अद्वैतशारदा

भामतीव्याख्या

स्मृत्यधिकरणविषयाः (२)

व्याख्याः

यद्युच्येत असमवहितान्येव कारणानि कार्यं करिष्यन्ति पर­स्प­रा­न­पे­क्षाणि, कृतमत्र समवधाययित्रा चेतनेनेत्यत आह
निर­पे­क्ष­प्र­वृ­त्त्य­भ्यु­प­गमे चेति ।

यद्युच्यते अस्त्या­ल­य­वि­ज्ञा­न­म­ह­ङ्का­रा­स्पदं पूर्वा­प­रा­नु­स­न्धातृ, तदेव कारणानां प्रतिसन्धातृ भविष्यतीति, तत्राह
आशयस्यापीति ।
यत्खल्वेकं यदि स्थिरमास्थीयेत ततो नामा­न्त­रे­णा­त्मैव । अथ क्षणिकं, तत उक्तदोषापत्तिः । नच तत्स­न्ता­न­स्त­स्या­न्यत्वे नामा­न्त­रे­णा­त्मा­भ्यु­प­ग­तोऽ­न­न्यत्वे च विज्ञानमेव, तच्च क्षणि­क­मे­वे­त्यु­क्त­दो­षा­पत्तिः । आशेरतेऽस्मिन् कर्मानुभववासना इत्याशय आलयविज्ञानं तस्य । अपि च प्रवृत्तिः समुदायिनां व्यापारः । नच क्षणिकानां व्यापारो युज्यते । व्यापारो हि व्यापा­र­व­दा­श्र­य­स्त­त्का­र­ण­कश्च लोके प्रसिद्धः । तेन व्यापारवता व्यापा­रा­त्पूर्वं व्यापारसमये च भवितव्यम् । अन्यथा कार­ण­त्वा­श्र­य­त्व­यो­र­यो­गात् । न च समसमययोरस्ति कार्यकारणभावः । नापि भिन्न­का­ल­यो­रा­धा­रा­धे­य­भावः । तथा च क्षणि­क­त्व­हा­नि­रि­त्याह

क्षणि­क­त्वा­भ्यु­प­ग­मा­च्चेति ॥ १८ ॥

इत­रे­त­र­प्र­त्य­य­त्वा­दिति चेन्नो­त्प­त्ति­मा­त्र­नि­मि­त्त­त्वात् ।

यद्यपीति ।
अयमर्थः सङ्क्षेपतो हि प्रती­त्य­स­मु­त्पा­द­ल­क्ष­ण­मुक्तं बुद्धेन ‘इदं प्रत्ययफलम्’ इति । “उत्पादाद्वा तथा­ग­ता­ना­म­नु­त्पा­दाद्वा स्थितैषा धर्माणां धर्मता” । “धर्मस्थितिता धर्मनियामकता प्रती­त्य­स­मु­त्पा­दा­नु­लो­मता” इति । अथ पुनरयं प्रती­त्य­स­मु­त्पादो द्वाभ्यां कारणाभ्यां भवति हेतूपनिबन्धतश्च प्रत्य­यो­प­नि­ब­न्ध­तश्च । स पुनर्द्विविधो बाह्य आध्यात्मिकश्च । तत्र बाह्यस्य प्रती­त्य­स­मु­त्पा­दस्य हेतूपनिबन्धः यदिदं बीजा­द­ङ्कु­रोऽ­ङ्कु­रा­त्पत्रं पत्रात्काण्डं काण्डान्नालो नालाद्गर्भो गर्भाच्छूकः शूकात्पुष्पं पुष्पात्फलमिति । असति बीजेऽङ्कुरो न भवति, यावदसति पुष्पे फलं न भवति । सति तु बीजेऽङ्कुरो भवति, यावत्पुष्पे सति फलमिति । तत्र बीजस्य नैवं भवति ज्ञानमहमङ्कुरं निर्वर्तयामीति । अङ्कुरस्यापि नैवं भवति ज्ञानमहं बीजेन निर्वर्तित इति । एवं यावत्पुष्पस्य नैवं भवत्यहं फलं निर्वर्तयामीति । एवं फलस्यापि नैवं भवत्यहं पुष्पे­णा­भि­नि­र्व­र्ति­त­मिति । तस्मादसत्यपि चैतन्ये बीजादीनामसत्यपि चान्य­स्मि­न्न­धि­ष्ठा­तरि कार्य­का­र­ण­भा­व­नि­यमो दृश्यते । उक्तो हेतूपनिबन्धः । प्रत्य­यो­प­नि­बन्धः प्रती­त्य­स­मु­त्पा­द­स्यो­च्यते । प्रत्ययो हेतूनां समवायः । हेतुं हेतुं प्रत्ययन्ते हेत्वन्तराणीति, तेषामयमानानां भावः प्रत्ययः । समवाय इति यावत् । यथा षण्णां धातूनां सम­वा­या­द्बी­ज­हे­तु­र­ङ्कुरो जायते । तत्र च पृथि­वी­धा­तु­र्बी­जस्य सङ्ग्रहकृत्यं करोति यतोऽङ्कुरः कठिनो भवति, अब्धातुर्बीजं स्नेहयति, तेजोधातुर्बीजं परिपाचयति, वायु­धा­तु­र्बी­ज­म­भि­नि­र्ह­रति यतोऽङ्कुरो बीजा­न्नि­र्ग­च्छति, आका­श­धा­तु­र्बी­ज­स्या­ना­व­र­ण­कृत्यं करोति, ऋतुरपि बीजस्य परिणामं करोति, तदे­ते­षा­म­वि­क­लानां धातूनां समवाये बीजे रोहित्यङ्कुरो जायते नान्यथा । तत्र पृथि­वी­धा­तो­र्नैवं भवत्यहं बीजस्य सङ्ग्रहकृत्यं करोमीति, यावदृतोर्नैवं भवत्यहं बीजस्य परिणामं करोमीति । अङ्कुरस्यापि नैवं भवत्यहमेभिः प्रत्य­यै­र्नि­र्व­र्तित इति । तथाध्यात्मिकः प्रती­त्य­स­मु­त्पादो द्वाभ्यां कारणाभ्यां भवति हेतूपनिबन्धतः प्रत्य­यो­प­नि­ब­न्ध­तश्च । तत्रास्य हेतूपनिबन्धो यदि­द­म­वि­द्या­प्र­त्ययाः संस्कारा याव­ज्जा­ति­प्र­त्ययं जरामरणादीति । अविद्या चेन्ना­भ­वि­ष्य­न्नैव संस्कारा अजनिष्यन्त । एवं यावज्जातिः । जाति­श्चे­न्ना­भ­वि­ष्य­न्नैव जरामरणादय उत्पत्स्यन्त । तत्राविद्याया नैवं भवत्यहं संस्का­रा­न­भि­नि­र्व­र्त­या­मीति । संस्काराणामपि नैवं भवति वयमविद्यया निर्वर्तिता इति । एवं यावज्जात्या अपि नैवं भवत्यहं जरा­म­र­णा­द्य­भि­नि­र्व­र्त­या­मीति । जरामरणादीनामपि नैवं भवति वयं जात्या­दि­भि­र्नि­र्व­र्तिता इति । अथ च सत्स्व­वि­द्या­दिषु स्वयमचेतनेषु चेत­ना­न्त­रा­न­धि­ष्ठि­ते­ष्वपि संस्का­रा­दी­ना­मु­त्पत्तिः, बीजादिष्विव सत्स्वचेतनेषु चेत­ना­न्त­रा­न­धि­ष्ठि­ते­ष्व­प्य­ङ्कु­रा­दी­नाम् । इदं प्रतीत्य प्राप्ये­द­मु­त्प­द्यत इत्ये­ता­व­न्मा­त्रस्य दृष्ट­त्वा­च्चे­त­ना­धि­ष्ठा­न­स्या­नु­प­लब्धेः । सोऽय­मा­ध्या­त्मि­कस्य प्रती­त्य­स­मु­त्पा­दस्य हेतूपनिबन्धः । अथ प्रत्य­यो­प­नि­बन्धः पृथि­व्य­प्ते­जो­वा­य्वा­का­श­वि­ज्ञा­न­धा­तूनां समवायाद्भवति कायः । तत्र कायस्य पृथिवीधातुः काठिन्यं निर्वर्तयति । अब्धातुः स्नेहयति कायम् । तेजोधातुः कायस्याशितपीते परिपाचयति । वायुधातुः कायस्य श्वासादि करोति । आकाशधातुः कायस्यान्तः सुषिरभावं करोति । यस्तु नाम­रू­पा­ङ्कु­र­म­भि­नि­र्व­र्त­यति पञ्च­वि­ज्ञा­न­का­र्य­सं­युक्तं सास्रवं च मनोविज्ञानं, सोऽयमुच्यते विज्ञानधातुः । यदा ह्याध्यात्मिकाः पृथिव्यादिधातवो भव­न्त्य­वि­क­ला­स्तदा सर्वेषां समवायाद्भवति कायस्योत्पत्तिः । तत्र पृथि­व्या­दि­धा­तूनां नैवं भवति वयं कायस्य काठिन्यादि निर्वर्तयाम इति । कायस्यापि नैवं भवति ज्ञानमहमेभिः प्रत्य­यै­र­भि­नि­र्व­र्तित इति । अथ च पृथि­व्या­दि­धा­तु­भ्योऽ­चे­त­ने­भ्य­श्चे­त­ना­न्त­रा­न­धि­ष्ठि­ते­भ्योऽ­ङ्कु­र­स्येव कायस्योत्पत्तिः । सोऽयं प्रती­त्य­स­मु­त्पादो दृष्ट­त्वा­न्ना­न्य­थ­यि­तव्यः । तत्रैतेष्वेव षट्सु धातुषु यैकसंज्ञा, पिण्डसंज्ञा, नित्यसंज्ञा, सुःखसंज्ञा, सत्त्वसंज्ञा, पुद्गलसंज्ञा, मनुष्यसंज्ञा, मातृ­दु­हि­तृ­संज्ञा, अह­ङ्का­र­म­म­का­र­संज्ञा, सेयमविद्या संसा­रा­न­र्थ­स­म्भा­रस्य मूलकारणं, तस्यामविद्यायां सत्यां संस्कारा रागद्वेषमोहा विषयेषु प्रवर्तन्ते । वस्तुविषया विज्ञ­प्ति­र्वि­ज्ञानं, विज्ञा­ना­च्च­त्वारो रूपिण उपा­दा­न­स्क­न्धा­स्त­न्नाम, तान्युपादाय रूप­म­भि­नि­र्व­र्तते । तदै­क­ध्य­म­भि­स­ङ्क्षिप्य नामरूपं निरुच्यते शरीरस्यैव कल­ल­बु­द्बु­दा­द्य­वस्था नाम­रू­प­सं­मि­श्रि­ता­नी­न्द्रि­याणि षडायतनं, नाम­रू­पे­न्द्रि­याणां त्रयाणां सन्निपातः स्पर्शः, स्पर्शाद्वेदना सुखादिका, वेदनायां सत्यां कर्त­व्य­मे­त­त्सुखं पुन­र्म­ये­त्य­ध्य­व­सानं तृष्णा भवति । ततौपादानं वाक्कायचेष्टा भवति । ततो भवो भव­त्य­स्मा­ज्ज­न्मेति भवो धर्माधर्मौ, तद्धेतुकः स्कन्ध­प्रा­दु­र्भावो जातिःजन्म । जन्महेतुका उत्तरे जरामरणादयः । जातानां स्कन्धानां परिपाको जरा । स्कन्धानां नाशो मरणम् । म्रियमाणस्य मूढस्य साभिषङ्गस्य पुत्र­क­ल­त्रा­दा­वा­न्त­र्दाहः शोकः । तदुत्थं प्रलपनं हा मातः, हा तात, हा च मे पुत्रकलत्रादीति परिदेवना । पञ्च­वि­ज्ञा­न­का­र्य­सं­यु­क्त­म­सा­ध्व­नु­भ­व­न­न्दुः­खम् । मानसं च दुःख­न्दौ­र्म­न­स्यम् । एवं­जा­ती­य­का­श्चो­पा­यास्त उपक्लेशा गृह्यन्ते । तेऽमी परस्परहेतुकाः, जन्मादिहेतुका अवि­द्या­द­योऽ­वि­द्या­दि­हे­तु­काश्च जन्मादयो घटी­य­न्त्र­व­द­नि­श­मा­व­र्त­मानाः सन्तीति तदे­तै­र­वि­द्या­दि­भि­रा­क्षिप्तः सङ्घात इति । तदेतद्दूषयति

तन्न कुतः, उत्प­त्ति­मा­त्र­नि­मि­त्त­त्वा­दिति ।
अयमभिसन्धिः यत्खलु हेतूपनिबद्धं कार्यं तदन्यानपेक्षं हेतु­मा­त्रा­धी­नो­त्पा­द­त्वा­दु­त्प­द्यतां नाम । पञ्च­स्क­न्ध­स­मु­दा­यस्तु प्रत्य­यो­प­नि­बद्धो न हेतु­मा­त्रा­धी­नो­त्पत्तिः । अपि तु नाना­हे­तु­स­म­व­धा­न­जन्मा । न च चेत­न­म­न्त­रे­णान्यः संनिधापयितास्ति कार­णा­ना­मि­त्यु­क्तम् । बीजा­द­ङ्कु­रो­त्प­त्ते­रपि प्रत्य­यो­प­नि­ब­द्धाया विवा­दा­ध्या­सि­त­त्वेन पक्ष­नि­क्षि­प्त­त्वात् , पक्षेण च व्यभि­चा­रो­द्भा­व­ना­या­म­ति­प्र­स­ङ्गेन सर्वा­नु­मा­नो­च्छे­द­प्र­स­ङ्गात् । स्यादेतत् । अनपेक्षा एवा­न्त्य­क्ष­ण­प्राप्ताः क्षित्या­द­योऽ­ङ्कु­र­मा­र­भन्ते । तेषां तूप­स­र्प­ण­प्र­त्य­य­व­शा­त्प­र­स्प­र­स­म­व­धा­नम् । न चैकस्मादेव कार­णा­त्का­र्य­सिद्धेः किमन्यैः कारणैरिति वाच्यम् । कारणचक्रानन्तरं कार्यो­त्पा­दा­त्सि­द्ध­मि­त्येव नास्ति । न चैकोऽपि तत्कारणसमर्थ इत्यन्य उदासत इति युक्तम् । नहि ते प्रेक्षावन्तो येनै­व­मा­लो­च­ये­यु­र­स्मासु समर्थ एकोऽपि कार्ये इति कृतं नः संनिधिनेति । किन्तू­प­स­र्प­ण­प्र­त्य­या­धी­न­प­र­स्प­र­सं­नि­धा­नो­त्पादा नानुत्पत्तुं नाप्य­सं­नि­धा­तु­मी­शते । तांश्च सर्वाननपेक्षान् प्रतीत्य कार्यमपि न नोत्पत्तुमर्हति । नच स्वमहिम्ना सर्वे कार्य­मु­त्पा­द­य­न्तोऽपि नाना­का­र्या­णा­मी­शते तत्रैव तेषां सामर्थ्यात् । न च कार­ण­भे­दा­त्का­र्य­भेदः, सामग्र्या एकत्वात् । तद्भेदस्य च कार्य­ना­ना­त्व­हे­तु­त्वा­त्तथा दर्शनात् । तन्न । यद्य­न्त्य­क्ष­ण­प्राप्ता अनपेक्षाः स्वकार्योपजनने, हन्तानेन क्रमेण ततः पूर्वे ततः पूर्वे सर्व एवा­न­पे­क्षा­स्त­त्त­त्स्व­का­र्यो­प­ज­नन इति कुसू­ल­स्थ­त्वा­वि­शे­षेऽपि येन बीजक्षणेन कुसूलस्थेन स्वका­र्य­क्ष­ण­प­र­म्प­र­या­ङ्कु­रो­त्प­त्ति­स­मर्थो बीजक्षणो जनयितव्यः सोऽनपेक्ष एव बीजक्षणः स्वकार्योपजनने एवं सर्व एव तद­न­न्त­रा­न­न्त­र­व­र्तिनो बीजक्षणा अनपेक्षा इति कुसूलनिहितबीज एव स्यात्कृती कृषीवलः कृतमस्य दुःखबहुलेन कृषिकर्मणा । येन हि बीजक्षणेन स्वक्ष­ण­प­र­म्प­र­या­ङ्कुरो जन­यि­त­व्य­स्त­स्या­न­पे­क्षासौ क्षणपरम्परा कुसूल एवाङ्कुरं करिष्यतीति । तस्मा­त्प­र­स्प­रा­पेक्षा एवान्त्या वा मध्या वा पूर्वे वा क्षणाः कार्योपजनन इति वक्तव्यम् । यथाहुः “न किञ्चि­दे­क­मे­क­स्मा­त्सा­मग्र्याः सर्वसम्भवः” इति । तच्चेदं समवधानं कारणानां विन्या­स­भे­द­त­त्प्र­यो­ज­ना­भि­ज्ञ­प्रे­क्षा­व­त्पू­र्वकं दृष्टमिति नाचे­त­ना­द्भ­वि­तु­म­र्हति । तदिदमुक्तम्

भवेदुपपन्नः सङ्घातो यदि सङ्घातस्य किञ्चि­न्नि­मि­त्त­म­व­ग­म्ये­तेति ।

इत­रे­त­र­प्र­त्य­य­त्वेऽ­पीति ।
इत­रे­त­र­हे­तु­त्वेऽ­पी­त्यर्थः ।

उक्त­म­भि­स­न्धि­म­वि­द्वान् परिचोदयति
नन्व­वि­द्या­दि­भि­र­र्था­दा­क्षी­प्यत इति ।

परिहरति
अत्रोच्यते, यदि तावदिति ।
किमाक्षेप उत्पादनम् , आहो ज्ञापनम् । तत्र न ताव­त्का­र­ण­म­न्य­था­नु­प­प­द्य­मानं कार्य­मु­त्पा­द­यति, किन्तु स्वसामर्थ्येन । तस्माज्ज्ञापनं वक्तव्यम् । तथा च ज्ञापि­त­स्या­न्य­दु­त्पा­दकं वक्तव्यम् । तच्च स्थिरपक्षेऽपि सत्यपि च भोक्त­र्य­धि­ष्ठा­तारं चेतनमन्तरेण न सम्भवति किमङ्ग, पुनः क्षणिकेषु भावेषु । भोक्तु­र्भो­गे­नापि कदा­चि­दा­क्षि­प्येत सङ्घातः, स तु भोक्तापि नास्तीति दूरोत्सारितत्वं दर्शयति

भोक्तृ­र­हि­ते­ष्विति ।
अपि च बहव उप­का­र्यो­प­का­र­क­भा­वेन स्थिताः कार्यं जनयन्ति । नच क्षणिकपक्ष उप­का­र्यो­प­का­र­क­भा­वोऽस्ति, भाव­स्यो­प­का­रा­ना­स्प­द­त्वात् । क्षण­स्या­भे­द्य­त्वा­द­नु­प­कृ­तो­प­कृ­त­त्वा­स­म्भ­वात् । कालभेदेन वा तदुपपत्तौ क्षणि­क­त्व­व्या­घा­तात् । तदिदमाह

आश्र­या­श्र­यि­शू­न्येषु चेति ।

अथायमभिप्राय इति ।
यदा हि प्रत्य­यो­प­नि­ब­न्धनः प्रती­त्य­स­मु­त्पादो भवेत्तदा चेत­नोऽ­धि­ष्ठा­ता­पे­क्षे­तापि, न तु प्रत्य­यो­प­नि­ब­न्ध­नोऽपि तु हेतूपनिबन्धनः । तथाच कृतमधिष्ठात्रा । हेतुः स्वभावत एव कार्यसङ्घातं करिष्यति केवल इति भावः । अस्तु तावद्यथा केवलाद्धेतोः कार्यं नोपजायत इति, अन्यो­न्या­श्र­य­प्र­स­ङ्गोऽ­स्मिन् पक्ष इत्याशयवानाह

कथं तमेवेति ।

सम्प्रति प्रत्य­यो­प­नि­ब­न्धनं प्रती­त्य­स­मु­त्पा­द­मा­स्थाय चोदयति
अथ मन्यसे सङ्घाता एवेति ।
अस्थिरा अपि हि भावाः सदा संहता एवोदयन्ते व्ययन्ते च । न पुन­रि­त­स्त­तोऽ­व­स्थिताः केन­चि­त्पु­ञ्जी­क्रि­यन्ते । तथा च कृतमत्र संहन्त्रा चेतनेनेति भावः ।

अनादौ इति
परस्पराश्रयं निवर्तयति ।

तदेतद्विकल्प्य दूषयति
तथापि सङ्घातादिति ।
स खलु सङ्घा­त­स­न्त­ति­वर्ति धर्माधर्माह्वयः संस्कारसन्तानो यथायथं सुखदुःखे जनयन्नागन्तुकं कञ्चनानासाद्य स्वत एव जनयेत् , आसाद्य वा । अनासाद्यजनने सदैव सुखदुःखे जनयेत् , सम­र्थ­स्या­न­पे­क्ष­स्या­क्षे­पा­यो­गात् । आसाद्य जनने तदासादनकारणं प्रेक्षा­वा­न­भ्यु­पेयः । तथाच न प्रत्य­यो­प­नि­ब­न्धनः प्रती­त्य­स­मु­त्पादः । तस्मा­द­ने­ना­ग­न्तु­का­न­पे­क्षस्य सन्धा­त­स­न्ता­न­स्यैव सदृशजनने विसदृशजनने वा स्वभाव आस्थेयः । तथा च भाष्योक्तं दूषणमिति ।

अपि च यद्भोगार्थः सङ्घातः स्यादिति ।
अप्राप्तभोगो हि भोगार्थी भोग­मा­प्तु­का­म­स्त­त्सा­धने प्रवर्तत इति प्रत्या­त्म­सि­द्धम् । सेयं प्रवृ­त्ति­र्भो­गा­द­न्य­स्मिन् स्थिरे भोक्तरि भोग­त­त्सा­ध­न­स­म­य­व्या­पिनि कल्प्यते नास्थिरे । नच भोगादनन्यस्मिन् । नहि भोगो भोगाय कल्पते नाप्यन्यो भोगायान्यस्य । एवं मोक्षेऽपि द्रष्टव्यम् । तत्र बुभु­क्षु­मु­मुक्षू चेत्स्थि­रा­वा­स्थी­ये­यातां तदाभ्युपेतहानम् , अस्थैर्ये वा प्रवृ­त्ति­प्र­सङ्ग इत्यर्थः ।

न तु सङ्घातः सिध्ये­द्भो­क्त्र­भा­वा­दिति ।
भोक्त्रभावेन प्रवृ­त्त्य­नु­प­पत्तेः कर्त्रभावः । ततः कर्मा­भा­वा­त्स­ङ्घा­ता­सि­द्धि­रि­त्यर्थः ॥ १९ ॥

उत्तरोत्पादे च पूर्वनिरोधात् ।

पूर्वसूत्रेण सङ्गतिमस्याह
उक्तमेतदिति ।
हेतूपनिबन्धनं प्रती­त्य­स­मु­त्पा­द­म­भ्यु­पेत्य प्रत्य­यो­प­नि­ब­न्धनः प्रती­त्य­स­मु­त्पादो दूषितः । सम्प्रति हेतूपनिबन्धनमपि तं दूषयतीत्यर्थः ।

दूषणमाह
इदमिदानीमिति ।

निरु­ध्य­मा­न­स्येति ।
न ताव­द्वै­शे­षि­क­व­न्नि­रो­ध­का­र­ण­सां­निध्यं निरुध्यमानता स्वीक्रियते वैनाशिकैरकारणं विना­श­म­भ्यु­प­ग­च्छ­द्भि­स्त­स्या­नि­ष्ठ­त्वाद् । तस्मा­द्वि­ना­श­ग्र­स्त­त्व­म­चि­र­नि­रु­द्धत्वं निरुध्यमानत्वं वक्तव्यम् । निरुद्धत्वं च चिरनिरुद्धत्वं विवक्षितं, तथा चोभ­यो­र­प्य­भा­व­ग्र­स्त­त्वा­द्धे­तु­त्वा­नु­प­पत्तिः । शङ्कते

अथ भावभूत इति ।
कारणस्य हि कार्यो­त्पा­दा­त्प्रा­क्का­ल­स­त्ताऽ­र्थ­वती न कार्यकाला, तदा कार्यस्य सिद्धत्वेन तत्सि­द्ध्य­र्थायाः सत्ताया अनुपयोगादिति भावः । तदे­त­ल्लो­क­दृष्ट्या दूषयति

भावभूतस्येति ।
भूत्वा व्यापृत्य भावाः प्रायेण हि कार्यं कुर्वन्तो लोके दृश्यन्ते । तथा च स्थिरत्वम् , इतरथा तु लोकविरोध इति । पुनः शङ्कते

अथ भाव एवेति ।
यथा­हुःऽ­भू­ति­र्येषां क्रिया सैव कारकं सैव चोच्यतेऽइति । भवत्येवं व्यापारवत्ता तथापि क्षणिकस्य न कारणत्वमित्याह

तथापि नैवोपपद्यते
क्षणिकस्य कारणभावः । मृत्सुवर्णकारणा हि घटादयश्च रूचकादयश्च मृत्सु­व­र्णा­त्मा­नोऽ­नु­भू­यन्ते । यदि च न कार्यसमये कारणं सत्कथं तेषां तदात्मनानुभवः । नच कारणसादृश्यं कार्यस्य न तु तादात्म्यमिति वाच्यम् । असति कस्य­चि­द्रू­प­स्या­नु­गमे सादृ­श्य­स्या­प्य­नु­प­पत्तेः । अनुगमे वा तदेव कारणं, तथा च तस्य कार्य­ता­दा­त्म्य­मिति सिद्ध­म­क्ष­णि­क­त्व­मि­त्यर्थः । सर्वथा वैलक्षण्ये तु हेतु­फ­ल­भा­व­स्त­न्तु­घ­टा­दा­वपि प्राप्त इत्यतिप्रसङ्ग इत्याह

विनैव वेति ।
नच तद्भावभावो नियामकः, तस्यैकस्मिन् क्षणेऽ­श­क्य­ग्र­ह­त्वात् , सामान्यस्य चाकारणत्वात् । कारणत्वे वा क्षणि­क­त्व­हा­ने­र­स्म­त्प­क्ष­पा­त­प्र­स­ङ्गा­च्चेति भावः । अपि चोत्पा­द­नि­रो­ध­यो­र्वि­क­ल्प­त्र­येऽपि वस्तुनः शाश्व­त­त्व­प्र­सङ्ग इत्याह

अपि चोत्पादनिरोधौ नामेति ।
पर्या­य­त्वा­पा­द­नेऽपि नित्यत्वापादनं मन्तव्यम् ।

वस्तू­त्पा­द­नि­रो­धा­भ्या­म­सं­सृ­ष्ट­मिति वस्तुनः शाश्व­त­त्व­प्र­सङ्गः ।
संसर्गेऽप्यसता संस­र्गा­नु­प­पत्तेः । सत्त्वाभ्युपगमे शाश्व­त­त्व­मि­त्यपि द्रष्टव्यम् । शेषं निगदव्याख्यातम् ॥ २० ॥

असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ।
नीलाभासस्य हि चित्तस्य नीला­दा­ल­म्ब­न­प्र­त्य­या­न्नी­ला­का­रता । सम­न­न्त­र­प्र­त्य­या­त्पू­र्व­वि­ज्ञा­ना­द्बो­ध­रू­पता । चक्षु­षोऽ­धि­प­ति­प्र­त्य­या­द्रू­प­ग्र­ह­ण­प्र­ति­नि­यमः । आलो­का­त्स­ह­का­रि­प्र­त्य­या­द्धेतोः स्पष्टार्थता । एवं सुखादीनामपि चैत्तानां चित्ता­भि­न्न­हे­तु­जानां चत्वा­र्ये­ता­न्येव कारणानि । सेयं प्रतिज्ञा चतुर्विधान् हेतून् प्रतीत्य चित्तचैत्ता उत्पद्यन्त इत्यभावकारणत्व उपरुध्येत ।

अथो­त्त­र­क्ष­णो­त्पत्तिं याव­त्ता­व­द­व­ति­ष्ठत इति ।
उत्प­त्ति­रु­त्प­द्य­मा­ना­द्भा­वा­द­भिन्ना, तथा च क्षणि­क­त्व­हा­नि­रिति प्रतिज्ञाहानिः ॥ २१ ॥

प्रति­स­ङ्ख्या­प्र­ति­स­ङ्ख्या­नि­रो­धा­प्रा­प्ति­र­वि­च्छे­दात् ।
भावप्रतीपा सङ्ख्या बुद्धिः प्रतिसङ्ख्या, तया निरोधः प्रति­स­ङ्ख्या­नि­रोधः । सन्तमिममसन्तं करो­मी­त्ये­व­मा­का­रता च बुद्धे­र्भा­व­प्र­ती­प­त्वम् । एते­ना­प्र­ति­स­ङ्ख्या­नि­रो­धोऽपि व्याख्यातः । सन्तानगोचरो वा निरोधः, सन्ता­नि­क्ष­ण­गो­चरो वा । न तावत्सन्तानस्य निरोधः सम्भवति । हेतुफलभावेन हि व्यवस्थिताः सन्तानिन एवो­द­य­व्य­य­ध­र्माणः सन्तानाः । तत्र योऽसावन्त्यः सन्तानी, यन्नि­रो­धा­त्स­न्ता­नो­च्छे­देन भवितव्यम् , स किं फलं किञ्चिदारभते न वा । आरभते चेत् , नान्त्यः । तथा च न सन्तानोच्छेदः । अनारम्भे तु भवेदन्त्यः सः, किन्तु स्यादसन् , अर्थ­क्रि­या­का­रि­तायाः सत्तालक्षणस्य विरहात् । तदसत्वे तज्ज­न­क­म­प्य­स­ज्ज­न­क­त्वे­ना­स­दि­त्य­नेन क्रमेणासन्तः सर्व एव सन्तानिन इति तत्सन्तानो नितरामसन्निति कस्य प्रतिसङ्ख्यया निरोधः । नच सभागानां सन्तानिनां हेतुफलभावः सन्तानः, तस्य विसभागोत्पादो निरोधः, विसभागोत्पादक एव च क्षणः सन्ता­न­स्यान्त्यः । तथासति रूप­वि­ज्ञा­न­प्र­वाहे रसा­दि­वि­ज्ञा­नो­त्पत्तौ सन्ता­नो­च्छे­द­प्र­सङ्गः । कथ­ञ्चि­त्सा­रूप्ये वा विस­भा­गेऽ­प्य­न्ततः सत्तया तदस्तीति न सन्तानोच्छेदः । तद­ने­ना­भि­स­न्धि­नाह

सर्वेष्वपि सन्तानेषु सन्ता­नि­ना­म­वि­च्छि­न्ने­न­हे­तु­फ­ल­भा­वेन सन्ता­न­वि­च्छे­द­स्या­स­म्भ­वा­दिति ।
नापि भावगोचरौ सम्भवतः प्रति­स­ङ्ख्या­प्र­ति­स­ङ्ख्या­नि­रोधौ । अत्र ताव­दु­त्प­न्न­मा­त्रा­प्र­वृ­त्तस्य भावस्य न प्रति­स­ङ्ख्या­नि­रोधः सम्भवति, तस्य पुरु­ष­प्र­य­त्ना­पे­क्षा­भा­वा­दि­त्य­स्त्येव दूषणं, तथापि दोषा­न्त­र­मु­भ­य­स्मि­न्नपि निरोधो ब्रूते

न हि भावानामिति ।
यतो निरन्वयो विनाशो न सम्भवत्यतो निरूपाख्योऽपि न सम्भवति, तेनैवान्वयिना रूपेण भावस्य नष्ट­स्या­प्यु­पा­ख्ये­य­त्वात् । निर­न्व­य­वि­ना­शा­भावे हेतुमाह

सर्वा­स्व­प्य­व­स्था­स्विति ।
यद्यदन्वयिरूपं तत्त­त्प­र­मा­र्थ­स­द्भावः । अवस्थास्तु विशेषाख्या उप­ज­ना­पा­य­ध­र्माणः, तासां सर्वा­सा­म­नि­र्व­च­नी­य­तया स्वतो न परमार्थसत्त्वम् । अन्वय्येव तु रूपं तासां तत्त्वम् । तस्य च सर्वत्र प्रत्य­भि­ज्ञा­य­मा­न­त्वान्न विनाश इत्य­व­स्था­व­तोऽ­वि­ना­शा­न्ना­व­स्थानां निरन्वयो विनाश इति । तासां तत्त्व­स्या­न्व­यिनः सर्व­त्रा­वि­च्छे­दात् । स्यादेतत् । मृत्पि­ण्ड­मृ­द्घ­ट­मृ­त्क­पा­ला­दिषु सर्वत्र मृत्त­त्त्व­प्र­त्य­भि­ज्ञा­ना­द्भ­व­त्वे­वम् । तप्तो­प­ल­त­ल­प­ति­त­न­ष्टस्य तूदबिन्दोः किमस्ति रूपमन्वयि प्रत्य­भि­ज्ञा­य­मानं, येनास्य न निरन्वयो नाशः स्यादित्यत आह

अस्प­ष्ट­प्र­त्य­भि­ज्ञा­ना­स्व­पीति ।
अत्रापि तत्तोयं तेजसा मार्त­ण्ड­म­ण्ड­ल­म­म्बु­द­त्वाय नीयत इत्यनुमेयं, मृदा­दी­ना­म­न्व­यि­ना­म­वि­च्छे­द­द­र्श­नात् । शक्यं तत्र वक्तुम् “उदबिन्दौ च सिन्धौ च तोयभावो न भिद्यते । विनष्टेऽपि ततो बिन्दावस्ति तस्या­न्व­योऽ­म्बुधौ ॥' तस्मान्न कश्चिदपि निरन्वयो नाश इति सिद्धम् ॥ २२ ॥

उभयथा च दोषात् ।
परिकरः सामग्री सम्यग्ज्ञानस्य यमनियमादिः श्रवणमननादिश्च । मार्गाः क्षणि­क­नै­रा­त्म्या­दि­भा­वनाः । अतिरोहितमन्यत् ॥ २३ ॥

आकाशे चाविशेषात् ।

एतद्व्याचष्टे
यच्च तेषामिति ।
वेदप्रामाण्ये विप्रतिपन्नानपि प्रति­श­ब्द­गु­णा­नु­मे­य­त्व­मा­का­शस्य वक्तव्यम् । तथाहि जातिमत्त्वेन सामा­न्य­वि­शे­ष­स­म­वा­येभ्यो विभक्तस्य शब्द­स्या­स्प­र्शत्वे सति बाह्यै­के­न्द्रि­य­ग्रा­ह्य­त्वेन गन्धा­दि­व­द्गु­ण­त्व­म­नु­मि­तम् । नायमात्मगुणो बाह्ये­न्द्रि­य­गो­च­र­त्वात् । अत एव न मनोगुणः, तद्गु­णा­ना­म­प्र­त्य­क्ष­त्वात् । न पृथिव्यादिगुणः, तद्गु­ण­ग­न्धा­दि­सा­ह­च­र्या­नु­प­लब्धेः । तस्माद्गुणो भूत्वा गन्धा­दि­व­द­सा­धा­र­णे­न्द्रि­य­ग्राह्यो यद्द्र­व्य­म­नु­मा­प­यति तदाकाशं पञ्चमं भूतं वस्त्विति ।

अपि चाव­र­णा­भा­व­मा­का­श­मि­च्छत इति ।
निषे­ध्य­नि­षे­धा­धि­क­र­ण­नि­रू­प­णा­धी­न­नि­रू­पणो निषेधो नास­त्य­धि­क­र­ण­नि­रू­पणे शक्यो निरूपयितुम् । तच्चा­व­र­णा­भा­वा­धि­क­र­ण­मा­काशं वस्त्विति । अति­रो­हि­ता­र्थ­म­न्यत् ॥ २४ ॥

अनुस्मृतेश्च ।

विभजते
अपि च वैनाशिकः सर्वस्य वस्तुन इति ।

यस्तु सत्य­प्ये­त­स्मि­न्नु­प­ल­ब्धृ­स्म­र्त्रो­र­न्य­त्वेऽपि समानायां सन्ततौ कार्य­का­र­ण­भा­वा­त्स्मृ­ति­रु­प­प­त्स्यत इति मन्यमानो न परितुष्यति तं प्रति प्रत्य­भि­ज्ञा­स­मा­ज्ञा­त­प्र­त्य­क्ष­वि­रो­ध­माह
अपि च दर्शनस्मरणयोः कर्तरीति ।
ततोऽ­ह­म­द्रा­क्षी­दिति प्रतीयात् , अहं स्मरा­म्य­न्य­स्त्व­द्रा­क्षी­दि­त्यर्थः । प्रत्य­भि­ज्ञा­प्र­त्य­क्ष­वि­रो­ध­प्र­प­ञ्च­स्तू­त्तरः ।

