भामतीव्याख्या
स्मृत्यधिकरणविषयाः (१)
अथ द्वितीयोऽध्यायः ।
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ।
वृत्तवर्तिष्यमाणयोः समन्वयविरोधपरिहारलक्षणयोः सङ्गतिप्रदर्शनाय सुखग्रहणाय चैतयोः सङ्क्षेपतस्तात्पर्यार्थमाह -
प्रथमेऽध्याय इति ।
अनपेक्षवेदान्तवाक्यस्वरससिद्धसमन्वयलक्षणस्य विरोधतत्परिहाराभ्यामाक्षेपसमाधानकरणादनेन लक्षणेनास्ति विषयविषयिभावः सम्बन्धः । पूर्वलक्षणार्थो हि विषयस्तद्गोचरत्वादाक्षेपसमाधानयोरेष च विषयीति । तदेवमध्यायमवतार्य तदवयवमधिकरणमवतारयति -
तत्र प्रथमं तावदिति ।
तन्त्र्यते व्युत्पाद्यते मोक्षसाधनमनेनेति तन्त्रं, तदेवाख्या यस्याः सा स्मृतिस्तन्त्राख्या परमर्षिणा कपिलेनादिविदुषा प्रणीता । अन्याश्चासुरिपञ्चशिखादिप्रणीताः स्मृतयस्तदनुसारिण्यः । न खल्वमूषां स्मृतीनां मन्वादिस्मृतिवदन्योऽवकाशः शक्यो वदितुमृते मोक्षसाधनप्रकाशनात् । तदपि चेन्नाभिदध्युरनवकाशाः सत्योऽप्रमाणं प्रसज्येरन् । तस्मात्तदविरोधेन कथञ्चिद्वेदान्ता व्याख्यातव्याः । पूर्वपक्षमाक्षिपति
कथं पुनरीक्षत्यादिभ्य इति ।
प्रसाधितं खलु धर्ममीमांसायां “विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्”(जै. सू. १ । ३ । ३) इत्यत्र, यथा श्रुतिविरुद्धानां स्मृतीनां दुर्बलतयानपेक्षणीयत्वं तस्मान्न दुर्बलानुरोधेन बलीयसीनां श्रुतीनां युक्तमुपवर्णनम् , अपि तु स्वतःसिद्धप्रमाणभावाः श्रुतयो दुर्बलाः स्मृतीर्बाधन्त एवेति युक्तम् । पूर्वपक्षी समाधत्ते -
भवेदयमिति ।
प्रसाधितोऽप्यर्थः श्रद्धाजडान्प्रति पुनः प्रसाध्यत इत्यर्थः ।
आपाततः समाधानमुक्त्वा परमसमाधानमाह पूर्वपक्षी -
कपिलप्रभृतीनां चार्षमिति ।
अयमस्याभिसन्धिः - ब्रह्म हि शास्त्रस्य कारणमुक्तं “शास्त्रयोनित्वात्”(ब्र.सू. १-१-३) इति, तेनैष वेदराशिर्ब्रह्मप्रभवः सन्नाजानसिद्धानावरणभूतार्थमात्रगोचरतद्बुद्धिपूर्वको यथा तथा कपिलादीनामपि श्रुतिस्मृतिप्रथिताजानसिद्धभावानां स्मृतयोऽनावरणसर्वविषयतद्बुद्धिप्रभवा इति न श्रुतिभ्योऽमूषामस्ति कश्चिद्विशेषः । न चैताः स्फुटतरं प्रधानादिप्रतिपादनपराः शक्यन्तेऽन्यथयितुम् । तस्मात्तदनुरोधेन कथञ्चिच्छ्रुतय एव नेतव्याः । अपि च तर्कोऽपि कपिलादिस्मृतिरनुमन्यते, तस्मादप्येतदेव प्राप्तम् । एवं प्राप्त आह
तस्य समाधिरिति ।
यथा हि श्रुतीनामविगानं ब्रह्मणि गतिसामान्यात् , नैवं स्मृतीनामविगानमस्ति प्रधाने, तासां भूयसीनां ब्रह्मोपादानत्वप्रतिपादनपराणां तत्र तत्र दर्शनात् । तस्मादविगानाच्छ्रौत एवार्थ आस्थेयो न तु स्मार्तो विगानादिति । तत्किमिदानीं परस्परविगानात्सर्वा एव स्मृतयोऽवहेया इत्यत आह
विप्रतिपत्तौ च स्मृतीनामिति ।
न चातीन्द्रियार्थानिति ।
अर्वाग्दृगभिप्रायम् ।
शङ्कते
शक्यं कपिलादीनामिति ।
निराकरोति
न । सिद्धेरपीति ।
न तावत्कपिलादय ईश्वरवदाजानसिद्धाः, किन्तु विनिश्चतवेदप्रामाण्यानां तेषां तदनुष्ठानवतां प्राचि भवेऽस्मिञ्जन्मनि सिद्धिः, अत एवाजानसिद्धा उच्यन्ते । यदस्मिन् जन्मनि न तैः सिद्ध्युपायोऽनुष्ठितः प्राग्भवीयवेदार्थानुष्ठानलब्धजन्मत्वात्तत्सिद्धीनाम् । तथा चावधृतवेदप्रामाण्यानां तद्विरुद्धार्थाभिधानं तदपबाधितमप्रमाणमेव । अप्रमाणेन च न वेदार्थोऽतिशङ्कितुं युक्तः प्रमाणसिद्धत्वात्तस्य । तदेवं वेदविरोधे सिद्धवचनमप्रमाणमुक्त्वा सिद्धानामपि परस्परविरोधे तद्वचनादनाश्वास इति पूर्वोक्तं स्मारयति
सिद्धव्यपाश्रयकल्पनायामपीति ।
श्रद्धाजडान्बोधयति
परतन्त्रप्रज्ञस्यापीति ।
ननु श्रुतिश्चेत्कपिलादीनामनावरणभूतार्थगोचरज्ञानातिशयं बोधयति, कथं तेषां वचनमप्रमाणं, तदप्रामाण्ये श्रुतेरप्यप्रामाण्यप्रसङ्गादित्यत आह
या तु श्रुतिरिति ।
न तावत्सिद्धानां परस्परविरुद्धानि वचांसि प्रमाणं भवितुमर्हन्ति । नच विकल्पो वस्तुनि, सिद्धे तदनुपपत्तेः । अनुष्ठानमनागतोत्पाद्यं विकल्प्यते, न सिद्धम् । तस्य व्यवस्थानात् । तस्माच्छुतिसामान्यमात्रेण भ्रमः साङ्ख्यप्रणेता कपिलः श्रौत इति । स्यादेतत् । कपिल एव श्रौतो नान्ये मन्वादयः । ततश्च तेषां स्मृतिः कपिलस्मृतिविरुद्धावहेयेत्यत आह
भवति चान्या मनोरिति ।
तस्याश्चागमान्तरसंवादमाह
महाभारतेऽपि चेति ।
न केवलं मनोः स्मृतिः स्मृत्यन्तरसंवादिनी, श्रुतिसंवादिन्यपीत्याह
श्रुतिश्चेति ।
उपसंहरति
अत इति ।
स्यादेतत् । भवतु वेदविरुद्धं कापिलं वचस्तथापि द्वयोरपि पुरुषबुद्धिप्रभवतया को विनिगमनायां हेतुर्यतो वेदविरोधि कापिलं वचो नादरणीयमित्यत आह
वेदस्य हि निरपेक्षमिति ।
अयमभिसन्धिःसत्यं शास्त्रयोनिरीश्वरस्तथाप्यस्य न शास्त्रक्रियायामस्ति स्वातन्त्र्यं कपिलादीनामिव । स हि भगवान् यादृशं पूर्वस्मिन् सर्गे चकार शास्त्रं तदनुसारेणास्मिन्नपि सर्गे प्रणीतवान् । एवं पूर्वतरानुसारेण पूर्वस्मिन् पूर्वतमानुसारेण च पूर्वतर इत्यनादिरयं शास्त्रेश्वरयोः कार्यकारणभावः । तत्रेश्वरस्य न शास्त्रार्थज्ञानपूर्वा शास्त्रक्रिया येनास्य कपिलादिवत्स्वातन्त्र्यं भवत् । शास्त्रार्थज्ञानं चास्य स्वयमाविर्भवदपि न शास्त्रकारणतामुपैति, द्वयोरप्यपर्यायेणाविर्भावात् । शास्त्रं च स्वतोबोधकतया पुरुषस्वातन्त्र्याभावेन निरस्तसमस्तदोषाशङ्कं सदनपेक्षं साक्षादेव स्वार्थे प्रमाणम् । कपिलादिवचांसि तु स्वतन्त्रकपिलादिप्रणेतृकाणि तदर्थस्मृतिपूर्वकाणि, तदर्थस्मृतयश्च तदर्थानुभवपूर्वाः । तस्मात्तासामर्थप्रत्ययाङ्गप्रामाण्यविनिश्चयाय यावत्स्मृत्यनुभवौ कल्पेते तावत्स्वतः सिद्धप्रमाणभावयाऽनपेक्षयैव श्रुत्या स्वार्थो विनिश्चायित इति शीघ्रतरप्रवृत्तया श्रुत्या स्मृत्यर्थो बाध्यत इति युक्तम् ॥ १ ॥
इतरेषां चानुपलब्धेः ।
प्रधानस्य तावत्क्वचिद्वेदप्रदेशे वाक्याभासानि दृश्यन्ते, तद्विकाराणां तु महदादीनां तान्यपि न सन्धि । नच भूतेन्द्रियादिवन्महदादयो लोकसिद्धाः । तस्मादात्यन्तिकात्प्रमाणान्तरासंवादात्प्रमाणमूलत्वाच्च स्मृतेर्मूलाभावादभावो वन्ध्याया इव दौहित्र्यस्मृतेः । न चार्षज्ञानमत्र मूलमुपपद्यत इति युक्तम् । तस्मान्न कापिलस्मृतेः प्रधानोपादानत्वं जगत इति सिद्धम् ॥ २ ॥
एतेन योगः प्रत्युक्तः ।
नानेन योगशास्त्रस्य हैरण्यगर्भपातञ्जलादेः सर्वथा प्रामाण्यं निराक्रियते, किन्तु जगदुपादानस्वतन्त्रप्रधानतद्विकारमहदहङ्कारपञ्चतन्मात्रगोचरं प्रामाण्यं नास्तीत्युच्यते । न चैतावतैषामप्रामाण्यं भवितुमर्हति । यत्पराणि हि तानि तत्राप्रामाण्येऽप्रामाण्यमश्रुवीरन् । न चैतानि प्रधानादिसद्भावपराणि । किन्तु योगस्वरूपतत्साधनतदवान्तरफलविभूतितत्परमफलकैवल्यव्युत्पादनपराणि । तच्च किञ्चिन्निमित्तीकृत्य व्युत्पाद्यमिति प्रधानं सविकारं निमित्तीकृतं, पुराणेष्विव सर्गप्रतिसर्गवंशमन्वन्तरवंशानुचरितं तत्प्रतिपादनपरेषु, न तु तद्विवक्षितम् । अन्यपरादपि चान्यनिमित्तं तत्प्रतीयमानमभ्युपेयेत, यदि न मानान्तरेण विरुध्येत । अस्ति तु वेदान्तश्रुतिभिरस्य विरोध इत्युक्तम् । तस्मात्प्रमाणभूतादपि योगशास्त्रान्न प्रधानादिसिद्धिः । अत एव योगशास्त्रं व्युत्पादयिताह स्म भगवान् वार्षगण्यः “गुणानां परमं रूपं न दृष्टिपथमृच्छति । यत्तु दृष्टिपथप्राप्तं तन्मायैव सुतुच्छकम् ॥' इति । योगं व्युत्पिपादयिषता निमित्तमात्रेणेह गुणा उक्ताः, न तु भावतः, तेषामतात्त्विकत्वादित्यर्थः । अलोकसिद्धानामपि प्रधानादीनामनादिपूर्वपक्षन्यायाभासोत्प्रेक्षितानामनुवाद्यत्वमुपपन्नम् । तदनेनाभिसन्धिनाह
एतेन साङ्ख्यस्मृतिप्रत्याख्यानेन योगस्मृतिरपिप्रधानादिविषयतयाप्रत्याख्याता द्रष्टव्येति ।
अधिकरणान्तरारम्भमाक्षिपति
नन्वेवं सति समानन्यायत्वादिति ।
समाधत्ते
अस्त्यत्राभ्यधिकाशङ्का ।
मा नाम साङ्ख्यशास्त्रात्प्रधानसत्ता विज्ञायि । योगशास्त्रात्तु प्रधानादिसत्ता विज्ञापयिष्यते बहुलं हि योगशास्त्राणां वेदेन सह संवादो दृश्यते । उपनिषदुपायस्य च तत्त्वज्ञानस्य योगापेक्षास्ति । न जातु योगशास्त्रविहितं यमनियमादिबहिरङ्गमुपायमपहायान्तरङ्गं च धारणादिकमन्तरेणौपनिषदात्मतत्त्वसाक्षात्कार उदेतुमर्हति । तस्मादौपनिषदेन तत्त्वज्ञानेनापक्षणात्संवादबाहुल्याच्च वेदेनाष्टकादिस्मृतिवद्योगस्मृतिः प्रमाणम् । ततश्च प्रमाणात्प्रधानादिप्रतीतेर्नाशब्दत्वम् । नच तदप्रमाणं प्रधानादौ, प्रमाणं च यमादाविति युक्तम् । तत्राप्रामाण्येऽन्यत्राप्यनाश्वासात् । यथाहुः “प्रसरं न लभन्ते हि यावत्क्वचन मर्कटाः । नाभिद्रवन्ति ते तावत्पिशाचा वा स्वगोचरे ॥' इति । सेयं लब्धप्रसरा प्रधानादौ योगाप्रमाणतापिशाची सर्वत्रैव दुर्वारा भवेदित्यस्याः प्रसरं निषेधता प्रधानाद्यभ्युपेयमिति नाशब्दं प्रधानमिति शङ्कार्थः । सा इयमप्यधिकाशङ्कातिर्देशेन निवर्त्यते । निवृत्तिहेतुमाह
अर्थैकदेशसम्प्रतिपत्तावपीति ।
यदि प्रधानादिसत्तापरं योगशास्त्रं भवेत् , भवेत्प्रत्यक्षवेदान्तश्रुतिविरोधेनाप्रमाणम् । तथा च तद्विहितेषु यमादिष्वप्यनाश्वासः स्यात् । तस्मान्न प्रधानादिपरं तत् , किन्तु तन्निमित्तीकृत्य योगव्युत्पादनपरमित्युक्तम् । न चाविषयेऽप्रामाण्यं विषयेऽपि प्रामाण्यमुपहन्ति । नहि चक्षू रसादावप्रमाणं रूपेऽप्यप्रमाणं भवितुमर्हति । तस्माद्वेदान्तश्रुतिविरोधात्प्राधानादिरस्याविषयो न त्वप्रामाण्यमिति परमार्थः । स्यादेतत् । अध्यात्मविषयाः सन्ति सहस्रं स्मृतयो बौद्धार्हतकापालिकादीनां, ता अपि कस्मान्न निराक्रियन्त इत्यत आह
सतीष्वपीति ।
तासु खलु बहुलं वेदार्थविसंवादिनीषु शिष्टानादृतासु कैश्चिदेव तु पुरुषापसदैः पशुप्रायैर्म्लेच्छादिभिः परिगृहीतासु वेदमूलत्वाशङ्कैव नास्तीति न निराकृताः, तद्विपरीतास्तु साङ्ख्ययोगस्मृतय इति ताः प्रधानादिपरतया व्युदस्यन्त इत्यर्थः ।
न साङ्ख्यज्ञानेन वेदनिरपेक्षेणेति ।
प्रधानादिविषयेणेत्यर्थः ।
द्वैतिनो हि ते साङ्ख्या योगाश्च ।
ये प्रधानादिपरतया तच्छास्त्रं व्याचक्षत इत्यर्थः । सङ्ख्या सम्यग्बुद्धिर्वैदिकी तया वर्तन्त इति साङ्ख्याः । एवं योगो ध्यानमुपायोपेययोरभेदविवक्षया । चित्तवृत्तिनिरोधो हि योगस्तस्योपायो ध्यानं प्रत्ययैकतानता । एतच्चोपलक्षणम् । अन्येऽपि यमनियमादयो बाह्या आन्तराश्च धारणादयो योगोपाया द्रष्टव्याः । एतेनाभ्युपगतवेदप्रामाण्यानां कणभक्षाक्षचरणादीनां सर्वाणि तर्कस्मरणानीति योजना । सुगममन्यत् ॥ ३ ॥
न विलक्षणत्वादस्य तथात्वं च शब्दात् ।
अवान्तरसङ्गतिमाह
ब्रह्मास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्येति ।
चोदयति
कुतः पुनरिति ।
समानविषयत्वे हि विरोधो भवेत् । न चेहास्ति समानविषयता, धर्मवद्ब्रह्मणोऽपि मानान्तराविषयतयातर्क्यत्वेनानपेक्षाम्नायैकगोचरत्वादित्यर्थः । समाधत्ते
भवेदयमिति ।
“मानान्तरस्याविषयः सिद्धवस्त्ववगाहिनः । धर्मोऽस्तु कार्यरूपत्वाद्ब्रह्म सिद्धं तु गोचरः ॥' तस्मात्समानविषयत्वादस्त्यत्र तर्कस्यावकाशः । नन्वस्तु विरोधः, तथापि तर्कादरे को हेतुरित्यत आह
यथा च श्रुतीनामिति ।
सावकाशा बह्वयोऽपि श्रुतयोऽनवकाशैकश्रुतिविरोधे तदनुगुणतया यथा नीयन्ते एवमनवकाशैकतर्कविरोधे तदनुगुणतया बह्वयोऽपि श्रुतयो गुणकल्पनादिभिर्व्याख्यानमर्हन्तीत्यर्थः । अपि च ब्रह्मसाक्षात्कारो विरोधितयानादिमविद्यां निवर्तयन् दृष्टेनैव रूपेण मोक्षसाधनमिष्यते । तत्र ब्रह्मसाक्षात्कारस्य मोक्षसाधनतया प्रधानस्यानुमानं दृष्टसाधर्म्येणादृष्टविषयं विषयतोऽन्तरङ्गं, बहिरङ्गं त्वत्यन्तपरोक्षगोचरं शाब्दं ज्ञानं, तेन प्रधानप्रत्यासत्त्याप्यनुमानमेव बलीय इत्याह
दृष्टसाधर्म्येण चेति ।
अपि च श्रुत्यापि ब्रह्मणि तर्क आदृत इत्याह
श्रुतिरिति ।
सोऽयं ब्रह्मणो जगदुपादानत्वाक्षेपः पुनस्तर्केण प्रस्तूयते “प्रकृत्या सह सारूप्यं विकाराणामवस्थितम् । जगद्ब्रह्मसरूपं च नेति नो तस्य विक्रिया ॥ विशुद्धं चेतनं ब्रह्म जगज्जडमशुद्धिभाक् । तेन प्रधानसारूप्यात्प्रधानस्यैव विक्रिया ॥' तथाहि एक एव स्त्रीकायः सुखदुःखमोहात्मकतया पत्युश्च सपत्नीनां च चैत्रस्य च स्त्रैणस्य तामविन्दतोऽपर्यायं सुखदुःखविषादानाधत्ते । स्त्रिया च सर्वे भावा व्याख्याताः । तस्मात्सुखदुःखमोहात्मतया च स्वर्गनरकाद्युच्चावचप्रपञ्चतया च जगदशुद्धमचेतनं च, ब्रह्म तु चेतनं विशुद्धं च, निरतिशयत्वात् । तस्मात्प्रधानस्याशुद्धस्याचेतनस्य विकारो जगन्न तु ब्रह्मण इति युक्तम् । ये तु चेतनब्रह्मविकारतया जगच्चैतन्यमाहुस्तान्प्रत्याह
अचेतनं चेदं जगदिति ।
व्यभिचारं चोदयति
ननु चेतनमपीति ।
परिहरति
न स्वामिभृत्ययोरपीति ।
ननु मा नाम साक्षाच्चेतनश्चेतनान्तरस्योपकार्षीत् , तत्कार्यकरणबुद्ध्यादिनियोगद्वारेण तूपकरिष्यतीत्यत आह
निरतिशया ह्यकर्तारश्चेतना इति ।
उपजनापायवद्धर्मयोगोऽतिशयः, तदभावो निरतिशयत्वम् । अत एव निर्व्यापारत्वादकर्तारः । तस्मात्तेषां बुद्ध्यादिप्रयोक्तृत्वमपि नास्तीत्यर्थः । चोदकोऽनुशयबीजमुद्धाटयति
योपीति ।
अभ्युपेत्यापाततः समाधानमाह
तेनापि कथञ्चिदिति ।
परमसमाधानं तु सूत्रावयवेन वक्तुं तमेवावतारयति
न चेतरदपि विलक्षणत्वमिति ।
सूत्रावयवाभिसन्धिमाह
अनवगम्यमानमेव हीदमिति ।
शब्दार्थात्खलु चेतनप्रकृतित्वाच्चैतन्यं पृथिव्यादीनामवगम्यमानमुपोद्बलितं मानान्तरेण साक्षाच्छ्रूयमाणमप्यचैतन्यमन्यथयेत् । मानान्तराभावे वार्थोऽर्थः श्रुत्यर्थेनापबाधनीयः, न तु तद्बलेन श्रुत्यर्थोऽन्यथयितव्य इत्यर्थः ॥ ४ ॥
सूत्रान्तरमवतारयितुं चोदयति
ननु चेतनत्वमपि क्वचिदिति ।
न पृथिव्यादीनां चैतन्यमाथमेव, किन्तु भूयसीनां श्रुतीनां साक्षादेवार्थ इत्यर्थः । सूत्रमवतारयति अत उत्तरं पठति
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ।
विभजते
तुशब्द इति ।
नैताः श्रुतयः साक्षान्मृदादीनां वागादीनां च चैतन्यमाहुः, अपि तु तदधिष्ठात्रीणां देवतानां चिदात्मनां, तेनैतच्छ्रुतिबलेन न मृदादीनां वागादीनां च चैतन्यमाशङ्कनीयमिति । कस्मात्पुनरेतदेवमित्यत आह
विशेषानुगतिभ्याम् ।
तत्र विशेषं व्याचष्टे
विशेषो हीति ।
भोक्तृणामुपकार्यत्वाद्भूतेन्द्रियाणां चोपकारकत्वात्साम्ये च तदनुपपत्तेः सर्वजनप्रसिद्धेश्च “विज्ञानं चाभवत्” इति श्रुतेश्च विशेषश्चेतनाचेतनलक्षणः प्रागुक्तः स नोपपद्येत । देवताशब्दकृतो वात्र विशेषो विशेषशब्देनोच्यत इत्याह
अपि च कौषीतकिनः प्राणसंवाद इति ।
अनुगतिं व्याचष्टे
अनुगताश्चेति ।
सर्वत्र भूतेन्द्रियादिष्वनुगता देवता अभिमानिनीरूपदिशन्ति मन्त्रादयः । अपि च भूयस्यः श्रुतयः “अग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके प्राविशदादित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्”(ऐ. उ. १ । २ । ४) इत्यादय इन्द्रियविशेषगता देवता दर्शयन्ति । देवताश्च क्षेत्रज्ञभेदाश्चेतनाः । तस्मान्नेन्द्रियादीनां चैतन्यं रूपत इति । अपि च प्राणसंवादवाक्यशेषे प्राणानामस्मदादिशरीराणामिव क्षेत्रज्ञाधिष्ठितानां व्यवहारं दर्शयन् प्राणानां क्षेत्रज्ञाधिष्ठानेन चैतन्यं द्रढयतीत्याह
प्राणसंवादवाक्यशेषे चेति ।
तत्तेज ऐक्षतेत्यपीति ।
यद्यपि प्रथमेऽध्याये भाक्तत्वेन वर्णितं तथापि मुख्यतयापि कथञ्चिन्नेतुं शक्यमिति द्रष्टव्यम् ।
पूर्वपक्षमुपसंहरति
तस्मादिति ॥ ५ ॥
सिद्धान्तसूत्रम्
दृश्यते तु ।
प्रकृतिविकारभावे हेतुं सारूप्यं विकल्प्य दूषयति
