण दृश्येते । नच मानान्तरसिद्धसंवादेन्द्रियसंवेशनोद्गमनवाक्यदार्ढ्यात्सर्वभूतसंवेशनोद्गमनवाक्यं कथञ्चिदिन्द्रिविषयतया व्याख्यानमर्हति, स्वतःसिद्धप्रमाणभावस्य स्वभावदृढस्य मानान्तरानुपयोगात् । न चास्य तेनैकवाक्यता । एकवाक्यतायां च तदपि ब्रह्मपरमेव स्यादित्युक्तम् । इन्द्रियसंवेशनोद्गमनं त्ववयुत्यानुवादेनापि घटिष्यते, एकं वृणीते द्वौ वृणीते इतिवत् । नतु सर्वशब्दार्थः सङ्कोचमर्हति । तस्मात्प्रस्तावभक्तिं प्राणशब्दाभिधेयब्रह्मदृष्ट्योपासीत , न वायुविकारदृष्ट्येति सिद्धम् । तथा चोपासकस्य प्राणप्राप्तिः कर्मसमृद्धिर्वा फलं भवतीति ।
वाक्यशेषबलेनेति ।
वाक्यात्संनिधानं दुर्बलमित्यर्थः । उदाहरणान्तरं तु निगदव्याख्यातेन भाष्येण दूषितम् ॥ २३ ॥
ज्योतिश्चरणाभिधानात् ।
इदमामनन्ति - “अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतःपृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिः”(छा. उ. ३ । १३ । ७) इति ।
यज्ज्योतिरतो दिवो द्युलोकात्परं दीप्यते प्रकाशते विश्वतःपृष्ठेषु विश्वेषामुपरि । असङ्कुचद्वृत्तिरयं विश्वशब्दोऽनवयवत्वेन संसारमण्डलं ब्रूत इति दर्शयितुमाह -
सर्वतःपृष्ठेषूत्तमेषु ।
न चेदमुत्तममात्रमपितु सर्वोत्तममित्याह -
अनुत्तमेषु
नास्त्येभ्योऽन्य उत्तम इत्यर्थः । “इदं वाव तद्यदिदमस्मिन्पुरुषेऽन्तर्ज्योतिः”(छा. उ. ३ । १३ । ७) त्वग्राह्येण शारीरेणोष्मणा, श्रोत्रग्राह्येण च पिहितकर्णेन पुंसा घोषेण लिङ्गेनानुमीयते । तत्र शारीरस्योष्मणस्त्वचा दर्शनं दृष्टिः, घोषस्य च श्रवणं श्रुतिः, तयोश्च दृष्टिश्रुती ज्योतिष एव, तल्लिङ्गेन तदनुमानादिति । अत्र संशयः - किं ज्योतिःशब्दः तेज उत ब्रह्मेति । किं तावत्प्राप्तं, तेज इति । कुतः, गौणमुख्यग्रहणविषये मुख्यग्रहणस्य “औत्सर्गिकत्वाद्वाक्यस्थतेजोलिङ्गोपलम्भनात् । वाक्यान्तरेणानियमात्तदर्थाप्रतिसन्धितः” ॥ बलवद्बाधकोपनिपातेन खल्वाकाशप्राणशब्दौ मुख्यार्थत्वात्प्रच्याव्यान्यत्र प्रतिष्ठापितौ । तदिह ज्योतिष्पदस्य मुख्यतेजोवचनत्वे बाधकस्तावत्स्ववाक्यशेषो नास्ति । प्रत्युत तेजोलिङ्गमेव “दीप्यते” इति । कोक्षेयज्योतिःसारूप्यं च चक्षुष्यो रूपवान् श्रुतो विश्रुतो भवतीत्यल्पफलत्वं च स्ववाक्ये श्रूयते । न जातु ज्वलनापरनामा दीप्तिर्विना तेजो ब्रह्मणि सम्भवति । न च कौक्षेयज्योतिःसारूप्यमृते बाह्यात्तोजसो ब्रह्मण्यस्ति । न चौष्ण्यघोषलिङ्गदर्शनश्रवणमौदर्यात्तेजसोऽन्यत्र ब्रह्मण्युपपद्यते । नच महाफलं ब्रह्मोपासनमणीयसे फलाय कल्पते । औदर्ये तु तेजस्यध्यस्य बाह्यं तेज उपासनमेतत्फलानुरूपं युज्यते । तदेतत्तेजोलिङ्गम् । एतदुपोद्बलनाय च निरस्तमपि मर्यादाधारबहुत्वमुपन्यस्तं, इह तन्निरासकारणाभावात् । नच मर्यादावत्त्वं तेजोराशेर्न सम्भवति, तस्य सौर्यादेः सावयवत्वेन तदेकदेशमर्यादासम्भवात्तस्य चोपास्यत्वेन विधानात् , ब्रह्मणस्त्वनवयवस्यावयवोपासनानुपपत्तेः, अवयवकल्पनायाश्च सत्यां गतावनवकल्पनात् । नच “पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि”(छा. उ. ३ । १२ । ६) इति ब्रह्मप्रतिपादकं वाक्यान्तरं, “यदतः परो दिवो ज्योतिः”(छा. उ. ३ । १३ । ७) शब्दं ब्रह्मणि व्यवस्थापयतीति युक्तम् । नहि संनिधानमात्राद्वाक्यान्तरेण वाक्यान्तरगता श्रुतिः शक्या मुख्यार्थाच्च्यावयितुम् । नच वाक्यान्तरेऽधिकरणत्वेन द्यौः श्रुता दिव इति मर्यादाश्रुतौ शक्या प्रत्यभिज्ञातुम् । अपिच वाक्यान्तरस्यापि ब्रह्मार्थत्वं प्रसाध्यमेव नाद्यापि सिध्यति, तत्कथं तेन नियन्तुं ब्रह्मपरतया “यदतः परः” इति वाक्यं शक्यम् । तस्मात्तेज एव ज्योतिर्न ब्रह्मेति प्राप्तम् । तेजःकथनप्रस्तावे तमःकथनं प्रतिपक्षोपन्यासेन प्रतिपक्षान्तरे दृढा प्रतीतिर्भवतीत्येतदर्थम् ।
चक्षुर्वृत्तेर्निरोधकमिति ।
अर्थावरकत्वेन ।
आक्षेप्ताह -
ननु कार्यस्यापीति ।
समाधातैकदेशी ब्रूते -
अस्तु तर्हीति ।
यत्तु तेजोऽबन्नाभ्यामसम्पृक्तं तदत्रिवृत्कृतमुच्यते ।
आक्षेप्ता दूषयति -
नेति ।
नहि तत्क्वचिदप्युपयुज्यते; सर्वास्वर्थक्रियासु त्रिवत्कृतस्यैवोपयोगादित्यर्थः ।
एकदेशिनः शङ्कामाह -
इदमेवेति ।
आक्षेप्ता निराकरोति -
न ।
प्रयोजनान्तरेति ।
'एकैकां त्रिवृतं त्रिवृतं करवाणि” इति तेजःप्रभृत्युपासनामात्रविषया श्रुतिर्न सङ्कोचयितुं युक्तेत्यर्थः ।
एवमेकदेशिनि दूषिते परमसमाधाता पूर्वपक्षी ब्रूते -
अस्तु तर्हि त्रिवृत्कृतमेवेति ।
भागिनी युक्ता ।
यद्यप्याधारबहुत्वश्रुतिर्ब्रह्मण्यपि कल्पितोपाधिनिबन्धना कथञ्चिदुपपद्यते, तथापि यथा कार्ये ज्योतिष्यतिशयेनोपपद्यते न तथात्रेत्यत उक्तम् -
उपपद्येततरामिति ।
प्राकृतं
प्रकृतेर्जातं, कार्यमिति यावत् । एवं प्राप्त उच्यते - “सर्वनामप्रसिद्धार्थं प्रसाध्यार्थविघातकृत् । प्रसिद्ध्यपेक्षि सत्पूर्ववाक्यस्थमपकर्षति ॥ तद्बलात्तेन नेयानि तेजोलिङ्गान्यपि ध्रुवम् । ब्रह्मण्येव प्रधानं हि ब्रह्मच्छन्दो न तत्र तु” ॥ औत्सर्गिकं तावद्यदप्रसिद्धार्थानुवादकत्वं यद्विधिविभक्तिमप्यपूर्वार्थावबोधनस्वभावात्प्रच्यावयति । यथा “यस्याहिताग्नेरग्निर्गृहान्दहेत्” “यस्योभयं हविरार्तिमार्च्छेत्”(तै.ब्रा. ३.७.१) इति । यत्र पुनस्तत्प्रसिद्धमन्यतो न कथञ्चिदाप्यते, तत्र वचनानि त्वपूर्वत्वादिति सर्वनाम्नः प्रसिद्धार्थत्वं बलादपनीयते । यथा “यदाग्नेयोऽष्टाकपालो भवति”(तै.ब्रा. २५.१४.४) इति । तदिह “यदतः परो दिवो ज्योतिः”(छा. उ. ३ । १३ । ७) इति यच्छब्दसामर्थ्यात् द्युमर्यादेनापि ज्योतिषा प्रसिद्धेन भवितव्यम् । नच तस्य प्रमाणान्तरतः प्रसिद्धिरस्ति । पूर्ववाक्ये च द्युसम्बन्धितया त्रिपाद्ब्रह्म प्रसिद्धमिति प्रसिद्ध्यपेक्षायां तदेव सम्बध्यते । नच प्रधानस्य प्रातिपदिकार्थस्य तत्त्वेन प्रत्यभिज्ञाने तद्विशेषणस्य विभक्त्यर्थस्यान्यतामात्रेणान्यता युक्ता । एवं च तद्वाक्यस्थानि तेजोलिङ्गान्यसमञ्जसानीति ब्रह्मण्येव गमयितव्यानि, गमितानि च भाष्यकृता । तत्र ज्योतिर्ब्रह्मविकार इति ज्योतिषा ब्रह्मैवोपलक्ष्यते । अथवा प्रकाशमात्रवचनो ज्योतिःशब्दः प्रकाशश्च ब्रह्मेति ब्रह्मणि मुख्य इति ज्योतिर्बह्मेति सिद्धम् ।
प्रकृतहानाप्रकृतप्रक्रिये इति ।
प्रसिद्ध्यपेक्षायां पूर्ववाक्यगतं प्रकृतं संनिहितं, अप्रसिद्धं तु कल्प्यं न प्रकृतम् ।
अत एवोक्तम् -
कल्पयत इति ।
सन्दंशन्यायमाह -
न केवलमिति ।
परस्यापि ब्रह्मणो नामादिप्रतीकत्ववदिति ।
कौक्षेयं हि ज्योतिर्जीवभावेनानुप्रविष्टस्य परमात्मनो विकारः, जीवाभावे देहस्य शैत्यात् , जीवतश्चौष्ण्याज्ज्ञायते । तस्मात्तत्प्रतीकस्योपासनमुपपन्नम् । शेषं निगदव्याख्यातं भाष्यम् ॥ २४ ॥
छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् ।
पूर्ववाक्यस्य हि ब्रह्मार्थत्वे सिद्धे स्यादेतदेवं, नतु तद्ब्रह्मार्थं, अपितु गायत्र्यर्थम् । “गायत्री वा इदं सर्वं भूतं यदिदं किञ्च”(छा. उ. ३ । १२ । १) इति गायत्रीं प्रकृत्येदं श्रूयते - “त्रिपादस्यामृतं दिवि”(छा. उ. ३ । १२ । ६) इति । ननु “आकाशस्तल्लिङ्गात्”(ब्र. सू. १ । १ । २२) इत्यनेनैव गतार्थमेतत् । तथाहि - “तावानस्य महिमा”(छा. उ. ३ । १२ । ६) इत्यस्यामृचि ब्रह्म चतुष्पादुक्तम् । सैव च “तदेतदृचाभ्यनूक्तम्”(छा. उ. ३ । १२ । ५) इत्यनेन सङ्गमितार्था ब्रह्मलिङ्गम् । एवं “गायत्री वा इदं सर्वम्”(छा. उ. ३ । १२ । १) इत्यक्षरसंनिवेशमात्रस्य गायत्र्या न सर्वत्वमुपपद्यते । नच भूतपृथिवीशरीरहृदयवाक्प्राणात्मत्वं गायत्र्याः स्वरूपेण सम्भवति । नच ब्रह्मपुरुषसम्बन्धित्वमस्ति गायत्र्याः । तस्माद्गायत्रीद्वारा ब्रह्मण एवोपासना न गायत्र्या इति पूर्वेणैव गतार्थत्वादनारम्भणीयमेतत् । नच पूर्वन्यायस्मारणे सूत्रसन्दर्भ एतावान्युक्तः । अत्रोच्यते - अस्त्यधिका शङ्का । तथाहिगायत्रीद्वारा ब्रह्मोपासनेति कोऽर्थः, गायत्रीविकारोपाधिनो ब्रह्मण उपासनेति । नच तदुपाधिनस्तदवच्छिन्नस्य सर्वात्मत्वं, उपाधेरवच्छेदात् । नहि घटावच्छिन्नं नभोऽनवच्छिन्नं भवति । तस्मादस्य सर्वात्मत्वादिकं स्तुत्यर्थं, तद्वरं गायत्र्या एवास्तु स्तुतिः कयाचित्प्रणाड्या । “वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च”(छा. उ. ३ । १२ । ६) इत्यादिश्रुतिभ्यः । तथाच “गायत्री वा इदं सर्वम्” इत्युपक्रम्य गायत्र्या एव हृदयादिभिर्व्याख्याय च “सैषा चतुष्पदा षड्विधा गायत्री”(छा. उ. ३ । १२ । ५) इत्युपसंहारो गायत्र्यामेव समञ्जसो भवति । ब्रह्मणि तु सर्वमेतदसमञ्जसमिति । “यद्वै तद्ब्रह्म”(छा. उ. ३ । १२ । ७) इति च ब्रह्मशब्दश्छन्दोविषय एव, यथा “एतां ब्रह्मोपनिषदम्” इत्यत्र वेदोपनिषदुच्यते । तस्माद्गायत्रीछन्दोभिधानान्न ब्रह्मविषयमेतदिति प्राप्तम् ।
एवं प्राप्तेऽभिधीयते -
न ।
कुतः,
तथा चेतोर्पणनिगदात् ।
गायत्र्याख्यच्छन्दोद्वारेण गायत्रीरूपविकारानुगते ब्रह्मणि चेतोर्पणं चित्तसमाधानमनेन ब्राह्मणवाक्येन निगद्यते । एतदुक्तं भवति - न गायत्री ब्रह्मणोऽवच्छेदिका, उत्पलस्येव नीलत्वं, येन तदवच्छिन्नत्वमन्यत्र न स्यादवच्छेदकविरहात् । किन्तु यदेतद्ब्रह्म सर्वात्मकं सर्वकारणं तत्स्वरूपेणाशक्योपदेशमिति तद्विकारगायत्रीद्वारेणोपलक्ष्यते । गायत्र्याः सर्वच्छन्दोव्याप्त्या च सवनत्रयव्याप्त्या च द्विजातिद्वितीयजन्मजननीयतया च श्रुतेर्विकारेषु मध्ये प्राधान्येन द्वारत्वोपपत्तेः । न चान्यत्रोपलक्षणाभावेन नोपलक्ष्यं प्रतीयते । नहि कुण्डलेनोपलक्षितं कण्ठरूपं कुण्डलवियोगेऽपि पश्चात्प्रतीयमानमप्रतीयमानं भवति । तद्रूपप्रत्यायनमात्रोपयोगित्वादुपलक्षणानामनवच्छेदकत्वात् ।
तदेवं गायत्रीशब्दस्य मुख्यार्थत्वे गायत्र्या ब्रह्मोपलक्ष्यत इत्युक्तम् । सम्प्रति तु गायत्रीशब्दः सङ्ख्यासामान्याद्गौण्या वृत्त्या ब्रह्मण्येव वर्तत इति दर्शयति -
अपर आहेति ।
तथाहि - षडक्षरैः पादैर्यथा गायत्री चतुष्पदा, एवं ब्रह्मापि चतुष्पात् । सर्वाणि हि भूतानि स्थावरजङ्गमान्यस्यैकः पादः । दिवि द्योतनवति चैतन्यरूपे । स्वात्मनीति यावत् । त्रयः पादाः । अथवा दिव्याकाशे त्रयः पादाः । तथाहि श्रुतिः - “इदं वाव तद्योऽयं बहिर्धा पुरुषादाकाशः”(छा. उ. ३ । १२ । ७) तद्धि तस्य जागरितस्थानम् । जाग्रत्खल्वयं बाह्यान्पदार्थान्वेद । तथा - “अयं वाव स योऽयमन्तः पुरुष आकाशः”(छा. उ. ३ । १२ । ८) । शरीरमध्य इत्यर्थः । तद्धि तस्य स्वप्नस्थानम् । तथा “अयं वाव स योऽयमन्तर्हृदय आकाशः”(छा. उ. ३ । १२ । ९) । हृदयपुण्डरीक इत्यर्थः । तद्धि तस्य सुषुप्तिस्थानम् । तदेतत् “त्रिपादस्यामृतं दिवि”(छा. उ. ३ । १२ । ६) इत्युक्तम् । तदेवं चतुष्पात्त्वसामान्याद्गायत्रीशब्देन ब्रह्मोच्यत इति ।
अस्मिन्पक्षे ब्रह्मैवाभिहितिमिति ।
ब्रह्मपरत्वादभिहितमित्युक्तम् ॥ २५ ॥
षड्विधेति ।
भूतपृथिवीशरीरहृदयवाक्प्राणा इति षट्प्रकारा गायत्र्याख्यस्य ब्रह्मणः श्रूयन्ते ।
पञ्च ब्रह्मपुरुषा इति च, हृदयसुषिषु ब्रह्मपुरुषश्रुतिर्ब्रह्मसम्बन्धितायां विवक्षितायां सम्भवति ।