आ जन्मनः आ चोत्त­मा­दु­च्छ्वा­सात् ।
आमरणादित्यर्थः । नच सादृश्यनिबन्धनं प्रत्यभिज्ञानं, पूर्वा­प­र­क्ष­ण­द­र्शिन एकस्याभावे तदनुपपत्तेः । शङ्कते

तेनेदं सदृशमिति ।
अयमर्थः विक­ल्प­प्र­त्य­योऽयं, विकल्पश्च स्वाकारं बाह्य­त­या­ध्य­व­स्यति, न तु तत्त्वतः पूर्वापरौ क्षणौ तयोः सादृश्यं वा गृह्णाति । तत्क­थ­मे­क­स्या­ने­क­द­र्शिनः स्थिरस्य प्रसङ्ग इति । निराकरोति

न । तेनेदमिति भिन्न­प­दा­र्थो­पा­दा­ना­दिति ।
नाना­प­दा­र्थ­स­म्भि­न्न­वा­क्या­र्था­भा­स­स्ता­व­दयं विकल्पः प्रथते तत्रैते नानापदार्था न प्रथन्त इति ब्रुवाणः स्वसंवेदनं बाधेत । न चैकस्य ज्ञानस्य नानाकारत्वं सम्भवति, एकत्वविरोधात् । नच तावन्त्येव ज्ञानानीति युक्तं, तथासति प्रत्याकारं ज्ञानानां समाप्तेस्तेषां च पर­स्प­र­वा­र्ता­ज्ञा­ना­भा­वा­न्ना­ने­त्येव न स्यात् । तस्मा­त्पू­र्वा­प­र­क्ष­ण­त­त्सा­दृ­श्य­गो­च­रत्वं ज्ञानस्य वक्तव्यम् । न चैत­त्पू­र्वा­प­र­क्ष­णा­व­स्था­यि­न­मेकं ज्ञातारं विनेति क्षण­भ­ङ्ग­भ­ङ्ग­प्र­सङ्गः । यद्युच्येत अस्त्येतस्मिन् विकल्पे तेनेदं सदृशमिति पदद्वयप्रयोगो न त्विह तत्तेदन्तास्पदौ पदार्थौ तयोश्च सादृश्यमिति विवक्षितम् , अपि त्वेवमाकारता ज्ञानस्य कल्पितेति, तत्राह

यदा हि लोकप्रसिद्धः पदार्थ इति ।
एका­धि­क­र­ण­वि­प्र­ति­षि­द्ध­ध­र्म­द्व­या­भ्यु­प­गमो विवादः । तत्रैकः स्वपक्षं साधयत्यन्यश्च तत्साधनं दूषयति । न चैतत्सर्वमसति विकल्पानां बाह्या­ल­म्ब­न­त्वेऽ­सति च लोक­प्र­सि­द्ध­प­दा­र्थ­कत्वे भवितुमर्हति । ज्ञानाकारत्वे हि विक­ल्प­प्र­ति­भा­सिनां नित्य­त्वा­नि­त्य­त्वा­दी­ना­मे­का­र्थ­वि­ष­य­त्वा­भा­वा­त्ज्ञा­नानां च धर्मिणां भेदान्न विरोधः । नह्या­त्म­नि­त्यत्वं बुद्ध्य­नि­त्यत्वं च ब्रुवाणौ विप्रतिपद्येते । न चालौ­कि­का­र्थे­ना­नि­त्य­श­ब्दे­ना­त्मनि विभुत्वं विव­क्षि­त्वा­नि­त्य­शब्दं प्रयुञ्जानो लौकिकार्थं नित्य­श­ब्द­मा­त्मनि प्रयुञ्जानेन विप्रतिपद्यते । तस्मादनेन स्वपक्षं प्रति­ति­ष्ठा­प­यि­षता परपक्षसाधनं च निराचिकीर्षता विकल्पानां लोक­सि­द्ध­प­दा­र्थ­कता बाह्यालम्बनता च वक्तव्या । यद्युच्येत द्विविधो हि विकल्पानां विषयो ग्राह्य­श्चा­ध्य­व­से­यश्च । तत्र स्वाकारो ग्राह्योऽ­ध्य­व­से­यस्तु बाह्यः । तथाच पक्ष­प्र­ति­प­क्ष­प­रि­ग्र­ह­ल­क्षणा विप्रतिपत्तिः प्रसि­द्ध­प­दा­र्थ­कत्वं चोपपद्यत इत्यत आह

एवमेवैषोऽर्थ इति निश्चितं यत्तदेव वक्तव्यं, ततोऽ­न्य­दु­च्य­मानं बहु­प्र­ला­पि­त्व­मा­त्मनः केवलं प्रख्यापयेत् ।
अयमभिसन्धिः केयमध्यवसेयता बाह्यस्य । यदि ग्राह्यता न द्वैविध्यम् । अथान्या सोच्यतां, ननूक्ता तैरेव स्वप्र­ति­भा­सेऽ­न­र्थेऽ­र्था­ध्य­व­सा­येन प्रवृत्तिरिति । अथ विकल्पाकारस्य कोऽयमध्यवसायः । किं करणमाहो योजनमुतारोप इति । न तावत्करणम् । नह्य­न्य­द­न्य­त्कर्तुं शक्यम् । नहि जातु सहस्रमपि शिल्पिनो घटं पटयितुमीशते । न चान्तरं बाह्येन योजयितुम् । अपि च तथासति युक्त इति प्रत्ययः स्यात् । न चास्ति । आरोपोऽपि किं गृह्यमाणे बाह्ये उतागृह्यमाणे । यदि गृह्यमाणे तदा किं विकल्पेनाहो तत्स­म­य­जे­ना­वि­क­ल्प­केन । न ताव­द्वि­क­ल्पोऽ­भि­ला­प­सं­स­र्ग­यो­ग्य­गो­च­रोऽ­श­क्या­भि­ला­प­स­मयं स्वलक्षणं देशकालाननुगतं गोचरयितुमर्हति । यथाहुः “अशक्यसमयो ह्यात्मा सुखा­दी­ना­म­न­न्य­भाक् । तेषामतः स्वसं­वि­त्ति­र्ना­भि­ज­ल्पा­नु­ष­ङ्गिणी ॥' इति । न च तत्समयभाविना निर्विकल्पकेन गृह्यमाणे बाह्ये विकल्पेनागृहीते तत्र विकल्पः स्वाका­र­मा­रो­प­यि­तु­म­र्हति । न हि रज­त­ज्ञा­ना­प्र­ति­भा­सिनि पुरोवर्तिनि वस्तुनि रजतज्ञानेन शक्यं रजतमारोपयितुम् । अगृह्यमाणे तु बाह्ये स्वाकार इत्येव स्यान्न बाह्य इति । तथा च नारोपणम् । अपि चायं विकल्पः स्वसंवेदनं सन्तं विकल्पं किं वस्तुसन्तं स्वाकारं गृहीत्वा पश्चा­द्बा­ह्य­मा­रो­प­यति, अथ यदा स्वाकारं गृह्णाति तदैवारोपयति । न तावत्क्षणिकतया क्रमविरहिणो ज्ञानस्य क्रमवर्तिनी ग्रहणारोपणे कल्पेते । तस्माद्यदैव स्वाकारमनर्थं गृह्णाति तदै­वा­र्थ­मा­रो­प­य­तीति वक्तव्यम् । न चैतद्युज्यते । स्वाकारो हि स्वसं­वे­द­न­प्र­त्य­क्ष­त­या­ति­वि­शदः । बाह्यं चारो­प्य­मा­ण­म­वि­शदं सत्ततोऽन्यदेव स्यान्न तु स्वाकारः समारोपितः । न च भेदाग्रहमात्रेण समारोपाभिधानं, वैश­द्या­वै­श­द्य­रू­प­तया भेद­ग्र­ह­स्यो­क्त­त्वात् । अपि चागृह्यमाणे चेद्बा­ह्येऽ­बा­ह्या­त्स्व­ल­क्ष­णा­द्भे­दा­ग्र­ह­णेन तदभिमुखी प्रवृत्तिः, हन्त तर्हि त्रैलोक्यत एवानेन न भेदो गृहीत इति यत्र क्वचन प्रव­र्ते­ता­वि­शे­षात् । एतेन ज्ञाना­का­र­स्यै­वा­लो­क­स्यापि बाह्यत्वसमारोपः प्रत्युक्तः । तस्मा­त्सु­ष्ठू­क्तंऽ­त­तोऽ­न्य­दु­च्य­मानं बहु­प्र­ला­पि­त्व­मा­त्मनः ख्यापयेत्ऽइति । अपि च सादृश्यनिबन्धनः संव्य­व­हा­र­स्ते­नेदं सदृ­श­मि­त्ये­व­मा­का­र­बु­द्धि­नि­ब­न्धनो भवेन्न तु तदे­वे­द­मि­त्या­का­र­बु­द्धि­नि­ब­न्धन इत्याह

नचायं सादृ­श्या­त्सं­व्य­व­हार इति ।

ननु ज्वालादिषु सादृ­श्या­द­स­त्या­मपि सादृश्यबुद्धौ तद्भा­वा­व­ग­म­नि­ब­न्धनः संव्यहारो दृश्यते यथा तथेहापि भविष्यतीति पूर्वा­प­रि­तो­षे­णाह
भवेदपि कद­चि­द्बा­ह्य­व­स्तु­नीति ।
तथा­हि­वि­वि­ध­ज­न­स­ङ्की­र्ण­गो­पु­रेण पुरं निविशमानं नरान्तरेभ्य आत्म­नि­र्धा­र­णा­या­सा­धा­रणं चिह्नं विदधतमुपहसन्ति पाशुपतं पृथग्जना इति ॥ २५ ॥

नास­तोऽ­दृ­ष्ट­त्वात् ।

इतश्चानुपपन्नो वैनाशिकसमय इति ।
अस्थि­रा­त्का­र्यो­त्प­त्ति­मि­च्छन्तो वैनाशिका अर्थादभावादेव भावो­त्प­त्ति­माहुः । उक्तमेतदधस्तात् । निर­पे­क्षा­त्का­र्यो­त्पत्तौ पुरु­ष­क­र्म­वै­य­र्थ्यम् । सापेक्षतायां च क्षण­स्या­भे­द्य­त्वे­नो­प­कृ­त­त्वा­नु­प­पत्तेः, अनुपकारिणि चापे­क्षा­भा­वा­द­क्ष­णि­क­त्व­प्र­सङ्गः । सापे­क्ष­त्वा­न­पे­क्ष­त्व­यो­श्चा­न्य­त­र­नि­षे­ध­स्या­न्य­त­र­वि­धा­न­ना­न्त­री­य­क­त्वेन प्रका­रा­न्त­रा­भा­वा­न्ना­स्थि­रा­द्भा­वा­द्भा­वो­त्प­त्ति­रिति क्षणि­क­प­क्षेऽ­र्था­द­भा­वा­द्भा­वो­त्प­त्ति­रिति परिशिष्यत इत्यर्थः । न केव­ल­म­र्था­दा­प­द्यते, दर्शयन्ति च

नानुपमृद्य प्रादु­र्भा­वा­दिति ।

एतद्विभजते
विन­ष्टा­द्धि­कि­लेति ।
किल­का­रोऽ­नि­च्छा­याम् ।

कूट­स्था­च्चे­त्का­र­णा­त्का­र्य­मु­त्प­द्ये­तापि सर्वं सर्वत उत्पद्येत ।
अयमभिसन्धिः कूटस्थो हि कार्यजननस्वभावो वा स्यादतत्स्वभावो वा । स चेत्का­र्य­ज­न­न­स्व­भा­व­स्ततो यावदनेन कार्यं कर्तव्यं तावत्सहसैव कुर्यात् । समर्थस्य क्षेपायोगात् । अतत्स्वभावे तु न कदाचिदपि कुर्यात् । यद्युच्येत समर्थोऽपि क्रम­व­त्स­ह­का­रि­स­चिवः क्रमेण कार्याणि करोतीति । तदयुक्तम् । विकल्पासहत्वात् । किमस्य सहकारिणः कञ्चि­दु­प­का­र­मा­द­धति न वा । अना­धा­नेऽ­नु­प­का­रि­तया सहकारिणो नापेक्षेरन् । आधानेऽपि भिन्नमभिन्नं वोपकारमादध्युः । अभेदे तदेवाभिहितमिति कौटस्थ्यं व्याहन्येत । भेदे तूपकारस्य तस्मिन् सति कार्यस्य भावादसति चाभावात्सत्यपि कूटस्थे कार्या­नु­त्पा­दा­द­न्व­य­व्य­ति­रे­का­भ्या­मु­प­कार एव कार्यकारी न भाव इति नार्थक्रियाकारी भावः । तदुक्तम् “वर्षातपाभ्यां किं व्योम्न­श्च­र्म­ण्यस्ति तयोः फलम् । चर्मो­प­म­श्चे­त्सोऽ­नित्यः स्वतु­ल्य­श्चे­द­स­त्फलः ॥' इति । तथा चाकि­ञ्चि­त्क­रा­दपि चेत्कू­ट­स्था­त्कार्यं जायेत, सर्वं सर्व­स्मा­ज्जा­ये­तेति सूक्तम् । उपसंहरति

तस्मा­द­भा­व­ग्र­स्तेभ्य इति ।

तत्रेदमुच्यते । नास­तोऽ­दृ­ष्ट­त्वा­दिति ।
नाभा­वा­त्का­र्यो­त्पत्तिः । कस्मात् । अदृष्टत्वात् । नहि शश­वि­षा­णा­द­ङ्कु­रा­दीनां कार्या­णा­मु­त्प­त्ति­र्दृ­श्यते । यदि त्वभा­वा­द्भा­वो­त्पत्तिः स्यात्त­तोऽ­भा­व­त्वा­वि­शे­षा­त्श­श­वि­षा­णा­दि­भ्योऽ­प्य­ङ्कु­रो­त्पत्तिः । नह्यभावो विशिष्यते । विशेषणयोगे वा सोऽपि भावः स्यान्न निरूपाख्य इत्यर्थः । विशे­ष­ण­यो­ग­म­भा­व­स्या­भ्यु­पे­त्याह

नाप्यभावः कस्य­चि­दु­त्प­त्ति­हे­तु­रिति ।
अपि च यद्येनानन्वितं न तत्तस्य विकारः, यथा घट­श­रा­वो­द­ञ्चा­ना­दयो हेम्नानन्विता न हेमविकाराः । अनन्विताश्चैते विकारा अभावेन । तस्मा­न्ना­भा­व­वि­काराः । भावविकारस्तु ते, भावस्य तेना­न्वि­त­त्वा­दि­त्याह

अभावाच्च भावोत्पत्ताविति ।

अभावकारणवादिनो वचनमनुभाष्य दूषयति
यत्तूक्तमिति ।
स्थिरोऽपि भावः क्रम­व­त्स­ह­का­रि­स­म­व­धा­ना­त्क्र­मेण कार्याणि करोति । न चानुपकारकाः सहकारिणः । स चास्य सह­का­रि­भि­रा­धी­य­माना उपकारो न भिन्नो नाप्यभिन्नः । किन्त्व­नि­र्वाच्य एव । अनिर्वाच्याच्च कार्य­म­प्य­नि­र्वा­च्य­मेव जायते । न चैतावता स्थिर­स्या­का­र­णत्वं, तदु­पा­दा­न­त्वा­त्का­र्यस्य, रज्जू­पा­दा­न­त्व­मिव भुज­ङ्ग­स्ये­त्यु­क्तम् । तथा च श्रुतिः “मृत्तिकेत्येव सत्यम्”(छा. उ. ६ । १ । ४) इति । अपिच येऽपि सर्वतो विलक्षणानि स्वलक्षणानि वस्तु­स­न्त्या­स्थि­षत, तेषामपि किमिति बीज­जा­ती­ये­भ्योऽ­ङ्कु­र­जा­ती­या­न्येव जायन्ते कार्याणि, नतु क्रमेलकजातीयानि । नहि बीजा­द्बी­जा­न्त­रस्य वा क्रमेलकस्य वात्य­न्त­वै­ल­क्षण्ये कश्चिद्विशेषः । नच बीजाङ्कुरत्वे सामान्ये परमार्थसती, येनैतयोर्भाविकः कार्यकारणभावो भवेत् । तस्मा­त्का­ल्प­नि­का­देव स्वल­क्ष­णो­पा­दा­ना­द्बी­ज­जा­ती­या­त्त­था­वि­ध­स्यै­वा­ङ्कु­र­जा­ती­य­स्यो­त्प­त्ति­नि­यम आस्थेयः । अन्यथा कार्य­हे­तु­का­नु­मा­नो­च्छे­द­प्र­सङ्गः । दिङ्मात्रस्य सूचितम् । प्रपञ्चस्तु ब्रह्म­त­त्त्व­स­मी­क्षा­न्या­य­क­णि­कयोः कृत इति नेह प्रतन्यते विस्तरभयात् ॥ २६ ॥

उदासीनानामपि चैवं सिद्धिः ।
भाष्यमस्य सुगमम् ॥ २७ ॥

नाभाव उपलब्धेः ।

पूर्वा­धि­क­र­ण­स­ङ्ग­ति­माह
एवमिति ।

बाह्या­र्थ­वा­दिभ्यो विज्ञा­न­मा­त्र­वा­दिनां सुगताभिप्रेततया विशेषमाह
केषा­ञ्चि­त्कि­लेति ।
अथ प्रमाता प्रमाणं प्रमेयं प्रमितिरिति हि चतसृषु विधासु तत्त्व­प­रि­स­मा­प्ति­रा­सा­म­न्य­त­मा­भा­वेऽपि तत्त्व­स्या­व्य­व­स्था­नात् । तस्मादनेन विज्ञा­न­स्क­न्ध­मात्रं तत्त्वं व्यवस्थापयता चतस्रो विधा एषितव्याः, तथाच न विज्ञा­न­स्क­न्ध­मात्रं तत्त्वम् । नह्यस्ति सम्भवो विज्ञानमात्रं चतस्रो विधाश्चेत्यत आह

तस्मिंश्च विज्ञानवादे बुद्ध्यारूढेन रूपेणेति ।
यद्य­प्य­नु­भ­वा­न्ना­न्योऽ­नु­भा­व्योऽ­नु­भ­वि­ता­नु­भ­वनं, तथापि बुद्ध्यारूढेन बुद्धि­प­रि­क­ल्पि­ते­ना­न्तस्थ एवैष प्रमा­ण­प्र­मे­य­फ­ल­व्य­व­हारः प्रमा­तृ­व्य­व­हा­र­श्चे­त्यपि द्रष्टव्यम् । न पारमार्थिक इत्यर्थः । एवं च न सिद्धसाधनम् । न हि ब्रह्मवादिनो नीलाद्याकारां वित्ति­म­भ्यु­प­ग­च्छन्ति, किन्त्व­नि­र्व­च­नीयं नीलादीति । तथाहि स्वरूपं विज्ञा­न­स्या­स­त्या­का­र­युक्तं प्रमेयं प्रमेयप्रकाशनं प्रमाणफलं, तत्प्र­का­श­न­शक्तिः प्रमाणम् । बाह्यवादिनोरपि वैभा­षि­क­सौ­त्रा­न्ति­कयोः काल्पनिक एव प्रमा­ण­फ­ल­व्य­व­हा­रोऽ­भि­मत इत्याह

सत्यपि बाह्येऽर्थ इति ।
भिन्नाधिकरणत्वे हि प्रमा­ण­फ­ल­यो­स्त­द्भावो न स्यात् । नहि खदिरगोचरे परशौ पलाशे द्वैधीभावो भवति । तस्मा­द­न­यो­रै­का­धि­क­रण्यं वक्तव्यम् । कथं च तद्भवति । यदि ज्ञानस्थे एव प्रमाणफले भवतः । न च ज्ञानं स्वल­क्ष­ण­म­नं­श­मं­शाभ्यां वस्तुसद्भ्यां युज्यते । तदेव ज्ञान­म­ज्ञा­न­व्या­वृ­त्ति­क­ल्पि­त­ज्ञा­न­त्वांशं फलम् । अश­क्ति­व्या­वृ­त्ति­प­रि­क­ल्पि­ता­त्मा­ना­त्म­प्र­का­श­न­श­क्त्यंशं प्रमाणम् । प्रमेयं त्वस्य बाह्यमेव । एवं सौत्रा­न्ति­क­स­म­येऽपि । ज्ञान­स्या­र्थ­सा­रू­प्य­म­नी­ला­का­र­व्या­वृत्त्या कल्पि­त­नी­ला­का­रत्वं प्रमाणं व्यव­स्था­प­न­हे­तु­त्वात् । अज्ञा­न­व्या­वृ­त्ति­क­ल्पितं च ज्ञानत्वं फलं व्यव­स्था­प्य­त्वात् । तथा चाहुः “नहि वित्तिसत्तैव तद्वेदना युक्ता, तस्याः सर्व­त्रा­वि­शे­षात् । तां तु सारू­प्य­मा­वि­श­त्स­रू­प­य­त्त­द्घ­ट­येत्” इति । प्रश्नपूर्वकं बाह्यार्थाभाव उपपत्तीराह

कथं पुनरवगम्यत इति ।
स हि विज्ञा­ना­ल­म्ब­न­त्वा­भि­मतो बाह्योऽर्थः परमाणुस्तावन्न सम्भवति । एकस्थूलनीलाभासं हि ज्ञानं न पर­म­सू­क्ष्म­प­र­मा­ण्वा­भा­सम् । न चान्या­भा­स­म­न्य­गो­चरं भवितुमर्हति । अतिप्रसङ्गेन सर्वगोचरतया सर्व­स­र्व­ज्ञ­त्व­प्र­स­ङ्गात् । न च प्रतिभासधर्मः स्थौल्यमिति युक्तम् । विकल्पासहत्वात् । किमयं प्रतिभासस्य ज्ञानस्य धर्म उत प्रति­भा­स­न­का­लेऽ­र्थस्य धर्मः । यदि पूर्वः कल्पः, अद्धा, तथासति हि स्वांशालम्बनमेव विज्ञा­न­म­भ्यु­पेतं भवति । एवं च कः प्रति­कू­ली­भ­व­त्य­नु­कू­ल­मा­च­रति । द्वितीय इति चेत् । तथा हि रूपपरिमाणव एव निर­न्त­र­मु­त्पन्ना एक­वि­ज्ञा­नो­पा­रो­हिणः स्थौल्यम् । न चात्र कस्य­चि­द्भ्रा­न्तता । नहि न ते रूपपरमाणवः । नच न निर­न्त­र­मु­त्पन्नाः । न चैक­वि­ज्ञा­ना­नु­पा­रो­हिणः । तेन मा भून्नी­ल­त्वा­दि­व­त्प­र­मा­णु­धर्मः, प्रत्येकं परमाणुष्वभावात् । प्रति­भा­स­द­शा­प­न्नानां तु तेषां भविष्यति बहु­त्वा­दि­व­त्सां­वृतं स्थौल्यम् । यथाहुः “ग्रहेऽनेकस्य चैकेन किञ्चिद्रूपं हि गृह्यते । सांवृतं प्रतिभासस्थं तदे­का­त्म­न्य­स­म्भ­वात् ॥ १ ॥ नच तद्दर्शनं भ्रान्तं नाना­व­स्तु­ग्र­हा­द्यतः । सांवृतं ग्रहणं नान्यन्न च वस्तुग्रहो भ्रमः ॥ २ ॥' इति । तन्न । नैर­न्त­र्या­व­भा­सस्य भ्रान्तत्वात् । गन्ध­र­स­स्प­र्श­प­र­मा­ण्व­न्त­रिता हि ते रूपपरमाणवो न निरन्तराः तस्मा­दा­रा­त्सा­न्त­रेषु वृक्षे­ष्वे­क­ध­न­व­न­प्र­त्य­य­व­देष स्थूलप्रत्ययः परमाणुषु सान्तरेषु भ्रान्त एवेति पश्यामः । तस्मा­त्क­ल्प­ना­पो­ढ­त्वेऽपि भ्रान्त­त्वा­द्घ­टा­दि­प्र­त्य­यस्य पीत­श­ङ्खा­दि­ज्ञा­न­वन्न प्रत्यक्षता पर­मा­णु­गो­च­र­त्वा­भ्यु­प­गमे । तदिदमुक्तम् , न तावत्परमाणवः स्तम्भा­दि­प्र­त्य­य­प­रि­च्छेद्या भवितुमर्हन्ति । नापि तत्समूहा वा स्तम्भा­द­योऽ­व­य­विनः । तेषामभेदे परमाणुभ्यः परमाणव एव । तत्र चोक्तं दूषणम् । भेदे तु गवा­श्व­स्ये­वा­त्य­न्त­वै­ल­क्ष­ण्य­मिति न तादात्म्यम् । समवायश्च निराकृत इति । एवं भेदाभेदविकल्पेन जाति­गु­ण­क­र्मा­दी­नपि प्रत्याचक्षीत । तस्मा­द्य­द्य­त्प्र­ति­भा­सते तस्य सर्वस्य विचारासहत्वात् , अप्र­ति­भा­स­मा­न­स­द्भावे च प्रमाणाभावान्न बाह्यालम्बनाः प्रत्यया इति । अपि च न ताव­द्वि­ज्ञा­न­मि­न्द्रि­य­व­न्नि­ली­न­मर्थं प्रत्य­क्ष­यि­तु­म­र्हति । नहि यथे­न्द्रि­य­म­र्थ­वि­षयं ज्ञानं जनयत्येवं विज्ञानमपरं विज्ञानं जनयितुमर्हति । तत्रापि समा­न­त्वा­द­नु­यो­ग­स्या­न­व­स्था­प्र­स­ङ्गात् । न चार्थाधारं प्राकट्यलक्षणं फल­मा­धा­तु­मु­त्स­हते । अतीतानागतेषु तदसम्भवात् । नह्यस्ति सम्भ­वोऽ­प्र­त्यु­त्पन्नो धर्मी धर्माश्चास्य प्रत्युत्पन्ना इति । तस्मा­ज्ज्ञा­न­स्व­रू­प­प्र­त्य­क्ष­तै­वा­र्थ­प्र­त्य­क्ष­ता­भ्यु­पेया । तच्चानाकारं सदाजानतो भेदा­भा­वा­त्क­थ­म­र्थ­भेदं व्यवस्थापयेदिति तद्भे­द­व्य­व­स्था­प­ना­या­का­र­भे­दोऽ­स्यै­षि­तव्यः । तदुक्तम् “न हि वित्तिसत्तैव तद्वेदना युक्ता, तस्याः सर्व­त्रा­वि­शे­षात् । तां तु सारू­प्य­मा­वि­श­त्स­रू­प­य­त्त­द्घ­ट­येत्” इति । एक­श्चा­य­मा­का­रोऽ­नु­भू­यते । स चेद्विज्ञानस्य नार्थसद्भावे किञ्चन प्रमा­ण­म­स्ती­त्याह

अपि­चा­नु­भ­व­मा­त्रेण साधारणात्मनो ज्ञानस्येति ।

अपि च सहो­प­ल­म्भ­नि­य­मा­दिति ।
यद्येन सह नियतसहोपलम्भनं तत्ततो न भिद्यते, यथै­क­स्मा­च्च­न्द्र­मसो द्विती­य­श्च­न्द्रमाः । निय­त­स­हो­प­ल­म्भ­श्चार्थो ज्ञानेनेति व्याप­क­वि­रु­द्धो­प­लब्धिः । निषेध्यो हि भेदः सहोपलम्भानियमेन व्याप्तो यथा भिन्नावश्विनौ नावश्यं सहोपलभ्येते कदा­चि­द­भ्रा­पि­धा­नेऽ­न्य­त­र­स्यै­क­स्यो­प­लब्धेः । सोऽयमिह भेद­व्या­प­का­नि­य­म­वि­रूद्धो नियम उप­ल­भ्य­मा­न­स्त­द्व्याप्यं भेदं निवर्तयतीति । तदुक्तम् “सहो­प­ल­म्भ­नि­य­मा­द­भेदो नीलतद्धियोः । भेदश्च भ्रान्ति­वि­ज्ञा­नै­र्द्दृ­श्य­ते­न्दा­वि­वा­द्वये ॥' इति । स्वप्ना­दि­व­च्चेदं द्रष्टव्यम् । यो यः प्रत्ययः स सर्वो बाह्यानालम्बनः, यथा स्वप्न­मा­या­दि­प्र­त्ययः, तथा चैष विवादाध्यासितः प्रत्यय इति स्वभावहेतुः । बाह्यानालम्बनता हि प्रत्य­य­त्व­मा­त्रा­नु­ब­न्धिनी वृक्षतेव शिंश­पा­त्व­मा­त्रा­नु­ब­न्धि­नीति तन्मा­त्रा­नु­ब­न्धिनि निरालम्बनत्वे साध्ये भवति प्रत्ययत्वं स्वभावहेतुः । अत्रान्तरे सौत्रा­न्ति­क­श्चो­द­यति

कथं पुनरसति बाह्येऽर्थे नीलमिदं पीत­मि­त्या­दि­प्र­त्य­य­वै­चि­त्र्य­मु­प­प­द्यते ।
स हि मेने ये यस्मिन् सत्यपि कादाचित्कास्ते सर्वे तद­ति­रि­क्त­हे­तु­सा­पेक्षाः, यथा विव­क्ष­त्य­जि­ग­मि­षति मयि वच­न­ग­म­न­प्र­ति­भासाः प्रत्य­या­श्चे­त­न­स­न्ता­ना­न्त­र­सा­पेक्षाः । तथा च विवादाध्यासिताः सत्य­प्या­ल­य­वि­ज्ञा­न­स­न्ताने षडपि प्रवृ­त्ति­प्र­त्यया इति स्वभावहेतुः । यश्चा­सा­वा­ल­य­वि­ज्ञा­न­स­न्ता­ना­ति­रिक्तः कादा­चि­त्क­प्र­वृ­त्ति­ज्ञा­न­भे­द­हेतुः स बाह्योऽर्थमिति । वास­ना­प­रि­पा­क­प्र­त्य­य­का­दा­चि­त्क­त्वा­त्क­दा­चि­दु­त्पाद इति चेत् । नन्वे­क­स­न्त­ति­प­ति­ता­ना­मा­ल­य­वि­ज्ञा­नानां तत्प्र­वृ­त्ति­वि­ज्ञा­न­ज­न­न­श­क्ति­र्वा­सना, तस्याश्च स्वकार्योपजनं प्रत्याभिमुख्यं परिपाकस्तस्य च प्रत्ययः स्वसन्तानवर्ती पूर्वक्षणः सन्ता­ना­न्त­रा­पे­क्षा­न­भ्यु­प­ग­मात् , तथाच सर्वेऽ­प्या­ल­य­स­न्ता­न­प­तिताः परिपाकहेतवो भवेयुः । न वा कश्चिदपि, आल­य­स­न्ता­न­पा­ति­त्वा­वि­शे­षात् । क्षण­भे­दा­च्छ­क्ति­भे­द­स्तस्य च कादा­चि­त्क­त्वा­त्का­र्य­का­दा­चि­त्क­त्व­मिति चेत् । नन्वेवमेकस्यैव नील­ज्ञा­नो­प­ज­न­सा­मर्थ्यं तत्प्र­बो­ध­सा­मर्थ्यं चेति क्षणा­न्त­र­स्यै­तन्न स्यात् । सत्त्वे वा कथं क्षण­भे­दा­त्सा­म­र्थ्य­भेद इत्या­ल­य­स­न्ता­न­व­र्तिनः सर्वे समर्था इति सम­र्थ­हे­तु­स­द्भावे कार्य­क्षे­पा­नु­प­पत्तेः । स्वस­न्ता­न­मा­त्रा­धी­नत्वे निषेध्यस्य कादाचित्कत्वस्य विरुद्धं सदातनत्वं तस्योपलब्ध्या कादाचित्कत्वं निवर्तमानं हेत्व­न्त­रा­पे­क्षत्वे व्यवतिष्ठत इति प्रति­ब­न्ध­सिद्धिः । नच ज्ञान­स­न्ता­ना­न्त­र­नि­ब­न्ध­नत्वं सर्वेषामिष्यते प्रवृ­त्ति­वि­ज्ञा­नानां विज्ञा­न­वा­दि­भि­रपि तु कस्यचिदेव विच्छि­न्न­ग­म­न­व­च­न­प्र­ति­भा­सस्य प्रवृ­त्ति­वि­ज्ञा­नस्य । अपि च सत्त्वा­न्त­र­स­न्ता­न­नि­मि­त्तत्वे तस्यापि सदा संनिधानान्न कादाचित्कत्वं स्यात् । न हि सत्त्वा­न्त­र­स­न्ता­नस्य देशतः कालतो वा विप्रकर्षसम्भवः । विज्ञानवादे विज्ञा­ना­ति­रि­क्त­दे­शा­ना­भ्यु­प­ग­मा­द­मू­र्त­त्वाच्च विज्ञा­ना­ना­म­दे­शा­त्म­क­त्वा­त्सं­सा­र­स्या­दि­म­त्त्व­प्र­स­ङ्गे­ना­पू­र्व­स­त्त्व­प्रा­दु­र्भा­वा­न­भ्यु­प­ग­माच्च न कालतोऽपि विप्रकर्षसम्भवः । तस्मादसति बाह्येऽर्थे प्रत्य­य­वै­चि­त्र्या­नु­प­प­त्ते­र­स्त्या­नु­मा­निको बाह्यार्थ इति सौत्रान्तिकाः प्रतिपेदिरे, तान्निराकरोति

वास­ना­वै­चि­त्र्या­दि­त्याह
विज्ञानवादी । इदमत्राकूतम् स्वस­न्ता­न­मा­त्र­प्र­भ­व­त्वेऽपि प्रत्य­य­का­दा­चि­त्क­त्वो­प­पत्तौ सन्दि­ग्ध­वि­प­क्ष­व्या­वृ­त्ति­क­त्वेन हेतुरनैकान्तिकः । तथाहि बाह्य­नि­मि­त्त­क­त्वेऽपि कथं कदा­चि­त्नी­ल­सं­वे­दनं कदा­चि­त्पी­त­सं­वे­द­नम् । बाह्य­नी­ल­पी­त­सं­नि­धा­ना­सं­नि­धा­ना­भ्या­मिति चेत् । अथ पीतसंनिधानेऽपि किमिति नीलज्ञानं न भवति, पीतज्ञानं भवति । तत्र तस्य साम­र्थ्या­द­सा­म­र्थ्या­च्चे­त­र­स्मि­न्निति चेत् । कुतः पुनरयं साम­र्थ्या­सा­म­र्थ्य­भेदः । हेतुभेदादिति चेत् । एवं तर्हि क्षणानामपि स्वका­र­ण­भे­द­नि­बन्धः शक्तिभेदो भविष्यति । सन्तानिनो हि क्षणाः कार्य­भे­द­हे­त­वस्ते च प्रतिकार्यं भिद्यन्ते च । न च सन्तानो नाम कश्चिदेक उत्पादकः क्षणानां यदभेदात्क्षणा न भिद्येरन् । ननूक्तं न क्षण­भे­दा­भे­दाभ्यां शक्तिभेदाभेदौ, भिन्नानामपि क्षणा­ना­मे­क­सा­म­र्थ्यो­प­लब्धेः । अन्यथैक एव क्षणे नील­ज्ञा­न­ज­न­न­सा­म­र्थ्य­मिति न भूयो नीलज्ञानानि जायेरन् । तत्स­म­र्थ­स्या­ती­त­त्वात् , क्षणान्तराणां चासामर्थ्यात् । तस्मा­त्क्ष­ण­भे­देऽपि न सामर्थ्यभेदः, सन्तानभेदे तु सामर्थ्यं भिद्यत इति । तन्न । यदि भिन्नानां सन्तानानां नैकं सामर्थ्यं, हन्त तर्हि नीलसन्तानानामपि मिथो भिन्नानां नैकमस्ति नीला­का­रा­धा­न­सा­म­र्थ्य­मिति संनिधानेऽपि नील­स­न्ता­ना­न्त­रस्य न नील­ज्ञा­न­मु­प­जा­येत । तस्मा­त्स­न्ता­ना­न्त­रा­णा­मिव क्षणान्तराणामपि स्वका­र­ण­भे­दा­धी­नो­प­ज­नानां केषाञ्चिदेव सामर्थ्यभेदः केषाञ्चिन्नेति वक्तव्यम् । तथा चैका­ल­य­ज्ञा­न­स­न्ता­न­प­ति­तेषु कस्यचिदेव ज्ञानक्षणस्य स तादृशः सामर्थ्यातिशयो वासनापरनामा स्वप्र­त्य­या­सा­दितः । यतो नीलाकारं प्रवृ­त्ति­वि­ज्ञानं जायते न पीताकारम् । कस्यचित्तु स तादृशो यतः पीताकारं ज्ञानं न नीलाकारमिति वास­ना­वै­चि­त्र्या­देव स्वप्र­त्य­या­सा­दि­ता­ज्ज्ञा­न­वै­चि­त्र्य­सि­द्धेर्न तद­ति­रि­क्ता­र्थ­स­द्भावे किञ्चनास्ति प्रमाणमिति पश्यामः । आल­य­वि­ज्ञा­न­स­न्ता­न­प­ति­त­मे­वा­सं­वि­दितं ज्ञानं वासना तद्वै­चि­त्र्या­न्नी­ला­द्य­नु­भ­व­वै­चित्र्यं, पूर्व­नी­ला­द्य­नु­भ­व­वै­चि­त्र्याच्च वास­ना­वै­चि­त्र्य­मि­त्य­ना­दि­ता­न­यो­र्वि­ज्ञा­न­वा­स­नयोः । तस्मान्न पर­स्प­रा­श्र­य­दो­ष­स­म्भवो बीजा­ङ्कु­र­स­न्ता­न­व­दिति । अन्व­य­व्य­ति­रे­का­भ्या­मपि वास­ना­वै­चि­त्र्य­स्यैव ज्ञान­वै­चि­त्र्य­हे­तुता नार्थ­वै­चि­त्र्य­स्ये­त्याह

