अद्वैतशारदा

भामतीव्याख्या

१ परिच्छेदः

व्याख्याः

ननु मनोऽपि चलतया सकलदेहवृत्ति पर्यायेणेत्यत आह -
मनश्च प्रायेणेति ।
आका­श­श­ब्द­श्चा­रू­प­त्वा­दिना सामान्येन जीवे भाक्तः ।

अस्तु वा भूताकाश एवायमाकाशशब्दो “दह­रोऽ­स्मि­न्न­न्त­रा­काशः”(छा. उ. ८ । १ । १) इति, तथाप्यदोष इत्याह -
न चात्र दह­र­स्या­का­श­स्या­न्वे­ष्य­त्व­मिति ।
एवं प्राप्त उच्यते - भूताकाशस्य तावन्न दहरत्वं, “यावा­न्वा­य­मा­का­श­स्ता­वा­ने­षोऽ­न्त­र्हृ­दय आकाशः”(छा. उ. ८ । १ । ३) इत्यु­प­मा­न­वि­रो­धात् । तथाहि - “तेन तस्योपमेयत्वं रामरावणयुद्धवत् । अगत्या भेदमारोप्य गतौ सत्यां न युज्यते” ॥ अस्ति तु दहराकाशस्य ब्रह्मत्वेन भूता­का­शा­द्भे­दे­नो­प­मा­नस्य गतिः । न चान­व­च्छि­न्न­प­रि­मा­ण­म­व­च्छिन्नं भवति । तथा सत्य­व­च्छे­दा­नु­प­पत्तेः । न भूताकाशमानत्वं ब्रह्मणोऽत्र विधीयते, येन “ज्याया­ना­का­शात्”(श. ब्रा. १० । ६ । ३ । २) इति श्रुतिविरोधः स्यात् , अपि तु भूताकाशोपमानेन पुण्ड­री­को­पा­धि­प्राप्तं दहरत्वं निवर्त्यते ।

अपिच सर्व एवोत्तरे हेतवो दहराकाशस्य भूताकाशत्वं व्यासे­ध­न्ती­त्याह -
न च कल्पितभेद इति ।

नापि दहराकाशो जीव इत्याह -
यद्यप्यात्मशब्द इति ।
'उप­ल­ब्धे­र­धि­ष्ठानं ब्रह्मणो देह इष्यते । तेनासाधारणत्वेन देहो ब्रह्मपुरं भवेत्” ॥ देहे हि ब्रह्मोपलभ्यत इत्यसाधारणतया देहो ब्रह्मपुरमिति व्यपदिश्यते, न तु ब्रह्मविकारतया । तथाच ब्रह्मशब्दार्थो मुख्यो भवति । अस्तु वा ब्रह्मपुरं जीवपुरं, तथापि यथा वत्सराजस्य पुरे उज्जयिन्यां मैत्रस्य सद्म भवति, एवं जीवस्य पुरे हृत्पुण्डरीकं ब्रह्मसदनं भविष्यति, उत्तरेभ्यो ब्रह्म­लि­ङ्गेभ्यो ब्रह्म­णोऽ­व­धा­र­णात् । ब्रह्मणो हि बाधके प्रमाणे बलीयसि जीवस्य च साधके प्रमाणे सति ब्रह्मलिङ्गानि कथ­ञ्चि­द­भे­द­वि­व­क्षया जीवे व्याख्यायन्ते । न चेह ब्रह्मणो बाधकं प्रमाणं, साधकं वास्ति जीवस्य । ब्रह्म­पु­र­व्य­प­दे­श­श्चो­प­पा­दितो ब्रह्मो­प­ल­ब्धि­स्था­न­तया । अर्भकौकस्त्वं चोक्तम् । तस्मात्सति सम्भवे ब्रह्मणि, तल्लिङ्गानां नाब्रह्मणि व्याख्या­न­मु­चि­त­मिति ब्रह्मैव दहराकाशो न जीवभूताकाशाविति । श्रव­ण­म­न­न­म­नु­विद्य ब्रह्मानुभूय चरणं चारस्तेषां कामेषु चरणं भवतीत्यर्थः ।

स्यादेतत् । दह­रा­का­श­स्या­न्वे­ष्यत्वे सिद्धे तत्र विचारो युज्यते, नतु तदन्वेष्टव्यम् , अपितु तदाधारमन्यदेव किञ्चि­दि­त्यु­क्त­मि­त्य­नु­भा­षते -
यदप्येतदिति ।

अनुभाषितं दूषयति -
अत्र ब्रूम इति ।
यद्या­का­शा­धा­र­म­न्य­द­न्वे­ष्टव्यं भवेत्तदेवोपरि व्युत्पादनीयं, आकाशव्युत्पादनं तु क्वोपयुज्यत इत्यर्थः ।

चोदयति -
नन्वेतदपीति ।
आकाशकथनमपि तद­न्त­र्व­र्ति­व­स्तु­स­द्भा­व­प्र­द­र्श­ना­यैव ।

अथाकाशपरमेव कस्मान्न भवतीत्यत आह -
तं चेद्ब्रूयुरिति ।
आचार्येण हि “दह­रोऽ­स्मि­न्न­न्त­रा­का­श­स्त­स्मि­न्य­द­न्त­स्त­द­न्वे­ष्टव्यं तद्वाव विजि­ज्ञा­सि­त­व्यम्”(छा. उ. ८ । १ । १) इत्यु­प­दि­ष्टेऽ­न्ते­वा­सि­ना­क्षि­प्तम् - “किं तदत्र विद्यते यदन्वेष्टव्यम्”(छा. उ. ८ । १ । २) । पुण्डरीकमेव ताव­त्सू­क्ष्म­तरं, तदवरुद्धमाकाशं सूक्ष्मतमम् । तस्मि­न्सू­क्ष्म­तमे किमपरमस्ति । नास्त्ये­वे­त्यर्थः । तत्कि­म­न्वे­ष्ट­व्य­मिति । तद­स्मि­न्ना­क्षेपे परिसमाप्ते समाधानावसर आचा­र्य­स्या­का­शो­प­मा­नो­प­क्रमं वचः - “उभे अस्मि­न्द्या­वा­पृ­थिवी समाहिते”(छा. उ. ८ । १ । ३) इति । तस्मा­त्पु­ण्ड­री­का­व­रु­द्धा­का­शा­श्रये द्यावा­पृ­थि­व्या­वे­वा­न्वे­ष्टव्ये उपदिष्टे, नाकाश इत्यर्थः ।

परिहरति -
नैतदेवम् ।

एवं हीति ।
स्यादेतत् । एवमेवैतत् ।

नो खल्वभ्युपगमा एव दोषत्वेन चोद्यन्त इत्यत आह -
तत्र वाक्यशेष इति ।
वाक्यशेषो हि दह­रा­का­शा­त्म­वे­द­नस्य फलवत्त्वं ब्रूते, यच्च फल­व­त्त­त्क­र्त­व्य­तया चोद्यते, यच्च कर्तव्यं तदिच्छतीति “तदन्वेष्टव्यं तद्वाव विजि­ज्ञा­सि­त­व्यम्”(छा. उ. ८ । १ । १) इति तद्द­ह­रा­का­श­वि­ष­य­म­व­ति­ष्ठते ।

स्यादेतत् । द्यावा­पृ­थि­व्या­वे­वा­त्मानौ भविष्यतः, ताभ्यामेवात्मा लक्षयिष्यते, आकाशशब्दवत् । ततश्चाकाशाधारौ तावेव परामृश्यते इत्यत आह -
अस्मिन्कामाः समाहिताः
प्रतिष्ठिताः ।

एष आत्मा­प­ह­त­पा­प्मेति ।

अनेन
प्रकृतं द्यावा­पृ­थि­व्या­दि­स­मा­धा­ना­धा­र­मा­का­श­मा­कृष्य ।
द्यावा­पृ­थि­व्य­भि­धा­न­व्य­व­हि­त­म­पीति शेषः ।

ननु सत्य­का­म­ज्ञा­न­स्यै­त­त्फलं, तदनन्तरं निर्देशात् , न तु दह­रा­का­श­वे­द­न­स्ये­त्यत आह -
समुच्चयार्थेन चशब्देनेति ।
'अस्मि­न्कामाः” इति च ‘एषः’ इति चैकवचनान्तं न द्वे द्यावापृथिव्यौ परा­म्र­ष्टु­म­र्ह­तीति दहराकाश एव पराम्रष्टव्य इति समुदायार्थः । तदनेन क्रमेण ‘तस्मिन्यदन्तः’ इत्यत्र तच्छ­ब्दोऽ­न­न्त­र­म­प्या­का­श­म­ति­लङ्घ्य हृत्पुण्डरीकं परा­मृ­श­ती­त्युक्तं भवति । तस्मिन् हृत्पुण्डरीके यदन्तराकाशं तद­न्वे­ष्ट­व्य­मि­त्यर्थः ॥ १४ ॥

गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ।
उत्तरेभ्य इत्यस्य प्रपञ्चः एतमेव दहराकाशं प्रक्रम्य बताहो कष्टमिदं वर्तते जन्तूनां तत्त्वा­व­बो­ध­वि­क­लानां, यदेभिः स्वाधीनमपि ब्रह्म न प्राप्यते । तद्यथा चिर­न्त­न­नि­रू­ढ­नि­बि­ड­म­ल­पि­हि­तानां कलधौतशकलानां पथि पति­ता­ना­मु­प­र्यु­परि सञ्चरद्भिरपि पान्थै­र्ध­ना­य­द्भि­र्ग्रा­व­ख­ण्ड­नि­व­ह­वि­भ्र­मे­णै­तानि नोपादियन्त इत्यभिसन्धिमती साद्भुतमिव सखेदमिव श्रुतः प्रवर्तते - “इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति”(छा. उ. ८ । ३ । २) इति । स्वापकाले हि सर्व एवायं विद्वा­न­वि­द्वांश्च जीवलोको हृत्पु­ण्ड­री­का­श्रयं दहराकाशाख्यं ब्रह्मलोकं प्राप्तोऽ­प्य­ना­द्य­वि­द्या­तमः पट­ल­पि­हि­त­दृ­ष्टि­तया ब्रह्म­भू­य­मा­प­न्नोऽ­ह­म­स्मीति न वेद । सोऽयं ब्रह्म­लो­क­श­ब्द­स्त­द्ग­तिश्च प्रत्यहं जीवलोकस्य दहराकाशस्यैव ब्रह्म­रू­प­लो­क­ता­मा­हतुः ।

तदेतदाह भाष्यकारः -
इतश्च परमेश्वर एव दहरो यस्मा­द्द­ह­र­वा­क्य­शेष इति ।
तदनेन गतिशब्दौ व्याख्यातौ ।

'तथाहि दृष्टम्” इति सूत्रावयवं व्याचष्टे -
तथा­ह्य­ह­र­ह­र्जी­वा­ना­मिति ।
वेदे च लोके च दृष्टम् । यद्यपि सुषुप्तस्य ब्रह्मभावे लौकिकं न प्रमा­णा­न्त­र­मस्ति, तथापि वैदिकीमेव प्रसिद्धिं स्थाप­यि­तु­मु­च्यते, ईदृशी नामेयं वैदिकी प्रसि­द्धि­र्य­ल्लो­केऽपि गीयत इति । यथा श्रुत्यन्तरे यथा च लोके तथेह ब्रह्म­लो­क­श­ब्दोऽ­पीति योजना ।

'लिङ्गं च” इति सूत्रा­व­य­व­व्या­ख्यानं चोद्य­मु­खे­ना­व­ता­र­यति -
ननु कमलासनलोकमपीति ।

परिहरति -
गमयेद्यदि ब्रह्मणो लोक इति ।
अत्र ताव­न्नि­षा­द­स्थ­प­ति­न्या­येन षष्ठी­स­मा­सा­त्क­र्म­धा­रयो बलीयानिति स्थितमेव, तथापीह षष्ठी­स­मा­स­नि­रा­क­र­णेन कर्म­धा­र­य­स­मा­स­स्था­प­नाय लिङ्ग­म­प्य­धि­क­म­स्तीति तदप्युक्तं सूत्रकारेण । तथाहि - लोक­वे­द­प्र­सि­द्धा­ह­र­ह­र्ब्र­ह्म­लो­क­प्रा­प्त्य­भि­धा­न­मेव लिङ्गं कम­ला­स­न­लो­क­प्रा­प्ते­र्वि­प­क्षा­द­स­म्भ­वा­द्व्या­व­र्त­मानं षष्ठी­स­मा­सा­शङ्कां व्याव­र्त­य­द्द­ह­रा­का­श­प्रा­प्ता­वे­वा­व­ति­ष्ठते, नच दहराकाशो ब्रह्मणो लोकः किन्तु तद्ब्रह्मेति ब्रह्म च तल्लोकश्चेति कर्मधारयः सिद्धो भवति । लोक्यत इति लोकः । हृत्पु­ण्ड­री­कस्थः खल्वयं लोक्यते । यत्खलु पुण्ड­री­क­स्थ­म­न्तः­क­रणं तस्मिन्विशुद्धे प्रत्या­हृ­ते­त­र­क­र­णानां योगिनां निर्मल इवोदके चन्द्रमसो बिम्बमतिस्वच्छं चैतन्यं ज्योतिःस्वरूपं ब्रह्मावलोक्यत इति ॥ १५ ॥

धृतेश्च महि­म्नोऽ­स्या­स्मि­न्नु­प­लब्धेः ।
सौत्रो धृतिशब्दो भाववचनः । धृतेश्च परमेश्वर एव दहराकाशः । कुतः, अस्य धारणलक्षणस्य महि­म्नोऽ­स्मि­न्ने­वे­श्वर एव श्रुत्य­न्त­रे­षू­प­लब्धेः । निग­द­व्या­ख्या­न­मस्य भाष्यम् ॥ १६ ॥

प्रसिद्धेश्च ।
न चेयमाकाशशब्दस्य ब्रह्मणि लक्ष्य­मा­ण­वि­भु­त्वा­दि­गु­ण­यो­गा­द्वृत्तिः साम्प्रतिकी, यथा रथाङ्गनामा चक्रवाक इति लक्षणा, किन्त्व­त्य­न्त­नि­रू­ढेति सूत्रार्थः । ये त्वाकाशशब्दो ब्रह्मण्यपि मुख्य एव नभो­व­दि­त्या­च­क्षते, तैः “अन्या­य­श्चा­ने­का­र्थ­त्वम्” इति च “अनन्यलभ्यः शब्दार्थः” इति च मीमांसकानां मुद्राभेदः कृतः । लभ्यते ह्याका­श­श­ब्दा­द्वि­भु­त्वा­दि­गु­ण­यो­गे­नापि ब्रह्म । नच ब्रह्मण्येव मुख्यो नभसि तु तेनैव गुणयोगेन वर्त्स्यतीति वाच्यम् । लोका­धी­ना­व­धा­र­ण­त्वेन शब्दा­र्थ­स­म्ब­न्धस्य वैदि­क­प­दा­र्थ­प्र­त्य­यस्य तत्पूर्वकत्वात् । ननु “यावान्वा अय­मा­का­श­स्ता­वा­ने­षोऽ­न्त­र्हृ­दय आकाशः”(छा. उ. ८ । १ । ३) इति व्यति­रे­क­नि­र्दे­शान्न लक्षणा युक्ता । नहि भवति गङ्गायाः कूलमिति विवक्षिते गङ्गाया गङ्गेति प्रयोगः तत्किमिदानीं “पौर्णमास्यां पौर्णमास्या यजेत” “अमा­वा­स्या­या­म­मा­वा­स्यया” इत्य­सा­धु­र्वै­दिकः प्रयोगः । नच पौर्ण­मा­स्य­मा­वा­स्य­श­ब्दा­व­ग्ने­या­दिषु मुख्यौ । यच्चोक्तं यत्र शब्दा­र्थ­प्र­ती­ति­स्तत्र लक्षणा, यत्र पुनरन्यार्थे निश्चिते शब्द­प्र­यो­ग­स्तत्र वाचकत्वमेवेति, तदयुक्तम् । उभयस्यापि व्यभिचारात् । “सोमेन यजेत” इति शब्दादर्थः प्रतीयते । न चात्र कस्य­चि­ल्ला­क्ष­णि­क­त्व­मृते वाक्यार्थात् । न च “य एवं विद्वान् पौर्णमासीं यजते य एवं विद्वा­न­मा­वा­स्याम्” इत्यत्र पौर्ण­मा­स्य­मा­वा­स्या­शब्दौ न लाक्षणिकौ । तस्मा­द्य­त्कि­ञ्चि­दे­त­दिति ॥ १७ ॥

इतरपरामर्शात्स इति चेन्नासम्भवात् ।
सम्यक् प्रसीदत्यस्मिन् जीवो विष­ये­न्द्रि­य­सं­यो­ग­ज­नितं कालुष्यं जहातीति सुषुप्तिः सम्प्रसादो जीव­स्या­व­स्था­भेदः न ब्रह्मणः तथा शरी­रा­त्स­मु­त्था­न­मपि शरीराश्रयस्य जीवस्य, नत्वनाश्रयस्य ब्रह्मणः । तस्माद्यथा पूर्वो­क्तै­र्वा­क्य­शे­ष­ग­तै­र्लि­ङ्गै­र्ब्र­ह्मा­व­ग­म्यते दहराकाशः, एवं वाक्य­शे­ष­ग­ता­भ्या­मेव सम्प्र­सा­द­स­मु­त्था­नाभ्यां दहराकाशो जीवः कस्मा­न्ना­व­ग­म्यते । तस्मान्नास्ति विनिगमनेति शङ्कार्थः । “नासम्भवात्”(ब्र. सू. १ । ३ । १८) । सम्प्र­सा­द­स­मु­त्थ­नाभ्यां हि जीवपरामर्शो न जीवपरः, किन्तु तदी­य­ता­त्त्वि­क­रू­प­ब्र­ह्म­भा­व­परः । तथा चैष परामर्शो ब्रह्मण एवेति न सम्प्र­सा­द­स­मु­त्थाने जीवलिङ्गम् , अपि तु ब्रह्मण एव ताद­र्थ्या­दि­त्यग्रे वक्ष्यते । आका­शो­प­मा­ना­द­यस्तु ब्रह्मा­व्य­भि­चा­रि­णश्च ब्रह्म­प­रा­श्चे­त्यस्ति विनिगमनेत्यर्थः ॥ १८ ॥

उत्त­रा­च्चे­दा­वि­र्भू­त­स्व­रू­पस्तु ।
दहराकाशमेव प्रकृ­त्यो­पा­ख्या­यते - यमा­त्मा­न­म­न्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् , तमात्मानं विविदिषन्तौ सुरा­सु­र­रा­ज­वि­न्द्र­वि­रो­चनौ समित्पाणी प्रजापतिं वरि­व­सि­तु­मा­ज­ग्मतुः । आगत्य च द्वात्रिंशतं वर्षाणि तत्परिचरणपरौ ब्रह्म­च­र्य­मू­षतुः । अथैतौ प्रजापतिरुवाच, किङ्कामाविहस्थौ युवामिति । तावूचतुः, य आत्मापहतपाप्मा तमावां विविदिषाव इति । ततः प्रजापतिरुवाच, य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मा­प­ह­त­पा­प्म­त्वा­दि­गुणः, यद्वि­ज्ञा­ना­त्स­र्व­लो­क­का­मा­वाप्तिः । एतदमृतमभयम् । अथै­त­च्छु­त्वै­ता­व­प्र­क्षी­ण­क­ल्म­षा­व­र­ण­तया छायापुरुषं जगृहतुः । प्रजापतिं च पप्रच्छतुः, अथ योऽयं भगवोऽप्सु दृश्यते, यश्चादर्शे, यश्च स्वङ्गादौ कतम एतेष्वसौ अथवैक एव सर्वेष्विति । तमेतयोः श्रुत्वा प्रश्नं प्रजापतिर्बताहो सुदू­र­मु­द्भ्रा­न्ता­वेतौ, अस्मा­भि­र­क्षि­स्थान आत्मोपदिष्टः, एतौ च छायापुरुषं प्रतिपन्नौ, तद्यदि वयं भ्रान्तौ स्थ इति ब्रूमस्ततः स्वात्मनि समा­रो­पि­त­पा­ण्डि­त्य­ब­हु­मानौ विमानितौ सन्तौ दौर्मनस्येन यथावदुपदेशं न गृह्णीयाताम् , इत्य­न­यो­रा­श­य­म­नु­रुध्य यथार्थं ग्राहयिष्याम इत्य­भि­स­न्धि­मा­न्प्र­त्यु­वाच, उदशराव आत्मा­न­म­वे­क्षे­था­म­स्मि­न्य­त्प­श्य­थ­स्त­द्ब्रू­त­मिति । तौ च दृष्ट्वा सन्तुष्टहृदयौ नाब्रूताम् । अथ प्रजापतिरेतौ विपरीतग्राहिणौ मा भूता­मि­त्या­श­य­वा­न्प­प्रच्छ, किम­त्रा­प­श्य­ता­मिति । तौ होचतुः, यथै­वा­व­म­ति­चि­र­ब्र­ह्म­च­र्य­च­र­ण­स­मु­प­जा­ता­य­त­न­ख­लो­मा­दि­म­न्ता­वे­व­मा­वयोः प्रतिरूपकं नख­लो­मा­दि­म­दु­द­श­रा­वेऽ­प­श्या­वेति । पुन­रे­त­यो­श्छा­या­त्म­वि­भ्र­म­म­प­नि­नी­षु­र्य­थैव हि छायापुरुष उप­ज­ना­पा­य­ध­र्मा­भे­दे­ना­व­ग­म्य­मान आत्म­ल­क्ष­ण­वि­र­हा­न्ना­त्मै­वे­व­मे­वेदं शरीरं नात्मा, किन्तु ततो भिन्न­मि­त्य­न्व­य­व्य­ति­रे­का­भ्या­मेतौ जानी­या­ता­मि­त्या­श­य­वान् प्रजापतिरुवाच, साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वा पुनरुदशरावे पश्यतमात्मानं, यच्चात्र पश्य­थ­स्त­द्ब्रू­त­मिति । तौ च साध्वलङ्कृतौ सुवसनौ छिन्ननखलोमानौ भूत्वा तथैव चक्रतुः । पुनश्च प्रजा­प­ति­ना­पृष्टौ तामेव छाया­मा­त्मा­न­मू­चतुः । तदुपश्रुत्य प्रजापतिरहो बताद्यापि न प्रशान्त एनयोर्विभ्रमः, तद्य­था­भि­म­त­मे­वा­त्म­तत्त्वं कथयामि तावत् । कालेन कल्मषे क्षीणेऽ­स्म­द्व­च­न­स­न्द­र्भ­पौ­र्वा­प­र्य­लो­च­न­या­त्म­तत्त्वं प्रतिपत्स्येते स्वयमेवेति मत्वोवाच, एष आत्मै­त­द­मृ­त­म­भ­य­मे­त­द्ब्र­ह्मेति । तयोर्विरोचनो देहा­नु­पा­ति­त्वा­च्छा­याया देह एवा­त्म­त­त्त्व­मिति मत्वा निजसदनमागत्य तथै­वा­सु­रा­नु­प­दि­देश । देवे­न्द्र­स्त्व­प्रा­प्त­नि­ज­स­द­नोऽ­ध्व­न्येव किञ्चि­द्वि­र­ल­क­ल्म­ष­तया छायात्मनि शरी­र­गु­ण­दो­षा­नु­वि­धा­यिनि तं तं दोषं परि­भा­व­य­न्ना­ह­मत्र छायात्मदर्शने भोग्यं पश्यामीति प्रजापतिसमीपं समित्पाणिः पुनरेवेवायम् । आगतश्च प्रजा­प­ति­ना­ग­म­न­का­रणं पृष्टः पथि परिभावितं जगाद । प्रजापतिस्तु सुव्या­ख्या­त­म­प्या­त्म­त­त्त्व­म­क्षी­ण­क­ल्म­षा­व­र­ण­तया नाग्रहीः, तत्पुनरपि तत्प्रक्षयाया चरापराणि द्वात्रिंशतं वर्षाणि ब्रह्मचर्यं, अथ प्रक्षीणकल्मषाय ते अहमेतमेवात्मानं भूयोऽ­नु­व्या­ख्या­स्या­मी­त्य­वो­चत् । स च तथा चरितब्रह्मचर्यः सुरेन्द्रः प्रजापतिमुपससाद । उपपन्नाय चास्मै प्रजा­प­ति­र्व्या­चष्टे, य आत्मा­प­ह­त­पा­प्मा­दि­ल­क्ष­णोऽ­क्षण दर्शितः सोऽयं य एष स्वप्ने महीयमानो वनितादिभिरनेकधा स्वप्नोपभोगान् भुञ्जानो विरहतीति । अस्मिन्नपि देवेन्द्रो भयं ददर्श । यद्यप्ययं छायापुरुषवन्न शरी­र­ध­र्मा­न­नु­प­तति, तथापि शोक­भ­या­दि­वि­वि­ध­बा­धा­नु­भ­वान्न तत्राप्यस्ति स्वस्ति­प्रा­प्ति­रि­त्यु­क्त­वति मघवति पुनरपराणि चर द्वात्रिंशतं वर्षाणि स्वच्छं ब्रह्म­च­र्य­मि­दा­नी­म­प्य­क्षी­ण­क­ल्म­षोऽ­सी­त्यूचे प्रजापतिः । अथा­स्मि­न्ने­वं­का­र­मु­प­सन्ने मघवति प्रजापतिरुवाच, य एष आत्मा­प­ह­त­पा­प्मा­दि­गुणो दर्शितोऽक्षिणि च स्वप्ने च स एष यो विष­ये­न्द्रि­य­सं­यो­ग­वि­र­हा­त्प्र­सन्नः सुषु­प्ता­व­स्था­या­मिति । अत्रापि नेन्द्रो निर्ववार । यथा हि जाग्रद्वा स्वप्नगतो वायमहमस्मीति इमानि भूतानि चेति विजानाति नैवं सुषुप्तः किञ्चिदपि वेदयते, तदा खल्व­य­म­चे­त­य­मा­नोऽ­भावं प्राप्त इव भवति । तदिह का निर्वृत्तिरिति । एवमुक्तवति मघवति बताद्यापि न ते कल्मषक्षयोऽभूत् । तत्पुनरपराणि चर पञ्च वर्षाणि ब्रह्म­च­र्य­मि­त्य­वो­च­त्प्र­जा­पतिः । तदेवमस्य मघोनस्त्रिभिः पर्या­यै­र्व्य­तीयुः षण्णवतिवर्षाणि । चतुर्थे च पर्याये पञ्च वर्षा­णी­त्ये­को­त्तरं शतं वर्षाणि ब्रह्मचर्यं चरतः सहस्राक्षस्य सम्पेदिरे । अथास्मै ब्रह्म­च­र्य­स­म्प­दु­न्मृ­दि­त­क­ल्म­षाय मघवते य एषोऽक्षिणि यश्च स्वप्ने यश्च सुषुप्ते अनुस्यूत एष आत्मा­प­ह­त­पा­प्मा­दि­गु­णको दर्शितः, तमेव “मघवन्मर्त्यं वै शरीरम्”(छा. उ. ८ । १२ । १) इत्यादिना विस्पष्टं व्याचष्टे प्रजापतिः । अयमस्याभिसन्धिः - याव­त्कि­ञ्चि­त्सुखं दुःखमागमापायि तत्सर्वं शरी­रे­न्द्रि­या­न्तः­क­र­ण­स­म्बन्धि, न त्वात्मनः । स पुनरेतानेव शरी­रा­दी­न­ना­द्य­वि­द्या­वा­स­ना­व­शा­दा­त्म­त्वे­ना­भि­प्र­ती­त­स्त­द्ग­तेन सुखदुःखेन तद्व­न्त­मा­त्मा­न­म­भि­म­न्य­मा­नोऽ­नु­त­प्यते । यदा त्वय­म­प­ह­त­पा­प्म­त्वा­दि­ल­क्ष­ण­मु­दा­सी­न­मा­त्मानं देहादिभ्यो विविक्तमनुभवति, अथास्य शरी­र­व­तोऽ­प्य­श­री­रस्य न देहा­दि­ध­र्म­सु­ख­दुः­ख­प्र­स­ङ्गोऽ­स्तीति नानुतप्यते, केवलमयं निजे चैतन्यानन्दघने रूपे व्यवस्थितः समस्तलोककामान् प्राप्तो भवति । एतस्यैव हि परमानन्दस्य मात्राः सर्वे कामाः । दुःखं त्ववि­द्या­नि­र्मा­ण­मिति न विद्वानाप्नोति । “अशीलितोपनिषदां व्यामोह इह जायते । तेषा­म­नु­ग्र­हा­ये­द­मु­पा­ख्या­न­म­व­र्त­यम्” ॥ एवं व्यवस्थित उत्त­रा­द्वा­क्य­स­न्द­र्भा­त्प्रा­जा­प­त्यात् अक्षिणि च स्वप्ने सुषुप्ते च चतुर्थे च पर्याये “एष सम्प्र­सा­दोऽ­स्मा­च्छ­री­रा­त्स­मु­त्थाय”(छा. उ. ८ । ३ । ४) इति जीवा­त्मै­वा­प­ह­त­पा­प्मा­दि­गुणः श्रुत्योच्यते । नो खलु पर­स्या­क्षि­स्थानं सम्भवति । नापि स्वप्ना­द्य­व­स्था­योगः । नापि शरी­रा­त्स­मु­त्था­नम् । तस्मा­द्य­स्यै­त­त्सर्वं सोऽप­ह­त­पा­प्मा­दि­गुणः श्रुत्योक्तः । जीवस्य चैतत्सर्वमिति स एवा­प­ह­त­पा­प्मा­दि­गुणः श्रुत्योक्त इति नाप­ह­त­पा­प्मा­दिभिः परं ब्रह्म गम्यते । ननु जीव­स्या­प­ह­त­पा­प्म­त्वा­दयो न सम्भ­व­न्ती­त्यु­क्तम् । वचनाद्भविष्यति । किमिव वचनं न कुर्यात् । नास्ति वचनस्यातिभारः । नच मानान्तरविरोधः । नहि जीवः पाप्मा­दि­स्व­भावः, किन्तु वाग्बु­द्धि­श­री­रा­र­म्भ­स­म्भ­वोऽस्य पाप्मादिः शरीराद्यभावे न भवति धूम इव धूमध्वजाभाव इति शङ्कार्थः ।

निराकरोति -
तं प्रति ब्रूयात् आवि­र्भू­त­स्व­रू­पस्तु ।
अयमभिसन्धिः - पौर्वा­प­र्या­लो­च­नया तावदुपनिषदां शुद्ध­बु­द्ध­मु­क्त­मे­क­म­प्र­पञ्चं ब्रह्म तदतिरिक्तं च सर्वं तद्विवर्तो रज्जोरिव भुजङ्ग इत्यत्र तात्प­र्य­म­व­ग­म्यते । तथाच जीवोऽ­प्य­वि­द्या­क­ल्पि­त­दे­हे­न्द्रि­या­द्यु­प­हितं रूपं ब्रह्मणो न तु स्वाभाविकः । एवं च नाप­ह­त­पा­प्म­त्वा­द­य­स्त­स्मि­न्न­वि­द्यो­पाधौ सम्भविनः । आवि­र्भू­त­ब्र­ह्म­रूपे तु निरुपाधौ सम्भवन्तो ब्रह्मण एव न जीवस्य । एवं च ब्रह्मै­वा­प­ह­त­पा­प्मा­दि­गुणं श्रुत्युक्तमिति तदेव दहराकाशो न जीव इति ।

स्यादेतत् । स्वरूपाविर्भावे चेद्ब्रह्मैव न जीवः, तर्हि विप्र­ति­षि­द्ध­मि­द­म­भि­धी­यते जीव आविर्भूतस्वरूप इति, अत आह -
भूतपूर्वगत्येति ।

उद­श­रा­व­ब्रा­ह्म­णे­नेति ।
यथैव हि मघोनः प्रति­बि­म्बा­न्यु­द­श­राव उप­ज­ना­पा­य­ध­र्म­का­ण्या­त्म­ल­क्ष­ण­वि­र­हा­न्नात्मा, एवं देहे­न्द्रि­या­द्य­प्यु­प­ज­ना­पा­य­ध­र्मकं नात्मे­त्यु­द­श­रा­व­दृ­ष्टा­न्तेन शरीरात्मताया व्युत्थानं बाध इति ।

चोदयति -
कथं पुनः स्वं च रूपमिति ।
द्रव्या­न्त­र­सं­सृष्टं हि तेनाभिभूतं तस्मा­द्वि­वि­च्य­मानं व्यज्यते हेमतारकादि । कूटस्थनित्यस्य पुन­र­न्ये­ना­सं­सृ­ष्टस्य कुतो विवे­च­ना­द­भि­व्यक्तिः । नच संसारावस्थायां जीवोऽनभिव्यक्तः । दृष्ट्यादयो ह्यस्य स्वरूपं, ते च संसारावस्थायां भासन्त इति कथं जीवरूपं न भासत इत्यर्थः ।

परिहरति -
प्राग्वि­वे­क­ज्ञा­नो­त्प­त्ते­रिति ।
अयमर्थः - यद्यप्यस्य कूट­स्थ­नि­त्य­स्या­न्य­सं­सर्गो न वस्तुतोऽस्ति, यद्यपि च संसा­रा­व­स्था­या­मस्य दृष्ट्यादिरूपं चकास्ति, तथा­प्य­नि­र्वा­च्या­ना­द्य­वि­द्या­व­शा­द­वि­द्या­क­ल्पि­तै­रेव देहे­न्द्रि­या­दि­भि­र­सं­सृ­ष्ट­मपि संसृष्टमिव विवि­क्त­म­प्य­वि­वि­क्त­मिव दृष्ट्या­दि­रू­प­मस्य प्रथते । तथाच देहे­न्द्रि­या­दि­ग­तै­स्ता­पा­दि­भि­स्ता­पा­दि­म­दिव भवतीति । उपपादितं चैत­द्वि­स्त­रे­णा­ध्या­स­भाष्य इति नेहोपपाद्यते । यद्यपि स्फटिकादयो जपा­कु­सु­मा­दि­सं­नि­हिताः, संनिधानं च संयु­क्त­सं­यो­गा­त्मकं, तथा च संयुक्ताः, तथापि न साक्षा­ज्ज­पा­दि­कु­सु­म­सं­यो­गिन इत्येतावता दृष्टान्तिता इति । वेदना हर्षभयशोकादयः ।

दार्ष्टान्तिके योजयति -
तथा देहादीति ।

'सम्प्र­सा­दोऽ­स्मा­च्छ­री­रा­त्स­मु­त्थाय परं ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यते” इत्येतद्विभजते -
श्रुतिकृतं विवे­क­वि­ज्ञा­न­मिति ।
तदनेन श्रव­ण­म­न­न­ध्या­ना­भ्या­सा­द्वि­वे­क­वि­ज्ञा­न­मुक्त्वा तस्य विवेकविज्ञानस्य फलं केव­ला­त्म­रू­प­सा­क्षा­त्कारः स्वरू­पे­णा­भि­नि­ष्पत्तिः, स च साक्षात्कारो वृत्तिरूपः प्रपञ्चमात्रं प्रविलापयन् स्वयमपि प्रप­ञ्च­रू­प­त्वा­त्क­त­क­फ­ल­व­त्प्र­वि­ली­यते । तथाच निर्मृ­ष्ट­नि­खि­ल­प्र­प­ञ्च­जा­ल­म­नु­प­स­र्ग­म­प­रा­धी­न­प्र­का­श­मा­त्म­ज्योतिः सिद्धं भवति । तदिदमुक्तम् - परं ज्योति­रु­प­स­म्प­द्येति । अत्र चोप­स­म्प­त्ता­वु­त्त­र­का­ला­या­मपि क्त्वाप्रयोगो मुखं व्यादाय स्वपि­ती­ती­व­न्म­न्तव्यः ।

यदा च विवे­क­सा­क्षा­त्कारः शरी­रा­त्स­मु­त्थानं, न तु शरीरापादानकं गमनम् , तदा तत्सशरीरस्यापि सम्भवति प्रार­ब्ध­का­र्य­क­र्म­क्ष­यस्य पुरस्तादित्याह -
तथा विवे­का­वि­वे­क­मा­त्रे­णेति ।

न केवलं “स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति”(मु. उ. ३ । २ । ९) इत्या­दि­श्रु­तिभ्यो जीवस्य परमात्मनोऽभेदः, प्राजा­प­त्य­वा­क्य­स­न्द­र्भ­प­र्या­लो­च­न­या­प्ये­व­मेव प्रति­प­त्त­व्य­मि­त्याह -
कुतश्चैतदेवं प्रति­प­त्त­व्य­मिति ।

स्यादेतत् । प्रति­च्छा­या­त्म­व­ज्जीवं परमात्मनो वस्तुतो भिन्न­म­प्य­मृ­ता­भ­या­त्म­त्वेन ग्राहयित्वा पश्चा­त्प­र­मा­त्मा­न­मृ­ता­भ­या­दि­मन्तं प्रजा­प­ति­र्ग्रा­ह्यति, न त्वयं जीवस्य पर­मा­त्म­भा­व­मा­चष्टे छायात्मन इवेत्यत आह -
नापि प्रति­च्छा­या­त्मा­य­म­क्षि­ल­क्षित इति ।
अक्षि­ल­क्षि­तोऽ­प्या­त्मै­वो­प­दि­श्यते न छायात्मा । तस्मादसिद्धो दृष्टान्त इत्यर्थः ।

किञ्च द्वितीयादिष्वपि पर्यायेषु “एतं त्वेव ते भूयोऽ­नु­व्या­ख्या­स्यामि”(छा. उ. ८ । ९ । ३) इत्यु­प­क्र­मा­त्प्र­थ­म­प­र्या­य­नि­र्दिष्टो न छायापुरुषः, अपि तु ततोऽन्यो दृष्टात्मेति दर्शयति, अन्यथा प्रजापतेः प्रता­र­क­त्व­प्र­स­ङ्गा­दि­त्यत आह -
तथा द्वितीयेऽपीति ।

अथ छायापुरुष एव जीवः कस्मान्न भवति । तथाच छायापुरुष एवैतमिति परामृश्यत इत्यत आह -
किञ्चाहमद्य स्वप्ने हस्तिनमिति ।
किञ्चेति समुच्चयाभिधानं पूर्वो­प­प­त्ति­सा­हित्यं ब्रूते, तच्च शङ्का­नि­रा­क­र­ण­द्वा­रेण । छाया­पु­रु­षोऽ­स्थायी, स्थायी चायमात्मा चकास्ति, प्रत्य­भि­ज्ञा­ना­दि­त्यर्थः ।

न हि खल्वयमेवमिति ।
अयं सुषुप्तः । सम्प्रति सुषु­प्ता­व­स्था­याम् । अह­मा­त्मा­न­म­ह­ङ्का­रा­स्प­द­मा­त्मा­नम् । न जानाति ।

केन प्रकारेण न जानातीत्यत आह -
अयमहमस्मीमानि भूतानि चेति ।
यथा जागृतौ स्वप्ने चेति । “न हि विज्ञा­तु­र्वि­ज्ञा­ते­र्वि­प­रि­लोपो विद्य­तेऽ­वि­ना­शि­त्वात्”(बृ. उ. ४ । ३ । ३०) इत्य­ने­ना­वि­ना­शित्वं सिद्ध­व­द्धे­तु­कु­र्वता सुप्तो­त्थि­त­स्या­त्म­प्र­त्य­भि­ज्ञा­न­मु­क्तम् , य एवाहं जागरित्वा सुप्तः स एवैतर्हि जागर्मीति ।

आचा­र्य­दे­शी­य­म­त­माह -
केचित्त्विति ।
यदि ह्येत­मि­त्य­ने­ना­न­न्त­रोक्तं चक्षुरधिष्ठानं पुरुषं परामृश्य तस्या­त्म­त्व­मु­च्येत ततो न भवेच्छायापुरुषः । न त्वेतदस्ति । वाक्यो­प­क्र­म­सू­चि­तस्य परमात्मनः परामर्शात् । न खलु जीवा­त्म­नोऽ­प­ह­त­पा­प्म­त्वा­दि­गु­ण­स­म्भव इत्यर्थः ।

तदेतद्दूषयति -
तेषामेतमिति ।
सुबोधम् ।

मतान्तरमाह -
अपरे तु वादिन इति ।
यदि न जीवः कर्ता भोक्ता च वस्तुतो भवेत् , ततस्तदाश्रयाः कर्मविधय उपरुध्येरन् । सूत्रकारवचनं च “नासम्भवात्”(ब्र. सू. १ । ३ । १८) इति कुप्येत । तत्खलु ब्रह्मणो गुणानां जीवेऽसम्भवमाह । न चाभेदे ब्रह्मणो जीवानां ब्रह्म­गु­णा­ना­म­स­म्भवो जीवेष्विति तेषामभिप्रायः । तेषां वादिनां शारी­र­के­णै­वो­त्तरं दत्तम् । तथाहि - पौर्वा­प­र्य­प­र्या­लो­च­नया वेदा­न्ता­ना­मे­क­म­द्व­य­मा­त्म­तत्त्वं, जीवा­स्त्व­वि­द्यो­प­धा­न­क­ल्पिता इत्यत्र तात्प­र्य­म­व­ग­म्यते । नच वस्तुसतो ब्रह्मणो गुणाः समारोपितेषु जीवेषु सम्भवन्ति । नो खलु वस्तुसत्या रज्ज्वा धर्माः सेव्यत्वादयः समारोपिते भुजङ्गे सम्भविनः । नच समारोपितो भुजङ्गो रज्ज्वा भिन्नः । तस्मान्न सूत्रव्याकोपः । अविद्याकल्पितं च कर्तृ­त्व­भो­क्तृत्वं यथा­लो­क­सि­द्ध­मु­पा­श्रित्य कर्मविधयः प्रवृत्ताः, श्येनादिविधय इव निषिद्धेऽपि “न हिंस्यात्सर्वा भूतानि” इति साध्यां­शेऽ­भि­चा­रेऽ­ति­क्रा­न्त­नि­षेधं पुरु­ष­मा­श्रि­त्या­वि­द्या­व­त्पु­रु­षा­श्र­य­त्वा­च्छा­स्त्र­स्ये­त्यु­क्तम् ।

