अद्वैतशारदा

भामतीव्याख्या

स्मृत्यधिकरणविषयाः (१)

व्याख्याः

अथ द्वितीयोऽध्यायः ।
स्मृत्य­न­व­का­श­दो­ष­प्र­सङ्ग इति चेन्ना­न्य­स्मृ­त्य­न­व­का­श­दो­ष­प्र­स­ङ्गात् ।

वृत्त­व­र्ति­ष्य­मा­णयोः सम­न्व­य­वि­रो­ध­प­रि­हा­र­ल­क्ष­णयोः सङ्ग­ति­प्र­द­र्श­नाय सुखग्रहणाय चैतयोः सङ्क्षे­प­त­स्ता­त्प­र्या­र्थ­माह -
प्रथमेऽध्याय इति ।
अन­पे­क्ष­वे­दा­न्त­वा­क्य­स्व­र­स­सि­द्ध­स­म­न्व­य­ल­क्ष­णस्य विरो­ध­त­त्प­रि­हा­रा­भ्या­मा­क्षे­प­स­मा­धा­न­क­र­णा­द­नेन लक्षणेनास्ति विषयविषयिभावः सम्बन्धः । पूर्वलक्षणार्थो हि विष­य­स्त­द्गो­च­र­त्वा­दा­क्षे­प­स­मा­धा­न­यो­रेष च विषयीति । तदे­व­म­ध्या­य­म­व­तार्य तद­व­य­व­म­धि­क­र­ण­म­व­ता­र­यति -

तत्र प्रथमं तावदिति ।
तन्त्र्यते व्युत्पाद्यते मोक्ष­सा­ध­न­म­ने­नेति तन्त्रं, तदेवाख्या यस्याः सा स्मृति­स्त­न्त्राख्या परमर्षिणा कपिलेनादिविदुषा प्रणीता । अन्या­श्चा­सु­रि­प­ञ्च­शि­खा­दि­प्र­णीताः स्मृत­य­स्त­द­नु­सा­रिण्यः । न खल्वमूषां स्मृतीनां मन्वा­दि­स्मृ­ति­व­द­न्योऽ­व­काशः शक्यो वदितुमृते मोक्ष­सा­ध­न­प्र­का­श­नात् । तदपि चेन्ना­भि­द­ध्यु­र­न­व­काशाः सत्योऽप्रमाणं प्रसज्येरन् । तस्मा­त्त­द­वि­रो­धेन कथ­ञ्चि­द्वे­दान्ता व्याख्यातव्याः । पूर्व­प­क्ष­मा­क्षि­पति

कथं पुन­री­क्ष­त्या­दिभ्य इति ।
प्रसाधितं खलु धर्ममीमांसायां “विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्”(जै. सू. १ । ३ । ३) इत्यत्र, यथा श्रुति­वि­रु­द्धानां स्मृतीनां दुर्ब­ल­त­या­न­पे­क्ष­णी­यत्वं तस्मान्न दुर्बलानुरोधेन बलीयसीनां श्रुतीनां युक्तमुपवर्णनम् , अपि तु स्वतः­सि­द्ध­प्र­मा­ण­भावाः श्रुतयो दुर्बलाः स्मृतीर्बाधन्त एवेति युक्तम् । पूर्वपक्षी समाधत्ते -

भवेदयमिति ।
प्रसा­धि­तोऽ­प्यर्थः श्रद्धा­ज­डा­न्प्रति पुनः प्रसाध्यत इत्यर्थः ।

आपाततः समाधानमुक्त्वा परमसमाधानमाह पूर्वपक्षी -
कपिलप्रभृतीनां चार्षमिति ।
अयमस्याभिसन्धिः - ब्रह्म हि शास्त्रस्य कारणमुक्तं “शास्त्र­यो­नि­त्वात्”(ब्र.सू. १-१-३) इति, तेनैष वेद­रा­शि­र्ब्र­ह्म­प्र­भवः सन्ना­जा­न­सि­द्धा­ना­व­र­ण­भू­ता­र्थ­मा­त्र­गो­च­र­त­द्बु­द्धि­पू­र्वको यथा तथा कपिलादीनामपि श्रुति­स्मृ­ति­प्र­थि­ता­जा­न­सि­द्ध­भा­वानां स्मृत­योऽ­ना­व­र­ण­स­र्व­वि­ष­य­त­द्बु­द्धि­प्र­भवा इति न श्रुति­भ्योऽ­मू­षा­मस्ति कश्चिद्विशेषः । न चैताः स्फुटतरं प्रधा­ना­दि­प्र­ति­पा­द­न­पराः शक्य­न्तेऽ­न्य­थ­यि­तुम् । तस्मा­त्त­द­नु­रो­धेन कथञ्चिच्छ्रुतय एव नेतव्याः । अपि च तर्कोऽपि कपि­ला­दि­स्मृ­ति­र­नु­म­न्यते, तस्मादप्येतदेव प्राप्तम् । एवं प्राप्त आह

तस्य समाधिरिति ।
यथा हि श्रुतीनामविगानं ब्रह्मणि गतिसामान्यात् , नैवं स्मृती­ना­म­वि­गा­न­मस्ति प्रधाने, तासां भूयसीनां ब्रह्मो­पा­दा­न­त्व­प्र­ति­पा­द­न­प­राणां तत्र तत्र दर्शनात् । तस्मा­द­वि­गा­ना­च्छ्रौत एवार्थ आस्थेयो न तु स्मार्तो विगानादिति । तत्किमिदानीं पर­स्प­र­वि­गा­ना­त्सर्वा एव स्मृतयोऽवहेया इत्यत आह

विप्रतिपत्तौ च स्मृतीनामिति ।

न चाती­न्द्रि­या­र्था­निति ।
अर्वा­ग्दृ­ग­भि­प्रा­यम् ।

शङ्कते
शक्यं कपिलादीनामिति ।

निराकरोति
न । सिद्धेरपीति ।
न तावत्कपिलादय ईश्व­र­व­दा­जा­न­सिद्धाः, किन्तु विनि­श्च­त­वे­द­प्रा­मा­ण्यानां तेषां तदनुष्ठानवतां प्राचि भवेऽ­स्मि­ञ्ज­न्मनि सिद्धिः, अत एवाजानसिद्धा उच्यन्ते । यदस्मिन् जन्मनि न तैः सिद्ध्यु­पा­योऽ­नु­ष्ठितः प्राग्भ­वी­य­वे­दा­र्था­नु­ष्ठा­न­ल­ब्ध­ज­न्म­त्वा­त्त­त्सि­द्धी­नाम् । तथा चाव­धृ­त­वे­द­प्रा­मा­ण्यानां तद्वि­रु­द्धा­र्था­भि­धानं तद­प­बा­धि­त­म­प्र­मा­ण­मेव । अप्रमाणेन च न वेदा­र्थोऽ­ति­श­ङ्कितुं युक्तः प्रमा­ण­सि­द्ध­त्वा­त्तस्य । तदेवं वेदविरोधे सिद्ध­व­च­न­म­प्र­मा­ण­मुक्त्वा सिद्धानामपि परस्परविरोधे तद्वचनादनाश्वास इति पूर्वोक्तं स्मारयति

सिद्ध­व्य­पा­श्र­य­क­ल्प­ना­या­म­पीति ।

श्रद्धा­ज­डा­न्बो­ध­यति
पर­त­न्त्र­प्र­ज्ञ­स्या­पीति ।

ननु श्रुति­श्चे­त्क­पि­ला­दी­ना­म­ना­व­र­ण­भू­ता­र्थ­गो­च­र­ज्ञा­ना­ति­शयं बोधयति, कथं तेषां वचनमप्रमाणं, तदप्रामाण्ये श्रुते­र­प्य­प्रा­मा­ण्य­प्र­स­ङ्गा­दि­त्यत आह
या तु श्रुतिरिति ।
न तावत्सिद्धानां पर­स्प­र­वि­रु­द्धानि वचांसि प्रमाणं भवितुमर्हन्ति । नच विकल्पो वस्तुनि, सिद्धे तदनुपपत्तेः । अनु­ष्ठा­न­म­ना­ग­तो­त्पाद्यं विकल्प्यते, न सिद्धम् । तस्य व्यवस्थानात् । तस्मा­च्छु­ति­सा­मा­न्य­मा­त्रेण भ्रमः साङ्ख्यप्रणेता कपिलः श्रौत इति । स्यादेतत् । कपिल एव श्रौतो नान्ये मन्वादयः । ततश्च तेषां स्मृतिः कपि­ल­स्मृ­ति­वि­रु­द्धा­व­हे­ये­त्यत आह

भवति चान्या मनोरिति ।

तस्या­श्चा­ग­मा­न्त­र­सं­वा­द­माह
महाभारतेऽपि चेति ।

न केवलं मनोः स्मृतिः स्मृत्य­न्त­र­सं­वा­दिनी, श्रुति­सं­वा­दि­न्य­पी­त्याह
श्रुतिश्चेति ।

उपसंहरति
अत इति ।
स्यादेतत् । भवतु वेदविरुद्धं कापिलं वचस्तथापि द्वयोरपि पुरु­ष­बु­द्धि­प्र­भ­व­तया को विनिगमनायां हेतुर्यतो वेदविरोधि कापिलं वचो नादरणीयमित्यत आह

वेदस्य हि निरपेक्षमिति ।
अय­म­भि­स­न्धिः­सत्यं शास्त्र­यो­नि­री­श्व­र­स्त­था­प्यस्य न शास्त्र­क्रि­या­या­मस्ति स्वातन्त्र्यं कपिलादीनामिव । स हि भगवान् यादृशं पूर्वस्मिन् सर्गे चकार शास्त्रं तद­नु­सा­रे­णा­स्मि­न्नपि सर्गे प्रणीतवान् । एवं पूर्वतरानुसारेण पूर्वस्मिन् पूर्वतमानुसारेण च पूर्वतर इत्यनादिरयं शास्त्रेश्वरयोः कार्यकारणभावः । तत्रेश्वरस्य न शास्त्रा­र्थ­ज्ञा­न­पूर्वा शास्त्रक्रिया येनास्य कपि­ला­दि­व­त्स्वा­तन्त्र्यं भवत् । शास्त्रा­र्थ­ज्ञानं चास्य स्वयमाविर्भवदपि न शास्त्र­का­र­ण­ता­मु­पैति, द्वयो­र­प्य­प­र्या­ये­णा­वि­र्भा­वात् । शास्त्रं च स्वतोबोधकतया पुरु­ष­स्वा­त­न्त्र्या­भा­वेन निर­स्त­स­म­स्त­दो­षा­शङ्कं सदनपेक्षं साक्षादेव स्वार्थे प्रमाणम् । कपिलादिवचांसि तु स्वत­न्त्र­क­पि­ला­दि­प्र­णे­तृ­काणि तद­र्थ­स्मृ­ति­पू­र्व­काणि, तदर्थस्मृतयश्च तद­र्था­नु­भ­व­पूर्वाः । तस्मा­त्ता­सा­म­र्थ­प्र­त्य­या­ङ्ग­प्रा­मा­ण्य­वि­नि­श्च­याय याव­त्स्मृ­त्य­नु­भवौ कल्पेते तावत्स्वतः सिद्ध­प्र­मा­ण­भा­व­याऽ­न­पे­क्ष­यैव श्रुत्या स्वार्थो विनिश्चायित इति शीघ्र­त­र­प्र­वृ­त्तया श्रुत्या स्मृत्यर्थो बाध्यत इति युक्तम् ॥ १ ॥

इतरेषां चानुपलब्धेः ।
प्रधानस्य ताव­त्क्व­चि­द्वे­द­प्र­देशे वाक्याभासानि दृश्यन्ते, तद्विकाराणां तु महदादीनां तान्यपि न सन्धि । नच भूते­न्द्रि­या­दि­व­न्म­ह­दा­दयो लोकसिद्धाः । तस्मा­दा­त्य­न्ति­का­त्प्र­मा­णा­न्त­रा­सं­वा­दा­त्प्र­मा­ण­मू­ल­त्वाच्च स्मृते­र्मू­ला­भा­वा­द­भावो वन्ध्याया इव दौहि­त्र्य­स्मृतेः । न चार्षज्ञानमत्र मूलमुपपद्यत इति युक्तम् । तस्मान्न कापिलस्मृतेः प्रधा­नो­पा­दा­नत्वं जगत इति सिद्धम् ॥ २ ॥

एतेन योगः प्रत्युक्तः ।
नानेन योगशास्त्रस्य हैर­ण्य­ग­र्भ­पा­त­ञ्ज­लादेः सर्वथा प्रामाण्यं निराक्रियते, किन्तु जग­दु­पा­दा­न­स्व­त­न्त्र­प्र­धा­न­त­द्वि­का­र­म­ह­द­ह­ङ्का­र­प­ञ्च­त­न्मा­त्र­गो­चरं प्रामाण्यं नास्तीत्युच्यते । न चैता­व­तै­षा­म­प्रा­माण्यं भवितुमर्हति । यत्पराणि हि तानि तत्रा­प्रा­मा­ण्येऽ­प्रा­मा­ण्य­म­श्रु­वी­रन् । न चैतानि प्रधा­ना­दि­स­द्भा­व­प­राणि । किन्तु योग­स्व­रू­प­त­त्सा­ध­न­त­द­वा­न्त­र­फ­ल­वि­भू­ति­त­त्प­र­म­फ­ल­कै­व­ल्य­व्यु­त्पा­द­न­प­राणि । तच्च किञ्चि­न्नि­मि­त्ती­कृत्य व्युत्पाद्यमिति प्रधानं सविकारं निमित्तीकृतं, पुराणेष्विव सर्ग­प्र­ति­स­र्ग­वं­श­म­न्व­न्त­र­वं­शा­नु­च­रितं तत्प्र­ति­पा­द­न­प­रेषु, न तु तद्विवक्षितम् । अन्यपरादपि चान्यनिमित्तं तत्प्र­ती­य­मा­न­म­भ्यु­पे­येत, यदि न मानान्तरेण विरुध्येत । अस्ति तु वेदा­न्त­श्रु­ति­भि­रस्य विरोध इत्युक्तम् । तस्मा­त्प्र­मा­ण­भू­ता­दपि योगशास्त्रान्न प्रधा­ना­दि­सिद्धिः । अत एव योगशास्त्रं व्युत्पादयिताह स्म भगवान् वार्षगण्यः “गुणानां परमं रूपं न दृष्टिपथमृच्छति । यत्तु दृष्टि­प­थ­प्राप्तं तन्मायैव सुतुच्छकम् ॥' इति । योगं व्युत्पि­पा­द­यि­षता निमि­त्त­मा­त्रे­णेह गुणा उक्ताः, न तु भावतः, तेषा­म­ता­त्त्वि­क­त्वा­दि­त्यर्थः । अलोकसिद्धानामपि प्रधा­ना­दी­ना­म­ना­दि­पू­र्व­प­क्ष­न्या­या­भा­सो­त्प्रे­क्षि­ता­ना­म­नु­वा­द्य­त्व­मु­प­प­न्नम् । तद­ने­ना­भि­स­न्धि­नाह

एतेन साङ्ख्य­स्मृ­ति­प्र­त्या­ख्या­नेन योग­स्मृ­ति­र­पि­प्र­धा­ना­दि­वि­ष­य­त­या­प्र­त्या­ख्याता द्रष्टव्येति ।

अधि­क­र­णा­न्त­रा­र­म्भ­मा­क्षि­पति
नन्वेवं सति समा­न­न्या­य­त्वा­दिति ।

समाधत्ते
अस्त्य­त्रा­भ्य­धि­का­शङ्का ।
मा नाम साङ्ख्य­शा­स्त्रा­त्प्र­धा­न­सत्ता विज्ञायि । योगशास्त्रात्तु प्रधानादिसत्ता विज्ञापयिष्यते बहुलं हि योगशास्त्राणां वेदेन सह संवादो दृश्यते । उपनिषदुपायस्य च तत्त्वज्ञानस्य योगापेक्षास्ति । न जातु योग­शा­स्त्र­वि­हितं यम­नि­य­मा­दि­ब­हि­र­ङ्ग­मु­पा­य­म­प­हा­या­न्त­रङ्गं च धार­णा­दि­क­म­न्त­रे­णौ­प­नि­ष­दा­त्म­त­त्त्व­सा­क्षा­त्कार उदेतुमर्हति । तस्मादौपनिषदेन तत्त्व­ज्ञा­ने­ना­प­क्ष­णा­त्सं­वा­द­बा­हु­ल्याच्च वेदे­ना­ष्ट­का­दि­स्मृ­ति­व­द्यो­ग­स्मृतिः प्रमाणम् । ततश्च प्रमा­णा­त्प्र­धा­ना­दि­प्र­ती­ते­र्ना­श­ब्द­त्वम् । नच तदप्रमाणं प्रधानादौ, प्रमाणं च यमादाविति युक्तम् । तत्रा­प्रा­मा­ण्येऽ­न्य­त्रा­प्य­ना­श्वा­सात् । यथाहुः “प्रसरं न लभन्ते हि यावत्क्वचन मर्कटाः । नाभिद्रवन्ति ते तावत्पिशाचा वा स्वगोचरे ॥' इति । सेयं लब्धप्रसरा प्रधानादौ योगा­प्र­मा­ण­ता­पि­शाची सर्वत्रैव दुर्वारा भवेदित्यस्याः प्रसरं निषेधता प्रधा­ना­द्य­भ्यु­पे­य­मिति नाशब्दं प्रधानमिति शङ्कार्थः । सा इय­म­प्य­धि­का­श­ङ्का­ति­र्दे­शेन निवर्त्यते । निवृत्तिहेतुमाह

अर्थै­क­दे­श­स­म्प्र­ति­प­त्ता­व­पीति ।
यदि प्रधा­ना­दि­स­त्ता­परं योगशास्त्रं भवेत् , भवे­त्प्र­त्य­क्ष­वे­दा­न्त­श्रु­ति­वि­रो­धे­ना­प्र­मा­णम् । तथा च तद्विहितेषु यमा­दि­ष्व­प्य­ना­श्वासः स्यात् । तस्मान्न प्रधानादिपरं तत् , किन्तु तन्नि­मि­त्ती­कृत्य योग­व्यु­त्पा­द­न­प­र­मि­त्यु­क्तम् । न चावि­ष­येऽ­प्रा­माण्यं विषयेऽपि प्रामा­ण्य­मु­प­हन्ति । नहि चक्षू रसादावप्रमाणं रूपेऽप्यप्रमाणं भवितुमर्हति । तस्मा­द्वे­दा­न्त­श्रु­ति­वि­रो­धा­त्प्रा­धा­ना­दि­र­स्या­वि­षयो न त्वप्रा­मा­ण्य­मिति परमार्थः । स्यादेतत् । अध्यात्मविषयाः सन्ति सहस्रं स्मृतयो बौद्धा­र्ह­त­का­पा­लि­का­दीनां, ता अपि कस्मान्न निराक्रियन्त इत्यत आह

सतीष्वपीति ।
तासु खलु बहुलं वेदा­र्थ­वि­सं­वा­दि­नीषु शिष्टानादृतासु कैश्चिदेव तु पुरुषापसदैः पशु­प्रा­यै­र्म्ले­च्छा­दिभिः परिगृहीतासु वेद­मू­ल­त्वा­श­ङ्कैव नास्तीति न निराकृताः, तद्विपरीतास्तु साङ्ख्य­यो­ग­स्मृ­तय इति ताः प्रधानादिपरतया व्युदस्यन्त इत्यर्थः ।

न साङ्ख्यज्ञानेन वेद­नि­र­पे­क्षे­णेति ।
प्रधा­ना­दि­वि­ष­ये­णे­त्यर्थः ।

द्वैतिनो हि ते साङ्ख्या योगाश्च ।
ये प्रधानादिपरतया तच्छास्त्रं व्याचक्षत इत्यर्थः । सङ्ख्या सम्य­ग्बु­द्धि­र्वै­दिकी तया वर्तन्त इति साङ्ख्याः । एवं योगो ध्यान­मु­पा­यो­पे­य­यो­र­भे­द­वि­व­क्षया । चित्त­वृ­त्ति­नि­रोधो हि योगस्तस्योपायो ध्यानं प्रत्ययैकतानता । एतच्चोपलक्षणम् । अन्येऽपि यमनियमादयो बाह्या आन्तराश्च धारणादयो योगोपाया द्रष्टव्याः । एते­ना­भ्यु­प­ग­त­वे­द­प्रा­मा­ण्यानां कण­भ­क्षा­क्ष­च­र­णा­दीनां सर्वाणि तर्कस्मरणानीति योजना । सुगममन्यत् ॥ ३ ॥

न विलक्षणत्वादस्य तथात्वं च शब्दात् ।

अवा­न्त­र­स­ङ्ग­ति­माह
ब्रह्मास्य जगतो निमित्तकारणं प्रकृ­ति­श्चे­त्यस्य पक्षस्येति ।

चोदयति
कुतः पुनरिति ।
समानविषयत्वे हि विरोधो भवेत् । न चेहास्ति समानविषयता, धर्म­व­द्ब्र­ह्म­णोऽपि माना­न्त­रा­वि­ष­य­त­या­त­र्क्य­त्वे­ना­न­पे­क्षा­म्ना­यै­क­गो­च­र­त्वा­दि­त्यर्थः । समाधत्ते

भवेदयमिति ।
“माना­न्त­र­स्या­वि­षयः सिद्ध­व­स्त्व­व­गा­हिनः । धर्मोऽस्तु कार्य­रू­प­त्वा­द्ब्रह्म सिद्धं तु गोचरः ॥' तस्मा­त्स­मा­न­वि­ष­य­त्वा­द­स्त्यत्र तर्कस्यावकाशः । नन्वस्तु विरोधः, तथापि तर्कादरे को हेतुरित्यत आह

यथा च श्रुतीनामिति ।
सावकाशा बह्वयोऽपि श्रुत­योऽ­न­व­का­शै­क­श्रु­ति­वि­रोधे तदनुगुणतया यथा नीयन्ते एव­म­न­व­का­शै­क­त­र्क­वि­रोधे तदनुगुणतया बह्वयोऽपि श्रुतयो गुण­क­ल्प­ना­दि­भि­र्व्या­ख्या­न­म­र्ह­न्ती­त्यर्थः । अपि च ब्रह्म­सा­क्षा­त्कारो विरो­धि­त­या­ना­दि­म­विद्यां निवर्तयन् दृष्टेनैव रूपेण मोक्ष­सा­ध­न­मि­ष्यते । तत्र ब्रह्म­सा­क्षा­त्का­रस्य मोक्षसाधनतया प्रधा­न­स्या­नु­मानं दृष्ट­सा­ध­र्म्ये­णा­दृ­ष्ट­वि­षयं विष­य­तोऽ­न्त­रङ्गं, बहिरङ्गं त्वत्य­न्त­प­रो­क्ष­गो­चरं शाब्दं ज्ञानं, तेन प्रधा­न­प्र­त्या­स­त्त्या­प्य­नु­मा­न­मेव बलीय इत्याह

दृष्टसाधर्म्येण चेति ।

अपि च श्रुत्यापि ब्रह्मणि तर्क आदृत इत्याह
श्रुतिरिति ।
सोऽयं ब्रह्मणो जग­दु­पा­दा­न­त्वा­क्षेपः पुनस्तर्केण प्रस्तूयते “प्रकृत्या सह सारूप्यं विका­रा­णा­म­व­स्थि­तम् । जगद्ब्रह्मसरूपं च नेति नो तस्य विक्रिया ॥ विशुद्धं चेतनं ब्रह्म जग­ज्ज­ड­म­शु­द्धि­भाक् । तेन प्रधा­न­सा­रू­प्या­त्प्र­धा­न­स्यैव विक्रिया ॥' तथाहि एक एव स्त्रीकायः सुख­दुः­ख­मो­हा­त्म­क­तया पत्युश्च सपत्नीनां च चैत्रस्य च स्त्रैणस्य ताम­वि­न्द­तोऽ­प­र्यायं सुख­दुः­ख­वि­षा­दा­ना­धत्ते । स्त्रिया च सर्वे भावा व्याख्याताः । तस्मा­त्सु­ख­दुः­ख­मो­हा­त्म­तया च स्वर्ग­न­र­का­द्यु­च्चा­व­च­प्र­प­ञ्च­तया च जगदशुद्धमचेतनं च, ब्रह्म तु चेतनं विशुद्धं च, निरतिशयत्वात् । तस्मा­त्प्र­धा­न­स्या­शु­द्ध­स्या­चे­त­नस्य विकारो जगन्न तु ब्रह्मण इति युक्तम् । ये तु चेत­न­ब्र­ह्म­वि­का­र­तया जग­च्चै­त­न्य­मा­हु­स्ता­न्प्र­त्याह

अचेतनं चेदं जगदिति ।

व्यभिचारं चोदयति
ननु चेतनमपीति ।

परिहरति
न स्वामि­भृ­त्य­यो­र­पीति ।

ननु मा नाम साक्षा­च्चे­त­न­श्चे­त­ना­न्त­र­स्यो­प­का­र्षीत् , तत्का­र्य­क­र­ण­बु­द्ध्या­दि­नि­यो­ग­द्वा­रेण तूपकरिष्यतीत्यत आह
निरतिशया ह्यक­र्ता­र­श्चे­तना इति ।
उप­ज­ना­पा­य­व­द्ध­र्म­यो­गोऽ­ति­शयः, तदभावो निरतिशयत्वम् । अत एव निर्व्या­पा­र­त्वा­द­क­र्तारः । तस्मात्तेषां बुद्ध्या­दि­प्र­यो­क्तृ­त्व­मपि नास्तीत्यर्थः । चोद­कोऽ­नु­श­य­बी­ज­मु­द्धा­ट­यति

योपीति ।

अभ्यु­पे­त्या­पा­ततः समाधानमाह
तेनापि कथञ्चिदिति ।

परमसमाधानं तु सूत्रावयवेन वक्तुं तमेवावतारयति
न चेतरदपि विलक्षणत्वमिति ।

सूत्रा­व­य­वा­भि­स­न्धि­माह
अनवगम्यमानमेव हीदमिति ।
शब्दार्थात्खलु चेत­न­प्र­कृ­ति­त्वा­च्चै­तन्यं पृथि­व्या­दी­ना­म­व­ग­म्य­मा­न­मु­पो­द्ब­लितं मानान्तरेण साक्षा­च्छ्रू­य­मा­ण­म­प्य­चै­त­न्य­म­न्य­थ­येत् । मानान्तराभावे वार्थोऽर्थः श्रुत्य­र्थे­ना­प­बा­ध­नीयः, न तु तद्बलेन श्रुत्य­र्थोऽ­न्य­थ­यि­तव्य इत्यर्थः ॥ ४ ॥

सूत्रा­न्त­र­म­व­ता­र­यितुं चोदयति
ननु चेतनत्वमपि क्वचिदिति ।
न पृथिव्यादीनां चैतन्यमाथमेव, किन्तु भूयसीनां श्रुतीनां साक्षादेवार्थ इत्यर्थः । सूत्रमवतारयति अत उत्तरं पठति

अभि­मा­नि­व्य­प­दे­शस्तु विशे­षा­नु­ग­ति­भ्याम् ।

विभजते
तुशब्द इति ।
नैताः श्रुतयः साक्षा­न्मृ­दा­दीनां वागादीनां च चैतन्यमाहुः, अपि तु तदधिष्ठात्रीणां देवतानां चिदात्मनां, तेनै­त­च्छ्रु­ति­ब­लेन न मृदादीनां वागादीनां च चैत­न्य­मा­श­ङ्क­नी­य­मिति । कस्मा­त्पु­न­रे­त­दे­व­मि­त्यत आह

विशे­षा­नु­ग­ति­भ्याम् ।

तत्र विशेषं व्याचष्टे
विशेषो हीति ।
भोक्तृ­णा­मु­प­का­र्य­त्वा­द्भू­ते­न्द्रि­याणां चोप­का­र­क­त्वा­त्साम्ये च तदनुपपत्तेः सर्व­ज­न­प्र­सि­द्धेश्च “विज्ञानं चाभवत्” इति श्रुतेश्च विशे­ष­श्चे­त­ना­चे­त­न­ल­क्षणः प्रागुक्तः स नोपपद्येत । देवताशब्दकृतो वात्र विशेषो विशे­ष­श­ब्दे­नो­च्यत इत्याह

अपि च कौषीतकिनः प्राणसंवाद इति ।

अनुगतिं व्याचष्टे
अनुगताश्चेति ।
सर्वत्र भूते­न्द्रि­या­दि­ष्व­नु­गता देवता अभि­मा­नि­नी­रू­प­दि­शन्ति मन्त्रादयः । अपि च भूयस्यः श्रुतयः “अग्नि­र्वा­ग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके प्रावि­श­दा­दि­त्य­श्च­क्षु­र्भू­त्वा­क्षिणी प्राविशत्”(ऐ. उ. १ । २ । ४) इत्यादय इन्द्रि­य­वि­शे­ष­गता देवता दर्शयन्ति । देवताश्च क्षेत्र­ज्ञ­भे­दा­श्चे­तनाः । तस्मा­न्ने­न्द्रि­या­दीनां चैतन्यं रूपत इति । अपि च प्राण­सं­वा­द­वा­क्य­शेषे प्राणा­ना­म­स्म­दा­दि­श­री­रा­णा­मिव क्षेत्र­ज्ञा­धि­ष्ठि­तानां व्यवहारं दर्शयन् प्राणानां क्षेत्र­ज्ञा­धि­ष्ठा­नेन चैतन्यं द्रढयतीत्याह

प्राण­सं­वा­द­वा­क्य­शेषे चेति ।

तत्तेज ऐक्षतेत्यपीति ।
यद्यपि प्रथमेऽध्याये भाक्तत्वेन वर्णितं तथापि मुख्यतयापि कथञ्चिन्नेतुं शक्यमिति द्रष्टव्यम् ।

