भामतीव्याख्या
स्मृत्यधिकरणविषयाः (२)
यद्युच्येत असमवहितान्येव कारणानि कार्यं करिष्यन्ति परस्परानपेक्षाणि, कृतमत्र समवधाययित्रा चेतनेनेत्यत आह
निरपेक्षप्रवृत्त्यभ्युपगमे चेति ।
यद्युच्यते अस्त्यालयविज्ञानमहङ्कारास्पदं पूर्वापरानुसन्धातृ, तदेव कारणानां प्रतिसन्धातृ भविष्यतीति, तत्राह
आशयस्यापीति ।
यत्खल्वेकं यदि स्थिरमास्थीयेत ततो नामान्तरेणात्मैव । अथ क्षणिकं, तत उक्तदोषापत्तिः । नच तत्सन्तानस्तस्यान्यत्वे नामान्तरेणात्माभ्युपगतोऽनन्यत्वे च विज्ञानमेव, तच्च क्षणिकमेवेत्युक्तदोषापत्तिः । आशेरतेऽस्मिन् कर्मानुभववासना इत्याशय आलयविज्ञानं तस्य । अपि च प्रवृत्तिः समुदायिनां व्यापारः । नच क्षणिकानां व्यापारो युज्यते । व्यापारो हि व्यापारवदाश्रयस्तत्कारणकश्च लोके प्रसिद्धः । तेन व्यापारवता व्यापारात्पूर्वं व्यापारसमये च भवितव्यम् । अन्यथा कारणत्वाश्रयत्वयोरयोगात् । न च समसमययोरस्ति कार्यकारणभावः । नापि भिन्नकालयोराधाराधेयभावः । तथा च क्षणिकत्वहानिरित्याह
क्षणिकत्वाभ्युपगमाच्चेति ॥ १८ ॥
इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ।
यद्यपीति ।
अयमर्थः सङ्क्षेपतो हि प्रतीत्यसमुत्पादलक्षणमुक्तं बुद्धेन ‘इदं प्रत्ययफलम्’ इति । “उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैषा धर्माणां धर्मता” । “धर्मस्थितिता धर्मनियामकता प्रतीत्यसमुत्पादानुलोमता” इति । अथ पुनरयं प्रतीत्यसमुत्पादो द्वाभ्यां कारणाभ्यां भवति हेतूपनिबन्धतश्च प्रत्ययोपनिबन्धतश्च । स पुनर्द्विविधो बाह्य आध्यात्मिकश्च । तत्र बाह्यस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः यदिदं बीजादङ्कुरोऽङ्कुरात्पत्रं पत्रात्काण्डं काण्डान्नालो नालाद्गर्भो गर्भाच्छूकः शूकात्पुष्पं पुष्पात्फलमिति । असति बीजेऽङ्कुरो न भवति, यावदसति पुष्पे फलं न भवति । सति तु बीजेऽङ्कुरो भवति, यावत्पुष्पे सति फलमिति । तत्र बीजस्य नैवं भवति ज्ञानमहमङ्कुरं निर्वर्तयामीति । अङ्कुरस्यापि नैवं भवति ज्ञानमहं बीजेन निर्वर्तित इति । एवं यावत्पुष्पस्य नैवं भवत्यहं फलं निर्वर्तयामीति । एवं फलस्यापि नैवं भवत्यहं पुष्पेणाभिनिर्वर्तितमिति । तस्मादसत्यपि चैतन्ये बीजादीनामसत्यपि चान्यस्मिन्नधिष्ठातरि कार्यकारणभावनियमो दृश्यते । उक्तो हेतूपनिबन्धः । प्रत्ययोपनिबन्धः प्रतीत्यसमुत्पादस्योच्यते । प्रत्ययो हेतूनां समवायः । हेतुं हेतुं प्रत्ययन्ते हेत्वन्तराणीति, तेषामयमानानां भावः प्रत्ययः । समवाय इति यावत् । यथा षण्णां धातूनां समवायाद्बीजहेतुरङ्कुरो जायते । तत्र च पृथिवीधातुर्बीजस्य सङ्ग्रहकृत्यं करोति यतोऽङ्कुरः कठिनो भवति, अब्धातुर्बीजं स्नेहयति, तेजोधातुर्बीजं परिपाचयति, वायुधातुर्बीजमभिनिर्हरति यतोऽङ्कुरो बीजान्निर्गच्छति, आकाशधातुर्बीजस्यानावरणकृत्यं करोति, ऋतुरपि बीजस्य परिणामं करोति, तदेतेषामविकलानां धातूनां समवाये बीजे रोहित्यङ्कुरो जायते नान्यथा । तत्र पृथिवीधातोर्नैवं भवत्यहं बीजस्य सङ्ग्रहकृत्यं करोमीति, यावदृतोर्नैवं भवत्यहं बीजस्य परिणामं करोमीति । अङ्कुरस्यापि नैवं भवत्यहमेभिः प्रत्ययैर्निर्वर्तित इति । तथाध्यात्मिकः प्रतीत्यसमुत्पादो द्वाभ्यां कारणाभ्यां भवति हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च । तत्रास्य हेतूपनिबन्धो यदिदमविद्याप्रत्ययाः संस्कारा यावज्जातिप्रत्ययं जरामरणादीति । अविद्या चेन्नाभविष्यन्नैव संस्कारा अजनिष्यन्त । एवं यावज्जातिः । जातिश्चेन्नाभविष्यन्नैव जरामरणादय उत्पत्स्यन्त । तत्राविद्याया नैवं भवत्यहं संस्कारानभिनिर्वर्तयामीति । संस्काराणामपि नैवं भवति वयमविद्यया निर्वर्तिता इति । एवं यावज्जात्या अपि नैवं भवत्यहं जरामरणाद्यभिनिर्वर्तयामीति । जरामरणादीनामपि नैवं भवति वयं जात्यादिभिर्निर्वर्तिता इति । अथ च सत्स्वविद्यादिषु स्वयमचेतनेषु चेतनान्तरानधिष्ठितेष्वपि संस्कारादीनामुत्पत्तिः, बीजादिष्विव सत्स्वचेतनेषु चेतनान्तरानधिष्ठितेष्वप्यङ्कुरादीनाम् । इदं प्रतीत्य प्राप्येदमुत्पद्यत इत्येतावन्मात्रस्य दृष्टत्वाच्चेतनाधिष्ठानस्यानुपलब्धेः । सोऽयमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः । अथ प्रत्ययोपनिबन्धः पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातूनां समवायाद्भवति कायः । तत्र कायस्य पृथिवीधातुः काठिन्यं निर्वर्तयति । अब्धातुः स्नेहयति कायम् । तेजोधातुः कायस्याशितपीते परिपाचयति । वायुधातुः कायस्य श्वासादि करोति । आकाशधातुः कायस्यान्तः सुषिरभावं करोति । यस्तु नामरूपाङ्कुरमभिनिर्वर्तयति पञ्चविज्ञानकार्यसंयुक्तं सास्रवं च मनोविज्ञानं, सोऽयमुच्यते विज्ञानधातुः । यदा ह्याध्यात्मिकाः पृथिव्यादिधातवो भवन्त्यविकलास्तदा सर्वेषां समवायाद्भवति कायस्योत्पत्तिः । तत्र पृथिव्यादिधातूनां नैवं भवति वयं कायस्य काठिन्यादि निर्वर्तयाम इति । कायस्यापि नैवं भवति ज्ञानमहमेभिः प्रत्ययैरभिनिर्वर्तित इति । अथ च पृथिव्यादिधातुभ्योऽचेतनेभ्यश्चेतनान्तरानधिष्ठितेभ्योऽङ्कुरस्येव कायस्योत्पत्तिः । सोऽयं प्रतीत्यसमुत्पादो दृष्टत्वान्नान्यथयितव्यः । तत्रैतेष्वेव षट्सु धातुषु यैकसंज्ञा, पिण्डसंज्ञा, नित्यसंज्ञा, सुःखसंज्ञा, सत्त्वसंज्ञा, पुद्गलसंज्ञा, मनुष्यसंज्ञा, मातृदुहितृसंज्ञा, अहङ्कारममकारसंज्ञा, सेयमविद्या संसारानर्थसम्भारस्य मूलकारणं, तस्यामविद्यायां सत्यां संस्कारा रागद्वेषमोहा विषयेषु प्रवर्तन्ते । वस्तुविषया विज्ञप्तिर्विज्ञानं, विज्ञानाच्चत्वारो रूपिण उपादानस्कन्धास्तन्नाम, तान्युपादाय रूपमभिनिर्वर्तते । तदैकध्यमभिसङ्क्षिप्य नामरूपं निरुच्यते शरीरस्यैव कललबुद्बुदाद्यवस्था नामरूपसंमिश्रितानीन्द्रियाणि षडायतनं, नामरूपेन्द्रियाणां त्रयाणां सन्निपातः स्पर्शः, स्पर्शाद्वेदना सुखादिका, वेदनायां सत्यां कर्तव्यमेतत्सुखं पुनर्मयेत्यध्यवसानं तृष्णा भवति । ततौपादानं वाक्कायचेष्टा भवति । ततो भवो भवत्यस्माज्जन्मेति भवो धर्माधर्मौ, तद्धेतुकः स्कन्धप्रादुर्भावो जातिःजन्म । जन्महेतुका उत्तरे जरामरणादयः । जातानां स्कन्धानां परिपाको जरा । स्कन्धानां नाशो मरणम् । म्रियमाणस्य मूढस्य साभिषङ्गस्य पुत्रकलत्रादावान्तर्दाहः शोकः । तदुत्थं प्रलपनं हा मातः, हा तात, हा च मे पुत्रकलत्रादीति परिदेवना । पञ्चविज्ञानकार्यसंयुक्तमसाध्वनुभवनन्दुःखम् । मानसं च दुःखन्दौर्मनस्यम् । एवंजातीयकाश्चोपायास्त उपक्लेशा गृह्यन्ते । तेऽमी परस्परहेतुकाः, जन्मादिहेतुका अविद्यादयोऽविद्यादिहेतुकाश्च जन्मादयो घटीयन्त्रवदनिशमावर्तमानाः सन्तीति तदेतैरविद्यादिभिराक्षिप्तः सङ्घात इति । तदेतद्दूषयति
तन्न कुतः, उत्पत्तिमात्रनिमित्तत्वादिति ।
अयमभिसन्धिः यत्खलु हेतूपनिबद्धं कार्यं तदन्यानपेक्षं हेतुमात्राधीनोत्पादत्वादुत्पद्यतां नाम । पञ्चस्कन्धसमुदायस्तु प्रत्ययोपनिबद्धो न हेतुमात्राधीनोत्पत्तिः । अपि तु नानाहेतुसमवधानजन्मा । न च चेतनमन्तरेणान्यः संनिधापयितास्ति कारणानामित्युक्तम् । बीजादङ्कुरोत्पत्तेरपि प्रत्ययोपनिबद्धाया विवादाध्यासितत्वेन पक्षनिक्षिप्तत्वात् , पक्षेण च व्यभिचारोद्भावनायामतिप्रसङ्गेन सर्वानुमानोच्छेदप्रसङ्गात् । स्यादेतत् । अनपेक्षा एवान्त्यक्षणप्राप्ताः क्षित्यादयोऽङ्कुरमारभन्ते । तेषां तूपसर्पणप्रत्ययवशात्परस्परसमवधानम् । न चैकस्मादेव कारणात्कार्यसिद्धेः किमन्यैः कारणैरिति वाच्यम् । कारणचक्रानन्तरं कार्योत्पादात्सिद्धमित्येव नास्ति । न चैकोऽपि तत्कारणसमर्थ इत्यन्य उदासत इति युक्तम् । नहि ते प्रेक्षावन्तो येनैवमालोचयेयुरस्मासु समर्थ एकोऽपि कार्ये इति कृतं नः संनिधिनेति । किन्तूपसर्पणप्रत्ययाधीनपरस्परसंनिधानोत्पादा नानुत्पत्तुं नाप्यसंनिधातुमीशते । तांश्च सर्वाननपेक्षान् प्रतीत्य कार्यमपि न नोत्पत्तुमर्हति । नच स्वमहिम्ना सर्वे कार्यमुत्पादयन्तोऽपि नानाकार्याणामीशते तत्रैव तेषां सामर्थ्यात् । न च कारणभेदात्कार्यभेदः, सामग्र्या एकत्वात् । तद्भेदस्य च कार्यनानात्वहेतुत्वात्तथा दर्शनात् । तन्न । यद्यन्त्यक्षणप्राप्ता अनपेक्षाः स्वकार्योपजनने, हन्तानेन क्रमेण ततः पूर्वे ततः पूर्वे सर्व एवानपेक्षास्तत्तत्स्वकार्योपजनन इति कुसूलस्थत्वाविशेषेऽपि येन बीजक्षणेन कुसूलस्थेन स्वकार्यक्षणपरम्परयाङ्कुरोत्पत्तिसमर्थो बीजक्षणो जनयितव्यः सोऽनपेक्ष एव बीजक्षणः स्वकार्योपजनने एवं सर्व एव तदनन्तरानन्तरवर्तिनो बीजक्षणा अनपेक्षा इति कुसूलनिहितबीज एव स्यात्कृती कृषीवलः कृतमस्य दुःखबहुलेन कृषिकर्मणा । येन हि बीजक्षणेन स्वक्षणपरम्परयाङ्कुरो जनयितव्यस्तस्यानपेक्षासौ क्षणपरम्परा कुसूल एवाङ्कुरं करिष्यतीति । तस्मात्परस्परापेक्षा एवान्त्या वा मध्या वा पूर्वे वा क्षणाः कार्योपजनन इति वक्तव्यम् । यथाहुः “न किञ्चिदेकमेकस्मात्सामग्र्याः सर्वसम्भवः” इति । तच्चेदं समवधानं कारणानां विन्यासभेदतत्प्रयोजनाभिज्ञप्रेक्षावत्पूर्वकं दृष्टमिति नाचेतनाद्भवितुमर्हति । तदिदमुक्तम्
भवेदुपपन्नः सङ्घातो यदि सङ्घातस्य किञ्चिन्निमित्तमवगम्येतेति ।
इतरेतरप्रत्ययत्वेऽपीति ।
इतरेतरहेतुत्वेऽपीत्यर्थः ।
उक्तमभिसन्धिमविद्वान् परिचोदयति
नन्वविद्यादिभिरर्थादाक्षीप्यत इति ।
परिहरति
अत्रोच्यते, यदि तावदिति ।
किमाक्षेप उत्पादनम् , आहो ज्ञापनम् । तत्र न तावत्कारणमन्यथानुपपद्यमानं कार्यमुत्पादयति, किन्तु स्वसामर्थ्येन । तस्माज्ज्ञापनं वक्तव्यम् । तथा च ज्ञापितस्यान्यदुत्पादकं वक्तव्यम् । तच्च स्थिरपक्षेऽपि सत्यपि च भोक्तर्यधिष्ठातारं चेतनमन्तरेण न सम्भवति किमङ्ग, पुनः क्षणिकेषु भावेषु । भोक्तुर्भोगेनापि कदाचिदाक्षिप्येत सङ्घातः, स तु भोक्तापि नास्तीति दूरोत्सारितत्वं दर्शयति
भोक्तृरहितेष्विति ।
अपि च बहव उपकार्योपकारकभावेन स्थिताः कार्यं जनयन्ति । नच क्षणिकपक्ष उपकार्योपकारकभावोऽस्ति, भावस्योपकारानास्पदत्वात् । क्षणस्याभेद्यत्वादनुपकृतोपकृतत्वासम्भवात् । कालभेदेन वा तदुपपत्तौ क्षणिकत्वव्याघातात् । तदिदमाह
आश्रयाश्रयिशून्येषु चेति ।
अथायमभिप्राय इति ।
यदा हि प्रत्ययोपनिबन्धनः प्रतीत्यसमुत्पादो भवेत्तदा चेतनोऽधिष्ठातापेक्षेतापि, न तु प्रत्ययोपनिबन्धनोऽपि तु हेतूपनिबन्धनः । तथाच कृतमधिष्ठात्रा । हेतुः स्वभावत एव कार्यसङ्घातं करिष्यति केवल इति भावः । अस्तु तावद्यथा केवलाद्धेतोः कार्यं नोपजायत इति, अन्योन्याश्रयप्रसङ्गोऽस्मिन् पक्ष इत्याशयवानाह
कथं तमेवेति ।
सम्प्रति प्रत्ययोपनिबन्धनं प्रतीत्यसमुत्पादमास्थाय चोदयति
अथ मन्यसे सङ्घाता एवेति ।
अस्थिरा अपि हि भावाः सदा संहता एवोदयन्ते व्ययन्ते च । न पुनरितस्ततोऽवस्थिताः केनचित्पुञ्जीक्रियन्ते । तथा च कृतमत्र संहन्त्रा चेतनेनेति भावः ।
अनादौ इति
परस्पराश्रयं निवर्तयति ।
तदेतद्विकल्प्य दूषयति
तथापि सङ्घातादिति ।
स खलु सङ्घातसन्ततिवर्ति धर्माधर्माह्वयः संस्कारसन्तानो यथायथं सुखदुःखे जनयन्नागन्तुकं कञ्चनानासाद्य स्वत एव जनयेत् , आसाद्य वा । अनासाद्यजनने सदैव सुखदुःखे जनयेत् , समर्थस्यानपेक्षस्याक्षेपायोगात् । आसाद्य जनने तदासादनकारणं प्रेक्षावानभ्युपेयः । तथाच न प्रत्ययोपनिबन्धनः प्रतीत्यसमुत्पादः । तस्मादनेनागन्तुकानपेक्षस्य सन्धातसन्तानस्यैव सदृशजनने विसदृशजनने वा स्वभाव आस्थेयः । तथा च भाष्योक्तं दूषणमिति ।
अपि च यद्भोगार्थः सङ्घातः स्यादिति ।
अप्राप्तभोगो हि भोगार्थी भोगमाप्तुकामस्तत्साधने प्रवर्तत इति प्रत्यात्मसिद्धम् । सेयं प्रवृत्तिर्भोगादन्यस्मिन् स्थिरे भोक्तरि भोगतत्साधनसमयव्यापिनि कल्प्यते नास्थिरे । नच भोगादनन्यस्मिन् । नहि भोगो भोगाय कल्पते नाप्यन्यो भोगायान्यस्य । एवं मोक्षेऽपि द्रष्टव्यम् । तत्र बुभुक्षुमुमुक्षू चेत्स्थिरावास्थीयेयातां तदाभ्युपेतहानम् , अस्थैर्ये वा प्रवृत्तिप्रसङ्ग इत्यर्थः ।
न तु सङ्घातः सिध्येद्भोक्त्रभावादिति ।
भोक्त्रभावेन प्रवृत्त्यनुपपत्तेः कर्त्रभावः । ततः कर्माभावात्सङ्घातासिद्धिरित्यर्थः ॥ १९ ॥
उत्तरोत्पादे च पूर्वनिरोधात् ।
पूर्वसूत्रेण सङ्गतिमस्याह
उक्तमेतदिति ।
हेतूपनिबन्धनं प्रतीत्यसमुत्पादमभ्युपेत्य प्रत्ययोपनिबन्धनः प्रतीत्यसमुत्पादो दूषितः । सम्प्रति हेतूपनिबन्धनमपि तं दूषयतीत्यर्थः ।
दूषणमाह
इदमिदानीमिति ।
निरुध्यमानस्येति ।
न तावद्वैशेषिकवन्निरोधकारणसांनिध्यं निरुध्यमानता स्वीक्रियते वैनाशिकैरकारणं विनाशमभ्युपगच्छद्भिस्तस्यानिष्ठत्वाद् । तस्माद्विनाशग्रस्तत्वमचिरनिरुद्धत्वं निरुध्यमानत्वं वक्तव्यम् । निरुद्धत्वं च चिरनिरुद्धत्वं विवक्षितं, तथा चोभयोरप्यभावग्रस्तत्वाद्धेतुत्वानुपपत्तिः । शङ्कते
अथ भावभूत इति ।
कारणस्य हि कार्योत्पादात्प्राक्कालसत्ताऽर्थवती न कार्यकाला, तदा कार्यस्य सिद्धत्वेन तत्सिद्ध्यर्थायाः सत्ताया अनुपयोगादिति भावः । तदेतल्लोकदृष्ट्या दूषयति
भावभूतस्येति ।
भूत्वा व्यापृत्य भावाः प्रायेण हि कार्यं कुर्वन्तो लोके दृश्यन्ते । तथा च स्थिरत्वम् , इतरथा तु लोकविरोध इति । पुनः शङ्कते
अथ भाव एवेति ।
यथाहुःऽभूतिर्येषां क्रिया सैव कारकं सैव चोच्यतेऽइति । भवत्येवं व्यापारवत्ता तथापि क्षणिकस्य न कारणत्वमित्याह
तथापि नैवोपपद्यते
क्षणिकस्य कारणभावः । मृत्सुवर्णकारणा हि घटादयश्च रूचकादयश्च मृत्सुवर्णात्मानोऽनुभूयन्ते । यदि च न कार्यसमये कारणं सत्कथं तेषां तदात्मनानुभवः । नच कारणसादृश्यं कार्यस्य न तु तादात्म्यमिति वाच्यम् । असति कस्यचिद्रूपस्यानुगमे सादृश्यस्याप्यनुपपत्तेः । अनुगमे वा तदेव कारणं, तथा च तस्य कार्यतादात्म्यमिति सिद्धमक्षणिकत्वमित्यर्थः । सर्वथा वैलक्षण्ये तु हेतुफलभावस्तन्तुघटादावपि प्राप्त इत्यतिप्रसङ्ग इत्याह
विनैव वेति ।
नच तद्भावभावो नियामकः, तस्यैकस्मिन् क्षणेऽशक्यग्रहत्वात् , सामान्यस्य चाकारणत्वात् । कारणत्वे वा क्षणिकत्वहानेरस्मत्पक्षपातप्रसङ्गाच्चेति भावः । अपि चोत्पादनिरोधयोर्विकल्पत्रयेऽपि वस्तुनः शाश्वतत्वप्रसङ्ग इत्याह
अपि चोत्पादनिरोधौ नामेति ।
पर्यायत्वापादनेऽपि नित्यत्वापादनं मन्तव्यम् ।
वस्तूत्पादनिरोधाभ्यामसंसृष्टमिति वस्तुनः शाश्वतत्वप्रसङ्गः ।
संसर्गेऽप्यसता संसर्गानुपपत्तेः । सत्त्वाभ्युपगमे शाश्वतत्वमित्यपि द्रष्टव्यम् । शेषं निगदव्याख्यातम् ॥ २० ॥
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ।
नीलाभासस्य हि चित्तस्य नीलादालम्बनप्रत्ययान्नीलाकारता । समनन्तरप्रत्ययात्पूर्वविज्ञानाद्बोधरूपता । चक्षुषोऽधिपतिप्रत्ययाद्रूपग्रहणप्रतिनियमः । आलोकात्सहकारिप्रत्ययाद्धेतोः स्पष्टार्थता । एवं सुखादीनामपि चैत्तानां चित्ताभिन्नहेतुजानां चत्वार्येतान्येव कारणानि । सेयं प्रतिज्ञा चतुर्विधान् हेतून् प्रतीत्य चित्तचैत्ता उत्पद्यन्त इत्यभावकारणत्व उपरुध्येत ।
अथोत्तरक्षणोत्पत्तिं यावत्तावदवतिष्ठत इति ।
उत्पत्तिरुत्पद्यमानाद्भावादभिन्ना, तथा च क्षणिकत्वहानिरिति प्रतिज्ञाहानिः ॥ २१ ॥
प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिरविच्छेदात् ।
भावप्रतीपा सङ्ख्या बुद्धिः प्रतिसङ्ख्या, तया निरोधः प्रतिसङ्ख्यानिरोधः । सन्तमिममसन्तं करोमीत्येवमाकारता च बुद्धेर्भावप्रतीपत्वम् । एतेनाप्रतिसङ्ख्यानिरोधोऽपि व्याख्यातः । सन्तानगोचरो वा निरोधः, सन्तानिक्षणगोचरो वा । न तावत्सन्तानस्य निरोधः सम्भवति । हेतुफलभावेन हि व्यवस्थिताः सन्तानिन एवोदयव्ययधर्माणः सन्तानाः । तत्र योऽसावन्त्यः सन्तानी, यन्निरोधात्सन्तानोच्छेदेन भवितव्यम् , स किं फलं किञ्चिदारभते न वा । आरभते चेत् , नान्त्यः । तथा च न सन्तानोच्छेदः । अनारम्भे तु भवेदन्त्यः सः, किन्तु स्यादसन् , अर्थक्रियाकारितायाः सत्तालक्षणस्य विरहात् । तदसत्वे तज्जनकमप्यसज्जनकत्वेनासदित्यनेन क्रमेणासन्तः सर्व एव सन्तानिन इति तत्सन्तानो नितरामसन्निति कस्य प्रतिसङ्ख्यया निरोधः । नच सभागानां सन्तानिनां हेतुफलभावः सन्तानः, तस्य विसभागोत्पादो निरोधः, विसभागोत्पादक एव च क्षणः सन्तानस्यान्त्यः । तथासति रूपविज्ञानप्रवाहे रसादिविज्ञानोत्पत्तौ सन्तानोच्छेदप्रसङ्गः । कथञ्चित्सारूप्ये वा विसभागेऽप्यन्ततः सत्तया तदस्तीति न सन्तानोच्छेदः । तदनेनाभिसन्धिनाह
सर्वेष्वपि सन्तानेषु सन्तानिनामविच्छिन्नेनहेतुफलभावेन सन्तानविच्छेदस्यासम्भवादिति ।
नापि भावगोचरौ सम्भवतः प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधौ । अत्र तावदुत्पन्नमात्राप्रवृत्तस्य भावस्य न प्रतिसङ्ख्यानिरोधः सम्भवति, तस्य पुरुषप्रयत्नापेक्षाभावादित्यस्त्येव दूषणं, तथापि दोषान्तरमुभयस्मिन्नपि निरोधो ब्रूते
न हि भावानामिति ।
यतो निरन्वयो विनाशो न सम्भवत्यतो निरूपाख्योऽपि न सम्भवति, तेनैवान्वयिना रूपेण भावस्य नष्टस्याप्युपाख्येयत्वात् । निरन्वयविनाशाभावे हेतुमाह
सर्वास्वप्यवस्थास्विति ।
यद्यदन्वयिरूपं तत्तत्परमार्थसद्भावः । अवस्थास्तु विशेषाख्या उपजनापायधर्माणः, तासां सर्वासामनिर्वचनीयतया स्वतो न परमार्थसत्त्वम् । अन्वय्येव तु रूपं तासां तत्त्वम् । तस्य च सर्वत्र प्रत्यभिज्ञायमानत्वान्न विनाश इत्यवस्थावतोऽविनाशान्नावस्थानां निरन्वयो विनाश इति । तासां तत्त्वस्यान्वयिनः सर्वत्राविच्छेदात् । स्यादेतत् । मृत्पिण्डमृद्घटमृत्कपालादिषु सर्वत्र मृत्तत्त्वप्रत्यभिज्ञानाद्भवत्वेवम् । तप्तोपलतलपतितनष्टस्य तूदबिन्दोः किमस्ति रूपमन्वयि प्रत्यभिज्ञायमानं, येनास्य न निरन्वयो नाशः स्यादित्यत आह
अस्पष्टप्रत्यभिज्ञानास्वपीति ।
अत्रापि तत्तोयं तेजसा मार्तण्डमण्डलमम्बुदत्वाय नीयत इत्यनुमेयं, मृदादीनामन्वयिनामविच्छेददर्शनात् । शक्यं तत्र वक्तुम् “उदबिन्दौ च सिन्धौ च तोयभावो न भिद्यते । विनष्टेऽपि ततो बिन्दावस्ति तस्यान्वयोऽम्बुधौ ॥' तस्मान्न कश्चिदपि निरन्वयो नाश इति सिद्धम् ॥ २२ ॥
उभयथा च दोषात् ।
परिकरः सामग्री सम्यग्ज्ञानस्य यमनियमादिः श्रवणमननादिश्च । मार्गाः क्षणिकनैरात्म्यादिभावनाः । अतिरोहितमन्यत् ॥ २३ ॥
आकाशे चाविशेषात् ।
एतद्व्याचष्टे
यच्च तेषामिति ।
वेदप्रामाण्ये विप्रतिपन्नानपि प्रतिशब्दगुणानुमेयत्वमाकाशस्य वक्तव्यम् । तथाहि जातिमत्त्वेन सामान्यविशेषसमवायेभ्यो विभक्तस्य शब्दस्यास्पर्शत्वे सति बाह्यैकेन्द्रियग्राह्यत्वेन गन्धादिवद्गुणत्वमनुमितम् । नायमात्मगुणो बाह्येन्द्रियगोचरत्वात् । अत एव न मनोगुणः, तद्गुणानामप्रत्यक्षत्वात् । न पृथिव्यादिगुणः, तद्गुणगन्धादिसाहचर्यानुपलब्धेः । तस्माद्गुणो भूत्वा गन्धादिवदसाधारणेन्द्रियग्राह्यो यद्द्रव्यमनुमापयति तदाकाशं पञ्चमं भूतं वस्त्विति ।
अपि चावरणाभावमाकाशमिच्छत इति ।