तदिदमाह -
तेषां सर्वेषामिति ॥ १९ ॥

ननु ब्रह्मचेदत्र वक्तव्यं कृतं जीव­प­रा­म­र्शे­ने­त्यु­क्त­मि­त्यत आह -
अन्यार्थश्च परामर्शः ।
जीव­स्यो­पा­धि­क­ल्पि­तस्य ब्रह्मभाव उपदेष्टव्यः, न चासौ जीवमपरामृश्य शक्य उपदेष्टुमिति तिसृष्ववस्थासु जीवः परामृष्टः । तद्भावप्रविलयनं तस्य पारमार्थिकं ब्रह्मभावं दर्श­यि­तु­मि­त्यर्थः ॥ २० ॥

अल्पश्रुतेरिति चेत्तदुक्तम् ।
निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥ २१ ॥

अनुकृतेस्तस्य च ।
'अभानं तेजसो दृष्टं सति तेजोऽन्तरे यतः । तेजोधात्वन्तरं तस्मादनुकाराच्च गम्यते” ॥ बलीयसा हि सौरेण तेजसा मन्दं तेज­श्च­न्द्र­ता­र­का­द्य­भि­भू­य­मानं दृष्टं, न तु तेजसोऽन्येन । येऽपि पिधायकाः प्रदीपस्य गृहघटादयो न ते स्वभासा प्रदीपं भासयितुमीशते । श्रूयते च - “तस्य भासा सर्वमिदं विभाति”(मु. उ. २ । २ । ११) इति । सर्वशब्दः प्रकृ­त­सू­र्या­द्य­पेक्षः । न चातु­ल्य­रू­पेऽ­नु­भा­न­मि­त्य­नु­कारः सम्भवति । नहि गावो वरा­ह­म­नु­धा­व­न्तीति कृष्ण­वि­ह­ङ्गा­नु­धा­व­न­मु­प­प­द्यते गवाम् , अपि तु तादृ­श­सू­क­रा­नु­धा­व­नम् । तस्माद्यद्यपि “यस्मिन्द्यौः पृथिवी चान्त­रि­क्ष­मो­तम्”(मु. उ. २ । २ । ५) इति ब्रह्म प्रकृतं, तथा­प्य­भि­भ­वा­नु­का­र­सा­म­र्थ्य­ल­क्ष­णेन लिङ्गेन प्रकरणबाधया तेजो­धा­तु­र­व­ग­म्यते, न तु ब्रह्म, लिङ्गानुपपत्तेः । तत्र तं तस्येति च सर्वनामपदानि प्रद­र्श­नी­य­मे­वा­व­म्र­क्ष्यन्ति । नच तच्छब्दः पूर्वो­क्त­प­रा­म­र्शीति नियमः समस्ति । नहि “तेन रक्तं रागात्”(पा.सू. ४.२.१) “तस्यापत्यम्”(पा.सू. ४-१-९२) इत्यादौ पूर्वोक्तं किञ्चिदस्ति । तस्मा­त्प्र­मा­णा­न्त­रा­प्र­ती­त­मपि तेजोऽ­न्त­र­म­लौ­किकं शब्दा­दु­पा­स्य­त्वेन गम्यत इति प्राप्ते उच्यते - “ब्रह्मण्येव हि तल्लिङ्गं न तु तेजस्यलौकिके । तस्मान्न तदुपास्यत्वे ब्रह्म ज्ञेयं तु गम्यते” ॥ “तमेव भान्तत्”(मु. उ. २ । २ । ११) इत्यत्र किमलौकिकं तेजः कल्पयित्वा सूर्या­दी­ना­म­नु­भा­न­मु­प­प­द्य­ताम् , किंवा “भारूपः सत्यसङ्कल्पः”(छा. उ. ३ । १४ । २) इति श्रुत्य­न्त­र­प्र­सि­द्धेन ब्रह्मणो भानेन सूर्यादीनां भान­मु­प­पा­द्य­ता­मिति विशये न श्रुत­स­म्भ­वेऽ­श्रु­तस्य कल्पना युज्यत इत्यप्रसिद्धं नालौकिकमुपास्यं तेजो युज्यते, अपि तु श्रुतिप्रसिद्धं ब्रह्मैव ज्ञेयमिति ।

तदेतदाह -
प्राज्ञ एवात्मा भवितुमर्हति ।

विरोधमाह -
समत्वाच्चेति ।

ननु स्वप्रतिभाने सूर्या­द­य­श्चा­क्षुषं तेजोऽपेक्षन्ते । न ह्यन्धेनैते दृश्यन्ते । तथा तदेव चाक्षुषं तेजो बाह्य­सौ­र्या­दि­तेज आप्यायितं रूपादि प्रकाशयति नानाप्यायितम् , अन्धकारेऽपि रूप­द­र्श­न­प्र­स­ङ्गा­दि­त्यत आह -
यं भान्त­म­नु­भा­यु­रिति ।
नहि तेजोन्तरस्य तेजोऽ­न्त­रा­पेक्षां व्यासेधामः, किन्तु तद्भानमनुभानम् । नच लोच­न­भा­न­म­नु­भान्ति सूर्यादयः ।

तदिदमुक्तम् -
नहि प्रदीप इति ।

पूर्व­प­क्ष­म­नु­भाष्य व्यभिचारमाह -
यदप्युक्तमिति ।
एतदुक्तं भवति - यदि स्वरू­प­सा­म्या­भा­व­म­भि­प्रे­त्या­नु­कारो निराक्रियते, तदा व्यभिचारः । अथ क्रिया­सा­म्या­भावं, सोऽसिद्धः । अस्ति हि वायुरजसोः स्वरू­प­वि­स­दृ­श­यो­रपि निय­त­दि­ग्दे­श­व­ह­न­क्रि­या­सा­म्यम् । वन्ह्ययः पिण्डयोस्तु यद्यपि दहनक्रिया न भिद्यते तथापि द्रव्यभेदेन क्रियाभेदं कल्पयित्वा क्रियासादृश्यं व्याख्येयम् ।

तदेवमनुकृतेरिति विभज्य तस्य चेति सूत्रावयवं विभजते -
तस्य चेति चतुर्थमिति ।
ज्योतिषां सूर्यादीनां ब्रह्म ज्योतिः­प्र­का­श­क­मि­त्यर्थः ।

तेजोऽ­न्त­रे­णा­नि­न्द्रि­य­भा­व­मा­प­न्नेन सूर्यादितेजो विभा­ती­त्य­प्र­सि­द्धम् । सर्वशब्दस्य हि स्वरसतो निःशेषाभिधानं वृत्तिः । सा तेजोधातावलौकिके रूप­मा­त्र­प्र­का­शके सङ्कुचेत् । ब्रह्मणि तु निःशेषजगदवभासके न सर्वशब्दस्य वृत्तिः सङ्कुचतीति -
तत्र­श­ब्द­मा­ह­र­न्निति ।
सर्वत्र खल्वयं तत्रशब्दः पूर्वो­क्त­प­रा­मर्शी । “तेन रक्तं रागात्”(पा.सू. ४.२.१) इत्यादावपि प्रकृतेः पर­स्मि­न्प्र­त्य­येऽ­र्थ­भे­देऽ­न्वा­ख्या­य­माने प्राति­प­दि­क­प्र­कृ­त्य­र्थस्य पूर्व­वृ­त्त­त्व­म­स्तीति तेनेति तत्परामर्शान्न व्यभिचारः । तथाच सर्व­ना­म­श्रु­ति­रेव ब्रह्मो­प­स्था­प­यति । तेन भवतु नाम प्रकरणाल्लिङ्गं बलीयः, श्रुतिस्तु लिङ्गा­द्ब­ली­य­सीति श्रौतमिह ब्रह्मैव गम्यत इति ।

अपि चापे­क्षि­ता­न­पे­क्षि­ता­भि­धा­न­यो­र­पे­क्षि­ता­भि­धानं युक्तं, दृष्टा­र्थ­त्वा­दि­त्याह -
अनन्तरं च हिरण्मये परे कोश इति ।

अस्मिन्वाक्ये ज्योतिषां ज्योति­रि­त्युक्तं, तत्र कथं तत्ज्योतिषां ज्योति­रि­त्य­पे­क्षा­या­मि­द­मु­प­ति­ष्ठते -
न तत्र सूर्य इति ।
स्वातन्त्र्येण तूच्य­मा­नेऽ­न­पे­क्षितं स्याद­दृ­ष्टा­र्थ­मिति ।

ब्रह्मण्यपि चैषां भान­प्र­ति­षे­धोऽ­व­क­ल्पत इति ।
अयमभिप्रायः - “न तत्र सूर्यो भाति”(मु. उ. २ । २ । ११) इति नेयं सतिसप्तमी, यतः सूर्यादीनां तस्मिन् सत्यभिभवः प्रतीयेत । अपि तु विषयसप्तमी । तेन न तत्र ब्रह्मणि प्रकाशयितव्ये सूर्यादयः प्रकाशकतया भान्ति, किन्तु ब्रह्मैव सूर्यादिषु प्रकाशयितव्येषु प्रकाशकत्वेन भाति ।

तच्च स्वयम्प्रकाशम् ,
अगृह्यो नहि गृह्यत इत्या­दि­श्रु­तिभ्य इति ॥ २२ ॥

अपि च स्मर्यते ।

न तद्भासयत इति
ब्रह्म­णोऽ­ग्रा­ह्य­त्व­मु­क्तम् ।

यदादित्यगतम्
इत्यनेन तस्यैव ग्राह­क­त्व­मु­क्त­मिति ॥ २३ ॥

शब्दादेव प्रमितः ।
'नाञ्जसा मानभेदोऽस्ति पर­स्मि­न्मा­न­व­र्जिते । भूतभव्येशिता जीवे नाञ्जसी तेन संशयः” ॥ किम­ङ्गु­ष्ठ­मा­त्र­श्रु­त्य­नु­ग्र­हाय जीवो­पा­स­ना­प­र­मे­त­द्वा­क्य­मस्तु, तदनुरोधेन चेशानश्रुतिः कथ­ञ्चि­द्व्या­ख्या­य­ताम् , आहो­स्वि­दी­शा­न­श्रु­त्य­नु­ग्र­हाय ब्रह्म­प­र­मे­त­दस्तु, तद­नु­रो­धे­ना­ङ्गु­ष्ठ­मा­त्र­श्रुतिः कथञ्चिन्नीयताम् । तत्रा­न्य­त­र­स्या­न्य­त­रा­नु­रो­ध­वि­षये प्रथमानुरोधो न्याय्य इत्य­ङ्गु­ष्ठ­श्रु­त्य­नु­रो­धे­ने­शा­न­श्रु­ति­र्ने­तव्या । अपिच युक्तं हृत्पु­ण्ड­री­क­द­ह­र­स्था­नत्वं परमात्मानः, स्थान­भे­द­नि­र्दे­शात् । तद्धि तस्यो­प­ल­ब्धि­स्थानं, शालग्राम इव कमलनाभस्य भगवतः । नच तथे­हा­ङ्गु­ष्ठ­मा­त्र­श्रुत्या स्थानभेदो निर्दिष्टः परि­मा­ण­मा­त्र­नि­र्दे­शात् । नच “मध्य आत्मनि”(क.उ. २-४-१२) इत्यत्र स्थान­भे­दोऽ­व­ग­म्यते । आत्मशब्दो ह्ययं स्वभाववचनो वा जीववचनो वा ब्रह्मवचनो वा स्यात् । तत्र स्वभावस्य स्वभ­वि­त्र­धी­न­नि­रू­प­ण­तया स्वस्य च भवि­तु­र­नि­र्दे­शान्न ज्ञायते कस्य मध्य इति । नच जीवपरयोरस्ति मध्यमञ्जसेति नैष स्थाननिर्देशो विस्पष्टः । स्पष्टस्तु परिमाणनिर्देशः । परिमाणभेदश्च परस्मिन्न सम्भवतीति जीवा­त्मै­वा­ङ्गु­ष्ठ­मात्रः । स खल्व­न्तः­क­र­णा­द्यु­पा­धि­क­ल्पितो भागः परमात्मनः । अन्तःकरणं च प्रायेण हृत्क­म­ल­को­श­स्थानं, हृत्कमलकोशश्च मनु­ष्या­णा­म­ङ्गु­ष्ठ­मात्र इति तदवच्छिन्नो जीवा­त्मा­प्य­ङ्गु­ष्ठ­मात्रः, नभ इव वंश­प­र्वा­व­च्छि­न्न­म­र­त्नि­मा­त्रम् । अपि च जीवात्मनः स्पष्ट­म­ङ्गु­ष्ठ­मा­त्रत्वं स्मर्यते - “अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्” इति । नहि सर्वेशस्य ब्रह्मणो यमेन बलान्निष्कर्षः कल्पते । यमो हि जगौ “हरि­गु­रु­व­श­गोऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि विष्णुः”(वि.पु. ३-७-१५) इति । तेना­ङ्गु­ष्ठ­मा­त्र­त्वस्य जीवे निश्च­या­दा­पे­क्षिकं किञ्चि­द्भू­त­भव्यं प्रति जीवस्येशानत्वं व्याख्येयम् ।

'एतद्वै तत्”
इति च प्रत्य­क्ष­जी­व­रूपं परामृशति । तस्मा­ज्जी­वा­त्मै­वा­त्रो­पास्य इति प्राप्तम् । एवं प्राप्तेऽ­भि­धी­यते - “प्रश्नो­त्त­र­त्वा­दी­शा­न­श्र­व­ण­स्या­वि­शे­षतः । जीवस्य ब्रह्म­रू­प­त्व­प्र­त्या­य­न­परं वचः” ॥ इह हि भूतभव्यमात्रं प्रति निर­ङ्कु­श­मी­शा­नत्वं प्रतीयते । प्राक् पृष्टं चात्र ब्रह्म “अन्यत्र धर्मा­द­न्य­त्रा­ध­र्मात्”(क. उ. १ । २ । १४) इत्यादिना । तदनन्तरस्य सन्दर्भस्य तत्प्र­ति­व­च­न­तो­चि­तेति “एतद्वै तत्”(क. उ. २ । १ । १३) इति ब्रह्माभिधानं युक्तम् । तथा चाङ्गु­ष्ठ­मा­त्र­तया यद्यपि जीवेऽवगम्यते तथापि न तत्प­र­मे­त­द्वाक्यं, किन्त्व­ङ्गु­ष्ठ­मा­त्रस्य जीवस्य ब्रह्म­रू­प­ता­प्र­ति­पा­द­न­प­रम् । एवं निर­ङ्कु­श­मी­शा­नत्वं न सङ्कोचयितव्यम् । नच ब्रह्म­प्र­श्नो­त्त­रता हातव्या । तेन यथा “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति विज्ञा­ना­त्म­न­स्त्व­म्प­दा­र्थस्य तदिति परमात्मनैकत्वं प्रतिपाद्यते, तथे­हा­प्य­ङ्गु­ष्ठ­प­रि­मि­तस्य विज्ञानात्मन ईशानश्रुत्या ब्रह्मभावः प्रतिपाद्य इति युक्तम् ॥ २४ ॥

हृद्यपेक्षया तु मनु­ष्या­धि­का­र­त्वात् ।

सर्वगतस्यापि परब्रह्मणो हृद­येऽ­व­स्था­न­म­पे­क्ष्येति
जीवाभिप्रायम् । न चान्यः परमात्मान इह ग्रहणमर्हतीति न जीव­प­र­मे­त­द्वा­क्य­मि­त्यर्थः ।

मनुष्यानेवेति ।
त्रैवर्णिकानेव ।

अर्थित्वादिति ।
अन्तःसंज्ञानां मोक्षमाणानां च काम्येषु कर्मस्वधिकारं निषेधति ।

शक्तत्वादिति
तिर्य­ग्दे­व­र्षी­णा­म­श­क्ता­ना­म­धि­कारं निवर्तयति ।

उप­न­य­ना­दि­शा­स्त्रा­च्चेति
शूद्रा­णा­म­न­धि­का­रितां दर्शयति ।

यदप्युक्तं परि­मा­णो­प­दे­शा­त्स्मृ­ते­श्चेति ।
यद्ये­त­त्प­र­मा­त्म­परं किमिति तर्हि जीव इहोच्यते । ननु पर­मा­त्मै­वो­च्य­ताम् । उच्यते च जीवः, तस्मा­ज्जी­व­प­र­मे­वेति भावः ।

परिहरति -
तत्प्रत्युच्यत इति ।
जीवस्य हि तत्त्वं परमात्मभावः, तद्वक्तव्यम् , नच तज्जीवमनभिधाय शक्यं वक्तुमिति जीव उच्यत इत्यर्थः ॥ २५ ॥

तदुपर्यपि बादरायणः सम्भवात् ।

देवर्षीणां ब्रह्म­वि­ज्ञा­ना­धि­का­र­चिन्ता सम­न्व­य­ल­क्ष­णेऽ­स­ङ्ग­ते­त्यस्याः प्रासङ्गिकीं सङ्गतिं दर्शयितुं प्रसङ्गमाह -
अङ्गु­ष्ठ­मा­त्र­श्रु­ति­रिति ।

स्यादेतत् । देवादीनां विवि­ध­वि­चि­त्रा­न­न्द­भो­ग­भो­गिनां वैरा­ग्या­भा­वा­न्ना­र्थित्वं ब्रह्म­वि­द्या­या­मि­त्यत आह -
तत्रार्थित्वं ताव­न्मो­क्ष­वि­ष­य­मिति ।
क्षया­ति­श­य­यो­ग्यस्य स्वर्गा­द्यु­प­भो­गेऽपि भावादस्ति वैरा­ग्य­मि­त्यर्थः ।

ननु देवादीनां विग्र­हा­द्य­भा­वे­ने­न्द्रि­या­र्थ­सं­नि­क­र्ष­जायाः प्रमा­णा­दि­वृ­त्ते­र­नु­प­प­त्ते­र­वि­द्व­त्तया सामर्थ्याभावेन नाधिकार इत्यत आह -
तदा सामर्थ्यमपि तेषामिति ।
यथा च मन्त्रा­दि­भ्य­स्त­द­व­ग­म­स्त­थो­प­रि­ष्टा­दु­प­पा­द­यि­ष्यते ।

ननु शूद्र­व­दु­प­न­य­ना­स­म्भ­वे­ना­ध्य­य­ना­भा­वा­त्ते­षा­म­न­धि­कार इत्यत आह -
न चोप­न­य­न­शा­स्त्रे­णेति ।
न खलु विधिवत् गुरु­मु­खा­द्गृ­ह्य­माणो वेदः फल­व­त्क­र्म­ब्र­ह्मा­व­बो­ध­हेतुः, अपि त्वध्य­य­नो­त्त­र­कालं निग­म­नि­रु­क्त­व्या­क­र­णा­दि­वि­दि­त­प­द­त­द­र्थ­स­ङ्ग­ते­र­धि­ग­त­शा­ब्द­न्या­य­त­त्त्वस्य पुंसः स्मर्यमाणः । स च मनुष्याणामिह जन्मनीव देवदीनां प्राचि भवे विधिवदधीत आम्नाय इह जन्मनि स्मर्यमाणः । अत एव स्वयं प्रतिभातो वेदः सम्भवतीत्यर्थः ।

न च कर्मानधिकारे ब्रह्म­वि­द्या­न­धि­कारो भवतीत्याह -
यदपि कर्म­स्व­न­धि­का­र­का­र­ण­मु­क्त­मिति ।
वस्वादीनां हि न वस्वा­द्य­न्त­र­मस्ति । नापि भृग्वादीनां भृग्वा­द्य­न्त­र­मस्ति । प्राचां वसु­भृ­गु­प्र­भृ­तीनां क्षीणा­धि­का­र­त्वे­ने­दानीं देव­र्षि­त्वा­भा­वा­दि­त्यर्थः ॥ २६ ॥

विरोधः कर्मणीति चेन्ना­ने­क­प्र­ति­प­त्ते­र्द­र्श­नात् ।
मन्त्रा­दि­प­द­स­म­न्व­या­त्प्र­ती­य­मा­नोऽर्थः प्रमा­णा­न्त­रा­वि­रोधे सत्युपेयः न तु विरोधे । प्रमा­णा­न्त­र­वि­रुद्धं चेदं विग्रहवत्त्वादि देवतायाः । तस्मात् ‘यजमानः प्रस्तरः’ इत्या­दि­व­दु­प­च­रि­तार्थो मन्त्रा­दि­र्व्या­ख्येयः । तथाच विग्र­हा­द्य­भा­वा­च्छ­ब्दो­प­हि­ता­र्थोऽ­र्थो­प­हितो वा शब्दो देव­ते­त्य­चे­त­न­त्वान्न तस्याः क्वचिदप्यधिकार इति शङ्कार्थः ।

निराकरोति -
न ।

कस्मात् ।
अने­क­रू­प­प्र­ति­पत्तेः ।

सैव कुत इत्यत आह -
दर्शनात्
श्रुतिषु स्मृतिषु च । तथाहि - एक­स्या­ने­क­का­य­नि­र्मा­ण­म­द­र्श­नाद्वा न युज्यते, बाधदर्शनाद्वा । तत्रा­द­र्श­न­म­सिद्धं, श्रुति­स्मृ­तिभ्यां दर्शनात् । नहि लौकिकेन प्रमा­णे­ना­दृ­ष्ट­त्वा­दा­ग­मेन दृष्टमदृष्टं भवति, मा भूद्यागादीनामपि स्वर्गा­दि­सा­ध­न­त्व­म­दृ­ष्ट­मिति मनुष्यशरीरस्य माता­पि­तृ­सं­यो­ग­ज­त्व­नि­य­मा­द­सति पित्रोः संयोगे कुतः सम्भवः, सम्भवे वानग्नितोऽपि धूमः स्यादिति बाधदर्शनमिति चेत् । हन्त किं शरीरत्वेन हेतुना देवादिशरीरमपि मातापितृसंयोगजं सिषाधयिषसि । तथा चानेकान्तो हेत्वाभासः, स्वेद­जो­द्भि­ज्जानां शरी­रा­णा­म­त­द्धे­तु­त्वात् । इच्छा­मा­त्र­नि­र्मा­णत्वं देहा­दी­ना­म­दृ­ष्ट­च­र­मिति चेत् , न । भूतो­पा­दा­न­त्वे­ने­च्छा­मा­त्र­नि­र्मा­ण­त्वा­सिद्धेः । भूतवशिनां हि देवादीनां नाना­का­य­चि­की­र्षा­व­शा­द्भू­त­क्रि­यो­त्पत्तौ भूतानां परस्परसंयोगेन नाना­का­य­स­मु­त्पा­दात् । दृष्टा च वशिन इच्छावशाद्वश्ये क्रिया, यथा विषविद्याविद इच्छामात्रेण विषशकलप्रेरणम् । नच विषविद्याविदो दर्श­ने­ना­धि­ष्ठा­न­द­र्श­ना­द्व्य­व­हि­त­वि­प्र­कृ­ष्ट­भू­ता­द­र्श­ना­द्दे­वा­दीनां कथमधिष्ठानमिति वाच्यम् । काचा­भ्र­प­ट­ल­पि­हि­तस्य विप्रकृष्टस्य च भौम­श­नै­श्च­रा­दे­र्द­र्श­नेन व्यभिचारात् । असक्ताश्च दृष्टयो देवादीनां काचा­भ्र­प­ट­ला­दि­व­न्म­ही­म­ही­ध­रा­दि­भिर्न व्यवधीयन्ते । न चास्म­दा­दि­व­त्तेषां शरीरित्वेन व्यव­हि­ता­वि­प्र­कृ­ष्टा­दि­द­र्श­ना­स­म्भ­वोऽ­नु­मी­यत इति वाच्यम् , आग­म­वि­रो­धि­नोऽ­नु­मा­न­स्यो­त्पा­दा­यो­गात् । अन्तर्धानं चाञ्जनादिना मनुजानामिव तेषां प्रभ­व­ता­मु­प­प­द्यते, तेन संनिहितानामपि न क्रतुदेशे दर्शनं भविष्यति ।

तस्मात्सूक्तम् - अने­क­प्र­ति­प­त्ते­रिति -
तथा हि कति देवा इत्युपक्रम्येति ।

वैश्व­दे­व­श­स्त्रस्य हि निविदि ‘कति देवाः’ इत्युपक्रम्य निविदैवोत्तरं दत्तं शाकल्याय याज्ञवल्क्येन -
त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ।
निविन्नाम शस्य­मा­न­दे­व­ता­स­ङ्ख्या­वा­च­कानि मन्त्रपदानि । एतदुक्तं भवति - वैश्वदेवस्य निविदि कति देवाः शस्यमानाः प्रसङ्ख्याता इति शाकल्येन पृष्टे याज्ञ­व­ल्क्य­स्यो­त्तरं - “त्रयश्च त्री च शता”(बृ. उ. ३ । ९ । १) इत्यादि । यावत्सङ्ख्याका वैश्वदेवनिविदि सङ्ख्याता देवास्त एतावन्त इति ।

पुनश्च शाकल्येन “कतमे ते”(बृ. उ. ३ । ९ । १) इति सङ्ख्येयेषु पृष्टेषु याज्ञ­व­ल्क्य­स्यो­त्त­रम् -
महिमान एवैषामेते त्रय­स्त्रिं­श­त्त्वेव देवा इति ।
अष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्रश्च प्रजापतिश्चेति त्रय­स्त्रिं­श­द्देवाः । तत्राग्निश्च पृथिवी च वायु­श्चा­न्त­रिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चेति वसवः । एते हि प्राणिनां कर्मफलाश्रयेण कार्य­का­र­ण­स­ङ्घा­त­रू­पेण परिणमन्तो जगदिदं सर्वं वासयन्ति, तस्माद्वसवः । कतमे रुद्रा इति दशेमे पुरुषे प्राणाः बुद्धि­क­र्मे­न्द्रि­याणि दश, एकादशं च मन इति । तदेतानि प्राणाः, तद्वृत्तित्वात् । ते हि प्रायणकाल उत्क्रामन्तः पुरुषं रोदयन्तीति रुद्राः । कतम आदित्या इति द्वादशमासाः संव­त्स­र­स्या­व­यवाः पुनः पुनः परिवर्तमानाः प्राण­भृ­ता­मा­यूंषि च कर्मफलोपभोगं चादा­प­य­न्ती­त्या­दित्याः । अशनिरिन्द्रः, सा हि बलं, सा हीन्द्रस्य परमा ईशता, तया हि सर्वान्प्राणिनः प्रमापयति, तेन स्तन­यि­त्नु­र­श­नि­रिन्द्रः । यज्ञः प्रजापतिरिति, यज्ञसाधनं च यज्ञरूपं च पशवः प्रजापतिः । एत एव त्रय­स्त्रिं­श­द्देवाः षण्णा­म­ग्नि­पृ­थि­वी­वा­य्व­न्त­रि­क्षा­दि­त्य­दिवां महिमानो न ततो भिद्यन्ते । षडेव तु देवाः । ते तु षडग्निं पृथिवीं चैकी­कृ­त्या­न्त­रिक्षं वायुं चैकीकृत्य दिवं चादित्यं चैकीकृत्य त्रयो लोकास्त्रय एव देवा भवन्ति । एत एव च त्रयोऽ­न्न­प्रा­ण­यो­र­न्त­र्भ­व­न्तोऽ­न्न­प्राणौ द्वौ देवौ भवतः । तावप्यध्यर्धो देव एकः । कतमोऽध्यर्धः, योऽयं वायुः पवते । कथमयमेक एवाध्यर्धः, यदस्मिन्सति सर्वमिदमध्यर्धं वृद्धिं प्राप्नोति तेनाध्यर्ध इति । कतम एक इति, स एवाध्यर्धः प्राण एको ब्रह्म । सर्व­दे­वा­त्म­त्वेन बृह­त्त्वा­द्ब्रह्म तदेव स्यादि­त्या­च­क्षते परोक्षाभिधायकेन शब्देन । तस्मादेकस्यैव देवस्य महि­म­व­शा­द्यु­ग­प­द­ने­क­दे­व­रू­प­ता­माह श्रुतिः । स्मृतिश्च निगदव्याख्याता ।

अपि च पृथ­ग्ज­ना­ना­म­प्यु­पा­या­नु­ष्ठा­न­व­शा­त्प्रा­प्ता­णि­मा­द्यै­श्व­र्याणां युग­प­न्ना­ना­का­य­नि­र्माणं श्रूयते, तत्र कैव कथा देवानां स्वभा­व­सि­द्धा­ना­मि­त्याह -
प्राप्ता­णि­मा­द्यै­श्व­र्याणां योगिनामिति ।
अणिमा लघिमा महिमा प्राप्तिः प्राका­म्य­मी­शित्वं वशित्वं यत्र­का­मा­व­सा­यि­ते­त्यै­श्व­र्याणि ।

अपरा व्याख्येति ।
अनेकत्र कर्मणि युग­प­द­ङ्ग­भा­व­प्र­ति­प­त्ति­र­ङ्ग­भा­व­ग­मनं, तस्य दर्शनात् ।

तदेव परिस्फुटं दर्शयितुं व्यतिरेकं तावदाह -
क्वचिदेक इति ।
न खलु बहुषु श्राद्धेष्वेको ब्राह्मणो युगपदङ्गभावं गन्तुमर्हति ।

एकस्यानेकत्र युगपदङ्गभावमाह -
क्वचिच्चैक इति ।
यथैकं ब्राह्म­ण­मु­द्दिश्य युगपन्नमस्कारः क्रियते बहुभिस्तथा स्वस्था­न­स्थि­ता­मेकां देवतामुद्दिश्य बहु­भि­र्य­ज­मा­नै­र्ना­ना­दे­शा­व­स्थि­तै­र्यु­ग­प­द्ध­वि­स्त्य­ज्यते, तस्याश्च तत्रासंनिहिताया अप्यङ्गभावो भवति । अस्ति हि तस्या युग­प­द्वि­प्र­कृ­ष्टा­ने­का­र्थो­प­ल­म्भ­सा­म­र्थ्य­मि­त्यु­प­पा­दि­तम् ॥ २७ ॥

शब्द इति चेन्नातः प्रभ­वा­त्प्र­त्य­क्षा­नु­मा­ना­भ्याम् ।
गोत्वा­दि­व­त्पू­र्वा­व­म­र्शा­भा­वा­दु­पा­धे­र­प्ये­क­स्या­प्र­तीतेः पाच­का­दि­व­दा­का­शा­दि­श­ब्द­व­द्व्य­क्ति­व­चना एव वस्वादिशब्दाः तस्याश्च नित्यत्वात्तया सह सम्बन्धो नित्यो भवेत् । विग्रहादियोगे तु सावयवत्वेन वस्वा­दी­ना­म­नि­त्य­त्वा­त्ततः पूर्वं वस्वादिशब्दो न स्वार्थेन सम्बद्ध आसीत् , स्वार्थ­स्यै­वा­भा­वात् । ततश्चोत्पन्ने वस्वादौ वस्वा­दि­श­ब्द­स­म्बन्धः प्रादु­र्भ­व­न्दे­व­द­त्ता­दि­श­ब्द­स­म्ब­न्ध­व­त्पु­रु­ष­बु­द्धि­प्र­भव इति तत्पूर्वको वाक्या­र्थ­प्र­त्य­योऽपि पुरु­ष­बु­द्ध्य­धीनः स्यात् । पुरुषबुद्धिश्च माना­न्त­रा­धी­न­ज­न्मेति माना­न्त­रा­पे­क्षया प्रामाण्यं वेदस्य व्याहन्येतेति शङ्कार्थः ।

उत्तरम् -
न ।

अतः प्रभवात् ।
वसु­त्वा­दि­जा­ति­वा­च­का­च्छ­ब्दा­त्त­ज्जा­तीयां व्यक्तिं चिकीर्षितां बुद्धिवालिख्य तस्याः प्रभवनम् । तदिदं तत्प्रभवत्वम् । एतदुक्तं भवति - यद्यपि न शब्द उपादानकारणं वस्वादीनां ब्रह्मो­पा­दा­न­त्वात् , तथापि निमि­त्त­का­र­ण­मु­क्तेन क्रमेण ।

न चैतावता शब्दा­र्थ­स­म्ब­न्ध­स्या­नि­त्यत्वं, वस्वादिजातेर्वा तदुपाधेर्वा यया कया­चि­दा­कृ­त्या­व­च्छि­न्नस्य नित्यत्वादिति । इम­मे­वा­र्थ­मा­क्षे­प­स­मा­धा­नाभ्यां विभजते -
ननु जन्माद्यस्य यत इति ।
ते निगदव्याख्याते ।

तत्किमिदानीं स्वयम्भुवा वाङ्निर्मिता कालिदासादिभिरिव कुमारसम्भवादि, तथाच तदेव प्रमा­णा­न्त­रा­पे­क्ष­वा­क्य­त्वा­द­प्रा­मा­ण्य­मा­प­ति­त­मि­त्यत आह -
उत्सर्गोऽप्ययं वाचः सम्प्र­दा­य­प्र­व­र्त­ना­त्मक इति ।
सम्प्रदायो गुरु­शि­ष्य­प­र­म्प­र­या­ध्य­य­नम् । एतदुक्तं भवति - स्वयम्भुवो वेदकर्तृत्वेऽपि न कालि­दा­सा­दि­व­त्स्व­त­न्त्र­त्व­मपि तु पूर्व­सृ­ष्ट्य­नु­सा­रेण । एत­च्चा­स्मा­भि­रु­प­पा­दि­तम् । उपपादयिष्यति चाग्रे भाष्यकारः । अपि चाद्य­त्वेऽ­प्ये­त­द्दृ­श्यते ।

तद्द­र्श­ना­त्प्रा­चा­मपि कर्तॄणां तथाभावोऽनुमीयत इत्याह -
अपि च चिकीर्षितमिति ।

आक्षिपति -
किमात्मकं पुनरिति ।
अयमभिसन्धिः - वाच­क­श­ब्द­प्र­भ­वत्वं हि देवा­ना­म­भ्यु­पे­तव्यं, अवाचकेन तेषां बुद्धा­व­ना­ले­ख­नात् । तत्र न तावद्वस्वादीनां वकारादयो वर्णा वाचकाः, तेषां प्रत्यु­च्चा­र­ण­म­न्य­त्वे­ना­श­क्य­स­ङ्ग­ति­ग्र­ह­त्वात् , अगृहीतसङ्गतेश्च वाच­क­त्वेऽ­ति­प्र­स­ङ्गात् । अपि चैते प्रत्येकं वा वाक्या­र्थ­म­भि­द­धी­रन् , मिलिता वा । न तावत्प्रत्येकम् , एक­व­र्णो­च्चा­र­णा­न­न्त­र­म­र्थ­प्र­त्य­या­द­र्श­नात् , वर्णा­न्त­रो­च्चा­र­णा­न­र्थ­क्य­प्र­स­ङ्गाच्च । नापि मिलिताः, तेषा­मे­क­व­क्तृ­प्र­यु­ज्य­मा­नानां रूपतो व्यक्तितो वा प्रति­क्ष­ण­म­प­व­र्गिणां मिथः साहि­त्य­स­म्भ­वा­भा­वात् । नच प्रत्ये­क­स­मु­दा­या­भ्या­मन्यः प्रकारः सम्भवति । नच स्वरू­प­सा­हि­त्या­भा­वेऽपि वर्णा­ना­मा­ग्ने­या­दी­ना­मिव संस्का­र­द्वा­र­क­मस्ति साहित्यमिति साम्प्रतं, विकल्पासहत्वात् । को नु खल्वयं संस्कारोऽभिमतः, किम­पू­र्व­मा­ग्ने­या­दि­ज­न्य­मिव, किंवा भावनापरनामा स्मृति­प्र­स­व­बी­जम् । न तावत्प्रथमः कल्पः । नहि शब्दः स्वरूपतोऽङ्गतो वाऽवि­दि­तोऽ­वि­दि­त­स­ङ्ग­ति­र­र्थ­धी­हे­तु­रि­न्द्रि­य­वत् । उच्चरितस्य बधिरेणागृहीतस्य गृहीतस्य वाऽगृ­ही­त­स­ङ्ग­ते­र­प्र­त्या­य­क­त्वात् । तस्माद्विदितो विदि­त­स­ङ्ग­ति­र्वि­दि­त­स­म­स्त­ज्ञा­प­ना­ङ्गश्च शब्दो धूमा­दि­व­त्प्र­त्या­य­कोऽ­भ्यु­पेयः । तथा­चा­पू­र्वा­भि­धा­नोऽस्य संस्कारः प्रत्या­य­ना­ङ्ग­मि­त्य­र्थ­प्र­त्य­या­त्प्रा­ग­व­ग­न्तव्यः । नच तदा तस्या­व­ग­मो­पा­योऽस्ति । अर्थ­प्र­त्य­यात्तु तदवगमं समर्थयमानो दुरु­त्त­र­मि­त­रे­त­रा­श्र­य­मा­वि­शति, संस्का­रा­व­सा­या­द­र्थ­प्र­त्ययः, ततश्च तदवसाय इति । भावनाभिधानस्तु संस्कारः स्मृति­प्र­स­व­सा­म­र्थ्य­मा­त्मनः । नच तदे­वा­र्थ­प्र­त्य­य­प्र­स­व­सा­म­र्थ्य­मपि भवितुमर्हति । नापि तस्यैव सामर्थ्यस्य सामर्थ्यान्तरम् । नहि यैव वह्ने­र्द­ह­न­शक्तिः सैव तस्य प्रकाशनशक्तिः । नापि दहनशक्तेः प्रकाशनशक्तिः अपिच व्युत्क्र­मे­णो­च्च­रि­तेभ्यो वर्णेभ्यः सैवास्ति स्मृतिबीजं वास­ने­त्य­र्थ­प्र­त्ययः प्रसज्येत । न चास्ति । तस्मान्न कथञ्चिदपि वर्णा अर्थधीहेतवः । नापि तदतिरिक्तः स्फोटात्मा । तस्या­नु­भ­वा­ना­रो­हात् । अर्थधियस्तु कार्यात्तदवगमे पर­स्प­रा­श्र­य­प्र­सङ्ग इत्युक्तप्रायम् । सत्तामात्रेण तु तस्य नित्य­स्या­र्थ­धी­हे­तु­भावे सर्व­दा­र्थ­प्र­त्य­यो­त्पा­द­प्र­सङ्गः, निरपेक्षस्य हेतोः सदातनत्वात् । तस्मा­द्वा­च­का­च्छ­ब्दा­द्वा­च्यो­त्पाद इत्यनुपपन्नमिति ।

अत्राचार्यदेशीय आह -
स्फोटमित्याहेति ।
मृष्यामहे न वर्णाः प्रत्यायका इति । न स्फोट इति तु न मृष्यामः । तदनुभवानन्तरं विदि­त­स­ङ्ग­ते­र­र्थ­धी­स­मु­त्पा­दात् । नच वर्णातिरिक्तस्य तस्यानुभवो नास्ति । गौरित्येकं पदं, गामानय शुक्लमित्येकं वाक्यमिति नाना­व­र्ण­प­दा­ति­रि­क्तै­क­प­द­वा­क्या­व­गतेः सर्वजनीनत्वात् । न चायमसति बाधके एकपदवाक्यानुभवः शक्यो मिथ्येति वक्तुम् । नाप्यौपाधिकः । उपाधिः खल्वे­क­धी­ग्रा­ह्यता वा स्यात् , एकार्थधीहेतुता वा । न ताव­दे­क­धी­गो­च­राणां धव­ख­दि­र­प­ला­शा­ना­मे­क­नि­र्भासः प्रत्ययः समस्ति । तथा सति धवखदिरपलाशा इति न जातु स्यात् । नाप्ये­का­र्थ­धी­हे­तुता । तद्धेतुत्वस्य वर्णेषु व्यासेधात् । तद्धेतुत्वेन तु साहि­त्य­क­ल्प­नेऽ­न्यो­न्या­श्र­य­प्र­सङ्गः । साहि­त्या­त्त­द्धे­तुत्वं तद्धेतुत्वाच्च साहित्यमिति । तस्मा­द­य­म­बा­धि­तोऽ­नु­पा­धिश्च पदवाक्यगोचर एकनिर्भासानुभवो वर्णातिरिक्तं वाचकमेकमवलम्बते स स्फोट इति तं च ध्वनयः प्रत्येकं व्यञ्जयन्तोऽपि न द्रागित्वेव विशदयन्ति, येन द्रागर्थधीः स्यात् । अपि तु रत्न­त­त्त्व­ज्ञा­न­व­द्य­थास्वं द्वित्रि­च­तु­ष्प­ञ्च­ष­ड्द­र्श­न­ज­नि­त­सं­स्का­र­प­रि­पा­क­स­चि­व­चे­तो­ल­ब्ध­ज­न्मनि चरमे चेतसि चकास्ति विशदं पद­वा­क्य­त­त्त्व­मिति प्राग­नु­त्प­न्ना­या­स्त­द­न­न्त­र­म­र्थ­धिय उदय इति नोत्त­रे­षा­मा­न­र्थक्यं ध्वनीनाम् । नापि प्राचां, तदभावे तज्ज­नि­त­सं­स्का­र­त­त्प­रि­पा­का­भा­वे­ना­नु­ग्र­हा­भा­वात् । अन्त्यस्य चेतसः केव­ल­स्या­ज­न­क­त्वात् । नच पदप्रत्ययवत् , प्रत्ये­क­म­व्य­क्ता­म­र्थ­धि­य­मा­धा­स्यन्ति प्राञ्चो वर्णाः, चरमस्तु तत्सचिवः स्फुटतरामिति युक्तम् । व्यक्ता­व्य­क्ता­व­भा­सि­तायाः प्रत्य­क्ष­ज्ञा­न­नि­य­मात् । स्फोटज्ञानस्य च प्रत्यक्षत्वात् । अर्थ­धि­य­स्त्व­प्र­त्य­क्षाया मानान्तरजन्मनो व्यक्त एवोपजनो न वा स्यान्न पुनरस्फुट इति न समः समाधिः । तस्मान्नित्यः स्फोट एव वाचको न वर्णा इति ।