अत्यन्तसारूप्ये चेति ।
प्रकृतिविकारभावाभावहेतुं वैलक्षण्यं विकल्प्य दूषयति
विलक्षणत्वेन च कारणेनेति ।
सर्वस्वभावाननुवर्तनं प्रकृतिविकारभावाविरोधि । तदनुवर्तने तादात्म्येन प्रकृतिविकारभावाभावात् । मध्यमस्त्वसिद्धः । तृतीयस्तु निदर्शनाभावादसाधारण इत्यर्थः । अथ जगद्योनितयागमाद्ब्रह्मणोऽवगमादागमबाधितविषयत्वमनुमानस्य कस्मान्नोद्भाव्यत इत्यत आह
आगमविरोधस्त्विति ।
न चास्मिन्नागमैकसमधिगमनीये ब्रह्मणि प्रमाणान्तरस्यावकाशोऽस्ति, येन तदुपादायागम आक्षिप्येतेत्याशयवानाह
यत्तूक्तं परिनिष्पन्नत्वाद्ब्रह्मणीति ।
यथा हि कार्यत्वाविशेषेऽपि “आरोग्यकामः पथ्यमश्नीयात्” “स्वरकामः सिकतां भक्षयेत्” इत्यादीनां मानान्तरापेक्षता, न तु ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इत्यादीनाम् । तत्कस्य हेतोः । अस्य कार्यभेदस्य प्रमाणान्तरागोचरत्वात् । एवंभूतत्वाविशेषेऽपि पृथिव्यादीनां मानान्तरगोचरत्वं, न तु भूतस्यापि ब्रह्मणः, तस्याम्नायैकगोचरस्यातिपतितसमस्तमानान्तरसीमतया स्मृत्यागमसिद्धत्वादित्यर्थः । यदि स्मृत्यागमसिद्धं ब्रह्मणस्तर्काविषयत्वं, कथं तर्हि श्रवणातिरिक्तमननविधानमित्यत आह
यदपि श्रवणव्यतिरेकेणेति ।
तर्को हि प्रमाणविषयविवेचकतया तदितिकर्तव्यताभूतस्तदाश्रयोऽसति प्रमाणेऽनुग्राह्यस्याश्रयस्याभावाच्छुष्कतया नाद्रियते । यस्त्वागमप्रमाणाश्रयस्तद्विषयविवेचकस्तदविरोधी स मन्तव्य इति विधीयते ।
श्रुत्यनुगृहीतेति ।
श्रुत्याः श्रवणस्य पश्चादितिकर्तव्यतात्वेन गृहीतः ।
अनुभवाङ्गत्वेनेति ।
मतो हि भाव्यमानो भावनाया विषयतयानुभूतो भवतीति मननमनुभवाङ्गम् ।
आत्मनोऽनन्वागतत्वमिति ।
स्वप्नाद्यवस्थाभिरसम्पृक्तत्वम् । उदासीनत्वमित्यर्थः । अपि च चेतनकारणवादिभिः कारणसालक्षण्येऽपि कार्यस्य कथञ्चिच्चैतन्याविर्भावानाविर्भावाभ्यां विज्ञानं चाविज्ञानं चाभवदिति जगत्कारणे योजयितुं शक्यम् । अचेतनप्रधानकारणवादिनां तु दुर्योजमेतत् । नह्यचेतनस्य जगत्कारणस्य विज्ञानरूपता सम्भविनी । चेतनस्य जगत्कारणस्य सुषुप्ताद्यव्यवस्थास्विव सतोऽपि चैतन्यस्यानाविर्भावतया शक्यमेव कथञ्चिदविज्ञानात्मत्वं योजयितुमित्याह
योऽपि चेतनकारणश्रवणबलेनेति ।
परस्यैव त्वचेतनप्रधानकारणवादिनः साङ्ख्यस्य न युज्येत ।
प्रत्युक्तत्वात्तु वैलक्षण्यस्येति ।
वैलक्षण्ये कार्यकारणभावो नास्तीत्यभ्युपेत्येदमुक्तम् । परमार्थतस्तु नास्माभिरेतदभ्युपेयत इत्यर्थः ॥ ६ ॥
असदिति चेन्न प्रतिषेधमात्रत्वात् ।
न कारणात्कार्यमभिन्नम् , अभेदे कार्यत्वानुपपत्तेः, कारणवत्स्वात्मनि वृत्तिविरोधात् , शुद्ध्यशुद्ध्यादिविरुद्धधर्मसंसर्गाच्च । अथ चिदात्मनः कारणस्य जगतः कार्याद्भेदः, तथा चेदं जगत्कार्यं सत्त्वेऽपि चिदात्मनः कारणस्य प्रागुत्पत्तेर्नास्ति, नास्ति चेदसदुत्पद्यत इति सत्कार्यवादव्याकोप इत्याह
यदि चेतनं शुद्धमिति ।
परिहरति
नैष दोष इति ।
कुतः
प्रतिषेधमात्रत्वात् ।
विभजते
प्रतिषेधमात्रं हीदमिति ।
प्रतिपादयिष्यति हि “तदनन्यत्वमारम्भणशब्दादिभ्यः”(ब्र. सू. २ । १ । १४) इत्यत्र । यथा कार्यं स्वरूपेण सदसत्त्वाभ्यां न निर्वचनीयम् । अपि तु कारणरूपेण शक्यं सत्त्वेन निर्वक्तुमिति । एवं च कारणसत्तैव कार्यस्य सत्ता न ततोऽन्येति कथं तदुत्पत्तेः प्राक्सति कारणे भवत्यसत् । स्वरूपेण तूत्पत्तेः प्रागुत्पन्नस्य ध्वस्तस्य वा सदसत्त्वाभ्यामनिर्वाच्यस्य न सतोऽसतो वोत्पत्तिरिति निर्विषयः सत्कार्यवादप्रतिषेध इत्यर्थः ॥ ७ ॥
अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ।
असामञ्जस्यं विभजते - अत्राह चोदकः,
यदि स्थौल्येति ।
यथा हि यूषादिषु हिङ्गुसैन्धवादीनामविभागलक्षणो लयः स्वगतरसादिभिर्यूषं रूषयत्येवं ब्रह्मणि विशुद्ध्यादिधर्मिणि जगल्लीयमानमविभागं गच्छद्ब्रह्म स्वधर्मेण रूषयेत् । न चान्यथा लयो लोकसिद्ध इति भावः । कल्पान्तरेणासामञ्जस्यमाह
अपि च समस्तस्येति ।
नहि समुद्रस्य फेनोर्मिबुद्बुदादिपरिणामे वा रज्ज्वां सर्पधारादिविभ्रमे वा नियमो दृष्टः । समुद्रो हि कदाचित्फेनोर्मिरूपेण परिणमते कदाचिद्बुद्बुदादिना, रज्ज्वां हि कश्चित्सर्प इति विपर्यस्यति कश्चिद्धारेति । नच क्रमनियमः । सोऽयमत्र भोग्यादिविभागनियमः क्रमनियमश्चासमञ्जस इति । कल्पान्तरेणासामञ्जस्यमाह
अपिच भोक्त्ूणामिति ।
कल्पान्तरं शङ्कापूर्वमाह
अथेदमिति ॥ ८ ॥
सिद्धान्तसूत्रम् न तु दृष्टान्तभावात् ।
नाविभागमात्रं लयोऽपि तु कारणे कार्यस्याविभागः । तत्र च तद्धर्मारूषणे सन्ति सहस्रं दृष्टान्ताः । तव तु कारणे कार्यस्य लये कार्यधर्मरूषणे न दृष्टान्तलवोऽप्यस्तीत्यर्थः । स्यादेतत्यदि कार्यस्याविभागः कारणे, कथं कार्यधर्मारूषणं कारणस्येत्यत आह
अनन्यत्वेऽपीति ।
यथा रजतस्यारोपितस्य पारमार्थिकं रूपं शुक्तिर्न च शुक्ती रजतमेवमिदमपीत्यर्थः । अपि च स्थित्युत्पत्तिप्रलयकालेषु त्रिष्वपि कार्यस्य कारणादभेदमभिदधती श्रुतिरनतिशङ्कनीया सर्वैरेव वेदवादिभिः, तत्र स्थित्युत्पत्त्योर्यः परिहारः स प्रलयेऽपि समानः कार्यस्याविद्यासमारोपितत्वं नाम, तस्मान्नापीतिमात्रमनुयोज्यमित्याह
अत्यल्पं चेदमुच्यत इति ।
अस्ति चायमपरो दृष्टान्तः ।
यथा च स्वप्नदृगेक इति ।
लौकिकः पुरुषः ।
एवमवस्थात्रयसाक्ष्येक इति ।
अवस्थात्रयमुत्पत्तिस्थितिप्रलयाः । कल्पान्तरेणासामञ्जस्ये कल्पान्तरेण दृष्टान्तभावं परिहारमाह
यत्पुनरेतदुक्तमिति ।
अविद्याशक्तेर्नियतत्वादुत्पत्तिनियम इत्यर्थः ।
एतेनेति ।
मिथ्याज्ञानविभागशक्तिप्रतिनियमेन मुक्तानां पुनरुत्पत्तिप्रसङ्गः प्रत्युक्तः, कारणाभावे कार्याभावस्य प्रतिनियमात् , तत्त्वज्ञानेन च सशक्तिनो मिथ्याज्ञानस्य समूलघातं निहतत्वादिति ॥ ९ ॥
स्वपक्षदोषाच्च ।
कार्यकारणयोर्वैलक्षण्यं तावत्समानमेवोभयोः पक्षयोः । प्रागुत्पत्तेरसत्कार्यवादप्रसङ्गोऽपीतौ तद्वत्प्रसङ्गश्च प्रधानोपादानपक्ष एव नास्मत्पक्ष इति यद्यप्युपरिष्टात्प्रतिपादयिष्यामस्तथापि गुडजिह्विकया समानत्वापादनमिदानीमिति मन्तव्यम् । इदमस्य पुरुषस्य सुखदुःखोपादानं क्लेशकर्माशयादीदमस्येति । सुगममन्यत् ॥ १० ॥
तर्काप्रतिष्ठानादपि ।
केवलागमगम्येऽर्थे स्वतन्त्रतर्काविषये न साङ्ख्यादिवत्साधर्म्यवैधर्म्यमात्रेण तर्कः प्रवर्तनीयो येन प्रधानादिसिद्धिर्भवेत् । शुष्कतर्को हि स भवत्यप्रतिष्ठानात् । तदुक्तम् “यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥' इति । नच महापुरुषपरिगृहीतत्वेन कस्यचित्तर्कस्य प्रतिष्ठा, महापुरुषाणामेव तार्किकाणां मिथो विप्रतिपत्तेरिति । सूत्रे शङ्कते -
अन्यथानुमेयमिति चेत् ।
तद्विभजते
अन्यथा वयमनुमास्यामह इति ।
नानुमानाभासव्यभिचारेणानुमानव्यभिचारः शङ्कनीयः, प्रत्यक्षादिष्वपि तदाभासव्यभिचारेण तत्प्रसङ्गात् । तस्मात्स्वाभाविकप्रतिबन्धवल्लिङ्गानुसरणे निपुणेनानुमात्रा भवितव्यं, ततश्चाप्रत्यूहं प्रधानं सेत्स्यतीति भावः । अपि च येन तर्केण तर्काणामप्रतिष्ठामाह स एव तर्कः प्रतिष्ठितोऽभ्युपेयः, तदप्रतिष्ठायामितराप्रतिष्ठानाभावादित्याह
नहि प्रतिष्ठितस्तर्क एवेति ।
अपि च तर्काप्रतिष्ठायां सकललोकयात्रोच्छेदप्रसङ्गः । नच श्रुत्यर्थाभासनिराकरणेन तदर्थतत्त्वविनिश्चय इत्याह
सर्वतर्काप्रतिष्ठायां चेति ।
अपि च विचारात्मकस्तर्कस्तर्कितपूर्वपक्षपरित्यागेन तर्कितं राद्धान्तमनुजानाति । सति चैष पूर्वपक्षविषये तर्के प्रतिष्ठारहिते प्रवर्तते, तदभावे विचाराप्रवृत्तेः । तदिदमाह
अयमेव च तर्कस्यालङ्कार इति ।
तामिमामाशङ्कां सूत्रेण परिहरति
एवमप्यविमोक्षप्रसङ्गः ।
न वयमन्यत्र तर्कमप्रमाणयामः, किन्तु जगत्कारणसत्त्वे स्वाभाविकप्रतिबन्धवन्न लिङ्गमस्ति । यत्तु साधर्म्यवैधर्म्यमात्रं, तदप्रतिष्ठादोषान्न मुच्यत इति । कल्पान्तरेणानिर्मोक्षपदार्थमाह
अपि च सम्यग्ज्ञानान्मोक्ष इति ।
भूतार्थगोचरस्य हि सम्यग्ज्ञानस्य व्यवस्थितवस्तुगोचरतया व्यवस्थानं लोके दृष्टं, यथा प्रत्यक्षस्य । वैदिकं चेदं चेतनजगदुपादानविषयं विज्ञानं वेदोत्थतर्केतिकर्तव्यताकं वेदजनितं व्यवस्थितम् । वेदानपेक्षेण तु तर्केण जगत्कारणभेदमवस्थापयतां तार्किकाणामन्योन्यं विप्रतिपत्तेस्तत्त्वनिर्धारणकारणाभावाच्च न ततस्तत्त्वव्यवस्थेति न ततः सम्यग्ज्ञानम् । असम्यग्ज्ञानाच्च न संसाराद्विमोक्ष इत्यर्थः ॥ ११ ॥
एतेन शिष्टापरिग्रहा अपि व्याख्याताः ।
न कार्यं कारणादभिन्नमभेदे कारणरूपवत्कार्यत्वानुपपत्तेः, करोत्यर्थानुपपत्तेश्च । अभूतप्रादुर्भावनं हि तदर्थः । न चास्य कारणात्मत्वे किञ्चिदभूतमस्ति, यदर्थमयं पुरुषो यतेत । अभिव्यक्त्यर्थमिति चेत् , न । तस्या अपि कारणात्मत्वेन सत्त्वात् , असत्त्वे वाभिव्यङ्ग्यस्यापि तद्वत्प्रसङ्गेन कारणात्मत्वव्याघातात् । नहि तदेव तदानीमेवास्ति नास्ति चेति युज्यते । किं चेदं मणिमन्त्रौषधमिन्द्रजालं कार्येण शिक्षितं यदिदमजातानिरुद्धातिशयमव्यवधानमविदूरस्थानं च तस्यैव तदवस्थेन्द्रियस्य पुंसः कदाचित्प्रत्यक्षं परोक्षं च, येनास्य कदाचित्प्रत्यक्षमुपलम्भनं कदाचिदनुमानं कदाचिदागमः । कार्यान्तरव्यवधिरस्य पारोक्ष्यहेतुरिति चेत् । न । कार्यजातस्य सदातनत्वात् । अथापि स्यात्कार्यान्तराणि पिण्डकपालशर्कराचूर्णकणप्रभृतीनि कुम्भं व्यवदधते, ततः कुम्भस्य पारोक्ष्यं कदाचिदिति । तन्न । तस्य कार्यजातस्य कारणात्मनः सदातनत्वेन सर्वदा व्यवधानेन कुम्भस्यात्यन्तानुपलब्धिप्रसङ्गात् । कादाचित्कत्वे वा कार्यजातस्य न कारणात्मत्वं, नित्यत्वानित्यत्वलक्षणविरुद्धधर्मसंसर्गस्य भेदकत्वात् । भेदाभेदयोश्च परस्परविरोधेनैकत्र सहासम्भव इत्युक्तम् । तस्मात्कारणात्कार्यमेकान्तत एव भिन्नम् । नच भेदे गवाश्ववत्कार्यकारणभावानुपपत्तिरिति साम्प्रतम् , अभेदेऽपि कारणरूपवत्तदनुपपत्तेरुक्तत्वात् । अत्यन्तभेदे च कुम्भकुम्भकारयोर्निमित्तकभावस्य दर्शनात् । तस्मादन्यत्वाविशेषेऽपि समवायभेद एवोपादानोपादेयभावनियमहेतुः । यस्याभूत्वा भवतः समवायस्तदुपादेयं यत्र च समवायस्तदुपादानम् । उपादानत्वं च कारणस्य कार्यादल्पपरिमाणस्य दृष्टं, यथा तन्त्वादीनां पटाद्युपादानानां पटादिभ्यो न्यूनपरिमाणत्वम् । चिदात्मनस्तु परममहत उपादानान्नात्यन्ताल्पपरिमाणमुपादेयं भवितुमर्हति । तस्माद्यत्रेदमल्पतारतम्यं विश्राम्यति यतो न क्षोदीयः सम्भवति तज्जगतो मूलकारणं परमाणुः । क्षोदीयोऽन्तरानन्त्ये तु मेरुराजसर्षपयोस्तुल्यपरिमाणत्वप्रसङ्गोऽनन्तावयवत्वादुभयोगः । तस्मात्परममहतो ब्रह्मण उपादानादभिन्नमुपादेयं जगत्कार्यमभिदधती श्रुतिः प्रतिष्ठितप्रामाण्यतर्कविरोधात्सहस्रसंवत्सरसत्रगतसंवत्सरश्रुतिवत्कथञ्चिज्जघन्यत्ववृत्त्या व्याख्यायेत्यधिकं शङ्कमानं प्रति साङ्ख्यदूषणमतिदिशति
एतेनेति सूत्रेण ।
अस्यार्थःकारणात्कार्यस्य भेदं “तदनन्यत्वमारम्भणशब्दादिभ्यः”(ब्र. सू. २ । १ । १४) इत्यत्र निषेत्स्यामः । अविद्यासमारोपणेन च कार्यस्य न्यूनाधिकभावमप्यप्रयोजकत्वादुपोक्षिष्यामहे । तेन वैशेषिकाद्यभिमतस्य तर्कस्य शुष्कत्वेनाव्यवस्थितेः सूत्रमिदं साङ्ख्यदूषणमतिदिशति । यत्र कथञ्चिद्वेदानुसारिणी मन्वादिभिः शिष्टैः परिगृहीतस्य साङ्ख्यतर्कस्यैषा गतिस्तत्र परमाण्वादिवादस्यात्यन्तवेदबाह्यस्य मन्वाद्युपेक्षितस्य च कैव कथेति ।
केनचिदंशेनेति ।
सृष्ट्यादयो हि व्युत्पाद्यास्ते च किञ्चित्सदसद्वा पूर्वपक्षन्यायोत्प्रेक्षितमप्युदाहृत्य व्युत्पाद्यन्त इति केनचिदंशेनेत्युक्तम् । सुगममन्यत् ॥ १२ ॥
भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ।
स्यादेतत् । अतिगम्भीरजगत्कारणविषयत्वं तर्कस्य नास्ति, केवलगमगम्यमेतदित्युक्तम् , तत्कथं पुनस्तर्कनिमित्त आक्षेप इत्यत आह
यद्यपि श्रुतिः प्रमाणमिति ।
प्रवृत्ता हि श्रुतिरनपेक्षतया स्वतःप्रमाणत्वेन न प्रमाणान्तरमपेक्षते । प्रवर्तमाना पुनः स्फुटतरप्रतिष्ठितप्रामाण्यतर्कविरोधेन मुख्यार्थात्प्रच्याव्य जघन्यवृत्तितां नीयते, यथा मन्त्रार्थवादावित्यर्थः । अतिरोहितार्थं भाष्यम् ।
यथा त्वद्यत्व इति ।
यद्यतीतानागतयोः सर्गयोरेष विभागो न भवेत् । ततस्तदेवाद्यतनस्य विभागस्य बाधकं स्यात् । स्वप्नदर्शनस्येव जाग्रद्दर्शनम् । न त्वेतदस्ति । अबाधिताद्यतनदर्शनेन तयोरपि तथात्वानुमानादित्यर्थः । इमां शङ्कामापाततोऽविचारितलोकसिद्धदृष्टान्तोपदर्शनमात्रेण निराकरोति सूत्रकारः
स्याल्लोकवत् ॥ १३ ॥
परिहाररहस्यमाह
तदनन्यत्वमारम्भणशब्दादिभ्यः ।
पूर्वस्मादविरोधादस्य विशेषाभिधानोपक्रमस्य विभागमाह
अभ्युपगम्य चेममिति ।
स्यादेतत् । यदिकारणात्परमार्थभूतादनन्यत्वमाकाशादेः प्रपञ्चस्य कार्यस्य कुतस्तर्हि न वैशेषिकाद्युक्तदोषप्रपञ्चावतार इत्यत आह
व्यतिरेकेणाभावः कार्यस्यावगम्यत इति ।
न खल्वनन्यत्वमित्यभेदं ब्रूमः, किन्तु भेदं व्यासेधामः, ततश्च नाभेदाश्रयदोषप्रसङ्गः । किन्त्वभेदं व्यासेधद्भिर्वैशेषिकादिभिरस्मासु साहायकमेवाचरितं भवति । भेदनिषेधहेतुं व्याचष्टे
आरम्भणशब्दस्तावदिति ।
एवं हि ब्रह्मविज्ञानेन सर्वं जगत्तत्त्वतो ज्ञायेत यदि ब्रह्मैव तत्त्वं जगतो भवेत् । यथा रज्ज्वां ज्ञातायां भुजङ्गतत्त्वं ज्ञातं भवति । सा हि तस्य तत्त्वम् । तत्त्वज्ञानं च ज्ञानमतोऽन्यन्मिध्याज्ञानमज्ञानमेव । अत्रैव वैदिको दृष्टान्तः
यथा सोम्यैकेन मृत्पिण्डेनेति ।
स्यादेतत् । मृदि ज्ञातायां कथं मृन्मयं घटादि ज्ञातं भवति । नहि तन्मृदात्मकमित्युपपादितमधस्तात् । तस्मात्तत्त्वतो भिन्नम् । न चान्यस्मिन्विज्ञातेऽन्यद्विज्ञातं भवतीत्यत आह श्रुतिः “वाचारम्भणं विकारो नामधेयम् ।”(छा. उ. ६ । १ । ४) वाचया केवलमारभ्यते विकारजातं, न तु तत्त्वतोऽस्ति, यतो नामधेयमात्रमेतत् । यथा पुरुषस्य चैतन्यमिति राहोः शिर इति विकल्पमात्रम् । यथाहुर्विकल्पविदः “शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः”(यो.सू. १-९) इति । तथा चावस्तुतयानृतं विकारजातं, मृत्तिकेत्येव सत्यम् । तस्माद्घटशरावोदञ्चनादीनां तत्त्वं मृदेव, तेन मृदि ज्ञातायां येषां सर्वेषामेव तत्त्वं ज्ञातं भवति । तदिदमुक्तम्
न चान्यथैकविज्ञानेन सर्वविज्ञानं सम्पद्यत इति ।
निदर्शनान्तरद्वयं दर्शयन्नुपसंहरति
तस्माद्यथा घटकरकाद्याकाशानामिति ।