पूर्व­प­क्ष­मु­प­सं­ह­रति
तस्मादिति ॥ ५ ॥

सिद्धा­न्त­सू­त्रम्
दृश्यते तु ।

प्रकृ­ति­वि­का­र­भावे हेतुं सारूप्यं विकल्प्य दूषयति
अत्यन्तसारूप्ये चेति ।

प्रकृ­ति­वि­का­र­भा­वा­भा­व­हेतुं वैलक्षण्यं विकल्प्य दूषयति
विलक्षणत्वेन च कारणेनेति ।
सर्व­स्व­भा­वा­न­नु­व­र्तनं प्रकृ­ति­वि­का­र­भा­वा­वि­रोधि । तदनुवर्तने तादात्म्येन प्रकृ­ति­वि­का­र­भा­वा­भा­वात् । मध्य­म­स्त्व­सिद्धः । तृतीयस्तु निद­र्श­ना­भा­वा­द­सा­धा­रण इत्यर्थः । अथ जग­द्यो­नि­त­या­ग­मा­द्ब्र­ह्म­णोऽ­व­ग­मा­दा­ग­म­बा­धि­त­वि­ष­य­त्व­म­नु­मा­नस्य कस्मा­न्नो­द्भा­व्यत इत्यत आह

आग­म­वि­रो­ध­स्त्विति ।
न चास्मि­न्ना­ग­मै­क­स­म­धि­ग­म­नीये ब्रह्मणि प्रमा­णा­न्त­र­स्या­व­का­शोऽस्ति, येन तदुपादायागम आक्षि­प्ये­ते­त्या­श­य­वा­नाह

यत्तूक्तं परि­नि­ष्प­न्न­त्वा­द्ब्र­ह्म­णीति ।
यथा हि कार्य­त्वा­वि­शे­षेऽपि “आरोग्यकामः पथ्यमश्नीयात्” “स्वरकामः सिकतां भक्षयेत्” इत्यादीनां माना­न्त­रा­पे­क्षता, न तु ‘दर्श­पू­र्ण­मा­साभ्यां स्वर्गकामो यजेत’ इत्यादीनाम् । तत्कस्य हेतोः । अस्य कार्यभेदस्य प्रमा­णा­न्त­रा­गो­च­र­त्वात् । एवं­भू­त­त्वा­वि­शे­षेऽपि पृथिव्यादीनां माना­न्त­र­गो­च­रत्वं, न तु भूतस्यापि ब्रह्मणः, तस्या­म्ना­यै­क­गो­च­र­स्या­ति­प­ति­त­स­म­स्त­मा­ना­न्त­र­सी­म­तया स्मृत्या­ग­म­सि­द्ध­त्वा­दि­त्यर्थः । यदि स्मृत्या­ग­म­सिद्धं ब्रह्म­ण­स्त­र्का­वि­ष­यत्वं, कथं तर्हि श्रव­णा­ति­रि­क्त­म­न­न­वि­धा­न­मि­त्यत आह

यदपि श्रव­ण­व्य­ति­रे­के­णेति ।
तर्को हि प्रमा­ण­वि­ष­य­वि­वे­च­क­तया तदि­ति­क­र्त­व्य­ता­भू­त­स्त­दा­श्र­योऽ­सति प्रमा­णेऽ­नु­ग्रा­ह्य­स्या­श्र­य­स्या­भा­वा­च्छु­ष्क­तया नाद्रियते । यस्त्वा­ग­म­प्र­मा­णा­श्र­य­स्त­द्वि­ष­य­वि­वे­च­क­स्त­द­वि­रोधी स मन्तव्य इति विधीयते ।

श्रुत्य­नु­गृ­ही­तेति ।
श्रुत्याः श्रवणस्य पश्चा­दि­ति­क­र्त­व्य­ता­त्वेन गृहीतः ।

अनु­भ­वा­ङ्ग­त्वे­नेति ।
मतो हि भाव्यमानो भावनाया विषयतयानुभूतो भवतीति मननमनुभवाङ्गम् ।

आत्म­नोऽ­न­न्वा­ग­त­त्व­मिति ।
स्वप्ना­द्य­व­स्था­भि­र­स­म्पृ­क्त­त्वम् । उदा­सी­न­त्व­मि­त्यर्थः । अपि च चेतनकारणवादिभिः कार­ण­सा­ल­क्ष­ण्येऽपि कार्यस्य कथ­ञ्चि­च्चै­त­न्या­वि­र्भा­वा­ना­वि­र्भा­वाभ्यां विज्ञानं चाविज्ञानं चाभवदिति जगत्कारणे योजयितुं शक्यम् । अचे­त­न­प्र­धा­न­का­र­ण­वा­दिनां तु दुर्योजमेतत् । नह्यचेतनस्य जगत्कारणस्य विज्ञानरूपता सम्भविनी । चेतनस्य जगत्कारणस्य सुषु­प्ता­द्य­व्य­व­स्था­स्विव सतोऽपि चैत­न्य­स्या­ना­वि­र्भा­व­तया शक्यमेव कथ­ञ्चि­द­वि­ज्ञा­ना­त्मत्वं योजयितुमित्याह

योऽपि चेत­न­का­र­ण­श्र­व­ण­ब­ले­नेति ।
परस्यैव त्वचे­त­न­प्र­धा­न­का­र­ण­वा­दिनः साङ्ख्यस्य न युज्येत ।

प्रत्यु­क्त­त्वात्तु वैलक्षण्यस्येति ।
वैलक्षण्ये कार्यकारणभावो नास्ती­त्य­भ्यु­पे­त्ये­द­मु­क्तम् । परमार्थतस्तु नास्मा­भि­रे­त­द­भ्यु­पे­यत इत्यर्थः ॥ ६ ॥

असदिति चेन्न प्रति­षे­ध­मा­त्र­त्वात् ।
न कार­णा­त्का­र्य­म­भि­न्नम् , अभेदे कार्य­त्वा­नु­प­पत्तेः, कार­ण­व­त्स्वा­त्मनि वृत्तिविरोधात् , शुद्ध्य­शु­द्ध्या­दि­वि­रु­द्ध­ध­र्म­सं­स­र्गाच्च । अथ चिदात्मनः कारणस्य जगतः कार्याद्भेदः, तथा चेदं जगत्कार्यं सत्त्वेऽपि चिदात्मनः कारणस्य प्रागु­त्प­त्ते­र्नास्ति, नास्ति चेदसदुत्पद्यत इति सत्का­र्य­वा­द­व्या­कोप इत्याह

यदि चेतनं शुद्धमिति ।

परिहरति
नैष दोष इति ।

कुतः
प्रति­षे­ध­मा­त्र­त्वात् ।

विभजते
प्रतिषेधमात्रं हीदमिति ।
प्रतिपादयिष्यति हि “तद­न­न्य­त्व­मा­र­म्भ­ण­श­ब्दा­दिभ्यः”(ब्र. सू. २ । १ । १४) इत्यत्र । यथा कार्यं स्वरूपेण सदसत्त्वाभ्यां न निर्वचनीयम् । अपि तु कारणरूपेण शक्यं सत्त्वेन निर्वक्तुमिति । एवं च कारणसत्तैव कार्यस्य सत्ता न ततोऽन्येति कथं तदुत्पत्तेः प्राक्सति कारणे भवत्यसत् । स्वरूपेण तूत्पत्तेः प्रागुत्पन्नस्य ध्वस्तस्य वा सद­स­त्त्वा­भ्या­म­नि­र्वा­च्यस्य न सतोऽसतो वोत्पत्तिरिति निर्विषयः सत्का­र्य­वा­द­प्र­ति­षेध इत्यर्थः ॥ ७ ॥

अपीतौ तद्व­त्प्र­स­ङ्गा­द­स­म­ञ्ज­सम् ।
असामञ्जस्यं विभजते - अत्राह चोदकः,

यदि स्थौल्येति ।
यथा हि यूषादिषु हिङ्गु­सै­न्ध­वा­दी­ना­म­वि­भा­ग­ल­क्षणो लयः स्वग­त­र­सा­दि­भि­र्यूषं रूषयत्येवं ब्रह्मणि विशु­द्ध्या­दि­ध­र्मिणि जग­ल्ली­य­मा­न­म­वि­भागं गच्छद्ब्रह्म स्वधर्मेण रूषयेत् । न चान्यथा लयो लोकसिद्ध इति भावः । कल्पा­न्त­रे­णा­सा­म­ञ्ज­स्य­माह

अपि च समस्तस्येति ।
नहि समुद्रस्य फेनो­र्मि­बु­द्बु­दा­दि­प­रि­णामे वा रज्ज्वां सर्प­धा­रा­दि­वि­भ्रमे वा नियमो दृष्टः । समुद्रो हि कदा­चि­त्फे­नो­र्मि­रू­पेण परिणमते कदा­चि­द्बु­द्बु­दा­दिना, रज्ज्वां हि कश्चित्सर्प इति विपर्यस्यति कश्चिद्धारेति । नच क्रमनियमः । सोऽयमत्र भोग्या­दि­वि­भा­ग­नि­यमः क्रम­नि­य­म­श्चा­स­म­ञ्जस इति । कल्पा­न्त­रे­णा­सा­म­ञ्ज­स्य­माह

अपिच भोक्त्ूणामिति ।

कल्पान्तरं शङ्कापूर्वमाह
अथेदमिति ॥ ८ ॥

सिद्धा­न्त­सू­त्रम् न तु दृष्टान्तभावात् ।
नाविभागमात्रं लयोऽपि तु कारणे कार्यस्याविभागः । तत्र च तद्धर्मारूषणे सन्ति सहस्रं दृष्टान्ताः । तव तु कारणे कार्यस्य लये कार्यधर्मरूषणे न दृष्टा­न्त­ल­वोऽ­प्य­स्ती­त्यर्थः । स्यादेतत्यदि कार्यस्याविभागः कारणे, कथं कार्यधर्मारूषणं कारणस्येत्यत आह

अनन्यत्वेऽपीति ।
यथा रजतस्यारोपितस्य पारमार्थिकं रूपं शुक्तिर्न च शुक्ती रज­त­मे­व­मि­द­म­पी­त्यर्थः । अपि च स्थित्यु­त्प­त्ति­प्र­ल­य­का­लेषु त्रिष्वपि कार्यस्य कार­णा­द­भे­द­म­भि­द­धती श्रुति­र­न­ति­श­ङ्क­नीया सर्वैरेव वेदवादिभिः, तत्र स्थित्यु­त्प­त्त्योर्यः परिहारः स प्रलयेऽपि समानः कार्य­स्या­वि­द्या­स­मा­रो­पि­तत्वं नाम, तस्मा­न्ना­पी­ति­मा­त्र­म­नु­यो­ज्य­मि­त्याह

अत्यल्पं चेदमुच्यत इति ।
अस्ति चायमपरो दृष्टान्तः ।

यथा च स्वप्नदृगेक इति ।
लौकिकः पुरुषः ।

एव­म­व­स्था­त्र­य­सा­क्ष्येक इति ।
अव­स्था­त्र­य­मु­त्प­त्ति­स्थि­ति­प्र­लयाः । कल्पा­न्त­रे­णा­सा­म­ञ्जस्ये कल्पान्तरेण दृष्टान्तभावं परिहारमाह

यत्पु­न­रे­त­दु­क्त­मिति ।
अवि­द्या­श­क्ते­र्नि­य­त­त्वा­दु­त्प­त्ति­नि­यम इत्यर्थः ।

एतेनेति ।
मिथ्या­ज्ञा­न­वि­भा­ग­श­क्ति­प्र­ति­नि­य­मेन मुक्तानां पुन­रु­त्प­त्ति­प्र­सङ्गः प्रत्युक्तः, कारणाभावे कार्याभावस्य प्रतिनियमात् , तत्त्वज्ञानेन च सशक्तिनो मिथ्याज्ञानस्य समूलघातं निहतत्वादिति ॥ ९ ॥

स्वपक्षदोषाच्च ।
कार्य­का­र­ण­यो­र्वै­ल­क्षण्यं ताव­त्स­मा­न­मे­वो­भयोः पक्षयोः । प्रागु­त्प­त्ते­र­स­त्का­र्य­वा­द­प्र­स­ङ्गोऽ­पीतौ तद्व­त्प्र­स­ङ्गश्च प्रधा­नो­पा­दा­न­पक्ष एव नास्मत्पक्ष इति यद्य­प्यु­प­रि­ष्टा­त्प्र­ति­पा­द­यि­ष्या­म­स्त­थापि गुडजिह्विकया समा­न­त्वा­पा­द­न­मि­दा­नी­मिति मन्तव्यम् । इदमस्य पुरुषस्य सुखदुःखोपादानं क्लेश­क­र्मा­श­या­दी­द­म­स्येति । सुगममन्यत् ॥ १० ॥

तर्का­प्र­ति­ष्ठा­ना­दपि ।
केव­ला­ग­म­ग­म्येऽर्थे स्वत­न्त्र­त­र्का­वि­षये न साङ्ख्या­दि­व­त्सा­ध­र्म्य­वै­ध­र्म्य­मा­त्रेण तर्कः प्रवर्तनीयो येन प्रधा­ना­दि­सि­द्धि­र्भ­वेत् । शुष्कतर्को हि स भव­त्य­प्र­ति­ष्ठा­नात् । तदुक्तम् “यत्ने­ना­नु­मि­तोऽ­प्यर्थः कुशलैरनुमातृभिः । अभि­यु­क्त­त­रै­र­न्यै­र­न्य­थै­वो­प­पा­द्यते ॥' इति । नच महा­पु­रु­ष­प­रि­गृ­ही­त­त्वेन कस्यचित्तर्कस्य प्रतिष्ठा, महापुरुषाणामेव तार्किकाणां मिथो विप्र­ति­प­त्ते­रिति । सूत्रे शङ्कते -

अन्यथानुमेयमिति चेत् ।
तद्विभजते

अन्यथा वयमनुमास्यामह इति ।
नानु­मा­ना­भा­स­व्य­भि­चा­रे­णा­नु­मा­न­व्य­भि­चारः शङ्कनीयः, प्रत्य­क्षा­दि­ष्वपि तदा­भा­स­व्य­भि­चा­रेण तत्प्रसङ्गात् । तस्मा­त्स्वा­भा­वि­क­प्र­ति­ब­न्ध­व­ल्लि­ङ्गा­नु­स­रणे निपु­णे­ना­नु­मात्रा भवितव्यं, ततश्चाप्रत्यूहं प्रधानं सेत्स्यतीति भावः । अपि च येन तर्केण तर्का­णा­म­प्र­ति­ष्ठा­माह स एव तर्कः प्रति­ष्ठि­तोऽ­भ्यु­पेयः, तद­प्र­ति­ष्ठा­या­मि­त­रा­प्र­ति­ष्ठा­ना­भा­वा­दि­त्याह

नहि प्रति­ष्ठि­त­स्तर्क एवेति ।
अपि च तर्का­प्र­ति­ष्ठायां सक­ल­लो­क­या­त्रो­च्छे­द­प्र­सङ्गः । नच श्रुत्य­र्था­भा­स­नि­रा­क­र­णेन तद­र्थ­त­त्त्व­वि­नि­श्चय इत्याह

सर्व­त­र्का­प्र­ति­ष्ठायां चेति ।
अपि च विचा­रा­त्म­क­स्त­र्क­स्त­र्कि­त­पू­र्व­प­क्ष­प­रि­त्या­गेन तर्कितं राद्धा­न्त­म­नु­जा­नाति । सति चैष पूर्वपक्षविषये तर्के प्रतिष्ठारहिते प्रवर्तते, तदभावे विचा­रा­प्र­वृत्तेः । तदिदमाह

अयमेव च तर्कस्यालङ्कार इति ।
तामिमामाशङ्कां सूत्रेण परिहरति

एव­म­प्य­वि­मो­क्ष­प्र­सङ्गः ।
न वयमन्यत्र तर्क­म­प्र­मा­ण­यामः, किन्तु जगत्कारणसत्त्वे स्वाभा­वि­क­प्र­ति­ब­न्ध­वन्न लिङ्गमस्ति । यत्तु साध­र्म्य­वै­ध­र्म्य­मात्रं, तद­प्र­ति­ष्ठा­दो­षान्न मुच्यत इति । कल्पा­न्त­रे­णा­नि­र्मो­क्ष­प­दा­र्थ­माह

अपि च सम्य­ग्ज्ञा­ना­न्मोक्ष इति ।
भूतार्थगोचरस्य हि सम्यग्ज्ञानस्य व्यव­स्थि­त­व­स्तु­गो­च­र­तया व्यवस्थानं लोके दृष्टं, यथा प्रत्यक्षस्य । वैदिकं चेदं चेत­न­ज­ग­दु­पा­दा­न­वि­षयं विज्ञानं वेदो­त्थ­त­र्के­ति­क­र्त­व्य­ताकं वेदजनितं व्यवस्थितम् । वेदानपेक्षेण तु तर्केण जग­त्का­र­ण­भे­द­म­व­स्था­प­यतां तार्कि­का­णा­म­न्योन्यं विप्र­ति­प­त्ते­स्त­त्त्व­नि­र्धा­र­ण­का­र­णा­भा­वाच्च न तत­स्त­त्त्व­व्य­व­स्थेति न ततः सम्यग्ज्ञानम् । अस­म्य­ग्ज्ञा­नाच्च न संसाराद्विमोक्ष इत्यर्थः ॥ ११ ॥

एतेन शिष्टापरिग्रहा अपि व्याख्याताः ।
न कार्यं कार­णा­द­भि­न्न­म­भेदे कार­ण­रू­प­व­त्का­र्य­त्वा­नु­प­पत्तेः, करो­त्य­र्था­नु­प­प­त्तेश्च । अभू­त­प्रा­दु­र्भा­वनं हि तदर्थः । न चास्य कारणात्मत्वे किञ्चि­द­भू­त­मस्ति, यदर्थमयं पुरुषो यतेत । अभि­व्य­क्त्य­र्थ­मिति चेत् , न । तस्या अपि कारणात्मत्वेन सत्त्वात् , असत्त्वे वाभि­व्य­ङ्ग्य­स्यापि तद्वत्प्रसङ्गेन कार­णा­त्म­त्व­व्या­घा­तात् । नहि तदेव तदानीमेवास्ति नास्ति चेति युज्यते । किं चेदं मणि­म­न्त्रौ­ष­ध­मि­न्द्र­जालं कार्येण शिक्षितं यदि­द­म­जा­ता­नि­रु­द्धा­ति­श­य­म­व्य­व­धा­न­म­वि­दू­र­स्थानं च तस्यैव तद­व­स्थे­न्द्रि­यस्य पुंसः कदा­चि­त्प्र­त्यक्षं परोक्षं च, येनास्य कदा­चि­त्प्र­त्य­क्ष­मु­प­ल­म्भनं कदाचिदनुमानं कदाचिदागमः । कार्या­न्त­र­व्य­व­धि­रस्य पारो­क्ष्य­हे­तु­रिति चेत् । न । कार्यजातस्य सदातनत्वात् । अथापि स्यात्का­र्या­न्त­राणि पिण्ड­क­पा­ल­श­र्क­रा­चू­र्ण­क­ण­प्र­भृ­तीनि कुम्भं व्यवदधते, ततः कुम्भस्य पारोक्ष्यं कदाचिदिति । तन्न । तस्य कार्यजातस्य कारणात्मनः सदातनत्वेन सर्वदा व्यवधानेन कुम्भ­स्या­त्य­न्ता­नु­प­ल­ब्धि­प्र­स­ङ्गात् । कादाचित्कत्वे वा कार्यजातस्य न कारणात्मत्वं, नित्य­त्वा­नि­त्य­त्व­ल­क्ष­ण­वि­रु­द्ध­ध­र्म­सं­स­र्गस्य भेदकत्वात् । भेदाभेदयोश्च पर­स्प­र­वि­रो­धे­नै­कत्र सहासम्भव इत्युक्तम् । तस्मा­त्का­र­णा­त्का­र्य­मे­का­न्तत एव भिन्नम् । नच भेदे गवा­श्व­व­त्का­र्य­का­र­ण­भा­वा­नु­प­प­त्ति­रिति साम्प्रतम् , अभेदेऽपि कार­ण­रू­प­व­त्त­द­नु­प­प­त्ते­रु­क्त­त्वात् । अत्यन्तभेदे च कुम्भ­कु­म्भ­का­र­यो­र्नि­मि­त्त­क­भा­वस्य दर्शनात् । तस्मा­द­न्य­त्वा­वि­शे­षेऽपि समवायभेद एवो­पा­दा­नो­पा­दे­य­भा­व­नि­य­म­हेतुः । यस्याभूत्वा भवतः सम­वा­य­स्त­दु­पा­देयं यत्र च सम­वा­य­स्त­दु­पा­दा­नम् । उपादानत्वं च कारणस्य कार्या­द­ल्प­प­रि­मा­णस्य दृष्टं, यथा तन्त्वादीनां पटा­द्यु­पा­दा­नानां पटादिभ्यो न्यून­प­रि­मा­ण­त्वम् । चिदात्मनस्तु परममहत उपा­दा­ना­न्ना­त्य­न्ता­ल्प­प­रि­मा­ण­मु­पा­देयं भवितुमर्हति । तस्मा­द्य­त्रे­द­म­ल्प­ता­र­तम्यं विश्राम्यति यतो न क्षोदीयः सम्भवति तज्जगतो मूलकारणं परमाणुः । क्षोदी­योऽ­न्त­रा­नन्त्ये तु मेरु­रा­ज­स­र्ष­प­यो­स्तु­ल्य­प­रि­मा­ण­त्व­प्र­स­ङ्गोऽ­न­न्ता­व­य­व­त्वा­दु­भ­योगः । तस्मात्परममहतो ब्रह्मण उपा­दा­ना­द­भि­न्न­मु­पा­देयं जग­त्का­र्य­म­भि­द­धती श्रुतिः प्रति­ष्ठि­त­प्रा­मा­ण्य­त­र्क­वि­रो­धा­त्स­ह­स्र­सं­व­त्स­र­स­त्र­ग­त­सं­व­त्स­र­श्रु­ति­व­त्क­थ­ञ्चि­ज्ज­घ­न्य­त्व­वृत्त्या व्याख्या­ये­त्य­धिकं शङ्कमानं प्रति साङ्ख्य­दू­ष­ण­म­ति­दि­शति

एतेनेति सूत्रेण ।
अस्या­र्थः­का­र­णा­त्का­र्यस्य भेदं “तद­न­न्य­त्व­मा­र­म्भ­ण­श­ब्दा­दिभ्यः”(ब्र. सू. २ । १ । १४) इत्यत्र निषेत्स्यामः । अवि­द्या­स­मा­रो­प­णेन च कार्यस्य न्यूना­धि­क­भा­व­म­प्य­प्र­यो­ज­क­त्वा­दु­पो­क्षि­ष्या­महे । तेन वैशे­षि­का­द्य­भि­म­तस्य तर्कस्य शुष्क­त्वे­ना­व्य­व­स्थितेः सूत्रमिदं साङ्ख्य­दू­ष­ण­म­ति­दि­शति । यत्र कथ­ञ्चि­द्वे­दा­नु­सा­रिणी मन्वादिभिः शिष्टैः परिगृहीतस्य साङ्ख्य­त­र्क­स्यैषा गतिस्तत्र पर­मा­ण्वा­दि­वा­द­स्या­त्य­न्त­वे­द­बा­ह्यस्य मन्वा­द्यु­पे­क्षि­तस्य च कैव कथेति ।

केनचिदंशेनेति ।
सृष्ट्यादयो हि व्युत्पा­द्यास्ते च किञ्चित्सदसद्वा पूर्व­प­क्ष­न्या­यो­त्प्रे­क्षि­त­म­प्यु­दा­हृत्य व्युत्पाद्यन्त इति केन­चि­दं­शे­ने­त्यु­क्तम् । सुगममन्यत् ॥ १२ ॥

भोक्त्रा­प­त्ते­र­वि­भा­ग­श्चे­त्स्या­ल्लो­क­वत् ।
स्यादेतत् । अति­ग­म्भी­र­ज­ग­त्का­र­ण­वि­ष­यत्वं तर्कस्य नास्ति, केव­ल­ग­म­ग­म्य­मे­त­दि­त्यु­क्तम् , तत्कथं पुन­स्त­र्क­नि­मित्त आक्षेप इत्यत आह

यद्यपि श्रुतिः प्रमाणमिति ।
प्रवृत्ता हि श्रुति­र­न­पे­क्ष­तया स्वतः­प्र­मा­ण­त्वेन न प्रमा­णा­न्त­र­म­पे­क्षते । प्रवर्तमाना पुनः स्फुट­त­र­प्र­ति­ष्ठि­त­प्रा­मा­ण्य­त­र्क­वि­रो­धेन मुख्या­र्था­त्प्र­च्याव्य जघन्यवृत्तितां नीयते, यथा मन्त्रा­र्थ­वा­दा­वि­त्यर्थः । अतिरोहितार्थं भाष्यम् ।

यथा त्वद्यत्व इति ।
यद्यतीतानागतयोः सर्गयोरेष विभागो न भवेत् । तत­स्त­दे­वा­द्य­त­नस्य विभागस्य बाधकं स्यात् । स्वप्न­द­र्श­न­स्येव जाग्रद्दर्शनम् । न त्वेतदस्ति । अबा­धि­ता­द्य­त­न­द­र्श­नेन तयोरपि तथा­त्वा­नु­मा­ना­दि­त्यर्थः । इमां शङ्का­मा­पा­त­तोऽ­वि­चा­रि­त­लो­क­सि­द्ध­दृ­ष्टा­न्तो­प­द­र्श­न­मा­त्रेण निराकरोति सूत्रकारः

स्याल्लोकवत् ॥ १३ ॥

परिहाररहस्यमाह
तद­न­न्य­त्व­मा­र­म्भ­ण­श­ब्दा­दिभ्यः ।

पूर्व­स्मा­द­वि­रो­धा­दस्य विशे­षा­भि­धा­नो­प­क्र­मस्य विभागमाह
अभ्युपगम्य चेममिति ।
स्यादेतत् । यदि­का­र­णा­त्प­र­मा­र्थ­भू­ता­द­न­न्य­त्व­मा­का­शादेः प्रपञ्चस्य कार्यस्य कुतस्तर्हि न वैशे­षि­का­द्यु­क्त­दो­ष­प्र­प­ञ्चा­व­तार इत्यत आह

व्यतिरेकेणाभावः कार्यस्यावगम्यत इति ।
न खल्व­न­न्य­त्व­मि­त्य­भेदं ब्रूमः, किन्तु भेदं व्यासेधामः, ततश्च नाभे­दा­श्र­य­दो­ष­प्र­सङ्गः । किन्त्वभेदं व्यासे­ध­द्भि­र्वै­शे­षि­का­दि­भि­र­स्मासु साहायकमेवाचरितं भवति । भेदनिषेधहेतुं व्याचष्टे

आर­म्भ­ण­श­ब्द­स्ता­व­दिति ।
एवं हि ब्रह्मविज्ञानेन सर्वं जगत्तत्त्वतो ज्ञायेत यदि ब्रह्मैव तत्त्वं जगतो भवेत् । यथा रज्ज्वां ज्ञातायां भुजङ्गतत्त्वं ज्ञातं भवति । सा हि तस्य तत्त्वम् । तत्त्वज्ञानं च ज्ञान­म­तोऽ­न्य­न्मि­ध्या­ज्ञा­न­म­ज्ञा­न­मेव । अत्रैव वैदिको दृष्टान्तः

यथा सोम्यैकेन मृत्पिण्डेनेति ।
स्यादेतत् । मृदि ज्ञातायां कथं मृन्मयं घटादि ज्ञातं भवति । नहि तन्मृ­दा­त्म­क­मि­त्यु­प­पा­दि­त­म­ध­स्तात् । तस्मात्तत्त्वतो भिन्नम् । न चान्य­स्मि­न्वि­ज्ञा­तेऽ­न्य­द्वि­ज्ञातं भवतीत्यत आह श्रुतिः “वाचारम्भणं विकारो नामधेयम् ।”(छा. उ. ६ । १ । ४) वाचया केवलमारभ्यते विकारजातं, न तु तत्त्वतोऽस्ति, यतो नाम­धे­य­मा­त्र­मे­तत् । यथा पुरुषस्य चैतन्यमिति राहोः शिर इति विकल्पमात्रम् । यथा­हु­र्वि­क­ल्प­विदः “शब्द­ज्ञा­ना­नु­पाती वस्तुशून्यो विकल्पः”(यो.सू. १-९) इति । तथा चावस्तुतयानृतं विकारजातं, मृत्तिकेत्येव सत्यम् । तस्मा­द्घ­ट­श­रा­वो­द­ञ्च­ना­दीनां तत्त्वं मृदेव, तेन मृदि ज्ञातायां येषां सर्वेषामेव तत्त्वं ज्ञातं भवति । तदिदमुक्तम्