तदे­त­दा­चा­र्य­दे­शी­य­मतं स्वम­त­मु­प­पा­द­य­न्न­पा­क­रोति -
वर्णा एव तु न शब्द इति ।
एवं हि वर्णातिरिक्तः स्फोटोऽ­भ्यु­पे­येत, यदि वर्णानां वाचकत्वं न सम्भवेत् , स चानु­भ­व­प­द्ध­ति­म­ध्या­सीत । द्विधा च वाचकत्वं वर्णानां, क्षणि­क­त्वे­ना­श­क्य­स­ङ्ग­ति­ग्र­ह­त्वाद्वा व्यस्त­स­म­स्त­प्र­का­र­द्व­या­भा­वाद्वा । न तावत्प्रथमः कल्पः । वर्णानां क्षणिकत्वे मानाभावात् । ननु वर्णानां प्रत्यु­च्चा­र­ण­म­न्यत्वं सर्व­ज­न­प्र­सि­द्धम् । न । प्रत्य­भि­ज्ञा­य­मा­न­त्वात् । न चासत्यप्येकत्वे ज्वाला­दि­व­त्सा­दृ­श्य­नि­ब­न्ध­न­मे­तत् , प्रत्य­भि­ज्ञा­न­मिति साम्प्रतम् । सादृ­श्य­नि­ब­न्ध­न­त्व­मस्य बल­व­द्बा­ध­को­प­नि­पा­ता­द्वा­स्थी­येत, क्वचिज्ज्वालादौ व्यभि­चा­र­द­र्श­नाद्वा । तत्र क्वचि­द्व्य­भि­चा­र­द­र्श­नेन तदु­त्प्रे­क्षा­या­मु­च्यते वृद्धेः स्वतः­प्रा­मा­ण्य­वा­दिभिः “उत्प्रेक्षेत हि यो मोहादज्ञातमपि बाधनम् । स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत्” ॥ इति । प्रपञ्चितं चैत­द­स्मा­भि­र्न्या­य­क­णि­का­याम् । न चेदं प्रत्यभिज्ञानं गत्वा­दि­जा­ति­वि­षयं न गादि­व्य­क्ति­वि­षयं, तासां प्रतिनरं भेदोपलम्भादत एव शब्द­भे­दो­प­ल­म्भा­द्व­क्तृ­भेद उन्नीयते “सोमशर्माधीते न विष्णुशर्मा” इति युक्तम् । यतो बहुषु गका­र­मु­च्चा­र­यत्सु निपुणमनुभवः परीक्ष्यताम् । यथा कालाक्षीं च स्वस्तिमतीं चेक्षमाणस्य व्यक्ति­भे­द­प्र­थायां सत्यामेव तदनुगतमेकं सामान्यं प्रथते, तथा किं गकारादिषु भेदेन प्रथमानेष्वेव गत्वमेकं तदनुगतं चकास्ति, किंवा यथा गोत्वमाजानत एकं भिन्न­दे­श­प­रि­मा­ण­सं­स्था­न­व्य­क्त्यु­प­धा­न­भे­दा­द्भि­न्न­दे­श­मि­वा­ल्प­मिव महदिव दीर्घमिव वामनमिव तथा­ग­व्य­क्ति­रा­जा­नत एकापि व्यञ्ज­क­भे­दा­त्त­द्ध­र्मा­नु­पा­ति­नीव प्रथत इति भवन्त एव विदाङ्कुर्वन्तु । तत्र गव्य­क्ति­भे­द­म­ङ्गी­कृ­त्यापि यो गत्वस्यैकस्य परो­प­धा­न­भे­द­क­ल्प­ना­प्र­यासः स वरं गव्य­क्ता­वे­वास्तु किमन्तर्गडुना गत्वे­ना­भ्यु­पे­तेन । यथाहुः - “तेन यत्प्रार्थ्यते जाते­स्त­द्व­र्णा­देव लप्स्यते । व्यक्तिलभ्यं तु नादेभ्य इति गत्वा­दि­धी­र्वृथा” ॥ नच स्वस्ति­म­त्या­दि­वत् गव्य­क्ति­भे­द­प्र­त्ययः स्फुटः प्रत्यु­च्चा­र­ण­मस्ति । तथा सति दश गका­रा­नु­द­चा­र­य­च्चैत्र इति हि प्रत्ययः स्यात् । न स्याद्दशकृत्व उद­चा­र­य­द्ग­का­र­मिति । न चैष जात्य­भि­प्रा­योऽ­भ्यासो यथा शत­कृ­त्व­स्ति­त्ति­री­नु­पा­युङ्क्त देवदत्त इति । अत्र हि सोरस्ताडं क्रन्दतोऽपि गकारादिव्यक्तौ लोक­स्यो­च्चा­र­णा­भ्या­स­प्र­त्य­यस्य विनिर्वृत्तिः ।

चोदकः प्रत्य­भि­ज्ञा­न­बा­ध­क­मु­त्था­प­यति -
कथं ह्येकस्मिन्काले बहू­ना­मु­च्चा­र­य­ता­मिति ।
यत् युग­प­द्वि­रु­द्ध­ध­र्म­सं­स­र्ग­व­त्तत् नाना, यथा गवा­श्वा­दि­र्द्वि­श­फै­क­श­फ­के­श­र­ग­ल­क­म्ब­ला­दि­मान् । युग­प­दु­दा­त्ता­नु­दा­त्ता­दि­वि­रु­द्ध­ध­र्म­सं­स­र्ग­वां­श्चायं वर्णः । तस्मान्नाना भवितुमर्हति । न चोदात्तादयो व्यञ्जकधर्माः, न वर्णधर्मा इति साम्प्रतम् । व्यञ्जका ह्यस्य वायवः । तेषामश्रावणत्वे कथं तद्धर्माः श्रावणाः स्युः । इदं तावदत्र वक्तव्यम् । नहि गुण­गो­च­र­मि­न्द्रियं गुणिनमपि गोचरयति, मा भूवन् घ्राण­र­स­न­श्रो­त्राणां गन्ध­र­स­श­ब्द­गो­च­राणां तद्वन्तः पृथिव्युदकाकाशा गोचराः । एवं च मा नाम भूद्वायुगोचरं श्रोत्रम् , तद्गु­णां­स्तू­दा­त्ता­दीन् गोचरयिष्यति । ते च शब्द­सं­स­र्गा­ग्र­हात् शब्द­ध­र्म­त्वे­ना­ध्य­व­सी­यन्ते ।

नच शब्दस्य प्रत्य­भि­ज्ञा­ना­व­धृ­तै­क­त्वस्य स्वरूपत उदात्तादयो धर्माः पर­स्प­र­वि­रो­धि­नोऽ­प­र्या­येण सम्भवन्ति । तस्माद्यथा मुखस्यैकस्य मणि­कृ­पा­ण­द­र्प­णा­द्यु­प­धा­न­व­शा­न्ना­ना­दे­श­प­रि­मा­ण­सं­स्था­न­भे­द­वि­भ्रमः, एवमेकस्यापि वर्णस्य व्यञ्ज­क­ध्व­नि­नि­ब­न्ध­नोऽयं विरु­द्ध­ना­ना­ध­र्म­सं­स­र्ग­वि­भ्रमः, न तु भाविको नानाधर्मसंसर्ग इति स्थितेऽ­भ्यु­पेत्य परिहारमाह भाष्यकारः -
अथवा ध्वनिकृत इति ।
अथवेति पूर्वपक्षं व्यावर्तयति । भवेतां नाम गुण­गु­णि­ना­वे­के­न्द्रि­य­ग्राह्यौ, तथाप्यदोषः । ध्वनीनामपि शब्द­व­च्छ्रा­व­ण­त्वात् ।

ध्वनिस्वरूपं प्रश्नपूर्वकं वर्णेभ्यो निष्कर्षयति -
कः पुनरयमिति ।
न चाय­म­नि­र्धा­रि­त­वि­शे­ष­व­र्ण­त्व­सा­मा­न्य­मा­त्र­प्र­त्ययो न तु वर्णा­ति­रि­क्त­त­द­भि­व्य­ञ्ज­क­ध्व­नि­प्र­त्यय इति साम्प्रतम् । तस्या­नु­ना­सि­क­त्वा­दि­भे­द­भि­न्नस्य गादि­व्य­क्ति­व­त्प्र­त्य­भि­ज्ञा­ना­भा­वात् , अप्र­त्य­भि­ज्ञा­य­मा­नस्य चैकत्वाभावेन सामा­न्य­भा­वा­नु­प­पत्तेः । तस्मा­द­व­र्णा­त्मको वैष शब्दः, शब्दातिरिक्तो वा ध्वनिः, शब्दव्यञ्जकः श्राव­णोऽ­भ्यु­पेयः उभयथापि चाक्षु व्यञ्जनेषु च तत्त­द्ध्व­नि­भे­दो­प­धा­ने­ना­नु­ना­सि­क­त्वा­द­योऽ­व­ग­म्य­मा­ना­स्त­द्धर्मा एव शब्दे प्रतीयन्ते न तु स्वतः शब्दस्य धर्माः । तथा च येषा­म­नु­ना­सि­क­त्वा­दयो धर्माः परस्परविरुद्धा भासन्ते भवतु तेषां ध्वनीनामनित्यता । नहि तेषु प्रत्य­भि­ज्ञा­न­मस्ति । येषु तु वर्णेषु प्रत्यभिज्ञानं न तेषा­म­नु­ना­सि­क­त्वा­दयो धर्मा इति नानित्याः ।

एवं च सति सालम्बना इति ।
यद्येष परस्याग्रहो धर्मि­ण्य­गृ­ह्य­माणे तद्धर्मा न शक्या ग्रहीतुमिति, एवं नामास्तु तथा तुष्यतु परः । तथाप्यदोष इत्यर्थः । तदनेन प्रबन्धेन क्षणिकत्वेन वर्णा­ना­म­श­क्य­स­ङ्ग­ति­ग्र­ह­तया यद­वा­च­क­त्व­मा­पा­दितं वर्णानां तदपाकृतम् ।

व्यस्त­स­म­स्त­प्र­का­र­द्व­या­स­म्भ­वेन तु यदासञ्जितं तन्नि­रा­चि­की­र्षु­राह -
वर्णे­भ्य­श्चा­र्थ­प्र­ती­ते­रिति ।

कल्पनाममृष्यमाण एकदेश्याह -
न कल्पयामीति ।

निराकरोति -
न ।

अस्या अपि बुद्धेरिति ।
निरूपयतु तावद्गौरित्येकं पदमिति धियमायुष्मान् । किमियं पूर्वा­नु­भू­ता­न्ग­का­रा­दी­नेव साम­स्त्ये­ना­व­गा­हते किंवा गका­रा­द्य­ति­रिक्तं, गवयमिव वराहादिभ्यो विलक्षणम् । यदि गका­रा­दि­वि­ल­क्ष­ण­म­व­भा­स­येत् , गकारादिरूषितः प्रत्ययो न स्यात् । नहि वरा­ह­धी­र्म­हि­ष­रू­षितं वराहमवगाहते । पदतत्त्वमेकं प्रत्ये­क­म­भि­व्य­ञ्ज­यन्तो ध्वनयः प्रय­त्न­भे­द­भि­न्ना­स्तु­ल्य­स्था­न­क­र­ण­नि­ष्पा­द्य­त­या­न्यो­न्य­वि­स­दृ­श­त­त्त­त्प­द­व्य­ञ्ज­क­ध्व­नि­सा­दृ­श्येन स्वव्य­ञ्ज­नी­य­स्यै­कस्य पदतत्त्वस्य मिथो विस­दृ­शा­ने­क­प­द­सा­दृ­श्या­न्या­पा­द­यन्तः सादृ­श्यो­प­धा­न­भे­दा­दे­क­म­प्य­भा­ग­मपि नानेव भागवदिव भासयन्ति, मुख्यमिवैकं निय­त­व­र्ण­प­रि­मा­ण­स्था­न­सं­स्था­न­भे­द­मपि मणि­कृ­पा­ण­द­र्प­णा­द­योऽ­ने­क­व­र्ण­प­रि­मा­ण­सं­स्था­न­भे­दम् । एवं च कल्पिता एवास्य भागा वर्णा इति चेत् , तत्किमिदानीं वर्णभेदानसत्यपि बाधके मिथ्येति वक्तु­म­ध्य­व­सि­तोऽसि । एकधीरेव नानात्वस्य बधिकेति चेत् , हन्तास्यां नाना वर्णाः प्रथन्त इति नानात्वावभास एकैकत्वं कस्मान्न बाधते । अथवा वन­से­ना­दि­बु­द्धि­व­दे­क­त्व­ना­नात्वे न विरुद्धे । नो खलु सेनावनबुद्धी गज­प­दा­ति­तु­र­गा­दीनां चम्प­का­शो­क­किं­शु­का­दीनां च भेदमपबाधमाने उदीयेते, अपि तु भिन्नानामेव सतां केन­चि­दे­के­नो­पा­धि­ना­व­च्छि­न्ना­ना­मे­क­त्व­मा­पा­द­यतः । नच परो­पा­धि­के­नै­क­त्वेन स्वाभाविकं नानात्वं विरुध्यते । नह्यौ­प­चा­रि­क­म­ग्नित्वं माणवकस्य स्वाभा­वि­क­न­र­त्व­वि­रोधि । तस्मा­त्प्र­त्ये­क­व­र्णा­नु­भ­व­ज­नि­त­भा­व­ना­नि­च­य­ल­ब्ध­ज­न्मनि निखि­ल­व­र्णा­व­गा­हिनि स्मृतिज्ञान एक­स्मि­न्भा­स­मा­नानां वर्णानां तदे­क­वि­ज्ञा­न­वि­ष­य­तया वैका­र्थ­धी­हे­तु­तया वैक­त्व­मौ­प­चा­रि­क­म­व­ग­न्त­व्यम् । न चैका­र्थ­धी­हे­तु­त्वे­नै­क­त्व­मे­क­त्वेन चैका­र्थ­धी­हे­तु­भाव इति परस्पराश्रयम् । नह्य­र्थ­प्र­त्य­या­त्पू­र्व­मे­ता­वन्तो वर्णा एक­स्मृ­ति­स­मा­रो­हिणो न प्रथन्ते । न च तत्प्रथनानन्तरं वृद्ध­स्या­र्थ­धी­र्नो­न्नी­यते, तदुन्नयनाच्च तेषामेकार्थधियं प्रति कार­क­त्व­मे­क­म­व­ग­म्यै­क­प­द­त्वा­ध्य­व­सा­न­मिति नान्यो­न्या­श्र­यम् । न चैक­स्मृ­ति­स­मा­रो­हिणां क्रमा­क्र­म­वि­प­री­त­क्र­म­प्र­यु­क्ता­ना­म­भेदो वर्णानामिति यथा­क­थ­ञ्चि­त्प्र­यु­क्तेभ्य एते­भ्योऽ­र्थ­प्र­त्य­य­प्र­सङ्ग इति वाच्यम् । उक्तं हि - “यावन्तो यादृशा ये च पदा­र्थ­प्र­ति­पा­दने । वर्णाः प्रज्ञा­त­सा­म­र्थ्यास्ते तथैवावबोधकाः” ॥ इति । ननु पङ्क्ति­बु­द्धा­वे­क­स्या­म­क्र­मा­या­मपि वास्तवी शालादीनामस्ति पङ्क्तिरिति तथैव प्रथा युक्ता, नच तथेह वर्णानां नित्यानां विभूनां चास्ति वास्तवः क्रमः, प्रत्य­यो­पा­धिस्तु भवेत् , सचैक इति, कुतस्त्यः क्रम एषामिति चेत् , । न एकस्यामपि स्मृतौ वर्ण­रू­प­व­त्क्र­म­व­त्पू­र्वा­नु­भू­त­ता­प­रा­म­र्शात् । तथाहि - जाराराजेति पदयोः प्रथयन्त्योः स्मृति­धि­यो­स्त­त्त्वेऽपि वर्णानां क्रम­भे­दा­त्प­द­भेदः स्फुटतरं चकास्ति । तथाच नाक्र­म­वि­प­री­त­क्र­म­प्र­यु­क्ता­ना­म­वि­शेषः स्मृति­बु­द्धा­वे­कस्यां वर्णानां क्रम­प्र­यु­क्ता­नाम् । यथाहुः - “पदा­व­धा­र­णो­पा­या­न्ब­हू­नि­च्छन्ति सूरयः । क्रम­न्यू­ना­ति­रि­क्त­त्व­स्व­र­वा­क्य­श्रु­ति­स्मृतीः” ॥ इति । शेष­म­ति­रो­हि­ता­र्थम् । दिङ्मात्रमत्र सूचितं, विस्तरस्तु तत्त्व­बि­न्दा­व­व­ग­न्तव्य इति । अलं वा नैया­यि­कै­र्वि­वा­देन ।

सन्त्वनित्या एव वर्णास्तथापि गत्वा­द्य­व­च्छे­दे­नैव सङ्ग­ति­ग्र­होऽ­ना­दिश्च व्यवहारः सेत्स्यतीत्याह -
अथापि नामेति ॥ २८ ॥

अत एव च नित्यत्वम् ।

ननु प्राच्यामेव मीमांसायां वेदस्य नित्यत्वं सिद्धं तत्किं पुनः साध्यत इत्यत आह -
स्वतन्त्रस्य कर्तुरस्मरणादेव हि स्थिते वेदस्य नित्यत्व इति ।
नह्य­नि­त्या­ज्ज­ग­दु­त्प­त्तु­म­र्हति, तस्या­प्यु­त्प­त्ति­म­त्त्वेन सापेक्षत्वात् । तस्मान्नित्यो वेदः जग­दु­त्प­त्ति­हे­तु­त्वात् , ईश्वरवदिति सिद्धमेव नित्यत्वमनेन दृढीकृतम् । शेष­म­ति­रो­हि­ता­र्थम् ॥ २९ ॥

समा­न­ना­म­रू­प­त्वा­च्चा­वृ­त्ता­व­प्य­वि­रोधो दर्श­ना­त्स्मृ­तेश्च ।

शङ्का­प­दो­त्त­र­त्वा­त्सू­त्रस्य शङ्कापदानि पठति -
अथापि स्यादिति ।
अभि­धा­ना­भि­धे­या­वि­च्छेदे हि सम्ब­न्ध­नि­त्यत्वं भवेत् । एव­म­ध्या­प­का­ध्ये­तृ­प­र­म्प­रा­वि­च्छेदे वेदस्य नित्यत्वं स्यात् । निरन्वयस्य तु जगतः प्रवि­ल­येऽ­त्य­न्ता­स­त­श्चा­पू­र्व­स्यो­त्पा­देऽ­भि­धा­ना­भि­धे­या­व­त्य­न्त­मु­च्छि­न्ना­विति किमाश्रयः सम्बन्धः स्यात् । अध्या­प­का­ध्ये­तृ­स­न्ता­न­वि­च्छेदे च किमाश्रयो वेदः स्यात् । नच जीवा­स्त­द्वा­स­ना­वा­सिताः सन्तीति वाच्यम् । अन्तः­क­र­णा­द्यु­पा­धि­क­ल्पिता हि ते तद्विच्छेदे न स्थातुमर्हन्ति । नच ब्रह्म­ण­स्त­द्वा­सना, तस्य विद्यात्मनः शुद्धस्वभावस्य तदयोगात् । ब्रह्मणश्च सृष्ट्या­दा­व­न्तः­क­र­णानि तदवच्छिन्नाश्छ जीवाः प्रादुर्भवन्तो न पूर्व­क­र्मा­वि­द्या­वा­स­ना­वन्तो भवितुमर्हन्ति, अपूर्वत्वात् । तस्मा­द्वि­रु­द्ध­मिदं शब्दा­र्थ­स­म्ब­न्ध­वे­द­नि­त्यत्वं सृष्टि­प्र­ल­या­भ्यु­प­ग­मे­नेति । अभि­धा­तृ­ग्र­ह­णे­ना­ध्या­प­का­ध्ये­ता­रा­वुक्तौ ।

शङ्कां निराकर्तुं सूत्रमवतारयति -
तत्रेदमभिधीयते समा­न­ना­म­रू­प­त्वा­दिति ।
यद्यपि महाप्रलयसमये नान्तःकरणादयः समु­दा­च­र­द्वृ­त्तयः सन्ति तथापि स्वका­र­णेऽ­नि­र्वा­च्या­या­म­वि­द्यायां लीनाः सूक्ष्मेण शक्तिरूपेण कर्म­वि­क्षे­प­का­वि­द्या­वा­स­नाभिः सहावतिष्ठन्त एव । तथा च स्मृतिः - “आसीदिदं तमो­भू­त­म­प्र­ज्ञा­त­म­ल­क्ष­णम् । अप्र­त­र्क्य­म­वि­ज्ञेयं प्रसुप्तमिव सर्वतः ॥”(म.स्मृ. १.५.) इति । ते चावधिं प्राप्य पर­मे­श्व­रे­च्छा­प्र­चो­दिता यथा कूर्मदेहे निलीनान्यङ्गानि ततो निःसरन्ति, यथा वा वर्षापाये प्राप्त­मृ­द्भा­वानि मण्डूकशरीराणि तद्वा­स­ना­वा­सि­त­तया घन­घ­ना­घ­ना­सा­रा­व­से­क­सु­हि­तानि पुन­र्म­ण्डू­क­दे­ह­भा­व­म­नु­भ­वन्ति, तथा पूर्व­वा­स­ना­व­शा­त्पू­र्व­स­मा­न­ना­म­रू­पा­ण्यु­त्प­द्यन्ते । एतदुक्तं भवति - यद्य­पी­श्व­रा­त्प्र­भवः संसारमण्डलस्य, तथापीश्वरः प्राण­भृ­त्क­र्मा­वि­द्या­स­ह­कारी तदनुरूपमेव सृजति । नच सर्ग­प्र­ल­य­प्र­वा­ह­स्या­ना­दि­ता­म­न्त­रे­णै­त­दु­प­प­द्यत इति सर्ग­प्र­ल­या­भ्य­यु­प­ग­मेऽपि संसारानादिता न विरुध्यत इति ।

तदिदमुक्तम् -
उपपद्यते चाप्युपलभ्यते च ।
आगमत इति ।

स्यादेतत् । भवत्वनादिता संसारस्य, तथापि महा­प्र­ल­या­न्त­रिते कुतः स्मरणं वेदानामित्यत आह -
अनादौ च संसारे यथा स्वाप­प्र­बो­ध­यो­रिति ।
यद्य­पि­प्रा­ण­मा­त्रा­व­शे­ष­ता­त­न्निः­शे­षते सुषु­प्त­प्र­ल­या­व­स्थ­यो­र्वि­शेषः, तथापि कर्म­वि­क्षे­प­सं­स्का­र­स­हि­त­ल­य­ल­क्षणा विद्या­व­शे­ष­ता­सा­म्येन स्वाप­प्र­ल­या­व­स्थ­यो­र­भेद इति द्रष्टव्यम् । ननु नापर्यायेण सर्वेषां सुषुप्तावस्था, केषाञ्चित्तदा प्रबोधात् , तेभ्यश्च सुप्तोत्थितानां ग्रहणसम्भवात् , प्राय­ण­का­ल­वि­प्र­क­र्ष­योश्च वास­नो­च्छे­द­का­र­ण­यो­र­भा­वेन सत्यां वासनायां स्मरणोपपत्तेः शब्दा­र्थ­स­म्ब­न्ध­वे­द­व्य­हा­रा­नु­च्छेदो युज्यते ।

महा­प्र­ल­य­स्त्व­प­र्या­येण प्राण­भृ­न्मा­त्र­वर्ती, प्राय­ण­का­ल­वि­प्र­कर्षौ च तत्र संस्का­र­मा­त्रो­च्छे­द­हेतू स्त इति कुतः सुषु­प्त­व­त्पू­र्व­प्र­बो­ध­व्य­व­हा­र­व­दु­त्त­र­प्र­बो­ध­व्य­व­हार इति चोदयति -
स्यादेतत् । स्वाप इति ।

परिहरति -
नैष दोषः । सत्यपि व्यव­हा­रो­च्छे­दि­नीति ।
अयमभिसन्धिः - न ताव­त्प्रा­य­ण­का­ल­वि­प्र­कर्षौ सर्व­सं­स्का­रो­च्छे­दकौ, पूर्वा­भ्य­स्त­स्मृ­त्य­नु­ब­न्धा­ज्जा­तस्य हर्ष­भ­य­शो­क­स­म्प्र­ति­प­त्ते­र­नु­प­पत्तेः । मनु­ष्य­ज­न्म­वा­स­नानां चाने­क­जा­त्य­न्त­र­स­ह­स्र­व्य­व­हि­तानां पुन­र्म­नु­ष्य­जा­ति­सं­व­र्त­केन कर्म­णा­भि­व्य­क्त्य­भा­व­प्र­स­ङ्गात् । तस्मा­न्नि­कृ­ष्ट­धि­या­मपि यत्र सत्यपि प्राय­ण­का­ल­वि­प्र­क­र्षादौ पूर्व­वा­स­ना­नु­वृत्तिः, तत्र कैव कथा पर­मे­श्व­रा­नु­ग्र­हेण धर्म­ज्ञा­न­वै­रा­ग्यै­श्व­र्या­ति­श­य­स­म्प­न्नानां हिर­ण्य­ग­र्भ­प्र­भृ­तीनां महाधियाम् । यथावा आ च मनुष्येभ्य आ च कृमिभ्यो ज्ञाना­दी­ना­म­नु­भू­यते निकर्षः, एवमा मनुष्येभ्य एव आ च भगवतो हिर­ण्य­ग­र्भ­ज्ज्ञा­ना­दीनां प्रकर्षोेऽपि सम्भाव्यते । तथाच तदभिवदन्तो वेदस्मृतिवादाः प्रामा­ण्य­म­प्र­त्यू­ह­म­श्नु­वते । एवं चात्रभवतां हिर­ण्य­ग­र्भा­दीनां पर­मे­श्व­रा­नु­गृ­ही­ता­ना­मु­प­प­द्यते कल्पा­न्त­र­स­म्ब­न्धि­नि­खि­ल­व्य­व­हा­रा­नु­स­न्धा­न­मिति । सुगममन्यत् ।

स्यादेतत् । अस्तु कल्पा­न्त­र­व्य­व­हा­रा­नु­स­न्धानं तेषाम् । अस्यां तु सृष्टावन्य एव वेदाः, अन्य एव चैषामर्थाः, अन्य एव वर्णाश्रमाः, धर्मा­च्चा­न­र्थोऽ­र्थ­श्चा­ध­र्मात् , अन­र्थ­श्चे­प्सि­तोऽ­र्थ­श्चा­नी­प्सितः अपू­र्व­त्वा­त्स­र्गस्य । तस्मात्कृतमत्र कल्पा­न्त­र­व्य­व­हा­रा­नु­स­न्धा­नेन, अकि­ञ्चि­त्क­र­त्वात् । तथा च पूर्व­व्य­व­हा­रो­च्छे­दा­च्छ­ब्दा­र्थ­स­म्ब­न्धश्च वेदश्चानित्यौ प्रस­ज्ये­या­ता­मि­त्यत आह -
प्राणिनां च सुखप्राप्तय इति ।
यथा­व­स्तु­स्व­भा­व­सा­मर्थ्यं हि सर्गः प्रवर्तते, नतु स्वभा­व­सा­म­र्थ्य­म­न्य­थ­यि­तु­म­र्हति । नहि जातु सुखं तत्त्वेन जिहास्यते, दुःखं चोपादित्स्यते । नच जातु धर्माधर्मयोः साम­र्थ्या­वि­प­र्ययो भवति । नहि मृत्पि­ण्डा­त्पटः, घटश्च तन्तुभ्यो जायते । तथा सति वस्तु­सा­म­र्थ्य­नि­य­मा­भा­वा­त्सर्वं सर्व­स्मा­द्भ­वे­दिति पिपासुरपि दहनमाहृत्य पिपासामुपशमयेत् , शीतार्तो वा तोयमाहृत्य शीतार्तिमिति । तेन सृष्ट्यन्तरेऽपि ब्रह्म­ह­त्या­दि­र­न­र्थ­हे­तु­रे­वा­र्थ­हे­तुश्च यागा­दि­रि­त्या­नु­पूर्व्यं सिद्धम् । एवं य एव वेदा अस्मिन्कल्पे त एव कल्पान्तरे, त एव चैषामर्थाः त एव च वर्णाश्रमाः । दृष्ट­सा­ध­र्म्य­स­म्भवे तद्वै­ध­र्म्य­क­ल्प­न­म­नु­मा­ना­ग­म­वि­रु­द्धम् । “आगमाश्चेह भूयांसो भाष्यकारेण दर्शिताः । श्रुति­स्मृ­ति­पु­रा­णा­ख्या­स्त­द्व्या­को­पोऽ­न्यथा भवेत्” ॥

तस्मा­त्सु­ष्ठू­क्तम् -
समा­न­ना­म­रू­प­त्वा­च्चा­वृ­त्ता­व­प्य­वि­रोध इति ।
'अग्निर्वा अकामयत” इति भाविनीं वृत्तिमाश्रित्य यजमान एवाग्निरुच्यते । नह्य­ग्ने­र्दे­व­ता­न्त­र­म­ग्नि­रस्ति ॥ ३० ॥

मध्वा­दि­ष्व­स­म्भ­वा­द­न­धि­कारं जैमिनिः ।
ब्रह्म­वि­द्या­स्व­धि­कारं देवर्षीणां ब्रुवाणः प्रष्टव्यो जायते, किं सर्वासु ब्रह्मविद्या स्वविशेषेण सर्वेषां किंवा कासुचिदेव केषाञ्चित् । यद्यविशेषेण सर्वासु, ततो मध्वा­दि­वि­द्या­स्व­स­म्भवः ।

कथम् । असौ वा आदित्यो देवमध्वित्यत्र हि मनुष्या आदित्यं मध्व­ध्या­से­नो­पा­सी­रन् ।
उपास्योपासकभावो हि भेदाधिष्ठानो न स्वात्म­न्या­दि­त्यस्य देवतायाः सम्भवति । न चादि­त्या­न्त­र­मस्ति । प्राचा­मा­दि­त्या­ना­म­स्मि­न्कल्पे क्षीणा­धि­का­र­त्वात् ।

पुन­श्चा­दि­त्य­व्य­पा­श्र­याणि पञ्च रोहि­ता­दी­न्यु­प­क्र­म्येति ।
अयमर्थः - “असौ वा आदित्यो देवमधु”(छा. उ. ३ । १ । १) इति देवानां मोद­हे­तु­त्वा­न्म­ध्विव मधु । भ्राम­र­म­धु­सा­रू­प्य­मा­हास्य श्रुतिः - “तस्य मधुनो द्यौरेव तिरश्चीनवंशः”(छा. उ. ३ । १ । १) । अन्तरिक्षं मध्वपूपः । आदित्यस्य हि मधुनोऽपूपः पट­ल­म­न्त­रि­क्ष­मा­काशं, तत्रावस्थानात् । यानि च सोमा­ज्य­प­यः­प्र­भृ­ती­न्यग्नौ हूयते तान्या­दि­त्य­र­श्मि­भि­र­ग्नि­सं­व­लि­तै­रू­त्प­न्न­पा­का­न्य­मृ­ती­भा­व­मा­प­न्ना­न्या­दि­त्य­म­ण्ड­ल­मृ­ङ्म­न्त्र­म­धु­पै­र्नी­यन्ते । यथा हि भ्रमराः पुष्पेभ्य आहृत्य मकरन्दं स्वस्था­न­मा­न­य­न्त्ये­व­मृ­ङ्म­न्त्र­भ्र­मराः प्रयो­ग­स­म­वे­ता­र्थ­स्मा­र­णा­दि­भि­रृ­ग्वे­द­वि­हि­तेभ्यः कर्मकुसुमेभ्य आहृत्य तन्निष्पन्नं मक­र­न्द­मा­दि­त्य­म­ण्डलं लोहिताभिरस्य प्राचीभी रश्मि­ना­डी­भि­रा­न­यन्ति, तदमृतं वसव उपजीवन्ति । अथा­स्या­दि­त्य­म­धुनो दक्षिणाभी रश्मिनाडीभिः शुक्ला­भि­र्य­जु­र्वे­द­वि­हि­त­क­र्म­कु­सु­मेभ्य आहृत्याग्नौ हुतं सोमादि पूर्व­व­द­मृ­त­भा­व­मा­पन्नं यजु­र्वे­द­म­न्त्र­भ्र­मरा आदि­त्य­म­ण्ड­ल­मा­न­यन्ति, तदेतदमृतं रुद्रा उपजीवन्ति । अथा­स्या­दि­त्य­म­धुनः प्रतीचीभी रश्मिनाडीभिः कृष्णाभिः साम­वे­द­वि­हि­त­क­र्म­कु­सु­मेभ्य आहृत्याग्नौ हुतं सोमादि पूर्व­व­द­मृ­त­भा­व­मा­पन्नं साम­म­न्त्र­स्तो­त्र­भ्र­मरा आदि­त्य­म­ण्ड­ल­मा­न­यन्ति, तदमृतमादित्या उपजीवन्ति । अथा­स्या­दि­त्य­म­धुन उदी­चि­भि­र­ति­कृ­ष्णाभी रश्मि­ना­डी­भि­र­थ­र्व­वे­द­वि­हि­तेभ्यः कर्मकुसुमेभ्य आहृत्याग्नौ हुतं सोमादि पूर्व­व­द­मृ­त­भा­व­मा­प­न्न­म­थ­र्वा­ङ्गि­र­स­म­न्त्र­भ्र­मराः, तथा­श्व­मे­ध­वा­चः­स्तो­म­क­र्म­कु­सु­मात् इति­हा­स­पु­रा­ण­म­न्त्र­भ्र­मरा आदि­त्य­म­ण्ड­ल­मा­न­यन्ति । अश्वमेधे वाचःस्तोमे च पारिप्लवं शंसन्ति इति श्रव­णा­दि­ति­हा­स­पु­रा­ण­म­न्त्रा­णा­म­प्यस्ति प्रयोगः । तदमृतं मरुत उपजीवन्ति । अथास्य या आदित्यमधुन ऊर्ध्वा रश्मिनाड्यो गोप्या­स्ता­भि­रु­पा­स­न­भ्र­मराः प्रण­व­कु­सु­मा­दा­हृ­त्या­दि­त्य­म­ण्ड­ल­मा­न­यन्ति, तदमृतमुपजीवन्ति साध्याः । ता एता आदि­त्य­व्य­पा­श्रयाः पञ्च रोहितादयो रश्मिनाड्य ऋगादिसम्बद्धाः क्रमे­णो­प­दि­श्येति योजना । एतदेवामृतं दृष्ट्वोपलभ्य यथास्वं समस्तैः करणैर्यशस्तेज इन्द्रि­य­सा­क­ल्य­वी­र्या­न्ना­द्या­न्य­मृतं तदुपलभ्यादित्ये तृप्यति । तेन खल्वमृतेन देवानां वस्वादीनां मोदनं विदधदादित्यो मधु । एतदुक्तं भवति - न केव­ल­मु­पा­स्यो­पा­स­क­भाव एक­स्मि­न्वि­रु­ध्यते, अपि तु ज्ञातृ­ज्ञे­य­भा­वश्च प्राप्य­प्रा­प­क­भा­व­श्चेति ।

तथाग्निः पाद इति ।
अधिदैवतं खल्वाकाशे ब्रह्म­दृ­ष्टि­वि­धा­ना­र्थ­मु­क्तम् । आकाशस्य हि सर्वगतत्वं रूपादिहीनत्वे च ब्रह्मणा सारूप्यं, तस्य चैतस्याकाशस्य ब्रह्म­ण­श्च­त्वारः पादा अग्न्यादयः “अग्निः पादः” इत्यादिना दर्शिताः । यथा हि गोः पादा न गवा वियुज्यन्त, एवमग्न्यादयोऽपि नाकाशेन सर्व­ग­ते­ने­त्या­का­शस्य पादाः ।

तदेवमाकाशस्य चतुष्पदो ब्रह्मदृष्टिं विधाय स्वरूपेण वायुं संव­र्ग­गु­ण­क­मु­पास्यं विधातुं महीकरोति -
वायुर्वाव संवर्गः ।

तथा स्वरू­पे­णै­वा­दित्यं ब्रह्म­दृ­ष्ट्यो­पास्यं विधातुं महीकरोति -
आदित्यो ब्रह्मेत्यादेशः
उपदेशः । अति­रो­हि­ता­र्थ­म­न्यत् ॥ ३१ ॥

यद्युच्येत नाविशेषेण सर्वेषां देवर्षीणां सर्वासु ब्रह्म­वि­द्या­स्व­धि­कारः, किन्तु यथासम्भवमिति । तत्रे­द­मु­प­ति­ष्ठते -
ज्योतिषि भावाच्च ।
लौकिकौ ह्यादि­त्या­दि­श­ब्द­प्र­यो­ग­प्र­त्ययौ ज्योति­र्म­ण्ड­ला­दिषु दृष्टौ । न चैतेषामस्ति चैतन्यम् । नह्येतेषु देव­द­त्ता­दि­व­त्त­द­नु­रूपा दृश्यन्ते चेष्टाः ।

स्यादेतत् । मन्त्रा­र्थ­वा­दे­ति­हा­स­पु­रा­ण­लो­केभ्य इति ।
तत्र “जगृभ्माते दक्षि­ण­मि­न्द्र­ह­स्तम्” इति च, “काशिरिन्द्र इत्” इति च । काशिर्मुष्टिः । तथा “तुविग्रीवो वपोदरः सुबाहुरन्धसो मदे । इन्द्रो वृत्राणि जिघ्नते”(ऋ.सं. ८-७-१७) इति विग्रहवत्त्वं देवताया मन्त्रार्थवादा अभिवदन्ति । तथा हविर्भोजनं देवताया दर्शयन्ति - “अद्धीन्द्र पिब च प्रस्थितस्य”(ऋ.सं. १०-११६-७) इत्यादयः । तथेशनम् - “इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम् । इन्द्रो वृधामिन्द्र इन्मे­धि­रा­णा­मिन्द्रः क्षेमे योगे हव्य इन्द्रः”(ऋ.सं. १०-८९-१०) इति, तथा “ईशानमस्य जगतः स्वर्दृ­श­मी­शा­न­मिन्द्र तस्थुषः”(ऋ.सं. ७-३२-२२) इति । तथा वरिवसितारं प्रति देवतायाः प्रसादं प्रसन्नायाश्च फलदानं दर्शयति “आहुतिभिरेव देवान् हुतादः प्रीणाति तस्मै प्रीता इषमूर्जं च यच्छन्ति” इति, “तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयति” इति च । धर्मशास्त्रकारा अप्याहुः - “ते तृप्ता­स्त­र्प­य­न्त्येनं सर्वकामफलैः शुभैः” । इति पुराणवचांसि च भूयांसि देव­ता­वि­ग्र­हा­दि­प­ञ्च­क­प्र­प­ञ्च­मा­प­क्षते । लौकिका अपि देव­ता­वि­ग्र­हा­दि­प­ञ्चकं स्मरन्ति चोपचरन्ति च । तथाहि - यमं दण्ड­ह­स्त­मा­लि­खन्ति, वरुणं पाशहस्तम् , इन्द्रं वज्रहस्तम् । कथयन्ति च देवता हविर्भुज इति । तथेशनामिमामाहुः - देवग्रामो देवक्षेत्रमिति । तथास्याः प्रसादं च प्रसन्नायाश्च फलदानमाहुः - प्रसन्नोऽस्य पशुपतिः पुत्रोऽस्य जातः । प्रसन्नोऽस्य धनदो धनमनेन लब्धमिति ।

