भामतीव्याख्या
तदन्तरप्रतिपत्त्यधिकरणविषयाः (१)
तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् । द्वितीयतृतीयाध्याययोर्हेतुमद्भावलक्षणं सम्बन्धं दर्शयन् सुखावबोधार्थमर्थसङ्क्षेपमाह –
द्वितीयेऽध्याय इति ।
स्मृतिन्यायश्रुतिविरोधपरिहारेण हि अनध्यवसायलक्षणमप्रामाण्यं परिहृतं तथा च प्रामाण्ये निश्चलीकृते तार्तीयो विचारो भवत्यन्यथा तु निर्बीजतया न सिद्ध्येदिति । अवान्तरसङ्गतिं दर्शयितुं तत्र च जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानि चेत्युक्तम् ।
अध्यायार्थसङ्क्षेपमुक्त्वा पादार्थसङ्क्षेपमाह –
तत्र प्रथमे तावत्पाद इति ।
तस्य प्रयोजनमाह –
वैराग्य इति ।
पूर्वापरपरिशोधनाय भूमिकामारचयति –
जीवो मुख्यप्राणसचिव इति ।
करणोपादानवद्भूतोपादानस्याश्रुतत्वादिति ।
अत्र च करणोपादानश्रुत्यैव भौतिकत्वात्करणानां भूतोपादानसिद्धेरिन्द्रियोपादानातिरिक्तभूतविवक्षयाधिकरणारम्भः । यदि भूतान्यादायागमिष्यत्तदा तदपि करणोपादानवदेवश्रोष्यत् । नच श्रूयते तस्मान्न भूतपरिष्वक्तो रंहत्यपि तु करणमात्रपरिष्वक्तः । नह्यागमैकगम्येऽर्थे तदभावः प्रमेयाभावं न परिच्छेत्तुमर्हति ।
नच देहान्तरारम्भान्यथानुपपत्त्या भूतपरिष्वक्तस्य रंहणकल्पनेति युक्तमित्याह –
सुलभाश्च सर्वत्र भूतमात्रा इति ।
द्युपर्जन्य इति ।
इह हि कायारम्भणामग्निहोत्रापूर्वपरिणामलक्षणं श्रद्धादित्वेन पञ्चधा प्रविभज्य द्युप्रभृतिष्वग्निषु होतव्यत्वेनोपासनमुत्तरमार्गप्रतिपत्तिसाधनं विवक्षन्त्याह श्रुतिः “असौ वाव लोको गौतमाग्निः”(छा. उ. ५ । ४ । १) इत्यादि । अत्र सायम्प्रातरग्निहोत्राहुतो, हुते पय आदिसाधने श्रद्धापूर्वमाहवनीयाग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गभाविते कर्त्रादिकारकभाविते चान्तरिक्षं क्रमेणोत्क्राम्य द्युलोकं प्रविशन्त्यौ सूक्ष्मभूते द्रवद्रव्यपयःप्रभृत्यप्सम्बन्धादप्शब्दवाच्ये, श्रद्धाहेतुकत्वाच्च श्रद्धाशब्दवाच्ये । तयोराहुत्योरधिकरणमग्निरन्ये च समिद्धूमार्चिरङ्गारविस्फुलिङ्गा रूपकत्वेन निर्दिश्यन्ते । असौ वाव द्युलोको गौतमाग्निः । यथाग्निहोत्राधिकरणमाहवनीय एवं श्रद्धाशब्दवाच्याग्निहोत्राहुतिपरिणामावस्थारूपाः सूक्ष्मा या आपः श्रद्धाभावितास्तदधिकरणं द्युलोकः । अस्यादित्य एव समित् । तेन हीद्धोऽसौ द्युलोको दीप्यतेऽतः समिन्धनात्समित्तस्यादित्यस्य रश्मयो धूमा इन्धनादिवादित्याद्रश्मीनां समुत्थानात् । अहरर्थिः । प्रकाशसामान्यादादित्यकार्यत्वाच्च । चन्द्रमा अङ्गारः । अर्चिषः प्रशमेऽभिव्यक्तेः । नक्षत्राप्यस्य विस्फुलिङ्गाः चन्द्रमसोऽङ्गारस्यावयवा इव विप्रकीर्णतासामान्याद्विस्फुलिङ्गः । तदेतस्मिन्नग्नौ देवा यजमानप्राणा अग्न्यादिरूपा अधिदेवम् । श्रद्धां जुह्वति श्रद्धा चोक्ता । पर्जन्यो वाव गौतमाग्निः पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवताविशेषः । तस्य वायुरेव समित् । वायुना हि पर्जन्योऽग्निः समिध्यते, पुरोवातादिप्राबल्ये वृष्टिदर्शनात् । अभ्रं धूमः । धूमकार्यत्वात्धूमसादृश्याच्च । विद्युदर्चिः । प्रकाशसामान्यात् । अशनिरङ्गाराः काठिन्याद्विद्युत्सम्बन्धाच्च । गर्जितं मोघानां विस्फुलिङ्गाः विप्रकीर्णतासामान्यात् । तस्मिन्देवा यजमानप्राणा अग्निरूपाः सोमं राजानं जुह्वति तस्य सोमस्याहुतेर्वर्षं भवति । एतदुक्तं भवति श्रद्धाख्या आपो द्युलोकमाहुतित्वेन प्रविश्य चन्द्राकारेण परिणताः सत्यो द्वितीये पर्याये पर्जन्याग्नौ हुता वृष्टित्वेन परिणमन्त इति । “पृथिवी वाव गौतमाग्निः”(छा. उ. ५ । ६ । १) तस्य पृथिव्याख्यस्याग्नैः संवत्सर एव समित् । संवत्सरेण कालेन हि समिद्धा भूमिर्व्रीह्यादिनिष्पत्तये कल्पते । आकाशो धूमः पृथिव्यग्नेरुत्थित इवाकाशो दृश्यते । रात्रिरर्चिः पृथिव्याः श्यामाया अनुरूपा श्यामतया रात्रिरग्नेरिवानुरूपमर्चिः । दिशोङ्गाराः प्रगे रात्रिरूपार्चिःशमने उपशान्तानां प्रसन्नानां दिशां दर्शनात् । अवान्तरदिशो विस्फुलिङ्गाः क्षुद्रत्वसाम्यात् । तस्मिन्नग्नौ श्रद्धासोमपरिणामक्रमेणागता अपो वृष्टिरूपेण परिणता देवा जुह्वति तस्या आहुतेरन्नं व्रीहियवादि भवति । पुरुषो वाव गौतमाग्निस्तस्य वागेव समित् । वाचा खल्वयं ताल्वाद्यष्टस्थानस्थितया वर्णपदवाक्याभिव्यक्तिक्रमेणार्थजातं प्रकाशयन् समिध्यते । प्राणो धूमः । धूमवन्मुखान्निर्गमात् । जिह्वार्चिः लोहितत्वसाम्यात् । चक्षुरङ्गाराः प्रभाश्रयत्वात् । श्रोत्रं विस्फुलिङ्गाः विप्रकीर्णत्वात् । ता एवापः श्रद्धादिपरिणामक्रमेणागताः व्रीह्यादिरूपैः परिणता सत्यः पुरुषेऽग्नौ हुतास्तासां परिणामो रेतः सम्भवति । योषा वाव गौतमाग्निः तस्या उपस्थ एव समित् । तेन हि सा पुत्राद्युत्पादनाय समिध्यते यदुपमन्त्रयते स धूमः । स्त्रीसम्भवादुपमन्त्रणस्य लोमानि वा धूमः योनिरर्चिः लोहितत्वात् । यदन्तः करोति मैथुनं तेऽङ्गाराः । अभिनन्दाः सुखलवा विस्फुलिङ्गाः, क्षुद्रत्वात् । तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः सम्भवति । एवं श्रद्धासोमवर्षान्नरेतोहवनक्रमेण योषाग्निं प्राप्यापो गर्भाख्या भवन्ति । तत्राप्समवायित्वादापः पुरुषवचसो भवन्ति पञ्चम्यामाहुताविति । यतः पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति तस्मादद्भिः परिवेष्टितो जीवो रहतीति गम्यते । एतदुक्तं भवति श्रद्धाशब्दवाच्या आप इत्यग्रे वक्ष्यति तासां त्रिवृत्कततया तेजोऽन्नाविनाभावेनाब्ग्रहणेन तेजोन्नयोरपि सङ्ग्रह इत्येतदपि वक्ष्यते । यद्यप्येतावतापि भूतवेष्टितस्य जीवस्य रंहणं नावगम्यते तेजोबन्नानां पञ्चम्यामाहुतौ पुरुषवचस्त्वमात्रश्रवणात् , तथापीष्टादिकारिणां धूमादिना पितृयाणेन पथा चन्द्रलोकप्राप्तिकथनपरया “आकाशाच्चन्द्रमसमेष सोमो राट्”(छा. उ. ५ । १० । ४) इति श्रुत्या सह “श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति”(छा. उ. ५ । ४ । २) इत्यस्याः श्रुतेः मानत्वाद्गम्यते भूतपरिष्वक्तो रंहतीति । तथाहि या एवापो हुता द्वितीयस्यामाहुतौ सोमभावं गतास्ताभिरेष परिष्वक्तो जीव इष्टादिकारी चन्द्रभूयं गतश्चन्द्रलोकं प्राप्त इति । ननु स्वतन्त्रा आपः श्रद्धादिक्रमेण सोमभावमाप्नुवन्तु ताभिरपरिष्वक्त एव तु जीवः सेन्द्रियमात्रो गत्वा सोमभावमनुभवतु । को दोषः । अयं दोषः । यतः श्रुतिसामान्यातिक्रम इति । एवं हि श्रुतिसामान्यं कल्पेत यदि येन रूपेण येन च क्रमेणापां सोमभावस्तेनैव जीवस्यापि सोमभावो भवेत् । अन्यथा तु न श्रुतिसामान्यं स्यात् । तस्मात्परिष्वक्तापरिष्वक्तरंहणविशये श्रुतिसामान्यानुरोधेन परिष्वक्तरंहणं निश्चीयते । अतो दधिपयःप्रभृतयो द्रवभूयस्त्वादापो हुताः सूक्ष्मीभूता इष्टादिकारिणमाश्रिता नेन्धनेन विधिना देहे हूयमाने हुताः सत्य आहुतिमय्य इष्टादिकारिणं परिवेष्ट्य स्वर्गं लोकं नयन्तीति ।
चोदयति –
नन्वन्या श्रुतिरिति ।
अयमर्थः एवं हि सूक्ष्मदेहपरिष्वक्तो रंहेत्यद्यस्य स्थूलं शरीरं रंहतो न भवेत् । अस्ति त्वस्य वर्तमानस्थूलशरीरयोग आदेहान्तरप्राप्तेस्तृणजलायुकानिदर्शनेन, तस्मान्निदर्शनश्रुतिविरोधान्न सूक्ष्मदेहपरिष्वक्तो रंहतीति ।
परिहरति –
तत्रापीति ।
न तावत्परमात्मनः संसरणसम्भवः, तस्य नित्यशुद्धबुद्धमुक्तस्वभावत्वात् । किन्तु जीवानाम् । परमात्मैव चोपाधिकल्पितावच्छेदो जीव इत्याख्यायते, तस्य च देहेन्द्रियादेरुपाधेः प्रादेशिकत्वान्न तत्र सन् देहान्तरं गन्तुमर्हति । तस्मात्सूक्ष्मदेहपरिष्वक्तो रंहतिकर्मोपस्थापितः प्रतिपत्तव्यः प्राप्तव्यो यो देहस्तद्विषयाया भावनाया उत्पादनाया दीर्घीभावमात्रं जलूकयोपमीयते ।
साङ्ख्यानां कल्पनामाह –
व्यापिनां करणानामिति ।
आहङ्कारिकत्वात्करणानामहङ्कारस्य च जगन्मण्डलव्यापित्वात्करणानामपि व्यापितेत्यर्थः ।
बौद्धानां कल्पनामाह –
केवलस्यैवात्मन इति ।
आलयविज्ञानसन्तान आत्मा तस्य वृत्तिः षट्प्रवृत्तिविज्ञानानि । पञ्चेन्द्रियाणि तु चक्षुरादीनि अभिनवानि जायन्ते ।
कणभुक्क्ल्पनामाह –
मन एव चेति ।
भोगस्थानं भोगायतनं शरीरमभिनवमिति यावत् ।
दिगम्बरकल्पनामाह –
जीव एवोत्प्लुत्येति ।
आदिग्रहणेन लोकायतिकानां कल्पनां सङ्गृह्णाति । ते हि शरीरात्मवादिनो भस्मीभावमात्मन आहुर्न कस्यचिद्गमनमिति ॥ १ ॥
चोदयति –
ननूदाहृताभ्यामिति ।
अत्र सूत्रेणोत्तरमाह –
त्र्यात्मकत्वात्तु भूयस्त्वात् ।
तेजसः कार्यमशितपीताहारपरिपाकः । अपां कार्यं स्नेहस्वेदादि । पृथिव्याः कार्यं गन्धादि ।
यस्तु गन्धस्वेदपाकप्राणावकाशदानदर्शनाद्देहस्य पाञ्चभौतिकत्वं पश्यंस्तेजोबन्नात्मकत्वेन त्र्यात्मकत्वे न परितुष्यति, तं प्रत्याह –
पुनश्च त्र्यात्मक इति ।
वातपित्तश्लेष्मभिस्त्रिभिर्धातुभिः शरीरधारणात्मकैस्त्रिधातुत्वात् । अतो न स देहो भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते ।
अब्ग्रहणनियमस्तर्हि कस्मादित्यत आह –
तस्माद्भूयस्त्वापेक्ष इति ।
पृथिवीधातुवर्जमितरतेज आद्यपेक्षया कार्यस्य शरीरस्य लोहितादिद्रवभूयस्त्वात्तत्करणयोश्चोपादाननिमित्तयोर्द्रवभूयस्त्वादपां पुरुषवचस्त्वोक्तिर्न पुनर्भूतान्तरनिरासार्था ॥ २ ॥
प्राणगतेश्च ।
प्राणानां जीवद्देहे साश्रयत्वमवगतं गच्छति जीवद्देहे तदनुविधायिनः प्राणा अपि गच्छन्तीति दृष्टम् । अतः षाट्कौशिका देहादुत्क्रामन्तः कस्मिंश्चिदुत्क्रामत्युत्क्रामन्ति । स चैषामनुविधेयः सूक्ष्मो देहो भूतेन्द्रियमय इति गम्यते । नहीन्द्रियमात्राश्रयत्वमेषां दृष्टं यतस्तन्मात्राश्रयाणां गतिरुपपद्येतेति ॥ ३ ॥
अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ।
श्रावितेऽपि स्पष्टे जीवस्य प्राणैः सह गमनेऽग्न्यादिगतिशङ्का श्रुतिविरोधोत्थापनार्था । अत्र हि लोमकेशयोरोषधिवनस्पतिगमनं दृष्टविरोधाद्भाक्तं तावदभ्युपेयम् । एवं च तन्मध्यपतितत्वेन तेषामपि श्रुतिविरोधाद्भाक्तत्वमेवोचितमिति । भक्तिश्चोपकारनिवृत्तिरुक्ता ॥ ४ ॥
प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ।