न चान्य­थै­क­वि­ज्ञा­नेन सर्वविज्ञानं सम्पद्यत इति ।

निद­र्श­ना­न्त­र­द्वयं दर्श­य­न्नु­प­सं­ह­रति
तस्माद्यथा घट­क­र­का­द्या­का­शा­ना­मिति ।
ये हि दृष्ट­न­ष्ट­स्व­रूपा न ते वस्तुसन्तो यथा मृग­तृ­ष्णि­को­द­का­दयः, तथा च सर्वं विकारजातं तस्मादवस्तुसत् । तथाहि यदस्ति तदस्त्येव, यथा चिदात्मा । नह्यसौ कदा­चि­त्क्व­चि­त्क­थ­ञ्चि­द्वास्ति । किन्तु सर्वदा सर्वत्र सर्वथास्त्येव, न नास्ति । न चैवं विकारजातं, तस्य कदा­चि­त्क­थ­ञ्चि­त्कु­त्र­चि­द­व­स्था­नात् । तथाहि - सत्स्वभावं चेद्विकारजातं, कथं कदाचिदसत् । असत्स्वभावं चेत् , कथं कथाचिद् सत् । सद­स­तो­रे­क­त्व­वि­रो­धात् । नहि रूपं कदा­चि­त्क्व­चि­त्क­थ­ञ्चिद्वा गन्धो भवति । अथ यस्य सदसत्त्वे धर्मौ, ते च स्वका­र­णा­धी­न­ज­न्म­तया कदाचिदेव भवतः, तत्तर्हि विकारजातं दण्डायमानं सदातनमिति न विकारः कस्यचित् । अथासत्त्वसमये तन्नास्ति, कस्य तर्हि धर्मोऽसत्त्वम् । नहि धर्मि­ण्य­प्र­त्यु­त्पन्ने तद्ध­र्मोऽ­सत्त्वं प्रत्यु­त्प­न्न­मु­प­प­द्यते । अथास्य न धर्मः किन्त्व­र्था­न्त­र­म­स­त्त्वम् । किमायातं भावस्य । नहि घटे जाते पटस्य किञ्चिद्भवति । असत्त्वं भावविरोधीति चेत् । न । अकिञ्चित्करस्य तत्त्वा­नु­प­पत्तेः । किञ्चित्करत्वे वा तत्रा­प्य­स­त्त्वेन तदनुयोगसम्भवात् । अथास्यासत्त्वं नाम किञ्चिन्न जायते किन्तु स एव न भवति । यथाहुः “न तस्य किञ्चिद्भवति न भवत्येव केवलम्” इति । अथैष प्रस­ज्य­प्र­ति­षेधो निरुच्यतां, किं तत्स्वभावो भाव उत भावस्वभावः स इति । तत्र पूर्वस्मिन् कल्पे भावानां तत्स्वभावतया तुच्छतया जगच्छून्यं प्रसज्येत । तथा च भावानुभवाभावः । उत्तरस्मिंस्तु सर्वभावनित्यतया नाभावव्यवहारः स्यात् । कल्प­ना­मा­त्र­नि­मि­त्त­त्वेऽपि निषेधस्य भाव­नि­त्य­ता­प­त्ति­स्त­द­व­स्थैव तस्मा­द्भि­न्न­मस्ति कार­णा­द्वि­का­र­जातं न वस्तु सत् । अतो विका­र­जा­त­म­नि­र्व­च­नी­य­म­नृ­तम् । तदनेन प्रमाणेन सिद्धमनृतत्वं विकारजातस्य कारणस्य निर्वाच्यतया सत्त्वं “मृत्तिकेत्येव सत्यम्”(छा. उ. ६ । १ । ४) इत्यादिना प्रबन्धेन दृष्टा­न्त­त­या­नु­व­दति श्रुतिः । “यत्र लौकि­क­प­री­क्ष­काणां बुद्धिसाम्यं स दृष्टान्तः” इति चाक्षपादसूत्रं प्रमाणसिद्धो दृष्टान्त इत्येतत्परं, न पुन­र्लो­क­सि­द्ध­त्व­मत्र विवक्षितम् , अन्यथा तेषां परमाण्वादिर्न दृष्टान्तः स्यात् । नहि पर­मा­ण्वा­दि­र्नै­स­र्गि­क­वै­न­यि­क­बु­द्ध्य­ति­श­य­र­हि­तानां लौकिकानां सिद्ध इति । संप्र­त्य­ने­का­न्त­वा­दि­न­मु­त्था­प­यति

नन्व­ने­का­त्म­क­मिति ।
अनेकाभिः शक्तिभिर्याः प्रवृत्तयो नाना­का­र्य­सृ­ष्ट­य­स्त­द्युक्तं ब्रह्मैकं नाना चेति । किमतो यद्येवमित्यत आह

तत्रै­क­त्वां­शे­नेति ।
यदि पुनरेकत्वमेव वस्तु­स­द्भ­वे­त्ततो नाना­त्वा­भा­वा­द्वै­दिकः कर्मकाण्डाश्रयो लौकिकश्च व्यवहारः समस्त एवोच्छिद्येत । ब्रह्मगोचराश्च श्रवणमननादयः सर्वे दत्तजलाञ्जलयः प्रसज्येरन् । एवं चानेकात्मकत्वे ब्रह्मणो मृदा­दि­दृ­ष्टान्ता अनुरूपा भविष्यन्तीति । तमि­म­म­ने­का­न्त­वादं दूषयति

नैवं स्यादिति ।
इदं तावदत्र वक्तव्यम् , मृदात्मनैकत्वं घट­श­रा­वा­द्या­त्मना नानात्वमिति वदतः कार्यकारणयोः परस्परं किमभेदोऽभिमतः, आहो भेदः, उत भेदाभेदाविति । तत्राभेद ऐकान्तिके मृदात्मनेति च घट­श­रा­वा­द्या­त्म­नेति चोल्लेखद्वयं नियमश्च नोपपद्यते । भेदे चोल्ले­ख­द्व­य­नि­य­मा­वु­प­पन्नौ, आत्मनेति त्वसमञ्जसम् । नह्यन्यस्यान्य आत्मा भवति । न चानेकान्तवादः । भेदाभेदकल्पे तुल्लेखद्वयं भवेदपि । नियमस्त्वयुक्तः । नहि धर्मिणोः कार्यकारणयोः सङ्करे तद्ध­र्मा­वे­क­त्व­ना­नात्वे न सङ्कीर्येते इति सम्भवति । ततश्च मृदात्मनैकत्वं यावद्भवति ताव­द्घ­ट­श­रा­वा­द्या­त्म­नापि स्यात् , एवं घट­श­रा­वा­द्या­त्मना नानात्वं यावद्भवति तावन्मृदात्मना नानात्वं भवेत् । सोऽयं नियमः कार्य­का­र­ण­यो­रै­का­न्तिकं भेदमुपकल्पयति, अनिर्वचनीयतां वा कार्यस्य । पराक्रान्तं चास्माभिः प्रथमाध्याये तत् । आस्तां तावत् । तदे­त­द्यु­क्ति­नि­रा­कृ­त­म­नु­व­दन्तीं श्रुतिमुदाहरति

मृत्तिकेत्येव सत्यमिति ।
स्यादेतत् । न ब्रह्मणो जीवभावः काल्पनिकः, किन्तु भाविकः । अंशो हि सः, तस्य कर्मसहितेन ज्ञानेन ब्रह्मभाव आधीयत इत्यत आह

स्वयं प्रसिद्धं हीति ।
स्वाभा­वि­क­स्या­ना­दे­रिति । यदुक्तं नानात्वांशेन तु कर्मकाण्डाश्रयो लौकिकश्च व्यवहारः सेत्स्यतीति, तत्राह

बाधिते चेति ।
यावदबाधं हि सर्वोऽयं व्यवहारः स्वप्नदशायामिव तदु­प­द­र्शि­त­प­दा­र्थ­जा­त­व्य­व­हारः । स च यथा जाग्रदवस्थायां बाधकान्निवर्तते एवं तत्त्व­म­स्या­दि­वा­क्य­प­रि­भा­व­ना­भ्या­स­प­रि­पा­क­भुवा शारीरस्य ब्रह्मा­त्म­भा­व­सा­क्षा­त्का­रेण बाधकेन निवर्तते । स्यादेतत् । “यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्येत्”(बृ. उ. ४ । ५ । १५) इत्यादिना मिथ्या­ज्ञा­ना­धीनो व्यवहारः क्रिया­का­र­का­दि­ल­क्षणः सम्य­ग्ज्ञा­ने­ना­प­नी­यत इति न ब्रूते, किन्त्व­व­स्था­भे­दा­श्रयो व्यव­हा­रोऽ­व­स्था­न्त­र­प्राप्त्या निवर्तते, यथा बालकस्य काम­चा­र­वा­द­भ­क्ष­तो­प­न­य­न­प्राप्तौ निवर्तते । नच तावतासौ मिथ्या­ज्ञा­न­नि­ब­न्धनो भव­त्ये­व­म­त्रा­पी­त्यत आह

न चायं व्यवहाराभाव इति ।

कुतः,
तत्त्वमसीति ब्रह्मा­त्म­भा­व­स्येति ।
न खल्वे­त­द्वा­क्य­म­व­स्था­वि­शे­ष­वि­नि­यतं ब्रह्मा­त्म­भा­व­माह जीवस्य, अपि तु न भुजङ्गो रज्जु­रि­य­मि­ति­व­त्स­दा­तनं तमभिवदति । अपि च सत्या­नृ­ता­भि­धा­ने­ना­प्ये­त­देव युक्तमित्याह

तस्क­र­दृ­ष्टा­न्तेन चेति ।

न चास्मिन्दर्शन इति ।
नहि जातु काष्ठस्य दण्ड­क­म­ण्ड­लु­कु­ण्ड­ल­शा­लिनः कुण्ड­लि­त्व­ज्ञानं दण्डवत्तां कमण्डलुमत्तां बाधते । तत्कस्य हेतोः । तेषां कुण्डलादीनां तस्मिन् भाविकत्वात् । तद्वदिहापि भावि­क­गो­च­रे­णै­का­त्म्य­ज्ञा­नेन न नानात्वं भाविकमपवदनीयम् । नहि ज्ञानेन वस्त्वपनीयते । अपि तु मिथ्या­ज्ञा­ने­ना­रो­पि­त­मि­त्यर्थः । चोदयति

नन्वे­क­त्वै­का­न्ता­भ्यु­प­गम इति ।
अबा­धि­ता­न­धि­ग­ता­स­न्दि­ग्ध­वि­ज्ञा­न­सा­धनं प्रमाणमिति प्रमा­ण­सा­मा­न्य­ल­क्ष­णो­प­पत्त्या प्रत्यक्षादीनि प्रमा­ण­ता­म­श्नु­वते । एक­त्वै­का­न्ता­भ्यु­प­गमे तु तेषां सर्वेषां भेदविषयाणां बाधि­त­त्वा­द­प्रा­माण्यं प्रसज्येत । तथा विधि­प्र­ति­षे­ध­शा­स्त्र­मपि भाव­ना­भा­व्य­भा­व­क­क­र­णे­ति­क­र्त­व्य­ता­भे­दा­पे­क्ष­त्वा­द्व्या­ह­न्येत । तथा च नास्तिक्यम् । एकदेशाक्षेपेण च सर्व­वे­दा­क्षे­पा­द्वे­दा­न्ता­ना­म­प्य­प्रा­मा­ण्य­मि­त्य­भे­दै­का­न्ता­भ्यु­प­ग­म­हानिः । न केवलं विधि­नि­षे­धा­क्षे­पे­णास्य मोक्ष­शा­स्त्र­स्या­क्षेपः स्वरूपेणास्यापि भेदा­पे­क्ष­त्वा­दि­त्याह

मोक्ष­शा­स्त्र­स्या­पीति ।
अपि चास्मिन् दर्शने वर्ण­प­द­वा­क्य­प्र­क­र­णा­दी­ना­म­ली­क­त्वा­त्त­त्प्र­भ­व­म­द्वै­त­ज्ञा­न­म­स­मी­चीनं भवेत् , न खल्व­ली­का­द्धू­म­के­त­न­ज्ञानं समीचीनमित्याह

कथं चानृतेन मोक्ष­शा­स्त्रे­णेति ।

परिहरति -
अत्रोच्यत इति ।
यद्यपि प्रत्यक्षादीनां तात्त्वि­क­म­बा­धि­तत्वं नास्ति, युक्त्या­ग­माभ्यां बाधनात् , तथापि व्यवहारे बाध­ना­भा­वा­त्सां­व्य­व­हा­रि­क­म­बा­ध­नम् । नहि प्रत्य­क्षा­दि­भि­रर्थं परिच्छिद्य प्रवर्तमानो व्यवहारे विसम्वाद्यते सांसारिकः कश्चित् । तस्मादबाधनान्न प्रमा­ण­ल­क्ष­ण­म­ति­प­तन्ति प्रत्यक्षादय इति ।

सत्य­त्वो­प­प­त्ते­रिति ।
सत्य­त्वा­भि­मा­नो­प­प­त्ते­रिति । ग्रह­ण­क­वा­क्य­मे­तत् । विभजते

यावद्धि न सत्या­त्मै­क­त्व­प्र­ति­प­त्ति­रिति ।
विकारानेव तु शरी­रा­दी­न­ह­मि­त्या­त्म­भा­वेन पुत्र­प­श्वा­दी­न्म­मे­त्या­त्मी­य­भा­वे­नेति योजना ।

वैदिकश्चेति ।
कर्म­का­ण्ड­मो­क्ष­शा­स्त्र­व्य­व­हा­र­स­म­र्थना । “स्वप्न­व्य­व­हा­र­स्येव” इति विभजते

यथा सुप्तस्य प्राकृतस्येति ।

“कथं चानृतेन मोक्षशास्त्रेण” इति यदुक्तं तदनुभाष्य दूषयति
कथं त्वसत्येनेति ।
शक्यमत्र वक्तुं श्रवणाद्युपाय आत्म­सा­क्षा­त्का­र­प­र्यन्तो वेदा­न्त­स­मु­त्थोऽपि ज्ञान­नि­च­योऽ­सत्यः, सोऽपि हि वृत्तिरूपः कार्यतया निरोधधर्मा, यस्तु ब्रह्म­स्व­भा­व­सा­क्षा­त्का­रोऽसौ न कार्य­स्त­त्स्व­भा­व­त्वात् , तस्मा­द­चो­द्य­मे­त­त्क­थ­म­स­त्या­त्स­त्यो­त्पाद इति । यत्खलु सत्यं न तदुत्पद्यत इति कुत­स्त­स्या­स­त्या­दु­त्पादः । यच्चोत्पद्यते तत्सर्वमसत्यमेव । सांव्यवहारिकं तु सत्यत्वं वृत्तिरूपस्य ब्रह्म­सा­क्षा­त्का­र­स्येव श्रव­णा­दी­ना­म­प्य­भि­न्नम् । तस्मादभ्युपेत्य वृत्तिस्वरूपस्य ब्रह्म­सा­क्षा­त्का­रस्य परमार्थसत्यतां व्यभि­चा­रो­द्भा­व­न­मिति मन्तव्यम् । यद्यपि सांव्वहारिकस्य सत्यादेव भयात्सत्यं मरणमुत्पद्यते तथापि भय­हे­तु­र­हि­स्त­ज्ज्ञानं वाऽसत्यं ततो भयं सत्यं जायत इत्य­स­त्या­त्स­त्य­स्यो­त्प­त्ति­रुक्ता । यद्यपि चाहिज्ञानमपि स्वरूपेण सत्तथापि न तज्ज्ञानत्वेन भयहेतुरपि त्वनि­र्वा­च्या­हि­रू­षि­त­त्वेन । अन्यथा रज्जुज्ञानादपि भय­प्र­स­ङ्गा­ज्ज्ञा­न­त्वे­ना­वि­शे­षात् । तस्मा­द­नि­र्वा­च्या­हि­रू­षितं ज्ञान­म­प्य­नि­र्वा­च्य­मिति सिद्धमसत्यादपि सत्यस्योपजन इति । न च ब्रूमः सर्व­स्मा­द­स­त्या­त्स­त्य­स्यो­प­जनः, यतः समा­रो­पि­त­धू­म­भा­वाया धूममहिष्या वह्निज्ञानं सत्यं स्यात् । नहि चक्षुषो रूपज्ञानं सत्यमुपजायत इति रसादिज्ञानेनापि ततः सत्येन भवितव्यम् । यतो नियमो हि स तादृशः सत्यानां यतः कुत­श्चि­त्कि­ञ्चि­देव जायत इति । एवमसत्यानामपि नियमो यतः कुत­श्चि­द­स­त्या­त्सत्यं कुतश्चिदसत्यं, यथा दीर्घ­त्वा­दे­र्व­र्णेषु समा­रो­पि­त­त्वा­वि­शे­षेऽ­प्य­जी­न­मि­त्यतो ज्यानि­वि­र­ह­म­व­ग­च्छन्ति सत्यम् । अजिनमित्यतस्तु समा­रो­पि­त­दी­र्घ­भा­वा­ज्ज्या­नि­वि­र­ह­म­व­ग­च्छन्तो भवन्ति भ्रान्ताः । न चोभयत्र दीर्घसमारोपं प्रति कश्चिदस्ति भेदः । तस्मा­दु­प­प­न्न­म­स­त्या­दपि सत्यस्योदय इति । निदर्शनान्तरमाह

स्वप्न­द­र्श­ना­व­स्थ­स्येति ।
यथा सांसारिको जाग्रद्भुजङ्गं दृष्ट्वा पलायते ततश्च न दंश­वे­द­ना­मा­प्नोति, पिपासुः सलिलमालोक्य पातुं प्रवर्तते ततस्तदासाद्य पाय­म्पा­य­मा­प्या­यितः सुखमनुभवति, एवं स्वप्ना­न्ति­केऽपि तदवस्थं सर्व­मि­त्य­स­त्या­त्का­र्य­सिद्धिः । शङ्कते

तत्का­र्य­म­प्य­नृ­त­मे­वेति ।
एवमपि नास­त्या­त्स­त्यस्य सिद्धि­रु­क्ते­त्यर्थः ।

परिहरति
तत्र ब्रूमः । यद्यपि स्वप्न­द­र्श­ना­व­स्थ­स्येति ।
लौकिको हि सुप्तो­त्थि­तोऽ­व­गम्यं बाधितं मन्यते न तदवगतिं, तेन यद्यपि परिक्षका अनि­र्वा­च्य­रू­षि­ता­म­व­ग­ति­म­नि­र्वाच्यां निश्चिन्वन्ति तथापि लौकि­का­भि­प्रा­ये­णै­त­दु­क्तम् । अत्रान्तरे लौकायतिकानां मतमपाकरोति

एतेन स्वप्न­दृ­शोऽ­व­ग­त्य­बा­ध­ने­नेति ।
यदा खल्वयं चैत्र­स्ता­र­क्षवीं व्यात्त­वि­क­ट­दं­ष्ट्रा­क­रा­ल­व­द­ना­मु­त्त­ब्ध­ब­म्भ्र­म­न्म­स्त­का­व­चु­म्बि­ला­ङ्गू­ला­म­ति­रो­षा­रु­ण­स्त­ब्ध­वि­शा­ल­वृ­त्त­लो­चनां रोमा­ञ्च­स­ञ्च­यो­त्फु­ल्ल­मी­षणां स्फटि­का­च­ल­भि­त्ति­प्र­ति­बि­म्बि­ता­म­भ्य­मि­त्रीणां तनुमास्थाय स्वप्ने प्रतिबुद्धो मानु­षी­मा­त्म­न­स्तनुं पश्यति तदो­भ­य­दे­हा­नु­ग­त­मा­त्मानं प्रतिसन्दधानो देहा­ति­रि­क्त­मा­त्मानं, निश्चिनोति, न तु देहमात्रम् , तन्मात्रत्वे देह­व­त्प्र­ति­स­न्धा­ना­भा­व­प्र­स­ङ्गात् । कथं चैतदुपपद्येत यदि स्वप्न­दृ­शोऽ­व­ग­ति­र­बा­धिता स्यात् । तद्बाधे तु प्रतिसन्धानाभाव इति । असत्याच्च सत्यप्रतीतिः श्रुति­सि­द्धा­न्व­य­व्य­ति­रे­क­सिद्धा चेत्याह

तथाच श्रुतिरिति ।

तथाकारादीति ।
यद्यपि रेखास्वरूपं सत्यं तथापि तद्य­था­स­ङ्के­त­म­स­त्यम् । नहि सङ्केतयितारः सङ्के­त­य­न्ती­दृ­शेन रेखाभेदेनायं वर्णः प्रत्येतव्योऽपि त्वीदृशो रेखाभेदोऽकार ईदृशश्च ककार इति । तथा चास­मी­ची­ना­त्स­ङ्के­ता­त्स­मी­ची­न­व­र्णा­व­ग­ति­रिति सिद्धम् । यच्चो­क्त­मे­क­त्वां­शेन ज्ञान­मो­क्ष­व्य­व­हारः सेत्स्यति, नानात्वांशेन तु कर्मकाण्डाश्रयो लौकिकश्च व्यवहारः सेत्स्यतीति, तत्राह

अपि चान्त्यमिदं प्रमाणमिति ।
यदि खल्वे­क­त्वा­ने­क­त्व­नि­ब­न्धनौ व्यवहारावेकस्य पुंसोऽपर्यायेण सम्भ­व­त­स्त­त­स्त­द­र्थ­मु­भ­य­स­द्भावः कल्प्येत, न त्वेतदस्ति । नह्ये­क­त्वा­व­ग­ति­नि­ब­न्धनः कश्चिदस्ति व्यवहारः, तदवगतेः सर्वोत्तरत्वात् । तथाहि “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्यै­का­त्म्या­व­गतिः सम­स्त­प्र­मा­ण­त­त्फ­ल­त­द्व्य­व­हा­रा­न­प­बा­ध­मा­नै­वो­दी­यते, नैतस्याः पर­स्ता­त्कि­ञ्चि­द­नु­कूलं प्रतिकूलं चास्ति, यदपेक्षेन, येन चेयं प्रतिक्षिप्येत, तत्रा­नु­कू­ल­प्र­ति­कू­ल­नि­वा­र­णा­न्नातः परं किञ्चि­दा­का­ङ्क्ष्य­मिति । न चेय­म­व­ग­ति­र्डु­लि­क्षी­र­प्रा­ये­त्याह

न चेयमिति ।
स्यादेतत् । अन्त्या चेदि­य­म­व­ग­ति­र्नि­ष्प्र­यो­जना तर्हि तथा च न प्रेक्षा­व­द्भि­रु­पा­दी­येत, प्रयोजनवत्त्वे वा नान्त्या स्यादित्यत आह

न चेय­म­व­ग­ति­र­न­र्थिका कुतः अवि­द्या­नि­वृ­त्ति­फ­ल­द­र्श­नात् ।
नहीयमुत्पन्ना सती पश्चादविद्यां निवर्तयति येन नान्त्या स्यात् , किन्त्व­वि­द्या­वि­रो­धि­स्व­भा­व­तया तन्नि­वृ­त्त्या­त्मै­वो­द­यते । अवि­द्या­नि­वृ­त्तिश्च न तत्कार्यतया फलमपि त्विष्टतया, इष्ट­ल­क्ष­ण­त्वा­त्फ­ल­स्येति । प्रतिकूलं पराचीनं निराकर्तुमाह

भ्रान्तिर्वेति ।
कुतः,

बाधकेति ।
स्यादेतत् । मा भूदे­क­त्व­नि­ब­न्धनो व्यव­हा­रोऽ­ने­क­त्व­नि­ब­न्ध­न­स्त्वस्ति, तदेव हि सकलामुद्वहति लोकयात्राम् , अत­स्त­त्सि­द्ध्य­र्थ­म­ने­क­त्वस्य कल्पनीयं तात्त्वि­क­त्व­मि­त्यत आह

प्राक्चेति ।
व्यवहारो हि बुद्धि­पू­र्व­का­रिणां बुद्ध्यो­प­प­द्यते, न त्वस्या­स्ता­त्त्वि­क­त्वेन, भ्रान्त्यापि तदु­प­प­त्ते­रि­त्या­वे­दि­तम् । सत्यं च तदविसंवादात् , अनृतं च विचा­रा­स­ह­त­या­नि­र्वा­च्य­त्वात् । अन्त्य­स्यै­का­त्म्य­ज्ञा­न­स्या­न­पे­क्ष­तया बाधकत्वं, अनेकत्वज्ञानस्य च प्रति­यो­गि­ग्र­हा­पे­क्षया दुर्बलत्वेन बाध्यत्वं वदन् प्रकृतमुपसंहरति

तस्मादन्त्येन प्रमाणेनेति ।
स्यादेतत् । न वय­म­ने­क­त्व­व्य­व­हा­र­सि­द्ध्य­र्थ­म­ने­क­त्वस्य तात्त्विकत्वं कल्पयामः, किन्तु श्रौतमेवास्य तात्त्वि­क­त्व­मिति चोदयति

ननु मृदादीति ।

परिहरति
नेत्युच्यत इति ।
मृदा­दि­दृ­ष्टा­न्तेन हि कथञ्चित्परिणाम उन्नेयः, नच शक्य उन्नेतुम् , “मृत्तिकेत्येव सत्यम्”(छा. उ. ६ । १ । ४) इति कार­ण­मा­त्र­स­त्य­त्वा­व­धा­र­णेन कार्य­स्या­नृ­त­त्व­प्र­ति­पा­द­नात् । साक्षा­त्कू­ट­स्थ­नि­त्य­त्व­प्र­ति­पा­दि­कास्तु सन्ति सहस्रशः श्रुतय इति न परिणामधर्मता ब्रह्मणः । अथ कूटस्थस्यापि परिणामः कस्मान्न भवतीत्यत आह

न ह्येकस्येति ।

शङ्कते
स्थितिगतिवदिति ।
यथैकबाणाश्रये गतिनिवृत्ती एव­मे­क­स्मि­न्ब्र­ह्मणि परिणामश्च तदभावश्च कौटस्थ्यं भविष्यत इति । निराकरोति

न कूटस्थस्येति विशेषणादिति ।
कूटस्थनित्यता हि सदातनी स्वभा­वा­द­प्र­च्युतिः । सा कथं प्रच्युत्या न विरुध्यते । नच धर्मिणो व्यतिरिच्यते धर्मो येन तदुपजनापायेऽपि धर्मी कूटस्थः स्यात् । भेद ऐकान्तिके गवा­श्व­व­द्ध­र्म­ध­र्मि­भा­वा­भा­वात् । बाणादयस्तु परिणामिनः स्थित्या गत्या च परिणमन्त इति । अपि च स्वाध्या­या­ध्य­य­न­वि­ध्या­पा­दि­ता­र्थ­व­त्त्वस्य वेदराशेरेकेनापि वर्णेनानर्थकेन न भवितव्यं किं पुनरियता जगतो ब्रह्म­यो­नि­त्व­प्र­ति­पा­द­केन वाक्यसन्दर्भेण । तत्र फल­व­द्ब्र­ह्म­द­र्श­न­स­मा­म्ना­न­स­न्नि­धा­व­फलं जगद्योनित्वं समाम्नायमानं तदर्थं सत्त­दु­पा­य­त­या­व­ति­ष्ठते नार्था­न्त­रा­र्थ­मि­त्याह

नच यथा ब्रह्मण इति ।
अतो न परि­णा­म­प­र­त्व­म­स्ये­त्यर्थः ।

तद­न­न्य­त्व­मि­त्यस्य सूत्रस्य प्रतिज्ञाविरोधं श्रुतिविरोधं च चोदयति
कूट­स्थ­ब्र­ह्मा­त्म­वा­दिन इति ।

परिहरति
न । अविद्यात्मक इति ।
नाम च रूपं च ते एव बीजं तस्य व्याकरणं कार्य­प्र­प­ञ्च­स्त­द­पे­क्ष­त्वा­दै­श्व­र्यस्य । एतदुक्तं भवति न तात्त्वि­क­मै­श्वर्यं सर्वज्ञत्वं च ब्रह्मणः किन्त्व­वि­द्यो­पा­धि­क­मिति तदाश्रयं प्रति­ज्ञा­सूत्रं, तत्त्वाश्रयं तु तद­न­न्य­त्व­सू­त्रम् , तेनाविरोधः । सुगममन्यत् ॥ १४ ॥

भावे चोपलब्धेः ।
कारणस्य भावः सत्ता चोपलम्भश्च तस्मिन् कार्य­स्यो­प­ल­ब्धे­र्भा­वाच्च । एतदुक्तं भवति - विषयपदं विषयविषयिपरं, विषयिपदमपि विषयिविषयपरं, तेन कार­णो­प­ल­म्भ­भा­व­यो­रु­पा­दे­यो­प­ल­म्भ­भा­वा­दिति सूत्रार्थः सम्पद्यते । तथा च प्रभा­रू­पा­नु­वि­द्ध­बु­द्धि­बो­ध्येन चाक्षुषेण न व्यभिचारः, नापि वह्नि­भा­वा­भा­वा­नु­वि­धा­यि­भा­वा­भा­वेन धूमभेदेनेति सिद्धं भवति । तत्र यथो­क्त­हे­तो­रे­क­दे­शा­भि­धा­ने­नो­प­क्र­मते भाष्यकारः

इतश्च कार­णा­द­न­न्य­त्व­म्भे­दा­भावः कार्यस्य, यत्कारणं यस्मा­त्का­र­णा­त्भाव एव कारणस्येति ।

अस्य व्यतिरेकमुखेन गमकत्वमाह
नच नियमेनेति ।
काक­ता­ली­य­न्या­ये­ना­न्य­भा­वेऽ­न्य­दु­प­ल­भ्यते, न तु नियमेनेत्यर्थः ।

हेतुविशेषणाय व्यभिचारं चोदयति
नन्वन्यस्य भावेऽपीति ।

एकदेशिमतेन परिहरति
नेत्युच्यत इति ।

शङ्क­यै­क­दे­शि­प­रि­हारं दूषयित्वा पर­मा­र्थ­प­रि­हा­र­माह
अथेति ।
तदनेन हेतु­वि­शे­ष­ण­मु­क्तम् । पाठान्तरेणेदमेव सूत्रं व्याचष्टे

