भामतीव्याख्या
१ परिच्छेदः
ननु मनोऽपि चलतया सकलदेहवृत्ति पर्यायेणेत्यत आह -
मनश्च प्रायेणेति ।
आकाशशब्दश्चारूपत्वादिना सामान्येन जीवे भाक्तः ।
अस्तु वा भूताकाश एवायमाकाशशब्दो “दहरोऽस्मिन्नन्तराकाशः”(छा. उ. ८ । १ । १) इति, तथाप्यदोष इत्याह -
न चात्र दहरस्याकाशस्यान्वेष्यत्वमिति ।
एवं प्राप्त उच्यते - भूताकाशस्य तावन्न दहरत्वं, “यावान्वायमाकाशस्तावानेषोऽन्तर्हृदय आकाशः”(छा. उ. ८ । १ । ३) इत्युपमानविरोधात् । तथाहि - “तेन तस्योपमेयत्वं रामरावणयुद्धवत् । अगत्या भेदमारोप्य गतौ सत्यां न युज्यते” ॥ अस्ति तु दहराकाशस्य ब्रह्मत्वेन भूताकाशाद्भेदेनोपमानस्य गतिः । न चानवच्छिन्नपरिमाणमवच्छिन्नं भवति । तथा सत्यवच्छेदानुपपत्तेः । न भूताकाशमानत्वं ब्रह्मणोऽत्र विधीयते, येन “ज्यायानाकाशात्”(श. ब्रा. १० । ६ । ३ । २) इति श्रुतिविरोधः स्यात् , अपि तु भूताकाशोपमानेन पुण्डरीकोपाधिप्राप्तं दहरत्वं निवर्त्यते ।
अपिच सर्व एवोत्तरे हेतवो दहराकाशस्य भूताकाशत्वं व्यासेधन्तीत्याह -
न च कल्पितभेद इति ।
नापि दहराकाशो जीव इत्याह -
यद्यप्यात्मशब्द इति ।
'उपलब्धेरधिष्ठानं ब्रह्मणो देह इष्यते । तेनासाधारणत्वेन देहो ब्रह्मपुरं भवेत्” ॥ देहे हि ब्रह्मोपलभ्यत इत्यसाधारणतया देहो ब्रह्मपुरमिति व्यपदिश्यते, न तु ब्रह्मविकारतया । तथाच ब्रह्मशब्दार्थो मुख्यो भवति । अस्तु वा ब्रह्मपुरं जीवपुरं, तथापि यथा वत्सराजस्य पुरे उज्जयिन्यां मैत्रस्य सद्म भवति, एवं जीवस्य पुरे हृत्पुण्डरीकं ब्रह्मसदनं भविष्यति, उत्तरेभ्यो ब्रह्मलिङ्गेभ्यो ब्रह्मणोऽवधारणात् । ब्रह्मणो हि बाधके प्रमाणे बलीयसि जीवस्य च साधके प्रमाणे सति ब्रह्मलिङ्गानि कथञ्चिदभेदविवक्षया जीवे व्याख्यायन्ते । न चेह ब्रह्मणो बाधकं प्रमाणं, साधकं वास्ति जीवस्य । ब्रह्मपुरव्यपदेशश्चोपपादितो ब्रह्मोपलब्धिस्थानतया । अर्भकौकस्त्वं चोक्तम् । तस्मात्सति सम्भवे ब्रह्मणि, तल्लिङ्गानां नाब्रह्मणि व्याख्यानमुचितमिति ब्रह्मैव दहराकाशो न जीवभूताकाशाविति । श्रवणमननमनुविद्य ब्रह्मानुभूय चरणं चारस्तेषां कामेषु चरणं भवतीत्यर्थः ।
स्यादेतत् । दहराकाशस्यान्वेष्यत्वे सिद्धे तत्र विचारो युज्यते, नतु तदन्वेष्टव्यम् , अपितु तदाधारमन्यदेव किञ्चिदित्युक्तमित्यनुभाषते -
यदप्येतदिति ।
अनुभाषितं दूषयति -
अत्र ब्रूम इति ।
यद्याकाशाधारमन्यदन्वेष्टव्यं भवेत्तदेवोपरि व्युत्पादनीयं, आकाशव्युत्पादनं तु क्वोपयुज्यत इत्यर्थः ।
चोदयति -
नन्वेतदपीति ।
आकाशकथनमपि तदन्तर्वर्तिवस्तुसद्भावप्रदर्शनायैव ।
अथाकाशपरमेव कस्मान्न भवतीत्यत आह -
तं चेद्ब्रूयुरिति ।
आचार्येण हि “दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्”(छा. उ. ८ । १ । १) इत्युपदिष्टेऽन्तेवासिनाक्षिप्तम् - “किं तदत्र विद्यते यदन्वेष्टव्यम्”(छा. उ. ८ । १ । २) । पुण्डरीकमेव तावत्सूक्ष्मतरं, तदवरुद्धमाकाशं सूक्ष्मतमम् । तस्मिन्सूक्ष्मतमे किमपरमस्ति । नास्त्येवेत्यर्थः । तत्किमन्वेष्टव्यमिति । तदस्मिन्नाक्षेपे परिसमाप्ते समाधानावसर आचार्यस्याकाशोपमानोपक्रमं वचः - “उभे अस्मिन्द्यावापृथिवी समाहिते”(छा. उ. ८ । १ । ३) इति । तस्मात्पुण्डरीकावरुद्धाकाशाश्रये द्यावापृथिव्यावेवान्वेष्टव्ये उपदिष्टे, नाकाश इत्यर्थः ।
परिहरति -
नैतदेवम् ।
एवं हीति ।
स्यादेतत् । एवमेवैतत् ।
नो खल्वभ्युपगमा एव दोषत्वेन चोद्यन्त इत्यत आह -
तत्र वाक्यशेष इति ।
वाक्यशेषो हि दहराकाशात्मवेदनस्य फलवत्त्वं ब्रूते, यच्च फलवत्तत्कर्तव्यतया चोद्यते, यच्च कर्तव्यं तदिच्छतीति “तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्”(छा. उ. ८ । १ । १) इति तद्दहराकाशविषयमवतिष्ठते ।
स्यादेतत् । द्यावापृथिव्यावेवात्मानौ भविष्यतः, ताभ्यामेवात्मा लक्षयिष्यते, आकाशशब्दवत् । ततश्चाकाशाधारौ तावेव परामृश्यते इत्यत आह -
अस्मिन्कामाः समाहिताः
प्रतिष्ठिताः ।
एष आत्मापहतपाप्मेति ।
अनेन
प्रकृतं द्यावापृथिव्यादिसमाधानाधारमाकाशमाकृष्य ।
द्यावापृथिव्यभिधानव्यवहितमपीति शेषः ।
ननु सत्यकामज्ञानस्यैतत्फलं, तदनन्तरं निर्देशात् , न तु दहराकाशवेदनस्येत्यत आह -
समुच्चयार्थेन चशब्देनेति ।
'अस्मिन्कामाः” इति च ‘एषः’ इति चैकवचनान्तं न द्वे द्यावापृथिव्यौ पराम्रष्टुमर्हतीति दहराकाश एव पराम्रष्टव्य इति समुदायार्थः । तदनेन क्रमेण ‘तस्मिन्यदन्तः’ इत्यत्र तच्छब्दोऽनन्तरमप्याकाशमतिलङ्घ्य हृत्पुण्डरीकं परामृशतीत्युक्तं भवति । तस्मिन् हृत्पुण्डरीके यदन्तराकाशं तदन्वेष्टव्यमित्यर्थः ॥ १४ ॥
गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ।
उत्तरेभ्य इत्यस्य प्रपञ्चः एतमेव दहराकाशं प्रक्रम्य बताहो कष्टमिदं वर्तते जन्तूनां तत्त्वावबोधविकलानां, यदेभिः स्वाधीनमपि ब्रह्म न प्राप्यते । तद्यथा चिरन्तननिरूढनिबिडमलपिहितानां कलधौतशकलानां पथि पतितानामुपर्युपरि सञ्चरद्भिरपि पान्थैर्धनायद्भिर्ग्रावखण्डनिवहविभ्रमेणैतानि नोपादियन्त इत्यभिसन्धिमती साद्भुतमिव सखेदमिव श्रुतः प्रवर्तते - “इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति”(छा. उ. ८ । ३ । २) इति । स्वापकाले हि सर्व एवायं विद्वानविद्वांश्च जीवलोको हृत्पुण्डरीकाश्रयं दहराकाशाख्यं ब्रह्मलोकं प्राप्तोऽप्यनाद्यविद्यातमः पटलपिहितदृष्टितया ब्रह्मभूयमापन्नोऽहमस्मीति न वेद । सोऽयं ब्रह्मलोकशब्दस्तद्गतिश्च प्रत्यहं जीवलोकस्य दहराकाशस्यैव ब्रह्मरूपलोकतामाहतुः ।
तदेतदाह भाष्यकारः -
इतश्च परमेश्वर एव दहरो यस्माद्दहरवाक्यशेष इति ।
तदनेन गतिशब्दौ व्याख्यातौ ।
'तथाहि दृष्टम्” इति सूत्रावयवं व्याचष्टे -
तथाह्यहरहर्जीवानामिति ।
वेदे च लोके च दृष्टम् । यद्यपि सुषुप्तस्य ब्रह्मभावे लौकिकं न प्रमाणान्तरमस्ति, तथापि वैदिकीमेव प्रसिद्धिं स्थापयितुमुच्यते, ईदृशी नामेयं वैदिकी प्रसिद्धिर्यल्लोकेऽपि गीयत इति । यथा श्रुत्यन्तरे यथा च लोके तथेह ब्रह्मलोकशब्दोऽपीति योजना ।
'लिङ्गं च” इति सूत्रावयवव्याख्यानं चोद्यमुखेनावतारयति -
ननु कमलासनलोकमपीति ।
परिहरति -
गमयेद्यदि ब्रह्मणो लोक इति ।
अत्र तावन्निषादस्थपतिन्यायेन षष्ठीसमासात्कर्मधारयो बलीयानिति स्थितमेव, तथापीह षष्ठीसमासनिराकरणेन कर्मधारयसमासस्थापनाय लिङ्गमप्यधिकमस्तीति तदप्युक्तं सूत्रकारेण । तथाहि - लोकवेदप्रसिद्धाहरहर्ब्रह्मलोकप्राप्त्यभिधानमेव लिङ्गं कमलासनलोकप्राप्तेर्विपक्षादसम्भवाद्व्यावर्तमानं षष्ठीसमासाशङ्कां व्यावर्तयद्दहराकाशप्राप्तावेवावतिष्ठते, नच दहराकाशो ब्रह्मणो लोकः किन्तु तद्ब्रह्मेति ब्रह्म च तल्लोकश्चेति कर्मधारयः सिद्धो भवति । लोक्यत इति लोकः । हृत्पुण्डरीकस्थः खल्वयं लोक्यते । यत्खलु पुण्डरीकस्थमन्तःकरणं तस्मिन्विशुद्धे प्रत्याहृतेतरकरणानां योगिनां निर्मल इवोदके चन्द्रमसो बिम्बमतिस्वच्छं चैतन्यं ज्योतिःस्वरूपं ब्रह्मावलोक्यत इति ॥ १५ ॥
धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ।
सौत्रो धृतिशब्दो भाववचनः । धृतेश्च परमेश्वर एव दहराकाशः । कुतः, अस्य धारणलक्षणस्य महिम्नोऽस्मिन्नेवेश्वर एव श्रुत्यन्तरेषूपलब्धेः । निगदव्याख्यानमस्य भाष्यम् ॥ १६ ॥
प्रसिद्धेश्च ।
न चेयमाकाशशब्दस्य ब्रह्मणि लक्ष्यमाणविभुत्वादिगुणयोगाद्वृत्तिः साम्प्रतिकी, यथा रथाङ्गनामा चक्रवाक इति लक्षणा, किन्त्वत्यन्तनिरूढेति सूत्रार्थः । ये त्वाकाशशब्दो ब्रह्मण्यपि मुख्य एव नभोवदित्याचक्षते, तैः “अन्यायश्चानेकार्थत्वम्” इति च “अनन्यलभ्यः शब्दार्थः” इति च मीमांसकानां मुद्राभेदः कृतः । लभ्यते ह्याकाशशब्दाद्विभुत्वादिगुणयोगेनापि ब्रह्म । नच ब्रह्मण्येव मुख्यो नभसि तु तेनैव गुणयोगेन वर्त्स्यतीति वाच्यम् । लोकाधीनावधारणत्वेन शब्दार्थसम्बन्धस्य वैदिकपदार्थप्रत्ययस्य तत्पूर्वकत्वात् । ननु “यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः”(छा. उ. ८ । १ । ३) इति व्यतिरेकनिर्देशान्न लक्षणा युक्ता । नहि भवति गङ्गायाः कूलमिति विवक्षिते गङ्गाया गङ्गेति प्रयोगः तत्किमिदानीं “पौर्णमास्यां पौर्णमास्या यजेत” “अमावास्यायाममावास्यया” इत्यसाधुर्वैदिकः प्रयोगः । नच पौर्णमास्यमावास्यशब्दावग्नेयादिषु मुख्यौ । यच्चोक्तं यत्र शब्दार्थप्रतीतिस्तत्र लक्षणा, यत्र पुनरन्यार्थे निश्चिते शब्दप्रयोगस्तत्र वाचकत्वमेवेति, तदयुक्तम् । उभयस्यापि व्यभिचारात् । “सोमेन यजेत” इति शब्दादर्थः प्रतीयते । न चात्र कस्यचिल्लाक्षणिकत्वमृते वाक्यार्थात् । न च “य एवं विद्वान् पौर्णमासीं यजते य एवं विद्वानमावास्याम्” इत्यत्र पौर्णमास्यमावास्याशब्दौ न लाक्षणिकौ । तस्माद्यत्किञ्चिदेतदिति ॥ १७ ॥
इतरपरामर्शात्स इति चेन्नासम्भवात् ।
सम्यक् प्रसीदत्यस्मिन् जीवो विषयेन्द्रियसंयोगजनितं कालुष्यं जहातीति सुषुप्तिः सम्प्रसादो जीवस्यावस्थाभेदः न ब्रह्मणः तथा शरीरात्समुत्थानमपि शरीराश्रयस्य जीवस्य, नत्वनाश्रयस्य ब्रह्मणः । तस्माद्यथा पूर्वोक्तैर्वाक्यशेषगतैर्लिङ्गैर्ब्रह्मावगम्यते दहराकाशः, एवं वाक्यशेषगताभ्यामेव सम्प्रसादसमुत्थानाभ्यां दहराकाशो जीवः कस्मान्नावगम्यते । तस्मान्नास्ति विनिगमनेति शङ्कार्थः । “नासम्भवात्”(ब्र. सू. १ । ३ । १८) । सम्प्रसादसमुत्थनाभ्यां हि जीवपरामर्शो न जीवपरः, किन्तु तदीयतात्त्विकरूपब्रह्मभावपरः । तथा चैष परामर्शो ब्रह्मण एवेति न सम्प्रसादसमुत्थाने जीवलिङ्गम् , अपि तु ब्रह्मण एव तादर्थ्यादित्यग्रे वक्ष्यते । आकाशोपमानादयस्तु ब्रह्माव्यभिचारिणश्च ब्रह्मपराश्चेत्यस्ति विनिगमनेत्यर्थः ॥ १८ ॥
उत्तराच्चेदाविर्भूतस्वरूपस्तु ।
दहराकाशमेव प्रकृत्योपाख्यायते - यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् , तमात्मानं विविदिषन्तौ सुरासुरराजविन्द्रविरोचनौ समित्पाणी प्रजापतिं वरिवसितुमाजग्मतुः । आगत्य च द्वात्रिंशतं वर्षाणि तत्परिचरणपरौ ब्रह्मचर्यमूषतुः । अथैतौ प्रजापतिरुवाच, किङ्कामाविहस्थौ युवामिति । तावूचतुः, य आत्मापहतपाप्मा तमावां विविदिषाव इति । ततः प्रजापतिरुवाच, य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मापहतपाप्मत्वादिगुणः, यद्विज्ञानात्सर्वलोककामावाप्तिः । एतदमृतमभयम् । अथैतच्छुत्वैतावप्रक्षीणकल्मषावरणतया छायापुरुषं जगृहतुः । प्रजापतिं च पप्रच्छतुः, अथ योऽयं भगवोऽप्सु दृश्यते, यश्चादर्शे, यश्च स्वङ्गादौ कतम एतेष्वसौ अथवैक एव सर्वेष्विति । तमेतयोः श्रुत्वा प्रश्नं प्रजापतिर्बताहो सुदूरमुद्भ्रान्तावेतौ, अस्माभिरक्षिस्थान आत्मोपदिष्टः, एतौ च छायापुरुषं प्रतिपन्नौ, तद्यदि वयं भ्रान्तौ स्थ इति ब्रूमस्ततः स्वात्मनि समारोपितपाण्डित्यबहुमानौ विमानितौ सन्तौ दौर्मनस्येन यथावदुपदेशं न गृह्णीयाताम् , इत्यनयोराशयमनुरुध्य यथार्थं ग्राहयिष्याम इत्यभिसन्धिमान्प्रत्युवाच, उदशराव आत्मानमवेक्षेथामस्मिन्यत्पश्यथस्तद्ब्रूतमिति । तौ च दृष्ट्वा सन्तुष्टहृदयौ नाब्रूताम् । अथ प्रजापतिरेतौ विपरीतग्राहिणौ मा भूतामित्याशयवान्पप्रच्छ, किमत्रापश्यतामिति । तौ होचतुः, यथैवावमतिचिरब्रह्मचर्यचरणसमुपजातायतनखलोमादिमन्तावेवमावयोः प्रतिरूपकं नखलोमादिमदुदशरावेऽपश्यावेति । पुनरेतयोश्छायात्मविभ्रममपनिनीषुर्यथैव हि छायापुरुष उपजनापायधर्माभेदेनावगम्यमान आत्मलक्षणविरहान्नात्मैवेवमेवेदं शरीरं नात्मा, किन्तु ततो भिन्नमित्यन्वयव्यतिरेकाभ्यामेतौ जानीयातामित्याशयवान् प्रजापतिरुवाच, साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वा पुनरुदशरावे पश्यतमात्मानं, यच्चात्र पश्यथस्तद्ब्रूतमिति । तौ च साध्वलङ्कृतौ सुवसनौ छिन्ननखलोमानौ भूत्वा तथैव चक्रतुः । पुनश्च प्रजापतिनापृष्टौ तामेव छायामात्मानमूचतुः । तदुपश्रुत्य प्रजापतिरहो बताद्यापि न प्रशान्त एनयोर्विभ्रमः, तद्यथाभिमतमेवात्मतत्त्वं कथयामि तावत् । कालेन कल्मषे क्षीणेऽस्मद्वचनसन्दर्भपौर्वापर्यलोचनयात्मतत्त्वं प्रतिपत्स्येते स्वयमेवेति मत्वोवाच, एष आत्मैतदमृतमभयमेतद्ब्रह्मेति । तयोर्विरोचनो देहानुपातित्वाच्छायाया देह एवात्मतत्त्वमिति मत्वा निजसदनमागत्य तथैवासुरानुपदिदेश । देवेन्द्रस्त्वप्राप्तनिजसदनोऽध्वन्येव किञ्चिद्विरलकल्मषतया छायात्मनि शरीरगुणदोषानुविधायिनि तं तं दोषं परिभावयन्नाहमत्र छायात्मदर्शने भोग्यं पश्यामीति प्रजापतिसमीपं समित्पाणिः पुनरेवेवायम् । आगतश्च प्रजापतिनागमनकारणं पृष्टः पथि परिभावितं जगाद । प्रजापतिस्तु सुव्याख्यातमप्यात्मतत्त्वमक्षीणकल्मषावरणतया नाग्रहीः, तत्पुनरपि तत्प्रक्षयाया चरापराणि द्वात्रिंशतं वर्षाणि ब्रह्मचर्यं, अथ प्रक्षीणकल्मषाय ते अहमेतमेवात्मानं भूयोऽनुव्याख्यास्यामीत्यवोचत् । स च तथा चरितब्रह्मचर्यः सुरेन्द्रः प्रजापतिमुपससाद । उपपन्नाय चास्मै प्रजापतिर्व्याचष्टे, य आत्मापहतपाप्मादिलक्षणोऽक्षण दर्शितः सोऽयं य एष स्वप्ने महीयमानो वनितादिभिरनेकधा स्वप्नोपभोगान् भुञ्जानो विरहतीति । अस्मिन्नपि देवेन्द्रो भयं ददर्श । यद्यप्ययं छायापुरुषवन्न शरीरधर्माननुपतति, तथापि शोकभयादिविविधबाधानुभवान्न तत्राप्यस्ति स्वस्तिप्राप्तिरित्युक्तवति मघवति पुनरपराणि चर द्वात्रिंशतं वर्षाणि स्वच्छं ब्रह्मचर्यमिदानीमप्यक्षीणकल्मषोऽसीत्यूचे प्रजापतिः । अथास्मिन्नेवंकारमुपसन्ने मघवति प्रजापतिरुवाच, य एष आत्मापहतपाप्मादिगुणो दर्शितोऽक्षिणि च स्वप्ने च स एष यो विषयेन्द्रियसंयोगविरहात्प्रसन्नः सुषुप्तावस्थायामिति । अत्रापि नेन्द्रो निर्ववार । यथा हि जाग्रद्वा स्वप्नगतो वायमहमस्मीति इमानि भूतानि चेति विजानाति नैवं सुषुप्तः किञ्चिदपि वेदयते, तदा खल्वयमचेतयमानोऽभावं प्राप्त इव भवति । तदिह का निर्वृत्तिरिति । एवमुक्तवति मघवति बताद्यापि न ते कल्मषक्षयोऽभूत् । तत्पुनरपराणि चर पञ्च वर्षाणि ब्रह्मचर्यमित्यवोचत्प्रजापतिः । तदेवमस्य मघोनस्त्रिभिः पर्यायैर्व्यतीयुः षण्णवतिवर्षाणि । चतुर्थे च पर्याये पञ्च वर्षाणीत्येकोत्तरं शतं वर्षाणि ब्रह्मचर्यं चरतः सहस्राक्षस्य सम्पेदिरे । अथास्मै ब्रह्मचर्यसम्पदुन्मृदितकल्मषाय मघवते य एषोऽक्षिणि यश्च स्वप्ने यश्च सुषुप्ते अनुस्यूत एष आत्मापहतपाप्मादिगुणको दर्शितः, तमेव “मघवन्मर्त्यं वै शरीरम्”(छा. उ. ८ । १२ । १) इत्यादिना विस्पष्टं व्याचष्टे प्रजापतिः । अयमस्याभिसन्धिः - यावत्किञ्चित्सुखं दुःखमागमापायि तत्सर्वं शरीरेन्द्रियान्तःकरणसम्बन्धि, न त्वात्मनः । स पुनरेतानेव शरीरादीननाद्यविद्यावासनावशादात्मत्वेनाभिप्रतीतस्तद्गतेन सुखदुःखेन तद्वन्तमात्मानमभिमन्यमानोऽनुतप्यते । यदा त्वयमपहतपाप्मत्वादिलक्षणमुदासीनमात्मानं देहादिभ्यो विविक्तमनुभवति, अथास्य शरीरवतोऽप्यशरीरस्य न देहादिधर्मसुखदुःखप्रसङ्गोऽस्तीति नानुतप्यते, केवलमयं निजे चैतन्यानन्दघने रूपे व्यवस्थितः समस्तलोककामान् प्राप्तो भवति । एतस्यैव हि परमानन्दस्य मात्राः सर्वे कामाः । दुःखं त्वविद्यानिर्माणमिति न विद्वानाप्नोति । “अशीलितोपनिषदां व्यामोह इह जायते । तेषामनुग्रहायेदमुपाख्यानमवर्तयम्” ॥ एवं व्यवस्थित उत्तराद्वाक्यसन्दर्भात्प्राजापत्यात् अक्षिणि च स्वप्ने सुषुप्ते च चतुर्थे च पर्याये “एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय”(छा. उ. ८ । ३ । ४) इति जीवात्मैवापहतपाप्मादिगुणः श्रुत्योच्यते । नो खलु परस्याक्षिस्थानं सम्भवति । नापि स्वप्नाद्यवस्थायोगः । नापि शरीरात्समुत्थानम् । तस्माद्यस्यैतत्सर्वं सोऽपहतपाप्मादिगुणः श्रुत्योक्तः । जीवस्य चैतत्सर्वमिति स एवापहतपाप्मादिगुणः श्रुत्योक्त इति नापहतपाप्मादिभिः परं ब्रह्म गम्यते । ननु जीवस्यापहतपाप्मत्वादयो न सम्भवन्तीत्युक्तम् । वचनाद्भविष्यति । किमिव वचनं न कुर्यात् । नास्ति वचनस्यातिभारः । नच मानान्तरविरोधः । नहि जीवः पाप्मादिस्वभावः, किन्तु वाग्बुद्धिशरीरारम्भसम्भवोऽस्य पाप्मादिः शरीराद्यभावे न भवति धूम इव धूमध्वजाभाव इति शङ्कार्थः ।
निराकरोति -
तं प्रति ब्रूयात् आविर्भूतस्वरूपस्तु ।
अयमभिसन्धिः - पौर्वापर्यालोचनया तावदुपनिषदां शुद्धबुद्धमुक्तमेकमप्रपञ्चं ब्रह्म तदतिरिक्तं च सर्वं तद्विवर्तो रज्जोरिव भुजङ्ग इत्यत्र तात्पर्यमवगम्यते । तथाच जीवोऽप्यविद्याकल्पितदेहेन्द्रियाद्युपहितं रूपं ब्रह्मणो न तु स्वाभाविकः । एवं च नापहतपाप्मत्वादयस्तस्मिन्नविद्योपाधौ सम्भविनः । आविर्भूतब्रह्मरूपे तु निरुपाधौ सम्भवन्तो ब्रह्मण एव न जीवस्य । एवं च ब्रह्मैवापहतपाप्मादिगुणं श्रुत्युक्तमिति तदेव दहराकाशो न जीव इति ।
स्यादेतत् । स्वरूपाविर्भावे चेद्ब्रह्मैव न जीवः, तर्हि विप्रतिषिद्धमिदमभिधीयते जीव आविर्भूतस्वरूप इति, अत आह -
भूतपूर्वगत्येति ।
उदशरावब्राह्मणेनेति ।
यथैव हि मघोनः प्रतिबिम्बान्युदशराव उपजनापायधर्मकाण्यात्मलक्षणविरहान्नात्मा, एवं देहेन्द्रियाद्यप्युपजनापायधर्मकं नात्मेत्युदशरावदृष्टान्तेन शरीरात्मताया व्युत्थानं बाध इति ।
चोदयति -
कथं पुनः स्वं च रूपमिति ।
द्रव्यान्तरसंसृष्टं हि तेनाभिभूतं तस्माद्विविच्यमानं व्यज्यते हेमतारकादि । कूटस्थनित्यस्य पुनरन्येनासंसृष्टस्य कुतो विवेचनादभिव्यक्तिः । नच संसारावस्थायां जीवोऽनभिव्यक्तः । दृष्ट्यादयो ह्यस्य स्वरूपं, ते च संसारावस्थायां भासन्त इति कथं जीवरूपं न भासत इत्यर्थः ।
परिहरति -
प्राग्विवेकज्ञानोत्पत्तेरिति ।
अयमर्थः - यद्यप्यस्य कूटस्थनित्यस्यान्यसंसर्गो न वस्तुतोऽस्ति, यद्यपि च संसारावस्थायामस्य दृष्ट्यादिरूपं चकास्ति, तथाप्यनिर्वाच्यानाद्यविद्यावशादविद्याकल्पितैरेव देहेन्द्रियादिभिरसंसृष्टमपि संसृष्टमिव विविक्तमप्यविविक्तमिव दृष्ट्यादिरूपमस्य प्रथते । तथाच देहेन्द्रियादिगतैस्तापादिभिस्तापादिमदिव भवतीति । उपपादितं चैतद्विस्तरेणाध्यासभाष्य इति नेहोपपाद्यते । यद्यपि स्फटिकादयो जपाकुसुमादिसंनिहिताः, संनिधानं च संयुक्तसंयोगात्मकं, तथा च संयुक्ताः, तथापि न साक्षाज्जपादिकुसुमसंयोगिन इत्येतावता दृष्टान्तिता इति । वेदना हर्षभयशोकादयः ।
दार्ष्टान्तिके योजयति -
तथा देहादीति ।
'सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते” इत्येतद्विभजते -
श्रुतिकृतं विवेकविज्ञानमिति ।
तदनेन श्रवणमननध्यानाभ्यासाद्विवेकविज्ञानमुक्त्वा तस्य विवेकविज्ञानस्य फलं केवलात्मरूपसाक्षात्कारः स्वरूपेणाभिनिष्पत्तिः, स च साक्षात्कारो वृत्तिरूपः प्रपञ्चमात्रं प्रविलापयन् स्वयमपि प्रपञ्चरूपत्वात्कतकफलवत्प्रविलीयते । तथाच निर्मृष्टनिखिलप्रपञ्चजालमनुपसर्गमपराधीनप्रकाशमात्मज्योतिः सिद्धं भवति । तदिदमुक्तम् - परं ज्योतिरुपसम्पद्येति । अत्र चोपसम्पत्तावुत्तरकालायामपि क्त्वाप्रयोगो मुखं व्यादाय स्वपितीतीवन्मन्तव्यः ।
यदा च विवेकसाक्षात्कारः शरीरात्समुत्थानं, न तु शरीरापादानकं गमनम् , तदा तत्सशरीरस्यापि सम्भवति प्रारब्धकार्यकर्मक्षयस्य पुरस्तादित्याह -
तथा विवेकाविवेकमात्रेणेति ।
न केवलं “स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति”(मु. उ. ३ । २ । ९) इत्यादिश्रुतिभ्यो जीवस्य परमात्मनोऽभेदः, प्राजापत्यवाक्यसन्दर्भपर्यालोचनयाप्येवमेव प्रतिपत्तव्यमित्याह -
कुतश्चैतदेवं प्रतिपत्तव्यमिति ।
स्यादेतत् । प्रतिच्छायात्मवज्जीवं परमात्मनो वस्तुतो भिन्नमप्यमृताभयात्मत्वेन ग्राहयित्वा पश्चात्परमात्मानमृताभयादिमन्तं प्रजापतिर्ग्राह्यति, न त्वयं जीवस्य परमात्मभावमाचष्टे छायात्मन इवेत्यत आह -
नापि प्रतिच्छायात्मायमक्षिलक्षित इति ।
अक्षिलक्षितोऽप्यात्मैवोपदिश्यते न छायात्मा । तस्मादसिद्धो दृष्टान्त इत्यर्थः ।
किञ्च द्वितीयादिष्वपि पर्यायेषु “एतं त्वेव ते भूयोऽनुव्याख्यास्यामि”(छा. उ. ८ । ९ । ३) इत्युपक्रमात्प्रथमपर्यायनिर्दिष्टो न छायापुरुषः, अपि तु ततोऽन्यो दृष्टात्मेति दर्शयति, अन्यथा प्रजापतेः प्रतारकत्वप्रसङ्गादित्यत आह -
तथा द्वितीयेऽपीति ।
अथ छायापुरुष एव जीवः कस्मान्न भवति । तथाच छायापुरुष एवैतमिति परामृश्यत इत्यत आह -
किञ्चाहमद्य स्वप्ने हस्तिनमिति ।
किञ्चेति समुच्चयाभिधानं पूर्वोपपत्तिसाहित्यं ब्रूते, तच्च शङ्कानिराकरणद्वारेण । छायापुरुषोऽस्थायी, स्थायी चायमात्मा चकास्ति, प्रत्यभिज्ञानादित्यर्थः ।
न हि खल्वयमेवमिति ।
अयं सुषुप्तः । सम्प्रति सुषुप्तावस्थायाम् । अहमात्मानमहङ्कारास्पदमात्मानम् । न जानाति ।
केन प्रकारेण न जानातीत्यत आह -
अयमहमस्मीमानि भूतानि चेति ।
यथा जागृतौ स्वप्ने चेति । “न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्”(बृ. उ. ४ । ३ । ३०) इत्यनेनाविनाशित्वं सिद्धवद्धेतुकुर्वता सुप्तोत्थितस्यात्मप्रत्यभिज्ञानमुक्तम् , य एवाहं जागरित्वा सुप्तः स एवैतर्हि जागर्मीति ।
आचार्यदेशीयमतमाह -
केचित्त्विति ।
यदि ह्येतमित्यनेनानन्तरोक्तं चक्षुरधिष्ठानं पुरुषं परामृश्य तस्यात्मत्वमुच्येत ततो न भवेच्छायापुरुषः । न त्वेतदस्ति । वाक्योपक्रमसूचितस्य परमात्मनः परामर्शात् । न खलु जीवात्मनोऽपहतपाप्मत्वादिगुणसम्भव इत्यर्थः ।
तदेतद्दूषयति -
तेषामेतमिति ।
सुबोधम् ।
मतान्तरमाह -
अपरे तु वादिन इति ।