अस्यार्थः - हृदयस्यास्य खलु पञ्च सुषयः पञ्च छिद्राणि । तानि च देवैः प्राणादिभी रक्ष्यमाणानि स्वर्गप्राप्तिद्वाराणीति देवसुषयः । तथाहि - हृदयस्य यत्प्राङ्मुखं छिद्रं तत्स्थो यो वायुः स प्राणः, तेन हि प्रयाणकाले सञ्चरते स्वर्गलोकं, स एव चक्षुः, स एवादित्य इत्यर्थः । “आदित्यो ह वै बाह्यः प्राणः”(प्र.उ. ३.८) इति श्रुतेः । अथ योऽस्य दक्षिणः सुषिस्तत्स्थो वायुविशेषो व्यानः । तत्सम्बद्धं श्रोत्रं तच्चन्द्रमाः, “श्रोत्रेण सृष्टा विशश्चन्द्रमाश्च”(ऐ .आ. २.१.७) इति श्रुतेः । अथ योऽस्य प्रत्यङ्मुखः सुषिस्तत्स्थो वायुविशेषोऽपानः स च वाक्सम्बन्धाद्वाक् , “वाग्वा अग्निः”(श.ब्रा. ६.१.२.२८) इति श्रुतेः । अथ योऽस्योदङ्मुखः सुषिस्तत्स्थो वायुविशेषः स समानः, तत्सम्बद्धं मनः, तत्पर्जन्यो देवता । अथ योऽस्योर्ध्वः सुषिस्तत्स्थो वायुविशेषः स उदानः, पादतलादारभ्योर्ध्वं नयनात् । स वायुस्तदाधारश्चाकाशो देवता । ते वा एते पञ्च सुषयः । तत्सम्बद्धाः पञ्च हार्दस्य ब्रह्मणः पुरुषा न गायत्र्यामक्षरसंनिवेशमात्रे सम्भवन्ति, किन्तु ब्रह्मण्येवेति ॥ २६ ॥
यथा लोक इति ।
यदाधारत्वं मुख्यं दिवस्तदा कथञ्चिन्मर्यादा व्याख्येया । यो हि श्येनो वृक्षाग्रे वस्तुतोऽस्ति स च ततः परोऽप्यस्त्येव । अर्वाग्भागातिरिक्तमप्यपरभागस्थस्य तस्यैव वृक्षात्परतोऽवस्थानात् । एवं च बाह्यद्युभागातिरिक्तशारीरहार्दद्युभागस्थस्य ब्रह्मणो बाह्यात् द्युभागात्परतोऽवस्थानमुपपन्नम् । यदा तु मर्यादैव मुख्यतया प्राधान्येन विवक्षिता तदा लक्षणयाधारत्वं व्याख्येयम् । यथा गङ्गायां घोष इत्यत्र सामीप्यादिति ।
तदिदमुक्तम् -
अपर आहेति ।
अत एव दिवः परमपीत्युक्तम् ॥ २७ ॥
प्राणस्तथानुगमात् ।
'अनेकलिङ्गसन्दोहे बलवत्कस्य किं भवेत् । लिङ्गिनो लिङ्गमित्यत्र चिन्त्यते प्रागचिन्तितम्” ॥ मुख्यप्राणजीवदेवताब्रह्मणामनेकेषां लिङ्गानि बहूनि सम्प्लवन्ते, तत्कतमदत्र लिङ्गं, लिङ्गाभासं च कतमदित्यत्र विचार्यते । न चायमर्थः “अत एव प्राणः”(ब्र.सू. १.१.२३) इत्यत्र विचारितः । स्यादेतत् । हिततमपुरुषार्थसिद्धिश्च निखिलभ्रूणहत्यादिपापापरामर्शश्च प्रज्ञात्मत्वं चानन्दादिश्च न मुख्ये प्राणे सम्भवन्ति । तथा “एष साधु कर्म कारयति”(कौ.उ. ३.८) “एष लोकाधिपतिः”(कौ. उ. ३ । ९) इत्याद्यपि । जीवे तु प्रज्ञात्मत्वं कथञ्चिद्भवेदितरेषां त्वसम्भवः । वक्तृत्वं च वाक्करणव्यापारवत्त्वं यद्यपि परमात्मनि स्वरूपेण न सम्भवति तथाप्यनन्यथासिद्धबहुब्रह्मलिङ्गविरोधपरिहाराय जीवद्वारेण ब्रह्मण्येव कथञ्चिद्व्याख्येयं जीवस्य ब्रह्मणोऽभेदात् । तथाच श्रुतिः - “यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि”(के. उ. १ । ५) इति वाग्वदनस्य ब्रह्म कारणमित्याह । शरीराधारणमपि यद्यपि मुख्यप्राणस्यैव तथापि प्राणव्यापारस्य परमात्मायत्तत्वात्परमात्मन एव । यद्यपि चात्रेन्द्रदेवताया विग्रहवत्या लिङ्गमस्ति, तथाहि - इन्द्रधामगतं प्रतर्दनं प्रतीन्द्र उवाच, “मामेव विजानीहि”(कौ. उ. ३ । १)“मामेव विजानीहि”(कौ. उ. ३ । १) इत्युपक्रम्य, “प्राणोऽस्मिप्रज्ञात्मा”(कौ. उ. ३ । २) इत्यात्मनि प्राणशब्दमुच्चचार । प्रज्ञात्मत्वं चास्योपपद्यते, देवतानामप्रतिहतज्ञानशक्तित्वात् । सामर्थ्यातिशयाच्चेन्द्रस्य हिततमपुरुषार्थहेतुत्वमपि । मनुष्याधिकारत्वाच्छास्त्रस्य देवान्प्रत्यप्रवृत्तेर्भ्रूणहत्यादिपापापरामर्शस्योपपत्तेः । लोकाधिपत्यं चेन्द्रस्यलोकपालत्वात् । आनन्दादिरूपत्वं च स्वर्गस्यैवानन्दत्वात् । “आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते”(वि. पु. २ । ८ । ९७) इति स्मृतेश्चामृतत्वमिन्द्रस्य । “त्वाष्ट्रमहनम्” इत्याद्या च विग्रहवत्त्वेन स्तुतिस्तत्रैवोपपद्यते । तथापि परमपुरुषार्थस्यापवर्गस्य परब्रह्मज्ञानादन्यतोऽनवाप्तेः, परमानन्दरूपस्य मुख्यस्यामृतत्वस्याजरत्वस्य च ब्रह्मरूपाव्यभिचारात् , अध्यात्मसम्बन्धभूम्नश्च पराचीन्द्रेऽनुपपत्तेः, इन्द्रस्य देवताया आत्मनि प्रतिबुद्धस्य चरमदेहस्य वामदेवस्येव प्ररब्धविपाककर्माशयमात्रं भोगेन क्षपयतो ब्रह्मण एव सर्वमेतत्कल्पत इति विग्रहवदिन्द्रजीवप्राणवायुपरित्यागेन ब्रह्मैवात्र प्राणशब्दं प्रतीयत इति पूर्वपक्षाभावादनारभ्यमेतदिति । अत्रोच्यते - “यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः सह ह्येतवस्मिन् शरीरे वसतः सहोत्क्रामतः”(कौ. उ. ३ । ३) इति यस्यैव प्राणस्य प्रज्ञात्मन उपास्यत्वमुक्तं तस्यैव प्राणस्य प्रज्ञात्मना सहोत्क्रमणमुच्यते । नच ब्रह्मण्यभेदे द्विवचनं, न सहभावः न चोत्क्रमणम् । तस्माद्वायुरेव प्राणः । जीवश्च प्रज्ञात्मा । सह प्रवृत्तिनिवृत्त्या भक्त्यैकत्वमनयोरुपचरितं “यो वै प्राणः”(कौ. उ. ३ । ३) इत्यादिना । आनन्दामराजरापहतपाप्मत्वादयश्च ब्रह्मणि प्राणे भविष्यन्ति । तस्माद्यथायोगं त्रय एवात्रोपास्याः । न चैष वाक्यभेदो दोषमावहति । वाक्यार्थावगमस्य पदार्थावगमपूर्वकत्वात् । पदार्थानां चोक्तेन मार्गेण स्वातन्त्र्यात् । तस्मादुपास्यभेदादुपासात्रैविध्यमिति पूर्वः पक्षः । सिद्धान्तस्तु - सत्यं पदार्थावगमोपायो वाक्यार्थावगमः, नतु पदार्थावगमपराण्येव पदानि, अपि त्वेकवाक्यार्थावगमपराणि । तमेव त्वेकं वाक्यार्थं पदार्थावगममन्तरेण न शक्नुवन्ति कर्तुमित्यन्तरा तदर्थमेव तमप्यवगमयन्ति, तेन पदानि विशिष्टैकार्थावबोधनस्वरसान्येव बलवद्बाधकोपनिपातान्नानार्थबोधपरतां नीयन्ते । यथाहुः - “सम्भवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते” इति । तेन यथोपांशुयाजवाक्ये जामितादोषोपक्रमे तत्प्रतिसमाधानोपसंहारे चैकवाक्यत्वाय “प्रजापतिरुपांशु यष्टव्यः” इत्यादयो न पृथग्विधयः किन्त्वर्थवादा इति निर्णीतं, तथेहापि “मामेव विजानीहि” इत्युपक्रम्य, “प्राणोऽस्मि प्रज्ञात्मा”(कौ. उ. ३ । २) इत्युक्त्वान्ते “स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः”(कौ. उ. ३ । ९) इत्युपसंहाराद्ब्रह्मण्येकवाक्यत्वावगतौ सत्यां जीवमुख्यप्राणलिङ्गे अपि तदनुगुणतया नेतव्ये । अन्यथा वाक्यभेदप्रसङ्गात् । यत्पुनर्भेददर्शनं “सह ह्येतौ”(कौ. उ. ३ । ३) इति, तज्ज्ञानक्रियाशक्तिभेदेन बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोर्निर्देशः प्रत्यगात्मानमेवोपलक्षयितुम् । अत एवोपलक्ष्यस्य प्रत्यगात्मस्वरूपस्याभेदमुपलक्षणं भेदेनोपलक्षयति “प्राण एव प्रज्ञात्मा”(कौ. उ. ३ । ९) इति । “तस्मादनन्यथासिद्धब्रह्मलिङ्गानुसारातः । एकवाक्यबलात्प्राणजीवलिङ्गोपपादनम्” इति सङ्ग्रहः ॥ २८ ॥ ॥ २९ ॥ ॥ ३० ॥
न ब्रह्मवाक्यं भवितुमर्हतीति ।
नैष सन्दर्भो ब्रह्मवाक्यमेव भवितुमर्हतीति, किन्तु तथायोगं किञ्चिदत्र जीववाक्यं, किञ्चिन्मुख्यप्राणवाक्यं, किञ्चिद्ब्रह्मवाक्यमित्यर्थः ।
प्रज्ञासाधनप्राणान्तराश्रयत्वादिति ।
प्राणान्तराणीन्द्रियाणि, तानि हि मुख्ये प्राणे प्रतिष्ठितानि । जीवमुख्यप्राणयोरन्यतर इत्युपक्रममात्रम् । उभाविति तु पूर्वपक्षतत्त्वम् । ब्रह्म तु ध्रुवम् ।
न ब्रह्मेति ।
न ब्रह्मैवेत्यर्थः ।
दशानां भूतमात्राणामिति ।
पञ्च शब्दादयः, पञ्च पृथिव्यादय इति दश भूतमात्राः । पञ्च बुद्धीन्द्रियाणि पञ्च बुद्धय इति दश प्रज्ञामात्राः ।
तदेवं स्वमतेन व्याख्याय प्राचां वृत्तिकृतां मतेन व्याचष्टे -
अथवेति ।
पूर्वं प्राणस्यैकमुपासनमपरं जीवस्यापरं ब्रह्मण इत्युपासनात्रैविध्येन वाक्यभेदप्रसङ्गो दूषणमुक्तम् । इह तु ब्रह्मण एकस्यैवोपासात्रयविशिष्टस्य विधानान्न वाक्यभेद इत्यभिमानः प्राचां वृत्तिकृताम् । तदेतदालोचनीयं कथं न वाक्यभेद इति । युक्तं “सोमेन यजेत” इत्यादौ सोमादिगुणविशिष्टयागविधानं, तद्गुणविशिष्टस्यापूर्वस्य कर्मणोऽप्राप्तस्य विधिविषयत्वात् । इह तु सिद्धरूपं ब्रह्म न विधिविषयो भवितुमर्हति, अभावार्थत्वात् । भावार्थस्य विधिविषयत्वनियमात् । वाक्यान्तरेभ्यश्च ब्रह्मावगतेः प्राप्तत्वात्तदनूद्याप्राप्तोपासना भावार्थो विधेयस्तस्य च भेदाद्विध्यावृत्तिलक्षणो वाक्यभेदोऽतिस्फुट इति भाष्यकृता नोद्घाटितः, स्वव्याख्यानेनैवोक्तप्रायत्वादिति सर्वमवदातम् ॥ ३१ ॥
इति श्रीवाचस्पतिमिश्रविरचिते भाष्यविभागे भामत्यां प्रथमस्याध्यायस्य प्रथमः पादः ॥ १ ॥
इति प्रथमस्याध्यायस्य स्पष्टब्रह्मलिङ्गश्रुतिसमन्वयाख्यः प्रथमः पादः ॥
अथ द्वितीयं पादमारिप्सुः पूर्वोक्तमर्थं स्मारयति वक्ष्यमाणोपयोगितया -
प्रथमे पाद इति ।
उत्तरत्र हि ब्रह्मणो व्यापित्वनित्यत्वादयः सिद्धवद्धेतुतयोपदेक्ष्यन्ते ।
न चैते साक्षात्पूर्वमुपपादिता इति कथं हेतुभावेन न शक्या उपदेष्टुमित्यत उक्तम् -
समस्तजगत्कारणस्येति ।
यद्यप्येते न पूर्वं कण्ठत उक्तास्तथापि ब्रह्मणो जगज्जन्मादिकारणत्वोपपदानेनाधिकरणसिद्धान्तन्यायेनोपक्षिप्ता इत्युपपन्नस्तेषामुत्तरत्र हेतुभावेनोपन्यास इत्यर्थः ।
अर्थान्तरप्रसिद्धानां चेति ।
यत्रार्थान्तरप्रसिद्धा एवाकाशप्राणज्योतिरादयो ब्रह्मणि व्याख्यायन्ते, तदव्यभिचारिलिङ्गश्रवणात् । तत्र कैव कथा मनोमयादीनामर्थान्तरे प्रसिद्धानां पदानां ब्रह्मगोचरत्वनिर्णयं प्रतीत्यभिप्रायः । पूर्वपक्षाभिप्रायं त्वग्रे दर्शयिष्यामः ।
सर्वत्र प्रसिद्धोपदेशात् । इदमाम्नायते । सर्वं खल्विदं ब्रह्म ।
कुतः,
तज्जलानिति ।
यतस्तस्माद्ब्रह्मणो जायत इति तज्जं, तस्मिंश्च लीयत इति तल्लं, तस्मिंश्चानिति स्थितिकाले चेष्टत इति तदनं जगत् तस्मात्सर्वं खल्विदं जगद्ब्रह्म । अतः कः कस्मिन्रज्यते कश्च कं द्वेष्टीति रागद्वेषरहितः शान्तः सन्नुपासीत ।
अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनोमयः प्राणशरीर इत्यादि ।