अपि चान्व­य­व्य­ति­रे­का­भ्या­मिति ।

एवं प्राप्ते ब्रूमः । नाभाव उपलब्धेरिति ।
न खल्वभावो बाह्य­स्या­र्थ­स्या­ध्य­व­सातुं शक्यते । स ह्युप­ल­म्भा­भा­वा­द्वा­ध्य­व­सी­येत, सत्यप्युपलम्भे तस्य बाह्या­वि­ष­य­त्वाद्वा, सत्यपि बाह्यविषयत्वे बाह्या­र्थ­बा­ध­क­प्र­मा­ण­स­द्भा­वाद्वा । न ताव­त्स­र्व­थो­प­ल­म्भा­भाव इति प्रश्नपूर्वकमाह

कस्मात् । उपलब्धेरिति ।
नहि स्फुटतरे सर्वजनीन उपलम्भे सति तदभावः शक्यो वक्तुमित्यर्थः ।

द्वितीयं पक्षमवलम्बते
ननु नाहमेवं ब्रवीमीति ।

निराकरोति
बाढमेवं ब्रवीषि ।
उपलब्धिग्राहिणा हि साक्षि­णो­प­ल­ब्धि­र्गृ­ह्य­माणा बाह्य­वि­ष­य­त्वे­नैव गृह्यते नोप­ल­ब्धि­मा­त्र­मि­त्यर्थः । अतश्च इति वक्ष्य­मा­णो­प­प­त्ति­प­रा­मर्शः । तृतीयं पक्षमालम्बते

ननु बाह्य­स्या­र्थ­स्या­स­म्भ­वा­दिति ।

निराकरोति
नायं साधुरध्यवसाय इति ।
इदमत्राकूतम् घटपटादयो हि स्थूला भासन्ते न तु परमसूक्ष्माः । तत्रेदं नाना­दि­ग्दे­श­व्या­पि­त्व­ल­क्षणं स्थौल्यं यद्यपि ज्ञाना­का­र­त्वे­ना­व­र­णा­ना­व­र­ण­ल­क्ष­णेन विरु­द्ध­ध­र्म­सं­स­र्गेण युज्यते ज्ञानो­पा­धे­र­ना­वृ­त­त्वा­देव तथापि तद्दे­श­त्वा­त­द्दे­श­त्व­क­म्पा­क­म्प­त्व­र­क्ता­र­क्त­त्व­ल­क्ष­णै­र्वि­रु­द्ध­ध­र्म­सं­स­र्गै­रस्य नानात्वं प्रसज्यमानं ज्ञाना­का­र­त्वेऽपि न शक्यं शक्रेणापि वारयितुम् । व्यति­रे­का­व्य­ति­रे­क­वृ­त्ति­वि­कल्पौ च पर­मा­णो­रं­श­वत्त्वं चोपपादितानि वैशे­षि­क­प­री­क्षा­याम् । तस्मा­द्बा­ह्या­र्थ­वन्न ज्ञानेऽपि स्थौल्यसम्भवः । न च ताव­त्प­र­मा­ण्वा­भा­स­मे­क­ज्ञा­नम् , एकस्य नाना­त्म­त्वा­नु­प­पत्तेः । आकाराणां वा ज्ञान­ता­दा­त्म्या­दे­क­त्व­प्र­स­ङ्गात् । न च यावन्त आका­रा­स्ता­व­न्त्येव ज्ञानानि, तावतां ज्ञानानां मिथो वार्तानभिज्ञतया स्थूला­नु­भ­वा­भा­व­प्र­स­ङ्गात् । न च तत्पृष्ठभावी सम­स्त­ज्ञा­ना­का­र­स­ङ्क­ल­ना­त्मक एकः स्थूलविकल्पो विजृम्भत इति साम्प्रतम् । तस्यापि साकारतया स्थौल्यायोगात् । यथाह धर्मकीर्तिः “तस्मान्नार्थे न च ज्ञाने स्थूला­भा­स­स्त­दा­त्मनः । एकत्र प्रति­षि­द्ध­त्वा­द्ब­हु­ष्वपि न सम्भवः ॥' इति । तस्माद्भवतापि ज्ञानाकारं स्थौल्यं सम­र्थ­य­मा­ने­न­प्र­मा­ण­प्र­वृ­त्त्य­प्र­वृ­त्ति­पू­र्वकौ सम्भ­वा­स­म्भ­वा­वा­स्थेयौ । तथा चेद­न्ता­स्प­द­म­शक्यं ज्ञानाद्भिन्नं बाह्य­म­प­ह्नो­तु­मिति । यच्च ज्ञानस्य प्रत्यर्थं व्यवस्थायै विष­य­सा­रू­प्य­मा­स्थितं, नैतेन विषयोऽपह्नोतुं शक्यः, असत्यर्थे तत्सारूप्यस्य तद्व्य­व­स्था­या­श्चा­नु­प­प­त्ते­रि­त्याह

न च ज्ञानस्य विष­य­सा­रू­प्या­दिति ॥
यश्च सहोपलम्भनियम उक्तः सोऽपि विकल्पं न सहते । यदि ज्ञानार्थयोः साहि­त्ये­नो­प­ल­म्भ­स्ततो विरुद्धो हेतुर्नाभेदं साधयितुमर्हति, साहित्यस्य तद्वि­रु­द्ध­भे­द­व्या­प्त­त्वा­द­भेदे तदनुपपत्तेः । अथैकोपलम्भनियमः । न एकत्वस्यावाचकः सहशब्दः । अपि च किमे­क­त्वे­नो­प­लम्भ आहो एक उपलम्भो ज्ञानार्थयोः । न ताव­दे­क­त्वे­नो­प­लम्भ इत्याह

बहिरुपलब्धेश्च विषयस्य ।

अथै­को­प­ल­म्भ­नि­यमः, तत्राह
अत एव सहो­प­ल­म्भ­नि­य­मोऽपि प्रत्य­य­वि­ष­य­योऽ­रु­पा­यो­पे­य­भा­व­हे­तुको नाभेदहेतुक इत्यवगन्तव्यम् ।
यथा हि सर्वं चाक्षुषं प्रभा­रू­पा­नु­विद्धं बुद्धिबोध्यं नियमेन मनुजैरुपलभ्यते, न चैतावता घटादिरूपं प्रभात्मकं भवति, किन्तु प्रभो­पा­य­त्वा­न्नि­यमः, एव­मि­हा­प्या­त्म­सा­क्षि­का­नु­भ­वो­पा­य­त्वा­द­र्थ­स्यै­को­प­ल­म्भ­नि­यम इति । अपि च यत्रै­क­वि­ज्ञा­न­गो­चरौ घटपटौ तत्रार्थभेदं विज्ञानभेदं चाद्यवस्यन्ति प्रतिपत्तारः । न चैत­दै­का­त्म्येऽ­व­क­ल्पत इत्याह

अपिच घटज्ञनं पटज्ञानमिति ।

तथार्थाभेदेऽपि विज्ञा­न­भे­द­द­र्श­नान्न विज्ञा­ना­त्म­क­त्व­म­र्थ­स्ये­त्याह
तथा घटदर्शनं घटस्मरणमिति ।
अपि च स्वरू­प­मा­त्र­प­र्य­व­सितं ज्ञानं ज्ञाना­न्त­र­वा­र्ता­न­भि­ज्ञ­मिति ययोर्भेदस्ते द्वे न गृहीते इति भेदोऽपि तद्गतो न गृहीत इति । एवं क्षणि­क­शू­न्या­ना­त्म­त्वा­द­योऽ­प्य­ने­क­प्र­ति­ज्ञा­हे­तु­दृ­ष्टा­न्त­ज्ञा­न­भे­द­साध्याः । एवं स्वम­सा­धा­र­ण­म­न्यतो व्यावृत्तं लक्षणं यस्य तदपि यद्व्यावर्तते यतश्च व्यावर्तते तद­ने­क­ज्ञा­न­सा­ध्यम् । एवं सामान्यलक्षणमपि विधि­रू­प­म­न्या­पो­ह­रूपं वाने­क­ज्ञा­न­ग­म्यम् । एवं वास्य­वा­स­क­भा­वोऽ­ने­क­ज्ञा­न­साध्यः । एव­म­वि­द्यो­प­प्ल­व­व­शेन यत्स­द­स­द्ध­र्मत्वं यथा नीलमिति सद्धर्मः, नर­वि­षा­ण­मि­त्य­स­द्धर्मः, अमूर्तमिति सदसद्धर्मः । शक्यं हि शशविषाणममूर्तं वक्तुम् । शक्यं च विज्ञानममूर्तं वक्तुम् । यथोक्तम् “अना­दि­वा­स­नो­द्भू­त­वि­क­ल्प­प­रि­नि­ष्ठितः । शब्दा­र्थ­स्त्रि­विधो धर्मो भावा­भा­वो­भ­या­श्रयः ॥”(प्रमा­ण­वा­र्ति­कम् ३-२०४) इति । एवं मोक्षप्रतिज्ञा च यो मुच्यते यतश्च मुच्यते येन मुच्यते तद­ने­क­ज्ञा­न­साध्या । एवं विप्रतिपन्नं प्रतिपादयितुं प्रतिज्ञेति यत्प्रतिपादयति येन प्रतिपादयति यश्च पुरुषः प्रतिपाद्यते यश्च प्रतिपादयति तद­ने­क­ज्ञा­न­सा­ध्ये­त्य­स­त्ये­क­स्मि­न्न­ने­का­र्थ­ज्ञा­न­प्र­ति­स­न्धा­तरि नोपपद्यते । तत्सर्वं विज्ञानस्य स्वांशा­ल­म्ब­नेऽ­नु­प­प­न्न­मि­त्याह

अपि च द्वयो­र्वि­ज्ञा­नयोः पूर्वो­त्त­र­का­ल­यो­रिति ।
अपि च भेदाश्रयः कर्मफलभावो नाभिन्ने ज्ञाने भवितुमर्हति । नो खलु छिदा छिद्यते किन्तु दारु । नापि पाकः पच्यतेऽपि तु तण्डुलाः । तदिहापि न ज्ञानं स्वांशेन ज्ञेयमात्मनि वृत्तिविरोधादपि तु तद­ति­रि­क्तोऽर्थः, पाच्या इव तण्डुलाः पाकातिरिक्ता इति । भूमि­र­च­ना­पू­र्व­क­माह

किञ्चान्यत् । विज्ञानं विज्ञा­न­मि­त्य­भ्यु­प­ग­च्छे­तेति ।

चोदयति
ननु विज्ञानस्य स्वरू­प­व्य­ति­रि­क्त­ग्रा­ह्यत्व इति ।
अयमर्थः स्वरू­पा­द­ति­रि­क्त­मर्थं चेद्विज्ञानं गृह्णाति तत­स्त­द­प्र­त्यक्षं सन्नर्थं प्रत्य­क्ष­यि­तु­म­र्हति । न हि चक्षुरिव तन्निलीनमर्थे कञ्च­ना­ति­श­य­मा­धत्ते, येना­र्थ­म­प्र­त्यक्षं सत्प्र­त्य­क्ष­येत् । अपितु तत्प्र­त्य­क्ष­तै­वा­र्थ­प्र­त्य­क्षता । यथाहुः “अप्र­त्य­क्षो­प­ल­म्भस्य नार्थदृष्टिः प्रसिध्यति” इति । तच्चे­त्ज्ञा­ना­न्त­रेण प्रतीयेत तदप्रतीतं नार्थविषयं ज्ञान­म­प­रो­क्ष­यि­तु­म­र्हति । एवं तत्तदित्यनवस्था तस्मादनवस्थाया बिभ्यता वरं स्वात्मनि वृत्तिरास्थिता । अपिच यथा प्रदीपो न दीपा­न्त­र­म­पे­क्षते, एवं ज्ञानमपि न ज्ञाना­न्त­र­म­पे­क्षि­तु­म­र्हति समत्वादिति । तदेतत्परिहरति

तदुभयमप्यसत् । विज्ञा­न­ग्र­ह­ण­मात्र एव विज्ञानसाक्षिणो ग्रह­णा­का­ङ्क्षा­नु­त्पा­दा­द­न­व­स्था­श­ङ्का­नु­प­पत्तेः ।
अयमर्थः सत्य­म­प्र­त्य­क्ष­स्यो­प­ल­म्भस्य नार्थदृष्टिः प्रसिध्यति, न तूपलब्धारं प्रति तत्प्र­त्य­क्ष­त्वा­यो­प­ल­म्भा­न्तरं प्रार्थनीयम् , अपितु तस्मि­न्नि­न्द्रि­या­र्थ­सं­नि­क­र्षा­द­न्तः­क­र­ण­वि­का­र­भेद उत्पन्नमात्र एव प्रमा­तु­र­र्थ­श्चो­प­ल­म्भश्च प्रत्यक्षौ भवतः । अर्थो हि निलीनस्वभावः प्रमातारं प्रति स्वप्र­त्य­क्ष­त्वा­या­न्तः­क­र­ण­वि­का­र­भे­द­म­नु­भ­व­म­पे­क्षते, अनुभवस्तु जडोऽपि स्वच्छतया चैत­न्य­बि­म्बो­द्ग्र­ह­णाय नानु­भ­वा­न्त­र­म­पे­क्षते, येनानवस्था भवेत् । नह्यस्ति सम्भवोऽनुभव उत्पन्नश्च, न च प्रमातुः प्रत्यक्षो भवति, यथा नीलादिः । तस्माद्यथा छेत्ता छिदया छेद्यं वृक्षादि व्याप्नोति, न तु छिदा छिदान्तरेण, नापि छिदैव छेत्री, किन्तु स्वत एव देवदत्तादिः, यथा वा पक्ता पाक्यं पाकेन व्याप्नोति ननु पाकं पाकान्तरेण, नापि पाक एव पक्ता किन्तु स्वत एव देवदेत्तादिः, एवं प्रमाता प्रमेयं नीलादि प्रमया व्याप्नोति न तु प्रमां प्रमान्तरेण, नापि प्रमैव प्रमात्री, किन्तु स्वत एव प्रमायाः प्रमाता व्यापकः । न च प्रमातरि कूट­स्थ­नि­त्य­चै­तन्ये प्रमा­पे­क्षा­स­म्भवो यतः प्रमातुः प्रमायाः प्रमा­त्र­न्त­रा­पे­क्षा­या­म­न­वस्था भवेत् । तस्मा­त्सु­ष्ठूक्तं “विज्ञा­न­ग्र­ह­ण­मात्र एव विज्ञानसाक्षिणः प्रमातुः कूट­स्थ­नि­त्य­चै­त­न्यस्य ग्रह­णा­का­ङ्क्षा­नु­त्पा­दात्” इति । यदुक्तं “सम­त्वा­द­व­भा­स्या­व­भा­स­क­भा­वा­नु­प­पत्तेः” इति । तत्राह

साक्षि­प्र­त्य­य­योश्च स्वभा­व­वै­ष­म्या­दु­प­ल­ब्ध्रु­प­ल­भ्य­भा­वो­प­पत्तेः ।
मा भूत्ज्ञानयोः साम्येन ग्राह्य­ग्रा­ह­क­भावः । ज्ञातृ­ज्ञा­न­योस्तु वैषम्यादुपपद्यत एव । ग्राह्यत्वं च ज्ञानस्य न ग्राह­क­क्रि­या­ज­नि­त­फ­ल­शा­लि­तया यथा बाह्यार्थस्य, फले फला­न्त­रा­नु­प­पत्तेः । यथाहुः “न संविदर्यते फलत्वात्” इति । अपि तु प्रमातारं प्रति स्वतः­सि­द्ध­प्र­क­ट­तया । ग्राह्योऽ­प्यर्थः प्रमातारं प्रति सत्यां संविदि प्रकटः संविदपि प्रकटा । यथा­हु­र­न्ये­नास्याः कर्मभावो विद्यते इति । स्यादेतत् यत्प्रकाशते तदन्येन प्रकाश्यते यथा ज्ञानार्थौ तथा च साक्षिति नास्ति प्रत्य­य­सा­क्षि­णो­र्वै­ष­म्य­मि­त्यत आह

स्वयंसिद्धस्य च साक्षि­णोऽ­प्र­त्या­ख्ये­य­त्वात् ।
तथाहि - अस्य साक्षिणः सदा­स­न्दि­ग्धा­वि­प­री­तस्य नित्य­सा­क्षा­त्का­र­ता­ना­ग­न्तु­क­प्र­का­शत्वे घटते । तथाहिप्रमाता सन्दि­हा­नोऽ­प्य­स­न्दिग्धो विप­र्य­स्य­न्न­प्य­वि­प­रीतः परो­क्ष­म­र्थ­मु­त्प्रे­क्ष­मा­णोऽ­प्य­प­रोक्षः स्मर­न्न­प्य­नु­भ­विकः प्राण­भृ­न्मा­त्रस्य । न चैत­द­न्या­धी­न­सं­वे­द­नत्वे घटते । अन­व­स्था­प्र­स­ङ्ग­श्चोक्तः । तस्मा­त्स्व­यं­सि­द्ध­ता­स्या­नि­च्छ­ता­प्य­प्र­त्या­ख्येया प्रमा­ण­मा्र्गा­य­त्त­त्वा­दिति । किञ्चोक्तेन क्रमेण ज्ञानस्य स्वय­म­व­ग­न्तृ­त्वा­भा­वा­त्प्र­मा­तु­र­न­भ्यु­प­गमे च प्रदी­प­व­द्वि­ज्ञा­न­म­व­भा­स­का­न्त­र­नि­र­पेक्षं स्वयमेव प्रथत इति ब्रुव­ता­प्र­मा­ण­गम्यं विज्ञा­न­म­न­व­ग­न्तृ­क­मि­त्युक्तं स्यात् । शिला­घ­न­म­ध्य­स्थ­प्र­दी­प­स­ह­स्र­प्र­थ­न­वत् । अव­ग­न्तु­श्चे­त्क­स्य­चि­दपि न प्रकाशते कृतमवगमेन स्वय­म्प्र­का­शे­नेति । विज्ञा­न­मे­वा­व­ग­न्त्रिति मन्वानः शङ्कते

बाढमेवम् । अनु­भ­व­रू­प­त्वा­दिति ।

न फलस्य कर्तृत्वं कर्मत्वं वास्तीति प्रदी­प­व­त्क­र्त्र­न्त­र­मे­षि­तव्यं, तथा च न सिद्धसाधनमिति परिहरति
न । अन्य­स्या­व­ग­न्तु­रिति ।

ननु साक्षि­स्था­नेऽ­स्त्व­स्म­द­भि­म­त­मेव विज्ञानं तथा च नाम्न्येव विप्र­ति­प­त्ति­र्नार्थ इति शङ्कते
साक्षि­णोऽ­व­गन्तुः स्वयं­सि­द्ध­ता­मु­प­क्षि­पता अभिप्रेयता स्वयं प्रथते विज्ञानमित्येष एवेति ।

निराकरोति
नेति ।
भवन्ति हि विज्ञा­न­स्यो­त्पा­दा­दयो धर्मा अभ्युपेतास्तथा चास्य फलतया नावगन्तृत्वं, कर्तृ­फ­ल­भा­व­स्यै­कत्र विरोधात् । किन्तु प्रदी­पा­दि­तु­ल्य­ते­त्यर्थः ॥ २८ ॥

वैधर्म्याच्च न स्वप्नादिवत् ।
बाधाबाधौ वैधर्म्यम् । स्वप्नप्रत्ययो बाधितो जाग्र­त्प्र­त्य­य­श्चा­बा­धितः । त्वयापि चावश्यं जाग्र­त्प्र­त्य­य­स्या­बा­धि­त­त्व­मा­स्थेयं, तेन हि स्वप्नप्रत्ययो बाधितो मिथ्ये­त्य­व­ग­म्यते । जाग्र­त्प्र­त्य­यस्य तु बाध्यत्वे स्वप्न­प्र­त्य­य­स्यासौ न बाधको भवेत् । नहि बाध्यमेव बाधकं भवितुमर्हति । तथा च न स्वप्नप्रत्ययो मिथ्येति साध्यविकलो दृष्टान्तः स्यात्स्व­प्न­व­दिति । तस्मा­द्बा­धा­बा­धाभ्यां वैधर्म्यान्न स्वप्न­प्र­त्य­य­दृ­ष्टा­न्तेन जाग्र­त्प्र­त्य­यस्य शक्यं निरा­ल­म्ब­न­त्व­म­ध्य­व­सा­तुम् ।

निद्राग्लानमिति ।
करणदोषाभिधानम् । मिथ्यात्वाय वैध­र्म्या­न्त­र­माह

अपि च स्मृतिरेवेति ।
संस्कारमात्रजं हि विज्ञानं स्मृतिः । प्रत्यु­त्प­न्ने­न्द्रि­य­स­म्प्र­यो­ग­लि­ङ्ग­श­ब्द­सा­रू­प्या­न्य­था­नु­प­प­द्य­मा­न­यो­ग्य­प्र­मा­णा­नु­त्प­त्ति­ल­क्ष­ण­सा­म­ग्री­प्र­भवं तु ज्ञानमुपलब्घिः । तदिह निद्राणस्य साम­ग्र्य­न्त­र­वि­र­हा­त्सं­स्कारः परिशिष्यते, तेन संस्का­र­ज­त्वा­त्स्मृतिः, सापि च निद्रा­दो­षा­द्वि­प­री­ता­व­र्त­मा­न­मपि पित्रादि वर्तमानतया भासयति । तेन स्मृतेरेव ताव­दु­प­ल­ब्धे­र्वि­शे­ष­स्त­स्याश्च स्मृते­र्वै­प­री­त्य­मिति । अतो मह­द­न्त­र­मि­त्यर्थः । अपि च स्वतःप्रामाण्ये सिद्धे जाग्र­त्प्र­त्य­यानां यथा­र्थ­त्व­म­नु­भ­व­सिद्धं नानु­मा­ने­ना­न्य­थ­यितुं शक्यम् , अनुभवविरोधेन तदनुत्पादात् । अबा­धि­त­वि­ष­य­ता­प्य­नु­मा­नो­त्पा­द­सा­म­ग्री­ग्रा­ह्य­तया प्रमाणम् । न च कारणाभावे कार्य­मु­त्प­त्तु­म­र्ह­ती­त्या­श­य­वा­नाह

अपि चानु­भ­व­वि­रो­ध­प्र­स­ङ्गा­दिति ॥ २९ ॥

न भावोऽनुपलब्धेः ।
यथालोकदर्शनं चान्व­य­व्य­ति­रे­का­व­नु­श्रि­य­मा­णा­वर्थ एवोपलब्धेर्भवतो नार्था­न­पे­क्षायां वासनायाम् । वासनाया अप्य­र्थो­प­ल­ब्ध्य­धी­न­त्व­द­र्श­ना­दि­त्यर्थः । अपि चाश्रयाभावादपि न लौकिकी वासनोपपद्यते । न च क्षणि­क­मा­ल­य­वि­ज्ञानं वासनाधारो भवितुमर्हति । द्वयो­र्यु­ग­प­दु­त्प­द्य­मा­नयोः सव्य­द­क्षि­ण­शृ­ङ्ग­व­दा­धा­रा­धे­य­भा­वा­भा­वात् । प्रागुत्पन्नस्य चाधे­यो­त्पा­द­स­म­येऽ­सतः क्षणि­क­त्व­व्या­घात इत्याशयवानाह

अपि च वासना नामेति ।
शेष­म­ति­रो­हि­ता­र्थम् ॥ ३० ॥

क्षणिकत्वाच्च ।
स्यादेतत् । यदि साकारं विज्ञानं सम्भवति बाह्यश्चार्थः स्थूल­सू­क्ष्म­वि­क­ल्पे­ना­स­म्भवी हन्तै­व­म­र्थ­ज्ञाने सत्त्वेन तावद्विचारं न सहेते । नाप्यसत्त्वेन, असतो भासनायोगात् । नोभयत्वेन, विरो­धा­त्स­द­स­तो­रे­क­त्रा­नु­प­पत्तेः । नाप्यनुभयत्वेन, एक­नि­षे­ध­स्ये­त­र­वि­धा­न­ना­न्त­री­य­क­त्वात् । तस्मा­द्वि­चा­रा­स­ह­त्व­मे­वास्तु तत्त्वं वस्तूनाम् । यथाहुः “इदं वस्तु बलायातं यद्वदन्ति विपश्चितः । यथा यथा­र्था­श्चि­न्त्यन्ते विविच्यन्ते तथा तथा ॥' इति ॥ न क्वचिदपि पक्षे व्यवतिष्ठन्त इत्यर्थः । तदे­त­न्नि­रा­चि­की­र्षु­राह

शून्य­वा­दि­प­क्षस्तु सर्व­प्र­मा­ण­वि­प्र­ति­षिद्ध इति तन्निराकरणाय नादरः क्रियते ।
लौकिकानि हि प्रमाणानि सदसत्त्वगोचराणि । तैः खलु सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते । असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते । सदसतोश्च विचारासहत्वं व्यवस्थापयता सर्व­प्र­मा­ण­वि­प्र­ति­षिद्धं व्यवस्थापितं भवति । तथा च सर्व­प्र­मा­ण­वि­प्र­ति­षे­धा­न्नेयं व्यवस्थोपपद्यते । यद्युच्येत तात्त्विकं प्रामाण्यं प्रमाणानामनेन विचारेण व्युदस्यते न सांव्यवहारिकम् । तथाच भिन्न­वि­ष­य­त्वान्न सर्व­प्र­मा­ण­वि­प्र­ति­षेध इत्यत आह

नह्येयं सर्व­प्र­मा­ण­प्र­सिद्धो लोक­व्य­व­हा­रोऽ­न्य­त्त­त्त्व­म­न­धि­गम्य शक्य­तेऽ­प­ह्नो­तुम् ।
प्रमाणानि हि स्वगोचरे प्रवर्तमानानि तत्त्व­मि­द­मि­त्येव प्रवर्तन्ते । अतात्त्विकत्वं तु तद्गो­च­र­स्या­न्यतो बाध­का­द­व­ग­न्त­व्यम् । न पुनः सांव्यवहारिकं नः प्रामाण्यं न तु तात्त्वि­क­मि­त्येव प्रवर्तन्ते । बाधकं चाता­त्त्वि­क­त्व­मेषां तद्गो­च­र­वि­प­री­त­त­त्त्वो­प­द­र्श­नेन दर्शयेत् । यथा शुक्तिकेयं न रजतं मरीचयो न तोयमेकश्चन्द्रो न चन्द्र­द्व­य­मि­त्यादि, तद्वदिहापि सम­स्त­प्र­मा­ण­गो­च­र­वि­प­री­त­त­त्त्वा­न्त­र­व्य­व­स्था­प­ने­ना­ता­त्त्वि­क­त्व­मेषां प्रमाणानां बाधकेन दर्शनीयं न त्वव्य­व­स्था­पि­त­त­त्त्वा­न्त­रेण प्रमाणानि शक्यानि बाधितुम् । विचारासहत्वं वस्तूनां तत्त्वं व्यव­स्था­प­य­द्बा­ध­क­म­ता­त्त्वि­कत्वं प्रमाणानां दर्शयतीति चेत् , किं पुनरिदं विचारासहत्वं वस्तु यत्त­त्त्व­म­भि­मतं, किं तद्वस्तु परमार्थतः सदा­दी­ना­म­न्य­त­म­त्के­वलं विचारं न सहते, अथ विचारासहत्वेन निस्तत्त्वमेव । तत्र परमार्थतः सदा­दी­ना­म­न्य­त­म­द्वि­चारं न सहत इति विप्रतिषिद्धम् । न सहते चेन्न सदादीनामन्यतमत् । अन्यतमच्चेत्कथं न विचारं सहते । अथ निस्तत्त्वं चेत्क­थ­म­न्य­त­म­त्त­त्त्व­म­व्य­व­स्थाप्य शक्यमेवं वक्तुम् । न च निस्तत्त्वतैव तत्त्वं भावानाम् । तथा सति हि तत्त्वाभावः स्यात् । सोऽपि च विचारं न सहत इत्युक्तं भवद्भिः । अपि चारोपितं निषेधनीयम् । आरोपश्च तत्त्वाधिष्ठानो दृष्टो यथा शुक्तिकादिषु रजतादेः । न चेत्किञ्चिदस्ति तत्त्वं कस्य कस्मिन्नारोपः । तस्मा­न्नि­ष्प्र­पञ्चं पर­मा­र्थ­स­द्ब्र­ह्मा­नि­र्वा­च्य­प्र­प­ञ्चा­त्म­ना­रो­प्यते, तच्च तत्त्वं व्यव­स्था­प्या­ता­त्त्वि­क­त्वेन सांव्य­व­हा­रि­कत्वं प्रमाणानां बाधकेनोपपद्यत इति युक्त­मु­त्प­श्यामः ॥ ३१ ॥

सर्व­था­नु­प­प­त्तेश्च ।

विभजते
किं बहुना उक्तेन यथा­य­था­ग्र­न्थ­तोऽ­र्थ­तश्च अयं वैनाशिकसमय इति ।
ग्रन्थ­त­स्ता­व­त्प­श्य­ना­ति­ष्ठ­ना­मि­द्ध­पो­ष­धा­द्य­सा­धु­प­द­प्र­योगः । अर्थतश्च नैरा­त्म्य­म­भ्यु­पे­त्या­ल­य­वि­ज्ञानं सम­स्त­वा­स­ना­धा­र­म­भ्यु­प­ग­च्छ­न्न­क्ष­र­मा­त्मा­न­म­भ्यु­पैति । एवं क्षणि­क­त्व­म­भ्यु­पेत्य “उत्पादाद्वा तथा­ग­ता­ना­म­नु­त्पा­दाद्वा स्थितैवैषां धर्माणां धर्मता धर्मस्थितिता” इति नित्य­ता­मु­पै­ती­त्यादि बहून्नेतव्यमिति ॥ ३२ ॥

नैक­स्मि­न्न­स­म्भ­वात् ।
निरस्तो मुक्तकच्छानां सुगतानां समयः । विवसनानां समय इदानीं निरस्यते । तत्समयमाह सङ्क्षे­प­वि­स्त­रा­भ्याम् ।

सप्त चैषां पदार्थाः संमता इति ।

तत्र सङ्क्षेपमाह
सङ्क्षेपतस्तु द्वावेव पदार्थाविति ।
बोधात्मको जीवो जडवर्गस्त्वजीव इति । यथायोगं तयो­र्जी­वा­जी­व­यो­रि­म­म­परं प्रपञ्चमाचक्षते । तमाह

पञ्चास्तिकाया नामेति ।

सर्वे­षा­म­प्ये­षा­म­वा­न्त­र­प्र­भे­दा­निति ।
जीवा­स्ति­का­य­स्त्रिधा बद्धो मुक्तो नित्य­सि­द्ध­श्चेति । पुद्गलास्तिकायः षोढा पृथिव्यादीनि चत्वारि भूतानि स्थावरं जङ्गमं चेति धर्मास्तिकायः प्रवृ­त्त्य­नु­मे­योऽ­ध­र्मा­स्ति­कायः स्थित्यनुमेयः । आकाशास्तिकायो द्वेधा लोका­का­शोऽ­लो­का­का­शश्च । तत्रोपर्युपरि स्थितानां लोका­ना­म­न्त­र्वर्ती लोका­का­श­स्ते­षा­मु­परि मोक्ष­स्था­न­म­लो­का­काशः । तत्र हि न लोकाः सन्ति । तदेवं जीवाजीवपदार्थौ पञ्चधा प्रपञ्चितौ । आस्त्र­व­सं­व­र­नि­र्ज­रा­स्त्रयः पदार्थाः प्रवृ­त्ति­ल­क्षणाः प्रपञ्च्यन्ते । द्विधा प्रवृत्तिः सम्यङ्मिथ्या च । तत्र मिथ्या प्रवृ­त्ति­रा­स्रवः । सम्यक्प्रवृत्ती तु संवरनिर्जरौ । आस्रावयति पुरुषं विष­ये­ष्वि­ती­न्द्रि­य­प्र­वृ­त्ति­रा­स्रवः । इन्द्रियद्वारा हि पौरुषं ज्योतिर्विषयान् स्पृश­द्रू­पा­दि­ज्ञा­न­रू­पेण परिणमत इति । अन्ये तु कर्मा­ण्या­स्र­व­माहुः । तानि हि कर्ता­र­म­भि­व्याप्य स्रवन्ति कर्ता­र­म­नु­ग­च्छ­न्ती­त्या­स्रवः । सेयं मिथ्या­प्र­वृ­त्ति­र­न­र्थ­हे­तु­त्वात् । संवरनिर्जरौ च सम्यक्प्रवृत्ती । तत्र शमदमादिरूपा प्रवृत्तिः संवरः । सा ह्यास्रवस्रोतसो द्वारं संवृणोताति संवर उच्यते । निर्ज­र­स्त्व­ना­दि­का­ल­प्र­वृ­त्ति­क­षा­य­क­लु­ष­पु­ण्या­पु­ण्य­प्र­हा­ण­हे­तु­स्त­प्त­शि­ला­रो­ह­णादिः । स हि निःशेषं पुण्यापुण्यं सुखदुःखोपभोगेन जरयतीति निर्जरः । बन्धोऽष्टविधं कर्म । तत्र घातिकर्म चतुर्विधम् । तद्य­था­ज्ञा­ना­व­र­णीयं दर्शनावरणीयं मोह­नी­य­म­न्त­रा­य­मिति । तथा चत्वा­र्य­घा­ति­क­र्माणि । तद्यथा वेदनीयं नामिकं गोत्रिकमायुष्कं चेति । तत्र सम्यग्ज्ञानं न मोक्षसाधनं, नहि ज्ञाना­द्व­स्तु­सि­द्धि­र­ति­प्र­स­ङ्गा­दिति विपर्ययो ज्ञानावरणीयं कर्मोच्यते । आर्ह­त­द­र्श­ना­भ्या­सान्न मोक्ष इति ज्ञानं दर्शनावरणीयं कर्म । बहुषु विप्रतिषिद्धेषु तीर्थ­क­रै­रु­प­द­र्शि­तेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयं कर्म । मोक्ष­मा­र्ग­प्र­वृ­त्तानां तद्विघ्नकरं विज्ञानमन्तरायं कर्म । तानीमानि श्रेयो­ह­न्तृ­त्वा­द्धा­ति­क­र्मा­ण्यु­च्यन्ते । अघातीनि कर्माणि, तद्यथा वेदनीयं कर्म शुक्ल­पु­द्ग­ल­वि­पा­क­हेतुः, तद्धि बन्धोऽपि न निःश्रे­य­स­प­रि­पन्थि तत्त्व­ज्ञा­ना­वि­घा­त­क­त्वात् । शुक्ल­पु­द्ग­ला­र­म्भ­क­वे­द­नी­य­क­र्मा­नु­गुणं नामिकं कर्म, तद्धि शुक्ल­पु­द्ग­ल­स्या­द्या­वस्थां कल­ल­बु­द्धु­दा­दि­मा­र­भते । गोत्रि­क­म­व्या­कृतं ततोऽप्याद्यं शक्ति­रू­पे­णा­व­स्थि­तम् । आयुष्कं त्वायुः कायति कथ­य­त्यु­त्पा­द­न­द्वा­रे­त्या­यु­ष्कम् । तान्येतानि शुक्ल­पु­द्ग­ला­द्या­श्र­य­त्वा­द­घा­तीनि कर्माणि । तदे­त­त्क­र्मा­ष्टकं पुरुषं बध्नातीति बन्धः । विग­लि­त­स­म­स्त­क्ले­श­त­द्वा­स­न­स्या­ना­व­र­ण­ज्ञा­नस्य सुखै­क­ता­न­स्या­त्मन उपरि देशावस्थानं मोक्ष इत्येके । अन्ये तूर्ध्वगमनशीलो हि जीवो धर्मा­ध­र्मा­स्ति­का­येन बद्ध­स्त­द्वि­मो­क्षा­द्य­दूर्ध्वं गच्छत्येव स मोक्ष इति । त एते सप्तपदार्था जीवादयः सहा­वा­न्त­र­प्र­भे­दै­रु­प­न्यस्ताः । तत्र सर्वत्र चेमं सप्तभङ्गीनयं नाम न्याय­म­व­ता­र­यन्ति, स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्चेति । स्याच्छब्दः खल्वयं निपा­त­स्ति­ङ­न्त­प्र­ति­रू­प­कोऽ­ने­का­न्त­द्योती । यथाहुः “वाक्ये­ष्व­ने­का­न्त­द्योती गम्यं प्रतिविशेषणम् । स्यान्नि­पा­तो­र्ऽ­थ­यो­गि­त्वा­त्ति­ङ­न्त­प्र­ति­रू­पकः ॥' इति । यदि पुन­र­य­म­ने­का­न्त­द्यो­तकः स्याच्छब्दो न भवे­त्स्या­द­स्ती­ति­वाक्ये स्यात्पदमनर्थकं स्यात्त­दि­द­मु­क्तम् “अर्थ­यो­गि­त्वात्” इति । अनै­का­न्त­द्यो­त­कत्वे तु स्यादस्ति कथञ्चिदस्तीति स्यात्प­दा­त्क­थ­ञ्चि­द­र्थोऽ­स्ती­त्य­ने­ना­नुक्तः प्रतीयत इति नानर्थक्यम् । तथा च “स्याद्वादः सर्व­थै­का­न्त­त्या­गा­त्किं­वृ­त्त­चि­द्विधेः । सप्त­भ­ङ्ग­न­या­पे­क्षो­हे­या­दे­य­वि­शे­ष­कृत् ॥' किंवृत्ते प्रत्यये खल्वयं चिन्निपातविधिना सर्व­थै­का­न्त­त्या­गा­त्स­प्त­स्वे­का­न्तेषु यो भङ्गस्तत्र यो नयस्तदपेक्षः सन् हेयोपादेयभेदाय स्याद्वादः कल्पते । तथाहि यदि वस्त्व­स्त्ये­वे­त्ये­वै­का­न्त­त­स्त­त्स­र्वथा सर्वदा सर्वत्र सर्वा­त्म­ना­स्त्ये­वेति न तदी­प्सा­जि­हा­साभ्यां क्वचि­त्क­दा­चि­त्क­थ­ञ्चि­त्क­श्चि­त्प्र­व­र्तेत निवर्तेत वा प्राप्ता­प्रा­प­णी­य­त्वात् , हेय­हा­ना­नु­प­प­त्तेश्च । अनैकान्तपक्षे तु क्वचि­त्क­दा­चि­त्क­स्य­चि­त्क­थ­ञ्चि­त्सत्त्वे हानोपादाने प्रेक्षावतां कल्पेते इति । तमेनं सप्तभङ्गीनयं दूषयति