न केवलं शब्दादेवेति ।
पट इति हि प्रत्य­क्ष­बुद्ध्या तन्तव एवा­ता­न­वि­ता­ना­वस्था आलम्ब्यन्ते, न तु तदतिरिक्तः पटः प्रत्य­क्ष­मु­प­ल­भ्यते । एकत्वं तु तन्तू­ना­मे­क­प्रा­व­र­ण­ल­क्ष­णा­र्थ­क्रि­या­व­च्छे­दा­द्ब­हू­ना­मपि । यथै­क­दे­श­का­ला­व­च्छिन्ना धवखदिरपलाशादयो बहवोऽपि वनमिति । अर्थक्रियायां च प्रत्येकमसमर्था अप्य­ना­र­भ्यै­वा­र्था­न्तरं किञ्चिन्मिलिताः कुर्वन्तो दृश्यन्ते, यथा ग्रावाण उखाधारणमेकम् , एव­म­ना­र­भ्यै­वा­र्था­न्तरं तन्तवो मिलिताः प्रावरणमेकं करिष्यन्ति । नच सम­वा­या­द्भि­न्न­यो­रपि भेदानवसायः अनवसाय इति साम्प्रतम्, अन्यो­न्या­श्र­य­त्वात् । भेदे हि सिद्धे समवायः समवायाच्च भेदः । नच भेदे साधनान्तरमस्ति, अर्थ­क्रि­या­व्य­प­दे­श­भे­द­यो­र­भे­देऽ­प्यु­प­प­त्ते­रि­त्यु­प­पा­दि­तम् । तस्मा­द्य­त्कि­ञ्चि­दे­तम् । अनया च दिशा मूलकारणं ब्रह्मैव परमार्थसत् , अवान्तरकारणानि च तन्त्वादयः सर्वेऽ­नि­र्वाच्या एवेत्याह

तथा च तन्तुष्विति ॥ १५ ॥

सत्त्वा­च्चा­व­रस्य ।

विभजते
इतश्चेति ।
न केवलं श्रुतिः, उपपत्तिश्चात्र भवति

यच्च यदात्मनेति ।
नहि तैलं सिकतात्मना सिकतायामस्ति यथा घटोऽस्ति मृदि मृदात्मना । प्रत्युत्पन्नो हि घटो मृदा­त्म­नो­प­ल­भ्यते । नैवं प्रत्युत्पन्नं तैलं सिकतात्मना । तेन यथा सिकतायास्तैलं न जायत एवमात्मनोऽपि जगन्न जायेत, जायते च, तस्मा­दा­त्मा­त्म­ना­सी­दिति गम्यते । उपपत्त्यन्तरमाह

यथा कारणं ब्रह्मेति ।
यथा हि घटः सर्वदा सर्वत्र घट एव न जात्वसौ क्वचित्पटो भवत्येवं सदपि सर्वत्र सर्वदा सदेव न तु क्वचि­त्क­दा­चि­द­स­द्भ­वि­तु­म­र्ह­ती­त्यु­प­पा­दि­त­म­ध­स्तात् । तस्मात्कार्यं त्रिष्वपि कालेषु सदेव । सत्त्वं चेत्किमतो यद्येवमित्यत आह

एकं च पुनरिति ।
सत्त्वं चैकं कार्यकारणयोः । नहि प्रतिव्यक्ति सत्त्वं भिद्यते । तत­श्चा­भि­न्न­स­त्ता­न­न्य­त्वा­देते अपि मिथो न भिद्येते इति । नच ताभ्या­म­न­न्य­त्वा­त्स­त्त्व­स्यैव भेद इति युक्तम् । तथा सति हि सत्त्वस्य समा­रो­पि­त­त्व­प्र­सङ्गः । तत्र भेदा­भे­द­यो­र­न्य­त­र­स­मा­रो­प­क­ल्प­नायां किं तात्त्वि­का­भे­दो­पा­दा­ना­भे­द­क­ल्प­नास्तु, आहो तात्त्वि­क­भे­दो­पा­दा­ना­भे­द­क­ल्प­नेति । वयं तु पश्यामो भेदग्रहस्य प्रति­यो­गि­ग्र­हा­पे­क्ष­त्वा­द्भे­द­ग्र­ह­म­न्त­रेण च प्रति­यो­गि­ग्र­हा­स­म्भ­वा­द­न्यो­न्य­सं­श्र­या­पत्तेः, अभेदग्रहस्य च निरपेक्षतया तद­नु­प­प­त्ते­रे­कै­का­श्र­य­त्वाच्च भेदस्यैकाभावे तद­नु­प­प­त्ते­र­भे­द­ग्र­हो­पा­दा­नैव भेदकल्पनेति सर्वमवदातम् ॥ १६ ॥

अस­द्व्य­प­दे­शा­न्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ।
व्याकृ­त­त्वा­व्या­कृ­तत्वे च धर्मा­व­नि­र्व­च­नीयौ । सूत्र­मे­त­न्नि­ग­द­व्या­ख्या­तेन भाष्येण व्याख्यातम् ॥ १७ ॥

युक्तेः शब्दान्तराच्च । अति­श­य­व­त्त्वा­त्प्रा­ग­व­स्थाया इति ।
अतिशयो हि धर्मो नासत्यतिशयवति कार्ये भवितुमर्हतीति । ननु न कार्यस्यातिशयो नियमहेतुरपि तु कारणस्य शक्तिभेदः, स चासत्यपि कार्ये कारणस्य सत्त्वा­त्स­न्ने­वे­त्यत आह

शक्तिश्चेति ।
नान्या कार्य­का­र­णाभ्यां, नाप्यसती कार्यात्मनेति योजना ।

अपिच कार्यकारणयोरिति ।
यद्यपि “भावा­च्चो­प­लब्धेः”(ब्र. सू. २ । १ । १५) इत्यत्रायमर्थ उक्तस्तथापि समवायदूषणाय पुनरवतारितः । अनभ्युपगम्यमाने चसमवायस्य समवायिभ्यां सम्बन्धे विच्छे­द­प्र­स­ङ्गोऽ­व­य­वा­व­य­वि­द्र­व्य­गु­णा­दीनां मिथः । नह्यसम्बद्धः समवायिभ्यां समवायः समवायिनौ सम्बन्धयेदिति । शङ्कते

अथ समवायः स्वयमिति ।
यथा हि सत्त्व­यो­गा­द्द्र­व्य­गु­ण­क­र्माणि सन्ति, सत्त्वं तु स्वभावत एव सदिति न सत्त्वा­न्त­र­यो­ग­म­पे­क्षते, तथा समवायः समवायिभ्यां सम्बद्धुं न सम्ब­न्धा­न्त­र­यो­ग­म­पे­क्षते, स्वयं सम्ब­न्ध­रू­प­त्वा­दिति । तदे­त­त्सि­द्धा­न्ता­न्त­र­वि­रो­धा­पा­द­नेन निराकरोति

संयोगोऽपि तर्हीति ।
नच संयोगस्य कार्य­त्वा­त्का­र्यस्य च सम­वा­यि­का­र­णा­धी­न­ज­न्म­त्वात् असमवाये च तदनुपपत्तेः समवायकल्पना संयोग इति वाच्यम् । अजसंयोगे तदभावप्रसङ्गात् । अपि च सम्ब­न्ध्य­धी­न­नि­रू­पणः समवायो यथा सम्ब­न्धि­द्व­य­भेदे न भिद्यते तन्नाशे च न नश्यत्यपि तु नित्य एक एवं संयोगोऽपि भवेत् । ततः को दोषः । अथै­त­त्प्र­स­ङ्ग­भिया संयो­ग­व­त्स­म­वा­योऽपि प्रति­स­म्ब­न्धि­मि­थुनं भिद्यते चानि­त्य­श्चे­त्य­भ्यु­पे­यते, तथा सति यथै­क­स्मा­न्नि­मि­त्त­का­र­णा­देव जायत एवं संयोगोऽपि निमित्तकारणादेव जनिष्यत इति समानम् ।

तादा­त्म्य­प्र­ती­ते­श्चेति ।
सम्बन्धावगमो हि सम्ब­न्ध­क­ल्प­ना­बीजं न तादात्म्यावगमः, तस्य नाना­त्वै­का­श्र­य­स­म्ब­न्ध­वि­रो­धा­दिति । वृत्ति­वि­क­ल्पे­ना­व­य­वा­ति­रि­क्त­म­व­य­विनं दूषयति

कथञ्च कार्यमिति ।

समस्तेति ।
मध्य­प­र­भा­ग­यो­र­र्वा­ग्भा­ग­व्य­व­हि­त­त्वात् । अथ सम­स्ता­व­य­व­व्या­स­ङ्ग्यपि कतिपयावयवस्थानो ग्रहीष्यत इत्यत आह

नहि बहुत्वमिति ।

अथावयवश इति ।
बहुत्वसङ्ख्या हि स्वरूपेणैव व्यासज्य सङ्ख्येयेषु वर्तते इत्ये­क­म­स­ङ्ख्ये­या­ग्र­ह­णेऽपि न गृह्यते, सम­स्त­व्या­स­ङ्गि­त्वा­त्त­द्रू­पस्य । अवयवी तु न स्वरू­पे­णा­व­य­वा­न्व्या­प्नोति, अपि त्ववयवशः । तेन यथा सूत्रमवयवैः कुसुमानि व्याप्नुवन्न सम­स्त­कु­सु­म­ग्र­ह­ण­म­पे­क्षते कति­प­य­कु­सु­म­स्था­न­स्यापि तस्योपलब्धेः, एवमवयव्यपीति भावः । निराकरोति

तदापीति ।

शङ्कते
गोत्वादिवदिति ।

निराकरोति
नेति ।
यद्यपि गोत्वस्य सामान्यस्य विशेषा अनिर्वाच्या न पर­मा­र्थ­स­न्त­स्तथा च क्वास्य प्रत्ये­क­प­रि­स­मा­प्ति­रिति, तथा­प्य­भ्यु­पे­त्ये­द­मु­दि­त­मिति मन्तव्यम् । अकर्तृका यतोऽतो निरात्मिका स्यात् । कारणाभावे हि कार्यमनुत्पन्नं किंनाम भवेत् । अतो निरा­त्म­क­त्व­मि­त्यर्थः । यद्युच्येत घट­श­ब्द­स्त­द­व­य­वेषु व्यापा­रा­वि­ष्ट­तया पूर्वा­प­री­भा­व­मा­प­न्नेषु घटोपजनाभिमुखेषु ताद­र्थ्य­नि­मि­त्ता­दु­प­चा­रा­त्प्र­यु­ज्यते, तेषां च सिद्धत्वेन कर्तृ­त्व­म­स्ती­त्यु­प­प­द्यते घटो भवतीति प्रयोग इत्यत आह

घटस्य चोत्प­त्ति­रु­च्य­मा­नेति ।
उत्पादना हि सिद्धानां कपालकुलालादीनां व्यापारो नोत्पत्तिः । न चोत्पा­द­नै­वो­त्पत्तिः, प्रयो­ज्य­प्र­यो­ज­क­व्या­पा­र­यो­र्भे­दात् । अभेदे वा घट­मु­त्पा­द­य­ती­ति­व­द्घ­ट­मु­त्प­द्यत इत्यपि प्रसङ्गात् । तस्मा­त्क­रो­ति­का­र­य­त्यो­रिव घट­गो­च­र­यो­र्भृ­त्य­स्वा­मि­स­म­वे­त­यो­रु­त्प­त्त्यु­त्पा­द­न­यो­र­धि­ष्ठा­न­भे­दोऽ­भ्यु­पे­तव्यः, तत्र कपालकुलालादीनां सिद्धा­ना­मु­त्पा­द­ना­धि­ष्ठा­नानां नोत्प­त्त्य­धि­ष्ठा­न­त्व­म­स्तीति पारिशेष्याद्घट एव साध्य उत्प­त्ते­र­धि­ष्ठा­न­मे­षि­तव्यः । न चासा­व­स­न्न­धि­ष्ठानं भवितुमर्हतीति सत्त्व­म­स्या­भ्यु­पे­यम् । एवंच घटो भवतीति घटव्यापारस्य धातू­पा­त्त­त्वा­त्त­त्रास्य कर्तृ­त्व­मु­प­प­द्यते, तण्डुलानामिव सतां विक्लित्तौ विक्लिद्यन्ति तण्डुला इति । शङ्कते

अथ स्वका­र­ण­स­त्ता­स­म्बन्ध एवोत्पत्तिरिति ।
एतदुक्तं भवति नोत्पत्तिर्नाम कश्चि­द्व्या­पारः, येनासिद्धस्य कथमत्र कर्तृ­त्व­मि­त्य­नु­यु­ज्येत, किन्तु स्वकारणसमवायः, स्वसत्तासमवायो वा, स चास­तोऽ­प्य­वि­रुद्ध इति । सोऽप्य­स­तोऽ­नु­प­पन्न इत्याह

कथ­म­ल­ब्धा­त्म­क­मिति ।

अपि च प्रागु­त्प­त्ते­र­सत्त्वं कार्यस्येति कार्याभावस्य भावेन मर्या­दा­क­र­ण­म­नु­प­प­न्न­मि­त्याह
अभावस्य चेति ।

स्यादेतत् । अत्यन्ताभावस्य वन्ध्यासुतस्य मा भून्म­र्या­दा­नु­पाख्यो हि सः, घटप्रागभावस्य तु भविष्यता घटे­नो­पा­ख्ये­य­स्यास्ति मर्यादेत्यत आह
यदि वन्ध्यापुत्रः कार­क­व्या­पा­रा­दिति ।
उक्त­मे­त­द­ध­स्ता­द्यथा न जातु घटः पटो भवत्येवमसदपि सन्न भवतीति । तस्मा­न्मृ­त्पिण्डे घट­स्या­स­त्त्वेऽ­त्य­न्ता­स­त्त्व­मे­वेति । अत्रा­स­त्का­र्य­वादी चोदयति

नन्वेवं सतीति ।
प्राक्प्र­सि­द्ध­मपि कार्यं कदाचित्कारणेन योजयितुं व्यापा­रोऽ­र्थ­वा­न्भ­वे­दि­त्यत आह

तद­न­न्य­त्वा­च्चेति ।

परिहरति
नैष दोष इति ।
उक्तमेतद्यथा भुजङ्गतत्त्वं न रज्जोर्भिद्यते, रज्जुरेव हि तत् , काल्पनिकस्तु भेदः, एवं वस्तुतः कार्यतत्त्वं न कारणाद्भिद्यते कारणस्वरूपमेव हि तत् , अनिर्वाच्यं तु कार्यरूपं भिन्न­मि­वा­भि­न्न­मिव चावभासत इति । तदिदमुक्तम्

वस्त्व­न्य­त्व­मिति ।
वस्तुतः पर­मा­र्थ­तोऽ­न्यत्वं न विशे­ष­द­र्श­न­मा­त्रा­द्भ­वति । सांव्यावहारिके तु कथ­ञ्चि­त्त­त्त्वा­न्यत्वे भवत एवेत्यर्थः । अनयैव हि दिशैष सन्दर्भो योज्यः । असत्कार्यवादिनं प्रति दूषणान्तरमाह

यस्य पुनरिति ।
कार्यस्य कारणादभेदे सविषयत्वं कारकव्यापारस्य स्यान्ना­न्य­थे­त्यर्थः ।

मूलकारणं
ब्रह्म ।

शब्दा­न्त­रा­च्चेति सूत्रा­व­य­व­म­व­तार्य व्याचष्टे
एवं युक्तेः कार्यस्येति ।
अतिरोहितार्थम् ॥ १८ ॥

पटवच्च । यथा च प्राणादि ।
इति च सूत्रे निगदव्याख्यातेन भाष्येण व्याख्याते ॥ १९ ॥ २० ॥

इत­र­व्य­प­दे­शा­द्धि­ता­क­र­णा­दि­दो­ष­प्र­सक्तिः ।
यद्यपि शारी­रा­त्प­र­मा­त्मनो भेदमाहुः श्रुत­य­स्त­था­प्य­भे­द­मपि दर्शयन्ति श्रुतयो बह्व्यः । नच भेदाभेदावेकत्र समवेतौ विरोधात् , नच भेदस्तात्त्विक इत्युक्तम् । तस्मा­त्प­र­मा­त्मनः सर्वज्ञान्न शारीरस्तत्त्वतो भिद्यते । स एव त्ववि­द्यो­प­धा­न­भे­दा­द्घ­ट­क­र­का­द्या­का­श­व­द्भे­देन प्रथते । उपहितं चास्य रूपं शारीरः, तेन मा नाम जीवाः पर­मा­त्म­ता­मा­त्म­नोऽ­नु­भू­वन् , परमात्मा तु ताना­त्म­नोऽ­भि­न्ना­न­नु­भ­वति । अननुभवे सार्व­ज्ञ्य­व्या­घातः । तथा चायं जीवान् बध्न­न्ना­त्मा­न­मेव बध्नीयात् । तत्रेदमुक्तम्

नहि कश्चिदपरतन्त्रो बन्ध­ना­गा­र­मा­त्मनः कृत्वा­नु­प्र­वि­शति इत्यादि ।
तस्मान्न चेतनकारणं जगदिति पूर्वः पक्षः ॥ २१ ॥

अधिकं तु भेदनिर्देशात् ।
सत्यमयं परमात्मा सर्व­ज्ञ­त्वा­द्यथा जीवान् वस्तुत आत्मनोऽभिन्नान् पश्यति, पश्यत्येवं न भावत एषां सुख­दुः­खा­दि­वे­द­ना­स­ङ्गो­स्त्य­वि­द्या­व­शा­त्त्वेषां तद्वदभिमान इति । तथा च तेषां सुख­दुः­खा­दि­वे­द­ना­या­म­प्य­ह­मु­दा­सीन इति न तेषां बन्ध­ना­गा­र­नि­वे­शेऽ­प्य­स्ति­क्षतिः काचिन्ममेति न हिता­क­र­णा­दि­दो­षा­प­त्ति­रिति राद्धान्तः । तदिदमुक्तम्

अपिच यदा तत्त्वमसीति ।
अपिचेति चः पूर्वो­प­प­त्ति­सा­हित्यं द्योतयति, नोप­प­त्त्य­न्त­र­ताम् ॥ २२ ॥

स्यादेतत् । यदि ब्रह्मविवर्तो जगत् , हन्त सर्वस्यैव जीव­व­च्चै­त­न्य­प्र­सङ्ग इत्यत आह
अश्मादिवच्च तदनुपपत्तिः ।
अतिरोहितार्थेन भाष्येण व्याख्यातम् ॥ २३ ॥

उप­सं­हा­र­द­र्श­ना­न्नेति चेन्न क्षीरवद्धि ।
ब्रह्म खल्वे­क­म­द्वि­ती­य­तया परानपेक्षं क्रमे­णो­त्प­द्य­मा­नस्य जगतो विवि­ध­वि­चि­त्र­रू­प­स्यो­पा­दा­न­मु­पे­यते तदनुपपन्नम् । नह्ये­क­रू­पा­त्का­र्य­भेदो भवितुमर्हति, तस्या­क­स्मि­क­त्व­प्र­स­ङ्गात् । कारणभेदो हि कार्यभेदहेतुः, क्षीर­बी­जा­दि­भे­दा­द्द­द्य­ङ्कु­रा­दि­का­र्य­भे­द­द­र्श­नात् । न चाक्र­मा­त्का­र­णा­त्का­र्य­क्रमो युज्यते, समर्थस्य क्षेपा­यो­गा­द­द्वि­ती­य­तया च क्रम­व­त्त­त्स­ह­का­रि­स­म­व­धा­ना­प­पत्तेः । तदिदमुक्तम्

इह हि लोक इति ।
एकैकं मृदादि कारकं तेषां तु सामग्र्यं साधनम् , ततो हि कार्यं साधयत्येव, तस्मा­न्ना­द्वि­तीयं ब्रह्म जगदुपादानमिति प्राप्ते, उच्यते

क्षीरवद्धि ।
इदं तावद्भवान् पृष्टो व्याचष्टाम् किं तात्त्विकमस्य रूप­म­पे­क्ष्ये­द­मु­च्यते उता­ना­दि­ना­म­रू­प­बी­ज­स­हितं काल्पनिकं सार्वज्ञ्यं सर्वशक्तित्वम् । तत्र पूर्वस्मिन् कल्पे किं नाम ततोऽ­द्वि­ती­या­द­स­हा­या­दु­प­जा­यते । नहि तस्य शुद्ध­बु­द्ध­मु­क्त­स्व­भा­वस्य वस्तु­स­त्का­र्य­मस्ति । तथा च श्रुतिः “न तस्य कार्यं करणं च विद्यते”(श्वे. उ. ६ । ८) इति । उत्तरस्मिंस्तु कल्पे यदि कुला­ला­दि­व­द­त्य­न्त­व्य­ति­रि­क्त­स­ह­का­रि­का­र­णा­भा­वा­द­नु­पा­दा­नत्वं साध्यते, ततः क्षीरा­दि­भि­र्व्य­भि­चारः । तेऽपि हि बाह्य­चे­त­ना­दि­का­र­णा­न­पेक्षा एव कालपरिवशेन स्वत एव परि­णा­मा­न्त­र­मा­सा­द­यन्ति । अत्रा­न्त­र­का­र­णा­न­पे­क्षत्वं हेतुः क्रियते, तदसिद्धम् , अनि­र्वा­च्य­ना­म­रू­प­बी­ज­स­हा­य­त्वात् । तथा च श्रुतिः “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्”(श्वे. उ. ४ । १०) इति कार्यक्रमेण तत्परिपाकोऽपि क्रमवानुन्नेयः । एकस्मादपि च विचित्रशक्तेः कार­णा­द­ने­क­का­र्यो­त्पादो दृश्यते । यथै­क­स्मा­द्व­ह्ने­र्दा­ह­पा­का­वे­क­स्माद्वा कर्मणः संयो­ग­वि­भा­ग­सं­स्काराः । २४ ॥

यदि तु चेतनत्वे सतीति विशेषणान्न क्षीरा­दि­भि­र्व्य­भि­चारः, दृष्टा हि कुलालादयो बाह्य­मृ­दा­द्य­पेक्षाः, चेतनं च ब्रह्मेति, तत्रे­द­मु­प­ति­ष्ठते
देवादिवदपि लोके ।
लोक्यतेऽनेनेति लोकः शब्द एव तस्मिन् ॥ २५ ॥

कृत्स्न­प्र­स­क्ति­र्नि­र­व­य­व­त्व­श­ब्द­कोपो वा ।
ननु न ब्रह्म­ण­स्त­त्त्वतः परिणामो येन कार्त्स्न्य­भा­ग­वि­क­ल्पे­ना­क्षि­प्येत । अविद्याकल्पितेन तु नामरूपलक्षणेन रूपभेदेन व्याकृ­ता­व्या­कृ­ता­त्मना तत्त्वा­न्य­त्वा­भ्या­म­नि­र्व­च­नी­येन परि­णा­मा­दि­व्य­व­हा­रा­स्प­दत्वं ब्रह्म प्रतिपद्यते । नच कल्पितं रूपं वस्तु स्पृशति । नहि चन्द्रमसि तैमिरिकस्य द्वित्वकल्पना चन्द्रमसो द्वित्वमावहति । तदनुपपत्त्या वा चन्द्र­म­सोऽ­नु­प­पत्तिः । तस्मादवास्तवी परि­णा­म­क­ल्प­ना­नु­प­प­द्य­मा­नापि न परमार्थसतो ब्रह्म­णोऽ­नु­प­प­त्ति­मा­व­हति । तस्मा­त्पू­र्व­प­क्षा­भा­वा­द­ना­र­भ्य­मि­द­म­धि­क­र­ण­मिति, अत आह

चेतनमेकम् ।
यद्यपि श्रुति­श­ता­दै­का­न्ति­का­द्वै­त­प्र­ति­पा­द­न­प­रा­त्प­रि­णामो वस्तुतो निषिद्धस्तथापि क्षीरा­दि­दे­व­ता­दृ­ष्टा­न्तेन पुन­स्त­द्वा­स्त­व­त्व­प्र­सङ्गं पूर्व­प­क्षो­प­पत्त्या सर्वथायं पक्षो न घटयितुं शक्यत इत्यपबाध्य

श्रुतेस्तु शब्दमूलत्वात् ,
'आत्मनि चैवं विचित्राश्च हि” इति सूत्राभ्यां विव­र्त­दृ­ढी­क­र­णे­नै­का­न्ति­का­द्व­य­ल­क्षणः श्रुत्यर्थः परिशोध्यत इत्यर्थः ।

तस्मा­द­स्त्य­वि­कृतं ब्रह्म
तत्त्वतः ।

ननु शब्देना
पीति चोद्य­म­वि­द्या­क­ल्पि­त­त्वो­द्घा­ट­नाय । नहि निर­व­य­व­त्व­सा­व­य­व­त्वाभ्यां विधा­न्त­र­म­स्त्ये­क­नि­षे­ध­स्ये­त­र­वि­धा­ना­न्त­री­य­क­त्वात् । तेन प्रका­रा­न्त­रा­भा­वा­न्नि­र­व­य­व­त्व­सा­व­य­व­त्व­योश्च प्रका­र­यो­र­नु­प­प­त्ते­र्ग्रा­व­प्ल­व­ना­द्य­र्थ­वा­द­व­द­प्र­माणं शब्दः स्यादिति चोद्यार्थः । परिहारः सुगमः ॥ २६ ॥ ॥ २७ ॥

आत्मनि चैवं विचित्राश्च हि ।
अनेन स्फुटितो मायावादः । स्वप्नदृगात्मा हि मनसैव स्वरू­पा­नु­प­म­र्देन रथादीन् सृजति ॥ २८ ॥

स्वपक्षदोषाच्च ।

चोदयति
ननु नैवेति ।

परहरति
नैव­ञ्जा­ती­य­के­नेति ।
यद्यपि समुदायः सावयवस्तथापि प्रत्येकं सत्त्वादयो निरवयवाः । नह्यस्ति सम्भवः सत्त्वमात्रं परिणमते न रजस्तमसी इति । सर्वेषां सम्भू­य­प­रि­णा­मा­भ्यु­प­ग­मात् । प्रत्येकं चानवयवानां कृत्स्नपरिणामे मूलो­च्छे­द­प्र­सङ्गः । एकदेशपरिणामे वा सावयवत्वमनिष्टं प्रसज्येत ।

तथा­अ­णु­वा­दि­नोऽ­पीति ।
वैशेषिकाणां ह्यणुभ्यां संयुज्य द्व्यणु­क­मे­क­मा­र­भ्यते, तैस्त्रि­भि­र्द्व्य­णु­कै­स्त्र्य­णु­क­मे­क­मा­र­भ्यत इति प्रक्रिया । तत्र द्वयो­र­ण्वो­र­न­व­य­वयोः संयोगस्तावणू व्याप्नुयात् । अव्याप्नुवन्वा तत्र न वर्तेत । नह्यस्ति सम्भवः स एव तदानीं तत्र वर्तते न वर्तते चेति । तथा चोप­र्य­धः­पा­र्श्वस्थाः षडपि परमाणवः समानदेशा इति प्रथि­मा­नु­प­प­त्ते­र­णु­मात्रः पिण्डः प्रसज्येत । अव्यापने वा षडवयवः परमाणुः स्यादि­त्य­न­व­य­व­त्व­व्या­कोपः । अशक्यं च साव­य­व­त्व­मु­पेतुं, तथा सत्य­न­न्ता­व­य­व­त्वेन सुमे­रु­रा­ज­स­र्ष­पयोः समा­न­प­रि­मा­ण­त्व­प्र­सङ्गः । तस्मात्समानो दोषः । आपातमात्रेण साम्यमुक्तम् , परमार्थतस्तु भाविकं परिणामं वा कार्यकारणभावं वेच्छतामेष दुर्वारो दोषो न पुनरस्माकं माया­वा­दि­ना­मि­त्याह

परिहृतस्त्विति ॥ २९ ॥

विचि­त्र­श­क्ति­त्व­मुक्तं ब्रह्मण, तत्र श्रुत्यु­प­न्या­स­परं सूत्रम्
सर्वोपेता च तद्दर्शनात् ॥ ३० ॥

एत­दा­क्षे­प­स­मा­धा­न­परं सूत्रम्
विकरणत्वान्नेति चेत्तदुक्तम् ।
कुला­ला­दि­भ्य­स्ता­व­द्बा­ह्य­क­र­णा­पे­क्षेभ्यो देवादीनां बाह्या­न­पे­क्षा­णा­मा­न्त­र­क­र­णा­पे­क्ष­सृ­ष्ठीनां प्रमाणेन दृष्टो यथा विशेषो नापह्नोतुं शक्यः, यथा तु जाग्र­त्सृ­ष्टे­र्बा­ह्य­क­र­णा­पे­क्षा­या­स्त­द­न­पे­क्षा­न्त­र­क­र­ण­मा­त्र­साध्या दृष्टा स्वप्ने रथा­दि­सृ­ष्टि­र­श­क्या­प­ह्नो­तुम् , एवं सर्वशक्तेः परस्या देवताया आन्त­र­क­र­णा­न­पे­क्षाया जगत्सर्जनं श्रूयमाणं न सामान्यतो दृष्ट­मा­त्रे­णा­प­ह्न­व­म­र्ह­तीति ॥ ३१ ॥

न प्रयो­ज­न­व­त्त्वात् ।
न ताव­दु­न्म­त्त­व­दस्य मति­वि­भ्र­मा­ज्ज­ग­त्प्र­क्रिया, भ्रान्तस्य सर्व­ज्ञ­त्वा­नु­प­पत्तेः । तस्मा­त्प्रे­क्षा­व­ता­नेन जगत्कर्तव्यम् । प्रेक्षावतश्च प्रवृत्तिः स्वप­र­हि­ता­हि­त­प्रा­प्ति­प­रि­हा­र­प्र­यो­जना सती नाप्र­यो­ज­ना­ल्पा­या­सापि सम्भवति, किं पुन­र­प­रि­मे­या­ने­क­वि­धो­च्चा­व­च­प्र­प­ञ्च­ज­ग­द्वि­भ्र­म­वि­र­चना महाप्रयासा । अत एव लीलापि परास्ता । अल्पायाससाध्या हि सा । न चेय­म­प्य­प्र­यो­जना, तस्या अपि सुख­प्र­यो­ज­न­व­त्त्वात् । तादर्थ्येन वा प्रवृतौ तदभावे कृता­र्थ­त्वा­नु­प­पत्तेः । परेषां चोप­का­र्या­णा­म­भा­वेन तदुपकाराया अपि प्रवृ­त्ते­र­यो­गात् । तस्मा­त्प्रे­क्षा­व­त्प्र­वृत्तिः प्रयोजनवत्तया व्याप्ता तदभावेऽनुपपन्ना ब्रह्मोपादानतां जगतः प्रतिक्षिपतीति प्राप्तम् ॥ ३२ ॥