पञ्चम्यामाहुतावपां पुरुषवचस्त्वप्रकारे पृष्टे प्रथमायामाहुतौ अनपां श्रद्धाया होतव्यताभिधानसम्भद्धमनुपपन्नं च । नहि यथा पश्वादिभ्यो हृदयादयोऽवयवा अवदाय निष्कृष्य हूयन्ते, एवं श्रद्धा बुद्धिप्रसादलक्षणा निष्क्रष्टुं वा होतुं वा शक्यते । न चाप्येवमौत्सर्गिकी कारणानुरूपता कार्यस्य युज्यते । तस्माद्भक्त्यायमप्सु श्रद्धाशब्दः प्रयुक्त इति । अत एव श्रुतिः “आपो हास्मै”(ऐ .आ. २.१.७.) इति ॥ ५ ॥
अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ।
अस्यार्थः पूर्वमेवोक्तः । अग्निहोत्रे षट्सूत्क्रान्तिगतिप्रतिष्ठातृप्तिपुनरावृत्तिलोकप्रत्युत्थायिष्वग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गेषु प्रश्नाः षट् , तेषां यः समाहारः षण्णां सा षट्प्रश्नी, तस्या निरूपणं प्रतिवचनम् ॥ ६ ॥
सूत्रान्तरमवतारयितुं शङ्कते –
कथं पुनरिति ।
सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्तीति ।
क्रियासमभिहारेणाप्यायनापक्षयौ यथा सोमस्य तथा भक्षयन्ति सोममयांल्लोकानित्यर्थः ।
अत उत्तरं पठति –
भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ।
कर्मजनितफलोपभोगकर्ता ह्यधिकारी न पुनरुपभोग्यस्तस्माच्चन्द्रसालोक्यमुपगतानां देवादिभक्ष्यत्वे ‘स्वर्गकामो यजेत’ इति यागभावनायाः कर्त्रपेक्षितोपायतारूपविधिश्रुतिविरोधादन्नशब्दो भोक्तॄणामेव सतां देवोपजीवितामात्रेण भाक्तो गमयितव्यो न तु चर्वणनिगरणाभ्यां मुख्य इति ।
अत्रैवार्थे श्रुत्यन्तरं सङ्गच्छत इत्याह –
तथाहि दर्शयति ।
श्रुतिरनात्मविदामनात्मवित्त्वादेव पशुवद्देवोपभोग्यतां न तु चर्वणीयतया । यथा हि बलीवर्दादयो भुञ्जाना अपि स्वफलं स्वामिनो हलादिवहनेनोपकुर्वाणा भोग्याः, एवं परमतत्त्वमविद्वांस इष्टादिकारिण इह दधिपयःपुरोडाशादिनामुष्मिंश्च लोके परिचारकतया देवानामुपभोग्या इति श्रुत्यर्थः । अथवा अनात्मवित्त्वात्तथाहि दर्शयति इत्यस्यान्या व्याख्या । आत्मवित्पञ्चाग्निविद्यावित्न आत्मवितनात्मवित् । यो हि पञ्चाग्निविद्यां न वेद तं देवा भक्षयन्तीति निन्द्यते पञ्चाग्निविद्यां स्तोतुं तस्या एव प्रकृतत्वात् । तदनेनोपचारस्य प्रयोजनमुक्तम् ।
उपचारनिमित्तमनुपपत्तिमाह –
तथाहि दर्शयति ।
श्रुतिर्भोक्तृत्वम् ।
स सोमलोके विभूतिमनुभूयेति ।
शेषमतिरोहितार्थम् ॥ ७ ॥
कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ।
यावत्सम्पातमुषित्वेति ।
यावदुपबन्धात् ।
यत्किञ्चेह करोत्ययमिति ।
च यत्किञ्चेह कर्म कृतं तस्यान्तं प्राप्येति श्रवणात् , प्रायणस्य चैकप्रघट्टकेन सकलकर्माभिव्यञ्जकत्वात् । न खल्वभिव्यक्तिनिमित्तस्य साधारण्येऽभिव्यक्तिनियमो युक्तः । फलदानाभिमुखीकरणं चाभिव्यक्तिस्तस्मात्समस्तमेव कर्म फलमुपभोजितवत् । स्वफलविरोधि च कर्म । तस्माच्छ्रुतेरुपपत्तेश्च निरनुशयानामेव चरणादाचारादवरोहो न कर्मणः । आचारकर्मणी च श्रुतेः प्रसिद्धभेदे । यथाकारी यथाचारी तथा भवतीति । तथाच रमणीयचरणाः कपूयचरणा इत्याचारमेव योनिनिमित्तमुपदिशति न तु कर्म । स्तां वा कर्मशीले द्वे अप्यविशेषेणानुशयस्तथापि यद्यप्ययमिष्टापूर्तकारी स्वयं निरनुशयो भुक्तभोगत्वात्तथापि पित्रादिगतानुशयवशात्तद्विपाकान् जात्यायुर्भोगांश्चन्द्रलोकादवरुह्यानुभविष्यति । स्मर्यते ह्यन्यस्य सुकृतदुष्कृताभ्यामन्यस्य तत्सम्बन्धिनस्तत्फलभागिता “पतत्यर्धशरीरेण यस्य भार्या सुरां पिबेत्” इत्यादि । तथा श्राद्धवैश्वानरीयेष्ट्यादेः पितापुत्रादिगामिफलश्रुतिः । तस्माद्यावत्सम्पातमित्युपक्रमानुरोधात् “यत्किञ्चेह करोति”(बृ. उ. ४ । ४ । ६)“यत्किञ्चेह करोति”(बृ. उ. ४ । ४ । ६) इति च श्रुत्यन्तरानुसाराद्रमणीयचरणत्वं सम्बन्ध्यन्तरगतमिष्टापूर्तकारिणि भाक्तं गमयितव्यम् । तथाच निरनुशयानामेव भुक्तभोगानामवरोह इति प्राप्त उच्यतेयेन कर्मकलापेन फलमुपभोजितं तस्मिन्नतीतेऽपि सानुशया एव चन्द्रमण्डलादवरोहन्ति । कुतःदृष्टस्मृतिभ्याम् । प्रत्यक्षदृष्टा श्रुतिर्दृष्टशब्दवाच्या । स्मृतिश्चोपन्यस्ता । अथवा दृष्टशब्देनोच्चावचरूपो भोग उच्यते । अयमभिसन्धिःकपूयचरणा रमणीयचरणा इत्यवरोहितामेतद्विशेषणम् । नच सति मुख्यार्थसम्भवे सम्बन्धिमात्रेणोपचरितार्थत्वं न्याय्यम् । न चोपक्रमविरोधाच्छ्रुत्यन्तरविरोधाच्च मुख्यार्थासम्भव इति साम्प्रतम् । दत्तफलेष्टापूर्तकर्मापेक्षयापि यावत्पदस्य यत्किञ्चेतिपदस्य चोपपत्तेः । नहि ‘यावज्जीवमग्निहोत्रं जुहुयात्’ इति यावज्जीवमाहारविहारादिसमयेऽपि होमं विधत्ते नापि मध्याह्नादावपि तु सायम्प्रातःकालापेक्षया । सायम्प्रातःकालविधानसामर्थ्यात् , कालस्य चानुपादेयतयानङ्गस्यापि निमित्तानुप्रवेशात्तत्रैवमिति चेत् । न । इहापि रमणीयचरणा इत्यादेर्मुख्यार्थत्वानुरोधात्तदुपपत्तेः । तत्किमिदानीमुपसंहारानुरोधेनोपक्रमः सङ्कोचयितव्यः । नेत्युच्यते । नह्यसावुपसंहाराननुरोधेऽप्यसङ्कुचद्वृत्तिरुपपत्तुमर्हति । नहि यावन्तः सम्पाता यावतां वा पुंसां सम्पातास्ते सर्वे तत्रेष्टादिकारिणा भोगेन क्षयं नीयन्ते । पुरुषान्तराश्रयाणां कर्माशयानां तद्भोगेन क्षयेऽतिप्रसङ्गात् । चिरोपभुक्तानां च कर्माशयानामसतां चन्द्रमण्डलोपभोगेनापनयनात् । तथाच स्वयं सङ्कुचन्ती यावच्छ्रुतिरुपसंहारानुरोधप्राप्तमपि सङ्कोचनमनुमन्यते । एतेन “यत्किञ्चेह करोति” इत्यपि व्याख्यातम् । अपि चेष्टापूर्तकारीह जन्मनि केवलं न तन्मात्रमकार्षीदपि तु गोदोहनेनापः प्रणयन् पशुफलमप्यपूर्वं समचैषीत् । एवमहर्निशं च वाङ्मनःशरीरचेष्टाभिः पुण्यापुण्यमिहामुत्रोपभोग्यं सञ्चितवतो न मर्त्यलोकादिभोग्यं चन्द्रलोके भोग्यं भवितुमर्हति । नच स्वफलविरोधिनोऽनुशयस्य ऋते प्रायश्चित्तादात्मज्ञानाद्वादत्तफलस्य ध्वंसः सम्भवति । तस्मात्तेनानुशयेनायमनुशयवान् परावर्तत इति श्लिष्टम् । न चैकभविकः कर्माशय इत्यग्रे भाष्यकृद्वक्ष्यति ।
अन्ये तु सकलकर्मक्षये परावृत्तिशङ्का निर्बीजेति मन्यमाना अन्यथाधिकरणं वर्णयाञ्चक्रुरित्याह –
केचित्तावदाहुरिति ।
अनुशयोऽत्र दत्तफलस्य कर्मणः शेष उच्यते । तत्रेदमिह विचार्यते किं दत्तफलानामिष्टापूर्तकर्मणामवशेषादिहावर्तन्ते उत तान्युपभोगेन निरवशेषं क्षपयित्वानुपभुक्तकर्मवशादिहावर्तन्त इति । तत्रेष्टादीनां भोगेन समूलकाषं कषितत्वान्निरनुशया एवानुपभुक्तकर्मवशादावर्तन्त इति प्राप्त उच्यते सानुशया एवावर्तन्त इति । कुतः दृष्टानुसारात् । यथा भाण्डस्थे मधुनि सर्पिषि वा क्षालितेऽपि भाण्डलेपकं तच्छेषं मधु वा सर्पिर्वा न क्षालयितुं शक्यमिति दृष्टमेवं तदनुसारादेतदपि प्रतिपत्तव्यम् । न चावशेषमात्राच्चन्द्रमण्डले तिष्ठासन्नपि स्थातुं पारयति । यथा सेवको हास्तिकाश्वीयपदातिव्रातपरिवृतो महाराजं सेवमानः कालवशाच्छत्रपादुकावशेषो न सेवितुमर्हतीति दृष्टं तन्मूला च लौकिकी स्मृतिरिति दृष्टस्मृतिभ्यां सानुशया एवावर्तन्त इति ।
तदेदद्दूषयति –
न चैतदिति ।
एवकारे प्रयोक्तव्ये इवकारो गुडजिह्विकया प्रयुक्तः । शब्दैकगम्येऽर्थे न सामान्यतोदृष्टानुमानावसर इत्यर्थः । शेषमतिरोहितार्थम् ।
पूर्वपक्षहेतुमनुभाषते –
यदप्युक्तं प्रायणमिति ।
दूषयति –
तदप्यनुशयसद्भावेति ।
रमणीयचरणा कपूयचरणा इत्यादिकयानुशयप्रतिपादनपरया श्रुत्या विरुद्धमित्यर्थः ।
अपिचेत्यादि ।
इह जन्मनि हि पर्यायेण सुखदुःखे भुज्यमाने दृश्येते । युगपच्चेदेकप्रघट्टकेन प्रायणेन सुखदुःखफलानि कर्माणि व्यज्येरन् । युगपदेव तत्फलानि भुज्येरन् । तस्मादुपभोगपर्यायदर्शनाद्बलीयसा दुर्बलस्याभिभवः कल्पनीयः । एवं विरुद्धजातिनिमित्तोपभोगफलेष्वपि कर्मसु द्रष्टव्यम् । न चाभिव्यक्तं च कर्म फलं न दत्त इति च सम्भवति । फलोपजनाभिमुख्यं हि कर्मणामभिव्यक्तिः । अपिच प्राणस्याभिव्यञ्जकत्वे स्वर्गनरकतिर्यग्योनिगतानां जन्तूनां तस्मिञ्जन्मनि कर्मस्वनधिकारान्नापूर्वकर्मोपजनः पूर्वकृतस्य क्रमाशयस्य प्रायणाभिव्यक्ततया फलोपभोगेन प्रक्षयान्नास्ति तेषां कर्माशय इति न ते संसरेयुः । नच मुच्येरन्नात्मज्ञानाभावादिति कष्टां बताविष्टा दशाम् । किञ्च स्वसमवेतमेव प्रायणेनाभिव्यज्यतेऽपूर्वं न परसमवेतं, येन पित्रादिगतेन कर्मणा वर्तेरन्निति । शेषं सुगमम् ॥ ८ ॥
चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः ।
अनेन निरनुशया एवावरोहन्तीति पूर्वपक्षबीजं निगूढमुद्धाट्य निरस्यति । यद्यपि “अक्रोधः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च ज्ञानं च शीलमेतद्विदुर्बुधाः ॥' इति स्मृतेः शीलमाचारोऽनुशयाद्भिन्नस्तथाप्यस्यानुशयाङ्गतयानुशयोपलक्षणत्वं कार्ष्णाजिनिराचार्यो मेने । तथाच रमणीयचरणाः कपूयचरणा इत्यनेनानुशयोपलक्षणात्सिद्धं सानुशयानामेवावरोहणमिति ॥ ९ ॥
आनर्थक्यमिति चेन्न तदपेक्षत्वात् ।
“आचारहीनं न पुनन्ति वेदाः”(देवी भागवत ११.२.१) इति हि स्मृत्या वेदपदेन वेदार्थमुपलक्षयन्त्या वेदार्थानुष्ठानशेषत्वमाचारस्योक्तं न तु स्वतन्त्र आचारः फलस्य साधनं, तेन वेदार्थानुष्ठानोपकारकतयाचारस्य नानर्थक्यं क्रत्वर्थस्य ।
तदनेन समिदादिवदाचारस्य क्रत्वर्थत्वमुक्तम् । सम्प्रति स्नानादिवत्पुरुषार्थत्वे पुरुषसंस्कारत्वेऽप्यदोष इत्याह –
पुरुषार्थत्वेऽप्याचारस्येति ।
तदेवं चरणशब्देनाचारवाचिना सर्वोऽनुशयो लक्षित इत्युक्तम् ॥ १० ॥
बादरिस्तु मुख्य एव चरणशब्दः कर्मणीत्याह –
सुकृतदुष्कृते एवेति तु बादरिः ।
ब्राह्मणपरिव्राजकन्यायो गोबलीवर्दन्यायः । शेषमतिरोहितार्थम् ॥ ११ ॥
अनिष्टाधिकारिणामपि च श्रुतम् ।
“ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति”(कौ.१.२) इति कौषीतकिनां समाम्नानात् , देहारम्भस्य च चन्द्रलोकगमनमन्तरेणानुपपत्तेः पञ्चम्यामाहुतावित्याहुतिसङ्ख्यानियमात् । तथाहि द्युसोमवृष्ट्यन्नरेतःपरिणामक्रमेण ता एवापो योषिदग्नौ हुताः पुरुषवचसो भवन्तीत्यविशेषेण श्रुतम् । न चैतन्मनुष्याभिप्रायं, कपूयचरणाः स्वयोनिमित्यमनुष्यस्यापि श्रवणात् । गमनागमनाय च देवयानपितृयाणयोरेव मार्गयोराम्नानात् , पथ्यन्तरस्याश्रुतेः, “जायस्व म्रियस्वेति तृतीयं स्थानम्”(छा.उ. ५.१०.८) इति च स्थानत्वमात्रेणावगमात्पथित्वेनाप्रतीतेश्चन्द्रलोकादवतीर्णानामपि च तत्स्थानत्वसम्भवादसम्पूरणेन प्रतिवचनोपपत्तेः, अनन्यमार्गतया च तद्भोगविरहिणामपि ग्रामं गच्छन् वृक्षमूलान्युपसर्पतीतिवत्संयमनादिषु यमवश्यतायै चन्द्रलोकगमनोपपत्तेः, “न कतरेणचन”(छा. उ. ५ । १० । ८) इत्यस्यासम्पूरणप्रतिपादनपरतया मार्गद्वयनिषेधपरत्वाभावात् , अनिष्टादिकारिणामपि चन्द्रलोकगमने प्राप्तेऽभिधीयतेसत्यं स्थानतयावगतस्य न मार्गत्वं तथापि वेत्थ यथासौ मार्गो न सम्पूर्यते इत्यस्य प्रतिवचनावसरे मार्गद्वयनिषेधपूर्वं तृतीयं स्थानमभिवदन्नसम्पूरणाय तत्प्रतिपक्षमाचक्षीत । यदि पुनस्तेनैव मार्गेणागत्य जन्ममरणप्रबन्धवत्स्थानमध्यासीत नैतत्तृतीयं स्थानं भवेत् । नहीष्टादिकारिणश्चन्द्रमण्डलादवरुह्य रमणीयां निन्दितां वा योनिं प्रतिपद्यमानास्तृतीयं स्थानं प्रतिपद्यन्ते । तत्कस्य हेतोः । पितृयाणेन पथावरोहात् । तद्यदि क्षुद्रजन्तवोऽप्यनेनैव पथावरोहेयुः, नैतदेषां जन्ममरणप्रबन्धवत्तृतीयं स्थानं भवेत् । ततोऽवगच्छामः संयमनं सप्त च यातनाभूमीर्यमवशतया प्रतिपद्यमाना अनिष्टाधिकारिणो न चन्द्रमण्डलादवरोहन्तीति । तस्मात् “ये वै के च”(कौ. उ. १ । २) इतीष्टादिकारिविषयं न सर्वविषयम् । पञ्चम्यामाहुताविति च स्वार्थविधानपरं न पुनरपञ्चम्याहुतिप्रतिषेधपरमपि, वाक्यभेदप्रसङ्गात् । संयमने त्वनुभूयेति सूत्रेणावरोहापादानतया संयमनस्योपादानाच्चन्द्रमण्डलापादाननिषेध आञ्जसः । तथाच सिद्धान्तसूत्रमेव । पूर्वपक्षसूत्रत्वे तु शङ्कान्तराध्याहारेण कथञ्चिद्गमयितव्यम् । जीवजञ्जरायुजम् । संशोकजं संस्वेदजम् ॥ १२ ॥
संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ १३ ॥
स्मरन्ति च ॥ १४ ॥
अपि च सप्त ॥ १५ ॥
तत्रापि च तद्व्यापारादविरोधः ॥ १६ ॥
विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ १७ ॥
न तृतीये तथोपलब्धेः ॥ १८ ॥
स्मर्यतेऽपि च लोके ॥ १९ ॥
दर्शनाच्च ॥ २० ॥
तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥
साभाव्यापत्तिरुपपत्तेः ।
यद्यपि यथेतमाकाशमाकाशाद्वायुमित्यतो न तादात्म्यं स्फुटमवगम्यते तथापि वायुर्भूत्वेत्यादेः स्फुटतरं तादात्म्यावगमाद्यथेतमाकाशमित्येतदपि तादात्म्य एवावतिष्ठते । न चान्यस्यान्यभावानुपपत्तिः । मनुष्यशरीरस्य नन्दिकेश्वरस्य देवदेहरूपपरिणामस्मरणाद्देवदेहस्य च नहुषस्य तिर्यक्त्वस्मरणात् । तस्मान्मुख्यार्थपरित्यागेन न गौणी वृत्तिराश्रयणीया । गौण्यां च वृत्तौ लक्षणाशब्दः प्रयुक्तो गुणे लक्षणायाः सम्भवात् । यथाहुः “लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणत” इति ।
एवं प्राप्ते ब्रूमः –
साभाव्यापत्तिः ।
समानो भावो रूपं येषां ते सभावास्तेषां भावः साभाव्यं सारूप्यं सादृश्यमिति यावत् । कुत उपपत्तेः ।
एतदेव व्यतिरेकमुखेन व्याचष्टे –
नह्यन्यस्यान्यभावो मुख्य उपपद्यते ।
युक्तमेतद्यद्देवशरीरमजगरभावेन परिणमते, देवदेहसमयेऽजगरशरीरस्याभावात् । यदि तु देवाजगरशरीरे समसमये स्यातां न देवशरीरमजगरशरीरं शिल्पिशतेनापि क्रियते । नहि दधिपयसी समसमये परस्परात्मनी शक्ये सम्पादयितुं, तथेहापि सूक्ष्मशरीराकाशयोर्युगपद्भावान्न परस्परात्मत्वं भवितुमर्हति । एवं वाय्वादिष्वपि योज्यम् । तथाच तद्भावस्तत्सादृश्येनौपचारिको व्याख्येयः ।
नन्वाकाशभावेन संयोगमात्रं लक्ष्यतां किं सादृश्येनेत्यत आह –
विभुत्वाच्चाकाशेनेति ॥ २२ ॥
नातिचिरेण विशेषात् ।
“दुर्निष्प्रपतरम्”(छा. उ. ५ । १० । ६) इति दुःखेन निःसरणं ब्रूते न तु विलम्बेनेति मन्यते पूर्वपक्षी । विना स्थूलशरीरं न सूक्ष्मशरीरे दुःखभागीति दुर्निष्प्रपतरं विलम्बं लक्षयतीति राद्धान्तः ॥ २३ ॥
अन्याधिष्ठितेषु पूर्ववदभिलापात् ।
आकाशसारूप्यं वायुधूमादिसम्पर्कोऽनुशयिनामुक्त इहेदानीं व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्त इति श्रूयते । तत्र संशयः किमनुशयिनां भोगाधिष्ठानं व्रीहियवादयः स्थावरा भवन्ति, आहोस्वित्क्षेत्रज्ञान्तराधिष्ठितेष्वेषु संसर्गमात्रमनुभवन्तीति । तत्र मनुष्यो जायते देवो जायत इत्यादौ प्रयोगे जनेः शरीरपरिग्रहे प्रसिद्धत्वादत्रापि व्रीह्यादिशरीरपरिग्रह एव जनिर्मुख्यार्थ इति व्रीह्यादिशरीरा एवानुशयिन इति युक्तम् । नच रमणीयचरणाः कपूयचरणा इतिवत्कर्मविशेषासङ्कीर्तनात्तदभावे व्रीह्यादीनां शरीरभावाभावात्क्षेत्रज्ञान्तराधिष्ठितानामेव यत्सम्पर्कमात्रमिति साम्प्रतम् । इष्टादिकारिणामिष्टादिकर्मसङ्कीर्तनादिष्टादेश्च हिंसादोषदूषितत्वेन सावद्यफलतया चन्द्रलोकभोगानन्तरं स्थावरशरीरभोग्यदुःखफलत्वस्याप्युपपत्तेः । नच ‘न हिंस्यात्सर्वा भूतानि’ इति सामान्यशास्त्रस्याग्नीषोमीयपशुहिंसाविषयविशेषशास्त्रेण बाधनं, सामान्यशास्त्रस्य हिंसामान्यद्वारेण विशेषोपसर्पणं विलम्बेनेति साक्षाद्विशेषस्पृशः शास्त्रच्छीघ्रतरप्रवृत्ताद्दुर्बलत्वादिति साम्प्रतम् । नहि बलवदित्येव दुर्बलं बाधते किन्तु सति विरोधे । न चेहास्ति विरोधः, भिन्नगोचरचारित्वात् । ‘अग्नीषोमीयं पशुमालभेत’ इति हि क्रतुप्रकरणे समाम्नातं क्रत्वर्थतामस्य गमयति न त्वपनयति निषेधापादितामस्य पुरुषं प्रत्यनर्थहेतुताम् । तेनास्तु निषेधादस्य पुरुषं प्रत्यनर्थहेतुता विधेश्च क्रत्वर्थता को विरोधः । यथाहुः “यो नाम क्रतुमध्यस्थः कलञ्जादीनि भक्षयेत् । न क्रतोस्तत्र वैगुण्यं यथा चोदितसिद्धितः” इति । तस्माज्जनेर्मुख्यार्थत्वाद्व्रीह्यादिशरीरा अनुशयिनो जायन्त इति प्राप्तेऽभिधीयते - भवेदेतदेवं यदि रमणीयचरणाः कपूयचरणा इतिवद्व्रीह्यादिष्वनुशयवतां कर्मविशेषः कीर्त्येत न चैतदस्ति । न चेष्टादेः कर्मणः स्थावरशरीरोपभोग्यदुःखफलप्रसवहेतुभावः सम्भवति, तस्य धर्मत्वेन सुखैकहेतुत्वात् । नच तद्गतायाः पशुहिंसायाऽन हिंस्यात्ऽइति निषेधात्क्रत्वर्थाया अपि दुःखफलवत्वसम्भवः । पुरुषार्थाया एव न हिंस्यादिति प्रतिषेधात् । तथाहि - न हिंस्यादिति निषेधस्य निषेध्याधीननिरूपणतया यदर्थं निषेध्यं तदर्थ एव निषेधो विज्ञायते । न चैतत् ‘नानृतं वदेत्’ ‘न तौ पशौ करोति’ इतिवत्कस्यचित्प्रकरणे समाम्नातं येनानृततवदनवदस्य निषेध्यस्य क्रत्वर्थत्वे निषेधोऽपि क्रत्वर्थः स्यात् । पशौ निषिद्धयोराज्यभागयोः क्रत्वर्थत्वेन निषेधस्यापि क्रत्वर्थत्वं भवेत् । एवं हि सत्याज्यभागरहितैरप्यङ्गान्तरैराज्यभागसाध्यः क्रतूपकारो विज्ञायते । तस्मादनारभ्याधीतेन न हिंस्यादित्यनेनाभिहितस्य विध्युपहितस्य पुरुषव्यापारस्य विधिविभक्तिविरोधात्प्रकृत्यर्थहिंसाकर्मभाव्यत्वपरित्यागेन पुरुषार्थ एव भाव्योऽवतिष्ठते । आख्यातानभिहितस्यापि पुरुषस्य कर्तृव्यापाराभिधानद्वारेणोपस्थापितत्वात् । केवलं तस्य रागतः प्राप्तत्वात्तदनुवादेन नञर्थं विधिरुपसङ्क्रामति, तेन पुरुषार्थो निषेध्य इति तदधीननिरूपणो निषेधोऽपि पुरुषार्थो भवति । तथा चायमर्थः सम्पद्यते यत्पुरुषार्थं हननं तन्न कुर्यादिति । क्रत्वर्थस्यापि च निषेधे हिंसायाः क्रतूपकारकत्वमपि कल्प्यते । नच दृष्टे पुरुषोपकारकत्वे प्रत्यर्थिनि सति तत्कल्पनास्पदम् । नच स्वातन्त्र्यपारतन्त्र्ये सति संयोगपृथक्त्वे खादिरतादिवदेकत्र सम्भवतः । तस्मात्पुरुषार्थप्रतिषेधो न क्रत्वर्थत्वमप्यास्कन्दतीति शुद्धसुखफलत्वमेवेष्टादीनां न स्थावरशरीरोपभोग्यदुःखफलत्वमपीति । आकाशादिष्विव कर्मव्यापारमन्तरेणाभिलापात् । अनुशयिनां व्रीह्यादिसंयोगमात्रं न तु देहत्वमिति । अयमेवार्थ उत्सर्गापवादकथनेनोपलक्षितः ।
अपिच मुख्येऽनुशयिनां व्रीह्यादिजन्मनीति ।
व्रीह्यादिभावमापन्नाः खल्वनुशयिनः पुरुषैरुपभुक्ता रेतःसिग्भावमनुभवन्ती श्रूयते । तदेतद्व्रीह्यादिदेहत्वेऽनुशयिनां नोपपद्यते । व्रीह्यादिदेहत्वे हि व्रीह्यादिषु लूनेष्ववहन्तिना फलीकृतेषु च व्रीह्यादिदेहविनाशादनुशयिनः प्रवसेयुरिति कथमनुशयिनां रेतःसिग्भावः संसर्गमात्रे तु संसर्गिषु व्रीह्यादिषु नष्टेष्वपि न संसर्गिणोऽनुशयिनः प्रवसेयुरिति रेतःसिग्भाव उपपद्यते । शेषमुक्तम् ॥ २४ ॥
अशुद्धमिति चेन्न शब्दात् ॥ २५ ॥
रेतःसिग्योगोऽथ ।
सद्यो जातो हि बालो न रेतःसिग्भवत्यपि तु चिरजातः प्रौढयौवनः, तस्मादपि संसर्गमात्रमिति गम्यते ॥ २६ ॥
तत्किमिदानीं सर्वत्रैवानुशयिनां संसर्गमात्रं तथाच रमणीयचरणा इत्यादिषु तथाभाव आपद्येतेति नेत्याह –
योनेः शरीरम् ।
सुगमम् ॥ २७ ॥
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकमीमांसाभाष्यविभागे भामत्यां तृतीयस्याध्यायस्य प्रथमः पादः ॥
सन्ध्ये सृष्टिराह हि ।
इदानीं तु तस्यैव जीवस्यावस्थाभेदः स्वयञ्ज्योतिष्ट्वसिद्ध्यर्थं प्रपञ्च्यते
किं प्रबोध इव स्वप्नेऽपि पारमार्थिकी सृष्टिराहोस्विन्मायामयीति ।
यद्यपि ब्रह्मणोऽन्यस्यानिर्वाच्यतया जाग्रत्स्वप्नावस्थागतयोरुभयोरपि सर्गयोर्मायमयत्वं तथापि यथा जाग्रत्सृष्टिर्ब्रह्मात्मभावसाक्षात्कारात्प्रागनुवर्तते । ब्रह्मात्मभावसाक्षात्कारात्तु निवर्तते । एवं किं स्वप्नसृष्टिराहोस्वित्प्रतिदिनमेव निवर्तत इति विमर्शार्थः ॥ द्वयोः इहलोकपरलोकस्थानयोः । सन्धौ भवं सन्ध्यम् । ऐहलौकिकचक्षुराद्यव्यापाराद्रूपादिसाक्षात्कारोपजननादनैहलौकिकं पारलौकिकेन्द्रियादिव्यापारस्य च भविष्यतोऽप्रत्युत्पन्नत्वेन न पारलौकिकम् । नच न रूपादिसाक्षात्कारोऽस्ति स्वप्नदृशः । तस्मादुभयोर्लोकयोरस्यान्तरालत्वमिति ब्रह्मात्मभावसाक्षात्कारात्प्राक्तथ्यरूपैव सृष्टिर्भवितुमर्हति । अयमभिसन्धिः इह सर्वाण्येव मिथ्याज्ञानान्युदाहरणं तेषां सत्यत्वं प्रतिज्ञायते । प्रकृतोपयोगितया तु स्वप्नज्ञानमुदाहृतम् । ज्ञानं यमर्थमवबोधयति स तथैवेति युक्तम् । तथाभावस्य ज्ञानारोहात् । अतथात्वस्य त्वप्रतीयमानस्य तथाभावप्रमेयविरोधेन कल्पनास्पदत्वात्बाधकप्रत्ययादतथात्वमिति चेत् । न । तस्य बाधकत्वासिद्धेः । समानगोचरे हि विरुद्धार्थोपसंहारिणी ज्ञाने विरुध्येते । बलवदबलवत्त्वानिश्चयाच्च बाध्यबाधकभावं प्रतिपद्येते । न चेह समानविषयत्वं, कालभेदेन व्यवस्थोपपत्तेः । यथाहि क्षीरं दृष्टं कालान्तरे दधि भवति, एवं रजतं दृष्टं कालान्तरे शुक्तिर्भवेत् । नानारूपं वा तद्वस्तु । तद्यस्य तीव्रातपक्लान्तिसहितं चक्षुः स तस्य रजतरूपतां गृह्णाति । यस्य तु केवलमालोकमात्रोपकृतं, स तस्यैव शुक्तिरूपतां गृह्णाति । एवमुत्पलमपि नीललोहितं दिवा सौरीभिर्भाभिरभिव्यक्तं नीलतया गृह्यते । प्रदीपाभिव्यक्तं तु नक्तं लोहिततया । एवमसत्यां निद्रायां सतोऽपि रथादीन्न गृह्णाति निद्राणस्तु गृह्णातीति सामग्रीभेदाद्वा कालभेदाद्वा विरोधाभावः । नापि पूर्वोत्तरयोर्बलवदबलवत्त्वनिर्णयः । द्वयोरपि स्वगोचरचारितया समानत्वेन विनिगमनाहेतोरभावात् । तस्मादप्यवश्यमविरोधो व्यवस्थापनीयः । तत्सिद्धमेतत् । विवादास्पदं प्रत्ययाः, सम्यञ्चः, प्रत्ययत्वात् , जाग्रत्स्तम्भादिप्रत्ययवदिति । इममर्थं श्रुतिरपि दर्शयति “अथ रथान् रथयोगान् पथः सृजते”(बृ.उ. ४-३-१०) इति । नच “न तत्र रथा न रथयोगा न पन्थानो भवन्ति”(बृ. उ. ४ । ३ । १०) इति विरोधादुपचरितार्थां सृजत इति श्रुतिर्व्याख्येया । सृजत इति हि श्रुतेर्बहुश्रुतिसंवादात्प्रमाणान्तरसंवादाच्च बलीयस्त्वेन तदनुगुणतया न तत्र रथा इत्यस्या भाक्तत्वेन व्याख्यानात् । जाग्रदवस्थादर्शनयोग्या न सन्ति न तु रथा न सन्तीति । अत एव कर्तृश्रुतिः शाखान्तरश्रुतिरुदाहृता । प्राज्ञकर्तृकत्वाच्चास्य पारमार्थिकत्वं वियदादिसर्गवत् । नच जीवकर्तृकत्वान्न प्राज्ञकर्तृकत्वमिति साम्प्रतम् । “अन्यत्र धर्मादन्यत्राधर्मात्”(क. उ. १ । २ । १४) इति प्राज्ञस्यैव प्रकृतत्वात् । जीवकर्तृकत्वेऽपि च प्राज्ञादभेदेन जीवस्य प्राज्ञत्वात् । अपिच जाग्रत्प्रत्ययसंवादवन्तोऽपि स्वप्नप्रत्ययाः केचिद्दृश्यन्ते । तद्यथा स्वप्ने शुक्लाम्बरधरः शुक्लमाल्यानुलेपनो ब्राह्मणायनः प्रियव्रतं प्रत्याहप्रियव्रत, पञ्चमेऽहनि प्रातरेवोर्वराप्रायभूमिदानेन नरपतिस्त्वां मानयिष्यतीति । स च जाग्रत्तथात्मनो मानमनुभूय स्वप्नप्रत्ययं सत्यमभिमन्यते । तस्मात्सन्ध्ये पारमार्थिकी सृष्टिः ॥ १ ॥