निषेध्यनिषेधाधिकरणनिरूपणाधीननिरूपणो निषेधो नासत्यधिकरणनिरूपणे शक्यो निरूपयितुम् । तच्चावरणाभावाधिकरणमाकाशं वस्त्विति । अतिरोहितार्थमन्यत् ॥ २४ ॥
अनुस्मृतेश्च ।
विभजते
अपि च वैनाशिकः सर्वस्य वस्तुन इति ।
यस्तु सत्यप्येतस्मिन्नुपलब्धृस्मर्त्रोरन्यत्वेऽपि समानायां सन्ततौ कार्यकारणभावात्स्मृतिरुपपत्स्यत इति मन्यमानो न परितुष्यति तं प्रति प्रत्यभिज्ञासमाज्ञातप्रत्यक्षविरोधमाह
अपि च दर्शनस्मरणयोः कर्तरीति ।
ततोऽहमद्राक्षीदिति प्रतीयात् , अहं स्मराम्यन्यस्त्वद्राक्षीदित्यर्थः । प्रत्यभिज्ञाप्रत्यक्षविरोधप्रपञ्चस्तूत्तरः ।
आ जन्मनः आ चोत्तमादुच्छ्वासात् ।
आमरणादित्यर्थः । नच सादृश्यनिबन्धनं प्रत्यभिज्ञानं, पूर्वापरक्षणदर्शिन एकस्याभावे तदनुपपत्तेः । शङ्कते
तेनेदं सदृशमिति ।
अयमर्थः विकल्पप्रत्ययोऽयं, विकल्पश्च स्वाकारं बाह्यतयाध्यवस्यति, न तु तत्त्वतः पूर्वापरौ क्षणौ तयोः सादृश्यं वा गृह्णाति । तत्कथमेकस्यानेकदर्शिनः स्थिरस्य प्रसङ्ग इति । निराकरोति
न । तेनेदमिति भिन्नपदार्थोपादानादिति ।
नानापदार्थसम्भिन्नवाक्यार्थाभासस्तावदयं विकल्पः प्रथते तत्रैते नानापदार्था न प्रथन्त इति ब्रुवाणः स्वसंवेदनं बाधेत । न चैकस्य ज्ञानस्य नानाकारत्वं सम्भवति, एकत्वविरोधात् । नच तावन्त्येव ज्ञानानीति युक्तं, तथासति प्रत्याकारं ज्ञानानां समाप्तेस्तेषां च परस्परवार्ताज्ञानाभावान्नानेत्येव न स्यात् । तस्मात्पूर्वापरक्षणतत्सादृश्यगोचरत्वं ज्ञानस्य वक्तव्यम् । न चैतत्पूर्वापरक्षणावस्थायिनमेकं ज्ञातारं विनेति क्षणभङ्गभङ्गप्रसङ्गः । यद्युच्येत अस्त्येतस्मिन् विकल्पे तेनेदं सदृशमिति पदद्वयप्रयोगो न त्विह तत्तेदन्तास्पदौ पदार्थौ तयोश्च सादृश्यमिति विवक्षितम् , अपि त्वेवमाकारता ज्ञानस्य कल्पितेति, तत्राह
यदा हि लोकप्रसिद्धः पदार्थ इति ।
एकाधिकरणविप्रतिषिद्धधर्मद्वयाभ्युपगमो विवादः । तत्रैकः स्वपक्षं साधयत्यन्यश्च तत्साधनं दूषयति । न चैतत्सर्वमसति विकल्पानां बाह्यालम्बनत्वेऽसति च लोकप्रसिद्धपदार्थकत्वे भवितुमर्हति । ज्ञानाकारत्वे हि विकल्पप्रतिभासिनां नित्यत्वानित्यत्वादीनामेकार्थविषयत्वाभावात्ज्ञानानां च धर्मिणां भेदान्न विरोधः । नह्यात्मनित्यत्वं बुद्ध्यनित्यत्वं च ब्रुवाणौ विप्रतिपद्येते । न चालौकिकार्थेनानित्यशब्देनात्मनि विभुत्वं विवक्षित्वानित्यशब्दं प्रयुञ्जानो लौकिकार्थं नित्यशब्दमात्मनि प्रयुञ्जानेन विप्रतिपद्यते । तस्मादनेन स्वपक्षं प्रतितिष्ठापयिषता परपक्षसाधनं च निराचिकीर्षता विकल्पानां लोकसिद्धपदार्थकता बाह्यालम्बनता च वक्तव्या । यद्युच्येत द्विविधो हि विकल्पानां विषयो ग्राह्यश्चाध्यवसेयश्च । तत्र स्वाकारो ग्राह्योऽध्यवसेयस्तु बाह्यः । तथाच पक्षप्रतिपक्षपरिग्रहलक्षणा विप्रतिपत्तिः प्रसिद्धपदार्थकत्वं चोपपद्यत इत्यत आह
एवमेवैषोऽर्थ इति निश्चितं यत्तदेव वक्तव्यं, ततोऽन्यदुच्यमानं बहुप्रलापित्वमात्मनः केवलं प्रख्यापयेत् ।
अयमभिसन्धिः केयमध्यवसेयता बाह्यस्य । यदि ग्राह्यता न द्वैविध्यम् । अथान्या सोच्यतां, ननूक्ता तैरेव स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तिरिति । अथ विकल्पाकारस्य कोऽयमध्यवसायः । किं करणमाहो योजनमुतारोप इति । न तावत्करणम् । नह्यन्यदन्यत्कर्तुं शक्यम् । नहि जातु सहस्रमपि शिल्पिनो घटं पटयितुमीशते । न चान्तरं बाह्येन योजयितुम् । अपि च तथासति युक्त इति प्रत्ययः स्यात् । न चास्ति । आरोपोऽपि किं गृह्यमाणे बाह्ये उतागृह्यमाणे । यदि गृह्यमाणे तदा किं विकल्पेनाहो तत्समयजेनाविकल्पकेन । न तावद्विकल्पोऽभिलापसंसर्गयोग्यगोचरोऽशक्याभिलापसमयं स्वलक्षणं देशकालाननुगतं गोचरयितुमर्हति । यथाहुः “अशक्यसमयो ह्यात्मा सुखादीनामनन्यभाक् । तेषामतः स्वसंवित्तिर्नाभिजल्पानुषङ्गिणी ॥' इति । न च तत्समयभाविना निर्विकल्पकेन गृह्यमाणे बाह्ये विकल्पेनागृहीते तत्र विकल्पः स्वाकारमारोपयितुमर्हति । न हि रजतज्ञानाप्रतिभासिनि पुरोवर्तिनि वस्तुनि रजतज्ञानेन शक्यं रजतमारोपयितुम् । अगृह्यमाणे तु बाह्ये स्वाकार इत्येव स्यान्न बाह्य इति । तथा च नारोपणम् । अपि चायं विकल्पः स्वसंवेदनं सन्तं विकल्पं किं वस्तुसन्तं स्वाकारं गृहीत्वा पश्चाद्बाह्यमारोपयति, अथ यदा स्वाकारं गृह्णाति तदैवारोपयति । न तावत्क्षणिकतया क्रमविरहिणो ज्ञानस्य क्रमवर्तिनी ग्रहणारोपणे कल्पेते । तस्माद्यदैव स्वाकारमनर्थं गृह्णाति तदैवार्थमारोपयतीति वक्तव्यम् । न चैतद्युज्यते । स्वाकारो हि स्वसंवेदनप्रत्यक्षतयातिविशदः । बाह्यं चारोप्यमाणमविशदं सत्ततोऽन्यदेव स्यान्न तु स्वाकारः समारोपितः । न च भेदाग्रहमात्रेण समारोपाभिधानं, वैशद्यावैशद्यरूपतया भेदग्रहस्योक्तत्वात् । अपि चागृह्यमाणे चेद्बाह्येऽबाह्यात्स्वलक्षणाद्भेदाग्रहणेन तदभिमुखी प्रवृत्तिः, हन्त तर्हि त्रैलोक्यत एवानेन न भेदो गृहीत इति यत्र क्वचन प्रवर्तेताविशेषात् । एतेन ज्ञानाकारस्यैवालोकस्यापि बाह्यत्वसमारोपः प्रत्युक्तः । तस्मात्सुष्ठूक्तंऽततोऽन्यदुच्यमानं बहुप्रलापित्वमात्मनः ख्यापयेत्ऽइति । अपि च सादृश्यनिबन्धनः संव्यवहारस्तेनेदं सदृशमित्येवमाकारबुद्धिनिबन्धनो भवेन्न तु तदेवेदमित्याकारबुद्धिनिबन्धन इत्याह
नचायं सादृश्यात्संव्यवहार इति ।
ननु ज्वालादिषु सादृश्यादसत्यामपि सादृश्यबुद्धौ तद्भावावगमनिबन्धनः संव्यहारो दृश्यते यथा तथेहापि भविष्यतीति पूर्वापरितोषेणाह
भवेदपि कदचिद्बाह्यवस्तुनीति ।
तथाहिविविधजनसङ्कीर्णगोपुरेण पुरं निविशमानं नरान्तरेभ्य आत्मनिर्धारणायासाधारणं चिह्नं विदधतमुपहसन्ति पाशुपतं पृथग्जना इति ॥ २५ ॥
नासतोऽदृष्टत्वात् ।
इतश्चानुपपन्नो वैनाशिकसमय इति ।
अस्थिरात्कार्योत्पत्तिमिच्छन्तो वैनाशिका अर्थादभावादेव भावोत्पत्तिमाहुः । उक्तमेतदधस्तात् । निरपेक्षात्कार्योत्पत्तौ पुरुषकर्मवैयर्थ्यम् । सापेक्षतायां च क्षणस्याभेद्यत्वेनोपकृतत्वानुपपत्तेः, अनुपकारिणि चापेक्षाभावादक्षणिकत्वप्रसङ्गः । सापेक्षत्वानपेक्षत्वयोश्चान्यतरनिषेधस्यान्यतरविधाननान्तरीयकत्वेन प्रकारान्तराभावान्नास्थिराद्भावाद्भावोत्पत्तिरिति क्षणिकपक्षेऽर्थादभावाद्भावोत्पत्तिरिति परिशिष्यत इत्यर्थः । न केवलमर्थादापद्यते, दर्शयन्ति च
नानुपमृद्य प्रादुर्भावादिति ।
एतद्विभजते
विनष्टाद्धिकिलेति ।
किलकारोऽनिच्छायाम् ।
कूटस्थाच्चेत्कारणात्कार्यमुत्पद्येतापि सर्वं सर्वत उत्पद्येत ।
अयमभिसन्धिः कूटस्थो हि कार्यजननस्वभावो वा स्यादतत्स्वभावो वा । स चेत्कार्यजननस्वभावस्ततो यावदनेन कार्यं कर्तव्यं तावत्सहसैव कुर्यात् । समर्थस्य क्षेपायोगात् । अतत्स्वभावे तु न कदाचिदपि कुर्यात् । यद्युच्येत समर्थोऽपि क्रमवत्सहकारिसचिवः क्रमेण कार्याणि करोतीति । तदयुक्तम् । विकल्पासहत्वात् । किमस्य सहकारिणः कञ्चिदुपकारमादधति न वा । अनाधानेऽनुपकारितया सहकारिणो नापेक्षेरन् । आधानेऽपि भिन्नमभिन्नं वोपकारमादध्युः । अभेदे तदेवाभिहितमिति कौटस्थ्यं व्याहन्येत । भेदे तूपकारस्य तस्मिन् सति कार्यस्य भावादसति चाभावात्सत्यपि कूटस्थे कार्यानुत्पादादन्वयव्यतिरेकाभ्यामुपकार एव कार्यकारी न भाव इति नार्थक्रियाकारी भावः । तदुक्तम् “वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् । चर्मोपमश्चेत्सोऽनित्यः स्वतुल्यश्चेदसत्फलः ॥' इति । तथा चाकिञ्चित्करादपि चेत्कूटस्थात्कार्यं जायेत, सर्वं सर्वस्माज्जायेतेति सूक्तम् । उपसंहरति
तस्मादभावग्रस्तेभ्य इति ।
तत्रेदमुच्यते । नासतोऽदृष्टत्वादिति ।
नाभावात्कार्योत्पत्तिः । कस्मात् । अदृष्टत्वात् । नहि शशविषाणादङ्कुरादीनां कार्याणामुत्पत्तिर्दृश्यते । यदि त्वभावाद्भावोत्पत्तिः स्यात्ततोऽभावत्वाविशेषात्शशविषाणादिभ्योऽप्यङ्कुरोत्पत्तिः । नह्यभावो विशिष्यते । विशेषणयोगे वा सोऽपि भावः स्यान्न निरूपाख्य इत्यर्थः । विशेषणयोगमभावस्याभ्युपेत्याह
नाप्यभावः कस्यचिदुत्पत्तिहेतुरिति ।
अपि च यद्येनानन्वितं न तत्तस्य विकारः, यथा घटशरावोदञ्चानादयो हेम्नानन्विता न हेमविकाराः । अनन्विताश्चैते विकारा अभावेन । तस्मान्नाभावविकाराः । भावविकारस्तु ते, भावस्य तेनान्वितत्वादित्याह
अभावाच्च भावोत्पत्ताविति ।
अभावकारणवादिनो वचनमनुभाष्य दूषयति
यत्तूक्तमिति ।
स्थिरोऽपि भावः क्रमवत्सहकारिसमवधानात्क्रमेण कार्याणि करोति । न चानुपकारकाः सहकारिणः । स चास्य सहकारिभिराधीयमाना उपकारो न भिन्नो नाप्यभिन्नः । किन्त्वनिर्वाच्य एव । अनिर्वाच्याच्च कार्यमप्यनिर्वाच्यमेव जायते । न चैतावता स्थिरस्याकारणत्वं, तदुपादानत्वात्कार्यस्य, रज्जूपादानत्वमिव भुजङ्गस्येत्युक्तम् । तथा च श्रुतिः “मृत्तिकेत्येव सत्यम्”(छा. उ. ६ । १ । ४) इति । अपिच येऽपि सर्वतो विलक्षणानि स्वलक्षणानि वस्तुसन्त्यास्थिषत, तेषामपि किमिति बीजजातीयेभ्योऽङ्कुरजातीयान्येव जायन्ते कार्याणि, नतु क्रमेलकजातीयानि । नहि बीजाद्बीजान्तरस्य वा क्रमेलकस्य वात्यन्तवैलक्षण्ये कश्चिद्विशेषः । नच बीजाङ्कुरत्वे सामान्ये परमार्थसती, येनैतयोर्भाविकः कार्यकारणभावो भवेत् । तस्मात्काल्पनिकादेव स्वलक्षणोपादानाद्बीजजातीयात्तथाविधस्यैवाङ्कुरजातीयस्योत्पत्तिनियम आस्थेयः । अन्यथा कार्यहेतुकानुमानोच्छेदप्रसङ्गः । दिङ्मात्रस्य सूचितम् । प्रपञ्चस्तु ब्रह्मतत्त्वसमीक्षान्यायकणिकयोः कृत इति नेह प्रतन्यते विस्तरभयात् ॥ २६ ॥
उदासीनानामपि चैवं सिद्धिः ।
भाष्यमस्य सुगमम् ॥ २७ ॥
नाभाव उपलब्धेः ।
पूर्वाधिकरणसङ्गतिमाह
एवमिति ।
बाह्यार्थवादिभ्यो विज्ञानमात्रवादिनां सुगताभिप्रेततया विशेषमाह
केषाञ्चित्किलेति ।
अथ प्रमाता प्रमाणं प्रमेयं प्रमितिरिति हि चतसृषु विधासु तत्त्वपरिसमाप्तिरासामन्यतमाभावेऽपि तत्त्वस्याव्यवस्थानात् । तस्मादनेन विज्ञानस्कन्धमात्रं तत्त्वं व्यवस्थापयता चतस्रो विधा एषितव्याः, तथाच न विज्ञानस्कन्धमात्रं तत्त्वम् । नह्यस्ति सम्भवो विज्ञानमात्रं चतस्रो विधाश्चेत्यत आह
तस्मिंश्च विज्ञानवादे बुद्ध्यारूढेन रूपेणेति ।
यद्यप्यनुभवान्नान्योऽनुभाव्योऽनुभवितानुभवनं, तथापि बुद्ध्यारूढेन बुद्धिपरिकल्पितेनान्तस्थ एवैष प्रमाणप्रमेयफलव्यवहारः प्रमातृव्यवहारश्चेत्यपि द्रष्टव्यम् । न पारमार्थिक इत्यर्थः । एवं च न सिद्धसाधनम् । न हि ब्रह्मवादिनो नीलाद्याकारां वित्तिमभ्युपगच्छन्ति, किन्त्वनिर्वचनीयं नीलादीति । तथाहि स्वरूपं विज्ञानस्यासत्याकारयुक्तं प्रमेयं प्रमेयप्रकाशनं प्रमाणफलं, तत्प्रकाशनशक्तिः प्रमाणम् । बाह्यवादिनोरपि वैभाषिकसौत्रान्तिकयोः काल्पनिक एव प्रमाणफलव्यवहारोऽभिमत इत्याह
सत्यपि बाह्येऽर्थ इति ।
भिन्नाधिकरणत्वे हि प्रमाणफलयोस्तद्भावो न स्यात् । नहि खदिरगोचरे परशौ पलाशे द्वैधीभावो भवति । तस्मादनयोरैकाधिकरण्यं वक्तव्यम् । कथं च तद्भवति । यदि ज्ञानस्थे एव प्रमाणफले भवतः । न च ज्ञानं स्वलक्षणमनंशमंशाभ्यां वस्तुसद्भ्यां युज्यते । तदेव ज्ञानमज्ञानव्यावृत्तिकल्पितज्ञानत्वांशं फलम् । अशक्तिव्यावृत्तिपरिकल्पितात्मानात्मप्रकाशनशक्त्यंशं प्रमाणम् । प्रमेयं त्वस्य बाह्यमेव । एवं सौत्रान्तिकसमयेऽपि । ज्ञानस्यार्थसारूप्यमनीलाकारव्यावृत्त्या कल्पितनीलाकारत्वं प्रमाणं व्यवस्थापनहेतुत्वात् । अज्ञानव्यावृत्तिकल्पितं च ज्ञानत्वं फलं व्यवस्थाप्यत्वात् । तथा चाहुः “नहि वित्तिसत्तैव तद्वेदना युक्ता, तस्याः सर्वत्राविशेषात् । तां तु सारूप्यमाविशत्सरूपयत्तद्घटयेत्” इति । प्रश्नपूर्वकं बाह्यार्थाभाव उपपत्तीराह
कथं पुनरवगम्यत इति ।
स हि विज्ञानालम्बनत्वाभिमतो बाह्योऽर्थः परमाणुस्तावन्न सम्भवति । एकस्थूलनीलाभासं हि ज्ञानं न परमसूक्ष्मपरमाण्वाभासम् । न चान्याभासमन्यगोचरं भवितुमर्हति । अतिप्रसङ्गेन सर्वगोचरतया सर्वसर्वज्ञत्वप्रसङ्गात् । न च प्रतिभासधर्मः स्थौल्यमिति युक्तम् । विकल्पासहत्वात् । किमयं प्रतिभासस्य ज्ञानस्य धर्म उत प्रतिभासनकालेऽर्थस्य धर्मः । यदि पूर्वः कल्पः, अद्धा, तथासति हि स्वांशालम्बनमेव विज्ञानमभ्युपेतं भवति । एवं च कः प्रतिकूलीभवत्यनुकूलमाचरति । द्वितीय इति चेत् । तथा हि रूपपरिमाणव एव निरन्तरमुत्पन्ना एकविज्ञानोपारोहिणः स्थौल्यम् । न चात्र कस्यचिद्भ्रान्तता । नहि न ते रूपपरमाणवः । नच न निरन्तरमुत्पन्नाः । न चैकविज्ञानानुपारोहिणः । तेन मा भून्नीलत्वादिवत्परमाणुधर्मः, प्रत्येकं परमाणुष्वभावात् । प्रतिभासदशापन्नानां तु तेषां भविष्यति बहुत्वादिवत्सांवृतं स्थौल्यम् । यथाहुः “ग्रहेऽनेकस्य चैकेन किञ्चिद्रूपं हि गृह्यते । सांवृतं प्रतिभासस्थं तदेकात्मन्यसम्भवात् ॥ १ ॥ नच तद्दर्शनं भ्रान्तं नानावस्तुग्रहाद्यतः । सांवृतं ग्रहणं नान्यन्न च वस्तुग्रहो भ्रमः ॥ २ ॥' इति । तन्न । नैरन्तर्यावभासस्य भ्रान्तत्वात् । गन्धरसस्पर्शपरमाण्वन्तरिता हि ते रूपपरमाणवो न निरन्तराः तस्मादारात्सान्तरेषु वृक्षेष्वेकधनवनप्रत्ययवदेष स्थूलप्रत्ययः परमाणुषु सान्तरेषु भ्रान्त एवेति पश्यामः । तस्मात्कल्पनापोढत्वेऽपि भ्रान्तत्वाद्घटादिप्रत्ययस्य पीतशङ्खादिज्ञानवन्न प्रत्यक्षता परमाणुगोचरत्वाभ्युपगमे । तदिदमुक्तम् , न तावत्परमाणवः स्तम्भादिप्रत्ययपरिच्छेद्या भवितुमर्हन्ति । नापि तत्समूहा वा स्तम्भादयोऽवयविनः । तेषामभेदे परमाणुभ्यः परमाणव एव । तत्र चोक्तं दूषणम् । भेदे तु गवाश्वस्येवात्यन्तवैलक्षण्यमिति न तादात्म्यम् । समवायश्च निराकृत इति । एवं भेदाभेदविकल्पेन जातिगुणकर्मादीनपि प्रत्याचक्षीत । तस्माद्यद्यत्प्रतिभासते तस्य सर्वस्य विचारासहत्वात् , अप्रतिभासमानसद्भावे च प्रमाणाभावान्न बाह्यालम्बनाः प्रत्यया इति । अपि च न तावद्विज्ञानमिन्द्रियवन्निलीनमर्थं प्रत्यक्षयितुमर्हति । नहि यथेन्द्रियमर्थविषयं ज्ञानं जनयत्येवं विज्ञानमपरं विज्ञानं जनयितुमर्हति । तत्रापि समानत्वादनुयोगस्यानवस्थाप्रसङ्गात् । न चार्थाधारं प्राकट्यलक्षणं फलमाधातुमुत्सहते । अतीतानागतेषु तदसम्भवात् । नह्यस्ति सम्भवोऽप्रत्युत्पन्नो धर्मी धर्माश्चास्य प्रत्युत्पन्ना इति । तस्माज्ज्ञानस्वरूपप्रत्यक्षतैवार्थप्रत्यक्षताभ्युपेया । तच्चानाकारं सदाजानतो भेदाभावात्कथमर्थभेदं व्यवस्थापयेदिति तद्भेदव्यवस्थापनायाकारभेदोऽस्यैषितव्यः । तदुक्तम् “न हि वित्तिसत्तैव तद्वेदना युक्ता, तस्याः सर्वत्राविशेषात् । तां तु सारूप्यमाविशत्सरूपयत्तद्घटयेत्” इति । एकश्चायमाकारोऽनुभूयते । स चेद्विज्ञानस्य नार्थसद्भावे किञ्चन प्रमाणमस्तीत्याह
अपिचानुभवमात्रेण साधारणात्मनो ज्ञानस्येति ।
अपि च सहोपलम्भनियमादिति ।
यद्येन सह नियतसहोपलम्भनं तत्ततो न भिद्यते, यथैकस्माच्चन्द्रमसो द्वितीयश्चन्द्रमाः । नियतसहोपलम्भश्चार्थो ज्ञानेनेति व्यापकविरुद्धोपलब्धिः । निषेध्यो हि भेदः सहोपलम्भानियमेन व्याप्तो यथा भिन्नावश्विनौ नावश्यं सहोपलभ्येते कदाचिदभ्रापिधानेऽन्यतरस्यैकस्योपलब्धेः । सोऽयमिह भेदव्यापकानियमविरूद्धो नियम उपलभ्यमानस्तद्व्याप्यं भेदं निवर्तयतीति । तदुक्तम् “सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च भ्रान्तिविज्ञानैर्द्दृश्यतेन्दाविवाद्वये ॥' इति । स्वप्नादिवच्चेदं द्रष्टव्यम् । यो यः प्रत्ययः स सर्वो बाह्यानालम्बनः, यथा स्वप्नमायादिप्रत्ययः, तथा चैष विवादाध्यासितः प्रत्यय इति स्वभावहेतुः । बाह्यानालम्बनता हि प्रत्ययत्वमात्रानुबन्धिनी वृक्षतेव शिंशपात्वमात्रानुबन्धिनीति तन्मात्रानुबन्धिनि निरालम्बनत्वे साध्ये भवति प्रत्ययत्वं स्वभावहेतुः । अत्रान्तरे सौत्रान्तिकश्चोदयति
कथं पुनरसति बाह्येऽर्थे नीलमिदं पीतमित्यादिप्रत्ययवैचित्र्यमुपपद्यते ।
स हि मेने ये यस्मिन् सत्यपि कादाचित्कास्ते सर्वे तदतिरिक्तहेतुसापेक्षाः, यथा विवक्षत्यजिगमिषति मयि वचनगमनप्रतिभासाः प्रत्ययाश्चेतनसन्तानान्तरसापेक्षाः । तथा च विवादाध्यासिताः सत्यप्यालयविज्ञानसन्ताने षडपि प्रवृत्तिप्रत्यया इति स्वभावहेतुः । यश्चासावालयविज्ञानसन्तानातिरिक्तः कादाचित्कप्रवृत्तिज्ञानभेदहेतुः स बाह्योऽर्थमिति । वासनापरिपाकप्रत्ययकादाचित्कत्वात्कदाचिदुत्पाद इति चेत् । नन्वेकसन्ततिपतितानामालयविज्ञानानां तत्प्रवृत्तिविज्ञानजननशक्तिर्वासना, तस्याश्च स्वकार्योपजनं प्रत्याभिमुख्यं परिपाकस्तस्य च प्रत्ययः स्वसन्तानवर्ती पूर्वक्षणः सन्तानान्तरापेक्षानभ्युपगमात् , तथाच सर्वेऽप्यालयसन्तानपतिताः परिपाकहेतवो भवेयुः । न वा कश्चिदपि, आलयसन्तानपातित्वाविशेषात् । क्षणभेदाच्छक्तिभेदस्तस्य च कादाचित्कत्वात्कार्यकादाचित्कत्वमिति चेत् । नन्वेवमेकस्यैव नीलज्ञानोपजनसामर्थ्यं तत्प्रबोधसामर्थ्यं चेति क्षणान्तरस्यैतन्न स्यात् । सत्त्वे वा कथं क्षणभेदात्सामर्थ्यभेद इत्यालयसन्तानवर्तिनः सर्वे समर्था इति समर्थहेतुसद्भावे कार्यक्षेपानुपपत्तेः । स्वसन्तानमात्राधीनत्वे निषेध्यस्य कादाचित्कत्वस्य विरुद्धं सदातनत्वं तस्योपलब्ध्या कादाचित्कत्वं निवर्तमानं हेत्वन्तरापेक्षत्वे व्यवतिष्ठत इति प्रतिबन्धसिद्धिः । नच ज्ञानसन्तानान्तरनिबन्धनत्वं सर्वेषामिष्यते प्रवृत्तिविज्ञानानां विज्ञानवादिभिरपि तु कस्यचिदेव विच्छिन्नगमनवचनप्रतिभासस्य प्रवृत्तिविज्ञानस्य । अपि च सत्त्वान्तरसन्ताननिमित्तत्वे तस्यापि सदा संनिधानान्न कादाचित्कत्वं स्यात् । न हि सत्त्वान्तरसन्तानस्य देशतः कालतो वा विप्रकर्षसम्भवः । विज्ञानवादे विज्ञानातिरिक्तदेशानाभ्युपगमादमूर्तत्वाच्च विज्ञानानामदेशात्मकत्वात्संसारस्यादिमत्त्वप्रसङ्गेनापूर्वसत्त्वप्रादुर्भावानभ्युपगमाच्च न कालतोऽपि विप्रकर्षसम्भवः । तस्मादसति बाह्येऽर्थे प्रत्ययवैचित्र्यानुपपत्तेरस्त्यानुमानिको बाह्यार्थ इति सौत्रान्तिकाः प्रतिपेदिरे, तान्निराकरोति
वासनावैचित्र्यादित्याह