नैक­स्मि­न्न­स­म्भ­वात् ।

विभजते
न ह्येक­स्मि­न्ध­र्मणि परमार्थसति पर­मा­र्थ­स­तां­यु­ग­प­त्स­त्त्वा­दीनां धर्माणां पर­स्प­र­प­रि­हा­र­स्व­रू­पाणां समावेशः सम्भवति ।
एतदुक्तं भवति - सत्यं यदस्ति वस्तु­त­स्त­त्स­र्वथा सर्वदा सर्वत्र सर्वात्मना निर्वचनीयेन रूपेणास्त्येव न नास्ति, यथा प्रत्यगात्मा । यत्तु क्वचि­त्क­थ­ञ्चि­त्क­दा­चि­त्के­न­चि­दा­त्म­ना­स्ती­त्यु­च्यते, यथा प्रपञ्चः, तद्व्यवहारतो न तु परमार्थतः, तस्य विचारासहत्वात् । न च प्रत्ययमात्रं वास्तवत्वं व्यवस्थापयति, शुक्ति­म­रु­म­री­चि­का­दिषु रजततोयादेरपि वास्त­व­त्व­प्र­स­ङ्गात् । लौकिकानामबाधेन तु तद्व्यवस्थायां देहा­त्मा­भि­मा­न­स्या­प्य­बा­धेन तात्त्विकत्वे सति लोकायतमतापातेन नास्ति­क­त्व­प्र­स­ङ्गात् । पण्डितरूपाणां तु देहा­त्मा­भि­मा­नस्य विचारतो बाधनं प्रप­ञ्च­स्या­प्य­नै­का­न्तस्य तुल्यमिति । अपि च सदसत्त्वयोः पर­स्प­र­वि­रु­द्ध­त्वेन समुच्चयाभावे विकल्पः । न च वस्तुनि विकल्पः सम्भवति । तस्मा­त्स्था­णुर्वा पुरुषो वेति ज्ञान­व­त्स­प्त­त्व­प­ञ्च­त्व­नि­र्धा­र­णस्य फलस्य निर्धारयितुश्च प्रमा­तु­स्त­त्क­र­णस्य प्रमाणस्य च तत्प्रमेयस्य च सप्त­त्व­प­ञ्च­त्वस्य सदसत्त्वसंशये साधु समर्थितं तीर्थ­क­र­त्व­मृ­षे­मे­णा­त्मनः । निर्धारणस्य चैकान्तसत्त्वे सर्वत्र नानेकान्तवाद इत्याह

य एते सप्त पदार्था इति ।
शेष­म­ति­रो­हि­ता­र्थम् ॥ ३३ ॥

एवं चात्मा­का­र्त्स्न्यम् ।
एवं चेति चेन समुच्चयं द्योतयति । शरीरपरिमाणत्वे ह्यात्म­नोऽ­कृ­त्स्नत्वं परिच्छिन्नत्वम् । तथा चानित्यत्वम् । ये हि परिच्छिन्नास्ते सर्वेऽनित्या यथा घटादयस्तथा चात्मेति । तदेतदाह

यथै­क­स्मि­न्ध­र्मि­णीति ।

इदं चाप­र­म­कृ­त्स्न­त्वेन सूत्रितमित्याह
शरीराणां चान­व­स्थि­त­प­रि­मा­ण­त्वा­दिति ।
मनु­ष्य­का­य­प­रि­माणो हि जीवो न हस्तिकायं कृत्स्नं व्याप्तु­म­र्ह­त्य­ल्प­त्वा­दि­त्या­त्मनः कृत्स्न­श­री­रा­व्या­पि­त्वा­द­का­र्त्स्न्यम् , तथा च न शरी­र­प­रि­मा­ण­त्व­मिति । तथा हस्तिशीररं परित्यज्य यदा पुत्तिकाशरीरो भवति तदा न तत्र कृत्स्नः पुत्तिकाशरीरे संमी­ये­ते­त्य­का­र्त्स्न्य­मा­त्मनः । सुगममन्यत् । चोदयति

स्यादेतत् । अनन्तावयव इति ।
यथा हि प्रदीपो घट­म­हा­ह­र्म्यो­द­र­वर्ती सङ्को­च­वि­का­श­वा­नेवं जीवोऽपि पुत्ति­का­ह­स्ति­दे­ह­यो­रि­त्यर्थः ।

तदेतद्विकल्प्य दूषयति
तेषां पुनरनन्तानामिति ।
न ताव­त्प्र­दी­पोऽत्र निदर्शनं भवितुमर्हति, अनि­त्य­त्व­प्र­स­ङ्गात् । विशरारवो हि प्रदीपावयवाः, प्रदीपश्चावयवी प्रति­क्ष­ण­मु­त्प­त्ति­नि­रो­ध­धर्मा, तस्मा­द­नि­त्य­त्वा­त्तस्य नास्थिरो जीव­स्त­द­व­य­वा­श्चा­भ्यु­पे­तव्याः । तथा च विकल्पद्वयोक्तं दूषणमिति । यच्च जीवा­व­य­वा­ना­मा­न­न्त्य­मु­दितं तद­नु­प­प­न्न­त­र­मि­त्याह

अपि च शरीरमात्रेति ॥ ३४ ॥

शङ्कापूर्वं सूत्रा­न्त­र­म­व­ता­र­यति
अथ पर्यायेणेति ।

तत्राप्युच्यते
न च पर्या­या­द­प्य­वि­रोधो विकारादिभ्यः ।
कर्माष्टकमुक्तं ज्ञानावरणीयादि । किं चात्मनो नित्य­त्वा­भ्यु­प­गमे आग­च्छ­ता­म­प­ग­च्छतां चाव­य­वा­ना­मि­य­त्ता­नि­रू­प­णेन चात्म­ज्ञा­ना­भा­वा­न्ना­प­वर्ग इति भावः ।

अत एव­मा­दि­दो­ष­प्र­स­ङ्गा­दिति ।
आदिग्रहणसूचितं दोषं ब्रूमः । किं चैते जीवावयवाः प्रत्येकं वा चेतयेरन् समूहो वा । तेषां प्रत्येकं चैतन्ये बहूनां चेत­ना­ना­मे­का­भि­प्रा­य­त्व­नि­य­मा­भा­वा­त्क­दा­चि­द्वि­रु­द्ध­दि­क्क्रि­य­त्वेन शरीरमुन्मथ्येत । समूहचैतन्ये तु हस्तिशरीरस्य पुत्ति­का­श­री­रत्वे द्वित्रावयवशेषो जीवो न चेतयेत् । विग­लि­त­ब­हु­स­मू­हि­तया समू­ह­स्या­भा­वा­त्पु­त्ति­का­श­रीरे इति ।

अथवेति ।
पूर्व­सू­त्र­प्र­स­ञ्जि­तायां जीवानित्यतायां बौद्ध­व­त्स­न्ता­न­नि­त्य­ता­मा­श­ङ्क्येदं सूत्रम् “न च पर्या­या­द­प्य­वि­रोधो विकारादिभ्यः”(ब्र. सू. २ । २ । ३५) । न च पर्या­या­त्प­रि­मा­णा­न­व­स्था­नेऽपि सन्ता­ना­भ्यु­प­ग­मे­ना­त्मनो नित्य­त्वा­द­वि­रोधो बन्धमोक्षयोः । कुतः । परिणामादिभ्यो दोषेभ्यः । सन्तानस्य वस्तुत्वे परि­णा­म­स्त­त­श्च­र्म­व­द­नि­त्य­त्वा­दि­दो­ष­प्र­सङ्गः । अवस्तुत्वे चादिग्रहणसूचितो नैरा­त्म्या­प­त्ति­दो­ष­प्र­सङ्ग इति । विसिचो विवसनाः ॥ ३५ ॥

अन्त्या­व­स्थि­ते­श्चो­भ­य­नि­त्य­त्वा­द­वि­शेषः ।
एवं हि मोक्षावस्थाभावि जीवपरिमाणं नित्यं भवेत् , यद्यभूत्वा न भवेत् । अभूत्वा भावि­ना­म­नि­त्य­त्वा­द्घ­टा­दी­नाम् । कथं चाभूत्वा न भवेद्यदि प्रागप्यासीत् । न च परि­मा­णा­न्त­रा­व­रो­धेऽ­पूर्वं भवितुमर्हति । तस्मादन्त्यमेव परिमाणं पूर्व­म­प्या­सी­दि­त्य­भेदः । तथा चैक­श­री­र­प­रि­मा­ण­तैव स्यान्नो­प­चि­ता­प­चि­त­श­री­र­प्राप्तिः शरी­र­प­रि­मा­ण­त्वा­भ्यु­प­ग­म­व्या­घा­ता­दिति । अत्र चोभयोः परि­मा­ण­यो­र्नि­त्य­त्व­प्र­स­ङ्गा­दिति योजना । एक­श­री­र­प­रि­मा­ण­तै­वेति च दीप्यम् । द्वितीये तु व्याख्याने उभयोरवस्थयोरिति योजना । एकशरीरपरिमाणता न दीप्या, किन्त्वे­क­प­रि­मा­ण­ता­मा­त्र­म­णु­र्म­हान् वेति विवेकः ॥ ३६ ॥

पत्यु­र­सा­म­ञ्ज­स्यात् ।

अवि­शे­षे­णे­श्व­र­का­र­ण­वा­दोऽ­नेन निषिध्यत इति भ्रम­नि­वृ­त्त्य­र्थ­माह
केवलेति ।
साङ्ख्य­यो­ग­व्य­पा­श्रया हिर­ण्य­ग­र्भ­प­त­ञ्ज­लि­प्र­भृ­तयः । प्रधानमुक्तम् । दृक्शक्तिः पुरुषः प्रत्ययानुपश्यः । स च नाना­क्ले­श­क­र्म­वि­पा­का­श­यै­र­प­रा­मृष्टः पुरुषविशेष ईश्वरः प्रधा­न­पु­रु­षा­भ्या­मन्यः । माहे­श्व­रा­श्च­त्वारः शैवाः, पाशुपताः, कारु­णि­क­सि­द्धा­न्तिनः, कापालिकाश्चेति । चत्वारोऽप्यमी महे­श्व­र­प्र­णी­त­सि­द्धा­न्ता­नु­या­यि­तया माहेश्वराः । कारणमीश्वरः । कार्यं प्राधानिकं महदादि । योगोऽ­प्यो­ङ्का­रा­दि­ध्या­न­धा­र­णादिः । विधि­स्त्रि­ष­व­ण­स्ना­ना­दि­र्गू­ढ­च­र्या­व­सानः, दुःखान्तो मोक्षः । पशव आत्मानस्तेषां पाशो बन्धनं तद्विमोक्षो दुःखान्तः । एष तेषामभिसन्धिः चेतनस्य खल्वधिष्ठातुः कुम्भकारादेः कुम्भादिकार्ये निमि­त्त­का­र­ण­त्व­मात्रं न तूपादानत्वमपि । तस्मा­दि­हा­पी­श्व­रोऽ­धि­ष्ठाता जगत्कारणानां निमित्तमेव, न तूपा­दा­न­म­प्ये­क­स्या­धि­ष्ठा­तृ­त्वा­धि­ष्ठे­य­त्व­वि­रो­धा­दिति प्राप्तम् । एवं प्राप्तेऽ­भि­धी­यते

पत्यु­र­सा­म­ञ्ज­स्या­तिति ।
इद­म­त्रा­कू­त­मी­श्व­रस्य निमि­त्त­का­र­ण­त्व­मा­त्र­मा­ग­मा­द्वो­च्येत प्रमा­णा­न्त­राद्वा प्रमा­णा­न्त­र­म­प्य­नु­मा­न­म­र्था­प­त्तिर्वा । न तावदागमात् , तस्य निमि­त्तो­पा­दा­न­का­र­ण­त्व­प्र­ति­पा­द­न­प­र­त्वा­दि­त्य­स­कृ­दा­वे­दि­तम् । तस्मा­द­ने­ना­स्मि­न्नर्थे प्रमा­णा­न्त­र­मा­स्थे­यम् । तत्रानुमानं तावन्न सम्भवति । तद्धि दृष्ट्यनुसारेण प्रवर्तते तदनुसारेण चासामञ्जस्यम् । तदाह

हीनमध्यमेति ।
एतदुक्तं भवति आग­मा­दी­श्व­र­सिद्धौ न दृष्ट­म­नु­स­र्त­व्यम् । न हि स्वर्गा­पू­र्व­दे­व­ता­दि­ष्वा­ग­मा­द­व­ग­म्य­मा­नेषु किञ्चिदस्ति दृष्टम् । नह्यागमो दृष्ट­सा­ध­र्म्या­त्प्र­व­र्तते । तेन श्रुत­सि­द्द्य­र्थ­म­दृ­ष्टानि दृष्ट­वि­प­री­त­स्व­भा­वानि सुबहून्यपि कल्प्यमानानि न लोह­ग­न्धि­ता­मा­व­हन्ति प्रमाणवत्त्वात् । यस्तु तत्र कथ­ञ्चि­द्दृ­ष्टा­नु­सारः क्रियते स सुहृ­द्भा­व­मा­त्रेण । आग­मा­न­पे­क्षि­त­म­नु­मानं तु दृष्टसाधर्म्येण प्रवर्तमानं दृष्टविपर्यये तुषादपि बिभेतितरामिति । प्राणि­क­र्मा­पे­क्षि­त­त्वा­द­दोष इति चेत् । न । कुतः । कर्मे­श्व­र­यो­र्मिथः प्रव­र्त्य­प्र­व­र्त­यि­तृत्व इत­रे­त­रा­श्र­य­त्व­दो­ष­प्र­स­ङ्गात् । अयमर्थः यदीश्वरः करुणापराधीनो वीतरागस्ततः प्राणिनः कपूये कर्मणि न प्रवर्तयेत् , तच्चोत्पन्नमपि नाधितिष्ठेत् , तावन्मात्रेण प्राणिनां दुःखानुत्पादात् । न हीश्वराधीना जनाः स्वातन्त्र्येण कपूयं कर्म कर्तुमर्हन्ति । तदनधिष्ठितं वा कपूयं कर्म फलं प्रसोतुमुत्सहते । तस्मा­त्स्व­त­न्त्रोऽ­पी­श्वरः कर्मभिः प्रवर्त्यत इति दृष्टविपरीतं कल्पनीयम् । तथाचायमपरो गण्डस्योपरि स्फोट इतरेतराश्रयः प्रसज्येत, कर्मणेश्वरः प्रवर्तनीय ईश्वरेण च कर्मेति । शङ्कते

नानादित्वादिति चेत् ।
पूर्व­क­र्म­णे­श्वरः सम्प्रतितने कर्मणि प्रवर्त्यते तेनेश्वरेण सम्प्रतितनं कर्म स्वकार्ये प्रवर्त्येत इति । निराकरोति

न वर्तमानकालवदिति ।
अथ पूर्वं कर्म कथ­मी­श्व­रा­प्र­व­र्ति­त­मी­श्व­र­प्र­व­र्त­न­ल­क्षणं कार्यं करोति । तत्रापि प्रव­र्ति­त­मी­श्व­रेण पूर्व­त­न­क­र्म­प्र­व­र्ति­ते­ने­त्ये­व­म­न्ध­प­र­म्प­रा­दोषः । चक्षुष्मता ह्यन्धो नीयते नान्धान्तरेण । तथेहापि द्वावपि प्रवर्त्याविति कः कं प्रव­र्त­ये­दि­त्यर्थः । अपिच नैया­यि­का­ना­मी­श्व­रस्य निर्दोषत्वं स्वस­म­य­वि­रु­द्ध­मि­त्याह

अपिचेति ।
अस्माकं तु नायं समय इति भावः ।

ननु कारुण्यादपि प्रवर्तमानो जनो दृश्यते । न च कारुण्यं दोष इत्यत आह
स्वार्थप्रयुक्त एव चेति ।

कारुण्ये हि सत्यस्य दुःखं भवति तेन तत्प्रहाणाय प्रवर्तत इति कारुणिका अपि स्वार्थ­प्र­युक्ता एव प्रवर्तन्त इति । ननु स्वार्थप्रयुक्त एव प्रवर्ततामेवमपि को दोष इत्यत आह
स्वार्थ­व­त्त्वा­दी­श्व­र­स्येति ।
अर्थि­त्वा­दि­त्यर्थः । पुरुषस्य चौदा­सी­न्या­भ्यु­प­ग­मा­न्न­वा­स्तवी प्रवृत्तिरिति ॥ ३७ ॥

अपरमपि दृष्टानुसारेण दूषणमाह
सम्ब­न्धा­नु­प­प­त्तेश्च ।
दृष्टो हि साव­य­वा­ना­म­स­र्व­ग­तानां च संयोगः । अप्रा­प्ति­पू­र्विका हि प्राप्तिः संयोगो न सर्वगतानां सम्भ­व­त्य­प्रा­प्ते­र­भा­वा­न्नि­र­व­य­व­त्वाच्च । अव्या­प्य­वृ­त्तिता हि संयोगस्य स्वभावः । न च निर­व­य­वे­ष्व­व्या­प्य­वृ­त्तिता संयोगस्य सम्भ­व­ती­त्यु­क्तम् । तस्मा­द­व्या­प्य­वृ­त्ति­तायाः संयोगस्य व्यापिकाया निवृ­त्ते­स्त­द्व्या­प्यस्य संयोगस्य विनिवृत्तिरिति भावः । नापि समवायलक्षणः । स ह्ययु­त­सि­द्धा­ना­मा­धा­रा­धे­य­भू­ता­ना­मि­ह­प्र­त्य­य­हेतुः सम्बन्ध इत्यभ्युपेयते । न च प्रधा­न­पु­रु­षे­श्व­राणां मिथोऽ­स्त्या­धा­रा­धे­य­भाव इत्यर्थः । नापि योग्यतालक्षणः कार्य­ग­म्य­स­म्बन्ध इत्याह

नाप्यन्य इति ।
नहि प्रधानस्य मह­द­ह­ङ्का­रा­दि­का­र­ण­त्व­म­द्यापि सिद्धमिति । शङ्कते

ब्रह्मवादिन इति ।

निराकरोति
न ।
कुतः । तस्य­म­तेऽ­नि­र्व­च­नी­य­ता­दा­त्म्य­ल­क्ष­ण­स­म्ब­न्धो­प­पत्तेः ।

अपिचेति ।
आगमो हि प्रवृत्तिं प्रति न दृष्टा­न्त­म­पे­क्षत इत्यदृष्टपूर्वे तद्विरुद्धे च प्रवर्तितुं समर्थः । अनुमानं तु दृष्टानुसारि नैवंविधे प्रव­र्ति­तु­म­र्ह­तीति । शङ्कते

परस्यापीति ।

परिहरति
नेति ।
अस्माकं त्वीश्व­रा­ग­म­यो­र­ना­दि­त्वा­दी­श्व­र­यो­नि­त्वेऽ­प्या­ग­मस्य न विरोध इति भावः ॥ ३८ ॥

अधि­ष्ठा­ना­नु­प­प­त्तेश्च ।
यथादर्शनमनुमानं प्रवर्तते नालौ­कि­का­र्थ­वि­ष­य­मि­ती­हापि न प्रस्मर्तव्यम् । सुगममन्यत् ॥ ३९ ॥

करणवच्चेन्न भोगादिभ्यः ।

रूपादिहीनमिति ।
अनु­द्भू­त­रू­प­मि­त्यर्थः । रूपा­दि­ही­न­क­र­णा­धि­ष्ठानं हि पुरुषस्य स्वभोगादावेव दृष्टं नान्यत्र । नहि बाह्यं कुठा­रा­द्य­प­रि­दृष्टं व्यापारयन् कश्चिदुपलभ्यते । तस्मा­द्रू­पा­दि­हीनं करणं व्यापारयत ईश्वरस्य भोगादिप्रसक्तिः तथा चानीश्वरत्वमिति भावः । कल्पान्तरमाह

अन्यथेति ।
पूर्व­म­धि­ष्ठि­ति­र­धि­ष्ठा­न­मि­दानीं तु अधिष्ठानं भोगायतनं शरीरमुक्तम् । तथा भोगा­दि­प्र­स­ङ्गे­ना­नी­श्व­रत्वं पूर्वमापादितम् । सम्प्रति तु शरीरित्वेन भोगा­दि­प्र­स­ङ्गा­द­नी­श्व­र­त्व­मु­क्त­मिति विशेषः ॥ ४० ॥

अन्त­व­त्त्व­म­स­र्व­ज्ञता वा ।
अपि च सर्वत्रानुमानं प्रमाणयतः प्रधा­न­पु­रु­षे­श्व­रा­णा­मपि सङ्ख्या­भे­द­व­त्त्व­म­न्त­वत्त्वं च द्रव्य­त्वा­त्स­ङ्ख्या­न्यत्वे सति प्रमे­य­त्वा­द्वा­नु­मा­तव्यं, तत­श्चा­न्त­व­त्त्व­म­स­र्व­ज्ञता वा । अस्माकं त्वाग­म­ग­म्येऽर्थे तद्बाधितविषयतया नानुमानं प्रभवतीति भावः । स्वरूपपरिमाणमपि यस्य यादृशमणु महत् परममहद्दीर्घं ह्रस्वं चेति ।

अथ मा भूदेष दोष इत्युत्तरो विकल्पः ।
यस्यान्तोऽस्ति तस्या­न्त­व­त्त्वा­ग्र­ह­ण­म­स­र्व­ज्ञ­ता­मा­पा­द­येत् । यस्य त्वन्त एव नास्ति तस्य तदग्रहणं नास­र्व­ज्ञ­ता­मा­व­हति । नहि शश­वि­षा­णा­द्य­ज्ञा­ना­दज्ञो भवतीति भावः ।

परिहरति
तत इति ।
आग­मा­न­पे­क्ष­स्या­नु­मा­न­मे­षा­म­न्त­व­त्त्व­म­व­ग­म­य­ती­त्यु­क्तम् ॥ ४१ ॥

उत्प­त्त्य­स­म्भ­वात् ।
अन्यत्र वेदा­वि­सं­वा­दा­द्य­त्रांशे विसंवादः स निरस्यते । तमंशमाह

यत्पु­न­रि­द­मु­च्यते वासु­दे­वा­त्स­ङ्क­र्षणो जीव इति ।
जीवस्य कारणवत्वे सत्यनित्यत्वम् , अनि­त्य­त्वे­प­र­लो­कि­नोऽ­भा­वा­त्प­र­लो­का­भावः, ततश्च स्वर्ग­न­र­का­प­व­र्गा­भा­वा­प­त्ते­र्ना­स्ति­क्य­मि­त्यर्थः ।

अनुपपन्ना च जीव­स्यो­त्प­त्ति­रि­त्याह
प्रतिषेधिष्यति चेति ॥ ४२ ॥

न च कर्तुः करणम् ।
यद्य­प्य­ने­क­शि­ल्प­प­र्य­व­दातः परशुं कृत्वा तेन पलाशं छिनत्ति, यद्यपि च प्रय­त्ने­ने­न्द्रि­या­र्था­त्म­मनः संनिकर्षलक्षणं ज्ञान­क­र­ण­मु­पा­दा­या­त्मार्थं विजानाति, तथापि सङ्कर्षणोऽकरणः कथं प्रद्युम्नाख्यं मनः करणं कुर्यात् । अकरणस्य वा कर­ण­नि­र्मा­ण­सा­मर्थ्ये कृतं करणनिर्माणेन । अकरणादेव निखि­ल­का­र्य­सि­द्धे­रिति भावः ॥ ४३ ॥

विज्ञानादिभावे वा तदप्रतिषेधः ।
वासुदेवा एवैते सङ्कर्षमादयो निर्दोषा अवि­द्या­दि­दो­ष­र­हिताः । निरधिष्ठाना निरूपादानाः । अत एव निरवद्या अनि­त्य­त्वा­दि­दो­ष­र­हिताः । तस्मा­दु­त्प­त्त्य­स­म्भ­वोऽ­नु­गु­ण­त्वान्न दोष इत्यर्थः । अत्रोच्यते

एवमपीति ।
मा भूदभ्युपगमेन दोषः, प्रकारान्तरेण त्वयमेव दोषः । प्रश्नपूर्वं प्रकारान्तरमाह

कथम् । यदि तावदिति ।
न तावदेते परस्परं भिन्ना ईश्वराः पर­स्प­र­व्या­ह­तेच्छा भवितुमर्हन्ति । व्याहतकामत्वे च कार्या­नु­त्पा­दात् । अव्याहतकामत्वे वा प्रत्ये­क­मी­श्व­रत्वे एकेनैवेशनायाः कृत­त्वा­दा­न­र्थ­क्य­मि­त­रे­षाम् । सम्भूय चेशनायां परिशुद्धो न कश्चिदीश्वरः स्यात् , सिद्धा­न्त­हा­निश्च । भगवानेवैको वासुदेवः पर­मा­र्थ­त­त्त्व­मि­त्य­भ्यु­प­ग­मात् । तस्मा­त्क­ल्पा­न्त­र­मा­स्थे­यम् । तत्र चोत्प­त्त्य­स­म्भवो दोष इत्याशयवान् कल्पा­न्त­र­मु­प­न्य­स्यो­त्प­त्त्य­स­म्भ­वे­ना­पा­क­रोति

अथायमभिप्राय इति ।
सुगममन्यत् ॥ ४४ ॥

विप्रतिषेधाच्च ।

गुणिभ्यः खल्वात्मभ्यो ज्ञानादीन् गुणान् भेदेनोक्त्वा पुनरभेदं ब्रूते
आत्मान एवैते भगवन्तो वासुदेवा इति ।
आदिग्रहणेन प्रद्यु­म्ना­नि­रु­द्ध­यो­र्म­नोऽ­ह­ङ्का­र­ल­क्ष­ण­त­या­त्मनो भेदमभिधायात्मन एवैत इति तद्वि­रु­द्धा­भे­दा­भि­धा­न­म­परं सङ्गृहीतम् । वेदविप्रतिषेधो व्याख्यातः ॥ ४५ ॥
इति श्रीवा­च­स्प­ति­मि­श्र­वि­र­चिते शारी­र­क­भ­ग­व­त्पा­द­भा­ष्य­वि­भागे भामत्यां द्विती­या­ध्या­यस्य द्वितीयः पादः ॥ २ ॥

द्विदीयाध्याये तृतीयः पादः ।
न वियदश्रुतेः ।
पूर्वं प्रमा­णा­न्त­र­वि­रोधः श्रुते­र्नि­रा­कृतः । सम्प्रति तु श्रुतीनामेव परस्परविरोधो निराक्रियते । तत्र सृष्टिश्रुतीनां परस्परविरोधमाह

वेदान्तेषु तत्र तत्रेति ।
श्रुति­वि­प्र­ति­षे­धाच्च पर­प­क्षा­णा­म­न­पे­क्षि­तत्वं स्थापितं तद्व­त्स्व­प­क्षस्य श्रुति­वि­प्र­ति­षे­धा­दिति । तद­र्थ­नि­र्म­ल­त्व­म­र्था­भा­स­वि­नि­वृ­त्त्या­र्थ­त­त्त्व­प्र­ति­पा­द­नम् । तस्य फलं स्वपक्षस्य जगतो ब्रह्म­का­र­ण­त्व­स्या­न­पे­क्ष­त्वा­श­ङ्का­नि­वृत्तिः । इह हि पूर्वपक्षे श्रुतीनां मिथो विरोधः प्रतिपाद्यते, सिद्धान्ते त्वविरोधः । तत्र सिद्धा­न्त्ये­क­दे­शि­नो­व­चनं “न वियदश्रुतेः”(ब्र. सू. २ । ३ । १) इति । तस्याभिसन्धिः यद्यपि तैत्तिरीयके विय­दु­त्प­त्ति­श्रु­ति­रस्ति तथापि तस्याः प्रमा­णा­न्त­र­वि­रो­धा­द्ब­हु­श्रु­ति­वि­रो­धाच्च गौणत्वम् । तथाच वियतो नित्य­त्वा­त्ते­जः­प्र­मुख एव सर्गः, तथाच न विरोधः श्रुतीनामिति । तदिदमुक्तम्

प्रथमं ताव­दा­का­श­मा­श्रित्य चिन्त्यते किम­स्या­का­श­स्यो­त्प­त्ति­र­स्त्युत नास्तीति ।
यदि नास्ति न श्रुति­वि­रो­धा­शङ्का । अथास्ति ततः श्रुतिविरोध इति तत्परिहाराय प्रय­त्ना­न्त­र­मा­स्थे­य­मि­त्यर्थः ॥ १ ॥

तत्र पूर्व­प­क्ष­सू­त्रम्
अस्ति तु ।
तैत्तिरीये हि सर्गप्रकरणे केव­ल­स्या­का­श­स्यैव प्रथमः सर्गः श्रूयते । छान्दोग्ये च केवलस्य तेजसः प्रथमः सर्गः । नच श्रुत्य­न्त­रा­नु­रो­धे­ना­स­हा­य­स्या­धि­ग­त­स्यापि ससहायताकल्पनं युक्त­म­स­हा­य­त्वा­व­ग­म­वि­रो­धात् । श्रुत­सि­द्ध्यर्थं खल्वश्रुतं कल्प्यते न तु तद्विघाताय, विहन्यते चासहायत्वं श्रुतं कल्पितेन ससहायत्वेन । नच पर­स्प­रा­न­पे­क्षाणां व्रीहि­य­व­व­द्वि­कल्पः । अनुष्ठानं हि विकल्प्यते न वस्तु । नहि स्थाणु­पु­रु­ष­वि­कल्पो वस्तुनि प्रतिष्ठां लभते । नच सर्गभेदेन व्यव­स्थो­प­प­द्यते, साम्प्र­ति­क­स­र्ग­व­द्भू­त­पू­र्व­स्यापि तथात्वात् । न खल्विह सर्गे क्षीराद्दधि जायते सर्गान्तरे तु दध्नः क्षीरमिति भवति । तस्मा­त्स­र्ग­श्रु­तयः पर­स्प­र­वि­रो­धिन्यो नास्मिन्नर्थे प्रमाणं भवितुमर्हन्तीति पूर्वः पक्षः ॥ २ ॥

सिद्धा­न्त्ये­क­देशी सूत्रेण स्वाभि­प्रा­य­मा­वि­ष्क­रोति
गौण्यसम्भवात् ।
प्रमा­णा­न्त­र­वि­रो­धेन बहु­श्रु­त्य­न्त­र­वि­रो­धेन चाका­शो­त्प­त्त्य­स­म्भ­वा­द्गौ­ण्ये­षा­का­शो­त्प­त्ति­श्रु­ति­रि­त्य­वि­रोध इत्यर्थः ।

प्रमा­णा­न्त­र­वि­रो­ध­माह
न ह्याकाशस्येति ।
सम­वा­य्य­स­म­वा­यि­नि­मि­त्त­का­र­णेभ्यो हि कार्य­स्यो­त्प­त्ति­र्नि­यता तदभावे न भवितुमर्हति धूम इव धूमध्वजाभावे । तस्मा­त्स­द­का­र­ण­मा­काशं नित्यमिति । अपिच य उत्पद्यन्ते तेषां प्रागु­त्प­त्ते­र­नु­भ­वा­र्थ­क्रिये नोपलभ्येते उत्पन्नस्य च दृश्येते, यथा तेजःप्रभृतीनाम् । न चाकाशस्य तादृशो विशेष उत्पा­दा­नु­त्पा­द­यो­रस्ति, तस्मा­न्नो­त्प­द्यत इत्याह

उत्पत्तिमतां चेति ।
प्रकाशनं प्रकाशो घटपटादिगोचरः ।

पृथि­व्या­दि­वै­ध­र्म्या­च्चेति ।
आदिग्रहणेन द्रव्यत्वे सत्य­स्प­र्श­व­त्त्वा­दा­त्म­व­न्नि­त्य­मा­का­श­मिति गृहीतम् ।

आर­ण्या­ना­का­शे­ष्विति ।
वेदेऽ­प्ये­क­स्या­का­श­स्यौ­पा­धिकं बहुत्वम् ॥ ३ ॥

तदेवं प्रमा­णा­न्त­र­वि­रो­धेन गौणत्वमुक्त्वा श्रुत्य­न्त­र­वि­रो­धे­नापि गौणत्वमाह
शब्दाच्च ।
सुगमम् ॥ ४ ॥

स्याच्चैकस्य ब्रह्मशब्दवत् ।
पदस्यानुषङ्गो न पदार्थस्य । तद्धि क्वचिन्मुख्यं क्वचिदौपचारिकं सम्भ­वा­स­म्भ­वा­भ्या­मि­त्य­वि­रोधः । चोद्यद्वयं करोति

कथमिति ।

प्रथमं चोद्यं परिहरति
एकमेवेति तावदिति ।
कुलङ्गृहम् । अमत्राणि । पात्राणि घटशरावादीनि । आपेक्षिकमवधारणं न सर्व­वि­ष­य­मि­त्यर्थः । उपपत्त्यन्तरमाह