यदि न जीवः कर्ता भोक्ता च वस्तुतो भवेत् , ततस्तदाश्रयाः कर्मविधय उपरुध्येरन् । सूत्रकारवचनं च “नासम्भवात्”(ब्र. सू. १ । ३ । १८) इति कुप्येत । तत्खलु ब्रह्मणो गुणानां जीवेऽसम्भवमाह । न चाभेदे ब्रह्मणो जीवानां ब्रह्मगुणानामसम्भवो जीवेष्विति तेषामभिप्रायः । तेषां वादिनां शारीरकेणैवोत्तरं दत्तम् । तथाहि - पौर्वापर्यपर्यालोचनया वेदान्तानामेकमद्वयमात्मतत्त्वं, जीवास्त्वविद्योपधानकल्पिता इत्यत्र तात्पर्यमवगम्यते । नच वस्तुसतो ब्रह्मणो गुणाः समारोपितेषु जीवेषु सम्भवन्ति । नो खलु वस्तुसत्या रज्ज्वा धर्माः सेव्यत्वादयः समारोपिते भुजङ्गे सम्भविनः । नच समारोपितो भुजङ्गो रज्ज्वा भिन्नः । तस्मान्न सूत्रव्याकोपः । अविद्याकल्पितं च कर्तृत्वभोक्तृत्वं यथालोकसिद्धमुपाश्रित्य कर्मविधयः प्रवृत्ताः, श्येनादिविधय इव निषिद्धेऽपि “न हिंस्यात्सर्वा भूतानि” इति साध्यांशेऽभिचारेऽतिक्रान्तनिषेधं पुरुषमाश्रित्याविद्यावत्पुरुषाश्रयत्वाच्छास्त्रस्येत्युक्तम् ।
तदिदमाह -
तेषां सर्वेषामिति ॥ १९ ॥
ननु ब्रह्मचेदत्र वक्तव्यं कृतं जीवपरामर्शेनेत्युक्तमित्यत आह -
अन्यार्थश्च परामर्शः ।
जीवस्योपाधिकल्पितस्य ब्रह्मभाव उपदेष्टव्यः, न चासौ जीवमपरामृश्य शक्य उपदेष्टुमिति तिसृष्ववस्थासु जीवः परामृष्टः । तद्भावप्रविलयनं तस्य पारमार्थिकं ब्रह्मभावं दर्शयितुमित्यर्थः ॥ २० ॥
अल्पश्रुतेरिति चेत्तदुक्तम् ।
निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥ २१ ॥
अनुकृतेस्तस्य च ।
'अभानं तेजसो दृष्टं सति तेजोऽन्तरे यतः । तेजोधात्वन्तरं तस्मादनुकाराच्च गम्यते” ॥ बलीयसा हि सौरेण तेजसा मन्दं तेजश्चन्द्रतारकाद्यभिभूयमानं दृष्टं, न तु तेजसोऽन्येन । येऽपि पिधायकाः प्रदीपस्य गृहघटादयो न ते स्वभासा प्रदीपं भासयितुमीशते । श्रूयते च - “तस्य भासा सर्वमिदं विभाति”(मु. उ. २ । २ । ११) इति । सर्वशब्दः प्रकृतसूर्याद्यपेक्षः । न चातुल्यरूपेऽनुभानमित्यनुकारः सम्भवति । नहि गावो वराहमनुधावन्तीति कृष्णविहङ्गानुधावनमुपपद्यते गवाम् , अपि तु तादृशसूकरानुधावनम् । तस्माद्यद्यपि “यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतम्”(मु. उ. २ । २ । ५) इति ब्रह्म प्रकृतं, तथाप्यभिभवानुकारसामर्थ्यलक्षणेन लिङ्गेन प्रकरणबाधया तेजोधातुरवगम्यते, न तु ब्रह्म, लिङ्गानुपपत्तेः । तत्र तं तस्येति च सर्वनामपदानि प्रदर्शनीयमेवावम्रक्ष्यन्ति । नच तच्छब्दः पूर्वोक्तपरामर्शीति नियमः समस्ति । नहि “तेन रक्तं रागात्”(पा.सू. ४.२.१) “तस्यापत्यम्”(पा.सू. ४-१-९२) इत्यादौ पूर्वोक्तं किञ्चिदस्ति । तस्मात्प्रमाणान्तराप्रतीतमपि तेजोऽन्तरमलौकिकं शब्दादुपास्यत्वेन गम्यत इति प्राप्ते उच्यते - “ब्रह्मण्येव हि तल्लिङ्गं न तु तेजस्यलौकिके । तस्मान्न तदुपास्यत्वे ब्रह्म ज्ञेयं तु गम्यते” ॥ “तमेव भान्तत्”(मु. उ. २ । २ । ११) इत्यत्र किमलौकिकं तेजः कल्पयित्वा सूर्यादीनामनुभानमुपपद्यताम् , किंवा “भारूपः सत्यसङ्कल्पः”(छा. उ. ३ । १४ । २) इति श्रुत्यन्तरप्रसिद्धेन ब्रह्मणो भानेन सूर्यादीनां भानमुपपाद्यतामिति विशये न श्रुतसम्भवेऽश्रुतस्य कल्पना युज्यत इत्यप्रसिद्धं नालौकिकमुपास्यं तेजो युज्यते, अपि तु श्रुतिप्रसिद्धं ब्रह्मैव ज्ञेयमिति ।
तदेतदाह -
प्राज्ञ एवात्मा भवितुमर्हति ।
विरोधमाह -
समत्वाच्चेति ।
ननु स्वप्रतिभाने सूर्यादयश्चाक्षुषं तेजोऽपेक्षन्ते । न ह्यन्धेनैते दृश्यन्ते । तथा तदेव चाक्षुषं तेजो बाह्यसौर्यादितेज आप्यायितं रूपादि प्रकाशयति नानाप्यायितम् , अन्धकारेऽपि रूपदर्शनप्रसङ्गादित्यत आह -
यं भान्तमनुभायुरिति ।
नहि तेजोन्तरस्य तेजोऽन्तरापेक्षां व्यासेधामः, किन्तु तद्भानमनुभानम् । नच लोचनभानमनुभान्ति सूर्यादयः ।
तदिदमुक्तम् -
नहि प्रदीप इति ।
पूर्वपक्षमनुभाष्य व्यभिचारमाह -
यदप्युक्तमिति ।
एतदुक्तं भवति - यदि स्वरूपसाम्याभावमभिप्रेत्यानुकारो निराक्रियते, तदा व्यभिचारः । अथ क्रियासाम्याभावं, सोऽसिद्धः । अस्ति हि वायुरजसोः स्वरूपविसदृशयोरपि नियतदिग्देशवहनक्रियासाम्यम् । वन्ह्ययः पिण्डयोस्तु यद्यपि दहनक्रिया न भिद्यते तथापि द्रव्यभेदेन क्रियाभेदं कल्पयित्वा क्रियासादृश्यं व्याख्येयम् ।
तदेवमनुकृतेरिति विभज्य तस्य चेति सूत्रावयवं विभजते -
तस्य चेति चतुर्थमिति ।
ज्योतिषां सूर्यादीनां ब्रह्म ज्योतिःप्रकाशकमित्यर्थः ।
तेजोऽन्तरेणानिन्द्रियभावमापन्नेन सूर्यादितेजो विभातीत्यप्रसिद्धम् । सर्वशब्दस्य हि स्वरसतो निःशेषाभिधानं वृत्तिः । सा तेजोधातावलौकिके रूपमात्रप्रकाशके सङ्कुचेत् । ब्रह्मणि तु निःशेषजगदवभासके न सर्वशब्दस्य वृत्तिः सङ्कुचतीति -
तत्रशब्दमाहरन्निति ।
सर्वत्र खल्वयं तत्रशब्दः पूर्वोक्तपरामर्शी । “तेन रक्तं रागात्”(पा.सू. ४.२.१) इत्यादावपि प्रकृतेः परस्मिन्प्रत्ययेऽर्थभेदेऽन्वाख्यायमाने प्रातिपदिकप्रकृत्यर्थस्य पूर्ववृत्तत्वमस्तीति तेनेति तत्परामर्शान्न व्यभिचारः । तथाच सर्वनामश्रुतिरेव ब्रह्मोपस्थापयति । तेन भवतु नाम प्रकरणाल्लिङ्गं बलीयः, श्रुतिस्तु लिङ्गाद्बलीयसीति श्रौतमिह ब्रह्मैव गम्यत इति ।
अपि चापेक्षितानपेक्षिताभिधानयोरपेक्षिताभिधानं युक्तं, दृष्टार्थत्वादित्याह -
अनन्तरं च हिरण्मये परे कोश इति ।
अस्मिन्वाक्ये ज्योतिषां ज्योतिरित्युक्तं, तत्र कथं तत्ज्योतिषां ज्योतिरित्यपेक्षायामिदमुपतिष्ठते -
न तत्र सूर्य इति ।
स्वातन्त्र्येण तूच्यमानेऽनपेक्षितं स्याददृष्टार्थमिति ।
ब्रह्मण्यपि चैषां भानप्रतिषेधोऽवकल्पत इति ।
अयमभिप्रायः - “न तत्र सूर्यो भाति”(मु. उ. २ । २ । ११) इति नेयं सतिसप्तमी, यतः सूर्यादीनां तस्मिन् सत्यभिभवः प्रतीयेत । अपि तु विषयसप्तमी । तेन न तत्र ब्रह्मणि प्रकाशयितव्ये सूर्यादयः प्रकाशकतया भान्ति, किन्तु ब्रह्मैव सूर्यादिषु प्रकाशयितव्येषु प्रकाशकत्वेन भाति ।
तच्च स्वयम्प्रकाशम् ,
अगृह्यो नहि गृह्यत इत्यादिश्रुतिभ्य इति ॥ २२ ॥
अपि च स्मर्यते ।
न तद्भासयत इति
ब्रह्मणोऽग्राह्यत्वमुक्तम् ।
यदादित्यगतम्
इत्यनेन तस्यैव ग्राहकत्वमुक्तमिति ॥ २३ ॥
शब्दादेव प्रमितः ।
'नाञ्जसा मानभेदोऽस्ति परस्मिन्मानवर्जिते । भूतभव्येशिता जीवे नाञ्जसी तेन संशयः” ॥ किमङ्गुष्ठमात्रश्रुत्यनुग्रहाय जीवोपासनापरमेतद्वाक्यमस्तु, तदनुरोधेन चेशानश्रुतिः कथञ्चिद्व्याख्यायताम् , आहोस्विदीशानश्रुत्यनुग्रहाय ब्रह्मपरमेतदस्तु, तदनुरोधेनाङ्गुष्ठमात्रश्रुतिः कथञ्चिन्नीयताम् । तत्रान्यतरस्यान्यतरानुरोधविषये प्रथमानुरोधो न्याय्य इत्यङ्गुष्ठश्रुत्यनुरोधेनेशानश्रुतिर्नेतव्या । अपिच युक्तं हृत्पुण्डरीकदहरस्थानत्वं परमात्मानः, स्थानभेदनिर्देशात् । तद्धि तस्योपलब्धिस्थानं, शालग्राम इव कमलनाभस्य भगवतः । नच तथेहाङ्गुष्ठमात्रश्रुत्या स्थानभेदो निर्दिष्टः परिमाणमात्रनिर्देशात् । नच “मध्य आत्मनि”(क.उ. २-४-१२) इत्यत्र स्थानभेदोऽवगम्यते । आत्मशब्दो ह्ययं स्वभाववचनो वा जीववचनो वा ब्रह्मवचनो वा स्यात् । तत्र स्वभावस्य स्वभवित्रधीननिरूपणतया स्वस्य च भवितुरनिर्देशान्न ज्ञायते कस्य मध्य इति । नच जीवपरयोरस्ति मध्यमञ्जसेति नैष स्थाननिर्देशो विस्पष्टः । स्पष्टस्तु परिमाणनिर्देशः । परिमाणभेदश्च परस्मिन्न सम्भवतीति जीवात्मैवाङ्गुष्ठमात्रः । स खल्वन्तःकरणाद्युपाधिकल्पितो भागः परमात्मनः । अन्तःकरणं च प्रायेण हृत्कमलकोशस्थानं, हृत्कमलकोशश्च मनुष्याणामङ्गुष्ठमात्र इति तदवच्छिन्नो जीवात्माप्यङ्गुष्ठमात्रः, नभ इव वंशपर्वावच्छिन्नमरत्निमात्रम् । अपि च जीवात्मनः स्पष्टमङ्गुष्ठमात्रत्वं स्मर्यते - “अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्” इति । नहि सर्वेशस्य ब्रह्मणो यमेन बलान्निष्कर्षः कल्पते । यमो हि जगौ “हरिगुरुवशगोऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि विष्णुः”(वि.पु. ३-७-१५) इति । तेनाङ्गुष्ठमात्रत्वस्य जीवे निश्चयादापेक्षिकं किञ्चिद्भूतभव्यं प्रति जीवस्येशानत्वं व्याख्येयम् ।
'एतद्वै तत्”
इति च प्रत्यक्षजीवरूपं परामृशति । तस्माज्जीवात्मैवात्रोपास्य इति प्राप्तम् । एवं प्राप्तेऽभिधीयते - “प्रश्नोत्तरत्वादीशानश्रवणस्याविशेषतः । जीवस्य ब्रह्मरूपत्वप्रत्यायनपरं वचः” ॥ इह हि भूतभव्यमात्रं प्रति निरङ्कुशमीशानत्वं प्रतीयते । प्राक् पृष्टं चात्र ब्रह्म “अन्यत्र धर्मादन्यत्राधर्मात्”(क. उ. १ । २ । १४) इत्यादिना । तदनन्तरस्य सन्दर्भस्य तत्प्रतिवचनतोचितेति “एतद्वै तत्”(क. उ. २ । १ । १३) इति ब्रह्माभिधानं युक्तम् । तथा चाङ्गुष्ठमात्रतया यद्यपि जीवेऽवगम्यते तथापि न तत्परमेतद्वाक्यं, किन्त्वङ्गुष्ठमात्रस्य जीवस्य ब्रह्मरूपताप्रतिपादनपरम् । एवं निरङ्कुशमीशानत्वं न सङ्कोचयितव्यम् । नच ब्रह्मप्रश्नोत्तरता हातव्या । तेन यथा “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति विज्ञानात्मनस्त्वम्पदार्थस्य तदिति परमात्मनैकत्वं प्रतिपाद्यते, तथेहाप्यङ्गुष्ठपरिमितस्य विज्ञानात्मन ईशानश्रुत्या ब्रह्मभावः प्रतिपाद्य इति युक्तम् ॥ २४ ॥
हृद्यपेक्षया तु मनुष्याधिकारत्वात् ।
सर्वगतस्यापि परब्रह्मणो हृदयेऽवस्थानमपेक्ष्येति
जीवाभिप्रायम् । न चान्यः परमात्मान इह ग्रहणमर्हतीति न जीवपरमेतद्वाक्यमित्यर्थः ।
मनुष्यानेवेति ।
त्रैवर्णिकानेव ।
अर्थित्वादिति ।
अन्तःसंज्ञानां मोक्षमाणानां च काम्येषु कर्मस्वधिकारं निषेधति ।
शक्तत्वादिति
तिर्यग्देवर्षीणामशक्तानामधिकारं निवर्तयति ।
उपनयनादिशास्त्राच्चेति
शूद्राणामनधिकारितां दर्शयति ।
यदप्युक्तं परिमाणोपदेशात्स्मृतेश्चेति ।
यद्येतत्परमात्मपरं किमिति तर्हि जीव इहोच्यते । ननु परमात्मैवोच्यताम् । उच्यते च जीवः, तस्माज्जीवपरमेवेति भावः ।
परिहरति -
तत्प्रत्युच्यत इति ।
जीवस्य हि तत्त्वं परमात्मभावः, तद्वक्तव्यम् , नच तज्जीवमनभिधाय शक्यं वक्तुमिति जीव उच्यत इत्यर्थः ॥ २५ ॥
तदुपर्यपि बादरायणः सम्भवात् ।
देवर्षीणां ब्रह्मविज्ञानाधिकारचिन्ता समन्वयलक्षणेऽसङ्गतेत्यस्याः प्रासङ्गिकीं सङ्गतिं दर्शयितुं प्रसङ्गमाह -
अङ्गुष्ठमात्रश्रुतिरिति ।
स्यादेतत् । देवादीनां विविधविचित्रानन्दभोगभोगिनां वैराग्याभावान्नार्थित्वं ब्रह्मविद्यायामित्यत आह -
तत्रार्थित्वं तावन्मोक्षविषयमिति ।
क्षयातिशययोग्यस्य स्वर्गाद्युपभोगेऽपि भावादस्ति वैराग्यमित्यर्थः ।
ननु देवादीनां विग्रहाद्यभावेनेन्द्रियार्थसंनिकर्षजायाः प्रमाणादिवृत्तेरनुपपत्तेरविद्वत्तया सामर्थ्याभावेन नाधिकार इत्यत आह -
तदा सामर्थ्यमपि तेषामिति ।
यथा च मन्त्रादिभ्यस्तदवगमस्तथोपरिष्टादुपपादयिष्यते ।
ननु शूद्रवदुपनयनासम्भवेनाध्ययनाभावात्तेषामनधिकार इत्यत आह -
न चोपनयनशास्त्रेणेति ।
न खलु विधिवत् गुरुमुखाद्गृह्यमाणो वेदः फलवत्कर्मब्रह्मावबोधहेतुः, अपि त्वध्ययनोत्तरकालं निगमनिरुक्तव्याकरणादिविदितपदतदर्थसङ्गतेरधिगतशाब्दन्यायतत्त्वस्य पुंसः स्मर्यमाणः । स च मनुष्याणामिह जन्मनीव देवदीनां प्राचि भवे विधिवदधीत आम्नाय इह जन्मनि स्मर्यमाणः । अत एव स्वयं प्रतिभातो वेदः सम्भवतीत्यर्थः ।
न च कर्मानधिकारे ब्रह्मविद्यानधिकारो भवतीत्याह -
यदपि कर्मस्वनधिकारकारणमुक्तमिति ।
वस्वादीनां हि न वस्वाद्यन्तरमस्ति । नापि भृग्वादीनां भृग्वाद्यन्तरमस्ति । प्राचां वसुभृगुप्रभृतीनां क्षीणाधिकारत्वेनेदानीं देवर्षित्वाभावादित्यर्थः ॥ २६ ॥
विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ।
मन्त्रादिपदसमन्वयात्प्रतीयमानोऽर्थः प्रमाणान्तराविरोधे सत्युपेयः न तु विरोधे । प्रमाणान्तरविरुद्धं चेदं विग्रहवत्त्वादि देवतायाः । तस्मात् ‘यजमानः प्रस्तरः’ इत्यादिवदुपचरितार्थो मन्त्रादिर्व्याख्येयः । तथाच विग्रहाद्यभावाच्छब्दोपहितार्थोऽर्थोपहितो वा शब्दो देवतेत्यचेतनत्वान्न तस्याः क्वचिदप्यधिकार इति शङ्कार्थः ।
निराकरोति -
न ।
कस्मात् ।
अनेकरूपप्रतिपत्तेः ।
सैव कुत इत्यत आह -
दर्शनात्
श्रुतिषु स्मृतिषु च । तथाहि - एकस्यानेककायनिर्माणमदर्शनाद्वा न युज्यते, बाधदर्शनाद्वा । तत्रादर्शनमसिद्धं, श्रुतिस्मृतिभ्यां दर्शनात् । नहि लौकिकेन प्रमाणेनादृष्टत्वादागमेन दृष्टमदृष्टं भवति, मा भूद्यागादीनामपि स्वर्गादिसाधनत्वमदृष्टमिति मनुष्यशरीरस्य मातापितृसंयोगजत्वनियमादसति पित्रोः संयोगे कुतः सम्भवः, सम्भवे वानग्नितोऽपि धूमः स्यादिति बाधदर्शनमिति चेत् । हन्त किं शरीरत्वेन हेतुना देवादिशरीरमपि मातापितृसंयोगजं सिषाधयिषसि । तथा चानेकान्तो हेत्वाभासः, स्वेदजोद्भिज्जानां शरीराणामतद्धेतुत्वात् । इच्छामात्रनिर्माणत्वं देहादीनामदृष्टचरमिति चेत् , न । भूतोपादानत्वेनेच्छामात्रनिर्माणत्वासिद्धेः । भूतवशिनां हि देवादीनां नानाकायचिकीर्षावशाद्भूतक्रियोत्पत्तौ भूतानां परस्परसंयोगेन नानाकायसमुत्पादात् । दृष्टा च वशिन इच्छावशाद्वश्ये क्रिया, यथा विषविद्याविद इच्छामात्रेण विषशकलप्रेरणम् । नच विषविद्याविदो दर्शनेनाधिष्ठानदर्शनाद्व्यवहितविप्रकृष्टभूतादर्शनाद्देवादीनां कथमधिष्ठानमिति वाच्यम् । काचाभ्रपटलपिहितस्य विप्रकृष्टस्य च भौमशनैश्चरादेर्दर्शनेन व्यभिचारात् । असक्ताश्च दृष्टयो देवादीनां काचाभ्रपटलादिवन्महीमहीधरादिभिर्न व्यवधीयन्ते । न चास्मदादिवत्तेषां शरीरित्वेन व्यवहिताविप्रकृष्टादिदर्शनासम्भवोऽनुमीयत इति वाच्यम् , आगमविरोधिनोऽनुमानस्योत्पादायोगात् । अन्तर्धानं चाञ्जनादिना मनुजानामिव तेषां प्रभवतामुपपद्यते, तेन संनिहितानामपि न क्रतुदेशे दर्शनं भविष्यति ।
तस्मात्सूक्तम् - अनेकप्रतिपत्तेरिति -
तथा हि कति देवा इत्युपक्रम्येति ।
वैश्वदेवशस्त्रस्य हि निविदि ‘कति देवाः’ इत्युपक्रम्य निविदैवोत्तरं दत्तं शाकल्याय याज्ञवल्क्येन -
त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ।
निविन्नाम शस्यमानदेवतासङ्ख्यावाचकानि मन्त्रपदानि । एतदुक्तं भवति - वैश्वदेवस्य निविदि कति देवाः शस्यमानाः प्रसङ्ख्याता इति शाकल्येन पृष्टे याज्ञवल्क्यस्योत्तरं - “त्रयश्च त्री च शता”(बृ. उ. ३ । ९ । १) इत्यादि । यावत्सङ्ख्याका वैश्वदेवनिविदि सङ्ख्याता देवास्त एतावन्त इति ।
पुनश्च शाकल्येन “कतमे ते”(बृ. उ. ३ । ९ । १) इति सङ्ख्येयेषु पृष्टेषु याज्ञवल्क्यस्योत्तरम् -
महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति ।
अष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्रश्च प्रजापतिश्चेति त्रयस्त्रिंशद्देवाः । तत्राग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चेति वसवः । एते हि प्राणिनां कर्मफलाश्रयेण कार्यकारणसङ्घातरूपेण परिणमन्तो जगदिदं सर्वं वासयन्ति, तस्माद्वसवः । कतमे रुद्रा इति दशेमे पुरुषे प्राणाः बुद्धिकर्मेन्द्रियाणि दश, एकादशं च मन इति । तदेतानि प्राणाः, तद्वृत्तित्वात् । ते हि प्रायणकाल उत्क्रामन्तः पुरुषं रोदयन्तीति रुद्राः । कतम आदित्या इति द्वादशमासाः संवत्सरस्यावयवाः पुनः पुनः परिवर्तमानाः प्राणभृतामायूंषि च कर्मफलोपभोगं चादापयन्तीत्यादित्याः । अशनिरिन्द्रः, सा हि बलं, सा हीन्द्रस्य परमा ईशता, तया हि सर्वान्प्राणिनः प्रमापयति, तेन स्तनयित्नुरशनिरिन्द्रः । यज्ञः प्रजापतिरिति, यज्ञसाधनं च यज्ञरूपं च पशवः प्रजापतिः । एत एव त्रयस्त्रिंशद्देवाः षण्णामग्निपृथिवीवाय्वन्तरिक्षादित्यदिवां महिमानो न ततो भिद्यन्ते । षडेव तु देवाः । ते तु षडग्निं पृथिवीं चैकीकृत्यान्तरिक्षं वायुं चैकीकृत्य दिवं चादित्यं चैकीकृत्य त्रयो लोकास्त्रय एव देवा भवन्ति । एत एव च त्रयोऽन्नप्राणयोरन्तर्भवन्तोऽन्नप्राणौ द्वौ देवौ भवतः । तावप्यध्यर्धो देव एकः । कतमोऽध्यर्धः, योऽयं वायुः पवते । कथमयमेक एवाध्यर्धः, यदस्मिन्सति सर्वमिदमध्यर्धं वृद्धिं प्राप्नोति तेनाध्यर्ध इति । कतम एक इति, स एवाध्यर्धः प्राण एको ब्रह्म । सर्वदेवात्मत्वेन बृहत्त्वाद्ब्रह्म तदेव स्यादित्याचक्षते परोक्षाभिधायकेन शब्देन । तस्मादेकस्यैव देवस्य महिमवशाद्युगपदनेकदेवरूपतामाह श्रुतिः । स्मृतिश्च निगदव्याख्याता ।
अपि च पृथग्जनानामप्युपायानुष्ठानवशात्प्राप्ताणिमाद्यैश्वर्याणां युगपन्नानाकायनिर्माणं श्रूयते, तत्र कैव कथा देवानां स्वभावसिद्धानामित्याह -
प्राप्ताणिमाद्यैश्वर्याणां योगिनामिति ।
अणिमा लघिमा महिमा प्राप्तिः प्राकाम्यमीशित्वं वशित्वं यत्रकामावसायितेत्यैश्वर्याणि ।
अपरा व्याख्येति ।
अनेकत्र कर्मणि युगपदङ्गभावप्रतिपत्तिरङ्गभावगमनं, तस्य दर्शनात् ।
तदेव परिस्फुटं दर्शयितुं व्यतिरेकं तावदाह -
क्वचिदेक इति ।
न खलु बहुषु श्राद्धेष्वेको ब्राह्मणो युगपदङ्गभावं गन्तुमर्हति ।
एकस्यानेकत्र युगपदङ्गभावमाह -
क्वचिच्चैक इति ।
यथैकं ब्राह्मणमुद्दिश्य युगपन्नमस्कारः क्रियते बहुभिस्तथा स्वस्थानस्थितामेकां देवतामुद्दिश्य बहुभिर्यजमानैर्नानादेशावस्थितैर्युगपद्धविस्त्यज्यते, तस्याश्च तत्रासंनिहिताया अप्यङ्गभावो भवति । अस्ति हि तस्या युगपद्विप्रकृष्टानेकार्थोपलम्भसामर्थ्यमित्युपपादितम् ॥ २७ ॥
शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ।
गोत्वादिवत्पूर्वावमर्शाभावादुपाधेरप्येकस्याप्रतीतेः पाचकादिवदाकाशादिशब्दवद्व्यक्तिवचना एव वस्वादिशब्दाः तस्याश्च नित्यत्वात्तया सह सम्बन्धो नित्यो भवेत् । विग्रहादियोगे तु सावयवत्वेन वस्वादीनामनित्यत्वात्ततः पूर्वं वस्वादिशब्दो न स्वार्थेन सम्बद्ध आसीत् , स्वार्थस्यैवाभावात् । ततश्चोत्पन्ने वस्वादौ वस्वादिशब्दसम्बन्धः प्रादुर्भवन्देवदत्तादिशब्दसम्बन्धवत्पुरुषबुद्धिप्रभव इति तत्पूर्वको वाक्यार्थप्रत्ययोऽपि पुरुषबुद्ध्यधीनः स्यात् । पुरुषबुद्धिश्च मानान्तराधीनजन्मेति मानान्तरापेक्षया प्रामाण्यं वेदस्य व्याहन्येतेति शङ्कार्थः ।
उत्तरम् -
न ।
अतः प्रभवात् ।
वसुत्वादिजातिवाचकाच्छब्दात्तज्जातीयां व्यक्तिं चिकीर्षितां बुद्धिवालिख्य तस्याः प्रभवनम् । तदिदं तत्प्रभवत्वम् । एतदुक्तं भवति - यद्यपि न शब्द उपादानकारणं वस्वादीनां ब्रह्मोपादानत्वात् , तथापि निमित्तकारणमुक्तेन क्रमेण ।
न चैतावता शब्दार्थसम्बन्धस्यानित्यत्वं, वस्वादिजातेर्वा तदुपाधेर्वा यया कयाचिदाकृत्यावच्छिन्नस्य नित्यत्वादिति । इममेवार्थमाक्षेपसमाधानाभ्यां विभजते -
ननु जन्माद्यस्य यत इति ।
ते निगदव्याख्याते ।
तत्किमिदानीं स्वयम्भुवा वाङ्निर्मिता कालिदासादिभिरिव कुमारसम्भवादि, तथाच तदेव प्रमाणान्तरापेक्षवाक्यत्वादप्रामाण्यमापतितमित्यत आह -
उत्सर्गोऽप्ययं वाचः सम्प्रदायप्रवर्तनात्मक इति ।
सम्प्रदायो गुरुशिष्यपरम्परयाध्ययनम् । एतदुक्तं भवति - स्वयम्भुवो वेदकर्तृत्वेऽपि न कालिदासादिवत्स्वतन्त्रत्वमपि तु पूर्वसृष्ट्यनुसारेण । एतच्चास्माभिरुपपादितम् । उपपादयिष्यति चाग्रे भाष्यकारः । अपि चाद्यत्वेऽप्येतद्दृश्यते ।
तद्दर्शनात्प्राचामपि कर्तॄणां तथाभावोऽनुमीयत इत्याह -
अपि च चिकीर्षितमिति ।
आक्षिपति -
किमात्मकं पुनरिति ।
अयमभिसन्धिः - वाचकशब्दप्रभवत्वं हि देवानामभ्युपेतव्यं, अवाचकेन तेषां बुद्धावनालेखनात् । तत्र न तावद्वस्वादीनां वकारादयो वर्णा वाचकाः, तेषां प्रत्युच्चारणमन्यत्वेनाशक्यसङ्गतिग्रहत्वात् , अगृहीतसङ्गतेश्च वाचकत्वेऽतिप्रसङ्गात् । अपि चैते प्रत्येकं वा वाक्यार्थमभिदधीरन् , मिलिता वा । न तावत्प्रत्येकम् , एकवर्णोच्चारणानन्तरमर्थप्रत्ययादर्शनात् , वर्णान्तरोच्चारणानर्थक्यप्रसङ्गाच्च । नापि मिलिताः, तेषामेकवक्तृप्रयुज्यमानानां रूपतो व्यक्तितो वा प्रतिक्षणमपवर्गिणां मिथः साहित्यसम्भवाभावात् । नच प्रत्येकसमुदायाभ्यामन्यः प्रकारः सम्भवति । नच स्वरूपसाहित्याभावेऽपि वर्णानामाग्नेयादीनामिव संस्कारद्वारकमस्ति साहित्यमिति साम्प्रतं, विकल्पासहत्वात् । को नु खल्वयं संस्कारोऽभिमतः, किमपूर्वमाग्नेयादिजन्यमिव, किंवा भावनापरनामा स्मृतिप्रसवबीजम् । न तावत्प्रथमः कल्पः । नहि शब्दः स्वरूपतोऽङ्गतो वाऽविदितोऽविदितसङ्गतिरर्थधीहेतुरिन्द्रियवत् । उच्चरितस्य बधिरेणागृहीतस्य गृहीतस्य वाऽगृहीतसङ्गतेरप्रत्यायकत्वात् । तस्माद्विदितो विदितसङ्गतिर्विदितसमस्तज्ञापनाङ्गश्च शब्दो धूमादिवत्प्रत्यायकोऽभ्युपेयः । तथाचापूर्वाभिधानोऽस्य संस्कारः प्रत्यायनाङ्गमित्यर्थप्रत्ययात्प्रागवगन्तव्यः । नच तदा तस्यावगमोपायोऽस्ति । अर्थप्रत्ययात्तु तदवगमं समर्थयमानो दुरुत्तरमितरेतराश्रयमाविशति, संस्कारावसायादर्थप्रत्ययः, ततश्च तदवसाय इति । भावनाभिधानस्तु संस्कारः स्मृतिप्रसवसामर्थ्यमात्मनः । नच तदेवार्थप्रत्ययप्रसवसामर्थ्यमपि भवितुमर्हति । नापि तस्यैव सामर्थ्यस्य सामर्थ्यान्तरम् । नहि यैव वह्नेर्दहनशक्तिः सैव तस्य प्रकाशनशक्तिः । नापि दहनशक्तेः प्रकाशनशक्तिः अपिच व्युत्क्रमेणोच्चरितेभ्यो वर्णेभ्यः सैवास्ति स्मृतिबीजं वासनेत्यर्थप्रत्ययः प्रसज्येत । न चास्ति । तस्मान्न कथञ्चिदपि वर्णा अर्थधीहेतवः । नापि तदतिरिक्तः स्फोटात्मा । तस्यानुभवानारोहात् । अर्थधियस्तु कार्यात्तदवगमे परस्पराश्रयप्रसङ्ग इत्युक्तप्रायम् । सत्तामात्रेण तु तस्य नित्यस्यार्थधीहेतुभावे सर्वदार्थप्रत्ययोत्पादप्रसङ्गः, निरपेक्षस्य हेतोः सदातनत्वात् । तस्माद्वाचकाच्छब्दाद्वाच्योत्पाद इत्यनुपपन्नमिति ।
अत्राचार्यदेशीय आह -
स्फोटमित्याहेति ।