ये हि दृष्टनष्टस्वरूपा न ते वस्तुसन्तो यथा मृगतृष्णिकोदकादयः, तथा च सर्वं विकारजातं तस्मादवस्तुसत् । तथाहि यदस्ति तदस्त्येव, यथा चिदात्मा । नह्यसौ कदाचित्क्वचित्कथञ्चिद्वास्ति । किन्तु सर्वदा सर्वत्र सर्वथास्त्येव, न नास्ति । न चैवं विकारजातं, तस्य कदाचित्कथञ्चित्कुत्रचिदवस्थानात् । तथाहि - सत्स्वभावं चेद्विकारजातं, कथं कदाचिदसत् । असत्स्वभावं चेत् , कथं कथाचिद् सत् । सदसतोरेकत्वविरोधात् । नहि रूपं कदाचित्क्वचित्कथञ्चिद्वा गन्धो भवति । अथ यस्य सदसत्त्वे धर्मौ, ते च स्वकारणाधीनजन्मतया कदाचिदेव भवतः, तत्तर्हि विकारजातं दण्डायमानं सदातनमिति न विकारः कस्यचित् । अथासत्त्वसमये तन्नास्ति, कस्य तर्हि धर्मोऽसत्त्वम् । नहि धर्मिण्यप्रत्युत्पन्ने तद्धर्मोऽसत्त्वं प्रत्युत्पन्नमुपपद्यते । अथास्य न धर्मः किन्त्वर्थान्तरमसत्त्वम् । किमायातं भावस्य । नहि घटे जाते पटस्य किञ्चिद्भवति । असत्त्वं भावविरोधीति चेत् । न । अकिञ्चित्करस्य तत्त्वानुपपत्तेः । किञ्चित्करत्वे वा तत्राप्यसत्त्वेन तदनुयोगसम्भवात् । अथास्यासत्त्वं नाम किञ्चिन्न जायते किन्तु स एव न भवति । यथाहुः “न तस्य किञ्चिद्भवति न भवत्येव केवलम्” इति । अथैष प्रसज्यप्रतिषेधो निरुच्यतां, किं तत्स्वभावो भाव उत भावस्वभावः स इति । तत्र पूर्वस्मिन् कल्पे भावानां तत्स्वभावतया तुच्छतया जगच्छून्यं प्रसज्येत । तथा च भावानुभवाभावः । उत्तरस्मिंस्तु सर्वभावनित्यतया नाभावव्यवहारः स्यात् । कल्पनामात्रनिमित्तत्वेऽपि निषेधस्य भावनित्यतापत्तिस्तदवस्थैव तस्माद्भिन्नमस्ति कारणाद्विकारजातं न वस्तु सत् । अतो विकारजातमनिर्वचनीयमनृतम् । तदनेन प्रमाणेन सिद्धमनृतत्वं विकारजातस्य कारणस्य निर्वाच्यतया सत्त्वं “मृत्तिकेत्येव सत्यम्”(छा. उ. ६ । १ । ४) इत्यादिना प्रबन्धेन दृष्टान्ततयानुवदति श्रुतिः । “यत्र लौकिकपरीक्षकाणां बुद्धिसाम्यं स दृष्टान्तः” इति चाक्षपादसूत्रं प्रमाणसिद्धो दृष्टान्त इत्येतत्परं, न पुनर्लोकसिद्धत्वमत्र विवक्षितम् , अन्यथा तेषां परमाण्वादिर्न दृष्टान्तः स्यात् । नहि परमाण्वादिर्नैसर्गिकवैनयिकबुद्ध्यतिशयरहितानां लौकिकानां सिद्ध इति । संप्रत्यनेकान्तवादिनमुत्थापयति
नन्वनेकात्मकमिति ।
अनेकाभिः शक्तिभिर्याः प्रवृत्तयो नानाकार्यसृष्टयस्तद्युक्तं ब्रह्मैकं नाना चेति । किमतो यद्येवमित्यत आह
तत्रैकत्वांशेनेति ।
यदि पुनरेकत्वमेव वस्तुसद्भवेत्ततो नानात्वाभावाद्वैदिकः कर्मकाण्डाश्रयो लौकिकश्च व्यवहारः समस्त एवोच्छिद्येत । ब्रह्मगोचराश्च श्रवणमननादयः सर्वे दत्तजलाञ्जलयः प्रसज्येरन् । एवं चानेकात्मकत्वे ब्रह्मणो मृदादिदृष्टान्ता अनुरूपा भविष्यन्तीति । तमिममनेकान्तवादं दूषयति
नैवं स्यादिति ।
इदं तावदत्र वक्तव्यम् , मृदात्मनैकत्वं घटशरावाद्यात्मना नानात्वमिति वदतः कार्यकारणयोः परस्परं किमभेदोऽभिमतः, आहो भेदः, उत भेदाभेदाविति । तत्राभेद ऐकान्तिके मृदात्मनेति च घटशरावाद्यात्मनेति चोल्लेखद्वयं नियमश्च नोपपद्यते । भेदे चोल्लेखद्वयनियमावुपपन्नौ, आत्मनेति त्वसमञ्जसम् । नह्यन्यस्यान्य आत्मा भवति । न चानेकान्तवादः । भेदाभेदकल्पे तुल्लेखद्वयं भवेदपि । नियमस्त्वयुक्तः । नहि धर्मिणोः कार्यकारणयोः सङ्करे तद्धर्मावेकत्वनानात्वे न सङ्कीर्येते इति सम्भवति । ततश्च मृदात्मनैकत्वं यावद्भवति तावद्घटशरावाद्यात्मनापि स्यात् , एवं घटशरावाद्यात्मना नानात्वं यावद्भवति तावन्मृदात्मना नानात्वं भवेत् । सोऽयं नियमः कार्यकारणयोरैकान्तिकं भेदमुपकल्पयति, अनिर्वचनीयतां वा कार्यस्य । पराक्रान्तं चास्माभिः प्रथमाध्याये तत् । आस्तां तावत् । तदेतद्युक्तिनिराकृतमनुवदन्तीं श्रुतिमुदाहरति
मृत्तिकेत्येव सत्यमिति ।
स्यादेतत् । न ब्रह्मणो जीवभावः काल्पनिकः, किन्तु भाविकः । अंशो हि सः, तस्य कर्मसहितेन ज्ञानेन ब्रह्मभाव आधीयत इत्यत आह
स्वयं प्रसिद्धं हीति ।
स्वाभाविकस्यानादेरिति । यदुक्तं नानात्वांशेन तु कर्मकाण्डाश्रयो लौकिकश्च व्यवहारः सेत्स्यतीति, तत्राह
बाधिते चेति ।
यावदबाधं हि सर्वोऽयं व्यवहारः स्वप्नदशायामिव तदुपदर्शितपदार्थजातव्यवहारः । स च यथा जाग्रदवस्थायां बाधकान्निवर्तते एवं तत्त्वमस्यादिवाक्यपरिभावनाभ्यासपरिपाकभुवा शारीरस्य ब्रह्मात्मभावसाक्षात्कारेण बाधकेन निवर्तते । स्यादेतत् । “यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्”(बृ. उ. ४ । ५ । १५) इत्यादिना मिथ्याज्ञानाधीनो व्यवहारः क्रियाकारकादिलक्षणः सम्यग्ज्ञानेनापनीयत इति न ब्रूते, किन्त्ववस्थाभेदाश्रयो व्यवहारोऽवस्थान्तरप्राप्त्या निवर्तते, यथा बालकस्य कामचारवादभक्षतोपनयनप्राप्तौ निवर्तते । नच तावतासौ मिथ्याज्ञाननिबन्धनो भवत्येवमत्रापीत्यत आह
न चायं व्यवहाराभाव इति ।
कुतः,
तत्त्वमसीति ब्रह्मात्मभावस्येति ।
न खल्वेतद्वाक्यमवस्थाविशेषविनियतं ब्रह्मात्मभावमाह जीवस्य, अपि तु न भुजङ्गो रज्जुरियमितिवत्सदातनं तमभिवदति । अपि च सत्यानृताभिधानेनाप्येतदेव युक्तमित्याह
तस्करदृष्टान्तेन चेति ।
न चास्मिन्दर्शन इति ।
नहि जातु काष्ठस्य दण्डकमण्डलुकुण्डलशालिनः कुण्डलित्वज्ञानं दण्डवत्तां कमण्डलुमत्तां बाधते । तत्कस्य हेतोः । तेषां कुण्डलादीनां तस्मिन् भाविकत्वात् । तद्वदिहापि भाविकगोचरेणैकात्म्यज्ञानेन न नानात्वं भाविकमपवदनीयम् । नहि ज्ञानेन वस्त्वपनीयते । अपि तु मिथ्याज्ञानेनारोपितमित्यर्थः । चोदयति
नन्वेकत्वैकान्ताभ्युपगम इति ।
अबाधितानधिगतासन्दिग्धविज्ञानसाधनं प्रमाणमिति प्रमाणसामान्यलक्षणोपपत्त्या प्रत्यक्षादीनि प्रमाणतामश्नुवते । एकत्वैकान्ताभ्युपगमे तु तेषां सर्वेषां भेदविषयाणां बाधितत्वादप्रामाण्यं प्रसज्येत । तथा विधिप्रतिषेधशास्त्रमपि भावनाभाव्यभावककरणेतिकर्तव्यताभेदापेक्षत्वाद्व्याहन्येत । तथा च नास्तिक्यम् । एकदेशाक्षेपेण च सर्ववेदाक्षेपाद्वेदान्तानामप्यप्रामाण्यमित्यभेदैकान्ताभ्युपगमहानिः । न केवलं विधिनिषेधाक्षेपेणास्य मोक्षशास्त्रस्याक्षेपः स्वरूपेणास्यापि भेदापेक्षत्वादित्याह
मोक्षशास्त्रस्यापीति ।
अपि चास्मिन् दर्शने वर्णपदवाक्यप्रकरणादीनामलीकत्वात्तत्प्रभवमद्वैतज्ञानमसमीचीनं भवेत् , न खल्वलीकाद्धूमकेतनज्ञानं समीचीनमित्याह
कथं चानृतेन मोक्षशास्त्रेणेति ।
परिहरति -
अत्रोच्यत इति ।
यद्यपि प्रत्यक्षादीनां तात्त्विकमबाधितत्वं नास्ति, युक्त्यागमाभ्यां बाधनात् , तथापि व्यवहारे बाधनाभावात्सांव्यवहारिकमबाधनम् । नहि प्रत्यक्षादिभिरर्थं परिच्छिद्य प्रवर्तमानो व्यवहारे विसम्वाद्यते सांसारिकः कश्चित् । तस्मादबाधनान्न प्रमाणलक्षणमतिपतन्ति प्रत्यक्षादय इति ।
सत्यत्वोपपत्तेरिति ।
सत्यत्वाभिमानोपपत्तेरिति । ग्रहणकवाक्यमेतत् । विभजते
यावद्धि न सत्यात्मैकत्वप्रतिपत्तिरिति ।
विकारानेव तु शरीरादीनहमित्यात्मभावेन पुत्रपश्वादीन्ममेत्यात्मीयभावेनेति योजना ।
वैदिकश्चेति ।
कर्मकाण्डमोक्षशास्त्रव्यवहारसमर्थना । “स्वप्नव्यवहारस्येव” इति विभजते
यथा सुप्तस्य प्राकृतस्येति ।
“कथं चानृतेन मोक्षशास्त्रेण” इति यदुक्तं तदनुभाष्य दूषयति
कथं त्वसत्येनेति ।
शक्यमत्र वक्तुं श्रवणाद्युपाय आत्मसाक्षात्कारपर्यन्तो वेदान्तसमुत्थोऽपि ज्ञाननिचयोऽसत्यः, सोऽपि हि वृत्तिरूपः कार्यतया निरोधधर्मा, यस्तु ब्रह्मस्वभावसाक्षात्कारोऽसौ न कार्यस्तत्स्वभावत्वात् , तस्मादचोद्यमेतत्कथमसत्यात्सत्योत्पाद इति । यत्खलु सत्यं न तदुत्पद्यत इति कुतस्तस्यासत्यादुत्पादः । यच्चोत्पद्यते तत्सर्वमसत्यमेव । सांव्यवहारिकं तु सत्यत्वं वृत्तिरूपस्य ब्रह्मसाक्षात्कारस्येव श्रवणादीनामप्यभिन्नम् । तस्मादभ्युपेत्य वृत्तिस्वरूपस्य ब्रह्मसाक्षात्कारस्य परमार्थसत्यतां व्यभिचारोद्भावनमिति मन्तव्यम् । यद्यपि सांव्वहारिकस्य सत्यादेव भयात्सत्यं मरणमुत्पद्यते तथापि भयहेतुरहिस्तज्ज्ञानं वाऽसत्यं ततो भयं सत्यं जायत इत्यसत्यात्सत्यस्योत्पत्तिरुक्ता । यद्यपि चाहिज्ञानमपि स्वरूपेण सत्तथापि न तज्ज्ञानत्वेन भयहेतुरपि त्वनिर्वाच्याहिरूषितत्वेन । अन्यथा रज्जुज्ञानादपि भयप्रसङ्गाज्ज्ञानत्वेनाविशेषात् । तस्मादनिर्वाच्याहिरूषितं ज्ञानमप्यनिर्वाच्यमिति सिद्धमसत्यादपि सत्यस्योपजन इति । न च ब्रूमः सर्वस्मादसत्यात्सत्यस्योपजनः, यतः समारोपितधूमभावाया धूममहिष्या वह्निज्ञानं सत्यं स्यात् । नहि चक्षुषो रूपज्ञानं सत्यमुपजायत इति रसादिज्ञानेनापि ततः सत्येन भवितव्यम् । यतो नियमो हि स तादृशः सत्यानां यतः कुतश्चित्किञ्चिदेव जायत इति । एवमसत्यानामपि नियमो यतः कुतश्चिदसत्यात्सत्यं कुतश्चिदसत्यं, यथा दीर्घत्वादेर्वर्णेषु समारोपितत्वाविशेषेऽप्यजीनमित्यतो ज्यानिविरहमवगच्छन्ति सत्यम् । अजिनमित्यतस्तु समारोपितदीर्घभावाज्ज्यानिविरहमवगच्छन्तो भवन्ति भ्रान्ताः । न चोभयत्र दीर्घसमारोपं प्रति कश्चिदस्ति भेदः । तस्मादुपपन्नमसत्यादपि सत्यस्योदय इति । निदर्शनान्तरमाह
स्वप्नदर्शनावस्थस्येति ।
यथा सांसारिको जाग्रद्भुजङ्गं दृष्ट्वा पलायते ततश्च न दंशवेदनामाप्नोति, पिपासुः सलिलमालोक्य पातुं प्रवर्तते ततस्तदासाद्य पायम्पायमाप्यायितः सुखमनुभवति, एवं स्वप्नान्तिकेऽपि तदवस्थं सर्वमित्यसत्यात्कार्यसिद्धिः । शङ्कते
तत्कार्यमप्यनृतमेवेति ।
एवमपि नासत्यात्सत्यस्य सिद्धिरुक्तेत्यर्थः ।
परिहरति
तत्र ब्रूमः । यद्यपि स्वप्नदर्शनावस्थस्येति ।
लौकिको हि सुप्तोत्थितोऽवगम्यं बाधितं मन्यते न तदवगतिं, तेन यद्यपि परिक्षका अनिर्वाच्यरूषितामवगतिमनिर्वाच्यां निश्चिन्वन्ति तथापि लौकिकाभिप्रायेणैतदुक्तम् । अत्रान्तरे लौकायतिकानां मतमपाकरोति
एतेन स्वप्नदृशोऽवगत्यबाधनेनेति ।
यदा खल्वयं चैत्रस्तारक्षवीं व्यात्तविकटदंष्ट्राकरालवदनामुत्तब्धबम्भ्रमन्मस्तकावचुम्बिलाङ्गूलामतिरोषारुणस्तब्धविशालवृत्तलोचनां रोमाञ्चसञ्चयोत्फुल्लमीषणां स्फटिकाचलभित्तिप्रतिबिम्बितामभ्यमित्रीणां तनुमास्थाय स्वप्ने प्रतिबुद्धो मानुषीमात्मनस्तनुं पश्यति तदोभयदेहानुगतमात्मानं प्रतिसन्दधानो देहातिरिक्तमात्मानं, निश्चिनोति, न तु देहमात्रम् , तन्मात्रत्वे देहवत्प्रतिसन्धानाभावप्रसङ्गात् । कथं चैतदुपपद्येत यदि स्वप्नदृशोऽवगतिरबाधिता स्यात् । तद्बाधे तु प्रतिसन्धानाभाव इति । असत्याच्च सत्यप्रतीतिः श्रुतिसिद्धान्वयव्यतिरेकसिद्धा चेत्याह
तथाच श्रुतिरिति ।
तथाकारादीति ।
यद्यपि रेखास्वरूपं सत्यं तथापि तद्यथासङ्केतमसत्यम् । नहि सङ्केतयितारः सङ्केतयन्तीदृशेन रेखाभेदेनायं वर्णः प्रत्येतव्योऽपि त्वीदृशो रेखाभेदोऽकार ईदृशश्च ककार इति । तथा चासमीचीनात्सङ्केतात्समीचीनवर्णावगतिरिति सिद्धम् । यच्चोक्तमेकत्वांशेन ज्ञानमोक्षव्यवहारः सेत्स्यति, नानात्वांशेन तु कर्मकाण्डाश्रयो लौकिकश्च व्यवहारः सेत्स्यतीति, तत्राह
अपि चान्त्यमिदं प्रमाणमिति ।
यदि खल्वेकत्वानेकत्वनिबन्धनौ व्यवहारावेकस्य पुंसोऽपर्यायेण सम्भवतस्ततस्तदर्थमुभयसद्भावः कल्प्येत, न त्वेतदस्ति । नह्येकत्वावगतिनिबन्धनः कश्चिदस्ति व्यवहारः, तदवगतेः सर्वोत्तरत्वात् । तथाहि “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्यैकात्म्यावगतिः समस्तप्रमाणतत्फलतद्व्यवहारानपबाधमानैवोदीयते, नैतस्याः परस्तात्किञ्चिदनुकूलं प्रतिकूलं चास्ति, यदपेक्षेन, येन चेयं प्रतिक्षिप्येत, तत्रानुकूलप्रतिकूलनिवारणान्नातः परं किञ्चिदाकाङ्क्ष्यमिति । न चेयमवगतिर्डुलिक्षीरप्रायेत्याह
न चेयमिति ।
स्यादेतत् । अन्त्या चेदियमवगतिर्निष्प्रयोजना तर्हि तथा च न प्रेक्षावद्भिरुपादीयेत, प्रयोजनवत्त्वे वा नान्त्या स्यादित्यत आह
न चेयमवगतिरनर्थिका कुतः अविद्यानिवृत्तिफलदर्शनात् ।
नहीयमुत्पन्ना सती पश्चादविद्यां निवर्तयति येन नान्त्या स्यात् , किन्त्वविद्याविरोधिस्वभावतया तन्निवृत्त्यात्मैवोदयते । अविद्यानिवृत्तिश्च न तत्कार्यतया फलमपि त्विष्टतया, इष्टलक्षणत्वात्फलस्येति । प्रतिकूलं पराचीनं निराकर्तुमाह
भ्रान्तिर्वेति ।
कुतः,
बाधकेति ।
स्यादेतत् । मा भूदेकत्वनिबन्धनो व्यवहारोऽनेकत्वनिबन्धनस्त्वस्ति, तदेव हि सकलामुद्वहति लोकयात्राम् , अतस्तत्सिद्ध्यर्थमनेकत्वस्य कल्पनीयं तात्त्विकत्वमित्यत आह
प्राक्चेति ।
व्यवहारो हि बुद्धिपूर्वकारिणां बुद्ध्योपपद्यते, न त्वस्यास्तात्त्विकत्वेन, भ्रान्त्यापि तदुपपत्तेरित्यावेदितम् । सत्यं च तदविसंवादात् , अनृतं च विचारासहतयानिर्वाच्यत्वात् । अन्त्यस्यैकात्म्यज्ञानस्यानपेक्षतया बाधकत्वं, अनेकत्वज्ञानस्य च प्रतियोगिग्रहापेक्षया दुर्बलत्वेन बाध्यत्वं वदन् प्रकृतमुपसंहरति
तस्मादन्त्येन प्रमाणेनेति ।
स्यादेतत् । न वयमनेकत्वव्यवहारसिद्ध्यर्थमनेकत्वस्य तात्त्विकत्वं कल्पयामः, किन्तु श्रौतमेवास्य तात्त्विकत्वमिति चोदयति
ननु मृदादीति ।
परिहरति
नेत्युच्यत इति ।
मृदादिदृष्टान्तेन हि कथञ्चित्परिणाम उन्नेयः, नच शक्य उन्नेतुम् , “मृत्तिकेत्येव सत्यम्”(छा. उ. ६ । १ । ४) इति कारणमात्रसत्यत्वावधारणेन कार्यस्यानृतत्वप्रतिपादनात् । साक्षात्कूटस्थनित्यत्वप्रतिपादिकास्तु सन्ति सहस्रशः श्रुतय इति न परिणामधर्मता ब्रह्मणः । अथ कूटस्थस्यापि परिणामः कस्मान्न भवतीत्यत आह
न ह्येकस्येति ।
शङ्कते
स्थितिगतिवदिति ।
यथैकबाणाश्रये गतिनिवृत्ती एवमेकस्मिन्ब्रह्मणि परिणामश्च तदभावश्च कौटस्थ्यं भविष्यत इति । निराकरोति
न कूटस्थस्येति विशेषणादिति ।
कूटस्थनित्यता हि सदातनी स्वभावादप्रच्युतिः । सा कथं प्रच्युत्या न विरुध्यते । नच धर्मिणो व्यतिरिच्यते धर्मो येन तदुपजनापायेऽपि धर्मी कूटस्थः स्यात् । भेद ऐकान्तिके गवाश्ववद्धर्मधर्मिभावाभावात् । बाणादयस्तु परिणामिनः स्थित्या गत्या च परिणमन्त इति । अपि च स्वाध्यायाध्ययनविध्यापादितार्थवत्त्वस्य वेदराशेरेकेनापि वर्णेनानर्थकेन न भवितव्यं किं पुनरियता जगतो ब्रह्मयोनित्वप्रतिपादकेन वाक्यसन्दर्भेण । तत्र फलवद्ब्रह्मदर्शनसमाम्नानसन्निधावफलं जगद्योनित्वं समाम्नायमानं तदर्थं सत्तदुपायतयावतिष्ठते नार्थान्तरार्थमित्याह
नच यथा ब्रह्मण इति ।
अतो न परिणामपरत्वमस्येत्यर्थः ।
तदनन्यत्वमित्यस्य सूत्रस्य प्रतिज्ञाविरोधं श्रुतिविरोधं च चोदयति
कूटस्थब्रह्मात्मवादिन इति ।
परिहरति
न । अविद्यात्मक इति ।
नाम च रूपं च ते एव बीजं तस्य व्याकरणं कार्यप्रपञ्चस्तदपेक्षत्वादैश्वर्यस्य । एतदुक्तं भवति न तात्त्विकमैश्वर्यं सर्वज्ञत्वं च ब्रह्मणः किन्त्वविद्योपाधिकमिति तदाश्रयं प्रतिज्ञासूत्रं, तत्त्वाश्रयं तु तदनन्यत्वसूत्रम् , तेनाविरोधः । सुगममन्यत् ॥ १४ ॥
भावे चोपलब्धेः ।
कारणस्य भावः सत्ता चोपलम्भश्च तस्मिन् कार्यस्योपलब्धेर्भावाच्च । एतदुक्तं भवति - विषयपदं विषयविषयिपरं, विषयिपदमपि विषयिविषयपरं, तेन कारणोपलम्भभावयोरुपादेयोपलम्भभावादिति सूत्रार्थः सम्पद्यते । तथा च प्रभारूपानुविद्धबुद्धिबोध्येन चाक्षुषेण न व्यभिचारः, नापि वह्निभावाभावानुविधायिभावाभावेन धूमभेदेनेति सिद्धं भवति । तत्र यथोक्तहेतोरेकदेशाभिधानेनोपक्रमते भाष्यकारः
इतश्च कारणादनन्यत्वम्भेदाभावः कार्यस्य, यत्कारणं यस्मात्कारणात्भाव एव कारणस्येति ।
अस्य व्यतिरेकमुखेन गमकत्वमाह
नच नियमेनेति ।
काकतालीयन्यायेनान्यभावेऽन्यदुपलभ्यते, न तु नियमेनेत्यर्थः ।
हेतुविशेषणाय व्यभिचारं चोदयति
नन्वन्यस्य भावेऽपीति ।
एकदेशिमतेन परिहरति
नेत्युच्यत इति ।
शङ्कयैकदेशिपरिहारं दूषयित्वा परमार्थपरिहारमाह
अथेति ।
तदनेन हेतुविशेषणमुक्तम् । पाठान्तरेणेदमेव सूत्रं व्याचष्टे
न केवलं शब्दादेवेति ।
पट इति हि प्रत्यक्षबुद्ध्या तन्तव एवातानवितानावस्था आलम्ब्यन्ते, न तु तदतिरिक्तः पटः प्रत्यक्षमुपलभ्यते । एकत्वं तु तन्तूनामेकप्रावरणलक्षणार्थक्रियावच्छेदाद्बहूनामपि । यथैकदेशकालावच्छिन्ना धवखदिरपलाशादयो बहवोऽपि वनमिति । अर्थक्रियायां च प्रत्येकमसमर्था अप्यनारभ्यैवार्थान्तरं किञ्चिन्मिलिताः कुर्वन्तो दृश्यन्ते, यथा ग्रावाण उखाधारणमेकम् , एवमनारभ्यैवार्थान्तरं तन्तवो मिलिताः प्रावरणमेकं करिष्यन्ति । नच समवायाद्भिन्नयोरपि भेदानवसायः अनवसाय इति साम्प्रतम्, अन्योन्याश्रयत्वात् । भेदे हि सिद्धे समवायः समवायाच्च भेदः । नच भेदे साधनान्तरमस्ति, अर्थक्रियाव्यपदेशभेदयोरभेदेऽप्युपपत्तेरित्युपपादितम् । तस्माद्यत्किञ्चिदेतम् । अनया च दिशा मूलकारणं ब्रह्मैव परमार्थसत् , अवान्तरकारणानि च तन्त्वादयः सर्वेऽनिर्वाच्या एवेत्याह