निर्मातारं चैके पुत्रादयश्च ॥ २ ॥
इति प्राप्ते उच्यते –
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ।
इदमत्राकूतम् । न तावत्क्षीरस्येव दधि रजतस्य परिणामः शुक्तिः सम्भवति । नहि जात्वीश्वरगृहे चिरस्थितान्यपि रजतभाजनानि शुक्तिभावमनुभवन्ति दृश्यन्ते । न चेतरस्य रजतानुभवसमयेऽन्योऽनाकुलेन्द्रियो न तस्य शुक्तिभावमनुभवति प्रत्येति च । न चोभयरूपं वस्तु । सामग्रीभेदात्तु कदाचिदस्य तोयभावोऽनुभूयते कदाचिन्मरीचितेति साम्प्रतम् । पारमार्थिके ह्यास्य तोयभावे तत्साध्यामुदान्योपशमलक्षणार्थक्रियां कुर्यान्मरीचिसाध्यामपि रूपप्रकाशलक्षणाम् । न मरीचिभिः कस्यचित्तृष्णज उदन्योपशाम्यति । नच तोयमेव द्विविधमुदन्योपशमनमतदुपशमनमिति युक्तम् । तदर्थक्रियाकारित्वव्याप्तं तोयत्वं मात्रयापि तामकुर्वत्तोयमेव न स्यात् । अपिच तोयप्रत्ययसमीचीनत्वायास्य द्वैविध्यमभ्युपेयते तच्चाभ्युपगमेऽपि न सेद्धुमर्हति । तथाहि - असमर्थविधापाति तोयमेतदिति मन्वानो न तृष्णयापि मरीचितोयमभिधावेत्यथा मरीचीननुभवन् । अथाशक्तमभिमन्यमानोऽभिधावति । किमपराद्धं मरीचिषु तोयविपर्यासेन सर्वजनीनेन यत्तमतिलङ्घ्य विपर्यासान्तरं कल्प्यते । नच क्षीरदधिप्रत्ययवदाचार्यमातुलब्राह्मणप्रत्ययवद्वा तोयमरीचिविज्ञाने समुच्चितावगाहिनी स्वानुभवात्परस्परविरुद्धयोर्बाध्यबाधकभावावभासनात् । तत्रापि रजतज्ञानं पूर्वमुत्पन्नं बाध्यमुत्तरं तु बाधकं शुक्तिज्ञानं प्राप्तिपूर्वकत्वात्प्रतिषेधस्य । रजतज्ञानात्प्राक्प्रापकाभावेन शुक्तेरप्राप्तायाः प्रतिषेधासम्भवात्पूर्वज्ञानप्राप्तं तु रजतं शुक्तिज्ञानमपबाधितुमर्हति । तदपबाधात्मकं च स्वानुभवादवसीयते । यथाहुः “आगामित्वादबाधित्वा परं पूर्वं हि जायते । पूर्वं पुनरबाधित्वा परं नोत्पद्यते क्वचित्” । नच वर्तमानरजतावभासि ज्ञानं भविष्यत्तामस्यागोचरयन्न भविष्यता स्वसमयवर्तिनीं शुक्तिं गोचरयता प्रत्ययेन बाध्यते, कालभेदेन विरोधाभावादिति युक्तम् । मा नामास्य ज्ञासीत्प्रत्यक्षं भविष्यत्तां तत्पृष्ठभावि त्वनुमानमुपकारभावहेतुमिवासति विनाशप्रत्ययोपनिपाते स्थेमानमाकलयति । असति विनाशप्रत्ययोपनिपाते रजतमिदं स्थिरं रजतत्वादनुभूतप्रत्यभिज्ञातरजतवत् । तथाच रजतगोचरं प्रत्यक्षं वस्तुतः स्थिरमेव रजतं गोचरयेत् । तथाच भविष्यच्छुक्तिकाज्ञानकालं, रजतं व्याप्नुयादिति विरोधाच्छुक्तिज्ञानेन बाध्यते । यथाहुः “रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते । भविष्यच्छुक्तिकाज्ञानकालं व्याप्नोति तेन तत्” ॥ इति । प्रत्यक्षेण चिरस्थायीति गृह्यत इति केचिद्व्याचक्षते । तदयुक्तम् । यदि चिरस्थायित्वं योग्यता न सा प्रत्यक्षगोचरः शक्तेरतीन्द्रियत्वात् । अथ कालान्तरव्यापित्वं, तदप्ययुक्तं, कालान्तरेण भविष्यतेन्द्रियस्य संयोगायोगात्तदुपहितसीम्नो व्यापित्वस्यातीन्द्रियत्वात् । नच प्रत्यभिज्ञाप्रत्ययवदत्रास्ति संस्कारः सहकारी येनावर्तमानमप्याकलयेत् । तस्मादत्यन्ताभ्यासवशेन प्रत्यक्षानन्तरं शीघ्रतरोत्पन्नविनश्यदवस्थानुमानसहितप्रत्यक्षाभिप्रायमेव चिरस्थायीति गृह्यत इति मन्तव्यम् । अत एवैतत्सूक्ष्मतरं कालव्यवधानमविवेचयन्तः सौगताः प्राहुः, द्विविधो हि विषयः प्रत्यक्षस्य ग्राह्यश्चाध्यवसेयश्च । ग्राह्यक्षण एकः स्वलक्षणोऽध्यवसेयश्च सन्तान इति । एतेन स्वप्नप्रत्ययो मिथ्यात्वेन व्याख्यातः । यत्तु सत्यं स्वप्नदर्शनमुक्तं तत्राप्याख्यात्रा ब्राह्मणायनेनाख्याते संवादाभावात् । प्रियव्रतस्याख्यातसंवादस्तु काकतालीयो न स्वप्नज्ञानं प्रमाणयितुमर्हति । तादृशस्यैव बहुलं विसंवाददर्शनात् । दर्शितश्च विसंवादो भाष्यकृता कार्त्स्न्येनानभिव्यक्तिं विवृण्वता ।
रजन्यां सुप्त इति ।
रजनीसमयेऽपि हि भारताद्वर्षान्तरे केतुमालादौ वासरो भवतीति भारते वर्ष इत्युक्तम् ॥ ३ ॥
सूचकश्च हि श्रुतेराचक्षते च तद्विदः ।
दर्शनं सूचकं तच्च स्वरूपेण सत् । असत्तु दृश्यम् । अत एव स्त्रीदर्शनस्वरूपसाध्याश्चरमधातुविसर्गादयो जाग्रदवस्थायामनुवर्तन्ते । स्त्रीसाध्यास्तु माल्यविलेपनदन्तक्षतादयो नानुवर्तन्ते ।
न चास्माभिः स्वप्नेऽपि प्राज्ञव्यापार इति ।
प्राज्ञव्यापारत्वेन पारमार्थिकत्वानुमानं प्रत्यक्षेण बाधकप्रत्ययेन विरुध्यमानं नात्मानं लभत इति भावः । बन्धमोक्षयोरान्तरालिकं तृतीयमैश्वर्यमिति ॥ ४ ॥
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ।
देहयोगाद्वा सोऽपि
इति सूत्रद्वयं कृतोपपादनमस्माभिः प्रथमसूत्रे । निगदव्याख्यातं चैतयोर्भाष्यमिति ॥ ५ ॥
देहयोगाद्वा सोऽपि ॥ ६ ॥
तदभावो नाडीषु तच्छ्रुतेरात्मनि च ।
इह हि नाडीपुरीतत्परमात्मानो जीवस्य सुषुप्तावस्थायां स्थानत्वेन श्रूयन्ते । तत्र किमेषां स्थानानां विकल्प आहोस्वित्समुच्चयः । किमतो यद्येवम् । एतदतो भवति । यदा नाड्यो वा पुरीतद्वा सुषुप्तस्थानं तदा विपरीतग्रहणनिवृत्तावपि न जीवस्य परमात्मभाव इति । अविद्यानिवृत्तावपि जीवस्य परमात्मभावाय कारणान्तरमपेक्षितव्यं तच्च कर्मैव न तु तत्त्वज्ञानं विपरीतज्ञाननिवृत्तिमात्रेण तस्योपयोगात् , विपरीतज्ञाननिवृत्तेश्च विनापि तत्त्वज्ञानं सुषुप्तावपि सम्भवात् । ततश्च कर्मणैवापवर्गो न ज्ञानेन । यथाहुः “कर्मणैव तु संसिद्धिमास्थिता जनकादयः”(भ.गी. ३-२०) इति । अथ तु परमात्मैव नाडीपुरीतस्मृतिद्वारा सुषुप्तिस्थानं ततो विपरीतज्ञाननिवृत्तेरस्ति मात्रया परमात्मभाव उपयोगः । तया हि तावदेष जीवस्तदवस्थानो भवति केवलम् । तत्त्वज्ञानाभावेन समूलकाषमविद्याया अकाषाज्जाग्रत्स्वप्नलक्षणं जीवस्य व्युत्थानं भवति । तस्मात्प्रयोजनवत्येषा विचारणेति । किं तावत्प्राप्तं, नाडीपुरीतत्परमात्मसु स्थानेषु सुषुप्तस्य जीवस्य निलयं प्रति विकल्पः । यथा बहुषु प्रासादेष्वेको नरेन्द्रः कदाचित्क्वचिन्निलीयते कदाचित्क्वचिदेवमेको जीवः कदाचिन्नाडीषु कदाचित्पुरीतति कदाचिद्ब्रह्मणीति । यथा निरपेक्षा व्रीहियवाः क्रतुसाधनीभूतपुरोडाशप्रकृतितया श्रुता एकार्था विकल्प्यन्ते, एवं सप्तमीश्रुत्या वायतनश्रुत्या वैकनिलयनार्थाः परस्परानपेक्षा नाड्यादयोऽपि विकल्पमर्हन्ति । यत्रापि नाडीभिः प्रत्यवसृप्य पुरीतति शेत इति नाडीपुरीततोः समुच्चयश्रवणम् “तथा तासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यति । अथास्मिन् प्राण एवैकधा भवति”(कौ . ब्रा. ४ । २०) इति नाडीब्रह्मणोराधारयोः समुच्चयश्रवणम् । प्राणशब्दं च ब्रह्म “अथास्मिन् प्राणे ब्रह्मणि स जीव एकधा भवति” इति वचनात् । तथाप्यासु तदा नाडीषु सृप्तो भवतीति च पुरीतति शेत इति च निरपेक्षयोर्नाडीपुरीततोराधारत्वेन निर्देशान्निरपेक्षयोरेवाधारत्वम् । इयांस्तु विशेषः । कदाचिन्नाड्य एवाधारः कदाचिन्नाडीभिः सञ्चरमाणस्य पुरीतदेव । एवं ताभिरेव सञ्चरमाणस्य कदाचिद्ब्रह्मैवाधार इति सिद्धमाधारत्वे नाडीपुरीतत्परमात्मनामनपेक्षत्वम् । तथा च विकल्पो व्रीहियववद्बृहद्रथन्तरवद्वेति प्राप्तम् । एवं प्राप्तेऽभिधीयते जीवः समुच्चयेनैवैतानि नाड्यादीनि स्वापायोपैति न विकल्पेन । अयमभिसन्धिः नित्यवदाम्नातानां नाम तद्गत्यन्तराभावे कल्प्यते । यथाहुः “एवमेषोऽष्टदोषोऽपि यद्व्रीहियववाक्ययोः । विकल्प आश्रितस्तत्र गतिरन्या न विद्यते” इति । प्रकृतक्रतुसाधनीभूतपुरोडाशद्रव्यप्रकृतितया हि परस्परानपेक्षौ व्रीहियवौ विहितौ शक्नुतश्चैतौ प्रत्येकं पुरोडाशमभिनिर्वर्तयितुम् । तत्र यदि मिश्राभ्यां पुरोडाशोऽभिनिर्वर्त्येत परस्परानपेक्षव्रीहियवविधातृणी उभे अपि शास्त्रे बाध्येयाताम् । न चैतौ प्रयोगवचनः समुच्चेतुमर्हति । स हि यथा विहितान्यङ्गान्यभिसमीक्ष्य प्रवर्तमानो नैतान्यन्यथयितुं शक्नोति । मिश्रणे चान्यथात्वमेतेषाम् । न चाङ्गानुरोधेन प्रधानाभ्यासो ‘गोसवे उभे कुर्यात्’ इतिवद्युक्तः । अश्रुतो ह्यत्र प्रधानाभ्यासोऽङ्गानुरोधेन च सोऽन्याय्यः । न चाङ्गभूतैन्द्रवायवादिग्रहानुरोधेन यथा प्रधानस्य सोमयागस्यावृत्तिरेवमत्रापीति युक्तम् । ‘सोमेन यजेत’ इति हि तत्रापूर्वयागविधिः । तत्र च दशमुष्टिपरिमितस्य सोमद्रव्यस्य ‘सोममभिषुणोति’ , ‘सोममभिप्लावयति’ इति च वाक्यान्तरानुलोचनया रसद्वारेण यागसाधनीभूतस्येन्द्रवाय्वाद्युद्देशेन प्रादेशमात्रेषूर्ध्वपात्रेषु ग्रहणानि पृथक्प्रकल्पनानि संस्कारा विधीयन्ते, नतु सोमयागोद्देशेनेन्द्रवाय्वादयो देवताश्चोद्यन्ते, येन तासां यागनिष्पत्तिलक्षणैकार्थत्वेन विकल्पः स्यात् । नच प्रादेशमात्रमेकैकमूर्ध्वपात्रं दशमुष्टिपरिमितसोमरसग्रहणाय कल्पते, येन तुल्यार्थतया ग्रहणानि विकल्पेरन् । नच यावन्मात्रमेकमूर्ध्वपात्रं व्याप्नोति तावन्मात्रं गृहीत्वा परिशिष्टं त्यज्येतेति युज्यते । दशमुष्टिपरिमितोपादानस्यादृष्टार्थत्वप्रसङ्गात् । एवं तद्दृष्टार्थं भवेद्यदि तत्सर्वं याग उपयुज्येत । नच दृष्टे सम्भवत्यदृष्टकल्पना न्याय्या । तस्मात्सकलस्य सोमरसस्य यागशेषत्वेन संस्कारार्हत्वादेकैकेन च ग्रहणेन सकलस्य संस्कर्तुमशक्यत्वात्तदवयवस्यैकेन संस्कारेऽवयवान्तरस्य ग्रहणान्तरेण संस्कार इति कार्यभेदाद्ग्रहणानि समुच्चीयेरन् । अत एव समुच्चयदर्शनं “दशैतानध्वर्युः प्रातःसवने ग्रहान् गृह्णाति” इति । समुच्चये च सति क्रमोऽप्युपपद्यते । “आश्विनो दशमो गृह्यते तृतीयो हूयते” । तथैव “ऐन्द्रवायवाग्रान्ग्रहान्गृह्णाति” इति । तेषां च समुच्चये सति यावद्यदुद्देशेन गृहीतं तावत्तस्यै देवतायै त्यक्तव्यमित्यर्थाद्यागस्यावृत्त्या भवितव्यम् । यदि पुनः पृथक्कृतान्यप्येकीकृत्य काञ्चन देवतामुद्दिश्य त्यजेरन् , पृथक्करणानि च देवतोद्देशाश्चादृष्टार्था भवेयुः । नच दृष्टे सम्भवत्यदृष्टकल्पना न्याय्येत्युक्तम् । तस्मात्तत्र समुच्चयस्यावश्यम्भावित्वाद्गुणानुरोधेनापि प्रधानाभ्यास आस्थीयते । इह त्वभ्यासकल्पनाप्रमाणाभावात्पुरोडाशद्रव्यस्य चानियमेन प्रकृतिद्रव्ये यस्मिन्कस्मिंश्चित्प्राप्ते एकैका परस्परानपेक्षा व्रीहिश्रुतिर्यवश्रुतिश्च नियामिकैकार्थतया विकल्पमर्हतः । न तु नाडीपुरीतत्परमात्मनामन्योन्यानपेक्षणामेकनिलयनार्थसम्भवो येन विकल्पो भवेत् । नह्येकविभक्तिनिर्देशमात्रेणैकार्थता भवति समुच्चितानामप्येकविभक्तिनिर्देशदर्शनात् पर्यङ्के शेते प्रसादे शेत इति । तस्मादेकविभक्तिनिर्देशस्यानैकान्तिकत्वादन्यतो विनिगमना वक्तव्या ।