विज्ञानवादी । इदमत्राकूतम् स्वसन्तानमात्रप्रभवत्वेऽपि प्रत्ययकादाचित्कत्वोपपत्तौ सन्दिग्धविपक्षव्यावृत्तिकत्वेन हेतुरनैकान्तिकः । तथाहि बाह्यनिमित्तकत्वेऽपि कथं कदाचित्नीलसंवेदनं कदाचित्पीतसंवेदनम् । बाह्यनीलपीतसंनिधानासंनिधानाभ्यामिति चेत् । अथ पीतसंनिधानेऽपि किमिति नीलज्ञानं न भवति, पीतज्ञानं भवति । तत्र तस्य सामर्थ्यादसामर्थ्याच्चेतरस्मिन्निति चेत् । कुतः पुनरयं सामर्थ्यासामर्थ्यभेदः । हेतुभेदादिति चेत् । एवं तर्हि क्षणानामपि स्वकारणभेदनिबन्धः शक्तिभेदो भविष्यति । सन्तानिनो हि क्षणाः कार्यभेदहेतवस्ते च प्रतिकार्यं भिद्यन्ते च । न च सन्तानो नाम कश्चिदेक उत्पादकः क्षणानां यदभेदात्क्षणा न भिद्येरन् । ननूक्तं न क्षणभेदाभेदाभ्यां शक्तिभेदाभेदौ, भिन्नानामपि क्षणानामेकसामर्थ्योपलब्धेः । अन्यथैक एव क्षणे नीलज्ञानजननसामर्थ्यमिति न भूयो नीलज्ञानानि जायेरन् । तत्समर्थस्यातीतत्वात् , क्षणान्तराणां चासामर्थ्यात् । तस्मात्क्षणभेदेऽपि न सामर्थ्यभेदः, सन्तानभेदे तु सामर्थ्यं भिद्यत इति । तन्न । यदि भिन्नानां सन्तानानां नैकं सामर्थ्यं, हन्त तर्हि नीलसन्तानानामपि मिथो भिन्नानां नैकमस्ति नीलाकाराधानसामर्थ्यमिति संनिधानेऽपि नीलसन्तानान्तरस्य न नीलज्ञानमुपजायेत । तस्मात्सन्तानान्तराणामिव क्षणान्तराणामपि स्वकारणभेदाधीनोपजनानां केषाञ्चिदेव सामर्थ्यभेदः केषाञ्चिन्नेति वक्तव्यम् । तथा चैकालयज्ञानसन्तानपतितेषु कस्यचिदेव ज्ञानक्षणस्य स तादृशः सामर्थ्यातिशयो वासनापरनामा स्वप्रत्ययासादितः । यतो नीलाकारं प्रवृत्तिविज्ञानं जायते न पीताकारम् । कस्यचित्तु स तादृशो यतः पीताकारं ज्ञानं न नीलाकारमिति वासनावैचित्र्यादेव स्वप्रत्ययासादिताज्ज्ञानवैचित्र्यसिद्धेर्न तदतिरिक्तार्थसद्भावे किञ्चनास्ति प्रमाणमिति पश्यामः । आलयविज्ञानसन्तानपतितमेवासंविदितं ज्ञानं वासना तद्वैचित्र्यान्नीलाद्यनुभववैचित्र्यं, पूर्वनीलाद्यनुभववैचित्र्याच्च वासनावैचित्र्यमित्यनादितानयोर्विज्ञानवासनयोः । तस्मान्न परस्पराश्रयदोषसम्भवो बीजाङ्कुरसन्तानवदिति । अन्वयव्यतिरेकाभ्यामपि वासनावैचित्र्यस्यैव ज्ञानवैचित्र्यहेतुता नार्थवैचित्र्यस्येत्याह
अपि चान्वयव्यतिरेकाभ्यामिति ।
एवं प्राप्ते ब्रूमः । नाभाव उपलब्धेरिति ।
न खल्वभावो बाह्यस्यार्थस्याध्यवसातुं शक्यते । स ह्युपलम्भाभावाद्वाध्यवसीयेत, सत्यप्युपलम्भे तस्य बाह्याविषयत्वाद्वा, सत्यपि बाह्यविषयत्वे बाह्यार्थबाधकप्रमाणसद्भावाद्वा । न तावत्सर्वथोपलम्भाभाव इति प्रश्नपूर्वकमाह
कस्मात् । उपलब्धेरिति ।
नहि स्फुटतरे सर्वजनीन उपलम्भे सति तदभावः शक्यो वक्तुमित्यर्थः ।
द्वितीयं पक्षमवलम्बते
ननु नाहमेवं ब्रवीमीति ।
निराकरोति
बाढमेवं ब्रवीषि ।
उपलब्धिग्राहिणा हि साक्षिणोपलब्धिर्गृह्यमाणा बाह्यविषयत्वेनैव गृह्यते नोपलब्धिमात्रमित्यर्थः । अतश्च इति वक्ष्यमाणोपपत्तिपरामर्शः । तृतीयं पक्षमालम्बते
ननु बाह्यस्यार्थस्यासम्भवादिति ।
निराकरोति
नायं साधुरध्यवसाय इति ।
इदमत्राकूतम् घटपटादयो हि स्थूला भासन्ते न तु परमसूक्ष्माः । तत्रेदं नानादिग्देशव्यापित्वलक्षणं स्थौल्यं यद्यपि ज्ञानाकारत्वेनावरणानावरणलक्षणेन विरुद्धधर्मसंसर्गेण युज्यते ज्ञानोपाधेरनावृतत्वादेव तथापि तद्देशत्वातद्देशत्वकम्पाकम्पत्वरक्तारक्तत्वलक्षणैर्विरुद्धधर्मसंसर्गैरस्य नानात्वं प्रसज्यमानं ज्ञानाकारत्वेऽपि न शक्यं शक्रेणापि वारयितुम् । व्यतिरेकाव्यतिरेकवृत्तिविकल्पौ च परमाणोरंशवत्त्वं चोपपादितानि वैशेषिकपरीक्षायाम् । तस्माद्बाह्यार्थवन्न ज्ञानेऽपि स्थौल्यसम्भवः । न च तावत्परमाण्वाभासमेकज्ञानम् , एकस्य नानात्मत्वानुपपत्तेः । आकाराणां वा ज्ञानतादात्म्यादेकत्वप्रसङ्गात् । न च यावन्त आकारास्तावन्त्येव ज्ञानानि, तावतां ज्ञानानां मिथो वार्तानभिज्ञतया स्थूलानुभवाभावप्रसङ्गात् । न च तत्पृष्ठभावी समस्तज्ञानाकारसङ्कलनात्मक एकः स्थूलविकल्पो विजृम्भत इति साम्प्रतम् । तस्यापि साकारतया स्थौल्यायोगात् । यथाह धर्मकीर्तिः “तस्मान्नार्थे न च ज्ञाने स्थूलाभासस्तदात्मनः । एकत्र प्रतिषिद्धत्वाद्बहुष्वपि न सम्भवः ॥' इति । तस्माद्भवतापि ज्ञानाकारं स्थौल्यं समर्थयमानेनप्रमाणप्रवृत्त्यप्रवृत्तिपूर्वकौ सम्भवासम्भवावास्थेयौ । तथा चेदन्तास्पदमशक्यं ज्ञानाद्भिन्नं बाह्यमपह्नोतुमिति । यच्च ज्ञानस्य प्रत्यर्थं व्यवस्थायै विषयसारूप्यमास्थितं, नैतेन विषयोऽपह्नोतुं शक्यः, असत्यर्थे तत्सारूप्यस्य तद्व्यवस्थायाश्चानुपपत्तेरित्याह
न च ज्ञानस्य विषयसारूप्यादिति ॥
यश्च सहोपलम्भनियम उक्तः सोऽपि विकल्पं न सहते । यदि ज्ञानार्थयोः साहित्येनोपलम्भस्ततो विरुद्धो हेतुर्नाभेदं साधयितुमर्हति, साहित्यस्य तद्विरुद्धभेदव्याप्तत्वादभेदे तदनुपपत्तेः । अथैकोपलम्भनियमः । न एकत्वस्यावाचकः सहशब्दः । अपि च किमेकत्वेनोपलम्भ आहो एक उपलम्भो ज्ञानार्थयोः । न तावदेकत्वेनोपलम्भ इत्याह
बहिरुपलब्धेश्च विषयस्य ।
अथैकोपलम्भनियमः, तत्राह
अत एव सहोपलम्भनियमोऽपि प्रत्ययविषययोऽरुपायोपेयभावहेतुको नाभेदहेतुक इत्यवगन्तव्यम् ।
यथा हि सर्वं चाक्षुषं प्रभारूपानुविद्धं बुद्धिबोध्यं नियमेन मनुजैरुपलभ्यते, न चैतावता घटादिरूपं प्रभात्मकं भवति, किन्तु प्रभोपायत्वान्नियमः, एवमिहाप्यात्मसाक्षिकानुभवोपायत्वादर्थस्यैकोपलम्भनियम इति । अपि च यत्रैकविज्ञानगोचरौ घटपटौ तत्रार्थभेदं विज्ञानभेदं चाद्यवस्यन्ति प्रतिपत्तारः । न चैतदैकात्म्येऽवकल्पत इत्याह
अपिच घटज्ञनं पटज्ञानमिति ।
तथार्थाभेदेऽपि विज्ञानभेददर्शनान्न विज्ञानात्मकत्वमर्थस्येत्याह
तथा घटदर्शनं घटस्मरणमिति ।
अपि च स्वरूपमात्रपर्यवसितं ज्ञानं ज्ञानान्तरवार्तानभिज्ञमिति ययोर्भेदस्ते द्वे न गृहीते इति भेदोऽपि तद्गतो न गृहीत इति । एवं क्षणिकशून्यानात्मत्वादयोऽप्यनेकप्रतिज्ञाहेतुदृष्टान्तज्ञानभेदसाध्याः । एवं स्वमसाधारणमन्यतो व्यावृत्तं लक्षणं यस्य तदपि यद्व्यावर्तते यतश्च व्यावर्तते तदनेकज्ञानसाध्यम् । एवं सामान्यलक्षणमपि विधिरूपमन्यापोहरूपं वानेकज्ञानगम्यम् । एवं वास्यवासकभावोऽनेकज्ञानसाध्यः । एवमविद्योपप्लववशेन यत्सदसद्धर्मत्वं यथा नीलमिति सद्धर्मः, नरविषाणमित्यसद्धर्मः, अमूर्तमिति सदसद्धर्मः । शक्यं हि शशविषाणममूर्तं वक्तुम् । शक्यं च विज्ञानममूर्तं वक्तुम् । यथोक्तम् “अनादिवासनोद्भूतविकल्पपरिनिष्ठितः । शब्दार्थस्त्रिविधो धर्मो भावाभावोभयाश्रयः ॥”(प्रमाणवार्तिकम् ३-२०४) इति । एवं मोक्षप्रतिज्ञा च यो मुच्यते यतश्च मुच्यते येन मुच्यते तदनेकज्ञानसाध्या । एवं विप्रतिपन्नं प्रतिपादयितुं प्रतिज्ञेति यत्प्रतिपादयति येन प्रतिपादयति यश्च पुरुषः प्रतिपाद्यते यश्च प्रतिपादयति तदनेकज्ञानसाध्येत्यसत्येकस्मिन्ननेकार्थज्ञानप्रतिसन्धातरि नोपपद्यते । तत्सर्वं विज्ञानस्य स्वांशालम्बनेऽनुपपन्नमित्याह
अपि च द्वयोर्विज्ञानयोः पूर्वोत्तरकालयोरिति ।
अपि च भेदाश्रयः कर्मफलभावो नाभिन्ने ज्ञाने भवितुमर्हति । नो खलु छिदा छिद्यते किन्तु दारु । नापि पाकः पच्यतेऽपि तु तण्डुलाः । तदिहापि न ज्ञानं स्वांशेन ज्ञेयमात्मनि वृत्तिविरोधादपि तु तदतिरिक्तोऽर्थः, पाच्या इव तण्डुलाः पाकातिरिक्ता इति । भूमिरचनापूर्वकमाह
किञ्चान्यत् । विज्ञानं विज्ञानमित्यभ्युपगच्छेतेति ।
चोदयति
ननु विज्ञानस्य स्वरूपव्यतिरिक्तग्राह्यत्व इति ।
अयमर्थः स्वरूपादतिरिक्तमर्थं चेद्विज्ञानं गृह्णाति ततस्तदप्रत्यक्षं सन्नर्थं प्रत्यक्षयितुमर्हति । न हि चक्षुरिव तन्निलीनमर्थे कञ्चनातिशयमाधत्ते, येनार्थमप्रत्यक्षं सत्प्रत्यक्षयेत् । अपितु तत्प्रत्यक्षतैवार्थप्रत्यक्षता । यथाहुः “अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति” इति । तच्चेत्ज्ञानान्तरेण प्रतीयेत तदप्रतीतं नार्थविषयं ज्ञानमपरोक्षयितुमर्हति । एवं तत्तदित्यनवस्था तस्मादनवस्थाया बिभ्यता वरं स्वात्मनि वृत्तिरास्थिता । अपिच यथा प्रदीपो न दीपान्तरमपेक्षते, एवं ज्ञानमपि न ज्ञानान्तरमपेक्षितुमर्हति समत्वादिति । तदेतत्परिहरति
तदुभयमप्यसत् । विज्ञानग्रहणमात्र एव विज्ञानसाक्षिणो ग्रहणाकाङ्क्षानुत्पादादनवस्थाशङ्कानुपपत्तेः ।
अयमर्थः सत्यमप्रत्यक्षस्योपलम्भस्य नार्थदृष्टिः प्रसिध्यति, न तूपलब्धारं प्रति तत्प्रत्यक्षत्वायोपलम्भान्तरं प्रार्थनीयम् , अपितु तस्मिन्निन्द्रियार्थसंनिकर्षादन्तःकरणविकारभेद उत्पन्नमात्र एव प्रमातुरर्थश्चोपलम्भश्च प्रत्यक्षौ भवतः । अर्थो हि निलीनस्वभावः प्रमातारं प्रति स्वप्रत्यक्षत्वायान्तःकरणविकारभेदमनुभवमपेक्षते, अनुभवस्तु जडोऽपि स्वच्छतया चैतन्यबिम्बोद्ग्रहणाय नानुभवान्तरमपेक्षते, येनानवस्था भवेत् । नह्यस्ति सम्भवोऽनुभव उत्पन्नश्च, न च प्रमातुः प्रत्यक्षो भवति, यथा नीलादिः । तस्माद्यथा छेत्ता छिदया छेद्यं वृक्षादि व्याप्नोति, न तु छिदा छिदान्तरेण, नापि छिदैव छेत्री, किन्तु स्वत एव देवदत्तादिः, यथा वा पक्ता पाक्यं पाकेन व्याप्नोति ननु पाकं पाकान्तरेण, नापि पाक एव पक्ता किन्तु स्वत एव देवदेत्तादिः, एवं प्रमाता प्रमेयं नीलादि प्रमया व्याप्नोति न तु प्रमां प्रमान्तरेण, नापि प्रमैव प्रमात्री, किन्तु स्वत एव प्रमायाः प्रमाता व्यापकः । न च प्रमातरि कूटस्थनित्यचैतन्ये प्रमापेक्षासम्भवो यतः प्रमातुः प्रमायाः प्रमात्रन्तरापेक्षायामनवस्था भवेत् । तस्मात्सुष्ठूक्तं “विज्ञानग्रहणमात्र एव विज्ञानसाक्षिणः प्रमातुः कूटस्थनित्यचैतन्यस्य ग्रहणाकाङ्क्षानुत्पादात्” इति । यदुक्तं “समत्वादवभास्यावभासकभावानुपपत्तेः” इति । तत्राह
साक्षिप्रत्यययोश्च स्वभाववैषम्यादुपलब्ध्रुपलभ्यभावोपपत्तेः ।
मा भूत्ज्ञानयोः साम्येन ग्राह्यग्राहकभावः । ज्ञातृज्ञानयोस्तु वैषम्यादुपपद्यत एव । ग्राह्यत्वं च ज्ञानस्य न ग्राहकक्रियाजनितफलशालितया यथा बाह्यार्थस्य, फले फलान्तरानुपपत्तेः । यथाहुः “न संविदर्यते फलत्वात्” इति । अपि तु प्रमातारं प्रति स्वतःसिद्धप्रकटतया । ग्राह्योऽप्यर्थः प्रमातारं प्रति सत्यां संविदि प्रकटः संविदपि प्रकटा । यथाहुरन्येनास्याः कर्मभावो विद्यते इति । स्यादेतत् यत्प्रकाशते तदन्येन प्रकाश्यते यथा ज्ञानार्थौ तथा च साक्षिति नास्ति प्रत्ययसाक्षिणोर्वैषम्यमित्यत आह
स्वयंसिद्धस्य च साक्षिणोऽप्रत्याख्येयत्वात् ।
तथाहि - अस्य साक्षिणः सदासन्दिग्धाविपरीतस्य नित्यसाक्षात्कारतानागन्तुकप्रकाशत्वे घटते । तथाहिप्रमाता सन्दिहानोऽप्यसन्दिग्धो विपर्यस्यन्नप्यविपरीतः परोक्षमर्थमुत्प्रेक्षमाणोऽप्यपरोक्षः स्मरन्नप्यनुभविकः प्राणभृन्मात्रस्य । न चैतदन्याधीनसंवेदनत्वे घटते । अनवस्थाप्रसङ्गश्चोक्तः । तस्मात्स्वयंसिद्धतास्यानिच्छताप्यप्रत्याख्येया प्रमाणमा्र्गायत्तत्वादिति । किञ्चोक्तेन क्रमेण ज्ञानस्य स्वयमवगन्तृत्वाभावात्प्रमातुरनभ्युपगमे च प्रदीपवद्विज्ञानमवभासकान्तरनिरपेक्षं स्वयमेव प्रथत इति ब्रुवताप्रमाणगम्यं विज्ञानमनवगन्तृकमित्युक्तं स्यात् । शिलाघनमध्यस्थप्रदीपसहस्रप्रथनवत् । अवगन्तुश्चेत्कस्यचिदपि न प्रकाशते कृतमवगमेन स्वयम्प्रकाशेनेति । विज्ञानमेवावगन्त्रिति मन्वानः शङ्कते
बाढमेवम् । अनुभवरूपत्वादिति ।
न फलस्य कर्तृत्वं कर्मत्वं वास्तीति प्रदीपवत्कर्त्रन्तरमेषितव्यं, तथा च न सिद्धसाधनमिति परिहरति
न । अन्यस्यावगन्तुरिति ।
ननु साक्षिस्थानेऽस्त्वस्मदभिमतमेव विज्ञानं तथा च नाम्न्येव विप्रतिपत्तिर्नार्थ इति शङ्कते
साक्षिणोऽवगन्तुः स्वयंसिद्धतामुपक्षिपता अभिप्रेयता स्वयं प्रथते विज्ञानमित्येष एवेति ।
निराकरोति
नेति ।
भवन्ति हि विज्ञानस्योत्पादादयो धर्मा अभ्युपेतास्तथा चास्य फलतया नावगन्तृत्वं, कर्तृफलभावस्यैकत्र विरोधात् । किन्तु प्रदीपादितुल्यतेत्यर्थः ॥ २८ ॥
वैधर्म्याच्च न स्वप्नादिवत् ।
बाधाबाधौ वैधर्म्यम् । स्वप्नप्रत्ययो बाधितो जाग्रत्प्रत्ययश्चाबाधितः । त्वयापि चावश्यं जाग्रत्प्रत्ययस्याबाधितत्वमास्थेयं, तेन हि स्वप्नप्रत्ययो बाधितो मिथ्येत्यवगम्यते । जाग्रत्प्रत्ययस्य तु बाध्यत्वे स्वप्नप्रत्ययस्यासौ न बाधको भवेत् । नहि बाध्यमेव बाधकं भवितुमर्हति । तथा च न स्वप्नप्रत्ययो मिथ्येति साध्यविकलो दृष्टान्तः स्यात्स्वप्नवदिति । तस्माद्बाधाबाधाभ्यां वैधर्म्यान्न स्वप्नप्रत्ययदृष्टान्तेन जाग्रत्प्रत्ययस्य शक्यं निरालम्बनत्वमध्यवसातुम् ।
निद्राग्लानमिति ।
करणदोषाभिधानम् । मिथ्यात्वाय वैधर्म्यान्तरमाह
अपि च स्मृतिरेवेति ।
संस्कारमात्रजं हि विज्ञानं स्मृतिः । प्रत्युत्पन्नेन्द्रियसम्प्रयोगलिङ्गशब्दसारूप्यान्यथानुपपद्यमानयोग्यप्रमाणानुत्पत्तिलक्षणसामग्रीप्रभवं तु ज्ञानमुपलब्घिः । तदिह निद्राणस्य सामग्र्यन्तरविरहात्संस्कारः परिशिष्यते, तेन संस्कारजत्वात्स्मृतिः, सापि च निद्रादोषाद्विपरीतावर्तमानमपि पित्रादि वर्तमानतया भासयति । तेन स्मृतेरेव तावदुपलब्धेर्विशेषस्तस्याश्च स्मृतेर्वैपरीत्यमिति । अतो महदन्तरमित्यर्थः । अपि च स्वतःप्रामाण्ये सिद्धे जाग्रत्प्रत्ययानां यथार्थत्वमनुभवसिद्धं नानुमानेनान्यथयितुं शक्यम् , अनुभवविरोधेन तदनुत्पादात् । अबाधितविषयताप्यनुमानोत्पादसामग्रीग्राह्यतया प्रमाणम् । न च कारणाभावे कार्यमुत्पत्तुमर्हतीत्याशयवानाह
अपि चानुभवविरोधप्रसङ्गादिति ॥ २९ ॥
न भावोऽनुपलब्धेः ।
यथालोकदर्शनं चान्वयव्यतिरेकावनुश्रियमाणावर्थ एवोपलब्धेर्भवतो नार्थानपेक्षायां वासनायाम् । वासनाया अप्यर्थोपलब्ध्यधीनत्वदर्शनादित्यर्थः । अपि चाश्रयाभावादपि न लौकिकी वासनोपपद्यते । न च क्षणिकमालयविज्ञानं वासनाधारो भवितुमर्हति । द्वयोर्युगपदुत्पद्यमानयोः सव्यदक्षिणशृङ्गवदाधाराधेयभावाभावात् । प्रागुत्पन्नस्य चाधेयोत्पादसमयेऽसतः क्षणिकत्वव्याघात इत्याशयवानाह
अपि च वासना नामेति ।
शेषमतिरोहितार्थम् ॥ ३० ॥
क्षणिकत्वाच्च ।
स्यादेतत् । यदि साकारं विज्ञानं सम्भवति बाह्यश्चार्थः स्थूलसूक्ष्मविकल्पेनासम्भवी हन्तैवमर्थज्ञाने सत्त्वेन तावद्विचारं न सहेते । नाप्यसत्त्वेन, असतो भासनायोगात् । नोभयत्वेन, विरोधात्सदसतोरेकत्रानुपपत्तेः । नाप्यनुभयत्वेन, एकनिषेधस्येतरविधाननान्तरीयकत्वात् । तस्माद्विचारासहत्वमेवास्तु तत्त्वं वस्तूनाम् । यथाहुः “इदं वस्तु बलायातं यद्वदन्ति विपश्चितः । यथा यथार्थाश्चिन्त्यन्ते विविच्यन्ते तथा तथा ॥' इति ॥ न क्वचिदपि पक्षे व्यवतिष्ठन्त इत्यर्थः । तदेतन्निराचिकीर्षुराह
शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते ।
लौकिकानि हि प्रमाणानि सदसत्त्वगोचराणि । तैः खलु सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते । असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते । सदसतोश्च विचारासहत्वं व्यवस्थापयता सर्वप्रमाणविप्रतिषिद्धं व्यवस्थापितं भवति । तथा च सर्वप्रमाणविप्रतिषेधान्नेयं व्यवस्थोपपद्यते । यद्युच्येत तात्त्विकं प्रामाण्यं प्रमाणानामनेन विचारेण व्युदस्यते न सांव्यवहारिकम् । तथाच भिन्नविषयत्वान्न सर्वप्रमाणविप्रतिषेध इत्यत आह
नह्येयं सर्वप्रमाणप्रसिद्धो लोकव्यवहारोऽन्यत्तत्त्वमनधिगम्य शक्यतेऽपह्नोतुम् ।
प्रमाणानि हि स्वगोचरे प्रवर्तमानानि तत्त्वमिदमित्येव प्रवर्तन्ते । अतात्त्विकत्वं तु तद्गोचरस्यान्यतो बाधकादवगन्तव्यम् । न पुनः सांव्यवहारिकं नः प्रामाण्यं न तु तात्त्विकमित्येव प्रवर्तन्ते । बाधकं चातात्त्विकत्वमेषां तद्गोचरविपरीततत्त्वोपदर्शनेन दर्शयेत् । यथा शुक्तिकेयं न रजतं मरीचयो न तोयमेकश्चन्द्रो न चन्द्रद्वयमित्यादि, तद्वदिहापि समस्तप्रमाणगोचरविपरीततत्त्वान्तरव्यवस्थापनेनातात्त्विकत्वमेषां प्रमाणानां बाधकेन दर्शनीयं न त्वव्यवस्थापिततत्त्वान्तरेण प्रमाणानि शक्यानि बाधितुम् । विचारासहत्वं वस्तूनां तत्त्वं व्यवस्थापयद्बाधकमतात्त्विकत्वं प्रमाणानां दर्शयतीति चेत् , किं पुनरिदं विचारासहत्वं वस्तु यत्तत्त्वमभिमतं, किं तद्वस्तु परमार्थतः सदादीनामन्यतमत्केवलं विचारं न सहते, अथ विचारासहत्वेन निस्तत्त्वमेव । तत्र परमार्थतः सदादीनामन्यतमद्विचारं न सहत इति विप्रतिषिद्धम् । न सहते चेन्न सदादीनामन्यतमत् । अन्यतमच्चेत्कथं न विचारं सहते । अथ निस्तत्त्वं चेत्कथमन्यतमत्तत्त्वमव्यवस्थाप्य शक्यमेवं वक्तुम् । न च निस्तत्त्वतैव तत्त्वं भावानाम् । तथा सति हि तत्त्वाभावः स्यात् । सोऽपि च विचारं न सहत इत्युक्तं भवद्भिः । अपि चारोपितं निषेधनीयम् । आरोपश्च तत्त्वाधिष्ठानो दृष्टो यथा शुक्तिकादिषु रजतादेः । न चेत्किञ्चिदस्ति तत्त्वं कस्य कस्मिन्नारोपः । तस्मान्निष्प्रपञ्चं परमार्थसद्ब्रह्मानिर्वाच्यप्रपञ्चात्मनारोप्यते, तच्च तत्त्वं व्यवस्थाप्यातात्त्विकत्वेन सांव्यवहारिकत्वं प्रमाणानां बाधकेनोपपद्यत इति युक्तमुत्पश्यामः ॥ ३१ ॥
सर्वथानुपपत्तेश्च ।
विभजते
किं बहुना उक्तेन यथायथाग्रन्थतोऽर्थतश्च अयं वैनाशिकसमय इति ।
ग्रन्थतस्तावत्पश्यनातिष्ठनामिद्धपोषधाद्यसाधुपदप्रयोगः । अर्थतश्च नैरात्म्यमभ्युपेत्यालयविज्ञानं समस्तवासनाधारमभ्युपगच्छन्नक्षरमात्मानमभ्युपैति । एवं क्षणिकत्वमभ्युपेत्य “उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवैषां धर्माणां धर्मता धर्मस्थितिता” इति नित्यतामुपैतीत्यादि बहून्नेतव्यमिति ॥ ३२ ॥
नैकस्मिन्नसम्भवात् ।
निरस्तो मुक्तकच्छानां सुगतानां समयः । विवसनानां समय इदानीं निरस्यते । तत्समयमाह सङ्क्षेपविस्तराभ्याम् ।
सप्त चैषां पदार्थाः संमता इति ।
तत्र सङ्क्षेपमाह
सङ्क्षेपतस्तु द्वावेव पदार्थाविति ।
बोधात्मको जीवो जडवर्गस्त्वजीव इति । यथायोगं तयोर्जीवाजीवयोरिममपरं प्रपञ्चमाचक्षते । तमाह
पञ्चास्तिकाया नामेति ।
सर्वेषामप्येषामवान्तरप्रभेदानिति ।