एवं प्राप्तेऽ­भि­धी­यते
लोकवत्तु लीलाकैवल्यम् ।
भवेदेतदेवं यदि प्रेक्षा­व­त्प्र­वृत्तिः प्रयोजनवत्तया व्याप्ता भवेत् । ततस्तन्निवृत्तौ निवर्तेत, शिंशपात्वमिव वृक्ष­ता­नि­वृत्तौ, न त्वेतदस्ति, प्रेक्षा­व­ता­म­न­नु­सं­हि­त­प्र­यो­ज­ना­ना­मपि यादृच्छिकीषु क्रियासु प्रवृ­त्ति­द­र्श­नात् । अन्यथा “न कुर्वीत वृथा चेष्टाम्” इति धर्मसूत्रकृतां प्रतिषेधो निर्विषयः प्रसज्येत । न चोन्मत्तान् प्रत्ये­त­त्सू­त्र­म­र्थ­वत् , तेषां तद­र्थ­बो­ध­त­द­नु­ष्ठा­ना­नु­प­पत्तेः । अपि चादृ­ष्ट­हे­तु­कौ­त्प­त्तिकी श्वास­प्र­श्वा­स­ल­क्षणा प्रेक्षावतां क्रिया प्रयो­ज­ना­नु­स­न्धा­न­म­न्त­रेण दृष्टा । न चास्यां चेतनस्यापि चैतन्यमनुपयोगि, सम्प्रसादेऽपि भावादिति युक्तम् , प्राज्ञस्यापि चैत­न्या­प्र­च्युतेः । अन्यथा मृतशरीरेऽपि श्वास­प्र­श्वा­स­प्र­वृ­त्ति­प्र­स­ङ्गात् । यथा च स्वार्थ­प­रा­र्थ­स­म्प­दा­सा­दि­त­स­म­स्त­का­मानां कृत­कृ­त्य­त­या­ना­कू­ल­म­न­सा­म­का­मा­ना­मेव लीला­मा­त्रा­त्स­त्य­प्य­नु­नि­ष्पा­दिनि प्रयोजने नैव तदुद्देशेन प्रवृत्तिरेवं ब्रह्मणोऽपि जगत्सर्जने प्रवृ­त्ति­र्ना­नु­प­पन्ना । दृष्टं च यद­ल्प­ब­ल­वी­र्य­बु­द्धि­ना­म­श­क्य­म­ति­दु­ष्करं वा तद­न्ये­षा­म­न­ल्प­ब­ल­वी­र्य­बु­द्धीनां सुशकमीषत्करं वा । नहि वान­रै­र्मा­रु­ति­प्र­भृ­ति­भि­र्न­गैर्न बद्धो नीरनिधिरगाधो महासत्त्वानाम् । न चैष पार्थेन शिलीमुखैर्न बद्धः । न चायं न पीतः सङ्क्षिप्य चुलुकेन हेलयेव कलशयोनिना महामुनिना । न चाद्यापि न दृश्यन्ते लीला­मा­त्र­वि­नि­र्मि­तानि महा­प्रा­सा­द­प्र­म­द­व­नानि श्रीम­न्नृ­ग­न­रे­न्द्रा­णा­म­न्येषां मनसापि दुष्कराणि नरेश्वराणाम् । तस्मादुपपन्नं यदृच्छया वा स्वभावाद्वा लीलया वा जगत्सर्जनं भगवतो महेश्वरस्येति । अपि च नेयं पारमार्थिकी सृष्टि­र्ये­ना­नु­यु­ज्येत प्रयोजनम् , अपि त्वना­द्य­वि­द्या­नि­ब­न्धना । अविद्या च स्वभावत एव कार्योन्मुखी न प्रयोजनमपेक्षते । नहि द्विच­न्द्रा­ला­त­च­क्र­ग­न्ध­र्व­न­ग­रा­दि­वि­भ्रमाः समु­द्दि­ष्ट­प्र­यो­जना भवन्ति । नच तत्कार्या विस्म­य­भ­य­क­म्पा­दयः स्वोत्पत्तौ प्रयो­ज­न­म­पे­क्षन्ते । सा च चैतन्यच्छुरिता जग­दु­त्पा­द­हे­तु­रिति चेतनो जग­द्यो­नि­रा­ख्या­यत इत्याह

न चेयं परमार्थविषयेति ।
अपि च न ब्रह्म जगत्कारणमपि तत्तया विवक्षन्त्यागमा अपि तु जगति ब्रह्मात्मभावम् । तथा च सृष्टे­र­वि­व­क्षायां तदाश्रयो दोषो निर्विषय एवेत्याशयेनाह

ब्रह्मा­त्म­भा­वेति ॥ ३३ ॥

वैष­म्य­नै­र्घृण्ये न सापे­क्ष­त्वा­त्तथा हि दर्शयति ।
अतिरोहितोऽत्र पूर्वः पक्षः । उत्तरस्तूच्यते उच्चा­व­च­म­ध्य­म­सु­ख­दुः­ख­भे­द­व­त्प्रा­ण­भृ­त्प्र­पञ्चं च सुखदुःखकारणं सुधाविषादि चानेकविधं विरचयतः प्राण­भृ­द्भे­दो­पा­त्त­पा­प­पु­ण्य­क­र्मा­श­य­स­हा­य­स्या­त्र­भ­वतः परमेश्वरस्य न च वैष­म्य­नै­र्घृण्ये प्रसज्येते । नहि सभ्यः सभायां नियुक्तो युक्तवादिनं युक्तवाद्यसीति चायु­क्त­वा­दि­न­म­यु­क्त­वा­द्य­सीति ब्रुवाण, सभापतिर्वा युक्त­वा­दि­न­म­नु­गृ­ह्ण­न्न­यु­क्त­वा­दिनं च निगृ­ह्ण­न्न­नुक्तो द्विष्टो वा भवत्यपि तु मध्यस्थ इति वीतरागद्वेष इति चाख्यायते, तद्वदीश्वरः पुण्य­क­र्मा­ण­म­नु­गृ­ह्ण­न्न­पु­ण्य­क­र्माणं च निगृ­ह्ण­न्म­ध्यस्थ एव नामध्यस्थः । एवं ह्यसावमध्यस्थः स्याद्य­क­ल्या­ण­का­रि­ण­म­नु­गृ­ह्णी­या­त्क­ल्या­ण­का­रिणं च निगृह्णीयात् । नत्वेतदस्ति । तस्मान्न वैषम्यदोषः । अत एव न नैर्घृण्यमपि संहरतः समस्तान् प्राणभृतः । स हि प्राण­भृ­त्क­र्मा­श­यानां वृत्ति­नि­रो­ध­स­मयः, तम­ति­ल­ङ्घ­य­न्न­य­म­यु­क्त­कारी स्यात् । नच कर्मा­पे­क्षा­या­मी­श्व­रस्य ऐश्वर्यव्याघातः । नहि सेवा­दि­क­र्म­भे­दा­पेक्षः फलभेदप्रदः प्रभु­र­प्र­भु­र्भ­वति । न च “एष ह्येव साधु कर्म कारयति यमेभ्यो लोकेभ्य उन्निनीषते एष एवासाधु कर्म कारयति तं यमधो निनिषते”(कौ.उ.३-८) इति श्रुतेरीश्वर एष द्वेष­प­क्ष­पा­ताभ्यां साध्वसाधुनी कर्मणी कारयित्वा स्वर्गं नरकं वा लोकं नयति, तस्मा­द्वै­ष­म्य­दो­ष­प्र­स­ङ्गा­न्ने­श्वरः कारणमिति वाच्यम् । विरोधात् । यस्मात्कर्म कारयित्वेश्वरः प्राणिनः सुखदुःखिनः सृजति इति श्रुतेरवगम्यते, तस्मान्न सृजतीति विरुद्धमभिधीयते । नच वैषम्यमात्रमत्र ब्रूमो न त्वीश्व­र­का­र­णत्वं व्यासेधाम इति वक्तव्यम् । किमतो यद्येवम् । तस्मादीश्वरस्य सवा­स­न­क्ले­शा­प­रा­म­र्श­म­भि­व­द­न्तीनां भूयसीनां श्रुती­ना­म­नु­ग्र­हा­यो­न्नि­नी­ष­तेऽधो निनीषत इत्येतदपि तज्जा­ती­य­पू­र्व­क­र्मा­भ्या­स­व­शा­त्प्रा­णिन इत्येवं नेयम् । यथाहुः “जन्मजन्म यदभ्यस्तं दानमध्ययनं तपः । तेनै­वा­भ्या­स­यो­गेन तच्चैवाभ्यसते नरः ॥' इति । अभ्युपेत्य च सृष्टे­स्ता­त्त्वि­क­त्व­मि­द­मु­क्तम् । अनिर्वाच्या तु सृष्टिरिति न प्रस्म­र्त­व्य­म­त्रापि । तथा च माया­का­र­स्ये­वा­ङ्ग­सा­क­ल्य­वै­क­ल्य­भे­देन विचित्रान् प्राणिनो दर्शयतो न वैषम्यदोषः, सहसा संहरतो वा न नैर्धृण्यम् , एवमस्यापि भगवतो विवि­ध­वि­चि­त्र­प्र­प­ञ्च­म­नि­र्वाच्यं विश्वं दर्शयतः संहरतश्च स्वभावाद्वा लीलया वा न कश्चिद्दोषः ॥ ३४ ॥

इति स्थिते शङ्कापरिहारपरं सूत्रम्
न कर्माविभागादिति चेन्ना­ना­दि­त्वाद् ।
शङ्कोत्तरे अतिरोहितार्थेन भाष्यग्रन्थेन व्याख्याते ॥ ३५ ॥

अनादित्वादिति सिद्धवदुक्तं, तत्साधनार्थं सूत्रम्
उपपद्यते चाप्युपलभ्यते च ।
अकृते कर्मणि पुण्ये पापे वा तत्फलं भोक्ता­र­म­ध्या­ग­च्छेत् , तथा च विधि­नि­षे­ध­शा­स्त्र­म­न­र्थकं भवे­त्प्र­वृ­त्ति­नि­वृ­त्त्य­भा­वा­दिति । मोक्षशास्त्रस्य चोक्त­मा­न­र्थ­क्यम् ।

न चाविद्या केवलेति लयाभिप्रायम् ।
विक्षे­प­ल­क्ष­णाSवि­द्या­सं­स्का­रस्तु कार्य­त्वा­त्स्वो­त्पत्तौ पूर्वं विक्षे­प­म­पे­क्षते, विक्षेपश्च मिथ्याप्रत्ययो मोहापरनामा पुण्या­पु­ण्य­प्र­वृ­त्ति­हे­तु­भू­त­रा­ग­द्वे­ष­नि­दानं, स च रागादिभिः सहितः स्वकार्यैर्न शरीरं सुख­दुः­ख­भो­गा­य­त­न­म­न्त­रेण सम्भवति । नच रागा­द्वै­षा­व­न्त­रेण कर्म । नच भोगसहितं मोहमन्तरेण रागद्वेषौ । नच पूर्व­श­री­र­म­न्त­रेण मोहादिरिति पूर्व­पू­र्व­श­री­रा­पेक्षो मोहादिरेवं पूर्व­पू­र्व­मो­हा­द्य­पेक्षं पूर्व­पू­र्व­श­री­र­मि­त्य­ना­दि­तै­वात्र भगवती चित्तमनाकुलयति । तदेतदाह

रागा­दि­क्ले­श­वा­स­ना­क्षि­प्त­क­र्मा­पेक्षा त्वविद्या वैषम्यकरी स्यादिति ।
रागद्वेषमोहा रागादयस्त एव हि पुरुषं संसा­र­दुः­ख­म­नु­भाव्य क्लेशयन्तीति क्लेशास्तेषां वासनाः कर्म­प्र­वृ­त्त्य­नु­गु­णा­स्ता­भि­रा­क्षि­प्तानि प्रवर्त्तितानि कर्माणि तदपेक्षा लयलक्षणा अविद्या । स्यादेतत् । भविष्यतापि व्यपदेशो दृष्टो यथा “पुरोडाशकपालेन तुषानुपवपति” इति । अत आह

नच धारयिष्यतीत्यत इति ।
तदेवमनादित्वे सिद्धे “सदेव सोम्येदमग्र आसी­दे­क­मे­वा­द्वि­ती­यम्”(छा. उ. ६ । २ । १) इति प्राक्सृ­ष्टे­र­वि­भा­गा­व­धा­रणं समु­दा­च­र­द्रू­प­रा­गा­दि­नि­षे­ध­परं न पुन­रे­ता­न्प्र­सु­प्ता­न­प्य­पा­क­रो­तीति सर्वमवदातम् ॥ ३६ ॥

सर्व­ध­र्मो­प­प­त्तेश्च ।

अत्र
सर्वज्ञमिति ।
दृश्यते सर्वस्य चेत­ना­धि­ष्ठि­त­स्यैव लोके प्रवृत्तिरिति लोकानुसारो दर्शितः ।

सर्वशक्तीति ।
सर्वस्य जगत उपादानकारणं निमित्तकारणं चेत्युपपादितम् ।

महामायमिति ।
सर्वा­नु­प­प­त्ति­शङ्का परास्ता । तस्मा­ज्ज­ग­त्का­रणं ब्रह्मेति सिद्धम् ॥ ३७ ॥
इति श्रीवा­च­स्प­ति­मि­श्र­वि­र­चिते भग­व­त्पा­द­शा­री­रि­क­भा­ष्य­वि­भागे भामत्यां द्विती­य­स्या­ध्या­यस्य प्रथमः पादः ॥ १ ॥

द्वितीयाध्याये द्वितीयः पादः ।
रचनानुपपत्तेश्च नानुमानम् ।
स्यादेतत् । इह हि पादे स्वतन्त्रा वेदनिरपेक्षाः प्रधा­ना­दि­सि­द्धि­वि­षयाः साङ्ख्या­दि­यु­क्तयो निराकरिष्यन्ते । तद­यु­क्त­म­शा­स्त्रा­ङ्ग­त्वात् । नहीदं शास्त्र­मु­च्छृ­ङ्ख­ल­त­र्क­शा­स्त्र­व­त्प्र­वृ­त्त­मपि तु वेदान्तवाक्यानि ब्रह्मपराणीति पूर्व­प­क्षो­त्त­र­प­क्षाभ्यां विनिश्चेतुम् । तत्र कः प्रसङ्गः शुष्क­त­र्क­व­त्स्व­त­न्त्र­यु­क्ति­नि­रा­क­र­ण­स्ये­त्यत आह

यद्यपीदं वेदा­न्त­वा­क्या­ना­मिति ।
नहि वेदान्तवाक्यानि निर्णेतव्यानीति निर्णीयन्ते, किन्तु मोक्षमाणानां तत्त्व­ज्ञा­नो­त्पा­द­नाय । यथा च वेदा­न्त­वा­क्येभ्यो जगदुपादानं ब्रह्मावगम्यते, एवं साङ्ख्या­द्य­नु­मा­नेभ्यः प्रधानाद्यचेतनं जग­दु­पा­दा­न­म­व­ग­म्यते । न चैतदेव चेत­नो­पा­दा­न­म­चे­त­नो­पा­दानं चेति समुच्चेतुं शक्यं, विरोधात् । न च व्यवस्थिते वस्तुनि विकल्पो युज्यते । न चाग­म­बा­धि­त­वि­ष­य­त­या­नु­मा­न­मेव नोदीयत इति साम्प्रतम् । सर्व­ज्ञ­प्र­णी­त­तया साङ्ख्या­द्या­ग­मस्य वेदा­ग­म­तु­ल्य­त्वा­त्त­द्भा­षि­त­स्या­नु­मा­नस्य प्रति­कृ­ति­सिं­ह­तु­ल्य­त­याSबा­ध्य­त्वात् । तस्मा­त्त­द्वि­रो­धान्न ब्रह्मणि समन्वयो वेदान्तानां सिध्यतीति न तत­स्त­त्त्व­ज्ञानं सेद्धुमर्हति । नच तत्त्व­ज्ञा­ना­दृते मोक्ष इति स्वत­न्त्रा­णा­म­प्य­नु­मा­ना­ना­मा­भा­सी­क­र­ण­मिह शास्त्रे­स­ङ्ग­त­मे­वेति । यद्येवं ततः पर­की­या­नु­मा­न­नि­रास एव कस्मात्प्रथमं न कृत इत्यत आह

वेदा­न्ता­र्थ­नि­र्ण­यस्य चेति ।

ननु वीतरागकथायां तत्त्व­नि­र्ण­य­मा­त्र­मु­प­यु­ज्यते न पुनः­प­र­प­क्षा­धि­क्षेपः, स हि सरागतामावहतीति चोदयति
ननु मुमुक्षूणामिति ।

परिहरति
बाढमेवं, तथापीति ।
तत्त्व­नि­र्ण­या­व­साना वीतरागकथा । नच पर­प­क्ष­दू­ष­ण­म­न्त­रेण तत्त्वनिर्णयः शक्यः कर्तुमिति तत्त्वनिर्णयाय वीतरागेणापि परपक्षो दूष्यते न तु परपक्षतयेति न वीत­रा­ग­क­था­त्व­व्या­ह­ति­रि­त्यर्थः । पुनरुक्ततां परिचोद्य समाधत्ते

नन्वीक्षतेरिति ।

तत्र साङ्ख्या इति ।
यानि हि येन रूपेणा स्थौल्यादा च सौक्ष्म्या­त्स­म­न्वी­यन्ते तानि तत्करणानि दृष्टानि, यथा घटादयो रुचकादयश्चा स्थौल्यादा च सौक्ष्म्या­न्मृ­त्सु­व­र्णा­न्वि­ता­स्त­त्क­रणाः, तथा चेदं बाह्य­मा­ध्या­त्मिकं च भावजातं सुःख­दुः­ख­मो­हा­त्म­ना­न्वि­त­मु­प­ल­भ्यते, तस्मात्तदपि सुःख­दुः­ख­मो­हा­त्म­सा­मा­न्य­का­र­णकं भवितुमर्हति । तत्र जगत्कारणस्य येयं सुखात्मता तत्सत्त्वं, या दुःखात्मता तद्रजः, या च मोहात्मता तत्तम इति त्रैगु­ण्य­का­र­ण­सिद्धिः । तथाहि प्रत्येकं भावा­स्त्रै­गु­ण्य­व­न्तोऽ­नु­भू­यन्ते । यथा मैत्रदारेषु पद्मावत्यां मैत्रस्य सुखं, तत्कस्य हेतोः, तम्प्रति सत्त्व­गु­ण­स­मु­द्भ­वात् । तत्सपत्नीनां च दुःखम्, तत्कस्य हेतोः, ताः प्रत्यस्या रजो­गु­ण­स­मु­द्भ­वात् । चैत्रस्य तु स्त्रैणस्य तामविन्दतो मोहो विषादः, तत्कस्य हेतोः, तं प्रत्य­स्या­स्त­मो­गु­ण­स­मु­द्भ­वात् । पद्मावत्या च सर्वे भावा व्याख्याताः । तस्मात्सर्वं सुःख­दुः­ख­मो­हा­न्वितं जगत्तत्कारणं गम्यते । तच्च त्रिगुणं प्रधानं प्रधीयते क्रियतेऽनेन जगदिति, प्रधीयते निधी­य­तेऽ­स्मि­न्प्र­ल­य­स­मये जगदिति वा प्रधानम् । तच्च मृत्सु­व­र्ण­व­द­चे­तनं चेतनस्य पुरुषस्य भोगा­प­व­र्ग­ल­क्ष­ण­मर्थं साधयितुं स्वभावत एव प्रवर्तते, न तु केन­चि­त्प्र­व­र्त्यते । तथा ह्याहुः “पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम्”(सां.का.३१) इति । परि­मा­णा­दि­भि­रि­त्या­दि­ग्र­ह­णे­नऽ­श­क्तितः प्रवृत्तेश्च । “कार­ण­का­र्य­वि­भा­गा­द­वि­भा­गा­द्वै­श्व­रू­प्यस्य”(सां.का.१७) इत्य­व्य­क्त­सि­द्धि­हे­तवो गृह्यन्ते । एतां­श्चे­प­रि­ष्टा­द्व्या­ख्याय निराकरिष्यत इति । तदे­त­त्प्र­धा­ना­नु­मानं दूषयति

तत्र वदाम इति ।
यदि तावदचेतनं प्रधा­न­म­न­धि­ष्ठितं चेतनेन प्रवर्तते स्वभावत एवेति साध्यते, तदयुक्तम्, सम­न्व­या­दे­र्हे­तो­श्चे­त­ना­न­धि­ष्ठि­त­त्व­वि­रु­द्ध­चे­त­ना­धि­ष्ठि­त­त्वेन मृत्सुवर्णादौ दृष्टा­न्त­ध­र्मिणि व्याप्ते­रु­प­ल­ब्धे­र्वि­रु­द्ध­त्वात् । नहि मृत्सु­व­र्ण­दा­र्वा­दयः कुला­ल­हे­म­का­र­र­थ­का­रा­दि­भि­र­न­धि­ष्ठिताः कुम्भ­रु­च­क­र­था­द्यु­पा­द­दते । तस्मा­त्कृ­त­क­त्व­मिव नित्यत्वसाधनाय प्रयुक्तं साध्यविरुद्धेन व्याप्तं विरुद्धम् , एवं समन्वयादि चेत­ना­न­धि­ष्ठि­तत्वे साध्य इति रच­ना­नु­प­प­त्ते­रिति दर्शितम् । यदुच्येत दृष्टा­न्त­ध­र्मि­ण्य­चे­तनं तावदुपादानं दृष्टं, तत्र यद्यपि तच्चे­त­न­प्र­यु­क्त­मपि दृश्यते, तथापि तत्प्रयुक्तत्वं हेतोरप्रयोजकं बहिरङ्गत्वात् , अन्तरङ्गं त्वचै­त­न्य­मा­त्र­मु­पा­दा­ना­नु­गतं हेतोः प्रयोजकम् । यथा­हुः"व्या­प्तेश्च दृश्यमानायाः कश्चिद्धर्मः प्रयो­ज­कः"इति । तत्राह

नच मृदादीति ।
स्वभा­व­प्र­ति­बद्धं हि व्याप्यं व्यापकमवगमयति । स च स्वभा­व­प्र­ति­बन्धः शङ्कि­त­स­मा­रो­पि­तो­पा­धि­नि­रासे सति निश्चीयते । तन्नि­श्च­य­श्चा­न्व­य­व्य­ति­रे­क­यो­रा­य­तते । तौ चान्वयव्यतिरेकौ न तथो­पा­दा­ना­चै­तन्ये यथा चेत­न­प्र­यु­क्त­त्वेऽ­ति­प­रि­स्फुटौ । तद­ल­म­त्रा­न्त­र­ङ्ग­त्वे­नेति भावः । एवमपि चेत­न­प्र­यु­क्तत्वं नाभ्युपेयेत यदि प्रमा­णा­न्त­र­वि­रोधो भवेत् , प्रत्युत श्रुति­र­नु­गु­ण­त­रा­त्रे­त्याह

न चैवं सतीति ।

चकारेण सुःख­दुः­खा­दि­स­म­न्व­य­ल­क्ष­णस्य हेतोरसिद्धत्वं समु­च्चि­नो­ती­त्याह
अन्व­या­द्य­नु­प­प­त्ते­श्चेति ।
आन्तराः खल्वमी सुःख­दुः­ख­मो­ह­वि­षादा बाह्ये­भ्य­श्च­न्द­ना­दि­भ्योऽ­ति­वि­च्छि­न्न­प्र­त्य­य­प्र­वे­द­नी­येभ्यो व्यतिरिक्ता अध्य­क्ष­मी­क्ष्यन्ते । यदि पुनरेत एव सुःख­दुः­खा­दि­स्व­भावा भवेयुस्ततः स्वरू­प­त्वा­द्धे­म­न्तेऽपि चन्दनः सुखः स्यात् । नहि चन्दनः कदाचिदचन्दनः । तथा निदाघेष्वपि कुङ्कुमपङ्कः सुखो भवेत् । नह्यसौ कदा­चि­द­कु­ङ्कु­म­पङ्क इति । एवं कण्टकः क्रमेलकस्य सुख इति मनुष्यादीनामपि प्राणभृतां सुखः स्यात् । नह्यसौ कांश्चि­त्प्र­त्येव कण्टक इति । तस्मा­द­सु­खा­दि­स्व­भावा अपि चन्द­न­कु­ङ्कु­मा­दयो जाति­का­ला­व­स्था­द्य­पे­क्षया सुखदुःखादिहेतवो न तु स्वयं सुखादिस्वभावा इति रमणीयम् । तस्मा­त्सु­खा­दि­रू­प­स­म­न्वयो भावानामसिद्ध इति नानेन तद्रूपं कार­ण­म­व्य­क्त­मु­न्नी­यत इति । तदिदमुक्तम्

शब्दा­द्य­वि­शे­षेऽपि च भावनाविशेषादिति ।
भावना वासना संस्का­र­स्त­द्वि­शे­षात् । करभजन्मसंवर्तकं हि कर्म करभोचितामेव भाव­ना­म­भि­व्य­निक्ति, यथास्मै कण्टका एव रोचन्ते । एवमन्यत्रापि द्रष्टव्यम् । परिमाणादिति साङ्ख्यीयं हेतुमुपन्यस्यति

तथा परिमितानां भेदानामिति ।
संस­र्ग­पू­र्व­कत्वे हि संस­र्ग­स्यै­क­स्मि­न्न­द्व­येऽ­स­म्भ­वा­न्ना­ना­त्वै­का­र्थ­स­म­वे­तस्य नानाकारणानि संसृष्टानि कल्पनीयानि, तानि च सत्त्व­र­ज­स्त­मां­स्ये­वेति भावः । तदे­त­त्प­रि­मि­तत्वं साङ्ख्यी­य­रा­द्धा­न्ता­लो­च­ने­ना­नै­का­न्ति­क­मिति दूषयति

सत्त्व­र­ज­स्त­म­सा­मिति ।
यदि ताव­त्प­रि­मि­त­त्व­मि­यत्ता, सा नभसोऽपि नास्ती­त्य­व्या­पको हेतुः परिमाणादिति । अथ न योजनादिमितत्वं परिमाणमियत्तां नभसो ब्रूमः किन्त्व­व्या­पि­ताम् , अव्यापि च नभ­स्त­न्मा­त्रादेः । नहि कार्यं कारणव्यापि, किन्तु कारणं कार्यव्यापीति परिमितं नभ­स्त­न्मा­त्रा­द्य­व्या­पि­त्वात् । हन्त सत्त्व­र­ज­स्त­मां­स्यपि न परस्परं व्याप्नुवन्ति, नच तत्त्वा­न्त­र­पू­र्व­क­त्व­मे­ते­षा­मिति व्यभिचारः । नहि यथा तैः कार्य­जा­त­मा­वि­ष्ट­मेवं तानि परस्परं विशन्ति, मिथः कार्य­का­र­ण­भा­वा­भा­वात् । पर­स्प­र­सं­स­र्ग­स्त्वा­वे­श­श्चि­ति­शक्तौ नास्ति । नहि चितिशक्तिः कूटस्थनित्या तैः संसृज्यते, ततश्च तदव्यापका गुणा इति परिमिताः । एवं चितिशक्तिरपि गुणैरसंसृष्टेति सापि परि­मि­ते­त्य­नै­का­न्ति­कत्वं परिमितत्वस्य हेतोरिति । तथा कार्य­का­र­ण­वि­भा­गोऽपि सम­न्व­य­व­द्वि­रुद्ध इत्याह

कार्य­का­र­ण­भा­व­स्त्विति ॥ १ ॥

प्रवृत्तेश्च ।
न केवलं रचनाभेदा न चेत­ना­धि­ष्ठा­न­म­न्त­रेण भवन्त्यपि तु साम्यावस्थायाः प्रच्यु­ति­र्वै­षम्यं, तथा च यदुद्भूतं बली­य­स्त­द­ङ्ग्य­भि­भूतं च तदनुगुणतया स्थितमङ्गम् , एवं हि गुणप्रधानभावे सत्यस्य महदादौ कार्ये का प्रवृत्तिः, सापि चेतनाधिष्ठानमेव गमयति । न हि चेत­ना­धि­ष्ठा­न­म­न्त­रेण मृत्पिण्डे प्रधा­नेऽ­ङ्ग­भा­वेन चक्र­द­ण्ड­स­लि­ल­सू­त्रा­द­योऽ­व­ति­ष्ठन्ते । तस्मा­त्प्र­वृ­त्ते­रपि चेत­ना­धि­ष्ठा­न­सि­द्धि­रिति “शक्तितः प्रवृत्तेश्च” इत्ययमपि हेतुः साङ्ख्यीयो विरुद्ध एवेत्युक्तं वक्रोक्त्या । अत्र साङ्ख्यश्चोदयति

ननु चेतनस्यापि प्रवृत्तिरिति ।
अयमभिप्रायः त्वया किलौ­प­नि­ष­दे­ना­स्म­द्धे­तून् दूषयित्वा केवलस्य चेत­न­स्यै­वा­न्य­नि­र­पे­क्षस्य जगदुपादानत्वं निमित्तत्वं च समर्थनीयम् । तदयुक्तम् । केवलस्य चेतनस्य प्रवृ­त्ते­र्दृ­ष्टा­न्त­ध­र्मि­ण्य­नु­प­ल­ब्धे­रिति । औपनिषदस्तु चेतनहेतुकां तावदेष साङ्ख्यः प्रवृ­त्ति­म­भ्यु­प­ग­च्छतु पश्चा­त्स्व­प­क्ष­मत एव समा­धा­स्या­मी­त्य­भि­स­न्धि­मा­नाह