तदे­त­त्पू­र्व­पक्षी दूषयति -
नेत्युच्यते । नहि तावल्लोको नामेति ।
न खलु­प्र­त्य­क्षा­दि­व्य­ति­रिक्तो लोको नाम प्रमा­णा­न्त­र­मस्ति, किन्तु प्रत्य­क्षा­दि­मूला लोकप्रसिद्धिः सत्यतामश्नुते, तदभावे त्वन्ध­प­र­म्प­रा­व­न्मू­ला­भा­वा­द्वि­प­ल्वते । नच विग्रहादौ प्रत्य­क्षा­दी­ना­म­न्य­त­म­मस्ति प्रमाणम् । न चेतिहासादि मूलं भवितुमर्हति, तस्यापि पौरुषेयत्वेन प्रत्य­क्षा­द्य­पे­क्ष­णात् ।

प्रत्यक्षादीनां चात्रा­भा­वा­दि­त्याह -
इति­हा­स­पु­रा­ण­म­पीति ।

ननूक्तं मन्त्रा­र्थ­वा­देभ्यो विग्र­हा­दि­प­ञ्च­क­प्र­सि­द्धि­रिति, अत आह -
अर्थवादा अपीति ।
विध्यु­द्दे­शे­नै­क­वा­क्य­ता­मा­प­द्य­माना अर्थवादा विधि­वि­ष­य­प्रा­श­स्त्य­ल­क्ष­णा­परा न स्वार्थे प्रमाणं भवितुमर्हन्ति । “यत्परः शब्दः स शब्दार्थः” इति हि शाब्दन्यायविदः । प्रमाणान्तरेण तु यत्र स्वार्थेऽपि समर्थ्यते, यथा वायोः क्षेपिष्ठत्वम् , तत्र प्रमा­णा­न्त­र­व­शा­त्सोऽ­भ्यु­पे­यते न तु शब्दसामर्थ्यात् । यत्र तु न प्रमा­णा­न्त­र­मस्ति, यथा विग्र­हा­दि­प­ञ्चके, सोऽर्थः शब्दा­दे­वा­व­ग­न्तव्यः । अतत्परश्च शब्दो न तदवगमयुतिमलमिति । तदवगमपरस्य तत्रापि तात्प­र्य­म­भ्यु­पे­त­व्यम् । न चैकं वाक्यमुभयपरं भवतीति वाक्यं भिद्येत । नच सम्भ­व­त्ये­क­वा­क्यत्वे वाक्यभेदो युज्यते । तस्मा­त्प्र­मा­णा­न्त­रा­न­धि­गता विग्रहादिमत्ता अन्य­प­रा­च्छ­ब्दा­द­व­ग­न्त­व्येति मनो­र­थ­मा­त्र­मि­त्यर्थः । मन्त्राश्च व्रीह्या­दि­व­च्छ्रु­त्या­दि­भि­स्तत्र तत्र विनियुज्यमानाः प्रमा­ण­भा­वा­न­नु­प्र­वे­शिनः कथमुपयुज्यन्तां तेष तेषु कर्म­स्वि­त्य­पे­क्षायां दृष्टे प्रकारे सम्भवति नादृ­ष्ट­क­ल्प­नो­चिता । दृष्टश्च प्रकारः प्रयो­ग­स­म­वे­ता­र्थ­स्मा­रणं, स्मृत्या चानुतिष्ठन्ति खल्वनुष्ठातारः पदार्थान् । औत्सर्गिकी चार्थपरता पदा­ना­मि­त्य­पे­क्षि­त­प्र­यो­ग­स­म­वे­ता­र्थ­स्म­र­ण­ता­त्प­र्याणां मन्त्राणां नानधिगते विग्रहादावपि तात्पर्यं युज्यत इति न तेभ्योऽपि तत्सिद्धिः । तस्मा­द्दे­व­ता­वि­ग्र­ह­व­त्ता­दि­भा­व­ग्रा­ह­क­प्र­मा­णा­भा­वात् प्राप्ता षष्ठ­प्र­मा­ण­गो­च­र­ता­स्येति प्राप्तम् ॥ ३२ ॥

एवं प्राप्तेऽ­भि­धी­यते -
भावं तु बादरायणोऽस्ति हि ।

तुशब्दः पूर्वपक्षं व्याव­र्त­य­ति­इ­त्य­न्तम्
इत्यादि

भूत­धा­तो­रा­दि­त्या­दि­ष्व­चे­त­न­त्व­म­भ्यु­प­ग­म्यते
इत्यन्तम् अतिरोहितार्थम् ।

मन्त्रा­र्थ­वा­दा­दि­व्य­व­हा­रा­दिति ।
आदि­ग्र­ह­णे­ने­ति­हा­स­पु­रा­ण­ध­र्म­शा­स्त्राणि गृह्यन्ते । मन्त्रादीनां व्यवहारः प्रवृत्तिस्तस्य दर्शनादिति ।

पूर्व­प­क्ष­म­नु­भा­षते -
यदप्युक्तमिति ।

एकदेशिमतेन तावत्परिहरति -
अत्र ब्रूम इति ।

तदे­त­त्पू­र्व­प­क्षि­ण­मु­त्थाप्य दूषयति -
अत्राह
पूर्वपक्षी । शाब्दी खल्वियं गतिः, यत्ता­त्प­र्या­धी­न­वृ­त्तित्वं नाम । नह्यन्यपरः शब्दोऽन्यत्र प्रमाणं भवितुमर्हति । नहि श्वित्रि­नि­र्णे­ज­न­परं श्वेतो धावतीति वाक्यमितः सारमेयगमनं गमयितुमर्हति । नच नञ्वति महा­वा­क्येऽ­वा­न्त­र­वा­क्यार्थो विधिरूपः शक्योऽवगन्तुम् । नच प्रत्य­य­मा­त्रा­त्सोऽ­प्य­र्थोऽस्य भवति, तत्प्रत्ययस्य भ्रान्तित्वात् । न पुनः प्रत्य­क्षा­दी­ना­मियं गतिः । नह्यु­द­का­ह­र­णा­र्थिना घट­द­र्श­ना­यो­न्मी­लितं चक्षुर्घटपटौ वा पटं वा केवलं नोपलभते ।

तदेवमेकदेशिनि पूर्वपक्षिणा दूषिते पर­म­सि­द्धा­न्त­वा­द्याह -
अत्रोच्यते विषम उपन्यास इति ।
अयमभिसन्धिः - लोके विशि­ष्टा­र्थ­प्र­त्या­य­नाय पदानि प्रयुक्तानि तदन्तरेण न स्वार्थ­मा­त्र­स्मा­रणे पर्यवस्यन्ति । नहि स्वार्थ­स्मा­र­ण­मा­त्राय लोके पदानां प्रयोगो दृष्टपूर्वः । वाक्यार्थे तु दृश्यते । न चैता­न्य­स्मा­रि­त­स्वा­र्थानि साक्षा­द्वा­क्यार्थं प्रत्या­य­यि­तु­मी­शते इति स्वार्थस्मारणं वाक्या­र्थ­मि­त­येऽ­वा­न्त­र­व्या­पारः कल्पितः पदानाम् । नच यदर्थं यत्तत्तेन विना पर्यवस्यतीति न स्वार्थ­मा­त्र­भि­धाने पर्यवसानं पदानाम् । नच नञ्वति वाक्ये विधानपर्यवसानम् । तथा सति नञ्पदमनर्थकं स्यात् । यथाहुः - “साक्षाद्यद्यपि कुर्वन्ति पदा­र्थ­प्र­ति­पा­द­नम् । वर्णास्तथापि नैत­स्मि­न्प­र्य­व­स्यन्ति निष्फले ॥ वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयम् । पाके ज्वालेव काष्ठानां पदा­र्थ­प्र­ति­पा­द­नम्” ॥ इति । सेय­मे­क­स्मि­न्वाक्ये गतिः । यत्र तु वाक्यस्यैकस्य वाक्यान्तरेण सम्बन्धस्तत्र लोकानुसारतो भूता­र्थ­व्यु­त्पत्तौ च सिद्धा­या­मे­कै­कस्य वाक्यस्य तत्त­द्वि­शि­ष्टा­र्थ­प्र­त्या­य­नेन पर्य­व­सि­त­वृ­त्तिनः पश्चा­त्कु­त­श्चि­द्धेतोः प्रयो­ज­ना­न्त­रा­पे­क्षा­या­म­न्वयः कल्प्यते । यथा “वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति वायव्यं श्वेतमालभेत”(कृ.य. २.१.१) इत्यत्र । इह हि यदि न स्वाध्या­या­ध्य­य­न­विधिः स्वाध्या­य­श­ब्द­वाच्यं वेदराशिं पुरु­षा­र्थ­ता­म­ने­ष्य­त्ततो भूता­र्थ­मा­त्र­प­र्य­व­सिता नार्थवादा विध्यु­द्दे­शे­नै­क­वा­क्य­ता­मा­ग­मि­ष्यन् । तस्मात् स्वाध्या­य­वि­धि­व­शा­त्कै­म­र्थ्या­का­ङ्क्षायां वृत्ता­न्ता­दि­गो­चराः सन्त­स्त­त्प्र­त्या­य­न­द्वा­रेण विधे­य­प्रा­शस्त्यं लक्षयन्ति, न पुन­र­वि­व­क्षि­त­स्वार्था एव तल्लक्षणे प्रभवन्ति, तथा सति लक्षणैव न भवेत् । अभि­धे­या­वि­ना­भा­वस्य तद्बी­ज­स्या­भा­वात् । अत एव गङ्गायां घोष इत्यत्र गङ्गाशब्दः स्वार्थ­स­म्ब­द्ध­मेव तीरं लक्षयति न तु समुद्रतीरं, तत्कस्य हेतोः, स्वार्थ­प्र­त्या­स­त्त्य­भा­वात् । न चैतत्सर्वं स्वार्था­वि­व­क्षायां कल्पते । अत एव यत्र प्रमा­णा­न्त­र­वि­रु­द्धार्था अर्थवादा दृश्यन्ते, यथा - ‘आदित्यो वै यूपः’ ‘यजमानः प्रस्तरः’ इत्येवमादयः, तत्र यथा प्रमा­णा­न्त­रा­वि­रोधः, यथा च स्तुत्यर्थता, तदु­भ­य­सि­द्ध्यर्थं “गुणवादस्तु”(जै.सू. १।२।१०) इति च “तत्सिद्धिः” इति चासू­त्र­य­ज्जै­मिनिः । तस्माद्यत्र सोऽर्थोऽ­र्थ­वा­दानां प्रमा­णा­न्त­र­वि­रु­द्ध­स्तत्र गुणवादेन प्राश­स्त्य­ल­क्ष­णेति लक्षितलक्षणा । यत्र तु प्रमा­णा­न्त­र­सं­वा­द­स्तत्र प्रमा­णा­न्त­रा­दि­वा­र्थ­वा­दा­दपि सोऽर्थः प्रसिध्यति, द्वयोः पर­स्प­रा­न­पे­क्षयोः प्रत्य­क्षा­नु­मा­न­यो­रि­वै­क­त्रार्थे प्रवृत्तेः । प्रमात्रपेक्षया त्वनुवादकत्वम् । प्रमाता ह्यव्युत्पन्नः प्रथमं यथा प्रत्य­क्षा­दि­भ्योऽ­र्थ­म­व­ग­च्छति न तथाम्नायतः, तत्र व्युत्प­त्त्या­द्य­पे­क्ष­त्वात् । नतु प्रमाणापेक्षया, द्वयोः स्वार्थेऽ­न­पे­क्ष­त्वा­दि­त्यु­क्तम् । नन्वेवं माना­न्त­र­वि­रो­धेऽपि कस्माद्गुणवादो भवति, यावता शब्दविरोधे मानान्तरमेव कस्मान्न बाध्यते, वेदा­न्तै­रि­वा­द्वै­त­वि­षयैः प्रत्यक्षादयः प्रपञ्चगोचराः, कस्मा­द्वाऽ­र्थ­वा­द­व­द्वे­दान्ता अपि गुणवादेन न नीयन्ते । अत्रोच्यते - लोकानुसारतो द्विविधो हि विषयः शब्दानाम् , द्वारतश्च तात्पर्यतश्च । यथै­क­स्मि­न्वाक्ये पदानां पदार्था द्वारतो वाक्यार्थश्च तात्पर्यतो विषयः एवं वाक्य­द्व­यै­क­वा­क्य­ता­या­मपि । यथेयं देवदत्तीया गौः क्रेतव्येत्येकं वाक्यम् , एषा बहुक्षीरेत्यपरं तदस्य बहु­क्षी­र­त्व­प्र­ति­पा­दनं द्वारम् । तात्पर्यं तु क्रेतव्येति वाक्यान्तरार्थे । तत्र यद्द्वा­र­त­स्त­त्प्र­मा­णा­न्त­र­वि­रो­धेऽ­न्यथा नीयते । यथा विषं भक्षयेति वाक्यं मा अस्य गृहे भुङ्क्ष्वेति वाक्या­न्त­रा­र्थ­परं सत् । यत्र तु तात्पर्यं तत्र मानान्तरविरोधे पौरु­षे­य­प्र­मा­ण­मेव भवति । वेदान्तास्तु पौर्वा­प­र्य­प­र्या­लो­च­नया निर­स्त­स­म­स्त­भे­द­प्र­प­ञ्च­ब्र­ह्म­प्र­ति­पा­द­न­परा अपौरुषेयता स्वतः­सि­द्ध­ता­त्त्वि­क­प्र­मा­ण­भावाः सन्त­स्त्ता­त्त्वि­क­प्र­मा­ण­भा­वा­त्प्र­त्य­क्षा­दीनि प्रच्याव्य सांव्यवहारिके तस्मि­न्व्य­व­स्था­प­यन्ति । न च ‘आदित्यो वै यूपः’ इति वाक्यमादित्यस्य यूप­त्व­प्र­ति­पा­द­न­प­र­मपि तु यूपस्तुतिपरम् । तस्मा­त्प्र­मा­णा­न्त­र­वि­रोधे द्वारीभूतो विषयो गुणवादेन नीयते । यत्र तु प्रमाणान्तरं विरोधकं नास्ति, यथा देवताविग्रहादौ, तत्र द्वारतोऽपि विषयः प्रतीयमानो न शक्यस्त्यक्तुम् । नच गुणवादेन नेतुं, को हि मुख्ये सम्भवति गौण­मा­श्र­ये­द­ति­प्र­स­ङ्गात् । तथा सत्यनधिगतं विग्रहादि प्रतिपादयत् वाक्यं भिद्येतेति चेत् अद्धा । भिन्न­मे­वै­त­द्वा­क्यम् । तथा सति तात्प­र्य­भे­दोऽ­पीति चेत् । न । द्वारतोऽपि तदवगतौ तात्प­र्या­न्त­र­क­ल्प­नाऽ­यो­गात् । नच यस्य यत्र न तात्पर्यं तस्य तत्रा­प्रा­माण्यं, तथा सति विशिष्टपरं वाक्यं विशे­ष­णे­ष्व­प्र­मा­ण­मिति विशिष्टपरमपि न स्यात् , विशे­ष­णा­वि­ष­य­त्वात् । विशि­ष्ट­वि­ष­य­त्वेन तु तदाक्षेपे पर­स्प­रा­श्र­य­त्वम् । आक्षे­पा­द्वि­शे­ष­ण­प्र­ति­पत्तौ सत्यां विशिष्टविषयत्वं विशि­ष्ट­वि­ष­य­त्वाच्च तदाक्षेपः । तस्मा­द्वि­शि­ष्ट­प्र­त्य­य­प­रे­भ्योऽपि विशेषणानि प्रतीयमानानि तस्यैव वाक्यस्य विष­य­त्वे­ना­नि­च्छ­ता­प्य­भ्यु­पे­यानि यथा, तद्या­न्य­प­रे­भ्योऽ­प्य­र्थ­वा­द­वा­क्येभ्यो देवताविग्रहादयः प्रतीयमाना असति प्रमा­णा­न्त­र­वि­रोधे न युक्ता­स्त्य­क्तुम् । नहि मुख्यार्थसम्भवे गुणवादो युज्यते । नच भूता­र्थ­म­प्य­पौ­रु­षेयं वचो मानान्तरापेक्षं स्वार्थे, येन मानान्तरासम्भवे भवे­द­प्र­मा­ण­मि­त्यु­क्तम् । स्यादेतत् । तात्प­र्यै­क्येऽपि यदि वाक्यभेदः, कथं तर्ह्य­र्थै­क­त्वा­देकं वाक्यम् । न । तत्र तत्र यथास्वं तत्त­त्प­दा­र्थ­वि­शि­ष्टै­क­प­दा­र्थ­प्र­ती­ति­प­र्य­व­सा­न­स­म्भ­वात् । स तु पदा­र्था­न्त­र­वि­शिष्टः पदार्थ एकः क्वचि­द्द्वा­र­भूतः क्वचि­द्द्वा­री­त्ये­ता­वान् विशेषः । नन्वेवं सति ओदनं भुक्त्वा ग्रामं गच्छतीत्यत्रापि वाक्य­भे­द­प्र­सङ्गः । अन्यो हि संसर्ग ओदनं भुक्त्वेति, अन्यस्तु ग्रामं गच्छतीति । न । एकत्र प्रती­ते­र­प­र्य­व­सा­नात् । भुक्त्वेति हि समानकर्तृकता पूर्वकालता च प्रतीयते । न चेयं प्रती­ति­र­प­र­का­ल­क्रि­या­न्त­र­प्र­त्य­य­म­न्त­रेण पर्यवस्यति । तस्माद्यावति पदसमूहे पदाहिताः पदार्थस्मृतयः पर्यवसन्ति तावदेकं वाक्यम् । अर्थवादवाक्ये चैताः पर्यवस्यन्ति विनैव विधिवाक्यं विशि­ष्टा­र्थ­प्र­तीतेः । न च द्वाभ्यां द्वाभ्यां पदाभ्यां विशि­ष्टा­र्थ­प्र­त्य­य­प­र्य­व­सा­नात् पञ्चषट्पदवति वाक्ये एक­स्मि­न्ना­ना­त्व­प्र­सङ्गः । नानात्वेऽपि विशेषणानां विशे­ष्य­स्यै­क­त्वात् , तस्य च सकृच्चछ्रुतस्य प्रधानभूतस्य गुण­भू­त­वि­शे­ष­णा­नु­रो­धे­ना­व­र्त­ना­यो­गात् । प्रधानभेदे तु वाक्यभेद एव । तस्मा­द्वि­धि­वा­क्या­द­र्थ­वा­द­वा­क्य­म­न्य­दिति वाक्ययोरेव स्वस्व­वा­क्या­र्थ­प्र­त्य­या­व­सि­त­व्या­पा­रयोः पश्चा­त्कु­त­श्चि­द­पे­क्षायां परस्परान्वय इति सिद्धम् ।

अपि च विधि­भि­रे­वे­न्द्रा­दि­दै­व­त्या­नीति ।
देवतामुद्दिश्य हविरवमृश्य च तद्वि­ष­य­स्व­त्व­त्याग इति यागशरीरम् । नच चेतस्यनालिखिता देवतोद्देष्टुं शक्या । नच रूपरहिता चेतसि शक्यत आलेखितुमिति यागविधिनैव तद्रूपापेक्षिणा यादृ­श­म­न्य­प­रे­भ्योऽपि मन्त्रा­र्थ­वा­दे­भ्य­स्त­द्रू­प­म­व­गतं तदभ्युपेयते, रूपा­न्त­र­क­ल्प­नायां मानाभावात् । मन्त्रा­र्थ­वा­द­यो­र­त्य­न्त­प­रो­क्ष­वृ­त्ति­प्र­स­ङ्गाच्च । यथा हि “व्रात्यो व्रात्यस्तोमेन यजते” इति व्रात्य­स्व­रू­पा­पे­क्षायां यस्य पिता पितामहो वा सोमं न पिबेत् स व्रात्य इति व्रात्य­स्व­रू­प­म­व­गतं व्रात्य­स्तो­म­वि­ध्य­पे­क्षितं सद्विधिप्रमाणकं भवति, यथा वा स्वर्गस्य रूपमलौकिकं ‘स्वर्गकामो यजेत’ इति विधिनापेक्षितं सद­र्थ­वा­द­तोऽ­व­ग­म्य­मानं विधिप्रमाणकम् , तथा देवतारूपमपि । ननूद्देशो रूप­ज्ञा­न­म­पे­क्षते न पुना रूपसत्तामपि, देवतायाः समारोपेणापि च रूप­ज्ञा­न­मु­प­प­द्यत इति समारोपितमेव रूपं देवताया मन्त्रा­र्थ­वा­दै­रु­च्यते । सत्यं, रूप­ज्ञा­न­म­पे­क्षते । तच्चा­न्य­तोऽ­स­म्भ­वा­न्म­न्त्रा­र्थ­वा­देभ्य एव । तस्य तु रूपस्यासति बाधकेऽनुभवारूढं तथाभावं परि­त्य­ज्या­न्य­था­त्व­म­न­नु­भू­य­मा­न­म­सा­म्प्रतं कल्पयितुम् । तस्मा­द्वि­ध्य­पे­क्षि­त­म­न्त्रा­र्थ­वा­दै­र­न्य­प­रै­रपि देवतारूपं बुद्धा­वु­प­नि­धी­य­मानं विधि­प्र­मा­ण­क­मे­वेति युक्तम् ।

स्यादेतत् । विध्य­पे­क्षा­या­म­न्य­प­रा­दपि वाक्या­द­व­ग­तोऽर्थः स्वीक्रियते, तदपेक्षैव तु नास्ति, शब्दरूपस्य देवताभावात् , तस्य च माना­न्त­र­वे­द्य­त्वा­दि­त्यत आह -
न च शब्दमात्रमिति ।

न केवलं - मन्त्रार्थवादतो विग्र­हा­दि­सिद्धिः, अपि तु इति­हा­स­पु­रा­ण­लो­क­स्म­र­णेभ्यो मन्त्रा­र्थ­वा­द­मू­लेभ्यो वा प्रत्य­क्षा­द­मू­लेभ्यो वेत्याह -
इतिहासेति । श्लिष्यते
युज्यते । निग­द­मा­त्र­व्या­ख्या­त­म­न्यत् । तदेवं मन्त्रा­र्थ­वा­दा­दि­सिद्धे देवताविग्रहादौ गुर्वा­दि­पू­जा­व­द्दे­व­ता­पू­जा­त्मको यागो देव­ता­प्र­सा­दा­दि­द्वा­रेण सफलोऽवकल्पते । अचेतनस्य तु पूजा­म­प्र­ति­प­द्य­मा­नस्य तदनुपपत्तिः । न चैवं यज्ञकर्मणो देवतां प्रति गुण­भा­वा­द्दे­व­तातः फलोत्पादे यागभावनायाः श्रुतं फलवत्त्वं यागस्य च तां प्रति तत्फलांशं वा प्रति श्रुतं करणत्वं हातव्यम् । यागभावनाया एव हि फलवत्या याग­ल­क्ष­ण­स्व­क­र­णा­वा­न्त­र­व्या­पा­र­त्वा­द्दे­व­ता­भो­ज­न­प्र­सा­दा­दी­नाम् , कृषिकर्मण इव तत्त­द­वा­न्त­र­व्या­पा­रस्य सस्या­धि­ग­म­सा­ध­न­त्वम् । आग्ने­या­दी­ना­मि­वो­त्प­त्ति­प­र­मा­पू­र्वा­वा­न्त­र­व्या­पा­राणां भवन्मते स्वर्गसाधनत्वम् । तस्मा­त्क­र्म­णोऽ­पू­र्वा­वा­न्त­र­व्या­पा­रस्य वा देव­ता­प्र­सा­दा­वा­न्त­र­व्या­पा­रस्य वा फलवत्त्वात् प्रधा­न­त्व­मु­भ­य­स्मि­न्नपि पक्षे समानं, नतु देवताया विग्रहादिमत्याः प्राधान्यमिति न धर्ममीमांसायाः सूत्रम् - “अपि वा शब्द­पू­र्व­त्वा­द्य­ज्ञ­कर्म प्रधानं गुणत्वे देवताश्रुतिः”(जै.सू. ९.१.९) इति विरुध्यते । तस्मात्सिद्धो देवतानां प्रायेण ब्रह्म­वि­द्या­स्व­धि­कार इति ॥ ३३ ॥

शुगस्य तद­ना­द­र­श्र­व­णा­त्त­दा­द्र­व­णा­त्सू­च्यते हि ।

अवान्तरसङ्गतिं कुर्व­न्न­धि­क­र­ण­ता­त्प­र्य­माह -
यथा मनुष्याधिकारेति ।

शङ्काबीजमाह -
तत्रेति ।
निर्मृ­ष्ट­नि­खि­ल­दुः­खा­नु­षङ्गे शाश्वतिक आनन्दे कस्य नाम चेतनस्यार्थिता नास्ति, येनार्थिताया अभावाच्छूद्रो नाधिक्रियेत । नाप्यस्य ब्रह्मज्ञाने सामर्थ्याभावः । द्विविधं हि सामर्थ्यं निजं चागन्तुकं च । तत्र द्विजातीनामिव शूद्राणां श्रव­णा­दि­सा­मर्थ्यं निजमप्रतिहतम् । अध्य­य­ना­भा­वा­दा­ग­न्तु­क­सा­म­र्थ्या­भावे सत्यनधिकार इति चेत् , हन्त, आधानाभावे सत्य­ग्न्य­भा­वा­द­ग्नि­साध्ये कर्मणि मा भूदधिकारः । नच ब्रह्म­वि­द्या­या­मग्निः साधनमिति किमि­त्य­ना­हि­ता­ग्नयो नाधिक्रियन्ते । न चाध्य­य­ना­भा­वा­त्त­त्सा­ध­ना­या­म­न­धि­कारो ब्रह्म­वि­द्या­या­मिति साम्प्रतम् । यतो युक्तं “यदाहवनीये जुहोति”(श.ब्रा. ३-५-३-३) इत्याहवनीयस्य होमाधिकरणतया विधा­ना­त्त­द्रू­प­स्या­लौ­कि­क­त­या­ना­र­भ्या­धी­त­वा­क्य­वि­हि­ता­दा­धा­ना­द­न्य­तोऽ­न­धि­ग­मा­दा­धा­नस्य च द्विजा­ति­स­म्ब­न्धि­तया विधा­ना­त्त­त्सा­ध्योऽ­ग्नि­र­लौ­किको न शूद्रस्यास्तीति नाह­व­नी­या­दि­साध्ये कर्मणि शूद्रस्याधिकार इति । नच तथा ब्रह्म­वि­द्या­या­म­लौ­कि­क­मस्ति साधनं यच्छूद्रस्य न स्यात् । अध्ययननियम इति चेत् । न । विकल्पासहत्वात् । तदध्ययनं पुरुषार्थे वा नियम्येत , यथा धनार्जने प्रतिग्रहादि । क्रत्वर्थे वा, यथा ‘व्रीहीनवहन्ति’ इत्यवघातः । न तावत्क्रत्वर्थे । नहि “स्वाध्या­योऽ­ध्ये­तव्यः”(तै.आ. २.१५.१) इति कञ्चित्क्रतुं प्रकृत्य पठ्यते, यथा दर्शपूर्णमासं प्रकृत्य ‘व्रीहीनवहन्ति’ इति । न चाना­र­भ्या­धी­त­म­प्य­व्य­भि­च­रि­त­क्र­तु­स­म्ब­न्धि­तया क्रतु­मु­प­स्था­प­यति, येन वाक्येनैव क्रतुना सम्ब­ध्ये­ता­ध्य­य­नम् । नहि यथा जुह्वादि अव्य­भि­च­रि­त­क्र­तु­स­म्ब­द्ध­मेवं स्वाध्याय इति । तस्मान्नैव क्रत्वर्थे नियमः । नापि पुरुषार्थे । पुरु­षे­च्छा­धी­न­प्र­वृ­त्तिर्हि पुरुषार्थो भवति, यथा फलं तदुपायो वा । तदुपायेऽपि हि विधितः प्राक् सामान्यरूपा प्रवृत्तिः पुरु­षे­च्छा­नि­ब­न्ध­नैव । इतिकर्तव्यतासु तु सामान्यतो विशेषतश्च प्रवृ­त्ति­र्वि­धि­प­रा­धी­नैव । नह्यनधिगतकरणभेद इतिकर्तव्यतासु घटते । तस्मा­द्वि­ध्य­धी­न­प्र­वृ­त्ति­त­या­ङ्गानां क्रत्वर्थता । क्रतुरिति हि विधिविषयेण विधिं परामृशति विषयिणम् । तेनार्थ्यते विषयीक्रियत इति क्रत्वर्थः । न चाध्ययनं वा स्वाध्यायो वा तदर्थज्ञानं वा प्राग्विधेः पुरु­षे­च्छा­धी­न­प्र­वृत्तिः, येन पुरुषार्थः स्यात् । यदि चाध्य­य­ने­नै­वा­र्था­व­बो­ध­रूपं नियम्येत ततो मानान्तरविरोधः । तद्रूपस्य विनाप्यध्ययनं पुस्त­का­दि­पा­ठे­ना­प्य­धि­ग­मात् । तस्मात् “सुवर्णं भार्यं” इतिवदध्ययनादेव फलं कल्पनीयम् । तथा चाध्य­य­न­वि­धे­र­नि­या­म­क­त्वा­च्छू­द्र­स्या­ध्य­य­नेन वा पुस्तकादिपाठेन वा सामर्थ्यमस्तीति सोऽपि ब्रह्म­वि­द्या­या­म­धि­क्रि­येत । मा भूद्वा­ध्य­य­ना­भा­वा­त्स­र्वत्र ब्रह्म­वि­द्या­या­म­धि­कारः, संवर्गविद्यायां तु भविष्यति । “अह हारेत्वा शूद्र” इति शूद्रं सम्बोध्य तस्याः प्रवृत्तेः । न चैष शूद्रशब्दः कया­चि­द­व­य­व­व्यु­त्प­त्त्याऽ­शूद्रे वर्तनीयः, अवयवप्रसिद्धितः समु­दा­य­प्र­सि­द्धे­र­न­पे­क्ष­तया बलीयस्त्वात् । तस्मा­द्य­था­न­धी­या­न­स्येष्टौ निषा­द­स्थ­प­ते­र­धि­कारो वच­न­सा­म­र्थ्या­देवं संवर्गविद्यायां शूद्रस्याधिकारो भविष्यतीति प्राप्तम् ।

एवं प्राप्ते ब्रूमः - न शूद्रस्याधिकारः वेदा­ध्य­य­ना­भा­वा­दिति ।
अयमभिसन्धिः - यद्यपि “स्वाध्या­योऽ­ध्ये­तव्यः” इत्य­ध्य­य­न­वि­धिर्न किञ्चि­त्फ­ल­व­त्क­र्मा­र­भ्या­म्नातः, नाप्य­व्य­भि­च­रि­त­क्र­तु­स­म्ब­न्ध­प­दा­र्थ­गतः, नहि जुह्वा­दि­व­त्स्वा­ध्या­योऽ­व्य­भि­च­रि­त­क्र­तु­स­बन्धः, तथापि स्वाध्या­य­स्या­ध्य­य­न­सं­स्का­र­वि­धि­र­ध्य­य­न­स्या­पे­क्षि­तो­पा­य­ता­म­व­ग­म­यन् किं पिण्ड­पि­तृ­य­ज्ञ­वत् स्वर्गं वा, सुवर्णं भार्य­मि­ति­व­दा­र्थ­वा­दिकं वा फलं कल्पयित्वा विनियोगभङ्गेन स्वाध्या­ये­ना­धी­यी­ते­त्ये­व­मर्थः कल्पतां, किंवा पर­म्प­र­या­प्य­न्य­तोऽ­पे­क्षि­त­म­धि­गम्य निर्वृणोत्विति विषये, न दृष्टद्वारेण पर­म्प­र­या­प्य­न्य­तोऽ­पे­क्षि­त­प्र­ति­लम्भे च यथा­श्रु­ति­वि­नि­यो­गो­प­पत्तौ च सम्भवन्त्यां श्रुति­वि­नि­यो­ग­भ­ङ्गे­ना­ध्य­य­ना­दे­वा­श्रु­ता­दृ­ष्ट­फ­ल­क­ल्प­नो­चिता । दृष्टश्च स्वाध्या­या­ध्य­य­न­सं­स्कारः । तेन हि पुरुषेण स प्राप्यते, प्राप्तश्च फल­व­त्क­र्म­ब्र­ह्मा­व­बो­ध­म­भ्यु­द­य­निः­श्रे­य­स­प्र­यो­ज­न­मु­प­ज­न­यति, नतु सुवर्णधारणादौ दृष्टद्वारेण किञ्चि­त्प­र­म्प­र­या­प्य­स्त्य­पे­क्षितं पुरुषस्य, तस्मा­द्वि­प­रि­वृत्य साक्षा­द्धा­र­णा­देव विनियोगभङ्गेन फलं कल्प्यते । यदा चाध्यनसंस्कृतेन स्वाध्यायेन फल­व­त्क­र्म­ब्र­ह्मा­व­बोधो भाव्य­मा­नोऽ­भ्यु­द­य­निः­श्रे­य­स­प्र­यो­जन इति स्थापितं तदा यस्याध्ययनं तस्यैव कर्म­ब्र­ह्मा­व­बो­धोऽ­भ्यु­द­य­निः­श्रे­य­स­प्र­यो­जनो नान्यस्य, यस्य चोप­न­य­न­सं­स्का­र­स्त­स्यै­वा­ध्य­यनं, स च द्विजा­ती­ना­मे­वे­त्यु­प­न­य­ना­भा­वे­ना­ध्य­य­न­सं­स्का­रा­भा­वात् पुस्त­का­दि­प­ठि­त­स्वा­ध्या­य­ज­न्योऽ­र्था­व­बोधः शूद्राणां न फलाय कल्पत इति शास्त्री­य­सा­म­र्थ्या­भा­वान्न शूद्रो ब्रह्म­वि­द्या­या­म­धि­क्रि­यत इति सिद्धम् ।

यज्ञेऽनवकॢप्त इति ।
यज्ञ­ग्र­ह­ण­मु­प­ल­क्ष­णा­र्थम् । विद्या­या­म­न­व­कॢप्त इत्यपि द्रष्टव्यम् । सिद्धवदभिधानस्य न्याय­पू­र्व­क­त्वा­न्न्या­यस्य चोभयत्र साम्यात् ।

द्वितीयं पूर्व­प­क्ष­म­नु­भा­षते -
यत्पुनः संव­र्ग­वि­द्या­या­मिति ।

दूषयति -
न तल्लिङ्गम् ।

कुतः ।
न्यायाभावात् ।
न तावच्छूद्रः संवर्गविद्यायां साक्षा­च्चो­द्यते, यथा “एतया निषादस्थपतिं याजयेत्” इति निषादस्थपतिः । किन्त्व­र्थ­वा­द­ग­तोऽयं शूद्रशब्दः, स चान्यतः सिद्ध­म­र्थ­व­द्यो­त­यति न तु प्राप­य­ती­त्य­ध्व­र­मी­मां­सकाः । अस्माकं तु अन्यपरादपि वाक्यादसति बाधके प्रमा­णा­न्त­रे­णा­र्थोऽ­व­ग­म्य­मानो विधिना चापेक्षितः स्वीक्रियत एव । न्याय­श्चा­स्मि­न्नर्थे उक्तो बाधकः । नच विध्य­पे­क्षास्ति, द्विजा­त्य­धि­का­र­प्र­ति­ल­म्भेन विधेः पर्यवसानात् । विध्यु­द्दे­श­ग­तत्वे त्वयं न्यायोऽपोद्यते वच­न­ब­ला­न्नि­षा­द­स्थ­प­ति­वन्न त्वेष विध्युद्देशगत इत्युक्तम् । तस्मा­न्ना­र्थ­वा­द­मा­त्रा­च्छू­द्रा­धि­का­र­सि­द्धि­रिति भावः ।

अपि च किम­र्थ­वा­द­ब­ला­द्वि­द्या­मा­त्रेऽ­धि­कारः शूद्रस्य कल्पते संवर्गविद्यायां वा न ताव­द्वि­द्या­मात्र इत्याह -
कामं चायमिति ।

नहि संव­र्ग­वि­द्या­या­म­र्थ­वादः श्रुतो विद्या­मा­त्रेऽ­धि­का­रि­ण­मु­प­न­य­त्य­ति­प्र­स­ङ्गात् । अस्तु तर्हि संव­र्ग­वि­द्या­या­मेव शूद्रस्याधिकार इत्यत आह -
अर्थ­वा­द­स्थ­त्वा­दिति ।

तत्कि­मे­त­च्छू­द्र­पदं प्रमत्तगीतं, न चैत्यद्युक्तं, तुल्यं हि साम्प्र­दा­यि­क­मि­त्यत आह -
शक्यते चायं शूद्रशब्द इति ।
एवं किला­त्रो­पा­ख्या­यते - जानश्रुतिः पौत्रायणो बहुदायी श्रद्धादेयो बहुपाक्यः प्रिया­ति­थि­र्ब­भूव । स च तेषु तेषु ग्राम­न­ग­र­शृ­ङ्गा­ट­केषु विवि­धा­ना­म­न्न­पा­नानां पूर्णानतिथिभ्य आवसथान् कारयामास । सर्वत एत्यै­ते­ष्वा­व­स­थेषु ममान्नपानमर्थिन उपयोक्ष्यन्त इति । अथास्य राज्ञो दानशौण्डस्य गुण­ग­रि­म­स­न्तो­षिताः सन्तो देवर्षयो हंसरूपमास्थाय तदनुग्रहाय तस्य निदाघसमये दोषा हर्म्य­त­ल­स्थ­स्यो­परि माला­मा­ब­ध्या­जग्मुः । तेषामग्रेसरं हंसं सम्बोध्य पृष्ठतः पतन्नेकतमो हंसः साद्भुतमभ्युवाद । भो भो भल्लाक्ष भल्लाक्ष, जानश्रुतेरस्य पौत्रायणस्य द्युनिशं द्युलोक आयतं ज्योतिस्तन्मा प्रसा­ङ्क्षी­र्मै­तत्त्वा धाक्षीदिति । तमे­व­मु­क्त­व­न्त­म­ग्र­गामी हंसः प्रत्युवाच । कं वरमेनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थ । अयमर्थः - वर इति सोपहासमवरमाह । अथवा वरो वराकोऽयं जानश्रुतिः । कमित्याक्षेपे । यस्मादयं वरा­क­स्त­स्मा­त्क­मेनं किम्भूतमेतं सन्तं प्राणिमात्रं रैक्वमिव सयुग्वानमात्थ । युग्वा गन्त्री शकटी तया सह वर्तत इति स युग्वा रैक्वस्तमिव कमेनं प्राणिमात्रं जानश्रुतिमात्थ । रैक्वस्य हि ज्योतिरसह्यं नत्वेतस्य प्राणिमात्रस्य । तस्य हि भगवतः पुण्य­ज्ञा­न­स­म्भा­र­स­म्भृ­तस्य रैक्वस्य ब्रह्मविदो धर्मे त्रैलो­क्यो­द­र­व­र्ति­प्रा­ण­भृ­न्मा­त्र­ध­र्मोऽ­न्त­र्भ­वति न पुना रैक्वधर्मकक्षां कस्य­चि­द्ध­र्मोऽ­व­गा­हत इति । अथैष हंस­व­च­ना­दा­त्म­नोऽ­त्य­न्त­नि­क­र्ष­मु­त्क­र्ष­काष्ठां च रैक्व­स्यो­प­श्रुत्य विषण्णमानसो जानश्रुतिः कितव इवाक्षपराजितः पौनःपुन्येन निःश्व­स­न्नु­द्वेलं कथं कथमपि निशी­थ­म­ति­वा­ह­या­म्ब­भूव । ततो निशा­व­सा­न­पि­शु­न­म­नि­भृ­त­व­न्दा­रु­वृ­न्द­प्रा­र­ब्ध­स्तु­ति­स­ह­स्र­सं­व­लितं मङ्ग­ल­तू­र्य­नि­र्घो­ष­मा­कर्ण्य तल्पतलस्थ एव राजा एकपदे यन्ता­र­मा­हू­या­दि­देश, वयस्य, रैक्वाह्वयं ब्रह्म­वि­द­मे­क­रतिं सयु­ग्वा­न­म­ति­वि­वि­क्तेषु तेषु तेषु विपि­न­न­ग­नि­कु­ञ्ज­न­दी­पु­लि­ना­दि­प्र­दे­शे­ष्व­न्विष्य प्रय­त्न­तोऽ­स्म­भ्य­मा­च­क्ष्वेति । स च तत्र तत्रान्विष्यन् क्वचि­द­ति­वि­विक्ते देशे शकटस्याधस्तात् पामानं कण्डूयमानं ब्राह्म­णा­य­न­म­द्रा­क्षीत् । तं च दृष्ट्वा रैक्वोऽयं भवितेति प्रति­भा­वा­नु­प­विश्य सवि­न­य­म­प्रा­क्षीत् , त्वमसि हे भगवन् , सयुग्वा रैक्व इति । तस्य च रैक्वभावानुमतिं च तैस्तै­रि­ङ्गि­तै­र्गा­र्ह­स्थ्येच्छां धनायां चोन्नीय यन्ता राज्ञे निवेदयामास । राजा तु तं निशम्य गवां षट्शतानि निष्कं च हारं चाश्वतरीरथं चादाय सत्वरं रैक्वं प्रतिचक्रमे । गत्वा चाभ्युवाद । है रैक्व, गवां षट्शतानीमानि निष्कश्च हार­श्चा­य­म­श्व­त­री­रथः, एतदादत्स्व, अनुशाधि मां भगवन्निति । तमेवमुक्तवन्तं प्रति साटोपं च सस्पृहं चोवाच रैक्वः । अह हारेत्वा शूद्र, तवैव सह गोभिरस्त्विति । अहेति निपातः साटोपमामन्त्रणे । हारेण युक्ता इत्वा गन्त्री रथो हारेत्वा स गोभिः सह तवैवास्तु, किमेतन्मात्रेण मम धने­ना­क­ल्प­व­र्तिनो गार्हस्थ्यस्य निर्वा­हा­नु­प­यो­गि­नेति भावः । आहरेत्वेति तु पाठोऽनर्थकतया च गोभिः सहेत्यत्र प्रति­स­म्ब­न्ध्य­नु­पा­दा­नेन चाचा­र्यै­र्दू­षितः । तद­स्या­मा­ख्या­यि­कायां शक्यः शूद्रशब्देन जानश्रुती राज­न्योऽ­प्य­व­य­व­व्यु­त्पत्त्या वक्तुम् । स हि रैक्वः परोक्षज्ञतां चिख्या­प­यि­षु­रा­त्मनो जानश्रुतेः शूद्रेति शुचं सूचयामास । कथं पुनः शूद्रशब्देन शुगुत्पन्ना सूच्यत इति ।