नच नभसापीति ।
अपिरभ्युपगमे । यदि सर्वापेक्षं तथाप्यदोष इत्यर्थः ।

नच प्रागुत्पत्तेः ।
जगत इति शेषः । द्वितीयं चोद्यमपाकरोति

अत एव च ब्रह्म­वि­ज्ञा­ने­नेति ।
लक्ष­णा­न्य­त्वा­भा­वे­ना­का­शस्य ब्रह्म­णोऽ­न­न्य­त्वा­दिति । अपि चाव्य­ति­रि­क्त­दे­श­का­ल­मा­काशं ब्रह्मणा च ब्रह्मकार्यैश्च तद­भि­न्न­स्व­भा­वै­रतः क्षीर­कु­म्भ­प्र­क्षि­प्त­क­ति­प­य­प­यो­बि­न्दु­व­द्ब्र­ह्मणि तत्कार्ये च विज्ञाते नभो विदितं भवतीत्याह

अपि च सर्वं कार्य­मु­त्प­द्य­मा­न­मिति ॥ ५ ॥

एवं सिद्धा­न्तै­क­दे­श­मिते प्राप्त इदमाह
प्रति­ज्ञा­हा­नि­र­व्य­ति­रे­का­च्छ­ब्देभ्यः ।
ब्रह्म­वि­व­र्ता­त्म­त­या­ज­ग­त­स्त­द्वि­का­रस्य वस्तुतो ब्रह्मणाभेदे ब्रह्मणि ज्ञाते ज्ञानमुपपद्यते । नहि जगत्तत्त्वं ब्रह्मणोऽन्यत् । तस्मादाकाशमपि तद्विवर्ततया तद्विकारः सत्तज्ज्ञानेन ज्ञातं भवति नान्यथा । अविकारत्वे तु तत­स्त­त्त्वा­न्तरं न ब्रह्मणि विदिते विदितं भवति । भिन्नयोस्तु लक्ष­णा­न्य­त्वा­भा­वेऽपि देशकालाभेदेऽपि नान्य­त­र­ज्ञा­ने­ना­न्य­त­र­ज्ञानं भवति । नहि क्षीरस्य पूर्णकुम्भे क्षीरे गृह्यमाणे सत्स्वपि पाथोबिन्दुषु पाथस्तत्त्वं प्रति ज्ञातत्वमस्ति विज्ञाने । तस्मान्न ते क्षीरे विदिते विदिता इति प्रति­ज्ञा­दृ­ष्टा­न्त­प्र­च­या­नु­प­रो­धाय वियत उत्प­त्ति­र­का­मे­ना­भ्यु­पे­येति । तदेवं सिद्धा­न्तै­क­दे­शिनि दूषिते पूर्वपक्षी स्वपक्षे विशेषमाह

सत्यं दर्शितम् । अत एवविरुद्धं तु तदिति ।

सिद्धान्तसारमाह
नैष दोषः । तेजःसर्गस्य तैत्तिरीयक इति ।
श्रुत्यो­र­न्य­थो­प­प­द्य­मा­ना­न्य­था­नु­प­प­द्य­मा­न­यो­र­न्य­था­नु­प­प­द्य­माना बलवती तैत्ति­री­य­क­श्रुतिः । छान्दो­ग्य­श्रु­ति­श्चा­न्य­थो­प­प­द्य­माना दुर्बला । नन्वसहायं तेजः प्रथममवगम्यमानं ससहायत्वेन विरुध्यत इत्युक्तमत आह

नहीयं श्रुति­स्ते­जो­ज­नि­प्र­धा­नेति ।
सर्गसंसर्गः श्रौतो भेदस्त्वार्थः । स च श्रुत्यन्तरेण विरोधिना बाध्यते, जघन्यत्वात् । नच तेजः प्रमु­ख­स­र्ग­सं­स­र्ग­व­द­स­हा­य­त्व­म­प्यस्य श्रौतं, किन्तु व्यतिरेकलभ्यम् । नच श्रुतेन तदपवादबाधने श्रुतस्य तेजः­स­र्ग­स्या­नु­प­पत्तिः, तदिदमुक्तम् “तेजो­ज­नि­प्र­धाना” इति । स्यादेतत् । यद्येकं वाक्यमनेकार्थ न भवत्येकस्य व्यापा­र­द्व­या­स­म्भ­वात् , हन्त भोः कथमेकस्य स्रष्टु­र­ने­क­व्या­पा­र­त्व­म­वि­रु­द्ध­मि­त्यत आह

स्रष्टा त्वेकोऽपीति ।
वृद्ध­प्र­यो­गा­धी­ना­व­धा­रणं शब्दसामर्थ्यम् । नचानावृत्तस्य शब्दस्य क्रमा­क्र­मा­भ्या­म­ने­क­त्रार्थे व्यापारो दृष्टः । दृष्टं तु क्रमा­क्र­मा­भ्या­मे­क­स्यापि कर्तु­र­ने­क­व्या­पा­र­त्व­मि­त्यर्थः । नचास्मिन्नर्थ एकस्य वाक्यस्य व्यापारोऽपि तु भिन्नानां वाक्यानामित्याह

नचास्माभिरिति ।
सुगमम् ।

चोदयति
ननु शमविधानार्थमिति ।
यत्परः शब्दः स शब्दार्थः । न चैष सृष्टिपरोऽपि तु शमपर इत्यर्थः । परहरति

नहि तेजः­प्रा­थ­म्या­नु­रो­धे­नेति ।
गुण­त्वा­दा­र्थ­त्वाच्च क्रमस्य श्रुत­प्र­धा­न­प­दा­र्थ­वि­रो­धा­त्त­त्त्या­गोऽ­युक्त इत्यर्थः ।

सिंहा­व­लो­कि­त­न्या­येन विय­द­नु­त्प­त्ति­वा­दिनं प्रत्याह
अपिच छान्दोग्य इति ।

यत्पुनरन्यथा प्रतिज्ञोपपादनं कृतं, तद्दूषयति
यच्चोक्तमिति ।
दृष्टा­न्ता­नु­रू­प­त्वा­द्दा­र्ष्टा­न्ति­कस्य, तस्य च प्रकृ­ति­वि­का­र­रू­प­त्वा­द्दा­र्ष्टा­न्ति­क­स्यापि तथाभावः । अपिच भ्रान्तिमूलं चैतद्वचनम् “एक­मे­वा­द्वि­ती­यम्” इति तोये क्षीरबुद्धिवत् । औपचारिकं वा सिंहो माणवक इतिवत् । तत्र न ताव­द्भ्रा­न्त­मि­त्याह

क्षीरो­द­क­न्या­ये­नेति ।
भ्रान्ते­र्वि­प्र­ल­म्भा­भि­प्रा­यस्य च पुरु­ष­ध­र्म­त्वा­द­पौ­रु­षेये तदसम्भव इत्यर्थः ।

नाप्यौ­प­चा­रि­क­मि­त्याह
सावधारणा चेयमिति ।
काम­मु­प­चा­रा­द­स्त्वे­क­त्वम् , अव­धा­र­णा­द्वि­ती­य­पदे नोपपद्येते । नहि माणवके सिंहत्वमुपचर्य न सिंहादन्योऽस्ति मनागपि माणवक इति वदन्ति लौकिकाः । तस्मा­द्ब्र­ह्म­त्व­मै­का­न्तिकं जगतो विवक्षितं श्रुत्या न त्वौपचारिकम् । अभ्यासे हि भूयस्त्वमर्थस्य भवति नत्वल्पत्वमपि प्रागे­वौ­प­चा­रि­क­मि­त्यर्थः ।

नच स्वका­र्या­पे­क्ष­येति ।
निःशेषवचनः स्वरसतः सर्वशब्दो नासति श्रुत्य­न्त­र­वि­रोधे एकदेशवविषयो युज्यत इत्यर्थः ॥ ६ ॥

आकाशस्योत्पत्तौ प्रमा­णा­न्त­र­वि­रो­ध­मु­क्त­म­नु­भाष्य तस्य प्रमाणान्तरस्य प्रमा­णा­न्त­र­वि­रो­धे­ना­प्र­मा­ण­भू­तस्य न गौण­त्वा­पा­द­न­सा­म­र्थ्य­मत आह
यावद्विकारं तु विभागो लोकवत् ।
सोऽयं प्रयोगः आका­श­दि­क्का­ल­म­नः­प­र­मा­णवो विकाराः, आत्मान्यत्वे सति विभक्तत्वात् , घट­श­रा­वो­द­ञ्च­ना­दि­व­दिति ।

सर्वं कार्यं निरात्मकमिति ।
निरूपादानं स्यादित्यर्थः । शून्यवादश्च निराकृतः स्वयमेव श्रुत्योपन्यस्य “कथमसतः सज्जायेत”(छा. उ. ६ । २ । २) इति । उपपादितं च तन्नि­रा­क­र­ण­म­ध­स्ता­दिति । आत्म­त्वा­दे­वा­त्मनः प्रत्यगात्मनो निरा­क­र­णा­श­ङ्का­नु­प­पत्तिः । एतदुक्तं भवति सोपादानं चेत्कार्यं तत आत्मै­वो­पा­दा­न­मुक्तं, तस्यै­वो­पा­दा­न­त्वेन श्रुते­रु­पा­दा­ना­न्त­र­क­ल्प­ना­नु­प­प­त्ते­रिति । स्यादेतत् । अस्त्वा­त्मो­पा­दा­न­मस्य जगतः, तस्य तूपा­दा­ना­न्त­र­म­श्रू­य­मा­ण­म­प्य­न्य­द्भ­वि­ष्य­ती­त्यत आह

नह्या­त्मा­ग­न्तुकः कस्य­चि­तु­पा­दा­ना­न्त­र­स्यो­पा­देयः ।

कुतः ।
स्वयं­सि­द्ध­त्वात् ।

सत्ता वा प्रकाशो वास्य स्वयंसिद्धी । तत्र प्रका­शा­त्मि­कायाः सिद्धे­स्ता­व­द­ना­ग­न्तु­क­त्व­माह
नह्यात्मात्मन इति ।
उपपादितमेतद्यथा संश­य­वि­प­र्या­स­पा­रो­क्ष्या­ना­स्प­द­त्वा­त्क­दापि नात्मा पराधीनप्रकाशः, तद­धी­न­प्र­का­शास्तु प्रमाणादयः । अत एव श्रुतिः “तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति”(मु. उ. २ । २ । ११) इति ।

नचेदृशस्य निराकारणं सम्भवतीति ।
निराकरणमपि हि तदधीनात्मलाभं तद्विरुद्धं नोदे­तु­म­र्ह­ती­त्यर्थः । सत्ताया अना­ग­न्तु­क­त्व­म­स्याह

तथाहमेवेदानीं जानामीति ।
प्रमा­प्र­मा­ण­प्र­मे­याणां वर्त­मा­ना­ती­ता­ना­ग­त­त्वेऽपि प्रमातुः सदा वर्त­मा­न­त्वे­ना­नु­भ­वा­द­प्र­च्यु­त­स्व­भा­वस्य नागन्तुकं सत्त्वम् । त्रैका­ल्या­व­च्छे­देन ह्यागन्तुकत्वं व्याप्तं, तत्प्रमातुः सदा­व­र्त­मा­ना­द्व्या­व­र्त­मा­न­मा­ग­न्तु­कत्वं स्वव्याप्यमादाय निवर्तत इति ।

अन्यथाभवत्यपि ज्ञातव्य इति ।
प्रकृ­ति­प्र­त्य­याभ्यां ज्ञान­ज्ञे­य­यो­र­न्य­था­भावो दर्शितः । ननु जीवतः प्रमातुर्मा भूदन्यथाभावो मृतस्य तु भविष्यतीत्यत आह

तथा भस्मीभवत्यपीति ।
यत्खलु सत्स्व­भा­व­म­नु­भ­व­सिद्धं तस्या­नि­र्व­च­नी­य­त्व­म­न्यतो बाधकादवसातव्यम् । बाधकं च घटादीनां स्वभावाद्विचलनं प्रमाणोपनीतम् । यस्य तु न तदस्यात्मनो न तस्य तत्कल्पनं युक्तम् , अबा­धि­ता­नु­भ­व­सि­द्धस्य सत्स्व­भा­व­स्या­नि­र्व­च­नी­य­त्व­क­ल्प­ना­प्र­मा­णा­भा­वात् । तदिदमुक्तम्

न सम्भावयितुं शक्यमिति ।

तदनेन प्रबन्धेन प्रत्य­नु­मा­ने­ना­का­शा­नु­त्प­त्त्य­नु­मानं दूष­यि­त्वा­नै­का­न्ति­क­त्वे­नापि दूषयति
यत्तूक्तं समानजातीयमिति ।

नाप्य­ने­क­मे­वो­पा­दा­न­मु­पा­दे­य­मा­र­भते ।
यत्र हि क्षीरं दधिभावेन परिणमते तत्र नाव­य­वा­ना­म­ने­के­षा­मु­पा­द­न­त्व­म­भ्यु­प­ग­न्तव्यं किन्तूपात्तमेव क्षीर­मे­क­मु­पा­दे­य­द­धि­भा­वेन परिणमते । यथा निर­व­य­व­प­र­मा­णु­वा­दिनां क्षीर­प­र­मा­णु­र्द­धि­प­र­मा­णु­भा­वे­नेति । शेष­म­ति­रो­हि­ता­र्थम् ॥ ७ ॥

एतेन मातरिश्वा व्याख्यातः ।
यद्यभ्यासे भूयस्त्वमर्थस्य भवति नाल्पत्वं दूरत एवोपचरितत्वं, हन्त भोः पवनस्य नित्य­त्व­प्र­सङ्गः । “वायु­श्चा­न्त­रि­क्ष­मे­त­द­मृ­तम्” इति द्वयो­र­मृ­त­त्व­मुक्त्वा पुनः पवनस्य विशेषेणाह

सैषानस्तमिता देवता यद्वायुरिति ।
तस्मा­द­भ्या­सा­न्ना­पे­क्षिकं वायोरमृतत्वमपि त्वौत्प­त्ति­क­मे­वेति प्राप्तम् । तदिदमुक्तं भाष्यकृता

अस्त­म­य­प्र­ति­षे­धा­द­मृ­त­त्वा­दि­श्र­व­णा­च्चेति ।
चेन समु­च्च­या­र्थे­ना­भ्यासो दर्शितः । एवं प्राप्त उच्य­ते­ए­क­वि­ज्ञा­नेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­नात् , प्रति­ज्ञा­वा­क्या­र्थस्य प्राधान्यात् , तदु­प­पा­द­ना­र्थ­त्वाच्च वाक्यान्तराणां, तेषामपि चाद्वै­त­प्र­ति­पा­द­कानां मात­रि­श्वो­त्प­त्ति­क्र­म­प्र­ति­पा­द­कानां बहुलमुपलब्धेः, मुख्य­भू­य­स्त्वा­भ्या­म­मूषां श्रुतीनां बलीयस्त्वात् , एत­द­नु­रो­धे­ना­मृ­त­त्वा­स्त­म­य­प्र­ति­षे­धा­वा­पे­क्षि­क­त्वेन नेतव्याविति । भूयसीः श्रुतीरपेक्ष्य द्वे अपि श्रुती शब्दमात्रमुक्ते ॥ ८ ॥

असम्भवस्तु सतोऽनुपपत्तेः ।
ननु “न चास्य कश्चिज्जनिता”(श्वे. उ. ६ । ९) इत्यात्मनः सतोऽ­का­र­ण­त्व­श्रुतेः कथ­मु­त्प­त्त्या­शङ्का । नच वचनमदृष्ट्वा पूर्वः पक्षः इति युक्तम् , अधीतवेदस्य ब्रह्म­जि­ज्ञा­सा­धि­का­रा­द­द­र्श­ना­नु­प­प­त्ते­रत आह

वियत्पवनयोरिति ।
यथाहि विय­त्प­व­न­यो­र­मृ­त­त्वा­न­स्त­म­य­त्व­श्रुती श्रुत्य­न्त­र­वि­रो­धा­दा­पे­क्षि­क­त्वेन नीते । एव­म­का­र­ण­त्व­श्रु­ति­रा­त्म­नोऽ­ग्नि­वि­स्फु­लि­ङ्ग­दृ­ष्टा­न्त­श्रु­ति­वि­रो­धा­त्प्र­मा­णा­न्त­र­वि­रो­धा­च्चा­पे­क्षि­क­त्वेन व्याख्यातव्या । न चात्मनः कार­ण­व­त्त्वेऽ­न­वस्था लोह­ग­न्धि­ता­मा­व­ह­त्य­ना­दि­त्वा­त्का­र्य­का­र­ण­प­र­म्प­राया इति भावः ।

तथा विकारेभ्य इति ।
प्रमा­णा­न्त­र­वि­रोधो दर्शितः । एवं प्राप्त उच्यते सदे­क­स्व­भा­व­स्यो­त्प­त्त्य­स­म्भवः । कुतः अनुपपत्तेः । सदेकस्वभावं हि ब्रह्म श्रूयते तदसति बाधके नान्यथयितव्यम् । उक्त­मे­त­द्वि­काराः सत्त्वेनानुभूता अपि कति­प­य­का­ल­क­ला­ति­क्रमे विनश्यन्तो दृश्यन्त इत्य­नि­र्व­च­नी­या­स्त्रै­का­ल्या­व­च्छे­दा­दिति । न चात्मा तादृशस्तस्य श्रुते­र­नु­भ­वाद्वा वर्त­मा­नै­क­स्व­भा­व­त्वेन प्रसि­द्धे­स्त­दि­द­माह

सन्मात्रं हि ब्रह्मेति ।
एतदुक्तं भवति यत्स्व­भा­वा­द्वि­च­लति तदनिर्वचनीयं निर्व­च­नी­यो­पा­दानं युक्तं, न तु विपर्ययः । यथा रज्जूपादानः सर्पो न तु सर्पोपादाना रज्जुरिति । ययोस्तु स्वभा­वा­द­प्र­च्यु­ति­स्त­यो­र्नि­र्व­च­नी­य­यो­र्नो­पा­दे­यो­पा­दा­न­भावः, यथा रज्जु­शु­क्ति­क­यो­रिति । नच निरधिष्ठानो विभ्रम इत्याह

नाप्यसत इति ।

नच निर­धि­ष्ठा­न­भ्र­म­प­र­म्प­रा­ना­दि­ते­त्याह
मूल­प्र­कृ­त्य­न­भ्यु­प­ग­मेऽ­न­व­स्था­प्र­स­ङ्गा­दिति ।
पारमार्थिको हि कार्य­का­र­ण­भा­वोऽ­ना­दि­र्ना­न­व­स्थया दुष्यति । समारोपस्तु विकारस्य न समारोपितोपादान इत्युपपादितं माध्य­मि­क­म­त­नि­षे­धा­धि­कारे, तदत्र न प्रस्मर्तव्यम् । तस्मा­न्ना­स­द­धि­ष्ठा­न­वि­भ्र­म­स­म­र्थ­ना­ना­दि­त्वे­नो­चि­ते­त्यर्थः । अग्नि­वि­स्फु­लि­ङ्ग­श्रु­ति­श्चौ­पा­धि­क­रू­पा­पे­क्षया नेतव्या । शेष­म­ति­रो­हि­ता­र्थम् । ये तु गुण­दि­क्का­लो­त्प­त्ति­वि­ष­य­मि­द­म­धि­क­रणं वर्ण­या­ञ्च­क्रुस्तैः “सतोऽनुपपत्तेः”(ब्र. सू. २ । ३ । ९) इति क्लेशेन व्याख्येयम् । अवि­रो­ध­स­म­र्थ­न­प्र­स्तावे चास्य सङ्ग­ति­र्व­क्तव्या । अबा­दि­व­द्दि­क्का­ला­दी­ना­मु­त्प­त्ति­प्र­ति­पा­द­क­वा­क्य­स्या­न­व­ग­मात् । तदास्तां तावत् ॥ ९ ॥

तेजोऽतस्तथा ह्याह ।
यद्यपि “वायोरग्निः”(तै. उ. २ । १ । १) इत्यपादानपञ्चमी “कार­क­वि­भ­क्ति­रु­प­प­द­वि­भ­क्ते­र्ब­ली­यसी” इति नेयमानन्तर्यपरा युक्ता, तथापि बहु­श्रु­ति­वि­रो­धेन दुर्ब­ला­प्यु­प­प­द­वि­भ­क्ति­रे­वा­त्रो­चिता । तत­श्चा­न­न्त­र्य­द­र्श­न­प­रेयं वायोरग्निरिति श्रुतिः । नच साक्षा­द्ब्र­ह्म­ज­त्व­स­म्भवे तद्वंश्यत्वेन तज्जत्वं पर­म्प­र­या­श्र­यितुं युक्तम् । वाजपेयस्य पशुयूपवदिति प्राप्तम् । एवं प्राप्ते उच्यतेयुक्तं पशु­या­ग­वा­ज­पे­य­यो­र­ङ्गा­ङ्गि­नो­र्ना­ना­त्वा­त्तत्र साक्षा­द्वा­ज­पे­या­स­म्बन्धे क्लेशेन परम्पराश्रयणम् । इह तु वायो­र्ब्र­ह्म­वि­का­र­स्यापि ब्रह्मणो वस्तु­तोऽ­न­न्य­त्वा­द्व­यू­पा­दा­नत्वे साक्षादेव ब्रह्मो­पा­दा­न­त्वो­प­पत्तेः कार­क­वि­भ­क्ते­र्ब­ली­य­स्त्वा­नु­रो­धे­नो­भ­य­थो­प­प­द्य­मानाः श्रुतयः कांस्य­भो­जि­न्या­येन नियम्यन्त इति युक्तमिति राद्धान्तः । “पार­म्प­र्य­ज­त्वेऽपि” इति भेद­क­ल्प­ना­भि­प्रायं यतः पार­मा­र्थि­का­भे­द­मा­ह­वा­यु­भा­वा­पन्नं ब्रह्मेति । यथा तस्याः शृतमिति तु दृष्टान्तः पर­म्प­रा­मा­त्र­सा­म्येन न तु सर्वथा साम्येनेति सर्वमवदातम् ॥ १० ॥

आपः ।
निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥ ११ ॥

पृथि­व्य­धि­का­र­रू­प­श­ब्दा­न्त­रेभ्यः ।
अन्नशब्दोऽयं व्युत्पत्त्या च प्रसिद्ध्या च व्रीहियवादौ तद्विकारे चौदने प्रवर्तते । श्रुतिश्च प्रक­र­णा­द्ब­ली­यसी, सा च वाक्य­शे­षे­णो­पो­द्ब­लिता “यत्र क्वचन वर्षति” इत्येतेन तस्मा­द­भ्य­व­हार्यं व्रीहि­य­वा­द्ये­वा­त्राद्भ्यो जायत इति विवक्षितम् । कार्ष्ण्यमपि हि सम्भवति कस्यचिददनीयस्य । नहि पृथिव्यपि कृष्णा, लोहितादिरूपाया अपि दर्शनात् । ततश्च श्रुत्यन्तरेण “अद्भ्यः पृथिवी पृथिव्या ओषधयः”(तै. उ. २ । १ । १) इत्यादिना विरोध इति पूर्वः पक्षः । श्रुत्यो­र्वि­रोधे वस्तुनि विक­ल्पा­नु­प­प­त्ते­र­न्य­त­रा­नु­गु­ण­त­या­न्य­तरा नेतव्या । तत्र किम् “अद्भ्यः पृथिवी” इति पृथि­वी­श­ब्दोऽ­न्न­प­र­तया नीयतामुत “अन्नमसृजन्त”(छा. उ. ६ । २ । ४) इत्यन्नशब्दः पृथिवीपरतयेति विशये, महा­भू­ता­धि­का­रा­नु­रो­धा­त्प्रा­यि­क­कृ­ष्ण­रू­पा­नु­रो­धाच्च “तद्यदपां शर आसीत्”(बृ. उ. १ । २ । २) इति च पुनः श्रुत्य­नु­रो­धाच्च वाक्यशेषस्य चान्य­था­प्यु­प­प­त्ते­र­न्न­श­ब्दोऽ­न्न­का­रणे पृथिव्यामिति राद्धान्तः ॥ १२ ॥

तदभिध्यानादेव तु तल्लिङ्गात्सः ।
सृष्टिक्रमे भूतानामविरोध उक्तः । इदा­नी­मा­का­शा­दि­भू­ता­धि­ष्ठात्र्यो देवताः किं स्वतन्त्रा एवो­त्त­रो­त्त­र­भू­त­सर्गे प्रवर्तन्त उत पर­मे­श्व­रा­धि­ष्ठिताः परतन्त्रा इति । तत्र “आका­शा­द्वा­यु­र्वा­यु­रग्निः”(तै. उ. २ । १ । १) इति स्ववाक्ये निरपेक्षाणां श्रुतेः स्वयञ्चेतनानां च चेत­ना­न्त­रा­पे­क्षायां प्रमाणाभावात् , प्रस्तावस्य च लिङ्गस्य च पारम्पर्येणापि मूलाकारणस्य ब्रह्मण उपपत्तेः, स्वत­न्त्रा­णा­मे­वा­का­शा­दीनां वाय्वा­दि­का­र­ण­त्व­मिति जगतो ब्रह्म­यो­नि­त्व­व्या­घात इति प्राप्तम् । एवं प्राप्तेऽ­भि­धी­यते “आकाशाद्वायुः”(तै. उ. २ । १ । १) इत्यादय आकाशादीनां केव­ल­मु­पा­दा­न­भा­व­मा­च­क्षते, न पुनः स्वात­न्त्र्ये­णा­धि­ष्ठा­तृ­त्वम् । नच चेतनानां स्वका­र्य­स्वा­त­न्त्र्य­मि­त्ये­त­द­प्यै­का­न्तिकं परतन्त्राणामपि तेषां बहु­ल­मु­प­ल­ब्धे­र्भृ­त्या­न्ते­वा­स्या­दि­वत् । तस्मा­ल्लि­ङ्ग­प्र­स्ता­व­सा­म­ञ्ज­स्याय स ईश्वर एव तेन तेना­का­शा­दि­भा­वे­नो­पा­दा­न­भा­वे­ना­व­ति­ष्ठ­मानः स्वयमधिष्ठाय निमि­त्त­का­र­ण­भू­तस्तं तं विकारं वाय्वादिकं सृजतीति युक्तम् । इतरथा लिङ्गप्रस्तावौ क्लेशितौ स्यातामिति ।

पर­मे­श्व­रा­वे­श­व­शा­दिति ।
परमेश्वर एवा­न्त­र्या­मि­भा­वे­ना­विष्ट ईक्षिता, तस्मात्सर्वस्य कार्यजातस्य साक्षा­त्प­र­मे­श्वर एवाधिष्ठाता निमित्तकारणं न त्वाका­शा­दि­भा­व­मा­पन्नः । आका­शा­दि­भा­व­मा­प­न्न­स्तू­पा­दा­न­मिति सिद्धम् ॥ १३ ॥

विपर्ययेण तु क्रमोऽत उपपद्यते च ।
उत्पत्तौ महाभूतानां क्रमः श्रुतो नाप्य­येऽ­प्य­य­मा­त्रस्य श्रुतत्वात् । तत्र नियमे सम्भवति नानियमः । व्यवस्थारहितो हि सः । नच व्यवस्थायां सत्यामव्यवस्था युज्यते । तत्र क्रम­भे­दा­पे­क्षायां किं दृष्टोऽ­प्य­य­क्रमो घटादीनां महा­भू­ता­प्य­य­क्र­म­नि­या­म­कोऽ­स्त्वाहो श्रौत उत्पत्तिक्रम इति विशये श्रौतस्य श्रौता­न्त­र­म­भ्य­र्हितं समानजातीयतया तस्यैव बुद्धि­सां­नि­ध्यात् । न दृष्टं, विरु­द्ध­जा­ती­य­त्वात् । तस्मा­च्छ्रौ­ते­नै­वो­त्प­त्ति­क्र­मे­णा­प्य­य­क्रमो नियम्यत इति प्राप्त उच्यते अप्ययस्य क्रमापेक्षायां खलूत्पत्तिक्रमो नियामको भवेत् , न त्वस्त्यप्ययस्य क्रमापेक्षा, दृष्टा­नु­मा­नो­प­नी­तेन क्रमभेदेन श्रुत्य­नु­सा­रि­णोऽ­प्य­य­क्र­मस्य बाध्यमानत्वात् । तस्मिन् हि सत्यु­पा­दा­नो­प­र­मेऽ­प्यु­पा­दे­य­म­स्तीति स्यात् । न चैतदस्ति । तस्मात् । तद्वि­रु­द्ध­दृ­ष्ट­क्र­मा­व­रो­धा­दा­का­ङ्क्षैव नास्ति क्रमान्तरं प्रत्य­यो­ग्य­त्वा­त्तस्य । तदिदमुक्तं सूत्रकृता “उपपद्यते”। भाष्यकारोऽप्याह

न चासा­व­यो­ग्य­त्वा­प्य­ये­ना­का­ङ्क्ष्यत इति ।
तस्मा­दु­त्प­त्ति­क्र­मा­द्वि­प­रीतः क्रम इत्ये­त­न्न्या­य­मूला च स्मृतिरुक्ता ॥ १४ ॥

अन्त­रा­वि­ज्ञा­न­म­नसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ।
तदेवं भावनोपयोगिनौ भूता­ना­मु­त्प­त्ति­प्र­लयौ विचार्य बुद्धी­न्द्रि­य­म­नसां क्रमं विचारयति । अत्र च विज्ञा­य­तेऽ­ने­नेति व्युत्पत्त्या विज्ञा­न­श­ब्दे­ने­न्द्रि­याणि च बुद्धिं च ब्रूते । तत्रैतेषां क्रमा­पे­क्षा­या­मा­त्मानं च भूतानि चान्तरा समा­म्ना­ना­त्ते­नैव पाठेन क्रमो नियम्यते । तस्मा­त्पू­र्वो­त्प­त्ति­क्र­म­भ­ङ्ग­प्र­सङ्गः । यत आत्मनः करणानि करणेभ्यश्च भूतानीति प्रतीयते, तस्मादात्मन आकाश इति भज्यते । अन्नमयमिति च मयडानन्दमय इतिवत्न विकारार्थ इति प्राप्तेऽ­भि­धी­यते विभ­क्त­त्वा­त्ता­व­न्म­नः­प्र­भृ­तीनां कार­णा­पे­क्षा­या­म­न्न­मयं मन इत्या­दि­लि­ङ्ग­श्र­व­णा­द­पे­क्षि­ता­र्थ­क­थ­नाय विकारार्थत्वमेव मयटो युक्तम् , इतरथा त्वन­पे­क्षि­त­मुक्तं भवेत् । नच तदपि घटते । नह्यन्नमयो यज्ञ इति­व­द­न्न­प्रा­चुर्यं मनसः सम्भवति । एवं चोद्भूतविकारा मन आदयो भूतानां पर­स्ता­दु­त्प­द्यन्त इति युक्तम् । प्रौढ­वा­दि­त­या­भ्यु­पे­त्याह

अथ त्वभौतिकानीति ।
भवत्वात्मन एव कर­णा­ना­मु­त्पत्तिः, न खल्वेतावता भूतैरात्मनो नोत्पत्तव्यम् । तथाच नोक्त­क्र­म­भ­ङ्ग­प्र­सङ्गः । विशिष्यते भिद्यते । भज्यत इति यावत् ॥ १५ ॥

चरा­च­र­व्य­पा­श्र­यस्तु स्यात्त­द्व्य­प­देशो भाक्त­स्त­द्भा­व­भा­वि­त्वात् ।
देव­द­त्ता­दि­ना­म­धेयं तावज्जीवात्मनो न शरीरस्य, तन्नाम्ने शरीराय श्राद्धा­दि­क­र­णा­नु­प­पत्तेः । तन्मृतो देवदत्तो जातो देवदत्त इति व्यपदेशस्य मुख्यत्वं मन्वानस्य पूर्वः पक्षः, मुख्यत्वे शास्त्रो­क्ता­मु­ष्मि­क­स्व­र्गा­दि­फ­ल­स­म्ब­न्धा­नु­प­पत्तेः शास्त्र­वि­रो­धा­ल्लौ­कि­क­व्य­प­देशो भाक्तो व्याख्येयः । भक्तिश्च शरी­र­स्यो­त्पा­द­वि­नाशौ ततस्तत्संयोग इति । जातकर्मादि च गर्भ­बी­ज­स­मु­द्भ­व­जी­व­पा­प­प्र­क्ष­यार्थं, न तु जीव­ज­न्म­ज­पा­प­क्ष­या­र्थम् । अत एव स्मरन्ति “एवमेनः शमं याति बीज­ग­र्भ­स­मु­द्भ­वम्” इति । तस्मान्न शरी­रो­त्प­त्ति­वि­ना­शाभ्यां जीव­ज­न्म­वि­ना­शा­विति सिद्धम् । एतच्च लौकि­क­व्य­प­दे­श­स्या­भ्रा­न्ति­मू­ल­त्व­म­भ्यु­पे­त्या­धि­क­र­णम् । उक्ता त्वध्या­स­भा­ष्येऽस्य भ्रान्तिमूलतेति ॥ १६ ॥

मा भूतामस्य शरी­रो­द­य­व्य­याभ्यां स्थूला­वु­त्प­त्ति­वि­नाशौ, आकाशादेरिव तु महासर्गादौ तदन्ते चोत्पत्तिविनाशौ जीवस्य भविष्यत इति शङ्का­न्त­र­म­प­ने­तु­मि­द­मा­र­भ्यते ।
नात्मा­श्रु­ते­र्नि­त्य­त्वाच्च ताभ्यः ।

विचारमूलसंशयस्य बीजमाह
श्रुति­वि­प्र­ति­प­त्ते­रिति ।

तामेव दर्शयति
कासु­चि­च्छ्रु­ति­ष्विति ।

पूर्वपक्षं गृह्णाति
तत्र प्राप्तमिति ।
पर­मा­त्म­न­स्ता­व­द्वि­रु­द्ध­ध­र्म­सं­स­र्गा­द­प­ह­ता­न­प­ह­त­पा­प्म­त्वा­दि­ल­क्ष­णा­ज्जी­वा­ना­म­न्य­त्वम् । ते चेन्न विका­रा­स्त­त­स्त­त्त्वा­न्त­रत्वे बहु­त­रा­द्वै­त­श्रु­ति­वि­रोधः । ब्रह्मविज्ञानेन सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­वि­रो­धश्च । तस्मा­च्छु­ति­भि­र­नु­ज्ञा­यते विकारत्वम् । प्रमाणान्तरं चात्रोक्तम्

विभ­क्त­त्वा­दा­का­शा­दि­व­दिति ।
“यथाग्नेः क्षुद्रा विस्फुलिङ्गाः”(बृ. उ. २ । १ । २०) इति च श्रुतिः साक्षादेव ब्रह्मविकारत्वं जीवानां दर्शयति । “यथा सुदी­प्ता­त्पा­व­कात्”(मु. उ. २ । १ । १) इति च ब्रह्मणो जीवा­ना­मु­त्पत्तिं च तत्राप्ययं च साक्षाद्दर्शयति । नन्व­क्ष­रा­द्भा­वा­ना­मु­त्प­त्ति­प्र­ल­या­व­व­ग­म्येते । न जीवानामित्यत आह

जीवात्मनामिति ।
स्यादेतत् । सृष्टि­श्रु­ति­ष्वा­का­शा­द्यु­त्प­त्ति­रिव कस्मा­ज्जी­वो­त्प­त्ति­र्ना­म्ना­यते । तस्मा­दा­म्ना­न­यो­ग्य­स्या­ना­म्ना­ना­त्त­स्यो­त्प­त्त्य­भावं प्रतीम इत्यत आह

नच क्वचिदश्रवणमिति ।
एवं हि कस्या­ञ्चि­च्छा­खा­या­मा­म्ना­तस्य कति­प­या­ङ्ग­स­हि­तस्य कर्मणः शाखा­न्त­री­या­ङ्गो­प­सं­हारो न भवेत् । तस्मा­द्ब­हु­त­र­श्रु­ति­वि­रो­धा­द­नु­प्र­वे­श­श्रु­ति­र्वि­का­र­भा­वा­त्पत्त्या व्याख्येया । तस्मा­दा­का­श­व­ज्जी­वा­त्मान उत्पद्यन्त इति प्राप्त उच्यते भवेदेवं यदि जीवा ब्रह्मणो भिद्येरन् । न त्वेतदस्ति । “तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्”(तै. उ. २ । ६ । १) “अनेन जीवेन”(छा. उ. ६ । ३ । २) इत्या­द्य­वि­भा­ग­श्रु­ते­रौ­पा­धि­क­त्वाच्च भेदस्य घट­क­र­का­द्या­का­श­व­द्वि­रु­द्ध­ध­र्म­सं­स­र्ग­स्यो­प­पत्तेः । उपाधीनां च मनोमय इत्यादीनां श्रुते­र्भू­य­सीनां च नित्य­त्वा­ज­त्वा­दि­गो­च­राणां श्रुतीनां दर्शनात् “उपा­धि­प्र­वि­ल­ये­नो­प­हि­तस्य” इति च प्रश्नो­त्त­रा­भ्या­म­ने­क­धो­प­पा­द­ना­द­वि­भा­गस्य च “एको देवः सर्वभूतेषु गूढः”(श्वे. ६ । ११) इति श्रुत्यै­वो­क्त­त्वा­न्नित्या जीवात्मानो न विकारा न चाद्वै­त­प्र­ति­ज्ञा­वि­रोध इति सिद्धम् । मैत्रे­यी­ब्रा­ह्मणं चाध­स्ता­द्व्या­ख्या­त­मिति नेह व्याख्यातम् ॥ १७ ॥