जीवास्तिकायस्त्रिधा बद्धो मुक्तो नित्यसिद्धश्चेति । पुद्गलास्तिकायः षोढा पृथिव्यादीनि चत्वारि भूतानि स्थावरं जङ्गमं चेति धर्मास्तिकायः प्रवृत्त्यनुमेयोऽधर्मास्तिकायः स्थित्यनुमेयः । आकाशास्तिकायो द्वेधा लोकाकाशोऽलोकाकाशश्च । तत्रोपर्युपरि स्थितानां लोकानामन्तर्वर्ती लोकाकाशस्तेषामुपरि मोक्षस्थानमलोकाकाशः । तत्र हि न लोकाः सन्ति । तदेवं जीवाजीवपदार्थौ पञ्चधा प्रपञ्चितौ । आस्त्रवसंवरनिर्जरास्त्रयः पदार्थाः प्रवृत्तिलक्षणाः प्रपञ्च्यन्ते । द्विधा प्रवृत्तिः सम्यङ्मिथ्या च । तत्र मिथ्या प्रवृत्तिरास्रवः । सम्यक्प्रवृत्ती तु संवरनिर्जरौ । आस्रावयति पुरुषं विषयेष्वितीन्द्रियप्रवृत्तिरास्रवः । इन्द्रियद्वारा हि पौरुषं ज्योतिर्विषयान् स्पृशद्रूपादिज्ञानरूपेण परिणमत इति । अन्ये तु कर्माण्यास्रवमाहुः । तानि हि कर्तारमभिव्याप्य स्रवन्ति कर्तारमनुगच्छन्तीत्यास्रवः । सेयं मिथ्याप्रवृत्तिरनर्थहेतुत्वात् । संवरनिर्जरौ च सम्यक्प्रवृत्ती । तत्र शमदमादिरूपा प्रवृत्तिः संवरः । सा ह्यास्रवस्रोतसो द्वारं संवृणोताति संवर उच्यते । निर्जरस्त्वनादिकालप्रवृत्तिकषायकलुषपुण्यापुण्यप्रहाणहेतुस्तप्तशिलारोहणादिः । स हि निःशेषं पुण्यापुण्यं सुखदुःखोपभोगेन जरयतीति निर्जरः । बन्धोऽष्टविधं कर्म । तत्र घातिकर्म चतुर्विधम् । तद्यथाज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायमिति । तथा चत्वार्यघातिकर्माणि । तद्यथा वेदनीयं नामिकं गोत्रिकमायुष्कं चेति । तत्र सम्यग्ज्ञानं न मोक्षसाधनं, नहि ज्ञानाद्वस्तुसिद्धिरतिप्रसङ्गादिति विपर्ययो ज्ञानावरणीयं कर्मोच्यते । आर्हतदर्शनाभ्यासान्न मोक्ष इति ज्ञानं दर्शनावरणीयं कर्म । बहुषु विप्रतिषिद्धेषु तीर्थकरैरुपदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयं कर्म । मोक्षमार्गप्रवृत्तानां तद्विघ्नकरं विज्ञानमन्तरायं कर्म । तानीमानि श्रेयोहन्तृत्वाद्धातिकर्माण्युच्यन्ते । अघातीनि कर्माणि, तद्यथा वेदनीयं कर्म शुक्लपुद्गलविपाकहेतुः, तद्धि बन्धोऽपि न निःश्रेयसपरिपन्थि तत्त्वज्ञानाविघातकत्वात् । शुक्लपुद्गलारम्भकवेदनीयकर्मानुगुणं नामिकं कर्म, तद्धि शुक्लपुद्गलस्याद्यावस्थां कललबुद्धुदादिमारभते । गोत्रिकमव्याकृतं ततोऽप्याद्यं शक्तिरूपेणावस्थितम् । आयुष्कं त्वायुः कायति कथयत्युत्पादनद्वारेत्यायुष्कम् । तान्येतानि शुक्लपुद्गलाद्याश्रयत्वादघातीनि कर्माणि । तदेतत्कर्माष्टकं पुरुषं बध्नातीति बन्धः । विगलितसमस्तक्लेशतद्वासनस्यानावरणज्ञानस्य सुखैकतानस्यात्मन उपरि देशावस्थानं मोक्ष इत्येके । अन्ये तूर्ध्वगमनशीलो हि जीवो धर्माधर्मास्तिकायेन बद्धस्तद्विमोक्षाद्यदूर्ध्वं गच्छत्येव स मोक्ष इति । त एते सप्तपदार्था जीवादयः सहावान्तरप्रभेदैरुपन्यस्ताः । तत्र सर्वत्र चेमं सप्तभङ्गीनयं नाम न्यायमवतारयन्ति, स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्चेति । स्याच्छब्दः खल्वयं निपातस्तिङन्तप्रतिरूपकोऽनेकान्तद्योती । यथाहुः “वाक्येष्वनेकान्तद्योती गम्यं प्रतिविशेषणम् । स्यान्निपातोर्ऽथयोगित्वात्तिङन्तप्रतिरूपकः ॥' इति । यदि पुनरयमनेकान्तद्योतकः स्याच्छब्दो न भवेत्स्यादस्तीतिवाक्ये स्यात्पदमनर्थकं स्यात्तदिदमुक्तम् “अर्थयोगित्वात्” इति । अनैकान्तद्योतकत्वे तु स्यादस्ति कथञ्चिदस्तीति स्यात्पदात्कथञ्चिदर्थोऽस्तीत्यनेनानुक्तः प्रतीयत इति नानर्थक्यम् । तथा च “स्याद्वादः सर्वथैकान्तत्यागात्किंवृत्तचिद्विधेः । सप्तभङ्गनयापेक्षोहेयादेयविशेषकृत् ॥' किंवृत्ते प्रत्यये खल्वयं चिन्निपातविधिना सर्वथैकान्तत्यागात्सप्तस्वेकान्तेषु यो भङ्गस्तत्र यो नयस्तदपेक्षः सन् हेयोपादेयभेदाय स्याद्वादः कल्पते । तथाहि यदि वस्त्वस्त्येवेत्येवैकान्ततस्तत्सर्वथा सर्वदा सर्वत्र सर्वात्मनास्त्येवेति न तदीप्साजिहासाभ्यां क्वचित्कदाचित्कथञ्चित्कश्चित्प्रवर्तेत निवर्तेत वा प्राप्ताप्रापणीयत्वात् , हेयहानानुपपत्तेश्च । अनैकान्तपक्षे तु क्वचित्कदाचित्कस्यचित्कथञ्चित्सत्त्वे हानोपादाने प्रेक्षावतां कल्पेते इति । तमेनं सप्तभङ्गीनयं दूषयति
नैकस्मिन्नसम्भवात् ।
विभजते
न ह्येकस्मिन्धर्मणि परमार्थसति परमार्थसतांयुगपत्सत्त्वादीनां धर्माणां परस्परपरिहारस्वरूपाणां समावेशः सम्भवति ।
एतदुक्तं भवति - सत्यं यदस्ति वस्तुतस्तत्सर्वथा सर्वदा सर्वत्र सर्वात्मना निर्वचनीयेन रूपेणास्त्येव न नास्ति, यथा प्रत्यगात्मा । यत्तु क्वचित्कथञ्चित्कदाचित्केनचिदात्मनास्तीत्युच्यते, यथा प्रपञ्चः, तद्व्यवहारतो न तु परमार्थतः, तस्य विचारासहत्वात् । न च प्रत्ययमात्रं वास्तवत्वं व्यवस्थापयति, शुक्तिमरुमरीचिकादिषु रजततोयादेरपि वास्तवत्वप्रसङ्गात् । लौकिकानामबाधेन तु तद्व्यवस्थायां देहात्माभिमानस्याप्यबाधेन तात्त्विकत्वे सति लोकायतमतापातेन नास्तिकत्वप्रसङ्गात् । पण्डितरूपाणां तु देहात्माभिमानस्य विचारतो बाधनं प्रपञ्चस्याप्यनैकान्तस्य तुल्यमिति । अपि च सदसत्त्वयोः परस्परविरुद्धत्वेन समुच्चयाभावे विकल्पः । न च वस्तुनि विकल्पः सम्भवति । तस्मात्स्थाणुर्वा पुरुषो वेति ज्ञानवत्सप्तत्वपञ्चत्वनिर्धारणस्य फलस्य निर्धारयितुश्च प्रमातुस्तत्करणस्य प्रमाणस्य च तत्प्रमेयस्य च सप्तत्वपञ्चत्वस्य सदसत्त्वसंशये साधु समर्थितं तीर्थकरत्वमृषेमेणात्मनः । निर्धारणस्य चैकान्तसत्त्वे सर्वत्र नानेकान्तवाद इत्याह
य एते सप्त पदार्था इति ।
शेषमतिरोहितार्थम् ॥ ३३ ॥
एवं चात्माकार्त्स्न्यम् ।
एवं चेति चेन समुच्चयं द्योतयति । शरीरपरिमाणत्वे ह्यात्मनोऽकृत्स्नत्वं परिच्छिन्नत्वम् । तथा चानित्यत्वम् । ये हि परिच्छिन्नास्ते सर्वेऽनित्या यथा घटादयस्तथा चात्मेति । तदेतदाह
यथैकस्मिन्धर्मिणीति ।
इदं चापरमकृत्स्नत्वेन सूत्रितमित्याह
शरीराणां चानवस्थितपरिमाणत्वादिति ।
मनुष्यकायपरिमाणो हि जीवो न हस्तिकायं कृत्स्नं व्याप्तुमर्हत्यल्पत्वादित्यात्मनः कृत्स्नशरीराव्यापित्वादकार्त्स्न्यम् , तथा च न शरीरपरिमाणत्वमिति । तथा हस्तिशीररं परित्यज्य यदा पुत्तिकाशरीरो भवति तदा न तत्र कृत्स्नः पुत्तिकाशरीरे संमीयेतेत्यकार्त्स्न्यमात्मनः । सुगममन्यत् । चोदयति
स्यादेतत् । अनन्तावयव इति ।
यथा हि प्रदीपो घटमहाहर्म्योदरवर्ती सङ्कोचविकाशवानेवं जीवोऽपि पुत्तिकाहस्तिदेहयोरित्यर्थः ।
तदेतद्विकल्प्य दूषयति
तेषां पुनरनन्तानामिति ।
न तावत्प्रदीपोऽत्र निदर्शनं भवितुमर्हति, अनित्यत्वप्रसङ्गात् । विशरारवो हि प्रदीपावयवाः, प्रदीपश्चावयवी प्रतिक्षणमुत्पत्तिनिरोधधर्मा, तस्मादनित्यत्वात्तस्य नास्थिरो जीवस्तदवयवाश्चाभ्युपेतव्याः । तथा च विकल्पद्वयोक्तं दूषणमिति । यच्च जीवावयवानामानन्त्यमुदितं तदनुपपन्नतरमित्याह
अपि च शरीरमात्रेति ॥ ३४ ॥
शङ्कापूर्वं सूत्रान्तरमवतारयति
अथ पर्यायेणेति ।
तत्राप्युच्यते
न च पर्यायादप्यविरोधो विकारादिभ्यः ।
कर्माष्टकमुक्तं ज्ञानावरणीयादि । किं चात्मनो नित्यत्वाभ्युपगमे आगच्छतामपगच्छतां चावयवानामियत्तानिरूपणेन चात्मज्ञानाभावान्नापवर्ग इति भावः ।
अत एवमादिदोषप्रसङ्गादिति ।
आदिग्रहणसूचितं दोषं ब्रूमः । किं चैते जीवावयवाः प्रत्येकं वा चेतयेरन् समूहो वा । तेषां प्रत्येकं चैतन्ये बहूनां चेतनानामेकाभिप्रायत्वनियमाभावात्कदाचिद्विरुद्धदिक्क्रियत्वेन शरीरमुन्मथ्येत । समूहचैतन्ये तु हस्तिशरीरस्य पुत्तिकाशरीरत्वे द्वित्रावयवशेषो जीवो न चेतयेत् । विगलितबहुसमूहितया समूहस्याभावात्पुत्तिकाशरीरे इति ।
अथवेति ।
पूर्वसूत्रप्रसञ्जितायां जीवानित्यतायां बौद्धवत्सन्ताननित्यतामाशङ्क्येदं सूत्रम् “न च पर्यायादप्यविरोधो विकारादिभ्यः”(ब्र. सू. २ । २ । ३५) । न च पर्यायात्परिमाणानवस्थानेऽपि सन्तानाभ्युपगमेनात्मनो नित्यत्वादविरोधो बन्धमोक्षयोः । कुतः । परिणामादिभ्यो दोषेभ्यः । सन्तानस्य वस्तुत्वे परिणामस्ततश्चर्मवदनित्यत्वादिदोषप्रसङ्गः । अवस्तुत्वे चादिग्रहणसूचितो नैरात्म्यापत्तिदोषप्रसङ्ग इति । विसिचो विवसनाः ॥ ३५ ॥
अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ।
एवं हि मोक्षावस्थाभावि जीवपरिमाणं नित्यं भवेत् , यद्यभूत्वा न भवेत् । अभूत्वा भाविनामनित्यत्वाद्घटादीनाम् । कथं चाभूत्वा न भवेद्यदि प्रागप्यासीत् । न च परिमाणान्तरावरोधेऽपूर्वं भवितुमर्हति । तस्मादन्त्यमेव परिमाणं पूर्वमप्यासीदित्यभेदः । तथा चैकशरीरपरिमाणतैव स्यान्नोपचितापचितशरीरप्राप्तिः शरीरपरिमाणत्वाभ्युपगमव्याघातादिति । अत्र चोभयोः परिमाणयोर्नित्यत्वप्रसङ्गादिति योजना । एकशरीरपरिमाणतैवेति च दीप्यम् । द्वितीये तु व्याख्याने उभयोरवस्थयोरिति योजना । एकशरीरपरिमाणता न दीप्या, किन्त्वेकपरिमाणतामात्रमणुर्महान् वेति विवेकः ॥ ३६ ॥
पत्युरसामञ्जस्यात् ।
अविशेषेणेश्वरकारणवादोऽनेन निषिध्यत इति भ्रमनिवृत्त्यर्थमाह
केवलेति ।
साङ्ख्ययोगव्यपाश्रया हिरण्यगर्भपतञ्जलिप्रभृतयः । प्रधानमुक्तम् । दृक्शक्तिः पुरुषः प्रत्ययानुपश्यः । स च नानाक्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः प्रधानपुरुषाभ्यामन्यः । माहेश्वराश्चत्वारः शैवाः, पाशुपताः, कारुणिकसिद्धान्तिनः, कापालिकाश्चेति । चत्वारोऽप्यमी महेश्वरप्रणीतसिद्धान्तानुयायितया माहेश्वराः । कारणमीश्वरः । कार्यं प्राधानिकं महदादि । योगोऽप्योङ्कारादिध्यानधारणादिः । विधिस्त्रिषवणस्नानादिर्गूढचर्यावसानः, दुःखान्तो मोक्षः । पशव आत्मानस्तेषां पाशो बन्धनं तद्विमोक्षो दुःखान्तः । एष तेषामभिसन्धिः चेतनस्य खल्वधिष्ठातुः कुम्भकारादेः कुम्भादिकार्ये निमित्तकारणत्वमात्रं न तूपादानत्वमपि । तस्मादिहापीश्वरोऽधिष्ठाता जगत्कारणानां निमित्तमेव, न तूपादानमप्येकस्याधिष्ठातृत्वाधिष्ठेयत्वविरोधादिति प्राप्तम् । एवं प्राप्तेऽभिधीयते
पत्युरसामञ्जस्यातिति ।
इदमत्राकूतमीश्वरस्य निमित्तकारणत्वमात्रमागमाद्वोच्येत प्रमाणान्तराद्वा प्रमाणान्तरमप्यनुमानमर्थापत्तिर्वा । न तावदागमात् , तस्य निमित्तोपादानकारणत्वप्रतिपादनपरत्वादित्यसकृदावेदितम् । तस्मादनेनास्मिन्नर्थे प्रमाणान्तरमास्थेयम् । तत्रानुमानं तावन्न सम्भवति । तद्धि दृष्ट्यनुसारेण प्रवर्तते तदनुसारेण चासामञ्जस्यम् । तदाह
हीनमध्यमेति ।
एतदुक्तं भवति आगमादीश्वरसिद्धौ न दृष्टमनुसर्तव्यम् । न हि स्वर्गापूर्वदेवतादिष्वागमादवगम्यमानेषु किञ्चिदस्ति दृष्टम् । नह्यागमो दृष्टसाधर्म्यात्प्रवर्तते । तेन श्रुतसिद्द्यर्थमदृष्टानि दृष्टविपरीतस्वभावानि सुबहून्यपि कल्प्यमानानि न लोहगन्धितामावहन्ति प्रमाणवत्त्वात् । यस्तु तत्र कथञ्चिद्दृष्टानुसारः क्रियते स सुहृद्भावमात्रेण । आगमानपेक्षितमनुमानं तु दृष्टसाधर्म्येण प्रवर्तमानं दृष्टविपर्यये तुषादपि बिभेतितरामिति । प्राणिकर्मापेक्षितत्वाददोष इति चेत् । न । कुतः । कर्मेश्वरयोर्मिथः प्रवर्त्यप्रवर्तयितृत्व इतरेतराश्रयत्वदोषप्रसङ्गात् । अयमर्थः यदीश्वरः करुणापराधीनो वीतरागस्ततः प्राणिनः कपूये कर्मणि न प्रवर्तयेत् , तच्चोत्पन्नमपि नाधितिष्ठेत् , तावन्मात्रेण प्राणिनां दुःखानुत्पादात् । न हीश्वराधीना जनाः स्वातन्त्र्येण कपूयं कर्म कर्तुमर्हन्ति । तदनधिष्ठितं वा कपूयं कर्म फलं प्रसोतुमुत्सहते । तस्मात्स्वतन्त्रोऽपीश्वरः कर्मभिः प्रवर्त्यत इति दृष्टविपरीतं कल्पनीयम् । तथाचायमपरो गण्डस्योपरि स्फोट इतरेतराश्रयः प्रसज्येत, कर्मणेश्वरः प्रवर्तनीय ईश्वरेण च कर्मेति । शङ्कते
नानादित्वादिति चेत् ।
पूर्वकर्मणेश्वरः सम्प्रतितने कर्मणि प्रवर्त्यते तेनेश्वरेण सम्प्रतितनं कर्म स्वकार्ये प्रवर्त्येत इति । निराकरोति
न वर्तमानकालवदिति ।
अथ पूर्वं कर्म कथमीश्वराप्रवर्तितमीश्वरप्रवर्तनलक्षणं कार्यं करोति । तत्रापि प्रवर्तितमीश्वरेण पूर्वतनकर्मप्रवर्तितेनेत्येवमन्धपरम्परादोषः । चक्षुष्मता ह्यन्धो नीयते नान्धान्तरेण । तथेहापि द्वावपि प्रवर्त्याविति कः कं प्रवर्तयेदित्यर्थः । अपिच नैयायिकानामीश्वरस्य निर्दोषत्वं स्वसमयविरुद्धमित्याह
अपिचेति ।
अस्माकं तु नायं समय इति भावः ।
ननु कारुण्यादपि प्रवर्तमानो जनो दृश्यते । न च कारुण्यं दोष इत्यत आह
स्वार्थप्रयुक्त एव चेति ।
कारुण्ये हि सत्यस्य दुःखं भवति तेन तत्प्रहाणाय प्रवर्तत इति कारुणिका अपि स्वार्थप्रयुक्ता एव प्रवर्तन्त इति । ननु स्वार्थप्रयुक्त एव प्रवर्ततामेवमपि को दोष इत्यत आह
स्वार्थवत्त्वादीश्वरस्येति ।
अर्थित्वादित्यर्थः । पुरुषस्य चौदासीन्याभ्युपगमान्नवास्तवी प्रवृत्तिरिति ॥ ३७ ॥
अपरमपि दृष्टानुसारेण दूषणमाह
सम्बन्धानुपपत्तेश्च ।
दृष्टो हि सावयवानामसर्वगतानां च संयोगः । अप्राप्तिपूर्विका हि प्राप्तिः संयोगो न सर्वगतानां सम्भवत्यप्राप्तेरभावान्निरवयवत्वाच्च । अव्याप्यवृत्तिता हि संयोगस्य स्वभावः । न च निरवयवेष्वव्याप्यवृत्तिता संयोगस्य सम्भवतीत्युक्तम् । तस्मादव्याप्यवृत्तितायाः संयोगस्य व्यापिकाया निवृत्तेस्तद्व्याप्यस्य संयोगस्य विनिवृत्तिरिति भावः । नापि समवायलक्षणः । स ह्ययुतसिद्धानामाधाराधेयभूतानामिहप्रत्ययहेतुः सम्बन्ध इत्यभ्युपेयते । न च प्रधानपुरुषेश्वराणां मिथोऽस्त्याधाराधेयभाव इत्यर्थः । नापि योग्यतालक्षणः कार्यगम्यसम्बन्ध इत्याह
नाप्यन्य इति ।
नहि प्रधानस्य महदहङ्कारादिकारणत्वमद्यापि सिद्धमिति । शङ्कते
ब्रह्मवादिन इति ।
निराकरोति
न ।
कुतः । तस्यमतेऽनिर्वचनीयतादात्म्यलक्षणसम्बन्धोपपत्तेः ।
अपिचेति ।
आगमो हि प्रवृत्तिं प्रति न दृष्टान्तमपेक्षत इत्यदृष्टपूर्वे तद्विरुद्धे च प्रवर्तितुं समर्थः । अनुमानं तु दृष्टानुसारि नैवंविधे प्रवर्तितुमर्हतीति । शङ्कते
परस्यापीति ।
परिहरति
नेति ।
अस्माकं त्वीश्वरागमयोरनादित्वादीश्वरयोनित्वेऽप्यागमस्य न विरोध इति भावः ॥ ३८ ॥
अधिष्ठानानुपपत्तेश्च ।
यथादर्शनमनुमानं प्रवर्तते नालौकिकार्थविषयमितीहापि न प्रस्मर्तव्यम् । सुगममन्यत् ॥ ३९ ॥
करणवच्चेन्न भोगादिभ्यः ।
रूपादिहीनमिति ।
अनुद्भूतरूपमित्यर्थः । रूपादिहीनकरणाधिष्ठानं हि पुरुषस्य स्वभोगादावेव दृष्टं नान्यत्र । नहि बाह्यं कुठाराद्यपरिदृष्टं व्यापारयन् कश्चिदुपलभ्यते । तस्माद्रूपादिहीनं करणं व्यापारयत ईश्वरस्य भोगादिप्रसक्तिः तथा चानीश्वरत्वमिति भावः । कल्पान्तरमाह
अन्यथेति ।
पूर्वमधिष्ठितिरधिष्ठानमिदानीं तु अधिष्ठानं भोगायतनं शरीरमुक्तम् । तथा भोगादिप्रसङ्गेनानीश्वरत्वं पूर्वमापादितम् । सम्प्रति तु शरीरित्वेन भोगादिप्रसङ्गादनीश्वरत्वमुक्तमिति विशेषः ॥ ४० ॥
अन्तवत्त्वमसर्वज्ञता वा ।
अपि च सर्वत्रानुमानं प्रमाणयतः प्रधानपुरुषेश्वराणामपि सङ्ख्याभेदवत्त्वमन्तवत्त्वं च द्रव्यत्वात्सङ्ख्यान्यत्वे सति प्रमेयत्वाद्वानुमातव्यं, ततश्चान्तवत्त्वमसर्वज्ञता वा । अस्माकं त्वागमगम्येऽर्थे तद्बाधितविषयतया नानुमानं प्रभवतीति भावः । स्वरूपपरिमाणमपि यस्य यादृशमणु महत् परममहद्दीर्घं ह्रस्वं चेति ।
अथ मा भूदेष दोष इत्युत्तरो विकल्पः ।
यस्यान्तोऽस्ति तस्यान्तवत्त्वाग्रहणमसर्वज्ञतामापादयेत् । यस्य त्वन्त एव नास्ति तस्य तदग्रहणं नासर्वज्ञतामावहति । नहि शशविषाणाद्यज्ञानादज्ञो भवतीति भावः ।
परिहरति
तत इति ।
आगमानपेक्षस्यानुमानमेषामन्तवत्त्वमवगमयतीत्युक्तम् ॥ ४१ ॥
उत्पत्त्यसम्भवात् ।
अन्यत्र वेदाविसंवादाद्यत्रांशे विसंवादः स निरस्यते । तमंशमाह
यत्पुनरिदमुच्यते वासुदेवात्सङ्कर्षणो जीव इति ।
जीवस्य कारणवत्वे सत्यनित्यत्वम् , अनित्यत्वेपरलोकिनोऽभावात्परलोकाभावः, ततश्च स्वर्गनरकापवर्गाभावापत्तेर्नास्तिक्यमित्यर्थः ।
अनुपपन्ना च जीवस्योत्पत्तिरित्याह
प्रतिषेधिष्यति चेति ॥ ४२ ॥
न च कर्तुः करणम् ।
यद्यप्यनेकशिल्पपर्यवदातः परशुं कृत्वा तेन पलाशं छिनत्ति, यद्यपि च प्रयत्नेनेन्द्रियार्थात्ममनः संनिकर्षलक्षणं ज्ञानकरणमुपादायात्मार्थं विजानाति, तथापि सङ्कर्षणोऽकरणः कथं प्रद्युम्नाख्यं मनः करणं कुर्यात् । अकरणस्य वा करणनिर्माणसामर्थ्ये कृतं करणनिर्माणेन । अकरणादेव निखिलकार्यसिद्धेरिति भावः ॥ ४३ ॥
विज्ञानादिभावे वा तदप्रतिषेधः ।
वासुदेवा एवैते सङ्कर्षमादयो निर्दोषा अविद्यादिदोषरहिताः । निरधिष्ठाना निरूपादानाः । अत एव निरवद्या अनित्यत्वादिदोषरहिताः । तस्मादुत्पत्त्यसम्भवोऽनुगुणत्वान्न दोष इत्यर्थः । अत्रोच्यते
एवमपीति ।
मा भूदभ्युपगमेन दोषः, प्रकारान्तरेण त्वयमेव दोषः । प्रश्नपूर्वं प्रकारान्तरमाह
कथम् । यदि तावदिति ।
न तावदेते परस्परं भिन्ना ईश्वराः परस्परव्याहतेच्छा भवितुमर्हन्ति । व्याहतकामत्वे च कार्यानुत्पादात् । अव्याहतकामत्वे वा प्रत्येकमीश्वरत्वे एकेनैवेशनायाः कृतत्वादानर्थक्यमितरेषाम् । सम्भूय चेशनायां परिशुद्धो न कश्चिदीश्वरः स्यात् , सिद्धान्तहानिश्च । भगवानेवैको वासुदेवः परमार्थतत्त्वमित्यभ्युपगमात् । तस्मात्कल्पान्तरमास्थेयम् । तत्र चोत्पत्त्यसम्भवो दोष इत्याशयवान् कल्पान्तरमुपन्यस्योत्पत्त्यसम्भवेनापाकरोति
अथायमभिप्राय इति ।
सुगममन्यत् ॥ ४४ ॥
विप्रतिषेधाच्च ।
गुणिभ्यः खल्वात्मभ्यो ज्ञानादीन् गुणान् भेदेनोक्त्वा पुनरभेदं ब्रूते
आत्मान एवैते भगवन्तो वासुदेवा इति ।
आदिग्रहणेन प्रद्युम्नानिरुद्धयोर्मनोऽहङ्कारलक्षणतयात्मनो भेदमभिधायात्मन एवैत इति तद्विरुद्धाभेदाभिधानमपरं सङ्गृहीतम् । वेदविप्रतिषेधो व्याख्यातः ॥ ४५ ॥
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां द्वितीयाध्यायस्य द्वितीयः पादः ॥ २ ॥
द्विदीयाध्याये तृतीयः पादः ।
न वियदश्रुतेः ।
पूर्वं प्रमाणान्तरविरोधः श्रुतेर्निराकृतः । सम्प्रति तु श्रुतीनामेव परस्परविरोधो निराक्रियते । तत्र सृष्टिश्रुतीनां परस्परविरोधमाह
वेदान्तेषु तत्र तत्रेति ।
श्रुतिविप्रतिषेधाच्च परपक्षाणामनपेक्षितत्वं स्थापितं तद्वत्स्वपक्षस्य श्रुतिविप्रतिषेधादिति । तदर्थनिर्मलत्वमर्थाभासविनिवृत्त्यार्थतत्त्वप्रतिपादनम् । तस्य फलं स्वपक्षस्य जगतो ब्रह्मकारणत्वस्यानपेक्षत्वाशङ्कानिवृत्तिः । इह हि पूर्वपक्षे श्रुतीनां मिथो विरोधः प्रतिपाद्यते, सिद्धान्ते त्वविरोधः । तत्र सिद्धान्त्येकदेशिनोवचनं “न वियदश्रुतेः”(ब्र. सू. २ । ३ । १) इति । तस्याभिसन्धिः यद्यपि तैत्तिरीयके वियदुत्पत्तिश्रुतिरस्ति तथापि तस्याः प्रमाणान्तरविरोधाद्बहुश्रुतिविरोधाच्च गौणत्वम् । तथाच वियतो नित्यत्वात्तेजःप्रमुख एव सर्गः, तथाच न विरोधः श्रुतीनामिति । तदिदमुक्तम्
प्रथमं तावदाकाशमाश्रित्य चिन्त्यते किमस्याकाशस्योत्पत्तिरस्त्युत नास्तीति ।
यदि नास्ति न श्रुतिविरोधाशङ्का । अथास्ति ततः श्रुतिविरोध इति तत्परिहाराय प्रयत्नान्तरमास्थेयमित्यर्थः ॥ १ ॥
तत्र पूर्वपक्षसूत्रम्
अस्ति तु ।
तैत्तिरीये हि सर्गप्रकरणे केवलस्याकाशस्यैव प्रथमः सर्गः श्रूयते । छान्दोग्ये च केवलस्य तेजसः प्रथमः सर्गः । नच श्रुत्यन्तरानुरोधेनासहायस्याधिगतस्यापि ससहायताकल्पनं युक्तमसहायत्वावगमविरोधात् । श्रुतसिद्ध्यर्थं खल्वश्रुतं कल्प्यते न तु तद्विघाताय, विहन्यते चासहायत्वं श्रुतं कल्पितेन ससहायत्वेन । नच परस्परानपेक्षाणां व्रीहियववद्विकल्पः । अनुष्ठानं हि विकल्प्यते न वस्तु । नहि स्थाणुपुरुषविकल्पो वस्तुनि प्रतिष्ठां लभते । नच सर्गभेदेन व्यवस्थोपपद्यते, साम्प्रतिकसर्गवद्भूतपूर्वस्यापि तथात्वात् । न खल्विह सर्गे क्षीराद्दधि जायते सर्गान्तरे तु दध्नः क्षीरमिति भवति । तस्मात्सर्गश्रुतयः परस्परविरोधिन्यो नास्मिन्नर्थे प्रमाणं भवितुमर्हन्तीति पूर्वः पक्षः ॥ २ ॥
सिद्धान्त्येकदेशी सूत्रेण स्वाभिप्रायमाविष्करोति
गौण्यसम्भवात् ।
प्रमाणान्तरविरोधेन बहुश्रुत्यन्तरविरोधेन चाकाशोत्पत्त्यसम्भवाद्गौण्येषाकाशोत्पत्तिश्रुतिरित्यविरोध इत्यर्थः ।
प्रमाणान्तरविरोधमाह
न ह्याकाशस्येति ।
समवाय्यसमवायिनिमित्तकारणेभ्यो हि कार्यस्योत्पत्तिर्नियता तदभावे न भवितुमर्हति धूम इव धूमध्वजाभावे । तस्मात्सदकारणमाकाशं नित्यमिति । अपिच य उत्पद्यन्ते तेषां प्रागुत्पत्तेरनुभवार्थक्रिये नोपलभ्येते उत्पन्नस्य च दृश्येते, यथा तेजःप्रभृतीनाम् । न चाकाशस्य तादृशो विशेष उत्पादानुत्पादयोरस्ति, तस्मान्नोत्पद्यत इत्याह
उत्पत्तिमतां चेति ।
प्रकाशनं प्रकाशो घटपटादिगोचरः ।
पृथिव्यादिवैधर्म्याच्चेति ।
आदिग्रहणेन द्रव्यत्वे सत्यस्पर्शवत्त्वादात्मवन्नित्यमाकाशमिति गृहीतम् ।
आरण्यानाकाशेष्विति ।
वेदेऽप्येकस्याकाशस्यौपाधिकं बहुत्वम् ॥ ३ ॥
तदेवं प्रमाणान्तरविरोधेन गौणत्वमुक्त्वा श्रुत्यन्तरविरोधेनापि गौणत्वमाह
शब्दाच्च ।
सुगमम् ॥ ४ ॥
स्याच्चैकस्य ब्रह्मशब्दवत् ।
पदस्यानुषङ्गो न पदार्थस्य । तद्धि क्वचिन्मुख्यं क्वचिदौपचारिकं सम्भवासम्भवाभ्यामित्यविरोधः । चोद्यद्वयं करोति
कथमिति ।