उच्यते -
तदाद्रवणात् ।
तद्व्याचष्टे - शुचमभिदुद्राव जानश्रुतिः । शुचं प्राप्त­वा­नि­त्यर्थः । शुचा वा जानश्रुतिः दुद्रुवे । शुचा प्राप्त इत्यर्थः । अथवा शुचा रैक्वं जान­श्रु­ति­र्दु­द्राव गतवान् । तस्मा­त्त­दा­द्र­व­णा­दिति तच्छब्देन शुग्वा जानश्रुतिर्वा रैक्वो वा परामृश्यत इत्युक्तम् ॥ ३४ ॥

क्षत्रि­य­त्व­ग­ते­श्चो­त्त­रत्र चैत्ररथेन लिङ्गात् ।

इतश्च न जातिशूद्रो जानश्रुतिः - यत्कारणं

प्रकरणनिरूपणे क्रियमाणे क्षत्रियत्वमस्य जान­श्रु­ते­र­व­ग­म्यते चैत्ररथेन लिङ्गादिति व्याचक्षाणः प्रकरणं निरूपयति -
उत्तरत्र हि संव­र्ग­वि­द्या­वा­क्य­शेषे ।
चैत्र­र­थे­ना­भि­प्र­ता­रिणा निश्चि­त­क्ष­त्रि­य­त्वेन समानायां संवर्गविद्यायां सम­भि­व्या­हा­रा­ल्लि­ङ्गा­त्स­न्दि­ग्ध­क्ष­त्रि­य­भावो जानश्रुतिः क्षत्रियो निश्चीयते । “अथ ह शौनकं च कापे­य­म­भि­प्र­ता­रिणं च काक्षसेनिं सूदेन परिविष्यमाणौ ब्रह्मचारी बिभिक्षे”(बृ. उ. ४ । ३ । ५) इति प्रसि­द्ध­या­ज­क­त्वेन कापे­ये­ना­भि­प्र­ता­रिणो योगः प्रतीयते । ब्रह्म­चा­रि­भि­क्षया चास्या­शू­द्र­त्व­म­व­ग­म्यते । नहि जातु ब्रह्मचारी शूद्रान् भिक्षते । याजकेन च कापेयेन योगा­द्या­ज्योऽ­भि­प्र­तारी । क्षत्रियत्वं चास्य चैत्ररथित्वात् । “तस्मा­च्चै­त्र­रथो नामैकः क्षत्रपतिरजायत” इति वचनात् । चैत्ररथित्वं चास्य कापेयेन याजकेन योगात् ।

एतेन वै चित्ररथं कापेया अयाजयन्निति
छन्दोगानां द्विरात्रे श्रूयते । तेन चित्ररथस्य याजकाः कापेयाः । एष चाभिप्रतारी चित्ररथादन्यः सन्नेव कापेयानां याज्यो भवति । यदि चैत्ररथिः स्यात् समानान्वयानां हि प्रायेण समानान्वया याजका भवन्ति । तस्मा­च्चै­त्र­र­थि­त्वा­द­भि­प्र­तारी काक्षसेनिः क्षत्रियः । तत्स­म­भि­व्या­हा­राच्च जानश्रुतिरपि क्षत्रियः सम्भाव्यते ।

इतश्च क्षत्रियो जान­श्रु­ति­रि­त्याह -
क्षत्तृ­प्रे­ष­णा­द्यै­श्व­र्य­यो­गाच्च ।
क्षत्तृप्रेषणे चार्थसम्भवे च तादृशस्य वदा­न्य­प्र­ष्ठ­स्यै­श्वर्यं प्रायेण क्षत्रियस्य दृष्टं युधि­ष्ठि­रा­दि­व­दिति ॥ ३५ ॥

संस्का­र­प­रा­म­र्शा­त्त­द­भा­वा­भि­ला­पाच्च ।
न केव­ल­मु­प­नी­ता­ध्य­य­न­वि­धि­प­रा­म­र्शेन न शूद्रस्याधिकारः किन्तु तेषु तेषु विद्यो­प­दे­श­प्र­दे­षू­प­न­य­न­सं­स्का­र­प­रा­म­र्शात् शूद्रस्य तद­भा­वा­भि­धा­ना­द्ब्र­ह्म­वि­द्या­या­म­न­धि­कार इति ।

नन्व­नु­प­नी­त­स्यापि ब्रह्मोपदेशः श्रूयते - “तान्हा­नु­प­नी­यैव”(छा. उ. ५ । ११ । ७) इति । तथा शूद्र­स्या­नु­प­नी­त­स्यै­वा­धि­कारो भवीष्यतीत्यत आह -
तान्हा­नु­प­नी­यै­वे­त्यपि प्रद­र्शि­तै­वो­प­न­य­न­प्राप्तिः ।
प्राप्ति­पू­र्व­क­त्वा­त्प्र­ति­षे­धस्य येषामुपनयनं प्राप्तं तेषामेव तन्निषिध्यते । तच्च द्विजातीनामिति द्विजातय एव निषिद्धोपनयना अधिक्रियन्ते न शूद्र इति ॥ ३६ ॥

तदभावनिर्धारणे च प्रवृत्तेः ।
सत्यकामो ह वै जाबालः प्रमीतपितृकः स्वां मातरं जबालां पप्रच्छ, अहमाचार्यकुले ब्रह्मचर्यं चरिष्यामि, तद्ब्रवीतु भवती किङ्गो­त्रोऽ­ह­मिति । साब्रवीत् । त्वज्ज­न­क­प­रि­च­र­ण­प­र­तया नाहमज्ञासिषं गोत्रं तवेति । स त्वाचार्यं गौतममुपससाद । उपसद्योवाच, हे भगवन् , ब्रह्म­च­र्य­मु­पेयां त्वयीति । स होवाच, नाविज्ञातगोत्र उपनीयत इति किङ्गोत्रोऽसीति । अथोवाच सत्यकामो नाहं वेद स्वं गोत्रं, स्वां मातरं जबालामपृच्छं, सापि न वेदेति । तदु­प­श्रु­त्या­भ्य­धा­द्गौ­तमः, नाद्विजन्मन आर्ज­व­यु­क्त­मी­दृशं वचः, तेनास्मिन्न शूद्र­त्व­स­म्भा­व­ना­स्तीति त्वां द्विजा­ति­ज­न्मा­न­मु­प­नेष्य इत्यु­प­ने­तु­म­नु­शा­सितुं च जाबालं गौतमः प्रवृत्तः । तेनापि शूद्रस्य नाधिकार इति विज्ञायते ।

न सत्यादगा इति ।
न सत्य­म­ति­क्रा­न्त­वा­न­सीति ॥ ३७ ॥

श्रव­णा­ध्य­य­ना­र्थ­प्र­ति­षे­धा­त्स­मृ­तेश्च ।
निगदव्याख्यानेन भाष्येण व्याख्यातम् । अति­रो­हि­ता­र्थ­म­न्यत् ॥ ३८ ॥

कम्पनात् ।
प्राण­व­ज्र­श्रु­ति­ब­ला­द्वाक्यं प्रकरणं च भङ्क्त्वा वायुः पञ्च­वृ­त्ति­रा­ध्या­त्मिको बाह्यश्चात्र प्रतिपाद्यः । तथाहि - प्राणशब्दो मुख्यो वाया­वा­ध्या­त्मिके, वज्रशब्दश्चाशनौ । अशनिश्च वायुपरिणामः । वायुरेव हि बाह्यो धूम­ज्यो­तिः­स­लि­ल­सं­व­लितः पर्जन्यभावेन परिणतो विद्यु­त्स्त­न­यि­त्नु­वृ­ष्ट्य­श­नि­भा­वेन विवर्तते । यद्यपि च सर्वं जगदिति सवायुकं प्रतीयते तथापि सर्वशब्द आपेक्षिकोऽपि न स्वाभिधेयं जहाति किन्तु सङ्कु­च­द्वृ­त्ति­र्भ­वति । प्राणवज्रशब्दौ तु ब्रह्मविषयत्वे स्वार्थमेव त्यजतः । तस्मात् स्वार्थ­त्या­गा­द्वरं वृत्तिसङ्कोचः, स्वार्थ­ले­शा­व­स्था­नात् । अमृतशब्दोऽपि मरणाभाववचनो न सार्वकालिकं तदभावं ब्रूते, ज्योति­र्जी­वि­त­यापि तदुपपत्तेः । यथा अमृता देवा इति । तस्मा­त्प्रा­ण­व­ज्र­श्रु­त्य­नु­रो­धा­द्वा­यु­रे­वात्र विवक्षितो न ब्रह्मेति प्राप्तम् ।

एवं प्राप्त उच्यते -
कम्पनात् ।
सवायुकस्य जगतः कम्पनात् , परमात्मैव शब्दात्प्रमित इति मण्डू­क­प्लु­त्या­नु­ष­ज्जते । ब्रह्मणो हि बिभ्य­दे­त­ज्ज­ग­त्कृत्स्नं स्वव्यापारे नियमेन प्रवर्तते न तु मर्या­दा­म­ति­व­र्तते ।

एतदुक्तं भवति - न श्रुति­स­ङ्को­च­मात्रं श्रुत्य­र्थ­प­रि­त्यागे हेतुः, अपि तु पूर्वा­प­र­वा­क्यै­क­वा­क्य­ता­प्र­क­र­णाभ्यां संवलितः श्रुतिसङ्कोचः । तदिदमुक्तम् -
पूर्वा­प­र­यो­र्ग्र­न्थ­भा­ग­यो­र्ब्र­ह्मैव निर्दि­श्य­मा­न­मु­प­ल­भा­महे । इहैव कथमन्तराले वायुं निर्दिश्यमानं प्रतिपद्येमहीति ।
तदनेन वाक्यैकवाक्यता दर्शिता ।

प्रकरणादपि
इति भाष्येण प्रकरणमुक्तम् । यत्खलु पृष्टं तदेव प्रधानं प्रति­व­क्त­व्य­मिति तस्य प्रकरणम् । पृष्टा­द­न्य­स्मिं­स्तू­च्य­माने शास्त्रमप्रमाणं भवे­द­स­म्ब­द्ध­प्र­ला­पि­त्वात् ।

यतु वायु­वि­ज्ञा­ना­त्क्व­चि­द­मृ­त­त्व­म­भि­हि­त­मा­पे­क्षिकं तदिति ।
'अप­पु­न­र्मृत्युं जयति” इति श्रुत्या ह्यप­मृ­त्यो­र्वि­जय उक्तो नतु परममृत्युविजय इत्या­पे­क्षि­कत्वं, तच्च तत्रैव प्रक­र­णा­न्त­र­क­र­णेन हेतुना । न केवलमपश्रुत्या तदापेक्षिकमपि तु परमात्मानमभिधाय “अतोऽ­न्य­दा­र्तम्”(बृ. उ. ३ । ४ । २) इति वाय्वा­दे­रा­र्त­त्वा­भि­धा­नात् । नह्या­र्ता­भ्या­सा­द­नार्तो भवतीति भावः ॥ ३९ ॥

ज्योति­र्द­र्श­नात् ।
अत्र हि ज्योतिःशब्दस्य तेजसि मुख्यत्वात् , ब्रह्मणि जघन्यत्वात् , प्रकरणाच्च श्रुते­र्ब­ली­य­स्त्वात् , पूर्व­व­च्छ्रु­ति­स­ङ्को­चस्य चात्राभावात् , प्रत्युत ब्रह्म­ज्यो­तिः­पक्षे क्त्वाश्रुतेः पूर्व­का­ला­र्थायाः पीडनप्रसङ्गात् , समु­त्था­न­श्रु­तेश्च तेज एव ज्योतिः । तथाहि - समु­त्था­न­मु­द्ग­म­न­मु­च्यते, न तु विवेकविज्ञानम् । उद्गमनं च तेजः­प­क्षेऽ­र्चि­रा­दि­मा­र्गे­णो­प­प­द्यते । आदि­त्य­श्चा­र्चि­रा­द्य­पे­क्षया परं ज्योतिर्भवतीति तदुपसम्पद्य तस्य समीपे भूत्वा स्वेन रूपे­णा­भि­नि­ष्प­द्यते, कार्य­ब्र­ह्म­लो­क­प्राप्तौ क्रमेण मुच्यते । ब्रह्म­ज्यो­तिः­पक्षे तु ब्रह्म भूत्वा का परा स्वरू­प­नि­ष्पत्तिः । नच देहा­दि­वि­वि­क्त­ब्र­ह्म­स्व­रू­प­सा­क्षा­त्कारो वृत्ति­रू­पोऽ­भि­नि­ष्पत्तिः । सा हि ब्रह्म­भू­या­त्प्रा­चीना न तु पराचीना । सेय­मु­प­स­म्प­द्येति क्त्वाश्रुतेः पीडा । तस्मात्तिसृभिः श्रुतिभिः प्रक­र­ण­बा­ध­ना­त्तेज एवात्र ज्योतिरिति प्राप्तम् ।

एवं प्राप्तेऽ­भि­धी­यते -
परमेव ब्रह्म ज्योतिःशब्दम् । कस्मात् । दर्शनात् । तस्य हीह प्रकरणे अनु­वृ­त्ति­र्दृ­श्यते ।
यत्खलु प्रतिज्ञायते, यच्च मध्ये परामृश्यते, यच्चो­प­सं­ह्रि­यते, स एव प्रधानं प्रकरणार्थः । तदन्तःपातिनस्तु सर्वे तदनुगुणतया नेतव्याः, नतु श्रुत्य­नु­रो­ध­मा­त्रेण प्रक­र­णा­द­प­क्र­ष्टव्या इति हि लोकस्थितिः । अन्य­थो­पां­शु­या­ज­वाक्ये जामि­ता­दो­षो­प­क्रमे तत्प्र­ति­स­मा­धा­नो­प­सं­हारे च तदन्तःपातिनो “विष्णुरुपांशु यष्टव्यः” इत्यादयो विधि­श्रु­त्य­नु­रो­धेन पृथग्विधयः प्रसज्येरन् । तत्किमिदानीं “तिस्र एव साह्नस्योपसदः कार्या द्वादशाहीनस्य” इति प्रक­र­णा­नु­रो­धा­त्सा­मु­दा­य­प्र­सि­द्धि­ब­ल­ल­ब्ध­म­ह­र्ग­णा­भि­धानं परि­त्य­ज्या­ही­न­शब्दः कथ­म­प्य­व­य­व­व्यु­त्पत्त्या सान्नं ज्योति­ष्टो­म­म­भि­धाय तत्रैव द्वादशोपसत्तां विधत्ताम् । स हि कृत्स्न­वि­धा­नान्न कुतश्चिदपि हीयते क्रतोरित्यहीनः शक्यो वक्तुम् । मैवम् । अवयवप्रसिद्धेः समु­दा­य­प्र­सि­द्धि­र्ब­ली­य­सीति श्रुत्या प्रकरणबाधनान्न द्वाद­शो­प­स­त्ता­म­ही­न­गु­ण­युक्ते ज्योतिष्टोमे शक्नोति विधातुम् । नाप्यतोऽपकृष्टं सदहर्गणस्य विधत्ते । पर­प्र­क­र­णेऽ­न्य­ध­र्म­वि­धे­र­न्या­य्य­त्वात् । अस­म्ब­द्ध­प­द­व्य­वा­य­वि­च्छि­न्नस्य प्रकरणस्य पुन­र­नु­स­न्धा­न­क्ले­शात् । तेनानपकृष्टेनैव द्वाद­शा­ही­न­स्ये­ति­वा­क्येन साह्नस्य तिस्र उसपदः कार्या इति विधिं स्तोतुं द्वादशाहविहिता द्वादशोपसत्ता तत्प्रकृतित्वेन च सर्वाहीनेषु प्राप्ता निवी­ता­दि­व­द­नू­द्यते । तस्मा­द­ही­न­श्रुत्या प्रकरणबाधेऽपि न द्वाद­शा­ही­न­स्येति वाक्यस्य प्रकरणादपकर्षः । ज्योति­ष्टो­म­प्र­क­र­णा­म्ना­तस्य पूषा­द्य­नु­म­न्त्र­ण­म­न्त्रस्य यल्लि­ङ्ग­ब­ला­त्प्र­क­र­ण­बा­धे­ना­प­क­र्ष­स्त­द­गत्या । पौष्णादौ च कर्मणि तस्या­र्थ­व­त्त्वात् । इह त्वप­कृ­ष्ट­स्या­र्चि­रा­दि­मा­र्गो­प­देशे फल­स्यो­पा­य­मा­र्ग­प्र­ति­पा­द­केऽ­ति­वि­शदे “एष सम्प्रसादः”(छा. उ. ८ । ३ । ४) इति वाक्य­स्या­वि­श­दै­क­दे­श­मा­त्र­प्र­ति­पा­द­कस्य निष्प्र­यो­ज­न­त्वात् । नच द्वाद­शा­ही­न­स्ये­ति­व­द्य­थो­क्ता­त्म­ध्या­न­सा­ध­ना­नु­ष्ठानं स्तोतुमेष सम्प्रसाद इति वच­न­म­र्चि­रा­दि­मा­र्ग­म­नु­व­द­तीति युक्तम् , स्तुतिलक्षणायां स्वाभि­धे­य­सं­स­र्ग­ता­त्प­र्य­प­रि­त्या­ग­प्र­स­ङ्गात् द्वाद­शा­ही­न­स्येति तु वाक्ये स्वार्थ­सं­स­र्ग­ता­त्पर्ये प्रक­र­ण­वि­च्छे­दस्य प्राप्ता­नु­व­द­मा­त्रस्य चाप्र­यो­ज­न­त्व­मिति स्तुत्यर्थो लक्ष्यते । न चैत­द्दो­ष­भ­या­त्स­मु­दा­य­प्र­सि­द्धि­मु­ल्ल­ङ्घ­या­व­य­व­प्र­सि­द्धि­मु­पा­श्रित्य साह्नस्यैव द्वादशोपसत्तां विधातुमर्हति, त्रित्व­द्वा­द­श­त्व­यो­र्वि­क­ल्प­प्र­स­ङ्गात् । नच सत्यां गतौ विकल्पो न्याय्यः । साह्ना­ही­न­प­द­योश्च प्रकृ­त­ज्यो­ति­ष्टो­मा­भि­धा­यि­नो­रा­न­र्थ­क्य­प्र­स­ङ्गात् । प्रकरणादेव तदवगतेः । इह तु स्वार्थ­सं­स­र्ग­ता­त्पर्ये नोक्तदोषप्रसङ्ग इति पौर्वा­प­र्या­लो­च­नया प्रक­र­णा­नु­रो­धा­द्रू­ढि­मपि पूर्वकालतामपि परित्यज्य प्रक­र­णा­नु­गु­ण्येन ज्योतिः परं ब्रह्म प्रतीयते । यत्तूक्तं मुमु­क्षो­रा­दि­त्य­प्रा­प्ति­र­भि­हि­तेति । नासावात्यन्तिको मोक्षः, किन्तु कार्य­ब्र­ह्म­लो­क­प्राप्तिः । नच क्रम­मु­क्त्य­भि­प्रायं स्वेन रूपे­णा­भि­नि­ष्प­द्यत इति वचनम् । नह्ये­त­त्प्र­क­र­णो­क्त­ब्र­ह्म­त­त्त्व­वि­दुषो गत्युत्क्रान्ती स्तः । तथा च श्रुतिः - “न तस्मात्प्राणा उत्क्रामन्ति अत्रैव समनीयन्ते”(बृ. उ. ४ । ४ । ६) इति । नच तद्द्वारेण क्रममुक्तिः । अर्चि­रा­दि­मा­र्गस्य हि कार्य­ब्र­ह्म­लो­क­प्रा­प­कत्वं न तु ब्रह्म­भू­य­हे­तु­भावः । जीवस्य तु निरू­पा­धि­नि­त्य­शु­द्ध­बु­द्ध­ब्र­ह्म­भा­व­सा­क्षा­त्का­र­हे­तुके मोक्षे कृत­म­र्चि­रा­दि­मा­र्गेण कार्य­ब्र­ह्म­लो­क­प्राप्त्या । अत्रापि ब्रह्म­वि­द­स्त­दु­प­पत्तेः । तस्मान्न ज्योति­रा­दि­त्य­मु­प­स­म्पद्य सम्प्रसादस्य जीवस्य स्वेन रूपेण पारमार्थिकेन ब्रह्म­णा­भि­नि­ष्प­त्ति­रा­ञ्ज­सीति श्रुतेरत्रापि क्लेशः । अपिच परं ज्योतिः स उत्तमपुरुष इती­है­वो­प­रि­ष्टा­द्वि­शे­ष­णा­त्ते­जसो व्यावर्त्य पुरु­ष­वि­ष­य­त्वे­ना­व­स्था­प­ना­ज्ज्यो­तिः­प­दस्य, परमेव ब्रह्म ज्योतिः न तु तेज इति सिद्धम् ॥ ४० ॥

आका­शोऽ­र्था­न्त­र­त्वा­दि­व्य­प­दे­शात् ।
यद्यपि “आका­श­स्त­ल्लि­ङ्गात्”(ब्र. सू. १ । १ । २२) इत्यत्र ब्रह्म­लि­ङ्ग­द­र्श­ना­दा­काशः परमात्मेति व्युत्पादितं, तथापि तद्वदत्र पर­मा­त्म­लि­ङ्ग­द­र्श­ना­भा­वा­न्ना­म­रू­प­नि­र्व­ह­णस्य भूता­का­शेऽ­प्य­व­का­श­दा­ने­नो­प­प­त्ते­र­क­स्माच्च रूढि­प­रि­त्या­ग­स्या­यो­गात् , नामरूपे अन्तरा ब्रह्मेति च नाकाशस्य नाम­रू­प­यो­र्नि­र्व­हि­तु­र­न्त­रा­ल­त्व­माह, अपि तु ब्रह्मणः, तेन भूताकाशो नाम­रू­प­यो­र्नि­र्व­हिता । ब्रह्म चैतयोरन्तरालं मध्यं सारमिति यावत् । न तु निर्वोढैव ब्रह्म, अन्तरालं वा निर्वाढृ । तस्मा­त्प्र­सि­द्धे­र्भू­ता­काशो न तु ब्रह्मेति प्राप्तम् ।

एवं प्राप्त उच्यते - परमेवाकाशं ब्रह्म,
कस्मात् , अर्था­न्त­र­त्वा­दि­व्य­प­दे­शात् ।
नाम­रू­प­मा­त्र­नि­र्वा­ह­क­मि­हा­का­श­मु­च्यते । भूताकाशं च विकारत्वेन नामरूपान्तःपाति सत् कथ­मा­त्मा­न­मु­द्व­हेत् । नहि सुशिक्षितोऽपि विज्ञानी स्वेन स्कन्धेनात्मानं वोढुमुत्सहते । नच नाम­रू­प­श्रु­ति­र­वि­शे­षतः प्रवृत्ता भूताकाशवर्जं नामरूपान्तरे सङ्कोचयितुं सति सम्भवे युज्यते । नच निर्वाहकत्वं निरङ्कुशमवगतं ब्रह्मलिङ्गं कथञ्चित्क्लेशेन परतन्त्रे नेतुमुचितम् “अनेन जीवे­ना­त्म­ना­नु­प्र­विश्य नामरूपे व्याकरवाणि”(छा. उ. ६ । ३ । २) इति च स्रष्टृ­त्व­म­ति­स्फुटं ब्रह्मलिङ्गमत्र प्रतीयते । ब्रह्मरूपतया च जीवस्य व्याकर्तृत्वे ब्रह्मण एव व्याक­र्तृ­त्व­मु­क्तम् । एवं च निर्व­हि­तु­रे­वा­न्त­रा­ल­तो­प­प­त्ते­रन्यो निर्व­हि­ताऽ­न्य­च्चा­न्त­रा­ल­मि­त्य­र्थ­भे­द­क­ल्प­नापि न युक्ता । तथा च ते नामरूपे यद­न्त­रे­त्य­य­म­र्था­न्त­र­व्य­प­देश उपपन्नो भवत्याकाशस्य । तस्मा­द­र्था­न्त­र­व्य­प­दे­शात् , तथा “तद्ब्रह्म तदमृतम्”(छा. उ. ८ । १४ । १) इति व्यप­दे­शा­द्ब्र­ह्मै­वा­का­श­मिति सिद्धम् ॥ ४१ ॥

सुषु­प्त्यु­त्क्रा­न्त्यो­र्भे­देन ।
'आदि­म­ध्या­व­सा­नेषु संसा­रि­प्र­ति­पा­द­नात् । तत्परे ग्रन्थसन्दर्भे सर्वं तत्रैव योज्यते” ॥ संसार्येव ताव­दा­त्मा­ह­ङ्का­रा­स्प­द­प्रा­णा­दि­प­रीतः सर्वजनसिद्धः । तमेव च “योऽयं विज्ञानमयः प्राणेषु”(बृ. उ. ४ । ३ । ७)“योऽयं विज्ञानमयः प्राणेषु”(बृ. उ. ४ । ३ । ७) इत्या­दि­श्रु­ति­स­न्दर्भ आदि­म­ध्या­व­सा­ने­ष्वा­मृ­श­तीति तदनुवादपरो भवितुमर्हति । एवं च संसार्यात्मैव किञ्चिदपेक्ष्य महान् , संसारस्य चाना­दि­त्वे­ना­ना­दि­त्वा­दज उच्यते, न तु तदतिरिक्तः कश्चिदत्र नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावः प्रतिपाद्यः । यत्तु सुषु­प्त्यु­त्क्रान्त्योः प्राज्ञेनात्मना सम्परिष्वक्त इति भेदं मन्यसे, नासौ भेदः किन्त्व­य­मा­त्म­शब्दः स्वभाववचनः, तेन सुषु­प्त्यु­त्क्रा­न्त्य­व­स्थायां विशे­ष­वि­ष­या­भा­वा­त्स­म्पि­ण्डि­त­प्र­ज्ञेन प्राज्ञेनात्मना स्वभावेन परिष्वक्तो न किञ्चि­द्वे­दे­त्य­भे­देऽपि भेदवदुपचारेण योजनीयम् । यथाहुः - “प्राज्ञः सम्पि­ण्डि­त­प्रज्ञः” इति । प्रत्यादयश्च शब्दाः संसारिण्येव कार्य­क­र­ण­स­ङ्घा­ता­त्म­कस्य जगतो जीव­क­र्मा­र्जि­त­तया तद्भोग्यतया च योजनीयाः । तस्मा­त्सं­सा­र्ये­वा­नू­द्यते न तु परमात्मा प्रतिपाद्यत इति प्राप्तम् । एवं प्राप्तेऽ­भि­धी­यते - सुषु­प्त्यु­त्क्रा­न्त्यो­र्भे­देन व्यप­दे­शा­दि­त्य­नु­व­र्तते । अयमभिसन्धिः - किं संसारिणोऽन्यः परमात्मा नास्ति, तस्मा­त्सं­सा­र्या­त्म­परं “योऽयं विज्ञानमयः प्राणेषु” इति वाक्यम् , आहोस्विदिह संसा­रि­व्य­ति­रे­केण पर­मा­त्म­नोऽ­स­ङ्की­र्त­ना­त्सं­सा­रि­ण­श्चा­दि­म­ध्या­व­सा­ने­ष्व­व­म­र्श­ना­त्सं­सा­र्या­त्म­परं, न ताव­त्सं­सा­र्य­ति­रि­क्तस्य तस्याभावः । तत्प्रतिपादका हि शतश आगमाः “ईक्ष­ते­र्ना­श­ब्दम्”(ब्र. सू. १ । १ । ५) “गतिसामान्यात्”(ब्र. सू. १ । १ । १०) इत्यादिभिः सूत्र­स­न्द­र्भै­रु­प­पा­दिताः । न चात्रापि संसा­र्य­ति­रि­क्त­प­र­मा­त्म­स­ङ्की­र्त­ना­भावः, सुषु­प्त्यु­त्क्रा­न्त्यो­स्त­त्स­ङ्की­र्त­नात् । नच प्राज्ञस्य परमात्मनो जीवाद्भेदेन सङ्कीर्तनं सति सम्भवे राहोः शिर इतिवदौपचारिकं युक्तम् । नच प्राज्ञशब्दः प्रज्ञा­प्र­क­र्ष­शा­लिनि निरूढवृत्तिः कथञ्चिदज्ञविषयो व्याख्या­तु­मु­चितः । नच प्रज्ञा­प्र­क­र्षोऽ­स­ङ्कु­च­द्वृ­त्ति­र्वि­दि­त­स­म­स्त­वे­दि­त­व्या­त्स­र्व­वि­दोऽ­न्यत्र सम्भवति । न चेत्थम्भूतो जीवात्मा । तस्मा­त्सु­षु­प्त्यु­त्क्रा­न्त्यो­र्भे­देन जीवा­त्प्रा­ज्ञस्य परमात्मनो व्यपदेशात् “योऽयं विज्ञानमयः”(बृ. उ. ४ । ३ । ७) इत्यादिना जीवात्मानं लोकसिद्धमनूद्य तस्य पर­मा­त्म­भा­वोऽ­न­धि­गतः प्रतिपाद्यते । नच जीवा­त्मा­नु­वा­द­मा­त्र­प­रा­ण्ये­तानि वचांसि । अन­धि­ग­ता­र्था­व­बो­ध­न­परं हि शाब्दं प्रमाणं, न त्वनु­वा­द­मा­त्र­निष्ठं भवितुमर्हति । अत एव च संसारिणः पर­मा­त्म­भा­व­वि­धा­ना­या­दि­म­ध्या­व­सा­ने­ष्व­नु­वा­द्य­त­याऽ­व­मर्श उपपद्यते । एवं च महत्त्वं चाजत्वं च सर्वगतस्य नित्यस्यात्मनः सम्भ­वा­न्ना­पे­क्षिकं कल्पयिष्यते ।

यस्तु मध्ये बुद्धा­न्ता­द्य­व­स्थो­प­न्या­सा­दिति ।
नाने­ना­व­स्था­वत्त्वं विवक्ष्यते । अपि त्वव­स्था­ना­मु­प­ज­ना­पा­य­ध­र्म­क­त्वेन तद­ति­रि­क्त­म­व­स्था­र­हितं परमात्मानं विवक्षति, उप­रि­त­न­वा­क्य­स­न्द­र्भा­लो­च­ना­दिति ॥ ४२ ॥

पत्या­दि­श­ब्देभ्यः ।

सर्वस्य वशी ।
वशः सामर्थ्यं सर्वस्य जगतः प्रभवत्ययम् , व्यूहा­व­स्था­न­स­मर्थ इति । अत एव सर्वस्येशानः, सामर्थ्येन ह्ययमुक्तेन सर्वस्येष्टे, तदि­च्छा­नु­वि­धा­ना­ज्ज­गतः । अत एव सर्वस्याधिपतिः सर्वस्य नियन्ता । अन्तर्यामीति यावत् । किञ्च स एवंभूतो हृद्य­न्त­र्ज्योतिः पुरुषो विज्ञानमयो न साधुना कर्मणा भूयानुत्कृष्टो भव­ती­त्ये­व­माद्याः श्रुत­योऽ­सं­सा­रिणं परमात्मानमेव प्रतिपादयन्ति । तस्मा­ज्जी­वा­त्मानं माना­न्त­र­सि­द्ध­म­नूद्य तस्य ब्रह्म­भा­व­प्र­ति­पा­द­न­परो “योऽयं विज्ञानमयः”(बृ. उ. ४ । ३ । ७) इत्या­दि­वा­क्य­स­न्दर्भ इति सिद्धम् ॥ ४३ ॥
इति श्रीम­द्वा­च­स्प­ति­मि­श्र­वि­र­चि­त­शा­री­र­क­भ­ग­व­त्पा­द­भा­ष्य­वि­भागे भामत्यां प्रथ­म­स्या­ध्या­यस्य तृतीयः पादः ॥ ३ ॥
॥ इति प्रथमाध्यायस्य ज्ञेय­ब्र­ह्म­प्र­ति­पा­द­का­स्प­ष्ट­श्रु­ति­स­म­न्व­या­ख्य­स्तृ­तीयः पादः ॥

आनु­मा­नि­क­म­प्ये­के­षा­मि­ति­चेन्न शारी­र­रू­प­क­वि­न्य­स्त­गृ­ही­ते­र्द­र्श­यति च ।
स्यादेतत् । ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम् - “जन्माद्यस्य यतः”(ब्र. सू. १ । १ । २)“जन्माद्यस्य यतः”(ब्र. सू. १ । १ । २) इति । तच्चेदं लक्षणं न प्रधानादौ गतं, येन व्यभि­चा­रा­द­ल­क्षणं स्यात् , किन्तु ब्रह्मण्येवेति “ईक्ष­ते­र्ना­श­ब्दम्”(ब्र. सू. १ । १ । ५) इति प्रतिपादितम् । गतिसामान्यं च वेदा­न्त­वा­क्यानां ब्रह्मकारणवादं प्रति विद्यते, न प्रधानकारणवादं प्रतीति प्रप­ञ्चि­त­म­ध­स्त­तेन सूत्रसन्दर्भेण । तत्किमवशिष्यते यदर्थमुत्तरः सन्दर्भ आरभ्यते । नच “महतः परमव्यक्तम्”(क. उ. १ । ३ । ११) इत्यादीनां प्रधाने समन्वयेऽपि व्यभिचारः । नह्येते प्रधानकारणत्वं जगत आहुः, अपितु प्रधा­न­स­द्भा­व­मा­त्रम् । नच तत्स­द्भा­व­मा­त्रेण “जन्माद्यस्य यतः” इति ब्रह्मलक्षणस्य किञ्चिद्धीयते ।

तस्मादनर्थक उत्तरः सन्दर्भ इत्यत आह -
ब्रह्मजिज्ञासां प्रतिज्ञायेति ।
न प्रधा­न­स­द्भा­व­मात्रं प्रतिपादयन्ति “महतः परमव्यक्तम्”(क. उ. १ । ३ । ११) “अजामेकाम्”(श्वे. उ. ४ । ५)“अजामेकाम्”(श्वे. उ. ४ । ५) इत्यादयः, किन्तु जगत्कारणं प्रधानमिति । “महतः परम्”(क. उ. १ । ३ । ११) इत्यत्र हि पर­श­ब्दोऽ­वि­प्र­कृ­ष्ट­पू­र्व­का­ल­त्व­माह । तथा च कारणत्वम् । “अजामेकाम्” इत्यादीनां तु कार­ण­त्वा­भि­धा­न­म­ति­स्फु­टम् । एवं च लक्ष­ण­व्य­भि­चा­रा­द­व्य­भि­चा­राय युक्त उत्त­र­स­न्द­र्भा­रम्भ इति ।

पूर्वपक्षयति -
तत्र य एवेति ।

साङ्ख्य­प्र­वा­द­रू­ढि­माह -
तत्राव्यक्तमिति ।

साङ्ख्य­स्मृ­ति­प्र­सि­द्धेर्न केवलं रूढिः, अव­य­व­प्र­सि­द्ध्या­प्य­य­मे­वा­र्थोऽ­व­ग­म्यत इत्याह -
न व्यक्तमिति ।
शान्त­घो­र­मू­ढ­श­ब्दा­दि­ही­न­त्वा­च्चेति । श्रुतिरुक्ता । स्मृतिश्च साङ्खीया । न्यायश्च - “भेदानां परि­मा­णा­त्स­म­न्व­या­च्छ­क्तितः प्रवृत्तेश्च । कार­ण­का­र्य­वि­भा­गा­द­वि­भा­गा­द्वै­श्व­रू­प्यस्य ॥ कार­ण­म­स्त्य­व्य­क्तम्” इति । नच “महतः परमव्यक्तम्”(क. उ. १ । ३ । ११) इति प्रक­र­ण­प­रि­शे­षा­भ्या­म­व्य­क्त­पदं शरीरगोचरम् । शरीरस्य शान्त­घो­र­मू­ढ­रू­प­श­ब्दा­द्या­त्म­क­त्वे­ना­व्य­क्त­त्वा­नु­प­पत्तेः ।

तस्मा­त्प्र­धा­न­मे­वा­व्य­क्त­मु­च्यत इति प्राप्ते, उच्यते -
नैतदेवम् । न ह्येतत्काठकं वाक्यमिति ।
लौकिकी हि प्रसिद्धी रूढि­र्वे­दा­र्थ­नि­र्णये निमित्तं, तदुपायत्वात् । यथाहुः - “य एव लौकिकाः शब्दास्त एव वैदिकास्त एव चैषामर्थाः” इति । नतु परीक्षकाणां पारिभाषिकी, पौरुषेयी हि सा न वेदा­र्थ­नि­र्ण­य­नि­ब­न्ध­न­सि­द्धौ(य­नि­मित्तं पो ? )षधा­दि­प्र­सि­द्धि­वत् । तस्मा­द्रू­ढि­त­स्ता­वन्न प्रधानं प्रतीयते । योग­स्त्व­न्य­त्रापि तुल्यः । तदे­व­म­व्य­क्त­श्रु­ता­व­न्य­था­सि­द्धायां प्रक­र­ण­प­रि­शे­षाभ्यां शरी­र­गो­च­रोऽ­य­म­व्य­क्त­शब्दः । यथा चास्य तद्गो­च­र­त्व­मु­प­प­द्यते तथाग्रे दर्शयिष्यति । तेषु शरीरादिषु मध्ये विष­यां­स्त­द्गो­च­रान् विद्धि । यथा­श्वोऽ­ध्वा­न­मा­लम्ब्य चल­त्ये­व­मि­न्द्रि­य­हयाः स्वगो­च­र­मा­ल­म्ब्येति । आत्मा भोक्ते­त्या­हु­र्म­नी­षिणः । कथम् , इन्द्रि­य­म­नो­युक्तं योगो यथा भवति । इन्द्रियार्थमनः संनिकर्षेण ह्यात्मा गन्धादीनां भोक्ता ।

प्रधा­न­स्या­का­ङ्क्षा­वतो वचनं प्रकरणमिति गन्तव्यं विष्णोः परमं पदं प्रधानमिति तदा­का­ङ्क्षा­म­व­ता­र­यति -
तैश्चे­न्द्रि­या­दि­भि­र­सं­य­तै­रिति ।
असंयमाभिधानं व्यतिरेकमुखेन संयमवदातीकरणम् । परशब्दः श्रेष्ठवचनः ।

नन्वान्तरत्वेन यदि श्रेष्ठत्वं तदे­न्द्रि­या­णा­मेव बाह्येभ्यो गन्धाधिभ्यः श्रेष्ठत्वं स्यादित्यत आह -
अर्था ये शब्दादय इति ।
नान्तरत्वेन श्रेष्ठत्वमपि तु प्रधानतया, तच्च विवक्षाधीनं, ग्रहे­भ्य­श्चे­न्द्रि­ये­भ्योऽ­ति­ग्र­ह­त­या­र्थानां प्राधान्यं श्रुत्या विव­क्षि­त­मि­ती­न्द्रि­ये­भ्योऽ­र्थानां प्राधा­न्या­त्प­रत्वं भवति । घ्राण­जि­ह्वा­वा­क्च­क्षुः­श्रो­त्र­म­नो­ह­स्त­त्वचो हि इन्द्रियाणि श्रुत्याष्टौ ग्रहा उक्ताः । गृह्णन्ति वशीकुर्वन्ति खल्वेतानि पुरुषपशुमिति । न चैतनि स्वरूपवतो वशीकर्तुमीशते, यावदस्मै पुरुषपशवे गन्ध­र­स­ना­म­रू­प­श­ब्द­का­म­क­र्म­स्प­र्शा­न्नो­प­ह­रन्ति । अत एव गन्धा­द­योऽ­ष्टा­व­ति­ग्रहाः, तदुपहारेण ग्रहाणां ग्रहत्वोपपत्तेः ।