तत्र संशयः - किमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यते आहोस्विद्ब्रह्मेति । किं तावत्प्राप्तम् । शारीरो जीव इति । कुतः । “क्रतुम्” इत्यादिवाक्येन विहितां क्रतुभावनामनूद्य “सर्वम्” इत्यादिवाक्यं शमगुणे विधिः । तथा च “सर्वं खल्विदं ब्रह्म”(छा. उ. ३ । १४ । १)“सर्वं खल्विदं ब्रह्म”(छा. उ. ३ । १४ । १) इति वाक्यं प्रथमपठितमप्यर्थालोचनया परमेव, तदर्थोपजीवित्वात् । एवं च सङ्कल्पविधिः प्रथमो निर्विषयः सन्नपर्यवस्यन्विषयापेक्षः स्वयमनिर्वृत्तो न विध्यन्तरेणोपजीवितुं शक्यः, अनुपपादकत्वात् । तस्माच्छान्ततागुणविधानात्पूर्वमेव “मनोमयः प्राणशरीरः”(छा. उ. ३ । १४ । २) इत्यादिभिर्विषयोपनायकैः सम्बध्यते । मनोमयत्वादि च कार्यकारणसङ्घातात्मनो जीवात्मन एव निरूढमिति जीवात्मनोपास्येनोपरक्तोपासना न पश्चात्ब्रह्मणा सम्बद्धुमर्हति, उत्पत्तिशिष्टगुणावरोधात् । नच “सर्वं खल्विदम्”(छा. उ. ३ । १४ । १) इति वाक्यं ब्रह्मपरमपि तु शमहेतुवन्निगदार्थवादः शान्तताविधिपरः, “शूर्पेण जुहोति” “तेन ह्यन्नं क्रियते” इतिवत् । न चान्यपरादपि ब्रह्मापेक्षिततया स्वीक्रियत इति युक्तं, मनोमयत्वादिभिर्धर्मैर्जीवे सुप्रसिद्धैर्जीवविषयसमर्पणेनानपेक्षितत्वात् । सर्वकर्मत्वादि तु जीवस्य पर्यायेण भविष्यति । एवं चाणीयस्त्वमप्युपपन्नम् । परमात्मनस्त्वपरिमेयस्य तदनुपपत्तिः । प्रथमावगतेन चाणीयस्त्वेन ज्यायस्त्वं तदनुगुणतया व्याख्येयम् । व्याख्यातं च भाष्यकृता । एवं कर्मकर्तृव्यपदेशः सप्तमीप्रथमान्तता चाभेदेऽपि जीवात्मनि कथञ्चिद्भेदोपचारेण राहोः शिर इतिवद्द्रष्टव्या । ‘एतद्ब्रह्म’ इति च जीवविषयं, जीवस्यापि देहादिबृंहणत्वेन ब्रह्मत्वात् । एवं सत्यसङ्कल्पत्वादयोऽपि परमात्मवर्तिनो जीवेऽपि सम्भवन्ति, तदव्यतिरेकात् । तस्माज्जीव एवोपास्यत्वेनात्र विवक्षितः, न परमात्मेति प्राप्तम् । एवं प्राप्तेऽभिधीयते - “समासः सर्वनामार्थः संनिकृष्टमपेक्षते । तद्धितार्थोऽपि सामान्यं नापेक्षाया निवर्तकः ॥ तस्मादपेक्षितं ब्रह्म ग्राह्यमन्यपरादपि । तथा च सत्यसङ्कल्पप्रभृतीनां यथार्थता” ॥ भवेदेतदेवं यदि प्राणशरीर इत्यादीनां साक्षाज्जीववाचकत्वं भवेत् । न त्वेतदस्ति । तथा हि - प्राणः शरीरमस्येति सर्वनामार्थो बहुव्रीहिः संनिहितं च सर्वनामार्थं सम्प्राप्य तदभिधानं पर्यवस्येत् । तत्र मनोमयपदं पर्यवसिताभिधानं तदभिधानपर्यवसानायालं, तदेव तु मनोविकारो वा मनःप्रचुरं वा किमर्थमित्यद्यापि न विज्ञायते । तद्यत्रैष शब्दः समवेतार्थो भवति स समासार्थः । न चैष जीव एव समवेतार्थो न ब्रह्मणीति, तस्य “अप्राणो ह्यमनाः”(मु. उ. २ । १ । २) इत्यादिभिस्तद्विरहप्रतिपादनादिति युक्तम् , तस्यापि सर्वविकारकारणतया, विकाराणां च स्वकारणादभेदात्तेषां च मनोमयतया ब्रह्मणस्तत्कारणस्य मनोमयत्वोपपत्तेः । स्यादेतत् । जीवस्य साक्षान्मनोमयत्वादयः, ब्रह्मणस्तु तद्द्वारा । तत्र प्रथमं द्वारस्य बुद्धिस्थत्वात्तदेवोपास्यमस्तु, न पुनर्जघन्यं ब्रह्म । ब्रह्मलिङ्गानि च जीवस्य ब्रह्मणोऽभेदाज्जीवेऽप्युपपत्स्यन्ते । तदेतदत्र सम्प्रधार्यम् - किं ब्रह्मलिङ्गैर्जीवानां तदभिन्नानामस्तु तद्वत्ता, तथाच जीवस्य मनोमयत्वादिभिः प्रथममवगमात्तस्यैवोपास्यत्वं, उत न जीवस्य ब्रह्मलिङ्गवत्ता तदभिन्नस्यापि । जीवलिङ्गैस्तु ब्रह्म तद्वत्, तथाच ब्रह्मलिङ्गानां दर्शनात् , तेषां च जीवेऽनुपपत्तेर्ब्रह्मैवोपास्यमिति । वयं तु पश्यामः “समारोप्यस्य रूपेण विषयो रूपवान्भवेत् । विषयस्य तु रूपेण समारोप्यं न रूपवत्” ॥ समारोपितस्य हि रूपेण भुजङ्गस्य भीषणत्वादिना रज्जू रूपवती, नतु रज्जूरूपेणाभिगम्यत्वादिना भुजङ्गो रूपवान् । तदा भुजङ्गस्यैवाभावात्किं रूपवत् । भुजङ्गदशायां तु न नास्ति वास्तवी रज्जुः । तदिह समारोपितजीवरूपेण वस्तुसद्ब्रह्म रूपवद्युज्यते, नतु ब्रह्मरूपैर्नित्यत्वादिभिर्जीवस्तद्वान्भवितुमर्हति, तस्य तदानीमसम्भवात् । तस्माद्ब्रह्मलिङ्गदर्शनाज्जीवे च तदसम्भवाद्ब्रह्मैवोपास्यं न जीव इति सिद्धम् । एतदुपलक्षणाय च “सर्वं खल्विदं ब्रह्म” इति वाक्यमुपन्यस्तमिति ॥ १ ॥
यद्यप्यपौरुषेय इति ।
शास्त्रयोनित्वेऽपीश्वरस्य पूर्वपूर्वसृष्टिरचितसन्दर्भापेक्षरचनत्वेनास्वातन्त्र्यादपौरुषेयत्वाभिधानं, तथा चास्वातन्त्र्येण विवक्षा नास्तीत्युक्तम् । परिग्रहपरित्यागौ चोपादनानुपादाने उक्ते, न तूपादेयत्वमेव । अन्यथोद्देश्यतयानुपादेयस्य ग्रहादेरविवक्षितत्वेन चमसादावपि संमार्गप्रसङ्गात् । तस्मादनुपादेयत्वेऽपि ग्रह उद्देश्यतया परिगृहीतो विवक्षितः । तद्गतं त्वेकत्वमवच्छेदकत्वेन वर्जितमविवक्षितम् । इच्छानिच्छे च भक्तितः ।
तदिदमुक्तम् -
वेदवाक्यतात्पर्यातात्पर्याभ्यामवगम्येते इति ।
यत्परं वेदवाक्यं तत्तेनोपात्तं विवक्षितम् , अतत्परेण चानुपात्तमविवक्षितमित्यर्थः ॥ २ ॥
स्यादेतत् । यथा सत्यसङ्कल्पत्वादयो ब्रह्मण्युपपद्यन्ते, एवं शारीरेऽप्युपपत्स्यन्ते, शारीरस्य ब्रह्मणोऽभेदात् । शारीरगुणा इव मनोमयत्वादयो ब्रह्मणीत्यत आह सूत्रकारः -
अनुपपत्तेस्तु न शारीरः ॥ ३ ॥ ॥ ४ ॥ ॥ ५ ॥
यत्तदवोचाम समारोप्यधर्माः समारोपविषये सम्भवन्ति, नतु विषयधर्माः समारोप्य इति । तस्येत उत्थानम् । अत्राह चोदकः -
कः पुनरयं शारीरो नामेति ।
न तावद्भेदप्रतिषेधाद्भेदव्यपदेशाच्च भेदाभेदावेकत्र तात्त्विकौ भवितुमर्हतो विरोधादित्युक्तम् । तस्मादेकमिह तात्त्विकमतात्त्विकं चेतरत् , तत्र पौर्वापर्येणाद्वैतप्रतिपादनपरत्वाद्वेदान्तानां द्वैतग्राहिणश्च मानान्तरस्याभावात्तद्बाधनाच्च तेनाद्वैतमेव परमार्थः । तथा च “अनुपपत्तेस्तु”(ब्र.सू. १-२-३) इत्याद्यसङ्गतार्थमित्यर्थः ।
परिहरति -
सत्यमेवैतत् । पर एवात्मा देहेन्द्रियमनोबुद्ध्युपाधिभिरविच्छिद्यमानो बालैः शारीर इत्युपचर्यते ।
अनाद्यविद्यावच्छेदलब्धजीवभावः पर एवात्मा स्वतो भेदेनावभासते । तादृशां च जीवानामविद्या, नतु निरूपाधिनो ब्रह्मणः । न चाविद्यायां सत्यां जीवात्मविभागः, सति च जीवात्मविभागे तदाश्रयाविद्येत्यन्योन्याश्रयमिति साम्प्रतम् । अनादित्वेन जीवाविद्ययोर्बीजाङ्कुरवदनवकॢप्तेरयोगात् । नच सर्वज्ञस्य सर्वशक्तेश्च स्वतः कुतोऽकस्मात्संसारिता, यो हि परतन्त्रः सोऽन्येन बन्धनागारे प्रवेश्येत, नतु स्वतन्त्र इति वाच्यम् । नहि तद्भागस्य जीवस्य सम्प्रतितनी बन्धनागारप्रवेशिता, येनानुयुज्येत, किन्त्वियमनादिः पूर्वपूर्वकर्माविद्यासंस्कारनिबन्धना नानुयोगमर्हति । न चैतावता ईश्वरस्यानीशता न ह्युपकरणाद्यपेक्षिता कर्तुः स्वातन्त्र्यं विहन्ति । तस्माद्यत्किञ्चिदेतदपीति ॥ ६ ॥ ॥ ७ ॥ विशेषादिति वक्तव्ये वैशेष्याभिधानमात्यन्तिकं विशेषं प्रतिपादयितुम् । तथाह्यविद्याकल्पितः सुखादिसम्भोगोऽविद्यात्मन एव जीवस्य युज्यते । नतु निर्मृष्टनिखिलाविद्यातद्वासनस्य शुद्धबुद्धमुक्तस्वभावस्य परमात्मन इत्यर्थः । शेषमतिरोहितार्थम् ॥ ६ ॥ ॥ ७ ॥॥ ८ ॥
अत्ता चराचरग्रहणात् ।
कठवल्लीषु पठ्यते - यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र स इति ।
अत्र चादनीयौदानोपसेचनसूचितः कश्चिदत्ता प्रतीयते । अत्तृत्वं च भोक्तृता वा संहर्तृता वा स्यात् । नच प्रस्तुतस्य परमात्मनो भोक्तृतास्ति, “अनश्रन्नन्योऽभिचाकशीति”(मु. उ. ३ । १ । १) इति श्रुत्या भोक्तृताप्रतिषेधात् । जीवात्मनश्च भोक्तृताविधानात् “तयोरन्यः पिप्पलं स्वाद्वत्ति”(मु. उ. ३ । १ । १) इति । तद्यदि भोक्तृत्वमत्तृत्वं ततो मुक्तसंशयं जीवात्मैव प्रतिपत्तव्यः । ब्रह्मक्षत्रादि चास्य कार्यकारणसङ्घातो भोगायतनतया वा साक्षाद्वा सम्भवति भोग्यम् । अथ तु संहर्तृता भोक्तृता, ततस्त्रयाणामग्निजीवपरमात्मनां प्रश्नोपन्यासोपलब्धेः संहर्तृत्वस्याविशेषाद्भवति संशयः - किमत्ता अग्निराहो जीव उताहो परमात्मेति । तत्रौदनस्य भोग्यत्वेन लोके प्रसिद्धेर्भोक्तृत्वमेव प्रथमं बुद्धौ विपरिवर्तते, चरमं तु संहर्तृत्वमिति भोक्तैवात्ता । तथा च जीव एव । “न जायते म्रियते”(क. उ. १ । २ । १८) इति च तस्यैव स्तुतिः । यदि तु संहारकालेऽपि संस्कारमात्रेण तस्यावस्थानात् । दुर्ज्ञानत्वं च तस्य सूक्ष्मत्वात् । तस्माज्जीव एवात्तेहोपास्यत इति प्राप्तम् । यदि तु संहर्तृत्वमत्तृत्वं तथाप्यग्निरत्ता, “अग्निरन्नादः”(बृ. उ. १ । ४ । ६) इति श्रुतिप्रसिद्धिभ्याम् । एवं प्राप्तेभिधीयतेअत्तात्र परमात्मा, कुतः, चराचरग्रहणात् । “उभे यस्योदनः” इति “मृत्युर्यस्योपसेचनम्”(क. उ. १ । २ । २५)“मृत्युर्यस्योपसेचनम्”(क. उ. १ । २ । २५) इति च श्रूयते । तत्र यदि जीवस्य भोगायतनतया तत्साधनतया च कार्यकारणसङ्घातः स्थितः, न तर्ह्येदनः । नह्योदनो भोगायतनं, नापि भोगसाधनं, अपि तु भोग्यः । नच भोगायतनस्य भोगसाधनस्य वा भोग्यत्वं मुख्यम् । न चात्र मृत्युरुपसेचनतया कल्प्यते । नच जीवस्य कार्यकारणसङ्घातो ब्रह्मक्षत्रादिरूपो भक्ष्यः, कस्यचित्क्रूरसत्त्वस्य व्याघ्रादेः कश्चिद्भवेत् न तु सर्वथा सर्वजीवस्य । तेन ब्रह्मक्षत्रविषयमपि सर्वजीवस्यात्तृत्वं न व्याप्नोति, किमङ्ग पुनर्मृत्यूपसेचनव्याप्तं चराचरम् । न चौदनपदात्प्रथमावगतभोग्यत्वानुरोधेन यथासम्भवमत्तृत्वं योज्यत इति युक्तम् । नह्योदनपदं श्रुत्या भोग्यत्वमाह, किन्तु लक्षणया । नच लाक्षणिकभोग्यत्वानुरोधेन “मृत्युर्यस्योपसेचनम्” इति, “ब्रह्म च क्षत्रं च” इति च श्रुती सङ्कोचमर्हतः । नच ब्रह्मक्षत्रे एवात्र विवक्षिते, मृत्यूपसेचनेन प्राणभृन्मात्रोपस्थापनात् । प्राणिषु प्रधानत्वेन च ब्रह्मक्षत्रोपन्यासस्योपपत्तेः, अन्यनिवृत्तेरशाब्दत् , वातनर्थत्वाच्च । तथाच चराचरसंहर्तृत्वं परमात्मन एव । नाग्नेः । नापि जीवस्य । तथाच “न जायते म्रियते वा विपश्चित्”(क. उ. १ । २ । १८) इति ब्रह्मणः प्रकृतस्य न हानं भविष्यति । “क इत्था वेद यत्र सः”(क. उ. १ । २ । २५) इति च दुर्ज्ञानतोपपत्स्यते । जीवस्य तु सर्वलोकप्रसिद्धस्य न दुर्ज्ञानता । तस्मादत्ता परमात्मैवेति सिद्धम् ॥ ९ ॥ ॥ १० ॥
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ।
संशयमाह -
तत्रेति ।
पूर्वपक्षे प्रयोजनमाह -
यदि बुद्धिजीवाविति ।
सिद्धान्ते प्रयोजनमाह -
अथ जीवपरमात्मानाविति ।
औत्सर्गिकस्य मुख्यताबलात्पूर्वसिद्धान्तपक्षासम्भवेन पक्षान्तरं कल्पयिष्यत इति मन्वानः संशयमाक्षिपति -
अत्राहाक्षेप्तेति ।
ऋतं सत्यम् । अवश्यंभावीति यावत् ।
समाधत्ते -
अत्रोच्यत इति ।
अध्यात्माधिकारादन्यौ तावत्पातारावशक्यौ कल्पयितुम् । तदिह बुद्धेरचैतन्येन परमात्मनश्च भोक्तृत्वनिषेधेन जीवात्मैवैकः पाता परिशिष्यत इति “सृष्टीरुपदधाति” इतिवत् द्विवचनानुरोधादपिबत्संसृष्टतां स्वार्थस्य पिबच्छब्दो लक्षयन्स्वार्थमजहन्नितरेतरयुक्तपिबदपिबत्परो भवतीत्यर्थः ।
अस्तु वा मुख्य एव, तथापि न दोष इत्याह -
यद्वेति ।
स्वातन्त्र्यलक्षणं हि कर्तृत्वं तच्च पातुरिव पाययितुरप्यस्तीति सोऽपि कर्ता । अत एव चाहुः - “यः कारयति स करोत्येव” इति । एवं करणस्यापि स्वातन्त्र्यविवक्षया कथञ्चित्कर्तृत्वं, यथा काष्ठानि पचन्तीति । तस्मान्मुख्यत्वेऽप्यविरोध इति ।
तदेवं संशयं समाधाय पूर्वपक्षं गृह्णाति -
बुद्धिक्षेत्रज्ञाविति ।
'नियताधारता बुद्धिजीवसम्भविनी नहि । क्लेशात्कल्पयितुं युक्ता सर्वगे परमात्मनि” ॥ नच पिबन्तावितिवत्प्रविष्टपदमपि लाक्षणिकं युक्तं, सति मुख्यार्थत्वे लाक्षणिकार्थत्वायोगात् , बुद्धिजीवयोश्च गुहाप्रवेशोपपत्तेः । अपिच “सुकृतस्य लोके”(क. उ. १ । ३ । १) इति सुकृतलोकव्यवस्थानेन कर्मगोचरानतिक्रम उक्तः । बुद्धिजीवौ च कर्मगोचरमनतिक्रान्तौ । जीवो हि भोक्तृतया बुद्धिश्च भोगसाधनतया धर्मस्य गोचरे स्थितौ, न तु ब्रह्म, तस्य तदायत्तत्वात् । किञ्च छायातपाविति तमःप्रकाशावुक्तौ । नच जीवः परमात्मनोऽभिन्नस्तमः, प्रकाशरूपत्वात् । बुद्धिस्तु जडतया तम इति शक्योपदेष्टुम् । तस्माद्बुद्धिजीवावत्र कथ्येते इति तत्रापि प्रेते विचिकित्सापनुत्तये बुद्धेर्भेदेन परलोकी जीवो दर्शनीय इति बुद्धिरुच्यते । एवंप्राप्तेभिधीयते - “ऋतपानेन जीवात्मा निश्चितोऽस्य द्वितीयता । ब्रह्मणैव सरूपेण न तु बुद्ध्या विरूपया ॥ १ ॥ प्रथमं सद्वितीयत्वे ब्रह्मणावगते सति । गुह्याश्रयत्वं चरमं व्याख्येयमविरोधतः” ॥ २ ॥ गौः सद्वितीयेत्युक्ते सजातीयेनैव गवान्तरेणावगम्यते, न तु विजातीयेनाश्वादिना । तदिह चेतनो जीवः सरूपेण चेतनान्तरेणैव ब्रह्मणा सद्वितीयः प्रतीयते, न त्वचेतनया विरूपया बुद्ध्या । तदेवं “ऋतं पिबन्तौ”(क. उ. १ । ३ । १) इत्यत्र प्रथममवगते ब्रह्मणि तदनुरोधेन चरमं गुहाश्रयत्वं शालग्रामे हरिरितिवद्व्याख्येयम् । बहुलं हि गुहाश्रयत्वं ब्रह्मणः श्रुतय आहुः ।