तथा च तन्तुष्विति ॥ १५ ॥
सत्त्वाच्चावरस्य ।
विभजते
इतश्चेति ।
न केवलं श्रुतिः, उपपत्तिश्चात्र भवति
यच्च यदात्मनेति ।
नहि तैलं सिकतात्मना सिकतायामस्ति यथा घटोऽस्ति मृदि मृदात्मना । प्रत्युत्पन्नो हि घटो मृदात्मनोपलभ्यते । नैवं प्रत्युत्पन्नं तैलं सिकतात्मना । तेन यथा सिकतायास्तैलं न जायत एवमात्मनोऽपि जगन्न जायेत, जायते च, तस्मादात्मात्मनासीदिति गम्यते । उपपत्त्यन्तरमाह
यथा कारणं ब्रह्मेति ।
यथा हि घटः सर्वदा सर्वत्र घट एव न जात्वसौ क्वचित्पटो भवत्येवं सदपि सर्वत्र सर्वदा सदेव न तु क्वचित्कदाचिदसद्भवितुमर्हतीत्युपपादितमधस्तात् । तस्मात्कार्यं त्रिष्वपि कालेषु सदेव । सत्त्वं चेत्किमतो यद्येवमित्यत आह
एकं च पुनरिति ।
सत्त्वं चैकं कार्यकारणयोः । नहि प्रतिव्यक्ति सत्त्वं भिद्यते । ततश्चाभिन्नसत्तानन्यत्वादेते अपि मिथो न भिद्येते इति । नच ताभ्यामनन्यत्वात्सत्त्वस्यैव भेद इति युक्तम् । तथा सति हि सत्त्वस्य समारोपितत्वप्रसङ्गः । तत्र भेदाभेदयोरन्यतरसमारोपकल्पनायां किं तात्त्विकाभेदोपादानाभेदकल्पनास्तु, आहो तात्त्विकभेदोपादानाभेदकल्पनेति । वयं तु पश्यामो भेदग्रहस्य प्रतियोगिग्रहापेक्षत्वाद्भेदग्रहमन्तरेण च प्रतियोगिग्रहासम्भवादन्योन्यसंश्रयापत्तेः, अभेदग्रहस्य च निरपेक्षतया तदनुपपत्तेरेकैकाश्रयत्वाच्च भेदस्यैकाभावे तदनुपपत्तेरभेदग्रहोपादानैव भेदकल्पनेति सर्वमवदातम् ॥ १६ ॥
असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ।
व्याकृतत्वाव्याकृतत्वे च धर्मावनिर्वचनीयौ । सूत्रमेतन्निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥ १७ ॥
युक्तेः शब्दान्तराच्च । अतिशयवत्त्वात्प्रागवस्थाया इति ।
अतिशयो हि धर्मो नासत्यतिशयवति कार्ये भवितुमर्हतीति । ननु न कार्यस्यातिशयो नियमहेतुरपि तु कारणस्य शक्तिभेदः, स चासत्यपि कार्ये कारणस्य सत्त्वात्सन्नेवेत्यत आह
शक्तिश्चेति ।
नान्या कार्यकारणाभ्यां, नाप्यसती कार्यात्मनेति योजना ।
अपिच कार्यकारणयोरिति ।
यद्यपि “भावाच्चोपलब्धेः”(ब्र. सू. २ । १ । १५) इत्यत्रायमर्थ उक्तस्तथापि समवायदूषणाय पुनरवतारितः । अनभ्युपगम्यमाने चसमवायस्य समवायिभ्यां सम्बन्धे विच्छेदप्रसङ्गोऽवयवावयविद्रव्यगुणादीनां मिथः । नह्यसम्बद्धः समवायिभ्यां समवायः समवायिनौ सम्बन्धयेदिति । शङ्कते
अथ समवायः स्वयमिति ।
यथा हि सत्त्वयोगाद्द्रव्यगुणकर्माणि सन्ति, सत्त्वं तु स्वभावत एव सदिति न सत्त्वान्तरयोगमपेक्षते, तथा समवायः समवायिभ्यां सम्बद्धुं न सम्बन्धान्तरयोगमपेक्षते, स्वयं सम्बन्धरूपत्वादिति । तदेतत्सिद्धान्तान्तरविरोधापादनेन निराकरोति
संयोगोऽपि तर्हीति ।
नच संयोगस्य कार्यत्वात्कार्यस्य च समवायिकारणाधीनजन्मत्वात् असमवाये च तदनुपपत्तेः समवायकल्पना संयोग इति वाच्यम् । अजसंयोगे तदभावप्रसङ्गात् । अपि च सम्बन्ध्यधीननिरूपणः समवायो यथा सम्बन्धिद्वयभेदे न भिद्यते तन्नाशे च न नश्यत्यपि तु नित्य एक एवं संयोगोऽपि भवेत् । ततः को दोषः । अथैतत्प्रसङ्गभिया संयोगवत्समवायोऽपि प्रतिसम्बन्धिमिथुनं भिद्यते चानित्यश्चेत्यभ्युपेयते, तथा सति यथैकस्मान्निमित्तकारणादेव जायत एवं संयोगोऽपि निमित्तकारणादेव जनिष्यत इति समानम् ।
तादात्म्यप्रतीतेश्चेति ।
सम्बन्धावगमो हि सम्बन्धकल्पनाबीजं न तादात्म्यावगमः, तस्य नानात्वैकाश्रयसम्बन्धविरोधादिति । वृत्तिविकल्पेनावयवातिरिक्तमवयविनं दूषयति
कथञ्च कार्यमिति ।
समस्तेति ।
मध्यपरभागयोरर्वाग्भागव्यवहितत्वात् । अथ समस्तावयवव्यासङ्ग्यपि कतिपयावयवस्थानो ग्रहीष्यत इत्यत आह
नहि बहुत्वमिति ।
अथावयवश इति ।
बहुत्वसङ्ख्या हि स्वरूपेणैव व्यासज्य सङ्ख्येयेषु वर्तते इत्येकमसङ्ख्येयाग्रहणेऽपि न गृह्यते, समस्तव्यासङ्गित्वात्तद्रूपस्य । अवयवी तु न स्वरूपेणावयवान्व्याप्नोति, अपि त्ववयवशः । तेन यथा सूत्रमवयवैः कुसुमानि व्याप्नुवन्न समस्तकुसुमग्रहणमपेक्षते कतिपयकुसुमस्थानस्यापि तस्योपलब्धेः, एवमवयव्यपीति भावः । निराकरोति
तदापीति ।
शङ्कते
गोत्वादिवदिति ।
निराकरोति
नेति ।
यद्यपि गोत्वस्य सामान्यस्य विशेषा अनिर्वाच्या न परमार्थसन्तस्तथा च क्वास्य प्रत्येकपरिसमाप्तिरिति, तथाप्यभ्युपेत्येदमुदितमिति मन्तव्यम् । अकर्तृका यतोऽतो निरात्मिका स्यात् । कारणाभावे हि कार्यमनुत्पन्नं किंनाम भवेत् । अतो निरात्मकत्वमित्यर्थः । यद्युच्येत घटशब्दस्तदवयवेषु व्यापाराविष्टतया पूर्वापरीभावमापन्नेषु घटोपजनाभिमुखेषु तादर्थ्यनिमित्तादुपचारात्प्रयुज्यते, तेषां च सिद्धत्वेन कर्तृत्वमस्तीत्युपपद्यते घटो भवतीति प्रयोग इत्यत आह
घटस्य चोत्पत्तिरुच्यमानेति ।
उत्पादना हि सिद्धानां कपालकुलालादीनां व्यापारो नोत्पत्तिः । न चोत्पादनैवोत्पत्तिः, प्रयोज्यप्रयोजकव्यापारयोर्भेदात् । अभेदे वा घटमुत्पादयतीतिवद्घटमुत्पद्यत इत्यपि प्रसङ्गात् । तस्मात्करोतिकारयत्योरिव घटगोचरयोर्भृत्यस्वामिसमवेतयोरुत्पत्त्युत्पादनयोरधिष्ठानभेदोऽभ्युपेतव्यः, तत्र कपालकुलालादीनां सिद्धानामुत्पादनाधिष्ठानानां नोत्पत्त्यधिष्ठानत्वमस्तीति पारिशेष्याद्घट एव साध्य उत्पत्तेरधिष्ठानमेषितव्यः । न चासावसन्नधिष्ठानं भवितुमर्हतीति सत्त्वमस्याभ्युपेयम् । एवंच घटो भवतीति घटव्यापारस्य धातूपात्तत्वात्तत्रास्य कर्तृत्वमुपपद्यते, तण्डुलानामिव सतां विक्लित्तौ विक्लिद्यन्ति तण्डुला इति । शङ्कते
अथ स्वकारणसत्तासम्बन्ध एवोत्पत्तिरिति ।
एतदुक्तं भवति नोत्पत्तिर्नाम कश्चिद्व्यापारः, येनासिद्धस्य कथमत्र कर्तृत्वमित्यनुयुज्येत, किन्तु स्वकारणसमवायः, स्वसत्तासमवायो वा, स चासतोऽप्यविरुद्ध इति । सोऽप्यसतोऽनुपपन्न इत्याह
कथमलब्धात्मकमिति ।
अपि च प्रागुत्पत्तेरसत्त्वं कार्यस्येति कार्याभावस्य भावेन मर्यादाकरणमनुपपन्नमित्याह
अभावस्य चेति ।
स्यादेतत् । अत्यन्ताभावस्य वन्ध्यासुतस्य मा भून्मर्यादानुपाख्यो हि सः, घटप्रागभावस्य तु भविष्यता घटेनोपाख्येयस्यास्ति मर्यादेत्यत आह
यदि वन्ध्यापुत्रः कारकव्यापारादिति ।
उक्तमेतदधस्ताद्यथा न जातु घटः पटो भवत्येवमसदपि सन्न भवतीति । तस्मान्मृत्पिण्डे घटस्यासत्त्वेऽत्यन्तासत्त्वमेवेति । अत्रासत्कार्यवादी चोदयति
नन्वेवं सतीति ।
प्राक्प्रसिद्धमपि कार्यं कदाचित्कारणेन योजयितुं व्यापारोऽर्थवान्भवेदित्यत आह
तदनन्यत्वाच्चेति ।
परिहरति
नैष दोष इति ।
उक्तमेतद्यथा भुजङ्गतत्त्वं न रज्जोर्भिद्यते, रज्जुरेव हि तत् , काल्पनिकस्तु भेदः, एवं वस्तुतः कार्यतत्त्वं न कारणाद्भिद्यते कारणस्वरूपमेव हि तत् , अनिर्वाच्यं तु कार्यरूपं भिन्नमिवाभिन्नमिव चावभासत इति । तदिदमुक्तम्
वस्त्वन्यत्वमिति ।
वस्तुतः परमार्थतोऽन्यत्वं न विशेषदर्शनमात्राद्भवति । सांव्यावहारिके तु कथञ्चित्तत्त्वान्यत्वे भवत एवेत्यर्थः । अनयैव हि दिशैष सन्दर्भो योज्यः । असत्कार्यवादिनं प्रति दूषणान्तरमाह
यस्य पुनरिति ।
कार्यस्य कारणादभेदे सविषयत्वं कारकव्यापारस्य स्यान्नान्यथेत्यर्थः ।
मूलकारणं
ब्रह्म ।
शब्दान्तराच्चेति सूत्रावयवमवतार्य व्याचष्टे
एवं युक्तेः कार्यस्येति ।
अतिरोहितार्थम् ॥ १८ ॥
पटवच्च । यथा च प्राणादि ।
इति च सूत्रे निगदव्याख्यातेन भाष्येण व्याख्याते ॥ १९ ॥ २० ॥
इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ।
यद्यपि शारीरात्परमात्मनो भेदमाहुः श्रुतयस्तथाप्यभेदमपि दर्शयन्ति श्रुतयो बह्व्यः । नच भेदाभेदावेकत्र समवेतौ विरोधात् , नच भेदस्तात्त्विक इत्युक्तम् । तस्मात्परमात्मनः सर्वज्ञान्न शारीरस्तत्त्वतो भिद्यते । स एव त्वविद्योपधानभेदाद्घटकरकाद्याकाशवद्भेदेन प्रथते । उपहितं चास्य रूपं शारीरः, तेन मा नाम जीवाः परमात्मतामात्मनोऽनुभूवन् , परमात्मा तु तानात्मनोऽभिन्नाननुभवति । अननुभवे सार्वज्ञ्यव्याघातः । तथा चायं जीवान् बध्नन्नात्मानमेव बध्नीयात् । तत्रेदमुक्तम्
नहि कश्चिदपरतन्त्रो बन्धनागारमात्मनः कृत्वानुप्रविशति इत्यादि ।
तस्मान्न चेतनकारणं जगदिति पूर्वः पक्षः ॥ २१ ॥
अधिकं तु भेदनिर्देशात् ।
सत्यमयं परमात्मा सर्वज्ञत्वाद्यथा जीवान् वस्तुत आत्मनोऽभिन्नान् पश्यति, पश्यत्येवं न भावत एषां सुखदुःखादिवेदनासङ्गोस्त्यविद्यावशात्त्वेषां तद्वदभिमान इति । तथा च तेषां सुखदुःखादिवेदनायामप्यहमुदासीन इति न तेषां बन्धनागारनिवेशेऽप्यस्तिक्षतिः काचिन्ममेति न हिताकरणादिदोषापत्तिरिति राद्धान्तः । तदिदमुक्तम्
अपिच यदा तत्त्वमसीति ।
अपिचेति चः पूर्वोपपत्तिसाहित्यं द्योतयति, नोपपत्त्यन्तरताम् ॥ २२ ॥
स्यादेतत् । यदि ब्रह्मविवर्तो जगत् , हन्त सर्वस्यैव जीववच्चैतन्यप्रसङ्ग इत्यत आह
अश्मादिवच्च तदनुपपत्तिः ।
अतिरोहितार्थेन भाष्येण व्याख्यातम् ॥ २३ ॥
उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ।
ब्रह्म खल्वेकमद्वितीयतया परानपेक्षं क्रमेणोत्पद्यमानस्य जगतो विविधविचित्ररूपस्योपादानमुपेयते तदनुपपन्नम् । नह्येकरूपात्कार्यभेदो भवितुमर्हति, तस्याकस्मिकत्वप्रसङ्गात् । कारणभेदो हि कार्यभेदहेतुः, क्षीरबीजादिभेदाद्दद्यङ्कुरादिकार्यभेददर्शनात् । न चाक्रमात्कारणात्कार्यक्रमो युज्यते, समर्थस्य क्षेपायोगादद्वितीयतया च क्रमवत्तत्सहकारिसमवधानापपत्तेः । तदिदमुक्तम्
इह हि लोक इति ।
एकैकं मृदादि कारकं तेषां तु सामग्र्यं साधनम् , ततो हि कार्यं साधयत्येव, तस्मान्नाद्वितीयं ब्रह्म जगदुपादानमिति प्राप्ते, उच्यते
क्षीरवद्धि ।
इदं तावद्भवान् पृष्टो व्याचष्टाम् किं तात्त्विकमस्य रूपमपेक्ष्येदमुच्यते उतानादिनामरूपबीजसहितं काल्पनिकं सार्वज्ञ्यं सर्वशक्तित्वम् । तत्र पूर्वस्मिन् कल्पे किं नाम ततोऽद्वितीयादसहायादुपजायते । नहि तस्य शुद्धबुद्धमुक्तस्वभावस्य वस्तुसत्कार्यमस्ति । तथा च श्रुतिः “न तस्य कार्यं करणं च विद्यते”(श्वे. उ. ६ । ८) इति । उत्तरस्मिंस्तु कल्पे यदि कुलालादिवदत्यन्तव्यतिरिक्तसहकारिकारणाभावादनुपादानत्वं साध्यते, ततः क्षीरादिभिर्व्यभिचारः । तेऽपि हि बाह्यचेतनादिकारणानपेक्षा एव कालपरिवशेन स्वत एव परिणामान्तरमासादयन्ति । अत्रान्तरकारणानपेक्षत्वं हेतुः क्रियते, तदसिद्धम् , अनिर्वाच्यनामरूपबीजसहायत्वात् । तथा च श्रुतिः “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्”(श्वे. उ. ४ । १०) इति कार्यक्रमेण तत्परिपाकोऽपि क्रमवानुन्नेयः । एकस्मादपि च विचित्रशक्तेः कारणादनेककार्योत्पादो दृश्यते । यथैकस्माद्वह्नेर्दाहपाकावेकस्माद्वा कर्मणः संयोगविभागसंस्काराः । २४ ॥
यदि तु चेतनत्वे सतीति विशेषणान्न क्षीरादिभिर्व्यभिचारः, दृष्टा हि कुलालादयो बाह्यमृदाद्यपेक्षाः, चेतनं च ब्रह्मेति, तत्रेदमुपतिष्ठते
देवादिवदपि लोके ।
लोक्यतेऽनेनेति लोकः शब्द एव तस्मिन् ॥ २५ ॥
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ।
ननु न ब्रह्मणस्तत्त्वतः परिणामो येन कार्त्स्न्यभागविकल्पेनाक्षिप्येत । अविद्याकल्पितेन तु नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मना तत्त्वान्यत्वाभ्यामनिर्वचनीयेन परिणामादिव्यवहारास्पदत्वं ब्रह्म प्रतिपद्यते । नच कल्पितं रूपं वस्तु स्पृशति । नहि चन्द्रमसि तैमिरिकस्य द्वित्वकल्पना चन्द्रमसो द्वित्वमावहति । तदनुपपत्त्या वा चन्द्रमसोऽनुपपत्तिः । तस्मादवास्तवी परिणामकल्पनानुपपद्यमानापि न परमार्थसतो ब्रह्मणोऽनुपपत्तिमावहति । तस्मात्पूर्वपक्षाभावादनारभ्यमिदमधिकरणमिति, अत आह
चेतनमेकम् ।
यद्यपि श्रुतिशतादैकान्तिकाद्वैतप्रतिपादनपरात्परिणामो वस्तुतो निषिद्धस्तथापि क्षीरादिदेवतादृष्टान्तेन पुनस्तद्वास्तवत्वप्रसङ्गं पूर्वपक्षोपपत्त्या सर्वथायं पक्षो न घटयितुं शक्यत इत्यपबाध्य
श्रुतेस्तु शब्दमूलत्वात् ,
'आत्मनि चैवं विचित्राश्च हि” इति सूत्राभ्यां विवर्तदृढीकरणेनैकान्तिकाद्वयलक्षणः श्रुत्यर्थः परिशोध्यत इत्यर्थः ।
तस्मादस्त्यविकृतं ब्रह्म
तत्त्वतः ।
ननु शब्देना
पीति चोद्यमविद्याकल्पितत्वोद्घाटनाय । नहि निरवयवत्वसावयवत्वाभ्यां विधान्तरमस्त्येकनिषेधस्येतरविधानान्तरीयकत्वात् । तेन प्रकारान्तराभावान्निरवयवत्वसावयवत्वयोश्च प्रकारयोरनुपपत्तेर्ग्रावप्लवनाद्यर्थवादवदप्रमाणं शब्दः स्यादिति चोद्यार्थः । परिहारः सुगमः ॥ २६ ॥ ॥ २७ ॥
आत्मनि चैवं विचित्राश्च हि ।
अनेन स्फुटितो मायावादः । स्वप्नदृगात्मा हि मनसैव स्वरूपानुपमर्देन रथादीन् सृजति ॥ २८ ॥
स्वपक्षदोषाच्च ।
चोदयति
ननु नैवेति ।
परहरति
नैवञ्जातीयकेनेति ।
यद्यपि समुदायः सावयवस्तथापि प्रत्येकं सत्त्वादयो निरवयवाः । नह्यस्ति सम्भवः सत्त्वमात्रं परिणमते न रजस्तमसी इति । सर्वेषां सम्भूयपरिणामाभ्युपगमात् । प्रत्येकं चानवयवानां कृत्स्नपरिणामे मूलोच्छेदप्रसङ्गः । एकदेशपरिणामे वा सावयवत्वमनिष्टं प्रसज्येत ।
तथाअणुवादिनोऽपीति ।
वैशेषिकाणां ह्यणुभ्यां संयुज्य द्व्यणुकमेकमारभ्यते, तैस्त्रिभिर्द्व्यणुकैस्त्र्यणुकमेकमारभ्यत इति प्रक्रिया । तत्र द्वयोरण्वोरनवयवयोः संयोगस्तावणू व्याप्नुयात् । अव्याप्नुवन्वा तत्र न वर्तेत । नह्यस्ति सम्भवः स एव तदानीं तत्र वर्तते न वर्तते चेति । तथा चोपर्यधःपार्श्वस्थाः षडपि परमाणवः समानदेशा इति प्रथिमानुपपत्तेरणुमात्रः पिण्डः प्रसज्येत । अव्यापने वा षडवयवः परमाणुः स्यादित्यनवयवत्वव्याकोपः । अशक्यं च सावयवत्वमुपेतुं, तथा सत्यनन्तावयवत्वेन सुमेरुराजसर्षपयोः समानपरिमाणत्वप्रसङ्गः । तस्मात्समानो दोषः । आपातमात्रेण साम्यमुक्तम् , परमार्थतस्तु भाविकं परिणामं वा कार्यकारणभावं वेच्छतामेष दुर्वारो दोषो न पुनरस्माकं मायावादिनामित्याह
परिहृतस्त्विति ॥ २९ ॥
विचित्रशक्तित्वमुक्तं ब्रह्मण, तत्र श्रुत्युपन्यासपरं सूत्रम्
सर्वोपेता च तद्दर्शनात् ॥ ३० ॥
एतदाक्षेपसमाधानपरं सूत्रम्
विकरणत्वान्नेति चेत्तदुक्तम् ।
कुलालादिभ्यस्तावद्बाह्यकरणापेक्षेभ्यो देवादीनां बाह्यानपेक्षाणामान्तरकरणापेक्षसृष्ठीनां प्रमाणेन दृष्टो यथा विशेषो नापह्नोतुं शक्यः, यथा तु जाग्रत्सृष्टेर्बाह्यकरणापेक्षायास्तदनपेक्षान्तरकरणमात्रसाध्या दृष्टा स्वप्ने रथादिसृष्टिरशक्यापह्नोतुम् , एवं सर्वशक्तेः परस्या देवताया आन्तरकरणानपेक्षाया जगत्सर्जनं श्रूयमाणं न सामान्यतो दृष्टमात्रेणापह्नवमर्हतीति ॥ ३१ ॥
न प्रयोजनवत्त्वात् ।
न तावदुन्मत्तवदस्य मतिविभ्रमाज्जगत्प्रक्रिया, भ्रान्तस्य सर्वज्ञत्वानुपपत्तेः । तस्मात्प्रेक्षावतानेन जगत्कर्तव्यम् । प्रेक्षावतश्च प्रवृत्तिः स्वपरहिताहितप्राप्तिपरिहारप्रयोजना सती नाप्रयोजनाल्पायासापि सम्भवति, किं पुनरपरिमेयानेकविधोच्चावचप्रपञ्चजगद्विभ्रमविरचना महाप्रयासा । अत एव लीलापि परास्ता । अल्पायाससाध्या हि सा । न चेयमप्यप्रयोजना, तस्या अपि सुखप्रयोजनवत्त्वात् । तादर्थ्येन वा प्रवृतौ तदभावे कृतार्थत्वानुपपत्तेः । परेषां चोपकार्याणामभावेन तदुपकाराया अपि प्रवृत्तेरयोगात् । तस्मात्प्रेक्षावत्प्रवृत्तिः प्रयोजनवत्तया व्याप्ता तदभावेऽनुपपन्ना ब्रह्मोपादानतां जगतः प्रतिक्षिपतीति प्राप्तम् ॥ ३२ ॥
एवं प्राप्तेऽभिधीयते
लोकवत्तु लीलाकैवल्यम् ।