तदिदमुक्तम् -
इन्द्रियाणां ग्रहणं विष­या­णा­म­ति­ग्र­ह­त्व­मिति श्रुति­प्र­सि­द्धे­रिति ।

ग्रह­त्वे­ने­न्द्रियैः साम्येऽपि मनसः स्वगतेन विशे­षे­णा­र्थेभ्यः परत्वमाह -
विषयेभ्यश्च मनसः परत्वमिति ।

कस्मात्पुमान् रथि­त्वे­नो­प­क्षिप्तो गृह्यत इत्यत आह -
आत्मशब्दादिति ।
तत्प्र­त्य­भि­ज्ञा­ना­दि­त्यर्थः ।

श्रेष्ठत्वे हेतुमाह -
भोक्तुश्चेति ।

तदनेन जीवात्मा स्वामितया महानुक्तः । अथवा श्रुति­स्मृ­तिभ्यां हैरण्यगर्भी बुद्धि­रा­त्म­श­ब्दे­नो­च्यत इत्याह -
अथवेति ।

पूरिति ।
भोग्यजातस्य बुद्धि­र­धि­क­र­ण­मिति बुद्धिः पूः । तदेवं सर्वासां बुद्धीनां प्रथ­म­ज­हि­र­ण्य­ग­र्भ­बु­द्ध्ये­क­नी­ड­तया हिर­ण्य­ग­र्भ­बु­द्धे­र्म­हत्त्वं चाप­ना­दा(चो­पा­दाना ?)त्मत्वं च । अत एव बुद्धि­मा­त्रा­त्पृ­थ­क्क­र­ण­मु­प­प­न्नम् ।

नन्वे­त­स्मि­न्पक्षे हिर­ण्य­ग­र्भ­बु­द्धे­रा­त्म­त्वान्न रथिन आत्मनो भोक्तु­र­त्रो­पा­दा­न­मिति न रथमात्रं परिशिष्यतेऽपि तु रथवानपीत्यत आह -
एतस्मिंस्तु पक्ष इति ।
यथा हि समारोपितं प्रतिबिम्बं बिम्बान्न वस्तुतो भिद्यते तथा न परमात्मनो विज्ञानात्मा वस्तुतो भिद्यत इति परमात्मैव रथ­वा­नि­हो­पा­त्त­स्तेन रथमात्रं परिशिष्टमिति ।

अथ रथा­दि­रू­प­क­क­ल्प­नायाः शरीरादिषु किं प्रयोजनमित्यत आह -
शरी­रे­न्द्रि­य­म­नो­बु­द्धि­वि­ष­य­वे­द­ना­सं­यु­क्तस्य हीति ।
वेदना सुखाद्यनुभवः । प्रत्य­र्थ­म­ञ्च­तीति प्रत्यगात्मेह जीवोऽभिमतस्तस्य ब्रह्मावगतिः ।

न च जीवस्य ब्रह्मत्वं मानान्तरसिद्धं, येनात्र नाग­मोऽ­पे­क्ष्ये­ते­त्याह -
तथा चेति ।
वागिति छान्दसो द्वितीयालोपः । शेष­म­ति­रो­हि­ता­र्थम् ॥ १ ॥

पूर्व­प­क्षि­णोऽ­नु­श­य­बी­ज­नि­रा­क­र­ण­परं सूत्रम् -
सूक्ष्मं तु तदर्हत्वात् ।
प्रकृ­ते­र्वि­का­रा­णा­म­न­न्य­त्वा­त्प्र­कृ­ते­र­व्य­क्तत्वं विकार उपचर्यते । यथा “गोभिः श्रीणीत”(ऋ. सं. ९ । ४६ । ४) इति गोश­ब्द­स्ता­द्वि­कारे पयसि ।

अव्य­क्ता­त्का­र­णात् विका­र­णा­म­न­न्य­त्वे­ना­व्य­क्त­श­ब्दा­र्हत्वे प्रमाणमाह -
तथा च श्रुतिरिति ।
अव्या­कृ­त­म­व्य­क्त­मि­त्य­न­र्था­न्त­रम् । नन्वेवं सति प्रधा­न­मे­वा­भ्यु­पेतं भवति, सुख­दुः­ख­मो­हा­त्मकं हि जगदेवंभूतादेव कार­णा­द्भ­वि­तु­म­र्हति, कार­णा­त्म­क­त्वा­त्का­र्यस्य । यच्च तस्य सुखात्मकत्वं तत्सत्त्वम् । यच्च तस्य दुःखात्मकत्वं तद्रजः । यच्च तस्य मोहात्मकत्वं तत्तमः । तथा चाव्यक्तं प्रधा­न­मे­वा­भ्यु­पे­त­मिति ॥ २ ॥

शङ्का­नि­रा­क­र­णार्थं सूत्रम् -
तद­धी­न­त्वा­द­र्थ­वत् ।
प्रधानं हि साङ्ख्यानां सेश्व­रा­णा­म­नी­श्व­राणां वेश्वरात् क्षेत्रज्ञेभ्यो वा वस्तुतो भिन्नं शक्यं निर्वक्तुम् । ब्रह्म­ण­स्त्वि­य­म­विद्या शक्ति­र्मा­या­दि­श­ब्द­वाच्या न शक्या तत्त्वे­ना­न्य­त्वेन वा निर्वक्तुम् । इदमेवास्या अव्यक्तत्वं यदनिर्वाच्यत्वं नाम । सोऽय­म­व्या­कृ­त­वा­दस्य प्रधा­न­वा­दा­द्भेदः । अवि­द्या­श­क्ते­श्चे­श्व­रा­धी­नत्वं, तदाश्रयत्वात् । नच द्रव्य­मा­त्र­म­शक्तं कार्यायालमिति शक्ते­र­र्थ­व­त्त्वम् ।

तदिदमुक्तम् -
अर्थवदिति ।

स्यादेतत् । यदि ब्रह्म­णोऽ­वि­द्या­शक्त्या संसारः प्रतीयते हन्त मुक्तानामपि पुन­रु­त्पा­द­प्र­सङ्गः, तस्याः प्रधा­न­व­त्ता­द­व­स्थ्यात् । तद्विनाशे वा सम­स्त­सं­सा­रो­च्छेदः तन्मू­ल­वि­द्या­शक्तेः समुच्छेदादित्यत आह -
मुक्तानां च पुनः ।

बन्धस्य
अनुत्पत्तिः । कुतः । विद्यया तस्या बीज­श­क्ते­र्दा­हात् ।
अयमभिसन्धिः - न वयं प्रधानवदविद्यां सर्व­जी­वे­ष्वे­का­मा­च­क्ष्महे, यैने­व­मु­पा­ल­भे­महि, किन्त्वियं प्रतिजीवं भिद्यते । तेन यस्यैव जीवस्य विद्योत्पन्ना तस्यै­वा­वि­द्या­प­नी­यते न जीवान्तरस्य, भिन्ना­धि­क­र­ण­यो­र्वि­द्या­वि­द्य­यो­र­वि­रो­धात् , तत्कुतः सम­स्त­सं­सा­रो­च्छे­द­प्र­सङ्गः । प्रधानवादिनां त्वेष दोषः । प्रधा­न­स्यै­क­त्वेन तदुच्छेदे सर्वो­च्छे­दोऽ­नु­च्छेदे वा न कस्य­चि­दि­त्य­नि­र्मो­क्ष­प्र­सङ्गः । प्रधानाभेदेऽपि चैत­द­वि­वे­क­ख्या­ति­ल­क्ष­णा­वि­द्या­स­द­स­त्त्व­नि­ब­न्धनौ बन्धमोक्षौ, तर्हि कृतं प्रधानेन, अवि­द्या­स­द­स­द्भा­वा­भ्या­मेव तदुपपत्तेः । न चावि­द्यो­पा­धि­भे­दा­धीनो जीवभेदो जीव­भे­दा­धी­न­श्चा­वि­द्यो­पा­धि­भेद इति पर­स्प­रा­श्र­या­दु­भ­या­सि­द्धि­रिति साम्प्रतम् । अना­दि­त्वा­द्बी­जा­ङ्कु­र­व­दु­भ­य­सिद्धेः । अवि­द्या­त्व­मा­त्रेण चैक­त्वो­प­चा­रोऽ­व्य­क्त­मिति चाव्याकृतमिति चेति ।

नन्वेवमविद्यैव जगद्बीजमिति कृत­मी­श्व­रे­णे­त्यत आह -
पर­मे­श्व­रा­श्र­येति ।
नह्यचेतनं चेतनानधिष्ठितं कार्याय पर्याप्तमिति स्वकार्यं कर्तुं परमेश्वरं निमि­त्त­त­यो­पा­दा­न­तया वाश्रयते, प्रप­ञ्च­वि­भ्र­मस्य हीश्व­रा­धि­ष्ठा­न­त्व­म­हि­वि­भ्र­म­स्येव रज्ज्व­धि­ष्ठा­न­त्वम् , तेन यथाहिविभ्रमो रज्जूपादान एवं प्रपञ्चविभ्रम ईश्वरोपादानः, तस्मा­ज्जी­वा­धि­क­र­णा­प्य­विद्या निमित्ततया विषयतया चेश्वरमाश्रयत इती­श्व­रा­श्र­ये­त्यु­च्यते, न त्वाधारतया, विद्यास्वभावे ब्रह्मणि तदनुपपत्तेरिति ।

अत एवाह -
यस्यां स्वरू­प­प्र­ति­बो­ध­र­हिताः शेरते संसारिणो जीवा इति ।
यस्यामविद्यायां सत्यां शरते जीवाः । जीवानां स्वरूपं वास्तवं ब्रह्म, तद्बोधरहिताः शेरत इति लय उक्तः । संसारिण इति विक्षेप उक्तः ।

अव्य­क्ता­धी­न­त्वा­ज्जी­व­भा­व­स्येति ।
यद्यपि जीवा­व्य­क्त­यो­र­ना­दि­त्वे­ना­नि­यतं पौर्वापर्यं तथाप्यव्यक्तस्य पूर्वत्वं विव­क्षि­त्वै­त­दु­क्तम् ।

सत्यपि शरी­र­व­दि­न्द्रि­या­दी­ना­मिति ।
गोब­ली­व­र्द­प­द­वे­त­द्द्र­ष्ट­व्यम् ।

आचा­र्य­दे­शी­य­म­त­माह -
अन्ये त्विति ।

एतद्दूषयति -
तैस्त्विति ।
प्रक­र­ण­पा­रि­शे­ष्य­यो­रु­भ­यत्र तुल्य­त्वा­न्नै­क­ग्र­ह­ण­नि­य­म­हे­तु­रस्ति ।

शङ्कते -
आम्ना­त­स्या­र्थ­मिति ।
अव्यक्तपदमेव स्थूल­श­री­र­व्या­वृ­त्ति­हे­तु­र्व्य­क्त­त्वा­त्त­स्येति शङ्कार्थः ।

निराकरोति -
न ।

एक­वा­क्य­ता­धी­न­त्वा­दिति ।
प्रकृ­त­हा­न्य­प्र­कृ­त­प्र­क्रि­या­प्र­स­ङ्गे­नै­क­वा­क्यत्वे सम्भवति न वाक्यभेदो युज्यते । न चाकाङ्क्षां विनैकवाक्यत्वम् , उभयं च प्रकृतमित्युभयं ग्राह्य­त्वे­ने­हा­का­ङ्क्षि­त­मि­त्ये­का­भि­धा­य­क­मपि पदं शरीरद्वयपरम् । नच मुख्यया वृत्त्याऽ­त­त्प­र­मि­त्यौ­प­चा­रिकं न भवति । यथो­प­ह­न्तृ­मा­त्र­नि­रा­क­र­णा­का­ङ्क्षायां काकपदं प्रयुज्यमानं श्वादि­स­र्व­ह­न्तृ­परं विज्ञायते । यथाहुः “काकेभ्यो रक्ष्य­ता­म­न्न­मिति बालेऽपि नोदितः । उप­घा­त­प्र­धा­न­त्वान्न श्वादिभ्यो न रक्षति ॥”(मीमांसाकारिका) इति ।

ननु न शरी­र­द्व­य­स्या­त्रा­काङ्क्षा । किन्तु दुःशो­ध­त्वा­त्सू­क्ष्म­स्यैव शरीरस्य, नतु षाट्कौशिकस्य स्थूलस्य । एतद्धि दृष्टबीभत्सतया सुकरं वैरा­ग्य­वि­ष­य­त्वेन शोधयितुमित्यत आह -
न चैवं मन्तव्यमिति ।
विष्णोः परमं पदमवगमयितुं परं परमत्र प्रतिपाद्यत्वेन प्रस्तुतं न तु वैराग्याय शोधनमित्यर्थः ।

अलं वा विवादेन, भवतु सूक्ष्ममेव शरीरं परिशोध्यं, तथापि न साङ्ख्या­भि­म­त­मत्र प्रधानं पर­मि­त्य­भ्यु­पे­त्याह -
सर्वथापि त्विति ॥ ३ ॥

ज्ञेय­त्वा­व­च­नाच्च ।
इतोऽपि नायमव्यक्तशब्दः साङ्ख्या­भि­म­त­प्र­धा­न­परः । साङ्ख्यैः खलु प्रधा­ना­द्वि­वे­केन पुरुषं निःश्रेयसाय ज्ञातुं वा विभूत्यै वा प्रधानं ज्ञेय­त्वे­नो­प­क्षि­प्यते । न चेह जानीयादिति चोपासीतेति वा विधि­वि­भ­क्ति­श्रु­ति­रस्ति, अपि त्वव्य­क्त­प­द­मा­त्रम् । न चैतावता साङ्ख्य­स्मृ­ति­प्र­त्य­भि­ज्ञानं भवतीति भावः ॥ ४ ॥

ज्ञेय­त्वा­व­च­न­स्या­सि­द्धि­मा­शङ्क्य तत्सि­द्धि­प्र­द­र्श­नार्थं सूत्रम् -
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ।
निग­द­व्या­ख्या­त­मस्य भाष्यम् ॥ ५ ॥

त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ।
वरप्रदानोपक्रमा हि मृत्यु­न­चि­के­तः­सं­वा­द­वा­क्य­प्र­वृ­त्ति­रा­स­माप्तेः कठवल्लीनां लक्ष्यते । मृत्युः किल न चिकेतसे कुपितेन पित्रा प्रहिताय तुष्ट­स्त्री­न्व­रान् प्रददौ । नचिकेतास्तु पथमेन वरेण पितुः सौमनस्यं वव्रे, द्विती­ये­ना­ग्नि­वि­द्याम् , तृती­ये­ना­त्म­वि­द्याम् । “वराणामेष वरस्तृतीयः”(क. उ. १ । १ । २०) इति वचनात् ।

ननु तत्र वरप्रदाने प्रधानगोचरे स्तः प्रश्नप्रतिवचने । तस्मा­त्क­ठ­व­ल्ली­ष्व­ग्नि­जी­व­प­र­मा­त्म­प­रैव वाक्य­प्र­वृ­त्तिर्न त्वनु­प­क्रा­न्त­प्र­धा­न­परा भवि­तु­म­र्ह­ती­त्याह -
इतश्च न प्रधा­न­स्या­व्य­क्त­श­ब्द­वा­च्य­त्व­मिति ।
“हन्तः त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्”(क. उ. २ । २ । ६) इत्यनेन व्यवहितं जीवविषयं “यथा तु मरणं प्राप्यात्मा भवति गौतम” इत्या­दि­प्र­ति­व­च­न­मिति योजना । अत्राह चोदकः - किं जीवपरमात्मनोरेक एव प्रश्नः, किं वान्यो जीवस्य “येयं प्रेते”(क. उ. १ । १ । २०) मनुष्य इति प्रश्नः, अन्यश्च परमात्मनः “अन्यत्र धर्मात्”(क. उ. १ । २ । १४) इत्यादिः । एकत्वे सूत्र­वि­रो­ध­स्त्र­या­ण­मिति । भेदे तु सौम­न­स्या­वा­प्त्य­ग्न्या­त्म­ज्ञा­न­वि­ष­य­व­र­त्र­य­प्र­दा­ना­न­न्त­र्भा­वोऽ­न्यत्र धर्मादित्यादेः प्रश्नस्य । तुरी­य­व­रा­न्त­र­क­ल्प­नायां वा तृतीय इति श्रुति­बा­ध­प्र­सङ्गः । वर­प्र­दा­ना­न­न्त­र्भावे प्रश्नस्य तद्वत् प्रधा­ना­ख्या­न­म­प्य­न­न्त­र्भूतं वरप्रदानेऽस्तु “महतः परमव्यक्त”(क. उ. १ । ३ । ११) मित्याक्षेपः ।

परिहरति -
अत्रोच्यते, नैवं वयमिहेति ।
वस्तुतो जीव­प­र­मा­त्म­नो­र­भे­दा­त्प्र­ष्ट­व्या­भे­दे­नैक एव प्रश्नः । अत एव प्रति­व­च­न­म­प्ये­कम् । सूत्रं त्ववा­स्त­व­भे­दा­भि­प्रा­यम् । वास्तवश्च जीव­प­र­मा­त्म­नो­र­भे­द­स्तत्र तत्र श्रुत्यु­प­न्या­सेन भगवता भाष्यकारेण दर्शितः । तथा जीव­वि­ष­य­स्या­स्ति­त्व­ना­स्ति­त्व­प्र­श्न­स्ये­त्यादि ।

“येयं प्रेते”(क. उ. १ । १ । २०) इति हि नचिकेतसः प्रश्न­मु­प­श्रुत्य तत्त­त्का­म­वि­ष­य­म­लोभं चास्य प्रतीत्य मृत्युः “विद्याभीप्सिनं नचिकेतसं मन्ये”(क. उ. १ । २ । ४) इत्यादिना नचिकेतसं प्रशस्य प्रश्नमपि तदीयं प्रशं­स­न्न­स्मि­न्प्रश्ने ब्रह्मै­वो­त्त­र­मु­वाच -
तं दुर्दर्शमिति ।
यदि पुन­र्जी­वा­त्प्राज्ञो भिद्येत, जीवगोचरः प्रश्नः, प्राज्ञगोचरं चोत्तरमिति किं केन सङ्गच्छेत ।

अपि च यद्विषयं प्रश्न­मु­प­श्रुत्य मृत्युनैष प्रशंसितो नचिकेताः यदि तमेव भूयः पृच्छे­त्त­दु­त्तरे चावदध्यात्ततः प्रशंसा दृष्टार्था स्यात् , प्रश्नान्तरे त्वसावस्थाने प्रसारिता सत्यदृष्टार्था स्यादित्याह -
यत्प्रश्नेति ।
यस्मिन् प्रश्नो यत्प्रश्नः । शेष­म­ति­रो­हि­ता­र्थम् ॥ ६ ॥

महद्वच्च ।
अनेन साङ्ख्य­प्र­सि­द्धे­र्वै­दि­क­प्र­सिद्ध्या विरोधान्न साङ्ख्य­प्र­सि­द्धि­र्वेद आद­र्त­व्ये­त्यु­क्तम् । साङ्ख्यानां महत्तत्त्वं सत्तामात्रं, पुरु­षा­र्थ­क्रि­या­क्षमं सत्तस्य भावः सत्ता तन्मात्रं महत्तत्त्वमिति । या या पुरुषार्थक्रिया शब्दा­द्यु­प­भो­ग­ल­क्षणा च सत्त्व­पु­रु­षा­न्य­ता­ख्या­ति­ल­क्षणा च सा सर्वा महति बुद्धौ समाप्यत इति महत्तत्त्वं सत्ता­मा­त्र­मु­च्यत इति ॥ ७ ॥

चमसवदविशेषात् ।
अजाशब्दो यद्यपि छागायां रूढ­स्त­था­प्य­ध्या­त्म­वि­द्या­धि­का­रान्न तत्र वर्तितुमर्हति । तस्मा­द्रू­ढे­र­स­म्भ­वा­द्यो­गेन वर्तयितव्यः । तत्र किं स्वतन्त्रं प्रधानमनेन मन्त्र­व­र्णे­ना­नू­द्य­ता­मुत पारमेश्वरी माया­श­क्ति­स्ते­जोऽ­ब­न्न­व्या­क्रि­या­का­र­ण­मु­च्यतां किं तावत्प्राप्तं, प्रधानमेवेति । तथाहि - यादृशं प्रधानं साङ्ख्यैः स्मर्यते तादृ­श­मे­वा­स्मि­न्न­न्यू­ना­न­ति­रिक्तं प्रतीयते । सा हि प्रधानलक्षणा प्रकृतिर्न जायत इत्यजा च एका च लोहि­त­शु­क्ल­कृष्णा च । यद्यपि लोहितत्वादयो वर्णा न रजःप्रभृतिषु सन्ति, तथापि लोहितं कुसुम्भादि रञ्जयति, रजोऽपि रञ्जयतीति लोहितम् । एवं प्रसन्नं पाथः शुक्लं, सत्त्वमपि प्रसन्नमिति शुक्लम् । एवमावरकं मेघादि कृष्णं, तमोऽप्यावरकमिति कृष्णम् । परेणापि नाव्याकृतस्य स्वरूपेण लोहितत्वादियोग आस्थेयः, किन्तु तत्कार्यस्य तेजोऽबन्नस्य रोहितत्वादिकारण उपचरणीयम् । कार्यसारूप्येण वा कारणे कल्पनीयं, तदस्माकमपि तुल्यम् । “अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्त­भो­गा­म­जोऽन्यः”(श्वे. उ. ४ । ५) इति त्वात्म­भे­द­श्र­व­णात् साङ्ख्य­स्मृ­ते­रे­वात्र मन्त्रवर्णे प्रत्यभिज्ञानं न त्वव्या­कृ­त­प्र­क्रि­यायाः । तस्या­मै­का­त्म्या­भ्यु­प­ग­मे­ना­त्म­भे­दा­भा­वात् । तस्मा­त्स्व­तन्त्रं प्रधानं नाशब्दमिति प्राप्तम् ।

तेषां साम्या­व­स्था­व­य­व­ध­र्मै­रिति ।
अवयवाः प्रधानस्यैकस्य सत्त्व­र­ज­स्त­मांसि तेषां धर्मा लोहि­त­त्वा­द­य­स्तै­रिति ।

प्रजा­स्त्रै­गु­ण्या­न्विता इति ।
सुख­दुः­ख­मो­हा­त्मिकाः । तथाहि - मैत्रदारेषु नर्मदायां मैत्रस्य सुखं, तत्कस्य हेतोः, तं प्रति सत्त्वस्य समुद्भवात् । तथाच तत्सपत्नीनां दुःखं, तत्कस्य हेतोः, ताः प्रति रजःसमुद्भवात् , तथा चैत्रस्य तामविन्दतो मोहो विषादः, स कस्य हेतोः, तं प्रति तमःसमुद्भवात् । नर्मदया च सर्वे भावा व्याख्याताः । तदिदं त्रैगु­ण्या­न्वि­तत्वं प्रजानाम् ।

अनुशेत इति व्याचष्टे -
तामेवाविद्ययेति ।
विषया हि शब्दादयः प्रकृ­ति­वि­का­र­स्त्रै­गु­ण्येन सुख­दुः­ख­मो­हा­त्मान इन्द्रि­य­म­नोऽ­ह­ङ्का­र­प्र­णा­लि­कया बुद्धि­स­त्त्व­मु­प­स­ङ्क्रा­मन्ति । तेन तद्बु­द्धि­सत्त्वं प्रधानविकारः सुख­दुः­ख­मो­हा­त्मकं शब्दादिरूपेण परिणमते । चिति­श­क्ति­स्त्व­प­रि­णा­मि­न्य­प्र­ति­स­ङ्क्र­मापि बुद्धि­स­त्त्वा­दा­त्मनो विवेकमबुध्यमाना बुद्धिवृत्त्यैव विप­र्या­से­ना­वि­द्यया बुद्धि­स्था­न्सु­खा­दी­ना­त्म­न्य­भि­म­न्य­माना सुखादिमतीव भवति ।

तदिदमुक्तम् -
सुखी दुःखी मूढोऽ­ह­मि­त्य­वि­वे­क­तया संसरति ।
एकः । सत्त्व­पु­रु­षा­न्य­ता­ख्या­ति­स­मु­न्मू­लि­त­नि­खि­ल­वा­स­ना­वि­द्या­नु­ब­न्ध­स्त्वन्यो जहात्येनां प्रकृतिम् ।

तदिदमुक्तम् -
अन्यः पुनरिति ।

भुक्तभोगामिति व्याचष्टे -
कृतभोगापवर्गाम् ।
शब्दा­द्यु­प­ल­ब्धि­र्भोगः । गुण­पु­रु­षा­न्य­ता­ख्या­ति­र­प­वर्गः । अपवृज्यते हि तया पुरुष इति । एवं प्राप्तेऽ­भि­धी­यते - न तावत् “अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्त­भो­गा­म­जोऽन्यः”(श्वे. उ. ४ । ५) इत्ये­त­दा­त्म­भे­द­प्र­ति­पा­द­न­प­र­मपि तु सिद्ध­मा­त्म­भे­द­म­नूद्य बन्धमोक्षौ प्रतिपादयतीति । स चानूदितो भेदः “एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्व­भू­ता­न्त­रात्मा”(श्वे.उ. ६ । ११) इत्या­दि­श्रु­ति­भि­रा­त्मै­क­त्व­प्र­ति­पा­द­न­प­रा­भि­र्वि­रो­धा­त्क­ल्प­नि­कोऽ­व­ति­ष्ठते । तथाच न साङ्ख्य­प्र­क्रि­या­प्र­त्य­भि­ज्ञा­न­मि­त्य­जा­वाक्यं चम­स­वा­क्य­व­त्प­रि­प्ल­व­मानं न स्वत­न्त्र­प्र­धा­न­नि­श्च­याय पर्याप्तम् । तदिदमुक्तं सूत्रकृता - “चमसवदविशेषात्”(ब्र. सू. १ । ४ । ८) इति ॥ ८ ॥

उत्त­र­सू­त्र­म­व­ता­र­यितुं शङ्कते -
तत्र त्विदं तच्छिर इति ।

सूत्रमवतारयति -
अत्र ब्रूमः । ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ।
सर्व­शा­खा­प्र­त्य­य­मेकं ब्रह्मेति स्थितौ शाखा­न्त­रो­क्त­रो­हि­ता­दि­गु­ण­यो­गिनी तेजोऽबन्नलक्षणा जरा­यु­जा­ण्ड­ज­स्वे­द­जो­द्भि­ज्ज­च­तु­र्वि­ध­भू­त­ग्रा­म­प्र­कृ­ति­भू­ते­य­मजा प्रतिपत्तव्या, “रोहि­त­शु­क्ल­कृ­ष्णाम्”(श्वे. उ. ४ । ५) इति रोहितादिरूपतया तस्या एव प्रत्य­भि­ज्ञा­नात् । न तु साङ्ख्य­प­रि­क­ल्पिता प्रकृतिः । तस्या अप्रामाणिकतया श्रुत­हा­न्य­श्रु­त­क­ल्प­ना­प्र­स­ङ्गात् , रञ्जनादिना च रोहि­ता­द्यु­प­चा­रस्य सति मुख्या­र्थ­स­म्भ­वेऽ­यो­गात् ।

तदिदमुक्तम् -
रोहितादीनां शब्दानामिति ।
अजापदस्य च समु­दा­य­प्र­सि­द्धि­प­रि­त्या­गेन न जायत इत्य­व­य­व­प्र­सि­द्ध्या­श्र­यणे दोषप्रसङ्गात् । अत्र तु रूपककल्पनायां समु­दा­य­प्र­सि­द्धे­रे­वा­न­पे­क्षायाः स्वीकारात् ।

अपि चायमपि श्रुति­क­ला­पोऽ­स्म­द्द­र्श­ना­नु­गुणो न साङ्ख्य­स्मृ­त्य­नु­गुण इत्याह -
तथेहापीति ।

किं कारणं ब्रह्मे­त्यु­प­क्र­म्येति ।
ब्रह्मस्वरूपं तावज्जगत्कारणं न भवति, विशु­द्ध­त्वा­त्तस्य । यथाहुः - “पुरुषस्य तु शुद्धस्य नाशुद्धा विकृतिर्भवेत्” इत्याशयवतीव श्रुतिः पृच्छति । किङ्कारणम् । यस्य ब्रह्मणो जग­दु­त्प­त्ति­स्त­त्कि­ङ्का­रणं ब्रह्मेत्यर्थः । ते ब्रह्मविदो ध्यान­यो­गे­ना­त्मानं गताः प्राप्ता अपश्यन्निति योजना ।

यो योनिं योनिमिति ।
अविद्या शक्तिर्योनिः, सा च प्रतिजीवं नानेत्युक्तमतो वीप्सोपपन्ना । शेष­म­ति­रो­हि­ता­र्थम् ॥ ९ ॥

सूत्रा­न्त­र­म­व­ता­र­यितुं शङ्कते -
कथं पुनरिति ।
अजा­कृ­ति­र्जा­ति­स्ते­जोऽ­ब­न्नेषु नास्ति ।

न च तेजोऽबन्नानां जन्म­श्र­व­णा­द­ज­न्म­नि­मि­त्तोऽ­प्य­जा­शब्दः सम्भवतीत्याह -
न च तेजोऽ­ब­न्ना­ना­मिति ।

सूत्रमवतारयति -
अत उत्तरं पठति ।

कल्पनोपदेशाच्च मध्वादिवदविरोधः ।

ननु किं छागा लोहि­त­शु­क्ल­कृ­ष्णै­वा­न्या­दृ­शी­ना­मपि छागा­ना­मु­प­ल­म्भा­दि­त्यत आह -
यदृच्छयेति ।
बहुबर्करा बहुशावा । शेषं निगदव्याख्यातम् ॥ १० ॥

न सङ्ख्यो­प­स­ङ्ग्र­हा­दपि नाना­भा­वा­द­ति­रे­काच्च ।

अवा­न्त­र­स­ङ्ग­ति­माह -
एवं परिहृतेऽपीति ।
पञ्चजना इति हि समासार्थः पञ्चसङ्ख्यया सम्बध्यते । नच “दिक्सङ्ख्ये संज्ञायाम्”(पा.सू. २।१।५०) इति समा­स­वि­धा­ना­न्म­नु­जेषु निरूढोऽयं पञ्चजनशब्द इति वाच्यम् । तथाहि सति पञ्चमनुजा इति स्यात् । एवं चात्मनि पञ्च­म­नु­जा­ना­मा­का­शस्य च प्रतिष्ठानमिति निस्तात्पर्यं, सर्वस्यैव प्रतिष्ठानात् । तस्मा­द्रू­ढे­र­स­म्भ­वा­त्त­त्त्या­गे­नात्र योग आस्थेयः । जनशब्दश्च कथ­ञ्चि­त्त­त्त्वेषु व्याख्येयः । तत्रापि किं पञ्च प्राणादयो वाक्यशेषगता विवक्ष्यन्ते उत तदतिरिक्ता अन्य एव वा केचित् । तत्र पौर्वा­प­र्य­प­र्या­लो­च­नया कण्व­मा­ध्य­न्दि­न­वा­क्य­यो­र्वि­रो­धात् । एकत्र हि ज्योतिषा पञ्च­त्व­म­न्ने­ने­त­रत्र । नच षोड­शि­ग्र­ह­ण­व­द्वि­क­ल्प­स­म्भवः । अनुष्ठानं हि विकल्प्यते न वस्तु । वस्तुतत्त्वकथा चेयं नानुष्ठानकथा, विध्यभावात् । तस्मा­त्का­नि­चि­देव तत्त्वानीह पञ्च प्रत्येकं पञ्च­स­ङ्ख्या­यो­गीनि पञ्च­विं­श­ति­त­त्त्वानि भवन्ति । साङ्ख्यैश्च प्रकृत्यादीनि पञ्च­विं­श­ति­त­त्त्वानि स्मर्यन्त इति तान्येवानेन मन्त्रेणोच्यन्त इति नाशब्दं प्रधानादि । न चाधा­र­त्वे­ना­त्मनो व्यव­स्था­ना­त्स्वा­त्मनि चाधाराधेयभावस्य विरोधात् आकाशस्य च व्यतिरेचनात् त्रयो­विं­श­ति­र्जना इति स्यान्न पञ्च पञ्चजना इति वाच्यम् । सत्य­प्या­का­शा­त्म­नो­र्व्य­ति­रे­चने मूलप्रकृतिभागैः सत्त्व­र­ज­स्त­मोभिः पञ्च­विं­श­ति­स­ङ्ख्यो­प­पत्तेः । तथाच सत्या­त्मा­का­शाभ्यां सप्त­विं­श­ति­स­ङ्ख्यायां पञ्च­विं­श­ति­त­त्त्वा­नीति स्वसि­द्धा­न्त­व्या­कोप इति चेत् , न मूल­प्र­कृ­ति­त्व­मा­त्रे­णै­की­कृत्य सत्त्व­र­ज­स्त­मांसि पञ्च­विं­श­ति­त­त्त्वो­प­पत्तेः । हिरुग्भावेन तु तेषां सप्त­विं­श­ति­त्वा­वि­रोधः । तस्मान्नाशाब्दी साङ्ख्य­स्मृ­ति­रिति प्राप्तम् ।

मूलप्रकृतिः प्रधानम् । नासावन्यस्य विकृतिरपि तु प्रकृतिरेव तदिदमुक्तम् -
मूलेति ।
मह­द­ह­ङ्का­र­प­ञ्च­त­न्मा­त्राणि प्रकृतयश्च विकृतयश्च । तथाहि - मह­त्त­त्त्व­म­ह­ङ्का­रस्य तत्त्वान्तरस्य प्रकृ­ति­र्मू­ल­प्र­कृ­तेस्तु विकृतिः । एव­म­ह­ङ्का­र­तत्त्वं महतो विकृतिः, प्रकृतिश्च तदेव तामसं सत् पञ्च­त­न्मा­त्रा­णाम् । तदेव सात्त्विकं सत् प्रकृ­ति­रे­का­द­शे­न्द्रि­या­णाम् । पञ्चतन्मात्राणि चाहङ्कारस्य विकृ­ति­रा­का­शा­दीनां पञ्चानां प्रकृतिः ।

तदिदमुक्तम् -
महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारः ।
षोड­श­स­ङ्ख्या­व­च्छिन्नो गणो विकार एव । पञ्च­भू­ता­न्य­त­न्मा­त्रा­ण्ये­का­द­शे­न्द्रि­या­णीति षोडशको गणः । यद्यपि पृथिव्यादयो गोघटादीनां प्रकृतिस्तथापि न ते पृथि­व्या­दि­भ्य­स्त­त्त्वा­न्त­र­मिति न प्रकृतिः । तत्त्वा­न्त­रो­पा­दा­नत्वं चेह प्रकृ­ति­त्व­म­भि­मतं नोपा­दा­न­मा­त्र­त्व­मि­त्य­वि­रोधः । पुरुषस्तु कूट­स्थ­नि­त्योऽ­प­रि­णामो न कस्य­चि­त्प्र­कृ­ति­र्नापि विकृतिरिति ।

एवं प्राप्तेऽ­भि­धी­यते -
न सङ्ख्यो­प­स­ङ्ग्र­हा­दपि प्रधानादीनां श्रुति­म­त्त्वा­शङ्का कर्तव्या । कस्मात् नानाभावात् । नाना ह्येतानि पञ्च­विं­श­ति­त­त्त्वानि । नैषां पञ्चशः पञ्चशः साधा­र­ण­ध­र्मोऽस्ति ।
न खलु सत्त्व­र­ज­स्त­मो­म­ह­द­ह­ङ्का­रा­णा­मेकः क्रिया वा गुणो वा द्रव्यं वा जातिर्वा धर्मः पञ्च­त­न्मा­त्रा­दिभ्यो व्यावृत्तः सत्त्वादिषु चानुगतः कश्चिदस्ति । नापि पृथि­व्य­प्ते­जो­वा­यु­घ्रा­णा­नाम् । नापि रस­न­च­क्षु­स्त्व­क्श्रो­त्र­वा­चाम् । नापि पाणि­पा­द­पा­यू­प­स्थ­म­नसां, येनै­के­ना­सा­धा­र­णे­नो­प­गृ­हीताः पञ्च पञ्चका भवितुमर्हन्ति ।

पूर्व­प­क्षै­क­दे­शि­न­मु­त्था­प­यति -
अथोच्येत पञ्च­विं­श­ति­स­ङ्ख्यै­वे­य­मिति ।

यद्यपि परस्यां सङ्ख्या­या­म­वा­न्त­र­सङ्ख्या द्वित्वादिका नास्ति तथापि तत्पूर्वं तस्याः सम्भवात् पौर्वा­प­र्य­ल­क्ष­णया प्रत्यासत्त्या पर­स­ङ्ख्यो­प­ल­क्ष­णार्थं पूर्व­स­ङ्ख्यो­प­न्य­स्यत इति दूषयति -
अय­मे­वा­स्मि­न्पक्षे दोष इति ।

न च पञ्चशब्दो जनशब्देन समस्तोऽसमस्तः शक्यो वक्तुमित्याह -
परश्चात्र पञ्चशब्द इति ।

ननु भवतु समासस्तथापि किमित्यत आह -
समस्तत्वाच्चेति ।

अपि च वीप्सायां पञ्चकद्वयग्रहणे दशैव तत्त्वानीति न साङ्ख्य­स्मृ­ति­प्र­त्य­भि­ज्ञा­न­मि­त्य­स­मा­स­म­भ्यु­पे­त्याह -
न च पञ्चकद्वयग्रहणं पञ्च पञ्चेति ।

न चैका पञ्चसङ्ख्या पञ्च­स­ङ्ख्या­न्त­रेण शक्या विशेष्टुम् । पञ्चशब्दस्य सङ्ख्यो­प­स­र्ज­न­द्र­व्य­व­च­न­त्वेन सङ्ख्याया उपसर्जनतया विशे­ष­णे­ना­सं­यो­गा­दि­त्याह -
एकस्याः पञ्चसङ्ख्याया इति ।

तदेवं पूर्व­प­क्षै­क­दे­शिनि दूषिते पर­म­पू­र्व­प­क्षि­ण­मु­त्था­प­यति -
नन्वा­प­न्न­प­ञ्च­स­ङ्ख्याका जना एवेति ।
अत्र तावद्रूढौ सत्यां न योगः सम्भवतीति वक्ष्यते ।

तथापि यौगिकं पञ्च­ज­न­श­ब्द­म­भ्यु­पेत्य दूषयति -
युक्तं यत्प­ञ्च­पू­ली­श­ब्द­स्येति ।
पञ्चपूलीत्यत्र यद्यपि पृथ­क्त्वै­का­र्थ­सं­वा­यिनी पञ्च­स­ङ्ख्या­व­च्छे­दि­कास्ति तथापीह समु­दा­यि­नोऽ­व­च्छि­नत्ति न समुदायं समा­स­प­द­ग­म्य­म­त­स्त­स्मिन् कति ते समुदाया इत्यपेक्षायां पदान्तराभिहिता पञ्चसङ्ख्या सम्बध्यते पञ्चेति । पञ्चजना इत्यत्र तु पञ्च­स­ङ्ख्य­यो­त्प­त्ति­शि­ष्टया जना­ना­म­व­च्छि­न्न­त्वा­त्स­मु­दा­यस्य च पञ्च­पू­ली­व­द­त्रा­प्र­ती­तेर्न पदान्तराभिहिता सङ्ख्या सम्बध्यते ।

स्यादेतत् । सङ्ख्येयानां जनानां मा भूच्छ­ब्दा­न्त­र­वा­च्य­स­ङ्ख्या­व­च्छेदः । पञ्च­स­ङ्ख्या­यास्तु तयावच्छेदो भविष्यति । नहि साप्य­व­च्छि­न्ने­त्यत आह -
भवदपीदं विशेषणमिति ।
उक्तोऽत्र दोषः । नह्युपसर्जनं विशेषणेन युज्यते पञ्चशब्द एव ताव­त्स­ङ्ख्ये­यो­प­स­र्ज­न­स­ङ्ख्या­माह विशेषतस्तु पञ्चजना इत्यत्र समासे । विशे­ष­णा­पे­क्षायां तु न समासः स्यात् , असामर्थ्यात् । नहि भवति ऋद्धस्य राजपुरुष इति समासोऽपि तु (पद)वृत्तिरेव ऋद्धस्य राज्ञः पुरुष इति । सापे­क्ष­त्वे­ना­सा­म­र्थ्या­दि­त्यर्थः ।

अतिरेकाच्चेति ।
अभ्यु­च्च­य­मा­त्रम् । यदि सत्त्व­र­ज­स्त­मांसि प्रधा­ने­नै­की­कृ­त्या­त्मा­काशौ तत्त्वेभ्यो व्यतिरिच्येते तदा सिद्धा­न्त­व्या­कोपः । अथ तु सत्त्व­र­ज­स्त­मांसि मिथो भेदेन विवक्ष्यन्ते तथापि वस्तु­त­त्त्व­व्य­व­स्था­पने आधारत्वेनात्मा निष्कृष्यताम् । आधे­या­न्त­रे­भ्य­स्त्वा­का­श­स्या­धे­यस्य व्यति­रे­च­न­म­न­र्थ­क­मिति गमयितव्यम् ।