तदिदमुक्तम् -
तद्दर्शनादिति ।
तस्य ब्रह्मणो गुहाश्रयत्वस्य श्रुतिषु दर्शनादिति । एवंच प्रथमावगतब्रह्मानुरोधेन सुकृतलोकवर्तित्वमपि तस्य लक्षणया छत्रिन्यायेन गमयितव्यम् । छायातपत्वमपि जीवस्याविद्याश्रयतया ब्रह्मणश्च शुद्धप्रकाशस्वभावस्य तदनाश्रयतया मन्तव्यम् ॥ ११ ॥
इममेव न्यायं “द्वा सुपर्णा”(मु. उ. ३ । १ । १) इत्यत्राप्युदाहरणे कृत्वाचिन्तया योजयति -
एष एव न्याय इति ।
अत्रापि किं बुद्धिजीवौ उत जीवपरमात्मानाविति संशय्य करणरूपाया अपि बुद्धेरेधांसि पचन्तीतिवत्कर्तृत्वोपचाराद्बुद्धिजीवाविह पूर्वपक्षयित्वा सिद्धान्तयितव्यम् । सिद्धान्तश्च भाष्यकृता स्फोरितः । तद्दर्शनादिति च “समाने वृक्षे पुरुषो निमग्नः”(मु. उ. ३ । १ । २) इत्यत्र मन्त्रे ।
न खलु मुख्ये कर्तृत्वे सम्भवति करणे कर्तृत्वोपचारो युक्त इति कृत्वाचिन्तामुद्धाटयति -
अपर आह ।
सत्त्वं बुद्धिः ।
शङ्कते -
सत्त्वशब्द इति ।
सिद्धान्तार्थं ब्राह्मणं व्याचष्ट इत्यर्थः ।
निराकरोति -
तन्नेति ।
येन स्वप्नं पश्यतीति ।
येनेति करणमुपदिशति । ततश्च भिन्नं कर्तारं क्षेत्रज्ञम् ।
योऽयं शारीर उपद्रष्टेति ।
अस्तु तर्ह्यस्याधिकरणस्य पूर्वपक्षे एव ब्राह्मणार्थः,
वचनविरोधे न्यायस्याभासत्वादित्यत आह -
नाप्यस्याधिकरणस्य पूर्वपक्षं भजत इति ।
एवं हि पूर्वपक्षमस्य भजेत, यदि हि क्षेत्रज्ञे संसारिणि पर्यवस्येत । तस्य तु ब्रह्मरूपतायां पर्यवस्यन्न पूर्वपक्षमपि स्वीकरोतीत्यर्थः ।
अपिच ।
तावेतौ सत्त्वक्षेत्रज्ञौ न ह वा एवंविदि किञ्चन रज आध्वंसत इति ।
रजोऽविद्या नाध्वंसनं संश्लेषमेवंविदि करोतीति ।
एतावतैव विद्योपसंहाराज्जीवस्य ब्रह्मात्मतापरतास्य लक्ष्यत इत्याह -
तावता चेति ।
चोदयति -
कथं पुनरिति ।
निराकरोति -
उच्यते - नेयं श्रुतिरिति ।
अनश्नन् जीवो ब्रह्माभिचाकशीतीत्युक्ते शङ्केत, यदि जीवो ब्रह्मात्मा नाश्नाति, कथं तर्ह्यस्मिन्भोक्तृत्वावगमः, चैतन्यसमानाधिकरणं हि भोक्तृत्वमवभासत इति । तन्निरासायाह श्रुतिः - “तयोरन्यः पिप्पलं स्वाद्वत्ति”(मु. उ. ३ । १ । १) इति । एतदुक्तं भवति - नेदं भोक्तृत्वं जीवस्य तत्त्वतः, अपितु बुद्धिसत्त्वं सुखादिरूपपरिणतं चितिच्छायापत्त्योपपन्नचैतन्यमिव भुङ्क्ते, नतु तत्त्वतो जीवः परमात्मा भुङ्क्ते । तदेतदध्यासाभाष्ये कृतव्याख्यानम् । तदनेन कृत्वाचिन्तोद्धाटिता ॥ १२ ॥
अन्तर उपपत्तेः ।
ननु “अन्तस्तद्धर्मोपदेशात्”(ब्र.सू. १-१-२०) इत्यनेनैवैतद्गतार्थम् । सन्ति खल्वत्राप्यमृतत्वाभयत्वादयो ब्रह्मधर्माः प्रतिबिम्बजीवदेवतास्वसम्भविनः । तस्माद्ब्रह्मधर्मोपदेशाद्ब्रह्मैवात्र विवक्षितम् । साक्षाच्च ब्रह्मशब्दोपादानात् । उच्यते - “एष दृश्यत इत्येतत्प्रत्यक्षेऽर्थे प्रयुज्यते । परोक्षं ब्रह्म न तथा प्रतिबिम्बे तु युज्यते ॥ १ ॥ उपक्रमवशात्पूर्वमितरेषां हि वर्णनम् । कृतं न्यायेन येनैव स खल्वत्रानुषज्यते” ॥ २ ॥ “ऋतं पिबन्तौ”(क. उ. १ । ३ । १) इत्यत्र हि जीवपरमात्मानौ प्रथममवगताविति तदनुरोधेन गुहाप्रवेशादयः पश्चादवगता व्याख्याताः, तद्वदिहापि “य एषोऽक्षिणि पुरुषो दृश्यते”(छा. उ. ४ । १५ । १) इति प्रत्यक्षाभिधानात्प्रथममवगते छायापुरुषे तदनुरोधेनामृतत्वाभयत्वादयः स्तुत्या कथञ्चिद्व्याख्येयाः । तत्र चामृतत्वं कतिपयक्षणावस्थानात् , अभयत्वमचेतनत्वात् , पुरुषत्वं पुरुषाकारत्वात् , आत्मत्वं कनीनिकायतनत्वात् , ब्रह्मरूपत्वमुक्तरूपामृतत्वादियोगात् । एवं वामनीत्वादयोऽप्यस्य स्तुत्यैव कथञ्चिन्नेतव्याः । कं च खं चेत्यादि तु वाक्यमग्नीनां नाचार्यवाक्यं नियन्तुमर्हति । “आचार्यस्तु ते गतिं वक्ता”(छा. उ. ४ । १४ । १) इति च गत्यन्तराभिप्रायं, न तूक्तपरिशिष्टाभिप्रायम् । तस्माच्छायापुरुष एवात्रोपास्य इति पूर्वः पक्षः । सम्भवमात्रेण तु जीवदेवते उपन्यस्ते, बाधकान्तरोपदर्शनाय चैष दृश्यत इत्यस्यात्राभावात् । “अन्तस्तद्धर्मोपदेशा”(ब्र.सू. १-१-२०) दित्यनेन निराकृतत्वात् ।
एवं प्राप्त उच्यते -
य एष इति ।
'अनिष्पन्नाभिधाने द्वे सर्वनामपदे सती । प्राप्य संनिहितस्यार्थं भवेतामभिधातृणी” ॥ संनिहिताश्च पुरुषात्मादिशब्दास्ते च न यावत्स्वार्थमभिदधति तावत्सर्वनामभ्यां नार्थतुषोऽप्यभिधीयत इति कुतस्तदर्थस्यापरोक्षता । पुरुषात्मशब्दौ च सर्वनामनिरपेक्षौ स्वरसतो जीवे वा परमात्मनि वा वर्तेते इति । नच तयोश्चक्षुषि प्रत्यक्षदर्शनमिति निरपेक्षपुरुषपदप्रत्यायितार्थानुरोधेन य एष इति दृश्यत इति च यथासम्भवं व्याख्येयम् । व्याख्यातं च सिद्धवदुपादानं शास्त्राद्यपेक्षं विद्वद्विषयं प्ररोचनार्थम् । विदुषः शास्त्रत उपलब्धिरेव दृढतया प्रत्यक्षवदुचपर्यते प्रशंसार्थमित्यर्थः ।
अपि च तदेव चरमं प्रथमानुगुणतया नीयते यन्नेतुं शक्यम् , अल्पं च । इह त्वमृतत्वादयो बहवश्चाशक्याश्च नेतुम् । नहि स्वसत्ताक्षणावस्थानमात्रममृतत्वं भवति । तथा सति किं नाम नामृतं स्यादिति व्यर्थममृतपदम् । भयाभये अपि चेतनधर्मौ नाचेतने सम्भवतः । एवं वामनीत्वादयोऽप्यन्यत्र ब्रह्मणो नेतुमशक्याः । प्रत्यक्षव्यपदेशश्चोपपादितः । तदिदमुक्तम् -
उपपत्तेरिति ।
'एतदमृतमभयमेतद्ब्रह्म” इत्युक्ते स्यादाशङ्का । ननु सर्वगतस्येश्वरस्य कस्माद्विशेषेण चक्षुरेव स्थानमुपदिश्यत इति, तत्परिहरति, श्रुतिः - “तद्यद्यप्यस्मिन्सार्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति”(छा. उ. ४ । १५ । १) इति । वर्त्मनी पक्षस्थाने । एतदुक्तं भवतिनिर्लेपस्येश्वरस्य निर्लेपं चक्षुरेव स्थानमनुरूपमिति ।
तदिदमुक्तम् -
तथा परमेश्वरानुरूपमिति संयद्वामादिगुणोपदेशश्च तस्मिन्
ब्रह्मणि
कल्पते
घटते, समवेतार्थत्वात् । प्रतिबिम्बादिषु त्वसमवेतार्थः । वामनीयानि सम्भजनीयानि शोभनीयानि पुण्यफलानि वामानि । संयन्ति सङ्गच्छमानानि वामान्यनेनेति संयद्वामः परमात्मा । तत्कारणत्वात्पुण्यफलोत्पत्तेस्तेन पुण्यफलानि सङ्गच्छन्ते । स एव पुण्यफलानि वामानि नयति लोकमिति वामनीः । एष एव भामनीः । भामानी भानानि नयति लोकमिति भामनीः । तदुक्तं श्रुत्या “तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति”(मु. उ. २ । २ । ११) इति ॥ १३ ॥
स्थानादिव्यपदेशाच्च ।
आशङ्कोत्तरमिदं सूत्रम् ।
आशङ्कामाह -
कथं पुनरिति ।
स्थानिनो हि स्थानं महद्दृष्टं, यथा यादसामब्धिः । तत्कथमत्यल्पं चक्षुरधिष्ठानं परमात्मनः परममहत इति शङ्कार्थः ।
परिहरति -
अत्रोच्यत इति ।
स्थानान्यादयो येषां ते स्थानादयो नामरूपप्रकरास्तेषां व्यपदेशात्सर्वगतस्यैकस्थाननियमो नावकल्पते । नतु नानास्थानत्वं नभस इव नानासूचीपाशादिस्थानत्वम् । विशेषतस्तु ब्रह्मणस्तानि तान्युपासनास्थानानीति तैरस्य युक्तो व्यपदेशः ॥ १४ ॥
अपिच प्रकृतानुसारादपि ब्रह्मैवात्र प्रत्येतव्यं, नतु प्रतिबिम्बजीवदेवता इत्याह सूत्रकारः -
सुखविशिष्टाभिधानादेव च ।
एवं खलूपाख्यायते - उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास । तस्याचार्यस्य द्वादश वर्षाण्यग्नीनुपचचार । स चाचार्योऽन्यान्ब्रह्मचारिणः स्वाध्यायं ग्राहयित्वा समावर्तयामास । तमेवैकमुपकोसलं न समावर्तयति स्म । जायया च तत्समावर्तनायार्थितोऽपि तद्वचनमवधीर्याचार्यः प्रोषितवान् । ततोऽतिदूनमानसमग्निपरिचरणकुशलमुपकोसलमुपेत्य त्रयोऽग्नयः करुणापराधीनचेतसः श्रद्दधानायास्मै दृढभक्तये समेत्य ब्रह्मविद्यामूचिरे “प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म”(छा. उ. ४ । १० । ४) इति । अथोपकोसल उवाच, विजानाम्यहं प्राणो ब्रह्मेति, स हि सूत्रात्मा विभूतिमत्तया ब्रह्मरूपाविर्भावाद्ब्रह्मेति । किन्तु कं च खं च ब्रह्मेत्येतन्न विजानामि । नहि विषयेन्द्रियसम्पर्कजं सुखमनित्यं लोकसिद्धं खं च भूताकाशमचेतनं ब्रह्म भवितुमर्हति । अथैनमग्नयः प्रत्यूचुः - “यद्वाव कं तदेव खं यदेव खं तदेव कम्”(छा. उ. ४ । १० । ५) इति । एवं सम्भूयोक्त्वा प्रत्येकं च स्वविषयां विद्यामूचुः - “पृथिव्यग्निरन्नमादित्यः”(छा. उ. ४ । ११ ।१) इत्यादिना । पुनस्त एनं सम्भूयोचुः, एषा सोम्य तेऽस्मद्विद्या प्रत्येकमुक्ता स्वविषया विद्या, आत्मविद्या चास्माभिः सम्भूय पूर्वमुक्ता प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति, आचार्यस्तु ते गतिं वक्ता, ब्रह्मविद्येयमुक्तास्माभिर्गतिमात्रं त्ववशिष्टं नोक्तं, तत्तु विद्याफलप्राप्तये जाबालस्तवाचार्यो वक्ष्यतीत्युक्त्वाग्नय उपरेमिरे ।
एवं व्यवस्थिते “यद्वाव कं तदेव खं यदेव खं तदेव कम्”(छा. उ. ४ । १० । ५) इत्येतद्व्याचष्टे भाष्यकारः -
तत्र खंशब्द इति प्रतीकाभिप्रायेणेति ।
आश्रयान्तरप्रत्ययस्याश्रयान्तरे प्रक्षेपः प्रतीकः । यथा ब्रह्मशब्दः परमात्मविषयो नामादिषु क्षिप्यते । इदमेव तद्ब्रह्म ज्ञेयं यन्नामेति । तथेदमेव तद्ब्रह्म यद्भूताकाशमिति प्रतीतिः स्यात् । न चैतत्प्रतीकत्वमिष्टम् । लौकिकस्य सुखस्य साधनपारतन्त्र्यं क्षयिष्णुता चामयस्तेन सह वर्तत इति सामयं सुखम् ।
तदेवं व्यतिरेके दोषमुक्त्वोभयान्वये गुणमाह -
इतरेतरविशेषितौ त्विति ।
तदर्थयोर्विशेषितत्वाच्छब्दावपि विशेषितावुच्येते । सुखशब्दसमानाधिकरणो हि खंशब्दो भूताकाशमर्थं परित्यज्य ब्रह्मणि गुणयोगेन वर्तते । तादृशा च खेन सुखं विशिष्यमाणं सामयाद्व्यावृत्तं निरामयं भवति । तस्मादुपपन्नमुभयोपादानम् ।
ब्रह्मशब्दाभ्यासस्य प्रयोजनमाह -
तत्र द्वितीय इति ।
ब्रह्मपदं कम्पदस्योपरि प्रयुज्यमानं शिरः, एवं खम्पदस्यापि ब्रह्मपदं शिरो ययोः कङ्खम्पदयोस्ते ब्रह्मशिरसी, तयोर्भावो ब्रह्मशिरस्त्वम् ।
अस्तु प्रस्तुते किमायातमित्यत आह -
तदेवं वाक्योपक्रम इति ।
नन्वग्निभिः पूर्वं निर्दिश्यतां ब्रह्म, “य एषोऽक्षिणि”(छा. उ. ४ । १५ । १) इत्याचार्यवाक्येऽपि तदेवानुवर्तनीयमिति तु कुत इत्याह -
आचार्यस्तु ते गतिं वक्तेति च गतिमात्राभिधानमिति ।