प्रथमं चोद्यं परिहरति
एकमेवेति तावदिति ।
कुलङ्गृहम् । अमत्राणि । पात्राणि घटशरावादीनि । आपेक्षिकमवधारणं न सर्वविषयमित्यर्थः । उपपत्त्यन्तरमाह
नच नभसापीति ।
अपिरभ्युपगमे । यदि सर्वापेक्षं तथाप्यदोष इत्यर्थः ।
नच प्रागुत्पत्तेः ।
जगत इति शेषः । द्वितीयं चोद्यमपाकरोति
अत एव च ब्रह्मविज्ञानेनेति ।
लक्षणान्यत्वाभावेनाकाशस्य ब्रह्मणोऽनन्यत्वादिति । अपि चाव्यतिरिक्तदेशकालमाकाशं ब्रह्मणा च ब्रह्मकार्यैश्च तदभिन्नस्वभावैरतः क्षीरकुम्भप्रक्षिप्तकतिपयपयोबिन्दुवद्ब्रह्मणि तत्कार्ये च विज्ञाते नभो विदितं भवतीत्याह
अपि च सर्वं कार्यमुत्पद्यमानमिति ॥ ५ ॥
एवं सिद्धान्तैकदेशमिते प्राप्त इदमाह
प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ।
ब्रह्मविवर्तात्मतयाजगतस्तद्विकारस्य वस्तुतो ब्रह्मणाभेदे ब्रह्मणि ज्ञाते ज्ञानमुपपद्यते । नहि जगत्तत्त्वं ब्रह्मणोऽन्यत् । तस्मादाकाशमपि तद्विवर्ततया तद्विकारः सत्तज्ज्ञानेन ज्ञातं भवति नान्यथा । अविकारत्वे तु ततस्तत्त्वान्तरं न ब्रह्मणि विदिते विदितं भवति । भिन्नयोस्तु लक्षणान्यत्वाभावेऽपि देशकालाभेदेऽपि नान्यतरज्ञानेनान्यतरज्ञानं भवति । नहि क्षीरस्य पूर्णकुम्भे क्षीरे गृह्यमाणे सत्स्वपि पाथोबिन्दुषु पाथस्तत्त्वं प्रति ज्ञातत्वमस्ति विज्ञाने । तस्मान्न ते क्षीरे विदिते विदिता इति प्रतिज्ञादृष्टान्तप्रचयानुपरोधाय वियत उत्पत्तिरकामेनाभ्युपेयेति । तदेवं सिद्धान्तैकदेशिनि दूषिते पूर्वपक्षी स्वपक्षे विशेषमाह
सत्यं दर्शितम् । अत एवविरुद्धं तु तदिति ।
सिद्धान्तसारमाह
नैष दोषः । तेजःसर्गस्य तैत्तिरीयक इति ।
श्रुत्योरन्यथोपपद्यमानान्यथानुपपद्यमानयोरन्यथानुपपद्यमाना बलवती तैत्तिरीयकश्रुतिः । छान्दोग्यश्रुतिश्चान्यथोपपद्यमाना दुर्बला । नन्वसहायं तेजः प्रथममवगम्यमानं ससहायत्वेन विरुध्यत इत्युक्तमत आह
नहीयं श्रुतिस्तेजोजनिप्रधानेति ।
सर्गसंसर्गः श्रौतो भेदस्त्वार्थः । स च श्रुत्यन्तरेण विरोधिना बाध्यते, जघन्यत्वात् । नच तेजः प्रमुखसर्गसंसर्गवदसहायत्वमप्यस्य श्रौतं, किन्तु व्यतिरेकलभ्यम् । नच श्रुतेन तदपवादबाधने श्रुतस्य तेजःसर्गस्यानुपपत्तिः, तदिदमुक्तम् “तेजोजनिप्रधाना” इति । स्यादेतत् । यद्येकं वाक्यमनेकार्थ न भवत्येकस्य व्यापारद्वयासम्भवात् , हन्त भोः कथमेकस्य स्रष्टुरनेकव्यापारत्वमविरुद्धमित्यत आह
स्रष्टा त्वेकोऽपीति ।
वृद्धप्रयोगाधीनावधारणं शब्दसामर्थ्यम् । नचानावृत्तस्य शब्दस्य क्रमाक्रमाभ्यामनेकत्रार्थे व्यापारो दृष्टः । दृष्टं तु क्रमाक्रमाभ्यामेकस्यापि कर्तुरनेकव्यापारत्वमित्यर्थः । नचास्मिन्नर्थ एकस्य वाक्यस्य व्यापारोऽपि तु भिन्नानां वाक्यानामित्याह
नचास्माभिरिति ।
सुगमम् ।
चोदयति
ननु शमविधानार्थमिति ।
यत्परः शब्दः स शब्दार्थः । न चैष सृष्टिपरोऽपि तु शमपर इत्यर्थः । परहरति
नहि तेजःप्राथम्यानुरोधेनेति ।
गुणत्वादार्थत्वाच्च क्रमस्य श्रुतप्रधानपदार्थविरोधात्तत्त्यागोऽयुक्त इत्यर्थः ।
सिंहावलोकितन्यायेन वियदनुत्पत्तिवादिनं प्रत्याह
अपिच छान्दोग्य इति ।
यत्पुनरन्यथा प्रतिज्ञोपपादनं कृतं, तद्दूषयति
यच्चोक्तमिति ।
दृष्टान्तानुरूपत्वाद्दार्ष्टान्तिकस्य, तस्य च प्रकृतिविकाररूपत्वाद्दार्ष्टान्तिकस्यापि तथाभावः । अपिच भ्रान्तिमूलं चैतद्वचनम् “एकमेवाद्वितीयम्” इति तोये क्षीरबुद्धिवत् । औपचारिकं वा सिंहो माणवक इतिवत् । तत्र न तावद्भ्रान्तमित्याह
क्षीरोदकन्यायेनेति ।
भ्रान्तेर्विप्रलम्भाभिप्रायस्य च पुरुषधर्मत्वादपौरुषेये तदसम्भव इत्यर्थः ।
नाप्यौपचारिकमित्याह
सावधारणा चेयमिति ।
काममुपचारादस्त्वेकत्वम् , अवधारणाद्वितीयपदे नोपपद्येते । नहि माणवके सिंहत्वमुपचर्य न सिंहादन्योऽस्ति मनागपि माणवक इति वदन्ति लौकिकाः । तस्माद्ब्रह्मत्वमैकान्तिकं जगतो विवक्षितं श्रुत्या न त्वौपचारिकम् । अभ्यासे हि भूयस्त्वमर्थस्य भवति नत्वल्पत्वमपि प्रागेवौपचारिकमित्यर्थः ।
नच स्वकार्यापेक्षयेति ।
निःशेषवचनः स्वरसतः सर्वशब्दो नासति श्रुत्यन्तरविरोधे एकदेशवविषयो युज्यत इत्यर्थः ॥ ६ ॥
आकाशस्योत्पत्तौ प्रमाणान्तरविरोधमुक्तमनुभाष्य तस्य प्रमाणान्तरस्य प्रमाणान्तरविरोधेनाप्रमाणभूतस्य न गौणत्वापादनसामर्थ्यमत आह
यावद्विकारं तु विभागो लोकवत् ।
सोऽयं प्रयोगः आकाशदिक्कालमनःपरमाणवो विकाराः, आत्मान्यत्वे सति विभक्तत्वात् , घटशरावोदञ्चनादिवदिति ।
सर्वं कार्यं निरात्मकमिति ।
निरूपादानं स्यादित्यर्थः । शून्यवादश्च निराकृतः स्वयमेव श्रुत्योपन्यस्य “कथमसतः सज्जायेत”(छा. उ. ६ । २ । २) इति । उपपादितं च तन्निराकरणमधस्तादिति । आत्मत्वादेवात्मनः प्रत्यगात्मनो निराकरणाशङ्कानुपपत्तिः । एतदुक्तं भवति सोपादानं चेत्कार्यं तत आत्मैवोपादानमुक्तं, तस्यैवोपादानत्वेन श्रुतेरुपादानान्तरकल्पनानुपपत्तेरिति । स्यादेतत् । अस्त्वात्मोपादानमस्य जगतः, तस्य तूपादानान्तरमश्रूयमाणमप्यन्यद्भविष्यतीत्यत आह
नह्यात्मागन्तुकः कस्यचितुपादानान्तरस्योपादेयः ।
कुतः ।
स्वयंसिद्धत्वात् ।
सत्ता वा प्रकाशो वास्य स्वयंसिद्धी । तत्र प्रकाशात्मिकायाः सिद्धेस्तावदनागन्तुकत्वमाह
नह्यात्मात्मन इति ।
उपपादितमेतद्यथा संशयविपर्यासपारोक्ष्यानास्पदत्वात्कदापि नात्मा पराधीनप्रकाशः, तदधीनप्रकाशास्तु प्रमाणादयः । अत एव श्रुतिः “तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति”(मु. उ. २ । २ । ११) इति ।
नचेदृशस्य निराकारणं सम्भवतीति ।
निराकरणमपि हि तदधीनात्मलाभं तद्विरुद्धं नोदेतुमर्हतीत्यर्थः । सत्ताया अनागन्तुकत्वमस्याह
तथाहमेवेदानीं जानामीति ।
प्रमाप्रमाणप्रमेयाणां वर्तमानातीतानागतत्वेऽपि प्रमातुः सदा वर्तमानत्वेनानुभवादप्रच्युतस्वभावस्य नागन्तुकं सत्त्वम् । त्रैकाल्यावच्छेदेन ह्यागन्तुकत्वं व्याप्तं, तत्प्रमातुः सदावर्तमानाद्व्यावर्तमानमागन्तुकत्वं स्वव्याप्यमादाय निवर्तत इति ।
अन्यथाभवत्यपि ज्ञातव्य इति ।
प्रकृतिप्रत्ययाभ्यां ज्ञानज्ञेययोरन्यथाभावो दर्शितः । ननु जीवतः प्रमातुर्मा भूदन्यथाभावो मृतस्य तु भविष्यतीत्यत आह
तथा भस्मीभवत्यपीति ।
यत्खलु सत्स्वभावमनुभवसिद्धं तस्यानिर्वचनीयत्वमन्यतो बाधकादवसातव्यम् । बाधकं च घटादीनां स्वभावाद्विचलनं प्रमाणोपनीतम् । यस्य तु न तदस्यात्मनो न तस्य तत्कल्पनं युक्तम् , अबाधितानुभवसिद्धस्य सत्स्वभावस्यानिर्वचनीयत्वकल्पनाप्रमाणाभावात् । तदिदमुक्तम्
न सम्भावयितुं शक्यमिति ।
तदनेन प्रबन्धेन प्रत्यनुमानेनाकाशानुत्पत्त्यनुमानं दूषयित्वानैकान्तिकत्वेनापि दूषयति
यत्तूक्तं समानजातीयमिति ।
नाप्यनेकमेवोपादानमुपादेयमारभते ।
यत्र हि क्षीरं दधिभावेन परिणमते तत्र नावयवानामनेकेषामुपादनत्वमभ्युपगन्तव्यं किन्तूपात्तमेव क्षीरमेकमुपादेयदधिभावेन परिणमते । यथा निरवयवपरमाणुवादिनां क्षीरपरमाणुर्दधिपरमाणुभावेनेति । शेषमतिरोहितार्थम् ॥ ७ ॥
एतेन मातरिश्वा व्याख्यातः ।
यद्यभ्यासे भूयस्त्वमर्थस्य भवति नाल्पत्वं दूरत एवोपचरितत्वं, हन्त भोः पवनस्य नित्यत्वप्रसङ्गः । “वायुश्चान्तरिक्षमेतदमृतम्” इति द्वयोरमृतत्वमुक्त्वा पुनः पवनस्य विशेषेणाह
सैषानस्तमिता देवता यद्वायुरिति ।
तस्मादभ्यासान्नापेक्षिकं वायोरमृतत्वमपि त्वौत्पत्तिकमेवेति प्राप्तम् । तदिदमुक्तं भाष्यकृता
अस्तमयप्रतिषेधादमृतत्वादिश्रवणाच्चेति ।
चेन समुच्चयार्थेनाभ्यासो दर्शितः । एवं प्राप्त उच्यतेएकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात् , प्रतिज्ञावाक्यार्थस्य प्राधान्यात् , तदुपपादनार्थत्वाच्च वाक्यान्तराणां, तेषामपि चाद्वैतप्रतिपादकानां मातरिश्वोत्पत्तिक्रमप्रतिपादकानां बहुलमुपलब्धेः, मुख्यभूयस्त्वाभ्याममूषां श्रुतीनां बलीयस्त्वात् , एतदनुरोधेनामृतत्वास्तमयप्रतिषेधावापेक्षिकत्वेन नेतव्याविति । भूयसीः श्रुतीरपेक्ष्य द्वे अपि श्रुती शब्दमात्रमुक्ते ॥ ८ ॥
असम्भवस्तु सतोऽनुपपत्तेः ।
ननु “न चास्य कश्चिज्जनिता”(श्वे. उ. ६ । ९) इत्यात्मनः सतोऽकारणत्वश्रुतेः कथमुत्पत्त्याशङ्का । नच वचनमदृष्ट्वा पूर्वः पक्षः इति युक्तम् , अधीतवेदस्य ब्रह्मजिज्ञासाधिकाराददर्शनानुपपत्तेरत आह
वियत्पवनयोरिति ।
यथाहि वियत्पवनयोरमृतत्वानस्तमयत्वश्रुती श्रुत्यन्तरविरोधादापेक्षिकत्वेन नीते । एवमकारणत्वश्रुतिरात्मनोऽग्निविस्फुलिङ्गदृष्टान्तश्रुतिविरोधात्प्रमाणान्तरविरोधाच्चापेक्षिकत्वेन व्याख्यातव्या । न चात्मनः कारणवत्त्वेऽनवस्था लोहगन्धितामावहत्यनादित्वात्कार्यकारणपरम्पराया इति भावः ।
तथा विकारेभ्य इति ।
प्रमाणान्तरविरोधो दर्शितः । एवं प्राप्त उच्यते सदेकस्वभावस्योत्पत्त्यसम्भवः । कुतः अनुपपत्तेः । सदेकस्वभावं हि ब्रह्म श्रूयते तदसति बाधके नान्यथयितव्यम् । उक्तमेतद्विकाराः सत्त्वेनानुभूता अपि कतिपयकालकलातिक्रमे विनश्यन्तो दृश्यन्त इत्यनिर्वचनीयास्त्रैकाल्यावच्छेदादिति । न चात्मा तादृशस्तस्य श्रुतेरनुभवाद्वा वर्तमानैकस्वभावत्वेन प्रसिद्धेस्तदिदमाह
सन्मात्रं हि ब्रह्मेति ।
एतदुक्तं भवति यत्स्वभावाद्विचलति तदनिर्वचनीयं निर्वचनीयोपादानं युक्तं, न तु विपर्ययः । यथा रज्जूपादानः सर्पो न तु सर्पोपादाना रज्जुरिति । ययोस्तु स्वभावादप्रच्युतिस्तयोर्निर्वचनीययोर्नोपादेयोपादानभावः, यथा रज्जुशुक्तिकयोरिति । नच निरधिष्ठानो विभ्रम इत्याह
नाप्यसत इति ।
नच निरधिष्ठानभ्रमपरम्परानादितेत्याह
मूलप्रकृत्यनभ्युपगमेऽनवस्थाप्रसङ्गादिति ।
पारमार्थिको हि कार्यकारणभावोऽनादिर्नानवस्थया दुष्यति । समारोपस्तु विकारस्य न समारोपितोपादान इत्युपपादितं माध्यमिकमतनिषेधाधिकारे, तदत्र न प्रस्मर्तव्यम् । तस्मान्नासदधिष्ठानविभ्रमसमर्थनानादित्वेनोचितेत्यर्थः । अग्निविस्फुलिङ्गश्रुतिश्चौपाधिकरूपापेक्षया नेतव्या । शेषमतिरोहितार्थम् । ये तु गुणदिक्कालोत्पत्तिविषयमिदमधिकरणं वर्णयाञ्चक्रुस्तैः “सतोऽनुपपत्तेः”(ब्र. सू. २ । ३ । ९) इति क्लेशेन व्याख्येयम् । अविरोधसमर्थनप्रस्तावे चास्य सङ्गतिर्वक्तव्या । अबादिवद्दिक्कालादीनामुत्पत्तिप्रतिपादकवाक्यस्यानवगमात् । तदास्तां तावत् ॥ ९ ॥
तेजोऽतस्तथा ह्याह ।
यद्यपि “वायोरग्निः”(तै. उ. २ । १ । १) इत्यपादानपञ्चमी “कारकविभक्तिरुपपदविभक्तेर्बलीयसी” इति नेयमानन्तर्यपरा युक्ता, तथापि बहुश्रुतिविरोधेन दुर्बलाप्युपपदविभक्तिरेवात्रोचिता । ततश्चानन्तर्यदर्शनपरेयं वायोरग्निरिति श्रुतिः । नच साक्षाद्ब्रह्मजत्वसम्भवे तद्वंश्यत्वेन तज्जत्वं परम्परयाश्रयितुं युक्तम् । वाजपेयस्य पशुयूपवदिति प्राप्तम् । एवं प्राप्ते उच्यतेयुक्तं पशुयागवाजपेययोरङ्गाङ्गिनोर्नानात्वात्तत्र साक्षाद्वाजपेयासम्बन्धे क्लेशेन परम्पराश्रयणम् । इह तु वायोर्ब्रह्मविकारस्यापि ब्रह्मणो वस्तुतोऽनन्यत्वाद्वयूपादानत्वे साक्षादेव ब्रह्मोपादानत्वोपपत्तेः कारकविभक्तेर्बलीयस्त्वानुरोधेनोभयथोपपद्यमानाः श्रुतयः कांस्यभोजिन्यायेन नियम्यन्त इति युक्तमिति राद्धान्तः । “पारम्पर्यजत्वेऽपि” इति भेदकल्पनाभिप्रायं यतः पारमार्थिकाभेदमाहवायुभावापन्नं ब्रह्मेति । यथा तस्याः शृतमिति तु दृष्टान्तः परम्परामात्रसाम्येन न तु सर्वथा साम्येनेति सर्वमवदातम् ॥ १० ॥
आपः ।
निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥ ११ ॥
पृथिव्यधिकाररूपशब्दान्तरेभ्यः ।
अन्नशब्दोऽयं व्युत्पत्त्या च प्रसिद्ध्या च व्रीहियवादौ तद्विकारे चौदने प्रवर्तते । श्रुतिश्च प्रकरणाद्बलीयसी, सा च वाक्यशेषेणोपोद्बलिता “यत्र क्वचन वर्षति” इत्येतेन तस्मादभ्यवहार्यं व्रीहियवाद्येवात्राद्भ्यो जायत इति विवक्षितम् । कार्ष्ण्यमपि हि सम्भवति कस्यचिददनीयस्य । नहि पृथिव्यपि कृष्णा, लोहितादिरूपाया अपि दर्शनात् । ततश्च श्रुत्यन्तरेण “अद्भ्यः पृथिवी पृथिव्या ओषधयः”(तै. उ. २ । १ । १) इत्यादिना विरोध इति पूर्वः पक्षः । श्रुत्योर्विरोधे वस्तुनि विकल्पानुपपत्तेरन्यतरानुगुणतयान्यतरा नेतव्या । तत्र किम् “अद्भ्यः पृथिवी” इति पृथिवीशब्दोऽन्नपरतया नीयतामुत “अन्नमसृजन्त”(छा. उ. ६ । २ । ४) इत्यन्नशब्दः पृथिवीपरतयेति विशये, महाभूताधिकारानुरोधात्प्रायिककृष्णरूपानुरोधाच्च “तद्यदपां शर आसीत्”(बृ. उ. १ । २ । २) इति च पुनः श्रुत्यनुरोधाच्च वाक्यशेषस्य चान्यथाप्युपपत्तेरन्नशब्दोऽन्नकारणे पृथिव्यामिति राद्धान्तः ॥ १२ ॥
तदभिध्यानादेव तु तल्लिङ्गात्सः ।
सृष्टिक्रमे भूतानामविरोध उक्तः । इदानीमाकाशादिभूताधिष्ठात्र्यो देवताः किं स्वतन्त्रा एवोत्तरोत्तरभूतसर्गे प्रवर्तन्त उत परमेश्वराधिष्ठिताः परतन्त्रा इति । तत्र “आकाशाद्वायुर्वायुरग्निः”(तै. उ. २ । १ । १) इति स्ववाक्ये निरपेक्षाणां श्रुतेः स्वयञ्चेतनानां च चेतनान्तरापेक्षायां प्रमाणाभावात् , प्रस्तावस्य च लिङ्गस्य च पारम्पर्येणापि मूलाकारणस्य ब्रह्मण उपपत्तेः, स्वतन्त्राणामेवाकाशादीनां वाय्वादिकारणत्वमिति जगतो ब्रह्मयोनित्वव्याघात इति प्राप्तम् । एवं प्राप्तेऽभिधीयते “आकाशाद्वायुः”(तै. उ. २ । १ । १) इत्यादय आकाशादीनां केवलमुपादानभावमाचक्षते, न पुनः स्वातन्त्र्येणाधिष्ठातृत्वम् । नच चेतनानां स्वकार्यस्वातन्त्र्यमित्येतदप्यैकान्तिकं परतन्त्राणामपि तेषां बहुलमुपलब्धेर्भृत्यान्तेवास्यादिवत् । तस्माल्लिङ्गप्रस्तावसामञ्जस्याय स ईश्वर एव तेन तेनाकाशादिभावेनोपादानभावेनावतिष्ठमानः स्वयमधिष्ठाय निमित्तकारणभूतस्तं तं विकारं वाय्वादिकं सृजतीति युक्तम् । इतरथा लिङ्गप्रस्तावौ क्लेशितौ स्यातामिति ।
परमेश्वरावेशवशादिति ।
परमेश्वर एवान्तर्यामिभावेनाविष्ट ईक्षिता, तस्मात्सर्वस्य कार्यजातस्य साक्षात्परमेश्वर एवाधिष्ठाता निमित्तकारणं न त्वाकाशादिभावमापन्नः । आकाशादिभावमापन्नस्तूपादानमिति सिद्धम् ॥ १३ ॥
विपर्ययेण तु क्रमोऽत उपपद्यते च ।
उत्पत्तौ महाभूतानां क्रमः श्रुतो नाप्ययेऽप्ययमात्रस्य श्रुतत्वात् । तत्र नियमे सम्भवति नानियमः । व्यवस्थारहितो हि सः । नच व्यवस्थायां सत्यामव्यवस्था युज्यते । तत्र क्रमभेदापेक्षायां किं दृष्टोऽप्ययक्रमो घटादीनां महाभूताप्ययक्रमनियामकोऽस्त्वाहो श्रौत उत्पत्तिक्रम इति विशये श्रौतस्य श्रौतान्तरमभ्यर्हितं समानजातीयतया तस्यैव बुद्धिसांनिध्यात् । न दृष्टं, विरुद्धजातीयत्वात् । तस्माच्छ्रौतेनैवोत्पत्तिक्रमेणाप्ययक्रमो नियम्यत इति प्राप्त उच्यते अप्ययस्य क्रमापेक्षायां खलूत्पत्तिक्रमो नियामको भवेत् , न त्वस्त्यप्ययस्य क्रमापेक्षा, दृष्टानुमानोपनीतेन क्रमभेदेन श्रुत्यनुसारिणोऽप्ययक्रमस्य बाध्यमानत्वात् । तस्मिन् हि सत्युपादानोपरमेऽप्युपादेयमस्तीति स्यात् । न चैतदस्ति । तस्मात् । तद्विरुद्धदृष्टक्रमावरोधादाकाङ्क्षैव नास्ति क्रमान्तरं प्रत्ययोग्यत्वात्तस्य । तदिदमुक्तं सूत्रकृता “उपपद्यते”। भाष्यकारोऽप्याह
न चासावयोग्यत्वाप्ययेनाकाङ्क्ष्यत इति ।
तस्मादुत्पत्तिक्रमाद्विपरीतः क्रम इत्येतन्न्यायमूला च स्मृतिरुक्ता ॥ १४ ॥
अन्तराविज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ।
तदेवं भावनोपयोगिनौ भूतानामुत्पत्तिप्रलयौ विचार्य बुद्धीन्द्रियमनसां क्रमं विचारयति । अत्र च विज्ञायतेऽनेनेति व्युत्पत्त्या विज्ञानशब्देनेन्द्रियाणि च बुद्धिं च ब्रूते । तत्रैतेषां क्रमापेक्षायामात्मानं च भूतानि चान्तरा समाम्नानात्तेनैव पाठेन क्रमो नियम्यते । तस्मात्पूर्वोत्पत्तिक्रमभङ्गप्रसङ्गः । यत आत्मनः करणानि करणेभ्यश्च भूतानीति प्रतीयते, तस्मादात्मन आकाश इति भज्यते । अन्नमयमिति च मयडानन्दमय इतिवत्न विकारार्थ इति प्राप्तेऽभिधीयते विभक्तत्वात्तावन्मनःप्रभृतीनां कारणापेक्षायामन्नमयं मन इत्यादिलिङ्गश्रवणादपेक्षितार्थकथनाय विकारार्थत्वमेव मयटो युक्तम् , इतरथा त्वनपेक्षितमुक्तं भवेत् । नच तदपि घटते । नह्यन्नमयो यज्ञ इतिवदन्नप्राचुर्यं मनसः सम्भवति । एवं चोद्भूतविकारा मन आदयो भूतानां परस्तादुत्पद्यन्त इति युक्तम् । प्रौढवादितयाभ्युपेत्याह
अथ त्वभौतिकानीति ।
भवत्वात्मन एव करणानामुत्पत्तिः, न खल्वेतावता भूतैरात्मनो नोत्पत्तव्यम् । तथाच नोक्तक्रमभङ्गप्रसङ्गः । विशिष्यते भिद्यते । भज्यत इति यावत् ॥ १५ ॥
चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ।
देवदत्तादिनामधेयं तावज्जीवात्मनो न शरीरस्य, तन्नाम्ने शरीराय श्राद्धादिकरणानुपपत्तेः । तन्मृतो देवदत्तो जातो देवदत्त इति व्यपदेशस्य मुख्यत्वं मन्वानस्य पूर्वः पक्षः, मुख्यत्वे शास्त्रोक्तामुष्मिकस्वर्गादिफलसम्बन्धानुपपत्तेः शास्त्रविरोधाल्लौकिकव्यपदेशो भाक्तो व्याख्येयः । भक्तिश्च शरीरस्योत्पादविनाशौ ततस्तत्संयोग इति । जातकर्मादि च गर्भबीजसमुद्भवजीवपापप्रक्षयार्थं, न तु जीवजन्मजपापक्षयार्थम् । अत एव स्मरन्ति “एवमेनः शमं याति बीजगर्भसमुद्भवम्” इति । तस्मान्न शरीरोत्पत्तिविनाशाभ्यां जीवजन्मविनाशाविति सिद्धम् । एतच्च लौकिकव्यपदेशस्याभ्रान्तिमूलत्वमभ्युपेत्याधिकरणम् । उक्ता त्वध्यासभाष्येऽस्य भ्रान्तिमूलतेति ॥ १६ ॥
मा भूतामस्य शरीरोदयव्ययाभ्यां स्थूलावुत्पत्तिविनाशौ, आकाशादेरिव तु महासर्गादौ तदन्ते चोत्पत्तिविनाशौ जीवस्य भविष्यत इति शङ्कान्तरमपनेतुमिदमारभ्यते ।
नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः ।
विचारमूलसंशयस्य बीजमाह
श्रुतिविप्रतिपत्तेरिति ।
तामेव दर्शयति
कासुचिच्छ्रुतिष्विति ।
पूर्वपक्षं गृह्णाति
तत्र प्राप्तमिति ।
परमात्मनस्तावद्विरुद्धधर्मसंसर्गादपहतानपहतपाप्मत्वादिलक्षणाज्जीवानामन्यत्वम् । ते चेन्न विकारास्ततस्तत्त्वान्तरत्वे बहुतराद्वैतश्रुतिविरोधः । ब्रह्मविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधश्च । तस्माच्छुतिभिरनुज्ञायते विकारत्वम् । प्रमाणान्तरं चात्रोक्तम्
विभक्तत्वादाकाशादिवदिति ।
“यथाग्नेः क्षुद्रा विस्फुलिङ्गाः”(बृ. उ. २ । १ । २०) इति च श्रुतिः साक्षादेव ब्रह्मविकारत्वं जीवानां दर्शयति । “यथा सुदीप्तात्पावकात्”(मु. उ. २ । १ । १) इति च ब्रह्मणो जीवानामुत्पत्तिं च तत्राप्ययं च साक्षाद्दर्शयति । नन्वक्षराद्भावानामुत्पत्तिप्रलयाववगम्येते । न जीवानामित्यत आह
जीवात्मनामिति ।
स्यादेतत् । सृष्टिश्रुतिष्वाकाशाद्युत्पत्तिरिव कस्माज्जीवोत्पत्तिर्नाम्नायते । तस्मादाम्नानयोग्यस्यानाम्नानात्तस्योत्पत्त्यभावं प्रतीम इत्यत आह
नच क्वचिदश्रवणमिति ।