कथं च सङ्ख्या­मा­त्र­श्र­वणे सतीति ।
'दिक्सङ्ख्ये संज्ञायाम्” इति संज्ञायां समासस्मरणात् पञ्च­ज­न­श­ब्द­स्ता­व­दयं क्वचिन्निरूढः । नच रूढौ सत्या­म­व­य­व­प्र­सि­द्धे­र्ग्र­हणं, सापेक्षत्वात् , निरपेक्षत्वाच्च रूढेः । तद्यदि रूढौ मुख्योऽर्थः प्राप्यते ततः स एव ग्रहीतव्योऽथ त्वसौ न वाक्ये सम्बन्धार्हः पूर्वा­प­र­वा­क्य­वि­रोधी वा । ततो रूढ्य­प­रि­त्या­गे­नैव वृत्त्य­न्त­रे­णा­र्था­न्तरं कल्पयित्वा वाक्य­मु­प­पा­द­नी­यम् । यथा “श्येनेनाभिचरन् यजेत” इति श्येनशब्दः शकुनिविशेषे निरू­ढ­वृ­त्ति­स्त­द­प­रि­त्या­गे­नैव निप­त्या­दा­न­सा­दृ­श्ये­ना­र्थ­वा­दि­केन क्रतुविशेषे वर्तते, तथा पञ्च­ज­न­श­ब्दोऽ­व­य­वा­र्थ­यो­गा­न­पेक्ष एकस्मिन्नपि वर्तते । यथा सप्तर्षिशब्दो वसिष्ठ एकस्मिन् सप्तसु च वर्तते । न चैष तत्त्वेषु रूढः । पञ्च­विं­श­ति­स­ङ्ख्या­नु­रो­धेन तत्त्वेषु वर्तयितव्यः । रूढौ सत्यां पञ्चविंशतेरेव सङ्ख्याया अभावात्कथं तत्त्वेषु वर्तते ॥ ११ ॥

एवं च के ते पञ्चजना इत्यपेक्षायां किं वाक्यशेषगताः प्राणादयो गृह्यन्तामुत पञ्च­विं­श­ति­स्त­त्त्वा­नीति विशये तत्त्वा­ना­म­प्रा­मा­णि­क­त्वात् , प्राणादीनां च वाक्यशेषे श्रव­णा­त्त­त्प­रि­त्यागे श्रुत­हा­न्य­श्रु­त­क­ल्प­ना­प्र­स­ङ्गा­त्प्रा­णा­दय एव पञ्चजनाः । नच काण्व­मा­ध्य­न्दि­न­यो­र्वि­रो­धान्न प्राणादीनां वाक्य­शे­ष­ग­ता­ना­मपि ग्रहणमिति साम्प्रतम् , विरोधेऽपि तुल्यबलतया षोड­शि­ग्र­ह­ण­व­द्वि­क­ल्पो­प­पत्तेः । न चेयं वस्तुस्वरूपकथा, अपि­तू­पा­स­ना­नु­ष्ठा­न­विधिः, “मन­सै­वा­नु­द्र­ष्ट­व्यम्”(बृ. उ. ४ । ४ । १९) इति विधिश्रवणात् ।
कथं पुनः प्राणादिषु जनशब्दप्रयोग इति ।
जनवाचकः शब्दो जनशब्दः । पञ्चजनशब्द इति यावत् । तस्य कथं प्राणा­दि­ष्व­ज­नेषु प्रयोग इति व्याख्येयम् । अन्यथा तु प्रत्य­स्त­मि­ता­व­य­वार्थे समुदायशब्दार्थे जनशब्दार्थो नास्ती­त्य­प­र्य­नु­योग एव ।

रूढ्य­प­रि­त्या­गे­नैव वृत्त्यन्तरं दर्शयति -
जन­स­म्ब­न्धा­च्चेति ।
जनशब्दभाजः पञ्चजनशब्दभाजः ।

ननु सत्या­म­व­य­व­प्र­सिद्धौ समु­पा­य­श­क्ति­क­ल्प­न­म­नु­प­पन्नं, सम्भवति च पञ्चविंशत्यां तत्त्वे­ष्व­व­य­व­प्र­सि­द्धि­रि­त्यत आह -
समासबलाच्चेति ।

स्यादेतत् । समा­स­ब­ला­च्चे­द्रू­ढि­रा­स्थी­यते हन्त न दृष्टस्तर्हि तस्य प्रयो­गोऽ­श्व­क­र्णा­दि­व­द्वृ­क्षा­दिषु । तथाच लोक­प्र­सि­द्ध्य­भा­वान्न रूढि­रि­त्या­क्षि­पति -
कथं पुनरसतीति ।

जनेषु ताव­त्प­ञ्च­ज­न­श­ब्दश्च प्रथमः प्रयोगो लोकेषु दृष्ट इत्यसति प्रथमप्रयोग इत्यसिद्धमिति स्थवी­य­स्त­या­न­भि­धा­या­भ्यु­पेत्य प्रथ­म­प्र­यो­गा­भावं समाधत्ते -
शक्यो­द्भि­दा­दि­व­दिति ।
आचार्यदेशीयानां मतभेदेष्वपि न पञ्च­विं­श­ति­स्त­त्त्वानि सिध्यन्ति ।

परमार्थतस्तु पञ्चजना वाक्यशेषगता एवेत्याशयवानाह -
कैश्चित्त्विति ।
शेष­म­ति­रो­हि­ता­र्थम् ॥ १२ ॥ ॥ १३ ॥

कारणत्वेन चाकाशादिषु यथा­व्य­प­दि­ष्टोक्तेः ।

अथ समन्वयलक्षणे केयमकाण्डे विरो­धा­वि­रो­ध­चिन्ता, भविता हि तस्याः स्थान­म­वि­रो­ध­ल­क्ष­ण­मि­त्यत आह -
प्रतिपादितं ब्रह्मण इति ।
अयमर्थः - नाने­क­शा­खा­ग­त­त­त्त­द्वा­क्या­लो­च­नया वाक्यार्थावगमे पर्यवसिते सति प्रमा­णा­न्त­र­वि­रो­धेन वाक्या­र्था­व­ग­ते­र­प्रा­मा­ण्य­मा­श­ङ्क्या­वि­रो­ध­व्यु­त्पा­द­नेन प्रामा­ण्य­व्य­व­स्था­प­न­म­वि­रो­ध­ल­क्ष­णार्थः । प्रासङ्गिकं तु तत्र सृष्टिविषयाणां वाक्यानां पर­स्प­र­म­वि­रो­ध­प्र­ति­पा­दनं न तु लक्षणार्थः । तत्प्रयोजनं च तत्रैव प्रतिपादयिष्यते । इह तु वाक्यानां सृष्टि­प्र­ति­पा­द­कानां परस्परविरोधे ब्रह्मणि जगद्योनौ न समन्वयः सेद्धुमर्हति । तथाच न जगत्कारणत्वं ब्रह्मणो लक्षणं, नच तत्र गतिसामान्यं, नच तत्सिद्धये प्रधा­न­स्या­श­ब्द­त्व­प्र­ति­पा­दनं, तस्मा­द्वा­क्यानां विरो­धा­वि­रो­धा­भ्या­मु­क्ता­र्था­क्षे­प­स­मा­धा­नाभ्यां समन्वयः एवोपपाद्यत इति समन्वयलक्षणे सङ्ग­त­मि­द­म­धि­क­र­णम् । “वाक्यानां कारणे कार्ये परस्परविरोधतः । समन्वयो जगद्योनौ न सिध्यति परात्मनि” ॥ “सदेव सोम्येदमग्र आसीत्”(छा. उ. ६ । २ । १) इत्यादीनां कारणविषयाणां, “असद्वा इदमग्र आसीत्”(तै. उ. २ । ७ । १) इत्या­दि­भि­र्वाक्यैः कार­ण­वि­ष­यै­र्वि­रोधः । कार्यविषयाणामपि विभि­न्न­क्र­मा­क्र­मो­त्प­त्ति­प्र­ति­पा­द­कानां विरोधः । तथाहि - कानि­चि­द­न्य­क­र्तृका जग­दु­त्प­त्ति­मा­च­क्षते वाक्यानि । कानि­चि­त्स्व­य­ङ्क­र्तृ­काम् । सृष्ट्या च कार्येण तत्कारणतया ब्रह्म लक्षितम् । सृष्टि­वि­प्र­ति­पत्तौ तत्कारणतायां ब्रह्मलक्षणे विप्रतिपत्तौ सत्यां भवति तल्लक्ष्ये ब्रह्मण्यपि विप्रतिपत्तिः । तस्माद्ब्रह्मणि समन्वयाभावान्न समन्वयागम्यं ब्रह्म । वेदान्तास्तु कर्त्रा­दि­प्र­ति­पा­द­नेन कर्म­वि­धि­प­र­त­यो­प­च­रि­तार्था अविवक्षितार्था वा जपोपयोगिन इति प्राप्तम् ।

क्रमादीति ।
आदि­ग्र­ह­णे­ना­क्रमो गृह्यते । एवं प्राप्त उच्यते - “सर्ग­क्र­म­वि­वा­देऽपि न स स्रष्टरि विद्यते । सतस्त्वसद्वचो भक्त्या निराकार्यतया क्वचित्” ॥ न तावदस्ति सृष्टिक्रमे विगानं, श्रुती­ना­म­वि­रो­धात् । तथाहि - अने­क­शि­ल्प­प­र्य­व­दातो देवदत्तः प्रथमं चक्रदण्डादि करोति, अथ तदुपकरणः कुम्भं, कुम्भो­प­क­र­ण­श्चा­ह­र­त्यु­दकं, उदकोपकरणश्च संयवनेन गोधूमकणिकानां करोति पिण्डं, पिण्डोपकरणस्तु पचति घृतपूर्णं, तदस्य देवदत्तस्य सर्वत्रैतस्मिन् कर्तृ­त्वा­च्छक्यं वक्तुं देव­द­त्ता­च्च­क्रादि सम्भूतं तस्माच्चक्रादेः कुम्भादीति । शक्यं च देव­द­त्ता­त्कुम्भः समु­द्भू­त­स्त­स्मा­दु­द­का­ह­र­णा­दी­त्यादि । नह्यस्त्यसम्भवः सर्वत्रास्मिन् कार्यजाते क्रमवत्यपि देवदत्तस्य साक्षा­त्क­र्तु­र­नु­स्यू­त­त्वात् । तथेहापि यद्य­प्या­का­शा­दि­क्र­मे­णैव सृष्टि­स्त­था­प्या­का­शा­न­ला­नि­लादौ तत्र तत्र साक्षा­त्प­र­मे­श्व­रस्य कर्तृ­त्वा­च्छक्यं वक्तुं परमेश्वरादाकाशः सम्भूत इति । शक्यं च वक्तुं परमेश्वरादनलः सम्भूत इत्यादि । यदि त्वाका­शा­द्वा­यु­र्वा­यो­स्तेज इत्युक्त्वा तेजसो वायुर्वायोराकाश इति ब्रूया­द्भ­वे­द्वि­रोधः । न चैतदस्ति । तस्मा­द­मू­षा­म­वि­वादः श्रुतीनाम् । एवं “स इमां­ल्लो­का­न­सृ­जत”(ऐ.उ. १-१-२) इत्यु­प­क्र­मा­भि­धा­यि­न्यपि श्रुतिरविरुद्धा । एषा हि स्वव्या­पा­र­म­भि­धा­न­क्र­मेण कुर्वती नाभिधेयानां क्रमं निरुणद्धि । ते तु यथाक्रमावस्थिता एवा­क्र­मे­णो­च्यन्ते - यथा क्रमवन्ति ज्ञानानि जानातीति । तदेवमविगानम् । अभ्युपेत्य तु विगा­न­मु­च्य­ते­सृष्टौ खल्वेतद्विगानम् । स्रष्टा तु सर्व­वे­दा­न्त­वा­क्ये­ष्व­नु­स्यूतः परमेश्वरः प्रतीयते । नात्र श्रुतिविगानं मात्रयाप्यस्ति । नच सृष्टिविगानं स्रष्टरि तदधीननिरूपणे विगानमावहतीति वाच्यम् । नह्येष स्रष्टृ­त्व­मा­त्रे­णो­च्य­तेऽपि तु “सत्यं ज्ञानमनन्तं ब्रह्म”(तै. उ. २ । १ । १) इत्यादिना रूपेणोच्यते स्रष्टा । तच्चास्य रूपं सर्व­वे­दा­न्त­वा­क्या­नु­ग­तम् । तज्ज्ञानं च फलवत् । “ब्रह्म­वि­दा­प्नोति परम्”(तै. उ. २ । १ । १) “तरति शोकमात्मवित्”(छा. उ. ७ । १ । ३) इत्यादि श्रुतेः । सृष्टिज्ञानस्य तु न फलं श्रूयते । तेन “फल­व­त्सं­नि­धा­व­फलं तदङ्गम्” इति सृष्टिविज्ञानं स्रष्टृ­ब्र­ह्म­वि­ज्ञा­नाङ्गं तदनुगुणं सद्ब्र­ह्म­ज्ञा­ना­व­ता­रो­पा­य­तया व्याख्येयम् । तथाच श्रुतिः - “अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छ”(छा. उ. ६ । ८ । ४) इत्यादिका । शुङ्गेनाग्रेण । कार्येणेति यावत् । तस्मान्न सृष्टि­वि­प्र­ति­पत्तिः स्रष्टरि विप्र­ति­प­त्ति­मा­व­हति । अपि तु “गुणे त्वन्यायकल्पना” इति तदनुगुणतया व्याख्येया । यच्च कारणे विगानम् “असद्वा इदमग्र असीत्”(तै. उ. २ । ७ । १) इति, तदपि “तदप्येष श्लोको भवति”(तै. उ. २ । ६ । १) इति पूर्वप्रकृतं सद्ब्र­ह्म­णा­कृष्य “असदेवेदमग्र आसीत्”(छा. उ. ३ । १९ । १) इत्युच्यमानं त्वस­तोऽ­भि­धा­नेऽ­स­म्बद्धं स्यात् । श्रुत्यन्तरेण च मानान्तरेण च विरोधः । तस्मादौपचारिकं व्याख्येयम् । “तद्धैक आहुरसदेवेदमग्र आसीत्”(छा. उ. ६ । २ । १) इति तु निरा­का­र्य­त­यो­प­न्य­स्त­मिति न कारणे विवाद इति सूत्रे चशब्दस्त्वर्थः । पूर्वपक्षं निवर्तयति । आकाशादिषु सृज्यमानेषु क्रमविगानेऽपि न स्रष्टरि विगानम् । कुतः । यथैकस्यां श्रुतौ व्यपदिष्टः परमेश्वरः सर्वस्य कर्ता तथैव श्रुत्य­न्त­रे­षूक्तेः, केन रूपेण, कारणत्वेन, अपरः कल्पो यथा व्यपदिष्टः क्रम आकाशादिषु, “आत्मन आकाशः सम्भूत आका­शा­द्वा­यु­र्वा­यो­र­ग्नि­र­ग्ने­रा­पोऽद्भ्यः पृथिवी”(तै. उ. २ । १ । १) इति, तस्यैव क्रम­स्या­न­प­बा­ध­नेन “तत्तेजोऽसृजत”(छा. उ. ६ । २ । ३) इत्यादिकाया अपि सृष्टेरुक्तेर्न सृष्टावपि विगानम् ॥ १४ ॥

नन्वेकत्रात्मन आका­श­का­र­ण­त्वे­नो­क्ति­र­न्यत्र च तेजः कारणत्वेन, तत्कथमविगानमिति । अत आह -
कारणत्वेति ।
हेतौ तृतीया । सर्व­त्रा­का­शा­न­ला­नि­लादौ साक्षा­त्का­र­ण­त्वे­ना­त्मनः । प्रपञ्चितं चैतदधस्तात् । व्याक्रियत इति च कर्मकर्तरि कर्मणि वा रूपं, न चेतनमतिरिक्तं कर्तारं प्रतिक्षिपति किन्तूपस्थापयति । नहि लूयते केदारः स्वयमेवेति वा लूयते केदार इति वा लवितारं देवदत्तादिं प्रतिक्षिपति । अपि तूपस्थापयत्येव । तस्मा­त्स­र्व­म­व­दा­तम् ॥ १५ ॥

जगद्वाचित्वात् ।
ननु “ब्रह्म ते ब्रवाणि”(बृ. उ. २ । १ । १) इति ब्रह्मा­भि­धा­न­प्र­क­र­णात् , उपसंहारे च “सर्वान् पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वाराज्यं पर्येति य एवं वेद” इति निर­ति­श­य­फ­ल­श्र­व­णा­द्ब्र­ह्म­वे­द­ना­द­न्यत्र तदसम्भवात् , आदि­त्य­च­न्द्रा­दि­ग­त­पु­रु­ष­क­र्तृ­त्वस्य च “यस्य वैतत्कर्म”(कौ . ब्रा. ४ । १९) इति चास्या­स­त्य­व­च्छेदे सर्वनाम्ना प्रत्य­क्ष­सि­द्धस्य जगतः परामर्शेन, जगत्कर्तृत्वस्य च ब्रह्म­णोऽ­न्य­त्रा­स­म्भ­वा­त्कथं जीव­मु­ख्य­प्रा­णा­शङ्का । उच्यते - ब्रह्म ते ब्रवाणीति बालाकिना गार्ग्येण ब्रह्माभिधानं प्रतिज्ञाय तत्त­दा­दि­त्या­दि­ग­ता­ब्र­ह्म­पु­रु­षा­भि­धा­नेन न ताव­द्ब्र­ह्मो­क्तम् । यस्य चाजातशत्रोः “यो वै बालाके एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म”(कौ . ब्रा. ४ । १९) इति वाक्यं न तेन ब्रह्माभिधानं प्रतिज्ञातम् । न चान्य­दी­ये­नो­प­क्र­मे­णा­न्यस्य वाक्यं शक्यं नियन्तुम् । तस्मा­द­जा­त­श­त्रो­र्वा­क्य­स­न्द­र्भ­पौ­र्वा­प­र्य­प­र्या­लो­च­नया योऽस्यार्थः प्रतिभाति स एव ग्राह्यः । अत्र च कर्म­श­ब्द­स्ता­व­द्व्या­पारे निरूढवृत्तिः । कार्ये तु क्रियत इति व्युत्पत्त्या वर्तते । नच रूढौ सत्यां व्युत्प­त्ति­र्यु­क्ता­श्र­यि­तुम् । नच ब्रह्मण उदा­सी­न­स्या­प­रि­णा­मिनो व्यापारवत्ता । वाक्यशेषे च “अथास्मिन् प्राण एवैकधा भवति”(कौ.उ. ३.३.) इति श्रव­णा­त्प­रि­स्प­न्द­ल­क्ष­णस्य च कर्मणो यत्रोपपत्तिः स एव वेदि­त­व्य­त­यो­प­दि­श्यते । आदि­त्या­दि­ग­त­पु­रु­ष­क­र्तृत्वं च प्राण­स्यो­प­प­द्यते, हिर­ण्य­ग­र्भ­रू­प­प्रा­णा­व­स्था­वि­शे­ष­त्वा­दा­दि­त्या­दि­दे­व­ता­नाम् । “कतम एको देवः प्राणः”(बृ. उ. ३ । ९ । ९) इति श्रुतेः । उपक्रमानुरोधेन चोपसंहारे सर्वशब्दः सर्वान् पाप्मन इति च सर्वेषां भूतानामिति चापे­क्षि­क­वृ­त्ति­र्ब­हून् पाप्मनो बहूनां भूता­ना­मि­त्ये­वं­परो द्रष्टव्यः । एकस्मिन् वाक्ये उप­क्र­मा­नु­रो­धा­दु­प­सं­हारो वर्णनीयः । यदि तु दृप्त­बा­ला­कि­म­ब्र­ह्मणि ब्रह्मा­भि­धा­यि­न­म­पो­द्या­जा­त­श­त्रो­र्व­चनं ब्रह्म­वि­ष­य­मे­वा­न्यथा तु तदुक्ताद्विशेषं विव­क्षो­र­ब्र­ह्मा­भि­धा­न­म­स­म्बद्धं स्यादिति मन्यते, तथापि नैत­द्ब्र­ह्मा­भि­धानं भवितुमर्हति, अपितु जीवाभिधानमेव, यत्कारणं वेदि­त­व्य­त­यो­प­न्य­स्तस्य पुरुषाणां कर्तु­र्वे­द­ना­यो­पेतं बालाकिं प्रति बुबो­ध­यि­षु­र­जा­त­शत्रुः सुप्तं पुरु­ष­मा­म­न्त्र्या­मा­न्त्र­ण­श­ब्दा­श्र­व­णात् प्राणा­दी­ना­म­भो­क्तृ­त्व­म­स्वा­मित्वं प्रतिबोध्य यष्टि­घा­तो­त्था­नात् प्राणा­दि­व्य­ति­रिक्तं जीवं भोक्तारं स्वामिनं प्रतिबोधयति । परस्तादपि “तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं भुञ्ज­न्त्ये­व­मे­वैष प्रज्ञा­त्मै­तै­रा­त्म­भि­र्भुङ्क्ते एवमेवैत आत्मान एनमात्मानं भुञ्जन्ति”(कौ . ब्रा. ४ । २०) इति श्रवणात् । यथा श्रेष्ठी प्रधानः पुरुषः स्वैर्भृत्यैः कर­ण­भू­तै­र्वि­ष­यान् भुङ्क्ते, यथा वा स्वा भृत्याः श्रेष्ठिनं भुञ्जन्ति । ते हि श्रेष्ठि­न­म­श­ना­च्छा­द­ना­दि­ग्र­ह­णेन भुञ्जन्ति । एवमेवैष प्रज्ञात्मा जीव एतै­रा­दि­त्या­दि­ग­तै­रा­त्म­भि­र्वि­ष­यान् भुङ्क्ते । ते ह्यादित्यादय आलो­क­वृ­ष्ट्या­दिना साचिव्यमाचरन्तो जीवात्मानं भोजयन्ति, जीवात्मानमपि यजमानं तदु­त्सृ­ष्ट­ह­वि­रा­दा­ना­दा­दि­त्या­दयो भुञ्जन्ति, तस्मा­ज्जी­वा­त्मैव ब्रह्म­णोऽ­भे­दा­द्ब्र­ह्मेह वेदि­त­व्य­त­यो­प­दि­श्यते ।

यस्य वैतत्कर्म इति ।
जीव­प्र­त्यु­क्तानां देहे­न्द्रि­या­दीनां कर्म जीवस्य भवति । कर्म­ज­न्य­त्वाद्वा धर्माधर्मयोः कर्म­श­ब्द­वा­च्यत्वं रूढ्यनुसारात् । तौ च धर्माधर्मौ जीवस्य । धर्मा­ध­र्मा­क्षि­प्त­त्वा­च्चा­दि­त्या­दीनां भोगोपकरणानां तेष्वपि जीवस्य कर्तृ­त्व­मु­प­प­न्नम् । उपपन्नं च प्राण­भृ­त्त्वा­ज्जी­वस्य प्राणशब्दत्वम् । ये च प्रश्नप्रतिवचने “क्वैष एतद्बालाके पुरुषोऽशयिष्ट यदा सुप्तः स्वप्नं न कञ्चन पश्यति”(कौ . ब्रा. ४ । १९) इति । अनयोरपि न स्पष्टं ब्रह्मा­भि­धा­न­मु­प­ल­भ्यते । जीवव्यतिरेकश्च प्राणात्मनो हिर­ण्य­ग­र्भ­स्या­प्यु­प­प­द्यते । तस्मा­ज्जी­व­प्रा­ण­यो­र­न्य­तर इह ग्राह्यो न परमेश्वर इति प्राप्तम् ।

एवं प्राप्ते
उच्यते - “मृषाा­वा­दि­न­मा­पोद्य बालाकिं ब्रह्मवादिनम् । राजा कथमसम्बद्धं मिथ्या वा वक्तुमर्हति” ॥ यथा हि केन­चि­न्म­णि­ल­क्ष­ण­ज्ञ­मा­निना काचे मणिरेव वेदितव्य इत्युक्ते परस्य काचोऽयं मणिर्न तल्ल­क्ष­णा­यो­गा­दि­त्य­भि­धाय आत्मनो विशेषं जिज्ञा­प­यि­षो­स्त­त्त्वा­भि­धा­न­म­स­म्ब­द्धम् । अमणौ मण्यभिधानं न पूर्ववादिनो विशेषमापादयति स्वयमपि मृषाभिधानात् । तस्मा­द­ने­नो­त्त­र­वा­दिना पूर्ववादिनो विशेषमापादयता मणितत्त्वमेव वक्तव्यम् । एवमजातशत्रुणा दृप्त­बा­ला­के­र­ब्र­ह्म­वा­दिनो विशेषमात्मनो दर्शयता जीवप्राणाभिधाने असम्बद्धमुक्तं स्यात् । तयो­र्वा­ब्र­ह्म­णो­र्ब्र­ह्मा­भि­धाने मिथ्याभिहितं स्यात् । तथा च न कश्चिद्विशेषो बाला­के­र्गा­र्ग्या­द­जा­त­श­त्रो­र्भ­वेत् । तस्मादनेन ब्रह्म­त­त्त्व­म­भि­धा­त­व्यम् । तथा सत्यस्य न मिथ्यावद्यम् । तस्मात् “ब्रह्म ते ब्रवाणि”(बृ. उ. २ । १ । १) इति ब्रह्म­णो­प­क्र­मात् , सर्वान् पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वराज्यं पर्येति य एवं वेदऽइति च सति सम्भवे सर्व­श्रु­ते­र­स­ङ्को­चा­न्नि­र­ति­श­येन फलेनोपसंहारात् , ब्रह्म­वे­द­ना­द­न्य­तश्च तदनुपपत्तेः, आदि­त्या­दि­पु­रु­ष­क­र्तृ­त्वस्य च स्वात­न्त्र्य­ल­क्ष­णस्य मुख्यस्य ब्रह्मण्येव सम्भवादन्येषां हिर­ण्य­ग­र्भा­दीनां तत्पा­र­त­न्त्र्यात् , “क्वौष एतद्बालाके”(कौ . ब्रा. ४ । १९) इत्या­दे­र्जी­वा­धि­क­र­ण­भ­व­ना­पा­द­न­प्र­श्नस्य “यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन् प्राण एवैकधा भवति”(कौ . ब्रा. ४ । २०) इत्या­दे­रु­त्त­रस्य च ब्रह्म­ण्ये­वो­प­प­त्ते­र्ब्र­ह्म­वि­ष­यत्वं निश्चीयते । अथ कस्मान्न भवतो हिरण्यगर्भगोचरे एव प्रश्नोत्तरे, तथा च नैताभ्यां ब्रह्म­वि­ष­य­त्व­सि­द्धि­रि­त्ये­त­न्नि­रा­चि­कीर्षुः पठति - एतस्मादात्मनः प्राणा यथा यथायतनं प्रतिष्ठन्त इति । एतदुक्तं भवति - आत्मैव भवति जीव­प्रा­णा­दी­ना­म­धि­क­रणं नान्यदिति । यद्यपि च जीवो नात्मनो भिद्यते तथा­प्यु­पा­ध्य­व­च्छि­न्नस्य परमात्मनो जीव­त्वे­नो­पा­धि­भे­दा­द्भे­द­मा­रो­प्या­धा­रा­धे­य­भावो द्रष्टव्यः । एवं च जीव­भ­व­ना­धा­र­त्व­म­पा­दा­नत्वं च परमात्मन उपपन्नम् ।

तदेवं बाला­क्य­जा­त­श­त्रु­सं­वा­द­वा­क्य­स­न्द­र्भस्य ब्रह्मपरत्वे स्थिते
यस्य वैतत्कर्म इति
व्यापाराभिधाने न सङ्गच्छत इति कर्मशब्दः कार्याभिधायी भवति, एत­दि­ति­स­र्व­ना­म­प­रा­मृष्टं च तत्कार्यं, सर्वनाम चेदं संनि­हि­त­प­रा­मर्शि, नच किञ्चिदिह शब्दोक्तमस्ति संनिहितम् । न चादि­त्या­दि­पु­रुषाः संनिहिता अपि परामर्शार्हाः बहु­त्वा­त्पुं­लि­ङ्ग­त्वाच्च । एतदिति चैकस्य नपुं­स­क­स्या­भि­धा­नात् “एतेषां पुरुषाणां कर्ता”(कौ . ब्रा. ४ । १९) इत्यनेनैव गतार्थत्वाच्च । तस्मा­द­श­ब्दो­क्त­मपि प्रत्यक्षसिद्धं सम्बन्धार्हं जगदेव पराम्रष्टव्यम् ।

एतदुक्तं भवति ।
अत्य­ल्प­मि­द­मु­च्यते एते­षा­मा­दि­त्या­दि­ग­तानां जगदेकदेशभूतानां कर्तेति, किन्तु कृत्स्नमेव जगद्यस्य कार्यमिति वाशब्देन सूच्यते । जीवप्राणशब्दौ च ब्रह्मपरौ जीवशब्दस्य ब्रह्मो­प­ल­क्ष­ण­प­र­त्वात् । न पुन­र्ब्र­ह्म­शब्दो जीवोपलक्षणपरः । तथा सति हि बह्वसमञ्जसं स्यादित्युक्तम् । न चान­धि­ग­ता­र्था­व­बो­ध­न­स्व­र­सस्य शब्द­स्या­धि­ग­त­बो­धनं युक्तम् । नाप्य­न­धि­ग­ते­ना­धि­ग­तो­प­ल­क्ष­ण­मु­प­प­न्नम् । नच सम्भ­व­त्ये­क­वा­क्यत्वे वाक्यभेदो न्याय्यः । वाक्य­शे­षा­नु­रो­धेन च जीव­प्रा­ण­प­र­मा­त्मो­पा­स­ना­त्र­य­वि­धाने वाक्यत्रयं भवेत् । पौर्वा­प­र्य­प­र्या­लो­च­नया तु ब्रह्मो­पा­स­न­प­रत्वे एकवाक्यतैव । तस्मान्न जीव­प्रा­ण­प­र­त्व­मपि तु ब्रह्म­प­र­त्व­मे­वेति सिद्धम् ।

स्यादेतत् । निर्दिश्यन्तां पुरुषाः कार्या­स्त­द्वि­षया तु कृतिरनिर्दिष्टा तत्फलं वा कार्य­स्यो­त्प­त्तिस्ते यस्येदं कर्मेति निर्देक्ष्येते, ततः कुतः पौन­रु­क्त्य­मि­त्यत आह -
नापि पुरुषविषयस्येति ।
एतदुक्तं भवति - कर्तृशब्देनैव कर्तारमभिदधता तयो­रु­पा­त्त­त्वा­दा­क्षि­प्त­त्वात् । नहि कृतिं विना कर्ता भवति । नापि कृति­र्भा­व­ना­प­रा­भि­धाना भूतिमुत्पत्तिं विनेत्यर्थः ।

ननु यदीदमा जगत्परामृष्टं तत­स्त­द­न्त­र्भूताः पुरुषा अपीति य एतेषां पुरुषाणामिति पुनरुक्तमित्यत आह -
एतदुक्तं भवति । य एषां पुरुषाणामिति ॥ १६ ॥ ॥ १७ ॥

ननु “प्राण एवैकधा भवति”(कौ . ब्रा. ४ । २०) इत्यादिकादपि वाक्या­ज्जी­वा­ति­रिक्तः कुतः प्रतीयत इत्यतो वाक्यान्तरं पठति -
एतस्मादात्मनः प्राणा इति ।

अपि च सर्व­वे­दा­न्त­सि­द्ध­मे­त­दि­त्याह -
सुषुप्तिकाले चेति ।

वेदा­न्त­प्र­क्रि­या­या­मे­वो­प­प­त्ति­मु­प­सं­हा­र­व्या­जे­नाह -
तस्माद्यत्रास्य
आत्मनो यतो निःसम्बोधोऽतः स्वच्छतारूपमिव रूपमस्येति स्वच्छतारूपो न तु स्वच्छतैव । लय­वि­क्षे­प­सं­स्का­र­यो­स्तत्र भावात् । समु­दा­च­र­द्वृ­त्ति­वि­क्षे­पा­भा­व­मा­त्रे­णो­प­मा­नम् । एतदेव विभजते - उपाधिभिः अन्तःकरणादिभिः जनितं यद्वि­शे­ष­वि­ज्ञानं घटपटादिविज्ञानं तद्रहितं स्वरूपमात्मनः यदि विज्ञा­न­मि­त्ये­वो­च्येत तत­स्त­द­वि­शि­ष्ट­म­न­व­च्छिन्नं सद्ब्रह्मैव स्यात्तच्च नित्यमिति नोपाधिजनितं नापि तद्रिहितं स्वरूपं ब्रह्म­स्व­भा­व­स्या­प्र­हा­णात् ।

अत उक्तम् -
विशेषेति ।
यदा तु लय­ल­क्ष­णा­वि­द्यो­प­बृं­हितो विक्षेपसंस्कारः समुदाचरति तदा विशे­ष­वि­ज्ञा­नो­त्पा­दा­त्स्व­प्न­जा­ग­रा­व­स्थातः परमात्मनो रूपा­द्भ्रं­श­रू­प­मा­ग­म­न­मिति ।

न केवलं कौषी­त­कि­ब्रा­ह्मणे, वाज­स­ने­येऽ­प्ये­व­मेव प्रश्नो­त्त­र­यो­र्जी­व­व्य­ति­रि­क्त­मा­म­नन्ति पर­मा­त्मा­न­मि­त्याह -
अपि चैवमेक इति ।

नन्वत्राकाशं शयनस्थानं तत्कुतः परमात्मप्रत्यय इत्यत आह -
आकाशशब्दश्चेति ।
न ताव­न्मु­ख्य­स्या­का­श­स्या­त्मा­धा­र­त्व­स­म्भवः । यदपि च द्वास­प्त­ति­स­ह­स्र­हि­ता­भि­धा­न­ना­डी­स­ञ्चा­रेण सुषु­प्त्य­व­स्थायां पुरी­त­द­व­स्था­न­मुक्तं तदप्यन्तःकरणस्य । तस्मात् “दह­रोऽ­स्मि­न्न­न्त­रा­काशः”(छा. उ. ८ । १ । १) इतिवदाकाशशब्दः परमात्मनि मन्तव्य इति ।

प्रथमं भाष्यकृता जीवनिराकरणाय सूत्र­मि­द­म­व­ता­रि­तम् । तत्र मन्दधियां नेदं प्राण­नि­रा­क­र­णा­येति बुद्धिर्मा भूदित्याशयवानाह -
प्राण­नि­रा­क­र­ण­स्या­पीति ।
तौ हि बालाक्यजातशत्रू सुप्तं पुरुषमाजग्मतुः । तम­जा­त­श­त्रु­र्ना­म­भि­रा­म­न्त्र­या­ञ्चक्रे “बृह­त्पा­ण्डु­र­वासः सोमराजन्” इति । स आमन्त्र्यमाणो नोत्तस्थौ । तं पाणिनापेषं बोधयाञ्चकार । स होत्तस्थौ । स होवा­च­जा­त­श­त्रु­र्य­त्रैष एत­त्सु­प्तोऽ­भूत्” इत्यादि । सोऽयं सुप्त­पु­रु­षो­त्था­प­नेन प्राणा­दि­व्य­ति­रि­क्तो­प­देश इति ॥ १८ ॥

वाक्यान्वयात् ।
ननु मैत्रे­यी­ब्रा­ह्म­णो­प­क्रमे याज्ञवल्क्येन गार्ह­स्थ्या­श्र­मा­दु­त्त­मा­श्रमं यियासता मैत्रैय्या भार्यायाः कात्यायन्या सहा­र्थ­सं­वि­भा­ग­क­रण उक्ते मैत्रेयी याज्ञवल्क्यं पति­म­मृ­त­त्वा­र्थिनी पप्रच्छ, यन्नु म इयं भगोः सर्वा पृथ्वी वित्तेन पूर्णा स्यात्किमहं तेनामृता स्यामुत नेति । तत्र नेति होवाच याज्ञवल्क्यः । यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशास्ति वित्तेन । एवं वित्ते­ना­मृ­त­त्वाशा भवेद्यदि वित्तसाध्यानि कर्माण्यमृतत्वे उपयुज्येरन् । तदेव तु नास्ति, ज्ञान­सा­ध्य­त्वा­द­मृ­त­त्वस्य कर्मणां च ज्ञानविरोधिनां तत्स­ह­भा­वि­त्वा­नु­प­प­त्ते­रिति भावः । सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेनं कुर्यां यदेव भगवान् वेद तदेव मे ब्रूहि । अमृतत्वसाधनमिति शेषः । तत्रा­मृ­त­त्व­सा­ध­न­ज्ञा­नो­प­न्या­साय वैरा­ग्य­पू­र्व­क­त्वा­त्तस्य रागविषयेषु तेषु तेषु पतिजायादिषु वैरा­ग्य­मु­त्पा­द­यितुं याज्ञवल्क्यो “न वा अरे पत्युः कामाय”(बृ. उ. ४ । ५ । ६) इत्या­दि­वा­क्य­स­न्द­र्भ­मु­वाच । आत्मौपाधिकं हि प्रियत्वमेषां न तु साक्षा­त्प्रि­या­ण्ये­तानि ।

तस्मादेतेभ्यः पतिजायादिभ्यो विरम्य यत्र साक्षात्प्रेम स एव
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ।
वाशब्दोऽवधारणे । आत्मैव द्रष्टव्यः साक्षा­त्क­र्तव्यः । एतत्साधनानि च श्रवणादीनि विहितानि श्रोतव्य इत्यादिना । कस्मात् । आत्मनो वा अरे दर्शनेन श्रव­णा­दि­सा­ध­ने­नेदं जगत्सर्वंविदितं भवतीति वाक्यशेषः । यतो नामरूपात्मकस्य जगतस्तत्त्वं पारमार्थिकं रूपमात्मैव भुजङ्गस्येव समारोपितस्य तत्त्वं रज्जुः । तस्मादात्मनि विदिते सर्वमिदं जगत्तत्त्वं विदितं भवति, रज्ज्वामिव विदितायां समारोपितस्य भुजङ्गस्य तत्त्वं विदितं भवति, यत­स्त­स्मा­दा­त्मैव द्रष्टव्यो न तु तदतिरिक्तं जगत् स्वरूपेण द्रष्टव्यम् । कुतः । यतो “ब्रह्म तं परादात्”(बृ. उ. २ । ४ । ६) ब्राह्म­ण­जा­ति­र्ब्रा­ह्म­णोऽ­ह­मि­त्ये­व­म­भि­मान इति यावत् । परादात् परा­कु­र्या­द­मृ­त­त्व­प­दात् । कं, योऽन्यत्रात्मनो ब्रह्म ब्राह्मणजातिं वेद । एवं क्षत्रि­या­दि­ष्वपि द्रष्टव्यम् । आत्मैव जगतस्तत्त्वं न तु तदतिरिक्तं किञ्चित्तदिति । अत्रैव भगवती श्रुतिरुपपत्तिं दृष्टा­न्त­प्र­ब­न्धे­नाह । यत् खलु यद्ग्रहं विना न शक्यते ग्रहीतुं तत्ततो न व्यतिरिच्यते । यथा रजतं शुक्तिकायाः, भुजङ्गो वा रज्जोः, दुन्दु­भ्या­दि­श­ब्द­सा­मा­न्याद्वा तत्तच्छब्दभेदाः । न गृह्यन्ते च चिद्रूपग्रहणं विना स्थितिकाले नामरूपाणि । तस्मान्न चिदात्मनो भिद्यन्ते ।

तदिदमुक्तम् -
स यथा दुन्दु­भे­र्ह­न्य­मा­न­स्येति ।
दुन्दुभिग्रहणेन तद्गतं शब्द­सा­मा­न्य­मु­प­ल­क्ष­यति । न केवलं स्थितिकाले नाम­रू­प­प्र­प­ञ्च­श्चि­दा­त्मा­ति­रे­के­णा­ग्र­ह­णा­च्चि­दा­त्मनो न व्यतिरिच्यतेऽपि तु नामरूपोत्पत्तेः प्रागपि चिद्रू­पा­व­स्था­नात् तदुपादानत्वाच्च नाम­रू­प­प्र­प­ञ्चस्य तदनतिरेकः, रज्जूपादानस्येव भुजङ्गस्य रज्जोरनतिरेक इत्ये­त­द्दृ­ष्टा­न्तेन साधयति भगवती श्रुतिः - “स यथा­र्द्रै­धोऽ­ग्रे­र­भ्या­हि­तस्य पृथग्धूमा विनि­श्च­र­न्त्येवं वा अरेऽस्य महतो भूतस्य निःश्व­सि­त­मे­त­द्य­दृ­ग्वेदः”(बृ. उ. २ । ४ । १०) इत्यादिना चतुर्विधो मन्त्र उक्तः । इतिहास इत्या­दि­ना­ष्ट­विधं ब्राह्मणमुक्तम् । एतदुक्तं भवति - यथाग्निमात्रं प्रथममवगम्यते क्षुद्राणां विस्फु­लि­ङ्गा­ना­मु­पा­दा­नम् । अथ ततो विस्फुलिङ्गा व्युच्चरन्ति । न चैतेऽ­ग्ने­स्त­त्त्वा­न्य­त्वाभ्यां शक्यन्ते निर्वुक्तम् । एव­मृ­ग्वे­दा­द­योऽ­प्य­ल्प­प्र­य­त्ना­द्ब्र­ह्मणो व्युच्चरन्तो न तत­स्त­त्त्वा­न्य­त्वाभ्यां निरुच्यन्ते । ऋगा­दि­भि­र्ना­मो­प­ल­क्ष्यते । यदा च नामधेयस्येयं गतिस्तदा तत्पूर्वकस्य रूपधेयस्य कैव कथेति भावः । न केवलं तदु­पा­दा­न­त्वा­त्ततो न व्यतिरिच्यते नामरूपप्रपञ्चः, प्रलयसमये च तद­नु­प्र­वे­शा­त्ततो न व्यतिरिच्यते । यथा सामुद्रमेवाम्भः पृथि­वी­ते­जः­स­म्प­र्का­त्का­ठि­न्य­मु­प­गतं सैन्धवं खिल्यः, स हि स्वाकरे समुद्रे क्षिप्तोऽम्भ एव भवति, एवं चिदम्भोधौ लीनं जगच्चिदेव भवति न तु ततोऽतिरिच्यत इति ।