मृष्यामहे न वर्णाः प्रत्यायका इति । न स्फोट इति तु न मृष्यामः । तदनुभवानन्तरं विदितसङ्गतेरर्थधीसमुत्पादात् । नच वर्णातिरिक्तस्य तस्यानुभवो नास्ति । गौरित्येकं पदं, गामानय शुक्लमित्येकं वाक्यमिति नानावर्णपदातिरिक्तैकपदवाक्यावगतेः सर्वजनीनत्वात् । न चायमसति बाधके एकपदवाक्यानुभवः शक्यो मिथ्येति वक्तुम् । नाप्यौपाधिकः । उपाधिः खल्वेकधीग्राह्यता वा स्यात् , एकार्थधीहेतुता वा । न तावदेकधीगोचराणां धवखदिरपलाशानामेकनिर्भासः प्रत्ययः समस्ति । तथा सति धवखदिरपलाशा इति न जातु स्यात् । नाप्येकार्थधीहेतुता । तद्धेतुत्वस्य वर्णेषु व्यासेधात् । तद्धेतुत्वेन तु साहित्यकल्पनेऽन्योन्याश्रयप्रसङ्गः । साहित्यात्तद्धेतुत्वं तद्धेतुत्वाच्च साहित्यमिति । तस्मादयमबाधितोऽनुपाधिश्च पदवाक्यगोचर एकनिर्भासानुभवो वर्णातिरिक्तं वाचकमेकमवलम्बते स स्फोट इति तं च ध्वनयः प्रत्येकं व्यञ्जयन्तोऽपि न द्रागित्वेव विशदयन्ति, येन द्रागर्थधीः स्यात् । अपि तु रत्नतत्त्वज्ञानवद्यथास्वं द्वित्रिचतुष्पञ्चषड्दर्शनजनितसंस्कारपरिपाकसचिवचेतोलब्धजन्मनि चरमे चेतसि चकास्ति विशदं पदवाक्यतत्त्वमिति प्रागनुत्पन्नायास्तदनन्तरमर्थधिय उदय इति नोत्तरेषामानर्थक्यं ध्वनीनाम् । नापि प्राचां, तदभावे तज्जनितसंस्कारतत्परिपाकाभावेनानुग्रहाभावात् । अन्त्यस्य चेतसः केवलस्याजनकत्वात् । नच पदप्रत्ययवत् , प्रत्येकमव्यक्तामर्थधियमाधास्यन्ति प्राञ्चो वर्णाः, चरमस्तु तत्सचिवः स्फुटतरामिति युक्तम् । व्यक्ताव्यक्तावभासितायाः प्रत्यक्षज्ञाननियमात् । स्फोटज्ञानस्य च प्रत्यक्षत्वात् । अर्थधियस्त्वप्रत्यक्षाया मानान्तरजन्मनो व्यक्त एवोपजनो न वा स्यान्न पुनरस्फुट इति न समः समाधिः । तस्मान्नित्यः स्फोट एव वाचको न वर्णा इति ।
तदेतदाचार्यदेशीयमतं स्वमतमुपपादयन्नपाकरोति -
वर्णा एव तु न शब्द इति ।
एवं हि वर्णातिरिक्तः स्फोटोऽभ्युपेयेत, यदि वर्णानां वाचकत्वं न सम्भवेत् , स चानुभवपद्धतिमध्यासीत । द्विधा च वाचकत्वं वर्णानां, क्षणिकत्वेनाशक्यसङ्गतिग्रहत्वाद्वा व्यस्तसमस्तप्रकारद्वयाभावाद्वा । न तावत्प्रथमः कल्पः । वर्णानां क्षणिकत्वे मानाभावात् । ननु वर्णानां प्रत्युच्चारणमन्यत्वं सर्वजनप्रसिद्धम् । न । प्रत्यभिज्ञायमानत्वात् । न चासत्यप्येकत्वे ज्वालादिवत्सादृश्यनिबन्धनमेतत् , प्रत्यभिज्ञानमिति साम्प्रतम् । सादृश्यनिबन्धनत्वमस्य बलवद्बाधकोपनिपाताद्वास्थीयेत, क्वचिज्ज्वालादौ व्यभिचारदर्शनाद्वा । तत्र क्वचिद्व्यभिचारदर्शनेन तदुत्प्रेक्षायामुच्यते वृद्धेः स्वतःप्रामाण्यवादिभिः “उत्प्रेक्षेत हि यो मोहादज्ञातमपि बाधनम् । स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत्” ॥ इति । प्रपञ्चितं चैतदस्माभिर्न्यायकणिकायाम् । न चेदं प्रत्यभिज्ञानं गत्वादिजातिविषयं न गादिव्यक्तिविषयं, तासां प्रतिनरं भेदोपलम्भादत एव शब्दभेदोपलम्भाद्वक्तृभेद उन्नीयते “सोमशर्माधीते न विष्णुशर्मा” इति युक्तम् । यतो बहुषु गकारमुच्चारयत्सु निपुणमनुभवः परीक्ष्यताम् । यथा कालाक्षीं च स्वस्तिमतीं चेक्षमाणस्य व्यक्तिभेदप्रथायां सत्यामेव तदनुगतमेकं सामान्यं प्रथते, तथा किं गकारादिषु भेदेन प्रथमानेष्वेव गत्वमेकं तदनुगतं चकास्ति, किंवा यथा गोत्वमाजानत एकं भिन्नदेशपरिमाणसंस्थानव्यक्त्युपधानभेदाद्भिन्नदेशमिवाल्पमिव महदिव दीर्घमिव वामनमिव तथागव्यक्तिराजानत एकापि व्यञ्जकभेदात्तद्धर्मानुपातिनीव प्रथत इति भवन्त एव विदाङ्कुर्वन्तु । तत्र गव्यक्तिभेदमङ्गीकृत्यापि यो गत्वस्यैकस्य परोपधानभेदकल्पनाप्रयासः स वरं गव्यक्तावेवास्तु किमन्तर्गडुना गत्वेनाभ्युपेतेन । यथाहुः - “तेन यत्प्रार्थ्यते जातेस्तद्वर्णादेव लप्स्यते । व्यक्तिलभ्यं तु नादेभ्य इति गत्वादिधीर्वृथा” ॥ नच स्वस्तिमत्यादिवत् गव्यक्तिभेदप्रत्ययः स्फुटः प्रत्युच्चारणमस्ति । तथा सति दश गकारानुदचारयच्चैत्र इति हि प्रत्ययः स्यात् । न स्याद्दशकृत्व उदचारयद्गकारमिति । न चैष जात्यभिप्रायोऽभ्यासो यथा शतकृत्वस्तित्तिरीनुपायुङ्क्त देवदत्त इति । अत्र हि सोरस्ताडं क्रन्दतोऽपि गकारादिव्यक्तौ लोकस्योच्चारणाभ्यासप्रत्ययस्य विनिर्वृत्तिः ।
चोदकः प्रत्यभिज्ञानबाधकमुत्थापयति -
कथं ह्येकस्मिन्काले बहूनामुच्चारयतामिति ।
यत् युगपद्विरुद्धधर्मसंसर्गवत्तत् नाना, यथा गवाश्वादिर्द्विशफैकशफकेशरगलकम्बलादिमान् । युगपदुदात्तानुदात्तादिविरुद्धधर्मसंसर्गवांश्चायं वर्णः । तस्मान्नाना भवितुमर्हति । न चोदात्तादयो व्यञ्जकधर्माः, न वर्णधर्मा इति साम्प्रतम् । व्यञ्जका ह्यस्य वायवः । तेषामश्रावणत्वे कथं तद्धर्माः श्रावणाः स्युः । इदं तावदत्र वक्तव्यम् । नहि गुणगोचरमिन्द्रियं गुणिनमपि गोचरयति, मा भूवन् घ्राणरसनश्रोत्राणां गन्धरसशब्दगोचराणां तद्वन्तः पृथिव्युदकाकाशा गोचराः । एवं च मा नाम भूद्वायुगोचरं श्रोत्रम् , तद्गुणांस्तूदात्तादीन् गोचरयिष्यति । ते च शब्दसंसर्गाग्रहात् शब्दधर्मत्वेनाध्यवसीयन्ते ।
नच शब्दस्य प्रत्यभिज्ञानावधृतैकत्वस्य स्वरूपत उदात्तादयो धर्माः परस्परविरोधिनोऽपर्यायेण सम्भवन्ति । तस्माद्यथा मुखस्यैकस्य मणिकृपाणदर्पणाद्युपधानवशान्नानादेशपरिमाणसंस्थानभेदविभ्रमः, एवमेकस्यापि वर्णस्य व्यञ्जकध्वनिनिबन्धनोऽयं विरुद्धनानाधर्मसंसर्गविभ्रमः, न तु भाविको नानाधर्मसंसर्ग इति स्थितेऽभ्युपेत्य परिहारमाह भाष्यकारः -
अथवा ध्वनिकृत इति ।
अथवेति पूर्वपक्षं व्यावर्तयति । भवेतां नाम गुणगुणिनावेकेन्द्रियग्राह्यौ, तथाप्यदोषः । ध्वनीनामपि शब्दवच्छ्रावणत्वात् ।
ध्वनिस्वरूपं प्रश्नपूर्वकं वर्णेभ्यो निष्कर्षयति -
कः पुनरयमिति ।
न चायमनिर्धारितविशेषवर्णत्वसामान्यमात्रप्रत्ययो न तु वर्णातिरिक्ततदभिव्यञ्जकध्वनिप्रत्यय इति साम्प्रतम् । तस्यानुनासिकत्वादिभेदभिन्नस्य गादिव्यक्तिवत्प्रत्यभिज्ञानाभावात् , अप्रत्यभिज्ञायमानस्य चैकत्वाभावेन सामान्यभावानुपपत्तेः । तस्मादवर्णात्मको वैष शब्दः, शब्दातिरिक्तो वा ध्वनिः, शब्दव्यञ्जकः श्रावणोऽभ्युपेयः उभयथापि चाक्षु व्यञ्जनेषु च तत्तद्ध्वनिभेदोपधानेनानुनासिकत्वादयोऽवगम्यमानास्तद्धर्मा एव शब्दे प्रतीयन्ते न तु स्वतः शब्दस्य धर्माः । तथा च येषामनुनासिकत्वादयो धर्माः परस्परविरुद्धा भासन्ते भवतु तेषां ध्वनीनामनित्यता । नहि तेषु प्रत्यभिज्ञानमस्ति । येषु तु वर्णेषु प्रत्यभिज्ञानं न तेषामनुनासिकत्वादयो धर्मा इति नानित्याः ।
एवं च सति सालम्बना इति ।
यद्येष परस्याग्रहो धर्मिण्यगृह्यमाणे तद्धर्मा न शक्या ग्रहीतुमिति, एवं नामास्तु तथा तुष्यतु परः । तथाप्यदोष इत्यर्थः । तदनेन प्रबन्धेन क्षणिकत्वेन वर्णानामशक्यसङ्गतिग्रहतया यदवाचकत्वमापादितं वर्णानां तदपाकृतम् ।
व्यस्तसमस्तप्रकारद्वयासम्भवेन तु यदासञ्जितं तन्निराचिकीर्षुराह -
वर्णेभ्यश्चार्थप्रतीतेरिति ।
कल्पनाममृष्यमाण एकदेश्याह -
न कल्पयामीति ।
निराकरोति -
न ।
अस्या अपि बुद्धेरिति ।
निरूपयतु तावद्गौरित्येकं पदमिति धियमायुष्मान् । किमियं पूर्वानुभूतान्गकारादीनेव सामस्त्येनावगाहते किंवा गकाराद्यतिरिक्तं, गवयमिव वराहादिभ्यो विलक्षणम् । यदि गकारादिविलक्षणमवभासयेत् , गकारादिरूषितः प्रत्ययो न स्यात् । नहि वराहधीर्महिषरूषितं वराहमवगाहते । पदतत्त्वमेकं प्रत्येकमभिव्यञ्जयन्तो ध्वनयः प्रयत्नभेदभिन्नास्तुल्यस्थानकरणनिष्पाद्यतयान्योन्यविसदृशतत्तत्पदव्यञ्जकध्वनिसादृश्येन स्वव्यञ्जनीयस्यैकस्य पदतत्त्वस्य मिथो विसदृशानेकपदसादृश्यान्यापादयन्तः सादृश्योपधानभेदादेकमप्यभागमपि नानेव भागवदिव भासयन्ति, मुख्यमिवैकं नियतवर्णपरिमाणस्थानसंस्थानभेदमपि मणिकृपाणदर्पणादयोऽनेकवर्णपरिमाणसंस्थानभेदम् । एवं च कल्पिता एवास्य भागा वर्णा इति चेत् , तत्किमिदानीं वर्णभेदानसत्यपि बाधके मिथ्येति वक्तुमध्यवसितोऽसि । एकधीरेव नानात्वस्य बधिकेति चेत् , हन्तास्यां नाना वर्णाः प्रथन्त इति नानात्वावभास एकैकत्वं कस्मान्न बाधते । अथवा वनसेनादिबुद्धिवदेकत्वनानात्वे न विरुद्धे । नो खलु सेनावनबुद्धी गजपदातितुरगादीनां चम्पकाशोककिंशुकादीनां च भेदमपबाधमाने उदीयेते, अपि तु भिन्नानामेव सतां केनचिदेकेनोपाधिनावच्छिन्नानामेकत्वमापादयतः । नच परोपाधिकेनैकत्वेन स्वाभाविकं नानात्वं विरुध्यते । नह्यौपचारिकमग्नित्वं माणवकस्य स्वाभाविकनरत्वविरोधि । तस्मात्प्रत्येकवर्णानुभवजनितभावनानिचयलब्धजन्मनि निखिलवर्णावगाहिनि स्मृतिज्ञान एकस्मिन्भासमानानां वर्णानां तदेकविज्ञानविषयतया वैकार्थधीहेतुतया वैकत्वमौपचारिकमवगन्तव्यम् । न चैकार्थधीहेतुत्वेनैकत्वमेकत्वेन चैकार्थधीहेतुभाव इति परस्पराश्रयम् । नह्यर्थप्रत्ययात्पूर्वमेतावन्तो वर्णा एकस्मृतिसमारोहिणो न प्रथन्ते । न च तत्प्रथनानन्तरं वृद्धस्यार्थधीर्नोन्नीयते, तदुन्नयनाच्च तेषामेकार्थधियं प्रति कारकत्वमेकमवगम्यैकपदत्वाध्यवसानमिति नान्योन्याश्रयम् । न चैकस्मृतिसमारोहिणां क्रमाक्रमविपरीतक्रमप्रयुक्तानामभेदो वर्णानामिति यथाकथञ्चित्प्रयुक्तेभ्य एतेभ्योऽर्थप्रत्ययप्रसङ्ग इति वाच्यम् । उक्तं हि - “यावन्तो यादृशा ये च पदार्थप्रतिपादने । वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः” ॥ इति । ननु पङ्क्तिबुद्धावेकस्यामक्रमायामपि वास्तवी शालादीनामस्ति पङ्क्तिरिति तथैव प्रथा युक्ता, नच तथेह वर्णानां नित्यानां विभूनां चास्ति वास्तवः क्रमः, प्रत्ययोपाधिस्तु भवेत् , सचैक इति, कुतस्त्यः क्रम एषामिति चेत् , । न एकस्यामपि स्मृतौ वर्णरूपवत्क्रमवत्पूर्वानुभूततापरामर्शात् । तथाहि - जाराराजेति पदयोः प्रथयन्त्योः स्मृतिधियोस्तत्त्वेऽपि वर्णानां क्रमभेदात्पदभेदः स्फुटतरं चकास्ति । तथाच नाक्रमविपरीतक्रमप्रयुक्तानामविशेषः स्मृतिबुद्धावेकस्यां वर्णानां क्रमप्रयुक्तानाम् । यथाहुः - “पदावधारणोपायान्बहूनिच्छन्ति सूरयः । क्रमन्यूनातिरिक्तत्वस्वरवाक्यश्रुतिस्मृतीः” ॥ इति । शेषमतिरोहितार्थम् । दिङ्मात्रमत्र सूचितं, विस्तरस्तु तत्त्वबिन्दाववगन्तव्य इति । अलं वा नैयायिकैर्विवादेन ।
सन्त्वनित्या एव वर्णास्तथापि गत्वाद्यवच्छेदेनैव सङ्गतिग्रहोऽनादिश्च व्यवहारः सेत्स्यतीत्याह -
अथापि नामेति ॥ २८ ॥
अत एव च नित्यत्वम् ।
ननु प्राच्यामेव मीमांसायां वेदस्य नित्यत्वं सिद्धं तत्किं पुनः साध्यत इत्यत आह -
स्वतन्त्रस्य कर्तुरस्मरणादेव हि स्थिते वेदस्य नित्यत्व इति ।
नह्यनित्याज्जगदुत्पत्तुमर्हति, तस्याप्युत्पत्तिमत्त्वेन सापेक्षत्वात् । तस्मान्नित्यो वेदः जगदुत्पत्तिहेतुत्वात् , ईश्वरवदिति सिद्धमेव नित्यत्वमनेन दृढीकृतम् । शेषमतिरोहितार्थम् ॥ २९ ॥
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ।
शङ्कापदोत्तरत्वात्सूत्रस्य शङ्कापदानि पठति -
अथापि स्यादिति ।
अभिधानाभिधेयाविच्छेदे हि सम्बन्धनित्यत्वं भवेत् । एवमध्यापकाध्येतृपरम्पराविच्छेदे वेदस्य नित्यत्वं स्यात् । निरन्वयस्य तु जगतः प्रविलयेऽत्यन्तासतश्चापूर्वस्योत्पादेऽभिधानाभिधेयावत्यन्तमुच्छिन्नाविति किमाश्रयः सम्बन्धः स्यात् । अध्यापकाध्येतृसन्तानविच्छेदे च किमाश्रयो वेदः स्यात् । नच जीवास्तद्वासनावासिताः सन्तीति वाच्यम् । अन्तःकरणाद्युपाधिकल्पिता हि ते तद्विच्छेदे न स्थातुमर्हन्ति । नच ब्रह्मणस्तद्वासना, तस्य विद्यात्मनः शुद्धस्वभावस्य तदयोगात् । ब्रह्मणश्च सृष्ट्यादावन्तःकरणानि तदवच्छिन्नाश्छ जीवाः प्रादुर्भवन्तो न पूर्वकर्माविद्यावासनावन्तो भवितुमर्हन्ति, अपूर्वत्वात् । तस्माद्विरुद्धमिदं शब्दार्थसम्बन्धवेदनित्यत्वं सृष्टिप्रलयाभ्युपगमेनेति । अभिधातृग्रहणेनाध्यापकाध्येतारावुक्तौ ।
शङ्कां निराकर्तुं सूत्रमवतारयति -
तत्रेदमभिधीयते समाननामरूपत्वादिति ।
यद्यपि महाप्रलयसमये नान्तःकरणादयः समुदाचरद्वृत्तयः सन्ति तथापि स्वकारणेऽनिर्वाच्यायामविद्यायां लीनाः सूक्ष्मेण शक्तिरूपेण कर्मविक्षेपकाविद्यावासनाभिः सहावतिष्ठन्त एव । तथा च स्मृतिः - “आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥”(म.स्मृ. १.५.) इति । ते चावधिं प्राप्य परमेश्वरेच्छाप्रचोदिता यथा कूर्मदेहे निलीनान्यङ्गानि ततो निःसरन्ति, यथा वा वर्षापाये प्राप्तमृद्भावानि मण्डूकशरीराणि तद्वासनावासिततया घनघनाघनासारावसेकसुहितानि पुनर्मण्डूकदेहभावमनुभवन्ति, तथा पूर्ववासनावशात्पूर्वसमाननामरूपाण्युत्पद्यन्ते । एतदुक्तं भवति - यद्यपीश्वरात्प्रभवः संसारमण्डलस्य, तथापीश्वरः प्राणभृत्कर्माविद्यासहकारी तदनुरूपमेव सृजति । नच सर्गप्रलयप्रवाहस्यानादितामन्तरेणैतदुपपद्यत इति सर्गप्रलयाभ्ययुपगमेऽपि संसारानादिता न विरुध्यत इति ।
तदिदमुक्तम् -
उपपद्यते चाप्युपलभ्यते च ।
आगमत इति ।
स्यादेतत् । भवत्वनादिता संसारस्य, तथापि महाप्रलयान्तरिते कुतः स्मरणं वेदानामित्यत आह -
अनादौ च संसारे यथा स्वापप्रबोधयोरिति ।
यद्यपिप्राणमात्रावशेषतातन्निःशेषते सुषुप्तप्रलयावस्थयोर्विशेषः, तथापि कर्मविक्षेपसंस्कारसहितलयलक्षणा विद्यावशेषतासाम्येन स्वापप्रलयावस्थयोरभेद इति द्रष्टव्यम् । ननु नापर्यायेण सर्वेषां सुषुप्तावस्था, केषाञ्चित्तदा प्रबोधात् , तेभ्यश्च सुप्तोत्थितानां ग्रहणसम्भवात् , प्रायणकालविप्रकर्षयोश्च वासनोच्छेदकारणयोरभावेन सत्यां वासनायां स्मरणोपपत्तेः शब्दार्थसम्बन्धवेदव्यहारानुच्छेदो युज्यते ।
महाप्रलयस्त्वपर्यायेण प्राणभृन्मात्रवर्ती, प्रायणकालविप्रकर्षौ च तत्र संस्कारमात्रोच्छेदहेतू स्त इति कुतः सुषुप्तवत्पूर्वप्रबोधव्यवहारवदुत्तरप्रबोधव्यवहार इति चोदयति -
स्यादेतत् । स्वाप इति ।
परिहरति -
नैष दोषः । सत्यपि व्यवहारोच्छेदिनीति ।
अयमभिसन्धिः - न तावत्प्रायणकालविप्रकर्षौ सर्वसंस्कारोच्छेदकौ, पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेरनुपपत्तेः । मनुष्यजन्मवासनानां चानेकजात्यन्तरसहस्रव्यवहितानां पुनर्मनुष्यजातिसंवर्तकेन कर्मणाभिव्यक्त्यभावप्रसङ्गात् । तस्मान्निकृष्टधियामपि यत्र सत्यपि प्रायणकालविप्रकर्षादौ पूर्ववासनानुवृत्तिः, तत्र कैव कथा परमेश्वरानुग्रहेण धर्मज्ञानवैराग्यैश्वर्यातिशयसम्पन्नानां हिरण्यगर्भप्रभृतीनां महाधियाम् । यथावा आ च मनुष्येभ्य आ च कृमिभ्यो ज्ञानादीनामनुभूयते निकर्षः, एवमा मनुष्येभ्य एव आ च भगवतो हिरण्यगर्भज्ज्ञानादीनां प्रकर्षोेऽपि सम्भाव्यते । तथाच तदभिवदन्तो वेदस्मृतिवादाः प्रामाण्यमप्रत्यूहमश्नुवते । एवं चात्रभवतां हिरण्यगर्भादीनां परमेश्वरानुगृहीतानामुपपद्यते कल्पान्तरसम्बन्धिनिखिलव्यवहारानुसन्धानमिति । सुगममन्यत् ।
स्यादेतत् । अस्तु कल्पान्तरव्यवहारानुसन्धानं तेषाम् । अस्यां तु सृष्टावन्य एव वेदाः, अन्य एव चैषामर्थाः, अन्य एव वर्णाश्रमाः, धर्माच्चानर्थोऽर्थश्चाधर्मात् , अनर्थश्चेप्सितोऽर्थश्चानीप्सितः अपूर्वत्वात्सर्गस्य । तस्मात्कृतमत्र कल्पान्तरव्यवहारानुसन्धानेन, अकिञ्चित्करत्वात् । तथा च पूर्वव्यवहारोच्छेदाच्छब्दार्थसम्बन्धश्च वेदश्चानित्यौ प्रसज्येयातामित्यत आह -
प्राणिनां च सुखप्राप्तय इति ।
यथावस्तुस्वभावसामर्थ्यं हि सर्गः प्रवर्तते, नतु स्वभावसामर्थ्यमन्यथयितुमर्हति । नहि जातु सुखं तत्त्वेन जिहास्यते, दुःखं चोपादित्स्यते । नच जातु धर्माधर्मयोः सामर्थ्याविपर्ययो भवति । नहि मृत्पिण्डात्पटः, घटश्च तन्तुभ्यो जायते । तथा सति वस्तुसामर्थ्यनियमाभावात्सर्वं सर्वस्माद्भवेदिति पिपासुरपि दहनमाहृत्य पिपासामुपशमयेत् , शीतार्तो वा तोयमाहृत्य शीतार्तिमिति । तेन सृष्ट्यन्तरेऽपि ब्रह्महत्यादिरनर्थहेतुरेवार्थहेतुश्च यागादिरित्यानुपूर्व्यं सिद्धम् । एवं य एव वेदा अस्मिन्कल्पे त एव कल्पान्तरे, त एव चैषामर्थाः त एव च वर्णाश्रमाः । दृष्टसाधर्म्यसम्भवे तद्वैधर्म्यकल्पनमनुमानागमविरुद्धम् । “आगमाश्चेह भूयांसो भाष्यकारेण दर्शिताः । श्रुतिस्मृतिपुराणाख्यास्तद्व्याकोपोऽन्यथा भवेत्” ॥
तस्मात्सुष्ठूक्तम् -
समाननामरूपत्वाच्चावृत्तावप्यविरोध इति ।
'अग्निर्वा अकामयत” इति भाविनीं वृत्तिमाश्रित्य यजमान एवाग्निरुच्यते । नह्यग्नेर्देवतान्तरमग्निरस्ति ॥ ३० ॥
मध्वादिष्वसम्भवादनधिकारं जैमिनिः ।
ब्रह्मविद्यास्वधिकारं देवर्षीणां ब्रुवाणः प्रष्टव्यो जायते, किं सर्वासु ब्रह्मविद्या स्वविशेषेण सर्वेषां किंवा कासुचिदेव केषाञ्चित् । यद्यविशेषेण सर्वासु, ततो मध्वादिविद्यास्वसम्भवः ।
कथम् । असौ वा आदित्यो देवमध्वित्यत्र हि मनुष्या आदित्यं मध्वध्यासेनोपासीरन् ।
उपास्योपासकभावो हि भेदाधिष्ठानो न स्वात्मन्यादित्यस्य देवतायाः सम्भवति । न चादित्यान्तरमस्ति । प्राचामादित्यानामस्मिन्कल्पे क्षीणाधिकारत्वात् ।
पुनश्चादित्यव्यपाश्रयाणि पञ्च रोहितादीन्युपक्रम्येति ।
अयमर्थः - “असौ वा आदित्यो देवमधु”(छा. उ. ३ । १ । १) इति देवानां मोदहेतुत्वान्मध्विव मधु । भ्रामरमधुसारूप्यमाहास्य श्रुतिः - “तस्य मधुनो द्यौरेव तिरश्चीनवंशः”(छा. उ. ३ । १ । १) । अन्तरिक्षं मध्वपूपः । आदित्यस्य हि मधुनोऽपूपः पटलमन्तरिक्षमाकाशं, तत्रावस्थानात् । यानि च सोमाज्यपयःप्रभृतीन्यग्नौ हूयते तान्यादित्यरश्मिभिरग्निसंवलितैरूत्पन्नपाकान्यमृतीभावमापन्नान्यादित्यमण्डलमृङ्मन्त्रमधुपैर्नीयन्ते । यथा हि भ्रमराः पुष्पेभ्य आहृत्य मकरन्दं स्वस्थानमानयन्त्येवमृङ्मन्त्रभ्रमराः प्रयोगसमवेतार्थस्मारणादिभिरृग्वेदविहितेभ्यः कर्मकुसुमेभ्य आहृत्य तन्निष्पन्नं मकरन्दमादित्यमण्डलं लोहिताभिरस्य प्राचीभी रश्मिनाडीभिरानयन्ति, तदमृतं वसव उपजीवन्ति । अथास्यादित्यमधुनो दक्षिणाभी रश्मिनाडीभिः शुक्लाभिर्यजुर्वेदविहितकर्मकुसुमेभ्य आहृत्याग्नौ हुतं सोमादि पूर्ववदमृतभावमापन्नं यजुर्वेदमन्त्रभ्रमरा आदित्यमण्डलमानयन्ति, तदेतदमृतं रुद्रा उपजीवन्ति । अथास्यादित्यमधुनः प्रतीचीभी रश्मिनाडीभिः कृष्णाभिः सामवेदविहितकर्मकुसुमेभ्य आहृत्याग्नौ हुतं सोमादि पूर्ववदमृतभावमापन्नं साममन्त्रस्तोत्रभ्रमरा आदित्यमण्डलमानयन्ति, तदमृतमादित्या उपजीवन्ति । अथास्यादित्यमधुन उदीचिभिरतिकृष्णाभी रश्मिनाडीभिरथर्ववेदविहितेभ्यः कर्मकुसुमेभ्य आहृत्याग्नौ हुतं सोमादि पूर्ववदमृतभावमापन्नमथर्वाङ्गिरसमन्त्रभ्रमराः, तथाश्वमेधवाचःस्तोमकर्मकुसुमात् इतिहासपुराणमन्त्रभ्रमरा आदित्यमण्डलमानयन्ति । अश्वमेधे वाचःस्तोमे च पारिप्लवं शंसन्ति इति श्रवणादितिहासपुराणमन्त्राणामप्यस्ति प्रयोगः । तदमृतं मरुत उपजीवन्ति । अथास्य या आदित्यमधुन ऊर्ध्वा रश्मिनाड्यो गोप्यास्ताभिरुपासनभ्रमराः प्रणवकुसुमादाहृत्यादित्यमण्डलमानयन्ति, तदमृतमुपजीवन्ति साध्याः । ता एता आदित्यव्यपाश्रयाः पञ्च रोहितादयो रश्मिनाड्य ऋगादिसम्बद्धाः क्रमेणोपदिश्येति योजना । एतदेवामृतं दृष्ट्वोपलभ्य यथास्वं समस्तैः करणैर्यशस्तेज इन्द्रियसाकल्यवीर्यान्नाद्यान्यमृतं तदुपलभ्यादित्ये तृप्यति । तेन खल्वमृतेन देवानां वस्वादीनां मोदनं विदधदादित्यो मधु । एतदुक्तं भवति - न केवलमुपास्योपासकभाव एकस्मिन्विरुध्यते, अपि तु ज्ञातृज्ञेयभावश्च प्राप्यप्रापकभावश्चेति ।
तथाग्निः पाद इति ।
अधिदैवतं खल्वाकाशे ब्रह्मदृष्टिविधानार्थमुक्तम् । आकाशस्य हि सर्वगतत्वं रूपादिहीनत्वे च ब्रह्मणा सारूप्यं, तस्य चैतस्याकाशस्य ब्रह्मणश्चत्वारः पादा अग्न्यादयः “अग्निः पादः” इत्यादिना दर्शिताः । यथा हि गोः पादा न गवा वियुज्यन्त, एवमग्न्यादयोऽपि नाकाशेन सर्वगतेनेत्याकाशस्य पादाः ।
तदेवमाकाशस्य चतुष्पदो ब्रह्मदृष्टिं विधाय स्वरूपेण वायुं संवर्गगुणकमुपास्यं विधातुं महीकरोति -
वायुर्वाव संवर्गः ।
तथा स्वरूपेणैवादित्यं ब्रह्मदृष्ट्योपास्यं विधातुं महीकरोति -
आदित्यो ब्रह्मेत्यादेशः
उपदेशः । अतिरोहितार्थमन्यत् ॥ ३१ ॥
यद्युच्येत नाविशेषेण सर्वेषां देवर्षीणां सर्वासु ब्रह्मविद्यास्वधिकारः, किन्तु यथासम्भवमिति । तत्रेदमुपतिष्ठते -
ज्योतिषि भावाच्च ।
लौकिकौ ह्यादित्यादिशब्दप्रयोगप्रत्ययौ ज्योतिर्मण्डलादिषु दृष्टौ । न चैतेषामस्ति चैतन्यम् । नह्येतेषु देवदत्तादिवत्तदनुरूपा दृश्यन्ते चेष्टाः ।
स्यादेतत् । मन्त्रार्थवादेतिहासपुराणलोकेभ्य इति ।
तत्र “जगृभ्माते दक्षिणमिन्द्रहस्तम्” इति च, “काशिरिन्द्र इत्” इति च । काशिर्मुष्टिः । तथा “तुविग्रीवो वपोदरः सुबाहुरन्धसो मदे । इन्द्रो वृत्राणि जिघ्नते”(ऋ.सं. ८-७-१७) इति विग्रहवत्त्वं देवताया मन्त्रार्थवादा अभिवदन्ति । तथा हविर्भोजनं देवताया दर्शयन्ति - “अद्धीन्द्र पिब च प्रस्थितस्य”(ऋ.सं. १०-११६-७) इत्यादयः । तथेशनम् - “इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम् । इन्द्रो वृधामिन्द्र इन्मेधिराणामिन्द्रः क्षेमे योगे हव्य इन्द्रः”(ऋ.सं. १०-८९-१०) इति, तथा “ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः”(ऋ.सं. ७-३२-२२) इति । तथा वरिवसितारं प्रति देवतायाः प्रसादं प्रसन्नायाश्च फलदानं दर्शयति “आहुतिभिरेव देवान् हुतादः प्रीणाति तस्मै प्रीता इषमूर्जं च यच्छन्ति” इति, “तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयति” इति च । धर्मशास्त्रकारा अप्याहुः - “ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः” । इति पुराणवचांसि च भूयांसि देवताविग्रहादिपञ्चकप्रपञ्चमापक्षते । लौकिका अपि देवताविग्रहादिपञ्चकं स्मरन्ति चोपचरन्ति च । तथाहि - यमं दण्डहस्तमालिखन्ति, वरुणं पाशहस्तम् , इन्द्रं वज्रहस्तम् । कथयन्ति च देवता हविर्भुज इति । तथेशनामिमामाहुः - देवग्रामो देवक्षेत्रमिति । तथास्याः प्रसादं च प्रसन्नायाश्च फलदानमाहुः - प्रसन्नोऽस्य पशुपतिः पुत्रोऽस्य जातः । प्रसन्नोऽस्य धनदो धनमनेन लब्धमिति ।
तदेतत्पूर्वपक्षी दूषयति -
नेत्युच्यते । नहि तावल्लोको नामेति ।
न खलुप्रत्यक्षादिव्यतिरिक्तो लोको नाम प्रमाणान्तरमस्ति, किन्तु प्रत्यक्षादिमूला लोकप्रसिद्धिः सत्यतामश्नुते, तदभावे त्वन्धपरम्परावन्मूलाभावाद्विपल्वते । नच विग्रहादौ प्रत्यक्षादीनामन्यतममस्ति प्रमाणम् । न चेतिहासादि मूलं भवितुमर्हति, तस्यापि पौरुषेयत्वेन प्रत्यक्षाद्यपेक्षणात् ।