एवं हि कस्याञ्चिच्छाखायामाम्नातस्य कतिपयाङ्गसहितस्य कर्मणः शाखान्तरीयाङ्गोपसंहारो न भवेत् । तस्माद्बहुतरश्रुतिविरोधादनुप्रवेशश्रुतिर्विकारभावात्पत्त्या व्याख्येया । तस्मादाकाशवज्जीवात्मान उत्पद्यन्त इति प्राप्त उच्यते भवेदेवं यदि जीवा ब्रह्मणो भिद्येरन् । न त्वेतदस्ति । “तत्सृष्ट्वा तदेवानुप्राविशत्”(तै. उ. २ । ६ । १) “अनेन जीवेन”(छा. उ. ६ । ३ । २) इत्याद्यविभागश्रुतेरौपाधिकत्वाच्च भेदस्य घटकरकाद्याकाशवद्विरुद्धधर्मसंसर्गस्योपपत्तेः । उपाधीनां च मनोमय इत्यादीनां श्रुतेर्भूयसीनां च नित्यत्वाजत्वादिगोचराणां श्रुतीनां दर्शनात् “उपाधिप्रविलयेनोपहितस्य” इति च प्रश्नोत्तराभ्यामनेकधोपपादनादविभागस्य च “एको देवः सर्वभूतेषु गूढः”(श्वे. ६ । ११) इति श्रुत्यैवोक्तत्वान्नित्या जीवात्मानो न विकारा न चाद्वैतप्रतिज्ञाविरोध इति सिद्धम् । मैत्रेयीब्राह्मणं चाधस्ताद्व्याख्यातमिति नेह व्याख्यातम् ॥ १७ ॥
ज्ञोऽत एव ।
कर्मणा हि जानात्यर्थो व्याप्तस्तदभावे न भवति धूम इव धूमध्वजाभावे, सुषुप्त्याद्यवस्थासु च ज्ञेयस्याभावात्तद्व्याप्यस्य ज्ञानस्याभावः । तथाच नात्मस्वभावश्चैतन्यं तदनुवृत्तावपि चैतन्यस्य व्यावृत्तेः । तस्मादिन्द्रियादिभावाभावानुविधानात्ज्ञानभावाभावयोरिन्द्रियादिसंनिकर्षाधेयमागन्तुकमस्य चैतन्यं धर्मो न स्वाभाविकः । अत एवेन्द्रियादीनामर्थवत्त्वम् , इतरथा वैयर्थ्यमिन्द्रियाणां भवेत् । नित्यचैतन्यश्रुतयश्च शक्त्यभिप्रायेण व्याख्येयाः । अस्ति हि ज्ञानोत्पादनशक्तिर्निजा जीवानां, न तु व्योम्न इवेन्द्रियादिसन्निकर्षेऽप्येषा ज्ञानं न भवतीति । तस्माज्जडा एव जीवा इति प्राप्तेऽभिधीयतेयदागन्तुकज्ञानं जडस्वभावं तत्कदाचित्परोक्षं कदाचित्सन्दिग्धं कदाचिद्विपर्यस्तं, यथा घटादि, न चैवमात्मा । तथाहि अनुमिमानोऽप्यपरोक्षः, स्मरन्नप्यानुभविकः, सन्दिहानोऽप्यसन्दिग्धः, विपर्यस्यन्नप्यविपरीतः सर्वस्यात्मा । तथाच तत्स्वभावः । नच तत्स्वभावस्य चैतन्यस्याभावः, तस्य नित्यत्वात् । तस्माद्वृत्तयः क्रियारूपाः सकर्मिकाः कर्माभावे सुषुप्त्यादौ निवर्तन्ते । तेन चैतन्यमात्मस्वभाव इति सिद्धम् । तथाच नित्यचैतन्यवादिन्यः श्रुतयो न कथञ्चित्क्लेशेन व्याख्यातव्या भवन्ति । गन्धादिविषयवृत्त्युपजने चेन्द्रियाणामर्थवत्तेति सर्वमवदातम् ॥ १८ ॥
उत्क्रान्तिगत्यागतीनाम् ।
यद्यप्यविकृतस्यैव परमात्मनो जीवभावस्तथा चानणुपरिमाणत्वं, तथाप्युत्क्रान्तिगत्यागतीनां श्रुतेश्च साक्षादणुपरिमाणश्रवणस्य चाविरोधार्थमिदमधिकरणमित्याक्षेपसमाधानाभ्यामाह
ननु चेति ।
पूर्वपक्षं गृह्णाति
तत्र प्राप्तं तावदिति ।
विभागसंयोगोत्पादौ हि तूत्क्रान्त्यादीनां फलम् । नच सर्वगतस्य तौ स्तः । सर्वत्र नित्यप्राप्तस्य वा सर्वात्मकस्य वा तदसम्भावादिति ॥ १९ ॥
स्वात्मना चोत्तरयोः ।
उत्क्रमणं हि मरणे निरूढम् । तच्चाचलतोऽपि तत्र सतो देहस्वाम्यनिवृत्त्योपपद्यते न तु गत्यागती । तयोश्चलने निरूढयोः कर्तृस्थभावयोर्व्यापिन्यसम्भवादिति मध्यमं परिमाणं महत्त्वं शरीरस्यैव । तच्चार्हतपरीक्षायां प्रत्युक्तम् । गत्यागती च परममहति न सम्भवतोऽतः पारिशेष्यादणुत्वसिद्धिः । गत्यागतिभ्यां च प्रादेशिकत्वसिद्धौ मरणमपि देहादपसर्पणमेव जीवस्य न तु तत्र सतः स्वाम्यनिवृत्तिमात्रमिति सिद्धमित्याह
सत्योश्च गत्यागत्योरिति ।
इतश्च देहादपसर्पणमेव जीवस्य मरणमित्याह
देहप्रदेशानामिति ।
तस्माद्गत्यागत्यपेक्षोत्क्रान्तिरपि सापादानाणुत्वसाधनमित्यर्थः । न केवलमपादानश्रुतेः, तच्छरीरप्रदेशगन्तव्यत्वश्रुतेरप्येवमेवेत्याह
स एतास्तेजोमात्रा इति ॥ २० ॥
नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ।
यत उत्क्रान्त्यादिश्रुतिभिर्जीवानामणुत्वं प्रसाधितं ततो व्यापकात्परमात्मनस्तेषां तद्विकारतया भेदः । तथाच महत्त्वानन्त्यादिश्रुतयः परमात्मविषया न जीवविषया इत्यविरोध इत्यर्थः । यदि जीवा अणवस्ततो “योऽयं विज्ञानमयः प्राणेषु”(बृ. उ. ४ । ३ । ७) इति कथं शारीरो महत्त्वसम्बन्धित्वेन प्रतिनिर्दिश्यते इति चोदयति
नन्विति ।
परिहरति
शास्त्रदृष्ट्या
पारमार्थिकदृष्ट्या निर्देशो वामदेववत् । यथा हि गर्भस्थ एव वामदेवो जीवः परमार्थदृष्ट्यात्मनो ब्रह्मत्वं प्रतिपेदे, एवं विकाराणां प्रकृतेर्वास्तवादभेदात्तत्परिमाणत्वव्यपदेश इत्यर्थः ॥ २१ ॥
स्वशब्दोन्मानाभ्यां च ।
स्वशब्दं विभजते
साक्षादेवेति ।
उन्मानं विभजते
तथोन्मानमपीति ।
उद्धृत्य मानमुन्मानं बालाग्रादुद्धृतः शततमो भागस्तस्मादपि शततमादुद्धृतः शततमो भाग इति तदिदमुन्मानम् । आराग्रादुद्धृतं मानमाराग्रमात्रमिति ॥ २२ ॥
सूत्रान्तरमवतारयितुं चोदयति
नन्वणुत्वे सतीति ।
अणुरात्मा न शरीरव्यापीति न सर्वाङ्गीणशैत्योपलब्धिः स्यादित्यर्थः ।
अविरोधश्चन्दनवत् ।
त्वक्संयुक्तो हि जीवः त्वक्च सकलशरीरव्यापिनीति त्वग्व्याप्यात्मसम्बन्धः सकलशैत्योपलब्धौ समर्थ इत्यर्थः ॥ २३ ॥
अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ।
चन्दनबिन्दोः प्रत्यक्षतोऽल्पीयस्त्वं बुद्ध्वा युक्ता कल्पना भवति, यस्य तु सन्दिग्धमणुत्वं सर्वाङ्गीणं च कार्यमुपलभ्यते तस्य व्यापित्वमौत्सर्गिकमपहाय नेयं कल्पनावकाशं लभत इति शङ्कार्थः । नच हरिचन्दनबिन्दुदृष्टान्तेनाणत्वानुमानं जीवस्य, प्रतिदृष्टान्तसम्भवेनानैकान्तिकत्वादित्याह
न चात्रानुमानमिति ।
शङ्कामिमामपाकरोति
अत्रोच्यत इति ।
यद्यपि पूर्वोक्ताभिः श्रुतिभिरणुत्वं सिद्धमात्मनस्तथापि वैभवाच्छ्रुत्यन्तरमुपन्यस्तम् ॥ २४ ॥
गुणाद्वा लोकवत् ।
ये तु सावयवत्वाच्चन्दनबिन्दोरणुसञ्चारेण देहव्याप्तिरुपपद्यते न त्वात्मनोऽनवयवस्याणुसञ्चारः सम्भवी, तस्माद्वैषम्यमिति मन्यन्ते तान् प्रतीदमुच्यते गुणाद्वा लोकवदिति । तद्विभजते
चैतन्य इति ।
यद्यप्यणुर्जीवस्तथापि तद्गुणश्चैतन्यं सकलदेहव्यापि । यथा प्रदीपस्याल्पत्वेऽपि तद्गुणः प्रभासकलगृहोदरव्यापिनीति ॥ २५ ॥
एतदपि शङ्काद्वारेण दूषयित्वा दृष्टान्तान्तरमाह
व्यतिरेको गन्धवत् ।
अक्षीयमाणमपि तदिति ।
क्षयस्यातिसूक्ष्मतयानुपलभ्यमानक्षयमिति शङ्कते
स्यादेतदिति ।
विश्लिष्टानामल्पत्वादित्युपलक्षणं, द्रव्यान्तरपरमाणूनामनुप्रवेशादित्यपि द्रष्टव्यम् । विश्लेषानुप्रवेशाभ्यां च सन्नपि विश्लेषः सूक्ष्मत्वान्नोपलक्ष्यते इति । निराकरोति
न ।
कुतः ।
अतीन्द्रियत्वादिति ।
परमाणूनां परमसूक्ष्मत्वात्तद्गतरूपादिवद्गन्धोऽपि नोपलभ्येत । उपलभ्यमानो वा सूक्ष्म उपलभ्येत न स्थूल इत्यर्थः । शेषमतिरोहितार्थम् ॥ २६ ॥
तथा च दर्शयति । ॥ २७ ॥
पृथगुपदेशात् ।
निगदव्याख्यातमस्य भाष्यम् ॥ २८ ॥
तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ।
कण्टकतोदनेऽपीति ।
महदल्पयोः संयोगोऽल्पमवरुणद्धि न महान्तं, न जातु घटकरकादिसंयोगा नभसो नभो व्यश्नुवतेऽपित्वल्पानेव घटकरकादीन् , इतरथा यत्र नभस्तत्र सर्वत्र घटकरकाद्युपलम्भ इति, तेऽपि नभःपरिमाणाः प्रसज्येरन्निति । न चाणोर्जीवस्य सकलशरीरगता वेदनोपपद्यते । यद्यप्यन्तःकरणमणु तथापि तस्य त्वचा सम्बद्धत्वात्त्वचश्च समस्तशरीरव्यापित्वादेकदेशेऽप्यधिष्ठिता त्वगधिष्ठितैवेति शरीरव्यापी जीवः शक्नोति सर्वाङ्गीणं शैत्यमनुभवितुं त्वगिन्द्रियेण गङ्गायाम् । अणुस्तु जीवो यत्रास्ति तस्मिन्नेव शरीरप्रदेशे तदनुभवेन्न सर्वाङ्गीणं, तस्यासर्वाङ्गीणत्वात् । कण्टकतोदनस्य तु प्रादेशिकतया न सर्वाङ्गीणोपलब्धिरिति वैषम्यम् ।
गुणत्वमेव हीति ।
इदमेव हि गुणानां गुणत्वं यद्द्रव्यदेशत्वम् । अत एव हि हेमन्ते विषक्तावयवाप्यद्रव्यगतेऽतिसान्द्रे शीतस्पर्शेऽनुभूयमानेप्यनुद्भूतं रूपं नोपलभ्यते यथा, तथा मृगमदादीनां गन्धवाहविप्रकीर्णसूक्ष्मावयवानामतिसान्द्रे गन्धेऽनुभूयमाने रूपस्पर्शौ नानुभूयेते तत्कस्य हेतोः, अनुद्भूतत्वात्तयोर्गन्धस्य चोद्भूतत्वादिति । नच द्रव्यस्य प्रक्षयप्रसङ्गः, द्रव्यान्तरावयवपूरणात् । अत एव कालपरिवासवशादस्य हतगन्धितोपलभ्यते । अपिच चैतन्यं नाम न गुणो जीवस्य गुणिनः, किन्तु स्वभावः । नच स्वभावस्य व्यापित्वे भावस्याव्यापित्वं, तत्त्वप्रच्युतेरित्याह
यदि च चैतन्यमिति ।
तदेवं श्रुतिस्मृतीतिहासपुराणसिद्धे जीवस्याविकारितया परमात्मत्वे, तथा श्रुत्यादितः परममहत्त्वे च, या नामाणुत्वश्रुतयस्तास्तदनुरोधेन बुद्धिगुणसारतया व्याख्येया इत्याह
तद्गुणसारत्वादिति ।
तद्व्याचष्टे
तस्या बुद्धेरिति ।
आत्मना स्वसम्बन्धिन्या बुद्धेरुपस्थापितत्वात्तदा परामर्शः । नहि शुद्धबुद्धमुक्तस्वभावस्यात्मनस्तत्त्वं संसारिभिरनुभूयते । अपितु योऽयं मिथ्याज्ञानद्वेषाद्यनुषक्तः स एव प्रत्यात्ममनुभवगोचरः । नच ब्रह्मस्वभावस्य जीवात्मनः कूटस्थनित्यस्य स्वतः इच्छाद्वेषानुषङ्गसम्भव इति बुद्धिगुणानां तेषां तदभेदाध्यासेन तद्धर्मत्वाध्यासः, उदशरावाध्यस्तस्येव चन्द्रमसो बिम्बस्य तोयकम्पे कम्पवत्त्वाध्यास इत्युपपादितमध्यासभाष्ये । तथाच बुद्ध्याद्युपाधिकृतमस्य जीवत्वमिति बुद्धेरन्तःकरणस्याणुतया सोऽप्यणुव्यपदेशभाग्भवति, नभ इव करकोपहितं करकपरिमाणम् । तथा चोत्क्रान्त्यादीनामुपपत्तिरिति । निगदव्याख्यातमितरत् । प्रायणेऽसत्त्वमसंसारित्वं वा, ततश्च कृतविप्रणाशाकृताभ्यागमप्रसङ्गः ॥ २९ ॥
यावदात्मभावित्वात्तु न दोषस्तद्दर्शनात् ।
यावत्संसार्यात्मभावित्वादित्यर्थः ।
समानः सन्निति ।
बुद्ध्या समानः तद्गुणसारत्वादिति ।
अपिच मिथ्याज्ञानेति ।
न केवलं यावत्संसार्यात्मभावित्वमागमतः, उपपत्तितश्चेत्यर्थः ।
आदित्यवर्णमिति ।
प्रकाशरूपमित्यर्थः ।
तमस इति ।
अविद्याया इत्यर्थः । तमेव विदित्वा साक्षात्कृत्य मृत्युमविद्यामत्येतीति योजना ॥ ३० ॥
अनुशयबीजं पूर्वपक्षी प्रकटयति
ननु सुषुप्तप्रलययोरिति ।
सतापरमात्मना ।
अनुशयबीजपरिहारः अत्रोच्यते
पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ।
निगदव्याख्यातमस्य भाष्यम् ॥ ३१ ॥
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोन्यतरनियमो वान्यथा ।
स्यादेतत् । अन्तःकरणेऽपि सति तस्य नित्यसंनिधानात्कस्मान्नित्योपलब्ध्यनुपलब्धी न प्रसज्येते । अथादृष्टविपाककादाचित्कत्वात्सामर्त्यप्रतिबन्धाप्रतिबन्धाभ्यामन्तःकरणस्य नायं प्रसङ्गः । तावसत्येवान्तःकरणे आत्मनो वेन्द्रियाणां वा स्तां, तत्किमन्तर्गडुनान्तःकरणेनेति चोदयति
अथवान्यतरस्यात्मन इति ।
अथवेति सिद्धान्तं निवर्तयति । सिद्धान्ती ब्रूते
न चात्मन इति ।
अवधानं खल्वनुवुभूषा शुश्रूषा वा । न चैते आत्मनो धर्मौ, तस्याविक्रियत्वात् । न चेन्द्रियाणाम् , एकैकेन्द्रियव्यतिरेकेऽप्यन्धादीनां दर्शनात् । नच ते आन्तरत्वेनानुभूयमाने बाह्ये सम्भवतः । तस्मादस्ति तदान्तरं किमपि । यस्य चैते तदन्तःकरणम् । तदिदमुक्तम्
यस्यावधानेति ।
अत्रैवार्थे श्रुतिं दर्शयति
तथा चेति ॥ ३२ ॥
कर्ता शास्त्रार्थवत्त्वात् ।
ननु “तद्गुणसारत्वात्”(ब्र. सू. २ । ३ । २९) इत्यनेनैव जीवस्य कर्तृत्वं भोक्तृत्वं च लब्धमेवेति तद्व्युत्पादनमनर्थकमित्यत आह
तद्गुणसारत्वाधिकारेणेति ।
तस्यैवैष प्रपञ्चो ये पश्यन्त्यात्मा भोक्तैव न कर्तेति तन्निराकरणार्थः । “शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्”(अ. ३ पा. ७ सू. १८) इत्याह स्म भगवान् जैमिनिः । प्रयोक्तर्यनुष्ठातरि । कर्तरीति यावत् । शास्त्रफलं स्वर्गादि । कुतः । प्रयोक्तृफलसाधनतालक्षणत्वात्शास्त्रस्य विधेः । कर्त्रपेक्षितोपायता हि विधिः । बुद्धिश्चेत्कर्त्री भोक्ता चात्मा ततो यस्यापेक्षितोपायो भोक्तुन तस्य कर्तृत्वं यस्य कर्तृत्वं नच तस्यापेक्षितोपाय इति किं केन सङ्गतमिति शास्त्रस्यानर्थकत्वमविद्यमानाभिधेयत्वं तथा चाप्रयोजनकत्वं स्यात् । यथा च तद्गुणसारतयास्यावस्तुसदपि भोक्तृत्वं सांव्यवहारिकमेवं कर्तृत्वमपि सांव्यवहारिकं न तु भाविकम् । अविद्यावद्विषयत्वं च शास्त्रस्योपपादितमध्यासभाष्य इति सर्वमवदातम् ॥ ३३ ॥
विहारोपदेशात् ।
विहारः सञ्चारः क्रिया, तत्र स्वातन्त्र्यं नाकर्तुः सम्भवति । तस्मादपि कर्ता जीवः ॥ ३४ ॥
उपादानात् ।
तदेतेषां प्राणानामिन्द्रियाणां विज्ञानेन बुद्ध्या विज्ञानं ग्रहणशक्तिमादायोपादायेत्युपादाने स्वातन्त्र्यं नाकर्तुः सम्भवति ॥ ३५ ॥
व्यपदेशाच्च क्रियायां चेन्निर्देशविपर्ययः ।
अभ्युच्चयमात्रमेतन्न सम्यगुपपत्तिः । विज्ञानं कर्तृ यज्ञं तनुते । सर्वत्र हि बुद्धिः करणरूपा करणत्वेनैव व्यपदिश्यते न कर्तृत्वेन, इह तु कर्तृत्वेन, तस्या व्यपदेशे विपर्ययः स्यात् । तस्मादात्मैव विज्ञानमिति व्यपदिष्टः । तेन कर्तेति ॥ ३६ ॥
सूत्रान्तरमवतारयितुं चोदयति
अत्राह यदीति ।
प्रज्ञावान् स्वतन्त्र इष्टमोवात्मनः सम्पादयेन्नानिष्टम् । अनिष्टसम्पत्तिरप्यस्योपलभ्यते । तस्मान्न स्वतन्त्रस्तथा च न कर्ता । तल्लक्षणत्वात्तस्येत्यर्थः ।
अस्योत्तरम्
उपलब्धिवदनियमः ।
करणादीनि कारकान्तराणि कर्ता प्रयुङ्क्ते न त्वयं कारकान्तरैः प्रयुज्यत इत्येतावन्मात्रमस्य स्वातन्त्र्यं न तु कार्यक्रियायां न कारकान्तराण्यपेक्षत इति । ईदृशं हि स्वातन्त्र्यं नेश्वरस्याप्यत्रभवतोऽस्तीत्युत्सन्नसङ्कथः कर्ता स्यात् । तथा चायमदृष्टपरिपाकवशादिष्टमभिप्रेप्सुस्तत्साधनविभ्रमेणानिष्टोपायं व्यापारयन्ननिष्टं प्राप्नुयादित्यनियमः कर्तृत्वं चेति न विरोधः ।
विषयप्रकल्पनमात्रप्रयोजनत्वादिति ।
नित्यचैतन्यस्वभावस्य खल्वात्मन इन्द्रियादीनि करणानि स्वविषयमुपनयन्ति, तेन विषयावच्छिन्नमेव चैतन्यं वृत्तिरिति विज्ञानमिति चाख्यायते, तत्र चास्यास्ति स्वातन्त्र्यमित्यर्थः ॥ ३७ ॥
शक्तिविपर्ययात् ।
पूर्वं कारणकविभक्तिविपर्यय उक्तः । सम्प्रति कारकशक्तिविपर्यय इत्यपुनरुक्तम् । अविपर्ययाय तु करणान्तरकल्पनायां नाम्नि विसंवाद इति ॥ ३८ ॥
समाध्यभावाच्च ।
समाधिरिति संयममुपलक्षयति । धारणाध्यानसमाधयो हि संयमपदवेदनीयाः । यथाहुः “त्रयमेकत्र संयमः”(यो.सू. ३-४) इति । अत्र श्रोतव्यो मन्तव्य इति धारणोपदेशः । निदिध्यासितव्य इति ध्यानोपदेशः । द्रष्टव्य इति समाधेरुपदेशः । यथाहुः “तदेव ध्यानमर्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः” इति । सोऽयमिह कर्तात्मा समाधावुपदिश्यमान आत्मनः कर्तृत्वमवैतीति सूत्रार्थः ॥ ३९ ॥
यथा च तक्षोभयथा ।
अवान्तरसङ्गतिमाह
एवं तावदिति ।
विमृशति
तत्पुनरिति ।
पूर्वपक्षं गृह्णाति
तत्रेति ।
शास्त्रार्थवत्त्वादयो हि हेतव आत्मनः कर्तृत्वमापादयन्ति । नच स्वाभाविके कर्तृत्वे सम्भवत्यसत्यपवादे तदौपाधिकं युक्तमतिप्रसङ्गात् । नच मुक्त्यभावप्रसङ्गोऽस्यापवादकः, यथा ज्ञानस्वभावो ज्ञेयाभावेऽपि नाज्ञो भवत्येवं कर्तृस्वभावोऽपि क्रियावेशाभावेऽपि नाकर्ता । तस्मात्स्वाभाविकमेवास्य कर्तृत्वमिति प्राप्तेऽभिधीयते । नित्यशुद्धबुद्धमुक्तस्वभावं हि ब्रह्म भूयोभूयः श्रूयते । तदस्य बुद्धत्वमसत्यपि बोद्धव्ये युक्तं, वह्नेरिवासत्यपि दाह्ये दग्धृत्वं, तच्छीलस्य तस्यावगमात् । कर्तृत्वं त्वस्य क्रियावेशादवगन्तव्यम् । नच नित्योदासीनस्य कूटस्थस्य नित्यस्यासकृच्छुतस्य सम्भवति, तस्य च कदाचिदप्यसंसर्गे कथं तच्छक्तियोगो निर्विषयायाः शक्तेरसम्भवात् तथाच यदि तत्सिध्यर्थं तद्विषमः क्रियावेशोऽभ्युपेयते तथा सति तत्स्वभावस्य स्वभावोच्छेदाभावाद्भावनाशप्रसङ्गः, नच मुक्तस्यास्ति क्रियायोग इति । क्रियाया दुःखत्वान्न विगलितसकलदुःखपरमानन्दावस्था मोक्षः स्यादित्याशयवानाह
न स्वाभाविकं कर्तृत्वमात्मन इति ।
अभिप्रायमबुध्वा चोदयति
ननु स्थितायामपीति ।
परिहरति
न । निमित्तानामपीति ।
शक्तशक्याश्रया शक्तिः स्वसत्तयावश्यं शक्यमाक्षिपति । तथाच तयाक्षिप्तं शक्यं सदैव स्यादिति भावः । चोदयति
ननु मोक्षसाधनविधानादिति ।
परिहरति
न । साधनायत्तस्येति ।
अस्माकं तु न मोक्षः साध्यः, अपितु ब्रह्मस्वरूपं तच्च नित्यमिति । उक्तमभिप्रायमाविष्करोति
अपिच नित्यशुद्ध इति ।
चोदयति
पर एव तर्हि संसारीति ।
अयमर्थःपरश्चेत्संसारी तस्याविद्यप्रविलये मुक्तौ सर्वे मुच्येरन्नविशेषात् । ततश्च सर्वसंसारोच्छेदप्रसङ्गः । परस्मादन्यश्चेत्स बुद्ध्यादिसङ्घात एवेति, तस्यैव तर्हि मुक्तिसंसारौ नात्मन इति । परिहरति
न । अविद्याप्रत्युपस्थापितत्वादिति ।
न परमात्मनो मुक्तिसंसारौ, तस्य नित्यमुक्तत्वात् । नापि बुद्ध्यादिसङ्घातस्य, तस्याचेतनत्वात् । अपि त्वविद्योपस्थापितानां बुद्ध्यादिसङ्घातानां भेदात्तत्तद्बुद्ध्यादिसङ्घातभेदोपधान आत्मैकोऽपि भिन्न इव विशुद्धोऽप्यविशुद्ध इव ततश्चैकबुद्ध्यादिसङ्घातापगमे तत्र मुक्त इवेतरत्र बद्ध इव यथा मणिकृपाणाद्युपधानभेदादेकमेव मुखं नानेव दीर्घमिव वृत्तमिव श्याममिवावदातमिव अन्यतमोपधानविगमे तत्र मुक्तमिवान्यत्रोपहितमिवेति नैकमुक्तौ सर्वमुक्तिप्रसङ्गः । तस्मान्न परमात्मनो मोक्षसंसारौ, नापि बुद्ध्यादिसङ्घातस्य किन्तु बुद्ध्याद्युपहितस्यात्मस्वभावस्य जीवभावमापन्नस्येति परमार्थः । अत्रैवान्वयव्यतिरेकौ श्रुतिभिरादर्शयति
तथाचेति ।
इतश्चौपाधिकं यदुपाध्यभिभवोद्भवाभ्यामस्याभिभवोद्भवौ दर्शयति श्रुतिरित्याह
तथा स्वप्नजागरितयोरिति ।
अत्रैवार्थे सूत्रं व्याचष्टे
तदेतदाहेति ।
सम्प्रसादः सुषुप्तिः । स्यादेतत् । तक्ष्णः पाण्यादयः सन्ति तैरयं वास्यादीन् व्यापारयन् भवतु दुःखी, परमात्मा त्वनवयवः केन मनःप्रभृतीनि व्यापारयेदिति वैषम्यं तक्ष्णो दृष्टान्तेनेत्यत आह
तक्षदृष्टान्तश्चेति ।
यथा स्वशरीरेणोदासीनस्तक्षा सुखी, वास्यादीनि तु करणानि व्यापारयन् दुःखी, तथा स्वात्मनात्मोदासीनः सुखी, मनःप्रभृतीनि तु करणादीनि व्यापारयन् दुःखीत्येतावतास्य साम्यं न तु सर्वथा । यथात्मा च जीवोऽवयवान्तरानपेक्षः स्वशरीरं व्यापारयत्येवं मनःप्रभृतीनि तु करणान्तराणि व्यापारयतीति प्रमाणसिद्धे नियोगपर्यनुयोगानुपपत्तिः । पूर्वपक्षहेतूननुभाष्य दूषयति
यत्तूक्तमिति ।
यत्परं हि शास्त्रं स एव शास्त्रार्थः । कर्त्रपेक्षितोपायभावनापरं तन्न कर्तृस्वरूपपरम् । तेन यथालोकसिद्धं कर्तारमपेक्ष्य स्वविषये प्रवर्तमानं न पुंसः स्वाभाविकं कर्तृत्वमवगमयितुमुत्सहते, तस्मात्तत्त्वमसीत्याद्युपदेशविरोधादविद्याकृतं तदवतिष्ठते । चोदयति
ननु सन्ध्ये स्थान इति ।
औपाधिकं हि कर्तृत्वं नोपाध्यपगमे सम्भवतीति स्वाभाविकमेव युज्यत इत्यर्थः । अपिच यत्रापि करणमस्ति तत्रापि केवलस्यात्मनः कर्तृत्वश्रवणात्स्वाभाविकमेव युक्तमित्याह
तथोपादानेऽपीति ।
तदेतत्परिहरति
न तावत्सन्ध्य इति ।
उपाध्यपगमोऽसिद्धोऽन्तःकरणस्योपाधेः सन्ध्येऽप्यवस्थानादित्यर्थः ।
अपिच स्वप्ने यादृशं ज्ञानं तादृशो विहारोऽपीत्याह
विहारोऽपि च तत्रेति ।
तथोपादानेऽपीति ।
यद्यपि कर्तृविभक्तिः केवले कर्तरि श्रूयते तथापि कर्मकरणोपधानकृतमस्य कर्तृत्वं न शुद्धस्य, नहि परशुसहायश्छेत्ता केवलश्छेत्ता भवति । ननु यदि न केवलस्य कर्तृत्वमपि तु करणादिसहितस्यैव, तथा सति करणादिष्वपि कर्तृविभक्तिः स्यात् । न चैतदस्तीत्याह
भवति न लोक इति ।
करणादिष्वपि कर्तृविभक्तिः कदाचिदस्त्येव विवक्षावशादित्यर्थः । अपि चेयमुपादानश्रुतिः करणव्यापारोपरममात्रपरा न स्वातन्त्र्यपरा कर्तृविभक्तिस्तु भाक्ती । कूलं पिपतिषतीतिवदबुद्धिपूर्वकस्य करणव्यापारोपरमस्य दृष्टत्वादित्याह