सत्यमेतत् ।
न केवलस्य चेतनस्य प्रवृ­त्ति­र्दृ­ष्टेति । साङ्ख्य आह

न त्वचे­त­न­सं­यु­क्त­स्येति ।
तुशब्द औपनिषदपक्षं व्यावर्तयति । अचेतनाश्रयैव सर्वा प्रवृ­त्ति­र्दृ­श्यते न तु चेतनाश्रया काचिदपि । तस्मान्न चेतनस्य जगत्सर्जने प्रवृ­त्ति­रि­त्यर्थः । अत्रौपनिषदो गूढाभिसन्धिः प्रश्नपूर्वकं विमृशति

किं पुनरत्रेति ।

अत्रान्तरे साङ्ख्यो ब्रूते
ननु यस्मिन्निति ।
न तावच्चेतनः प्रवृ­त्त्या­श्र­य­तया तत्प्रयोजकतया वा प्रत्य­क्ष­मी­क्ष्यते, केवलं प्रवृ­त्ति­स्त­दा­श्र­य­श्चा­चे­तनो देहरथादिः प्रत्यक्षेण प्रतीयते, तत्राचेतनस्य प्रवृ­त्ति­स्त­न्नि­मि­त्तैव न तु चेतननिमित्ता । सद्भावमात्रं तु तत्र चेतनस्य गम्यते रथा­दि­वै­ल­क्ष­ण्या­ज्जी­व­द्दे­हस्य । नच सद्भावमात्रेण कारणत्वसिद्धिः । मा भूदाकाश उत्पत्तिमतां घटादीनां निमि­त्त­का­र­ण­मस्ति हि सर्वत्रेति । तदनेन देहातिरिक्ते सत्यपि चेतने तस्य न प्रवृत्तिं प्रति निमि­त्त­भा­वोऽ­स्ती­त्यु­क्तम् । यतश्चास्य न प्रवृ­त्ति­हे­तु­भा­वोऽस्ति अत एव प्रत्यक्षे देहे सति प्रवृ­त्ति­द­र्श­ना­द­सति चाद­र्श­ना­द्दे­ह­स्यैव चैतन्यमिति लौकायतिकाः प्रतिपन्नाः, तथा च न चिदात्मनिमित्ता प्रवृत्तिरिति सिद्धम् । तस्मान्न रचनायाः प्रवृत्तेर्वा चिदा­त्म­का­र­ण­त्व­सि­द्धि­र्ज­गत इति औपनिषदः परिहरति

तदभिधीयते न ब्रूम इति ।
न ताव­त्प्र­त्य­क्षा­नु­मा­ना­ग­म­सिद्धः शारीरो वा परमात्मा वास्माभिरिदानीं साधनीयः, केवलमस्य प्रवृत्तिं प्रति कारणत्वं वक्तव्यम् । तत्र मृतशरीरे वा रथादौ वानधिष्ठिते चेतनेन प्रवृ­त्ते­र­द­र्श­ना­त्त­द्वि­प­र्यये च प्रवृ­त्ति­द­र्श­ना­द­न्व­य­व्य­ति­रे­काभ्यां चेतनहेतुकत्वं प्रवृ­त्ते­र्नि­श्ची­यते, न तु चेत­न­स­द्भा­व­मा­त्रेण, येनातिप्रसङ्गो भवेत् । भूतचैतनिकानामपि चेद­ना­धि­ष्ठा­ना­द­चे­त­नानां प्रवृ­त्ति­रि­त्य­त्रा­वि­वाद इत्याह

लौका­य­ति­का­ना­म­पीति ।
स्यादेतत् । देहः स्वयं चेतनः करचरणादिमान् स्वव्यापारेण प्रवर्तयतीति युक्तं, न तु तदतिरिक्तः कूट­स्थ­नि­त्य­श्चे­तनो व्यापाररहितो ज्ञानैकस्वभावः प्रवृ­त्त्य­भा­वा­त्प्र­व­र्तको युक्त इति चोदयति

ननु तवेति ।

परिहरति
न ।

अय­स्का­न्त­व­द्रू­पा­दि­व­च्चेति ।

यथा च रूपादय इति ।
साङ्ख्यानां हि स्वदेशस्था रूपादय इन्द्रियं विकुर्वते, तेन तदिन्द्रियमर्थं प्राप्त­म­र्था­का­रेण परिणमत इति स्थितिः । सम्प्रति चोदकः स्वाभि­प्रा­य­मा­वि­ष्क­रोति

एकत्वादिति ।
येषामचेतनं चेतनं चास्ति तेषा­मे­त­द्यु­ज्यते वक्तुं चेत­ना­धि­ष्ठि­त­म­चे­तनं प्रवर्तत इति । यथा योगि­ना­मी­श्व­र­वा­दि­नाम् । येषां तु चेतनातिरिक्तं नास्त्य­द्वै­त­वा­दिनां, तेषां प्रवर्त्याभावे कं प्रति प्रवर्तकत्वं चेतनस्येत्यर्थः । परिहरति

न अविद्येति ।
कारणभूतया लय­ल­क्ष­ण­या­वि­द्यया प्राक्स­र्गो­प­चि­तेन च विक्षे­प­सं­स्का­रेण यत्प्र­त्यु­प­स्था­पितं नामरूपं तदेव माया, तदावेशेनास्य चोद्य­स्या­स­कृ­त्प्र­यु­क्त­त्वात् । एतदुक्तं भवति नेयं सृष्टि­र्व­स्तु­सती येनाद्वैतिनो वस्तुसतो द्विती­य­स्या­भा­वा­द­नु­यु­ज्येत । काल्पनिक्यां तु सृष्टावस्ति काल्पनिकं द्वितीयं सहायं मायामयम् । यथाहुः “सहायास्तादृशा एव यादृशी भवितव्यता ।' इति । न चैवं ब्रह्मो­पा­दा­न­त्व­व्या­घातः, ब्रह्मण एव माया­वे­शे­नो­पा­दा­न­त्वा­त्त­द­धि­ष्ठा­न­त्वा­ज्ज­ग­द्वि­भ्र­मस्य, रजतविभ्रमस्येव शुक्ति­का­धि­ष्ठा­नस्य शुक्ति­को­पा­दा­न­त्व­मिति निरवद्यम् ॥ २ ॥

पयो­म्बु­व­च्चे­त्त­त्रापि ।
यथा पयो­म्बु­नो­श्चे­त­ना­न­धि­ष्ठि­तयोः स्वत एव प्रवृत्तिरेवं प्रधानस्यापीति शङ्कार्थः । तत्रापि चेत­ना­धि­ष्ठि­तत्वं साध्यं, न च साध्येनैव व्यभिचारः, तथा सत्य­नु­मा­न­मा­त्रो­च्छे­द­प्र­स­ङ्गात् , सर्वत्रास्य सुलभत्वात् । न चासाध्यम् । अत्रापि चेत­ना­धि­ष्ठा­न­स्या­ग­म­सि­द्ध­त्वात् । न च सपक्षेण व्यभिचार इति शङ्का­नि­रा­क­र­ण­स्यार्थः ।

साध्य­प­क्षे­त्यु­प­ल­क्ष­णम् ।
सप­क्ष­नि­क्षि­प्त­त्वा­दि­त्यपि द्रष्टव्यम् । ननु “उप­सं­हा­र­द­र्श­नात्”(ब्र. सू. २ । १ । २४) इत्य­त्रा­न­पे­क्षस्य प्रवृ­त्ति­र्द­र्शिता, इह तु सर्वस्य चेतनापेक्षा प्रवृत्तिः प्रतिपाद्यत इति कुतो न विरोध इत्यत आह

उप­सं­हा­र­द­र्श­ना­दिति ।
स्थूल­द­र्शि­लो­का­भि­प्रा­या­नु­रो­धेन तदुक्तं न तु परमार्थत इत्यर्थः ॥ ३ ॥

व्यति­रे­का­न­व­स्थि­ते­श्चा­न­पे­क्ष­त्वात् ।
यद्यपि साङ्ख्यानामपि विचि­त्र­क­र्म­वा­स­ना­वा­सितं प्रधानं साम्या­व­स्था­या­मपि तथापि न कर्मवासनाः सर्गस्येशते, किन्तु प्रधानमेव स्वकार्ये प्रव­र्त­मा­न­म­ध­र्म­प्र­ति­बद्धं सन्न सुखमयीं सृष्टिं कर्तुमुत्सहत इति धर्मे­णा­ध­र्म­प्र­ति­ब­न्धोऽ­प­नी­यते । एवमधर्मेण धर्म­प्र­ति­ब­न्धोऽ­प­नी­यते दुःखमय्यां सृष्टौ । स्वयमेव च प्रधानमनपेक्ष्य सृष्टौ प्रवर्तते । यथाहुः “निमि­त्त­म­प्र­यो­जकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्”(यो.सू. ४-३) इति । ततश्च प्रति­ब­न्ध­का­प­न­य­सा­धने धर्माधर्मवासने अपि संनिहिते इत्या­ग­न्तो­र­पे­क्ष­णी­य­स्या­भा­वा­त्स­दैव साम्येन परिणमेत वैषम्येण वा, न त्वयं कादाचित्कः परिणामभेद उपपद्येत । ईश्वरस्य तु महामायस्य चेतनस्य लीलया वा यदृच्छया वा स्वभा­व­वै­चि­त्र्याद्वा कर्म­प­रि­पा­का­पे­क्षस्य प्रवृ­त्ति­नि­वृत्ती उपपद्येते एवेति ॥ ४ ॥

अन्यत्राभावाच्च न तृणादिवत् ।
धेनूपयुक्तं हि तृणपल्लवादि यथा स्वभावत एव चेतनानपेक्षं क्षीरभावेन परिणमते न तु तत्र धेनु­चै­त­न्य­म­पे­क्ष्यते, उपयोगमात्रे तदपेक्षत्वात् । एवं प्रधानमपि स्वभावत एव परिणंस्यते कृतमत्र चेतनेनेति शङ्कार्थः । धेनूपयुक्तस्य तृणादेः क्षीरभावे किं निमि­त्ता­न्त­र­मात्रं निषिध्यते, उत चेतनम् । न ताव­न्नि­मि­त्ता­न्तरं, धेनु­दे­ह­स्थ­स्यौ­द­र्यस्य वह्न्यादिभेदस्य निमित्तान्तरस्य सम्भवात् । बुद्धिपूर्वकारी तु तत्रापीश्वर एव सर्वज्ञः सम्भवतीति शङ्का­नि­रा­क­र­ण­स्यार्थः । तदिदमुक्तम्

किञ्चि­द्दै­व­स­म्पा­द्य­मिति ॥ ५ ॥

अभ्यु­प­ग­मेऽ­प्य­र्था­भा­वात् ।
पुरु­षा­र्था­पे­क्षा­भा­व­प्र­स­ङ्गात् । तदिदमुक्तम्

एवं प्रयोजनमपि किञ्चि­न्ना­पे­क्षि­ष्यत इति ।
अथवा पुरु­षा­र्था­भा­वा­दिति योज्यम् । तदिदमुक्तम्

तथापि प्रधा­न­प्र­वृत्तेः प्रयोजनं विवेक्तव्यमिति ।
न केवलं तात्त्विको भोगोऽ­ना­धे­या­ति­श­यस्य कूटस्थनित्यस्य पुरुषस्य न सम्भवति, अनि­र्मो­क्ष­प्र­स­ङ्गश्च । येन हि प्रयोजनेन प्रधानं प्रवर्तितं तदनेन कर्तव्यं, भोगेन चैत­त्प्र­व­र्ति­त­मिति तमेव कुर्यान्न मोक्षं, तेना­प्र­व­र्ति­त­त्वा­दि­त्यर्थः ।

अप­व­र्ग­श्चे­त्प्रा­ग­पीति ।
चितेः सदा विशु­द्ध­त्वा­न्नै­तस्यां जातु कर्मानुभववासनाः सन्ति । प्रधानं तु तासा­म­ना­दी­ना­मा­धारः । तथा च प्रधा­न­प्र­वृत्तेः प्राक्चि­ति­र्मु­क्तै­वेति नापवर्गार्थमपि तत्प्र­वृ­त्ति­रिति ।

शब्दा­द्य­नु­प­ल­ब्धि­प्र­स­ङ्गश्च ।
तद­र्थ­म­प्र­वृ­त्त­त्वा­त्प्र­धा­नस्य ।

उभ­या­र्थ­ता­भ्यु­प­ग­मेऽ­पीति ।
न तावदपवर्गः साध्यस्तस्य प्रधा­ना­प्र­वृ­त्ति­मा­त्रेण सिद्धत्वात् । भोगार्थं तु प्रवर्तेत । भोगस्य च सकृ­च्छ­ब्दा­द्यु­प­ल­ब्घि­मा­त्रा­देव समाप्तत्वान्न तदर्थं पुनः प्रधानं प्रव­र्ते­ते­त्य­य­त्न­साध्यो मोक्षः स्यात् । निःशे­ष­श­ब्दा­द्यु­प­भो­गस्य चानन्त्येन समा­प्ते­र­नु­प­प­त्ते­र­नि­र्मो­क्ष­प्र­सङ्गः । कृतभोगमपि प्रधा­न­मा­स­त्त्व­पु­रु­षा­न्य­ता­ख्यातेः क्रियासमभिहारेण भोजयतीति चेत् , अथ पुरुषार्थाय प्रवृत्तं किमर्थं सत्त्व­पु­रु­षा­न्य­ता­ख्यातिं करोति । अपवर्गार्थमिति चेत् , हन्तायां सकृ­च्छ­ब्दा­द्यु­प­भो­गेन कृतप्रयोजनस्य प्रधानस्य निवृ­त्ति­मा­त्रा­देव सिध्यतीति कृतं सत्त्वा­न्य­ता­ख्या­ति­प्र­ती­क्ष­णेन । न चास्याः स्वरूपतः पुरुषार्थत्वम् । तस्मा­दु­भ­या­र्थ­मपि न प्रधानस्य प्रवृ­त्ति­रु­प­प­द्यत इति सिद्धोऽर्थाभावः । सुगममितरत् । शङ्कते

दृक्शक्तीति ।
पुरुषो हि दृक्शक्तिः । सा च दृश्य­म­न्त­रे­णा­न­र्थिका स्यात् । नच स्वात्म­न्य­र्थ­वती, स्वात्मनि वृत्तिविरोधात् । प्रधानं च सर्गशक्तिः । सा च सर्ज­नी­य­म­न्त­रे­णा­न­र्थिका स्यादिति यत्प्रधानेन शब्दादि सृज्यते तदेव दृक्श­क्ते­र्दृश्यं भवतीति तदु­भ­या­र्थ­व­त­त्त्वाय सर्जनमिति शङ्कार्थः । निराकरोति

सर्ग­श­क्त्य­नु­च्छे­द­व­दिति ।
यथा हि प्रधानस्य सर्गशक्तिरेकं पुरुषं प्रति चरितार्थापि पुरुषान्तरं प्रति प्रव­र्त­तेऽ­नु­च्छे­दात् । एवं दृक्शक्तिरपि तं पुरुषं प्रत्य­र्थ­व­त्त्वा­या­नु­च्छे­दा­त्स­र्वदा प्रव­र्ते­ते­त्य­नि­र्मो­क्ष­प्र­सङ्गः । सकृ­द्दृ­श्य­द­र्श­नेन वा चरितार्थत्वे न भूयः प्रवर्तेतेति सर्वेषामेकपदे निर्मोक्षः प्रसज्येतेति सहसा संसारः समुच्छिद्येतेति ॥ ६ ॥

पुरुषाश्मवदिति चेत्तथापि ।
नैव दोषा­त्प्र­च्यु­ति­रिति शेषः । मा भूत्पु­रु­षा­र्थस्य शक्त्य­र्थ­व­त्त्वस्य वा प्रवर्तकत्वम् , पुरुष एव दृक्श­क्ति­स­म्पन्नः पङ्गुरिव प्रवृ­त्ति­श­क्ति­स­म्पन्नं प्रधानमन्धमिव प्रव­र्त­यि­ष्य­तीति शङ्का । दोषा­द­नि­र्मो­क्ष­माह

अभ्युपेतहानं तावदिति ।

न केव­ल­म­भ्यु­पे­त­हा­नम् , अयुक्तं चैत­द्भ­व­द्द­र्श­ना­लो­च­ने­ने­त्याह
कथं चोदासीन इति ।
निष्क्रियत्वे साधनम्

निर्गुणत्वादिति ।
शेष­म­ति­रो­हि­ता­र्थम् ॥ ७ ॥

अङ्गि­त्वा­नु­प­प­त्तेश्च ।
यदि प्रधानावस्था कूटस्थनित्या, ततो न तस्याः प्रच्यु­ति­र­नि­त्य­त्व­प्र­स­ङ्गात् । यथाहुः “नित्यं तमा­हु­र्वि­द्वांसो यः स्वभावो न नश्यति” इति । तदिदमुक्तम्

स्वरू­प­प्रा­णा­श­भ­या­दिति ।
अथ परिणामिनित्या । यथाहुः “यस्मिन् विक्रियमाणेऽपि यत्तत्वं न विहन्यते । तदपि नित्यम्” इति । तत्राह

बाह्यस्य चेति ।
यत्साम्यावस्थया सुचिरं पर्यणमत्कथं तदेवासति विल­क्ष­ण­प्र­त्य­यो­प­नि­पाते वैषम्यमुपैति । अनपेक्षस्य स्वतो वापि वैषम्ये न कदाचित्साम्यं भवेदित्यर्थः ॥ ८ ॥

अन्यथानुमितौ च ज्ञश­क्ति­वि­यो­गात् ।

एवमपि प्रधानस्येति ।
अङ्गि­त्वा­नु­प­प­त्ति­ल­क्षणो दोषस्तावन्न भवद्भिः शक्यः परिहर्तुमिति वक्ष्यामः । अभ्यु­प­ग­म्या­प्य­स्या­दो­ष­त्व­मु­च्यत इत्यर्थः । संप्र­त्य­ङ्गि­त्वा­नु­प­प­त्ति­मु­प­पा­द­यति

वैष­म्यो­प­ग­म­योग्या अपीति ॥ ९ ॥

विप्र­ति­षे­धा­च्चा­स­म­ञ्ज­सम् ।

क्वचि­त्स­प्ते­न्द्रि­या­णीति ।
त्वङ्मात्रमेव हि बुद्धी­न्द्रि­य­म­ने­क­रू­पा­दि­ग्र­ह­ण­स­म­र्थ­मेकं, कर्मेन्द्रियाणि पञ्च, सप्तमं च मन इति सप्तेन्द्रियाणि ।

क्वचि­त्त्री­ण्य­न्तः­क­र­णानि ।
बुद्धिरहङ्कारो मन इति ।

क्वचिदेकं
बुद्धिरिति । शेष­म­ति­रो­हि­ता­र्थम् ।

अत्राह साङ्ख्यः
नन्वौ­प­नि­ष­दा­ना­म­पीति ।
तप्य­ता­प­क­भा­व­स्ता­व­दे­क­स्मि­न्नो­प­प­द्यते । नहि तपिरस्तिरिव कर्तृस्थभावकः, किन्तु पचिरिव कर्मस्थभावकः । पर­स­म­वे­त­क्रि­या­फ­ल­शालि च कर्म । तथा च तप्येन कर्मणा ताप­क­स­म­वे­त­क्रि­या­फ­ल­शा­लिना तापकादन्येन भवितव्यम् । अनन्यत्वे चैत्रस्येव गन्तुः स्वस­म­वे­त­ग­म­न­क्रि­या­फ­ल­न­ग­र­प्रा­प्ति­शा­लि­नोऽ­प्य­क­र्म­त्व­प्र­स­ङ्गात् । अन्यत्वे तु तप्यस्य ताप­का­च्चै­त्र­स­म­वे­त­ग­म­न­क्रि­या­फ­ल­भाजो गम्यस्येव नगरस्य तप्यत्वोपपत्तिः । तस्मादभेदे तप्यतापकभावो नोपपद्यत इति । दूषणान्तरमाह

यदि चेति ।
नहि स्वभावाद्भावो वियोजितुं शक्य इति भावः । जलधेश्च वीचि­त­र­ङ्ग­फे­ना­दयः स्वभावाः सन्त आवि­र्भा­व­ति­रो­भा­व­ध­र्माणो न तु तैर्जलधिः कदाचिदपि मुच्यते । न केवलं कर्म­भा­वा­त्त­प्यस्य तापकादन्यत्वमपि त्वनु­भ­व­सि­द्ध­मे­वे­त्याह

प्रसि­द्ध­श्चा­य­मिति ।
तथाहि अर्थोऽ­प्यु­पा­र्ज­न­र­क्ष­ण­क्ष­य­रा­ग­वृ­द्धि­हिं­सा­दो­ष­द­र्श­ना­द­नर्थः सन्नर्थिनं दुनोति, तदर्थी तप्य­स्ता­प­क­श्चार्थः, तौ चेमौ लोके प्रतीतभेदौ । अभेदे च दूषणान्युक्तानि । तत्क­थ­मे­क­स्मि­न्न­द्वये भवितुमर्हत इत्यर्थः । तदेवमौपनिषदं मत­म­स­म­ञ्ज­स­मुक्त्वा साङ्ख्यः स्वपक्षे तप्य­ता­प­क­यो­र्भेदे मोक्षमुपपादयति

जात्यन्तरभावे त्विति ।
दृग्द­र्श­न­शक्त्योः किल संयो­ग­स्ता­प­नि­दानं, तस्य हेतु­र­वि­वे­क­द­र्श­न­सं­स्का­रोऽ­विद्या, सा च विवेकख्यात्या विद्यया विरो­धि­त्वा­द्वि­नि­व­र्त्यते, तन्निवृत्तौ तद्धेतुकः संयोगो निवर्तते, तन्निवृत्तौ च तत्कार्यस्तापो निवर्तते । तदुक्तं पञ्चशिखाचार्येण “तत्सं­यो­ग­हे­तु­वि­व­र्ज­ना­त्स्या­द­य­मा­त्य­न्तिको दुःखप्रतीकारः” इति । अत्र च न साक्षा­त्पु­रु­ष­स्या­प­रि­णा­मिनो बन्धमोक्षौ, किन्तु बुद्धि­स­त्त्व­स्यैव चिति­च्छा­या­पत्त्या लब्धचैतन्यस्य । तथाहि इष्टा­नि­ष्ट­गु­ण­स्व­रू­पा­व­धा­र­ण­म­वि­भा­गा­प­न्न­मस्य भोगः, भोक्तृ­स्व­रू­पा­व­धा­र­ण­म­प­वर्गः, तेन हि बुद्धि­स­त्व­मे­वा­प­वृ­ज्यते, तथापि यथा जयः पराजयो वा योधेषु वर्तमानः प्राधा­न्या­त्स्वा­मि­न्य­प­दि­श्यते, एवं बन्धमोक्षौ बुद्धिसत्त्वे वर्तमानौ कथ­ञ्चि­त्पु­रु­षेऽ­प­दि­श्येते, स ह्यविभागापत्या तत्फलस्य भोक्तेति । तदेतदभिसन्धायाह

स्यादपि कदा­चि­न्मो­क्षो­प­प­त्ति­रिति ।

अत्रोच्यते
न । एकत्वादेव तप्य­ता­प­क­भा­वा­नु­प­पत्तेः ।
यत एकत्वे तप्यतापकभावो नोपपद्यत एकत्वादेव, तस्मा­त्सां­व्य­व­हा­रि­क­भे­दा­श्र­य­स्त­प्य­ता­प­क­भा­वोऽ­स्मा­भि­र­भ्यु­पेयः । तापो हि सांव्यवहारिक एव न पारमार्थिक इत्य­स­कृ­दा­वे­दि­तम् । भवेदेष दोषो यद्येकात्मतायां तप्य­ता­प­का­व­न्यो­न्यस्य विषयविषयिभावं प्रति­प­द्ये­या­ता­मि­त्य­स्म­द­भ्यु­प­गम इति शेषः । साङ्ख्योऽपि हि भेदाश्रयं तप्यतापकभावं ब्रुवाणो न पुरुषस्य तपि­क­र्म­ता­मा­ख्या­तु­म­र्हति, तस्यापरिणामितया तपि­क्रि­या­ज­नि­त­फ­ल­शा­लि­त्वा­नु­प­पत्तेः । केवलमनेन सत्त्वं तप्यम् , अभ्युपेयं तापकं च रजः । दर्शि­त­वि­ष­य­त्त्वात्तु बुद्धिसत्वे तप्ये तदविभागापत्त्या पुरु­षोऽ­प्य­नु­त­प्यत इव न तु तप्य­तेऽ­प­रि­णा­मि­त्वा­दि­त्युक्तं, तद­वि­भा­गा­प­त्ति­श्चा­विद्या, तथा चावि­द्या­कृ­त­स्त­प्य­ता­प­क­भा­व­स्त्व­या­भ्यु­पेयः, सोऽय­म­स्मा­भि­रु­च्य­मानः किमिति भवतः पुरुष इवाभाति । अपि च नित्य­त्वा­भ्यु­प­ग­माच्च ताप­क­स्या­नि­र्मो­क्ष­प्र­सङ्गः । शङ्कते

तप्य­ता­प­क­श­क्त्यो­र्नि­त्य­त्वेऽ­पीति ।
सहादर्शनेन निमित्तेन वर्तत इति सनिमित्तः संयो­ग­स्त­द­पे­क्ष­त्वा­दिति । निराकरोति

न । अदर्शनस्य तमस इति ।
न तावत्पुरुषस्य तप्ति­रि­त्यु­क्तम् । केवलमियं बुद्धिसत्त्वस्य तापकरजोजनिता, तस्य च बुद्धिसत्वस्य ताम­स­वि­प­र्या­सा­दा­त्मनः पुरु­षा­द्भे­द­म­प­श्यतः पुरुषस्तप्यत इत्यभिमानः, न तु पुरुषो विप­र्या­स­तु­षे­णापि युज्यते । तस्य तु बुद्धिसत्त्वस्य सात्त्विक्या विवेकख्यात्या ताम­सी­य­म­वि­वे­क­ख्या­ति­र्नि­व­र्त­नीया । न च सति तमसि मूले शक्या­त्य­न्त­मु­च्छे­त्तुम् । तथा विच्छिन्नापि छिन्नबदरीव पुन­स्त­म­सो­द्भू­तेन सत्त्वमभिभूय विवे­क­ख्या­ति­म­पोद्य शत­शि­ख­रा­वि­द्या­वि­र्भा­व्ये­तेति बतेयमपवर्गकथा तपस्विनो दत्तजलाञ्जलिः प्रसज्येत । अस्मत्पक्षे त्वदोष इत्याह

औपनिषदस्य त्विति ।
यथा हि मुखमवदातमपि मलि­ना­द­र्श­त­लो­पा­धि­क­ल्पि­त­प्र­ति­बि­म्ब­भेदं मलिनतामुपैति, न च तद्वस्तुतो मलिनं, नच बिम्बा­त्प्र­ति­बिम्बं वस्तुतो भिद्यते, अथ तस्मिन् प्रतिबिम्बे मलि­ना­द­र्शो­प­धा­ना­न्म­लि­नता पदं लभते । तथा चात्मनो मलिनं मुखं पश्यन् देवदत्तस्तप्यते । यदा तूपा­ध्य­प­न­या­द्बि­म्ब­मेव कल्प­ना­व­शा­त्प्र­ति­बिम्बं तच्चावदातमिति तत्त्वमवगच्छति तदास्य तापः प्रशाम्यति नच मलिनं मे मुखमिति । एव­म­वि­द्यो­प­धा­न­क­ल्पि­ता­व­च्छेदो जीवः पर­मा­त्म­प्र­ति­बि­म्ब­कल्पः कल्पितैरेव शब्दादिभिः सम्प­र्का­त्त­प्यते नतु तत्त्वतः परमात्मनोऽस्ति तापः । यदा तु “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति वाक्य­श्र­व­ण­म­न­न­ध्या­ना­भ्या­स­प­रि­पा­क­प्र­क­र्ष­प­र्य­न्त­जोऽस्य साक्षात्कार उपजायते तदा जीवः शुद्ध­बु­द्ध­त­त्त्व­स्व­भा­व­मा­त्म­नोऽ­नु­भ­व­न्नि­र्मृ­ष्ट­नि­खि­ल­स­वा­स­न­क्ले­श­जालः केवलः स्वस्थो भवति, न चास्य पुनः संसारभयमस्ति तद्धे­तो­र­वा­स्त­व­त्वेन समूलकाषं कषितत्वात् । साङ्ख्यस्य तु सत­स्त­म­सोऽ­श­क्य­स­मु­च्छे­द­त्वा­दिति । तदिदमुक्तम्