प्रत्यक्षादीनां चात्राभावादित्याह -
इतिहासपुराणमपीति ।
ननूक्तं मन्त्रार्थवादेभ्यो विग्रहादिपञ्चकप्रसिद्धिरिति, अत आह -
अर्थवादा अपीति ।
विध्युद्देशेनैकवाक्यतामापद्यमाना अर्थवादा विधिविषयप्राशस्त्यलक्षणापरा न स्वार्थे प्रमाणं भवितुमर्हन्ति । “यत्परः शब्दः स शब्दार्थः” इति हि शाब्दन्यायविदः । प्रमाणान्तरेण तु यत्र स्वार्थेऽपि समर्थ्यते, यथा वायोः क्षेपिष्ठत्वम् , तत्र प्रमाणान्तरवशात्सोऽभ्युपेयते न तु शब्दसामर्थ्यात् । यत्र तु न प्रमाणान्तरमस्ति, यथा विग्रहादिपञ्चके, सोऽर्थः शब्दादेवावगन्तव्यः । अतत्परश्च शब्दो न तदवगमयुतिमलमिति । तदवगमपरस्य तत्रापि तात्पर्यमभ्युपेतव्यम् । न चैकं वाक्यमुभयपरं भवतीति वाक्यं भिद्येत । नच सम्भवत्येकवाक्यत्वे वाक्यभेदो युज्यते । तस्मात्प्रमाणान्तरानधिगता विग्रहादिमत्ता अन्यपराच्छब्दादवगन्तव्येति मनोरथमात्रमित्यर्थः । मन्त्राश्च व्रीह्यादिवच्छ्रुत्यादिभिस्तत्र तत्र विनियुज्यमानाः प्रमाणभावाननुप्रवेशिनः कथमुपयुज्यन्तां तेष तेषु कर्मस्वित्यपेक्षायां दृष्टे प्रकारे सम्भवति नादृष्टकल्पनोचिता । दृष्टश्च प्रकारः प्रयोगसमवेतार्थस्मारणं, स्मृत्या चानुतिष्ठन्ति खल्वनुष्ठातारः पदार्थान् । औत्सर्गिकी चार्थपरता पदानामित्यपेक्षितप्रयोगसमवेतार्थस्मरणतात्पर्याणां मन्त्राणां नानधिगते विग्रहादावपि तात्पर्यं युज्यत इति न तेभ्योऽपि तत्सिद्धिः । तस्माद्देवताविग्रहवत्तादिभावग्राहकप्रमाणाभावात् प्राप्ता षष्ठप्रमाणगोचरतास्येति प्राप्तम् ॥ ३२ ॥
एवं प्राप्तेऽभिधीयते -
भावं तु बादरायणोऽस्ति हि ।
तुशब्दः पूर्वपक्षं व्यावर्तयतिइत्यन्तम्
इत्यादि
भूतधातोरादित्यादिष्वचेतनत्वमभ्युपगम्यते
इत्यन्तम् अतिरोहितार्थम् ।
मन्त्रार्थवादादिव्यवहारादिति ।
आदिग्रहणेनेतिहासपुराणधर्मशास्त्राणि गृह्यन्ते । मन्त्रादीनां व्यवहारः प्रवृत्तिस्तस्य दर्शनादिति ।
पूर्वपक्षमनुभाषते -
यदप्युक्तमिति ।
एकदेशिमतेन तावत्परिहरति -
अत्र ब्रूम इति ।
तदेतत्पूर्वपक्षिणमुत्थाप्य दूषयति -
अत्राह
पूर्वपक्षी । शाब्दी खल्वियं गतिः, यत्तात्पर्याधीनवृत्तित्वं नाम । नह्यन्यपरः शब्दोऽन्यत्र प्रमाणं भवितुमर्हति । नहि श्वित्रिनिर्णेजनपरं श्वेतो धावतीति वाक्यमितः सारमेयगमनं गमयितुमर्हति । नच नञ्वति महावाक्येऽवान्तरवाक्यार्थो विधिरूपः शक्योऽवगन्तुम् । नच प्रत्ययमात्रात्सोऽप्यर्थोऽस्य भवति, तत्प्रत्ययस्य भ्रान्तित्वात् । न पुनः प्रत्यक्षादीनामियं गतिः । नह्युदकाहरणार्थिना घटदर्शनायोन्मीलितं चक्षुर्घटपटौ वा पटं वा केवलं नोपलभते ।
तदेवमेकदेशिनि पूर्वपक्षिणा दूषिते परमसिद्धान्तवाद्याह -
अत्रोच्यते विषम उपन्यास इति ।
अयमभिसन्धिः - लोके विशिष्टार्थप्रत्यायनाय पदानि प्रयुक्तानि तदन्तरेण न स्वार्थमात्रस्मारणे पर्यवस्यन्ति । नहि स्वार्थस्मारणमात्राय लोके पदानां प्रयोगो दृष्टपूर्वः । वाक्यार्थे तु दृश्यते । न चैतान्यस्मारितस्वार्थानि साक्षाद्वाक्यार्थं प्रत्याययितुमीशते इति स्वार्थस्मारणं वाक्यार्थमितयेऽवान्तरव्यापारः कल्पितः पदानाम् । नच यदर्थं यत्तत्तेन विना पर्यवस्यतीति न स्वार्थमात्रभिधाने पर्यवसानं पदानाम् । नच नञ्वति वाक्ये विधानपर्यवसानम् । तथा सति नञ्पदमनर्थकं स्यात् । यथाहुः - “साक्षाद्यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् । वर्णास्तथापि नैतस्मिन्पर्यवस्यन्ति निष्फले ॥ वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयम् । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम्” ॥ इति । सेयमेकस्मिन्वाक्ये गतिः । यत्र तु वाक्यस्यैकस्य वाक्यान्तरेण सम्बन्धस्तत्र लोकानुसारतो भूतार्थव्युत्पत्तौ च सिद्धायामेकैकस्य वाक्यस्य तत्तद्विशिष्टार्थप्रत्यायनेन पर्यवसितवृत्तिनः पश्चात्कुतश्चिद्धेतोः प्रयोजनान्तरापेक्षायामन्वयः कल्प्यते । यथा “वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति वायव्यं श्वेतमालभेत”(कृ.य. २.१.१) इत्यत्र । इह हि यदि न स्वाध्यायाध्ययनविधिः स्वाध्यायशब्दवाच्यं वेदराशिं पुरुषार्थतामनेष्यत्ततो भूतार्थमात्रपर्यवसिता नार्थवादा विध्युद्देशेनैकवाक्यतामागमिष्यन् । तस्मात् स्वाध्यायविधिवशात्कैमर्थ्याकाङ्क्षायां वृत्तान्तादिगोचराः सन्तस्तत्प्रत्यायनद्वारेण विधेयप्राशस्त्यं लक्षयन्ति, न पुनरविवक्षितस्वार्था एव तल्लक्षणे प्रभवन्ति, तथा सति लक्षणैव न भवेत् । अभिधेयाविनाभावस्य तद्बीजस्याभावात् । अत एव गङ्गायां घोष इत्यत्र गङ्गाशब्दः स्वार्थसम्बद्धमेव तीरं लक्षयति न तु समुद्रतीरं, तत्कस्य हेतोः, स्वार्थप्रत्यासत्त्यभावात् । न चैतत्सर्वं स्वार्थाविवक्षायां कल्पते । अत एव यत्र प्रमाणान्तरविरुद्धार्था अर्थवादा दृश्यन्ते, यथा - ‘आदित्यो वै यूपः’ ‘यजमानः प्रस्तरः’ इत्येवमादयः, तत्र यथा प्रमाणान्तराविरोधः, यथा च स्तुत्यर्थता, तदुभयसिद्ध्यर्थं “गुणवादस्तु”(जै.सू. १।२।१०) इति च “तत्सिद्धिः” इति चासूत्रयज्जैमिनिः । तस्माद्यत्र सोऽर्थोऽर्थवादानां प्रमाणान्तरविरुद्धस्तत्र गुणवादेन प्राशस्त्यलक्षणेति लक्षितलक्षणा । यत्र तु प्रमाणान्तरसंवादस्तत्र प्रमाणान्तरादिवार्थवादादपि सोऽर्थः प्रसिध्यति, द्वयोः परस्परानपेक्षयोः प्रत्यक्षानुमानयोरिवैकत्रार्थे प्रवृत्तेः । प्रमात्रपेक्षया त्वनुवादकत्वम् । प्रमाता ह्यव्युत्पन्नः प्रथमं यथा प्रत्यक्षादिभ्योऽर्थमवगच्छति न तथाम्नायतः, तत्र व्युत्पत्त्याद्यपेक्षत्वात् । नतु प्रमाणापेक्षया, द्वयोः स्वार्थेऽनपेक्षत्वादित्युक्तम् । नन्वेवं मानान्तरविरोधेऽपि कस्माद्गुणवादो भवति, यावता शब्दविरोधे मानान्तरमेव कस्मान्न बाध्यते, वेदान्तैरिवाद्वैतविषयैः प्रत्यक्षादयः प्रपञ्चगोचराः, कस्माद्वाऽर्थवादवद्वेदान्ता अपि गुणवादेन न नीयन्ते । अत्रोच्यते - लोकानुसारतो द्विविधो हि विषयः शब्दानाम् , द्वारतश्च तात्पर्यतश्च । यथैकस्मिन्वाक्ये पदानां पदार्था द्वारतो वाक्यार्थश्च तात्पर्यतो विषयः एवं वाक्यद्वयैकवाक्यतायामपि । यथेयं देवदत्तीया गौः क्रेतव्येत्येकं वाक्यम् , एषा बहुक्षीरेत्यपरं तदस्य बहुक्षीरत्वप्रतिपादनं द्वारम् । तात्पर्यं तु क्रेतव्येति वाक्यान्तरार्थे । तत्र यद्द्वारतस्तत्प्रमाणान्तरविरोधेऽन्यथा नीयते । यथा विषं भक्षयेति वाक्यं मा अस्य गृहे भुङ्क्ष्वेति वाक्यान्तरार्थपरं सत् । यत्र तु तात्पर्यं तत्र मानान्तरविरोधे पौरुषेयप्रमाणमेव भवति । वेदान्तास्तु पौर्वापर्यपर्यालोचनया निरस्तसमस्तभेदप्रपञ्चब्रह्मप्रतिपादनपरा अपौरुषेयता स्वतःसिद्धतात्त्विकप्रमाणभावाः सन्तस्त्तात्त्विकप्रमाणभावात्प्रत्यक्षादीनि प्रच्याव्य सांव्यवहारिके तस्मिन्व्यवस्थापयन्ति । न च ‘आदित्यो वै यूपः’ इति वाक्यमादित्यस्य यूपत्वप्रतिपादनपरमपि तु यूपस्तुतिपरम् । तस्मात्प्रमाणान्तरविरोधे द्वारीभूतो विषयो गुणवादेन नीयते । यत्र तु प्रमाणान्तरं विरोधकं नास्ति, यथा देवताविग्रहादौ, तत्र द्वारतोऽपि विषयः प्रतीयमानो न शक्यस्त्यक्तुम् । नच गुणवादेन नेतुं, को हि मुख्ये सम्भवति गौणमाश्रयेदतिप्रसङ्गात् । तथा सत्यनधिगतं विग्रहादि प्रतिपादयत् वाक्यं भिद्येतेति चेत् अद्धा । भिन्नमेवैतद्वाक्यम् । तथा सति तात्पर्यभेदोऽपीति चेत् । न । द्वारतोऽपि तदवगतौ तात्पर्यान्तरकल्पनाऽयोगात् । नच यस्य यत्र न तात्पर्यं तस्य तत्राप्रामाण्यं, तथा सति विशिष्टपरं वाक्यं विशेषणेष्वप्रमाणमिति विशिष्टपरमपि न स्यात् , विशेषणाविषयत्वात् । विशिष्टविषयत्वेन तु तदाक्षेपे परस्पराश्रयत्वम् । आक्षेपाद्विशेषणप्रतिपत्तौ सत्यां विशिष्टविषयत्वं विशिष्टविषयत्वाच्च तदाक्षेपः । तस्माद्विशिष्टप्रत्ययपरेभ्योऽपि विशेषणानि प्रतीयमानानि तस्यैव वाक्यस्य विषयत्वेनानिच्छताप्यभ्युपेयानि यथा, तद्यान्यपरेभ्योऽप्यर्थवादवाक्येभ्यो देवताविग्रहादयः प्रतीयमाना असति प्रमाणान्तरविरोधे न युक्तास्त्यक्तुम् । नहि मुख्यार्थसम्भवे गुणवादो युज्यते । नच भूतार्थमप्यपौरुषेयं वचो मानान्तरापेक्षं स्वार्थे, येन मानान्तरासम्भवे भवेदप्रमाणमित्युक्तम् । स्यादेतत् । तात्पर्यैक्येऽपि यदि वाक्यभेदः, कथं तर्ह्यर्थैकत्वादेकं वाक्यम् । न । तत्र तत्र यथास्वं तत्तत्पदार्थविशिष्टैकपदार्थप्रतीतिपर्यवसानसम्भवात् । स तु पदार्थान्तरविशिष्टः पदार्थ एकः क्वचिद्द्वारभूतः क्वचिद्द्वारीत्येतावान् विशेषः । नन्वेवं सति ओदनं भुक्त्वा ग्रामं गच्छतीत्यत्रापि वाक्यभेदप्रसङ्गः । अन्यो हि संसर्ग ओदनं भुक्त्वेति, अन्यस्तु ग्रामं गच्छतीति । न । एकत्र प्रतीतेरपर्यवसानात् । भुक्त्वेति हि समानकर्तृकता पूर्वकालता च प्रतीयते । न चेयं प्रतीतिरपरकालक्रियान्तरप्रत्ययमन्तरेण पर्यवस्यति । तस्माद्यावति पदसमूहे पदाहिताः पदार्थस्मृतयः पर्यवसन्ति तावदेकं वाक्यम् । अर्थवादवाक्ये चैताः पर्यवस्यन्ति विनैव विधिवाक्यं विशिष्टार्थप्रतीतेः । न च द्वाभ्यां द्वाभ्यां पदाभ्यां विशिष्टार्थप्रत्ययपर्यवसानात् पञ्चषट्पदवति वाक्ये एकस्मिन्नानात्वप्रसङ्गः । नानात्वेऽपि विशेषणानां विशेष्यस्यैकत्वात् , तस्य च सकृच्चछ्रुतस्य प्रधानभूतस्य गुणभूतविशेषणानुरोधेनावर्तनायोगात् । प्रधानभेदे तु वाक्यभेद एव । तस्माद्विधिवाक्यादर्थवादवाक्यमन्यदिति वाक्ययोरेव स्वस्ववाक्यार्थप्रत्ययावसितव्यापारयोः पश्चात्कुतश्चिदपेक्षायां परस्परान्वय इति सिद्धम् ।
अपि च विधिभिरेवेन्द्रादिदैवत्यानीति ।
देवतामुद्दिश्य हविरवमृश्य च तद्विषयस्वत्वत्याग इति यागशरीरम् । नच चेतस्यनालिखिता देवतोद्देष्टुं शक्या । नच रूपरहिता चेतसि शक्यत आलेखितुमिति यागविधिनैव तद्रूपापेक्षिणा यादृशमन्यपरेभ्योऽपि मन्त्रार्थवादेभ्यस्तद्रूपमवगतं तदभ्युपेयते, रूपान्तरकल्पनायां मानाभावात् । मन्त्रार्थवादयोरत्यन्तपरोक्षवृत्तिप्रसङ्गाच्च । यथा हि “व्रात्यो व्रात्यस्तोमेन यजते” इति व्रात्यस्वरूपापेक्षायां यस्य पिता पितामहो वा सोमं न पिबेत् स व्रात्य इति व्रात्यस्वरूपमवगतं व्रात्यस्तोमविध्यपेक्षितं सद्विधिप्रमाणकं भवति, यथा वा स्वर्गस्य रूपमलौकिकं ‘स्वर्गकामो यजेत’ इति विधिनापेक्षितं सदर्थवादतोऽवगम्यमानं विधिप्रमाणकम् , तथा देवतारूपमपि । ननूद्देशो रूपज्ञानमपेक्षते न पुना रूपसत्तामपि, देवतायाः समारोपेणापि च रूपज्ञानमुपपद्यत इति समारोपितमेव रूपं देवताया मन्त्रार्थवादैरुच्यते । सत्यं, रूपज्ञानमपेक्षते । तच्चान्यतोऽसम्भवान्मन्त्रार्थवादेभ्य एव । तस्य तु रूपस्यासति बाधकेऽनुभवारूढं तथाभावं परित्यज्यान्यथात्वमननुभूयमानमसाम्प्रतं कल्पयितुम् । तस्माद्विध्यपेक्षितमन्त्रार्थवादैरन्यपरैरपि देवतारूपं बुद्धावुपनिधीयमानं विधिप्रमाणकमेवेति युक्तम् ।
स्यादेतत् । विध्यपेक्षायामन्यपरादपि वाक्यादवगतोऽर्थः स्वीक्रियते, तदपेक्षैव तु नास्ति, शब्दरूपस्य देवताभावात् , तस्य च मानान्तरवेद्यत्वादित्यत आह -
न च शब्दमात्रमिति ।
न केवलं - मन्त्रार्थवादतो विग्रहादिसिद्धिः, अपि तु इतिहासपुराणलोकस्मरणेभ्यो मन्त्रार्थवादमूलेभ्यो वा प्रत्यक्षादमूलेभ्यो वेत्याह -
इतिहासेति । श्लिष्यते
युज्यते । निगदमात्रव्याख्यातमन्यत् । तदेवं मन्त्रार्थवादादिसिद्धे देवताविग्रहादौ गुर्वादिपूजावद्देवतापूजात्मको यागो देवताप्रसादादिद्वारेण सफलोऽवकल्पते । अचेतनस्य तु पूजामप्रतिपद्यमानस्य तदनुपपत्तिः । न चैवं यज्ञकर्मणो देवतां प्रति गुणभावाद्देवतातः फलोत्पादे यागभावनायाः श्रुतं फलवत्त्वं यागस्य च तां प्रति तत्फलांशं वा प्रति श्रुतं करणत्वं हातव्यम् । यागभावनाया एव हि फलवत्या यागलक्षणस्वकरणावान्तरव्यापारत्वाद्देवताभोजनप्रसादादीनाम् , कृषिकर्मण इव तत्तदवान्तरव्यापारस्य सस्याधिगमसाधनत्वम् । आग्नेयादीनामिवोत्पत्तिपरमापूर्वावान्तरव्यापाराणां भवन्मते स्वर्गसाधनत्वम् । तस्मात्कर्मणोऽपूर्वावान्तरव्यापारस्य वा देवताप्रसादावान्तरव्यापारस्य वा फलवत्त्वात् प्रधानत्वमुभयस्मिन्नपि पक्षे समानं, नतु देवताया विग्रहादिमत्याः प्राधान्यमिति न धर्ममीमांसायाः सूत्रम् - “अपि वा शब्दपूर्वत्वाद्यज्ञकर्म प्रधानं गुणत्वे देवताश्रुतिः”(जै.सू. ९.१.९) इति विरुध्यते । तस्मात्सिद्धो देवतानां प्रायेण ब्रह्मविद्यास्वधिकार इति ॥ ३३ ॥
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ।
अवान्तरसङ्गतिं कुर्वन्नधिकरणतात्पर्यमाह -
यथा मनुष्याधिकारेति ।
शङ्काबीजमाह -
तत्रेति ।
निर्मृष्टनिखिलदुःखानुषङ्गे शाश्वतिक आनन्दे कस्य नाम चेतनस्यार्थिता नास्ति, येनार्थिताया अभावाच्छूद्रो नाधिक्रियेत । नाप्यस्य ब्रह्मज्ञाने सामर्थ्याभावः । द्विविधं हि सामर्थ्यं निजं चागन्तुकं च । तत्र द्विजातीनामिव शूद्राणां श्रवणादिसामर्थ्यं निजमप्रतिहतम् । अध्ययनाभावादागन्तुकसामर्थ्याभावे सत्यनधिकार इति चेत् , हन्त, आधानाभावे सत्यग्न्यभावादग्निसाध्ये कर्मणि मा भूदधिकारः । नच ब्रह्मविद्यायामग्निः साधनमिति किमित्यनाहिताग्नयो नाधिक्रियन्ते । न चाध्ययनाभावात्तत्साधनायामनधिकारो ब्रह्मविद्यायामिति साम्प्रतम् । यतो युक्तं “यदाहवनीये जुहोति”(श.ब्रा. ३-५-३-३) इत्याहवनीयस्य होमाधिकरणतया विधानात्तद्रूपस्यालौकिकतयानारभ्याधीतवाक्यविहितादाधानादन्यतोऽनधिगमादाधानस्य च द्विजातिसम्बन्धितया विधानात्तत्साध्योऽग्निरलौकिको न शूद्रस्यास्तीति नाहवनीयादिसाध्ये कर्मणि शूद्रस्याधिकार इति । नच तथा ब्रह्मविद्यायामलौकिकमस्ति साधनं यच्छूद्रस्य न स्यात् । अध्ययननियम इति चेत् । न । विकल्पासहत्वात् । तदध्ययनं पुरुषार्थे वा नियम्येत , यथा धनार्जने प्रतिग्रहादि । क्रत्वर्थे वा, यथा ‘व्रीहीनवहन्ति’ इत्यवघातः । न तावत्क्रत्वर्थे । नहि “स्वाध्यायोऽध्येतव्यः”(तै.आ. २.१५.१) इति कञ्चित्क्रतुं प्रकृत्य पठ्यते, यथा दर्शपूर्णमासं प्रकृत्य ‘व्रीहीनवहन्ति’ इति । न चानारभ्याधीतमप्यव्यभिचरितक्रतुसम्बन्धितया क्रतुमुपस्थापयति, येन वाक्येनैव क्रतुना सम्बध्येताध्ययनम् । नहि यथा जुह्वादि अव्यभिचरितक्रतुसम्बद्धमेवं स्वाध्याय इति । तस्मान्नैव क्रत्वर्थे नियमः । नापि पुरुषार्थे । पुरुषेच्छाधीनप्रवृत्तिर्हि पुरुषार्थो भवति, यथा फलं तदुपायो वा । तदुपायेऽपि हि विधितः प्राक् सामान्यरूपा प्रवृत्तिः पुरुषेच्छानिबन्धनैव । इतिकर्तव्यतासु तु सामान्यतो विशेषतश्च प्रवृत्तिर्विधिपराधीनैव । नह्यनधिगतकरणभेद इतिकर्तव्यतासु घटते । तस्माद्विध्यधीनप्रवृत्तितयाङ्गानां क्रत्वर्थता । क्रतुरिति हि विधिविषयेण विधिं परामृशति विषयिणम् । तेनार्थ्यते विषयीक्रियत इति क्रत्वर्थः । न चाध्ययनं वा स्वाध्यायो वा तदर्थज्ञानं वा प्राग्विधेः पुरुषेच्छाधीनप्रवृत्तिः, येन पुरुषार्थः स्यात् । यदि चाध्ययनेनैवार्थावबोधरूपं नियम्येत ततो मानान्तरविरोधः । तद्रूपस्य विनाप्यध्ययनं पुस्तकादिपाठेनाप्यधिगमात् । तस्मात् “सुवर्णं भार्यं” इतिवदध्ययनादेव फलं कल्पनीयम् । तथा चाध्ययनविधेरनियामकत्वाच्छूद्रस्याध्ययनेन वा पुस्तकादिपाठेन वा सामर्थ्यमस्तीति सोऽपि ब्रह्मविद्यायामधिक्रियेत । मा भूद्वाध्ययनाभावात्सर्वत्र ब्रह्मविद्यायामधिकारः, संवर्गविद्यायां तु भविष्यति । “अह हारेत्वा शूद्र” इति शूद्रं सम्बोध्य तस्याः प्रवृत्तेः । न चैष शूद्रशब्दः कयाचिदवयवव्युत्पत्त्याऽशूद्रे वर्तनीयः, अवयवप्रसिद्धितः समुदायप्रसिद्धेरनपेक्षतया बलीयस्त्वात् । तस्माद्यथानधीयानस्येष्टौ निषादस्थपतेरधिकारो वचनसामर्थ्यादेवं संवर्गविद्यायां शूद्रस्याधिकारो भविष्यतीति प्राप्तम् ।
एवं प्राप्ते ब्रूमः - न शूद्रस्याधिकारः वेदाध्ययनाभावादिति ।
अयमभिसन्धिः - यद्यपि “स्वाध्यायोऽध्येतव्यः” इत्यध्ययनविधिर्न किञ्चित्फलवत्कर्मारभ्याम्नातः, नाप्यव्यभिचरितक्रतुसम्बन्धपदार्थगतः, नहि जुह्वादिवत्स्वाध्यायोऽव्यभिचरितक्रतुसबन्धः, तथापि स्वाध्यायस्याध्ययनसंस्कारविधिरध्ययनस्यापेक्षितोपायतामवगमयन् किं पिण्डपितृयज्ञवत् स्वर्गं वा, सुवर्णं भार्यमितिवदार्थवादिकं वा फलं कल्पयित्वा विनियोगभङ्गेन स्वाध्यायेनाधीयीतेत्येवमर्थः कल्पतां, किंवा परम्परयाप्यन्यतोऽपेक्षितमधिगम्य निर्वृणोत्विति विषये, न दृष्टद्वारेण परम्परयाप्यन्यतोऽपेक्षितप्रतिलम्भे च यथाश्रुतिविनियोगोपपत्तौ च सम्भवन्त्यां श्रुतिविनियोगभङ्गेनाध्ययनादेवाश्रुतादृष्टफलकल्पनोचिता । दृष्टश्च स्वाध्यायाध्ययनसंस्कारः । तेन हि पुरुषेण स प्राप्यते, प्राप्तश्च फलवत्कर्मब्रह्मावबोधमभ्युदयनिःश्रेयसप्रयोजनमुपजनयति, नतु सुवर्णधारणादौ दृष्टद्वारेण किञ्चित्परम्परयाप्यस्त्यपेक्षितं पुरुषस्य, तस्माद्विपरिवृत्य साक्षाद्धारणादेव विनियोगभङ्गेन फलं कल्प्यते । यदा चाध्यनसंस्कृतेन स्वाध्यायेन फलवत्कर्मब्रह्मावबोधो भाव्यमानोऽभ्युदयनिःश्रेयसप्रयोजन इति स्थापितं तदा यस्याध्ययनं तस्यैव कर्मब्रह्मावबोधोऽभ्युदयनिःश्रेयसप्रयोजनो नान्यस्य, यस्य चोपनयनसंस्कारस्तस्यैवाध्ययनं, स च द्विजातीनामेवेत्युपनयनाभावेनाध्ययनसंस्काराभावात् पुस्तकादिपठितस्वाध्यायजन्योऽर्थावबोधः शूद्राणां न फलाय कल्पत इति शास्त्रीयसामर्थ्याभावान्न शूद्रो ब्रह्मविद्यायामधिक्रियत इति सिद्धम् ।
यज्ञेऽनवकॢप्त इति ।
यज्ञग्रहणमुपलक्षणार्थम् । विद्यायामनवकॢप्त इत्यपि द्रष्टव्यम् । सिद्धवदभिधानस्य न्यायपूर्वकत्वान्न्यायस्य चोभयत्र साम्यात् ।
द्वितीयं पूर्वपक्षमनुभाषते -
यत्पुनः संवर्गविद्यायामिति ।
दूषयति -
न तल्लिङ्गम् ।
कुतः ।
न्यायाभावात् ।
न तावच्छूद्रः संवर्गविद्यायां साक्षाच्चोद्यते, यथा “एतया निषादस्थपतिं याजयेत्” इति निषादस्थपतिः । किन्त्वर्थवादगतोऽयं शूद्रशब्दः, स चान्यतः सिद्धमर्थवद्योतयति न तु प्रापयतीत्यध्वरमीमांसकाः । अस्माकं तु अन्यपरादपि वाक्यादसति बाधके प्रमाणान्तरेणार्थोऽवगम्यमानो विधिना चापेक्षितः स्वीक्रियत एव । न्यायश्चास्मिन्नर्थे उक्तो बाधकः । नच विध्यपेक्षास्ति, द्विजात्यधिकारप्रतिलम्भेन विधेः पर्यवसानात् । विध्युद्देशगतत्वे त्वयं न्यायोऽपोद्यते वचनबलान्निषादस्थपतिवन्न त्वेष विध्युद्देशगत इत्युक्तम् । तस्मान्नार्थवादमात्राच्छूद्राधिकारसिद्धिरिति भावः ।
अपि च किमर्थवादबलाद्विद्यामात्रेऽधिकारः शूद्रस्य कल्पते संवर्गविद्यायां वा न तावद्विद्यामात्र इत्याह -
कामं चायमिति ।
नहि संवर्गविद्यायामर्थवादः श्रुतो विद्यामात्रेऽधिकारिणमुपनयत्यतिप्रसङ्गात् । अस्तु तर्हि संवर्गविद्यायामेव शूद्रस्याधिकार इत्यत आह -
अर्थवादस्थत्वादिति ।
तत्किमेतच्छूद्रपदं प्रमत्तगीतं, न चैत्यद्युक्तं, तुल्यं हि साम्प्रदायिकमित्यत आह -
शक्यते चायं शूद्रशब्द इति ।
एवं किलात्रोपाख्यायते - जानश्रुतिः पौत्रायणो बहुदायी श्रद्धादेयो बहुपाक्यः प्रियातिथिर्बभूव । स च तेषु तेषु ग्रामनगरशृङ्गाटकेषु विविधानामन्नपानानां पूर्णानतिथिभ्य आवसथान् कारयामास । सर्वत एत्यैतेष्वावसथेषु ममान्नपानमर्थिन उपयोक्ष्यन्त इति । अथास्य राज्ञो दानशौण्डस्य गुणगरिमसन्तोषिताः सन्तो देवर्षयो हंसरूपमास्थाय तदनुग्रहाय तस्य निदाघसमये दोषा हर्म्यतलस्थस्योपरि मालामाबध्याजग्मुः । तेषामग्रेसरं हंसं सम्बोध्य पृष्ठतः पतन्नेकतमो हंसः साद्भुतमभ्युवाद । भो भो भल्लाक्ष भल्लाक्ष, जानश्रुतेरस्य पौत्रायणस्य द्युनिशं द्युलोक आयतं ज्योतिस्तन्मा प्रसाङ्क्षीर्मैतत्त्वा धाक्षीदिति । तमेवमुक्तवन्तमग्रगामी हंसः प्रत्युवाच । कं वरमेनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थ । अयमर्थः - वर इति सोपहासमवरमाह । अथवा वरो वराकोऽयं जानश्रुतिः । कमित्याक्षेपे । यस्मादयं वराकस्तस्मात्कमेनं किम्भूतमेतं सन्तं प्राणिमात्रं रैक्वमिव सयुग्वानमात्थ । युग्वा गन्त्री शकटी तया सह वर्तत इति स युग्वा रैक्वस्तमिव कमेनं प्राणिमात्रं जानश्रुतिमात्थ । रैक्वस्य हि ज्योतिरसह्यं नत्वेतस्य प्राणिमात्रस्य । तस्य हि भगवतः पुण्यज्ञानसम्भारसम्भृतस्य रैक्वस्य ब्रह्मविदो धर्मे त्रैलोक्योदरवर्तिप्राणभृन्मात्रधर्मोऽन्तर्भवति न पुना रैक्वधर्मकक्षां कस्यचिद्धर्मोऽवगाहत इति । अथैष हंसवचनादात्मनोऽत्यन्तनिकर्षमुत्कर्षकाष्ठां च रैक्वस्योपश्रुत्य विषण्णमानसो जानश्रुतिः कितव इवाक्षपराजितः पौनःपुन्येन निःश्वसन्नुद्वेलं कथं कथमपि निशीथमतिवाहयाम्बभूव । ततो निशावसानपिशुनमनिभृतवन्दारुवृन्दप्रारब्धस्तुतिसहस्रसंवलितं मङ्गलतूर्यनिर्घोषमाकर्ण्य तल्पतलस्थ एव राजा एकपदे यन्तारमाहूयादिदेश, वयस्य, रैक्वाह्वयं ब्रह्मविदमेकरतिं सयुग्वानमतिविविक्तेषु तेषु तेषु विपिननगनिकुञ्जनदीपुलिनादिप्रदेशेष्वन्विष्य प्रयत्नतोऽस्मभ्यमाचक्ष्वेति । स च तत्र तत्रान्विष्यन् क्वचिदतिविविक्ते देशे शकटस्याधस्तात् पामानं कण्डूयमानं ब्राह्मणायनमद्राक्षीत् । तं च दृष्ट्वा रैक्वोऽयं भवितेति प्रतिभावानुपविश्य सविनयमप्राक्षीत् , त्वमसि हे भगवन् , सयुग्वा रैक्व इति । तस्य च रैक्वभावानुमतिं च तैस्तैरिङ्गितैर्गार्हस्थ्येच्छां धनायां चोन्नीय यन्ता राज्ञे निवेदयामास । राजा तु तं निशम्य गवां षट्शतानि निष्कं च हारं चाश्वतरीरथं चादाय सत्वरं रैक्वं प्रतिचक्रमे । गत्वा चाभ्युवाद । है रैक्व, गवां षट्शतानीमानि निष्कश्च हारश्चायमश्वतरीरथः, एतदादत्स्व, अनुशाधि मां भगवन्निति । तमेवमुक्तवन्तं प्रति साटोपं च सस्पृहं चोवाच रैक्वः । अह हारेत्वा शूद्र, तवैव सह गोभिरस्त्विति । अहेति निपातः साटोपमामन्त्रणे । हारेण युक्ता इत्वा गन्त्री रथो हारेत्वा स गोभिः सह तवैवास्तु, किमेतन्मात्रेण मम धनेनाकल्पवर्तिनो गार्हस्थ्यस्य निर्वाहानुपयोगिनेति भावः । आहरेत्वेति तु पाठोऽनर्थकतया च गोभिः सहेत्यत्र प्रतिसम्बन्ध्यनुपादानेन चाचार्यैर्दूषितः । तदस्यामाख्यायिकायां शक्यः शूद्रशब्देन जानश्रुती राजन्योऽप्यवयवव्युत्पत्त्या वक्तुम् । स हि रैक्वः परोक्षज्ञतां चिख्यापयिषुरात्मनो जानश्रुतेः शूद्रेति शुचं सूचयामास । कथं पुनः शूद्रशब्देन शुगुत्पन्ना सूच्यत इति ।