ज्ञोऽत एव ।
कर्मणा हि जानात्यर्थो व्याप्तस्तदभावे न भवति धूम इव धूमध्वजाभावे, सुषु­प्त्या­द्य­व­स्थासु च ज्ञेय­स्या­भा­वा­त्त­द्व्या­प्यस्य ज्ञानस्याभावः । तथाच नात्म­स्व­भा­व­श्चै­तन्यं तदनुवृत्तावपि चैतन्यस्य व्यावृत्तेः । तस्मा­दि­न्द्रि­या­दि­भा­वा­भा­वा­नु­वि­धा­ना­त्ज्ञा­न­भा­वा­भा­व­यो­रि­न्द्रि­या­दि­सं­नि­क­र्षा­धे­य­मा­ग­न्तु­क­मस्य चैतन्यं धर्मो न स्वाभाविकः । अत एवे­न्द्रि­या­दी­ना­म­र्थ­व­त्त्वम् , इतरथा वैय­र्थ्य­मि­न्द्रि­याणां भवेत् । नित्य­चै­त­न्य­श्रु­त­यश्च शक्त्यभिप्रायेण व्याख्येयाः । अस्ति हि ज्ञानो­त्पा­द­न­श­क्ति­र्निजा जीवानां, न तु व्योम्न इवे­न्द्रि­या­दि­स­न्नि­क­र्षेऽ­प्येषा ज्ञानं न भवतीति । तस्माज्जडा एव जीवा इति प्राप्तेऽ­भि­धी­य­ते­य­दा­ग­न्तु­क­ज्ञानं जडस्वभावं तत्क­दा­चि­त्प­रोक्षं कदा­चि­त्स­न्दिग्धं कदा­चि­द्वि­प­र्यस्तं, यथा घटादि, न चैवमात्मा । तथाहि अनु­मि­मा­नोऽ­प्य­प­रोक्षः, स्मर­न्न­प्या­नु­भ­विकः, सन्दि­हा­नोऽ­प्य­स­न्दिग्धः, विप­र्य­स्य­न्न­प्य­वि­प­रीतः सर्वस्यात्मा । तथाच तत्स्वभावः । नच तत्स्वभावस्य चैतन्यस्याभावः, तस्य नित्यत्वात् । तस्माद्वृत्तयः क्रियारूपाः सकर्मिकाः कर्माभावे सुषुप्त्यादौ निवर्तन्ते । तेन चैत­न्य­मा­त्म­स्व­भाव इति सिद्धम् । तथाच नित्य­चै­त­न्य­वा­दिन्यः श्रुतयो न कथञ्चित्क्लेशेन व्याख्यातव्या भवन्ति । गन्धा­दि­वि­ष­य­वृ­त्त्यु­प­जने चेन्द्रि­या­णा­म­र्थ­व­त्तेति सर्वमवदातम् ॥ १८ ॥

उत्क्रा­न्ति­ग­त्या­ग­ती­नाम् ।

यद्य­प्य­वि­कृ­त­स्यैव परमात्मनो जीवभावस्तथा चान­णु­प­रि­मा­णत्वं, तथा­प्यु­त्क्रा­न्ति­ग­त्या­ग­तीनां श्रुतेश्च साक्षा­द­णु­प­रि­मा­ण­श्र­व­णस्य चावि­रो­धा­र्थ­मि­द­म­धि­क­र­ण­मि­त्या­क्षे­प­स­मा­धा­ना­भ्या­माह
ननु चेति ।

पूर्वपक्षं गृह्णाति
तत्र प्राप्तं तावदिति ।
विभा­ग­सं­यो­गो­त्पादौ हि तूत्क्रा­न्त्या­दीनां फलम् । नच सर्वगतस्य तौ स्तः । सर्वत्र नित्यप्राप्तस्य वा सर्वात्मकस्य वा तदसम्भावादिति ॥ १९ ॥

स्वात्मना चोत्तरयोः ।
उत्क्रमणं हि मरणे निरूढम् । तच्चाचलतोऽपि तत्र सतो देह­स्वा­म्य­नि­वृ­त्त्यो­प­प­द्यते न तु गत्यागती । तयोश्चलने निरूढयोः कर्तृ­स्थ­भा­व­यो­र्व्या­पि­न्य­स­म्भ­वा­दिति मध्यमं परिमाणं महत्त्वं शरीरस्यैव । तच्चा­र्ह­त­प­री­क्षायां प्रत्युक्तम् । गत्यागती च परममहति न सम्भवतोऽतः पारि­शे­ष्या­द­णु­त्व­सिद्धिः । गत्यागतिभ्यां च प्रादे­शि­क­त्व­सिद्धौ मरणमपि देहादपसर्पणमेव जीवस्य न तु तत्र सतः स्वाम्य­नि­वृ­त्ति­मा­त्र­मिति सिद्धमित्याह

सत्योश्च गत्यागत्योरिति ।

इतश्च देहादपसर्पणमेव जीवस्य मरणमित्याह
देह­प्र­दे­शा­ना­मिति ।

तस्मा­द्ग­त्या­ग­त्य­पे­क्षो­त्क्रा­न्ति­रपि सापा­दा­ना­णु­त्व­सा­ध­न­मि­त्यर्थः । न केव­ल­म­पा­दा­न­श्रुतेः, तच्छ­री­र­प्र­दे­श­ग­न्त­व्य­त्व­श्रु­ते­र­प्ये­व­मे­वे­त्याह
स एतास्तेजोमात्रा इति ॥ २० ॥

नाणु­र­त­च्छ्रु­ते­रिति चेन्ने­त­रा­धि­का­रात् ।
यत उत्क्रा­न्त्या­दि­श्रु­ति­भि­र्जी­वा­ना­म­णुत्वं प्रसाधितं ततो व्याप­का­त्प­र­मा­त्म­न­स्तेषां तद्विकारतया भेदः । तथाच मह­त्त्वा­न­न्त्या­दि­श्रु­तयः परमात्मविषया न जीवविषया इत्यविरोध इत्यर्थः । यदि जीवा अणवस्ततो “योऽयं विज्ञानमयः प्राणेषु”(बृ. उ. ४ । ३ । ७) इति कथं शारीरो मह­त्त्व­स­म्ब­न्धि­त्वेन प्रति­नि­र्दि­श्यते इति चोदयति

नन्विति ।

परिहरति
शास्त्रदृष्ट्या
पार­मा­र्थि­क­दृष्ट्या निर्देशो वामदेववत् । यथा हि गर्भस्थ एव वामदेवो जीवः पर­मा­र्थ­दृ­ष्ट्या­त्मनो ब्रह्मत्वं प्रतिपेदे, एवं विकाराणां प्रकृ­ते­र्वा­स्त­वा­द­भे­दा­त्त­त्प­रि­मा­ण­त्व­व्य­प­देश इत्यर्थः ॥ २१ ॥

स्वश­ब्दो­न्मा­नाभ्यां च ।

स्वशब्दं विभजते
साक्षादेवेति ।

उन्मानं विभजते
तथोन्मानमपीति ।
उद्धृत्य मानमुन्मानं बाला­ग्रा­दु­द्धृतः शततमो भागस्तस्मादपि शततमादुद्धृतः शततमो भाग इति तदिदमुन्मानम् । आराग्रादुद्धृतं मान­मा­रा­ग्र­मा­त्र­मिति ॥ २२ ॥

सूत्रा­न्त­र­म­व­ता­र­यितुं चोदयति
नन्वणुत्वे सतीति ।
अणुरात्मा न शरीरव्यापीति न सर्वा­ङ्गी­ण­शै­त्यो­प­लब्धिः स्यादित्यर्थः ।

अवि­रो­ध­श्च­न्द­न­वत् ।
त्वक्संयुक्तो हि जीवः त्वक्च सक­ल­श­री­र­व्या­पि­नीति त्वग्व्या­प्या­त्म­स­म्बन्धः सकलशैत्योपलब्धौ समर्थ इत्यर्थः ॥ २३ ॥

अव­स्थि­ति­वै­शे­ष्या­दिति चेन्ना­भ्यु­प­ग­मा­द्धृदि हि ।
चन्दनबिन्दोः प्रत्य­क्ष­तोऽ­ल्पी­यस्त्वं बुद्ध्वा युक्ता कल्पना भवति, यस्य तु सन्दिग्धमणुत्वं सर्वाङ्गीणं च कार्यमुपलभ्यते तस्य व्यापि­त्व­मौ­त्स­र्गि­क­म­प­हाय नेयं कल्पनावकाशं लभत इति शङ्कार्थः । नच हरि­च­न्द­न­बि­न्दु­दृ­ष्टा­न्ते­ना­ण­त्वा­नु­मानं जीवस्य, प्रति­दृ­ष्टा­न्त­स­म्भ­वे­ना­नै­का­न्ति­क­त्वा­दि­त्याह

न चात्रानुमानमिति ।

शङ्का­मि­मा­म­पा­क­रोति
अत्रोच्यत इति ।
यद्यपि पूर्वोक्ताभिः श्रुतिभिरणुत्वं सिद्ध­मा­त्म­न­स्त­थापि वैभ­वा­च्छ्रु­त्य­न्त­र­मु­प­न्य­स्तम् ॥ २४ ॥

गुणाद्वा लोकवत् ।
ये तु साव­य­व­त्वा­च्च­न्द­न­बि­न्दो­र­णु­स­ञ्चा­रेण देह­व्या­प्ति­रु­प­प­द्यते न त्वात्म­नोऽ­न­व­य­व­स्या­णु­स­ञ्चारः सम्भवी, तस्मा­द्वै­ष­म्य­मिति मन्यन्ते तान् प्रतीदमुच्यते गुणाद्वा लोकवदिति । तद्विभजते

चैतन्य इति ।
यद्य­प्य­णु­र्जी­व­स्त­थापि तद्गुणश्चैतन्यं सकलदेहव्यापि । यथा प्रदी­प­स्या­ल्प­त्वेऽपि तद्गुणः प्रभा­स­क­ल­गृ­हो­द­र­व्या­पि­नीति ॥ २५ ॥

एतदपि शङ्काद्वारेण दूषयित्वा दृष्टा­न्ता­न्त­र­माह
व्यतिरेको गन्धवत् ।

अक्षीयमाणमपि तदिति ।

क्षय­स्या­ति­सू­क्ष्म­त­या­नु­प­ल­भ्य­मा­न­क्ष­य­मिति शङ्कते
स्यादेतदिति ।
विश्लि­ष्टा­ना­म­ल्प­त्वा­दि­त्यु­प­ल­क्षणं, द्रव्या­न्त­र­प­र­मा­णू­ना­म­नु­प्र­वे­शा­दि­त्यपि द्रष्टव्यम् । विश्ले­षा­नु­प्र­वे­शाभ्यां च सन्नपि विश्लेषः सूक्ष्म­त्वा­न्नो­प­ल­क्ष्यते इति । निराकरोति

न ।

कुतः ।
अती­न्द्रि­य­त्वा­दिति ।
परमाणूनां पर­म­सू­क्ष्म­त्वा­त्त­द्ग­त­रू­पा­दि­व­द्ग­न्धोऽपि नोपलभ्येत । उपलभ्यमानो वा सूक्ष्म उपलभ्येत न स्थूल इत्यर्थः । शेष­म­ति­रो­हि­ता­र्थम् ॥ २६ ॥

तथा च दर्शयति । ॥ २७ ॥

पृथगुपदेशात् ।
निग­द­व्या­ख्या­त­मस्य भाष्यम् ॥ २८ ॥

तद्गु­ण­सा­र­त्वात्तु तद्व्यपदेशः प्राज्ञवत् ।

कण्टकतोदनेऽपीति ।
महदल्पयोः संयो­गोऽ­ल्प­म­व­रु­णद्धि न महान्तं, न जातु घटकरकादिसंयोगा नभसो नभो व्यश्नु­व­तेऽ­पि­त्व­ल्पा­नेव घटकरकादीन् , इतरथा यत्र नभस्तत्र सर्वत्र घटकरकाद्युपलम्भ इति, तेऽपि नभःपरिमाणाः प्रसज्येरन्निति । न चाणोर्जीवस्य सकलशरीरगता वेदनोपपद्यते । यद्य­प्य­न्तः­क­र­ण­मणु तथापि तस्य त्वचा सम्ब­द्ध­त्वा­त्त्व­चश्च सम­स्त­श­री­र­व्या­पि­त्वा­दे­क­दे­शेऽ­प्य­धि­ष्ठिता त्वग­धि­ष्ठि­तै­वेति शरीरव्यापी जीवः शक्नोति सर्वाङ्गीणं शैत्यमनुभवितुं त्वगिन्द्रियेण गङ्गायाम् । अणुस्तु जीवो यत्रास्ति तस्मिन्नेव शरीरप्रदेशे तदनुभवेन्न सर्वाङ्गीणं, तस्या­स­र्वा­ङ्गी­ण­त्वात् । कण्टकतोदनस्य तु प्रादेशिकतया न सर्वा­ङ्गी­णो­प­ल­ब्धि­रिति वैषम्यम् ।

गुणत्वमेव हीति ।
इदमेव हि गुणानां गुणत्वं यद्द्र­व्य­दे­श­त्वम् । अत एव हि हेमन्ते विष­क्ता­व­य­वा­प्य­द्र­व्य­ग­तेऽ­ति­सान्द्रे शीत­स्प­र्शेऽ­नु­भू­य­मा­ने­प्य­नु­द्भूतं रूपं नोपलभ्यते यथा, तथा मृगमदादीनां गन्ध­वा­ह­वि­प्र­की­र्ण­सू­क्ष्मा­व­य­वा­ना­म­ति­सान्द्रे गन्धेऽनुभूयमाने रूपस्पर्शौ नानुभूयेते तत्कस्य हेतोः, अनु­द्भू­त­त्वा­त्त­यो­र्ग­न्धस्य चोद्भूतत्वादिति । नच द्रव्यस्य प्रक्ष­य­प्र­सङ्गः, द्रव्या­न्त­रा­व­य­व­पू­र­णात् । अत एव काल­प­रि­वा­स­व­शा­दस्य हत­ग­न्धि­तो­प­ल­भ्यते । अपिच चैतन्यं नाम न गुणो जीवस्य गुणिनः, किन्तु स्वभावः । नच स्वभावस्य व्यापित्वे भाव­स्या­व्या­पित्वं, तत्त्व­प्र­च्यु­ते­रि­त्याह

यदि च चैतन्यमिति ।

तदेवं श्रुति­स्मृ­ती­ति­हा­स­पु­रा­ण­सिद्धे जीव­स्या­वि­का­रि­तया परमात्मत्वे, तथा श्रुत्यादितः परममहत्त्वे च, या नामा­णु­त्व­श्रु­त­य­स्ता­स्त­द­नु­रो­धेन बुद्धिगुणसारतया व्याख्येया इत्याह
तद्गु­ण­सा­र­त्वा­दिति ।

तद्व्याचष्टे
तस्या बुद्धेरिति ।
आत्मना स्वसम्बन्धिन्या बुद्धे­रु­प­स्था­पि­त­त्वा­त्तदा परामर्शः । नहि शुद्ध­बु­द्ध­मु­क्त­स्व­भा­व­स्या­त्म­न­स्तत्त्वं संसा­रि­भि­र­नु­भू­यते । अपितु योऽयं मिथ्या­ज्ञा­न­द्वे­षा­द्य­नु­षक्तः स एव प्रत्या­त्म­म­नु­भ­व­गो­चरः । नच ब्रह्मस्वभावस्य जीवात्मनः कूटस्थनित्यस्य स्वतः इच्छा­द्वे­षा­नु­ष­ङ्ग­स­म्भव इति बुद्धिगुणानां तेषां तदभेदाध्यासेन तद्ध­र्म­त्वा­ध्यासः, उद­श­रा­वा­ध्य­स्त­स्येव चन्द्रमसो बिम्बस्य तोयकम्पे कम्प­व­त्त्वा­ध्यास इत्यु­प­पा­दि­त­म­ध्या­स­भाष्ये । तथाच बुद्ध्या­द्यु­पा­धि­कृ­त­मस्य जीवत्वमिति बुद्धे­र­न्तः­क­र­ण­स्या­णु­तया सोऽप्य­णु­व्य­प­दे­श­भा­ग्भ­वति, नभ इव करकोपहितं करकपरिमाणम् । तथा चोत्क्रा­न्त्या­दी­ना­मु­प­प­त्ति­रिति । निग­द­व्या­ख्या­त­मि­त­रत् । प्राय­णेऽ­स­त्त्व­म­सं­सा­रित्वं वा, ततश्च कृत­वि­प्र­णा­शा­कृ­ता­भ्या­ग­म­प्र­सङ्गः ॥ २९ ॥

याव­दा­त्म­भा­वि­त्वात्तु न दोष­स्त­द्द­र्श­नात् ।
याव­त्सं­सा­र्या­त्म­भा­वि­त्वा­दि­त्यर्थः ।

समानः सन्निति ।
बुद्ध्या समानः तद्गु­ण­सा­र­त्वा­दिति ।

अपिच मिथ्याज्ञानेति ।
न केवलं याव­त्सं­सा­र्या­त्म­भा­वि­त्व­मा­ग­मतः, उप­प­त्ति­त­श्चे­त्यर्थः ।

आदित्यवर्णमिति ।
प्रका­श­रू­प­मि­त्यर्थः ।

तमस इति ।
अविद्याया इत्यर्थः । तमेव विदित्वा साक्षात्कृत्य मृत्यु­म­वि­द्या­म­त्ये­तीति योजना ॥ ३० ॥

अनुशयबीजं पूर्वपक्षी प्रकटयति
ननु सुषु­प्त­प्र­ल­य­यो­रिति ।
सतापरमात्मना ।

अनुशयबीजपरिहारः अत्रोच्यते
पुंस्त्वा­दि­व­त्त्वस्य सतोऽ­भि­व्य­क्ति­यो­गात् ।
निग­द­व्या­ख्या­त­मस्य भाष्यम् ॥ ३१ ॥

नित्यो­प­ल­ब्ध्य­नु­प­ल­ब्धि­प्र­स­ङ्गो­न्य­त­र­नि­यमो वान्यथा ।
स्यादेतत् । अन्तःकरणेऽपि सति तस्य नित्य­सं­नि­धा­ना­त्क­स्मा­न्नि­त्यो­प­ल­ब्ध्य­नु­प­लब्धी न प्रसज्येते । अथा­दृ­ष्ट­वि­पा­क­का­दा­चि­त्क­त्वा­त्सा­म­र्त्य­प्र­ति­ब­न्धा­प्र­ति­ब­न्धा­भ्या­म­न्तः­क­र­णस्य नायं प्रसङ्गः । ताव­स­त्ये­वा­न्तः­क­रणे आत्मनो वेन्द्रियाणां वा स्तां, तत्कि­म­न्त­र्ग­डु­ना­न्तः­क­र­णे­नेति चोदयति

अथ­वा­न्य­त­र­स्या­त्मन इति ।
अथवेति सिद्धान्तं निवर्तयति । सिद्धान्ती ब्रूते

न चात्मन इति ।
अवधानं खल्वनुवुभूषा शुश्रूषा वा । न चैते आत्मनो धर्मौ, तस्या­वि­क्रि­य­त्वात् । न चेन्द्रियाणाम् , एकै­के­न्द्रि­य­व्य­ति­रे­केऽ­प्य­न्धा­दीनां दर्शनात् । नच ते आन्त­र­त्वे­ना­नु­भू­य­माने बाह्ये सम्भवतः । तस्मादस्ति तदान्तरं किमपि । यस्य चैते तदन्तःकरणम् । तदिदमुक्तम्

यस्यावधानेति ।

अत्रैवार्थे श्रुतिं दर्शयति
तथा चेति ॥ ३२ ॥

कर्ता शास्त्रा­र्थ­व­त्त्वात् ।

ननु “तद्गु­ण­सा­र­त्वात्”(ब्र. सू. २ । ३ । २९) इत्यनेनैव जीवस्य कर्तृत्वं भोक्तृत्वं च लब्धमेवेति तद्व्यु­त्पा­द­न­म­न­र्थ­क­मि­त्यत आह
तद्गु­ण­सा­र­त्वा­धि­का­रे­णेति ।
तस्यैवैष प्रपञ्चो ये पश्यन्त्यात्मा भोक्तैव न कर्तेति तन्निराकरणार्थः । “शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्”(अ. ३ पा. ७ सू. १८) इत्याह स्म भगवान् जैमिनिः । प्रयो­क्त­र्य­नु­ष्ठा­तरि । कर्तरीति यावत् । शास्त्रफलं स्वर्गादि । कुतः । प्रयो­क्तृ­फ­ल­सा­ध­न­ता­ल­क्ष­ण­त्वा­त्शा­स्त्रस्य विधेः । कर्त्र­पे­क्षि­तो­पा­यता हि विधिः । बुद्धि­श्चे­त्कर्त्री भोक्ता चात्मा ततो यस्या­पे­क्षि­तो­पायो भोक्तुन तस्य कर्तृत्वं यस्य कर्तृत्वं नच तस्या­पे­क्षि­तो­पाय इति किं केन सङ्गतमिति शास्त्र­स्या­न­र्थ­क­त्व­म­वि­द्य­मा­ना­भि­धे­यत्वं तथा चाप्रयोजनकत्वं स्यात् । यथा च तद्गु­ण­सा­र­त­या­स्या­व­स्तु­स­दपि भोक्तृत्वं सांव्य­व­हा­रि­क­मेवं कर्तृत्वमपि सांव्यवहारिकं न तु भाविकम् । अवि­द्या­व­द्वि­ष­यत्वं च शास्त्र­स्यो­प­पा­दि­त­म­ध्या­स­भाष्य इति सर्वमवदातम् ॥ ३३ ॥

विहारोपदेशात् ।
विहारः सञ्चारः क्रिया, तत्र स्वातन्त्र्यं नाकर्तुः सम्भवति । तस्मादपि कर्ता जीवः ॥ ३४ ॥

उपादानात् ।
तदेतेषां प्राणा­ना­मि­न्द्रि­याणां विज्ञानेन बुद्ध्या विज्ञानं ग्रह­ण­श­क्ति­मा­दा­यो­पा­दा­ये­त्यु­पा­दाने स्वातन्त्र्यं नाकर्तुः सम्भवति ॥ ३५ ॥

व्यपदेशाच्च क्रियायां चेन्नि­र्दे­श­वि­प­र्ययः ।
अभ्यु­च्च­य­मा­त्र­मे­तन्न सम्यगुपपत्तिः । विज्ञानं कर्तृ यज्ञं तनुते । सर्वत्र हि बुद्धिः करणरूपा करणत्वेनैव व्यपदिश्यते न कर्तृत्वेन, इह तु कर्तृत्वेन, तस्या व्यपदेशे विपर्ययः स्यात् । तस्मादात्मैव विज्ञानमिति व्यपदिष्टः । तेन कर्तेति ॥ ३६ ॥

सूत्रा­न्त­र­म­व­ता­र­यितुं चोदयति
अत्राह यदीति ।
प्रज्ञावान् स्वतन्त्र इष्टमोवात्मनः सम्पा­द­ये­न्ना­नि­ष्टम् । अनि­ष्ट­स­म्प­त्ति­र­प्य­स्यो­प­ल­भ्यते । तस्मान्न स्वतन्त्रस्तथा च न कर्ता । तल्ल­क्ष­ण­त्वा­त्त­स्ये­त्यर्थः ।

अस्योत्तरम्
उपलब्धिवदनियमः ।
करणादीनि कारकान्तराणि कर्ता प्रयुङ्क्ते न त्वयं कारकान्तरैः प्रयुज्यत इत्ये­ता­व­न्मा­त्र­मस्य स्वातन्त्र्यं न तु कार्यक्रियायां न कार­का­न्त­रा­ण्य­पे­क्षत इति । ईदृशं हि स्वातन्त्र्यं नेश्व­र­स्या­प्य­त्र­भ­व­तोऽ­स्ती­त्यु­त्स­न्न­स­ङ्कथः कर्ता स्यात् । तथा चाय­म­दृ­ष्ट­प­रि­पा­क­व­शा­दि­ष्ट­म­भि­प्रे­प्सु­स्त­त्सा­ध­न­वि­भ्र­मे­णा­नि­ष्टो­पायं व्यापा­र­य­न्न­निष्टं प्राप्नु­या­दि­त्य­नि­यमः कर्तृत्वं चेति न विरोधः ।

विष­य­प्र­क­ल्प­न­मा­त्र­प्र­यो­ज­न­त्वा­दिति ।
नित्य­चै­त­न्य­स्व­भा­वस्य खल्वात्मन इन्द्रियादीनि करणानि स्ववि­ष­य­मु­प­न­यन्ति, तेन विष­या­व­च्छि­न्न­मेव चैतन्यं वृत्तिरिति विज्ञानमिति चाख्यायते, तत्र चास्यास्ति स्वात­न्त्र्य­मि­त्यर्थः ॥ ३७ ॥

शक्तिविपर्ययात् ।
पूर्वं कार­ण­क­वि­भ­क्ति­वि­प­र्यय उक्तः । सम्प्रति कार­क­श­क्ति­वि­प­र्यय इत्यपुनरुक्तम् । अविपर्ययाय तु कर­णा­न्त­र­क­ल्प­नायां नाम्नि विसंवाद इति ॥ ३८ ॥

समाध्यभावाच्च ।
समाधिरिति संयममुपलक्षयति । धार­णा­ध्या­न­स­मा­धयो हि संयमपदवेदनीयाः । यथाहुः “त्रयमेकत्र संयमः”(यो.सू. ३-४) इति । अत्र श्रोतव्यो मन्तव्य इति धारणोपदेशः । निदिध्यासितव्य इति ध्यानोपदेशः । द्रष्टव्य इति समाधेरुपदेशः । यथाहुः “तदेव ध्यान­म­र्थ­मा­त्र­नि­र्भासं स्वरूपशून्यमिव समाधिः” इति । सोऽयमिह कर्तात्मा समा­धा­वु­प­दि­श्य­मान आत्मनः कर्तृत्वमवैतीति सूत्रार्थः ॥ ३९ ॥

यथा च तक्षोभयथा ।

अवा­न्त­र­स­ङ्ग­ति­माह
एवं तावदिति ।

विमृशति
तत्पुनरिति ।

पूर्वपक्षं गृह्णाति
तत्रेति ।
शास्त्रा­र्थ­व­त्त्वा­दयो हि हेतव आत्मनः कर्तृ­त्व­मा­पा­द­यन्ति । नच स्वाभाविके कर्तृत्वे सम्भ­व­त्य­स­त्य­प­वादे तदौपाधिकं युक्त­म­ति­प्र­स­ङ्गात् । नच मुक्त्य­भा­व­प्र­स­ङ्गोऽ­स्या­प­वा­दकः, यथा ज्ञानस्वभावो ज्ञेयाभावेऽपि नाज्ञो भवत्येवं कर्तृस्वभावोऽपि क्रिया­वे­शा­भा­वेऽपि नाकर्ता । तस्मा­त्स्वा­भा­वि­क­मे­वास्य कर्तृत्वमिति प्राप्तेऽ­भि­धी­यते । नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावं हि ब्रह्म भूयोभूयः श्रूयते । तदस्य बुद्धत्वमसत्यपि बोद्धव्ये युक्तं, वह्नेरिवासत्यपि दाह्ये दग्धृत्वं, तच्छीलस्य तस्यावगमात् । कर्तृत्वं त्वस्य क्रिया­वे­शा­द­व­ग­न्त­व्यम् । नच नित्योदासीनस्य कूटस्थस्य नित्य­स्या­स­कृ­च्छु­तस्य सम्भवति, तस्य च कदा­चि­द­प्य­सं­सर्गे कथं तच्छक्तियोगो निर्विषयायाः शक्तेरसम्भवात् तथाच यदि तत्सिध्यर्थं तद्विषमः क्रिया­वे­शोऽ­भ्यु­पे­यते तथा सति तत्स्वभावस्य स्वभा­वो­च्छे­दा­भा­वा­द्भा­व­ना­श­प्र­सङ्गः, नच मुक्तस्यास्ति क्रियायोग इति । क्रियाया दुःखत्वान्न विग­लि­त­स­क­ल­दुः­ख­प­र­मा­न­न्दा­वस्था मोक्षः स्यादि­त्या­श­य­वा­नाह

न स्वाभाविकं कर्तृत्वमात्मन इति ।

अभिप्रायमबुध्वा चोदयति
ननु स्थितायामपीति ।

परिहरति
न । निमित्तानामपीति ।
शक्तशक्याश्रया शक्तिः स्वसत्तयावश्यं शक्यमाक्षिपति । तथाच तयाक्षिप्तं शक्यं सदैव स्यादिति भावः । चोदयति

ननु मोक्ष­सा­ध­न­वि­धा­ना­दिति ।

परिहरति
न । साधनायत्तस्येति ।
अस्माकं तु न मोक्षः साध्यः, अपितु ब्रह्मस्वरूपं तच्च नित्यमिति । उक्त­म­भि­प्रा­य­मा­वि­ष्क­रोति

अपिच नित्यशुद्ध इति ।

चोदयति
पर एव तर्हि संसारीति ।
अय­म­र्थः­प­र­श्चे­त्सं­सारी तस्या­वि­द्य­प्र­वि­लये मुक्तौ सर्वे मुच्ये­र­न्न­वि­शे­षात् । ततश्च सर्व­सं­सा­रो­च्छे­द­प्र­सङ्गः । पर­स्मा­द­न्य­श्चेत्स बुद्ध्या­दि­स­ङ्घात एवेति, तस्यैव तर्हि मुक्तिसंसारौ नात्मन इति । परिहरति

न । अवि­द्या­प्र­त्यु­प­स्था­पि­त­त्वा­दिति ।
न परमात्मनो मुक्तिसंसारौ, तस्य नित्य­मु­क्त­त्वात् । नापि बुद्ध्या­दि­स­ङ्घा­तस्य, तस्याचेतनत्वात् । अपि त्ववि­द्यो­प­स्था­पि­तानां बुद्ध्या­दि­स­ङ्घा­तानां भेदा­त्त­त्त­द्बु­द्ध्या­दि­स­ङ्घा­त­भे­दो­प­धान आत्मैकोऽपि भिन्न इव विशु­द्धोऽ­प्य­वि­शुद्ध इव तत­श्चै­क­बु­द्ध्या­दि­स­ङ्घा­ता­प­गमे तत्र मुक्त इवेतरत्र बद्ध इव यथा मणि­कृ­पा­णा­द्यु­प­धा­न­भे­दा­दे­क­मेव मुखं नानेव दीर्घमिव वृत्तमिव श्याम­मि­वा­व­दा­त­मिव अन्य­त­मो­प­धा­न­वि­गमे तत्र मुक्त­मि­वा­न्य­त्रो­प­हि­त­मि­वेति नैकमुक्तौ सर्व­मु­क्ति­प्र­सङ्गः । तस्मान्न परमात्मनो मोक्षसंसारौ, नापि बुद्ध्या­दि­स­ङ्घा­तस्य किन्तु बुद्ध्या­द्यु­प­हि­त­स्या­त्म­स्व­भा­वस्य जीव­भा­व­मा­प­न्न­स्येति परमार्थः । अत्रै­वा­न्व­य­व्य­ति­रेकौ श्रुति­भि­रा­द­र्श­यति

तथाचेति ।

इतश्चौपाधिकं यदु­पा­ध्य­भि­भ­वो­द्भ­वा­भ्या­म­स्या­भि­भ­वो­द्भवौ दर्शयति श्रुतिरित्याह
तथा स्वप्न­जा­ग­रि­त­यो­रिति ।

अत्रैवार्थे सूत्रं व्याचष्टे
तदेतदाहेति ।
सम्प्रसादः सुषुप्तिः । स्यादेतत् । तक्ष्णः पाण्यादयः सन्ति तैरयं वास्यादीन् व्यापारयन् भवतु दुःखी, परमात्मा त्वनवयवः केन मनःप्रभृतीनि व्यापारयेदिति वैषम्यं तक्ष्णो दृष्टा­न्ते­ने­त्यत आह

तक्ष­दृ­ष्टा­न्त­श्चेति ।
यथा स्वश­री­रे­णो­दा­सी­न­स्तक्षा सुखी, वास्यादीनि तु करणानि व्यापारयन् दुःखी, तथा स्वात्म­ना­त्मो­दा­सीनः सुखी, मनःप्रभृतीनि तु करणादीनि व्यापारयन् दुःखी­त्ये­ता­व­तास्य साम्यं न तु सर्वथा । यथात्मा च जीवोऽ­व­य­वा­न्त­रा­न­पेक्षः स्वशरीरं व्यापारयत्येवं मनःप्रभृतीनि तु करणान्तराणि व्यापारयतीति प्रमाणसिद्धे नियो­ग­प­र्य­नु­यो­गा­नु­प­पत्तिः । पूर्व­प­क्ष­हे­तू­न­नु­भाष्य दूषयति

यत्तूक्तमिति ।
यत्परं हि शास्त्रं स एव शास्त्रार्थः । कर्त्र­पे­क्षि­तो­पा­य­भा­व­ना­परं तन्न कर्तृस्वरूपपरम् । तेन यथालोकसिद्धं कर्तारमपेक्ष्य स्वविषये प्रवर्तमानं न पुंसः स्वाभाविकं कर्तृ­त्व­म­व­ग­म­यि­तु­मु­त्स­हते, तस्मा­त्त­त्त्व­म­सी­त्या­द्यु­प­दे­श­वि­रो­धा­द­वि­द्या­कृतं तदवतिष्ठते । चोदयति

ननु सन्ध्ये स्थान इति ।
औपाधिकं हि कर्तृत्वं नोपाध्यपगमे सम्भवतीति स्वाभाविकमेव युज्यत इत्यर्थः । अपिच यत्रापि करणमस्ति तत्रापि केवलस्यात्मनः कर्तृ­त्व­श्र­व­णा­त्स्वा­भा­वि­क­मेव युक्तमित्याह

तथोपादानेऽपीति ।

तदेतत्परिहरति
न तावत्सन्ध्य इति ।
उपा­ध्य­प­ग­मोऽ­सि­द्धोऽ­न्तः­क­र­ण­स्यो­पाधेः सन्ध्येऽ­प्य­व­स्था­ना­दि­त्यर्थः ।

अपिच स्वप्ने यादृशं ज्ञानं तादृशो विहारोऽपीत्याह
विहारोऽपि च तत्रेति ।

तथोपादानेऽपीति ।
यद्यपि कर्तृविभक्तिः केवले कर्तरि श्रूयते तथापि कर्म­क­र­णो­प­धा­न­कृ­त­मस्य कर्तृत्वं न शुद्धस्य, नहि पर­शु­स­हा­य­श्छेत्ता केवलश्छेत्ता भवति । ननु यदि न केवलस्य कर्तृत्वमपि तु कर­णा­दि­स­हि­त­स्यैव, तथा सति करणादिष्वपि कर्तृविभक्तिः स्यात् । न चैतदस्तीत्याह

भवति न लोक इति ।
करणादिष्वपि कर्तृविभक्तिः कदाचिदस्त्येव विव­क्षा­व­शा­दि­त्यर्थः । अपि चेय­मु­पा­दा­न­श्रुतिः कर­ण­व्या­पा­रो­प­र­म­मा­त्र­परा न स्वातन्त्र्यपरा कर्तृ­वि­भ­क्तिस्तु भाक्ती । कूलं पिप­ति­ष­ती­ति­व­द­बु­द्धि­पू­र्व­कस्य कर­ण­व्या­पा­रो­प­र­मस्य दृष्ट­त्वा­दि­त्याह

अपि­चा­स्मि­न्नु­पा­दान इति ।
यस्त्वयं व्यपदेश इति यत्त­दु­क्त­म­स्मा­भि­र­भ्यु­च्च­य­मा­त्र­मे­त­मिति तदितः समुत्थितम् ।

सर्व­का­र­का­णा­मे­वेति ।

विक्लिद्यन्ति तण्डुला ज्वलन्ति काष्ठानि बिभर्त्ति स्थालीति हि स्वव्यापारे सर्वेषां, कर्तृत्वं, तत्किं बुद्ध्यादीनां कर्तृत्वमेव न करणत्वमित्यत आह
उपलब्ध्यपेक्षं त्वेषां करणत्वम् ।