सा चोक्ता भाष्यकृता –
यत्रापि निरपेक्षा इव नाडीः सुप्तिस्थानत्वेन श्रावयतीत्यादिना ।
सापेक्षश्रुत्यनुरोधेन निरपेक्षश्रुतिर्नेतव्येत्यर्थः । शेषमतिरोहितार्थम् ।
ननु यदि ब्रह्मैव निलयनस्थानं तावन्मात्रमुच्यतां कृतं नाड्युपन्यासेनेत्यत आह –
अपिचात्रेति ।
अपिचेति समुच्चये न विकल्पे । एतदुपपत्तिसहिता पूर्वोपपत्तिरर्थसाधिनीति । मार्गोपदेशोपयुक्तानां नाडीनां स्तुत्यर्थमत्र नाडीसङ्कीर्तनमित्यर्थः । पित्तेनाभिव्याप्तकरणो न बाह्यान्विषयान्वेदेति तद्द्वारा सुखदुःखाभावेन तत्कारणपाप्मास्पर्शेन नाडीस्तुतिः । यदा तु तेजो ब्रह्म तदा सुगमम् ।
अपिच –
नाड्यः पुरीतद्वा जीवस्योपाध्याधार एव भवतीति ।
अयमर्थः अभ्युपेत्य जीवस्याधेयत्वमिदमुक्तम् । परमार्थतस्तु न जीवस्याधेयत्वमस्ति । तथाहि नाड्यः पुरीतद्वा जीवस्योपाधीनां करणानामाश्रयो जीवस्तु ब्रह्माव्यतिरेकात्स्वमहिमप्रतिष्ठः । न चापि ब्रह्म जीवस्याधारः, तादात्म्यात् । विकल्प्य तु व्यतिरेकं ब्रह्मण आधारत्वमुच्यते जीवं प्रति । तथाच सुषुप्तावस्थायामुपाधीनामसमुदाचाराज्जीवस्य ब्रह्मात्मत्वमेव ब्रह्माधारत्वं न तु नाडीपुरीतदाधारत्वम् । तदुपाधिकरणमात्राधारतया तु सुषुप्तदशारम्भाय जीवस्य नाडीपुरीतदाधारत्वमित्यतुल्यार्थतया न विकल्प इति ।
अपिच न कदाचिज्जीवस्येति ।
औत्सगिकं ब्रह्मस्वरूपत्वं जीवस्यासति जाग्रत्स्वप्नदशारूपेऽपवादे सुषुप्तावस्थायां नान्यथयितुं शक्यमित्यर्थः । अपिच येऽपि स्थानविकल्पमास्थिषत तैरपि विशेषविज्ञानोपशमलक्षणा सुषुप्त्यवस्थाङ्गीकर्तव्या । न चेयमात्मतादात्म्यं विना नाड्यादिषु परमात्मव्यतिरिक्तेषु स्थानेषूपपद्यते । तत्र हि स्थितोऽयं जीव आत्मव्यतिरेकाभिमानी सन्नवश्यं विशेषज्ञानवान् भवेत् । तथाहि श्रुतिः “यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्”(बृ. उ. ४ । ५ । १५) इति ।
आत्मस्थानत्वे त्वदोषः । “यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येद्विजानीयात्”(बृ. उ. ४ । ५ । १५) इति श्रुतेः । तस्मादप्यात्मस्थानत्वस्य द्वारं नाड्यादीत्याह –
अपिच स्थानविकल्पाभ्युपगमेऽपीति ।
अत्र चोदयति ननु भेदविषयस्यापीति । भिद्यत इति भेदः । भिद्यमानस्यापि विषयस्येत्यर्थः ।
परिहरति –
बाढमेवं स्यादिति ।
न तावज्जीवस्यास्ति स्वतःपरिच्छेदस्तस्य ब्रह्मात्मत्वेन विभुत्वात् औपाधिके तु परिच्छेदे यत्रोपाधिरसंनिहितस्तन्मात्रं न जानीयान्न तु सर्वम् । नह्यसंनिधानात्सुमेरुमविद्वान् देवदत्तः संनिहितमपि न वेद । तस्मात्सर्वविशेषविज्ञानप्रत्यस्तमयीं सुषुप्तिं प्रसाधयता तदास्य सर्वोपाध्युपसंहारो वक्तव्यः । तथाच सिद्धमस्य तदा ब्रह्मात्मत्वमित्यर्थः ।
गुणप्रधानभावेन समुच्चयो न समप्रधानतयाग्नेयादिवदिति वदन्विकल्पमप्यपाकरोति –
नच वयमिहेति ।
स्वाध्यायाध्ययनविध्यापादितपुरुषार्थत्वस्य वेदराशेरेकेनापि वर्णेन नापुरुषार्थेन भवितुं युक्तम् । नच सुषुप्तावस्थायां जीवस्य स्वरूपेण नाड्यादिस्थानत्वप्रतिपादने किञ्चित्प्रयोजनं ब्रह्मभूयप्रतिपादने त्वस्ति । तस्मान्न समप्रधानभावेन समुच्चयो नापि विकल्प इति भावः । नीतार्थमन्यत् ॥ ७ ॥
अतः प्रबोधोऽस्मात् ॥ ८ ॥
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ।
यद्यपीश्वरादभिन्नो जीवस्तथाप्युपाध्यवच्छेदेन भेदं विवक्षित्वाधिकरणान्तरारम्भः । स एवेति दुःसम्पादमिति । स वान्यो वेति ईश्वरो वेति सम्भवमात्रेणोपन्यासः । नहि तस्य शुद्धमुक्तस्वभावस्याविद्याकृतव्युत्थानसम्भवः । अत एव विमर्शावसरेऽस्यानुपन्यासः । यद्धि द्व्यहादिनिर्वर्तनीयमेकस्य पुंसश्चोदितं कर्म तस्य पूर्वेद्युरनुष्ठितस्यास्ति स्मृतिरिति वक्तव्येऽनुः प्रत्यभिज्ञानसूचनार्थः । अत एव सोऽहमस्मीत्युक्तम् ।
पुनः प्रतिन्यायं प्रतियोन्याद्रवतीति ।
अयनमायः नियमेन गमनं न्यायः । जीवः प्रतिन्यायं सम्प्रसादे सुषुप्तावस्थायां वृद्धान्तायाद्रवति आगच्छति प्रतियोनि ।
योहि व्याघ्रयोनिः सुषुप्तो बुद्धान्तमागच्छन् स व्याघ्र एव भवति न जात्यन्तरम् । तदिदमुक्तम् –
त इह व्याघ्रो वा सिंहो वेति ।
अथ तत्र सुप्त उत्तिष्ठेदिति ।
यो हि जीवः सुप्तः स शरीरान्तर उत्तिष्ठति शरीरान्तरगतस्तु सुप्तजीवसम्बन्धिनि शरीर उत्तिष्ठति, ततश्च न शरीरान्तरे व्यवहारलोप इत्यर्थः ।
अपिच न जीवो नाम कश्चित्परस्मादन्य इति ।
यथा घटाकाशो नाम न परमाकाशादन्यः । अथ चान्य इव यावद्घटमनुवर्तते । न चासौ दुर्विवेचस्तदुपाधेर्घटस्य विविक्तत्वात् । एवमनाद्यनिर्वचनीयाविद्योपधानभेदोपाधिकल्पितो जीवो न वस्तुतः परमात्मनो भिद्यते तदुपाद्युद्भवाभिभवाभ्यां चोद्भूत इवाभिभूत इव प्रतीयते । ततश्च सुषुप्तादावपि अभिभूत इव जाग्रदवस्थादिषूद्भूत इव । तस्य चाविद्यातद्वासनोपाधेरनादितया कार्यकारणभावेन प्रवहतः सुविवेचतया तदुपहितो जीवः सुविवेच इति ॥ ९ ॥
मुग्धेऽर्धसम्पत्तिः परिशेषात् ।
विशेषविज्ञानाभावान्मूर्च्छा जागरस्वप्नावस्थाभ्यां भिद्यते पुनरुत्थानाच्च मरणावस्थायाः । अतः सुषुप्तिरेव मूर्च्छा विशेषज्ञानाभावाविशेषात् । चिरानुच्छ्वासवेपथुप्रभृतयस्तु सुप्तेरवान्तरप्रभेदाः । तद्यथा कश्चित्सुप्तोत्थितः प्राह सुखमहमस्वाप्सं लघूनि मे गात्राणि प्रसन्नं मे मन इति, कश्चित्पुनर्दुःखमस्वाप्सं गुरूणि मे गात्राणि भ्रमत्यनवस्थितं मे मन इति । न चैतावता सुषुप्तिर्भिद्यते । तथा विकारान्तरेऽपि मूर्च्छा न सुषुप्तेर्भिद्यते । तस्माल्लोकप्रसिद्ध्यभावान्नेयं पञ्चम्यवस्थेति प्राप्तम् । एवं प्राप्त उच्यते यद्यपि विशेषविज्ञानोपशमेन मोहसुषुप्तयोः साम्यं तथापि नैक्यम् । नहि विशेषविज्ञानसद्भावसाम्यमात्रेण स्वप्नजागरयोरभेदः । बाह्येन्द्रियव्यापारभावाभावाभ्यां तु भेदे तयोः सुषुप्तमोहयोरपि प्रयोजनभेदात्कारणभेदाल्लक्षणभेदाच्च भेदः । श्रमापनुत्त्यर्था हि ब्रह्मणा सम्पत्तिः सुषप्तम् । शरीरत्यागार्था तु ब्रह्मणा सम्पत्तिर्मोहः । यद्यपि सत्यपि मोहे न मरणं तथाप्यसति मोहे न मरणमिति मरणार्थो मोहः । मुसलसम्पातादिनिमित्तत्वान्मोहस्य श्रमादिनिमित्तत्वाच्च सुषुप्तस्य मुखनेत्रादिविकारलक्षणत्वान्मोहस्य प्रसन्नवदनत्वादिलक्षणभेदाच्च सुषुप्तस्यासुषुप्तस्य त्ववान्तरभेदेऽपि निमित्तप्रयोजनलक्षणाभेदादेकत्वम् । तस्मात्सुषुप्तमोहावस्थयोर्ब्रह्मणा सम्पत्तावपि सुषुप्ते यादृशी सम्पत्तिर्न तादृशी मोह इत्यर्धसम्पत्तिरुक्ता । साम्यवैषम्याभ्यामर्धत्वम् । यदा नैतदवस्थान्तरं तदा भेदात्तत्प्रविलयाय यत्नान्तरमास्थेयम् । अभेदे तु न यत्नान्तरमिति चिन्ताप्रयोजनम् ॥ १० ॥
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ।
अवान्तरसङ्गतिमाह –
येन ब्रह्मणा सुषुप्तादिष्विति ।
यद्यपि “तदनन्यत्वमारम्भणशब्दादिभ्यः”(ब्र. सू. २ । १ । १४) इत्यत्र निष्प्रपञ्चमेव ब्रह्मोपपादितं तथापि प्रपञ्चलिङ्गानां बह्वीनां श्रुतीनां दर्शनाद्भवति पुनर्विचिकित्सा अतस्तन्निवारणायारम्भः । तस्य च तत्त्वज्ञानमपवर्गोपयोगीति प्रयोजनवान् विचारः । तत्रोभयलिङ्गश्रवणादुभयरूपत्वं ब्रह्मणः प्राप्तम् । तत्रापि सविशेषत्वनिर्विशेषत्वयोर्विरोधात्स्वाभाविकत्वानुपपत्तेरेकं स्वतोऽपरं तु परतः । नच यत्परतस्तदपारमार्थिकम् । नहि चक्षुरादीनां स्वतःप्रमाणभूतानां दोषतोऽप्रामाण्यमपारमार्थिकम् । विपर्ययज्ञानलक्षणकार्यानुत्पादप्रसङ्गात् । तस्मादुभयलिङ्गकशास्त्रप्रामाण्यादुभयरूपता ब्रह्मणः पारमार्थिकीति प्राप्त उच्यते न स्थानत उपाधितोऽपि परस्य ब्रह्मण उभयचिह्नत्वसम्भवः । एकं हि पारमार्थिकमन्यदध्यारोपितम् । पारमार्थिकत्वे ह्युपाधिजनितस्य रूपस्य ब्रह्मणः परिणामो भवेत् । स च प्राक्प्रतिषिद्धः । तत्पारिशेष्यात्स्फटिकमणेरिव स्वभावस्वच्छधवलस्य लाक्षारसावसेकोपाधिररूणिमा सर्वगन्धत्वादिरौपाधिको ब्रह्मण्यध्यस्त इति पश्यामो निर्विशेषताप्रतिपादनार्थत्वाच्छ्रुतीनाम् । सविशेषतायामपि “यश्चायमस्यां पृथिव्यां तेजोमयः”(बृ. उ. २ । ५ । १) इत्यादीनां श्रुतीनां ब्रह्मैकत्वप्रतिपादनपरत्वादेकत्वनानात्वयोश्चैकस्मिन्नसम्भवादेकत्वाङ्गत्वेनैव नानात्वप्रतिपादनपर्यवसानात् , नानात्वस्य प्रमाणान्तरसिद्धतयानुवाद्यत्वादेकत्वस्य चानधिगतेर्विधेयत्वोपपत्तेर्भेददर्शननिन्दया च साक्षाद्भूयसीभिः श्रुतिभिरभेदप्रतिपादनादाकारवद्ब्रह्मविषयाणां च कासाञ्चिच्छ्रुतीनामुपासनापरत्वमसति बाधकेऽन्यपराद्वचनात्प्रतीयमानमपि गृह्यते । यथा देवतानां विग्रहवत्त्वम् । सन्ति चात्र साक्षाद्वैतापवादेनाद्वैतप्रतिपादनपराः शतशः श्रुतयः । कासाञ्चिच्च द्वैताभिधायिनीनां तत्प्रविलयपरत्वम् । तस्मान्निर्विशेषमेकरूपं चैतन्यैकरसं सद्ब्रह्म परमार्थतः, विशेषाश्च सर्वगन्धत्ववामनीत्वादय उपाधिवशादध्यस्ता इति सिद्धम् । शेषमतिरोहितार्थम् ॥ ११ ॥