उच्यते -
तदाद्रवणात् ।
तद्व्याचष्टे - शुचमभिदुद्राव जानश्रुतिः । शुचं प्राप्तवानित्यर्थः । शुचा वा जानश्रुतिः दुद्रुवे । शुचा प्राप्त इत्यर्थः । अथवा शुचा रैक्वं जानश्रुतिर्दुद्राव गतवान् । तस्मात्तदाद्रवणादिति तच्छब्देन शुग्वा जानश्रुतिर्वा रैक्वो वा परामृश्यत इत्युक्तम् ॥ ३४ ॥
क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ।
इतश्च न जातिशूद्रो जानश्रुतिः - यत्कारणं
प्रकरणनिरूपणे क्रियमाणे क्षत्रियत्वमस्य जानश्रुतेरवगम्यते चैत्ररथेन लिङ्गादिति व्याचक्षाणः प्रकरणं निरूपयति -
उत्तरत्र हि संवर्गविद्यावाक्यशेषे ।
चैत्ररथेनाभिप्रतारिणा निश्चितक्षत्रियत्वेन समानायां संवर्गविद्यायां समभिव्याहाराल्लिङ्गात्सन्दिग्धक्षत्रियभावो जानश्रुतिः क्षत्रियो निश्चीयते । “अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं सूदेन परिविष्यमाणौ ब्रह्मचारी बिभिक्षे”(बृ. उ. ४ । ३ । ५) इति प्रसिद्धयाजकत्वेन कापेयेनाभिप्रतारिणो योगः प्रतीयते । ब्रह्मचारिभिक्षया चास्याशूद्रत्वमवगम्यते । नहि जातु ब्रह्मचारी शूद्रान् भिक्षते । याजकेन च कापेयेन योगाद्याज्योऽभिप्रतारी । क्षत्रियत्वं चास्य चैत्ररथित्वात् । “तस्माच्चैत्ररथो नामैकः क्षत्रपतिरजायत” इति वचनात् । चैत्ररथित्वं चास्य कापेयेन याजकेन योगात् ।
एतेन वै चित्ररथं कापेया अयाजयन्निति
छन्दोगानां द्विरात्रे श्रूयते । तेन चित्ररथस्य याजकाः कापेयाः । एष चाभिप्रतारी चित्ररथादन्यः सन्नेव कापेयानां याज्यो भवति । यदि चैत्ररथिः स्यात् समानान्वयानां हि प्रायेण समानान्वया याजका भवन्ति । तस्माच्चैत्ररथित्वादभिप्रतारी काक्षसेनिः क्षत्रियः । तत्समभिव्याहाराच्च जानश्रुतिरपि क्षत्रियः सम्भाव्यते ।
इतश्च क्षत्रियो जानश्रुतिरित्याह -
क्षत्तृप्रेषणाद्यैश्वर्ययोगाच्च ।
क्षत्तृप्रेषणे चार्थसम्भवे च तादृशस्य वदान्यप्रष्ठस्यैश्वर्यं प्रायेण क्षत्रियस्य दृष्टं युधिष्ठिरादिवदिति ॥ ३५ ॥
संस्कारपरामर्शात्तदभावाभिलापाच्च ।
न केवलमुपनीताध्ययनविधिपरामर्शेन न शूद्रस्याधिकारः किन्तु तेषु तेषु विद्योपदेशप्रदेषूपनयनसंस्कारपरामर्शात् शूद्रस्य तदभावाभिधानाद्ब्रह्मविद्यायामनधिकार इति ।
नन्वनुपनीतस्यापि ब्रह्मोपदेशः श्रूयते - “तान्हानुपनीयैव”(छा. उ. ५ । ११ । ७) इति । तथा शूद्रस्यानुपनीतस्यैवाधिकारो भवीष्यतीत्यत आह -
तान्हानुपनीयैवेत्यपि प्रदर्शितैवोपनयनप्राप्तिः ।
प्राप्तिपूर्वकत्वात्प्रतिषेधस्य येषामुपनयनं प्राप्तं तेषामेव तन्निषिध्यते । तच्च द्विजातीनामिति द्विजातय एव निषिद्धोपनयना अधिक्रियन्ते न शूद्र इति ॥ ३६ ॥
तदभावनिर्धारणे च प्रवृत्तेः ।
सत्यकामो ह वै जाबालः प्रमीतपितृकः स्वां मातरं जबालां पप्रच्छ, अहमाचार्यकुले ब्रह्मचर्यं चरिष्यामि, तद्ब्रवीतु भवती किङ्गोत्रोऽहमिति । साब्रवीत् । त्वज्जनकपरिचरणपरतया नाहमज्ञासिषं गोत्रं तवेति । स त्वाचार्यं गौतममुपससाद । उपसद्योवाच, हे भगवन् , ब्रह्मचर्यमुपेयां त्वयीति । स होवाच, नाविज्ञातगोत्र उपनीयत इति किङ्गोत्रोऽसीति । अथोवाच सत्यकामो नाहं वेद स्वं गोत्रं, स्वां मातरं जबालामपृच्छं, सापि न वेदेति । तदुपश्रुत्याभ्यधाद्गौतमः, नाद्विजन्मन आर्जवयुक्तमीदृशं वचः, तेनास्मिन्न शूद्रत्वसम्भावनास्तीति त्वां द्विजातिजन्मानमुपनेष्य इत्युपनेतुमनुशासितुं च जाबालं गौतमः प्रवृत्तः । तेनापि शूद्रस्य नाधिकार इति विज्ञायते ।
न सत्यादगा इति ।
न सत्यमतिक्रान्तवानसीति ॥ ३७ ॥
श्रवणाध्ययनार्थप्रतिषेधात्समृतेश्च ।
निगदव्याख्यानेन भाष्येण व्याख्यातम् । अतिरोहितार्थमन्यत् ॥ ३८ ॥
कम्पनात् ।
प्राणवज्रश्रुतिबलाद्वाक्यं प्रकरणं च भङ्क्त्वा वायुः पञ्चवृत्तिराध्यात्मिको बाह्यश्चात्र प्रतिपाद्यः । तथाहि - प्राणशब्दो मुख्यो वायावाध्यात्मिके, वज्रशब्दश्चाशनौ । अशनिश्च वायुपरिणामः । वायुरेव हि बाह्यो धूमज्योतिःसलिलसंवलितः पर्जन्यभावेन परिणतो विद्युत्स्तनयित्नुवृष्ट्यशनिभावेन विवर्तते । यद्यपि च सर्वं जगदिति सवायुकं प्रतीयते तथापि सर्वशब्द आपेक्षिकोऽपि न स्वाभिधेयं जहाति किन्तु सङ्कुचद्वृत्तिर्भवति । प्राणवज्रशब्दौ तु ब्रह्मविषयत्वे स्वार्थमेव त्यजतः । तस्मात् स्वार्थत्यागाद्वरं वृत्तिसङ्कोचः, स्वार्थलेशावस्थानात् । अमृतशब्दोऽपि मरणाभाववचनो न सार्वकालिकं तदभावं ब्रूते, ज्योतिर्जीवितयापि तदुपपत्तेः । यथा अमृता देवा इति । तस्मात्प्राणवज्रश्रुत्यनुरोधाद्वायुरेवात्र विवक्षितो न ब्रह्मेति प्राप्तम् ।
एवं प्राप्त उच्यते -
कम्पनात् ।
सवायुकस्य जगतः कम्पनात् , परमात्मैव शब्दात्प्रमित इति मण्डूकप्लुत्यानुषज्जते । ब्रह्मणो हि बिभ्यदेतज्जगत्कृत्स्नं स्वव्यापारे नियमेन प्रवर्तते न तु मर्यादामतिवर्तते ।
एतदुक्तं भवति - न श्रुतिसङ्कोचमात्रं श्रुत्यर्थपरित्यागे हेतुः, अपि तु पूर्वापरवाक्यैकवाक्यताप्रकरणाभ्यां संवलितः श्रुतिसङ्कोचः । तदिदमुक्तम् -
पूर्वापरयोर्ग्रन्थभागयोर्ब्रह्मैव निर्दिश्यमानमुपलभामहे । इहैव कथमन्तराले वायुं निर्दिश्यमानं प्रतिपद्येमहीति ।
तदनेन वाक्यैकवाक्यता दर्शिता ।
प्रकरणादपि
इति भाष्येण प्रकरणमुक्तम् । यत्खलु पृष्टं तदेव प्रधानं प्रतिवक्तव्यमिति तस्य प्रकरणम् । पृष्टादन्यस्मिंस्तूच्यमाने शास्त्रमप्रमाणं भवेदसम्बद्धप्रलापित्वात् ।
यतु वायुविज्ञानात्क्वचिदमृतत्वमभिहितमापेक्षिकं तदिति ।
'अपपुनर्मृत्युं जयति” इति श्रुत्या ह्यपमृत्योर्विजय उक्तो नतु परममृत्युविजय इत्यापेक्षिकत्वं, तच्च तत्रैव प्रकरणान्तरकरणेन हेतुना । न केवलमपश्रुत्या तदापेक्षिकमपि तु परमात्मानमभिधाय “अतोऽन्यदार्तम्”(बृ. उ. ३ । ४ । २) इति वाय्वादेरार्तत्वाभिधानात् । नह्यार्ताभ्यासादनार्तो भवतीति भावः ॥ ३९ ॥
ज्योतिर्दर्शनात् ।
अत्र हि ज्योतिःशब्दस्य तेजसि मुख्यत्वात् , ब्रह्मणि जघन्यत्वात् , प्रकरणाच्च श्रुतेर्बलीयस्त्वात् , पूर्ववच्छ्रुतिसङ्कोचस्य चात्राभावात् , प्रत्युत ब्रह्मज्योतिःपक्षे क्त्वाश्रुतेः पूर्वकालार्थायाः पीडनप्रसङ्गात् , समुत्थानश्रुतेश्च तेज एव ज्योतिः । तथाहि - समुत्थानमुद्गमनमुच्यते, न तु विवेकविज्ञानम् । उद्गमनं च तेजःपक्षेऽर्चिरादिमार्गेणोपपद्यते । आदित्यश्चार्चिराद्यपेक्षया परं ज्योतिर्भवतीति तदुपसम्पद्य तस्य समीपे भूत्वा स्वेन रूपेणाभिनिष्पद्यते, कार्यब्रह्मलोकप्राप्तौ क्रमेण मुच्यते । ब्रह्मज्योतिःपक्षे तु ब्रह्म भूत्वा का परा स्वरूपनिष्पत्तिः । नच देहादिविविक्तब्रह्मस्वरूपसाक्षात्कारो वृत्तिरूपोऽभिनिष्पत्तिः । सा हि ब्रह्मभूयात्प्राचीना न तु पराचीना । सेयमुपसम्पद्येति क्त्वाश्रुतेः पीडा । तस्मात्तिसृभिः श्रुतिभिः प्रकरणबाधनात्तेज एवात्र ज्योतिरिति प्राप्तम् ।
एवं प्राप्तेऽभिधीयते -
परमेव ब्रह्म ज्योतिःशब्दम् । कस्मात् । दर्शनात् । तस्य हीह प्रकरणे अनुवृत्तिर्दृश्यते ।
यत्खलु प्रतिज्ञायते, यच्च मध्ये परामृश्यते, यच्चोपसंह्रियते, स एव प्रधानं प्रकरणार्थः । तदन्तःपातिनस्तु सर्वे तदनुगुणतया नेतव्याः, नतु श्रुत्यनुरोधमात्रेण प्रकरणादपक्रष्टव्या इति हि लोकस्थितिः । अन्यथोपांशुयाजवाक्ये जामितादोषोपक्रमे तत्प्रतिसमाधानोपसंहारे च तदन्तःपातिनो “विष्णुरुपांशु यष्टव्यः” इत्यादयो विधिश्रुत्यनुरोधेन पृथग्विधयः प्रसज्येरन् । तत्किमिदानीं “तिस्र एव साह्नस्योपसदः कार्या द्वादशाहीनस्य” इति प्रकरणानुरोधात्सामुदायप्रसिद्धिबललब्धमहर्गणाभिधानं परित्यज्याहीनशब्दः कथमप्यवयवव्युत्पत्त्या सान्नं ज्योतिष्टोममभिधाय तत्रैव द्वादशोपसत्तां विधत्ताम् । स हि कृत्स्नविधानान्न कुतश्चिदपि हीयते क्रतोरित्यहीनः शक्यो वक्तुम् । मैवम् । अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसीति श्रुत्या प्रकरणबाधनान्न द्वादशोपसत्तामहीनगुणयुक्ते ज्योतिष्टोमे शक्नोति विधातुम् । नाप्यतोऽपकृष्टं सदहर्गणस्य विधत्ते । परप्रकरणेऽन्यधर्मविधेरन्याय्यत्वात् । असम्बद्धपदव्यवायविच्छिन्नस्य प्रकरणस्य पुनरनुसन्धानक्लेशात् । तेनानपकृष्टेनैव द्वादशाहीनस्येतिवाक्येन साह्नस्य तिस्र उसपदः कार्या इति विधिं स्तोतुं द्वादशाहविहिता द्वादशोपसत्ता तत्प्रकृतित्वेन च सर्वाहीनेषु प्राप्ता निवीतादिवदनूद्यते । तस्मादहीनश्रुत्या प्रकरणबाधेऽपि न द्वादशाहीनस्येति वाक्यस्य प्रकरणादपकर्षः । ज्योतिष्टोमप्रकरणाम्नातस्य पूषाद्यनुमन्त्रणमन्त्रस्य यल्लिङ्गबलात्प्रकरणबाधेनापकर्षस्तदगत्या । पौष्णादौ च कर्मणि तस्यार्थवत्त्वात् । इह त्वपकृष्टस्यार्चिरादिमार्गोपदेशे फलस्योपायमार्गप्रतिपादकेऽतिविशदे “एष सम्प्रसादः”(छा. उ. ८ । ३ । ४) इति वाक्यस्याविशदैकदेशमात्रप्रतिपादकस्य निष्प्रयोजनत्वात् । नच द्वादशाहीनस्येतिवद्यथोक्तात्मध्यानसाधनानुष्ठानं स्तोतुमेष सम्प्रसाद इति वचनमर्चिरादिमार्गमनुवदतीति युक्तम् , स्तुतिलक्षणायां स्वाभिधेयसंसर्गतात्पर्यपरित्यागप्रसङ्गात् द्वादशाहीनस्येति तु वाक्ये स्वार्थसंसर्गतात्पर्ये प्रकरणविच्छेदस्य प्राप्तानुवदमात्रस्य चाप्रयोजनत्वमिति स्तुत्यर्थो लक्ष्यते । न चैतद्दोषभयात्समुदायप्रसिद्धिमुल्लङ्घयावयवप्रसिद्धिमुपाश्रित्य साह्नस्यैव द्वादशोपसत्तां विधातुमर्हति, त्रित्वद्वादशत्वयोर्विकल्पप्रसङ्गात् । नच सत्यां गतौ विकल्पो न्याय्यः । साह्नाहीनपदयोश्च प्रकृतज्योतिष्टोमाभिधायिनोरानर्थक्यप्रसङ्गात् । प्रकरणादेव तदवगतेः । इह तु स्वार्थसंसर्गतात्पर्ये नोक्तदोषप्रसङ्ग इति पौर्वापर्यालोचनया प्रकरणानुरोधाद्रूढिमपि पूर्वकालतामपि परित्यज्य प्रकरणानुगुण्येन ज्योतिः परं ब्रह्म प्रतीयते । यत्तूक्तं मुमुक्षोरादित्यप्राप्तिरभिहितेति । नासावात्यन्तिको मोक्षः, किन्तु कार्यब्रह्मलोकप्राप्तिः । नच क्रममुक्त्यभिप्रायं स्वेन रूपेणाभिनिष्पद्यत इति वचनम् । नह्येतत्प्रकरणोक्तब्रह्मतत्त्वविदुषो गत्युत्क्रान्ती स्तः । तथा च श्रुतिः - “न तस्मात्प्राणा उत्क्रामन्ति अत्रैव समनीयन्ते”(बृ. उ. ४ । ४ । ६) इति । नच तद्द्वारेण क्रममुक्तिः । अर्चिरादिमार्गस्य हि कार्यब्रह्मलोकप्रापकत्वं न तु ब्रह्मभूयहेतुभावः । जीवस्य तु निरूपाधिनित्यशुद्धबुद्धब्रह्मभावसाक्षात्कारहेतुके मोक्षे कृतमर्चिरादिमार्गेण कार्यब्रह्मलोकप्राप्त्या । अत्रापि ब्रह्मविदस्तदुपपत्तेः । तस्मान्न ज्योतिरादित्यमुपसम्पद्य सम्प्रसादस्य जीवस्य स्वेन रूपेण पारमार्थिकेन ब्रह्मणाभिनिष्पत्तिराञ्जसीति श्रुतेरत्रापि क्लेशः । अपिच परं ज्योतिः स उत्तमपुरुष इतीहैवोपरिष्टाद्विशेषणात्तेजसो व्यावर्त्य पुरुषविषयत्वेनावस्थापनाज्ज्योतिःपदस्य, परमेव ब्रह्म ज्योतिः न तु तेज इति सिद्धम् ॥ ४० ॥
आकाशोऽर्थान्तरत्वादिव्यपदेशात् ।
यद्यपि “आकाशस्तल्लिङ्गात्”(ब्र. सू. १ । १ । २२) इत्यत्र ब्रह्मलिङ्गदर्शनादाकाशः परमात्मेति व्युत्पादितं, तथापि तद्वदत्र परमात्मलिङ्गदर्शनाभावान्नामरूपनिर्वहणस्य भूताकाशेऽप्यवकाशदानेनोपपत्तेरकस्माच्च रूढिपरित्यागस्यायोगात् , नामरूपे अन्तरा ब्रह्मेति च नाकाशस्य नामरूपयोर्निर्वहितुरन्तरालत्वमाह, अपि तु ब्रह्मणः, तेन भूताकाशो नामरूपयोर्निर्वहिता । ब्रह्म चैतयोरन्तरालं मध्यं सारमिति यावत् । न तु निर्वोढैव ब्रह्म, अन्तरालं वा निर्वाढृ । तस्मात्प्रसिद्धेर्भूताकाशो न तु ब्रह्मेति प्राप्तम् ।
एवं प्राप्त उच्यते - परमेवाकाशं ब्रह्म,
कस्मात् , अर्थान्तरत्वादिव्यपदेशात् ।
नामरूपमात्रनिर्वाहकमिहाकाशमुच्यते । भूताकाशं च विकारत्वेन नामरूपान्तःपाति सत् कथमात्मानमुद्वहेत् । नहि सुशिक्षितोऽपि विज्ञानी स्वेन स्कन्धेनात्मानं वोढुमुत्सहते । नच नामरूपश्रुतिरविशेषतः प्रवृत्ता भूताकाशवर्जं नामरूपान्तरे सङ्कोचयितुं सति सम्भवे युज्यते । नच निर्वाहकत्वं निरङ्कुशमवगतं ब्रह्मलिङ्गं कथञ्चित्क्लेशेन परतन्त्रे नेतुमुचितम् “अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि”(छा. उ. ६ । ३ । २) इति च स्रष्टृत्वमतिस्फुटं ब्रह्मलिङ्गमत्र प्रतीयते । ब्रह्मरूपतया च जीवस्य व्याकर्तृत्वे ब्रह्मण एव व्याकर्तृत्वमुक्तम् । एवं च निर्वहितुरेवान्तरालतोपपत्तेरन्यो निर्वहिताऽन्यच्चान्तरालमित्यर्थभेदकल्पनापि न युक्ता । तथा च ते नामरूपे यदन्तरेत्ययमर्थान्तरव्यपदेश उपपन्नो भवत्याकाशस्य । तस्मादर्थान्तरव्यपदेशात् , तथा “तद्ब्रह्म तदमृतम्”(छा. उ. ८ । १४ । १) इति व्यपदेशाद्ब्रह्मैवाकाशमिति सिद्धम् ॥ ४१ ॥
सुषुप्त्युत्क्रान्त्योर्भेदेन ।
'आदिमध्यावसानेषु संसारिप्रतिपादनात् । तत्परे ग्रन्थसन्दर्भे सर्वं तत्रैव योज्यते” ॥ संसार्येव तावदात्माहङ्कारास्पदप्राणादिपरीतः सर्वजनसिद्धः । तमेव च “योऽयं विज्ञानमयः प्राणेषु”(बृ. उ. ४ । ३ । ७)“योऽयं विज्ञानमयः प्राणेषु”(बृ. उ. ४ । ३ । ७) इत्यादिश्रुतिसन्दर्भ आदिमध्यावसानेष्वामृशतीति तदनुवादपरो भवितुमर्हति । एवं च संसार्यात्मैव किञ्चिदपेक्ष्य महान् , संसारस्य चानादित्वेनानादित्वादज उच्यते, न तु तदतिरिक्तः कश्चिदत्र नित्यशुद्धबुद्धमुक्तस्वभावः प्रतिपाद्यः । यत्तु सुषुप्त्युत्क्रान्त्योः प्राज्ञेनात्मना सम्परिष्वक्त इति भेदं मन्यसे, नासौ भेदः किन्त्वयमात्मशब्दः स्वभाववचनः, तेन सुषुप्त्युत्क्रान्त्यवस्थायां विशेषविषयाभावात्सम्पिण्डितप्रज्ञेन प्राज्ञेनात्मना स्वभावेन परिष्वक्तो न किञ्चिद्वेदेत्यभेदेऽपि भेदवदुपचारेण योजनीयम् । यथाहुः - “प्राज्ञः सम्पिण्डितप्रज्ञः” इति । प्रत्यादयश्च शब्दाः संसारिण्येव कार्यकरणसङ्घातात्मकस्य जगतो जीवकर्मार्जिततया तद्भोग्यतया च योजनीयाः । तस्मात्संसार्येवानूद्यते न तु परमात्मा प्रतिपाद्यत इति प्राप्तम् । एवं प्राप्तेऽभिधीयते - सुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशादित्यनुवर्तते । अयमभिसन्धिः - किं संसारिणोऽन्यः परमात्मा नास्ति, तस्मात्संसार्यात्मपरं “योऽयं विज्ञानमयः प्राणेषु” इति वाक्यम् , आहोस्विदिह संसारिव्यतिरेकेण परमात्मनोऽसङ्कीर्तनात्संसारिणश्चादिमध्यावसानेष्ववमर्शनात्संसार्यात्मपरं, न तावत्संसार्यतिरिक्तस्य तस्याभावः । तत्प्रतिपादका हि शतश आगमाः “ईक्षतेर्नाशब्दम्”(ब्र. सू. १ । १ । ५) “गतिसामान्यात्”(ब्र. सू. १ । १ । १०) इत्यादिभिः सूत्रसन्दर्भैरुपपादिताः । न चात्रापि संसार्यतिरिक्तपरमात्मसङ्कीर्तनाभावः, सुषुप्त्युत्क्रान्त्योस्तत्सङ्कीर्तनात् । नच प्राज्ञस्य परमात्मनो जीवाद्भेदेन सङ्कीर्तनं सति सम्भवे राहोः शिर इतिवदौपचारिकं युक्तम् । नच प्राज्ञशब्दः प्रज्ञाप्रकर्षशालिनि निरूढवृत्तिः कथञ्चिदज्ञविषयो व्याख्यातुमुचितः । नच प्रज्ञाप्रकर्षोऽसङ्कुचद्वृत्तिर्विदितसमस्तवेदितव्यात्सर्वविदोऽन्यत्र सम्भवति । न चेत्थम्भूतो जीवात्मा । तस्मात्सुषुप्त्युत्क्रान्त्योर्भेदेन जीवात्प्राज्ञस्य परमात्मनो व्यपदेशात् “योऽयं विज्ञानमयः”(बृ. उ. ४ । ३ । ७) इत्यादिना जीवात्मानं लोकसिद्धमनूद्य तस्य परमात्मभावोऽनधिगतः प्रतिपाद्यते । नच जीवात्मानुवादमात्रपराण्येतानि वचांसि । अनधिगतार्थावबोधनपरं हि शाब्दं प्रमाणं, न त्वनुवादमात्रनिष्ठं भवितुमर्हति । अत एव च संसारिणः परमात्मभावविधानायादिमध्यावसानेष्वनुवाद्यतयाऽवमर्श उपपद्यते । एवं च महत्त्वं चाजत्वं च सर्वगतस्य नित्यस्यात्मनः सम्भवान्नापेक्षिकं कल्पयिष्यते ।
यस्तु मध्ये बुद्धान्ताद्यवस्थोपन्यासादिति ।
नानेनावस्थावत्त्वं विवक्ष्यते । अपि त्ववस्थानामुपजनापायधर्मकत्वेन तदतिरिक्तमवस्थारहितं परमात्मानं विवक्षति, उपरितनवाक्यसन्दर्भालोचनादिति ॥ ४२ ॥
पत्यादिशब्देभ्यः ।
सर्वस्य वशी ।
वशः सामर्थ्यं सर्वस्य जगतः प्रभवत्ययम् , व्यूहावस्थानसमर्थ इति । अत एव सर्वस्येशानः, सामर्थ्येन ह्ययमुक्तेन सर्वस्येष्टे, तदिच्छानुविधानाज्जगतः । अत एव सर्वस्याधिपतिः सर्वस्य नियन्ता । अन्तर्यामीति यावत् । किञ्च स एवंभूतो हृद्यन्तर्ज्योतिः पुरुषो विज्ञानमयो न साधुना कर्मणा भूयानुत्कृष्टो भवतीत्येवमाद्याः श्रुतयोऽसंसारिणं परमात्मानमेव प्रतिपादयन्ति । तस्माज्जीवात्मानं मानान्तरसिद्धमनूद्य तस्य ब्रह्मभावप्रतिपादनपरो “योऽयं विज्ञानमयः”(बृ. उ. ४ । ३ । ७) इत्यादिवाक्यसन्दर्भ इति सिद्धम् ॥ ४३ ॥
इति श्रीमद्वाचस्पतिमिश्रविरचितशारीरकभगवत्पादभाष्यविभागे भामत्यां प्रथमस्याध्यायस्य तृतीयः पादः ॥ ३ ॥
॥ इति प्रथमाध्यायस्य ज्ञेयब्रह्मप्रतिपादकास्पष्टश्रुतिसमन्वयाख्यस्तृतीयः पादः ॥
आनुमानिकमप्येकेषामितिचेन्न शारीररूपकविन्यस्तगृहीतेर्दर्शयति च ।
स्यादेतत् । ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम् - “जन्माद्यस्य यतः”(ब्र. सू. १ । १ । २)“जन्माद्यस्य यतः”(ब्र. सू. १ । १ । २) इति । तच्चेदं लक्षणं न प्रधानादौ गतं, येन व्यभिचारादलक्षणं स्यात् , किन्तु ब्रह्मण्येवेति “ईक्षतेर्नाशब्दम्”(ब्र. सू. १ । १ । ५) इति प्रतिपादितम् । गतिसामान्यं च वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते, न प्रधानकारणवादं प्रतीति प्रपञ्चितमधस्ततेन सूत्रसन्दर्भेण । तत्किमवशिष्यते यदर्थमुत्तरः सन्दर्भ आरभ्यते । नच “महतः परमव्यक्तम्”(क. उ. १ । ३ । ११) इत्यादीनां प्रधाने समन्वयेऽपि व्यभिचारः । नह्येते प्रधानकारणत्वं जगत आहुः, अपितु प्रधानसद्भावमात्रम् । नच तत्सद्भावमात्रेण “जन्माद्यस्य यतः” इति ब्रह्मलक्षणस्य किञ्चिद्धीयते ।
तस्मादनर्थक उत्तरः सन्दर्भ इत्यत आह -
ब्रह्मजिज्ञासां प्रतिज्ञायेति ।
न प्रधानसद्भावमात्रं प्रतिपादयन्ति “महतः परमव्यक्तम्”(क. उ. १ । ३ । ११) “अजामेकाम्”(श्वे. उ. ४ । ५)“अजामेकाम्”(श्वे. उ. ४ । ५) इत्यादयः, किन्तु जगत्कारणं प्रधानमिति । “महतः परम्”(क. उ. १ । ३ । ११) इत्यत्र हि परशब्दोऽविप्रकृष्टपूर्वकालत्वमाह । तथा च कारणत्वम् । “अजामेकाम्” इत्यादीनां तु कारणत्वाभिधानमतिस्फुटम् । एवं च लक्षणव्यभिचारादव्यभिचाराय युक्त उत्तरसन्दर्भारम्भ इति ।
पूर्वपक्षयति -
तत्र य एवेति ।
साङ्ख्यप्रवादरूढिमाह -
तत्राव्यक्तमिति ।
साङ्ख्यस्मृतिप्रसिद्धेर्न केवलं रूढिः, अवयवप्रसिद्ध्याप्ययमेवार्थोऽवगम्यत इत्याह -
न व्यक्तमिति ।
शान्तघोरमूढशब्दादिहीनत्वाच्चेति । श्रुतिरुक्ता । स्मृतिश्च साङ्खीया । न्यायश्च - “भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ कारणमस्त्यव्यक्तम्” इति । नच “महतः परमव्यक्तम्”(क. उ. १ । ३ । ११) इति प्रकरणपरिशेषाभ्यामव्यक्तपदं शरीरगोचरम् । शरीरस्य शान्तघोरमूढरूपशब्दाद्यात्मकत्वेनाव्यक्तत्वानुपपत्तेः ।
तस्मात्प्रधानमेवाव्यक्तमुच्यत इति प्राप्ते, उच्यते -
नैतदेवम् । न ह्येतत्काठकं वाक्यमिति ।
लौकिकी हि प्रसिद्धी रूढिर्वेदार्थनिर्णये निमित्तं, तदुपायत्वात् । यथाहुः - “य एव लौकिकाः शब्दास्त एव वैदिकास्त एव चैषामर्थाः” इति । नतु परीक्षकाणां पारिभाषिकी, पौरुषेयी हि सा न वेदार्थनिर्णयनिबन्धनसिद्धौ(यनिमित्तं पो ? )षधादिप्रसिद्धिवत् । तस्माद्रूढितस्तावन्न प्रधानं प्रतीयते । योगस्त्वन्यत्रापि तुल्यः । तदेवमव्यक्तश्रुतावन्यथासिद्धायां प्रकरणपरिशेषाभ्यां शरीरगोचरोऽयमव्यक्तशब्दः । यथा चास्य तद्गोचरत्वमुपपद्यते तथाग्रे दर्शयिष्यति । तेषु शरीरादिषु मध्ये विषयांस्तद्गोचरान् विद्धि । यथाश्वोऽध्वानमालम्ब्य चलत्येवमिन्द्रियहयाः स्वगोचरमालम्ब्येति । आत्मा भोक्तेत्याहुर्मनीषिणः । कथम् , इन्द्रियमनोयुक्तं योगो यथा भवति । इन्द्रियार्थमनः संनिकर्षेण ह्यात्मा गन्धादीनां भोक्ता ।
प्रधानस्याकाङ्क्षावतो वचनं प्रकरणमिति गन्तव्यं विष्णोः परमं पदं प्रधानमिति तदाकाङ्क्षामवतारयति -
तैश्चेन्द्रियादिभिरसंयतैरिति ।
असंयमाभिधानं व्यतिरेकमुखेन संयमवदातीकरणम् । परशब्दः श्रेष्ठवचनः ।
नन्वान्तरत्वेन यदि श्रेष्ठत्वं तदेन्द्रियाणामेव बाह्येभ्यो गन्धाधिभ्यः श्रेष्ठत्वं स्यादित्यत आह -
अर्था ये शब्दादय इति ।
नान्तरत्वेन श्रेष्ठत्वमपि तु प्रधानतया, तच्च विवक्षाधीनं, ग्रहेभ्यश्चेन्द्रियेभ्योऽतिग्रहतयार्थानां प्राधान्यं श्रुत्या विवक्षितमितीन्द्रियेभ्योऽर्थानां प्राधान्यात्परत्वं भवति । घ्राणजिह्वावाक्चक्षुःश्रोत्रमनोहस्तत्वचो हि इन्द्रियाणि श्रुत्याष्टौ ग्रहा उक्ताः । गृह्णन्ति वशीकुर्वन्ति खल्वेतानि पुरुषपशुमिति । न चैतनि स्वरूपवतो वशीकर्तुमीशते, यावदस्मै पुरुषपशवे गन्धरसनामरूपशब्दकामकर्मस्पर्शान्नोपहरन्ति । अत एव गन्धादयोऽष्टावतिग्रहाः, तदुपहारेण ग्रहाणां ग्रहत्वोपपत्तेः ।
तदिदमुक्तम् -
इन्द्रियाणां ग्रहणं विषयाणामतिग्रहत्वमिति श्रुतिप्रसिद्धेरिति ।
ग्रहत्वेनेन्द्रियैः साम्येऽपि मनसः स्वगतेन विशेषेणार्थेभ्यः परत्वमाह -
विषयेभ्यश्च मनसः परत्वमिति ।
कस्मात्पुमान् रथित्वेनोपक्षिप्तो गृह्यत इत्यत आह -
आत्मशब्दादिति ।
तत्प्रत्यभिज्ञानादित्यर्थः ।
श्रेष्ठत्वे हेतुमाह -
भोक्तुश्चेति ।
तदनेन जीवात्मा स्वामितया महानुक्तः । अथवा श्रुतिस्मृतिभ्यां हैरण्यगर्भी बुद्धिरात्मशब्देनोच्यत इत्याह -
अथवेति ।
पूरिति ।