भवेदेतदेवं यदि प्रेक्षावत्प्रवृत्तिः प्रयोजनवत्तया व्याप्ता भवेत् । ततस्तन्निवृत्तौ निवर्तेत, शिंशपात्वमिव वृक्षतानिवृत्तौ, न त्वेतदस्ति, प्रेक्षावतामननुसंहितप्रयोजनानामपि यादृच्छिकीषु क्रियासु प्रवृत्तिदर्शनात् । अन्यथा “न कुर्वीत वृथा चेष्टाम्” इति धर्मसूत्रकृतां प्रतिषेधो निर्विषयः प्रसज्येत । न चोन्मत्तान् प्रत्येतत्सूत्रमर्थवत् , तेषां तदर्थबोधतदनुष्ठानानुपपत्तेः । अपि चादृष्टहेतुकौत्पत्तिकी श्वासप्रश्वासलक्षणा प्रेक्षावतां क्रिया प्रयोजनानुसन्धानमन्तरेण दृष्टा । न चास्यां चेतनस्यापि चैतन्यमनुपयोगि, सम्प्रसादेऽपि भावादिति युक्तम् , प्राज्ञस्यापि चैतन्याप्रच्युतेः । अन्यथा मृतशरीरेऽपि श्वासप्रश्वासप्रवृत्तिप्रसङ्गात् । यथा च स्वार्थपरार्थसम्पदासादितसमस्तकामानां कृतकृत्यतयानाकूलमनसामकामानामेव लीलामात्रात्सत्यप्यनुनिष्पादिनि प्रयोजने नैव तदुद्देशेन प्रवृत्तिरेवं ब्रह्मणोऽपि जगत्सर्जने प्रवृत्तिर्नानुपपन्ना । दृष्टं च यदल्पबलवीर्यबुद्धिनामशक्यमतिदुष्करं वा तदन्येषामनल्पबलवीर्यबुद्धीनां सुशकमीषत्करं वा । नहि वानरैर्मारुतिप्रभृतिभिर्नगैर्न बद्धो नीरनिधिरगाधो महासत्त्वानाम् । न चैष पार्थेन शिलीमुखैर्न बद्धः । न चायं न पीतः सङ्क्षिप्य चुलुकेन हेलयेव कलशयोनिना महामुनिना । न चाद्यापि न दृश्यन्ते लीलामात्रविनिर्मितानि महाप्रासादप्रमदवनानि श्रीमन्नृगनरेन्द्राणामन्येषां मनसापि दुष्कराणि नरेश्वराणाम् । तस्मादुपपन्नं यदृच्छया वा स्वभावाद्वा लीलया वा जगत्सर्जनं भगवतो महेश्वरस्येति । अपि च नेयं पारमार्थिकी सृष्टिर्येनानुयुज्येत प्रयोजनम् , अपि त्वनाद्यविद्यानिबन्धना । अविद्या च स्वभावत एव कार्योन्मुखी न प्रयोजनमपेक्षते । नहि द्विचन्द्रालातचक्रगन्धर्वनगरादिविभ्रमाः समुद्दिष्टप्रयोजना भवन्ति । नच तत्कार्या विस्मयभयकम्पादयः स्वोत्पत्तौ प्रयोजनमपेक्षन्ते । सा च चैतन्यच्छुरिता जगदुत्पादहेतुरिति चेतनो जगद्योनिराख्यायत इत्याह
न चेयं परमार्थविषयेति ।
अपि च न ब्रह्म जगत्कारणमपि तत्तया विवक्षन्त्यागमा अपि तु जगति ब्रह्मात्मभावम् । तथा च सृष्टेरविवक्षायां तदाश्रयो दोषो निर्विषय एवेत्याशयेनाह
ब्रह्मात्मभावेति ॥ ३३ ॥
वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ।
अतिरोहितोऽत्र पूर्वः पक्षः । उत्तरस्तूच्यते उच्चावचमध्यमसुखदुःखभेदवत्प्राणभृत्प्रपञ्चं च सुखदुःखकारणं सुधाविषादि चानेकविधं विरचयतः प्राणभृद्भेदोपात्तपापपुण्यकर्माशयसहायस्यात्रभवतः परमेश्वरस्य न च वैषम्यनैर्घृण्ये प्रसज्येते । नहि सभ्यः सभायां नियुक्तो युक्तवादिनं युक्तवाद्यसीति चायुक्तवादिनमयुक्तवाद्यसीति ब्रुवाण, सभापतिर्वा युक्तवादिनमनुगृह्णन्नयुक्तवादिनं च निगृह्णन्ननुक्तो द्विष्टो वा भवत्यपि तु मध्यस्थ इति वीतरागद्वेष इति चाख्यायते, तद्वदीश्वरः पुण्यकर्माणमनुगृह्णन्नपुण्यकर्माणं च निगृह्णन्मध्यस्थ एव नामध्यस्थः । एवं ह्यसावमध्यस्थः स्याद्यकल्याणकारिणमनुगृह्णीयात्कल्याणकारिणं च निगृह्णीयात् । नत्वेतदस्ति । तस्मान्न वैषम्यदोषः । अत एव न नैर्घृण्यमपि संहरतः समस्तान् प्राणभृतः । स हि प्राणभृत्कर्माशयानां वृत्तिनिरोधसमयः, तमतिलङ्घयन्नयमयुक्तकारी स्यात् । नच कर्मापेक्षायामीश्वरस्य ऐश्वर्यव्याघातः । नहि सेवादिकर्मभेदापेक्षः फलभेदप्रदः प्रभुरप्रभुर्भवति । न च “एष ह्येव साधु कर्म कारयति यमेभ्यो लोकेभ्य उन्निनीषते एष एवासाधु कर्म कारयति तं यमधो निनिषते”(कौ.उ.३-८) इति श्रुतेरीश्वर एष द्वेषपक्षपाताभ्यां साध्वसाधुनी कर्मणी कारयित्वा स्वर्गं नरकं वा लोकं नयति, तस्माद्वैषम्यदोषप्रसङ्गान्नेश्वरः कारणमिति वाच्यम् । विरोधात् । यस्मात्कर्म कारयित्वेश्वरः प्राणिनः सुखदुःखिनः सृजति इति श्रुतेरवगम्यते, तस्मान्न सृजतीति विरुद्धमभिधीयते । नच वैषम्यमात्रमत्र ब्रूमो न त्वीश्वरकारणत्वं व्यासेधाम इति वक्तव्यम् । किमतो यद्येवम् । तस्मादीश्वरस्य सवासनक्लेशापरामर्शमभिवदन्तीनां भूयसीनां श्रुतीनामनुग्रहायोन्निनीषतेऽधो निनीषत इत्येतदपि तज्जातीयपूर्वकर्माभ्यासवशात्प्राणिन इत्येवं नेयम् । यथाहुः “जन्मजन्म यदभ्यस्तं दानमध्ययनं तपः । तेनैवाभ्यासयोगेन तच्चैवाभ्यसते नरः ॥' इति । अभ्युपेत्य च सृष्टेस्तात्त्विकत्वमिदमुक्तम् । अनिर्वाच्या तु सृष्टिरिति न प्रस्मर्तव्यमत्रापि । तथा च मायाकारस्येवाङ्गसाकल्यवैकल्यभेदेन विचित्रान् प्राणिनो दर्शयतो न वैषम्यदोषः, सहसा संहरतो वा न नैर्धृण्यम् , एवमस्यापि भगवतो विविधविचित्रप्रपञ्चमनिर्वाच्यं विश्वं दर्शयतः संहरतश्च स्वभावाद्वा लीलया वा न कश्चिद्दोषः ॥ ३४ ॥
इति स्थिते शङ्कापरिहारपरं सूत्रम्
न कर्माविभागादिति चेन्नानादित्वाद् ।
शङ्कोत्तरे अतिरोहितार्थेन भाष्यग्रन्थेन व्याख्याते ॥ ३५ ॥
अनादित्वादिति सिद्धवदुक्तं, तत्साधनार्थं सूत्रम्
उपपद्यते चाप्युपलभ्यते च ।
अकृते कर्मणि पुण्ये पापे वा तत्फलं भोक्तारमध्यागच्छेत् , तथा च विधिनिषेधशास्त्रमनर्थकं भवेत्प्रवृत्तिनिवृत्त्यभावादिति । मोक्षशास्त्रस्य चोक्तमानर्थक्यम् ।
न चाविद्या केवलेति लयाभिप्रायम् ।
विक्षेपलक्षणाSविद्यासंस्कारस्तु कार्यत्वात्स्वोत्पत्तौ पूर्वं विक्षेपमपेक्षते, विक्षेपश्च मिथ्याप्रत्ययो मोहापरनामा पुण्यापुण्यप्रवृत्तिहेतुभूतरागद्वेषनिदानं, स च रागादिभिः सहितः स्वकार्यैर्न शरीरं सुखदुःखभोगायतनमन्तरेण सम्भवति । नच रागाद्वैषावन्तरेण कर्म । नच भोगसहितं मोहमन्तरेण रागद्वेषौ । नच पूर्वशरीरमन्तरेण मोहादिरिति पूर्वपूर्वशरीरापेक्षो मोहादिरेवं पूर्वपूर्वमोहाद्यपेक्षं पूर्वपूर्वशरीरमित्यनादितैवात्र भगवती चित्तमनाकुलयति । तदेतदाह
रागादिक्लेशवासनाक्षिप्तकर्मापेक्षा त्वविद्या वैषम्यकरी स्यादिति ।
रागद्वेषमोहा रागादयस्त एव हि पुरुषं संसारदुःखमनुभाव्य क्लेशयन्तीति क्लेशास्तेषां वासनाः कर्मप्रवृत्त्यनुगुणास्ताभिराक्षिप्तानि प्रवर्त्तितानि कर्माणि तदपेक्षा लयलक्षणा अविद्या । स्यादेतत् । भविष्यतापि व्यपदेशो दृष्टो यथा “पुरोडाशकपालेन तुषानुपवपति” इति । अत आह
नच धारयिष्यतीत्यत इति ।
तदेवमनादित्वे सिद्धे “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्”(छा. उ. ६ । २ । १) इति प्राक्सृष्टेरविभागावधारणं समुदाचरद्रूपरागादिनिषेधपरं न पुनरेतान्प्रसुप्तानप्यपाकरोतीति सर्वमवदातम् ॥ ३६ ॥
सर्वधर्मोपपत्तेश्च ।
अत्र
सर्वज्ञमिति ।
दृश्यते सर्वस्य चेतनाधिष्ठितस्यैव लोके प्रवृत्तिरिति लोकानुसारो दर्शितः ।
सर्वशक्तीति ।
सर्वस्य जगत उपादानकारणं निमित्तकारणं चेत्युपपादितम् ।
महामायमिति ।
सर्वानुपपत्तिशङ्का परास्ता । तस्माज्जगत्कारणं ब्रह्मेति सिद्धम् ॥ ३७ ॥
इति श्रीवाचस्पतिमिश्रविरचिते भगवत्पादशारीरिकभाष्यविभागे भामत्यां द्वितीयस्याध्यायस्य प्रथमः पादः ॥ १ ॥
द्वितीयाध्याये द्वितीयः पादः ।
रचनानुपपत्तेश्च नानुमानम् ।
स्यादेतत् । इह हि पादे स्वतन्त्रा वेदनिरपेक्षाः प्रधानादिसिद्धिविषयाः साङ्ख्यादियुक्तयो निराकरिष्यन्ते । तदयुक्तमशास्त्राङ्गत्वात् । नहीदं शास्त्रमुच्छृङ्खलतर्कशास्त्रवत्प्रवृत्तमपि तु वेदान्तवाक्यानि ब्रह्मपराणीति पूर्वपक्षोत्तरपक्षाभ्यां विनिश्चेतुम् । तत्र कः प्रसङ्गः शुष्कतर्कवत्स्वतन्त्रयुक्तिनिराकरणस्येत्यत आह
यद्यपीदं वेदान्तवाक्यानामिति ।
नहि वेदान्तवाक्यानि निर्णेतव्यानीति निर्णीयन्ते, किन्तु मोक्षमाणानां तत्त्वज्ञानोत्पादनाय । यथा च वेदान्तवाक्येभ्यो जगदुपादानं ब्रह्मावगम्यते, एवं साङ्ख्याद्यनुमानेभ्यः प्रधानाद्यचेतनं जगदुपादानमवगम्यते । न चैतदेव चेतनोपादानमचेतनोपादानं चेति समुच्चेतुं शक्यं, विरोधात् । न च व्यवस्थिते वस्तुनि विकल्पो युज्यते । न चागमबाधितविषयतयानुमानमेव नोदीयत इति साम्प्रतम् । सर्वज्ञप्रणीततया साङ्ख्याद्यागमस्य वेदागमतुल्यत्वात्तद्भाषितस्यानुमानस्य प्रतिकृतिसिंहतुल्यतयाSबाध्यत्वात् । तस्मात्तद्विरोधान्न ब्रह्मणि समन्वयो वेदान्तानां सिध्यतीति न ततस्तत्त्वज्ञानं सेद्धुमर्हति । नच तत्त्वज्ञानादृते मोक्ष इति स्वतन्त्राणामप्यनुमानानामाभासीकरणमिह शास्त्रेसङ्गतमेवेति । यद्येवं ततः परकीयानुमाननिरास एव कस्मात्प्रथमं न कृत इत्यत आह
वेदान्तार्थनिर्णयस्य चेति ।
ननु वीतरागकथायां तत्त्वनिर्णयमात्रमुपयुज्यते न पुनःपरपक्षाधिक्षेपः, स हि सरागतामावहतीति चोदयति
ननु मुमुक्षूणामिति ।
परिहरति
बाढमेवं, तथापीति ।
तत्त्वनिर्णयावसाना वीतरागकथा । नच परपक्षदूषणमन्तरेण तत्त्वनिर्णयः शक्यः कर्तुमिति तत्त्वनिर्णयाय वीतरागेणापि परपक्षो दूष्यते न तु परपक्षतयेति न वीतरागकथात्वव्याहतिरित्यर्थः । पुनरुक्ततां परिचोद्य समाधत्ते
नन्वीक्षतेरिति ।
तत्र साङ्ख्या इति ।
यानि हि येन रूपेणा स्थौल्यादा च सौक्ष्म्यात्समन्वीयन्ते तानि तत्करणानि दृष्टानि, यथा घटादयो रुचकादयश्चा स्थौल्यादा च सौक्ष्म्यान्मृत्सुवर्णान्वितास्तत्करणाः, तथा चेदं बाह्यमाध्यात्मिकं च भावजातं सुःखदुःखमोहात्मनान्वितमुपलभ्यते, तस्मात्तदपि सुःखदुःखमोहात्मसामान्यकारणकं भवितुमर्हति । तत्र जगत्कारणस्य येयं सुखात्मता तत्सत्त्वं, या दुःखात्मता तद्रजः, या च मोहात्मता तत्तम इति त्रैगुण्यकारणसिद्धिः । तथाहि प्रत्येकं भावास्त्रैगुण्यवन्तोऽनुभूयन्ते । यथा मैत्रदारेषु पद्मावत्यां मैत्रस्य सुखं, तत्कस्य हेतोः, तम्प्रति सत्त्वगुणसमुद्भवात् । तत्सपत्नीनां च दुःखम्, तत्कस्य हेतोः, ताः प्रत्यस्या रजोगुणसमुद्भवात् । चैत्रस्य तु स्त्रैणस्य तामविन्दतो मोहो विषादः, तत्कस्य हेतोः, तं प्रत्यस्यास्तमोगुणसमुद्भवात् । पद्मावत्या च सर्वे भावा व्याख्याताः । तस्मात्सर्वं सुःखदुःखमोहान्वितं जगत्तत्कारणं गम्यते । तच्च त्रिगुणं प्रधानं प्रधीयते क्रियतेऽनेन जगदिति, प्रधीयते निधीयतेऽस्मिन्प्रलयसमये जगदिति वा प्रधानम् । तच्च मृत्सुवर्णवदचेतनं चेतनस्य पुरुषस्य भोगापवर्गलक्षणमर्थं साधयितुं स्वभावत एव प्रवर्तते, न तु केनचित्प्रवर्त्यते । तथा ह्याहुः “पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम्”(सां.का.३१) इति । परिमाणादिभिरित्यादिग्रहणेनऽशक्तितः प्रवृत्तेश्च । “कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य”(सां.का.१७) इत्यव्यक्तसिद्धिहेतवो गृह्यन्ते । एतांश्चेपरिष्टाद्व्याख्याय निराकरिष्यत इति । तदेतत्प्रधानानुमानं दूषयति
तत्र वदाम इति ।
यदि तावदचेतनं प्रधानमनधिष्ठितं चेतनेन प्रवर्तते स्वभावत एवेति साध्यते, तदयुक्तम्, समन्वयादेर्हेतोश्चेतनानधिष्ठितत्वविरुद्धचेतनाधिष्ठितत्वेन मृत्सुवर्णादौ दृष्टान्तधर्मिणि व्याप्तेरुपलब्धेर्विरुद्धत्वात् । नहि मृत्सुवर्णदार्वादयः कुलालहेमकाररथकारादिभिरनधिष्ठिताः कुम्भरुचकरथाद्युपाददते । तस्मात्कृतकत्वमिव नित्यत्वसाधनाय प्रयुक्तं साध्यविरुद्धेन व्याप्तं विरुद्धम् , एवं समन्वयादि चेतनानधिष्ठितत्वे साध्य इति रचनानुपपत्तेरिति दर्शितम् । यदुच्येत दृष्टान्तधर्मिण्यचेतनं तावदुपादानं दृष्टं, तत्र यद्यपि तच्चेतनप्रयुक्तमपि दृश्यते, तथापि तत्प्रयुक्तत्वं हेतोरप्रयोजकं बहिरङ्गत्वात् , अन्तरङ्गं त्वचैतन्यमात्रमुपादानानुगतं हेतोः प्रयोजकम् । यथाहुः"व्याप्तेश्च दृश्यमानायाः कश्चिद्धर्मः प्रयोजकः"इति । तत्राह
नच मृदादीति ।
स्वभावप्रतिबद्धं हि व्याप्यं व्यापकमवगमयति । स च स्वभावप्रतिबन्धः शङ्कितसमारोपितोपाधिनिरासे सति निश्चीयते । तन्निश्चयश्चान्वयव्यतिरेकयोरायतते । तौ चान्वयव्यतिरेकौ न तथोपादानाचैतन्ये यथा चेतनप्रयुक्तत्वेऽतिपरिस्फुटौ । तदलमत्रान्तरङ्गत्वेनेति भावः । एवमपि चेतनप्रयुक्तत्वं नाभ्युपेयेत यदि प्रमाणान्तरविरोधो भवेत् , प्रत्युत श्रुतिरनुगुणतरात्रेत्याह
न चैवं सतीति ।
चकारेण सुःखदुःखादिसमन्वयलक्षणस्य हेतोरसिद्धत्वं समुच्चिनोतीत्याह
अन्वयाद्यनुपपत्तेश्चेति ।
आन्तराः खल्वमी सुःखदुःखमोहविषादा बाह्येभ्यश्चन्दनादिभ्योऽतिविच्छिन्नप्रत्ययप्रवेदनीयेभ्यो व्यतिरिक्ता अध्यक्षमीक्ष्यन्ते । यदि पुनरेत एव सुःखदुःखादिस्वभावा भवेयुस्ततः स्वरूपत्वाद्धेमन्तेऽपि चन्दनः सुखः स्यात् । नहि चन्दनः कदाचिदचन्दनः । तथा निदाघेष्वपि कुङ्कुमपङ्कः सुखो भवेत् । नह्यसौ कदाचिदकुङ्कुमपङ्क इति । एवं कण्टकः क्रमेलकस्य सुख इति मनुष्यादीनामपि प्राणभृतां सुखः स्यात् । नह्यसौ कांश्चित्प्रत्येव कण्टक इति । तस्मादसुखादिस्वभावा अपि चन्दनकुङ्कुमादयो जातिकालावस्थाद्यपेक्षया सुखदुःखादिहेतवो न तु स्वयं सुखादिस्वभावा इति रमणीयम् । तस्मात्सुखादिरूपसमन्वयो भावानामसिद्ध इति नानेन तद्रूपं कारणमव्यक्तमुन्नीयत इति । तदिदमुक्तम्
शब्दाद्यविशेषेऽपि च भावनाविशेषादिति ।
भावना वासना संस्कारस्तद्विशेषात् । करभजन्मसंवर्तकं हि कर्म करभोचितामेव भावनामभिव्यनिक्ति, यथास्मै कण्टका एव रोचन्ते । एवमन्यत्रापि द्रष्टव्यम् । परिमाणादिति साङ्ख्यीयं हेतुमुपन्यस्यति
तथा परिमितानां भेदानामिति ।
संसर्गपूर्वकत्वे हि संसर्गस्यैकस्मिन्नद्वयेऽसम्भवान्नानात्वैकार्थसमवेतस्य नानाकारणानि संसृष्टानि कल्पनीयानि, तानि च सत्त्वरजस्तमांस्येवेति भावः । तदेतत्परिमितत्वं साङ्ख्यीयराद्धान्तालोचनेनानैकान्तिकमिति दूषयति
सत्त्वरजस्तमसामिति ।
यदि तावत्परिमितत्वमियत्ता, सा नभसोऽपि नास्तीत्यव्यापको हेतुः परिमाणादिति । अथ न योजनादिमितत्वं परिमाणमियत्तां नभसो ब्रूमः किन्त्वव्यापिताम् , अव्यापि च नभस्तन्मात्रादेः । नहि कार्यं कारणव्यापि, किन्तु कारणं कार्यव्यापीति परिमितं नभस्तन्मात्राद्यव्यापित्वात् । हन्त सत्त्वरजस्तमांस्यपि न परस्परं व्याप्नुवन्ति, नच तत्त्वान्तरपूर्वकत्वमेतेषामिति व्यभिचारः । नहि यथा तैः कार्यजातमाविष्टमेवं तानि परस्परं विशन्ति, मिथः कार्यकारणभावाभावात् । परस्परसंसर्गस्त्वावेशश्चितिशक्तौ नास्ति । नहि चितिशक्तिः कूटस्थनित्या तैः संसृज्यते, ततश्च तदव्यापका गुणा इति परिमिताः । एवं चितिशक्तिरपि गुणैरसंसृष्टेति सापि परिमितेत्यनैकान्तिकत्वं परिमितत्वस्य हेतोरिति । तथा कार्यकारणविभागोऽपि समन्वयवद्विरुद्ध इत्याह
कार्यकारणभावस्त्विति ॥ १ ॥
प्रवृत्तेश्च ।
न केवलं रचनाभेदा न चेतनाधिष्ठानमन्तरेण भवन्त्यपि तु साम्यावस्थायाः प्रच्युतिर्वैषम्यं, तथा च यदुद्भूतं बलीयस्तदङ्ग्यभिभूतं च तदनुगुणतया स्थितमङ्गम् , एवं हि गुणप्रधानभावे सत्यस्य महदादौ कार्ये का प्रवृत्तिः, सापि चेतनाधिष्ठानमेव गमयति । न हि चेतनाधिष्ठानमन्तरेण मृत्पिण्डे प्रधानेऽङ्गभावेन चक्रदण्डसलिलसूत्रादयोऽवतिष्ठन्ते । तस्मात्प्रवृत्तेरपि चेतनाधिष्ठानसिद्धिरिति “शक्तितः प्रवृत्तेश्च” इत्ययमपि हेतुः साङ्ख्यीयो विरुद्ध एवेत्युक्तं वक्रोक्त्या । अत्र साङ्ख्यश्चोदयति
ननु चेतनस्यापि प्रवृत्तिरिति ।
अयमभिप्रायः त्वया किलौपनिषदेनास्मद्धेतून् दूषयित्वा केवलस्य चेतनस्यैवान्यनिरपेक्षस्य जगदुपादानत्वं निमित्तत्वं च समर्थनीयम् । तदयुक्तम् । केवलस्य चेतनस्य प्रवृत्तेर्दृष्टान्तधर्मिण्यनुपलब्धेरिति । औपनिषदस्तु चेतनहेतुकां तावदेष साङ्ख्यः प्रवृत्तिमभ्युपगच्छतु पश्चात्स्वपक्षमत एव समाधास्यामीत्यभिसन्धिमानाह
सत्यमेतत् ।
न केवलस्य चेतनस्य प्रवृत्तिर्दृष्टेति । साङ्ख्य आह