अपिचास्मिन्नुपादान इति ।
यस्त्वयं व्यपदेश इति यत्तदुक्तमस्माभिरभ्युच्चयमात्रमेतमिति तदितः समुत्थितम् ।
सर्वकारकाणामेवेति ।
विक्लिद्यन्ति तण्डुला ज्वलन्ति काष्ठानि बिभर्त्ति स्थालीति हि स्वव्यापारे सर्वेषां, कर्तृत्वं, तत्किं बुद्ध्यादीनां कर्तृत्वमेव न करणत्वमित्यत आह
उपलब्ध्यपेक्षं त्वेषां करणत्वम् ।
नन्वेवं सति तस्यामेवात्मनः स्वाभाविकं कर्तृत्वमस्त्वित्यत आह
नच तस्यामुलब्धावप्यस्य स्वाभाविककर्तृत्वमस्ति कस्मात् नित्योपलब्धिस्वरूपत्वात् आत्मनः ।
नहि नित्ये स्वभावे चास्ति भावस्य व्यापार इत्यर्थः । तदेवं नास्योपलब्धौ स्वाभाविकं कर्तृत्वमस्तीत्युक्तम् । नापि बुद्ध्यादेरुपलब्धिकर्तृत्वमात्मन्यध्यस्तं यथा तद्गतमध्यवसायादिकर्तृत्वमित्याह
अहङ्कारपूर्वकमपि कर्तृत्वं नोपलब्धुर्भवितुमर्हति ।
कुतः ।
अहङ्कारस्याप्युपलभ्यमानत्वात् ।
नहि शरीरादि यस्यां क्रियायां गम्यं तस्यामेव गन्तृ भवति । एतदुक्तं भवति यदि बुद्धिरुपलब्ध्री भवेत् , ततस्तस्या उपलब्धृत्वमात्मन्यध्यवस्येत । न चैतदस्ति । तस्या जडत्वेनोपलभ्यमानतयोपलब्धिकर्तृत्वानुपपत्तेः । यदा चौपलब्धौ बुद्धेरकर्तृत्वं तदा यदुक्तं बुद्धेरुपलब्धृत्वे करणान्तरं कल्पनीयं, तथाच नाममात्रे विसंवाद इति तन्न भवतीत्याह
न चैवं सति करणान्तरकल्पना ; बुद्धेरुपलब्धृत्वाभावात् ।
तत्किमिदानीमकरणं बुद्धिरुपलब्धावात्मा चानुपलब्धेत्यत आह
बुद्धे करणत्वाभ्युपगमात् ।
अयमभिसन्धिःचैतन्यमुपलब्धिरात्मस्वभावो नित्य इति न तत्रात्मनः कर्तृत्वं, नापि बुद्धेः करणत्वं, किन्तु चैतन्यमेव विषयावच्छिन्नं वृत्तिरिति चोपलब्धिरिति चाख्यायते । तस्य तु तत्तद्विषयावच्छेदे वृत्तौ बुद्ध्यादीनां करणत्वमात्मनश्च तदुपधानेनाहङ्कारपूर्वकं कर्तृत्वं युज्यत इति ॥ ४० ॥
परात्तु तच्छ्रुतेः ।
यदेतज्जीवानामौपाधिकं कर्तृत्वं तत्प्रवर्तनालक्षणेषु रागादिषु सत्सु नेश्वरमपरं प्रवर्तकं कल्पयितुमर्हति, अतिप्रसङ्गात् । नचेश्वरो द्वेषपक्षपातरहितो जीवान् साध्वसाधुनि कर्मणि प्रवर्तयितुमर्हति, येन धर्माधर्मापेक्षया जगद्वैचित्र्यमापद्येत । स हि स्वतन्त्रः कारुणिको धर्म एव जन्तून् प्रवर्तयेन्नाधर्मे । ततश्च तत्प्रेरिता जन्तवः सर्वे धार्मिका एवेति सुखिन एव स्युर्न दुःखिनः । स्वतन्त्रास्तु रागादिप्रयुक्ताः प्रवर्तमाना धर्माधर्मप्रचयवन्तो वैचित्र्यमनुभवन्तीति युक्तम् । एवंच विधिनिषेधयोरर्थवत्त्वमितरथा तु सर्वथा जीवा अस्वतन्त्रा इतीश्वरेणैव प्रवर्त्यन्त इति कृतं विधिनिषेधाभ्याम् । नहि बलवदनिलसलिलौघनुद्यमानं प्रत्युपदेशोऽर्थवान् । तस्मात् “एष ह्येव साधु कर्म कारयति”(कौ . ब्रा. ३ । ८)“एष ह्येव साधु कर्म कारयति”(कौ . ब्रा. ३ । ८) इत्यादयः श्रुतयः समस्तविधिनिषेधश्रुतिविरोधाल्लोकविरोधाच्चैश्वर्यप्रशंसापरतया नेया इति प्राप्तेऽभिधीयते । “एष ह्येव साधु कर्म कारयति” इत्यादयस्तावच्छछ्रुतयः सर्वव्यापारेषु जन्तूनामीश्वरतन्त्रतामाहुः, तदसति प्रतिबन्धके न प्रशंसापरतया व्याख्यातुमुचितम् । नच श्रुतिसिद्धस्य कल्पनीयता, येन प्रवर्तकेषु रागादिषु सत्सु तत्कल्पना विरुध्येत । न चेश्वरतन्त्रत्वे धर्म एव जन्तूनां प्रवृत्तेः सुखित्वमेव न वैचित्र्यमिति युक्तम् । यद्यप्ययमीश्वरो वीतरागस्तथापि पूर्वपूर्वजन्तुकर्मापेक्षय जन्तून् धर्माधर्मयोः प्रवर्तयन्न द्वेषपक्षपाताभ्यां विषमः । नापि निर्घृणः । नच कर्मप्रचयस्यादिरस्त्यनादित्वात्संसारस्य । न चेश्वरतन्त्रस्य कृतं विधिनिषेधाभ्यामिति साम्प्रतम् । नहीश्वरः प्रबलतरपवन इव जन्तून् प्रवर्तयत्यपि तु तच्चैतन्यमनुरुध्यमानो रागाद्युपहारमुखेन । एवं चेष्टानिष्टप्राप्तिपरिहारार्थिनो विधिनिषेधावर्थवन्तौ भवतः । तदनेनाभिसन्धिनोक्तम्
परायत्तेऽपि हि कर्तृत्वे करोत्येव जीव इति ।
तस्माद्विधिनिषेधशास्त्राविरोधाल्लोकस्य स्थूलदर्शित्वात् “एष ह्येव साधु कर्म कारयति”(कौ . ब्रा. ३ । ८)इत्यादिश्रुतेः । “अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥”(भारत.व. ३०-२८) इति स्मृतेश्चेश्वरतन्त्राणामेव जन्तूनां कर्तृत्वं, न तु स्वतन्त्राणामिति सिद्धम् । ईश्वर एव विधिनिषेधयोस्थाने नियुज्येत यद्विधिनिषेधयोः फलं तदीश्वरेण तत्प्रतिपादितधर्माधर्मनिरपेक्षेण कृतमिति विधिनिषेधयोरानर्थक्यम् । न केवलमानर्थक्यं विपरीतं चापद्येत इत्याह
तथा विहितकारिणमिति ।
पूर्वोक्तश्च दोषः कृतनाशाकृताभ्यागमः प्रसज्येत । अतिरोहितार्थमन्यत् ॥ ४१ ॥
कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः । ॥ ४२ ॥
अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ।
अवान्तरसङ्गतिमाह
जीवेश्वरयोरिति ।
उपकार्योपकारकभावःप्रयोज्यप्रयोजकभावः । अत्रापाततो विनिगमनाहेतोरभावादनियमो निश्चय इत्युक्तः । निश्चयहेत्वाभासदर्शनेन भेदपक्षमालम्ब्याह
अथवेति ।
ईशितव्येशितृभावश्चान्वेष्यान्वेष्टृभावश्च ज्ञेयज्ञातृभावश्च नियम्यनियन्तृभावश्चाधाराधेयभावश्च न जीवपरमात्मनोरभेदेऽवकल्प्यते । न च “ब्रह्मदाशा ब्रह्मकितवाः” इत्याद्याश्च श्रुतयो दाशा ब्रह्म कितवा ब्रह्मेत्यादिप्रतिपादनपरा जीवानां ब्रह्मणो भेदेऽवकल्प्यन्ते । न चैताभिर्भेदाभेदप्रतिपादनपराभिः श्रुतिभिः साक्षादंशत्वप्रतिपादकाच्च मन्त्रवर्णात् “पादोऽस्य विश्वा भूतानि”(ऋ० १० . ९० . ३) इत्यादेः, स्मृतेश्च “ममैवांशः”(भ.गी. १५-७) इत्यादेर्जीवानामीश्वरांशत्वसिद्दिः । निरतिशयोपाधिसम्पदा च विभूतियोगेनेश्वरः स्वांशानामपि निकृष्टोपाधीनामीष्ट इति युज्यते । नहि तावदनवयवेश्वरस्य जीवा भवितुमर्हन्त्यंशाः । अपिच जीवानां ब्रह्मांशत्वे तद्गता वेदना ब्रह्मणो भवेत् । पादादिगता इव वेदना देवदत्तस्य । ततश्च ब्रह्मभूयङ्गतस्य समस्तजीवगतवेदनानुभवप्रसङ्ग इति वरं संसार एव मुक्तेः । तत्र हि स्वगतवेदनामात्रामनुभवान्न भूरि दुःखमनुभवति । मुक्तस्तु सर्वजीववेदनाभागिति प्रयत्नेन मुक्तिरनर्थबहुलतया परिहर्तव्या स्यादिति । तथा भेदाभेदयोः परस्परविरोधिनोरेकत्रासम्भवान्नांशत्वं जीवानाम् । नच ब्रह्मैव सदसन्तस्तु जीवा इति युक्तं, सुखदुःखमुक्तिसंसारव्यवस्थाभावप्रसङ्गादनुज्ञापरिहाराभावप्रसङ्गाच्च । तस्माज्जीवा एव परमार्थसन्तो न ब्रह्मैकमद्वयम् । अद्वैतश्रुतयस्तु जातिदेशकालाभेदनिमित्तोपचारादिति प्राप्तेऽभिधीयते - अनधिगतार्थावबोधनानि प्रमाणानि विशेषतः शब्दः । तत्र भेदो लोकसिद्धत्वान्न शब्देन प्रतिपाद्यः । अभेदस्त्वनधिगतत्वादधिगतभेदानुवादेन प्रतिपादनमर्हति । येन च वाक्यमुपक्रम्यते मध्ये च परामृश्यते अन्ते चोपसंह्रियते तत्रैव तस्य तात्पर्यम् । उपनिषदश्चाद्वैतोपक्रमतत्परामर्शतदुपसंहारा अद्वैतपरा एव युज्यन्ते । नच यत्परास्तदौपचारिकं युक्तम् , अभ्यासे हि भूयस्त्वमर्थस्य भवति नाल्पत्वमपि प्रागेवोपचरितत्वमित्युक्तम् । तस्माद्द्वैते भाविके स्थिते जीवभावस्तस्य ब्रह्मणोऽनाद्यनिर्वचनीयाविद्योपधानभेदादेकस्यैव बिम्बस्य दर्पणाद्युपाधिभेदात्प्रतिबिम्बभेदाः । एवं चानुज्ञापरिहारौ लौकिकवैदिकौ सुखदुःखमुक्तिसंसारव्यवस्था चोपपद्येत । नच मोक्षस्यानर्थबहुलता, यतः प्रतिबिम्बानामिव श्यामतावदाततादिर्जीवानामेव नानावेदनाभिसम्बन्धो ब्रह्मणस्तु बिम्बस्येव न तदभिसम्बन्धः । यथाच दर्पणापनये तत्प्रतिबिम्बं बिम्बभावेऽवतिष्ठते न कृपाणे प्रतिबिम्बितमपि । एवमविद्योपधानविगमे जीवे ब्रह्मभाव इति सिद्धं जीवो ब्रह्मांश इव तत्तन्त्रतया न त्वंश इति तात्पर्यार्थः ॥ ४३ ॥
मन्त्रवर्णाच्च । ॥ ४४ ॥
अपि च स्मर्यते । ॥ ४५ ॥
प्रकाशादिवन्नैवं परः । ॥ ४६ ॥
स्मरन्ति च ।
सप्तदशसङ्ख्यापरिमितो राशिर्गणः सप्तदशकः । तद्यथा बुद्धिकर्मेन्द्रियाणि बाह्यानि दश बुद्धिमनसी वृत्तिभेदमात्रेण भिन्ने अप्येकीकृत्यैकमन्तःकरणं शरीरं पञ्च विषया इति सप्तदशको राशिः ॥ ४७ ॥
अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ।
अनुज्ञा विधिरभिमतो न तु प्रवृत्तप्रवर्तना । अपौरुषेये प्रवर्तयितुरभिप्रायानुरोधासम्भवात् । क्रत्वर्थायामग्नीषोमीयहिंसायां प्रवृत्तप्रवर्तनानुपपत्तेश्च । पुरुषार्थेऽपि नियमांशे प्रवृत्तेः
कः पुनर्देहसम्बन्ध इति ।
नहि कूटस्थनित्यस्यात्मनोपरिणामिनोऽस्ति देहेन संयोगः समवायो वान्यो वा कश्चित्सम्बन्धः सकलधर्मातिगत्वादित्यभिसन्धिः । उत्तरम्
देहादिरयं सङ्घातोऽहमेवेत्यात्मनि विपरीतप्रत्ययोत्पत्तिः ।
अयमर्थःसत्यं नास्ति कश्चिदात्मनो देहादिभिः पारमार्थिकः सम्बन्धः, किन्तु बुद्ध्यादिजनितात्मविषया विपरीता वृत्तिः ‘अहमेव देहादिसङ्घातः’ इत्येवंरूपा । अस्यां देहादिसङ्घात आत्मतादात्म्येन भासते । सोऽयं सांवृतस्तादात्म्यलक्षणः सम्बन्धो न पारमार्थिक इत्यर्थः । गूढाभिसन्धिश्चोदयति
सम्यग्दर्शिनस्तर्हीति ।
उत्तरं
न । तस्येति ।
यदि सूक्ष्मस्थूलदेहादिसङ्घातोऽविद्योपदर्शित एकमेवाद्वितीयं ब्रह्मास्मीति सम्यग्दर्शनमभिमतम् , अद्धा तद्वन्तं प्रति विधिनिषेधयोरानर्थक्यमेव । एतदेव विशदयति
हेयोपादेययोरिति ।
चोदको निगूढाभिसन्धिमाविष्करोति
शरीरव्यतिरेकदर्शिन एव ।
आमुष्मिकफलेषु कर्मसु दर्शपूर्णमासादिषु नियोज्यत्वमिति चोत्परिहरति
न । तत्संहतत्वाभिमानात् ।
एतद्विभजते
सत्यमिति ।
यो ह्यात्मनः षाट्कौशिकाद्देहादुपपत्त्याव्यतिरेकं वेद, न तु समस्तबुद्ध्यादिसङ्घातव्यतिरेकं, तस्यामुष्मिकफलेष्वाधिकारः । समस्तबुद्ध्यादिव्यतिरेकवेदिनस्तु कर्मभोक्तृत्वाभिमानरहितस्य नाधिकारः कर्मणि तथाच न यथेष्टचेष्टा, अभिमानविकलस्य तस्या अप्यभावादिति ॥ ४८ ॥
असन्ततेश्चाव्यतिकरः । ॥ ४९ ॥
आभास एव च ।
येषां तु साङ्ख्यानां वैशेषिकाणां वा सुखदुःखव्यवस्थां पारमार्थिकीमिच्छतां बहव आत्मानः सर्वगतास्तेषामेवैष व्यतिकरः प्राप्नोति । तत्र प्रश्नपूर्वकं साङ्ख्यान् प्रति व्यतिक्रमं तावदाह
कथमिति ।
यादृशस्तादृशो गुणसम्बन्धः सर्वान् पुरुषान् प्रत्यविशिष्ट इति तत्कृते सुखदुःखे सर्वान् प्रत्यविशिष्टे । नच कर्मनिबन्धना व्यवस्था, कर्मणः प्राकृतत्वेन प्रकृतेश्च साधारणत्वेनाव्यवस्थातादवस्थ्यात् । चोदयति
स्यादेतदिति ।
अयमर्थःन प्रधानं स्वविभूतीख्यापनाय प्रवर्तते, किन्तु पुरुषार्थम् । यं च पुरुषं प्रत्यनेन भोगापवर्गौ पुरुषार्थौ साधितौ तं प्रति समाप्ताधिकारतया निवर्तते पुरुषान्तरं तु प्रत्यसमाप्ताधिकारं प्रवर्तते । एवं च मुक्तसंसारिव्यवस्थोपपत्तेः सुखदुःखव्यवस्थापि भविष्यतीति निराकरोति
नहीति ।
सर्वेषां पुरुषाणां विभुत्वात्प्रधानस्य च साधारण्यादमुं पुरुषं प्रत्यनेनार्थः साधित इत्येतदेव नास्ति । तस्मात्प्रयोजनवशेन विना हेतुं व्यवस्थास्थेया । सा चायुक्ता हेत्वभावादित्यर्थः । भवतु साङ्ख्यानामव्यवस्था, प्रधानसमवायाददृष्टस्य, प्रधानस्य च साधारण्यात् । काणादादीनां त्वात्मसमवाय्यदृष्टं प्रत्यात्ममसाधारणं तत्कृतश्च मनसा सहात्मनः स्वस्वामिभावलक्षणः सम्बन्धोऽनादिरदृष्टभेदानामनादित्वात् , तथा चात्मनःसंयोगस्य साधारण्येऽपि स्वस्वामिभावस्यासाधारण्यादभिसन्ध्यादिव्यवस्थोपपद्यत एव । नच संयोगोऽपि साधारणः । नहि तस्य मनस आत्मान्तरैर्यः संयोगः स एव स्वामिनापि, आत्मसंयोगस्य प्रतिसंयोगभेदेन भेदात् । तस्मादात्मैकत्वस्यागमसिद्धत्वात् , व्यवस्थायाश्चैकत्वेऽप्युपपत्तेः, नानेकात्मकल्पना, गौरवादागमविरोधाच्च । अन्त्यविशेषवत्त्वेन च भेदकल्पनायामन्योन्याश्रयापत्तेः । भेदे हि तत्कल्पना ततश्च भेद इति । एतदेव काणादमतदूषणम् । भाष्यकृता तु प्रौढवादितया काणादान् प्रत्यप्यदृष्टानियमादित्यादीनि सूत्राणि योजितानि । साङ्ख्यमतदूषणपराण्येवेति तु रोचयन्ते केचित्तदास्तां तावत् ॥ ५० ॥
अदृष्टानियमात् । ॥ ५१ ॥
अभिसन्ध्यादिष्वपि चैवम् । ॥ ५२ ॥
प्रदेशादिति चेन्नान्तर्भावात् । ॥ ५३ ॥
इति श्रीवाचस्पतिमिश्रविरचिते भगवत्पादशारीरकभाष्यविभागे भामत्यां द्वितीयाध्यायस्य तृतीयः पादः ॥ ३ ॥
द्वितीयाध्याये चतुर्थः पादः ।
तथा प्राणाः ।
यद्यपि ब्रह्मवेदने सर्ववेदनप्रतिज्ञातादुपपादनश्रुतिविरोधाद्बहुतराद्वैतश्रुतिविरोधाच्च प्राणानां सर्गादौ सद्भावश्रुतिर्वियदमृतत्वादिश्रुतय इवान्यथा कथञ्चिन्नेतुमुचिता, तथाप्यन्यथानयनप्रकारमविद्वानन्यथानुपपद्यमानैकापि श्रुतिर्बह्वीरन्यथयेदिति मन्वानः पूर्वपक्षयति । अत्र चात्युच्चतया वियदधिकरणपूर्वपक्षहेतून् स्मारयति
तत्र तावदिति ।
शब्दैकप्रमाणसमधिगम्या हि महाभूतोत्पत्तिस्तस्या यत्र शब्दो निवर्तते तत्र तत्प्रमाणाभावेन तदभावः प्रतीयते । यथा चैत्यवन्दनतत्कर्मधर्मताया इत्यर्थः । अत्रापाततः श्रुतिविप्रतिपत्त्यानध्यवसायेन पूर्वपक्षयित्वाथवेत्यभिहितं पूर्वपक्षममवतारयति । अभिप्रायोऽस्य दर्शितः । “पानव्यापच्च तद्वत्”(जै. अ. ३.४.१५) इत्यत्राश्वप्रतिग्रहेष्ट्याद्यधिकरणपूर्वपक्षसूत्रार्थसादृश्यं तदा परामृष्टम् । राद्धान्तस्तु स्यादेतदेवं यदि सर्गादौ प्राणसद्भावश्रुतिरनन्यथासिद्धा भवेत् । अन्यथैव त्वेषा सिध्यति । अवान्तरप्रलये ह्यग्निसाधनानां सृष्टिर्वक्तव्येति तदर्थोऽसावुपक्रमः । तत्राधिकारिपुरुषः प्रजापतिरप्रनष्ट एव त्रैलोक्यमात्रं प्रलीनमतस्तदीयान् प्राणानपेक्ष्य सा श्रुतिरुपपन्नार्था । तस्माद्भूयसीनां श्रुतीनामनुग्रहाय सर्वविज्ञानप्रतिज्ञोपपत्त्यर्थस्य चोत्तरस्य सन्दर्भस्य गौणत्वे तु प्रतिज्ञातार्थानुगुण्याभावेनानपेक्षितार्थत्वप्रसङ्गात्प्राणा अपि नभोवद्ब्रह्मणो विकारा इति । नच चैत्यवन्दनादिवत्सर्वथा प्राणानामुत्पत्त्यश्रुतिः, क्वचित्खल्वेषामुत्पत्त्यश्रवणमुत्पत्तिश्रुतिस्तु तत्र तत्र दर्शिता । तस्माद्वैषम्यं चैत्यवन्दनपोषधादिभिरिति ।
गौण्यसम्भवात् ।
केचिद्वियदधिकरणव्याख्यानेन गौण्यसम्भवादिति सूत्रं व्याचक्षते । गौणी प्राणानामुत्पत्तिश्रुतिरसम्भवादुत्पत्तेरिति । तदयुक्तम् । विकल्पासहत्वात् । तथाहि प्राणानां जीववद्वाविकृतब्रह्मात्मतयानुपपत्तिः स्यात् , ब्रह्मणस्तत्त्वान्तरतया वा । न तावज्जीववदेषामविकृतब्रह्मात्मता, जडत्वात् । तस्मात्तत्त्वान्तरतयैषामनुत्पत्तिरास्थेया । तथाच ब्रह्मवेदनेन सर्ववेदनप्रतिज्ञाव्याहतिः, समस्तवेदान्तव्याकोपश्चेत्येतदाह
वियदधिकरणे हीति ॥ २ ॥
तत्प्राक्श्रुतेश्च ।
निगदव्याख्यातमस्य भाष्यम् ॥ ३ ॥
तत्पूर्वकत्वाद्वाचः ।
वाच इति वाक्प्राणमनसामुपलक्षणम् । अयमर्थः यत्रापि तेजःप्रभृतीनां सृष्टौ प्राणसृष्टिर्नोक्तेति ब्रूषे, तत्राप्युक्तेति ब्रूमहे । तथाहियस्मिन् प्रकरणेन तेजोबन्नपूर्वकत्वं वाक्प्राणमनसामाम्नायते “अन्नमयं हि”(छा. उ. ६ । ५ । ४) इत्यादिना, तद्यदि मुख्यार्थं ततस्तत्सामान्यात् सर्वेषामेव प्राणानां सृष्टिरुक्ता । अथ गौणं तथापि ब्रह्मकर्तृकायां नामरूपव्याक्रियायामुपक्रमोपसंहारपर्यालोचनया श्रुत्यन्तरप्रसिद्धेश्च ब्रह्मकार्यत्वप्रपञ्चार्थमेव प्राणादीनामापोमयत्वाद्यभिधानमित्युक्तैव तत्रापि प्राणसृष्टिरिति सिद्धम् ॥ ४ ॥
सप्त गतेर्विशेषितत्वाच्च ।
अवान्तरसङ्गतिमाह
उत्पत्तिविषय इति ।
संशयकारणमाह
श्रुतिविप्रतिषेधादिति ।
विशयः संशयः । क्वचित्सप्त प्राणाः । तद्यथा - चक्षुर्घ्राणरसनवाक्श्रोत्रमनस्त्वगिति । क्वचिदष्टौ प्राणा ग्रहत्वेन बन्धनेन गुणेन सङ्कीर्त्यन्ते । तद्यथा - घ्राणरसनवाक्चक्षुःश्रोत्रमनोहस्तत्वगिति, त एते ग्रहाः, एषां तु विषया अतिग्रहास्त्वष्टावेव “प्राणो वै ग्रहः सोऽपानेनातिग्रहेण गृहीतोऽपानेन हि गन्धान् जिघ्रति”(बृ. उ. ३ । २ । २) इत्यादिना सन्दर्भेणोक्ताः । क्वचिन्नव । तद्यथा - सप्त वै शीर्षण्याः प्राणाः द्वाववाञ्चाविति । द्वे श्रोत्रे द्वे चक्षुषी द्वे घ्राणे एका वागिति सप्त । पायूपस्थौ बुद्धिमनसी वा द्वाववाञ्चाविति नच । क्वचिद्दश । नव वै पुरुषे प्राणास्त उक्ता नाभिर्दशमीति । क्वचिदेकादश” दशेमे पुरुषे प्राणाः” । तद्यथा - बुद्धीन्द्रियाणि घ्राणादीनि पञ्च कर्मेन्द्रियाण्यपि हस्तादीनि पञ्च आत्मैकादश, आप्नोत्यधिष्ठानेनेत्यात्मा मनः स एकादश इति । क्वचिद्वादश । “सर्वेषां स्पर्शानां त्वगेकायनम्”(बृ. उ. ४ । ५ । १२) इत्यत्र । तद्यथा - त्वग्नासिकारसनचक्षुःश्रोत्रमनोहृदयहस्तपादोपस्थपायूवागिति । क्वचिदेत एव प्राणा अहङ्काराधिकास्त्रयोदश । एवं विप्रतिपन्नाः प्राणेयत्तां प्रति श्रुतयः । अत्र प्रश्नपूर्वं पूर्वपक्षं गृह्णाति
किं तावत्प्राप्तम् । सप्तैवेति ।
सप्तैव प्राणाः कुतः गतेः अवगतेः । श्रुतिभ्यः “सप्त प्राणाः प्रभवन्ति”(मु. उ. २ । १ । ८) इत्यादिभ्यः । न केवलं श्रुतितोऽवगतिः, विशेषणादप्येवमेवेत्याह
विशेषितत्वाच्च । सप्त वै शीर्षण्याः प्राणा इति ।
ये सप्त शीर्षण्याः श्रोत्रादयस्ते प्राणा इत्युक्ते इतरेषामशीर्षण्यानां हस्तादीनामप्राणत्वं गम्यते । यथा दक्षिणेनाक्ष्णा पश्यतीत्युक्ते वामेन न पश्यतीति गम्यते । एतदुक्तं भवति - यद्यपि श्रुतिविप्रतिषेधो यद्यपि च पूर्वसङ्ख्यासु न परासां सङ्ख्यानां निवेशस्तथाप्यवच्छेदकत्वेन बह्वीनां सङ्ख्यानामसम्भवादेकस्यां कल्प्यमानायां सप्तत्वमेव युक्तं प्राथम्याल्लाघवाच्च, वृत्तिभेदमात्रविवक्षया त्वष्टत्वादयो गमयितव्या इति प्राप्तम् ॥ ५ ॥
एवं प्राप्त उच्यते
हस्तादयस्तु स्थितेऽतो नैवम् ।
तुशब्दः पक्षं व्यावर्तयति । न सप्तैव किन्तु हस्तादयोऽपि प्राणाः । प्रमाणान्तरादेकादशत्वे प्राणानां स्थितेऽतोस्मिन् सति । सार्वविभक्तिकस्तसिः । नैवम् । लाघवात्प्राथम्याच्च सप्तत्वमित्यक्षरार्थः । एतदुक्तं भवति - यद्यपि श्रुतयः स्वतःप्रमाणतयानपेक्षास्तथापि परस्परविरोधान्नार्थतत्त्वपरिच्छेदायालम् । नच सिद्धे वस्तुनि अनुष्ठान इव विकल्पः सम्भवति । तस्मात्प्रमाणान्तरोपनीतार्थवशेन व्यवस्थाप्यन्ते ।
यथा हीनेति ।
“स्रुवेणावद्यति” इति मांसपुरोडाशावदानासम्भवात् , सम्भवाच्च द्रवावदानस्य स्रुवावदाने द्रवाणीति व्यवस्थाप्यते । एवमिहापि रूपादिबुद्धिपञ्चककार्यव्यवस्थातश्चक्षुरादिबुद्धीन्द्रियकरणपञ्चकव्यवस्था । नह्यन्धादयः सत्स्वपीतरेषु घ्राणादिषु गन्धाद्युपलब्ध्यानुमितसद्भावेषु रूपादीनुपलभन्ते । तथा वचनादिलक्षणकार्यपञ्चकव्यवस्थातो वाक्पाण्यादिलक्षणकर्मेन्द्रियपञ्चकव्यवस्था । नहि जातु मूकादयः सत्स्वपि विहरणाद्यवगतसद्भावेषु पादादिषु बुद्धीन्द्रियेषु वा वचनादिमन्तो भवन्ति । एवं कर्मबुद्धीन्द्रियासम्भविन्या सङ्कल्पादिक्रियाव्यवस्थयान्तःकरणव्यवस्थानुमानम् । एकमपि चान्तःकरणमनेकक्रियाकारि भविष्यति, यथा प्रदीप एको रूपप्रकाशवर्तिविकारस्नेहशोषणहेतुः । तस्मान्नान्तःकरणभेदः । एकमेव त्वन्तःकरणं मननान्मन इति चाभिमानादहङ्कार इति चाध्यवसायाद्बुद्धिरिति चाख्यायते । वृत्तिभेदाच्चाभिन्नमपि भिन्नमिवोपचर्यते त्रयमिति । तत्त्वेन त्वेकमेव भेदे प्रमाणाभावात् । तदेवमेकादशानां कार्याणां व्यवस्थानादेकादश प्राणा इति श्रुतिराञ्जसी । तदनुगुणतया त्वितराः श्रुतयो नेतव्याः । तत्रावयुत्यनुवादेन सप्ताष्टनवदशसङ्ख्याश्रुतयो यथैकं वृणीते द्वौ वृणीते इति त्रीन् वृणीत इत्येतदानुगुण्यात् । द्वादशत्रयोदशसङ्ख्याश्रुती तु कथञ्चिद्वृत्तिभेदेन भेदं विवक्षित्वोपासनादिपरतया नेतव्ये । तस्मादेकादशैव प्राणा नेतर इति सिद्धम् । अपिच शीर्षण्यानां प्राणानां यत्सप्तत्वाभिधानं तदपि चतुर्ष्वेव व्यवस्थापनीयम् , प्रमाणान्तरविरोधात् । न खलु द्वे चक्षुषी, रूपोपलब्धिलक्षणस्य कार्यस्याभेदात् । पिहितैकचक्षुषस्तु न तादृशी रूपोपलब्धिर्भवति यादृशी समग्रचक्षुषः, तस्मादेकमेव चक्षुरधिष्ठानभेदेन तु भिन्नमिवोपचर्यते । काणस्याप्येकगोलकगतेन चक्षुरवयवेनोपलम्भः । एतेन घ्राणश्रोत्रे अपि व्याख्याते ।