यद्यप्येते भिन्नवक्तृणी वाक्ये तथापि पूर्वेण वक्त्रा एकवाक्यतां गमिते, गतिमात्राभिधानात् । किमुक्तं भवति, तुभ्यं ब्रह्मविद्यास्माभिरूपदिष्टा, तद्विदस्तु गतिर्नोक्ता, तां च किञ्चिदधिकमाध्येयं पूरयित्वाचार्यो वक्ष्यतीति । तदनेन पूर्वासम्बद्धार्थान्तरविवक्षा वारितेति । अथैवमग्निभिरुपदिष्टे प्रोषित आचार्यः कालेनाजगाम, आगतश्च वीक्ष्योपकोसलमुवाच, ब्रह्मविद इव ते सोम्य मुखं प्रसन्नं भाति, कोऽनु त्वामनुशशासेति । उपकोसलस्तु ह्रीणो भीतश्च को नु मामनुशिष्यात् भगवन् प्रोषिते त्वयीत्यापाततोऽपज्ञाय निर्बध्यमानो यथावदग्नीनामनुशासनमवोचत् । तदुपश्रुत्य चाचार्यः सुचिरं क्लिष्ट उपकोसले समुपजातदयार्द्रहृदयः प्रत्युवाच, सोम्य किल तुभ्यमग्नयो न ब्रह्म साकल्येनावोचन् , तदहं तुभ्यं साकल्येन वक्ष्यामि, यदनुभवमाहात्म्यात् “यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते”(छा. उ. ४ । १४ । ३) , इत्येवमुक्तवत्याचार्य आहोपकोसलः, ब्रवीतु मे भगवानिति, तस्मै होवाचाचार्योऽर्चिरादिकां गतिं वक्तुमनाः, यदुक्तमग्निभिः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति तत्परिपूरणाय “एषोऽक्षिणि पुरुषो दृश्यते”(छा. उ. ४ । १५ । १) इत्यादि । एतदुक्तं भवति - आचार्येण ये सुखं ब्रह्माक्षिस्थानं संयद्वामं वामनीभामनीत्येवंगुणकं प्राणसहितमुपासते ते सर्वेऽपहतपाप्मानोऽन्यत्कर्म कुर्वन्तु मा वाकार्षुः, अर्चिषमर्चिरभिमानिनीं देवतामभिसम्भवन्ति प्रतिपद्यन्ते, अर्चिषोऽहरहर्देवतां, अह्न आपूर्यमाणपक्षं शुक्लपक्षदेवतां, ततः षण्मासान् , येषु मासेषूत्तरां दिशमेति सविता ते षण्मासा उत्तरायणं तद्देवतां प्रतिपद्यन्ते, तेभ्यो मासेभ्यः संवत्सरदेवतां, तत आदित्यं, आदित्याच्चन्द्रमसं, चन्द्रमसो विद्युतं, तत्र स्थितानेतान्पुरुषः कश्चिद्ब्रह्मलोकादवतीर्यामानवोऽमानव्यां सृष्टौ भवः । ब्रह्मलोकभव इति यावत् । स तादृशः पुरुष एतान्सत्यलोकस्थं कार्यं ब्रह्म गमयति, स एष देवपथो देवैरर्चिरादिभिर्नेतृभिरुपलक्षित इति देवपथः, स एव च ब्रह्मणा गन्तव्येनोपलक्षित इति ब्रह्मपथः, एतेन पथा प्रतिपद्यमानाः सत्यलोकस्थं ब्रह्म इमं मानवं मनोः सर्गं किम्भूतमावर्तं जन्मजरामरणपौनःपुन्यमावृत्तिस्तत्कर्तावर्तो मानवो लोकस्तं नावर्तन्ते । तथाच स्मृतिः - “ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्” ॥ १५ ॥
तदनेनोपाख्यानव्याख्यानेन
श्रुतोपनिषत्कगत्यभिधानाच्च
इत्यपि सूत्रं व्याख्यातम् ॥ १६ ॥
अनवस्थितेरसम्भवाच्च नेतरः ।
'य एषोऽक्षिणि” इति नित्यवच्छ्रुतमनित्ये छायापुरुषे नावकल्पते । कल्पनागौरवं चास्मिन्पक्षे प्रसज्यत इत्याह -
न चोपासनाकाल इति ।
तथा विज्ञानात्मनोऽपीति ।
विज्ञानात्मनो हि न प्रदेशे उपासनाऽन्यत्र दृष्टचरी, ब्रह्मणस्तु तत्र श्रुतपूर्वेत्यर्थः । मिषा भिया । अस्मात् ब्रह्मणः । शेषमतिरोहितार्थम् ॥ १७ ॥
अन्तर्याम्याधिदैवादिषु तद्धर्मव्यपदेशात् ।
'स्वकर्मोपार्जितं देहं तेनान्यच्च नियच्छति । तक्षादिरशरीरस्तु नात्मान्तर्यमितां भजेत्” ॥ १ ॥ प्रवृत्तिनियमलक्षणं हि कार्यं चेतनस्य शरीरिणः स्वशरीरेन्द्रियादौ वा शरीरेण वा वास्यादौ दृष्टं नाशरीरस्य ब्रह्मणो भवितुमर्हति । नहि जातु वटाङ्कुरः कुटजबीजाज्जायते । तदनेन “जन्माद्यस्य यतः”(ब्र.सू. १-१-२) इत्येदप्याक्षिप्तं वेदितव्यम् । तस्मात्परमात्मनः शरीरेन्द्रियादिरहितस्यान्तर्यामित्वाभावात् , प्रधानस्य वा पृथिव्याद्यभिमानवत्या देवताया वाणिमाद्यैश्वर्ययोगिनो योगिनो वा जीवात्मनो वान्तर्यामिता स्यात् । तत्र यद्यपि प्रधानस्यादृष्टत्वाश्रुतत्वामतत्वविज्ञातत्वानि सन्ति, तथापि तस्याचेतनस्य द्रष्टृत्वश्रोतृत्वमन्तृत्वविज्ञातृत्वानां श्रुतानामभावात् , अनात्मत्वाच्च “एष त आत्मा”(बृ. उ. ३ । ७ । ३) इति श्रुतेरनुपपत्तेर्न प्रधानस्यान्तर्यामिता । यद्यपि पृथिव्याद्यभिमानिनो देवस्यात्मत्वमस्ति, अदृष्टत्वादयश्च सह दृष्टृत्वादिभिरुपपद्यन्ते, शरीरेन्द्रियादियोगाच्च, “पृथिव्येव यस्यायतनमग्निर्लोको मनो ज्योतिः”(बृ. उ. ३ । ९ । १०) इत्यादिश्रुतेः, तथापि तस्य प्रतिनियतनियमनात् “यः सर्वांल्लोकानन्तरो यमयति यः सर्वाणि भूतान्यन्तरो यमयति”(बृ. उ. ३ । ७ । १) इति श्रुतिविरोधादनुपपत्तेः, योगी तु यद्यपि लोकभूतवशितया सर्वांल्लोकान्सर्वाणि च भूतानि नियन्तुमर्हति तत्र तत्रानेकविधदेहेन्द्रियादिनिर्माणेन “स एकधा भवति त्रिधा भवति”(छा. उ. ७ । २६ । २) इत्यादिश्रुतिभ्यः, तथापि “जगद्व्यापारवर्जं प्रकरणात्”(ब्र.सू. ४-४-१७) इति वक्ष्यमाणेन न्यायेन विकारविषये विद्यासिद्धानां व्यापारभावात्सोऽपि नान्तर्यामी । तस्मात्पारिशेष्याज्जीव एव चेतनो देहेन्द्रियादिमान् दृष्टृत्वादिसम्पन्नः स्वयमदृश्यादिः स्वात्मनि वृत्तिविरोधात् । अमृतश्च, देहेन्द्रियादिनाशेऽप्यनाशात् । अन्यथामुष्मिकफलोपभोगाभावेन कृतविप्रणाशाकृताभ्यागमप्रसङ्गात् । “य आत्मनि तिष्ठन्” इति चाभेदेऽपि कथञ्चिद्भेदोपचारात् “स भगवः कस्मिन्प्रतिष्ठितः स्वे महिम्नि”(छा. उ. ७ । २४ । १) इतिवत् । “यमात्मा न वेद” इति च स्वात्मनि वृत्तिविरोधाभिप्रायम् । “यस्यात्मा शरीरम्” इत्यादि च सर्वं “स्वे महिम्नि” इतिवद्योजनीयम् । यदि पुनरात्मनोऽपि नियन्तुरन्यो नियन्ता भवेत् वेदिता वा ततस्तस्याप्यन्य इत्यनवस्था स्यात् । सर्वलोकभूतनियन्तृत्वं च जीवस्यादृष्टद्वारा । तदुपार्जितौ हि धर्माधर्मौ नियच्छत इत्यनया द्वारा जीवो नियच्छति । एकवचनं च जात्यभिप्रायम् । तस्माज्जीवात्मैवान्तर्यामी, न परमात्मेति । एवं प्राप्तेऽभिधीयते - “देहेन्द्रियादिनियमे नास्य देहेन्द्रियान्तरम् । तत्कर्मोपार्जितं तच्चेत्तदविद्यार्जितं जगत्” ॥ श्रुतिस्मृतीतिहासपुराणेषु तावदत्रभवतः सर्वज्ञस्य सर्वशक्तेः परमेश्वरस्य जगद्योनित्वमवगम्यते । न तत्पृथग्जनसाधाण्यानुमानाभासेनागमविरोधिना शक्यमपह्नोतुम् । तथाच सर्वं विकारजातं तदविद्याशक्तिपरिणामस्तस्य शरीरेन्द्रियस्थाने वर्तत इति यथायथं पृथिव्यादिदेवतादिकार्यकरणैस्तानेव पृथिव्यादिदेवतादीञ्छक्नोति नियन्तुम् । न चानवस्था । नहि नियन्त्रन्तरं तेन नियम्यते, किन्तु यो जीवो नियन्ता लोकसिद्धः स परमात्मैवोपाध्यवच्छेदकल्पितभेदस्तथा व्याख्यायत इत्यसकृदावेदितं, तत्कुतो नियन्त्रन्तरं कुतश्चानवस्था । तथाच “नान्योऽतोऽस्ति द्रष्टा”(बृ. उ. ३ । ७ । २३) इत्याद्या अपि श्रुतय उपपन्नार्थाः । परमार्थतोऽन्तर्यामिणोऽन्यस्य जीवात्मनो द्रष्टुरभावात् । अविद्याकल्पितजीवपरमात्मभेदाश्रयास्तु ज्ञातृज्ञेयभेदश्रुतयः, प्रत्यक्षादीनि प्रमाणानि, संसारानुभवः, विधिनिषेधशास्त्राणि च । एवं चाधिदैवादिष्वेकस्यैवान्तर्यामिणः प्रत्यभिज्ञानं समञ्जसं भवति, “यः सर्वांल्लोकान्”(बृ. उ. ३ । ७ । १) “यः सर्वाणि भूतानि” इत्यत्र य इत्येकवचनमुपपद्यते । अमृतत्वं च परमात्मनि समञ्जसं नान्यत्र । “य आत्मनि तिष्ठन्” इत्यादौ चाभेदेऽपि भेदोपचारक्लेशो न भविष्यति । तस्मात्परमात्मान्तर्यामी न जीवादिरिति सिद्धम् । पृथिव्यादि स्तनयित्न्वन्तमधिदैवम् । “यः सर्वेषु लोकेषु” इत्याधिलोकम् । “यः सर्वेषु वेदेषु” इत्यधिवेदम् । “यः सर्वेषु यज्ञेषु” इत्यधियज्ञम् । “यः सर्वेषु भूतेषु” इत्यधिभूतम् । प्राणाद्यात्मान्तमध्यात्मम् । संज्ञाया अप्रसिद्धत्वादित्युपक्रममात्रं पूर्वः पक्षः ॥ १८ ॥॥ १९ ॥
दर्शनादिक्रियायाः कर्तरि प्रवृत्तिविरोधात् ।
कर्तरि आत्मनि प्रवृत्तिविरोधादित्यर्थः ॥ २० ॥
अदृश्यत्वादिगुणको धर्मोक्तेः ।
अथ परा यया तदक्षरमधिगम्यते ।
यत्तदद्रेश्यं बुद्धीन्द्रियाविषयः । अग्राह्यं कर्मेन्द्रियागोचरः । अगोत्रं कारणरहितम् । अवर्णं ब्राह्मणत्वादिहीनम् । न केवलमिन्द्रियाणामविषयः ।
इन्द्रियाण्यप्यस्य न सन्तीत्याह -
अचक्षुःक्षोत्रमिति ।
बुद्धीन्द्रियाण्युपलक्षयति । अपाणिपादमिति कर्मेन्द्रियाणि । नित्यं, विभुं, सर्वगतं सुसूक्ष्मं दुर्विज्ञानत्वात् ।
स्यादेतत् । नित्यं सत्किं परिणामि नित्यं, नेत्याह -
अव्ययम् ।
कूटस्थनित्यमित्यर्थः । “परिणामो विवर्तो वा सरूपस्योपलभ्यते । चिदात्मना तु सारूप्यं जडानां नोपपद्यते ॥ १ ॥ जडं प्रधानमेवातो जगद्योनिः प्रतीयताम् । योनिशब्दो निमित्तं चेत्कुतो जीवनिराक्रिया” ॥ २ ॥ परिणममानसरूपा एव परिणामा दृष्टाः । यथोर्णनाभिलालापरिणामा लूतातन्तवस्तत्सरूपाः, तथा विवर्ता अपि वर्तमानसरूपा एव न विरूपाः । यथा रज्जुविवर्ता धारोरगादयो रज्जुसरूपाः । न जातु रज्ज्वां कुञ्जर इति विपर्यस्यन्ति । नच हेमपिण्डपरिणामो भवति लूतातन्तुः । तत्कस्य हेतोः, अत्यन्तवैरूप्यात् । तस्मात्प्रधानमेव जडं जडस्य जगतो योनिरिति युज्यते । स्वविकारानश्रुत इति तदक्षरम् । “यः सर्वज्ञः सर्ववित्”(मु. उ. १ । १ । ९) इति चाक्षरात्परात्परस्याख्यानं, “अक्षरात्परतः परः”(मु. उ. २ । १ । २) इति श्रुतेः । नहि परस्मादात्मनोर्ऽवाग्विकरजातस्य च परस्तात्प्रधानादृतेऽन्यदक्षरं सम्भवति । अतो यः प्रधानात्परः परमात्मा स सर्ववित् । भूतयोनिस्त्वक्षरं प्रधानमेव, तच्च साङ्ख्याभिमतमेवास्तु । अथ तस्याप्रामाणिकत्वान्न तत्र परितुष्यति, अस्तु तर्हि नामरूपबीजशक्तिभूतमव्याकृतं भूतसूक्ष्मं, प्रधीयते हि तेन विकारजातमिति प्रधानं, तत्खलु जडमनिर्वाच्यमनिर्वाच्यस्य जडस्य प्रपञ्चस्योपादानं युज्यते, सारूप्यात् । ननु चिदात्मानिर्वाच्यः, विरूपो हि सः । अचेतनानामिति भाष्यं सारूप्यप्रतिपादनपरम् ।
स्यादेतत् । स्मार्तप्रधाननिराकरणेनैवैतदपि निराकृतप्रायं, तत्कुतोऽस्य शङ्केत्यत आह -
अपिच पूर्वत्रादृष्टत्वादीति ।
सति बाधकेऽस्यानाश्रयणं, इह तु बाधकं नास्तीत्यर्थः । तेन “तदैक्षत”(छा. उ. ६ । २ । ३) इत्यादावुपचर्यतां ब्रह्मणो जगद्योनिताऽविद्याशक्त्याश्रयत्वेन । इह त्वविद्याशक्तेरेव जगद्योनित्वसम्भवे न द्वाराद्वारिभावो युक्त इति प्रधानमेवात्र वाक्ये जगद्योनिरुच्यत इति पूर्वः पक्षः । अथ योनिशब्दो निमित्तकारणपरस्तथापि ब्रह्मैव निमित्तं न तु जीवात्मेति विनिगमनायां न हेतुरस्तीति संशयेन पूर्वः पक्षः । अत्रोच्यते - “अक्षरस्य जगद्योनिभावमुक्त्वा ह्यनन्तरम् । यः सर्वज्ञ इति श्रुत्या सर्वज्ञस्य स उच्यते ॥ १ ॥ तेन निर्देशसामान्यात्प्रत्यभिज्ञानतः स्फुटम् । अक्षरं सर्वविद्विश्वयोनिर्नाचेतनं भवेत् ॥ २ ॥ अक्षरात्परत इति श्रुतिस्त्वव्याकृते मता । अश्नुते यत्स्वकार्याणि ततोऽव्याकृतमक्षरम्” ॥ ३ ॥ नेह तिरोहितमिवास्ति किञ्चित् । यत्तु सारूप्याभावान्न चिदात्मनः परिणामः प्रपञ्च इति । अद्धा । “विवर्तस्तु प्रपञ्चोऽयं ब्रह्मणोपरिणामिनः । अनादिवासनोद्भूतो न सारूप्यमपेक्षते” ॥ १ ॥ न खलु बाह्यसारूप्यनिबन्धन एव सर्वो विभ्रम इति नियमनिमित्तमस्ति । आन्तरादपि कामक्रोधभयोन्मादस्वप्नादेर्मानसादपराधात्सारूप्यानपेक्षात्तस्य तस्य विभ्रमस्य दर्शनात् । अपिच हेतुमिति विभ्रमे तदभावादनुयोगो युज्यते । अनाद्यविद्यातद्वासनाप्रवाहपतितस्तु नानुयोगमर्हति । तस्मात्परमात्मविवर्ततया प्रपञ्चस्तद्योनिः, भुजङ्ग इव रज्जुविवर्ततया तद्योनिः, न तु तत्परिणामतया । तस्मात्तद्धर्मसर्ववित्त्वोक्तेर्लिङ्गात् “यत्तदद्रेश्यम्”(मु. उ. १ । १ । ६) इत्यत्र ब्रह्मैवोपदिश्यते ज्ञेयत्वेन, नतु प्रधानं जीवात्मा वोपास्यत्वेनेति सिद्धम् ।
न केवलं लिङ्गादपि तु ‘परा विद्या’ इति समाख्यानादप्येतदेव प्रतिपत्तव्यमित्याह -
अपिच द्वे विद्ये इति ।
लिङ्गान्तरमाह -
कस्मिन्नु भवत इति ।
भोगा भोग्यास्तेभ्यो व्यतिरिक्ते भोक्तरि । अवच्छिन्नो हि जीवात्मा भोग्येभ्यो विषयेभ्यो व्यतिरिक्त इति तज्ज्ञानेन न सर्वं ज्ञातं भवति ।
समाख्यान्तरमाह -
अपिच स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामिति ।
प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशेति ।