भोग्यजातस्य बुद्धिरधिकरणमिति बुद्धिः पूः । तदेवं सर्वासां बुद्धीनां प्रथमजहिरण्यगर्भबुद्ध्येकनीडतया हिरण्यगर्भबुद्धेर्महत्त्वं चापनादा(चोपादाना ?)त्मत्वं च । अत एव बुद्धिमात्रात्पृथक्करणमुपपन्नम् ।
नन्वेतस्मिन्पक्षे हिरण्यगर्भबुद्धेरात्मत्वान्न रथिन आत्मनो भोक्तुरत्रोपादानमिति न रथमात्रं परिशिष्यतेऽपि तु रथवानपीत्यत आह -
एतस्मिंस्तु पक्ष इति ।
यथा हि समारोपितं प्रतिबिम्बं बिम्बान्न वस्तुतो भिद्यते तथा न परमात्मनो विज्ञानात्मा वस्तुतो भिद्यत इति परमात्मैव रथवानिहोपात्तस्तेन रथमात्रं परिशिष्टमिति ।
अथ रथादिरूपककल्पनायाः शरीरादिषु किं प्रयोजनमित्यत आह -
शरीरेन्द्रियमनोबुद्धिविषयवेदनासंयुक्तस्य हीति ।
वेदना सुखाद्यनुभवः । प्रत्यर्थमञ्चतीति प्रत्यगात्मेह जीवोऽभिमतस्तस्य ब्रह्मावगतिः ।
न च जीवस्य ब्रह्मत्वं मानान्तरसिद्धं, येनात्र नागमोऽपेक्ष्येतेत्याह -
तथा चेति ।
वागिति छान्दसो द्वितीयालोपः । शेषमतिरोहितार्थम् ॥ १ ॥
पूर्वपक्षिणोऽनुशयबीजनिराकरणपरं सूत्रम् -
सूक्ष्मं तु तदर्हत्वात् ।
प्रकृतेर्विकाराणामनन्यत्वात्प्रकृतेरव्यक्तत्वं विकार उपचर्यते । यथा “गोभिः श्रीणीत”(ऋ. सं. ९ । ४६ । ४) इति गोशब्दस्ताद्विकारे पयसि ।
अव्यक्तात्कारणात् विकारणामनन्यत्वेनाव्यक्तशब्दार्हत्वे प्रमाणमाह -
तथा च श्रुतिरिति ।
अव्याकृतमव्यक्तमित्यनर्थान्तरम् । नन्वेवं सति प्रधानमेवाभ्युपेतं भवति, सुखदुःखमोहात्मकं हि जगदेवंभूतादेव कारणाद्भवितुमर्हति, कारणात्मकत्वात्कार्यस्य । यच्च तस्य सुखात्मकत्वं तत्सत्त्वम् । यच्च तस्य दुःखात्मकत्वं तद्रजः । यच्च तस्य मोहात्मकत्वं तत्तमः । तथा चाव्यक्तं प्रधानमेवाभ्युपेतमिति ॥ २ ॥
शङ्कानिराकरणार्थं सूत्रम् -
तदधीनत्वादर्थवत् ।
प्रधानं हि साङ्ख्यानां सेश्वराणामनीश्वराणां वेश्वरात् क्षेत्रज्ञेभ्यो वा वस्तुतो भिन्नं शक्यं निर्वक्तुम् । ब्रह्मणस्त्वियमविद्या शक्तिर्मायादिशब्दवाच्या न शक्या तत्त्वेनान्यत्वेन वा निर्वक्तुम् । इदमेवास्या अव्यक्तत्वं यदनिर्वाच्यत्वं नाम । सोऽयमव्याकृतवादस्य प्रधानवादाद्भेदः । अविद्याशक्तेश्चेश्वराधीनत्वं, तदाश्रयत्वात् । नच द्रव्यमात्रमशक्तं कार्यायालमिति शक्तेरर्थवत्त्वम् ।
तदिदमुक्तम् -
अर्थवदिति ।
स्यादेतत् । यदि ब्रह्मणोऽविद्याशक्त्या संसारः प्रतीयते हन्त मुक्तानामपि पुनरुत्पादप्रसङ्गः, तस्याः प्रधानवत्तादवस्थ्यात् । तद्विनाशे वा समस्तसंसारोच्छेदः तन्मूलविद्याशक्तेः समुच्छेदादित्यत आह -
मुक्तानां च पुनः ।
बन्धस्य
अनुत्पत्तिः । कुतः । विद्यया तस्या बीजशक्तेर्दाहात् ।
अयमभिसन्धिः - न वयं प्रधानवदविद्यां सर्वजीवेष्वेकामाचक्ष्महे, यैनेवमुपालभेमहि, किन्त्वियं प्रतिजीवं भिद्यते । तेन यस्यैव जीवस्य विद्योत्पन्ना तस्यैवाविद्यापनीयते न जीवान्तरस्य, भिन्नाधिकरणयोर्विद्याविद्ययोरविरोधात् , तत्कुतः समस्तसंसारोच्छेदप्रसङ्गः । प्रधानवादिनां त्वेष दोषः । प्रधानस्यैकत्वेन तदुच्छेदे सर्वोच्छेदोऽनुच्छेदे वा न कस्यचिदित्यनिर्मोक्षप्रसङ्गः । प्रधानाभेदेऽपि चैतदविवेकख्यातिलक्षणाविद्यासदसत्त्वनिबन्धनौ बन्धमोक्षौ, तर्हि कृतं प्रधानेन, अविद्यासदसद्भावाभ्यामेव तदुपपत्तेः । न चाविद्योपाधिभेदाधीनो जीवभेदो जीवभेदाधीनश्चाविद्योपाधिभेद इति परस्पराश्रयादुभयासिद्धिरिति साम्प्रतम् । अनादित्वाद्बीजाङ्कुरवदुभयसिद्धेः । अविद्यात्वमात्रेण चैकत्वोपचारोऽव्यक्तमिति चाव्याकृतमिति चेति ।
नन्वेवमविद्यैव जगद्बीजमिति कृतमीश्वरेणेत्यत आह -
परमेश्वराश्रयेति ।
नह्यचेतनं चेतनानधिष्ठितं कार्याय पर्याप्तमिति स्वकार्यं कर्तुं परमेश्वरं निमित्ततयोपादानतया वाश्रयते, प्रपञ्चविभ्रमस्य हीश्वराधिष्ठानत्वमहिविभ्रमस्येव रज्ज्वधिष्ठानत्वम् , तेन यथाहिविभ्रमो रज्जूपादान एवं प्रपञ्चविभ्रम ईश्वरोपादानः, तस्माज्जीवाधिकरणाप्यविद्या निमित्ततया विषयतया चेश्वरमाश्रयत इतीश्वराश्रयेत्युच्यते, न त्वाधारतया, विद्यास्वभावे ब्रह्मणि तदनुपपत्तेरिति ।
अत एवाह -
यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवा इति ।
यस्यामविद्यायां सत्यां शरते जीवाः । जीवानां स्वरूपं वास्तवं ब्रह्म, तद्बोधरहिताः शेरत इति लय उक्तः । संसारिण इति विक्षेप उक्तः ।
अव्यक्ताधीनत्वाज्जीवभावस्येति ।
यद्यपि जीवाव्यक्तयोरनादित्वेनानियतं पौर्वापर्यं तथाप्यव्यक्तस्य पूर्वत्वं विवक्षित्वैतदुक्तम् ।
सत्यपि शरीरवदिन्द्रियादीनामिति ।
गोबलीवर्दपदवेतद्द्रष्टव्यम् ।
आचार्यदेशीयमतमाह -
अन्ये त्विति ।
एतद्दूषयति -
तैस्त्विति ।
प्रकरणपारिशेष्ययोरुभयत्र तुल्यत्वान्नैकग्रहणनियमहेतुरस्ति ।
शङ्कते -
आम्नातस्यार्थमिति ।
अव्यक्तपदमेव स्थूलशरीरव्यावृत्तिहेतुर्व्यक्तत्वात्तस्येति शङ्कार्थः ।
निराकरोति -
न ।
एकवाक्यताधीनत्वादिति ।
प्रकृतहान्यप्रकृतप्रक्रियाप्रसङ्गेनैकवाक्यत्वे सम्भवति न वाक्यभेदो युज्यते । न चाकाङ्क्षां विनैकवाक्यत्वम् , उभयं च प्रकृतमित्युभयं ग्राह्यत्वेनेहाकाङ्क्षितमित्येकाभिधायकमपि पदं शरीरद्वयपरम् । नच मुख्यया वृत्त्याऽतत्परमित्यौपचारिकं न भवति । यथोपहन्तृमात्रनिराकरणाकाङ्क्षायां काकपदं प्रयुज्यमानं श्वादिसर्वहन्तृपरं विज्ञायते । यथाहुः “काकेभ्यो रक्ष्यतामन्नमिति बालेऽपि नोदितः । उपघातप्रधानत्वान्न श्वादिभ्यो न रक्षति ॥”(मीमांसाकारिका) इति ।
ननु न शरीरद्वयस्यात्राकाङ्क्षा । किन्तु दुःशोधत्वात्सूक्ष्मस्यैव शरीरस्य, नतु षाट्कौशिकस्य स्थूलस्य । एतद्धि दृष्टबीभत्सतया सुकरं वैराग्यविषयत्वेन शोधयितुमित्यत आह -
न चैवं मन्तव्यमिति ।
विष्णोः परमं पदमवगमयितुं परं परमत्र प्रतिपाद्यत्वेन प्रस्तुतं न तु वैराग्याय शोधनमित्यर्थः ।
अलं वा विवादेन, भवतु सूक्ष्ममेव शरीरं परिशोध्यं, तथापि न साङ्ख्याभिमतमत्र प्रधानं परमित्यभ्युपेत्याह -
सर्वथापि त्विति ॥ ३ ॥
ज्ञेयत्वावचनाच्च ।
इतोऽपि नायमव्यक्तशब्दः साङ्ख्याभिमतप्रधानपरः । साङ्ख्यैः खलु प्रधानाद्विवेकेन पुरुषं निःश्रेयसाय ज्ञातुं वा विभूत्यै वा प्रधानं ज्ञेयत्वेनोपक्षिप्यते । न चेह जानीयादिति चोपासीतेति वा विधिविभक्तिश्रुतिरस्ति, अपि त्वव्यक्तपदमात्रम् । न चैतावता साङ्ख्यस्मृतिप्रत्यभिज्ञानं भवतीति भावः ॥ ४ ॥
ज्ञेयत्वावचनस्यासिद्धिमाशङ्क्य तत्सिद्धिप्रदर्शनार्थं सूत्रम् -
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ।
निगदव्याख्यातमस्य भाष्यम् ॥ ५ ॥
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ।
वरप्रदानोपक्रमा हि मृत्युनचिकेतःसंवादवाक्यप्रवृत्तिरासमाप्तेः कठवल्लीनां लक्ष्यते । मृत्युः किल न चिकेतसे कुपितेन पित्रा प्रहिताय तुष्टस्त्रीन्वरान् प्रददौ । नचिकेतास्तु पथमेन वरेण पितुः सौमनस्यं वव्रे, द्वितीयेनाग्निविद्याम् , तृतीयेनात्मविद्याम् । “वराणामेष वरस्तृतीयः”(क. उ. १ । १ । २०) इति वचनात् ।
ननु तत्र वरप्रदाने प्रधानगोचरे स्तः प्रश्नप्रतिवचने । तस्मात्कठवल्लीष्वग्निजीवपरमात्मपरैव वाक्यप्रवृत्तिर्न त्वनुपक्रान्तप्रधानपरा भवितुमर्हतीत्याह -
इतश्च न प्रधानस्याव्यक्तशब्दवाच्यत्वमिति ।
“हन्तः त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्”(क. उ. २ । २ । ६) इत्यनेन व्यवहितं जीवविषयं “यथा तु मरणं प्राप्यात्मा भवति गौतम” इत्यादिप्रतिवचनमिति योजना । अत्राह चोदकः - किं जीवपरमात्मनोरेक एव प्रश्नः, किं वान्यो जीवस्य “येयं प्रेते”(क. उ. १ । १ । २०) मनुष्य इति प्रश्नः, अन्यश्च परमात्मनः “अन्यत्र धर्मात्”(क. उ. १ । २ । १४) इत्यादिः । एकत्वे सूत्रविरोधस्त्रयाणमिति । भेदे तु सौमनस्यावाप्त्यग्न्यात्मज्ञानविषयवरत्रयप्रदानानन्तर्भावोऽन्यत्र धर्मादित्यादेः प्रश्नस्य । तुरीयवरान्तरकल्पनायां वा तृतीय इति श्रुतिबाधप्रसङ्गः । वरप्रदानानन्तर्भावे प्रश्नस्य तद्वत् प्रधानाख्यानमप्यनन्तर्भूतं वरप्रदानेऽस्तु “महतः परमव्यक्त”(क. उ. १ । ३ । ११) मित्याक्षेपः ।
परिहरति -
अत्रोच्यते, नैवं वयमिहेति ।
वस्तुतो जीवपरमात्मनोरभेदात्प्रष्टव्याभेदेनैक एव प्रश्नः । अत एव प्रतिवचनमप्येकम् । सूत्रं त्ववास्तवभेदाभिप्रायम् । वास्तवश्च जीवपरमात्मनोरभेदस्तत्र तत्र श्रुत्युपन्यासेन भगवता भाष्यकारेण दर्शितः । तथा जीवविषयस्यास्तित्वनास्तित्वप्रश्नस्येत्यादि ।
“येयं प्रेते”(क. उ. १ । १ । २०) इति हि नचिकेतसः प्रश्नमुपश्रुत्य तत्तत्कामविषयमलोभं चास्य प्रतीत्य मृत्युः “विद्याभीप्सिनं नचिकेतसं मन्ये”(क. उ. १ । २ । ४) इत्यादिना नचिकेतसं प्रशस्य प्रश्नमपि तदीयं प्रशंसन्नस्मिन्प्रश्ने ब्रह्मैवोत्तरमुवाच -
तं दुर्दर्शमिति ।
यदि पुनर्जीवात्प्राज्ञो भिद्येत, जीवगोचरः प्रश्नः, प्राज्ञगोचरं चोत्तरमिति किं केन सङ्गच्छेत ।
अपि च यद्विषयं प्रश्नमुपश्रुत्य मृत्युनैष प्रशंसितो नचिकेताः यदि तमेव भूयः पृच्छेत्तदुत्तरे चावदध्यात्ततः प्रशंसा दृष्टार्था स्यात् , प्रश्नान्तरे त्वसावस्थाने प्रसारिता सत्यदृष्टार्था स्यादित्याह -
यत्प्रश्नेति ।
यस्मिन् प्रश्नो यत्प्रश्नः । शेषमतिरोहितार्थम् ॥ ६ ॥
महद्वच्च ।
अनेन साङ्ख्यप्रसिद्धेर्वैदिकप्रसिद्ध्या विरोधान्न साङ्ख्यप्रसिद्धिर्वेद आदर्तव्येत्युक्तम् । साङ्ख्यानां महत्तत्त्वं सत्तामात्रं, पुरुषार्थक्रियाक्षमं सत्तस्य भावः सत्ता तन्मात्रं महत्तत्त्वमिति । या या पुरुषार्थक्रिया शब्दाद्युपभोगलक्षणा च सत्त्वपुरुषान्यताख्यातिलक्षणा च सा सर्वा महति बुद्धौ समाप्यत इति महत्तत्त्वं सत्तामात्रमुच्यत इति ॥ ७ ॥
चमसवदविशेषात् ।
अजाशब्दो यद्यपि छागायां रूढस्तथाप्यध्यात्मविद्याधिकारान्न तत्र वर्तितुमर्हति । तस्माद्रूढेरसम्भवाद्योगेन वर्तयितव्यः । तत्र किं स्वतन्त्रं प्रधानमनेन मन्त्रवर्णेनानूद्यतामुत पारमेश्वरी मायाशक्तिस्तेजोऽबन्नव्याक्रियाकारणमुच्यतां किं तावत्प्राप्तं, प्रधानमेवेति । तथाहि - यादृशं प्रधानं साङ्ख्यैः स्मर्यते तादृशमेवास्मिन्नन्यूनानतिरिक्तं प्रतीयते । सा हि प्रधानलक्षणा प्रकृतिर्न जायत इत्यजा च एका च लोहितशुक्लकृष्णा च । यद्यपि लोहितत्वादयो वर्णा न रजःप्रभृतिषु सन्ति, तथापि लोहितं कुसुम्भादि रञ्जयति, रजोऽपि रञ्जयतीति लोहितम् । एवं प्रसन्नं पाथः शुक्लं, सत्त्वमपि प्रसन्नमिति शुक्लम् । एवमावरकं मेघादि कृष्णं, तमोऽप्यावरकमिति कृष्णम् । परेणापि नाव्याकृतस्य स्वरूपेण लोहितत्वादियोग आस्थेयः, किन्तु तत्कार्यस्य तेजोऽबन्नस्य रोहितत्वादिकारण उपचरणीयम् । कार्यसारूप्येण वा कारणे कल्पनीयं, तदस्माकमपि तुल्यम् । “अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः”(श्वे. उ. ४ । ५) इति त्वात्मभेदश्रवणात् साङ्ख्यस्मृतेरेवात्र मन्त्रवर्णे प्रत्यभिज्ञानं न त्वव्याकृतप्रक्रियायाः । तस्यामैकात्म्याभ्युपगमेनात्मभेदाभावात् । तस्मात्स्वतन्त्रं प्रधानं नाशब्दमिति प्राप्तम् ।
तेषां साम्यावस्थावयवधर्मैरिति ।
अवयवाः प्रधानस्यैकस्य सत्त्वरजस्तमांसि तेषां धर्मा लोहितत्वादयस्तैरिति ।
प्रजास्त्रैगुण्यान्विता इति ।
सुखदुःखमोहात्मिकाः । तथाहि - मैत्रदारेषु नर्मदायां मैत्रस्य सुखं, तत्कस्य हेतोः, तं प्रति सत्त्वस्य समुद्भवात् । तथाच तत्सपत्नीनां दुःखं, तत्कस्य हेतोः, ताः प्रति रजःसमुद्भवात् , तथा चैत्रस्य तामविन्दतो मोहो विषादः, स कस्य हेतोः, तं प्रति तमःसमुद्भवात् । नर्मदया च सर्वे भावा व्याख्याताः । तदिदं त्रैगुण्यान्वितत्वं प्रजानाम् ।
अनुशेत इति व्याचष्टे -
तामेवाविद्ययेति ।
विषया हि शब्दादयः प्रकृतिविकारस्त्रैगुण्येन सुखदुःखमोहात्मान इन्द्रियमनोऽहङ्कारप्रणालिकया बुद्धिसत्त्वमुपसङ्क्रामन्ति । तेन तद्बुद्धिसत्त्वं प्रधानविकारः सुखदुःखमोहात्मकं शब्दादिरूपेण परिणमते । चितिशक्तिस्त्वपरिणामिन्यप्रतिसङ्क्रमापि बुद्धिसत्त्वादात्मनो विवेकमबुध्यमाना बुद्धिवृत्त्यैव विपर्यासेनाविद्यया बुद्धिस्थान्सुखादीनात्मन्यभिमन्यमाना सुखादिमतीव भवति ।
तदिदमुक्तम् -
सुखी दुःखी मूढोऽहमित्यविवेकतया संसरति ।
एकः । सत्त्वपुरुषान्यताख्यातिसमुन्मूलितनिखिलवासनाविद्यानुबन्धस्त्वन्यो जहात्येनां प्रकृतिम् ।
तदिदमुक्तम् -
अन्यः पुनरिति ।
भुक्तभोगामिति व्याचष्टे -
कृतभोगापवर्गाम् ।
शब्दाद्युपलब्धिर्भोगः । गुणपुरुषान्यताख्यातिरपवर्गः । अपवृज्यते हि तया पुरुष इति । एवं प्राप्तेऽभिधीयते - न तावत् “अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः”(श्वे. उ. ४ । ५) इत्येतदात्मभेदप्रतिपादनपरमपि तु सिद्धमात्मभेदमनूद्य बन्धमोक्षौ प्रतिपादयतीति । स चानूदितो भेदः “एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा”(श्वे.उ. ६ । ११) इत्यादिश्रुतिभिरात्मैकत्वप्रतिपादनपराभिर्विरोधात्कल्पनिकोऽवतिष्ठते । तथाच न साङ्ख्यप्रक्रियाप्रत्यभिज्ञानमित्यजावाक्यं चमसवाक्यवत्परिप्लवमानं न स्वतन्त्रप्रधाननिश्चयाय पर्याप्तम् । तदिदमुक्तं सूत्रकृता - “चमसवदविशेषात्”(ब्र. सू. १ । ४ । ८) इति ॥ ८ ॥
उत्तरसूत्रमवतारयितुं शङ्कते -
तत्र त्विदं तच्छिर इति ।
सूत्रमवतारयति -
अत्र ब्रूमः । ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ।
सर्वशाखाप्रत्ययमेकं ब्रह्मेति स्थितौ शाखान्तरोक्तरोहितादिगुणयोगिनी तेजोऽबन्नलक्षणा जरायुजाण्डजस्वेदजोद्भिज्जचतुर्विधभूतग्रामप्रकृतिभूतेयमजा प्रतिपत्तव्या, “रोहितशुक्लकृष्णाम्”(श्वे. उ. ४ । ५) इति रोहितादिरूपतया तस्या एव प्रत्यभिज्ञानात् । न तु साङ्ख्यपरिकल्पिता प्रकृतिः । तस्या अप्रामाणिकतया श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् , रञ्जनादिना च रोहिताद्युपचारस्य सति मुख्यार्थसम्भवेऽयोगात् ।
तदिदमुक्तम् -
रोहितादीनां शब्दानामिति ।
अजापदस्य च समुदायप्रसिद्धिपरित्यागेन न जायत इत्यवयवप्रसिद्ध्याश्रयणे दोषप्रसङ्गात् । अत्र तु रूपककल्पनायां समुदायप्रसिद्धेरेवानपेक्षायाः स्वीकारात् ।
अपि चायमपि श्रुतिकलापोऽस्मद्दर्शनानुगुणो न साङ्ख्यस्मृत्यनुगुण इत्याह -
तथेहापीति ।
किं कारणं ब्रह्मेत्युपक्रम्येति ।
ब्रह्मस्वरूपं तावज्जगत्कारणं न भवति, विशुद्धत्वात्तस्य । यथाहुः - “पुरुषस्य तु शुद्धस्य नाशुद्धा विकृतिर्भवेत्” इत्याशयवतीव श्रुतिः पृच्छति । किङ्कारणम् । यस्य ब्रह्मणो जगदुत्पत्तिस्तत्किङ्कारणं ब्रह्मेत्यर्थः । ते ब्रह्मविदो ध्यानयोगेनात्मानं गताः प्राप्ता अपश्यन्निति योजना ।
यो योनिं योनिमिति ।
अविद्या शक्तिर्योनिः, सा च प्रतिजीवं नानेत्युक्तमतो वीप्सोपपन्ना । शेषमतिरोहितार्थम् ॥ ९ ॥
सूत्रान्तरमवतारयितुं शङ्कते -
कथं पुनरिति ।
अजाकृतिर्जातिस्तेजोऽबन्नेषु नास्ति ।
न च तेजोऽबन्नानां जन्मश्रवणादजन्मनिमित्तोऽप्यजाशब्दः सम्भवतीत्याह -
न च तेजोऽबन्नानामिति ।
सूत्रमवतारयति -
अत उत्तरं पठति ।
कल्पनोपदेशाच्च मध्वादिवदविरोधः ।
ननु किं छागा लोहितशुक्लकृष्णैवान्यादृशीनामपि छागानामुपलम्भादित्यत आह -
यदृच्छयेति ।
बहुबर्करा बहुशावा । शेषं निगदव्याख्यातम् ॥ १० ॥
न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ।
अवान्तरसङ्गतिमाह -
एवं परिहृतेऽपीति ।
पञ्चजना इति हि समासार्थः पञ्चसङ्ख्यया सम्बध्यते । नच “दिक्सङ्ख्ये संज्ञायाम्”(पा.सू. २।१।५०) इति समासविधानान्मनुजेषु निरूढोऽयं पञ्चजनशब्द इति वाच्यम् । तथाहि सति पञ्चमनुजा इति स्यात् । एवं चात्मनि पञ्चमनुजानामाकाशस्य च प्रतिष्ठानमिति निस्तात्पर्यं, सर्वस्यैव प्रतिष्ठानात् । तस्माद्रूढेरसम्भवात्तत्त्यागेनात्र योग आस्थेयः । जनशब्दश्च कथञ्चित्तत्त्वेषु व्याख्येयः । तत्रापि किं पञ्च प्राणादयो वाक्यशेषगता विवक्ष्यन्ते उत तदतिरिक्ता अन्य एव वा केचित् । तत्र पौर्वापर्यपर्यालोचनया कण्वमाध्यन्दिनवाक्ययोर्विरोधात् । एकत्र हि ज्योतिषा पञ्चत्वमन्नेनेतरत्र । नच षोडशिग्रहणवद्विकल्पसम्भवः । अनुष्ठानं हि विकल्प्यते न वस्तु । वस्तुतत्त्वकथा चेयं नानुष्ठानकथा, विध्यभावात् । तस्मात्कानिचिदेव तत्त्वानीह पञ्च प्रत्येकं पञ्चसङ्ख्यायोगीनि पञ्चविंशतितत्त्वानि भवन्ति । साङ्ख्यैश्च प्रकृत्यादीनि पञ्चविंशतितत्त्वानि स्मर्यन्त इति तान्येवानेन मन्त्रेणोच्यन्त इति नाशब्दं प्रधानादि । न चाधारत्वेनात्मनो व्यवस्थानात्स्वात्मनि चाधाराधेयभावस्य विरोधात् आकाशस्य च व्यतिरेचनात् त्रयोविंशतिर्जना इति स्यान्न पञ्च पञ्चजना इति वाच्यम् । सत्यप्याकाशात्मनोर्व्यतिरेचने मूलप्रकृतिभागैः सत्त्वरजस्तमोभिः पञ्चविंशतिसङ्ख्योपपत्तेः । तथाच सत्यात्माकाशाभ्यां सप्तविंशतिसङ्ख्यायां पञ्चविंशतितत्त्वानीति स्वसिद्धान्तव्याकोप इति चेत् , न मूलप्रकृतित्वमात्रेणैकीकृत्य सत्त्वरजस्तमांसि पञ्चविंशतितत्त्वोपपत्तेः । हिरुग्भावेन तु तेषां सप्तविंशतित्वाविरोधः । तस्मान्नाशाब्दी साङ्ख्यस्मृतिरिति प्राप्तम् ।
मूलप्रकृतिः प्रधानम् । नासावन्यस्य विकृतिरपि तु प्रकृतिरेव तदिदमुक्तम् -
मूलेति ।
महदहङ्कारपञ्चतन्मात्राणि प्रकृतयश्च विकृतयश्च । तथाहि - महत्तत्त्वमहङ्कारस्य तत्त्वान्तरस्य प्रकृतिर्मूलप्रकृतेस्तु विकृतिः । एवमहङ्कारतत्त्वं महतो विकृतिः, प्रकृतिश्च तदेव तामसं सत् पञ्चतन्मात्राणाम् । तदेव सात्त्विकं सत् प्रकृतिरेकादशेन्द्रियाणाम् । पञ्चतन्मात्राणि चाहङ्कारस्य विकृतिराकाशादीनां पञ्चानां प्रकृतिः ।
तदिदमुक्तम् -
महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारः ।
षोडशसङ्ख्यावच्छिन्नो गणो विकार एव । पञ्चभूतान्यतन्मात्राण्येकादशेन्द्रियाणीति षोडशको गणः । यद्यपि पृथिव्यादयो गोघटादीनां प्रकृतिस्तथापि न ते पृथिव्यादिभ्यस्तत्त्वान्तरमिति न प्रकृतिः । तत्त्वान्तरोपादानत्वं चेह प्रकृतित्वमभिमतं नोपादानमात्रत्वमित्यविरोधः । पुरुषस्तु कूटस्थनित्योऽपरिणामो न कस्यचित्प्रकृतिर्नापि विकृतिरिति ।
एवं प्राप्तेऽभिधीयते -
न सङ्ख्योपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वाशङ्का कर्तव्या । कस्मात् नानाभावात् । नाना ह्येतानि पञ्चविंशतितत्त्वानि । नैषां पञ्चशः पञ्चशः साधारणधर्मोऽस्ति ।
न खलु सत्त्वरजस्तमोमहदहङ्काराणामेकः क्रिया वा गुणो वा द्रव्यं वा जातिर्वा धर्मः पञ्चतन्मात्रादिभ्यो व्यावृत्तः सत्त्वादिषु चानुगतः कश्चिदस्ति । नापि पृथिव्यप्तेजोवायुघ्राणानाम् । नापि रसनचक्षुस्त्वक्श्रोत्रवाचाम् । नापि पाणिपादपायूपस्थमनसां, येनैकेनासाधारणेनोपगृहीताः पञ्च पञ्चका भवितुमर्हन्ति ।
पूर्वपक्षैकदेशिनमुत्थापयति -
अथोच्येत पञ्चविंशतिसङ्ख्यैवेयमिति ।
यद्यपि परस्यां सङ्ख्यायामवान्तरसङ्ख्या द्वित्वादिका नास्ति तथापि तत्पूर्वं तस्याः सम्भवात् पौर्वापर्यलक्षणया प्रत्यासत्त्या परसङ्ख्योपलक्षणार्थं पूर्वसङ्ख्योपन्यस्यत इति दूषयति -
अयमेवास्मिन्पक्षे दोष इति ।
न च पञ्चशब्दो जनशब्देन समस्तोऽसमस्तः शक्यो वक्तुमित्याह -
परश्चात्र पञ्चशब्द इति ।
ननु भवतु समासस्तथापि किमित्यत आह -
समस्तत्वाच्चेति ।
अपि च वीप्सायां पञ्चकद्वयग्रहणे दशैव तत्त्वानीति न साङ्ख्यस्मृतिप्रत्यभिज्ञानमित्यसमासमभ्युपेत्याह -
न च पञ्चकद्वयग्रहणं पञ्च पञ्चेति ।
न चैका पञ्चसङ्ख्या पञ्चसङ्ख्यान्तरेण शक्या विशेष्टुम् । पञ्चशब्दस्य सङ्ख्योपसर्जनद्रव्यवचनत्वेन सङ्ख्याया उपसर्जनतया विशेषणेनासंयोगादित्याह -
एकस्याः पञ्चसङ्ख्याया इति ।
तदेवं पूर्वपक्षैकदेशिनि दूषिते परमपूर्वपक्षिणमुत्थापयति -
नन्वापन्नपञ्चसङ्ख्याका जना एवेति ।
अत्र तावद्रूढौ सत्यां न योगः सम्भवतीति वक्ष्यते ।
तथापि यौगिकं पञ्चजनशब्दमभ्युपेत्य दूषयति -
युक्तं यत्पञ्चपूलीशब्दस्येति ।
पञ्चपूलीत्यत्र यद्यपि पृथक्त्वैकार्थसंवायिनी पञ्चसङ्ख्यावच्छेदिकास्ति तथापीह समुदायिनोऽवच्छिनत्ति न समुदायं समासपदगम्यमतस्तस्मिन् कति ते समुदाया इत्यपेक्षायां पदान्तराभिहिता पञ्चसङ्ख्या सम्बध्यते पञ्चेति । पञ्चजना इत्यत्र तु पञ्चसङ्ख्ययोत्पत्तिशिष्टया जनानामवच्छिन्नत्वात्समुदायस्य च पञ्चपूलीवदत्राप्रतीतेर्न पदान्तराभिहिता सङ्ख्या सम्बध्यते ।
स्यादेतत् । सङ्ख्येयानां जनानां मा भूच्छब्दान्तरवाच्यसङ्ख्यावच्छेदः । पञ्चसङ्ख्यायास्तु तयावच्छेदो भविष्यति । नहि साप्यवच्छिन्नेत्यत आह -
भवदपीदं विशेषणमिति ।
उक्तोऽत्र दोषः । नह्युपसर्जनं विशेषणेन युज्यते पञ्चशब्द एव तावत्सङ्ख्येयोपसर्जनसङ्ख्यामाह विशेषतस्तु पञ्चजना इत्यत्र समासे । विशेषणापेक्षायां तु न समासः स्यात् , असामर्थ्यात् । नहि भवति ऋद्धस्य राजपुरुष इति समासोऽपि तु (पद)वृत्तिरेव ऋद्धस्य राज्ञः पुरुष इति । सापेक्षत्वेनासामर्थ्यादित्यर्थः ।
अतिरेकाच्चेति ।
अभ्युच्चयमात्रम् । यदि सत्त्वरजस्तमांसि प्रधानेनैकीकृत्यात्माकाशौ तत्त्वेभ्यो व्यतिरिच्येते तदा सिद्धान्तव्याकोपः । अथ तु सत्त्वरजस्तमांसि मिथो भेदेन विवक्ष्यन्ते तथापि वस्तुतत्त्वव्यवस्थापने आधारत्वेनात्मा निष्कृष्यताम् । आधेयान्तरेभ्यस्त्वाकाशस्याधेयस्य व्यतिरेचनमनर्थकमिति गमयितव्यम् ।
कथं च सङ्ख्यामात्रश्रवणे सतीति ।
'दिक्सङ्ख्ये संज्ञायाम्” इति संज्ञायां समासस्मरणात् पञ्चजनशब्दस्तावदयं क्वचिन्निरूढः । नच रूढौ सत्यामवयवप्रसिद्धेर्ग्रहणं, सापेक्षत्वात् , निरपेक्षत्वाच्च रूढेः । तद्यदि रूढौ मुख्योऽर्थः प्राप्यते ततः स एव ग्रहीतव्योऽथ त्वसौ न वाक्ये सम्बन्धार्हः पूर्वापरवाक्यविरोधी वा । ततो रूढ्यपरित्यागेनैव वृत्त्यन्तरेणार्थान्तरं कल्पयित्वा वाक्यमुपपादनीयम् । यथा “श्येनेनाभिचरन् यजेत” इति श्येनशब्दः शकुनिविशेषे निरूढवृत्तिस्तदपरित्यागेनैव निपत्यादानसादृश्येनार्थवादिकेन क्रतुविशेषे वर्तते, तथा पञ्चजनशब्दोऽवयवार्थयोगानपेक्ष एकस्मिन्नपि वर्तते । यथा सप्तर्षिशब्दो वसिष्ठ एकस्मिन् सप्तसु च वर्तते । न चैष तत्त्वेषु रूढः । पञ्चविंशतिसङ्ख्यानुरोधेन तत्त्वेषु वर्तयितव्यः । रूढौ सत्यां पञ्चविंशतेरेव सङ्ख्याया अभावात्कथं तत्त्वेषु वर्तते ॥ ११ ॥