नन्वेवं सति तस्यामेवात्मनः स्वाभाविकं कर्तृ­त्व­म­स्त्वि­त्यत आह
नच तस्या­मु­ल­ब्धा­व­प्यस्य स्वाभा­वि­क­क­र्तृ­त्व­मस्ति कस्मात् नित्यो­प­ल­ब्धि­स्व­रू­प­त्वात् आत्मनः ।
नहि नित्ये स्वभावे चास्ति भावस्य व्यापार इत्यर्थः । तदेवं नास्योपलब्धौ स्वाभाविकं कर्तृ­त्व­म­स्ती­त्यु­क्तम् । नापि बुद्ध्या­दे­रु­प­ल­ब्धि­क­र्तृ­त्व­मा­त्म­न्य­ध्यस्तं यथा तद्ग­त­म­ध्य­व­सा­या­दि­क­र्तृ­त्व­मि­त्याह

अह­ङ्का­र­पू­र्व­क­मपि कर्तृत्वं नोप­ल­ब्धु­र्भ­वि­तु­म­र्हति ।

कुतः ।
अह­ङ्का­र­स्या­प्यु­प­ल­भ्य­मा­न­त्वात् ।
नहि शरीरादि यस्यां क्रियायां गम्यं तस्यामेव गन्तृ भवति । एतदुक्तं भवति यदि बुद्धि­रु­प­लब्ध्री भवेत् , ततस्तस्या उप­ल­ब्धृ­त्व­मा­त्म­न्य­ध्य­व­स्येत । न चैतदस्ति । तस्या जड­त्वे­नो­प­ल­भ्य­मा­न­त­यो­प­ल­ब्धि­क­र्तृ­त्वा­नु­प­पत्तेः । यदा चौपलब्धौ बुद्धे­र­क­र्तृत्वं तदा यदुक्तं बुद्धे­रु­प­ल­ब्धृत्वे करणान्तरं कल्पनीयं, तथाच नाममात्रे विसंवाद इति तन्न भवतीत्याह

न चैवं सति करणान्तरकल्पना ; बुद्धे­रु­प­ल­ब्धृ­त्वा­भा­वात् ।

तत्कि­मि­दा­नी­म­क­रणं बुद्धि­रु­प­ल­ब्धा­वात्मा चानुपलब्धेत्यत आह
बुद्धे कर­ण­त्वा­भ्यु­प­ग­मात् ।
अय­म­भि­स­न्धिः­चै­त­न्य­मु­प­ल­ब्धि­रा­त्म­स्व­भावो नित्य इति न तत्रात्मनः कर्तृत्वं, नापि बुद्धेः करणत्वं, किन्तु चैतन्यमेव विषयावच्छिन्नं वृत्तिरिति चोपलब्धिरिति चाख्यायते । तस्य तु तत्त­द्वि­ष­या­व­च्छेदे वृत्तौ बुद्ध्यादीनां करणत्वमात्मनश्च तदु­प­धा­ने­ना­ह­ङ्का­र­पू­र्वकं कर्तृत्वं युज्यत इति ॥ ४० ॥

परात्तु तच्छ्रुतेः ।
यदे­त­ज्जी­वा­ना­मौ­पा­धिकं कर्तृत्वं तत्प्र­व­र्त­ना­ल­क्ष­णेषु रागादिषु सत्सु नेश्वरमपरं प्रवर्तकं कल्पयितुमर्हति, अतिप्रसङ्गात् । नचेश्वरो द्वेष­प­क्ष­पा­त­र­हितो जीवान् साध्वसाधुनि कर्मणि प्रव­र्त­यि­तु­म­र्हति, येन धर्मा­ध­र्मा­पे­क्षया जग­द्वै­चि­त्र्य­मा­प­द्येत । स हि स्वतन्त्रः कारुणिको धर्म एव जन्तून् प्रव­र्त­ये­न्ना­धर्मे । ततश्च तत्प्रेरिता जन्तवः सर्वे धार्मिका एवेति सुखिन एव स्युर्न दुःखिनः । स्वतन्त्रास्तु रागा­दि­प्र­युक्ताः प्रवर्तमाना धर्मा­ध­र्म­प्र­च­य­वन्तो वैचि­त्र्य­म­नु­भ­व­न्तीति युक्तम् । एवंच विधि­नि­षे­ध­यो­र­र्थ­व­त्त्व­मि­त­रथा तु सर्वथा जीवा अस्वतन्त्रा इतीश्वरेणैव प्रवर्त्यन्त इति कृतं विधि­नि­षे­धा­भ्याम् । नहि बल­व­द­नि­ल­स­लि­लौ­घ­नु­द्य­मानं प्रत्यु­प­दे­शोऽ­र्थ­वान् । तस्मात् “एष ह्येव साधु कर्म कारयति”(कौ . ब्रा. ३ । ८)“एष ह्येव साधु कर्म कारयति”(कौ . ब्रा. ३ । ८) इत्यादयः श्रुतयः सम­स्त­वि­धि­नि­षे­ध­श्रु­ति­वि­रो­धा­ल्लो­क­वि­रो­धा­च्चै­श्व­र्य­प्र­शं­सा­प­र­तया नेया इति प्राप्तेऽ­भि­धी­यते । “एष ह्येव साधु कर्म कारयति” इत्या­द­य­स्ता­व­च्छ­छ्रु­तयः सर्वव्यापारेषु जन्तू­ना­मी­श्व­र­त­न्त्र­ता­माहुः, तदसति प्रतिबन्धके न प्रशंसापरतया व्याख्या­तु­मु­चि­तम् । नच श्रुतिसिद्धस्य कल्पनीयता, येन प्रवर्तकेषु रागादिषु सत्सु तत्कल्पना विरुध्येत । न चेश्व­र­त­न्त्रत्वे धर्म एव जन्तूनां प्रवृत्तेः सुखित्वमेव न वैचित्र्यमिति युक्तम् । यद्यप्ययमीश्वरो वीतरागस्तथापि पूर्व­पू­र्व­ज­न्तु­क­र्मा­पे­क्षय जन्तून् धर्माधर्मयोः प्रवर्तयन्न द्वेष­प­क्ष­पा­ताभ्यां विषमः । नापि निर्घृणः । नच कर्म­प्र­च­य­स्या­दि­र­स्त्य­ना­दि­त्वा­त्सं­सा­रस्य । न चेश्वरतन्त्रस्य कृतं विधि­नि­षे­धा­भ्या­मिति साम्प्रतम् । नहीश्वरः प्रबलतरपवन इव जन्तून् प्रवर्तयत्यपि तु तच्चै­त­न्य­म­नु­रु­ध्य­मानो रागा­द्यु­प­हा­र­मु­खेन । एवं चेष्टा­नि­ष्ट­प्रा­प्ति­प­रि­हा­रा­र्थिनो विधि­नि­षे­धा­व­र्थ­वन्तौ भवतः । तद­ने­ना­भि­स­न्धि­नो­क्तम्

परायत्तेऽपि हि कर्तृत्वे करोत्येव जीव इति ।
तस्मा­द्वि­धि­नि­षे­ध­शा­स्त्रा­वि­रो­धा­ल्लो­कस्य स्थूल­द­र्शि­त्वात् “एष ह्येव साधु कर्म कारयति”(कौ . ब्रा. ३ । ८)इत्यादिश्रुतेः । “अज्ञो जन्तु­र­नी­शोऽ­य­मा­त्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥”(भारत.व. ३०-२८) इति स्मृते­श्चे­श्व­र­त­न्त्रा­णा­मेव जन्तूनां कर्तृत्वं, न तु स्वत­न्त्रा­णा­मिति सिद्धम् । ईश्वर एव विधि­नि­षे­ध­यो­स्थाने नियुज्येत यद्विधिनिषेधयोः फलं तदीश्वरेण तत्प्र­ति­पा­दि­त­ध­र्मा­ध­र्म­नि­र­पे­क्षेण कृतमिति विधि­नि­षे­ध­यो­रा­न­र्थ­क्यम् । न केवलमानर्थक्यं विपरीतं चापद्येत इत्याह

तथा विहितकारिणमिति ।
पूर्वोक्तश्च दोषः कृत­ना­शा­कृ­ता­भ्या­गमः प्रसज्येत । अति­रो­हि­ता­र्थ­म­न्यत् ॥ ४१ ॥

कृत­प्र­य­त्ना­पे­क्षस्तु विहि­त­प्र­ति­षि­द्धा­वै­य­र्थ्या­दिभ्यः । ॥ ४२ ॥

अंशो नाना­व्य­प­दे­शा­द­न्यथा चापि दाश­कि­त­वा­दि­त्व­म­धी­यत एके ।

अवा­न्त­र­स­ङ्ग­ति­माह
जीवेश्वरयोरिति ।
उप­का­र्यो­प­का­र­क­भा­वः­प्र­यो­ज्य­प्र­यो­ज­क­भावः । अत्रापाततो विनि­ग­म­ना­हे­तो­र­भा­वा­द­नि­यमो निश्चय इत्युक्तः । निश्च­य­हे­त्वा­भा­स­द­र्श­नेन भेद­प­क्ष­मा­ल­म्ब्याह

अथवेति ।
ईशि­त­व्ये­शि­तृ­भा­व­श्चा­न्वे­ष्या­न्वे­ष्टृ­भा­वश्च ज्ञेय­ज्ञा­तृ­भा­वश्च निय­म्य­नि­य­न्तृ­भा­व­श्चा­धा­रा­धे­य­भा­वश्च न जीव­प­र­मा­त्म­नो­र­भे­देऽ­व­क­ल्प्यते । न च “ब्रह्मदाशा ब्रह्मकितवाः” इत्याद्याश्च श्रुतयो दाशा ब्रह्म कितवा ब्रह्मे­त्या­दि­प्र­ति­पा­द­न­परा जीवानां ब्रह्मणो भेदेऽ­व­क­ल्प्यन्ते । न चैता­भि­र्भे­दा­भे­द­प्र­ति­पा­द­न­प­राभिः श्रुतिभिः साक्षा­दं­श­त्व­प्र­ति­पा­द­काच्च मन्त्रवर्णात् “पादोऽस्य विश्वा भूतानि”(ऋ० १० . ९० . ३) इत्यादेः, स्मृतेश्च “ममैवांशः”(भ.गी. १५-७) इत्या­दे­र्जी­वा­ना­मी­श्व­रां­श­त्व­सिद्दिः । निर­ति­श­यो­पा­धि­स­म्पदा च विभू­ति­यो­गे­ने­श्वरः स्वांशानामपि निकृ­ष्टो­पा­धी­ना­मीष्ट इति युज्यते । नहि ताव­द­न­व­य­वे­श्व­रस्य जीवा भवि­तु­म­र्ह­न्त्यंशाः । अपिच जीवानां ब्रह्मांशत्वे तद्गता वेदना ब्रह्मणो भवेत् । पादादिगता इव वेदना देवदत्तस्य । ततश्च ब्रह्म­भू­य­ङ्ग­तस्य सम­स्त­जी­व­ग­त­वे­द­ना­नु­भ­व­प्र­सङ्ग इति वरं संसार एव मुक्तेः । तत्र हि स्वग­त­वे­द­ना­मा­त्रा­म­नु­भ­वान्न भूरि दुःखमनुभवति । मुक्तस्तु सर्व­जी­व­वे­द­ना­भा­गिति प्रयत्नेन मुक्ति­र­न­र्थ­ब­हु­ल­तया परिहर्तव्या स्यादिति । तथा भेदाभेदयोः पर­स्प­र­वि­रो­धि­नो­रे­क­त्रा­स­म्भ­वा­न्नां­शत्वं जीवानाम् । नच ब्रह्मैव सदसन्तस्तु जीवा इति युक्तं, सुख­दुः­ख­मु­क्ति­सं­सा­र­व्य­व­स्था­भा­व­प्र­स­ङ्गा­द­नु­ज्ञा­प­रि­हा­रा­भा­व­प्र­स­ङ्गाच्च । तस्माज्जीवा एव परमार्थसन्तो न ब्रह्मैकमद्वयम् । अद्वै­त­श्रु­त­यस्तु जाति­दे­श­का­ला­भे­द­नि­मि­त्तो­प­चा­रा­दिति प्राप्तेऽ­भि­धी­यते - अन­धि­ग­ता­र्था­व­बो­ध­नानि प्रमाणानि विशेषतः शब्दः । तत्र भेदो लोकसिद्धत्वान्न शब्देन प्रतिपाद्यः । अभे­द­स्त्व­न­धि­ग­त­त्वा­द­धि­ग­त­भे­दा­नु­वा­देन प्रतिपादनमर्हति । येन च वाक्य­मु­प­क्र­म्यते मध्ये च परामृश्यते अन्ते चोपसंह्रियते तत्रैव तस्य तात्पर्यम् । उप­नि­ष­द­श्चा­द्वै­तो­प­क्र­म­त­त्प­रा­म­र्श­त­दु­प­सं­हारा अद्वैतपरा एव युज्यन्ते । नच यत्प­रा­स्त­दौ­प­चा­रिकं युक्तम् , अभ्यासे हि भूयस्त्वमर्थस्य भवति नाल्पत्वमपि प्रागे­वो­प­च­रि­त­त्व­मि­त्यु­क्तम् । तस्माद्द्वैते भाविके स्थिते जीवभावस्तस्य ब्रह्म­णोऽ­ना­द्य­नि­र्व­च­नी­या­वि­द्यो­प­धा­न­भे­दा­दे­क­स्यैव बिम्बस्य दर्प­णा­द्यु­पा­धि­भे­दा­त्प्र­ति­बि­म्ब­भेदाः । एवं चानुज्ञापरिहारौ लौकिकवैदिकौ सुख­दुः­ख­मु­क्ति­सं­सा­र­व्य­वस्था चोपपद्येत । नच मोक्ष­स्या­न­र्थ­ब­हु­लता, यतः प्रति­बि­म्बा­ना­मिव श्याम­ता­व­दा­त­ता­दि­र्जी­वा­ना­मेव नाना­वे­द­ना­भि­स­म्बन्धो ब्रह्मणस्तु बिम्बस्येव न तदभिसम्बन्धः । यथाच दर्पणापनये तत्प्रतिबिम्बं बिम्ब­भा­वेऽ­व­ति­ष्ठते न कृपाणे प्रतिबिम्बितमपि । एव­म­वि­द्यो­प­धा­न­वि­गमे जीवे ब्रह्मभाव इति सिद्धं जीवो ब्रह्मांश इव तत्तन्त्रतया न त्वंश इति तात्पर्यार्थः ॥ ४३ ॥

मन्त्रवर्णाच्च । ॥ ४४ ॥

अपि च स्मर्यते । ॥ ४५ ॥

प्रका­शा­दि­व­न्नैवं परः । ॥ ४६ ॥

स्मरन्ति च ।
सप्त­द­श­स­ङ्ख्या­प­रि­मितो राशिर्गणः सप्तदशकः । तद्यथा बुद्धि­क­र्मे­न्द्रि­याणि बाह्यानि दश बुद्धिमनसी वृत्ति­भे­द­मा­त्रेण भिन्ने अप्ये­की­कृ­त्यै­क­म­न्तः­क­रणं शरीरं पञ्च विषया इति सप्तदशको राशिः ॥ ४७ ॥

अनुज्ञापरिहारौ देह­स­म्ब­न्धा­ज्ज्यो­ति­रा­दि­वत् ।
अनुज्ञा विधिरभिमतो न तु प्रवृ­त्त­प्र­व­र्तना । अपौरुषेये प्रव­र्त­यि­तु­र­भि­प्रा­या­नु­रो­धा­स­म्भ­वात् । क्रत्व­र्था­या­म­ग्नी­षो­मी­य­हिं­सायां प्रवृ­त्त­प्र­व­र्त­ना­नु­प­प­त्तेश्च । पुरुषार्थेऽपि नियमांशे प्रवृत्तेः

कः पुनर्देहसम्बन्ध इति ।
नहि कूट­स्थ­नि­त्य­स्या­त्म­नो­प­रि­णा­मि­नोऽस्ति देहेन संयोगः समवायो वान्यो वा कश्चित्सम्बन्धः सक­ल­ध­र्मा­ति­ग­त्वा­दि­त्य­भि­सन्धिः । उत्तरम्

देहादिरयं सङ्घा­तोऽ­ह­मे­वे­त्या­त्मनि विप­री­त­प्र­त्य­यो­त्पत्तिः ।
अयमर्थःसत्यं नास्ति कश्चिदात्मनो देहादिभिः पारमार्थिकः सम्बन्धः, किन्तु बुद्ध्या­दि­ज­नि­ता­त्म­वि­षया विपरीता वृत्तिः ‘अहमेव देहादिसङ्घातः’ इत्येवंरूपा । अस्यां देहादिसङ्घात आत्मतादात्म्येन भासते । सोऽयं सांवृ­त­स्ता­दा­त्म्य­ल­क्षणः सम्बन्धो न पारमार्थिक इत्यर्थः । गूढा­भि­स­न्धि­श्चो­द­यति

सम्य­ग्द­र्शि­न­स्त­र्हीति ।

उत्तरं
न । तस्येति ।
यदि सूक्ष्म­स्थू­ल­दे­हा­दि­स­ङ्घा­तोऽ­वि­द्यो­प­द­र्शित एकमेवाद्वितीयं ब्रह्मास्मीति सम्य­ग्द­र्श­न­म­भि­म­तम् , अद्धा तद्वन्तं प्रति विधि­नि­षे­ध­यो­रा­न­र्थ­क्य­मेव । एतदेव विशदयति

हेयोपादेययोरिति ।

चोदको निगू­ढा­भि­स­न्धि­मा­वि­ष्क­रोति
शरी­र­व्य­ति­रे­क­द­र्शिन एव ।

आमुष्मिकफलेषु कर्मसु दर्श­पू­र्ण­मा­सा­दिषु नियोज्यत्वमिति चोत्परिहरति
न । तत्सं­ह­त­त्वा­भि­मा­नात् ।

एतद्विभजते
सत्यमिति ।
यो ह्यात्मनः षाट्कौ­शि­का­द्दे­हा­दु­प­प­त्त्या­व्य­ति­रेकं वेद, न तु सम­स्त­बु­द्ध्या­दि­स­ङ्घा­त­व्य­ति­रेकं, तस्या­मु­ष्मि­क­फ­ले­ष्वा­धि­कारः । सम­स्त­बु­द्ध्या­दि­व्य­ति­रे­क­वे­दि­नस्तु कर्म­भो­क्तृ­त्वा­भि­मा­न­र­हि­तस्य नाधिकारः कर्मणि तथाच न यथेष्टचेष्टा, अभिमानविकलस्य तस्या अप्यभावादिति ॥ ४८ ॥

अस­न्त­ते­श्चा­व्य­ति­करः । ॥ ४९ ॥

आभास एव च ।
येषां तु साङ्ख्यानां वैशेषिकाणां वा सुख­दुः­ख­व्य­वस्थां पार­मा­र्थि­की­मि­च्छतां बहव आत्मानः सर्व­ग­ता­स्ते­षा­मे­वैष व्यतिकरः प्राप्नोति । तत्र प्रश्नपूर्वकं साङ्ख्यान् प्रति व्यतिक्रमं तावदाह

कथमिति ।
यादृशस्तादृशो गुणसम्बन्धः सर्वान् पुरुषान् प्रत्यविशिष्ट इति तत्कृते सुखदुःखे सर्वान् प्रत्यविशिष्टे । नच कर्मनिबन्धना व्यवस्था, कर्मणः प्राकृतत्वेन प्रकृतेश्च साधा­र­ण­त्वे­ना­व्य­व­स्था­ता­द­व­स्थ्यात् । चोदयति

स्यादेतदिति ।
अयमर्थःन प्रधानं स्ववि­भू­ती­ख्या­प­नाय प्रवर्तते, किन्तु पुरुषार्थम् । यं च पुरुषं प्रत्यनेन भोगापवर्गौ पुरुषार्थौ साधितौ तं प्रति समाप्ताधिकारतया निवर्तते पुरुषान्तरं तु प्रत्य­स­मा­प्ता­धि­कारं प्रवर्तते । एवं च मुक्त­सं­सा­रि­व्य­व­स्थो­प­पत्तेः सुख­दुः­ख­व्य­व­स्थापि भविष्यतीति निराकरोति

नहीति ।
सर्वेषां पुरुषाणां विभु­त्वा­त्प्र­धा­नस्य च साधारण्यादमुं पुरुषं प्रत्यनेनार्थः साधित इत्येतदेव नास्ति । तस्मा­त्प्र­यो­ज­न­व­शेन विना हेतुं व्यवस्थास्थेया । सा चायुक्ता हेत्व­भा­वा­दि­त्यर्थः । भवतु साङ्ख्या­ना­म­व्य­वस्था, प्रधा­न­स­म­वा­या­द­दृ­ष्टस्य, प्रधानस्य च साधारण्यात् । काणादादीनां त्वात्म­स­म­वा­य्य­दृष्टं प्रत्या­त्म­म­सा­धा­रणं तत्कृतश्च मनसा सहात्मनः स्वस्वा­मि­भा­व­ल­क्षणः सम्ब­न्धोऽ­ना­दि­र­दृ­ष्ट­भे­दा­ना­म­ना­दि­त्वात् , तथा चात्मनःसंयोगस्य साधारण्येऽपि स्वस्वा­मि­भा­व­स्या­सा­धा­र­ण्या­द­भि­स­न्ध्या­दि­व्य­व­स्थो­प­प­द्यत एव । नच संयोगोऽपि साधारणः । नहि तस्य मनस आत्मान्तरैर्यः संयोगः स एव स्वामिनापि, आत्मसंयोगस्य प्रतिसंयोगभेदेन भेदात् । तस्मा­दा­त्मै­क­त्व­स्या­ग­म­सि­द्ध­त्वात् , व्यव­स्था­या­श्चै­क­त्वेऽ­प्यु­प­पत्तेः, नाने­का­त्म­क­ल्पना, गौर­वा­दा­ग­म­वि­रो­धाच्च । अन्त्य­वि­शे­ष­व­त्त्वेन च भेद­क­ल्प­ना­या­म­न्यो­न्या­श्र­या­पत्तेः । भेदे हि तत्कल्पना ततश्च भेद इति । एतदेव काणादमतदूषणम् । भाष्यकृता तु प्रौढवादितया काणादान् प्रत्य­प्य­दृ­ष्टा­नि­य­मा­दि­त्या­दीनि सूत्राणि योजितानि । साङ्ख्य­म­त­दू­ष­ण­प­रा­ण्ये­वेति तु रोचयन्ते केचित्तदास्तां तावत् ॥ ५० ॥

अदृष्टानियमात् । ॥ ५१ ॥

अभि­स­न्ध्या­दि­ष्वपि चैवम् । ॥ ५२ ॥

प्रदेशादिति चेन्ना­न्त­र्भा­वात् । ॥ ५३ ॥
इति श्रीवा­च­स्प­ति­मि­श्र­वि­र­चिते भग­व­त्पा­द­शा­री­र­क­भा­ष्य­वि­भागे भामत्यां द्विती­या­ध्या­यस्य तृतीयः पादः ॥ ३ ॥

द्वितीयाध्याये चतुर्थः पादः ।
तथा प्राणाः ।
यद्यपि ब्रह्मवेदने सर्व­वे­द­न­प्र­ति­ज्ञा­ता­दु­प­पा­द­न­श्रु­ति­वि­रो­धा­द्ब­हु­त­रा­द्वै­त­श्रु­ति­वि­रो­धाच्च प्राणानां सर्गादौ सद्भा­व­श्रु­ति­र्वि­य­द­मृ­त­त्वा­दि­श्रु­तय इवान्यथा कथ­ञ्चि­न्ने­तु­मु­चिता, तथा­प्य­न्य­था­न­य­न­प्र­का­र­म­वि­द्वा­न­न्य­था­नु­प­प­द्य­मा­नै­कापि श्रुति­र्ब­ह्वी­र­न्य­थ­ये­दिति मन्वानः पूर्वपक्षयति । अत्र चात्युच्चतया विय­द­धि­क­र­ण­पू­र्व­प­क्ष­हे­तून् स्मारयति

तत्र तावदिति ।
शब्दै­क­प्र­मा­ण­स­म­धि­गम्या हि महा­भू­तो­त्प­त्ति­स्तस्या यत्र शब्दो निवर्तते तत्र तत्प्रमाणाभावेन तदभावः प्रतीयते । यथा चैत्य­व­न्द­न­त­त्क­र्म­ध­र्म­ताया इत्यर्थः । अत्रापाततः श्रुति­वि­प्र­ति­प­त्त्या­न­ध्य­व­सा­येन पूर्व­प­क्ष­यि­त्वा­थ­वे­त्य­भि­हितं पूर्व­प­क्ष­म­म­व­ता­र­यति । अभिप्रायोऽस्य दर्शितः । “पानव्यापच्च तद्वत्”(जै. अ. ३.४.१५) इत्य­त्रा­श्व­प्र­ति­ग्र­हे­ष्ट्या­द्य­धि­क­र­ण­पू­र्व­प­क्ष­सू­त्रा­र्थ­सा­दृश्यं तदा परामृष्टम् । राद्धान्तस्तु स्यादेतदेवं यदि सर्गादौ प्राण­स­द्भा­व­श्रु­ति­र­न­न्य­था­सिद्धा भवेत् । अन्यथैव त्वेषा सिध्यति । अवान्तरप्रलये ह्यग्निसाधनानां सृष्टि­र्व­क्त­व्येति तद­र्थोऽ­सा­वु­प­क्रमः । तत्रा­धि­का­रि­पु­रुषः प्रजा­प­ति­र­प्र­नष्ट एव त्रैलोक्यमात्रं प्रली­न­म­त­स्त­दी­यान् प्राणानपेक्ष्य सा श्रुति­रु­प­प­न्नार्था । तस्माद्भूयसीनां श्रुती­ना­म­नु­ग्र­हाय सर्व­वि­ज्ञा­न­प्र­ति­ज्ञो­प­प­त्त्य­र्थस्य चोत्तरस्य सन्दर्भस्य गौणत्वे तु प्रति­ज्ञा­ता­र्था­नु­गु­ण्या­भा­वे­ना­न­पे­क्षि­ता­र्थ­त्व­प्र­स­ङ्गा­त्प्राणा अपि नभोवद्ब्रह्मणो विकारा इति । नच चैत्य­व­न्द­ना­दि­व­त्स­र्वथा प्राणा­ना­मु­त्प­त्त्य­श्रुतिः, क्वचि­त्ख­ल्वे­षा­मु­त्प­त्त्य­श्र­व­ण­मु­त्प­त्ति­श्रु­तिस्तु तत्र तत्र दर्शिता । तस्माद्वैषम्यं चैत्य­व­न्द­न­पो­ष­धा­दि­भि­रिति ।

गौण्यसम्भवात् ।
केचि­द्वि­य­द­धि­क­र­ण­व्या­ख्या­नेन गौण्यसम्भवादिति सूत्रं व्याचक्षते । गौणी प्राणा­ना­मु­त्प­त्ति­श्रु­ति­र­स­म्भ­वा­दु­त्प­त्ते­रिति । तदयुक्तम् । विकल्पासहत्वात् । तथाहि प्राणानां जीव­व­द्वा­वि­कृ­त­ब्र­ह्मा­त्म­त­या­नु­प­पत्तिः स्यात् , ब्रह्म­ण­स्त­त्त्वा­न्त­र­तया वा । न ताव­ज्जी­व­व­दे­षा­म­वि­कृ­त­ब्र­ह्मा­त्मता, जडत्वात् । तस्मा­त्त­त्त्वा­न्त­र­त­यै­षा­म­नु­त्प­त्ति­रा­स्थेया । तथाच ब्रह्मवेदनेन सर्व­वे­द­न­प्र­ति­ज्ञा­व्या­हतिः, सम­स्त­वे­दा­न्त­व्या­को­प­श्चे­त्ये­त­दाह

वियदधिकरणे हीति ॥ २ ॥

तत्प्रा­क्श्रु­तेश्च ।
निग­द­व्या­ख्या­त­मस्य भाष्यम् ॥ ३ ॥

तत्पू­र्व­क­त्वा­द्वाचः ।
वाच इति वाक्प्रा­ण­म­न­सा­मु­प­ल­क्ष­णम् । अयमर्थः यत्रापि तेजःप्रभृतीनां सृष्टौ प्राण­सृ­ष्टि­र्नो­क्तेति ब्रूषे, तत्राप्युक्तेति ब्रूमहे । तथाहियस्मिन् प्रकरणेन तेजो­ब­न्न­पू­र्व­कत्वं वाक्प्रा­ण­म­न­सा­मा­म्ना­यते “अन्नमयं हि”(छा. उ. ६ । ५ । ४) इत्यादिना, तद्यदि मुख्यार्थं तत­स्त­त्सा­मा­न्यात् सर्वेषामेव प्राणानां सृष्टिरुक्ता । अथ गौणं तथापि ब्रह्म­क­र्तृ­कायां नाम­रू­प­व्या­क्रि­या­या­मु­प­क्र­मो­प­सं­हा­र­प­र्या­लो­च­नया श्रुत्य­न्त­र­प्र­सि­द्धेश्च ब्रह्म­का­र्य­त्व­प्र­प­ञ्चा­र्थ­मेव प्राणा­दी­ना­मा­पो­म­य­त्वा­द्य­भि­धा­न­मि­त्यु­क्तैव तत्रापि प्राणसृष्टिरिति सिद्धम् ॥ ४ ॥

सप्त गते­र्वि­शे­षि­त­त्वाच्च ।

अवा­न्त­र­स­ङ्ग­ति­माह
उत्पत्तिविषय इति ।

संशयकारणमाह
श्रुति­वि­प्र­ति­षे­धा­दिति ।
विशयः संशयः । क्वचित्सप्त प्राणाः । तद्यथा - चक्षु­र्घ्रा­ण­र­स­न­वा­क्श्रो­त्र­म­न­स्त्व­गिति । क्वचिदष्टौ प्राणा ग्रहत्वेन बन्धनेन गुणेन सङ्कीर्त्यन्ते । तद्यथा - घ्राण­र­स­न­वा­क्च­क्षुः­श्रो­त्र­म­नो­ह­स्त­त्व­गिति, त एते ग्रहाः, एषां तु विषया अति­ग्र­हा­स्त्व­ष्टा­वेव “प्राणो वै ग्रहः सोऽपा­ने­ना­ति­ग्र­हेण गृहीतोऽपानेन हि गन्धान् जिघ्रति”(बृ. उ. ३ । २ । २) इत्यादिना सन्दर्भेणोक्ताः । क्वचिन्नव । तद्यथा - सप्त वै शीर्षण्याः प्राणाः द्वाववाञ्चाविति । द्वे श्रोत्रे द्वे चक्षुषी द्वे घ्राणे एका वागिति सप्त । पायूपस्थौ बुद्धिमनसी वा द्वाववाञ्चाविति नच । क्वचिद्दश । नव वै पुरुषे प्राणास्त उक्ता नाभिर्दशमीति । क्वचिदेकादश” दशेमे पुरुषे प्राणाः” । तद्यथा - बुद्धी­न्द्रि­याणि घ्राणादीनि पञ्च कर्मे­न्द्रि­या­ण्यपि हस्तादीनि पञ्च आत्मैकादश, आप्नो­त्य­धि­ष्ठा­ने­ने­त्यात्मा मनः स एकादश इति । क्वचिद्वादश । “सर्वेषां स्पर्शानां त्वगेकायनम्”(बृ. उ. ४ । ५ । १२) इत्यत्र । तद्यथा - त्वग्ना­सि­का­र­स­न­च­क्षुः­श्रो­त्र­म­नो­हृ­द­य­ह­स्त­पा­दो­प­स्थ­पा­यू­वा­गिति । क्वचिदेत एव प्राणा अह­ङ्का­रा­धि­का­स्त्र­यो­दश । एवं विप्रतिपन्नाः प्राणेयत्तां प्रति श्रुतयः । अत्र प्रश्नपूर्वं पूर्वपक्षं गृह्णाति

किं तावत्प्राप्तम् । सप्तैवेति ।
सप्तैव प्राणाः कुतः गतेः अवगतेः । श्रुतिभ्यः “सप्त प्राणाः प्रभवन्ति”(मु. उ. २ । १ । ८) इत्यादिभ्यः । न केवलं श्रुतितोऽवगतिः, विशे­ष­णा­द­प्ये­व­मे­वे­त्याह

विशेषितत्वाच्च । सप्त वै शीर्षण्याः प्राणा इति ।
ये सप्त शीर्षण्याः श्रोत्रादयस्ते प्राणा इत्युक्ते इत­रे­षा­म­शी­र्ष­ण्यानां हस्ता­दी­ना­म­प्रा­णत्वं गम्यते । यथा दक्षिणेनाक्ष्णा पश्यतीत्युक्ते वामेन न पश्यतीति गम्यते । एतदुक्तं भवति - यद्यपि श्रुति­वि­प्र­ति­षेधो यद्यपि च पूर्वसङ्ख्यासु न परासां सङ्ख्यानां निवे­श­स्त­था­प्य­व­च्छे­द­क­त्वेन बह्वीनां सङ्ख्या­ना­म­स­म्भ­वा­दे­कस्यां कल्प्यमानायां सप्तत्वमेव युक्तं प्राथ­म्या­ल्ला­घ­वाच्च, वृत्ति­भे­द­मा­त्र­वि­व­क्षया त्वष्टत्वादयो गमयितव्या इति प्राप्तम् ॥ ५ ॥

एवं प्राप्त उच्यते
हस्तादयस्तु स्थितेऽतो नैवम् ।
तुशब्दः पक्षं व्यावर्तयति । न सप्तैव किन्तु हस्तादयोऽपि प्राणाः । प्रमा­णा­न्त­रा­दे­का­द­शत्वे प्राणानां स्थितेऽतोस्मिन् सति । सार्व­वि­भ­क्ति­क­स्तसिः । नैवम् । लाघ­वा­त्प्रा­थ­म्याच्च सप्त­त्व­मि­त्य­क्ष­रार्थः । एतदुक्तं भवति - यद्यपि श्रुतयः स्वतः­प्र­मा­ण­त­या­न­पे­क्षा­स्त­थापि पर­स्प­र­वि­रो­धा­न्ना­र्थ­त­त्त्व­प­रि­च्छे­दा­या­लम् । नच सिद्धे वस्तुनि अनुष्ठान इव विकल्पः सम्भवति । तस्मा­त्प्र­मा­णा­न्त­रो­प­नी­ता­र्थ­व­शेन व्यवस्थाप्यन्ते ।

यथा हीनेति ।
“स्रुवे­णा­व­द्यति” इति मांस­पु­रो­डा­शा­व­दा­ना­स­म्भ­वात् , सम्भवाच्च द्रवावदानस्य स्रुवावदाने द्रवाणीति व्यवस्थाप्यते । एवमिहापि रूपा­दि­बु­द्धि­प­ञ्च­क­का­र्य­व्य­व­स्था­त­श्च­क्षु­रा­दि­बु­द्धी­न्द्रि­य­क­र­ण­प­ञ्च­क­व्य­वस्था । नह्यन्धादयः सत्स्वपीतरेषु घ्राणादिषु गन्धा­द्यु­प­ल­ब्ध्या­नु­मि­त­स­द्भा­वेषु रूपादीनुपलभन्ते । तथा वच­ना­दि­ल­क्ष­ण­का­र्य­प­ञ्च­क­व्य­व­स्थातो वाक्पा­ण्या­दि­ल­क्ष­ण­क­र्मे­न्द्रि­य­प­ञ्च­क­व्य­वस्था । नहि जातु मूकादयः सत्स्वपि विह­र­णा­द्य­व­ग­त­स­द्भा­वेषु पादादिषु बुद्धी­न्द्रि­येषु वा वचनादिमन्तो भवन्ति । एवं कर्म­बु­द्धी­न्द्रि­या­स­म्भ­विन्या सङ्क­ल्पा­दि­क्रि­या­व्य­व­स्थ­या­न्तः­क­र­ण­व्य­व­स्था­नु­मा­नम् । एकमपि चान्तः­क­र­ण­म­ने­क­क्रि­या­कारि भविष्यति, यथा प्रदीप एको रूप­प्र­का­श­व­र्ति­वि­का­र­स्ने­ह­शो­ष­ण­हेतुः । तस्मा­न्ना­न्तः­क­र­ण­भेदः । एकमेव त्वन्तःकरणं मननान्मन इति चाभिमानादहङ्कार इति चाध्य­व­सा­या­द्बु­द्धि­रिति चाख्यायते । वृत्ति­भे­दा­च्चा­भि­न्न­मपि भिन्न­मि­वो­प­च­र्यते त्रयमिति । तत्त्वेन त्वेकमेव भेदे प्रमाणाभावात् । तदेवमेकादशानां कार्याणां व्यव­स्था­ना­दे­का­दश प्राणा इति श्रुतिराञ्जसी । तदनुगुणतया त्वितराः श्रुतयो नेतव्याः । तत्रा­व­यु­त्य­नु­वा­देन सप्ता­ष्ट­न­व­द­श­स­ङ्ख्या­श्रु­तयो यथैकं वृणीते द्वौ वृणीते इति त्रीन् वृणीत इत्ये­त­दा­नु­गु­ण्यात् । द्वाद­श­त्र­यो­द­श­स­ङ्ख्या­श्रुती तु कथ­ञ्चि­द्वृ­त्ति­भे­देन भेदं विव­क्षि­त्वो­पा­स­ना­दि­प­र­तया नेतव्ये । तस्मादेकादशैव प्राणा नेतर इति सिद्धम् । अपिच शीर्षण्यानां प्राणानां यत्स­प्त­त्वा­भि­धानं तदपि चतुर्ष्वेव व्यवस्थापनीयम् , प्रमा­णा­न्त­र­वि­रो­धात् । न खलु द्वे चक्षुषी, रूपो­प­ल­ब्धि­ल­क्ष­णस्य कार्यस्याभेदात् । पिहि­तै­क­च­क्षु­षस्तु न तादृशी रूपो­प­ल­ब्धि­र्भ­वति यादृशी समग्रचक्षुषः, तस्मादेकमेव चक्षु­र­धि­ष्ठा­न­भे­देन तु भिन्न­मि­वो­प­च­र्यते । काण­स्या­प्ये­क­गो­ल­क­ग­तेन चक्षु­र­व­य­वे­नो­प­लम्भः । एतेन घ्राणश्रोत्रे अपि व्याख्याते ।