न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ १२ ॥
अपि चैवमेके ॥ १३ ॥
अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥
प्रकाशवच्चावैयर्थ्यात् ॥ १५ ॥
आह च तन्मात्रम् ॥ १६ ॥
दर्शयति चाथो अपि स्मर्यते ॥ १७ ॥
अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥
अम्बुवदग्रहणात्तु न तथात्वम् ॥ १९ ॥
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॥ २० ॥
दर्शनाच्च ॥ २१ ॥
अत्र केचिद्द्वे अधिकरणे कल्पयन्तीति ।
किं सल्लक्षणं च प्रकाशलक्षणं च ब्रह्म किं सल्लक्षणमेव ब्रह्मोत प्रकाशलक्षणमेवेति तत्र पूर्वपक्षं गृह्णाति –
प्रकाशवच्चावैयर्थ्यात् ।
चकारात्सच्च । अवैयर्थ्यात् ।
ब्रह्मणि सच्छ्रुतेः सिद्धान्तयति –
आह च तन्मात्रम् ।
प्रकाशमात्रम् । नहि सत्त्वं नाम प्रकाशरूपादन्यत् , यथा सर्वगन्धत्वादयोऽपि तु प्रकाशरूपमेव सदिति नोभयरूपत्वं ब्रह्मण इत्यर्थः । तदेतदनेनोपन्यस्य दूषितम् । सत्ताप्रकाशयोरेकत्वे नोभयलक्षणत्वम् । भेदे न स्थानतोऽपीति निराकृतमिति नाधिकरणान्तरं प्रयोजयति । परमार्थतस्त्वभेद एव प्रकर्षप्रकाशवदिति । सर्वेषां च साधारणे प्रविलयार्थत्वे सति” अरूपवदेव हि तत्प्रधानत्वात्” इति विनिगमनकारणवचनमनवकाशं स्यात् । एवं हि तस्यावकाशः स्याद्याद काश्चिदुपासनापरतया रूपमाचक्षीरन् काश्चिन्नीरूपब्रह्मप्रतिपादनपरा भवेयुः । सर्वासां तु प्रविलयार्थत्वेन नीरूपब्रह्मप्रतिपादनार्थत्वे उक्तो विनिगमनहेतुर्न स्यादित्यर्थः । एकनियोगप्रतीतेः प्रयाजदर्शपूर्णमासवाक्यवदित्यधिकाराभिप्रायम् , अनुबन्धभेदात्तु भिन्नोऽनयोरपि नियोग इति ।
कोऽयं प्रपञ्चप्रविलय इति ।
वास्तवस्य वा प्रपञ्चस्य प्रविलयः सर्पिष इवाग्निसंयोगात् । समारोपितस्य वा रज्ज्वां सर्पभावस्येव रज्जुतत्त्वपरिज्ञानात् । न तावद्वास्तवः सर्वसाधारणः पृथिव्यादिप्रपञ्चः पुरुषमात्रेण शक्यः समुच्छेत्तुम् । अपिच प्रह्लादशुकादिभिः पुरुषधौरेयैः समूलमुन्मूलितः प्रपञ्च इति शून्यं जगद्भवेत् । नच वास्तवं तत्त्वज्ञानेन शक्यं समुच्छेत्तुम् । आरोपितरूपविरोधित्वात्तत्त्वज्ञानस्येत्युक्तम् । समारोपितरूपस्तु प्रपञ्चो ब्रह्मतत्त्वज्ञापनपरैरेव वाक्यैर्ब्रह्मतत्त्वमवबोधयद्भिः शक्यः समुच्छेत्तुमिति कृतमत्र विधिना । नहि विधिशतेनापि विना तत्त्वावबोधनं प्रवर्तस्वात्मज्ञान इति वा कुरु प्रपञ्चप्रविलयं वेति प्रवर्तितः शक्नोति प्रपञ्चप्रविलयं कर्तुम् । न चास्यात्मज्ञानविधिं विना वेदान्तार्थब्रह्मतत्त्वावबोधो न भवति । मौलिकस्य स्वाध्यायाध्ययनविधेरेव विवक्षितार्थतया सकलस्य वेदराशेः फलवदर्थावबोधनपरतामापादयतो विद्यमानत्वात् । अन्यथा कर्मविधिवाक्यान्यपि विध्यन्तरमपेक्षेरन्निति । नच चिन्तासाक्षात्कारयोर्विधिरिति तत्त्वसमीक्षायामस्माभिरुपपादितम् । विस्तरेण चायमर्थस्तत्रैव प्रपञ्चितः । तस्मात् “जर्तिलयवाग्वा जुहुयात्” इतिवद्विधिसरूपा एते “आत्मा वा अरे द्रष्टव्य”(बृ. उ. २ । ४ । ५) इत्यादयो न तु विधय इति ।
तदिदमुक्तम् –
द्रष्टव्यादिशब्दा अपि तत्त्वाभिमुखीकरणप्रधाना न तत्त्वावबोधविधिप्रधाना इति ।
अपिच ब्रह्मतत्त्वं निष्प्रपञ्चमुक्तं न तत्र नियोज्यः कश्चित्सम्भवति । जीवो हि नियोज्यो भवेत् , स चेत्प्रपञ्चपक्षे वर्तते को नियोज्यस्तस्योच्छिन्नत्वात् । अथ ब्रह्मपक्षे तथाप्यनियोज्यः, ब्रह्मणोऽनियोज्यत्वात् । अथ ब्रह्मणोऽनन्योऽप्यविद्ययान्य इवेति नियोज्यः । तदयुक्तम् । ब्रह्मभावं पारमार्थिकमवगमयतागमेनाविद्याया निरस्तत्वात् । तस्मान्नियोज्याभावादपि न नियोगः ।
तदिदमुक्तम् –
जीवो नाम प्रपञ्चपक्षस्यैवेति ।
अपिच ज्ञानविधिपरत्वे तन्मात्रात्तु ज्ञानस्यानुत्पत्तेस्तत्त्वप्रतिपादनपरत्वमभ्युपगमनीयम् । तत्र वरं तत्त्वप्रतिपादनपरत्वमेवास्तु तस्यावश्याभ्युपगन्तव्यत्वेनोभयवादिसिद्धत्वात् ।
एवं च कृतं तत्त्वज्ञानविधिनेत्याह –
ज्ञेयाभिमुखस्यापीति ।
नच ज्ञानाधाने प्रमाणानपेक्षस्यास्ति कश्चिदुपयोगो विधेः । एवं हि तदुपयोगो भवेद्यद्यन्यथाकारं ज्ञानमन्यथादधीत ।
नच तच्छक्यं वापि युक्तमित्याह –
नच प्रमाणान्तरेणेति ।
किञ्चान्यन्नियोगनिष्ठतयैव च पर्यवस्यत्याम्नाये यदभ्युपगतम्भवद्भिः शास्त्रपर्यालोचनयानियोज्यब्रह्मात्मत्वं जीवस्येति तदेतच्छास्त्राविरोधादप्रमाणकम् ।
अथैतच्छास्त्रमनियोज्यब्रह्मात्मत्वं च जीवस्य प्रतिपादयति जीवं च नियुक्तं ततो द्व्यर्थं च विरुद्धार्थं च स्यादित्याह –
अथेति ।
दर्शपौर्णमासादिवाक्येषु जीवस्यानियोज्यस्यापि वस्तुतोऽध्यस्तनियोज्यभावस्य नियोज्यता युक्ता । नहि तद्वाक्यं तस्य नियोज्यतामाहापि तु लौकिकप्रमाणसिद्धां नियोज्यतामाश्रित्य दर्शपूर्णमासौ विधत्ते । इदं तु नियोज्यतामपनयति च नियुङ्क्ते चेति दुर्घटमिति भावः ।
नियोगपरतायां चेति ।
पौर्वापर्यालोचनया वेदान्तानां तत्त्वनिष्ठता श्रुता न श्रुता नियोगनिष्ठतेत्यर्थः ।
अपिच नियोगनिष्ठत्वे वाक्यस्य दर्शपौर्णामासकर्मण इवापूर्वावान्तरव्यापारादात्मज्ञानकर्मणोऽप्यपूर्वावान्तरव्यापारादेव स्वर्गादिफलवन्मोक्षस्यानन्दरूपफलस्य सिद्धिः । तथा चानित्यत्वं सातिशयत्वं स्वर्गवद्भवेदित्याह –
कर्मफलवदिति ।
अपिच ब्रह्मवाक्येष्विति ।
सप्रपञ्चनिष्प्रपञ्चोपदेशेषु हि साध्यानुबन्धभेदादेकनियोगत्वमसिद्धम् । दर्शपौर्णमासप्रयाजवाक्येषु तु यद्यप्यनुबन्धभेदस्तथाप्यधिकारांशस्य साध्यस्य भेदाभावादभेद इति ॥ २१ ॥
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ।
अधिकरणविषयमाह –
द्वे वाव ब्रह्मणो रूपे इति ।
द्वे एव ब्रह्मणो रूपे ब्रह्मणः परमार्थतोऽरूपस्याध्यारोपिते द्वे एव रूपे ताभ्यां हि तद्रूप्यते ।
ते दर्शयति –
मूर्तं चैवामूर्तं च ।
समुच्चीयमानावधारणम् । अत्र पृथिव्यप्तेजांसि त्रीणि भूतानि ब्रह्मणो रूपं मूर्तं मूर्च्छितावयवमितरेतरानुप्रविष्टावयवं कठिनमिति यावत् । तस्यैव विशेषणान्तराणि मर्त्यं मरणधर्मकम् । स्थितमव्यापि । अवच्छिन्नमिति यावत् । सतन्येभ्यो विशिष्यमाणमसाधारणधर्मवदिति यावत् । गन्धस्नेहोष्णताश्चान्योन्यव्यवच्छेदहेतवोऽसाधारणा धर्माः । तस्यैतस्य ब्रह्मरूपस्य तेजोऽबन्नस्य चतुर्विशेषणस्यैष रसः सारो य एष सविता तपति । अथामूर्तं वायुश्चान्तरिक्षं च तद्धि न कठिनमित्यमूर्तमेतदमृतममरणधर्मकम् । मूर्तं हि मूर्तान्तरेणाभिहन्यमानमवयवविश्लेषाद्ध्वंसते नतु तथाभावः सम्भवत्यमूर्तस्य । एतद्यदेति गच्छति व्याप्नोतीति । एतत्त्यं नित्यपरोक्षमित्यर्थः । तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन् सवितृमण्डले पुरुषः । करणात्मको हिरण्यगर्भप्राणाह्वयस्त्यस्य ह्येष रसः सारो नित्यपरोक्षता च साम्यमित्यधिदैवतम् । अथाध्यात्ममिदमेव मूर्तं यदन्यत्प्राणान्तराकाशाभ्यां भूतत्रयं शरीरारम्भकमेतन्मर्त्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्योष रस इति । अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यदेतत्त्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेक्षन् पुरुषस्त्यस्य ह्येष रसः । लिङ्गस्य हि करणात्मकस्य हिरण्यगर्भस्य दक्षिणमक्ष्यधिष्ठानं श्रुतेरधिगतम् । तदेवं ब्रह्मण औपाधिकयोर्मूर्तामूर्तयोराध्यात्मिकाधिदैविकयोः कार्यकारणभावेन विभागो व्याख्यातः सत्त्यच्छब्दवाच्ययोः ।
अथेदानीं तस्य करणात्मनः पुरुषस्य लिङ्गस्य रूपं वक्तव्यम् । मूर्तामूर्तवासनाविज्ञानमयं विचित्रं मायामहेन्द्रजालोपमं तद्विचित्रैर्दृष्टान्तैरादर्शयति “तद्यथा माहारजनं”(बृ. उ. २ । ३ । ६) इत्यादिना । एतदुक्तं भवति मूर्तामूर्तवासनाविज्ञानमयस्य विचित्रं रूपं लिङ्गस्येति । तदेवं निरवशेषं सवासनं सत्यरूपमुक्त्वा यत्तत्सत्यस्य सत्यमुक्तं ब्रह्म तत्स्वरूपावधारणार्थमिदमारभ्यते । यतः सत्यस्य रूपं निःशेषमुक्तमतोऽवशिष्टं सत्यस्य यत्सत्यं तस्यानन्तरं तदुक्तिहेतुकं स्वरूपं वक्तव्यमित्याह –
अथात आदेशः
कथनं सत्यसत्यस्य परमात्मनस्तमाह –
नेति नेतीति ।
एतदर्थकथनार्थमिदमधिकरणम् ।
ननु किमेतावदेवादेश्यमुतेतः परमन्यतप्यस्तीत्यत आह –
नह्येतस्माद्ब्रह्मण इति ।
नेत्यादिष्टादन्यत्परमस्ति यदादेश्यं भवेत् । तस्मादेतावदेवादेश्यं नापरमस्तीत्यर्थः । अत्रैवमर्थेनेतिना यत्संनिहितं परामृष्टं तन्निषिध्यते नञा संनिहितं च मूर्तामूर्तं सवासनं रूपद्वयम् । तदवच्छेदकत्वेन च ब्रह्म । तत्रेदं विचार्यते किं रूपद्वयं सवासनं ब्रह्म च सर्वमेव च प्रतिषिध्यते, उत ब्रह्मैवाथ सवासनं रूपद्वयं ब्रह्म तु परिशिष्यत इति । यद्यपि तेषु तेषु वेदान्तप्रदेशेषु ब्रह्मस्वरूपं प्रतिपादितं तदसद्भावज्ञानं च निन्दितम् । “अस्तीत्येवोपलब्धव्यः”(क. उ. २ । ३ । १३)“अस्तीत्येवोपलब्धव्यः”(क. उ. २ । ३ । १३) इति चास्य सत्त्वमवधारितं तथापि सद्बोधरूपं तद्ब्रह्म सवासनमूर्तामूर्तरूपसाधारणतया च सामान्यं तस्य चैते विशेषा मूर्तामूर्तादयः । नच तत्तद्विशेषनिषेधे सामान्यमवस्थातुमर्हति निर्विशेषस्य सामान्यस्यायोगात् । यथाहुः “निर्विशेषं न सामान्यं भवेच्छशविषाणवत्” इति । तस्मात्तद्विशेषनिषेधेऽपि तत्सामान्यस्य ब्रह्मणोऽनवस्थानात्सर्वस्यैवायं निषेधः । अत एव नह्येतस्मादिति नेत्यन्यत्परमस्तीति निषेधात्परं नास्तीति सर्वनिषेधमेव तत्त्वमाह श्रुतिः । “अस्तीत्येवोपलब्धव्यः” इति चोपासनाविधानवन्नेयं, न त्वस्तित्वमेवास्य तत्त्वम् । तत्प्रशंसार्थं चासद्भावज्ञाननिन्दा । यच्चान्यत्र ब्रह्मस्वरूपप्रतिपादनं तदपि मूर्तामूर्तरूपप्रतिपादनवन्निषेधार्थम् । असंनिहितोऽपि च तत्र निषेधो योग्यत्वात्सम्भन्स्यते । यथाहुः “येन यस्याभिसम्बन्धो दूरस्थस्यापि तेन सः” इति । तस्मात्सर्वस्यैवाविशेषेण निषेध इति प्रथमः पक्षः । अथवा पृथिव्यादिप्रपञ्चस्य समस्तस्य प्रत्यक्षादिप्रमाणसिद्धत्वात् , ब्रह्मणस्तु वाङ्मनसागोचरतया सकलप्रमाणविरहात् , कतरस्यास्तु निषेध इति विशये प्रपञ्चप्रतिषेधे समस्तप्रत्यक्षादिव्याकोपप्रसङ्गात् , ब्रह्मप्रतिषेधे त्वव्याकोपाद्ब्रह्मैव प्रतिषेधेन सम्बध्यते योग्यत्वान्न प्रपञ्चस्तद्वैपरीत्यात् , वीप्सा तु तदत्यन्ताभावसूचनायेति मध्यमः पक्षः ।
तत्र प्रथमं पक्षं निराकरोति –