एवं च के ते पञ्चजना इत्यपेक्षायां किं वाक्यशेषगताः प्राणादयो गृह्यन्तामुत पञ्चविंशतिस्तत्त्वानीति विशये तत्त्वानामप्रामाणिकत्वात् , प्राणादीनां च वाक्यशेषे श्रवणात्तत्परित्यागे श्रुतहान्यश्रुतकल्पनाप्रसङ्गात्प्राणादय एव पञ्चजनाः । नच काण्वमाध्यन्दिनयोर्विरोधान्न प्राणादीनां वाक्यशेषगतानामपि ग्रहणमिति साम्प्रतम् , विरोधेऽपि तुल्यबलतया षोडशिग्रहणवद्विकल्पोपपत्तेः । न चेयं वस्तुस्वरूपकथा, अपितूपासनानुष्ठानविधिः, “मनसैवानुद्रष्टव्यम्”(बृ. उ. ४ । ४ । १९) इति विधिश्रवणात् ।
कथं पुनः प्राणादिषु जनशब्दप्रयोग इति ।
जनवाचकः शब्दो जनशब्दः । पञ्चजनशब्द इति यावत् । तस्य कथं प्राणादिष्वजनेषु प्रयोग इति व्याख्येयम् । अन्यथा तु प्रत्यस्तमितावयवार्थे समुदायशब्दार्थे जनशब्दार्थो नास्तीत्यपर्यनुयोग एव ।
रूढ्यपरित्यागेनैव वृत्त्यन्तरं दर्शयति -
जनसम्बन्धाच्चेति ।
जनशब्दभाजः पञ्चजनशब्दभाजः ।
ननु सत्यामवयवप्रसिद्धौ समुपायशक्तिकल्पनमनुपपन्नं, सम्भवति च पञ्चविंशत्यां तत्त्वेष्ववयवप्रसिद्धिरित्यत आह -
समासबलाच्चेति ।
स्यादेतत् । समासबलाच्चेद्रूढिरास्थीयते हन्त न दृष्टस्तर्हि तस्य प्रयोगोऽश्वकर्णादिवद्वृक्षादिषु । तथाच लोकप्रसिद्ध्यभावान्न रूढिरित्याक्षिपति -
कथं पुनरसतीति ।
जनेषु तावत्पञ्चजनशब्दश्च प्रथमः प्रयोगो लोकेषु दृष्ट इत्यसति प्रथमप्रयोग इत्यसिद्धमिति स्थवीयस्तयानभिधायाभ्युपेत्य प्रथमप्रयोगाभावं समाधत्ते -
शक्योद्भिदादिवदिति ।
आचार्यदेशीयानां मतभेदेष्वपि न पञ्चविंशतिस्तत्त्वानि सिध्यन्ति ।
परमार्थतस्तु पञ्चजना वाक्यशेषगता एवेत्याशयवानाह -
कैश्चित्त्विति ।
शेषमतिरोहितार्थम् ॥ १२ ॥ ॥ १३ ॥
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ।
अथ समन्वयलक्षणे केयमकाण्डे विरोधाविरोधचिन्ता, भविता हि तस्याः स्थानमविरोधलक्षणमित्यत आह -
प्रतिपादितं ब्रह्मण इति ।
अयमर्थः - नानेकशाखागततत्तद्वाक्यालोचनया वाक्यार्थावगमे पर्यवसिते सति प्रमाणान्तरविरोधेन वाक्यार्थावगतेरप्रामाण्यमाशङ्क्याविरोधव्युत्पादनेन प्रामाण्यव्यवस्थापनमविरोधलक्षणार्थः । प्रासङ्गिकं तु तत्र सृष्टिविषयाणां वाक्यानां परस्परमविरोधप्रतिपादनं न तु लक्षणार्थः । तत्प्रयोजनं च तत्रैव प्रतिपादयिष्यते । इह तु वाक्यानां सृष्टिप्रतिपादकानां परस्परविरोधे ब्रह्मणि जगद्योनौ न समन्वयः सेद्धुमर्हति । तथाच न जगत्कारणत्वं ब्रह्मणो लक्षणं, नच तत्र गतिसामान्यं, नच तत्सिद्धये प्रधानस्याशब्दत्वप्रतिपादनं, तस्माद्वाक्यानां विरोधाविरोधाभ्यामुक्तार्थाक्षेपसमाधानाभ्यां समन्वयः एवोपपाद्यत इति समन्वयलक्षणे सङ्गतमिदमधिकरणम् । “वाक्यानां कारणे कार्ये परस्परविरोधतः । समन्वयो जगद्योनौ न सिध्यति परात्मनि” ॥ “सदेव सोम्येदमग्र आसीत्”(छा. उ. ६ । २ । १) इत्यादीनां कारणविषयाणां, “असद्वा इदमग्र आसीत्”(तै. उ. २ । ७ । १) इत्यादिभिर्वाक्यैः कारणविषयैर्विरोधः । कार्यविषयाणामपि विभिन्नक्रमाक्रमोत्पत्तिप्रतिपादकानां विरोधः । तथाहि - कानिचिदन्यकर्तृका जगदुत्पत्तिमाचक्षते वाक्यानि । कानिचित्स्वयङ्कर्तृकाम् । सृष्ट्या च कार्येण तत्कारणतया ब्रह्म लक्षितम् । सृष्टिविप्रतिपत्तौ तत्कारणतायां ब्रह्मलक्षणे विप्रतिपत्तौ सत्यां भवति तल्लक्ष्ये ब्रह्मण्यपि विप्रतिपत्तिः । तस्माद्ब्रह्मणि समन्वयाभावान्न समन्वयागम्यं ब्रह्म । वेदान्तास्तु कर्त्रादिप्रतिपादनेन कर्मविधिपरतयोपचरितार्था अविवक्षितार्था वा जपोपयोगिन इति प्राप्तम् ।
क्रमादीति ।
आदिग्रहणेनाक्रमो गृह्यते । एवं प्राप्त उच्यते - “सर्गक्रमविवादेऽपि न स स्रष्टरि विद्यते । सतस्त्वसद्वचो भक्त्या निराकार्यतया क्वचित्” ॥ न तावदस्ति सृष्टिक्रमे विगानं, श्रुतीनामविरोधात् । तथाहि - अनेकशिल्पपर्यवदातो देवदत्तः प्रथमं चक्रदण्डादि करोति, अथ तदुपकरणः कुम्भं, कुम्भोपकरणश्चाहरत्युदकं, उदकोपकरणश्च संयवनेन गोधूमकणिकानां करोति पिण्डं, पिण्डोपकरणस्तु पचति घृतपूर्णं, तदस्य देवदत्तस्य सर्वत्रैतस्मिन् कर्तृत्वाच्छक्यं वक्तुं देवदत्ताच्चक्रादि सम्भूतं तस्माच्चक्रादेः कुम्भादीति । शक्यं च देवदत्तात्कुम्भः समुद्भूतस्तस्मादुदकाहरणादीत्यादि । नह्यस्त्यसम्भवः सर्वत्रास्मिन् कार्यजाते क्रमवत्यपि देवदत्तस्य साक्षात्कर्तुरनुस्यूतत्वात् । तथेहापि यद्यप्याकाशादिक्रमेणैव सृष्टिस्तथाप्याकाशानलानिलादौ तत्र तत्र साक्षात्परमेश्वरस्य कर्तृत्वाच्छक्यं वक्तुं परमेश्वरादाकाशः सम्भूत इति । शक्यं च वक्तुं परमेश्वरादनलः सम्भूत इत्यादि । यदि त्वाकाशाद्वायुर्वायोस्तेज इत्युक्त्वा तेजसो वायुर्वायोराकाश इति ब्रूयाद्भवेद्विरोधः । न चैतदस्ति । तस्मादमूषामविवादः श्रुतीनाम् । एवं “स इमांल्लोकानसृजत”(ऐ.उ. १-१-२) इत्युपक्रमाभिधायिन्यपि श्रुतिरविरुद्धा । एषा हि स्वव्यापारमभिधानक्रमेण कुर्वती नाभिधेयानां क्रमं निरुणद्धि । ते तु यथाक्रमावस्थिता एवाक्रमेणोच्यन्ते - यथा क्रमवन्ति ज्ञानानि जानातीति । तदेवमविगानम् । अभ्युपेत्य तु विगानमुच्यतेसृष्टौ खल्वेतद्विगानम् । स्रष्टा तु सर्ववेदान्तवाक्येष्वनुस्यूतः परमेश्वरः प्रतीयते । नात्र श्रुतिविगानं मात्रयाप्यस्ति । नच सृष्टिविगानं स्रष्टरि तदधीननिरूपणे विगानमावहतीति वाच्यम् । नह्येष स्रष्टृत्वमात्रेणोच्यतेऽपि तु “सत्यं ज्ञानमनन्तं ब्रह्म”(तै. उ. २ । १ । १) इत्यादिना रूपेणोच्यते स्रष्टा । तच्चास्य रूपं सर्ववेदान्तवाक्यानुगतम् । तज्ज्ञानं च फलवत् । “ब्रह्मविदाप्नोति परम्”(तै. उ. २ । १ । १) “तरति शोकमात्मवित्”(छा. उ. ७ । १ । ३) इत्यादि श्रुतेः । सृष्टिज्ञानस्य तु न फलं श्रूयते । तेन “फलवत्संनिधावफलं तदङ्गम्” इति सृष्टिविज्ञानं स्रष्टृब्रह्मविज्ञानाङ्गं तदनुगुणं सद्ब्रह्मज्ञानावतारोपायतया व्याख्येयम् । तथाच श्रुतिः - “अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छ”(छा. उ. ६ । ८ । ४) इत्यादिका । शुङ्गेनाग्रेण । कार्येणेति यावत् । तस्मान्न सृष्टिविप्रतिपत्तिः स्रष्टरि विप्रतिपत्तिमावहति । अपि तु “गुणे त्वन्यायकल्पना” इति तदनुगुणतया व्याख्येया । यच्च कारणे विगानम् “असद्वा इदमग्र असीत्”(तै. उ. २ । ७ । १) इति, तदपि “तदप्येष श्लोको भवति”(तै. उ. २ । ६ । १) इति पूर्वप्रकृतं सद्ब्रह्मणाकृष्य “असदेवेदमग्र आसीत्”(छा. उ. ३ । १९ । १) इत्युच्यमानं त्वसतोऽभिधानेऽसम्बद्धं स्यात् । श्रुत्यन्तरेण च मानान्तरेण च विरोधः । तस्मादौपचारिकं व्याख्येयम् । “तद्धैक आहुरसदेवेदमग्र आसीत्”(छा. उ. ६ । २ । १) इति तु निराकार्यतयोपन्यस्तमिति न कारणे विवाद इति सूत्रे चशब्दस्त्वर्थः । पूर्वपक्षं निवर्तयति । आकाशादिषु सृज्यमानेषु क्रमविगानेऽपि न स्रष्टरि विगानम् । कुतः । यथैकस्यां श्रुतौ व्यपदिष्टः परमेश्वरः सर्वस्य कर्ता तथैव श्रुत्यन्तरेषूक्तेः, केन रूपेण, कारणत्वेन, अपरः कल्पो यथा व्यपदिष्टः क्रम आकाशादिषु, “आत्मन आकाशः सम्भूत आकाशाद्वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी”(तै. उ. २ । १ । १) इति, तस्यैव क्रमस्यानपबाधनेन “तत्तेजोऽसृजत”(छा. उ. ६ । २ । ३) इत्यादिकाया अपि सृष्टेरुक्तेर्न सृष्टावपि विगानम् ॥ १४ ॥
नन्वेकत्रात्मन आकाशकारणत्वेनोक्तिरन्यत्र च तेजः कारणत्वेन, तत्कथमविगानमिति । अत आह -
कारणत्वेति ।
हेतौ तृतीया । सर्वत्राकाशानलानिलादौ साक्षात्कारणत्वेनात्मनः । प्रपञ्चितं चैतदधस्तात् । व्याक्रियत इति च कर्मकर्तरि कर्मणि वा रूपं, न चेतनमतिरिक्तं कर्तारं प्रतिक्षिपति किन्तूपस्थापयति । नहि लूयते केदारः स्वयमेवेति वा लूयते केदार इति वा लवितारं देवदत्तादिं प्रतिक्षिपति । अपि तूपस्थापयत्येव । तस्मात्सर्वमवदातम् ॥ १५ ॥
जगद्वाचित्वात् ।
ननु “ब्रह्म ते ब्रवाणि”(बृ. उ. २ । १ । १) इति ब्रह्माभिधानप्रकरणात् , उपसंहारे च “सर्वान् पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वाराज्यं पर्येति य एवं वेद” इति निरतिशयफलश्रवणाद्ब्रह्मवेदनादन्यत्र तदसम्भवात् , आदित्यचन्द्रादिगतपुरुषकर्तृत्वस्य च “यस्य वैतत्कर्म”(कौ . ब्रा. ४ । १९) इति चास्यासत्यवच्छेदे सर्वनाम्ना प्रत्यक्षसिद्धस्य जगतः परामर्शेन, जगत्कर्तृत्वस्य च ब्रह्मणोऽन्यत्रासम्भवात्कथं जीवमुख्यप्राणाशङ्का । उच्यते - ब्रह्म ते ब्रवाणीति बालाकिना गार्ग्येण ब्रह्माभिधानं प्रतिज्ञाय तत्तदादित्यादिगताब्रह्मपुरुषाभिधानेन न तावद्ब्रह्मोक्तम् । यस्य चाजातशत्रोः “यो वै बालाके एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म”(कौ . ब्रा. ४ । १९) इति वाक्यं न तेन ब्रह्माभिधानं प्रतिज्ञातम् । न चान्यदीयेनोपक्रमेणान्यस्य वाक्यं शक्यं नियन्तुम् । तस्मादजातशत्रोर्वाक्यसन्दर्भपौर्वापर्यपर्यालोचनया योऽस्यार्थः प्रतिभाति स एव ग्राह्यः । अत्र च कर्मशब्दस्तावद्व्यापारे निरूढवृत्तिः । कार्ये तु क्रियत इति व्युत्पत्त्या वर्तते । नच रूढौ सत्यां व्युत्पत्तिर्युक्ताश्रयितुम् । नच ब्रह्मण उदासीनस्यापरिणामिनो व्यापारवत्ता । वाक्यशेषे च “अथास्मिन् प्राण एवैकधा भवति”(कौ.उ. ३.३.) इति श्रवणात्परिस्पन्दलक्षणस्य च कर्मणो यत्रोपपत्तिः स एव वेदितव्यतयोपदिश्यते । आदित्यादिगतपुरुषकर्तृत्वं च प्राणस्योपपद्यते, हिरण्यगर्भरूपप्राणावस्थाविशेषत्वादादित्यादिदेवतानाम् । “कतम एको देवः प्राणः”(बृ. उ. ३ । ९ । ९) इति श्रुतेः । उपक्रमानुरोधेन चोपसंहारे सर्वशब्दः सर्वान् पाप्मन इति च सर्वेषां भूतानामिति चापेक्षिकवृत्तिर्बहून् पाप्मनो बहूनां भूतानामित्येवंपरो द्रष्टव्यः । एकस्मिन् वाक्ये उपक्रमानुरोधादुपसंहारो वर्णनीयः । यदि तु दृप्तबालाकिमब्रह्मणि ब्रह्माभिधायिनमपोद्याजातशत्रोर्वचनं ब्रह्मविषयमेवान्यथा तु तदुक्ताद्विशेषं विवक्षोरब्रह्माभिधानमसम्बद्धं स्यादिति मन्यते, तथापि नैतद्ब्रह्माभिधानं भवितुमर्हति, अपितु जीवाभिधानमेव, यत्कारणं वेदितव्यतयोपन्यस्तस्य पुरुषाणां कर्तुर्वेदनायोपेतं बालाकिं प्रति बुबोधयिषुरजातशत्रुः सुप्तं पुरुषमामन्त्र्यामान्त्रणशब्दाश्रवणात् प्राणादीनामभोक्तृत्वमस्वामित्वं प्रतिबोध्य यष्टिघातोत्थानात् प्राणादिव्यतिरिक्तं जीवं भोक्तारं स्वामिनं प्रतिबोधयति । परस्तादपि “तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एनमात्मानं भुञ्जन्ति”(कौ . ब्रा. ४ । २०) इति श्रवणात् । यथा श्रेष्ठी प्रधानः पुरुषः स्वैर्भृत्यैः करणभूतैर्विषयान् भुङ्क्ते, यथा वा स्वा भृत्याः श्रेष्ठिनं भुञ्जन्ति । ते हि श्रेष्ठिनमशनाच्छादनादिग्रहणेन भुञ्जन्ति । एवमेवैष प्रज्ञात्मा जीव एतैरादित्यादिगतैरात्मभिर्विषयान् भुङ्क्ते । ते ह्यादित्यादय आलोकवृष्ट्यादिना साचिव्यमाचरन्तो जीवात्मानं भोजयन्ति, जीवात्मानमपि यजमानं तदुत्सृष्टहविरादानादादित्यादयो भुञ्जन्ति, तस्माज्जीवात्मैव ब्रह्मणोऽभेदाद्ब्रह्मेह वेदितव्यतयोपदिश्यते ।
यस्य वैतत्कर्म इति ।
जीवप्रत्युक्तानां देहेन्द्रियादीनां कर्म जीवस्य भवति । कर्मजन्यत्वाद्वा धर्माधर्मयोः कर्मशब्दवाच्यत्वं रूढ्यनुसारात् । तौ च धर्माधर्मौ जीवस्य । धर्माधर्माक्षिप्तत्वाच्चादित्यादीनां भोगोपकरणानां तेष्वपि जीवस्य कर्तृत्वमुपपन्नम् । उपपन्नं च प्राणभृत्त्वाज्जीवस्य प्राणशब्दत्वम् । ये च प्रश्नप्रतिवचने “क्वैष एतद्बालाके पुरुषोऽशयिष्ट यदा सुप्तः स्वप्नं न कञ्चन पश्यति”(कौ . ब्रा. ४ । १९) इति । अनयोरपि न स्पष्टं ब्रह्माभिधानमुपलभ्यते । जीवव्यतिरेकश्च प्राणात्मनो हिरण्यगर्भस्याप्युपपद्यते । तस्माज्जीवप्राणयोरन्यतर इह ग्राह्यो न परमेश्वर इति प्राप्तम् ।
एवं प्राप्ते
उच्यते - “मृषाावादिनमापोद्य बालाकिं ब्रह्मवादिनम् । राजा कथमसम्बद्धं मिथ्या वा वक्तुमर्हति” ॥ यथा हि केनचिन्मणिलक्षणज्ञमानिना काचे मणिरेव वेदितव्य इत्युक्ते परस्य काचोऽयं मणिर्न तल्लक्षणायोगादित्यभिधाय आत्मनो विशेषं जिज्ञापयिषोस्तत्त्वाभिधानमसम्बद्धम् । अमणौ मण्यभिधानं न पूर्ववादिनो विशेषमापादयति स्वयमपि मृषाभिधानात् । तस्मादनेनोत्तरवादिना पूर्ववादिनो विशेषमापादयता मणितत्त्वमेव वक्तव्यम् । एवमजातशत्रुणा दृप्तबालाकेरब्रह्मवादिनो विशेषमात्मनो दर्शयता जीवप्राणाभिधाने असम्बद्धमुक्तं स्यात् । तयोर्वाब्रह्मणोर्ब्रह्माभिधाने मिथ्याभिहितं स्यात् । तथा च न कश्चिद्विशेषो बालाकेर्गार्ग्यादजातशत्रोर्भवेत् । तस्मादनेन ब्रह्मतत्त्वमभिधातव्यम् । तथा सत्यस्य न मिथ्यावद्यम् । तस्मात् “ब्रह्म ते ब्रवाणि”(बृ. उ. २ । १ । १) इति ब्रह्मणोपक्रमात् , सर्वान् पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वराज्यं पर्येति य एवं वेदऽइति च सति सम्भवे सर्वश्रुतेरसङ्कोचान्निरतिशयेन फलेनोपसंहारात् , ब्रह्मवेदनादन्यतश्च तदनुपपत्तेः, आदित्यादिपुरुषकर्तृत्वस्य च स्वातन्त्र्यलक्षणस्य मुख्यस्य ब्रह्मण्येव सम्भवादन्येषां हिरण्यगर्भादीनां तत्पारतन्त्र्यात् , “क्वौष एतद्बालाके”(कौ . ब्रा. ४ । १९) इत्यादेर्जीवाधिकरणभवनापादनप्रश्नस्य “यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन् प्राण एवैकधा भवति”(कौ . ब्रा. ४ । २०) इत्यादेरुत्तरस्य च ब्रह्मण्येवोपपत्तेर्ब्रह्मविषयत्वं निश्चीयते । अथ कस्मान्न भवतो हिरण्यगर्भगोचरे एव प्रश्नोत्तरे, तथा च नैताभ्यां ब्रह्मविषयत्वसिद्धिरित्येतन्निराचिकीर्षुः पठति - एतस्मादात्मनः प्राणा यथा यथायतनं प्रतिष्ठन्त इति । एतदुक्तं भवति - आत्मैव भवति जीवप्राणादीनामधिकरणं नान्यदिति । यद्यपि च जीवो नात्मनो भिद्यते तथाप्युपाध्यवच्छिन्नस्य परमात्मनो जीवत्वेनोपाधिभेदाद्भेदमारोप्याधाराधेयभावो द्रष्टव्यः । एवं च जीवभवनाधारत्वमपादानत्वं च परमात्मन उपपन्नम् ।
तदेवं बालाक्यजातशत्रुसंवादवाक्यसन्दर्भस्य ब्रह्मपरत्वे स्थिते
यस्य वैतत्कर्म इति
व्यापाराभिधाने न सङ्गच्छत इति कर्मशब्दः कार्याभिधायी भवति, एतदितिसर्वनामपरामृष्टं च तत्कार्यं, सर्वनाम चेदं संनिहितपरामर्शि, नच किञ्चिदिह शब्दोक्तमस्ति संनिहितम् । न चादित्यादिपुरुषाः संनिहिता अपि परामर्शार्हाः बहुत्वात्पुंलिङ्गत्वाच्च । एतदिति चैकस्य नपुंसकस्याभिधानात् “एतेषां पुरुषाणां कर्ता”(कौ . ब्रा. ४ । १९) इत्यनेनैव गतार्थत्वाच्च । तस्मादशब्दोक्तमपि प्रत्यक्षसिद्धं सम्बन्धार्हं जगदेव पराम्रष्टव्यम् ।
एतदुक्तं भवति ।
अत्यल्पमिदमुच्यते एतेषामादित्यादिगतानां जगदेकदेशभूतानां कर्तेति, किन्तु कृत्स्नमेव जगद्यस्य कार्यमिति वाशब्देन सूच्यते । जीवप्राणशब्दौ च ब्रह्मपरौ जीवशब्दस्य ब्रह्मोपलक्षणपरत्वात् । न पुनर्ब्रह्मशब्दो जीवोपलक्षणपरः । तथा सति हि बह्वसमञ्जसं स्यादित्युक्तम् । न चानधिगतार्थावबोधनस्वरसस्य शब्दस्याधिगतबोधनं युक्तम् । नाप्यनधिगतेनाधिगतोपलक्षणमुपपन्नम् । नच सम्भवत्येकवाक्यत्वे वाक्यभेदो न्याय्यः । वाक्यशेषानुरोधेन च जीवप्राणपरमात्मोपासनात्रयविधाने वाक्यत्रयं भवेत् । पौर्वापर्यपर्यालोचनया तु ब्रह्मोपासनपरत्वे एकवाक्यतैव । तस्मान्न जीवप्राणपरत्वमपि तु ब्रह्मपरत्वमेवेति सिद्धम् ।
स्यादेतत् । निर्दिश्यन्तां पुरुषाः कार्यास्तद्विषया तु कृतिरनिर्दिष्टा तत्फलं वा कार्यस्योत्पत्तिस्ते यस्येदं कर्मेति निर्देक्ष्येते, ततः कुतः पौनरुक्त्यमित्यत आह -
नापि पुरुषविषयस्येति ।
एतदुक्तं भवति - कर्तृशब्देनैव कर्तारमभिदधता तयोरुपात्तत्वादाक्षिप्तत्वात् । नहि कृतिं विना कर्ता भवति । नापि कृतिर्भावनापराभिधाना भूतिमुत्पत्तिं विनेत्यर्थः ।
ननु यदीदमा जगत्परामृष्टं ततस्तदन्तर्भूताः पुरुषा अपीति य एतेषां पुरुषाणामिति पुनरुक्तमित्यत आह -
एतदुक्तं भवति । य एषां पुरुषाणामिति ॥ १६ ॥ ॥ १७ ॥
ननु “प्राण एवैकधा भवति”(कौ . ब्रा. ४ । २०) इत्यादिकादपि वाक्याज्जीवातिरिक्तः कुतः प्रतीयत इत्यतो वाक्यान्तरं पठति -
एतस्मादात्मनः प्राणा इति ।
अपि च सर्ववेदान्तसिद्धमेतदित्याह -
सुषुप्तिकाले चेति ।
वेदान्तप्रक्रियायामेवोपपत्तिमुपसंहारव्याजेनाह -
तस्माद्यत्रास्य
आत्मनो यतो निःसम्बोधोऽतः स्वच्छतारूपमिव रूपमस्येति स्वच्छतारूपो न तु स्वच्छतैव । लयविक्षेपसंस्कारयोस्तत्र भावात् । समुदाचरद्वृत्तिविक्षेपाभावमात्रेणोपमानम् । एतदेव विभजते - उपाधिभिः अन्तःकरणादिभिः जनितं यद्विशेषविज्ञानं घटपटादिविज्ञानं तद्रहितं स्वरूपमात्मनः यदि विज्ञानमित्येवोच्येत ततस्तदविशिष्टमनवच्छिन्नं सद्ब्रह्मैव स्यात्तच्च नित्यमिति नोपाधिजनितं नापि तद्रिहितं स्वरूपं ब्रह्मस्वभावस्याप्रहाणात् ।
अत उक्तम् -
विशेषेति ।
यदा तु लयलक्षणाविद्योपबृंहितो विक्षेपसंस्कारः समुदाचरति तदा विशेषविज्ञानोत्पादात्स्वप्नजागरावस्थातः परमात्मनो रूपाद्भ्रंशरूपमागमनमिति ।
न केवलं कौषीतकिब्राह्मणे, वाजसनेयेऽप्येवमेव प्रश्नोत्तरयोर्जीवव्यतिरिक्तमामनन्ति परमात्मानमित्याह -
अपि चैवमेक इति ।
नन्वत्राकाशं शयनस्थानं तत्कुतः परमात्मप्रत्यय इत्यत आह -
आकाशशब्दश्चेति ।
न तावन्मुख्यस्याकाशस्यात्माधारत्वसम्भवः । यदपि च द्वासप्ततिसहस्रहिताभिधाननाडीसञ्चारेण सुषुप्त्यवस्थायां पुरीतदवस्थानमुक्तं तदप्यन्तःकरणस्य । तस्मात् “दहरोऽस्मिन्नन्तराकाशः”(छा. उ. ८ । १ । १) इतिवदाकाशशब्दः परमात्मनि मन्तव्य इति ।
प्रथमं भाष्यकृता जीवनिराकरणाय सूत्रमिदमवतारितम् । तत्र मन्दधियां नेदं प्राणनिराकरणायेति बुद्धिर्मा भूदित्याशयवानाह -
प्राणनिराकरणस्यापीति ।
तौ हि बालाक्यजातशत्रू सुप्तं पुरुषमाजग्मतुः । तमजातशत्रुर्नामभिरामन्त्रयाञ्चक्रे “बृहत्पाण्डुरवासः सोमराजन्” इति । स आमन्त्र्यमाणो नोत्तस्थौ । तं पाणिनापेषं बोधयाञ्चकार । स होत्तस्थौ । स होवाचजातशत्रुर्यत्रैष एतत्सुप्तोऽभूत्” इत्यादि । सोऽयं सुप्तपुरुषोत्थापनेन प्राणादिव्यतिरिक्तोपदेश इति ॥ १८ ॥
वाक्यान्वयात् ।
ननु मैत्रेयीब्राह्मणोपक्रमे याज्ञवल्क्येन गार्हस्थ्याश्रमादुत्तमाश्रमं यियासता मैत्रैय्या भार्यायाः कात्यायन्या सहार्थसंविभागकरण उक्ते मैत्रेयी याज्ञवल्क्यं पतिममृतत्वार्थिनी पप्रच्छ, यन्नु म इयं भगोः सर्वा पृथ्वी वित्तेन पूर्णा स्यात्किमहं तेनामृता स्यामुत नेति । तत्र नेति होवाच याज्ञवल्क्यः । यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशास्ति वित्तेन । एवं वित्तेनामृतत्वाशा भवेद्यदि वित्तसाध्यानि कर्माण्यमृतत्वे उपयुज्येरन् । तदेव तु नास्ति, ज्ञानसाध्यत्वादमृतत्वस्य कर्मणां च ज्ञानविरोधिनां तत्सहभावित्वानुपपत्तेरिति भावः । सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेनं कुर्यां यदेव भगवान् वेद तदेव मे ब्रूहि । अमृतत्वसाधनमिति शेषः । तत्रामृतत्वसाधनज्ञानोपन्यासाय वैराग्यपूर्वकत्वात्तस्य रागविषयेषु तेषु तेषु पतिजायादिषु वैराग्यमुत्पादयितुं याज्ञवल्क्यो “न वा अरे पत्युः कामाय”(बृ. उ. ४ । ५ । ६) इत्यादिवाक्यसन्दर्भमुवाच । आत्मौपाधिकं हि प्रियत्वमेषां न तु साक्षात्प्रियाण्येतानि ।
तस्मादेतेभ्यः पतिजायादिभ्यो विरम्य यत्र साक्षात्प्रेम स एव
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ।
वाशब्दोऽवधारणे । आत्मैव द्रष्टव्यः साक्षात्कर्तव्यः । एतत्साधनानि च श्रवणादीनि विहितानि श्रोतव्य इत्यादिना । कस्मात् । आत्मनो वा अरे दर्शनेन श्रवणादिसाधनेनेदं जगत्सर्वंविदितं भवतीति वाक्यशेषः । यतो नामरूपात्मकस्य जगतस्तत्त्वं पारमार्थिकं रूपमात्मैव भुजङ्गस्येव समारोपितस्य तत्त्वं रज्जुः । तस्मादात्मनि विदिते सर्वमिदं जगत्तत्त्वं विदितं भवति, रज्ज्वामिव विदितायां समारोपितस्य भुजङ्गस्य तत्त्वं विदितं भवति, यतस्तस्मादात्मैव द्रष्टव्यो न तु तदतिरिक्तं जगत् स्वरूपेण द्रष्टव्यम् । कुतः । यतो “ब्रह्म तं परादात्”(बृ. उ. २ । ४ । ६) ब्राह्मणजातिर्ब्राह्मणोऽहमित्येवमभिमान इति यावत् । परादात् पराकुर्यादमृतत्वपदात् । कं, योऽन्यत्रात्मनो ब्रह्म ब्राह्मणजातिं वेद । एवं क्षत्रियादिष्वपि द्रष्टव्यम् । आत्मैव जगतस्तत्त्वं न तु तदतिरिक्तं किञ्चित्तदिति । अत्रैव भगवती श्रुतिरुपपत्तिं दृष्टान्तप्रबन्धेनाह । यत् खलु यद्ग्रहं विना न शक्यते ग्रहीतुं तत्ततो न व्यतिरिच्यते । यथा रजतं शुक्तिकायाः, भुजङ्गो वा रज्जोः, दुन्दुभ्यादिशब्दसामान्याद्वा तत्तच्छब्दभेदाः । न गृह्यन्ते च चिद्रूपग्रहणं विना स्थितिकाले नामरूपाणि । तस्मान्न चिदात्मनो भिद्यन्ते ।
तदिदमुक्तम् -
स यथा दुन्दुभेर्हन्यमानस्येति ।
दुन्दुभिग्रहणेन तद्गतं शब्दसामान्यमुपलक्षयति । न केवलं स्थितिकाले नामरूपप्रपञ्चश्चिदात्मातिरेकेणाग्रहणाच्चिदात्मनो न व्यतिरिच्यतेऽपि तु नामरूपोत्पत्तेः प्रागपि चिद्रूपावस्थानात् तदुपादानत्वाच्च नामरूपप्रपञ्चस्य तदनतिरेकः, रज्जूपादानस्येव भुजङ्गस्य रज्जोरनतिरेक इत्येतद्दृष्टान्तेन साधयति भगवती श्रुतिः - “स यथार्द्रैधोऽग्रेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः”(बृ. उ. २ । ४ । १०) इत्यादिना चतुर्विधो मन्त्र उक्तः । इतिहास इत्यादिनाष्टविधं ब्राह्मणमुक्तम् । एतदुक्तं भवति - यथाग्निमात्रं प्रथममवगम्यते क्षुद्राणां विस्फुलिङ्गानामुपादानम् । अथ ततो विस्फुलिङ्गा व्युच्चरन्ति । न चैतेऽग्नेस्तत्त्वान्यत्वाभ्यां शक्यन्ते निर्वुक्तम् । एवमृग्वेदादयोऽप्यल्पप्रयत्नाद्ब्रह्मणो व्युच्चरन्तो न ततस्तत्त्वान्यत्वाभ्यां निरुच्यन्ते । ऋगादिभिर्नामोपलक्ष्यते । यदा च नामधेयस्येयं गतिस्तदा तत्पूर्वकस्य रूपधेयस्य कैव कथेति भावः । न केवलं तदुपादानत्वात्ततो न व्यतिरिच्यते नामरूपप्रपञ्चः, प्रलयसमये च तदनुप्रवेशात्ततो न व्यतिरिच्यते । यथा सामुद्रमेवाम्भः पृथिवीतेजःसम्पर्कात्काठिन्यमुपगतं सैन्धवं खिल्यः, स हि स्वाकरे समुद्रे क्षिप्तोऽम्भ एव भवति, एवं चिदम्भोधौ लीनं जगच्चिदेव भवति न तु ततोऽतिरिच्यत इति ।