प्लवन्ते गच्छन्ति अस्थायिन इति प्लवाः । अत एवादृढाः । के ते यज्ञरूपाः । रूप्यन्तेऽनेनेति रूपं, यज्ञो रूपमुपाधिर्येषां ते यज्ञरूपाः । ते तु षोडशर्त्विजः । ऋतुयजनेनोपाधिना ऋत्विक्शब्दः प्रवृत्त इति यज्ञोपाधय ऋत्विजः । एवं यजमानोऽपि यज्ञोपाधिरेव । एवं पत्नी, “पत्युर्नो यज्ञसंयोगे”(पा.सू.४-१-३३) इति स्मरणात् । त एतेऽष्टादश यज्ञरूपाः, येष्वृत्विगादिषूक्तं कर्म यज्ञः । यदाश्रयो यज्ञ इत्यर्थः । तच्च कर्मावरं स्वर्गाद्यवरफलत्वात् । अपियन्ति प्राप्नुवन्ति ।
नहि दृष्टान्तदार्ष्टान्तिकयोः
इत्युक्ताभिप्रायम् ॥ २१ ॥
विशेषणभेदव्यपदेशाभ्यां च नेतरौ ।
विशेषणं हेतुं व्याचष्टे -
विशिनष्टि हीति ।
शारीरादित्युपलक्षणम् , प्रधानादित्यपि द्रष्टव्यम् ।
भेदव्यपदेशं व्याचष्टे -
तथा प्रधानादपीति ।
स्यादेतत् । किमागमिकं साङ्ख्याभिमतं प्रधानं, तथाच बहुसमञ्जसं स्यादित्यत आह -
नात्र प्रधानं नाम किञ्चिदिति ॥ २२ ॥
रूपोपन्यासाच्च ।
तदेतत्परमतेनाक्षेपसमाधानाभ्यां व्याख्याय स्वमतेन व्याचष्टे -
अन्ये पुनर्मन्यन्त इति ।
पुनःशब्दोऽपि पूर्वस्माद्विशेषं द्योतयन्नस्येष्टतां सूचयति । जायमानवर्गमध्यपतितस्याग्निमूर्धादिरूपवतः सति जायमानत्वसम्भवे नाकस्माज्जनकत्वकल्पनं युक्तम् । प्रकरणं खल्वेतद्विश्वयोनेः, संनिधिश्च जायमानानाम् । संनिधेश्च प्रकरणं बलीय इति जायमानपरित्यागेन विश्वयोनेरेव प्रकरणिनो रूपाभिधानमिति चेत् न, प्रकरणिनः शरीरेन्द्रियादिरहितस्य विग्रहवत्त्वविरोधात् । न चैतावता मूर्धादिश्रुतयः प्रकरणविरोधात्स्वार्थत्यागेन सर्वात्मतामात्रपरा इति युक्तम् , श्रुतेरत्यन्तविप्रकृष्टार्थात्प्रकरणाद्बलीयस्त्वात् । सिद्धे च प्रकरणिनासम्बन्धे जायमानमध्यपातित्वं जायमानग्रहणे कारणमुपन्यस्तं भाष्यकृता । तस्माद्धिरण्यगर्भ एव भगवान् प्राणात्मना सर्वभूतान्तरः कार्यो निर्दिश्यत इति साम्प्रतम् ।
तत्किमिदानीं सूत्रमनवधेयमेव, नेत्याह -
अस्मिन्पक्ष इति ।
प्रकरणात् ॥ २३ ॥
वैश्वानरः साधारणशब्दविशेषात् ।
प्राचीन शालसत्ययज्ञेन्द्रद्युम्नजनबुडिलाः समेत्य मीमांसां चक्रुः -
को न आत्मा किं ब्रह्मेति ।
आत्मेत्युक्ते जीवात्मनि प्रत्ययो मा भूदत उक्तं किं ब्रह्मेति । ते च मीमांसमाना निश्चयमनधिगच्छन्तः कैकेयराजं वैश्वानरविद्याविदमुपसेदुः ।
उपसद्य चोचुः -
आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि
स्मरसि
तमेव नो ब्रूहीत्युपक्रम्य द्युसूर्वाय्वाकाशवारिपृथिवीनामिति ।
अयमर्थः - वैश्वानरस्य भगवतो द्यौर्मूर्धा सुतेजाः । चक्षुश्च विश्वरूपः सूर्यः । प्राणो वायुः पृथग्वर्त्मात्मा पृथक् वर्त्म यस्य वायोः स पृथग्वर्त्मा स एवात्मा स्वभावो यस्य स पृथग्वर्त्मात्मा । सन्देहो देहस्य मध्यभागः स आकाशो बहुलः सर्वगतत्वात् । बस्तिरेव रयिः आपः, यतोऽद्भ्योऽन्नमन्नाच्च रयिर्धनं तस्मादापो रयिरुक्तास्तासां च मूत्रीभूतानां बस्तिः स्थानमिति बस्तिरेव रयिरित्युक्तम् । पादौ पृथिवी तत्र प्रतिष्ठानात् । तदेवं वैश्वानरावयवेषु द्युसूर्यानिलाकाशजलावनिषु मूर्धचक्षुःप्राणसन्देहबस्तिपादेष्वेकैकस्मिन् वैश्वानरबुद्ध्या विपरीततयोपासकानां प्राचीनशालादीनां मूर्धपातान्धत्वप्राणोत्क्रमणदेहशीर्णताबस्तिभेदपादश्लथीभावदूषणैरुपासनानां निन्दया मूर्धादिसमस्तभावमुपदिश्याम्नायते “यस्त्वेतमेवं प्रादेशमात्रमभिविमानम्”(छा. उ. ५ । १८ । १) इति । स सर्वेषु लोकेषु द्युपृभृतिषु, सर्वेषु भूतेषु स्थावरजङ्गमेषु, सर्वेष्वात्मसु देहेन्द्रियमनोबुद्धिजीवेष्वन्नमत्ति । सर्वसम्बन्धिफलमाप्नोतीत्यर्थः ।
अथास्य वैश्वानरस्य भोक्तुर्भोजनस्याग्निहोत्रतासम्पिपादयिषयाह श्रुतिः -
उर एव वेदिः
वेदिसारूप्यात् ।
लोमानि बर्हिः
आस्तीर्णब्रहिःसारूप्यात् ।
हृदयं गार्हपत्यः ।
हृदयानन्तरं -
मनोऽन्वाहार्यपचनः ।
आस्यमाहवनीयः ।
तत्र हि तदन्नं हूयते । ननु “को न आत्मा किं ब्रह्म”(छा. उ. ५ । ११ । १) इत्युपक्रमे आत्मब्रह्मशब्दयोः परमात्मनि रूढत्वेन तदुपरक्तायां बुद्धौ वैश्वानराग्न्यादयः शब्दास्तदनुरोधेन परमात्मन्येव कथञ्चिन्नेतुं युज्यन्ते नतु प्रथमावगतौ ब्रह्मात्मशब्दौ चरमावगतवैश्वानरादिपदानुरोधेनान्यथयितुं युज्येते । यद्यपि च वाजसनेयिनां वैश्वानरविद्योपक्रमे “वैश्वानरं ह वै भगवान् सम्प्रति वेद तं नो ब्रूहि” इत्यत्र नात्मब्रह्मशब्दौ स्तः, तथापि तत्समानार्थं छान्दोग्यवाक्यं तदुपक्रममिति तेन निश्चितार्थेन तदविरोधेन वाजसनेयिवाक्यार्थो निश्चीयते । निश्चितार्थेन ह्यनिश्चितार्थं व्यवस्थाप्यते, नानिश्चितार्थेन निश्चितार्थम् । कर्मवच्च ब्रह्मापि सर्वशाखाप्रत्ययमेकमेव । नच द्युमूर्धत्वादिकं जाठरभूताग्निदेवताजीवात्मनामन्यतमस्यापि सम्भवति । नच सर्वलोकाश्रयफलभागिता ।
न च सर्वपाप्मप्रदाह इति पारिशेष्यात्परमात्मैव वैश्वानर इति निश्चिते कुतः पुनरियमाशङ्का -
शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेदिति ।
उच्यते - तदेवोपक्रमानुरोधेनान्यथा नीयते, यन्नेतुं शक्यम् । अशक्यौ च वैश्वानराग्निशब्दावन्यथा नेतुमिति शङ्कितुरभिमानः । अपि चान्तःप्रतिष्ठितत्वं च प्रादेशमात्रत्वं च न सर्वव्यापिनोऽपरिमाणस्य च परब्रह्मणः सम्भवतः । नच प्राणाहुत्यधिकरणताऽन्यत्र जाठराग्नेर्युज्यते । नच गार्हपत्यादिहृदयादिता ब्रह्मणः सम्भविनी । तस्माद्यथायोगं जाठरभूताग्निदेवताजीवानामन्यतमो वैश्वानरः, नतु ब्रह्म । तथा च ब्रह्मात्मशब्दावुपक्रमगतावप्यन्यथा नेतव्यौ । मूर्धत्वादयश्च स्तुतिमात्रम् । अथवा अग्निशरीराया देवताया ऐश्वर्ययोगात् द्युमूर्धत्वादय उपपद्यन्त इति शङ्कितुरभिसन्धिः ।
अत्रोत्तरम् -
न ।
कुतः,
तथा दृष्ट्युपदेशात् ।
अद्धा चरममनन्यथासिद्धं प्रथमावगतमन्यथयति । न त्वत्र चरमस्यानन्यथासिद्धिः, प्रतीकोपदेशेन वा मनो ब्रह्मेतिवत् , तदुपाध्युपदेशेन वा मनोमयः प्राणशरीरो भारूप इतिवदुपपत्तेः । व्युत्पत्त्या वा वैश्वानराग्निशब्दयोर्ब्रह्मवचनत्वान्नान्यथासिद्धिः । तथाच ब्रह्माश्रयस्य प्रत्ययस्याश्रयान्तरे जाठरवैश्वानराह्वये क्षेपेण वा जाठरवैश्वानरोपाधिनि वा ब्रह्मण्युपास्ये वैश्वानरधर्माणां ब्रह्मधर्माणां च समावेश उपपद्यते ।
असम्भवादिति सूत्रावयवं व्याचष्टे -
यदि चेह परमेश्वरो न विवक्ष्येतेति ।
पुरुषमपि चैनमधीयत इति सूत्रावयवं व्याचष्टे -
यदि च केवल एवेति ।
न ब्रह्मोपाधितया नापि प्रतीकतयेत्यर्थः । न केवलमन्तःप्रतिष्ठितं पुरुषमपीत्यपेरर्थः । अत एव यत्पुरुष इति पुरुषमनूद्य न वैश्वानरो विधीयते । तथासति पुरुषे वैश्वानरदृष्टिरुपदिश्येत । एवं च परमेश्वरदृष्टिर्हि जाठरे वैश्वानर इहोपदिश्यत इति भाष्यं विरुध्येत । श्रुतिविरोधश्च । “स यो हैतमेवमग्निं वैश्वानरं पुरुषं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद” इति वैश्वानरस्य हि पुरुषत्ववेदनमत्रानूद्यते, नतु पुरुषस्य वैश्वानरत्ववेदनम् । तस्मात् “स एषोऽग्निर्वैश्वानरो यत्”(श. ब्रा. १० । ६ । १ । ११) इति यदः पूर्वेण सम्बन्धः, पुरुष इति तु तत्र पुरुषदृष्टेरुपदेश इति युक्तम् ॥ २४ ॥ ॥ २५ ॥ ॥ २६ ॥
अत एव न देवता भूतं च ।
अत एवैतेभ्यः श्रुतिस्मृत्यवगतद्युमूर्धत्वादिसम्बन्धसर्वलोकाश्रयफलभागित्वसर्वपाप्मप्रदाहात्मब्रह्मपदोक्रमेभ्यो हेतुभ्य इत्यर्थः । “यो भानुना पृथिवीं द्यामुतेमाम्”(ऋ. सं. १० । ८८ । ३) इति मन्त्रवर्णोऽपि न केवलौष्ण्यप्रकाशविभवमात्रस्य भूताग्नेरिममीदृशं महिमानमाह, अपि तु ब्रह्मविकारतया ताद्रूप्येणेति भावः ॥ २७ ॥
साक्षादप्यविरोधं जैमिनिः ।
यदेतत्प्रकृतं मूर्धादिषु चुबुकान्तेषु पुरुषावयवेषु द्युप्रभृतीन्पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवान् सम्पाद्य पुरुषविधत्वं कल्पितं तदभिप्रायेणेदमुच्यते “पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद”(श. ब्रा. १० । ६ । १ । ११) इति । अत्रावयवसम्पत्त्या पुरुषविधत्वं कार्यकारणसमुदायरूपपुरुषावयवमूर्धादिचुबुकान्तःप्रतिष्ठानाच्च पुरुषेऽन्तःप्रतिष्ठितत्वं समुदायमध्यपतितत्वात्तदवयवानां समुदायिनाम् ।
अत्रैव निदर्शनमाह -
यथा वृक्षे शाखामिति ।
शाखाकाण्डमूलस्कन्धसमुदाये प्रतिष्ठिता शाखा तन्मध्यपतिता भवतीत्यर्थः ।
समाधानान्तरमाह -
अथवेति ।
अन्तःप्रतिष्ठत्वं माध्यस्थ्यं तेन साक्षित्वं लक्षयति । एतदुक्तं भवति - वैश्वानरःपरमात्मा चराचरसाक्षीति ।
पूर्वपक्षिणोऽनुशयमुन्मूलयति -
निश्चिते चेति ।
विश्वात्मकत्वात् वैश्वानरः प्रत्यागात्मा । विश्वेषां वायं नरः, तद्विकारत्वाद्विश्वप्रपञ्चस्य । विश्वे नरा जीवा वात्मानोऽस्य तादात्म्येनेति ॥ २८ ॥
अभिव्यक्तेरित्याश्मरथ्यः ।
साकल्येनोपलम्भासम्भवादुपासकानामनुग्रहायानन्तोऽपि परमेश्वरः प्रादेशमात्रमात्मानमभिव्यनक्तीत्याह -
अतिमात्रस्यापीति ।
अतिक्रान्तो मात्रां परिमाणमतिमात्रः ।
उपासकानां कृते ।
उपासकार्थमिति यावत् ।
व्याख्यान्तरमाह -
प्रदेशेषु वेति ॥ २९ ॥ ॥ ३० ॥
सम्पत्तेरिति जैमिनिः ।
मूर्धानमुपक्रम्य चुबुकान्तो हि कायप्रदेशः प्रादेशमात्रः । तत्रैव त्रैलोक्यात्मनो वैश्वानरस्यावयवान्सम्पादयन्प्रादेशमात्रं वैश्वानरं दर्शयति ॥ ३१ ॥
अत्रैव जाबालश्रुतिसंवादमाह सूत्रकारः -
आमनन्ति चैनमस्मिन् ।
अविमुक्ते अविद्योपाधिकल्पितावच्छेदे जीवात्मनि स खल्वविमुक्तः । तस्मिन्प्रतिष्ठितः परमात्मा, तादात्म्यात् । अत एव हि श्रुतिः - “अनेन जीवेनात्मना”(छा. उ. ६ । ३ । २) इति । अविद्याकल्पितं तु भेदमाश्रित्याधाराधेयभावः । वरणा भ्रूः । शेषमतिरोहितार्थम् ॥ ३२ ॥
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकमीमंसाभाष्यविभागे भामत्यां प्रथमस्याध्यायस्य द्वितीयः पादः ॥ २ ॥
॥ इति प्रथमाध्यायस्य उपास्यब्रह्मवाचकास्पष्टश्रुतिसमन्वयाख्यो द्वितीयः पादः ॥
द्युभ्वाद्यायतनं स्वशब्दात् ।
इह ज्ञेयत्वेन ब्रह्मोपक्षिप्यते । तत् “पारवत्त्वेन सेतुत्वाद्भेदे षष्ठ्याः प्रयोगतः । द्युभ्वाद्यायतनं युक्तं नामृतं ब्रह्म कर्हिचित्” ॥ पारावारमध्यपाती हि सेतुः ताभ्यामवच्छिद्यमानो जलविधारको लोके दृष्टः, नतु बन्धनहेतुमात्रम् । हडिनिगडादिष्वपि प्रयोगप्रसङ्गात् । न चानवच्छिन्नं ब्रह्म सेतुभावमनुभवति । न चामृतं सद्ब्रह्मामृतस्य सेतुरिति युज्यते । नच ब्रह्मणोऽन्यदमृतमस्ति, यस्य तत्सेतुः स्यात् । न चाभेदे षष्ठ्याः प्रयोगो दृष्टपूर्वः ।
तदिदमुक्तम् -
अमृतस्यैष सेतुरिति श्रवणादिति ।
अमृतस्येति श्रवणात् , सेतुरिति च श्रवणात् , इति योजना । तत्रामृतस्येति श्रवणादिति विशदतया न व्याख्यातम् ।
सेतुरिति श्रवणादिति व्याचष्टे -
पारवानिति ।