इयमपरा सूत्रद्वययोजना
सप्तैव प्राणाः
चक्षु­र्घ्रा­ण­र­स­न­वा­क्श्रो­त्र­म­न­स्त्वच उत्क्रा­न्ति­मन्तः स्युः । सप्तानामेव गति­श्रु­ते­र्वि­शे­षि­त­त्वा­दिति व्याख्यातुं शङ्कते

ननु सर्व­श­ब्दोऽ­प्य­त्रेति ।

अस्योत्तरं
विशेषितत्वादिति ।
चक्षु­रा­द­य­स्त्व­क्प­र्यन्ता उत्क्रान्तौ विशेषिताः । तस्मा­त्स­र्व­श­ब्दस्य प्रकृ­ता­पे­क्ष­त्वा­त्स­प्तैव प्राणा उत्क्रामन्ति न पाण्यादय इति प्राप्तम् । चोदयति

नन्वत्र विज्ञा­न­म­ष्ट­म­मिति ।
“न विजा­ना­ती­त्याहुः” इत्य­ने­ना­नु­क्रा­न्तम् । परिहरति

नैष दोष इति ।

सिद्धान्तमाह
हस्तादयस्त्वपरे सप्त­भ्योऽ­ति­रिक्ताः प्राणाः
उत्क्रा­न्ति­भा­जोऽ­व­ग­म्यन्ते ग्रह­त्व­श्रु­ते­र्ह­स्ता­दी­नाम् । एवं खल्वेषां ग्रह­त्वा­म्ना­न­मु­प­प­द्येत । यद्या­मु­क्ते­रा­त्मानं बध्नीयुरितरथा षाट्क्औ­शि­क­श­री­र­व­देषां ग्रहत्वं नाम्नायेत । अत एव च स्मृतिरेषां मुक्त्यवधितामाह

पुर्यष्टकेनेति ।
तथा­थ­र्व­ण­श्रु­ति­र­प्ये­षा­मे­का­द­शा­ना­मु­त्क्रा­न्ति­म­भि­व­दति । तस्मा­च्छ्रु­त्य­न्त­रेभ्यः स्मृतेश्च सर्व­श­ब्दा­र्था­स­ङ्को­चाच्च सर्वे­षा­मु­त्क्र­मेण स्थितेऽ­स्मि­न्नैवं यदुक्तं सप्तैवेति, किन्तु प्रदर्शनार्थं सप्त­त्व­स­ङ्ख्येति सिद्धम् ॥ ६ ॥

अणवश्च ।
अत्र साङ्ख्या­ना­मा­ह­ङ्का­रि­क­त्वा­दि­न्द्रि­या­णा­म­ह­ङ्का­रस्य च जग्ना­म­ण्ड­ल­व्या­पि­त्वा­त्स­र्व­गताः प्राणाः । वृत्तिस्तेषां शरीरदेशतया प्रादेशिकी तन्निबन्धना च गत्या­ग­ति­श्रु­ति­रिति मन्यन्ते, तान्प्रत्याह

अणवश्च
प्राणा अनु­द्भू­त­रू­प­स्प­शर्ता चाणुत्वं दुरधिगमत्वान्न तु परमाणुत्वं देह­व्या­पि­का­र्या­नु­त्प­त्ति­प्र­स­ङ्गा­त्ता­प­दू­नस्य शिशि­र­ह्र­द­नि­म­ग्नस्य सर्वा­ङ्गी­ण­शी­त­स्प­र्शो­प­ल­ब्धि­र­स्ती­त्यु­क्तम् । एतदुक्तं भवति - यदि सर्व­ग­ता­नी­न्द्रि­याणि भवेयुस्ततो व्यव­हि­त­वि­प्र­व­कृ­ष्ट­व­स्तू­प­ल­म्भ­प्र­सङ्गः । सर्वगतत्वेऽपि देहा­व­च्छि­न्ना­ना­मेव करणत्वं तेन न व्यवहित विप्र­कृ­ष्ट­व­स्तू­प­ल­म्भ­प्र­सङ्ग इति चेत् , हन्त प्राप्ता­प्रा­प्ता­वि­वे­केन शरी­रा­व­च्छि­न्ना­ना­मेव तेषां कर­ण­त्व­मि­न्द्रि­य­त्व­मिति न व्यापि­ना­मि­न्द्रि­य­भावः । तथाच नाममात्रे विसंवादो नार्थेऽ­स्मा­भि­स्त­दि­न्द्रि­य­मु­च्यते भवद्भिस्तु वृत्तिरिति सिद्धमणवः प्राणा इति ॥ ७ ॥

श्रेष्ठश्च ।
न केवलमितरे प्राणा ब्रह्मविकाराः । श्रेष्ठश्च प्राणो ब्रह्मविकारः । “नासदासीत्” इत्यधिकृत्य प्रवृत्ते ब्रह्मसूक्ते नासदासीये सर्गा­त्प्रा­गा­नी­दिति प्राण­व्या­पा­र­श्र­व­णा­द­सति च व्यापा­रा­नु­प­पत्तेः प्राण­स­द्भा­वा­ज्ज्ये­ष्ठ­त्व­श्रु­तेश्च न ब्रह्मविकारः प्राण इति मन्वानस्य बहु­श्रु­ति­वि­रो­धेऽपि च श्रुत्यो­रे­त­यो­र्ग­ति­म­प­श्यतः पूर्वपक्षः । राद्धान्तस्तु बहु­श्रु­ति­वि­रो­धा­दे­वा­नी­दिति न प्राण­व्या­पा­र­प्र­ति­पा­दिनी, किन्तु सृष्टि­का­र­ण­मा­नी­त्जी­वति स्म आसीदिति यावत् । तेन तत्स­द्भा­व­प्र­ति­पा­द­न­परा । ज्येष्ठत्वं च श्रोत्रा­द्य­पे­क्ष­मिति गमयितव्यम् । तस्मा­द्ब­हु­श्रु­त्य­नु­रो­धा­न्मु­ख्य­स्यापि प्राणस्य ब्रह्म­वि­का­र­त्व­मिति सिद्धम् ॥ ८ ॥

न वायुक्रिये पृथगुपदेशात् ।
सम्प्रति मुख्य­प्रा­ण­स्व­रूपं निरूप्यते । अत्र हि “यः प्राणः स वायुः” इति श्रुतेर्वायुरेव प्राण इति प्रतिभाति । अथवा “प्राण एव ब्रह्म­ण­श्च­तुर्थः पादः स वायुना ज्योतिषा”(छा. उ. ३ । १८ । ४) इति वायोर्भेदेन प्राणस्य श्रव­णा­दे­त­द्वि­रो­धा­द्वरं तन्त्रा­न्त­री­य­मेव प्राणस्य स्वरूपमस्तु, श्रुती च विरुद्धार्थे कथ­ञ्चि­न्ने­ष्येते इति सामा­न्य­क­र­ण­वृ­त्ति­रेव प्राणोऽस्तु । न चात्रापि करणेभ्यः पृथ­क्प्रा­ण­स्या­नु­क्र­म­ण­श्रु­ति­वि­रोधो वृत्ति­वृ­त्ति­म­तो­र्भे­दा­दिति पूर्वः पक्षः । सिद्धान्तस्तुन सामा­न्ये­न्द्रि­य­वृत्तिः प्राणः । स हि मिलितानां वेन्द्रियाणां वृत्ति­र्भ­वे­त्प्र­त्येकं वा । न तावन्मिलितानाम् , एक­द्वि­त्रि­च­तु­रि­न्द्रि­या­भावे तदभावप्रसङ्गात् । नो खलु चूर्ण­ह­रि­द्रा­सं­यो­ग­ज­न्मा­रु­ण­गु­ण­स्त­यो­र­न्य­त­रा­भावे भवितुमर्हति । नच बहुविष्टिसाध्यं शिबिकोद्वहनं द्वित्रि­वि­ष्टि­साध्यं भवति । न च त्वगेकसाध्यं, तथा सति सामा­न्य­वृ­त्ति­त्वा­नु­प­पत्तेः । अपिच यत्सम्भूय कारकाणि निष्पादयन्ति तत्प्र­धा­न­व्या­पा­रा­नु­गु­णा­वा­न्त­र­व्या­पा­रे­णैव यथा वयसां प्रातिस्विको व्यापारः पञ्ज­र­चा­ल­ना­नु­गुणः । न चेन्द्रियाणां प्राणे प्रधानव्यापारे जनयितव्येऽस्ति तादृशः कश्चि­द­वा­न्त­र­व्या­पा­र­स्त­द­नु­गुणः । ये च रूपादिप्रत्यया न ते तदनुगुणाः, तस्मा­न्ने­न्द्रि­याणां सामान्यवृत्तिः प्राणस्तथा च वृत्ति­वृ­त्ति­मतोः कथ­ञ्चि­द्भे­द­वि­व­क्षया न पृथगुपदेशो गमयितव्यः । तस्मान्न क्रिया, नापि वायुमात्रं प्राणः, किन्तु वायुभेद एवा­ध्या­त्मा­मा­पन्नः पञ्चव्यूहः प्राण इति ॥ ९ ॥

स्यादेतत् । यथा चक्षुरादीनां जीवं प्रति गुण­भू­त­त्वा­ज्जी­वस्य च श्रेष्ठ­त्वा­ज्जीवः स्वतन्त्र एवं प्राणोऽपि प्राधा­न्या­त्श्रे­ष्ठ­त्वाच्च स्वतन्त्रः प्राप्नोति । नच द्वयोः स्वत­न्त्र­यो­रे­क­स्मिन् शरीरे एक­वा­क्य­त्व­मु­प­प­द्यत इत्यपर्यायं विरु­द्धा­ने­क­दि­क्क्रि­य­तया देह उन्मथ्येत । इति प्राप्ते, उच्यते
चक्षुरादिवत्तु तत्स­ह­शि­ष्ट्या­दिभ्यः ।
यद्यपि चक्षु­रा­द्य­पे­क्षया श्रेष्ठत्वं प्राधान्यं च प्राणस्य तथापि संह­त­त्वा­द­चे­त­न­त्वा­द्भौ­ति­क­त्वा­च्च­क्षु­रा­दिभिः सहशिष्टत्वाच्च पुरु­षा­र्थ­त्वा­त्पु­रुषं प्रति पारतन्त्र्यं शय­ना­स­ना­दि­व­द्भ­वेत् । तथाच यथा मन्त्रीतरेषु नैयोगिकेषु प्रधानमपि राजा­न­म­पे­क्ष्या­स्व­तन्त्र एवं प्राणोऽपि चक्षुरादिषु प्रधानमपि जीवेऽस्वतन्त्र इति ॥ १० ॥

स्यादे­त­च्च­क्षु­रा­दिभिः सह शासनेन करणं चेत्प्राणः । एवं सति चक्षु­रा­दि­वि­ष­य­रू­पा­दि­व­द­स्यापि विषयान्तरं वक्तव्यम् । नच तच्छक्यं वक्तुम् । एका­द­श­क­र­ण­ग­ण­न­व्या­को­प­श्चेति दोषं परिहरति
अकरणत्वाच्च न दोषस्तथाहि दर्शयति ।
न प्राणः परि­च्छे­द­धा­र­णा­दि­क­र­ण­म­स्मा­भि­र­भ्यु­पे­यते येनास्य विष­या­न्त­र­म­न्वि­ष्येत । एकादशत्वं च करणानां व्याकुप्येतापि तु प्राणा­न्त­रा­स­म्भवि देहे­न्द्रि­य­वि­धा­र­ण­का­रणं प्राणः । तच्च श्रुतिप्रबन्धेन दर्शितं न केवलं शरी­रे­न्द्रि­य­धा­र­ण­मस्य कार्यम् ॥ ११ ॥

अपिच
पञ्च­वृ­त्ति­र्म­नो­व­द्व्य­प­दि­श्यते ।
“विपर्ययो मिथ्या­ज्ञा­न­म­त­द्रू­प­प्र­ति­ष्ठम्”(यो.सू. १-८) यथा मरुमरीचिकादिषु सलिलादिबुद्धयः । अत­द्रू­प­प्र­ति­ष्ठता च संशयेऽप्यस्ति तस्यै­का­प्र­ति­ष्ठा­नात् । अतः सोऽपि सङ्गृहीतः । “शब्द­ज्ञा­ना­नु­पाती वस्तुशून्यो विकल्पः”(यो.सू. १-९) । यद्यपि मिथ्या­ज्ञा­नेऽ­प्यस्ति वस्तुशून्यता तथापि न तस्य व्यव­हा­र­हे­तु­तास्ति । अस्य तु पण्डि­त­रू­प­वि­चा­रा­स­ह­स्यापि शब्द­ज्ञा­न­मा­हा­त्म्या­द्व्य­व­हा­र­हे­तु­भा­वोऽ­स्त्येव । यथा पुरुषस्य चैतन्यमिति । नह्यत्र षष्ठ्यर्थः सम्बन्धोऽस्ति, तस्य भेदा­धि­ष्ठा­न­त्वात् । चैतन्यस्य पुरु­षा­द­त्य­न्ता­भे­दात् । यद्यपि चात्रा­भा­व­प्र­त्य­या­ल­म्बना वृत्तिर्नेष्यते तथापि विक्षे­प­सं­स्का­र­ल­क्षणा मनो­वृ­त्ति­रि­हा­स्त्ये­वेति सर्वमवदातम् ॥ १२ ॥

अणुश्च ।

“सम­स्त्रि­भि­र्लोकैः” इति विभु­त्व­श्र­व­णा­द्विभुः प्राणः, “समः प्लुषिणा”(बृ. उ. १ । ३ । २२)“समः प्लुषिणा”(बृ. उ. १ । ३ । २२) इत्याद्यास्तु श्रुतयो विभो­र­प्य­व­च्छे­दा­द्भ­वि­ष्यन्ति । यथा विभुन आकाशस्य कुट­क­र­का­द्य­व­च्छे­दा­त्कु­टा­दि­सा­म्य­मिति प्राप्त आह
अणुश्च ।
उत्क्रा­न्ति­ग­त्या­ग­ति­श्रु­तिभ्य आध्यात्मिकस्य प्राण­स्या­व­च्छि­न्नता न विभुत्वम् । दुर­धि­ग­म­ता­मा­त्रेण च शरी­र­व्या­पि­नोऽ­प्य­णु­त्व­मु­प­च­र्यते न त्वणु­त्व­मि­त्यु­क्त­म­ध­स्तात् । यत्त्वस्य विभुत्वान्मानं तदाधिदैविकेन सूत्रात्मना सम­ष्टि­व्य­ष्टि­रू­पेण न त्वाध्यात्मिकेन रूपेण । तदाश्रयाश्च “समः प्लुषिणा” इत्येवमाद्याः श्रुतयो देहसाम्यमेव प्राणस्याहुः स्वरूपतो न तु कर­का­का­श­व­त्प­रो­पा­धि­क­तया कथञ्चिन्नेतव्या इति ॥ १३ ॥

ज्योति­रा­द्य­धि­ष्ठानं तु तदामननात् ।
यद्धि यत्कार्यं कुर्वद्दृष्टं तत्स्वमहिम्नैव करोतित्येष तावदुत्सर्गः । पराधिष्ठानं तु तस्य बल­व­त्प्र­मा­णा­न्त­र­व­शात् स्यादेतत् । वास्यादीनां तक्षा­द्य­धि­ष्ठि­ता­ना­म­चे­त­नानां कार्य­का­रि­त्व­द­र्श­ना­द­चे­त­न­त्वे­न­न्द्रि­या­णा­म­प्य­धि­ष्ठा­तृ­दे­व­ता­क­ल्प­नेति चेत् । न । जीव­स्यै­वा­धि­ष्ठा­तु­श्चे­त­नस्य विद्यमानत्वात् । नच “अग्नि­र्वा­ग्भूत्वा मुखं प्राविशत्”(ऐ. उ. १ । २ । ४) इत्या­दि­श्रु­तिभ्यो देव­ता­ना­म­प्य­धि­ष्ठा­तृ­त्व­म­भ्यु­प­गन्तुं युक्तम् । अने­का­धि­ष्ठा­ना­भ्यु­प­गमे हि तेषा­मे­का­भि­प्रा­य­नि­य­म­नि­मि­त्ता­भा­वान्न किञ्चि­त्का­र्य­मु­त्प­द्येत विरोधात् । अपिच य इन्द्रि­या­णा­म­धि­ष्ठाता स एव भोक्तेति देवतानां भोक्तृत्वेन स्वामित्वं शरीर इति न जीवः स्वामी स्याद्भोक्ता च । तस्मा­द­ग्न्या­द्यु­प­चारो वागादिषु प्रकाशकत्वादिना केन­चि­न्नि­मि­त्तेन गमयितव्यो नतु स्वरू­पे­णा­ग्न्या­दि­दे­व­तानां मुखाद्यनुप्रवेश इति प्राप्तम् । एवं प्राप्ते उच्यते नानाविधासु तावच्छ्रुतिषु स्मृतिषु च तत्र तत्र वागा­दि­ष्व­ग्न्या­दि­दे­व­ता­धि­ष्ठा­न­म­व­ग­म्यते । नच तद­स­त्या­म­नु­प­पत्तौ क्लेशेन व्याख्या­तु­मु­चि­तम् । नच स्वरू­पो­प­यो­ग­भे­द­ज्ञा­न­वि­र­हिणो जीव­स्ये­न्द्रि­या­धि­ष्ठा­तृ­त्व­स­म्भवः, सम्भवति तु देव­ता­ना­मि­न्द्रि­या­द्या­र्षेण ज्ञानेन साक्षा­त्कृ­त­व­तीनां तत्स्व­रू­प­भे­द­त­दु­प­यो­ग­भे­द­वि­ज्ञा­नम् । तस्मात्तास्ता एव देव­ता­स्त­त्त­त्क­र­णा­धि­ष्ठात्र्य इति युक्तं न तु जीवः । भवतु वा जीवोऽ­प्य­धि­ष्ठाता तथाप्यदोषः । अने­के­षा­म­धि­ष्ठा­तॄ­णा­मेकः परमेश्वरोऽस्ति निय­न्ता­न्त­र्यामी तद्व­शा­द्वि­प्र­ति­पि­त्स­वोऽपि न विप्र­ति­प­त्तु­म­र्हन्ति । तथा चैकवाक्यतया न तत्का­र्यो­त्प­त्ति­प्र­त्यूहः । न चैतावता देवतानामत्र शरीरे भोक्तृत्वम् । नहि यन्ता रथ­म­धि­ति­ष्ठि­न्नपि तत्सा­ध्य­वि­ज­या­दे­र्भो­क्तापि तु स्वाम्येव । एवं देवता अधि­ष्ठा­त्र्योऽपि न भोक्त्र्य­स्तासां तावन्मात्रस्य श्रुतत्वात् । भोक्ता तु जीव एव । नच नरादिशरीरोचितं दुःखबहुलमुपभोगं सुखमय्यो देवता अर्हन्ति । तस्मा­त्प्रा­णा­ना­म­धि­ष्ठात्र्यो देवता इति सिद्धम् , शेष­म­ति­रो­हि­ता­र्थम् ॥ १४ ॥

प्राणवता शब्दात् । ॥ १५ ॥

तस्य च नित्यत्वात् । ॥ १६ ॥

त इन्द्रियाणि तद्व्य­प­दे­शा­द­न्यत्र श्रेष्ठात् ।
मा भूत्प्राणो वृत्ति­रि­न्द्रि­या­णाम् । इन्द्रि­या­ण्ये­वास्य ज्येष्ठस्य श्रेष्ठस्य च प्राणस्य वृत्तयो भविष्यन्ति । तद्भा­वा­भा­वा­नु­वि­धा­यि­भा­वा­भा­व­त्व­मि­न्द्रि­याणां श्रुत्य­नु­भ­व­सिद्धं, तथाच प्राण­श­ब्द­स्यै­क­स्या­न्या­य्य­म­ने­का­र्थत्वं न भविष्यति । वृत्तीनां वृत्ति­म­त­स्त­त्त्वा­न्त­र­त्वा­भा­वात् । तत्त्वान्तरत्वे त्विन्द्रि­याणां, प्राण­श­ब्द­स्या­ने­का­र्थत्वं प्रसज्येत । इन्द्रियेषु लाक्षणिकत्वं वा । नच मुख्यसम्भवे लक्षणा युक्ता जघन्यत्वात् । नच भेदेन व्यपदेशो भेदसाधनम् “एतस्माज्जायते प्राणः”(मु. उ. २ । १ । ३) इत्या­दि­र्म­न­सोऽ­पी­न्द्रि­ये­भ्योऽस्ति भेदेन व्यपदेश इत्य­नि­न्द्रि­य­त्व­प्र­सङ्गः । स्मृतिवशात्तु तस्ये­न्द्रि­यत्वे इन्द्रियाणामपि प्राणाद्भेदेन व्यप­दि­ष्टा­ना­म­प्यस्ति प्राणस्वभावत्वे “हन्त अस्यैव रूपमसाम”(बृ. उ. १ । ५ । २१) इति श्रुतिः । तस्मादुपपत्तेः श्रुतेश्च प्राणस्यैव वृत्तय एका­द­शे­न्द्रि­याणि न तत्त्वा­न्त­रा­णीति इति प्राप्तम् । एवं प्राप्त उच्यते - मुख्या­त्प्रा­णा­त्त­त्त्वा­न्त­रा­णी­न्द्रि­याणि, तत्र तत्र भेदेन व्यपदेशात् । मृत्यु­प्रा­प्ता­प्रा­प्त­त्व­ल­क्ष­ण­वि­रु­द्ध­ध­र्म­सं­स­र्ग­श्रुतेः । अर्थ­क्रि­या­भे­दाच्च । देहधारणं हि प्राणस्य क्रियाऽ­र्था­लो­च­न­म­नने चेन्द्रियाणाम् । नच तद्भा­वा­भा­वा­नु­वि­धानं तद्वृ­त्ति­ता­मा­व­हति । देहेन व्यभिचारात् । प्राणादयो हि देहा­न्व­य­व्य­ति­रे­का­नु­वि­धा­यिनो नच देहात्मनः । यापि च प्राण­रू­प­ता­मि­न्द्रि­या­णा­म­भि­द­धाति श्रुतिः, तत्रापि पौर्वा­प­र्या­लो­च­नायां भेद एव प्रतीयत इत्युक्तं भाष्यकृता । तस्मा­द्ब­हु­श्रु­ति­वि­रो­धा­त्पू­र्वा­प­र­वि­रो­धाच्च प्राण­रू­प­ता­भि­धा­न­मि­न्द्रि­याणां प्राणायत्ततया भाक्तं गमयितव्यम् । मन­स­स्त्वि­न्द्रि­यत्वे स्मृतेरवगते क्वचि­दि­न्द्रि­येभ्यो भेदेनोपादानं गोब­ली­र्व­द­न्या­येन । अथवा इन्द्रियाणां वर्त­मा­न­मा­त्र­वि­ष­य­त्वा­न्म­न­सस्तु त्रैका­ल्य­गो­च­र­त्वा­द्भे­दे­ना­भि­धा­नम् । नच प्राणे भेद­व्य­प­दे­श­बा­हुल्यं तथा नेतुं युक्तम् । प्राण­रू­प­ता­श्रु­तेश्च गतिर्दर्शिता । तथा ज्येष्ठे प्राणशब्दस्य मुख्य­त्वा­दि­न्द्रि­येषु तत­स्त­त्त्वा­न्त­रेषु लाक्षणिकः प्राणशब्द इति युक्तम् । नच मुख्य­त्वा­नु­रो­धे­ना­व­ग­त­भे­द­यो­रैक्यं युक्तं, मा भूद्गङ्गादीनां तीरा­दि­भि­रै­क्य­मिति । अन्ये तु भेद­श­ब्दा­ध्या­हा­र­भिया भेदश्रुतेश्चेति पौनरुक्त्यभिया च तच्छब्दस्य चान­न्त­रो­क्त­प­रा­म­र्श­क­त्वा­द­न्यथा वर्णयाञ्चक्रुः । किमेकादशैव वागादय इन्द्रियाण्याहो प्राणोऽपीति विशये इन्द्रस्यात्मनो लिङ्ग­मि­न्द्रियं, तथाच वागा­दि­व­त्प्रा­ण­स्या­पी­न्द्र­लि­ङ्ग­तास्ति नच रूपा­दि­वि­ष­या­लो­च­न­क­र­ण­ते­न्द्रि­यता, आलो­क­स्या­पी­न्द्रि­य­त्व­प्र­स­ङ्गात् । तस्मा­द्भौ­ति­क­मि­न्द्र­लि­ङ्ग­मि­न्द्रि­य­मिति वागा­दि­व­त्प्रा­णोऽ­पी­न्द्रि­य­मिति प्राप्तम् । एवं प्राप्तेऽ­भि­धी­यते इन्द्रियाणि वागादीनि श्रेष्ठा­त्प्रा­णा­द­न्यत्र । कुतः तेने­न्द्रि­य­श­ब्देन तेषामेव वागादीनां व्यपदेशात् । नहि मुख्ये प्राणा इन्द्रियशब्दो दृष्टचरः । इन्द्रलिङ्गता तु व्युत्प­त्ति­मा­त्र­नि­मित्तं यथा गच्छतीति गौरिति । प्रवृ­त्ति­नि­मित्तं तु देहाधिष्ठानत्वे सति रूपा­द्या­लो­च­न­क­र­ण­त्वम् । इदं चास्य देहाधिष्ठानत्वं यद्दे­हा­नु­ग्र­हो­प­घा­ताभ्यां तदनुग्रहोपघातौ । तथाच नालो­क­स्ये­न्द्रि­य­त्व­प्र­सङ्गः । तस्मा­द्रू­ढे­र्वा­गा­दय एवेन्द्रियाणि न प्राण इति सिद्धम् । भाष्यकारीयं त्वधिकरणं भेद­श्रु­ते­रि­त्या­दिषु सूत्रेषु नेयम् ॥ १७ ॥

भेदश्रुतेः । ॥ १८ ॥

वैलक्षण्याच्च । ॥ १९ ॥

संज्ञा­मू­र्ति­कॢ­प्तिस्तु त्रिवृत्कुर्वत उपदेशात् ।
सत्प्रक्रियायां “तत्तेज ऐक्षत”(छा. उ. ६ । २ । ३) इत्यादिना सन्दर्भेण तेजोऽबन्नानां सृष्टिं विधायोपदिश्यते “सेयं देवतैक्षत हन्ता­ह­मि­मा­स्तिस्रो देवता अनेन जीवे­ना­त्म­ना­नु­प्र­विश्य नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणि”(छा. उ. ६ । ३ । २) इति । अस्यार्थः पूर्वोक्तं बहु­भ­व­न­मी­क्ष­ण­प्र­यो­ज­न­म­द्यापि सर्वथा न निष्पन्नमिति पुनरीक्षां कृतवती बहुभवनमेव प्रयो­ज­न­मु­द्दिश्य कथं हन्तेदानीमहमिमा यथोक्तास्तेज आद्यास्तिस्रो देवताः पूर्व­सृ­ष्टा­वु­भू­तेन सम्प्रति स्मर­ण­स­न्नि­धा­पि­तेन जीवेन प्राण­धा­र­ण­क­र्त्रा­त्म­ना­नु­प्र­विश्य बुद्ध्या­दि­भू­त­मा­त्रा­या­मा­दर्श इव मुखबिम्बं तोय इव चन्द्रमसो बिम्बं छाया­मा­त्र­त­या­नु­प्र­विश्य नाम च रूपं च ते व्याकरवाणि विस्पष्टं करवाणीदमस्य नामेदं च रूपमिति । तासां तिसृणां देवतानां त्रिवृतं त्रिवृतं तेजोऽबन्नात्मना त्र्यात्मिकां त्र्यात्मि­का­मे­कैकां देवतां करवाणीति । तत्र संशयः किं जीवकर्तृकमिदं नाम­रू­प­व्या­क­र­ण­माहो पर­मे­श्व­र­क­र्तृ­क­मिति । यदि जीवकर्तृकं ततः “आकाशो ह वै नाम नाम­रू­प­यो­र्नि­र्व­हिता”(छा.उ. ८ । १ । ४) इत्या­दि­श्रु­ति­वि­रो­धा­द­न­ध्य­व­सायः । अथ पर­मे­श्व­र­क­र्तृकं, ततो न विरोधः । तत्र डित्थ­ड­वि­त्था­दि­ना­म­क­रणे च घटपटादिरूपकरणे च जीव­क­र्तृ­त्व­द­र्श­ना­दि­हापि त्रिवृत्करणे नामरूपकरणे चास्ति सम्भावना जीवस्य । तथाच योग्यत्वादनेन जीवेनेति व्याकरवाणीति प्रधानक्रियया सम्बध्यते, न त्वान­न्त­र्या­द­नु­प्र­वि­श्ये­त्य­नेन सम्बध्यते । प्रधा­न­प­दा­र्थ­स­म्बन्धो हि साक्षा­त्स­र्वेषां गुणभूतानां पदा­र्था­ना­मौ­त्स­र्गि­क­स्ता­द­र्थ्या­त्ते­षाम् । तस्य तु क्वचि­त्सा­क्षा­द­स­म्भ­वा­त्प­र­म्प­रा­श्र­यणं, साक्षा­त्स­म्भ­वश्च योग्यतया दर्शितः । ननु सेयं देवतेति पर­मे­श्व­र­क­र्तृत्वं श्रूयते । सत्यम् । प्रयोजकतया तु तद्भविष्यति । यथा लोके चारेणाहं पर­सै­न्य­म­नु­प्र­विश्य सङ्कलयानीति । यदि पुनरस्य साक्षा­त्क­र्तृ­भावो भवेदनेन जीवेनेत्यनर्थकं स्यात् । नहि जीवस्यान्यथा करणभावो भवितुमर्हति । प्रयो­ज­क­क­र्तु­स्त­त्सा­क्षा­त्कर्ता करणं भवति प्रधा­न­क्रि­यो­द्दे­शेन प्रयोजकेन प्रयो­ज्य­क­र्तु­र्व्या­प­नात् । तस्मादत्र जीवस्य कर्तृत्वं नाम­रू­प­व्या­क­र­णेऽ­न्यत्र तु परमेश्वरस्येति विरोधादनध्यवसाय इति प्राप्तम् । एवं प्राप्त उच्यते पर­मे­श्व­र­स्यै­वे­हापि नाम­रू­प­व्या­क­र्तृ­त्व­मु­प­दि­श्यते न तु जीवस्य, तस्य प्रधा­न­क्रि­या­स­म्बन्धं प्रत्य­यो­ग्य­त्वात् । नन्वन्यत्र डित्थ­ड­वि­त्था­दि­ना­म­क­र्मणि घट­श­रा­वा­दि­रू­प­क­र्मणि च कर्तृ­त्व­द­र्श­ना­दि­हापि योग्यता सम्भाव्यत इति चेत् । न । गिरि­न­दी­स­मु­द्रा­दि­नि­र्मा­णा­सा­म­र्थ्ये­ना­र्था­प­त्त्य­भा­व­प­रि­च्छि­न्नेन सम्भा­व­ना­प­बा­ध­नात् । तस्मा­त्प­र­मे­श्व­र­स्यै­वात्र साक्षा­त्क­र्तृ­त्व­मु­प­दि­श्यते न जीवस्य । अनु­प्र­वि­श्ये­त्य­नेन तु सन्निहितेनास्य सम्बन्धो योग्यत्वात् । न चानर्थक्यं त्रिवृत्करणस्य भोक्तृ­जी­वा­र्थ­तया तद­नु­प्र­वे­शा­भि­धा­न­स्या­र्थ­व­त्त्वात् । स्यादेतत् । अनुप्रविश्य व्याकरवाणीति समानकर्तृत्वे क्त्वः स्मर­णा­त्प्र­वे­श­न­क­र्तु­र्जी­व­स्यैव व्याक­र्तृ­त्व­मु­प­दि­श्य­तेऽ­न्यथा तु परमेश्वरस्य व्याकर्तृत्वे जीवस्य प्रवेष्टृत्वे भिन्न­क­र्तृ­क­त्वेन क्त्वः प्रयोगो व्याह­न्ये­ते­त्य­त्राह

नच जीवो नामेति ।
अति­रो­हि­ता­र्थ­म­न्यत् ॥ २० ॥

मांसादि भौमं यथा­श­ब्द­मि­त­र­योश्च ।
अत्र भाष्य­कृ­तो­त्त­र­सू­त्र­शे­ष­तया सूत्र­मे­त­द्वि­ष­यो­प­द­र्श­न­प­र­तया व्याख्यातम् । शङ्का­नि­रा­क­र­णा­र्थ­त्व­म­प्यस्य शक्यं वक्तुम् । तथाहि - योऽन्न­स्या­णिष्ठो भाग­स्त­न्म­न­स्ते­ज­सस्तु योऽणिष्ठो भागः स वागित्यत्र हि काणादानां साङ्ख्यानां चास्ति विप्रतिपत्तिः । तत्र काणादा मनो नित्यमाचक्षते । साङ्ख्या­स्त्वा­ह­ङ्का­रिके वाङ्मनसे । अन्नभागतावचनं त्वस्या­न्न­स­म्ब­न्ध­ल­क्ष­णा­र्थम् । अन्नोपभोगे हि मनः स्वस्थं भवति । एवं वाचोऽपि पाटवेन तेजः­सा­म्य­म­भ्यू­ह­नी­यम् । तत्रे­द­मु­प­ति­ष्ठते

मांसादीति ।
वाङ्मनस इति वक्तव्ये मांसाद्यभिधानं सिद्धेन सह साध्य­स्यो­प­न्यासो दृष्टान्तलाभाय । यथा मांसादि भौमाद्येवं वाङ्मनसे अपि तैजसभौमे इत्यर्थः । एतदुक्तं भवति - न ताव­द्ब्र­ह्म­व्य­ति­रि­क्त­मस्ति किञ्चिन्नित्यम् । ब्रह्मज्ञानेन सर्व­ज्ञा­न­प्र­ति­ज्ञा­व्या­घा­तात् , बहु­श्रु­ति­वि­रो­धाच्च नाप्या­ह­ङ्का­रि­कम् , अहङ्कारस्य साङ्ख्याभिमतस्य तत्त्व­स्या­प्रा­मा­णि­क­त्वात् । तस्मादसति बाधके श्रुतिराञ्जसी नान्यथा कथ­ञ्चि­न्ने­तु­मु­चि­तेति कञ्चि­द्दो­ष­मि­त्युक्तं तं दोषं दर्शयन्नाह पूर्वपक्षी

यदि सर्वमेव इति ॥ २१ ॥

वैशेष्यात्तु तद्वादस्तद्वादः ।
त्रिवृ­त्क­र­णा­वि­शे­षेऽपि यस्य च यत्र भूयस्त्वं तेन तस्य व्यपदेश इत्यर्थः ॥ २२ ॥
इति श्रीम­द्वा­च­स्प­ति­मि­श्र­वि­र­चिते श्रीम­द्भ­ग­व­त्पा­द­शा­री­र­क­भा­ष्य­वि­भागे भामत्यां द्विती­य­स्या­ध्या­यस्य चतुर्थः पादः ॥ ४ ॥