न तावदुभयप्रतिषेध उपपद्यते शून्यवादप्रसङ्गादिति ।
अयमभिसन्धिः - उपाधयो ह्यमी पृथिव्यादयोऽविद्याकल्पिता न तु शोणकर्कादय इव विशेषा अश्वत्वस्य । न चोपाधिविगमे उपहितस्याभावोऽप्रतीतिर्वा । नह्युपादीनां दर्पणमणिकृपाणादीनामपगमे मुखस्याभावोऽप्रतीतिर्वा । तस्मादुपाधिनिषेधेऽपि नोपहितस्य शशविषाणायमानताप्रत्ययो वा । न चेतीति संनिधानाविशेषात्सर्वस्य प्रतिषेध्यत्वमिति युक्तम् । नहि भावमनुपाश्रित्य प्रतिषेध उपपद्यते । किञ्चिद्धि क्वचिन्निषिध्यते । नह्यनाश्रयः प्रतिषेधः शक्यः प्रतिपत्तुम् ।
तदिदमुक्तम् –
परिशिष्यमाणे चान्यस्मिन्य इतरः प्रतिषेद्धुमारभ्यते तस्य प्रतिषेद्धुमशक्यत्वात्तस्यैव परमार्थत्वापत्तेः प्रतिषेधानुपपत्तिः ।
मध्यमं पक्षं प्रतिक्षिपति –
नापि ब्रह्मप्रतिषेध उपपद्यते ।
युक्तं यन्नैसर्गिकाविद्याप्राप्तः प्रपञ्चः प्रतिषिध्यते प्राप्तिपूर्वकत्वात्प्रतिषेधस्य । ब्रह्म तु नाविद्यासिद्धं, नापि प्रमाणान्तरात् । तस्माच्छब्देन प्राप्तं प्रतिषेधनीयम् । तथाच यस्तस्य शब्दः प्रापकः स तत्पर इति स ब्रह्मणि प्रमाणमिति कथमस्य निषेधोऽपि प्रमाणवान् । नच पर्युदासाधिकरणपूर्वपक्षन्यायेन विकल्पः, वस्तुनि सिद्धस्वभावे तदनुपपत्तेः । न चावाङ्मनसगोचरो बुद्धावलेखितुं शक्यः । अशक्यश्च कथं निषिध्यते । प्रपञ्चस्त्वनाद्यविद्यासिद्धोऽनूद्य ब्रह्मणि प्रतिषिध्यत इति युक्तम् । तदिमामनुपपत्तिमभिप्रेत्योक्तम् “नापि ब्रह्मप्रतिषेध उपपद्यते” इति ।
हेत्वन्तरमाह –
ब्रह्म ते ब्रवाणीति ।
उपक्रमविरोधादिति ।
उपक्रमपरामर्शोपसंहारपर्यालोचनया हि वेदान्तानां सर्वेषामेव ब्रह्मपरत्वमुपपादितं प्रथमेऽध्याये । न चासत्यामाकाङ्क्षायां दूरतरस्थेन प्रतिषेधेनैषां सम्बन्धः सम्भवति ।
यच्च वाङ्मनसातीततया ब्रह्मणस्तत्प्रतिषेधस्य न प्रमाणान्तरविरोध इति तत्राह –
वाङ्मनसातीतत्वमपीति ।
प्रतिपादयन्ति वेदान्ता महता प्रयत्नेन ब्रह्म । नच निषेधाय तत्प्रतिपादनम् , अनुपपत्तेरित्युक्तमधस्तात् । इदानीं तु निष्प्रयोजनमित्युक्तं “प्रक्षालनाद्धि पङ्कस्य” इति न्यायात् । तस्माद्वेदान्तवाचा मनसि संनिधानाद्ब्रह्मणो वाङ्मनसातीतत्वं नाञ्जसमपि तु प्रतिपादनप्रक्रियोपक्रम एषः । यथा गवादयो विषयाः साक्षाच्छृङ्गग्राहिकया प्रतिपाद्यन्ते प्रतियन्ते च नैवं ब्रह्म । यथाहुः “भेदप्रपञ्चविलयद्वारेण च निरूपणम्” इति ।
ननु प्रकृतप्रतिषेधे ब्रह्मणोऽपि कस्मान्न प्रतिषेध इत्यत आह –
तद्धि प्रकृतं प्रपञ्चितं चेति ।
प्रधानं प्रकृतं प्रपञ्चश्च प्रधानं न ब्रह्म तस्य षष्ठ्यन्ततया प्रपञ्चावच्छेदकत्वेनाप्रधानत्वादित्यर्थः । ततोऽन्यद्ब्रवीतीति नेति नेतीति प्रतिषेधादन्यद्भूयो ब्रवीतीति तन्निर्वचनम् । नह्येतस्मादित्यस्य यदा नह्येतस्मादिति नेति नेत्यादिष्टाद्ब्रह्मणोऽन्यत्परमस्तीति व्याख्यानं तदा प्रपञ्चप्रतिषेधादन्यद्ब्रह्मैव ब्रवीतीति व्याख्येयम् । यदा तु नह्येतस्मादिति सर्वनाम्ना प्रतिषेधो ब्रह्मण आदेशः परामृश्यते तदापि प्रपञ्चप्रतिषेधमात्रं न प्रतिपत्तव्यमपि तु तेन प्रतिषेधेन भावरूपं ब्रह्मोपलक्ष्यते ।
कस्मादित्यत आह –
ततो ब्रवीति च भूय इति ।
यस्मात्प्रतिषेधस्य परस्तादपि ब्रवीति । अथ ब्रह्मणो नामधेयं नाम सत्यस्य सत्यमिति तद्व्याचष्टे श्रुतिः “प्राणा वै सत्यम्”(बृ. उ. २ । १ । २०) इति । महारजनाद्युपमितं लिङ्गमुपलक्षयति । तत्खलु सत्यमितरापेक्षया तस्यापि परं सत्यं ब्रह्म । तदेवं यतः प्रतिषेधस्य परस्ताद्ब्रवीति तस्मान्न प्रपञ्चप्रतिषेधमात्रं ब्रह्मापि तु भावरूपमिति । तदेवं पूर्वस्मिन् व्याख्याने निर्वचनं ब्रवीतीति व्याख्यातम् । अस्मिस्तुं सत्यस्य सत्यमिति ब्रवीतीति व्याख्येयम् । शेषमतिरोहितार्थम् ॥ २३ ॥
अपि च संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥
अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥
उभयव्यपदेशात्त्वहिकुण्डलवत् ।
अनेनाहिरूपेणाभेदः । कुण्डलादिरूपेण तु भेद इत्युक्तं तेन विषयभेदाद्भेदाभेदयोरविरोध इत्येकविषयत्वेन वा सर्वदोपलब्धेरविरोधः । विरुद्धमिति हि नः क्व संप्रत्ययो न यत्प्रमाणेनोपलभ्यते । आगमतश्च प्रमाणादेकगोचरावपि भेदाभेदौ प्रतीयमानौ न विरोधमावहतः सवितृप्रकाशयोरिव प्रत्यक्षात्प्रमाणाद्भेदाभेदाविति ॥ २७ ॥
प्रकारान्तरेण भेदाभेदयोरविरोधमाह –
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥
तदेवं परमतमुपन्यस्य स्वमतमाह –
पूर्ववद्वा ।
अयमभिसन्धिः - यस्य मतं वस्तुनोऽहित्वेनाभेदः कुण्डलत्वेन भेद इति, स एवं ब्रुवाणः प्रष्टव्यो जायते, किमहित्वकुण्डलत्वे वस्तुनो भिन्ने उताभिन्ने इति । यदि भिन्ने, अहित्वकुण्डलत्वे भिन्ने इति वक्तव्यं न तु वस्तुनस्ताभ्यां भेदाभेदौ । नह्यन्यभेदाभेदाभ्यामन्यद्भिन्नमभिन्नं वा भवितुमर्हति । अतिप्रसङ्गात् । अथ वस्तुनो न भिद्येते अहित्वकुण्डलत्वे तथा सति को भेदाभेदयोर्विषयभेदस्तयोर्वस्तुनोऽनन्यत्वेनाभेदात् । न चैकविषयत्वेऽपि सदानुभूयमानत्वाद्भेदाभेदयोरविरोधः स्वरूपविरुद्धयोरप्यविरोधे क्व नाम विरोधो व्यवतिष्ठेत । नच सदानुभूयमानं विचारासहं भाविकं भवितुमर्हति । देहात्मभावस्यापि सर्वदानुभूयमानस्य भाविकत्वप्रसङ्गात् । प्रपञ्चितं चैतदस्माभिः प्रथमसूत्र इति नेह प्रपञ्चितम् । तस्मादनाद्यविद्याविक्रीडितमेवैकस्यात्मनो जीवभावभेदो न भाविकः । तथाच तत्त्वज्ञानदविद्यानिवृत्तावपवर्गसिद्धिः । तात्त्विकत्वे त्वस्य न ज्ञानान्निवृत्तिसम्भवः । नच तत्त्वज्ञानादन्यदपवर्गसाधनमस्ति । यथाह श्रुतिः “तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय”(श्वे. उ. ३ । ८) इति । शेषमतिरोहितार्थम् ॥ २९ ॥
प्रतिषेधाच्च ॥ ३० ॥
परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ।
यद्यपि श्रुतिप्राचुर्याद्ब्रह्मव्यतिरिक्तं तत्त्वं नास्तीत्यवधारितं तथापि सेत्वादिश्रुतीनामापाततस्तद्विरोधदर्शनात्तत्प्रतिसमाधानार्थमयमारम्भः । जाङ्गलं स्थलम् । प्रकाशवदनन्तवज्ज्योतिष्मदायतनवदिति पादा ब्रह्मणश्चत्वारस्तेषां पादानामर्धान्यष्टौ शफाः । तेऽष्टावस्य ब्रह्मण इत्यष्टशफं ब्रह्म । षोडश कला अस्येति षोडशकलम् । तद्यथा प्राची प्रतीची दक्षिणोदीचीति चतस्रः कला अवयवा इव कलाः स प्रकाशवान्नाम प्रथमः पादः । एतदुपासनायां प्रकाशवान्मुख्यो भवतीति प्रकाशवान् पादः । अथापराः पृथिव्यन्तरिक्षं द्यौः समुद्र इति चतस्रः कला एष द्वितीयः पादोऽनन्तवान्नाम । सोऽयमनन्तवत्त्वेन गुणेनोपास्यमानोऽनन्तत्वमुपासकस्यावहतीति अनन्तवान् पादः । अथाग्निः सूर्यश्चन्द्रमा विद्युदिति चतस्रः कलाः स ज्योतिष्मान्नाम पादस्तृतीयस्तदुपासनाज्ज्योतिष्मान् भवतीति ज्योतिष्मान् पादः । अथ घ्राणश्चक्षुः श्रोत्रं वागिति चतस्रः कलाश्चतुर्थः पाद आयतनवान्नाम । एते घ्राणादयो हि गन्धादिविषया मन आयतनमाश्रित्य भोगसाधनं भवन्तीत्यायतनवान्नाम पादः । तदेवं चतुष्पाद्ब्रह्माष्टशफं षोडशकलमुन्मिषितं श्रुत्या । अतस्ततो ब्रह्मणः परमन्यदस्ति ।
स्यादेतत् । अस्ति चेत्परिसङ्ख्यायोच्यतामेतावदिति । अत आह –
अमितमस्तीति ।
प्रमाणसिद्धम् । न त्वेतावदित्यर्थः । भेदव्यपदेशश्च त्रिप्रकार आधारतश्चातिदेशतश्चावधितश्च ॥ ३१ ॥
सामान्यात्तु ।
जगतस्तन्मर्यादानां च विधारकत्वं च सेतुसामान्यम् । यथा हि तन्तवः पटं विधारयन्ति तदुपादानत्वादेवं ब्रह्मापि जगद्विधारयति तदुपपादकत्वात् । तन्मर्यादानां च विधारकं ब्रह्म । इतरथातिचपलस्थूलबलवत्कल्लोलमालाकलिलो जलनिधिरिलापरिमण्डलमवगिलेत् । वडवानलो वा विस्फुर्जितज्वालाजटिलो जगद्भस्मसाद्भावयेत् । पवनः प्रचण्डो वाकाण्डमेव ब्रह्माण्डं विघटयेदिति । तथाच श्रुतिः “भीषास्माद्वातः पवते”(तै. उ. २ । ८ । १) इत्यादिका ॥ ३२ ॥
बुद्ध्यर्थः पादवत् ।
मनसो ब्रह्मप्रतीकस्य समारोपितब्रह्मभावस्य वाग्घ्राणश्चक्षुः श्रोत्रमिति चत्वारः पादाः । मनो हि वक्तव्यघ्रातव्यद्रष्टव्यश्रोतव्यान् गोचरान् वागादिभिः सञ्चरतीति सञ्चरणसाधारणतया मनसः पादस्तदिदमध्यात्मम् । आकाशस्य ब्रह्मप्रतीकस्याग्निर्वायुरादित्यो दिश इति चत्वारः पादाः । ते हि व्यापिनो नभस उदर इव गोः पादा विलग्ना उपलक्ष्यन्त इति पादास्तदिदमधिदैवतम् ।
तदनेन पादवदिति वैदिकं निदर्शनं व्याख्याय लौकिकं चेदं निदर्शनमित्याह –
अथवा पादवदिति ।
तद्वदिति ।
इहापि मन्दबुद्धीनामाध्यानव्यवहारायेत्यर्थः ॥ ३३ ॥
स्थानविशेषात्प्रकाशादिवत् ।
बुद्ध्याद्युपाधिस्थानविशेषयोगादुद्भूतस्य जाग्रत्स्वप्नयोर्विशेषविज्ञानस्योपाध्युपशमेऽभिभवे सुषुप्तावस्थानमिति । तथा भेदव्यपदेशोऽपि त्रिविधो ब्रह्मण उपाधिभेदापेक्षयेति । यथा सौधजालमार्गनिवेशिन्यः सवितृभासो जालमार्गोपाधिभेदाद्भिन्ना भासन्ते तद्विगमे तु गभस्तिमण्डलेनैकीभवन्त्यतस्तेन सम्बध्यन्त एवमिहापीति ॥ ३४ ॥
स्यादेतत् । एकीभावः कस्मादिह सम्बन्धः कथञ्चिद्व्याख्यायते न मुख्य एवेत्येतत्सूत्रेण परिहरति –
उपपत्तेश्च ।
स्वमपीत इति हि स्वरूपसम्बन्धं ब्रूते । स्वभावश्चेदनेन सम्बन्धत्वेन स्पृष्टस्ततः स्वाभाविकस्तादात्म्यान्नातिरिच्यत इति तर्कपाद उपपादितमित्यर्थः । तथा भेदोऽपि त्रिविधो वान्यादृशः स्वाभाविक इत्यर्थः ॥ ३५ ॥
तथान्यप्रतिषेधात् ।
सुगमेन भाष्येण व्याख्यातम् ॥ ३६ ॥
अनेन सर्वगतत्वमायामशब्दादिभ्यः ।
ब्रह्माद्वैतसिद्धावपि न सर्वगतत्वं सर्वव्यापिता सर्वस्य ब्रह्मणा स्वरूपेण रूपवत्त्वं सिध्यतीत्यत आह –
अनेन सेत्वादिनिराकरणेन ।
परहेतुनिराकरणेनान्यप्रतिषेधसमाश्रयणेन च स्वसाधनोपन्यासेन च सर्वगतत्वमप्यात्मनः सिद्धं भवति । अद्वैते सिद्धे सर्वोऽयमनिर्वचनीयः प्रपञ्चावभासो ब्रह्माधिष्ठान इति सर्वस्य ब्रह्मसम्बन्धाद्ब्रह्म सर्वगतमिति सिद्धम् ॥ ३७ ॥
फलमत उपपत्तेः ।
सिद्धान्तोपक्रममिदमधिकरणम् ।
स्यादेतत् । नित्यशुद्धबुद्धमुक्तस्वभावस्य ब्रह्मणः कुत ईश्वरत्वं कुतश्च फलहेतुत्वमपीत्यत आह –
तस्यैव ब्रह्मणो व्यावहारिक्यामिति ।
नास्य पारमार्थिकं रूपमाश्रित्यैतच्चिन्त्यते किन्तु सांव्यवहारिकम् । एतच्च “तपसा चीयते ब्रह्म”(मु.उ. १-१-८) इति व्याचक्षाणैरस्माभिरुपपादितम् । इष्टम्फलं स्वर्गः । यथाहुः “यन्न दुःखन सम्भिन्नं नच ग्रस्तमनन्तरम् । अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम्” इति । अनिष्टमवीच्यादिस्थानभोग्यं, व्यामिश्रं मनुष्यभोग्यम् । तत्र तावत्प्रतिपाद्यतेफलमत ईश्वरात्कर्मभिराराधिताद्भवितुमर्हति ।