एतद्दृष्टान्तप्रबन्धेनाह -
स यथा सर्वासामपामित्यादि ।
दृष्टान्तप्रबन्धमुक्त्वा दार्ष्टान्तिके योजयति -
एवं वा अरे इदं महदिति ।
बृहत्वेन ब्रह्मोक्तम् । इदं ब्रह्मेत्यर्थः । भूतं सत्यम् । अनन्तं नित्यम् । अपारं सर्वगतम् ।
विज्ञानघनः ।
विज्ञानैकरस इति यावत् । एतेभ्यः कार्यकारणभावेन व्यवस्थितेभ्यो भूतेभ्यः समुत्थाय साम्येनोत्थाय । कार्यकारणसङ्घातस्य ह्यवच्छेदाद्दुःखित्वशोकित्वादयस्तदवच्छिन्ने चिदात्मनि तद्विपरीतेऽपि प्रतीयन्ते, यथोदकप्रतिबिम्बिते चन्द्रमसि तोयगताः कम्पादयः । तदिदं साम्येनोत्थानम् । यदा त्वागमाचार्योपदेशपूर्वकमनननिदिध्यासनप्रकर्षपर्यन्तजोऽस्य ब्रह्मस्वरूपसाक्षात्कार उपावर्तते तदा निर्मृष्टनिखिलसवासनाविद्यामलस्य कार्यकारणसङ्घातभूतस्य विनाशे तान्येव भूतानि नश्यन्त्यनु तदुपाधिश्चिदात्मनः खिल्यभावो विनश्यति । ततो न प्रेत्य कार्यकारणभूतनिवृत्तौ रूपगन्धादिसंज्ञास्तीति । न प्रेत्य संज्ञास्तीति संज्ञामात्रनिषेधादात्मा नास्तीति मन्यमाना सा मैत्रेयी होवाच, अत्रैव मा भगवानमूमुहन्मोहितवान् न प्रेत्य संज्ञास्तीति । स होवाच याज्ञवल्क्यः स्वाभिप्रायं, द्वैते हि रूपादिविशेषसंज्ञानिबन्धनो दुःखित्वाद्यभिमानः । आनन्दज्ञानैकरसब्रह्माद्वयानुभवे तु तत्केन कं पश्येत् , ब्रह्म वा केन विजानीयात् । नहि तदास्य कर्मर्भावोऽस्ति स्वप्रकाशत्वात् । एतदुक्तं भवति - न संज्ञामात्रं मया व्यासेधि, किन्तु विशेषसंज्ञेति । तदेवममृतत्वफलेनोपक्रमात् , मध्ये चात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तदुपपादनात् , उपसंहारे च महद्भूतमनन्तमित्यादिना च ब्रह्मरूपाभिधानात् , द्वैतनिन्दया चाद्वैतगुणकीर्तनाद्ब्रह्मैव मैत्रेयीब्राह्मणे प्रतिपाद्यं न जीवात्मेति नास्ति पूर्वपक्ष इत्यनारभ्यमेवेदमधिकरणम् । अत्रोच्यते - भोक्तृत्वज्ञातृताजीवरूपोत्थानसमाधये मैत्रेयीब्राह्मणे पूर्वपक्षेणोपक्रमः कृतः । पतिजायादिभोग्यसम्बन्धो नाभोक्तुर्ब्रह्मणो युज्यते, नापिज्ञानकर्तृत्वमकर्तुः साक्षाच्च महतो भूतस्य विज्ञानात्मभावेन समुत्थानाभिधानं विज्ञानात्मन एव द्रष्टव्यत्वमाह । अन्यथा ब्रह्मणो द्रष्टव्यत्वपरेऽस्मिन् ब्राह्मणे तस्य विज्ञानात्मत्वेन समुत्थानाभिधानमनुपयुक्तं स्यात्तस्य तु द्रष्टव्यमुपयुज्यत इत्युपक्रममात्रं पूर्वपक्षः कृतः ।
भोक्त्रर्थत्वाच्च भोग्यजातस्येति
तदुपोद्बलमात्रम् । सिद्धान्तस्तु निगदव्याख्यातेन भाष्येणोक्तः ॥ १९ ॥
तदेवं पौर्वापर्यालोचनया मैत्रेयीब्राह्मणस्य ब्रह्मदर्शनपरत्वे स्थिते भोक्त्रा जीवात्मनोपक्रममाचार्यदेशीयमतेन तावत्समाधत्ते सूत्रकारः -
प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ।
यथा हि वह्नेर्विकारा व्युच्चरन्तो विस्फुलिङ्गा न वह्नेरत्यन्तं भिद्यन्ते, तद्रूपनिरूपणत्वात् , नापि ततोऽत्यन्तमभिन्नाः, वह्नेरिव परस्परव्यावृत्त्यभावप्रसङ्गात् , तथा जीवात्मनोऽपि ब्रह्मविकारा न ब्रह्मणोऽत्यन्तं भिद्यन्ते, चिद्रूपत्वाभावप्रसङ्गात् । नाप्यत्यन्तं न भिद्यन्ते, परस्परं व्यावृत्त्यभावप्रसङ्गात् , सर्वज्ञं प्रत्युपदेशवैयर्थ्याच्च । तस्मात्कथञ्चिद्भेदो जीवात्मनामभेदश्च । तत्र तद्विज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धये विज्ञानात्मपरमात्मनोरभेदमुपादाय परमात्मनि दर्शयितव्ये विज्ञानात्मनोपक्रम इत्याश्मरथ्य आचार्यो मेने ॥ २० ॥
आचार्यदेशीयान्तरमतेन समाधत्ते -
उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ।
जीवो हि परमात्मनोऽत्यन्तं भिन्न एव सन् देहेन्द्रियमनोबुद्ध्युपधानसम्पर्कात्सर्वदा कलुषः, तस्य च ज्ञानध्यानादिसाधनानुष्ठानात्सम्प्रसन्नस्य देहेन्द्रियादिसङ्घातादुत्क्रमिष्यतः परमात्मनैक्योपपत्तेरिदमभेदेनोपक्रमणम् । एतदुक्तं भवति - भविष्यन्तमभेदमुपादाय भेदकालेऽप्यभेद उक्तः । यथाहुः पाञ्चरात्रिकाः - “आमुक्तेर्भेद एव स्याज्जीवस्य च परस्य च । मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः” ॥ इति ।
अत्रैव श्रुतिमुपन्यस्यति -
श्रुतिश्चैवमिति ।
पूर्वं देहेन्द्रियाद्युपाधिकृतं कलुषत्वमात्मन उक्तम् । सम्प्रति स्वाभाविकमेव जीवस्य नामरूपप्रपञ्चाश्रयत्वलक्षणं कालुष्यं पार्थिवानामणूनामिव श्यामत्वं केवलं पाकेनेव ।
ज्ञानध्यानादिना तदपनीय जीवः परात्परतरं पुरुषमुपैतीत्याह -
क्वचिच्च जीवाश्रयमपीति ।
नदीनिदर्शनम् “यथा सोम्येमा नद्यः”(प्र.उ. ६-५) इति ॥ २१ ॥
तदेवमाचार्यदेशीयमतद्वयमुक्त्वात्रापरितुष्यन्नाचार्यमतमाह सूत्रकारः -
अविस्थितेरिति काशकृत्स्नः ।
एतद्व्याचष्टे -
अस्यैव परमात्मन इति ।
न जीव आत्मनोऽन्यः । नापि तद्विकारः किन्त्वात्मैवाविद्योपाधानकल्पितावच्छेदः । आकाश इव घटमणिकादिकल्पितावच्छेदो घटाकाशो मणिकाकाशो न तु परमाकाशादन्यस्तद्विकारो वा । ततश्च जीवात्मनोपक्रमः परामात्मनैवोपक्रमस्तस्य ततोऽभेदात् । स्थूलदर्शिलोकप्रतीतिसौकर्यायौपाधिकेनात्मरूपेणोपक्रमः कृतः ।
अत्रैव श्रुतिं प्रमाणयति -
तथा चेति ।
अथ विकारः परमात्मनो जीवः कस्मान्न भवत्याकाशादिवदित्याह -
न च तेजःप्रभृतीनामिति ।
न हि यथा तेजःप्रभृतीनामात्मविकारत्वं श्रूयते एवं जीवस्येति ।
आचार्यत्रयमतं विभजते -
काशकृत्स्नस्याचार्यस्येति ।
आत्यन्तिके सत्यभेदे कार्यकारणभावाभावादनात्यन्तिकोऽभेद आस्थेयः, तथाच कथञ्चिद्भेदोऽपीति तमास्थाय कार्यकारणभाव इति मतत्रयमुक्त्वा काशकृत्स्नीयमतं साधुत्वेन निर्धारयति -
तत्र तेषु मध्ये । काशकृत्स्नीयं मतमिति ।
आत्यन्तिके हि जीवपरमात्मनोरभेदे तात्त्विकेऽनाद्यविद्योपाधिकल्पितो भेदस्तत्त्वमसीति जीवात्मनो ब्रह्मभावतत्त्वोपदेशश्रवणमनननिदिध्यासनप्रकर्षपर्यन्तजन्मना साक्षात्कारेण विद्यया शक्यः समूलकाषं कषितुं, रज्ज्वामहिविभ्रम इव रज्जुतत्त्वसाक्षात्कारेण, राजपुत्रस्येव च म्लेच्छकुले वर्धमानस्यात्मनि समारोपितो म्लेच्छभावो राजपुत्रोऽसीति आप्तोपदेशेन । न तु मृद्विकारः शरावादिः शतशोऽपि मृन्मृदिति चिन्त्यमानस्तज्जन्मना मृद्भावसाक्षात्कारेण शक्यो निवर्तयितुं, तत्कस्य हेतोः, तस्यापि मृदो भिन्नाभिन्नस्य तात्त्विकत्वात् , वस्तुतस्तु ज्ञानेनोच्छेत्तुमशक्यत्वात् , सोऽयं प्रतिपिपादयिषितार्थानुसारः । अपि च जीवस्यात्मविकारत्वे तस्य ज्ञानध्यानादिसाधनानुष्ठानात्स्वप्रकृतावप्यये सति नामृतत्वस्याशास्तीत्यपुरुषार्थत्वममृतत्वप्राप्तिश्रुतिविरोधश्च ।
काशकृत्स्नमते त्वेतदुभयं नास्तीत्याह -
एवं च सतीति ।
ननु यदि जीवो न विकारः किन्तु ब्रह्मैव कथं तर्हि तस्मिन्नामरूपाश्रयत्वश्रुतिः, कथञ्च “यथाग्नेः क्षुद्रा विस्फुलिङ्गा”(बृ. उ. २ । १ । २०) इति ब्रह्मविकारश्रुतिरित्याशङ्कामुपसंहारव्याजेन निराकरोति -
अतश्च स्वाश्रयस्येति ।
यतः प्रतिपिपादयिषितार्थानुसारश्चामृतत्वप्राप्तिश्च विकारपक्षे न सम्भवतः, अतश्चेति योजना ।
द्वितीयपूर्वपक्षबीजमनयैव त्रिसूत्र्यापाकरोति -
यदप्युक्तमिति ।
शेषमतिरोहितार्थं व्याख्यातार्थं च । तृतीयपूर्वपक्षबीजनिरासे काशकृत्स्नीयेनैवेत्यवधारणं तन्मताश्रयणेनैव तस्य शक्यनिरासत्वात् । ऐकान्तिके ह्यद्वैते आत्मनोऽन्यकर्मकरणे “केन कं पश्येत्”(बृ. उ. ४ । ५ । १५) इति आत्मनश्च कर्मत्वं “विज्ञातारमरे केन विजानीयात्”(बृ. उ. २ । ४ । १४) इति शक्यं निषेद्धुम् । भेदाभेदपक्षे वैकान्तिके वा भेदे सर्वमेतदद्वैताश्रयमशक्यमित्यवधारणस्यार्थः ।
न केवलं काशकृत्स्नीयदर्शनाश्रयणेन भूतपूर्वगत्या विज्ञातृत्वमपि तु श्रुतिपौर्वापर्यपर्यालोचनयाप्येवमेवेत्याह -
अपि च यत्र हीति ।
कस्मात् पुनः काशकृत्स्नस्य मतमास्थीयते नेतरेषामाचार्याणामित्यत आह -
दर्शितं तु पुरस्तादिति ।
काशकृत्स्नीयस्य मतस्य श्रुतिप्रबन्धोपन्यासेन पुनः श्रुतिमत्त्वं स्मृतिमत्त्वं चोपसंहारोपक्रममाह -
अतश्चेति ।
क्वचित्पाठ आतश्चेति । तस्यावश्यं चेत्यर्थः । जननजरामरणभीतयो विक्रियास्तासां सर्वासां “महानजः”(बृ. उ. ४ । ४ । २५) इत्यादिना प्रतिषेधः । परिणामपक्षेऽन्यस्य चान्यभावपक्षे ऐकान्तिकाद्वैतप्रतिपादनपराः “एकमेवाद्वितीयम्”(छा. उ. ६ । २ । १) इत्यादयः, द्वैतदर्शननिन्दापराश्च “अन्योऽसावन्योऽहमस्मि”(बृ. उ. १ । ४ । १०) इत्यादयः, जन्मजरादिविक्रियाप्रतिषेधपराश्च “एष महानजः”(बृ. उ. ४ । ४ । २५) इत्यादयः श्रुतय उपरुध्येरन् । अपिच यदि जीवपरमात्मनोर्भेदाभेदावास्थीयेयातां ततस्तयोर्मिथो विरोधात्समुच्चयाभावादेकस्य बलीयस्त्वे नात्मनि निरपवादं विज्ञानं जायेत, बलीयसैकेन दुर्बलपक्षावलम्बिनो ज्ञानस्य बाधनात् । अथ त्वगृह्यमाणविशेषतया न बलाबलावधारणं, ततः संशये सति न सुनिश्चितार्थमात्मनि ज्ञानं भवेत् । सुनिश्चितार्थं च ज्ञानं मोक्षोपायः श्रूयते - “वेदान्तविज्ञानसुनिश्चितार्थाः”(मु. उ. ३ । २ । ६) इति ।
तदेतदाह -
अन्यथा मुमुक्षूणामिति ।
'एकत्वमनुपश्यतः” इति श्रुतिर्न पुनरेकत्वानेकत्वे अनुपश्यत इति ।
ननु यदि क्षेत्रज्ञपरमात्मनोरभेदो भाविकः, कथं तर्हि व्यपदेशबुद्धिभेदौ क्षेत्रज्ञः परमात्मेति कथञ्च नित्यशुद्धबुद्धमुक्तस्वभावस्य भगवतः संसारिता । अविद्याकृतनामरूपोपाधिवशादिति चेत् । कस्येयमविद्या । न तावज्जीवस्य, तस्य परमात्मनो व्यतिरेकाभावात् । नापि परमात्मनः, तस्य विद्यैकरसस्याविद्याश्रयत्वानुपपत्तेः । तदत्र संसारित्वासंसारित्वविद्याविद्यावत्त्वरूपविरुद्धधर्मसंसर्गाद्बुद्धिव्यपदेशभेदाच्चास्ति जीवेश्वरयोर्भेदोऽपि भाविक इत्यत आह -
स्थिते च परमात्मक्षेत्रज्ञात्मैकत्वेति ।
न तावद्भेदाभेदावेकत्र भाविकौ भवितुमर्हत इति विप्रपञ्चितं प्रथमे पादे । द्वैतदर्शननिन्दया चैकान्तिकाद्वैतप्रतिपादनपराः पौर्वापर्यालोचनया सर्वे वेदान्ताः प्रतीयन्ते । तत्र यथा बिम्बादवदतात्तात्त्विके प्रतिबिम्बानामभेदेऽपि नीलमणिकृपाणकाचाद्युपधानभेदात्काल्पनिको जीवानां भेदो बुद्धिव्यपदेशभेदौ वर्तयति, इदं बिम्बमवदातमिमानि च प्रतिबिम्बानि नीलोत्पलपलाशश्यामलानि वृत्तदीर्घादिभेदभाञ्जि बहूनीति, एवं परमात्मनः शुद्धस्वभावाज्जीवानमभेद ऐकान्तिकेऽप्यनिर्वचनीयानाद्यविद्योपधानभेदात्काल्पनिको जीवानां भेदो बुद्धिव्यपदेशभेदावयं च परमात्मा शुद्धविज्ञानानन्दस्वभाव इमे च जीवा अविद्याशोकदुःखाद्युपद्रवभाज इति वर्तयति । अविद्योपधानं च यद्यपि विद्यास्वभावे परमात्मनि न साक्षादस्ति तथापि तत्प्रतिबिम्बकल्पजीवद्वारेण परस्मिन्नुच्यते । न चैवमन्योन्याश्रयो जीवविभागाश्रयाऽविद्या, अविद्याश्रयश्च जीवविभाग इति, बीजाङ्कुरवदनादित्वात् । अत एव कानुद्दिश्यैष ईश्वरो मायामारचयत्यनर्थिकां, उद्देश्यानां सर्गादौ जीवानामभावात् , कथं चात्मानं संसारिणं विविधवेदनाभाजं कुर्यादित्याद्यनुयोगो निरवकाशः । न खल्वादिमान् संसारः, नाप्यादिमानविद्याजीवविभागः, येनानुयुज्येतेति । अत्र च नामग्रहणेनाविद्यामुपलक्षयति ।
स्यादेतत् । यदि न जीवात् ब्रह्म भिद्यते, हन्त जीवः स्फुट इति ब्रह्मापि तथा स्यात् , तथा च “निहितं गुहायाम्”(तै. उ. २ । १ । १) इति नोपपद्यत इत्यत आह -
न हि सत्यमिति ।
यथा हि बिम्बस्य मणिकृपाणादयो गुहा एवं ब्रह्मणोऽपि प्रतिजीवं भिन्ना अविद्या गुहा इति । यथा प्रतिबिम्बेषु भासमानेषु बिम्बं तदभिन्नमपि गुह्यमेवं जीवेषु भासमानेषु तदभिन्नमपि ब्रह्म गुह्यम् ।
अस्तु तर्हि ब्रह्मणोऽन्यद्गुह्यमित्यत आह -
न च ब्रह्मणोऽन्य इति ।
ये तु
आश्मरथ्यप्रभृतयः
निर्बन्धं कुर्वन्ति ते वेदान्तार्थमिति ।
ब्रह्मणः सर्वात्मना भागशो वा परिणामाभ्युपगमे तस्य कार्यत्वादनित्यत्वाच्च तदाश्रितो मोक्षोऽपि तथा स्यात् । यदि त्वेवमपि मोक्षं नित्यमकृतकं ब्रूयुस्तत्राह -
न्यायेनेति ।
एवं ये नदीसमुद्रनिदर्शनेनामुक्तेर्भेदं मुक्तस्य चाभेदं जीवस्यास्थिषत तेषामपि न्यायेनासङ्गतिः । नो जातु घटः पटो भवति । ननूक्तं यथा नदी समुद्रो भवतीति । का पुनर्नद्यभिमता आयुष्मतः । किं पाथःपरमाणव उतैषां संस्थानभेद आहोस्वित्तदारब्धोऽवयवी । तत्र संस्थानभेदस्य वावयविनो वा समुद्रनिवेशे विनाशात् कस्य समुद्रेणैकता । नदीपाथःपरमाणूनां तु समुद्रपाथःपरमाणुभ्यः पूर्ववस्थितेभ्यो भेद एव नाभेदः । एवं समुद्रादपि तेषां भेद एव । ये तु काशकृत्स्नीयमेव मतमास्थाय जीवं परमात्मनोंऽशमाचख्युस्तेषां कथं “निष्कलं निष्क्रियं शान्तम्”(श्वे. उ. ६ । १९) इति न श्रुतिविरोधः । निष्कलमिति सावयवत्वं व्यासेधि न तु सांशत्वम् , अंशश्च जीवः परमात्मनो नभस इव कर्णनेमिमण्डलावच्छिन्नं नभः शब्दश्रवणयोग्यं, वायोरिव च शरीरावच्छिन्नः पञ्चवृत्तिः प्राण इति चेत् । न तावन्नभो नभसोंऽशः, तस्य तत्त्वात् । कर्णनेमिमण्डलावच्छिन्नमंश इति चेत् , हन्त तर्हि प्राप्ताप्राप्तविवेकेन कर्णनेमिमण्डलं वा तत्संयोगो वेत्युक्तं भवति । नच कर्णनेमिमण्डलं तस्यांशः, तस्य ततो भेदात् । तत्संयोगो नभोधर्मत्वात्तस्यांश इति चेत् । न । अनुपपत्तेः । नभोधर्मत्वे हि तदनवयवं सर्वत्राभिन्नमिति तत्संयोगः सर्वत्र प्रथेत । नह्यस्ति सम्भवोऽनवयवमव्याप्यवर्तत इति । तस्मात्तत्रास्ति चेद्व्याप्यैव । न चेद्व्याप्नोति तत्र नास्त्येव । व्याप्यैवास्ति केवलं प्रतिसम्बन्ध्यधीननिरूपणतया न सर्वत्र निरूप्यत इति चेत् , न नाम निरूप्यताम् । तत्संयुक्तं तु नभः श्रवणयोग्यं सर्वत्रास्तीति सर्वत्र श्रवणप्रसङ्गः । नच भेदाभेदयोरन्यतरेणांशः शक्यो निर्वक्तुं न चोभाभ्यां, विरुद्धयोरेकत्रासमवायादित्युक्तम् । तस्मादनिर्वचनीयानाद्यविद्यापरिकल्पित एवांशो नभसो न भाविक इति युक्तम् । नच काल्पनिको ज्ञानमात्रायत्तजीवितः कथमविज्ञायमानोऽस्ति, असंश्चांशः कथं शब्दश्रवणलक्षणाय कार्याय कल्पते, न जातु रज्ज्वामज्ञायमान उरगो भयकम्पादिकार्याय पर्याप्त इति वाच्यम् । अज्ञातत्वासिद्धेः कार्यव्यङ्गत्वादस्य । कार्योत्पादात्पूर्वमज्ञातं कथं कार्योत्पादाङ्गमिति चेत् । न । पूर्वपूर्वकार्योत्पादव्यङ्ग्यत्वादसत्यपि ज्ञाने तत्संस्कारानुवृत्तेरनादित्वाच्च कल्पना तत्संस्कारप्रवाहस्य । अस्तु वानुपपत्तिरेव कार्यकारणयोर्मायात्मकत्वात् । अनुपपत्तिर्हि मायामुपोद्बलयत्यनुपपद्यमानार्थत्वान्मायायाः । अपि च भाविकांशवादिनां मते भाविकांशस्य ज्ञानेनोच्छेत्तुमशक्यत्वान्न ज्ञानध्यानसाधनो मोक्षः स्यात् । तदेवमकाशांश इव श्रोत्रमनिर्वचनीयम् । एवं जीवो ब्रह्मणोंऽश इति काशकृत्स्नीयं मतमिति सिद्धम् ॥ २२ ॥
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ।
स्यादेतत् । वेदान्तानां ब्रह्मणि समन्वये दर्शिते समाप्तं समन्वयलक्षणमिति किमपरमवशिष्यते यदर्थमिदमारभ्यत इति शङ्कां निराकर्तुं सङ्गतिं दर्शयन्नवशेषमाह -
यथाभ्युदयेति ।
अत्र च लक्षणस्य सङ्गतिमुक्त्वा लक्षणेनास्याधिकरणस्य सङ्गतिरुक्ता । एतदुक्तं भवति - सत्यं जगत्कारणे ब्रह्मणि वेदान्तानामुक्तः समन्वयः ।
तत्र कारणभावस्योभयथा दर्शनाज्जगत्कारणत्वं ब्रह्मणः किं निमित्तत्वेनैव, उतोपादानत्वेनापि । तत्र यदि प्रथमः पक्षस्तत उपादानकारणानुसरणे साङ्ख्यस्मृतिसिद्धं प्रधानमभ्युपेयम् । तथा च “जन्माद्यस्य यतः”(ब्र. सू. १ । १ । २) इति ब्रह्मलक्षणमसाधु, अतिव्याप्तेः प्रधानेऽपि गतत्वात् । असम्भवाद्वा । यदि तूत्तरः पक्षस्ततो नातिव्याप्तिर्नाप्यव्याप्तिरिति साधु लक्षणम् । सोऽयमवशेषः । तत्र “ईक्षापूर्वकर्तृत्वं प्रभुत्वमसरूपता । निमित्तकारणेष्वेव नोपादानेषु कर्हिचित्” ॥ तदिदमाह -
तत्र निमित्तकारणमेव तावदिति ।
आगमस्य कारणमात्रे पर्यवसानादनुमानस्य तद्विशेषनियममागमो न प्रतिक्षिपत्यपि त्वनुमन्यत एवेत्याह -
पारिशेष्याद्ब्रह्मणोऽन्यदिति ।
ब्रह्मोपादानत्वस्य प्रसक्तस्य प्रतिषेधेऽन्यत्राप्रसङ्गात्साङ्ख्यस्मृतिप्रसिद्धमानुमानिकं प्रधानं शिष्यत इति । एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानम् “उत तमादेशम्”(छा. उ. ६ । १ । ३) इत्यादिना, “यथा सोम्यैकेन मृत्पिण्डेन”(छा. उ. ६ । १ । ४) इति च दृष्टान्तः, परमात्मनः प्राधान्यं सूचयतः । यथा सोमशर्मणैकेन ज्ञातेन सर्वे कठा ज्ञाता भवन्ति ।
एवं प्राप्त उच्यते -
प्रकृतिश्च ।
न केवलं ब्रह्म निमित्तकारणं, कुतः, प्रतिज्ञादृष्टान्तयोरनुपरोधात् । निमित्तकारणत्वमात्रे तु तावुपरुध्येयाताम् । तथाहि - “न मुख्ये सम्भवत्यर्थे जघन्या वृत्तिरिष्यते । न चानुमानिकं युक्तमागमेनापबाधितम् ॥ सर्वे हि तावद्वेदान्ताः पौर्वापर्येण वीक्षिताः । ऐकान्तिकाद्वैतपरा द्वैतमात्रनिषेधतः” ॥ तदिहापि प्रतिज्ञादृष्टान्तौ मुख्यार्थावेव युक्तौ न तु “यजमानः प्रस्तरः” इतिवद्गुणकल्पनया नेतव्यौ, तस्यार्थवादस्यातत्परत्वात् । प्रतिज्ञादृष्टान्तवाक्ययोस्त्वद्वैतपरत्वादुपादानकारणात्मकत्वाच्चोपादेयस्य कार्यजातस्योपादानज्ञानेन तज्ज्ञानोपपत्तेः । निमित्तकारणं तु कार्यादत्यन्तभिन्नमिति न तज्ज्ञाने कार्यज्ञानं भवति । अतो ब्रह्मोपादानकारणं जगतः । नच ब्रह्मणोऽन्यन्निमित्तकारणं जगत इत्यपि युक्तम् । प्रतिज्ञादृष्टान्तोपरोधादेव । नहि तदानीं ब्रह्मणि ज्ञाते सर्वं विज्ञातं भवति । जगन्निमित्तकारणस्य ब्रह्मणोऽन्यस्य सर्वमध्यपातिनस्तज्ज्ञानेनाविज्ञानात् । यत इति च पञ्चमी न कारणमात्रे स्मर्यते अपि तु प्रकृतौ, “जनिकर्तुः प्रकृतिः”(पा. सू. १ । ४ । ३०) इति । ततोऽपि प्रकृतित्वमवगच्छामः । दुन्दुभिग्रहणं दुन्दुभ्याघातग्रहणं च तद्गतशब्दत्वसामान्योपलक्षणार्थम् ॥ २३ ॥ अनागतेच्छासङ्कल्पोऽभिध्या । एतया खलु स्वातन्त्र्यलक्षणेन कर्तृत्वेन निमित्तत्वं दर्शितम् । “बहु स्याम्”(छा. उ. ६ । २ । ३) इति च स्वविषयतयोपादानत्वमुक्तम् ॥ २४ ॥
आकाशादेव ।
ब्रह्मण एवेत्यर्थः ।
साक्षादिति चेति सूत्रावयवमनूद्य तस्यार्थं व्याचष्टे -
आकाशादेवेति ।
श्रुतिर्ब्रह्मणो जगदुपादानत्वमवधारयन्ती उपादानान्तराभावं साक्षादेव दर्शयतीति
साक्षादिति
सूत्रावयवेन दर्शितमिति योजना ॥ २५ ॥
आत्मकृतेः परिणामात् ।
प्रकृतिग्रहणमुपलक्षणं, निमित्तमित्यपि द्रष्टव्यं, कर्मत्वेनोपादानत्वात्कर्तृत्वेन च तत्प्रति निमित्तत्वात् ।
कथं पुनरिति ।
सिद्धसाध्ययोरेकत्रासमवायो विरोधादिति ।
परिणामादिति ब्रूम इति ।
पूर्वसिद्धस्याप्यनिर्वचनीयविकारात्मना परिणामोऽनिर्वचनीयत्वाद्भेदेनाभिन्न इवेति सिद्धस्यापि साध्यत्वमित्यर्थः ।
एकवाक्यत्वेन व्याख्याया परिणामादित्यवच्छिद्य व्याचष्टे -
परिणामादिति वेति ।
सच्चत्यच्चेति द्वे ब्रह्मणो रूपे । सच्च सामान्यविशेषेणापरोक्षतया निर्वाच्यं, पृथिव्यप्तेजोलक्षणम् । त्यच्च परोक्षमत एवानिर्वाच्यमिदन्तया वाय्वाकाशलक्षणं, कथं च तद्ब्रह्मणो रूपं यदि तस्य ब्रह्मोपादानं, तस्मात्परिणामाद्ब्रह्म भूतानां प्रकृतिरिति ॥ २६ ॥
पूर्वपक्षिणोऽनुमानमनुभाष्यागमविरोधेन दूषयति -
यत्पुनरिति ।
एतदुक्तं भवति - ईश्वरो जगतो निमित्तकारणमेव ईक्षापूर्वकजगत्कर्तृत्वात् , कुम्भकर्तुकुलालवत् । अत्रेश्वरस्यासिद्धेराश्रयासिद्धो हेतुः पक्षश्चाप्रसिद्धविशेषः । यथाहुः - “नानुपलब्धे न्यायः प्रवर्तते” इति । आगमात्तत्सिद्धिरिति चेत् , हन्त तर्हि यादृशमीश्वरमागमो गमयति तादृशोऽभ्युपगन्तव्यः स च निमित्तकारणं चोपादानकारणं चेश्वरमवगमयति । विशेष्याश्रयग्राह्यागमविरोधान्नानुमानमुदेतुमर्हतीति कुतस्तेन निमित्तत्वावधारणेत्यर्थः । इयं चोपादानपरिणामादिभाषा न विकाराभिप्रायेणापि तु तथा सर्पस्योपादानं रज्जुरेवं ब्रह्म जगदुपादानं द्रष्टव्यम् । न खलु नित्यस्य निष्कलस्य ब्रह्मणः सर्वात्मनैकदेशेन वा परिणामः सम्भवति, नित्यत्वादनेकदेशत्वादित्युक्तम् । नच मृदः शरावादयो भिद्यन्ते, न चाभिन्नाः, न वा भिन्नाभिन्नाः किन्त्वनिर्वचनीया एव । यथाह श्रुतिः - “मृत्तिकेत्येव सत्यम्”(छा. उ. ६ । १ । ४) इति । तस्मादद्वैतोपक्रमादुपसंहाराच्च सर्व एव वेदान्ता ऐकान्तिकाद्वैतपराः सन्तः साक्षादेव क्वचिदद्वैतमाहुः, क्वचिद्द्वैतनिषेधेन, क्वचिद्ब्रह्मोपादानत्वेन जगतः । एतावतापि तावद्भेदो निषिद्धो भवति, न तूपादानत्वाभिधानमात्रेण विकारग्रह आस्थेयः । नहि वाक्यैकदेशस्यार्थोऽस्तीति ॥ २७ ॥
स्यादेतत् । मा भूत्प्रधानं जगदुपादानं तथापि न ब्रह्मोपादानत्वं सिध्यति, परमाण्वादीनामपि तदुपादानानामुपप्लवमानत्वात् , तेषामपि हि किञ्चिदुपोद्बलकमस्ति वैदिकं लिङ्गमित्याशङ्कामपनेतुमाह सूत्रकारः -
एतेन सर्वे व्याख्याता व्याख्याताः ।
निगदव्याख्यातेन भाष्येण व्याख्यातं सूत्रम् । “प्रतिज्ञालक्षणं लक्ष्यमाणे पदसमन्वयः वैदिकः स च तत्रैव नान्यत्रेत्यत्र साधितम्” ॥ २८ ॥
इति श्रीमद्वाचस्पतिमिश्रविरचिते श्रीमच्छारीरकभाष्यविभागे भामत्यां प्रथमाध्यायस्य चतुर्थः पादः ॥ ४ ॥
॥ इति प्रथमाध्यायेऽव्यक्तादिसन्दिग्धपदमात्रसमन्वयाख्यश्चतुर्थः पादः ॥
॥ इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये समन्वयाख्यः प्रथमोऽध्यायः ॥