तथाच पारवत्यमृतव्यतिरिक्ते सेतावनुश्रियमाणे प्रधानं वा साङ्ख्यपरिकल्पितं भवेत् । तत्खलु स्वकार्योपहितमर्यादतया पुरुषं यावदगच्छद्भवतीति पारवत् , भवति च द्युभ्वाद्यायतनं, तत्प्रकृतित्वात् , प्रकृत्यायतनत्वाच्च विकाराणां, भवति चात्मात्मशब्दस्यस्वभाववचनत्वात् , प्रकाशात्मा प्रदीप इतिवत् । भवति चास्य ज्ञानमपवर्गोपयोगि, तदभावे प्रधानाद्विवेकेन पुरुषस्यानवधारणादपवनुपर्गापत्तेः । यदि त्वस्मिन्प्रमाणाभावेन न परितुष्यसि, अस्तु तर्हि नामरूपबीजशक्तिभूतमव्याकृतं भूतसूक्ष्मं द्युभ्वाद्यायतनं, तस्मिन् प्रामाणिके सर्वस्योक्तस्योपपत्तेः । एतदपि प्रधानोपन्यासेन सूचितम् । अथ तु साक्षाच्छुत्युक्तं द्युभ्वाद्यायतनमाद्रियसे, ततो वायुरेवास्तु । “वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति”(बृ. उ. ३ । ७ । २) इति श्रुतेः । यदि त्वात्मशब्दाभिधेयत्वं न विद्यत इति न परितुष्यसि, भवतु तर्हि शारीरः, तस्य भोक्तुर्भोग्यान् द्युप्रभृतीन्प्रत्यायतनत्वात् । यदि पुनरस्य द्युभ्वाद्यायतनस्य सार्वज्ञ्यश्रुतेरत्रापि न परितुष्यसि, भवतु ततो हिरण्यगर्भ एव भगवान् सर्वज्ञः सूत्रात्मा द्युभ्वाद्यायतनम् । तस्य हि कार्यत्वेन पारवत्त्वं चामृतात्परब्रह्मणो भेदश्चेत्यादि सर्वमुपपद्यते । अयमपि “वायुना वै गौतम सूत्रेण”(बृ. उ. ३ । ७ । २) इति श्रुतिमुपन्यस्यता सूचितः । तस्मादयं द्युप्रभृतीनामायतनमित्येवं प्राप्तेऽभिधीयते । द्युभ्वाद्यायतनं परं ब्रह्मैव, न प्रधानाव्याकृतवायुशारीरहिरण्यगर्भाः । कुतः, स्वशब्दात् । “धारणाद्वामृतत्वस्य साधनाद्वास्य सेतुता । पूर्वपक्षेऽपि मुख्यार्थः सेतुशब्दो हि नेष्यते” ॥ नहि मृद्दारुमयो मूर्तः पारावारमध्यवर्ती पाथसां विधारको लोकसिद्धः सेतुः प्रधानं वाव्याकृतं वा वायुर्वा जीवो वा सूत्रात्मा वाभ्युपेयते । किन्तु पारवत्तामात्रपरो लाक्षणिकः सेतुशब्दोऽभ्युपेयः । सोऽस्माकं पारवत्तावर्जं विधरणत्वमात्रेण योगमात्राद्रूढिं परित्यज्य प्रवर्त्स्यति । जीवानाममृतत्वपदप्राप्तिसाधनत्वं वात्मज्ञानस्य पारवत एव लक्षयिष्यति । अमृतशब्दश्च भावप्रधानः । यथा “द्व्येकयोर्द्विवचनैकवचने”(पा.सू. १।४।२२) इत्यत्र द्वित्वैकत्वे द्व्येकशब्दार्थौ, अन्यथा द्व्येकेष्विति स्यात् ।
तदिदमुक्तं भाष्यकृता -
अमृतत्वसाधनत्वादिति ।
तथा चामृतस्येति च सेतुरिति च ब्रह्मणि द्युभ्वाद्यायतने उपपत्स्येते । अत्र च स्वशब्दादिति तन्त्रोच्चरितमात्मशब्दादिति च सदायतना इति सच्छब्दादिति च ब्रह्मशब्दादिति च सूचयति । सर्वे ह्येतेऽस्य स्वशब्दाः ।
स्यादेतत् । आयतनायतनवद्भावः सर्वं ब्रह्मेति च सामानाधिकरण्यं हिरण्यगर्भेप्युपपद्यते । तथाच स एवात्रास्त्वमृतत्वस्य सेतुरित्याशङ्क्य श्रुतिवाक्येन सावधारणेनोत्तरमाह -
तत्रायतनायतनवद्भावश्रवणादिति ।
विकाररूपेऽनृतेऽनिर्वाच्येऽभिसन्धानं यस्याभिसन्धानपुरुषस्य स तथोक्तः । भेदप्रपञ्चं सत्यमभिमन्यमान इति यावत् ।
तस्यापवादो दोषः श्रूयते -
मृत्योरिति ।
सर्वं ब्रह्मेति त्विति ।
यत्सर्वमविद्यारोपितं तत्सर्वं परमार्थतो ब्रह्म । न तु यद्ब्रह्म तत्सर्वमित्यर्थः ।
अपर आहेति ।
नात्र द्युभ्वाद्यायतनस्य सेतुतोच्यते येन पारवत्ता स्यात् । किन्तु“जानथ” इति यज्ज्ञानं कीर्तितं, यश्च”वाचो विमुञ्चथ” इति वाग्विमोकः, तस्यामृतत्वसाधनत्वेन सेतुतोच्यते । तच्चोभयमपि पारवदेव । नच प्राधान्यादेष इति सर्वनाम्ना द्युभ्वाद्यायतनमात्मैव परामृश्यते, न तु तज्ज्ञानवाग्विमोचने इति साम्प्रतम् । वाग्विमोचनात्मज्ञानभावनयोरेव विधेयत्वेन प्राधान्यात् । आत्मनस्तु द्रव्यस्याव्यापारतयाऽविधेयत्वात् । विधेयस्य व्यापारस्यैव व्यापारवतोऽमृतत्वसाधनत्वात्न चेदमैकान्तिकं यत्प्रधानमेव सर्वनाम्ना परामृश्यते । क्वचिदयोग्यतया प्रधानमुत्सृज्य योग्यतया गुणोऽपि परामृश्यते ॥ १ ॥
मुक्तोपसृप्यव्यपदेशात् ।
द्युभ्वाद्यायतनं प्रकृत्याविद्यादिदोषमुक्तैरुपसृप्यं व्यपदिश्यते - “भिद्यते हृदयग्रन्थिः”(मु.उ. २-२-९) इत्यादिना । तेन तत् द्युभ्वाद्यायतनविषयमेव । ब्रह्मणश्च मुक्तोपसृप्यत्वं “यदा सर्वे प्रमुच्यन्ते”(क. उ. २ । ३ । १४) इत्यादौ श्रुत्यन्तरे प्रसिद्धम् । तस्मान्मुक्तोपसृप्यत्वात् । द्युभ्वाद्यायतनं ब्रह्मेति निश्चीयते । हृदयग्रन्थिश्चाविद्यारागाद्वेषभयमोहाः । मोहश्च विषादः, शोकः । परं हिरण्यगर्भाद्यवरं यस्य तद्ब्रह्म तथोक्तम् । तस्मिन्ब्रह्मणि यद्दृष्टं दर्शनं तस्मिंस्तदर्थमिति यावत् । यथा ‘चर्मणि द्वीपिनं हन्ति’ इति चर्मार्थमिति गम्यते । नामरूपादित्यप्यविद्याभिप्रायम् ।
कामा येऽस्य हृदि श्रिता इति ।
कामा इत्यविद्यामुपलक्षयति ॥ २ ॥
नानुमानमतच्छब्दात् ।
नानुमानमित्युपलक्षणम् । नाव्याकृतमित्यपि द्रष्टव्यं, हेतोरुभयत्रापि साम्यात् ॥ ३ ॥
प्राणभृच्च ।
चेनातच्छब्दत्वं हेतुरनुकृष्यते । स्वयं च भाष्यकृदत्र हेतुमाह -
न चोपाधिपरिच्छिन्नस्येति ।
न सम्यक्सम्भवति । नाञ्जसमित्यर्थः । भोग्यत्वेन हि आयतनत्वमिति क्लिष्टम् ।
स्यादेतत् । यद्यतच्छब्दत्वादित्यत्रापि हेतुरनुक्रष्टव्यः, हन्त कस्मात्पृथग्योगकरणं, यावता ‘न प्राणभृदनुमाने’ इत्येक एव योगः कस्मान्न कृत इत्यत आह -
पृथगिति ।
'भेदव्यपदेशात्” इत्यादिना हि प्राणभृदेव निषिध्यते, न प्रधानं, तच्चैकयोगकरणे दुर्विज्ञानं स्यादिति ॥ ४ ॥ ॥ ५ ॥
प्रकरणात् ।
न खलु हिरण्यगर्भादिषु ज्ञातेषु सर्वं ज्ञातं भवति किन्तु ब्रह्मण्येवेति ॥ ६ ॥
स्थित्यदनाभ्यां च ।
यदि जीवो हिरण्यगर्भो वा द्युभ्वाद्यायतनं भवेत् , ततस्तत्प्रकृत्या “अनश्नन्नन्योऽअभिचाकशीति”(मु. उ. ३ । १ । १) इति परमात्माभिधानमाकस्मिकं प्रसज्येत । नच हिरण्यगर्भ उदासीनः, तस्यापि भोक्तृत्वात् । नच जीवात्मैव द्युभ्वाद्यायतनं, तथा सति स एवात्र कथ्यते, तत्कथनाय च ब्रह्मापि कथ्यते, अन्यथा सिद्धान्तेऽपि जीवात्मकथनमाकस्मिकं स्यादिति वाच्यम् ।
यतोऽनधिगतार्थावबोधनस्वरसेनाम्नायेन प्राणभृन्मात्रप्रसिद्धजीवात्माधिगमायात्यन्तानवगतमलौकिकं ब्रह्मावबोध्यत इति सुभाषितम् -
यदापि पैङ्ग्युपनिषत्कृतेन व्याख्यानेनेति ।
तत्र हि “अनश्नन्नन्योऽअभिचाकशीति”(मु. उ. ३ । १ । १) इति जीव उपाधिरहितेन रूपेण ब्रह्मस्वभाव उदासीनोऽभोक्ता दर्शितः । तदर्थमेवाचेतनस्य बुद्धिसत्त्वस्यापारमार्थिकं भोक्तृत्वमुक्तम् । तथा चेत्थम्भूतं जीवं कथयतानेन मन्त्रवर्णेन द्युभ्वाद्यायतनं ब्रह्मैव कथितं भवति, उपाध्यवच्छिन्नश्च जीवः प्रतिषिद्धो भवतीति । न पैङ्गिब्राह्मणविरोध इत्यर्थः ।
प्रपञ्चार्थमिति ।
तन्मध्ये न पठितमिति कृत्वाचिन्तयेदमधिकरणं प्रवृत्तमित्यर्थः ॥ ७ ॥
भूमा सम्प्रसादादध्युपदेशात् ।
नारदः खलु देवर्षिः कर्मविदनात्मवित्तया शोच्यमात्मानं मन्यमानो भगवन्तमात्मज्ञमाजानसिद्धं महायोगिनं सनत्कुमारमुपससाद । उपसद्य चोवाच , भगवन् , अनात्मज्ञताजनितशोकसागरपारमुत्तारयतु मां भगवानिति । तदुपश्रुत्य सनत्कुमारेण ‘नाम ब्रह्मेत्युपास्स्व’ इत्युक्ते नारदेन पृष्टं किंनाम्नोऽस्ति भूय इति । तत्र सनत्कुमारस्य प्रतिवचनम् - “वाग्वाव नाम्नो भूयसी”(छा. उ. ७ । २ । १) इति तदेवं नारदसनत्कुमारयोर्भूयसी । प्रश्नोत्तरे वागिन्द्रियमुपक्रम्य मनःसङ्कल्पचित्तध्यानविज्ञानबलान्नतोयवायुसहिततेजोनभःस्मराशाप्राणेषु पर्यवसिते । कर्तव्याकर्तव्यविवेकः सङ्कल्पः, तस्य कारणं पूर्वापरविषयनिमित्तप्रयोजननिरूपणं चित्तम् । स्मरः स्मरणम् । प्राणस्य च समस्तक्रियाकारकफलभेदेन पित्राद्यात्मत्वेन च रथारनाभिदृष्टान्तेन सर्वप्रतिष्ठत्वेन च प्राणभूयस्त्वदर्शिनोऽतिवादित्वेन च नामादिप्रपञ्चादाशान्ताद्भूयस्त्वमुक्त्वापृष्ट एव नारदेन सनत्कुमार एकग्रन्थेन “एष तु वा अतिवदति यः सत्येनातिवदति”(छा. उ. ७ । १५ । १) इति सत्यादीन्कृतिपर्यन्तानुक्त्वोपदिदेश - “सुखं त्वेव विजिज्ञासितव्यम्”(छा. उ. ७ । २२ । १) इति । तदुपश्रुत्य नारदेन - “सुखं त्वेव भगवो विजिज्ञासे”(छा. उ. ७ । २१ । १) इत्युक्ते सनत्कुमारः “यो वै भूमा तत्सुखम्”(छा. उ. ७ । २३ । १) इत्युपक्रम्य भूमानं व्युत्पादयाम्बभूव - “यत्र नान्यत्पश्यति”(छा. उ. ७ । २४ । १) इत्यादिना । तदीदृशे विषये विचार आरभ्यते । तत्र संशयःकिं प्राणो भूमा स्यादाहो परमात्मेति । भावभवित्रोस्तादात्म्यविवक्षया सामानाधिकरण्यं संशयस्य बीजमुक्तं भाष्यकृता । तत्र “एतस्मिन् ग्रन्थसन्दर्भे यदुक्ताद्भूयसोऽन्यतः । उच्यमानं तु तद्भूय उच्यते प्रश्नपूर्वकम्” ॥ नच प्राणात्किं भूय इति पृष्टम् । नापि भूमा वास्माद्भूयानिति प्रत्युक्तम् । तस्मात्प्राणभूयस्त्वाभिधानानन्तरमपृष्ठेन भूमोच्यमानः प्राणस्यैव भवितुमर्हति । अपिच भूमेति भावो न भवितारमन्तरेण शक्यो निरूपयितुमिति भवितारमपेक्षमाणः प्राणस्यानन्तर्येण बुद्धिसंनिधानात्तमेव भवितारं प्राप्य निर्वृणोति । “यस्योभयं हविरार्तिमार्च्छेत्” इत्यत्रार्तिरिवार्तं हविः । यथाहुः “मृष्यामहे हविषा विशेषणम्” इति । न चात्मनः प्रकरणादात्मैव बुद्धिस्थ इति तस्यैव भूमा स्यादिति युक्तम् । सनत्कुमारस्य ‘नाम ब्रह्मेत्युपास्स्व’ इति प्रतीकोपदेशरूपेणोत्तरेण नारदप्रश्नस्यापि तद्विषयत्वेन परमात्मोपदेशप्रकरणस्यानुत्थानात् । अतद्विषयत्वे चोत्तरस्य प्रश्नोत्तरयोर्वैयधिकरण्येन विप्रतिपत्तेरप्रामाण्यप्रसङ्गात् । तस्मादसति प्रकरणे प्राणस्यानन्तर्यात्तस्यैव भूमेति युक्तम् । तदेतत्संशयबीजं दर्शयता भाष्यकारेण सूचितं पूर्वपक्षसाधनमिति न पुनरुक्तम् । नच भूयोभूयः प्रश्नात्परमात्मैव नारदेन जिज्ञासित इति युक्तम् । प्राणोपदेशानन्तरं तस्योपरमात् । तदेवं प्राण एव भूमेति स्थिते यद्यत्तद्विरोधितया वचः प्रतिभाति तत्तदनुगुणतया नेयम् । नीतं च भाष्यकृता ।
स्यादेतत् । “एष तु वा अतिवदति”(छा. उ. ७ । १७ । १) इति तुशब्देन प्राणदर्शिनोऽतिवादिनो व्यवच्छिद्य सत्येनातिवादित्वं वदन् कथं प्राणस्य भूमानमभिदधीतेत्यत आह -
प्राणमेव त्विति ।
प्राणदर्शिनश्चातिवादित्वमिति ।
नामाद्याशान्तमतीत्य वदनशीलत्वमित्यर्थः । एतदुक्तं भवति - नायं तुशब्दः प्राणातिवादित्वाद्वयवच्छिनत्ति, अपितु तदतिवादित्वमपरित्यज्य प्रत्युत तदनुकृष्य तस्यैव प्राणस्य सत्यस्य श्रवणमननश्रद्धानिष्ठाकृतिभिर्विज्ञानाय निश्चयाय सत्येनातिवदतीति प्राणव्रतमेवातिवादित्वमुच्यते । तुशब्दो नामाद्यतिवादित्वाद्व्यवच्छिनत्ति । न नामाद्याशान्तवाद्यतिवादि, अपितु सत्यप्राणवाद्यतिवादीत्यर्थः । अत्र चागमाचार्योपदेशाभ्यां सत्यस्य श्रवणम् । अथागमाविरोधिन्यायनिवेशनं मननं, मत्वा च गुरुशिष्यसब्रह्मचारिभिरनसूयुभिः सह संवाद्य तत्त्वं श्रद्धत्ते । श्रद्धानन्तरं च विषयान्तरदर्शी विरक्तस्ततो व्यावृत्तस्तत्त्वज्ञानाभ्यासं करोति, सेयमस्य कृतिः प्रयत्नः । अथ तत्त्वज्ञानाभ्यासनिष्ठा भवति, यदनन्तरमेव तत्त्वविज्ञानमनुभवः प्रादुर्भवति । तदेतद्बाह्या । अप्याहुः - “भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानम्” इति भावनाप्रकर्षस्य पर्यन्तो निष्ठा तस्माज्जायते तत्त्वानुभव इति । तस्मात्प्राण एव भूमेति प्राप्तेऽभिधीयते “एष तु वा अतिवदति यः सत्येनातिवदति”(छा. उ. ७ । १७ । १)“एष तु वा अतिवदति यः सत्येनातिवदति”(छा. उ. ७ । १७ । १) इत्युक्त्वा भूमोच्यते । तत्र सत्यशब्दः परमार्थे निरूढवृत्तिः श्रुत्या परमार्थमाह । परमार्थश्च परमात्मैव । ततो ह्यन्यत्सर्वं विकारजातमनृतं कयाचिदपेक्षया कथञ्चित्सत्यमुच्यते । तथाच “एष तु वा अतिवदति यः सत्येनातिवदति” इति ब्रह्मणोऽतिवादित्वं श्रुत्यान्यनिरपेक्षया लिङ्गादिभ्यो बलीयस्यावगमितं कथमिव संनिधानमात्रात् श्रुत्याद्यपेक्षादतिदुर्बलात्कथं चित्प्राणविषयत्वेन शक्यं व्याख्यातुम् । एवं च प्राणादूर्ध्वं ब्रह्मणि भूमावगम्यमानो न प्राणविषयो भवितुमर्हति, किन्तु सत्यस्य परमात्मन एव । एवं चानात्मविद आत्मानं विविदिषोर्नारदस्य प्रश्ने परमात्मानमेवास्मै व्याख्यास्यामीत्यभिसन्धिमान्सनत्कुमारः सोपानारोहणन्यायेन स्थूलादारभ्य तत्तद्भूमव्युत्पादनक्रमेण भूमानमतिदुर्ज्ञानतया परमसूक्ष्मं व्युत्पादयामास । नच प्रश्नपूर्वताप्रवाहपतितेनोत्तरेण सर्वेण प्रश्नपूर्वेणैव भवितव्यमिति नियमोऽस्तीत्यादिसुगमेन भाष्येण व्युत्पादितम् । विज्ञानादिसाधनपरम्परा मननश्रद्धादिः, प्राणान्ते चानुशासने तावन्मात्रेणैव प्रकरणसमाप्तेर्न प्राणस्यान्यायत्ततोच्येत । तदभिधाने हि सापेक्षत्वेन न प्रकरणं समाप्येत । तस्मान्नेदं प्राणस्य प्रकरणमपि तु यदायत्तः प्राणस्तस्य, स चात्मेत्यात्मन एव प्रकरणम् ।