न त्वचेतनसंयुक्तस्येति ।
तुशब्द औपनिषदपक्षं व्यावर्तयति । अचेतनाश्रयैव सर्वा प्रवृत्तिर्दृश्यते न तु चेतनाश्रया काचिदपि । तस्मान्न चेतनस्य जगत्सर्जने प्रवृत्तिरित्यर्थः । अत्रौपनिषदो गूढाभिसन्धिः प्रश्नपूर्वकं विमृशति
किं पुनरत्रेति ।
अत्रान्तरे साङ्ख्यो ब्रूते
ननु यस्मिन्निति ।
न तावच्चेतनः प्रवृत्त्याश्रयतया तत्प्रयोजकतया वा प्रत्यक्षमीक्ष्यते, केवलं प्रवृत्तिस्तदाश्रयश्चाचेतनो देहरथादिः प्रत्यक्षेण प्रतीयते, तत्राचेतनस्य प्रवृत्तिस्तन्निमित्तैव न तु चेतननिमित्ता । सद्भावमात्रं तु तत्र चेतनस्य गम्यते रथादिवैलक्षण्याज्जीवद्देहस्य । नच सद्भावमात्रेण कारणत्वसिद्धिः । मा भूदाकाश उत्पत्तिमतां घटादीनां निमित्तकारणमस्ति हि सर्वत्रेति । तदनेन देहातिरिक्ते सत्यपि चेतने तस्य न प्रवृत्तिं प्रति निमित्तभावोऽस्तीत्युक्तम् । यतश्चास्य न प्रवृत्तिहेतुभावोऽस्ति अत एव प्रत्यक्षे देहे सति प्रवृत्तिदर्शनादसति चादर्शनाद्देहस्यैव चैतन्यमिति लौकायतिकाः प्रतिपन्नाः, तथा च न चिदात्मनिमित्ता प्रवृत्तिरिति सिद्धम् । तस्मान्न रचनायाः प्रवृत्तेर्वा चिदात्मकारणत्वसिद्धिर्जगत इति औपनिषदः परिहरति
तदभिधीयते न ब्रूम इति ।
न तावत्प्रत्यक्षानुमानागमसिद्धः शारीरो वा परमात्मा वास्माभिरिदानीं साधनीयः, केवलमस्य प्रवृत्तिं प्रति कारणत्वं वक्तव्यम् । तत्र मृतशरीरे वा रथादौ वानधिष्ठिते चेतनेन प्रवृत्तेरदर्शनात्तद्विपर्यये च प्रवृत्तिदर्शनादन्वयव्यतिरेकाभ्यां चेतनहेतुकत्वं प्रवृत्तेर्निश्चीयते, न तु चेतनसद्भावमात्रेण, येनातिप्रसङ्गो भवेत् । भूतचैतनिकानामपि चेदनाधिष्ठानादचेतनानां प्रवृत्तिरित्यत्राविवाद इत्याह
लौकायतिकानामपीति ।
स्यादेतत् । देहः स्वयं चेतनः करचरणादिमान् स्वव्यापारेण प्रवर्तयतीति युक्तं, न तु तदतिरिक्तः कूटस्थनित्यश्चेतनो व्यापाररहितो ज्ञानैकस्वभावः प्रवृत्त्यभावात्प्रवर्तको युक्त इति चोदयति
ननु तवेति ।
परिहरति
न ।
अयस्कान्तवद्रूपादिवच्चेति ।
यथा च रूपादय इति ।
साङ्ख्यानां हि स्वदेशस्था रूपादय इन्द्रियं विकुर्वते, तेन तदिन्द्रियमर्थं प्राप्तमर्थाकारेण परिणमत इति स्थितिः । सम्प्रति चोदकः स्वाभिप्रायमाविष्करोति
एकत्वादिति ।
येषामचेतनं चेतनं चास्ति तेषामेतद्युज्यते वक्तुं चेतनाधिष्ठितमचेतनं प्रवर्तत इति । यथा योगिनामीश्वरवादिनाम् । येषां तु चेतनातिरिक्तं नास्त्यद्वैतवादिनां, तेषां प्रवर्त्याभावे कं प्रति प्रवर्तकत्वं चेतनस्येत्यर्थः । परिहरति
न अविद्येति ।
कारणभूतया लयलक्षणयाविद्यया प्राक्सर्गोपचितेन च विक्षेपसंस्कारेण यत्प्रत्युपस्थापितं नामरूपं तदेव माया, तदावेशेनास्य चोद्यस्यासकृत्प्रयुक्तत्वात् । एतदुक्तं भवति नेयं सृष्टिर्वस्तुसती येनाद्वैतिनो वस्तुसतो द्वितीयस्याभावादनुयुज्येत । काल्पनिक्यां तु सृष्टावस्ति काल्पनिकं द्वितीयं सहायं मायामयम् । यथाहुः “सहायास्तादृशा एव यादृशी भवितव्यता ।' इति । न चैवं ब्रह्मोपादानत्वव्याघातः, ब्रह्मण एव मायावेशेनोपादानत्वात्तदधिष्ठानत्वाज्जगद्विभ्रमस्य, रजतविभ्रमस्येव शुक्तिकाधिष्ठानस्य शुक्तिकोपादानत्वमिति निरवद्यम् ॥ २ ॥
पयोम्बुवच्चेत्तत्रापि ।
यथा पयोम्बुनोश्चेतनानधिष्ठितयोः स्वत एव प्रवृत्तिरेवं प्रधानस्यापीति शङ्कार्थः । तत्रापि चेतनाधिष्ठितत्वं साध्यं, न च साध्येनैव व्यभिचारः, तथा सत्यनुमानमात्रोच्छेदप्रसङ्गात् , सर्वत्रास्य सुलभत्वात् । न चासाध्यम् । अत्रापि चेतनाधिष्ठानस्यागमसिद्धत्वात् । न च सपक्षेण व्यभिचार इति शङ्कानिराकरणस्यार्थः ।
साध्यपक्षेत्युपलक्षणम् ।
सपक्षनिक्षिप्तत्वादित्यपि द्रष्टव्यम् । ननु “उपसंहारदर्शनात्”(ब्र. सू. २ । १ । २४) इत्यत्रानपेक्षस्य प्रवृत्तिर्दर्शिता, इह तु सर्वस्य चेतनापेक्षा प्रवृत्तिः प्रतिपाद्यत इति कुतो न विरोध इत्यत आह
उपसंहारदर्शनादिति ।
स्थूलदर्शिलोकाभिप्रायानुरोधेन तदुक्तं न तु परमार्थत इत्यर्थः ॥ ३ ॥
व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ।
यद्यपि साङ्ख्यानामपि विचित्रकर्मवासनावासितं प्रधानं साम्यावस्थायामपि तथापि न कर्मवासनाः सर्गस्येशते, किन्तु प्रधानमेव स्वकार्ये प्रवर्तमानमधर्मप्रतिबद्धं सन्न सुखमयीं सृष्टिं कर्तुमुत्सहत इति धर्मेणाधर्मप्रतिबन्धोऽपनीयते । एवमधर्मेण धर्मप्रतिबन्धोऽपनीयते दुःखमय्यां सृष्टौ । स्वयमेव च प्रधानमनपेक्ष्य सृष्टौ प्रवर्तते । यथाहुः “निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्”(यो.सू. ४-३) इति । ततश्च प्रतिबन्धकापनयसाधने धर्माधर्मवासने अपि संनिहिते इत्यागन्तोरपेक्षणीयस्याभावात्सदैव साम्येन परिणमेत वैषम्येण वा, न त्वयं कादाचित्कः परिणामभेद उपपद्येत । ईश्वरस्य तु महामायस्य चेतनस्य लीलया वा यदृच्छया वा स्वभाववैचित्र्याद्वा कर्मपरिपाकापेक्षस्य प्रवृत्तिनिवृत्ती उपपद्येते एवेति ॥ ४ ॥
अन्यत्राभावाच्च न तृणादिवत् ।
धेनूपयुक्तं हि तृणपल्लवादि यथा स्वभावत एव चेतनानपेक्षं क्षीरभावेन परिणमते न तु तत्र धेनुचैतन्यमपेक्ष्यते, उपयोगमात्रे तदपेक्षत्वात् । एवं प्रधानमपि स्वभावत एव परिणंस्यते कृतमत्र चेतनेनेति शङ्कार्थः । धेनूपयुक्तस्य तृणादेः क्षीरभावे किं निमित्तान्तरमात्रं निषिध्यते, उत चेतनम् । न तावन्निमित्तान्तरं, धेनुदेहस्थस्यौदर्यस्य वह्न्यादिभेदस्य निमित्तान्तरस्य सम्भवात् । बुद्धिपूर्वकारी तु तत्रापीश्वर एव सर्वज्ञः सम्भवतीति शङ्कानिराकरणस्यार्थः । तदिदमुक्तम्
किञ्चिद्दैवसम्पाद्यमिति ॥ ५ ॥
अभ्युपगमेऽप्यर्थाभावात् ।
पुरुषार्थापेक्षाभावप्रसङ्गात् । तदिदमुक्तम्
एवं प्रयोजनमपि किञ्चिन्नापेक्षिष्यत इति ।
अथवा पुरुषार्थाभावादिति योज्यम् । तदिदमुक्तम्
तथापि प्रधानप्रवृत्तेः प्रयोजनं विवेक्तव्यमिति ।
न केवलं तात्त्विको भोगोऽनाधेयातिशयस्य कूटस्थनित्यस्य पुरुषस्य न सम्भवति, अनिर्मोक्षप्रसङ्गश्च । येन हि प्रयोजनेन प्रधानं प्रवर्तितं तदनेन कर्तव्यं, भोगेन चैतत्प्रवर्तितमिति तमेव कुर्यान्न मोक्षं, तेनाप्रवर्तितत्वादित्यर्थः ।
अपवर्गश्चेत्प्रागपीति ।
चितेः सदा विशुद्धत्वान्नैतस्यां जातु कर्मानुभववासनाः सन्ति । प्रधानं तु तासामनादीनामाधारः । तथा च प्रधानप्रवृत्तेः प्राक्चितिर्मुक्तैवेति नापवर्गार्थमपि तत्प्रवृत्तिरिति ।
शब्दाद्यनुपलब्धिप्रसङ्गश्च ।
तदर्थमप्रवृत्तत्वात्प्रधानस्य ।
उभयार्थताभ्युपगमेऽपीति ।
न तावदपवर्गः साध्यस्तस्य प्रधानाप्रवृत्तिमात्रेण सिद्धत्वात् । भोगार्थं तु प्रवर्तेत । भोगस्य च सकृच्छब्दाद्युपलब्घिमात्रादेव समाप्तत्वान्न तदर्थं पुनः प्रधानं प्रवर्तेतेत्ययत्नसाध्यो मोक्षः स्यात् । निःशेषशब्दाद्युपभोगस्य चानन्त्येन समाप्तेरनुपपत्तेरनिर्मोक्षप्रसङ्गः । कृतभोगमपि प्रधानमासत्त्वपुरुषान्यताख्यातेः क्रियासमभिहारेण भोजयतीति चेत् , अथ पुरुषार्थाय प्रवृत्तं किमर्थं सत्त्वपुरुषान्यताख्यातिं करोति । अपवर्गार्थमिति चेत् , हन्तायां सकृच्छब्दाद्युपभोगेन कृतप्रयोजनस्य प्रधानस्य निवृत्तिमात्रादेव सिध्यतीति कृतं सत्त्वान्यताख्यातिप्रतीक्षणेन । न चास्याः स्वरूपतः पुरुषार्थत्वम् । तस्मादुभयार्थमपि न प्रधानस्य प्रवृत्तिरुपपद्यत इति सिद्धोऽर्थाभावः । सुगममितरत् । शङ्कते
दृक्शक्तीति ।
पुरुषो हि दृक्शक्तिः । सा च दृश्यमन्तरेणानर्थिका स्यात् । नच स्वात्मन्यर्थवती, स्वात्मनि वृत्तिविरोधात् । प्रधानं च सर्गशक्तिः । सा च सर्जनीयमन्तरेणानर्थिका स्यादिति यत्प्रधानेन शब्दादि सृज्यते तदेव दृक्शक्तेर्दृश्यं भवतीति तदुभयार्थवतत्त्वाय सर्जनमिति शङ्कार्थः । निराकरोति
सर्गशक्त्यनुच्छेदवदिति ।
यथा हि प्रधानस्य सर्गशक्तिरेकं पुरुषं प्रति चरितार्थापि पुरुषान्तरं प्रति प्रवर्ततेऽनुच्छेदात् । एवं दृक्शक्तिरपि तं पुरुषं प्रत्यर्थवत्त्वायानुच्छेदात्सर्वदा प्रवर्तेतेत्यनिर्मोक्षप्रसङ्गः । सकृद्दृश्यदर्शनेन वा चरितार्थत्वे न भूयः प्रवर्तेतेति सर्वेषामेकपदे निर्मोक्षः प्रसज्येतेति सहसा संसारः समुच्छिद्येतेति ॥ ६ ॥
पुरुषाश्मवदिति चेत्तथापि ।
नैव दोषात्प्रच्युतिरिति शेषः । मा भूत्पुरुषार्थस्य शक्त्यर्थवत्त्वस्य वा प्रवर्तकत्वम् , पुरुष एव दृक्शक्तिसम्पन्नः पङ्गुरिव प्रवृत्तिशक्तिसम्पन्नं प्रधानमन्धमिव प्रवर्तयिष्यतीति शङ्का । दोषादनिर्मोक्षमाह
अभ्युपेतहानं तावदिति ।
न केवलमभ्युपेतहानम् , अयुक्तं चैतद्भवद्दर्शनालोचनेनेत्याह
कथं चोदासीन इति ।
निष्क्रियत्वे साधनम्
निर्गुणत्वादिति ।
शेषमतिरोहितार्थम् ॥ ७ ॥
अङ्गित्वानुपपत्तेश्च ।
यदि प्रधानावस्था कूटस्थनित्या, ततो न तस्याः प्रच्युतिरनित्यत्वप्रसङ्गात् । यथाहुः “नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यति” इति । तदिदमुक्तम्
स्वरूपप्राणाशभयादिति ।
अथ परिणामिनित्या । यथाहुः “यस्मिन् विक्रियमाणेऽपि यत्तत्वं न विहन्यते । तदपि नित्यम्” इति । तत्राह
बाह्यस्य चेति ।
यत्साम्यावस्थया सुचिरं पर्यणमत्कथं तदेवासति विलक्षणप्रत्ययोपनिपाते वैषम्यमुपैति । अनपेक्षस्य स्वतो वापि वैषम्ये न कदाचित्साम्यं भवेदित्यर्थः ॥ ८ ॥
अन्यथानुमितौ च ज्ञशक्तिवियोगात् ।
एवमपि प्रधानस्येति ।
अङ्गित्वानुपपत्तिलक्षणो दोषस्तावन्न भवद्भिः शक्यः परिहर्तुमिति वक्ष्यामः । अभ्युपगम्याप्यस्यादोषत्वमुच्यत इत्यर्थः । संप्रत्यङ्गित्वानुपपत्तिमुपपादयति
वैषम्योपगमयोग्या अपीति ॥ ९ ॥
विप्रतिषेधाच्चासमञ्जसम् ।
क्वचित्सप्तेन्द्रियाणीति ।
त्वङ्मात्रमेव हि बुद्धीन्द्रियमनेकरूपादिग्रहणसमर्थमेकं, कर्मेन्द्रियाणि पञ्च, सप्तमं च मन इति सप्तेन्द्रियाणि ।
क्वचित्त्रीण्यन्तःकरणानि ।
बुद्धिरहङ्कारो मन इति ।
क्वचिदेकं
बुद्धिरिति । शेषमतिरोहितार्थम् ।
अत्राह साङ्ख्यः
नन्वौपनिषदानामपीति ।
तप्यतापकभावस्तावदेकस्मिन्नोपपद्यते । नहि तपिरस्तिरिव कर्तृस्थभावकः, किन्तु पचिरिव कर्मस्थभावकः । परसमवेतक्रियाफलशालि च कर्म । तथा च तप्येन कर्मणा तापकसमवेतक्रियाफलशालिना तापकादन्येन भवितव्यम् । अनन्यत्वे चैत्रस्येव गन्तुः स्वसमवेतगमनक्रियाफलनगरप्राप्तिशालिनोऽप्यकर्मत्वप्रसङ्गात् । अन्यत्वे तु तप्यस्य तापकाच्चैत्रसमवेतगमनक्रियाफलभाजो गम्यस्येव नगरस्य तप्यत्वोपपत्तिः । तस्मादभेदे तप्यतापकभावो नोपपद्यत इति । दूषणान्तरमाह
यदि चेति ।
नहि स्वभावाद्भावो वियोजितुं शक्य इति भावः । जलधेश्च वीचितरङ्गफेनादयः स्वभावाः सन्त आविर्भावतिरोभावधर्माणो न तु तैर्जलधिः कदाचिदपि मुच्यते । न केवलं कर्मभावात्तप्यस्य तापकादन्यत्वमपि त्वनुभवसिद्धमेवेत्याह
प्रसिद्धश्चायमिति ।
तथाहि अर्थोऽप्युपार्जनरक्षणक्षयरागवृद्धिहिंसादोषदर्शनादनर्थः सन्नर्थिनं दुनोति, तदर्थी तप्यस्तापकश्चार्थः, तौ चेमौ लोके प्रतीतभेदौ । अभेदे च दूषणान्युक्तानि । तत्कथमेकस्मिन्नद्वये भवितुमर्हत इत्यर्थः । तदेवमौपनिषदं मतमसमञ्जसमुक्त्वा साङ्ख्यः स्वपक्षे तप्यतापकयोर्भेदे मोक्षमुपपादयति
जात्यन्तरभावे त्विति ।
दृग्दर्शनशक्त्योः किल संयोगस्तापनिदानं, तस्य हेतुरविवेकदर्शनसंस्कारोऽविद्या, सा च विवेकख्यात्या विद्यया विरोधित्वाद्विनिवर्त्यते, तन्निवृत्तौ तद्धेतुकः संयोगो निवर्तते, तन्निवृत्तौ च तत्कार्यस्तापो निवर्तते । तदुक्तं पञ्चशिखाचार्येण “तत्संयोगहेतुविवर्जनात्स्यादयमात्यन्तिको दुःखप्रतीकारः” इति । अत्र च न साक्षात्पुरुषस्यापरिणामिनो बन्धमोक्षौ, किन्तु बुद्धिसत्त्वस्यैव चितिच्छायापत्त्या लब्धचैतन्यस्य । तथाहि इष्टानिष्टगुणस्वरूपावधारणमविभागापन्नमस्य भोगः, भोक्तृस्वरूपावधारणमपवर्गः, तेन हि बुद्धिसत्वमेवापवृज्यते, तथापि यथा जयः पराजयो वा योधेषु वर्तमानः प्राधान्यात्स्वामिन्यपदिश्यते, एवं बन्धमोक्षौ बुद्धिसत्त्वे वर्तमानौ कथञ्चित्पुरुषेऽपदिश्येते, स ह्यविभागापत्या तत्फलस्य भोक्तेति । तदेतदभिसन्धायाह
स्यादपि कदाचिन्मोक्षोपपत्तिरिति ।
अत्रोच्यते
न । एकत्वादेव तप्यतापकभावानुपपत्तेः ।
यत एकत्वे तप्यतापकभावो नोपपद्यत एकत्वादेव, तस्मात्सांव्यवहारिकभेदाश्रयस्तप्यतापकभावोऽस्माभिरभ्युपेयः । तापो हि सांव्यवहारिक एव न पारमार्थिक इत्यसकृदावेदितम् । भवेदेष दोषो यद्येकात्मतायां तप्यतापकावन्योन्यस्य विषयविषयिभावं प्रतिपद्येयातामित्यस्मदभ्युपगम इति शेषः । साङ्ख्योऽपि हि भेदाश्रयं तप्यतापकभावं ब्रुवाणो न पुरुषस्य तपिकर्मतामाख्यातुमर्हति, तस्यापरिणामितया तपिक्रियाजनितफलशालित्वानुपपत्तेः । केवलमनेन सत्त्वं तप्यम् , अभ्युपेयं तापकं च रजः । दर्शितविषयत्त्वात्तु बुद्धिसत्वे तप्ये तदविभागापत्त्या पुरुषोऽप्यनुतप्यत इव न तु तप्यतेऽपरिणामित्वादित्युक्तं, तदविभागापत्तिश्चाविद्या, तथा चाविद्याकृतस्तप्यतापकभावस्त्वयाभ्युपेयः, सोऽयमस्माभिरुच्यमानः किमिति भवतः पुरुष इवाभाति । अपि च नित्यत्वाभ्युपगमाच्च तापकस्यानिर्मोक्षप्रसङ्गः । शङ्कते
तप्यतापकशक्त्योर्नित्यत्वेऽपीति ।
सहादर्शनेन निमित्तेन वर्तत इति सनिमित्तः संयोगस्तदपेक्षत्वादिति । निराकरोति
न । अदर्शनस्य तमस इति ।
न तावत्पुरुषस्य तप्तिरित्युक्तम् । केवलमियं बुद्धिसत्त्वस्य तापकरजोजनिता, तस्य च बुद्धिसत्वस्य तामसविपर्यासादात्मनः पुरुषाद्भेदमपश्यतः पुरुषस्तप्यत इत्यभिमानः, न तु पुरुषो विपर्यासतुषेणापि युज्यते । तस्य तु बुद्धिसत्त्वस्य सात्त्विक्या विवेकख्यात्या तामसीयमविवेकख्यातिर्निवर्तनीया । न च सति तमसि मूले शक्यात्यन्तमुच्छेत्तुम् । तथा विच्छिन्नापि छिन्नबदरीव पुनस्तमसोद्भूतेन सत्त्वमभिभूय विवेकख्यातिमपोद्य शतशिखराविद्याविर्भाव्येतेति बतेयमपवर्गकथा तपस्विनो दत्तजलाञ्जलिः प्रसज्येत । अस्मत्पक्षे त्वदोष इत्याह
औपनिषदस्य त्विति ।
यथा हि मुखमवदातमपि मलिनादर्शतलोपाधिकल्पितप्रतिबिम्बभेदं मलिनतामुपैति, न च तद्वस्तुतो मलिनं, नच बिम्बात्प्रतिबिम्बं वस्तुतो भिद्यते, अथ तस्मिन् प्रतिबिम्बे मलिनादर्शोपधानान्मलिनता पदं लभते । तथा चात्मनो मलिनं मुखं पश्यन् देवदत्तस्तप्यते । यदा तूपाध्यपनयाद्बिम्बमेव कल्पनावशात्प्रतिबिम्बं तच्चावदातमिति तत्त्वमवगच्छति तदास्य तापः प्रशाम्यति नच मलिनं मे मुखमिति । एवमविद्योपधानकल्पितावच्छेदो जीवः परमात्मप्रतिबिम्बकल्पः कल्पितैरेव शब्दादिभिः सम्पर्कात्तप्यते नतु तत्त्वतः परमात्मनोऽस्ति तापः । यदा तु “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति वाक्यश्रवणमननध्यानाभ्यासपरिपाकप्रकर्षपर्यन्तजोऽस्य साक्षात्कार उपजायते तदा जीवः शुद्धबुद्धतत्त्वस्वभावमात्मनोऽनुभवन्निर्मृष्टनिखिलसवासनक्लेशजालः केवलः स्वस्थो भवति, न चास्य पुनः संसारभयमस्ति तद्धेतोरवास्तवत्वेन समूलकाषं कषितत्वात् । साङ्ख्यस्य तु सतस्तमसोऽशक्यसमुच्छेदत्वादिति । तदिदमुक्तम्
विकारभेदस्य च वाचारम्भणमात्रत्वश्रवणादिति ॥ १० ॥
प्रधानकारणवाद इति ।