एत­द्दृ­ष्टा­न्त­प्र­ब­न्धे­नाह -
स यथा सर्वा­सा­म­पा­मि­त्यादि ।

दृष्टा­न्त­प्र­ब­न्ध­मुक्त्वा दार्ष्टान्तिके योजयति -
एवं वा अरे इदं महदिति ।
बृहत्वेन ब्रह्मोक्तम् । इदं ब्रह्मेत्यर्थः । भूतं सत्यम् । अनन्तं नित्यम् । अपारं सर्वगतम् ।

विज्ञानघनः ।
विज्ञानैकरस इति यावत् । एतेभ्यः कार्यकारणभावेन व्यवस्थितेभ्यो भूतेभ्यः समुत्थाय साम्येनोत्थाय । कार्य­का­र­ण­स­ङ्घा­तस्य ह्यव­च्छे­दा­द्दुः­खि­त्व­शो­कि­त्वा­द­य­स्त­द­व­च्छिन्ने चिदात्मनि तद्विपरीतेऽपि प्रतीयन्ते, यथो­द­क­प्र­ति­बि­म्बिते चन्द्रमसि तोयगताः कम्पादयः । तदिदं साम्येनोत्थानम् । यदा त्वाग­मा­चा­र्यो­प­दे­श­पू­र्व­क­म­न­न­नि­दि­ध्या­स­न­प्र­क­र्ष­प­र्य­न्त­जोऽस्य ब्रह्म­स्व­रू­प­सा­क्षा­त्कार उपावर्तते तदा निर्मृ­ष्ट­नि­खि­ल­स­वा­स­ना­वि­द्या­म­लस्य कार्य­का­र­ण­स­ङ्घा­त­भू­तस्य विनाशे तान्येव भूतानि नश्यन्त्यनु तदु­पा­धि­श्चि­दा­त्मनः खिल्यभावो विनश्यति । ततो न प्रेत्य कार्य­का­र­ण­भू­त­नि­वृत्तौ रूप­ग­न्धा­दि­सं­ज्ञा­स्तीति । न प्रेत्य संज्ञास्तीति संज्ञा­मा­त्र­नि­षे­धा­दात्मा नास्तीति मन्यमाना सा मैत्रेयी होवाच, अत्रैव मा भग­वा­न­मू­मु­ह­न्मो­हि­त­वान् न प्रेत्य संज्ञास्तीति । स होवाच याज्ञवल्क्यः स्वाभिप्रायं, द्वैते हि रूपा­दि­वि­शे­ष­सं­ज्ञा­नि­ब­न्धनो दुःखि­त्वा­द्य­भि­मानः । आन­न्द­ज्ञा­नै­क­र­स­ब्र­ह्मा­द्व­या­नु­भवे तु तत्केन कं पश्येत् , ब्रह्म वा केन विजानीयात् । नहि तदास्य कर्मर्भावोऽस्ति स्वप्रकाशत्वात् । एतदुक्तं भवति - न संज्ञामात्रं मया व्यासेधि, किन्तु विशेषसंज्ञेति । तदे­व­म­मृ­त­त्व­फ­ले­नो­प­क्र­मात् , मध्ये चात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तदुपपादनात् , उपसंहारे च मह­द्भू­त­म­न­न्त­मि­त्या­दिना च ब्रह्म­रू­पा­भि­धा­नात् , द्वैतनिन्दया चाद्वै­त­गु­ण­की­र्त­ना­द्ब्र­ह्मैव मैत्रे­यी­ब्रा­ह्मणे प्रतिपाद्यं न जीवात्मेति नास्ति पूर्वपक्ष इत्य­ना­र­भ्य­मे­वे­द­म­धि­क­र­णम् । अत्रोच्यते - भोक्तृ­त्व­ज्ञा­तृ­ता­जी­व­रू­पो­त्था­न­स­मा­धये मैत्रे­यी­ब्रा­ह्मणे पूर्व­प­क्षे­णो­प­क्रमः कृतः । पति­जा­या­दि­भो­ग्य­स­म्बन्धो नाभो­क्तु­र्ब्र­ह्मणो युज्यते, नापि­ज्ञा­न­क­र्तृ­त्व­म­कर्तुः साक्षाच्च महतो भूतस्य विज्ञा­ना­त्म­भा­वेन समुत्थानाभिधानं विज्ञानात्मन एव द्रष्टव्यत्वमाह । अन्यथा ब्रह्मणो द्रष्ट­व्य­त्व­प­रेऽ­स्मिन् ब्राह्मणे तस्य विज्ञा­ना­त्म­त्वेन समु­त्था­ना­भि­धा­न­म­नु­प­युक्तं स्यात्तस्य तु द्रष्ट­व्य­मु­प­यु­ज्यत इत्यु­प­क्र­म­मात्रं पूर्वपक्षः कृतः ।

भोक्त्र­र्थ­त्वाच्च भोग्यजातस्येति
तदु­पो­द्ब­ल­मा­त्रम् । सिद्धान्तस्तु निगदव्याख्यातेन भाष्येणोक्तः ॥ १९ ॥

तदेवं पौर्वा­प­र्या­लो­च­नया मैत्रे­यी­ब्रा­ह्म­णस्य ब्रह्म­द­र्श­न­प­रत्वे स्थिते भोक्त्रा जीवा­त्म­नो­प­क्र­म­मा­चा­र्य­दे­शी­य­म­तेन तावत्समाधत्ते सूत्रकारः -
प्रति­ज्ञा­सि­द्धे­र्लि­ङ्ग­मा­श्म­रथ्यः ।
यथा हि वह्नेर्विकारा व्युच्चरन्तो विस्फुलिङ्गा न वह्नेरत्यन्तं भिद्यन्ते, तद्रू­प­नि­रू­प­ण­त्वात् , नापि ततोऽ­त्य­न्त­म­भिन्नाः, वह्नेरिव पर­स्प­र­व्या­वृ­त्त्य­भा­व­प्र­स­ङ्गात् , तथा जीवात्मनोऽपि ब्रह्मविकारा न ब्रह्म­णोऽ­त्यन्तं भिद्यन्ते, चिद्रू­प­त्वा­भा­व­प्र­स­ङ्गात् । नाप्यत्यन्तं न भिद्यन्ते, परस्परं व्यावृ­त्त्य­भा­व­प्र­स­ङ्गात् , सर्वज्ञं प्रत्यु­प­दे­श­वै­य­र्थ्याच्च । तस्मा­त्क­थ­ञ्चि­द्भेदो जीवा­त्म­ना­म­भे­दश्च । तत्र तद्विज्ञानेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­सि­द्धये विज्ञा­ना­त्म­प­र­मा­त्म­नो­र­भे­द­मु­पा­दाय परमात्मनि दर्शयितव्ये विज्ञा­ना­त्म­नो­प­क्रम इत्याश्मरथ्य आचार्यो मेने ॥ २० ॥

आचा­र्य­दे­शी­या­न्त­र­म­तेन समाधत्ते -
उत्क्रमिष्यत एवं­भा­वा­दि­त्यौ­डु­लोमिः ।
जीवो हि पर­मा­त्म­नोऽ­त्यन्तं भिन्न एव सन् देहे­न्द्रि­य­म­नो­बु­द्ध्यु­प­धा­न­स­म्प­र्का­त्स­र्वदा कलुषः, तस्य च ज्ञान­ध्या­ना­दि­सा­ध­ना­नु­ष्ठा­ना­त्स­म्प्र­स­न्नस्य देहे­न्द्रि­या­दि­स­ङ्घा­ता­दु­त्क्र­मि­ष्यतः पर­मा­त्म­नै­क्यो­प­प­त्ते­रि­द­म­भे­दे­नो­प­क्र­म­णम् । एतदुक्तं भवति - भवि­ष्य­न्त­म­भे­द­मु­पा­दाय भेदकालेऽप्यभेद उक्तः । यथाहुः पाञ्चरात्रिकाः - “आमुक्तेर्भेद एव स्याज्जीवस्य च परस्य च । मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः” ॥ इति ।

अत्रैव श्रुति­मु­प­न्य­स्यति -
श्रुतिश्चैवमिति ।
पूर्वं देहे­न्द्रि­या­द्यु­पा­धि­कृतं कलुषत्वमात्मन उक्तम् । सम्प्रति स्वाभाविकमेव जीवस्य नाम­रू­प­प्र­प­ञ्चा­श्र­य­त्व­ल­क्षणं कालुष्यं पार्थि­वा­ना­म­णू­ना­मिव श्यामत्वं केवलं पाकेनेव ।

ज्ञानध्यानादिना तदपनीय जीवः परात्परतरं पुरु­ष­मु­पै­ती­त्याह -
क्वचिच्च जीवाश्रयमपीति ।
नदीनिदर्शनम् “यथा सोम्येमा नद्यः”(प्र.उ. ६-५) इति ॥ २१ ॥

तदे­व­मा­चा­र्य­दे­शी­य­म­त­द्व­य­मु­क्त्वा­त्रा­प­रि­तु­ष्य­न्ना­चा­र्य­म­त­माह सूत्रकारः -
अविस्थितेरिति काशकृत्स्नः ।

एतद्व्याचष्टे -
अस्यैव परमात्मन इति ।
न जीव आत्मनोऽन्यः । नापि तद्विकारः किन्त्वा­त्मै­वा­वि­द्यो­पा­धा­न­क­ल्पि­ता­व­च्छेदः । आकाश इव घट­म­णि­का­दि­क­ल्पि­ता­व­च्छेदो घटाकाशो मणिकाकाशो न तु पर­मा­का­शा­द­न्य­स्त­द्वि­कारो वा । ततश्च जीवात्मनोपक्रमः परा­मा­त्म­नै­वो­प­क्र­म­स्तस्य ततोऽभेदात् । स्थूल­द­र्शि­लो­क­प्र­ती­ति­सौ­क­र्या­यौ­पा­धि­के­ना­त्म­रू­पे­णो­प­क्रमः कृतः ।

अत्रैव श्रुतिं प्रमाणयति -
तथा चेति ।

अथ विकारः परमात्मनो जीवः कस्मान्न भव­त्या­का­शा­दि­व­दि­त्याह -
न च तेजः­प्र­भृ­ती­ना­मिति ।
न हि यथा तेजः­प्र­भृ­ती­ना­मा­त्म­वि­का­रत्वं श्रूयते एवं जीवस्येति ।

आचार्यत्रयमतं विभजते -
काश­कृ­त्स्न­स्या­चा­र्य­स्येति ।

आत्यन्तिके सत्यभेदे कार्य­का­र­ण­भा­वा­भा­वा­द­ना­त्य­न्ति­कोऽ­भेद आस्थेयः, तथाच कथ­ञ्चि­द्भे­दोऽ­पीति तमास्थाय कार्यकारणभाव इति मतत्रयमुक्त्वा काशकृत्स्नीयमतं साधुत्वेन निर्धारयति -
तत्र तेषु मध्ये । काशकृत्स्नीयं मतमिति ।
आत्यन्तिके हि जीव­प­र­मा­त्म­नो­र­भेदे तात्त्वि­केऽ­ना­द्य­वि­द्यो­पा­धि­क­ल्पितो भेद­स्त­त्त्व­म­सीति जीवात्मनो ब्रह्म­भा­व­त­त्त्वो­प­दे­श­श्र­व­ण­म­न­न­नि­दि­ध्या­स­न­प्र­क­र्ष­प­र्य­न्त­ज­न्मना साक्षात्कारेण विद्यया शक्यः समूलकाषं कषितुं, रज्ज्वा­म­हि­वि­भ्रम इव रज्जु­त­त्त्व­सा­क्षा­त्का­रेण, राजपुत्रस्येव च म्लेच्छकुले वर्ध­मा­न­स्या­त्मनि समारोपितो म्लेच्छभावो राजपुत्रोऽसीति आप्तोपदेशेन । न तु मृद्विकारः शरावादिः शतशोऽपि मृन्मृदिति चिन्त्य­मा­न­स्त­ज्ज­न्मना मृद्भा­व­सा­क्षा­त्का­रेण शक्यो निवर्तयितुं, तत्कस्य हेतोः, तस्यापि मृदो भिन्नाभिन्नस्य तात्त्विकत्वात् , वस्तुतस्तु ज्ञाने­नो­च्छे­त्तु­म­श­क्य­त्वात् , सोऽयं प्रति­पि­पा­द­यि­षि­ता­र्था­नु­सारः । अपि च जीव­स्या­त्म­वि­का­रत्वे तस्य ज्ञान­ध्या­ना­दि­सा­ध­ना­नु­ष्ठा­ना­त्स्व­प्र­कृ­ता­व­प्यये सति नामृ­त­त्व­स्या­शा­स्ती­त्य­पु­रु­षा­र्थ­त्व­म­मृ­त­त्व­प्रा­प्ति­श्रु­ति­वि­रो­धश्च ।

काशकृत्स्नमते त्वेतदुभयं नास्तीत्याह -
एवं च सतीति ।

ननु यदि जीवो न विकारः किन्तु ब्रह्मैव कथं तर्हि तस्मि­न्ना­म­रू­पा­श्र­य­त्व­श्रुतिः, कथञ्च “यथाग्नेः क्षुद्रा विस्फुलिङ्गा”(बृ. उ. २ । १ । २०) इति ब्रह्म­वि­का­र­श्रु­ति­रि­त्या­श­ङ्का­मु­प­सं­हा­र­व्या­जेन निराकरोति -
अतश्च स्वाश्रयस्येति ।
यतः प्रति­पि­पा­द­यि­षि­ता­र्था­नु­सा­र­श्चा­मृ­त­त्व­प्रा­प्तिश्च विकारपक्षे न सम्भवतः, अतश्चेति योजना ।

द्विती­य­पू­र्व­प­क्ष­बी­ज­म­न­यैव त्रिसू­त्र्या­पा­क­रोति -
यदप्युक्तमिति ।
शेष­म­ति­रो­हि­तार्थं व्याख्यातार्थं च । तृती­य­पू­र्व­प­क्ष­बी­ज­नि­रासे काश­कृ­त्स्नी­ये­नै­वे­त्य­व­धा­रणं तन्मताश्रयणेनैव तस्य शक्यनिरासत्वात् । ऐकान्तिके ह्यद्वैते आत्म­नोऽ­न्य­क­र्म­क­रणे “केन कं पश्येत्”(बृ. उ. ४ । ५ । १५) इति आत्मनश्च कर्मत्वं “विज्ञातारमरे केन विजानीयात्”(बृ. उ. २ । ४ । १४) इति शक्यं निषेद्धुम् । भेदाभेदपक्षे वैकान्तिके वा भेदे सर्व­मे­त­द­द्वै­ता­श्र­य­म­श­क्य­मि­त्य­व­धा­र­ण­स्यार्थः ।

न केवलं काश­कृ­त्स्नी­य­द­र्श­ना­श्र­य­णेन भूतपूर्वगत्या विज्ञातृत्वमपि तु श्रुति­पौ­र्वा­प­र्य­प­र्या­लो­च­न­या­प्ये­व­मे­वे­त्याह -
अपि च यत्र हीति ।

कस्मात् पुनः काशकृत्स्नस्य मतमास्थीयते नेत­रे­षा­मा­चा­र्या­णा­मि­त्यत आह -
दर्शितं तु पुरस्तादिति ।

काशकृत्स्नीयस्य मतस्य श्रुति­प्र­ब­न्धो­प­न्या­सेन पुनः श्रुतिमत्त्वं स्मृतिमत्त्वं चोप­सं­हा­रो­प­क्र­म­माह -
अतश्चेति ।
क्वचित्पाठ आतश्चेति । तस्यावश्यं चेत्यर्थः । जननजरामरणभीतयो विक्रियास्तासां सर्वासां “महानजः”(बृ. उ. ४ । ४ । २५) इत्यादिना प्रतिषेधः । परि­णा­म­प­क्षेऽ­न्यस्य चान्यभावपक्षे ऐका­न्ति­का­द्वै­त­प्र­ति­पा­द­न­पराः “एक­मे­वा­द्वि­ती­यम्”(छा. उ. ६ । २ । १) इत्यादयः, द्वैत­द­र्श­न­नि­न्दा­प­राश्च “अन्योऽ­सा­व­न्योऽ­ह­मस्मि”(बृ. उ. १ । ४ । १०) इत्यादयः, जन्म­ज­रा­दि­वि­क्रि­या­प्र­ति­षे­ध­प­राश्च “एष महानजः”(बृ. उ. ४ । ४ । २५) इत्यादयः श्रुतय उपरुध्येरन् । अपिच यदि जीव­प­र­मा­त्म­नो­र्भे­दा­भे­दा­वा­स्थी­ये­यातां ततस्तयोर्मिथो विरो­धा­त्स­मु­च्च­या­भा­वा­दे­कस्य बलीयस्त्वे नात्मनि निरपवादं विज्ञानं जायेत, बलीयसैकेन दुर्ब­ल­प­क्षा­व­ल­म्बिनो ज्ञानस्य बाधनात् । अथ त्वगृ­ह्य­मा­ण­वि­शे­ष­तया न बलाबलावधारणं, ततः संशये सति न सुनि­श्चि­ता­र्थ­मा­त्मनि ज्ञानं भवेत् । सुनिश्चितार्थं च ज्ञानं मोक्षोपायः श्रूयते - “वेदा­न्त­वि­ज्ञा­न­सु­नि­श्चि­तार्थाः”(मु. उ. ३ । २ । ६) इति ।

तदेतदाह -
अन्यथा मुमुक्षूणामिति ।
'एक­त्व­म­नु­प­श्यतः” इति श्रुतिर्न पुन­रे­क­त्वा­ने­कत्वे अनुपश्यत इति ।

ननु यदि क्षेत्र­ज्ञ­प­र­मा­त्म­नो­र­भेदो भाविकः, कथं तर्हि व्यप­दे­श­बु­द्धि­भेदौ क्षेत्रज्ञः परमात्मेति कथञ्च नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भा­वस्य भगवतः संसारिता । अवि­द्या­कृ­त­ना­म­रू­पो­पा­धि­व­शा­दिति चेत् । कस्येयमविद्या । न तावज्जीवस्य, तस्य परमात्मनो व्यतिरेकाभावात् । नापि परमात्मनः, तस्य विद्यै­क­र­स­स्या­वि­द्या­श्र­य­त्वा­नु­प­पत्तेः । तदत्र संसा­रि­त्वा­सं­सा­रि­त्व­वि­द्या­वि­द्या­व­त्त्व­रू­प­वि­रु­द्ध­ध­र्म­सं­स­र्गा­द्बु­द्धि­व्य­प­दे­श­भे­दा­च्चास्ति जीवे­श्व­र­यो­र्भे­दोऽपि भाविक इत्यत आह -
स्थिते च पर­मा­त्म­क्षे­त्र­ज्ञा­त्मै­क­त्वेति ।
न ताव­द्भे­दा­भे­दा­वे­कत्र भाविकौ भवितुमर्हत इति विप्रपञ्चितं प्रथमे पादे । द्वैत­द­र्श­न­नि­न्दया चैका­न्ति­का­द्वै­त­प्र­ति­पा­द­न­पराः पौर्वा­प­र्या­लो­च­नया सर्वे वेदान्ताः प्रतीयन्ते । तत्र यथा बिम्बा­द­व­द­ता­त्ता­त्त्विके प्रति­बि­म्बा­ना­म­भे­देऽपि नील­म­णि­कृ­पा­ण­का­चा­द्यु­प­धा­न­भे­दा­त्का­ल्प­निको जीवानां भेदो बुद्धि­व्य­प­दे­श­भेदौ वर्तयति, इदं बिम्ब­म­व­दा­त­मि­मानि च प्रतिबिम्बानि नीलो­त्प­ल­प­ला­श­श्या­म­लानि वृत्त­दी­र्घा­दि­भे­द­भाञ्जि बहूनीति, एवं परमात्मनः शुद्ध­स्व­भा­वा­ज्जी­वा­न­म­भेद ऐका­न्ति­केऽ­प्य­नि­र्व­च­नी­या­ना­द्य­वि­द्यो­प­धा­न­भे­दा­त्का­ल्प­निको जीवानां भेदो बुद्धि­व्य­प­दे­श­भे­दा­वयं च परमात्मा शुद्ध­वि­ज्ञा­ना­न­न्द­स्व­भाव इमे च जीवा अवि­द्या­शो­क­दुः­खा­द्यु­प­द्र­व­भाज इति वर्तयति । अविद्योपधानं च यद्यपि विद्यास्वभावे परमात्मनि न साक्षादस्ति तथापि तत्प्र­ति­बि­म्ब­क­ल्प­जी­व­द्वा­रेण परस्मिन्नुच्यते । न चैव­म­न्यो­न्या­श्रयो जीव­वि­भा­गा­श्र­याऽ­विद्या, अविद्याश्रयश्च जीवविभाग इति, बीजा­ङ्कु­र­व­द­ना­दि­त्वात् । अत एव कानुद्दिश्यैष ईश्वरो माया­मा­र­च­य­त्य­न­र्थिकां, उद्देश्यानां सर्गादौ जीवानामभावात् , कथं चात्मानं संसारिणं विविधवेदनाभाजं कुर्या­दि­त्या­द्य­नु­योगो निरवकाशः । न खल्वादिमान् संसारः, नाप्या­दि­मा­न­वि­द्या­जी­व­वि­भागः, येना­नु­यु­ज्ये­तेति । अत्र च नाम­ग्र­ह­णे­ना­वि­द्या­मु­प­ल­क्ष­यति ।

स्यादेतत् । यदि न जीवात् ब्रह्म भिद्यते, हन्त जीवः स्फुट इति ब्रह्मापि तथा स्यात् , तथा च “निहितं गुहायाम्”(तै. उ. २ । १ । १) इति नोपपद्यत इत्यत आह -
न हि सत्यमिति ।
यथा हि बिम्बस्य मणिकृपाणादयो गुहा एवं ब्रह्मणोऽपि प्रतिजीवं भिन्ना अविद्या गुहा इति । यथा प्रतिबिम्बेषु भासमानेषु बिम्बं तदभिन्नमपि गुह्यमेवं जीवेषु भासमानेषु तदभिन्नमपि ब्रह्म गुह्यम् ।

अस्तु तर्हि ब्रह्म­णोऽ­न्य­द्गु­ह्य­मि­त्यत आह -
न च ब्रह्मणोऽन्य इति ।

ये तु
आश्म­र­थ्य­प्र­भृ­तयः

निर्बन्धं कुर्वन्ति ते वेदान्तार्थमिति ।

ब्रह्मणः सर्वात्मना भागशो वा परिणामाभ्युपगमे तस्य कार्य­त्वा­द­नि­त्य­त्वाच्च तदाश्रितो मोक्षोऽपि तथा स्यात् । यदि त्वेवमपि मोक्षं नित्यमकृतकं ब्रूयुस्तत्राह -
न्यायेनेति ।
एवं ये नदी­स­मु­द्र­नि­द­र्श­ने­ना­मु­क्ते­र्भेदं मुक्तस्य चाभेदं जीवस्यास्थिषत तेषामपि न्यायेनासङ्गतिः । नो जातु घटः पटो भवति । ननूक्तं यथा नदी समुद्रो भवतीति । का पुनर्नद्यभिमता आयुष्मतः । किं पाथःपरमाणव उतैषां संस्थानभेद आहो­स्वि­त्त­दा­र­ब्धोऽ­व­यवी । तत्र संस्थानभेदस्य वावयविनो वा समुद्रनिवेशे विनाशात् कस्य समुद्रेणैकता । नदी­पा­थः­प­र­मा­णूनां तु समु­द्र­पा­थः­प­र­मा­णुभ्यः पूर्व­व­स्थि­तेभ्यो भेद एव नाभेदः । एवं समुद्रादपि तेषां भेद एव । ये तु काशकृत्स्नीयमेव मतमास्थाय जीवं पर­मा­त्म­नोंऽ­श­मा­च­ख्यु­स्तेषां कथं “निष्कलं निष्क्रियं शान्तम्”(श्वे. उ. ६ । १९) इति न श्रुतिविरोधः । निष्कलमिति सावयवत्वं व्यासेधि न तु सांशत्वम् , अंशश्च जीवः परमात्मनो नभस इव कर्ण­ने­मि­म­ण्ड­ला­व­च्छिन्नं नभः शब्द­श्र­व­ण­योग्यं, वायोरिव च शरीरावच्छिन्नः पञ्चवृत्तिः प्राण इति चेत् । न तावन्नभो नभसोंऽशः, तस्य तत्त्वात् । कर्ण­ने­मि­म­ण्ड­ला­व­च्छि­न्न­मंश इति चेत् , हन्त तर्हि प्राप्ता­प्रा­प्त­वि­वे­केन कर्णनेमिमण्डलं वा तत्संयोगो वेत्युक्तं भवति । नच कर्णनेमिमण्डलं तस्यांशः, तस्य ततो भेदात् । तत्संयोगो नभो­ध­र्म­त्वा­त्त­स्यांश इति चेत् । न । अनुपपत्तेः । नभोधर्मत्वे हि तदनवयवं सर्व­त्रा­भि­न्न­मिति तत्संयोगः सर्वत्र प्रथेत । नह्यस्ति सम्भ­वोऽ­न­व­य­व­म­व्या­प्य­व­र्तत इति । तस्मा­त्त­त्रास्ति चेद्व्याप्यैव । न चेद्व्याप्नोति तत्र नास्त्येव । व्याप्यैवास्ति केवलं प्रति­स­म्ब­न्ध्य­धी­न­नि­रू­प­ण­तया न सर्वत्र निरूप्यत इति चेत् , न नाम निरूप्यताम् । तत्संयुक्तं तु नभः श्रवणयोग्यं सर्वत्रास्तीति सर्वत्र श्रवणप्रसङ्गः । नच भेदा­भे­द­यो­र­न्य­त­रे­णांशः शक्यो निर्वक्तुं न चोभाभ्यां, विरु­द्ध­यो­रे­क­त्रा­स­म­वा­या­दि­त्यु­क्तम् । तस्मा­द­नि­र्व­च­नी­या­ना­द्य­वि­द्या­प­रि­क­ल्पित एवांशो नभसो न भाविक इति युक्तम् । नच काल्पनिको ज्ञान­मा­त्रा­य­त्त­जी­वितः कथ­म­वि­ज्ञा­य­मा­नोऽस्ति, असंश्चांशः कथं शब्द­श्र­व­ण­ल­क्ष­णाय कार्याय कल्पते, न जातु रज्ज्वा­म­ज्ञा­य­मान उरगो भय­क­म्पा­दि­का­र्याय पर्याप्त इति वाच्यम् । अज्ञा­त­त्वा­सिद्धेः कार्य­व्य­ङ्ग­त्वा­दस्य । कार्यो­त्पा­दा­त्पू­र्व­म­ज्ञातं कथं कार्यो­त्पा­दा­ङ्ग­मिति चेत् । न । पूर्व­पू­र्व­का­र्यो­त्पा­द­व्य­ङ्ग्य­त्वा­द­स­त्यपि ज्ञाने तत्सं­स्का­रा­नु­वृ­त्ते­र­ना­दि­त्वाच्च कल्पना तत्सं­स्का­र­प्र­वा­हस्य । अस्तु वानुपपत्तिरेव कार्य­का­र­ण­यो­र्मा­या­त्म­क­त्वात् । अनुपपत्तिर्हि माया­मु­पो­द्ब­ल­य­त्य­नु­प­प­द्य­मा­ना­र्थ­त्वा­न्मा­यायाः । अपि च भाविकांशवादिनां मते भाविकांशस्य ज्ञाने­नो­च्छे­त्तु­म­श­क्य­त्वान्न ज्ञानध्यानसाधनो मोक्षः स्यात् । तदेवमकाशांश इव श्रोत्र­म­नि­र्व­च­नी­यम् । एवं जीवो ब्रह्मणोंऽश इति काशकृत्स्नीयं मतमिति सिद्धम् ॥ २२ ॥

प्रकृतिश्च प्रति­ज्ञा­दृ­ष्टा­न्ता­नु­प­रो­धात् ।

स्यादेतत् । वेदान्तानां ब्रह्मणि समन्वये दर्शिते समाप्तं समन्वयलक्षणमिति किमपरमवशिष्यते यदर्थमिदमारभ्यत इति शङ्कां निराकर्तुं सङ्गतिं दर्शयन्नवशेषमाह -
यथाभ्युदयेति ।
अत्र च लक्षणस्य सङ्गतिमुक्त्वा लक्ष­णे­ना­स्या­धि­क­र­णस्य सङ्गतिरुक्ता । एतदुक्तं भवति - सत्यं जगत्कारणे ब्रह्मणि वेदा­न्ता­ना­मुक्तः समन्वयः ।

तत्र कारणभावस्योभयथा दर्श­ना­ज्ज­ग­त्का­र­णत्वं ब्रह्मणः किं निमित्तत्वेनैव, उतो­पा­दा­न­त्वे­नापि । तत्र यदि प्रथमः पक्षस्तत उपा­दा­न­का­र­णा­नु­स­रणे साङ्ख्य­स्मृ­ति­सिद्धं प्रधा­न­म­भ्यु­पे­यम् । तथा च “जन्माद्यस्य यतः”(ब्र. सू. १ । १ । २) इति ब्रह्म­ल­क्ष­ण­म­साधु, अतिव्याप्तेः प्रधानेऽपि गतत्वात् । असम्भवाद्वा । यदि तूत्तरः पक्षस्ततो नाति­व्या­प्ति­र्ना­प्य­व्या­प्ति­रिति साधु लक्षणम् । सोऽयमवशेषः । तत्र “ईक्षा­पू­र्व­क­र्तृत्वं प्रभुत्वमसरूपता । निमि­त्त­का­र­णे­ष्वेव नोपादानेषु कर्हिचित्” ॥ तदिदमाह -
तत्र निमित्तकारणमेव तावदिति ।

आगमस्य कारणमात्रे पर्य­व­सा­ना­द­नु­मा­नस्य तद्वि­शे­ष­नि­य­म­मा­गमो न प्रतिक्षिपत्यपि त्वनुमन्यत एवेत्याह -
पारि­शे­ष्या­द्ब्र­ह्म­णोऽ­न्य­दिति ।
ब्रह्मो­पा­दा­न­त्वस्य प्रसक्तस्य प्रति­षे­धेऽ­न्य­त्रा­प्र­स­ङ्गा­त्सा­ङ्ख्य­स्मृ­ति­प्र­सि­द्ध­मा­नु­मा­निकं प्रधानं शिष्यत इति । एकविज्ञानेन च सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­नम् “उत तमादेशम्”(छा. उ. ६ । १ । ३) इत्यादिना, “यथा सोम्यैकेन मृत्पिण्डेन”(छा. उ. ६ । १ । ४) इति च दृष्टान्तः, परमात्मनः प्राधान्यं सूचयतः । यथा सोमशर्मणैकेन ज्ञातेन सर्वे कठा ज्ञाता भवन्ति ।

एवं प्राप्त उच्यते -
प्रकृतिश्च ।
न केवलं ब्रह्म निमित्तकारणं, कुतः, प्रति­ज्ञा­दृ­ष्टा­न्त­यो­र­नु­प­रो­धात् । निमि­त्त­का­र­ण­त्व­मात्रे तु तावु­प­रु­ध्ये­या­ताम् । तथाहि - “न मुख्ये सम्भवत्यर्थे जघन्या वृत्तिरिष्यते । न चानुमानिकं युक्त­मा­ग­मे­ना­प­बा­धि­तम् ॥ सर्वे हि तावद्वेदान्ताः पौर्वापर्येण वीक्षिताः । ऐका­न्ति­का­द्वै­त­परा द्वैत­मा­त्र­नि­षे­धतः” ॥ तदिहापि प्रति­ज्ञा­दृ­ष्टान्तौ मुख्यार्थावेव युक्तौ न तु “यजमानः प्रस्तरः” इति­व­द्गु­ण­क­ल्प­नया नेतव्यौ, तस्या­र्थ­वा­द­स्या­त­त्प­र­त्वात् । प्रति­ज्ञा­दृ­ष्टा­न्त­वा­क्य­यो­स्त्व­द्वै­त­प­र­त्वा­दु­पा­दा­न­का­र­णा­त्म­क­त्वा­च्चो­पा­दे­यस्य कार्य­जा­त­स्यो­पा­दा­न­ज्ञा­नेन तज्ज्ञा­नो­प­पत्तेः । निमित्तकारणं तु कार्या­द­त्य­न्त­भि­न्न­मिति न तज्ज्ञाने कार्यज्ञानं भवति । अतो ब्रह्मो­पा­दा­न­का­रणं जगतः । नच ब्रह्म­णोऽ­न्य­न्नि­मि­त्त­का­रणं जगत इत्यपि युक्तम् । प्रति­ज्ञा­दृ­ष्टा­न्तो­प­रो­धा­देव । नहि तदानीं ब्रह्मणि ज्ञाते सर्वं विज्ञातं भवति । जग­न्नि­मि­त्त­का­र­णस्य ब्रह्मणोऽन्यस्य सर्व­म­ध्य­पा­ति­न­स्त­ज्ज्ञा­ने­ना­वि­ज्ञा­नात् । यत इति च पञ्चमी न कारणमात्रे स्मर्यते अपि तु प्रकृतौ, “जनिकर्तुः प्रकृतिः”(पा. सू. १ । ४ । ३०) इति । ततोऽपि प्रकृ­ति­त्व­म­व­ग­च्छामः । दुन्दुभिग्रहणं दुन्दु­भ्या­घा­त­ग्र­हणं च तद्ग­त­श­ब्द­त्व­सा­मा­न्यो­प­ल­क्ष­णा­र्थम् ॥ २३ ॥ अना­ग­ते­च्छा­स­ङ्क­ल्पोऽ­भिध्या । एतया खलु स्वात­न्त्र्य­ल­क्ष­णेन कर्तृत्वेन निमित्तत्वं दर्शितम् । “बहु स्याम्”(छा. उ. ६ । २ । ३) इति च स्ववि­ष­य­त­यो­पा­दा­न­त्व­मु­क्तम् ॥ २४ ॥

आकाशादेव ।
ब्रह्मण एवेत्यर्थः ।

साक्षादिति चेति सूत्रावयवमनूद्य तस्यार्थं व्याचष्टे -
आकाशादेवेति ।
श्रुति­र्ब्र­ह्मणो जग­दु­पा­दा­न­त्व­म­व­धा­र­यन्ती उपा­दा­ना­न्त­रा­भावं साक्षादेव दर्शयतीति

साक्षादिति
सूत्रावयवेन दर्शितमिति योजना ॥ २५ ॥

आत्मकृतेः परिणामात् ।
प्रकृ­ति­ग्र­ह­ण­मु­प­ल­क्षणं, निमित्तमित्यपि द्रष्टव्यं, कर्म­त्वे­नो­पा­दा­न­त्वा­त्क­र्तृ­त्वेन च तत्प्रति निमित्तत्वात् ।

कथं पुनरिति ।
सिद्ध­सा­ध्य­यो­रे­क­त्रा­स­म­वायो विरोधादिति ।

परिणामादिति ब्रूम इति ।
पूर्व­सि­द्ध­स्या­प्य­नि­र्व­च­नी­य­वि­का­रा­त्मना परि­णा­मोऽ­नि­र्व­च­नी­य­त्वा­द्भे­दे­ना­भिन्न इवेति सिद्धस्यापि साध्य­त्व­मि­त्यर्थः ।

एकवाक्यत्वेन व्याख्याया परि­णा­मा­दि­त्य­व­च्छिद्य व्याचष्टे -
परिणामादिति वेति ।
सच्चत्यच्चेति द्वे ब्रह्मणो रूपे । सच्च सामा­न्य­वि­शे­षे­णा­प­रो­क्ष­तया निर्वाच्यं, पृथि­व्य­प्ते­जो­ल­क्ष­णम् । त्यच्च परोक्षमत एवा­नि­र्वा­च्य­मि­द­न्तया वाय्वा­का­श­ल­क्षणं, कथं च तद्ब्रह्मणो रूपं यदि तस्य ब्रह्मोपादानं, तस्मा­त्प­रि­णा­मा­द्ब्रह्म भूतानां प्रकृतिरिति ॥ २६ ॥

पूर्व­प­क्षि­णोऽ­नु­मा­न­म­नु­भा­ष्या­ग­म­वि­रो­धेन दूषयति -
यत्पुनरिति ।
एतदुक्तं भवति - ईश्वरो जगतो निमित्तकारणमेव ईक्षा­पू­र्व­क­ज­ग­त्क­र्तृ­त्वात् , कुम्भ­क­र्तु­कु­ला­ल­वत् । अत्रे­श्व­र­स्या­सि­द्धे­रा­श्र­या­सिद्धो हेतुः पक्ष­श्चा­प्र­सि­द्ध­वि­शेषः । यथाहुः - “नानुपलब्धे न्यायः प्रवर्तते” इति । आग­मा­त्त­त्सि­द्धि­रिति चेत् , हन्त तर्हि यादृ­श­मी­श्व­र­मा­गमो गमयति तादृ­शोऽ­भ्यु­प­ग­न्तव्यः स च निमित्तकारणं चोपादानकारणं चेश्वरमवगमयति । विशे­ष्या­श्र­य­ग्रा­ह्या­ग­म­वि­रो­धा­न्ना­नु­मा­न­मु­दे­तु­म­र्ह­तीति कुतस्तेन निमि­त्त­त्वा­व­धा­र­णे­त्यर्थः । इयं चोपा­दा­न­प­रि­णा­मा­दि­भाषा न विका­रा­भि­प्रा­ये­णापि तु तथा सर्पस्योपादानं रज्जुरेवं ब्रह्म जगदुपादानं द्रष्टव्यम् । न खलु नित्यस्य निष्कलस्य ब्रह्मणः सर्वा­त्म­नै­क­दे­शेन वा परिणामः सम्भवति, नित्य­त्वा­द­ने­क­दे­श­त्वा­दि­त्यु­क्तम् । नच मृदः शरावादयो भिद्यन्ते, न चाभिन्नाः, न वा भिन्नाभिन्नाः किन्त्व­नि­र्व­च­नीया एव । यथाह श्रुतिः - “मृत्तिकेत्येव सत्यम्”(छा. उ. ६ । १ । ४) इति । तस्मा­द­द्वै­तो­प­क्र­मा­दु­प­सं­हा­राच्च सर्व एव वेदान्ता ऐका­न्ति­का­द्वै­त­पराः सन्तः साक्षादेव क्वचि­द­द्वै­त­माहुः, क्वचि­द्द्वै­त­नि­षे­धेन, क्वचि­द्ब्र­ह्मो­पा­दा­न­त्वेन जगतः । एतावतापि तावद्भेदो निषिद्धो भवति, न तूपा­दा­न­त्वा­भि­धा­न­मा­त्रेण विकारग्रह आस्थेयः । नहि वाक्यै­क­दे­श­स्या­र्थोऽ­स्तीति ॥ २७ ॥

स्यादेतत् । मा भूत्प्रधानं जगदुपादानं तथापि न ब्रह्मो­पा­दा­नत्वं सिध्यति, परमाण्वादीनामपि तदु­पा­दा­ना­ना­मु­प­प्ल­व­मा­न­त्वात् , तेषामपि हि किञ्चि­दु­पो­द्ब­ल­क­मस्ति वैदिकं लिङ्ग­मि­त्या­श­ङ्का­म­प­ने­तु­माह सूत्रकारः -
एतेन सर्वे व्याख्याता व्याख्याताः ।
निगदव्याख्यातेन भाष्येण व्याख्यातं सूत्रम् । “प्रति­ज्ञा­ल­क्षणं लक्ष्यमाणे पदसमन्वयः वैदिकः स च तत्रैव नान्यत्रेत्यत्र साधितम्” ॥ २८ ॥
इति श्रीम­द्वा­च­स्प­ति­मि­श्र­वि­र­चिते श्रीम­च्छा­री­र­क­भा­ष्य­वि­भागे भामत्यां प्रथमाध्यायस्य चतुर्थः पादः ॥ ४ ॥
॥ इति प्रथ­मा­ध्या­येऽ­व्य­क्ता­दि­स­न्दि­ग्ध­प­द­मा­त्र­स­म­न्व­या­ख्य­श्च­तुर्थः पादः ॥
॥ इति श्रीम­द्ब्र­ह्म­सू­त्र­शा­ङ्क­र­भाष्ये समन्वयाख्यः प्रथमोऽध्यायः ॥