विकारभेदस्य च वाचा­र­म्भ­ण­मा­त्र­त्व­श्र­व­णा­दिति ॥ १० ॥

प्रधानकारणवाद इति ।
यथैव प्रधानकारणवादो ब्रह्म­का­र­ण­वा­द­वि­रो­ध्येवं पर­मा­णु­का­र­ण­वा­दोऽ­प्यतः सोऽपि निराकर्तव्यः । “एतेन शिष्टापरिग्रहा अपि व्याख्याताः”(ब्र. सू. २ । १ । १२) इत्यस्य प्रपञ्च आरभ्यते तत्र वैशेषिका ब्रह्मकारणत्वं दूषयाम्बभूवुः । चेतनं चेदा­का­शा­दी­ना­मु­पा­दानं तदारब्धमाकाशादि चेतनं स्यात् । कारणगुणक्रमेण हि कार्ये गुणारम्भो दृष्टः, यथा शुक्लै­स्त­न्तु­भि­रा­रब्धः पटः शुक्लः, न जात्वसौ कृष्णो भवति । एवं चेत­ने­ना­र­ब्ध­मा­का­शादि चेतनं भवेन्न त्वचेतनम् । तस्मा­द­चे­त­नो­पा­दा­न­मेव जगत् । तच्चाचेतनं परमाणवः । सूक्ष्मात्खलु स्थूल­स्यो­त्प­त्ति­र्दृ­श्यते, यथा तन्तुभिः पट­स्यै­व­मं­शु­भ्य­स्त­न्तू­ना­मे­व­म­प­क­र्ष­प­र्यन्तं कार­ण­द्र­व्य­म­ति­सू­क्ष्म­म­न­व­य­व­म­व­ति­ष्ठते, तच्च परमाणु । तस्य तु साव­य­व­त्वेऽ­भ्यु­प­ग­म्य­मा­नेऽ­न­न्ता­व­य­व­त्वेन सुमे­रु­रा­ज­स­र्ष­पयोः समा­न­प­रि­मा­ण­त्व­प्र­सङ्ग इत्युक्तम् । तत्र च प्रथमं ताव­द­दृ­ष्ट­व­त्क्षे­त्र­ज्ञ­सं­यो­गा­त्प­र­माणौ कर्म, ततोऽसौ परमाण्वन्तरेण संयु­ज्य­द्व्य­णु­क­मा­र­भते । बहवस्तु परमाणवः संयुक्ता न सहसा स्थूलमारभन्ते, परमाणुत्वे सति बहुत्वात् , घटो­प­गृ­ही­त­प­र­मा­णु­वत् । यदि हि घटोपगृहीताः परमाणवो घटमारभेरन्न घटे प्रविभज्यमाने कपा­ल­श­र्क­रा­द्यु­प­ल­भ्येत, तेषा­म­ना­र­ब्ध­त्वात् , घटस्यैव तु तैरारब्धत्वात् । तथा सति मुद्ग­र­प्र­हा­रा­त्घ­ट­वि­नाशे न किञ्चि­दु­प­ल­भ्येत, तेषा­म­ना­र­ब्ध­त्वात् । तदवयवानां पर­मा­णू­ना­म­ती­न्द्रि­य­त्वात् । तस्मान्न बहूनां परमाणूनां द्रव्यं प्रति समवायिकारणत्वम् , अपि तु द्वावेव परमाणू द्य्वणुकमारभेते । तस्य चाणुत्वं परिमाणं पर­मा­णु­प­रि­मा­णा­त्पा­रि­मा­ण्ड­ल्या­द­न्य­दी­श्व­र­बु­द्धि­म­पे­क्ष्यो­त्पन्ना द्वित्व­स­ङ्ख्या­र­भते । नच द्व्यणुकाभ्यां द्रव्य­स्या­रम्भः, वैय­र्थ्य­प्र­स­ङ्गात् । तदपि हि द्व्यणुकमेव भवेन्न तु महत् । कार­ण­ब­हु­त्व­म­ह­त्त्व­प्र­च­य­वि­शे­षेभ्यो हि मह­त्त्व­स्यो­त्पत्तिः । नच द्व्यणु­क­यो­र्म­ह­त्त्व­मस्ति, यत­स्ता­भ्या­मा­रब्धं महद्भवेत् । नापि तयोर्बहुत्वं, द्वित्वादेव । नच प्रच­य­भे­द­स्तू­ल­पि­ण्डा­ना­मिव, तद­व­य­वा­ना­म­न­व­य­व­त्वेन प्रशि­थि­ला­व­य­व­सं­यो­ग­भे­द­वि­र­हात् । तस्मात्तेनापि तत्का­र­ण­द्व्य­णु­क­व­द­णु­नैव भवितव्यं, तथा च पुरु­षो­प­भो­गा­ति­श­या­भा­वा­द­दृ­ष्ट­नि­मि­त्त­त्वाच्च विश्वनिर्माणस्य भोगा­र्त­त्वा­त्त­त्का­र­णेन च द्व्यणुकेन तन्निष्पत्तेः कृतं द्व्यणुकाश्रयेण द्व्यणु­का­न्त­रे­णे­त्या­र­म्भ­वै­य­र्थ्यात् । आर­म्भा­र्थ­व­त्त्वाय बहुभिरेव द्व्यणु­कै­स्त्र्य­णुकं चतुरणुकं वा द्रव्यं मह­द्दी­र्घ­मा­र­ब्ध­व्यम् । अस्ति हि तत्र तत्र भोगभेदः । अस्ति च बहु­त्व­स­ङ्ख्ये­श्व­र­बु­द्धि­म­पे­क्ष्यो­त्पन्ना मह­त्त्व­प­रि­मा­ण­योनिः । त्र्यणु­का­दि­भि­रा­रब्धं तु कार्यद्रव्यं कारणबहुत्वाद्वा कार­ण­म­ह­त्त्वाद्वा कार­ण­प्र­च­य­भे­दाद्वा महद्भवतीति प्रक्रिया । तदेतयैव प्रक्रियया कारणसमवायिनो गुणाः कार्यद्रव्ये समानजातीयमेव गुणान्तरमारभन्त इति दूष­ण­म­दू­ष­णी­क्रि­यते, व्यभि­चा­रा­दि­त्याह

महद्दीर्घवद्वा ह्रस्व­प­रि­म­ण्ड­ला­भ्याम् ।
यथा महद्द्रव्यं त्र्यणुकादि हृस्वा­द्द्व्य­णु­का­ज्जा­यते, न तु मह­त्त्व­गु­णो­प­ज­नने द्व्यणुकगतं मह­त्त्व­म­पे­क्षते, तस्य हृस्वत्वात् । यथा वा तदेव त्र्यणुकादि दीर्धं हृस्वाद् द्व्यणु­का­ज्जा­यते, न तु तद्गतं दीर्घ­त्व­म­पे­क्षते, तदभावात् । वाश­ब्द­श्चा­र्थेऽ­नु­क्त­स­मु­च्च­यार्थः । यथा द्व्यणुकमणु हृस्वपरिमाणं परि­म­ण्ड­ला­त्प­र­मा­णो­र­प­रि­म­ण्डलं जायत एवं चेत­ना­द्ब्र­ह्म­णोऽ­चे­तनं जगन्निष्पद्यत इति सूत्रयोजना । भाष्ये

पर­मा­णु­गु­ण­वि­शे­ष­स्त्विति ।
पारि­मा­ण्ड­ल्य­ग्र­ह­ण­मु­प­ल­क्ष­णम् । न द्व्यणु­केऽ­णु­त्व­मपि पारमाणुवर्ति पारि­मा­ण्ड­ल्य­मा­र­भते, तस्य हि द्वित्व­स­ङ्ख्या­यो­नि­त्वा­दि­त्यपि द्रष्टव्यम् । ह्रस्व­प­रि­म­ण्ड­ला­भ्या­मिति सूत्रं गुणिपरं न गुणपरम् । यदापि द्वे द्वे द्व्यणुके इति पठितव्ये प्रमादादेकं द्वेपदं न पठितम् । एवं चतु­र­णु­क­मि­त्या­द्यु­प­प­द्यते । इतरथा हि द्व्यणुकमेव तदपि स्यान्न तु महदित्युक्तम् । अथवा द्वे इति द्वित्वे, यथा “द्व्येक­यो­र्द्वि­व­च­नै­क­व­चने”(पा.सू. १-४-२२) इति । अत्र हि द्वित्वै­क­त्व­यो­रि­त्यर्थः । अन्यथा ह्येकेष्विति स्यात्स­ङ्ख्ये­यानां बहुत्वात् । तदेवं योजनीयं द्व्यणुकाधिकरणे ये द्वित्वे ते यदा चतुरणुकमारभेते सङ्ख्येयानां चतुर्णां द्व्यणु­का­ना­मा­र­म्भ­क­त्वा­त्त­त्त­द्गते द्वित्वसङ्ख्ये अपि आरम्भिके इत्यर्थः । एवं व्यवस्थितायां वैशे­षि­क­प्र­क्रि­यायां तद्दूषणस्य व्यभिचार उक्तः । अथाव्यवस्थिता तथापि तदवस्थो व्यभिचार इत्याह

यदापि बहवः परमाणव इति ।
नाणु जायते नो ह्रस्वं जायते इति योजना ।

चोदयति
अथ मन्यसे विरोधिना परिमाणान्तरेण स्वका­र­ण­द्वा­रे­णा­क्रा­न्त­त्वा­दिति ।

परिहरति
मैवं मंस्था इति ।
कारणगता गुणा न कार्ये समानजातीयं गुणान्तरमारभन्त इत्ये­ता­व­तै­वे­ष्ट­सिद्धौ न तद्धेत्वनुसरणे खेदनीयं मन इत्यर्थः । अपि च सत्प­रि­मा­णा­न्त­र­मा­क्रा­मति नोत्पत्तेश्च प्राक्प­रि­मा­णा­न्तरं सदिति कथमाक्रामेत् । नच तत्का­र­ण­मा­क्रा­मति । पारि­मा­ण्ड­ल्य­स्यापि समानजातीयस्य कार­ण­स्या­क्र­म­ण­हे­तो­र्भा­वेन समा­न­ब­ल­त­यो­भ­य­का­र्या­नु­त्पा­द­प्र­स­ङ्गा­दि­त्या­श­य­वा­ना­हन

न च परि­मा­णा­न्त­रा­त्क्रा­न्त­त्व­मिति ।
नच परि­मा­णा­न्त­रा­रम्भे व्यापृतता पारि­मा­ण्ड­ल्या­दी­नाम् । नच कार­ण­ब­हु­त्वा­दीनां सन्नि­धा­न­म­सं­नि­धानं च पारि­मा­ण्ड­ल्य­स्ये­त्याह

नच परि­मा­णा­न्त­रा­रम्भे इति ।

व्यभि­चा­रा­न्त­र­माह
संयोगाच्चेति ।

शङ्कते
द्रव्ये प्रकृत इति ।

निराकरोति
न । दृष्टान्तेनेति ।
न चास्मा­क­म­य­म­नि­यमः, भवतामपीत्याह

सूत्रकारोऽपीति ।

सूत्रं व्याचष्टे
यथा प्रत्य­क्षा­प्र­त्य­क्ष­यो­रिति ।
शेष­म­ति­रो­हि­ता­र्थम् ॥ ११ ॥

उभयथापि न कर्मातस्तदभावः ।
पर­मा­णू­ना­मा­द्यस्य कर्मणः कार­णा­भ्यु­प­ग­मेऽ­न­भ्यु­प­गमे वा न कर्मा­त­स्त­द­भा­व­स्तस्य द्व्यणु­का­दि­क्र­मेण सर्गस्याभावः । अथवा यद्य­णु­स­म­वा­य्य­दृ­ष्ट­म­थवा क्षेत्र­ज्ञ­स­म­वायि, उभयथापि तस्याचेतनस्य चेत­ना­न­धि­ष्ठि­त­स्या­प्र­वृत्तेः कर्मा­भा­वोऽ­त­स्त­द­भावः सर्गाभावः । निमि­त्त­का­र­ण­ता­मा­त्रेण त्वीश्व­र­स्या­धि­ष्ठा­तृ­त्व­मु­प­रि­ष्टा­न्नि­रा­क­रि­ष्यते । अथवा संयो­गो­त्प­त्त्यर्थं विभा­गो­त्प­त्त्य­र्थ­मु­भ­य­थापि न कर्मातः सर्गहेतोः संयो­ग­स्या­भा­वा­त्प्र­ल­य­हे­तो­र्वि­भा­ग­स्या­भा­वा­त्त­द­भावः । तयोः सर्गप्रलययोरभाव इत्यर्थः । तदेतत्सूत्रं तात्पर्यतो व्याचष्टे

इदानीं पर­मा­णु­का­र­ण­वा­द­मिति ।

निरा­का­र्य­स्व­रू­प­मु­प­प­त्ति­स­हि­त­माह
स च वाद इति ।
स्वानुगतैः स्वसम्बद्धैः । सम्ब­न्ध­श्चा­धा­र्या­धा­र­भूत इहप्रत्ययहेतुः समवायः । पञ्च­म­भू­त­स्या­न­व­य­व­त्वात्

तानीमानि चत्वारि भूतानीति ।
तत्र परमाणुकारणवादे इदमभिधीयते सूत्रम् । तत्र प्रथमां व्याख्यामाह

कर्मवतामिति ।
अभि­घा­ता­दी­त्या­दि­ग्र­ह­णेन नोद­न­सं­स्का­र­गु­रु­त्व­द्र­व­त्वानि गृह्यन्ते । नोद­न­सं­स्का­रा­व­भि­घा­तेन समानयोगक्षेमौ, गुरुत्वद्रवत्वे च परमाणुगते सदातने इति कर्म­सा­त­त्य­प्र­सङ्गः । द्वितीयं व्याख्या­न­मा­श­ङ्का­पू­र्व­माह

अथादृष्टं धर्माधर्मौ । आद्यस्य कर्मण इति । आत्मनश्च क्षेत्रज्ञस्य अनु­त्प­न्न­चै­त­न्य­स्येति । अदृष्टवता पुरुषेणेति ।
संयु­क्त­स­म­वा­य­स­म्बन्ध इत्यर्थः ।

सम्बन्धस्य सातत्यादिति ।
यद्यपि पर­मा­णु­क्षे­त्र­ज्ञयोः संयोगः पर­मा­णु­क­र्म­ज­स्त­थापि तत्प्रवाहस्य सातत्यमिति भावः । सर्वात्मना चेदुपचयाभावः । एकदेशेन हि संयोगे यावण्वोरेकदेशौ निरन्तरौ ताभ्यामन्ये एकदेशाः संयो­गे­ना­व्याप्ता इति प्रथिमोपपद्यते । सर्वात्मना तु नैरन्तर्ये परमाणावेकस्मिन् पर­मा­ण्व­न्त­रा­ण्यपि संमान्तीति न प्रथिमा स्यादित्यर्थः । शङ्कते यद्यपि निष्प्रदेशाः परमाणवस्तथापि संयो­ग­स्त­यो­र­व्या­प्य­वृ­त्ति­रे­वं­स्व­भा­व­त्वात् । कैषा वाचो­यु­क्ति­र्नि­ष्प्र­देशं संयोगो न व्याप्नोतीति । एषैव वाचो­यु­क्ति­र्य­द्यथा प्रतीयते तत्तथाभ्युपेयत इति । तामिमां शङ्कां सूद्धारामाह

परमाणूनां कल्पिता इति ।
नह्यस्ति सम्भवो निरवयव एकस्तदैव तेनैव संयु­क्त­श्चा­सं­यु­क्त­श्चेति, भावा­भा­व­यो­रे­क­स्मि­न्न­द्वये विरोधात् । अविरोधे वा न क्वचिदपि विरो­धोऽ­व­का­श­मा­सा­द­येत । प्रतीतिस्तु प्रदेशकल्पनयापि कल्प्यते । तदिदमुक्तम्

कल्पिताः प्रदेशा इति ।

तथा च सूद्धारेयमिति तामुद्धरति
कल्पि­ता­ना­म­व­स्तु­त्वा­दिति ।

तृतीयां व्याख्यामाह
यथा चादिसर्ग इति ।

नन्व­भि­घा­त­नो­द­ना­दयः प्रलयारम्भसमये कस्मा­द्वि­भा­गा­र­म्भ­क­क­र्म­हे­तवो न सम्भवन्त्यत आह
नहि तत्रापि किञ्चि­न्नि­य­त­मिति ।
सम्भ­व­न्त्य­भि­घा­ता­दयः कदाचित्क्वचित् । न त्वपर्यायेण सर्वस्मिन् । निय­म­हे­तो­र­भा­वा­दि­त्यर्थः ।

न प्रल­य­प्र­सि­द्ध्य­र्थ­मिति ।
यद्यपि शरी­रा­दि­प्र­ल­या­र­म्भेऽस्ति दुःख­भो­ग­स्त­था­प्यसौ पृथि­व्या­दि­प्र­लये नास्ती­त्य­भि­प्रे­त्ये­द­मु­दि­त­मिति मन्तव्यम् ॥ १२ ॥

सम­वा­या­भ्यु­प­ग­माच्च साम्या­द­न­व­स्थितेः ।

व्याचष्टे
सम­वा­या­भ्यु­प­ग­मा­च्चेति ।
न तावत्स्वतन्त्रः समवायोऽत्यन्तं भिन्नः समवायिभ्यां समवायिनौ घट­यि­तु­म­र्ह­त्य­ति­प्र­स­ङ्गात् । तस्मादनेन सम­वा­यि­स­म्ब­न्धिना सता समवायिनौ घटनीयौ, तथा च समवायस्य सम्बन्धान्तरेण सम­वा­यि­स­म्ब­न्धेऽ­भ्यु­प­ग­म्य­मा­नेऽ­न­वस्था । अथासौ सम्बन्धिभ्यां सम्बन्धे न सम्ब­न्धा­न्त­र­म­पे­क्षते सम्ब­न्धि­स­म्ब­न्ध­न­प­र­मा­र्थ­त्वात् । तथाहि नासौ भिन्नेऽपि सम्ब­न्धि­नि­र­पेक्षो निरूप्यते । न च तस्मिन् सति सम­ब­न्धि­ना­व­स­म्ब­न्धिनौ भवतः । तस्मा­त्स्व­भा­वा­देव समवायः समवायिनोर्न सम्ब­न्धा­न्त­रे­णेति नानवस्थेति चोदयति

नन्वि­ह­प्र­त्य­य­ग्राह्या इति ।

परिहरति
नेत्युच्यते ।

संयो­गोऽ­प्ये­व­मिति ।
तथाहिसंयोगोऽपि सम्ब­न्धि­स­म्ब­न्ध­न­प­र­मार्थः । नच भिन्नोऽपि संयोगिभ्यां विना निरूप्यते । नच तस्मिन् सति संयो­गि­ना­व­सं­यो­गिनौ भवत इति तुल्यचर्चः । यद्युच्येत गुणः संयोगः, नच द्रव्यासमवेतो गुणो भवति, न चास्य समवायं विना समवेतत्वं, तस्मा­त्सं­यो­ग­स्यास्ति समवाय इति शङ्कामपाकरोति

नच गुणत्वादिति ।
यद्य­स­म­वा­येऽ­स्या­गु­णत्वं भवति कामं भवतु न नः काचित्क्षतिः, तदिदमुक्तम्

गुण­प­रि­भा­षा­या­श्चेति ।
परमार्थतस्तु द्रव्या­श्र­यी­त्यु­क्तम् । तच्च विनापि समवायं स्वरूपतः संयोगस्योपपद्यत एव । नच कार्य­त्वा­त्स­म­वा­य्य­स­म­वा­यि­का­र­णा­पे­क्षि­तया संयोगः समवायीति युक्तम् , अज­सं­यो­ग­स्या­त­था­त्व­प्र­स­ङ्गात् । अपि च समवायस्यापि सम्ब­न्ध्य­धी­न­स­द्भा­वस्य सम्ब­न्धि­न­श्चै­कस्य द्वयोर्वा विनाशित्वेन विना­शि­त्वा­त्का­र्य­त्वम् । नह्यस्ति सम्भवो गुणो वा गुणगुणिनौ वावयवो वावयवावयविनौ वा न स्तोऽप्यस्ति च तयोः सम्बन्ध इति । तस्मात्कार्यः समवायः । तथा च यथैष निमि­त्त­का­र­ण­मा­त्रा­धी­नो­त्पाद एवं संयोगोऽपि । अथ समवायोऽपि सम­वा­य्य­स­म­वा­यि­का­रणे अपेक्षते तथापि सैवानवस्थेति । तस्मा­त्स­म­वा­य­व­त्सं­यो­गोऽपि न सम्ब­न्धा­न्त­र­म­पे­क्षते । यद्युच्येत सम्बन्धिनावसौ घटयति नात्मानमपि सम्बन्धिभ्यां, तत्कि­म­सा­व­स­म्बद्ध एव सम्बन्धिभ्याम् , एवं चेद­त्य­न्त­भि­न्नोऽ­स­म्बद्धः कथं सम्बन्धिनौ सम्बन्धयेत् । सम्बन्धने वा हिम­व­द्वि­न्ध्या­वपि सम्बन्धयेत् । तस्मात्संयोगः संयोगिनोः समवायेन सम्बद्ध इति वक्तव्यम् । तदे­त­त्स­म­वा­य­स्यापि समवायिसम्बन्धे समा­न­म­न्य­त्रा­भि­नि­वे­शात् । तथा चानवस्थेति भावः ॥ १३ ॥

नित्यमेव च भावात् ।
प्रवृ­त्ते­र­प्र­वृ­त्ते­र्वेति शेषः । अति­रो­हि­ता­र्थ­मस्य भाष्यम् ॥ १४ ॥

रूपा­दि­म­त्त्वाच्च विपर्ययो दर्शनात् ।
यत्किल भूतभौतिकानां मूलकारणं तद्रूपादिमान् परमाणुर्नित्य इति भव­द्भि­र­भ्यु­पे­यते, तस्य चेद्रू­पा­दि­म­त्त्व­म­भ्यु­पे­येत पर­मा­णु­त्व­नि­त्य­त्व­वि­रुद्धे स्थौल्या­नि­त्यत्वे प्रसज्येयातां, सोऽयं प्रसङ्ग एकधर्माभ्युपगमे धर्मान्तरस्य । नियता प्राप्तिर्हि प्रसङ्गलक्षणं, तदनेन प्रसङ्गेन जग­त्का­र­ण­प्र­सि­द्धये प्रवृत्तं साधनं रूपा­दि­म­न्नि­त्य­प­र­मा­णु­सिद्धेः प्रच्याव्य ब्रह्मगोचरतां नीयते । तदे­त­द्वै­शे­षि­का­भ्यु­प­ग­मो­प­न्या­स­पू­र्व­क­माह

सावयवानां द्रव्याणामिति ।

पर­मा­णु­नि­त्य­त्व­सा­ध­नानि च तेषामुपन्यस्य दूषयति
यच्च नित्यत्वे कारणमिति ।

सदिति
प्राग­भा­वा­द्व्य­व­च्छि­नत्ति ।

अकारणवदिति
घटादेः ।

यदपि नित्यत्वे द्वितीयमिति ।
लब्धरूपं हि क्वचि­त्कि­ञ्चि­द­न्यत्र निषिध्यते । तेनानित्यमिति लौकिकेन निषेधेनान्यत्र नित्यत्वसद्भावः कल्पनीयः, ते चान्ये परमाणव इति । तन्न । आत्मन्यपि नित्य­त्वो­प­पत्तेः । व्यपदेशस्य च प्रती­ति­पू­र्व­कस्य तदभावे निर्मूलस्यापि दर्शनात् । यथेह वटे यक्ष इति ।

यदपि नित्यत्वे तृतीयं कारणमविद्येति ।
यदि सतां परमाणूनां परि­दृ­श्य­मा­न­स्थू­ल­का­र्याणां प्रत्यक्षेण कार­णा­ग्र­ह­ण­म­विद्या तया नित्यत्वम् , एवं सति द्व्यणुकस्यापि नित्यत्वम् । अथाद्रव्यत्वे सतीति विशेष्येत तथा सति न द्व्यणुके व्यभिचारः, तस्या­ने­क­द्र­व्य­त्वे­ना­वि­द्य­मा­न­द्र­व्य­त्वा­नु­प­पत्तेः । तथा­प्य­का­र­ण­व­त्त्व­मेव नित्य­ता­नि­मि­त्त­मा­प­द्येत, यतोऽ­द्र­व्य­त्व­म­वि­द्य­मा­न­का­र­ण­भू­त­द्र­व्य­त्व­मु­च्यते, तथा च पुनरुक्तमित्याह

तस्य चेति ।
अपि चाद्रव्यत्वे सति सत्त्वादित्यत एवे­ष्टा­र्थ­सि­द्धे­र­वि­द्येति व्यर्थम् । अथाविद्यापदेन द्रव्य­वि­ना­श­का­र­ण­द्व­या­वि­द्य­मा­न­त्व­मु­च्यते, द्विविधो हि द्रव्य­ना­श­हे­तु­र­व­य­व­वि­ना­शोऽ­व­य­व­व्य­ति­ष­ङ्ग­वि­ना­शश्च, तदुभयं परमाणौ नास्ति, तस्मान्नित्यः परमाणुः । नच सुखा­दि­भि­र्व्य­भि­चारः, तेषा­म­द्र­व्य­त्वा­दि­त्याह

अथापीति ।

निराकरोति
नावश्यमिति ।
यदि हि संयोगसचिवानि बहूनि द्रव्याणि द्रव्या­न्त­र­मा­र­भे­र­न्निति प्रक्रिया सिध्येत्, सिध्येद् द्रव्यद्वयमेव( ? )तद्वि­ना­श­का­र­ण­मिति । नत्वेतदस्ति, द्रव्य­स्व­रू­पा­प­रि­ज्ञा­नात् । न ताव­त्त­न्त्वा­धा­र­स्त­द्व्य­ति­रिक्तः पटो नामास्ति यः संयो­ग­स­चि­वै­स्त­न्तु­भि­रा­र­भ्ये­ते­त्यु­क्त­म­ध­स्तात् । षट्पदार्थाश्च दूषयन्नग्रे वक्ष्यति । किन्तु कारणमेव विशे­ष­व­द­व­स्था­न्त­र­मा­प­द्य­मानं कार्यं, तच्च सामान्यात्मकम् । तथाहि मृद्वा सुवर्णं वा सर्वेषु घट­रु­च­का­दि­ष्व­नु­गतं सामान्यमनुभूयते । न चैते घटरुचकादयो मृत्सु­व­र्णाभ्यां व्यतिरिच्यन्त इत्युक्तम् । अग्रे च वक्ष्यामः । तस्मा­न्मृ­त्सु­वर्णे एव तेन तेनाकारेण परिणममाने घट इति च रुचक इति च कपा­ल­श­र्क­रा­क­ण­मिति च शक­ल­क­णि­का­चू­र्ण­मिति च व्याख्यायेते । तत्र तत्रो­पा­दा­न­यो­र्मृ­त्सु­व­र्णयोः प्रत्य­भि­ज्ञा­नात् । न तु घटादयो वा कपालादिषु कपालादयो वा घटादिषु च रुचकादयो वा शकलादिषु शकलादयो वा रुचकादिषु प्रत्य­भि­ज्ञा­यन्ते यत्र कार्यकारणभावो भवेत् । न च विनश्यन्तमेव घटक्षणं प्रतीत्य कपा­ल­क्ष­णोऽ­नु­पा­दान एवोत्पद्यते तत्कि­मु­पा­दा­न­प्र­त्य­भि­ज्ञा­ने­नेति वक्तव्यम् , एतस्या अपि वैना­शि­क­प्र­क्रि­याया उप­रि­ष्टा­न्नि­रा­क­रि­ष्य­मा­ण­त्वात् । तस्मा­दु­प­ज­ना­पा­य­ध­र्माणो विशेषावस्थाः सामा­न्य­स्यो­पा­देयाः, सामान्यात्मा तूपादानम् । एवं व्यवस्थिते यथा सुवर्णद्रव्यं काठि­न्या­व­स्था­म­प­हाय द्रवावस्थया परिणतं, न च तत्रावयवविभागः सन्नपि द्रवत्वे कारणं, परमाणूनां भवन्मते तदभावेन द्रव­त्वा­नु­प­पत्तेः, तस्माद्यथा परमाणु द्रव्य­म­ग्नि­सं­यो­गा­त्का­ठि­न्य­म­प­हाय द्रवत्वेना परिणमते, नच काठिन्यद्रवत्वे पर­मा­णो­र­ति­रि­च्येते, एवं मृद्वा सुवर्णं वा सामान्यं पिण्डा­व­स्था­म­प­हाय कुलालहेमकारादि व्यापा­रा­द्घ­ट­रु­च­की­द्य­व­स्था­मा­प­द्यते । न त्वव­य­व­वि­ना­शा­त्त­त्सं­यो­ग­वि­ना­शाद्वा विनष्टुमर्हन्ति घटरुचकादयः । नहि कपा­ला­द­योऽ­स्यो­पा­दानं तत्संयोगो वासमवायिकारणमपि तु सामा­न्य­मु­पा­दानं, तच्च नित्यम् । नच तत्सं­यो­ग­स­चि­व­मे­क­त्वात् , संयोगस्य द्विष्ठ­त्वे­नै­क­स्मि­न्न­भा­वात् । तस्मा­त्सा­मा­न्यस्य पर­मा­र्थ­स­तोऽ­नि­र्वाच्या विशे­षा­व­स्था­स्त­द­धि­ष्ठाना भुजङ्गादय इव रज्ज्वा­द्यु­पा­दा­ना­मु­प­ज­ना­पा­य­ध­र्माण इति साम्प्रतम् । प्रकृतमुपसंहरति

तस्मादिति ॥ १५ ॥

उभयथा च दोषात् ।
अनुभूयते हि पृथिवी गन्ध­रू­प­र­स­स्प­र्शा­त्मिका स्थूला, आपो रस­रू­प­स्प­र्शा­त्मिकाः सूक्ष्माः, रूपस्पर्शात्मकं तेजः सूक्ष्मतरं, स्पर्शात्मको वायुः सूक्ष्मतमः । पुराणेऽपि स्मर्यते “आकाशं शब्दमात्रं तु स्पर्शमात्रं समाविशत् । द्विगुणस्तु ततो वायुः शब्द­स्प­र्शा­त्म­कोऽ­भ­वत् ॥ १ ॥ रूपं तथैवाविशतः शब्द­स्प­र्श­गु­णा­वुभौ । त्रिगुणस्तु ततो वह्निः स शब्दस्पर्शवान् भवेत् ॥ २ ॥ शब्दः स्पर्शश्च रूपं च रसमात्रं समाविशत् । तस्मा­च्च­तु­र्गुणा आपो विज्ञेयास्तु रसात्मिकाः ॥ ३ ॥ शब्दः स्पर्शश्च रूपं च रस­श्चे­द्ग­न्ध­मा­वि­शत् । संहतान् गन्धमात्रेण तानाचष्टे महीमिमाम् ॥ ४ ॥ तस्मात्पञ्चगुणा भूमिः स्थूला भूतेषु दृश्यते । शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ॥ ५ ॥ पर­स्प­रा­नु­प्र­वे­शा­द्धा­र­यन्ति परस्परम् ।” तेन गन्धादयः परस्परं संहन्यमानाः पृथिव्यादयः । तथा च यथायथा संह­न्य­मा­ना­ना­मु­प­च­य­स्त­था­तथा संहतस्य स्थौल्यं, यथा­य­था­प­च­य­स्त­था­तथा सौक्ष्म्य­ता­र­तम्यं, तदे­व­म­नु­भ­वा­ग­मा­भ्या­म­व­स्थि­त­मर्थं वैशे­षि­कै­र­नि­च्छ­द्भि­र­प्य­श­क्या­प­ह्न­व­माह