यथैव प्रधानकारणवादो ब्रह्मकारणवादविरोध्येवं परमाणुकारणवादोऽप्यतः सोऽपि निराकर्तव्यः । “एतेन शिष्टापरिग्रहा अपि व्याख्याताः”(ब्र. सू. २ । १ । १२) इत्यस्य प्रपञ्च आरभ्यते तत्र वैशेषिका ब्रह्मकारणत्वं दूषयाम्बभूवुः । चेतनं चेदाकाशादीनामुपादानं तदारब्धमाकाशादि चेतनं स्यात् । कारणगुणक्रमेण हि कार्ये गुणारम्भो दृष्टः, यथा शुक्लैस्तन्तुभिरारब्धः पटः शुक्लः, न जात्वसौ कृष्णो भवति । एवं चेतनेनारब्धमाकाशादि चेतनं भवेन्न त्वचेतनम् । तस्मादचेतनोपादानमेव जगत् । तच्चाचेतनं परमाणवः । सूक्ष्मात्खलु स्थूलस्योत्पत्तिर्दृश्यते, यथा तन्तुभिः पटस्यैवमंशुभ्यस्तन्तूनामेवमपकर्षपर्यन्तं कारणद्रव्यमतिसूक्ष्ममनवयवमवतिष्ठते, तच्च परमाणु । तस्य तु सावयवत्वेऽभ्युपगम्यमानेऽनन्तावयवत्वेन सुमेरुराजसर्षपयोः समानपरिमाणत्वप्रसङ्ग इत्युक्तम् । तत्र च प्रथमं तावददृष्टवत्क्षेत्रज्ञसंयोगात्परमाणौ कर्म, ततोऽसौ परमाण्वन्तरेण संयुज्यद्व्यणुकमारभते । बहवस्तु परमाणवः संयुक्ता न सहसा स्थूलमारभन्ते, परमाणुत्वे सति बहुत्वात् , घटोपगृहीतपरमाणुवत् । यदि हि घटोपगृहीताः परमाणवो घटमारभेरन्न घटे प्रविभज्यमाने कपालशर्कराद्युपलभ्येत, तेषामनारब्धत्वात् , घटस्यैव तु तैरारब्धत्वात् । तथा सति मुद्गरप्रहारात्घटविनाशे न किञ्चिदुपलभ्येत, तेषामनारब्धत्वात् । तदवयवानां परमाणूनामतीन्द्रियत्वात् । तस्मान्न बहूनां परमाणूनां द्रव्यं प्रति समवायिकारणत्वम् , अपि तु द्वावेव परमाणू द्य्वणुकमारभेते । तस्य चाणुत्वं परिमाणं परमाणुपरिमाणात्पारिमाण्डल्यादन्यदीश्वरबुद्धिमपेक्ष्योत्पन्ना द्वित्वसङ्ख्यारभते । नच द्व्यणुकाभ्यां द्रव्यस्यारम्भः, वैयर्थ्यप्रसङ्गात् । तदपि हि द्व्यणुकमेव भवेन्न तु महत् । कारणबहुत्वमहत्त्वप्रचयविशेषेभ्यो हि महत्त्वस्योत्पत्तिः । नच द्व्यणुकयोर्महत्त्वमस्ति, यतस्ताभ्यामारब्धं महद्भवेत् । नापि तयोर्बहुत्वं, द्वित्वादेव । नच प्रचयभेदस्तूलपिण्डानामिव, तदवयवानामनवयवत्वेन प्रशिथिलावयवसंयोगभेदविरहात् । तस्मात्तेनापि तत्कारणद्व्यणुकवदणुनैव भवितव्यं, तथा च पुरुषोपभोगातिशयाभावाददृष्टनिमित्तत्वाच्च विश्वनिर्माणस्य भोगार्तत्वात्तत्कारणेन च द्व्यणुकेन तन्निष्पत्तेः कृतं द्व्यणुकाश्रयेण द्व्यणुकान्तरेणेत्यारम्भवैयर्थ्यात् । आरम्भार्थवत्त्वाय बहुभिरेव द्व्यणुकैस्त्र्यणुकं चतुरणुकं वा द्रव्यं महद्दीर्घमारब्धव्यम् । अस्ति हि तत्र तत्र भोगभेदः । अस्ति च बहुत्वसङ्ख्येश्वरबुद्धिमपेक्ष्योत्पन्ना महत्त्वपरिमाणयोनिः । त्र्यणुकादिभिरारब्धं तु कार्यद्रव्यं कारणबहुत्वाद्वा कारणमहत्त्वाद्वा कारणप्रचयभेदाद्वा महद्भवतीति प्रक्रिया । तदेतयैव प्रक्रियया कारणसमवायिनो गुणाः कार्यद्रव्ये समानजातीयमेव गुणान्तरमारभन्त इति दूषणमदूषणीक्रियते, व्यभिचारादित्याह
महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ।
यथा महद्द्रव्यं त्र्यणुकादि हृस्वाद्द्व्यणुकाज्जायते, न तु महत्त्वगुणोपजनने द्व्यणुकगतं महत्त्वमपेक्षते, तस्य हृस्वत्वात् । यथा वा तदेव त्र्यणुकादि दीर्धं हृस्वाद् द्व्यणुकाज्जायते, न तु तद्गतं दीर्घत्वमपेक्षते, तदभावात् । वाशब्दश्चार्थेऽनुक्तसमुच्चयार्थः । यथा द्व्यणुकमणु हृस्वपरिमाणं परिमण्डलात्परमाणोरपरिमण्डलं जायत एवं चेतनाद्ब्रह्मणोऽचेतनं जगन्निष्पद्यत इति सूत्रयोजना । भाष्ये
परमाणुगुणविशेषस्त्विति ।
पारिमाण्डल्यग्रहणमुपलक्षणम् । न द्व्यणुकेऽणुत्वमपि पारमाणुवर्ति पारिमाण्डल्यमारभते, तस्य हि द्वित्वसङ्ख्यायोनित्वादित्यपि द्रष्टव्यम् । ह्रस्वपरिमण्डलाभ्यामिति सूत्रं गुणिपरं न गुणपरम् । यदापि द्वे द्वे द्व्यणुके इति पठितव्ये प्रमादादेकं द्वेपदं न पठितम् । एवं चतुरणुकमित्याद्युपपद्यते । इतरथा हि द्व्यणुकमेव तदपि स्यान्न तु महदित्युक्तम् । अथवा द्वे इति द्वित्वे, यथा “द्व्येकयोर्द्विवचनैकवचने”(पा.सू. १-४-२२) इति । अत्र हि द्वित्वैकत्वयोरित्यर्थः । अन्यथा ह्येकेष्विति स्यात्सङ्ख्येयानां बहुत्वात् । तदेवं योजनीयं द्व्यणुकाधिकरणे ये द्वित्वे ते यदा चतुरणुकमारभेते सङ्ख्येयानां चतुर्णां द्व्यणुकानामारम्भकत्वात्तत्तद्गते द्वित्वसङ्ख्ये अपि आरम्भिके इत्यर्थः । एवं व्यवस्थितायां वैशेषिकप्रक्रियायां तद्दूषणस्य व्यभिचार उक्तः । अथाव्यवस्थिता तथापि तदवस्थो व्यभिचार इत्याह
यदापि बहवः परमाणव इति ।
नाणु जायते नो ह्रस्वं जायते इति योजना ।
चोदयति
अथ मन्यसे विरोधिना परिमाणान्तरेण स्वकारणद्वारेणाक्रान्तत्वादिति ।
परिहरति
मैवं मंस्था इति ।
कारणगता गुणा न कार्ये समानजातीयं गुणान्तरमारभन्त इत्येतावतैवेष्टसिद्धौ न तद्धेत्वनुसरणे खेदनीयं मन इत्यर्थः । अपि च सत्परिमाणान्तरमाक्रामति नोत्पत्तेश्च प्राक्परिमाणान्तरं सदिति कथमाक्रामेत् । नच तत्कारणमाक्रामति । पारिमाण्डल्यस्यापि समानजातीयस्य कारणस्याक्रमणहेतोर्भावेन समानबलतयोभयकार्यानुत्पादप्रसङ्गादित्याशयवानाहन
न च परिमाणान्तरात्क्रान्तत्वमिति ।
नच परिमाणान्तरारम्भे व्यापृतता पारिमाण्डल्यादीनाम् । नच कारणबहुत्वादीनां सन्निधानमसंनिधानं च पारिमाण्डल्यस्येत्याह
नच परिमाणान्तरारम्भे इति ।
व्यभिचारान्तरमाह
संयोगाच्चेति ।
शङ्कते
द्रव्ये प्रकृत इति ।
निराकरोति
न । दृष्टान्तेनेति ।
न चास्माकमयमनियमः, भवतामपीत्याह
सूत्रकारोऽपीति ।
सूत्रं व्याचष्टे
यथा प्रत्यक्षाप्रत्यक्षयोरिति ।
शेषमतिरोहितार्थम् ॥ ११ ॥
उभयथापि न कर्मातस्तदभावः ।
परमाणूनामाद्यस्य कर्मणः कारणाभ्युपगमेऽनभ्युपगमे वा न कर्मातस्तदभावस्तस्य द्व्यणुकादिक्रमेण सर्गस्याभावः । अथवा यद्यणुसमवाय्यदृष्टमथवा क्षेत्रज्ञसमवायि, उभयथापि तस्याचेतनस्य चेतनानधिष्ठितस्याप्रवृत्तेः कर्माभावोऽतस्तदभावः सर्गाभावः । निमित्तकारणतामात्रेण त्वीश्वरस्याधिष्ठातृत्वमुपरिष्टान्निराकरिष्यते । अथवा संयोगोत्पत्त्यर्थं विभागोत्पत्त्यर्थमुभयथापि न कर्मातः सर्गहेतोः संयोगस्याभावात्प्रलयहेतोर्विभागस्याभावात्तदभावः । तयोः सर्गप्रलययोरभाव इत्यर्थः । तदेतत्सूत्रं तात्पर्यतो व्याचष्टे
इदानीं परमाणुकारणवादमिति ।
निराकार्यस्वरूपमुपपत्तिसहितमाह
स च वाद इति ।
स्वानुगतैः स्वसम्बद्धैः । सम्बन्धश्चाधार्याधारभूत इहप्रत्ययहेतुः समवायः । पञ्चमभूतस्यानवयवत्वात्
तानीमानि चत्वारि भूतानीति ।
तत्र परमाणुकारणवादे इदमभिधीयते सूत्रम् । तत्र प्रथमां व्याख्यामाह
कर्मवतामिति ।
अभिघातादीत्यादिग्रहणेन नोदनसंस्कारगुरुत्वद्रवत्वानि गृह्यन्ते । नोदनसंस्कारावभिघातेन समानयोगक्षेमौ, गुरुत्वद्रवत्वे च परमाणुगते सदातने इति कर्मसातत्यप्रसङ्गः । द्वितीयं व्याख्यानमाशङ्कापूर्वमाह
अथादृष्टं धर्माधर्मौ । आद्यस्य कर्मण इति । आत्मनश्च क्षेत्रज्ञस्य अनुत्पन्नचैतन्यस्येति । अदृष्टवता पुरुषेणेति ।
संयुक्तसमवायसम्बन्ध इत्यर्थः ।
सम्बन्धस्य सातत्यादिति ।
यद्यपि परमाणुक्षेत्रज्ञयोः संयोगः परमाणुकर्मजस्तथापि तत्प्रवाहस्य सातत्यमिति भावः । सर्वात्मना चेदुपचयाभावः । एकदेशेन हि संयोगे यावण्वोरेकदेशौ निरन्तरौ ताभ्यामन्ये एकदेशाः संयोगेनाव्याप्ता इति प्रथिमोपपद्यते । सर्वात्मना तु नैरन्तर्ये परमाणावेकस्मिन् परमाण्वन्तराण्यपि संमान्तीति न प्रथिमा स्यादित्यर्थः । शङ्कते यद्यपि निष्प्रदेशाः परमाणवस्तथापि संयोगस्तयोरव्याप्यवृत्तिरेवंस्वभावत्वात् । कैषा वाचोयुक्तिर्निष्प्रदेशं संयोगो न व्याप्नोतीति । एषैव वाचोयुक्तिर्यद्यथा प्रतीयते तत्तथाभ्युपेयत इति । तामिमां शङ्कां सूद्धारामाह
परमाणूनां कल्पिता इति ।
नह्यस्ति सम्भवो निरवयव एकस्तदैव तेनैव संयुक्तश्चासंयुक्तश्चेति, भावाभावयोरेकस्मिन्नद्वये विरोधात् । अविरोधे वा न क्वचिदपि विरोधोऽवकाशमासादयेत । प्रतीतिस्तु प्रदेशकल्पनयापि कल्प्यते । तदिदमुक्तम्
कल्पिताः प्रदेशा इति ।
तथा च सूद्धारेयमिति तामुद्धरति
कल्पितानामवस्तुत्वादिति ।
तृतीयां व्याख्यामाह
यथा चादिसर्ग इति ।
नन्वभिघातनोदनादयः प्रलयारम्भसमये कस्माद्विभागारम्भककर्महेतवो न सम्भवन्त्यत आह
नहि तत्रापि किञ्चिन्नियतमिति ।
सम्भवन्त्यभिघातादयः कदाचित्क्वचित् । न त्वपर्यायेण सर्वस्मिन् । नियमहेतोरभावादित्यर्थः ।
न प्रलयप्रसिद्ध्यर्थमिति ।
यद्यपि शरीरादिप्रलयारम्भेऽस्ति दुःखभोगस्तथाप्यसौ पृथिव्यादिप्रलये नास्तीत्यभिप्रेत्येदमुदितमिति मन्तव्यम् ॥ १२ ॥
समवायाभ्युपगमाच्च साम्यादनवस्थितेः ।
व्याचष्टे
समवायाभ्युपगमाच्चेति ।
न तावत्स्वतन्त्रः समवायोऽत्यन्तं भिन्नः समवायिभ्यां समवायिनौ घटयितुमर्हत्यतिप्रसङ्गात् । तस्मादनेन समवायिसम्बन्धिना सता समवायिनौ घटनीयौ, तथा च समवायस्य सम्बन्धान्तरेण समवायिसम्बन्धेऽभ्युपगम्यमानेऽनवस्था । अथासौ सम्बन्धिभ्यां सम्बन्धे न सम्बन्धान्तरमपेक्षते सम्बन्धिसम्बन्धनपरमार्थत्वात् । तथाहि नासौ भिन्नेऽपि सम्बन्धिनिरपेक्षो निरूप्यते । न च तस्मिन् सति समबन्धिनावसम्बन्धिनौ भवतः । तस्मात्स्वभावादेव समवायः समवायिनोर्न सम्बन्धान्तरेणेति नानवस्थेति चोदयति
नन्विहप्रत्ययग्राह्या इति ।
परिहरति
नेत्युच्यते ।
संयोगोऽप्येवमिति ।
तथाहिसंयोगोऽपि सम्बन्धिसम्बन्धनपरमार्थः । नच भिन्नोऽपि संयोगिभ्यां विना निरूप्यते । नच तस्मिन् सति संयोगिनावसंयोगिनौ भवत इति तुल्यचर्चः । यद्युच्येत गुणः संयोगः, नच द्रव्यासमवेतो गुणो भवति, न चास्य समवायं विना समवेतत्वं, तस्मात्संयोगस्यास्ति समवाय इति शङ्कामपाकरोति
नच गुणत्वादिति ।
यद्यसमवायेऽस्यागुणत्वं भवति कामं भवतु न नः काचित्क्षतिः, तदिदमुक्तम्
गुणपरिभाषायाश्चेति ।
परमार्थतस्तु द्रव्याश्रयीत्युक्तम् । तच्च विनापि समवायं स्वरूपतः संयोगस्योपपद्यत एव । नच कार्यत्वात्समवाय्यसमवायिकारणापेक्षितया संयोगः समवायीति युक्तम् , अजसंयोगस्यातथात्वप्रसङ्गात् । अपि च समवायस्यापि सम्बन्ध्यधीनसद्भावस्य सम्बन्धिनश्चैकस्य द्वयोर्वा विनाशित्वेन विनाशित्वात्कार्यत्वम् । नह्यस्ति सम्भवो गुणो वा गुणगुणिनौ वावयवो वावयवावयविनौ वा न स्तोऽप्यस्ति च तयोः सम्बन्ध इति । तस्मात्कार्यः समवायः । तथा च यथैष निमित्तकारणमात्राधीनोत्पाद एवं संयोगोऽपि । अथ समवायोऽपि समवाय्यसमवायिकारणे अपेक्षते तथापि सैवानवस्थेति । तस्मात्समवायवत्संयोगोऽपि न सम्बन्धान्तरमपेक्षते । यद्युच्येत सम्बन्धिनावसौ घटयति नात्मानमपि सम्बन्धिभ्यां, तत्किमसावसम्बद्ध एव सम्बन्धिभ्याम् , एवं चेदत्यन्तभिन्नोऽसम्बद्धः कथं सम्बन्धिनौ सम्बन्धयेत् । सम्बन्धने वा हिमवद्विन्ध्यावपि सम्बन्धयेत् । तस्मात्संयोगः संयोगिनोः समवायेन सम्बद्ध इति वक्तव्यम् । तदेतत्समवायस्यापि समवायिसम्बन्धे समानमन्यत्राभिनिवेशात् । तथा चानवस्थेति भावः ॥ १३ ॥
नित्यमेव च भावात् ।
प्रवृत्तेरप्रवृत्तेर्वेति शेषः । अतिरोहितार्थमस्य भाष्यम् ॥ १४ ॥
रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ।
यत्किल भूतभौतिकानां मूलकारणं तद्रूपादिमान् परमाणुर्नित्य इति भवद्भिरभ्युपेयते, तस्य चेद्रूपादिमत्त्वमभ्युपेयेत परमाणुत्वनित्यत्वविरुद्धे स्थौल्यानित्यत्वे प्रसज्येयातां, सोऽयं प्रसङ्ग एकधर्माभ्युपगमे धर्मान्तरस्य । नियता प्राप्तिर्हि प्रसङ्गलक्षणं, तदनेन प्रसङ्गेन जगत्कारणप्रसिद्धये प्रवृत्तं साधनं रूपादिमन्नित्यपरमाणुसिद्धेः प्रच्याव्य ब्रह्मगोचरतां नीयते । तदेतद्वैशेषिकाभ्युपगमोपन्यासपूर्वकमाह
सावयवानां द्रव्याणामिति ।
परमाणुनित्यत्वसाधनानि च तेषामुपन्यस्य दूषयति
यच्च नित्यत्वे कारणमिति ।
सदिति
प्रागभावाद्व्यवच्छिनत्ति ।
अकारणवदिति
घटादेः ।
यदपि नित्यत्वे द्वितीयमिति ।
लब्धरूपं हि क्वचित्किञ्चिदन्यत्र निषिध्यते । तेनानित्यमिति लौकिकेन निषेधेनान्यत्र नित्यत्वसद्भावः कल्पनीयः, ते चान्ये परमाणव इति । तन्न । आत्मन्यपि नित्यत्वोपपत्तेः । व्यपदेशस्य च प्रतीतिपूर्वकस्य तदभावे निर्मूलस्यापि दर्शनात् । यथेह वटे यक्ष इति ।
यदपि नित्यत्वे तृतीयं कारणमविद्येति ।
यदि सतां परमाणूनां परिदृश्यमानस्थूलकार्याणां प्रत्यक्षेण कारणाग्रहणमविद्या तया नित्यत्वम् , एवं सति द्व्यणुकस्यापि नित्यत्वम् । अथाद्रव्यत्वे सतीति विशेष्येत तथा सति न द्व्यणुके व्यभिचारः, तस्यानेकद्रव्यत्वेनाविद्यमानद्रव्यत्वानुपपत्तेः । तथाप्यकारणवत्त्वमेव नित्यतानिमित्तमापद्येत, यतोऽद्रव्यत्वमविद्यमानकारणभूतद्रव्यत्वमुच्यते, तथा च पुनरुक्तमित्याह
तस्य चेति ।
अपि चाद्रव्यत्वे सति सत्त्वादित्यत एवेष्टार्थसिद्धेरविद्येति व्यर्थम् । अथाविद्यापदेन द्रव्यविनाशकारणद्वयाविद्यमानत्वमुच्यते, द्विविधो हि द्रव्यनाशहेतुरवयवविनाशोऽवयवव्यतिषङ्गविनाशश्च, तदुभयं परमाणौ नास्ति, तस्मान्नित्यः परमाणुः । नच सुखादिभिर्व्यभिचारः, तेषामद्रव्यत्वादित्याह
अथापीति ।
निराकरोति
नावश्यमिति ।
यदि हि संयोगसचिवानि बहूनि द्रव्याणि द्रव्यान्तरमारभेरन्निति प्रक्रिया सिध्येत्, सिध्येद् द्रव्यद्वयमेव( ? )तद्विनाशकारणमिति । नत्वेतदस्ति, द्रव्यस्वरूपापरिज्ञानात् । न तावत्तन्त्वाधारस्तद्व्यतिरिक्तः पटो नामास्ति यः संयोगसचिवैस्तन्तुभिरारभ्येतेत्युक्तमधस्तात् । षट्पदार्थाश्च दूषयन्नग्रे वक्ष्यति । किन्तु कारणमेव विशेषवदवस्थान्तरमापद्यमानं कार्यं, तच्च सामान्यात्मकम् । तथाहि मृद्वा सुवर्णं वा सर्वेषु घटरुचकादिष्वनुगतं सामान्यमनुभूयते । न चैते घटरुचकादयो मृत्सुवर्णाभ्यां व्यतिरिच्यन्त इत्युक्तम् । अग्रे च वक्ष्यामः । तस्मान्मृत्सुवर्णे एव तेन तेनाकारेण परिणममाने घट इति च रुचक इति च कपालशर्कराकणमिति च शकलकणिकाचूर्णमिति च व्याख्यायेते । तत्र तत्रोपादानयोर्मृत्सुवर्णयोः प्रत्यभिज्ञानात् । न तु घटादयो वा कपालादिषु कपालादयो वा घटादिषु च रुचकादयो वा शकलादिषु शकलादयो वा रुचकादिषु प्रत्यभिज्ञायन्ते यत्र कार्यकारणभावो भवेत् । न च विनश्यन्तमेव घटक्षणं प्रतीत्य कपालक्षणोऽनुपादान एवोत्पद्यते तत्किमुपादानप्रत्यभिज्ञानेनेति वक्तव्यम् , एतस्या अपि वैनाशिकप्रक्रियाया उपरिष्टान्निराकरिष्यमाणत्वात् । तस्मादुपजनापायधर्माणो विशेषावस्थाः सामान्यस्योपादेयाः, सामान्यात्मा तूपादानम् । एवं व्यवस्थिते यथा सुवर्णद्रव्यं काठिन्यावस्थामपहाय द्रवावस्थया परिणतं, न च तत्रावयवविभागः सन्नपि द्रवत्वे कारणं, परमाणूनां भवन्मते तदभावेन द्रवत्वानुपपत्तेः, तस्माद्यथा परमाणु द्रव्यमग्निसंयोगात्काठिन्यमपहाय द्रवत्वेना परिणमते, नच काठिन्यद्रवत्वे परमाणोरतिरिच्येते, एवं मृद्वा सुवर्णं वा सामान्यं पिण्डावस्थामपहाय कुलालहेमकारादि व्यापाराद्घटरुचकीद्यवस्थामापद्यते । न त्ववयवविनाशात्तत्संयोगविनाशाद्वा विनष्टुमर्हन्ति घटरुचकादयः । नहि कपालादयोऽस्योपादानं तत्संयोगो वासमवायिकारणमपि तु सामान्यमुपादानं, तच्च नित्यम् । नच तत्संयोगसचिवमेकत्वात् , संयोगस्य द्विष्ठत्वेनैकस्मिन्नभावात् । तस्मात्सामान्यस्य परमार्थसतोऽनिर्वाच्या विशेषावस्थास्तदधिष्ठाना भुजङ्गादय इव रज्ज्वाद्युपादानामुपजनापायधर्माण इति साम्प्रतम् । प्रकृतमुपसंहरति
तस्मादिति ॥ १५ ॥
उभयथा च दोषात् ।
अनुभूयते हि पृथिवी गन्धरूपरसस्पर्शात्मिका स्थूला, आपो रसरूपस्पर्शात्मिकाः सूक्ष्माः, रूपस्पर्शात्मकं तेजः सूक्ष्मतरं, स्पर्शात्मको वायुः सूक्ष्मतमः । पुराणेऽपि स्मर्यते “आकाशं शब्दमात्रं तु स्पर्शमात्रं समाविशत् । द्विगुणस्तु ततो वायुः शब्दस्पर्शात्मकोऽभवत् ॥ १ ॥ रूपं तथैवाविशतः शब्दस्पर्शगुणावुभौ । त्रिगुणस्तु ततो वह्निः स शब्दस्पर्शवान् भवेत् ॥ २ ॥ शब्दः स्पर्शश्च रूपं च रसमात्रं समाविशत् । तस्माच्चतुर्गुणा आपो विज्ञेयास्तु रसात्मिकाः ॥ ३ ॥ शब्दः स्पर्शश्च रूपं च रसश्चेद्गन्धमाविशत् । संहतान् गन्धमात्रेण तानाचष्टे महीमिमाम् ॥ ४ ॥ तस्मात्पञ्चगुणा भूमिः स्थूला भूतेषु दृश्यते । शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ॥ ५ ॥ परस्परानुप्रवेशाद्धारयन्ति परस्परम् ।” तेन गन्धादयः परस्परं संहन्यमानाः पृथिव्यादयः । तथा च यथायथा संहन्यमानानामुपचयस्तथातथा संहतस्य स्थौल्यं, यथायथापचयस्तथातथा सौक्ष्म्यतारतम्यं, तदेवमनुभवागमाभ्यामवस्थितमर्थं वैशेषिकैरनिच्छद्भिरप्यशक्यापह्नवमाह