इयमपरा सूत्रद्वययोजना
सप्तैव प्राणाः
चक्षुर्घ्राणरसनवाक्श्रोत्रमनस्त्वच उत्क्रान्तिमन्तः स्युः । सप्तानामेव गतिश्रुतेर्विशेषितत्वादिति व्याख्यातुं शङ्कते
ननु सर्वशब्दोऽप्यत्रेति ।
अस्योत्तरं
विशेषितत्वादिति ।
चक्षुरादयस्त्वक्पर्यन्ता उत्क्रान्तौ विशेषिताः । तस्मात्सर्वशब्दस्य प्रकृतापेक्षत्वात्सप्तैव प्राणा उत्क्रामन्ति न पाण्यादय इति प्राप्तम् । चोदयति
नन्वत्र विज्ञानमष्टममिति ।
“न विजानातीत्याहुः” इत्यनेनानुक्रान्तम् । परिहरति
नैष दोष इति ।
सिद्धान्तमाह
हस्तादयस्त्वपरे सप्तभ्योऽतिरिक्ताः प्राणाः
उत्क्रान्तिभाजोऽवगम्यन्ते ग्रहत्वश्रुतेर्हस्तादीनाम् । एवं खल्वेषां ग्रहत्वाम्नानमुपपद्येत । यद्यामुक्तेरात्मानं बध्नीयुरितरथा षाट्क्औशिकशरीरवदेषां ग्रहत्वं नाम्नायेत । अत एव च स्मृतिरेषां मुक्त्यवधितामाह
पुर्यष्टकेनेति ।
तथाथर्वणश्रुतिरप्येषामेकादशानामुत्क्रान्तिमभिवदति । तस्माच्छ्रुत्यन्तरेभ्यः स्मृतेश्च सर्वशब्दार्थासङ्कोचाच्च सर्वेषामुत्क्रमेण स्थितेऽस्मिन्नैवं यदुक्तं सप्तैवेति, किन्तु प्रदर्शनार्थं सप्तत्वसङ्ख्येति सिद्धम् ॥ ६ ॥
अणवश्च ।
अत्र साङ्ख्यानामाहङ्कारिकत्वादिन्द्रियाणामहङ्कारस्य च जग्नामण्डलव्यापित्वात्सर्वगताः प्राणाः । वृत्तिस्तेषां शरीरदेशतया प्रादेशिकी तन्निबन्धना च गत्यागतिश्रुतिरिति मन्यन्ते, तान्प्रत्याह
अणवश्च
प्राणा अनुद्भूतरूपस्पशर्ता चाणुत्वं दुरधिगमत्वान्न तु परमाणुत्वं देहव्यापिकार्यानुत्पत्तिप्रसङ्गात्तापदूनस्य शिशिरह्रदनिमग्नस्य सर्वाङ्गीणशीतस्पर्शोपलब्धिरस्तीत्युक्तम् । एतदुक्तं भवति - यदि सर्वगतानीन्द्रियाणि भवेयुस्ततो व्यवहितविप्रवकृष्टवस्तूपलम्भप्रसङ्गः । सर्वगतत्वेऽपि देहावच्छिन्नानामेव करणत्वं तेन न व्यवहित विप्रकृष्टवस्तूपलम्भप्रसङ्ग इति चेत् , हन्त प्राप्ताप्राप्ताविवेकेन शरीरावच्छिन्नानामेव तेषां करणत्वमिन्द्रियत्वमिति न व्यापिनामिन्द्रियभावः । तथाच नाममात्रे विसंवादो नार्थेऽस्माभिस्तदिन्द्रियमुच्यते भवद्भिस्तु वृत्तिरिति सिद्धमणवः प्राणा इति ॥ ७ ॥
श्रेष्ठश्च ।
न केवलमितरे प्राणा ब्रह्मविकाराः । श्रेष्ठश्च प्राणो ब्रह्मविकारः । “नासदासीत्” इत्यधिकृत्य प्रवृत्ते ब्रह्मसूक्ते नासदासीये सर्गात्प्रागानीदिति प्राणव्यापारश्रवणादसति च व्यापारानुपपत्तेः प्राणसद्भावाज्ज्येष्ठत्वश्रुतेश्च न ब्रह्मविकारः प्राण इति मन्वानस्य बहुश्रुतिविरोधेऽपि च श्रुत्योरेतयोर्गतिमपश्यतः पूर्वपक्षः । राद्धान्तस्तु बहुश्रुतिविरोधादेवानीदिति न प्राणव्यापारप्रतिपादिनी, किन्तु सृष्टिकारणमानीत्जीवति स्म आसीदिति यावत् । तेन तत्सद्भावप्रतिपादनपरा । ज्येष्ठत्वं च श्रोत्राद्यपेक्षमिति गमयितव्यम् । तस्माद्बहुश्रुत्यनुरोधान्मुख्यस्यापि प्राणस्य ब्रह्मविकारत्वमिति सिद्धम् ॥ ८ ॥
न वायुक्रिये पृथगुपदेशात् ।
सम्प्रति मुख्यप्राणस्वरूपं निरूप्यते । अत्र हि “यः प्राणः स वायुः” इति श्रुतेर्वायुरेव प्राण इति प्रतिभाति । अथवा “प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा”(छा. उ. ३ । १८ । ४) इति वायोर्भेदेन प्राणस्य श्रवणादेतद्विरोधाद्वरं तन्त्रान्तरीयमेव प्राणस्य स्वरूपमस्तु, श्रुती च विरुद्धार्थे कथञ्चिन्नेष्येते इति सामान्यकरणवृत्तिरेव प्राणोऽस्तु । न चात्रापि करणेभ्यः पृथक्प्राणस्यानुक्रमणश्रुतिविरोधो वृत्तिवृत्तिमतोर्भेदादिति पूर्वः पक्षः । सिद्धान्तस्तुन सामान्येन्द्रियवृत्तिः प्राणः । स हि मिलितानां वेन्द्रियाणां वृत्तिर्भवेत्प्रत्येकं वा । न तावन्मिलितानाम् , एकद्वित्रिचतुरिन्द्रियाभावे तदभावप्रसङ्गात् । नो खलु चूर्णहरिद्रासंयोगजन्मारुणगुणस्तयोरन्यतराभावे भवितुमर्हति । नच बहुविष्टिसाध्यं शिबिकोद्वहनं द्वित्रिविष्टिसाध्यं भवति । न च त्वगेकसाध्यं, तथा सति सामान्यवृत्तित्वानुपपत्तेः । अपिच यत्सम्भूय कारकाणि निष्पादयन्ति तत्प्रधानव्यापारानुगुणावान्तरव्यापारेणैव यथा वयसां प्रातिस्विको व्यापारः पञ्जरचालनानुगुणः । न चेन्द्रियाणां प्राणे प्रधानव्यापारे जनयितव्येऽस्ति तादृशः कश्चिदवान्तरव्यापारस्तदनुगुणः । ये च रूपादिप्रत्यया न ते तदनुगुणाः, तस्मान्नेन्द्रियाणां सामान्यवृत्तिः प्राणस्तथा च वृत्तिवृत्तिमतोः कथञ्चिद्भेदविवक्षया न पृथगुपदेशो गमयितव्यः । तस्मान्न क्रिया, नापि वायुमात्रं प्राणः, किन्तु वायुभेद एवाध्यात्मामापन्नः पञ्चव्यूहः प्राण इति ॥ ९ ॥
स्यादेतत् । यथा चक्षुरादीनां जीवं प्रति गुणभूतत्वाज्जीवस्य च श्रेष्ठत्वाज्जीवः स्वतन्त्र एवं प्राणोऽपि प्राधान्यात्श्रेष्ठत्वाच्च स्वतन्त्रः प्राप्नोति । नच द्वयोः स्वतन्त्रयोरेकस्मिन् शरीरे एकवाक्यत्वमुपपद्यत इत्यपर्यायं विरुद्धानेकदिक्क्रियतया देह उन्मथ्येत । इति प्राप्ते, उच्यते
चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ।
यद्यपि चक्षुराद्यपेक्षया श्रेष्ठत्वं प्राधान्यं च प्राणस्य तथापि संहतत्वादचेतनत्वाद्भौतिकत्वाच्चक्षुरादिभिः सहशिष्टत्वाच्च पुरुषार्थत्वात्पुरुषं प्रति पारतन्त्र्यं शयनासनादिवद्भवेत् । तथाच यथा मन्त्रीतरेषु नैयोगिकेषु प्रधानमपि राजानमपेक्ष्यास्वतन्त्र एवं प्राणोऽपि चक्षुरादिषु प्रधानमपि जीवेऽस्वतन्त्र इति ॥ १० ॥
स्यादेतच्चक्षुरादिभिः सह शासनेन करणं चेत्प्राणः । एवं सति चक्षुरादिविषयरूपादिवदस्यापि विषयान्तरं वक्तव्यम् । नच तच्छक्यं वक्तुम् । एकादशकरणगणनव्याकोपश्चेति दोषं परिहरति
अकरणत्वाच्च न दोषस्तथाहि दर्शयति ।
न प्राणः परिच्छेदधारणादिकरणमस्माभिरभ्युपेयते येनास्य विषयान्तरमन्विष्येत । एकादशत्वं च करणानां व्याकुप्येतापि तु प्राणान्तरासम्भवि देहेन्द्रियविधारणकारणं प्राणः । तच्च श्रुतिप्रबन्धेन दर्शितं न केवलं शरीरेन्द्रियधारणमस्य कार्यम् ॥ ११ ॥
अपिच
पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ।
“विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्”(यो.सू. १-८) यथा मरुमरीचिकादिषु सलिलादिबुद्धयः । अतद्रूपप्रतिष्ठता च संशयेऽप्यस्ति तस्यैकाप्रतिष्ठानात् । अतः सोऽपि सङ्गृहीतः । “शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः”(यो.सू. १-९) । यद्यपि मिथ्याज्ञानेऽप्यस्ति वस्तुशून्यता तथापि न तस्य व्यवहारहेतुतास्ति । अस्य तु पण्डितरूपविचारासहस्यापि शब्दज्ञानमाहात्म्याद्व्यवहारहेतुभावोऽस्त्येव । यथा पुरुषस्य चैतन्यमिति । नह्यत्र षष्ठ्यर्थः सम्बन्धोऽस्ति, तस्य भेदाधिष्ठानत्वात् । चैतन्यस्य पुरुषादत्यन्ताभेदात् । यद्यपि चात्राभावप्रत्ययालम्बना वृत्तिर्नेष्यते तथापि विक्षेपसंस्कारलक्षणा मनोवृत्तिरिहास्त्येवेति सर्वमवदातम् ॥ १२ ॥
अणुश्च ।
“समस्त्रिभिर्लोकैः” इति विभुत्वश्रवणाद्विभुः प्राणः, “समः प्लुषिणा”(बृ. उ. १ । ३ । २२)“समः प्लुषिणा”(बृ. उ. १ । ३ । २२) इत्याद्यास्तु श्रुतयो विभोरप्यवच्छेदाद्भविष्यन्ति । यथा विभुन आकाशस्य कुटकरकाद्यवच्छेदात्कुटादिसाम्यमिति प्राप्त आह
अणुश्च ।
उत्क्रान्तिगत्यागतिश्रुतिभ्य आध्यात्मिकस्य प्राणस्यावच्छिन्नता न विभुत्वम् । दुरधिगमतामात्रेण च शरीरव्यापिनोऽप्यणुत्वमुपचर्यते न त्वणुत्वमित्युक्तमधस्तात् । यत्त्वस्य विभुत्वान्मानं तदाधिदैविकेन सूत्रात्मना समष्टिव्यष्टिरूपेण न त्वाध्यात्मिकेन रूपेण । तदाश्रयाश्च “समः प्लुषिणा” इत्येवमाद्याः श्रुतयो देहसाम्यमेव प्राणस्याहुः स्वरूपतो न तु करकाकाशवत्परोपाधिकतया कथञ्चिन्नेतव्या इति ॥ १३ ॥
ज्योतिराद्यधिष्ठानं तु तदामननात् ।
यद्धि यत्कार्यं कुर्वद्दृष्टं तत्स्वमहिम्नैव करोतित्येष तावदुत्सर्गः । पराधिष्ठानं तु तस्य बलवत्प्रमाणान्तरवशात् स्यादेतत् । वास्यादीनां तक्षाद्यधिष्ठितानामचेतनानां कार्यकारित्वदर्शनादचेतनत्वेनन्द्रियाणामप्यधिष्ठातृदेवताकल्पनेति चेत् । न । जीवस्यैवाधिष्ठातुश्चेतनस्य विद्यमानत्वात् । नच “अग्निर्वाग्भूत्वा मुखं प्राविशत्”(ऐ. उ. १ । २ । ४) इत्यादिश्रुतिभ्यो देवतानामप्यधिष्ठातृत्वमभ्युपगन्तुं युक्तम् । अनेकाधिष्ठानाभ्युपगमे हि तेषामेकाभिप्रायनियमनिमित्ताभावान्न किञ्चित्कार्यमुत्पद्येत विरोधात् । अपिच य इन्द्रियाणामधिष्ठाता स एव भोक्तेति देवतानां भोक्तृत्वेन स्वामित्वं शरीर इति न जीवः स्वामी स्याद्भोक्ता च । तस्मादग्न्याद्युपचारो वागादिषु प्रकाशकत्वादिना केनचिन्निमित्तेन गमयितव्यो नतु स्वरूपेणाग्न्यादिदेवतानां मुखाद्यनुप्रवेश इति प्राप्तम् । एवं प्राप्ते उच्यते नानाविधासु तावच्छ्रुतिषु स्मृतिषु च तत्र तत्र वागादिष्वग्न्यादिदेवताधिष्ठानमवगम्यते । नच तदसत्यामनुपपत्तौ क्लेशेन व्याख्यातुमुचितम् । नच स्वरूपोपयोगभेदज्ञानविरहिणो जीवस्येन्द्रियाधिष्ठातृत्वसम्भवः, सम्भवति तु देवतानामिन्द्रियाद्यार्षेण ज्ञानेन साक्षात्कृतवतीनां तत्स्वरूपभेदतदुपयोगभेदविज्ञानम् । तस्मात्तास्ता एव देवतास्तत्तत्करणाधिष्ठात्र्य इति युक्तं न तु जीवः । भवतु वा जीवोऽप्यधिष्ठाता तथाप्यदोषः । अनेकेषामधिष्ठातॄणामेकः परमेश्वरोऽस्ति नियन्तान्तर्यामी तद्वशाद्विप्रतिपित्सवोऽपि न विप्रतिपत्तुमर्हन्ति । तथा चैकवाक्यतया न तत्कार्योत्पत्तिप्रत्यूहः । न चैतावता देवतानामत्र शरीरे भोक्तृत्वम् । नहि यन्ता रथमधितिष्ठिन्नपि तत्साध्यविजयादेर्भोक्तापि तु स्वाम्येव । एवं देवता अधिष्ठात्र्योऽपि न भोक्त्र्यस्तासां तावन्मात्रस्य श्रुतत्वात् । भोक्ता तु जीव एव । नच नरादिशरीरोचितं दुःखबहुलमुपभोगं सुखमय्यो देवता अर्हन्ति । तस्मात्प्राणानामधिष्ठात्र्यो देवता इति सिद्धम् , शेषमतिरोहितार्थम् ॥ १४ ॥
प्राणवता शब्दात् । ॥ १५ ॥
तस्य च नित्यत्वात् । ॥ १६ ॥
त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ।
मा भूत्प्राणो वृत्तिरिन्द्रियाणाम् । इन्द्रियाण्येवास्य ज्येष्ठस्य श्रेष्ठस्य च प्राणस्य वृत्तयो भविष्यन्ति । तद्भावाभावानुविधायिभावाभावत्वमिन्द्रियाणां श्रुत्यनुभवसिद्धं, तथाच प्राणशब्दस्यैकस्यान्याय्यमनेकार्थत्वं न भविष्यति । वृत्तीनां वृत्तिमतस्तत्त्वान्तरत्वाभावात् । तत्त्वान्तरत्वे त्विन्द्रियाणां, प्राणशब्दस्यानेकार्थत्वं प्रसज्येत । इन्द्रियेषु लाक्षणिकत्वं वा । नच मुख्यसम्भवे लक्षणा युक्ता जघन्यत्वात् । नच भेदेन व्यपदेशो भेदसाधनम् “एतस्माज्जायते प्राणः”(मु. उ. २ । १ । ३) इत्यादिर्मनसोऽपीन्द्रियेभ्योऽस्ति भेदेन व्यपदेश इत्यनिन्द्रियत्वप्रसङ्गः । स्मृतिवशात्तु तस्येन्द्रियत्वे इन्द्रियाणामपि प्राणाद्भेदेन व्यपदिष्टानामप्यस्ति प्राणस्वभावत्वे “हन्त अस्यैव रूपमसाम”(बृ. उ. १ । ५ । २१) इति श्रुतिः । तस्मादुपपत्तेः श्रुतेश्च प्राणस्यैव वृत्तय एकादशेन्द्रियाणि न तत्त्वान्तराणीति इति प्राप्तम् । एवं प्राप्त उच्यते - मुख्यात्प्राणात्तत्त्वान्तराणीन्द्रियाणि, तत्र तत्र भेदेन व्यपदेशात् । मृत्युप्राप्ताप्राप्तत्वलक्षणविरुद्धधर्मसंसर्गश्रुतेः । अर्थक्रियाभेदाच्च । देहधारणं हि प्राणस्य क्रियाऽर्थालोचनमनने चेन्द्रियाणाम् । नच तद्भावाभावानुविधानं तद्वृत्तितामावहति । देहेन व्यभिचारात् । प्राणादयो हि देहान्वयव्यतिरेकानुविधायिनो नच देहात्मनः । यापि च प्राणरूपतामिन्द्रियाणामभिदधाति श्रुतिः, तत्रापि पौर्वापर्यालोचनायां भेद एव प्रतीयत इत्युक्तं भाष्यकृता । तस्माद्बहुश्रुतिविरोधात्पूर्वापरविरोधाच्च प्राणरूपताभिधानमिन्द्रियाणां प्राणायत्ततया भाक्तं गमयितव्यम् । मनसस्त्विन्द्रियत्वे स्मृतेरवगते क्वचिदिन्द्रियेभ्यो भेदेनोपादानं गोबलीर्वदन्यायेन । अथवा इन्द्रियाणां वर्तमानमात्रविषयत्वान्मनसस्तु त्रैकाल्यगोचरत्वाद्भेदेनाभिधानम् । नच प्राणे भेदव्यपदेशबाहुल्यं तथा नेतुं युक्तम् । प्राणरूपताश्रुतेश्च गतिर्दर्शिता । तथा ज्येष्ठे प्राणशब्दस्य मुख्यत्वादिन्द्रियेषु ततस्तत्त्वान्तरेषु लाक्षणिकः प्राणशब्द इति युक्तम् । नच मुख्यत्वानुरोधेनावगतभेदयोरैक्यं युक्तं, मा भूद्गङ्गादीनां तीरादिभिरैक्यमिति । अन्ये तु भेदशब्दाध्याहारभिया भेदश्रुतेश्चेति पौनरुक्त्यभिया च तच्छब्दस्य चानन्तरोक्तपरामर्शकत्वादन्यथा वर्णयाञ्चक्रुः । किमेकादशैव वागादय इन्द्रियाण्याहो प्राणोऽपीति विशये इन्द्रस्यात्मनो लिङ्गमिन्द्रियं, तथाच वागादिवत्प्राणस्यापीन्द्रलिङ्गतास्ति नच रूपादिविषयालोचनकरणतेन्द्रियता, आलोकस्यापीन्द्रियत्वप्रसङ्गात् । तस्माद्भौतिकमिन्द्रलिङ्गमिन्द्रियमिति वागादिवत्प्राणोऽपीन्द्रियमिति प्राप्तम् । एवं प्राप्तेऽभिधीयते इन्द्रियाणि वागादीनि श्रेष्ठात्प्राणादन्यत्र । कुतः तेनेन्द्रियशब्देन तेषामेव वागादीनां व्यपदेशात् । नहि मुख्ये प्राणा इन्द्रियशब्दो दृष्टचरः । इन्द्रलिङ्गता तु व्युत्पत्तिमात्रनिमित्तं यथा गच्छतीति गौरिति । प्रवृत्तिनिमित्तं तु देहाधिष्ठानत्वे सति रूपाद्यालोचनकरणत्वम् । इदं चास्य देहाधिष्ठानत्वं यद्देहानुग्रहोपघाताभ्यां तदनुग्रहोपघातौ । तथाच नालोकस्येन्द्रियत्वप्रसङ्गः । तस्माद्रूढेर्वागादय एवेन्द्रियाणि न प्राण इति सिद्धम् । भाष्यकारीयं त्वधिकरणं भेदश्रुतेरित्यादिषु सूत्रेषु नेयम् ॥ १७ ॥
भेदश्रुतेः । ॥ १८ ॥
वैलक्षण्याच्च । ॥ १९ ॥
संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ।
सत्प्रक्रियायां “तत्तेज ऐक्षत”(छा. उ. ६ । २ । ३) इत्यादिना सन्दर्भेण तेजोऽबन्नानां सृष्टिं विधायोपदिश्यते “सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणि”(छा. उ. ६ । ३ । २) इति । अस्यार्थः पूर्वोक्तं बहुभवनमीक्षणप्रयोजनमद्यापि सर्वथा न निष्पन्नमिति पुनरीक्षां कृतवती बहुभवनमेव प्रयोजनमुद्दिश्य कथं हन्तेदानीमहमिमा यथोक्तास्तेज आद्यास्तिस्रो देवताः पूर्वसृष्टावुभूतेन सम्प्रति स्मरणसन्निधापितेन जीवेन प्राणधारणकर्त्रात्मनानुप्रविश्य बुद्ध्यादिभूतमात्रायामादर्श इव मुखबिम्बं तोय इव चन्द्रमसो बिम्बं छायामात्रतयानुप्रविश्य नाम च रूपं च ते व्याकरवाणि विस्पष्टं करवाणीदमस्य नामेदं च रूपमिति । तासां तिसृणां देवतानां त्रिवृतं त्रिवृतं तेजोऽबन्नात्मना त्र्यात्मिकां त्र्यात्मिकामेकैकां देवतां करवाणीति । तत्र संशयः किं जीवकर्तृकमिदं नामरूपव्याकरणमाहो परमेश्वरकर्तृकमिति । यदि जीवकर्तृकं ततः “आकाशो ह वै नाम नामरूपयोर्निर्वहिता”(छा.उ. ८ । १ । ४) इत्यादिश्रुतिविरोधादनध्यवसायः । अथ परमेश्वरकर्तृकं, ततो न विरोधः । तत्र डित्थडवित्थादिनामकरणे च घटपटादिरूपकरणे च जीवकर्तृत्वदर्शनादिहापि त्रिवृत्करणे नामरूपकरणे चास्ति सम्भावना जीवस्य । तथाच योग्यत्वादनेन जीवेनेति व्याकरवाणीति प्रधानक्रियया सम्बध्यते, न त्वानन्तर्यादनुप्रविश्येत्यनेन सम्बध्यते । प्रधानपदार्थसम्बन्धो हि साक्षात्सर्वेषां गुणभूतानां पदार्थानामौत्सर्गिकस्तादर्थ्यात्तेषाम् । तस्य तु क्वचित्साक्षादसम्भवात्परम्पराश्रयणं, साक्षात्सम्भवश्च योग्यतया दर्शितः । ननु सेयं देवतेति परमेश्वरकर्तृत्वं श्रूयते । सत्यम् । प्रयोजकतया तु तद्भविष्यति । यथा लोके चारेणाहं परसैन्यमनुप्रविश्य सङ्कलयानीति । यदि पुनरस्य साक्षात्कर्तृभावो भवेदनेन जीवेनेत्यनर्थकं स्यात् । नहि जीवस्यान्यथा करणभावो भवितुमर्हति । प्रयोजककर्तुस्तत्साक्षात्कर्ता करणं भवति प्रधानक्रियोद्देशेन प्रयोजकेन प्रयोज्यकर्तुर्व्यापनात् । तस्मादत्र जीवस्य कर्तृत्वं नामरूपव्याकरणेऽन्यत्र तु परमेश्वरस्येति विरोधादनध्यवसाय इति प्राप्तम् । एवं प्राप्त उच्यते परमेश्वरस्यैवेहापि नामरूपव्याकर्तृत्वमुपदिश्यते न तु जीवस्य, तस्य प्रधानक्रियासम्बन्धं प्रत्ययोग्यत्वात् । नन्वन्यत्र डित्थडवित्थादिनामकर्मणि घटशरावादिरूपकर्मणि च कर्तृत्वदर्शनादिहापि योग्यता सम्भाव्यत इति चेत् । न । गिरिनदीसमुद्रादिनिर्माणासामर्थ्येनार्थापत्त्यभावपरिच्छिन्नेन सम्भावनापबाधनात् । तस्मात्परमेश्वरस्यैवात्र साक्षात्कर्तृत्वमुपदिश्यते न जीवस्य । अनुप्रविश्येत्यनेन तु सन्निहितेनास्य सम्बन्धो योग्यत्वात् । न चानर्थक्यं त्रिवृत्करणस्य भोक्तृजीवार्थतया तदनुप्रवेशाभिधानस्यार्थवत्त्वात् । स्यादेतत् । अनुप्रविश्य व्याकरवाणीति समानकर्तृत्वे क्त्वः स्मरणात्प्रवेशनकर्तुर्जीवस्यैव व्याकर्तृत्वमुपदिश्यतेऽन्यथा तु परमेश्वरस्य व्याकर्तृत्वे जीवस्य प्रवेष्टृत्वे भिन्नकर्तृकत्वेन क्त्वः प्रयोगो व्याहन्येतेत्यत्राह
नच जीवो नामेति ।
अतिरोहितार्थमन्यत् ॥ २० ॥
मांसादि भौमं यथाशब्दमितरयोश्च ।
अत्र भाष्यकृतोत्तरसूत्रशेषतया सूत्रमेतद्विषयोपदर्शनपरतया व्याख्यातम् । शङ्कानिराकरणार्थत्वमप्यस्य शक्यं वक्तुम् । तथाहि - योऽन्नस्याणिष्ठो भागस्तन्मनस्तेजसस्तु योऽणिष्ठो भागः स वागित्यत्र हि काणादानां साङ्ख्यानां चास्ति विप्रतिपत्तिः । तत्र काणादा मनो नित्यमाचक्षते । साङ्ख्यास्त्वाहङ्कारिके वाङ्मनसे । अन्नभागतावचनं त्वस्यान्नसम्बन्धलक्षणार्थम् । अन्नोपभोगे हि मनः स्वस्थं भवति । एवं वाचोऽपि पाटवेन तेजःसाम्यमभ्यूहनीयम् । तत्रेदमुपतिष्ठते
मांसादीति ।
वाङ्मनस इति वक्तव्ये मांसाद्यभिधानं सिद्धेन सह साध्यस्योपन्यासो दृष्टान्तलाभाय । यथा मांसादि भौमाद्येवं वाङ्मनसे अपि तैजसभौमे इत्यर्थः । एतदुक्तं भवति - न तावद्ब्रह्मव्यतिरिक्तमस्ति किञ्चिन्नित्यम् । ब्रह्मज्ञानेन सर्वज्ञानप्रतिज्ञाव्याघातात् , बहुश्रुतिविरोधाच्च नाप्याहङ्कारिकम् , अहङ्कारस्य साङ्ख्याभिमतस्य तत्त्वस्याप्रामाणिकत्वात् । तस्मादसति बाधके श्रुतिराञ्जसी नान्यथा कथञ्चिन्नेतुमुचितेति कञ्चिद्दोषमित्युक्तं तं दोषं दर्शयन्नाह पूर्वपक्षी
यदि सर्वमेव इति ॥ २१ ॥
वैशेष्यात्तु तद्वादस्तद्वादः ।
त्रिवृत्करणाविशेषेऽपि यस्य च यत्र भूयस्त्वं तेन तस्य व्यपदेश इत्यर्थः ॥ २२ ॥
इति श्रीमद्वाचस्पतिमिश्रविरचिते श्रीमद्भगवत्पादशारीरकभाष्यविभागे भामत्यां द्वितीयस्याध्यायस्य चतुर्थः पादः ॥ ४ ॥