गन्धेति ।
अस्तु तावच्छब्दो वैशेषिकैस्तस्य पृथि­व्या­दि­गु­ण­त्वे­ना­न­भ्यु­प­ग­मा­दिति चत्वारि भूतानि चतु­स्त्रि­द्व्ये­क­गु­णा­न्यु­दा­हृ­त­वान् । अनु­भ­वा­ग­म­सि­द्ध­म­र्थ­मुक्त्वा विकल्प्य दूषयति

तद्वत् ।
स्थूल­पृ­थि­व्या­दि­वत् ।

परमाणवोऽपीति ।

उपचितगुणानां मूर्त्युपचयात्
उप­चि­त­सं­ह­न्य­मा­नानां सङ्घातोपचयात् ।

अप­र­मा­णु­त्व­प्र­सङ्गः
स्थूलत्वादिति । यस्तु ब्रूते न गन्धादिसङ्घातः परमाणुरपि तु गन्धाद्याश्रयो द्रव्यं, नच गन्धादीनां तदा­श्र­या­णा­मु­प­च­येऽपि द्रव्यस्योपचयो भवि­तु­म­र्ह­त्य­न्य­त्वा­दिति, तं प्रत्याह

न चान्तरेणापि मूर्त्युपचयं
द्रव्य­स्व­रू­पो­प­च­य­मि­त्यर्थः । कुतः ।

कार्येषु भूतेषु गुणोपचये मूर्त्यु­प­च­य­द­र्श­नात् ।
नतावत्परमाणवो रूपतो गृह्यन्ते किन्तु कार्यद्वारा, कार्यं च न गन्धादिभ्यो भिन्नं, यदा न तदाधारतया गृह्यतेऽपि तु तदात्मकतया, तथा च तेषामुपचये तदुपचितं दृष्टमिति परमाणुभिरपि तत्कारणैरेवं भवितव्यं, तथा चापरमाणुत्वं स्थूल­त्वा­दि­त्यर्थः । द्वितीयं विकल्पं दूषयति

अकल्प्यमाने तूप­चि­ता­प­चि­त­गु­णत्व इति ।

अथ सर्वे चतुर्गुणा इति ।

यद्यप्यस्मिन् कल्पे सर्वेषां स्थौल्य­प्र­स­ङ्ग­स्त­था­प्य­ति­स्फु­ट­त­यो­पेक्ष्य दूषयति
ततोऽप्स्वपीति ।
वायो रूपवत्त्वेन चाक्षु­ष­त्व­प्र­सङ्ग इत्यपि द्रष्टव्यम् ॥ १६ ॥

अप­रि­ग्र­हा­च्चा­त्य­न्त­म­न­पेक्षा ।

निगदव्याख्यातेन भाष्येण व्याख्यातम् । संप्र­त्यु­त्सूत्रं भाष्य­कृ­द्वै­शे­षि­क­तन्त्रं दूषयति
अपि च वैशेषिका इति ।

द्रव्याधीनत्वं
द्रव्या­धी­न­नि­रू­प­ण­त्वम् । न हि यथा गवा­श्व­म­हि­ष­मा­तङ्गाः पर­स्प­रा­न­धी­न­नि­रू­पणाः स्वतन्त्रा निरूप्यन्ते, वह्न्या­द्य­न­धी­नो­त्प­त्तयो वा धूमादयो यथा वह्न्या­द्य­न­धी­न­नि­रू­पणाः स्वतन्त्रा निरूप्यन्ते, एवं गुणादयो न द्रव्या­द्य­न­धी­न­नि­रू­पणाः, अपि तु यदा यदा निरूप्यन्ते तदा तदा तदाकारतयैव प्रथन्ते न तु प्रथा­या­मे­षा­मस्ति स्वातन्त्र्यं, तस्मा­न्ना­ति­रि­च्यन्ते द्रव्यादपि तु द्रव्यमेव सामान्यरूपं तथा तथा प्रथत इत्यर्थः । द्रव्य­का­र्य­त्व­मात्रं गुणादीनां द्रव्या­धी­न­त्व­मिति मन्वानश्चोदयति

नन्व­ग्ने­र­न्य­स्या­पीति ।

परिहरति
भेदप्रतीतेरिति ।
न तदधीनोत्पादतां तद­धी­न­त्व­मा­च­क्ष्महे किन्तु तदाकारतां, तथा च न व्यभिचार इत्यर्थः ।

शङ्कते
गुणानां द्रव्याधीनत्वं द्रव्य­गु­ण­यो­र­यु­त­सि­द्ध­त्वा­दिति यद्युच्येत ।
यत्र हि द्वावाकारिणौ विभि­न्ना­भ्या­मा­का­रा­भ्या­म­व­ग­म्येते तौ सम्ब­द्धा­स­म्बद्धौ वा वैयधिकरण्येन प्रतिभासेते, यथेह कुण्डे दधि यथा वा गौरश्व इति, न तथा गुण­क­र्म­सा­मा­न्य­वि­शे­ष­स­म­वायाः, तेषां द्रव्या­का­र­त­या­का­रा­न्त­रा­यो­गेन द्रव्या­दा­का­रि­णोऽ­न्य­त्वे­ना­का­रि­तया व्यव­स्था­ना­भा­वा­त्से­य­म­यु­त­सिद्धिः । तथा च सामानाधिकरण्येन प्रथेत्यर्थः । तामि­मा­म­यु­त­सिद्धिं विकल्प्य दूषयति

तत्पु­न­र­यु­त­सि­द्ध­त्व­मिति ।

तत्रा­पृ­थ­ग्दे­शत्वं तदभ्युपगमेन विरुध्यत इत्याह
अपृथग्देशत्व इति ।
यदि तु संयोगिनोः कार्ययोः सम्ब­न्धि­भ्या­म­न्य­दे­शत्वे युत­सि­द्धि­स्त­तोऽ­न्या­यु­त­सिद्धिः, नित्ययोस्तु संयो­गि­नो­र्द्व­यो­र­न्य­त­रस्य वा पृथग्गतिमत्त्वं युत­सि­द्धि­स्त­तोऽ­न्या­यु­त­सिद्धिः, तथा चाकाशपरमाण्वोः परमाण्वोश्च संयु­क्त­यो­र्यु­त­सिद्धिः सिद्धा भवति । गुणगुणिनोश्च शौक्ल्य­प­ट­यो­र­यु­त­सिद्धिः सिद्धा भवति । नहि तत्र शौक्ल्यपटाभ्यां सम्ब­न्धि­भ्या­म­न्य­देशौ शौक्ल्यपटौ । सत्यपि पटस्य तद­न्य­त­न्तु­दे­शत्वे शौक्ल्यस्य सम्ब­न्धि­प­ट­दे­श­त्वात् । तन्न । नित्य­यो­रा­त्मा­का­श­यो­र­ज­सं­योगे उभयस्या अपि युत­सि­द्धे­र­भा­वात् । न हि तयोः पृथ­गा­श्र­या­श्रि­त­त्व­म­ना­श्र­य­त्वात् । नापि द्वयोरन्यतरस्य वा पृथ­ग्ग­ति­म­त्त्व­म­मू­र्त­त्वे­नो­भ­यो­रपि निष्क्रियत्वात् । न चाजसंयोगो नास्ति तस्या­नु­मा­न­सि­द्ध­त्वात् । तथाहि आका­श­मा­त्म­सं­योगि, मूर्त­द्र­व्य­स­ङ्गि­त्वात् , घटा­दि­व­दि­त्य­नु­मा­नम् । पृथ­गा­श्र­या­श्र­यि­त्व­पृ­थ­ग्ग­ति­म­त्त्व­ल­क्ष­ण­यु­त­सि­द्धे­रन्या त्वयु­त­सि­द्धि­र्य­द्यपि नाभ्यु­पे­त­वि­रो­ध­मा­व­हति तथापि न सामा­ना­धि­क­र­ण्य­प्र­था­मु­प­पा­द­यि­तु­म­र्हति । एवं लक्षणेऽपि हि समवाये गुण­गु­णि­नो­र­भ्यु­प­ग­म्य­माने सम्बद्धे इति प्रत्ययः स्यान्न तादा­त्म्य­प्र­त्ययः । अस्य चोपपादनाय समवाय आस्थीयते भवद्भिः । स चेदास्थितोऽपि न प्रत्य­य­मि­म­मु­प­पा­द­ये­त्कृतं तत्कल्पनया । न च प्रत्यक्षः सामा­ना­धि­क­र­ण्य­प्र­त्ययः समवायगोचरः, तद्वि­रु­द्धा­र्थ­त्वात् । तद्गोचरत्वे हि पटे शुक्ल इत्येवमाकरः स्यान्न तु पटः शुक्ल इति । नच शुक्लपदस्य गुण­वि­शि­ष्ट­गु­णि­प­र­त्वा­देवं प्रथेति साम्प्रतम् । नहि शब्द­वृ­त्त्य­नु­सारि प्रत्यक्षम् । नह्यग्निर्माणवक इत्यु­प­च­रि­ता­ग्नि­भावो माणवकः प्रत्यक्षेण दहनात्मना प्रथते । न चायमभेदविभ्रमः समवायनिबन्धनो भिन्नयोरपीति वाच्यम् , गुणादिसद्भावे तद्भेदे च प्रत्य­क्षा­नु­भ­वा­द­न्यस्य प्रमा­ण­स्या­भा­वा­त्तस्य च भ्रान्तत्वे सर्वा­भा­व­प्र­स­ङ्गात् । तदाश्रयस्य तु भेदसाधनस्य तद्वि­रु­द्ध­त­यो­त्था­ना­स­म्भ­वात् । तदिदमुक्तम्

तस्य तादात्म्येनैव प्रती­य­मा­न­त्वा­दिति ।

अपि चायु­त­सि­द्ध­श­ब्दोऽ­पृ­थ­गु­त्पत्तौ मुख्यः, सा च भवन्मते न द्रव्य­गु­ण­यो­रस्ति, द्रव्यस्य प्राक्सि­द्धे­र्गु­णस्य च पश्चा­दु­त्पत्तेः, तस्मा­न्मि­थ्या­वा­दोऽ­य­मि­त्याह
युतसिद्धयोरिति ।

अथ भवतु कारणस्य युतसिद्धिः, कार्यस्य त्वयुतसिद्धिः कार­णा­ति­रे­के­णा­भा­वा­दि­त्या­श­ङ्क्या­न्यथा दूषयति
एवमपीति ।
सम्ब­न्धि­द्व­या­धी­न­स­द्भावो हि सम्बन्धो नास­त्ये­क­स्मि­न्नपि सम्बन्धिनि भवितुमर्हति । नच समवायो नित्यः स्वतन्त्र इति चोक्तमधस्तात् । नच कार­ण­स­म­वा­या­द­नन्या कार्य­स्यो­त्प­त्ति­रिति शक्यं वक्तुम् , एवं हि सति समवायस्य नित्य­त्वा­भ्यु­प­ग­मा­त्का­र­ण­वै­य­र्थ्य­प्र­सङ्गः । उत्पत्तौ च समवायस्य सैव कार्यस्यास्तु किं समवायेन । सिद्धयोस्तु सम्बन्धे युत­सि­द्धि­प्र­सङ्गः । न चान्या­यु­त­सिद्धिः सम्भ­व­ती­त्ये­त­दु­क्तम् । ततश्च यदुक्तं वैशे­षि­कै­र्यु­त­सि­द्ध्य­भा­वात् ।

कार्यकारणयोः संयोगविभागौ न विद्येते इतीदं दुरुक्तं स्यात् ।
युत­सि­द्ध्य­भा­व­स्यै­वा­भा­वात् । एते­ना­प्रा­प्ति­सं­योगौ युत­सि­द्धि­रि­त्यपि लक्षणमनुपपन्नम् । मा भूदप्राप्तिः कार्यकारणयोः, प्राप्ति­स्त्व­नयोः संयोग एव कस्मान्न भवति, तत्रास्या असं­यो­ग­त्वा­या­न्या­यु­त­सि­द्धि­र्व­क्तव्या । तथा च सैवोच्यतां किमनया पर­स्प­रा­श्र­य­दो­ष­ग्र­स्तया । न चान्या सम्भ­व­ती­त्यु­क्तम् । यद्यु­च्ये­ता­प्रा­प्ति­पू­र्विका प्राप्ति­र­न्य­त­र­क­र्म­जो­भ­य­क­र्मजा वा संयोगः, यथा स्थाणु­श्ये­न­यो­र्म­ल्ल­योर्वा । नच तन्तुपटयोः सम्बन्धस्तथा, उत्प­न्न­मा­त्र­स्यैव पटस्य तन्तुसम्बन्धात् । तस्मात्समवाय एवायमित्यत आह

यथा चोत्प­न्न­मा­त्र­स्येति ।
संयोगजोऽपि हि संयोगो भव­द्भि­र­भ्यु­पे­यते न क्रियाज एवेत्यर्थः । न चाप्रा­प्ति­पू­र्वि­कैव प्राप्तिः संयोगः, आत्माकाशसंयोगे नित्ये तदभावात् , कार्यस्य चोत्प­न्न­मा­त्र­स्यै­क­स्मिन् क्षणे कार­ण­प्रा­प्ति­वि­र­हा­च्चेति । अपि च सम्ब­न्धि­रू­पा­ति­रिक्ते सम्बन्धे सिद्धे तदवान्तरभेदाय लक्ष­ण­भे­दोऽ­नु­श्री­येत स एव तु सम्ब­न्ध्य­ति­रि­क्तोऽ­सिद्धः, उक्तं हि परस्तादतिरिक्तः सम्बन्धिभ्यां सम्ब­न्धोऽ­स­म्बद्धो न सम्बन्धिनौ घटयितुमीष्टे । सम्ब­न्धि­स­म्बन्धे चानवस्थितिः । तस्मा­दु­प­प­त्त्य­नु­भ­वाभ्यां न कार्यस्य कारणादन्यत्वम् , अपि तु कार­ण­स्यै­वा­य­म­नि­र्वाच्यः परिणामभेद इति । तस्मात्कार्यस्य कारणादनतिरेकात् किं केन सम्बद्धं, संयोगस्य च संयो­गि­भ्या­म­न­ति­रे­का­त्क­स्तयोः संयोग इत्याह

नापि संयोगस्येति ।

विचा­रा­स­ह­त्वे­ना­नि­र्वा­च्य­ता­म­स्या­प­रि­भा­व­य­न्ना­श­ङ्कते
सम्ब­न्धि­श­ब्द­प्र­त्य­व्य­ति­रे­के­णेति ।

निराकरोति
न । एकत्वेऽपि स्वरू­प­बा­ह्य­रू­पा­पे­क्ष­येति ।
तत्त­द­नि­र्व­च­नी­या­ने­क­वि­शे­षा­व­स्था­भे­दा­पे­क्ष­यै­क­स्मि­न्नपि नाना­बु­द्धि­व्य­प­दे­शो­प­प­त्ति­रिति । यथैको देवदत्तः स्वग­त­वि­शे­षा­पे­क्षया मनुष्यो ब्राह्म­णोऽ­व­दातः, स्वग­ता­व­स्था­भे­दा­पे­क्षया बालो युवा स्थविरः, स्वक्रि­या­भे­दा­पे­क्षया श्रोत्रियः, परापेक्षया तु पिता पुत्रः पौत्रो भ्राता जामातेति । निदर्शनान्तरमाह

यथा चैकापि सती रेखेति ।

दार्ष्टान्तिके योजयति
तथा सम्बन्धिनोरिति ।
अङ्गु­ल्यो­र्नै­र­न्तर्यं संयोगः, दधि­कु­ण्ड­यो­रौ­त्त­रा­धर्यं संयोगः । कार्यकारणयोस्तु तादा­त्म्येऽ­प्य­नि­र्वा­च्यस्य कार्यस्य भेदं विव­क्षि­त्वा­स­म्ब­न्धि­नो­रि­त्यु­क्तम् ।

नापि सम्ब­न्धि­वि­ष­यत्वे सम्ब­न्ध­श­ब्द­प्र­त्य­ययोः
इत्ये­त­द­प्य­नि­र्वा­च्य­भे­दा­भि­प्रा­यम् । अपि­चा­दृ­ष्ट­व­त्क्षे­त्र­ज्ञ­सं­यो­गा­त्प­र­मा­णु­म­न­सो­श्चाद्यं कर्म भवद्भिरिष्यते । “अग्ने­रू­र्ध्व­ज्व­लनं वायो­स्ति­र्य­क्प­व­न­म­णु­म­न­सो­श्चाद्यं कर्मे­त्य­दृ­ष्ट­का­रि­तानि”(वै.सू. ५-२-१२) इति वचनात् । न चाणु­म­न­सो­रा­त्म­ना­प्र­दे­शेन संयोगः सम्भवति । सम्भवे चाणु­म­न­सो­रा­त्म­व्या­पि­त्वा­त्प­र­म­म­ह­त्त्वे­ना­न­णु­त्व­प्र­स­ङ्गात् । नच प्रदे­श­वृ­त्ति­र­न­यो­रा­त्मना संयो­गोऽ­प्र­दे­श­त्वा­दा­त्मनः, कल्पनायाश्च वस्तु­त­त्त्व­व्य­व­स्था­प­ना­स­ह­त्वा­द­ति­प्र­स­ङ्गा­दि­त्याह

तथा­ण्वा­त्म­म­न­सा­मिति ।
किञ्चान्यत् द्वाभ्या­म­णुभ्यां कारणाभ्यां सावयवस्य कार्यस्य द्व्यणु­क­स्या­का­शे­नेव संश्ले­षा­नु­प­पत्तिः । संश्लेषः सङ्ग्रहो यत एक­स­म्ब­न्ध्या­कर्षे सम्ब­न्ध्य­न्त­रा­कर्षो भवति तस्या­नु­प­प­त्ति­रिति । अत एव संयोगादन्यः कार्य­का­र­ण­द्र­व्य­यो­रा­श्र­या­श्रि­त­भा­वोऽ­न्यथा नोपपद्यत इत्यवश्यं कल्पनीयः समवाय इति चेत् । निराकरोति

न ।

कुतः ।
इत­रे­त­रा­श्र­य­त्वात् ।

तद्विभजते
कार्य­का­र­ण­यो­र्हीति ।

किञ्चान्यत् । परमाणूनामिति ।
ये हि परिच्छिन्नास्ते सावयवाः, यथा घटादयः । तथा च परमाणवः, तस्मात्सावयवा अनित्याः स्युः । अपरिच्छिन्नत्वे चाका­शा­दि­व­त्प­र­मा­णु­त्व­व्या­घातः शङ्कते

यांस्त्वमिति ।

निराकरोति
न । स्थूलेति ।

किं सूक्ष्म­त्वा­त्प­र­मा­णवो न विनश्यन्त्यथ निरवयवतया तत्र पूर्वस्मिन् कल्पे इदमुक्तम्
वस्तुभूतापीति ।

भवन्मते उत्तरं कल्पमाशङ्क्य निराकरोति
विन­श्य­न्तोऽ­प्य­व­य­व­वि­भा­गे­नेति ।

यथा हि घृत­सु­व­र्णा­दी­ना­म­वि­भ­ज्य­मा­ना­व­य­वा­ना­म­पीति ।
यथा हि पिष्ट­पि­ण्डोऽ­वि­न­श्य­द­व­य­व­सं­योग एव प्रथते, प्रथ­मा­न­श्चा­श्व­श­फा­का­रतां नीयमानः पुरो­डा­श­ता­मा­प­द्यते, तत्र पिण्डो नश्यति पुरो­डा­श­श्चो­त्प­द्यते, नहि तत्र पिण्डावयवसंयोगा विनश्यन्ति, अपि तु संयुक्ता एव सन्तः परं प्रथनेन नुद्यमाना अधिकदेशव्यापका भवन्ति, एवमग्निसंयोगेन सुव­र्ण­द्र­व्या­व­यवाः संयुक्ता एव सन्तो द्रवी­भा­व­मा­प­द्यन्ते, नतु मिथो विभज्यन्ते । तस्मा­द्य­था­व­य­व­सं­यो­ग­वि­ना­शा­व­न्त­रे­णापि सुवर्णपिण्डो विनश्यति, संयो­गा­न्त­रो­त्पा­द­म­न्त­रेण च सुवर्णे द्रव उपजायते, एव­म­न्त­रे­णा­प्य­व­य­व­सं­यो­ग­वि­नाशं परमाणवो विन­ङ्क्ष्य­न्त्यन्ये चोत्पत्स्यन्त इति सर्वमवदातम् ॥ १७ ॥

समुदाय उभयहेतुकेऽपि तदप्राप्तिः ।

अवा­न्त­र­स­ङ्ग­ति­माह
वैशे­षि­क­रा­द्धान्त इति ।
वैशेषिकाः खल्व­र्ध­वै­ना­शिकाः । ते हि पर­मा­ण्वा­का­शा­दि­क्का­ला­त्म­म­नसां च सामा­न्य­वि­शे­ष­स­म­वा­यानां च गुणानां च केषा­ञ्चि­न्नि­त्य­त्व­म­भ्यु­पेत्य शेषाणां निर­न्व­य­वि­ना­श­मु­प­यन्ति, तेन तेऽर्धवैनाशिकाः । तेन तदुपन्यासो वैना­शि­क­त्व­सा­म्येन सर्ववैनाशिकान् स्मारयतीति तदनन्तरं वैना­शि­क­म­त­नि­रा­क­र­ण­मिति । अर्धवैनाशिकानां स्थिरभाववादिनां समुदायारम्भ उपपद्येतापि, क्षणि­क­भा­व­वा­दिनां त्वसौ दूरापेत इत्यु­प­पा­द­यि­ष्यामः । तेन नतरामित्युक्तम् । तदिदं दूषणाय वैना­शि­क­म­त­मु­प­न्य­सितुं तत्प्र­का­र­भे­दा­नाह

स च बहुप्रकार इति ।
वादि­वै­चि­त्र्या­त्खलु, केचि­त्स­र्वा­स्ति­त्व­मेव राद्धान्तं प्रतिपद्यन्ते केचि­ज्झा­न­मा­त्रा­स्ति­त्वम् । केचि­त्स­र्व­शू­न्य­ताम् । अथ त्वत्रभवतां सर्वज्ञानां तत्त्व­प्र­ति­प­त्ति­भेदो न सम्भवति, तत्त्व­स्यै­क­रू­प्या­दि­त्ये­त­द­प­रि­तो­षे­णाह

विनेयभेदाद्वा ।
हीन­म­ध्य­मो­त्कृ­ष्ट­धियो हि शिष्या भवन्ति । तत्र ये हीनमतयस्ते सर्वा­स्ति­त्व­वा­देन तदा­श­या­नु­रो­धा­च्छू­न्य­ता­या­म­व­ता­र्यन्ते । ये तु मध्यमास्ते ज्ञान­मा­त्रा­स्ति­त्वेन शून्य­ता­या­म­व­ता­र्यन्ते । ये तु प्रकृ­ष्ट­म­त­य­स्तेभ्यः साक्षादेव शून्यतातत्त्वं प्रतिपाद्यते । यथोक्तं बोधिचित्तविवरणे -“देशना लोकनाथानां सत्त्वा­श­य­व­शा­नुगाः । भिद्यन्ते बहुधा लोक उपायैर्बहुभिः पुनः ॥ १ ॥ गम्भी­रो­त्ता­न­भे­देन क्वचि­च्चो­भ­य­ल­क्षणा । भिन्नापि देशनाभिन्ना शून्य­ता­द्व­य­ल­क्षणा” ॥ २ ॥ इति । यद्यपि वैभा­षि­क­सौ­त्रा­न्ति­क­यो­र­वा­न्त­र­म­त­भे­दोऽस्ति, तथापि सर्वा­स्ति­ता­या­मस्ति सम्प्र­ति­प­त्ति­रि­त्ये­की­कृ­त्यो­प­न्यासः । तथा च त्रित्व­मु­प­प­न्न­मिति । पृथिवी स्वरस्वभावा, आपः स्नेहस्वभावाः, अग्नि­रु­ष्ण­स्व­भावः, वायुरीरणस्वभावः । ईरणं प्रेरणम् । भूत­भौ­ति­का­नुक्त्वा चित्त­चै­त्ति­का­नाह

तथा रूपेति ।
रूप्यन्ते एभिरिति रूप्यन्त इति च व्युत्पत्या सवि­ष­या­णी­न्द्रि­याणि रूपस्कन्धः । यद्यपि रूप्यमाणाः पृथिव्यादयो बाह्यास्तथापि कायस्थत्वाद्वा इन्द्रि­य­स­म्ब­न्धाद्वा भव­न्त्या­ध्या­त्मिकाः । विज्ञा­न­स्क­न्धोऽ­ह­मि­त्या­कारो रूपादिविषय इन्द्रि­या­दि­जन्यो वा दण्डायमानः । वेदनास्कन्धो या प्रिया­प्रि­या­नु­भ­य­वि­ष­य­स्पर्शे सुख­दुः­ख­त­द्र­हि­त­वि­शे­षा­वस्था चित्तस्य जायते स वेदनास्कन्धः । संज्ञास्कन्धः सविकल्पप्रत्ययः संज्ञा­सं­स­र्ग­यो­ग्य­प्र­ति­भासः, यथा डित्थः कुण्डली गौरो ब्राह्मणो गच्छ­ती­त्ये­वं­जा­ती­यकः । संस्कारस्कन्धो रागादयः क्लेशाः, उपक्लेशाश्च मदमानादयः, धर्माधर्मौ चेति । तदेतेषां समुदायः पञ्चस्कन्धी ।

तस्मि­न्नु­भ­य­हे­तु­केऽ­पीति ।
बाह्ये पृथिव्या द्व्यणुहेतुके भूत­भौ­ति­क­स­मु­दाये, रूप­वि­ज्ञा­ना­दि­स्क­न्ध­हे­तुके च समुदाय आध्या­त्मि­केऽ­भि­प्रे­य­माणे तद­प्रा­प्ति­स्तस्य समु­दा­य­स्या­यु­क्तता । कुतः ।

समु­दा­यि­ना­म­चे­त­न­त्वात् ।
चेतनो हि कुलालादिः सर्वं मृद्द­ण्डा­द्यु­प­सं­हृत्य समुदायात्मकं घटमारचयन् दृष्टः । नह्यसति मृद्द­ण्डा­दि­व्या­पा­रिणि विदुषि कुलाले स्वयमचेतना मृद्दण्डादयो व्यापृत्य जातु घटमारचयन्ति । न चासति कुविन्दे तन्तुवेमादयः पटं वयन्ते । तस्मा­त्का­र्यो­त्पा­द­स्त­द­नु­गु­ण­का­र­ण­स­म­व­धा­ना­धी­न­स्त­द­भावे न भवति । कार्यो­त्पा­दा­नु­गुणं च कारणसमवधानं चेत­न­प्रे­क्षा­धी­न­म­सत्यां चेतनप्रेक्षायां न भवितुमुत्सहत इति कार्यो­त्प­त्ति­श्चे­त­न­प्रे­क्षा­धी­न­त्व­व्याप्ता व्याप­क­वि­रु­द्धो­प­लब्ध्या चेत­ना­न­धि­ष्ठि­तेभ्यः कारणेभ्यो व्यावर्तमाना चेतनाधिष्ठितत्व एवावतिष्ठत इति प्रति­ब­न्ध­सिद्धिः । यद्युच्येत अद्धा चेतनाधीनैव कार्योत्पत्तिः, अस्ति तु चित्तं चेतनं, तद्धी­न्द्रि­या­दि­वि­ष­य­स्पर्शे सत्य­भि­ज्व­ल­त्त­त्का­र­ण­चक्रं यथायथा कार्याय पर्याप्तं तथातथा प्रकाशयदचेतनानि कारणान्यधिष्ठाय कार्य­म­भि­नि­र्व­र्त­य­तीति, तत्राह

चित्ता­भि­ज्व­ल­नस्य च समु­दा­य­सि­द्ध्य­धी­न­त्वात् ।
न खलु बाह्या­भ्य­न्त­र­स­मु­दा­य­सि­द्धि­म­न्त­रेण चित्ताभिज्वलनं, ततस्तु तामिच्छन् दुरु­त्त­र­मि­त­रे­त­रा­श्र­य­मा­वि­शे­दिति । न च प्राग्भवीया चित्ता­भि­दी­प्ति­रु­त्त­र­स­मु­दायं घटयति । घटनसमये तस्या­श्चि­रा­ती­त­त्वेन सामर्थ्यविरहात् । अस्म­द्रा­द्धा­न्त­व­द­न्य­स्य­चे­त­नस्य भोक्तुः प्रशासितुर्वा स्थिरस्य सङ्घा­त­क­र्तु­र­न­भ्यु­प­ग­मात् । कारणविन्यासभेदं हि विद्वान् कर्ता भवति । न चान्व­य­व्य­ति­रे­का­व­न्त­रेण तद्विन्यासभेदं वेदितुमर्हति । नच सक्ष­णि­कोऽ­न्व­य­व्य­ति­रे­क­का­ला­न­व­स्थायी ज्ञातु­म­न्व­य­व्य­ति­रे­का­वु­त्स­हते । अत उक्तम्

स्थिरस्येति ।