गन्धेति ।
अस्तु तावच्छब्दो वैशेषिकैस्तस्य पृथिव्यादिगुणत्वेनानभ्युपगमादिति चत्वारि भूतानि चतुस्त्रिद्व्येकगुणान्युदाहृतवान् । अनुभवागमसिद्धमर्थमुक्त्वा विकल्प्य दूषयति
तद्वत् ।
स्थूलपृथिव्यादिवत् ।
परमाणवोऽपीति ।
उपचितगुणानां मूर्त्युपचयात्
उपचितसंहन्यमानानां सङ्घातोपचयात् ।
अपरमाणुत्वप्रसङ्गः
स्थूलत्वादिति । यस्तु ब्रूते न गन्धादिसङ्घातः परमाणुरपि तु गन्धाद्याश्रयो द्रव्यं, नच गन्धादीनां तदाश्रयाणामुपचयेऽपि द्रव्यस्योपचयो भवितुमर्हत्यन्यत्वादिति, तं प्रत्याह
न चान्तरेणापि मूर्त्युपचयं
द्रव्यस्वरूपोपचयमित्यर्थः । कुतः ।
कार्येषु भूतेषु गुणोपचये मूर्त्युपचयदर्शनात् ।
नतावत्परमाणवो रूपतो गृह्यन्ते किन्तु कार्यद्वारा, कार्यं च न गन्धादिभ्यो भिन्नं, यदा न तदाधारतया गृह्यतेऽपि तु तदात्मकतया, तथा च तेषामुपचये तदुपचितं दृष्टमिति परमाणुभिरपि तत्कारणैरेवं भवितव्यं, तथा चापरमाणुत्वं स्थूलत्वादित्यर्थः । द्वितीयं विकल्पं दूषयति
अकल्प्यमाने तूपचितापचितगुणत्व इति ।
अथ सर्वे चतुर्गुणा इति ।
यद्यप्यस्मिन् कल्पे सर्वेषां स्थौल्यप्रसङ्गस्तथाप्यतिस्फुटतयोपेक्ष्य दूषयति
ततोऽप्स्वपीति ।
वायो रूपवत्त्वेन चाक्षुषत्वप्रसङ्ग इत्यपि द्रष्टव्यम् ॥ १६ ॥
अपरिग्रहाच्चात्यन्तमनपेक्षा ।
निगदव्याख्यातेन भाष्येण व्याख्यातम् । संप्रत्युत्सूत्रं भाष्यकृद्वैशेषिकतन्त्रं दूषयति
अपि च वैशेषिका इति ।
द्रव्याधीनत्वं
द्रव्याधीननिरूपणत्वम् । न हि यथा गवाश्वमहिषमातङ्गाः परस्परानधीननिरूपणाः स्वतन्त्रा निरूप्यन्ते, वह्न्याद्यनधीनोत्पत्तयो वा धूमादयो यथा वह्न्याद्यनधीननिरूपणाः स्वतन्त्रा निरूप्यन्ते, एवं गुणादयो न द्रव्याद्यनधीननिरूपणाः, अपि तु यदा यदा निरूप्यन्ते तदा तदा तदाकारतयैव प्रथन्ते न तु प्रथायामेषामस्ति स्वातन्त्र्यं, तस्मान्नातिरिच्यन्ते द्रव्यादपि तु द्रव्यमेव सामान्यरूपं तथा तथा प्रथत इत्यर्थः । द्रव्यकार्यत्वमात्रं गुणादीनां द्रव्याधीनत्वमिति मन्वानश्चोदयति
नन्वग्नेरन्यस्यापीति ।
परिहरति
भेदप्रतीतेरिति ।
न तदधीनोत्पादतां तदधीनत्वमाचक्ष्महे किन्तु तदाकारतां, तथा च न व्यभिचार इत्यर्थः ।
शङ्कते
गुणानां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्धत्वादिति यद्युच्येत ।
यत्र हि द्वावाकारिणौ विभिन्नाभ्यामाकाराभ्यामवगम्येते तौ सम्बद्धासम्बद्धौ वा वैयधिकरण्येन प्रतिभासेते, यथेह कुण्डे दधि यथा वा गौरश्व इति, न तथा गुणकर्मसामान्यविशेषसमवायाः, तेषां द्रव्याकारतयाकारान्तरायोगेन द्रव्यादाकारिणोऽन्यत्वेनाकारितया व्यवस्थानाभावात्सेयमयुतसिद्धिः । तथा च सामानाधिकरण्येन प्रथेत्यर्थः । तामिमामयुतसिद्धिं विकल्प्य दूषयति
तत्पुनरयुतसिद्धत्वमिति ।
तत्रापृथग्देशत्वं तदभ्युपगमेन विरुध्यत इत्याह
अपृथग्देशत्व इति ।
यदि तु संयोगिनोः कार्ययोः सम्बन्धिभ्यामन्यदेशत्वे युतसिद्धिस्ततोऽन्यायुतसिद्धिः, नित्ययोस्तु संयोगिनोर्द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वं युतसिद्धिस्ततोऽन्यायुतसिद्धिः, तथा चाकाशपरमाण्वोः परमाण्वोश्च संयुक्तयोर्युतसिद्धिः सिद्धा भवति । गुणगुणिनोश्च शौक्ल्यपटयोरयुतसिद्धिः सिद्धा भवति । नहि तत्र शौक्ल्यपटाभ्यां सम्बन्धिभ्यामन्यदेशौ शौक्ल्यपटौ । सत्यपि पटस्य तदन्यतन्तुदेशत्वे शौक्ल्यस्य सम्बन्धिपटदेशत्वात् । तन्न । नित्ययोरात्माकाशयोरजसंयोगे उभयस्या अपि युतसिद्धेरभावात् । न हि तयोः पृथगाश्रयाश्रितत्वमनाश्रयत्वात् । नापि द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वममूर्तत्वेनोभयोरपि निष्क्रियत्वात् । न चाजसंयोगो नास्ति तस्यानुमानसिद्धत्वात् । तथाहि आकाशमात्मसंयोगि, मूर्तद्रव्यसङ्गित्वात् , घटादिवदित्यनुमानम् । पृथगाश्रयाश्रयित्वपृथग्गतिमत्त्वलक्षणयुतसिद्धेरन्या त्वयुतसिद्धिर्यद्यपि नाभ्युपेतविरोधमावहति तथापि न सामानाधिकरण्यप्रथामुपपादयितुमर्हति । एवं लक्षणेऽपि हि समवाये गुणगुणिनोरभ्युपगम्यमाने सम्बद्धे इति प्रत्ययः स्यान्न तादात्म्यप्रत्ययः । अस्य चोपपादनाय समवाय आस्थीयते भवद्भिः । स चेदास्थितोऽपि न प्रत्ययमिममुपपादयेत्कृतं तत्कल्पनया । न च प्रत्यक्षः सामानाधिकरण्यप्रत्ययः समवायगोचरः, तद्विरुद्धार्थत्वात् । तद्गोचरत्वे हि पटे शुक्ल इत्येवमाकरः स्यान्न तु पटः शुक्ल इति । नच शुक्लपदस्य गुणविशिष्टगुणिपरत्वादेवं प्रथेति साम्प्रतम् । नहि शब्दवृत्त्यनुसारि प्रत्यक्षम् । नह्यग्निर्माणवक इत्युपचरिताग्निभावो माणवकः प्रत्यक्षेण दहनात्मना प्रथते । न चायमभेदविभ्रमः समवायनिबन्धनो भिन्नयोरपीति वाच्यम् , गुणादिसद्भावे तद्भेदे च प्रत्यक्षानुभवादन्यस्य प्रमाणस्याभावात्तस्य च भ्रान्तत्वे सर्वाभावप्रसङ्गात् । तदाश्रयस्य तु भेदसाधनस्य तद्विरुद्धतयोत्थानासम्भवात् । तदिदमुक्तम्
तस्य तादात्म्येनैव प्रतीयमानत्वादिति ।
अपि चायुतसिद्धशब्दोऽपृथगुत्पत्तौ मुख्यः, सा च भवन्मते न द्रव्यगुणयोरस्ति, द्रव्यस्य प्राक्सिद्धेर्गुणस्य च पश्चादुत्पत्तेः, तस्मान्मिथ्यावादोऽयमित्याह
युतसिद्धयोरिति ।
अथ भवतु कारणस्य युतसिद्धिः, कार्यस्य त्वयुतसिद्धिः कारणातिरेकेणाभावादित्याशङ्क्यान्यथा दूषयति
एवमपीति ।
सम्बन्धिद्वयाधीनसद्भावो हि सम्बन्धो नासत्येकस्मिन्नपि सम्बन्धिनि भवितुमर्हति । नच समवायो नित्यः स्वतन्त्र इति चोक्तमधस्तात् । नच कारणसमवायादनन्या कार्यस्योत्पत्तिरिति शक्यं वक्तुम् , एवं हि सति समवायस्य नित्यत्वाभ्युपगमात्कारणवैयर्थ्यप्रसङ्गः । उत्पत्तौ च समवायस्य सैव कार्यस्यास्तु किं समवायेन । सिद्धयोस्तु सम्बन्धे युतसिद्धिप्रसङ्गः । न चान्यायुतसिद्धिः सम्भवतीत्येतदुक्तम् । ततश्च यदुक्तं वैशेषिकैर्युतसिद्ध्यभावात् ।
कार्यकारणयोः संयोगविभागौ न विद्येते इतीदं दुरुक्तं स्यात् ।
युतसिद्ध्यभावस्यैवाभावात् । एतेनाप्राप्तिसंयोगौ युतसिद्धिरित्यपि लक्षणमनुपपन्नम् । मा भूदप्राप्तिः कार्यकारणयोः, प्राप्तिस्त्वनयोः संयोग एव कस्मान्न भवति, तत्रास्या असंयोगत्वायान्यायुतसिद्धिर्वक्तव्या । तथा च सैवोच्यतां किमनया परस्पराश्रयदोषग्रस्तया । न चान्या सम्भवतीत्युक्तम् । यद्युच्येताप्राप्तिपूर्विका प्राप्तिरन्यतरकर्मजोभयकर्मजा वा संयोगः, यथा स्थाणुश्येनयोर्मल्लयोर्वा । नच तन्तुपटयोः सम्बन्धस्तथा, उत्पन्नमात्रस्यैव पटस्य तन्तुसम्बन्धात् । तस्मात्समवाय एवायमित्यत आह
यथा चोत्पन्नमात्रस्येति ।
संयोगजोऽपि हि संयोगो भवद्भिरभ्युपेयते न क्रियाज एवेत्यर्थः । न चाप्राप्तिपूर्विकैव प्राप्तिः संयोगः, आत्माकाशसंयोगे नित्ये तदभावात् , कार्यस्य चोत्पन्नमात्रस्यैकस्मिन् क्षणे कारणप्राप्तिविरहाच्चेति । अपि च सम्बन्धिरूपातिरिक्ते सम्बन्धे सिद्धे तदवान्तरभेदाय लक्षणभेदोऽनुश्रीयेत स एव तु सम्बन्ध्यतिरिक्तोऽसिद्धः, उक्तं हि परस्तादतिरिक्तः सम्बन्धिभ्यां सम्बन्धोऽसम्बद्धो न सम्बन्धिनौ घटयितुमीष्टे । सम्बन्धिसम्बन्धे चानवस्थितिः । तस्मादुपपत्त्यनुभवाभ्यां न कार्यस्य कारणादन्यत्वम् , अपि तु कारणस्यैवायमनिर्वाच्यः परिणामभेद इति । तस्मात्कार्यस्य कारणादनतिरेकात् किं केन सम्बद्धं, संयोगस्य च संयोगिभ्यामनतिरेकात्कस्तयोः संयोग इत्याह
नापि संयोगस्येति ।
विचारासहत्वेनानिर्वाच्यतामस्यापरिभावयन्नाशङ्कते
सम्बन्धिशब्दप्रत्यव्यतिरेकेणेति ।
निराकरोति
न । एकत्वेऽपि स्वरूपबाह्यरूपापेक्षयेति ।
तत्तदनिर्वचनीयानेकविशेषावस्थाभेदापेक्षयैकस्मिन्नपि नानाबुद्धिव्यपदेशोपपत्तिरिति । यथैको देवदत्तः स्वगतविशेषापेक्षया मनुष्यो ब्राह्मणोऽवदातः, स्वगतावस्थाभेदापेक्षया बालो युवा स्थविरः, स्वक्रियाभेदापेक्षया श्रोत्रियः, परापेक्षया तु पिता पुत्रः पौत्रो भ्राता जामातेति । निदर्शनान्तरमाह
यथा चैकापि सती रेखेति ।
दार्ष्टान्तिके योजयति
तथा सम्बन्धिनोरिति ।
अङ्गुल्योर्नैरन्तर्यं संयोगः, दधिकुण्डयोरौत्तराधर्यं संयोगः । कार्यकारणयोस्तु तादात्म्येऽप्यनिर्वाच्यस्य कार्यस्य भेदं विवक्षित्वासम्बन्धिनोरित्युक्तम् ।
नापि सम्बन्धिविषयत्वे सम्बन्धशब्दप्रत्यययोः
इत्येतदप्यनिर्वाच्यभेदाभिप्रायम् । अपिचादृष्टवत्क्षेत्रज्ञसंयोगात्परमाणुमनसोश्चाद्यं कर्म भवद्भिरिष्यते । “अग्नेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनमणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानि”(वै.सू. ५-२-१२) इति वचनात् । न चाणुमनसोरात्मनाप्रदेशेन संयोगः सम्भवति । सम्भवे चाणुमनसोरात्मव्यापित्वात्परममहत्त्वेनानणुत्वप्रसङ्गात् । नच प्रदेशवृत्तिरनयोरात्मना संयोगोऽप्रदेशत्वादात्मनः, कल्पनायाश्च वस्तुतत्त्वव्यवस्थापनासहत्वादतिप्रसङ्गादित्याह
तथाण्वात्ममनसामिति ।
किञ्चान्यत् द्वाभ्यामणुभ्यां कारणाभ्यां सावयवस्य कार्यस्य द्व्यणुकस्याकाशेनेव संश्लेषानुपपत्तिः । संश्लेषः सङ्ग्रहो यत एकसम्बन्ध्याकर्षे सम्बन्ध्यन्तराकर्षो भवति तस्यानुपपत्तिरिति । अत एव संयोगादन्यः कार्यकारणद्रव्ययोराश्रयाश्रितभावोऽन्यथा नोपपद्यत इत्यवश्यं कल्पनीयः समवाय इति चेत् । निराकरोति
न ।
कुतः ।
इतरेतराश्रयत्वात् ।
तद्विभजते
कार्यकारणयोर्हीति ।
किञ्चान्यत् । परमाणूनामिति ।
ये हि परिच्छिन्नास्ते सावयवाः, यथा घटादयः । तथा च परमाणवः, तस्मात्सावयवा अनित्याः स्युः । अपरिच्छिन्नत्वे चाकाशादिवत्परमाणुत्वव्याघातः शङ्कते
यांस्त्वमिति ।
निराकरोति
न । स्थूलेति ।
किं सूक्ष्मत्वात्परमाणवो न विनश्यन्त्यथ निरवयवतया तत्र पूर्वस्मिन् कल्पे इदमुक्तम्
वस्तुभूतापीति ।
भवन्मते उत्तरं कल्पमाशङ्क्य निराकरोति
विनश्यन्तोऽप्यवयवविभागेनेति ।
यथा हि घृतसुवर्णादीनामविभज्यमानावयवानामपीति ।
यथा हि पिष्टपिण्डोऽविनश्यदवयवसंयोग एव प्रथते, प्रथमानश्चाश्वशफाकारतां नीयमानः पुरोडाशतामापद्यते, तत्र पिण्डो नश्यति पुरोडाशश्चोत्पद्यते, नहि तत्र पिण्डावयवसंयोगा विनश्यन्ति, अपि तु संयुक्ता एव सन्तः परं प्रथनेन नुद्यमाना अधिकदेशव्यापका भवन्ति, एवमग्निसंयोगेन सुवर्णद्रव्यावयवाः संयुक्ता एव सन्तो द्रवीभावमापद्यन्ते, नतु मिथो विभज्यन्ते । तस्माद्यथावयवसंयोगविनाशावन्तरेणापि सुवर्णपिण्डो विनश्यति, संयोगान्तरोत्पादमन्तरेण च सुवर्णे द्रव उपजायते, एवमन्तरेणाप्यवयवसंयोगविनाशं परमाणवो विनङ्क्ष्यन्त्यन्ये चोत्पत्स्यन्त इति सर्वमवदातम् ॥ १७ ॥
समुदाय उभयहेतुकेऽपि तदप्राप्तिः ।
अवान्तरसङ्गतिमाह
वैशेषिकराद्धान्त इति ।
वैशेषिकाः खल्वर्धवैनाशिकाः । ते हि परमाण्वाकाशादिक्कालात्ममनसां च सामान्यविशेषसमवायानां च गुणानां च केषाञ्चिन्नित्यत्वमभ्युपेत्य शेषाणां निरन्वयविनाशमुपयन्ति, तेन तेऽर्धवैनाशिकाः । तेन तदुपन्यासो वैनाशिकत्वसाम्येन सर्ववैनाशिकान् स्मारयतीति तदनन्तरं वैनाशिकमतनिराकरणमिति । अर्धवैनाशिकानां स्थिरभाववादिनां समुदायारम्भ उपपद्येतापि, क्षणिकभाववादिनां त्वसौ दूरापेत इत्युपपादयिष्यामः । तेन नतरामित्युक्तम् । तदिदं दूषणाय वैनाशिकमतमुपन्यसितुं तत्प्रकारभेदानाह
स च बहुप्रकार इति ।
वादिवैचित्र्यात्खलु, केचित्सर्वास्तित्वमेव राद्धान्तं प्रतिपद्यन्ते केचिज्झानमात्रास्तित्वम् । केचित्सर्वशून्यताम् । अथ त्वत्रभवतां सर्वज्ञानां तत्त्वप्रतिपत्तिभेदो न सम्भवति, तत्त्वस्यैकरूप्यादित्येतदपरितोषेणाह
विनेयभेदाद्वा ।
हीनमध्यमोत्कृष्टधियो हि शिष्या भवन्ति । तत्र ये हीनमतयस्ते सर्वास्तित्ववादेन तदाशयानुरोधाच्छून्यतायामवतार्यन्ते । ये तु मध्यमास्ते ज्ञानमात्रास्तित्वेन शून्यतायामवतार्यन्ते । ये तु प्रकृष्टमतयस्तेभ्यः साक्षादेव शून्यतातत्त्वं प्रतिपाद्यते । यथोक्तं बोधिचित्तविवरणे -“देशना लोकनाथानां सत्त्वाशयवशानुगाः । भिद्यन्ते बहुधा लोक उपायैर्बहुभिः पुनः ॥ १ ॥ गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणा । भिन्नापि देशनाभिन्ना शून्यताद्वयलक्षणा” ॥ २ ॥ इति । यद्यपि वैभाषिकसौत्रान्तिकयोरवान्तरमतभेदोऽस्ति, तथापि सर्वास्तितायामस्ति सम्प्रतिपत्तिरित्येकीकृत्योपन्यासः । तथा च त्रित्वमुपपन्नमिति । पृथिवी स्वरस्वभावा, आपः स्नेहस्वभावाः, अग्निरुष्णस्वभावः, वायुरीरणस्वभावः । ईरणं प्रेरणम् । भूतभौतिकानुक्त्वा चित्तचैत्तिकानाह
तथा रूपेति ।
रूप्यन्ते एभिरिति रूप्यन्त इति च व्युत्पत्या सविषयाणीन्द्रियाणि रूपस्कन्धः । यद्यपि रूप्यमाणाः पृथिव्यादयो बाह्यास्तथापि कायस्थत्वाद्वा इन्द्रियसम्बन्धाद्वा भवन्त्याध्यात्मिकाः । विज्ञानस्कन्धोऽहमित्याकारो रूपादिविषय इन्द्रियादिजन्यो वा दण्डायमानः । वेदनास्कन्धो या प्रियाप्रियानुभयविषयस्पर्शे सुखदुःखतद्रहितविशेषावस्था चित्तस्य जायते स वेदनास्कन्धः । संज्ञास्कन्धः सविकल्पप्रत्ययः संज्ञासंसर्गयोग्यप्रतिभासः, यथा डित्थः कुण्डली गौरो ब्राह्मणो गच्छतीत्येवंजातीयकः । संस्कारस्कन्धो रागादयः क्लेशाः, उपक्लेशाश्च मदमानादयः, धर्माधर्मौ चेति । तदेतेषां समुदायः पञ्चस्कन्धी ।
तस्मिन्नुभयहेतुकेऽपीति ।
बाह्ये पृथिव्या द्व्यणुहेतुके भूतभौतिकसमुदाये, रूपविज्ञानादिस्कन्धहेतुके च समुदाय आध्यात्मिकेऽभिप्रेयमाणे तदप्राप्तिस्तस्य समुदायस्यायुक्तता । कुतः ।
समुदायिनामचेतनत्वात् ।
चेतनो हि कुलालादिः सर्वं मृद्दण्डाद्युपसंहृत्य समुदायात्मकं घटमारचयन् दृष्टः । नह्यसति मृद्दण्डादिव्यापारिणि विदुषि कुलाले स्वयमचेतना मृद्दण्डादयो व्यापृत्य जातु घटमारचयन्ति । न चासति कुविन्दे तन्तुवेमादयः पटं वयन्ते । तस्मात्कार्योत्पादस्तदनुगुणकारणसमवधानाधीनस्तदभावे न भवति । कार्योत्पादानुगुणं च कारणसमवधानं चेतनप्रेक्षाधीनमसत्यां चेतनप्रेक्षायां न भवितुमुत्सहत इति कार्योत्पत्तिश्चेतनप्रेक्षाधीनत्वव्याप्ता व्यापकविरुद्धोपलब्ध्या चेतनानधिष्ठितेभ्यः कारणेभ्यो व्यावर्तमाना चेतनाधिष्ठितत्व एवावतिष्ठत इति प्रतिबन्धसिद्धिः । यद्युच्येत अद्धा चेतनाधीनैव कार्योत्पत्तिः, अस्ति तु चित्तं चेतनं, तद्धीन्द्रियादिविषयस्पर्शे सत्यभिज्वलत्तत्कारणचक्रं यथायथा कार्याय पर्याप्तं तथातथा प्रकाशयदचेतनानि कारणान्यधिष्ठाय कार्यमभिनिर्वर्तयतीति, तत्राह
चित्ताभिज्वलनस्य च समुदायसिद्ध्यधीनत्वात् ।
न खलु बाह्याभ्यन्तरसमुदायसिद्धिमन्तरेण चित्ताभिज्वलनं, ततस्तु तामिच्छन् दुरुत्तरमितरेतराश्रयमाविशेदिति । न च प्राग्भवीया चित्ताभिदीप्तिरुत्तरसमुदायं घटयति । घटनसमये तस्याश्चिरातीतत्वेन सामर्थ्यविरहात् । अस्मद्राद्धान्तवदन्यस्यचेतनस्य भोक्तुः प्रशासितुर्वा स्थिरस्य सङ्घातकर्तुरनभ्युपगमात् । कारणविन्यासभेदं हि विद्वान् कर्ता भवति । न चान्वयव्यतिरेकावन्तरेण तद्विन्यासभेदं वेदितुमर्हति । नच सक्षणिकोऽन्वयव्यतिरेककालानवस्थायी ज्ञातुमन्वयव्यतिरेकावुत्सहते । अत उक्तम्
स्थिरस्येति ।