शङ्कते -
प्रकरणान्त इति ।
प्राणप्रकरणसमाप्तावित्यर्थः ।
निराकरोति -
न ।
स भगव इति ।
सन्दंशन्यायेन हि भूम्न एतत्प्रकरणं, स चेद्भूमा प्राणः, प्राणस्यैतत्प्रकरणं भवेत् । तच्चायुक्तमित्युक्तम् ॥ ८ ॥
न केवलं श्रुतेर्भूमात्मता परमात्मनः, लिङ्गादपीत्याह सूत्रकारः -
धर्मोपपत्तेश्च ।
यदपि पूर्वपक्षिणा कथञ्चिन्नीतं तदनुभाष्य भाष्यकारो दूषयति -
योऽप्यसौ सुषुप्तावस्थायामिति ।
सुषुप्तावस्थायामिन्द्रियाद्यसंयोग्यात्मैव । न प्राणः । परमात्मप्रकरणात् । अन्यदार्तम् । विनश्वरमित्यर्थः । अतिरोहितार्थमन्यत् ॥ ९ ॥
अक्षरमम्बरान्तधृतेः ।
अक्षरशब्दः समुदायप्रसिद्ध्या वर्णेषु रूढः । परमात्मनि चावयवप्रसिद्ध्या यौगिकः । अवयवप्रसिद्धेश्च समुदायप्रसिद्धिर्बलीयसीति वर्णा एवाक्षरम् । नच वर्णेष्वाकाशस्योतत्वप्रोतत्वे नोपपद्येते, सर्वस्यैव रूपधेयस्यनामधेयात्मकत्वात् । सर्वं हि रूपधेयं नामधेयसम्भिन्नमनुभूयते, गौरयं वृक्षोऽयमिति । न चोपायत्वात्तत्सम्भेदसम्भवः । नहि धूमोपाया वह्निधीर्धूमसम्भिन्नं वह्निमवगाहते धूमोऽयं वह्निरिति, किन्तु वैयधिकरण्येन धूमाद्वह्निरिति । भवति तु नामधेयसम्भिन्नो रूपधेयप्रत्ययो डित्थोऽयमिति । अपिच शब्दानुपायेऽपि रूपधेयप्रत्यये लिङ्गेन्द्रियजन्मनि नामसम्भेदो दृष्टः । तस्मान्नामसम्भिन्ना पृथिव्यादयोऽम्बरान्ता नाम्ना ग्रथिताश्च विद्धाश्च, नामानि च ओङ्कारात्मकानि तद्व्याप्तत्वात् । “तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमोङ्कारेण सर्वा वाक्”(छा. उ. २ । २३ । ३) इति श्रुतेः । अत ओङ्कारात्मकाः पृथिव्यादयोऽम्बरान्ता इति वर्णा एवाक्षरं न परमात्मेति प्राप्तम् । एवं प्राप्तेऽभिधीयते - अक्षरं परमात्मैव, न तु वर्णाः । कुतः । अम्बरान्तधृतेः । न खल्वम्बरान्तानि पृथिव्यादीनि वर्णा धारयितुमर्हन्ति, किन्तु परमात्मैव । तेषां परमात्मविकारत्वात् । नच नामधेयात्मकं रूपधेयमिति युक्तं, स्वरूपभेदात् , उपायभेदात् , अर्थक्रियाभेदाच्च । तथाहि - शब्दत्वसामान्यात्मकानि श्रोत्रग्राह्याण्यभिधेयप्रत्ययार्थक्रियाणि नामधेयान्यनुभूयन्ते । रूपधेयानि तु घटपटादीनि घटत्वपटत्वादिसामान्यात्मकानि चक्षुरादीन्द्रियाग्राह्याणि मधुधारणप्रावरणाद्यर्थक्रियाणि च भेदेनानुभूयन्ते इति कुतो नामसम्भेदः । नच डित्थोऽयमिति शब्दसामानाधिकरण्यप्रत्ययः । न खलु शब्दात्मकोऽयं पिण्ड इत्यनुभवः, किन्तु यो नानादेशकालसम्प्लुतः पिण्डः सोऽयं संनिहितदेशकाल इत्यर्थः । संज्ञा तु गृहीतसम्बन्धैरत्यन्ताभ्यासात्पिण्डाभिनिवेशिन्येव संस्कारोद्बोधसम्पातायाता स्मर्यते । यथाहुः - “यत्संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् । पिण्ड एव हि दृष्टः सन्संज्ञां स्मारयितुं क्षमः ॥ १ ॥ संज्ञा हि स्मर्यमाणापि प्रत्यक्षत्वं न बाधते । संज्ञिनः सा तटस्था हि न रूपाच्छादनक्षमा” ॥ २ ॥ इति । नच वर्णातिरिक्ते स्फोटात्मनि अलौकिकेऽक्षरपदप्रसिद्धिरस्ति लोके । न चैष प्रामाणिक इत्युपरिष्टात्प्रवेदयिष्यते । निवेदितं चास्माभिस्तत्त्वबिन्दौ । तस्माच्छ्रोत्रग्राह्याणां वर्णानामम्बरान्तधृतेरनुपपत्तेः समुदायप्रसिद्धिबाधनावयवप्रसिद्ध्या परमात्मैवाक्षरमिति सिद्धम् । ये तु प्रधानं पूर्वपक्षयित्वानेन सूत्रेण परमात्मैवाक्षरमिति सिद्धान्तयन्ति तैरम्बरान्तरधृतेरित्यनेन कथं प्रधानं निराक्रियत इति वाच्यम् । अथ नाधिकरणत्वमात्रं धृतिः अपि तु प्रशासनाधिकरणता । तथा च श्रुतिः - “एतस्य वाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः”(बृ. उ. ३ । ८ । ९) इति । तथाप्यम्बरान्तधृतेरित्यनर्थकम् । एतावद्वक्तव्यम् अक्षरं प्रशासनादिति । एतावतैव प्रधाननिराकरणसिद्धेः । तस्माद्वर्णाक्षरतानिराक्रियैवास्यार्थः । नच स्थूलादीनां वर्णेष्वप्राप्तेरस्थूलमित्यादिनिषेधानुपपत्तेर्वर्णेषु शङ्कैव नास्तीति वाच्यम् । नह्यवश्यं प्राप्तिपूर्वका एव प्रतिषेधा भवन्ति, अप्राप्तेष्वपि नित्यानुवादानां दर्शनात् । यथा नान्तरिक्षे न दिवीत्यग्निचयननिषेधानुवादः । तस्मात् यत्किञ्चिदेतत् ॥ १० ॥
सा च प्रशासनात् ।
प्रशासनमाज्ञा चेतनधर्मो नाचेतने प्रधाने वाऽव्याकृते वा सम्भवति । नच मुख्यार्थसम्भवे कूलं पिपतिषतीतिवद्भाक्तत्वमुचितमिति भावः ॥ ११ ॥
अन्यभावव्यावृत्तेश्च ।
अम्बरान्तविधरणस्याक्षरस्येश्वरागद्यदन्यद्वर्णा वा प्रधानं वाव्याकृतं वा तेषामन्येषां भावोऽन्यभावस्तमत्यन्तं व्यावर्तयति श्रुतिः - “तद्वा एतदक्षरं गार्गि”(बृ. उ. ३ । ८ । ११) इत्यादिका ।
अनेनैव सूत्रेण जीवस्याप्यक्षरता निषिद्धेत्यत आह -
तथेति ।
'नान्यत्” इत्यादिकया हि श्रुत्यात्मभेदः प्रतिषिध्यते । तथा चोपाधिभेदाद्भिन्ना जीवा निषिद्धा भवन्त्यभेदाभिधानादित्यर्थः ।
इतोऽपि न शारीरस्याक्षरशब्दतेत्याह -
अचक्षुष्कमिति ।
अक्षरस्य चक्षुराद्युपाधिं वारयन्ती श्रुतिरौपाधिकस्य जीवस्याक्षरतां निषेधतीत्यर्थः । तस्माद्वर्णप्रधानाव्याकृतजीवानामसम्भवात् , सम्भवाच्च परमात्मनः, परमात्मैवाक्षरमिति सिद्धम् ॥ १२ ॥
ईक्षतिकर्मव्यपदेशात्सः ।
'कार्यब्रह्मजनप्राप्तिफलत्वादर्थभेदतः । दर्शनध्यानयोर्ध्येयमपरं ब्रह्म गम्यते” ॥ “ब्रह्म वेद ब्रह्मैव भवति”(मु. उ. ३ । २ । ९) इति श्रुतेः सर्वगतपरब्रह्मवेदने तद्भावापत्तौ “स सामभिरुन्नीयते ब्रह्मलोकम्”(प्र. उ. ५ । ५) इति न देशविशेषप्राप्तिरुपपद्यते । तस्मादपरमेव ब्रह्मेह ध्येयत्वेन चोद्यते । न चेक्षणस्य लोके तत्त्वविषयत्वेन प्रसिद्धेः परस्यैव ब्रह्मणस्तथाभावात् , ध्यायतेश्च तेन समानविषयत्वात् , परब्रह्मविषयमेव ध्यानमिति साम्प्रतम् , समानविषयत्वस्यैवासिद्धेः । परो हि पुरुषो ध्यानविषयः, परात्परस्तु दर्शनविषयः । नच तत्त्वविषयमेव सर्वं दर्शनं, अनृतविषयस्यापि तस्य दर्शनात् । नच मननं दर्शनं, तच्च तत्त्वविषयमेवेति साम्प्रतम् । मननाद्भेदेन तत्र तत्र दर्शनस्य निर्देशात् । नच मननमपि तर्कापरनामावश्यं तत्त्वविषयम् । यथाहुः - “तर्कोऽप्रतिष्ठः”(म.भा. ३-३१४-११९) इति । तस्मादपरमेव ब्रह्मेह ध्येयम् । तस्य च परत्वं शरीरापेक्षयेति । एवं प्राप्त उच्यते - “ईक्षणध्यानयोरेकः कार्यकारणभूतयोः । अर्थ औत्सर्गिकं तत्त्वविषयत्वं यथेक्षतेः” ॥ ध्यानस्य हि साक्षात्कारः फलम् । साक्षात्कारश्चोत्सर्गतस्तत्त्वविषयः । क्वचित्तु बाधकोपनिपाते समारोपितगोचरो भवेत् । न चासत्यपवादे शक्य उत्सर्गस्त्यक्तुम् । तथा चास्य तत्त्वविषयत्वात्तत्कारणस्य ध्यानस्यापि तत्त्वविषयत्वम् । अपिच वाक्यशेषेणैकवाक्यत्वसम्भवे न वाक्यभेदो युज्यते । सम्भवति च परपुरुषविषयत्वेनार्थप्रत्यभिज्ञानात्समभिव्याहाराच्चैकवाक्यता । तदनुरोधेन च परात्पर इत्यत्र परादिति जीवघनविषयं द्रष्टव्यम् । तस्मात्तु परः पुरुषो ध्यातव्यश्च द्रष्टव्यश्च भवति ।
तदिदमुक्तम् -
न चात्र जीवघनशब्देन प्रकृतोऽभिध्यातव्यः परः पुरुषः परामृश्यते ।
किन्तु जीवघनात्परात्परो यो ध्यातव्यो द्रष्टव्यश्च तमेव कथयितुं जीवघनो जीवः । खिल्यभावमुपाधिवशादापन्नः स उच्यते । “स सामभिरुन्नीयते ब्रह्मलोकम्”(प्र. उ. ५ । ५) इत्यनन्तरवाक्यनिर्दिष्टो ब्रह्मलोको वा जीवघनः । स हि समस्तकरणात्मनः सूत्रात्मनो हिरण्यगर्भस्य भगवतो निवासभूमितया करणपरिवृतानां जीवानां सङ्घात इति भवति जीवघनः । तदेवं त्रिमात्रोङ्कारायतनं परमेव ब्रह्मोपास्यम् । अत एव चास्य देशविशेषाधिगतिः फलमुपाधिमत्त्वात् , क्रमेण च सम्यग्दर्शनोत्पत्तौ मुक्तिः । “ब्रह्म वेद ब्रह्मैव भवति”(मु. उ. ३ । २ । ९) इति तु निरुपाधिब्रह्मवेदनविषया श्रुतिः । अपरं तु ब्रह्मैकैकमात्रायतनमुपास्यमिति मन्तव्यम् ॥ १३ ॥
दहर उत्तरेभ्यः ।
'अथ यदिदमस्मिन् ब्रह्मपुरे दहरम्” सूक्ष्मं गुहाप्रायं पुण्डरीकसंनिवेशं वेश्म “दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम्”(छा. उ. ८ । १ । १) आगमाचार्योपदेशाभ्यां श्रवणं च, तदविरोधिना तर्केण मननं च, तदन्वेषणम् । तत्पूर्वकेण चादरनैरन्तर्यदीर्घकालासेवितेन ध्यानाभ्यासपरिपाकेन साक्षात्कारो विज्ञानम् । विशिष्टं हि तज्ज्ञानं पूर्वेभ्यः । तदिच्छा विजिज्ञासनम् ।
अत्र संशयमाह -
तत्रेति ।
तत्र प्रथमं तावदेवं संशयः - किं दहराकाशादन्यदेव किञ्चिदन्वेष्टव्यं विजिज्ञासितव्यं च उत दहराकाश इति । यदापि दहराकाशोऽन्वेष्टव्यस्तदापि किं भूताकाश आहो शारीर आत्मा किं वा परमात्मेति ।
संशयहेतुं पृच्छति -
कुत इति ।
तद्धेतुमाह -
आकाशब्रह्मपुरशब्दाभ्यामिति ।
तत्र प्रथमं तावद्भूताकाश एव दहर इति पूर्वपक्षयति -
तत्राकाशशब्दस्य भूताकाशे रूढत्वादिति ।
एष तु बहुतरोत्तरसन्दर्भविरोधात्तुच्छः पूर्वपक्ष इत्यपरितोषेण पक्षान्तरमालम्बते पूर्वपक्षी -
अथवा जीवो दहर इति प्राप्तम् ।
युक्तमित्यर्थः । तत्र “आधेयत्वाद्विशेषाच्च पुरं जीवस्य युज्यते । देहो न ब्रह्मणो युक्तो हेतुद्वयवियोगतः” ॥ असाधारण्येन हि व्यपदेशता भवन्ति । तद्यथा क्षितिजलपवनबीजादिसामग्रीसमवधानजन्माप्यङ्कुरः शालिबीजेन व्यपदिश्यते शाल्यङ्कुर इति । नतु क्षित्यादिभिः, तेषां कार्यान्तरेष्वपि साधारण्यात् । तदिह शरीरं ब्रह्मविकारोऽपि न ब्रह्मणा व्यपदेष्टव्यम् , ब्रह्मणः सर्वविकारकारणत्वेनातिसाधारण्यात् । जीवभेदधर्माधर्मोपार्जितं तदित्यसाधारणकारणत्वाज्जीवेन व्यपदिश्यत इति युक्तम् । अपिच ब्रह्मपुर इति सप्तम्यधिकरणे स्मर्यते, तेनाधेयेनानेन सम्बद्धव्यम् । नच ब्रह्मणः स्वे महिम्नि व्यवस्थितस्यानाधेयस्याधारसम्बन्धः कल्पते । जीवस्त्वाराग्रमात्र इत्याधेयो भवति । तस्माद्ब्रह्मशब्दो रूढिं परित्यज्य देहादिबृंहणतया जीवे यौगिके वा भाक्तो वा व्याख्येयः । चैतन्यं च भक्तिः । उपाधानानुपधाने तु विशेषः । वाच्यत्वं गम्यत्वम् ।
स्यादेतत् । जीवस्य पुरं भवतु शरीरं, पुण्डरीकदहरगोचरता त्वन्यस्य भविष्यति, वत्सराजस्य पुर इवोज्जयिन्यां मैत्रस्य सद्मेत्यत आह -
तत्र पुरस्वामिन इति ।
अयमर्थः - वेश्म खल्वधिकरणमनिर्दिष्टाधेयमाधेयविशेषापेक्षायां पुरस्वामिनः प्रकृतत्वात्तेनैवाधेयेन सम्बद्धं सदनपेक्षं नाधेयान्तरेण सम्बन्धं कल्पयति ।
ननु तथापि शरीरमेवास्य भोगायतनमिति को हृदयपुण्डरीकस्य विशेषो यत्तदेवास्य सद्मेत्यत आह -
मनौपाधिकश्च जीव इति ।