अथ कर्मण एव फलं कस्मान्न भवतीत्यत आह –
कर्मणस्त्वनुक्षणविनाशिनःप्रत्यक्षविनाशिन इति ।
चोदयति –
स्यादेतत्कर्म विनश्यदिति ।
उपात्तमपि फलं भोक्तुमयोग्यत्वाद्वा कर्मान्तरप्रतिबन्धाद्वा न भुज्यत इत्यर्थः ।
परिहरति –
तदपि न परिशुध्यतीति ।
नहि स्वर्ग आत्मानं लभतामित्यधिकारिणः कामयन्ते किन्तु भोग्योऽस्माकम्भवत्विति । तेन यादृशमेभिः काम्यते तादृशस्य फलत्वमिति भोग्यमेव सत्फलमिति । नच तादृशं कर्मानन्तरमिति कथं फलं, सदपि स्वरूपेण । अपिच स्वर्गनरकौ तीव्रतमे सुखदुःखे इति तद्विषयेणानुभवेन भोगापरनाम्नावश्यं भवितव्यम् । तस्मादनुभवयोग्ये अननुभूयमाने शशशृङ्गवन्न स्त इति निश्चीयते ।
चोदयति –
अथोच्येत मा भूत्कर्मानन्तरं फलोत्पादः । कर्मकार्यादपूर्वात्फलमुत्पत्स्यत इति ।
परिहरति –
तदपि नेति ।
यद्यदचेतनं तत्तत्सर्वं चेतनाधिष्ठितं प्रवर्तत इति प्रत्यक्षागमाभ्यामवधारितम् । तस्मादपूर्वोणाप्यचेतनेन चेतनाधिष्ठितेनैव प्रवर्तितव्यं नान्यथेत्यर्थः ।
न चापूर्वं प्रामाणिकमपीत्याह –
तदस्तित्वे इति ॥ ३८ ॥
श्रुतत्वाच्च ।
अन्नादः अन्नप्रदः ॥ ३९ ॥
सिद्धान्तेनोपक्रम्य पूर्वपक्षं गृह्णाति –
धर्मं जैमिनिरत एव ।
श्रुतिमाह –
श्रूयते तावदिति ।
ननु “स्वर्गकामो यजेत” इत्यादयः श्रुतयः फलं प्रति न साधनतया यागं विदधति । तथाहि - यदि यागादय एव क्रिया न तदतिरिक्ता भावना तथापि त एव स्वपदेभ्यः पूर्वापरीभूताः साध्यस्वभावा अवगम्यन्त इति न साध्यान्तरमपेक्षन्त इति न स्वर्गेण साध्यान्तरेण सम्बद्धुमर्हन्ति । अथापि तदतिरेकिणी भावानास्ति तथाप्यसौ भाव्यापेक्षापि स्वपदोपात्तं पूर्वावगतं न भाव्यं धात्वर्थमपहाय न भिन्नपदोपात्तं पुरुषविशेषणं च स्वर्गादि भाव्यतया स्वीकर्तुमर्हति । न चैकस्मिन् वाक्ये साध्यद्वयसम्बन्धसम्भवः, वाक्यभेदप्रसङ्गात् । न केवलं शब्दतो वस्तुतश्च पुरुषप्रयत्नस्य भावनायाः साक्षाद्धात्वर्थ एव साध्यो न तु स्वर्गादिस्तस्य तदव्याप्यत्वात् । स्वर्गादेस्तु नामपदाभिधेयतया सिद्धरूपस्याख्यातवाच्यं साध्यं धात्वर्थं प्रति “भूतं भव्यायोपदिश्यते” इति न्यायात्साधनतया गुणत्वेनाभिसम्बन्धः । तथाच पारमर्षं सूत्रम् “द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः” इति । तथाच कर्मणो यागादेर्दुःखत्वेन पुरुषेणासमीहितत्वात् , समीहितस्य च स्वर्गादेरसाध्यत्वान्न यागादयः पुरुषस्योपकुर्वन्त्यनुपकारिणां चैषां न पुरुष ईष्टे अनीशानश्च न तेषु सम्भवत्यधिकारीत्यधिकाराभावप्रतिपादितानर्थक्यपरिहाराय कृत्स्नस्यैवाम्नायस्य निर्मृष्टनिखिलदुःखानुषङ्गनित्यसुखमयब्रह्मज्ञानपरत्वं भेदप्रपञ्चविलयनद्वारेण तथाहि - सर्वत्रैवाम्नाये क्वचित्कस्यचिद्भेदस्य प्रविलयो गम्यते यथा “स्वर्गकामो यजेत” इति शरीरात्मभावप्रविलयः । इह खल्वापाततो देहातिरिक्त आमुष्मिकफलोपभोगसमर्थोऽधिकारी गम्यते । तत्राधिकारस्योक्तेन क्रमेण निराकरणादसतोऽपि प्रतीयमानस्य विचारासहस्योपायतामात्रेणावस्थानादनेन वाक्येन देहात्मभावप्रविलयस्तत्परेण क्रियते । “गोदोहनेन पशुकामस्य प्रणयेत्” इत्यत्राप्यापाततोऽधिकृताधिकारावगमादधिकारिभेदप्रविलयः । निषेधवाक्यानि च साक्षादेव प्रवृत्तिनिषेधेन विधिवाक्यानि चान्यानि “साङ्ग्रहण्या यजेत ग्रामकामः” इत्यादीनि न साङ्ग्रहण्यादिप्रवृत्तिपराण्यपि तूपायान्तरोपदेशेन सेवादिदृष्टोपायप्रतिषेधार्थानि । यथा विषं भुङ्क्षव मास्य गृहे भुङ्क्ष्वेति । तथाच रागाद्यक्षिप्तप्रवृत्तिप्रतिषेधेन शास्त्रस्य शास्त्रत्वमप्युपपद्यते । रागनिबन्धनां तूपायोपदेशद्वारेण प्रवृत्तिमनुजानतो रागसंवर्धनादशास्त्रत्वप्रसङ्गः । तन्निषेधेन तु ब्रह्मणि प्रणिधानमादधच्छास्त्रं शास्त्रं भवेत् । तस्मात्कर्मफलसम्बन्धस्याप्रामाणिकत्वादनादिविचित्राविद्यासहकारिण ईश्वरादेव कर्मानपेक्षाद्विचित्रफलोत्पत्तिरिति । कथं तर्हि विधिः किमत्र कथं प्रवर्तनामात्रत्वाद्विधेस्तस्य चाधिकारमन्तरेणाप्युपपत्तेः ।
नहि यो यः प्रवर्तयति स सर्वोऽधिकृतमपेक्षते । पवनादेः प्रवर्तकस्य तदनपेक्षत्वादिति शङ्कामपाचिकीर्षुराह –
तत्र च विधिश्रुतेर्विषयभावोपगमाद्यागः स्वर्गस्योत्पादक इति गम्यते ।
अन्यथा ह्यननुष्ठातृको याग आपद्येत । अयमभिसन्धिः - उपदेशो हि विधिः । यथोक्तम् “तस्य ज्ञानमुपदेशः”(जै. सू० ११११५) इति । उपदेशश्च नियोज्यप्रयोजने कर्मणि लोकशास्त्रयोः प्रसिद्धः । तद्यथारोग्यकामो जीर्णे भुञ्जीत । एष सुपन्था गच्छतु भवाननेनेति । न त्वज्ञानादिरिव नियोक्तृप्रयोजनस्तत्राभिप्रायस्य प्रवर्तकत्वात् , तस्य चापौरुषेयेऽसम्भवात् । अस्य चोपदेशस्य नियोज्यप्रयोजनव्यापारविषयत्वमनुष्ठात्रपेक्षितानुकूलव्यापारगोचरत्वमस्माभिरुपपादितं न्यायकणिकायाम् । तथाच “स्वर्गकामो यजेत” इत्यादिषु स्वर्गकामादेः समीहितोपाया गम्यन्ते यागादयः । इतरथा तु न साधयितारमनुगच्छेयुः । तदुक्तमृषिणा “असाधकं तु तादर्थ्यात्” इति । अनुष्ठात्रपेक्षितोपायतारहितप्रवर्तनामात्रार्थत्वे यजेतेत्यादीनामसाधकं कर्म यागादि स्यात् । साधयितारं नाधिगच्छेदित्यर्थः । न चैते साक्षाद्भावनाभाव्या अपि कर्त्रपेक्षितसाधनताविध्युपहितमर्यादा भावनोद्देश्या भवितुमर्हन्ति, येन पुंसामनुपकारकाः सन्तो नाधिकारभाजो भवेयुः । दुःखत्वेन कर्मणां चेतनसमीहानास्पदत्वात् । स्वर्गादीनां तु भावनापूर्वरूपकामनोपधानाच्च । प्रीत्यात्मकत्वाच्च । नामपदाभिधेयानामपि पुरुषविशेषणानामपि भावनोद्देश्यतालक्षणभाव्यत्वप्रतीतेः । फलार्थप्रवृत्तभावनाभाव्यत्वलक्षणेन च यागादिसाध्यत्वेन फलार्थप्रवृत्तभावनाभाव्यत्वरूपस्य फलसाध्यत्वस्य समप्रधानत्वाभावेनैकवाक्यसमवायसम्भवात् , भावनाभाव्यत्वमात्रस्य च यागादिसाध्यत्वस्य करणेऽप्यविरोधात् । अन्यथा सर्वत्र तदुच्छेदात् । परश्वादेरपि छिदादिषु तथाभावात् । फलस्य साक्षाद्भावनाव्याप्यत्वविरहिणोऽपि तदुद्देश्यतया सर्वत्र व्यापितया व्यवस्थानात्स्वर्गसाधने यागादौ स्वर्गकामादेरधिकार इति सिद्धम् । न चाप्राप्तार्थविषयाः साङ्ग्रहण्यादियागविधयः परिसङ्ख्यायका नियामका वा भवितुमर्हन्ति । न चाधिकाराभावे देहात्मप्रविलयो वाधिकारिभेदप्रविलयो वा शक्य उपपादयितुम् । आपाततः प्रतिभाने चास्य तत्परत्वमेव नार्थायातपरत्वम् । स्वरसतः प्रतीयमानेऽर्थे वाक्यस्य तादर्थ्ये सम्भवति न सम्पातायातपरत्वमुचितम् । न चैतावता शास्त्रत्वव्याघातः । तस्य स्वर्गाद्युपायशासनेऽपि शास्त्रत्वोपपत्तेः । पुरुषश्रेयोऽभिधायकत्वं हि शास्त्रत्वम् । सरागवीतरागपुरुषश्रेयोऽभिधायकत्वेन सर्वपारिषदतया न तत्त्वव्याघातः । तस्माद्विधिविषयभावोपगमाद्यागः स्वर्गस्योत्पादक इति सिद्धम् ।
कर्मणो वा काचिदवस्थेति ।
कर्मणोऽवान्तरव्यापारः । एतदुक्तं भवति कर्मणो हि फलं प्रति यत्साधनत्वं श्रुतं, तन्निर्वाहयितुं तस्यैवावान्तरव्यापारो भवति । नच व्यापारवति सत्येव व्यापारो नासतीति युक्तम् । असत्स्वप्याग्नेयादिषु तदुत्पत्त्यपूर्वाणां परमापूर्वे जनयितव्ये तदवान्तरव्यापारत्वात् । असत्यपि च तैलपानकर्मणि तेन पुष्टौ कर्तव्यायामन्तरा तैलपरिणामभेदानां तदवान्तरव्यापारत्वात् । तस्मात्कर्मकार्यमपूर्वं कर्मणा फले कर्तव्ये तदवान्तरव्यापार इति युक्तम् ।
यदा पुनः फलोपजननान्यथानुपपत्त्या किञ्चित्कल्प्यते तदा –
फलस्य वा पूर्वावस्था ।
अविचित्रस्य कारणस्येति ।
यदीश्वरादेव केवलादिति शेषः । कर्मभिर्वा शुभाशुभैः कार्यद्वैधोत्पादे रागादिमत्त्वप्रसङ्ग इत्याशयः ॥ ४० ॥
पूर्वं तु बादरायणो हेतुव्यपदेशात् ।
दृष्टानुसारिणी हि कल्पना युक्ता नान्यथा । नहि जातु मृत्पिण्डदण्डादयः कुम्भकाराद्यनधिष्ठिताः कुम्भाद्यारम्भाय विभववन्तो दृष्टाः । नच विद्युत्पवनादिभिरप्रयत्नपूर्वैर्व्यभिचारः, तेषामपि कल्पनास्पदतया व्यभिचारनिदर्शनत्वानुपपत्तेः । तस्मादचेतनं कर्म वापूर्वं वा न चेतनानधिष्ठितं स्वतन्त्रं स्वकार्यं प्रवर्तितुमुत्सहते नच चैतन्यमात्रं कर्मस्वरूपसामान्यविनियोगादिविशेषविज्ञानशून्यमुपयुज्यते, येन तद्रहितक्षेत्रज्ञमात्राधिष्ठानेन सिद्धसाध्यत्वमुद्भाव्येत । तस्मात्तत्तत्प्रासादाट्टालगोपुरतोरणाद्युपजननिदर्शनसहस्रैः सुपरिनिश्चितं यथा चेतनाधिष्ठानादचेतनानां कार्यारम्भकत्वमिति तथा चैतन्यं देवताया असति बाधके श्रुतिस्मृतीतिहासपुराणप्रसिद्धं न शक्यं प्रतिषेद्धुमित्यपि स्पष्टं निरटङ्कि देवताधिकरणे । लौकिकश्चेश्वरो दानपरिचरणप्रणामाञ्जलिकरणस्तुतिमयीभिरतिश्रद्धागर्भाभिर्भक्तिभिराराधितः प्रसन्नः स्वानुरूपमाराधकाय फलं प्रयच्छति विरोधतश्चापक्रियाभिर्विरोधकायाहितामित्यपि सुप्रसिद्धम् । तदिह केवलं कर्म वापूर्वं वा चेतनानधिष्ठितमचेतनं फलं प्रसूत इति दृष्टविरुद्धम् । यथा विनष्टं कर्म न फलं प्रसूत इति कल्प्यते दृष्टविरोधादेवमिहापीति । तथा देवपूजात्मको यागो देवतां न प्रसादयन् फलं प्रसूत इत्यपि दृष्टविरुद्धम् । नहि राजपूजात्मकमाराधनं राजानमप्रसाद्य फलाय कल्पते । तस्माद्दृष्टानुगुण्याय यागादिभिरपि देवताप्रसत्तिरुत्पाद्यते । तथाच देवताप्रसादादेव स्थायिनः फलोत्पत्तेरुपपत्तेः कृतमपूर्वेण । एवमशुभेनापि कर्मणा देवताविरोधनं श्रुतिस्मृतिप्रसिद्धम् । ततः स्थायिनोऽनिष्टफलप्रसवः । नच शुभाशुभकारिणां तदनुरूपं फलं प्रसुवाना देवता द्वेषपक्षपातवतीति युज्यते । नहि राजा साधुकारिणमनुगृह्णन्निगृह्णन् वा पापकारिणं भवति द्विष्टो रक्तो वा तद्वदलौकिकोऽपीश्वरः । यथा च परमापूर्वे कर्तव्ये उत्पत्त्यपूर्वाणामङ्गापूर्वाणां चोपयोगः । एवं प्रधानाराधनेऽङ्गाराधनानामुत्पत्त्याराधनानां चोपयोगः । स्वाम्याराधन इव तदमात्यतत्प्रणयिजनाराधनानामिति सर्वं समानमन्यत्राभिनिवेशात् । तस्माद्दृष्टाविरोधेन देवताराधनात्फलं न त्वपूर्वात्कर्मणो वा केवलाद्विरोधतो हेतुव्यपदेशश्च श्रौतः स्मार्तश्च व्याख्यातः । ये पुनरन्तर्यामिव्यापाराया फलोत्पादनाया नित्यत्वं सर्वसाधारणत्वमिति मन्यमाना भाष्यकारीयमधिकरणं दूषयाम्बभूवुस्तेभ्यो व्यावहारिक्यामीशित्रीशितव्यविभागावस्थायामिति भाष्यं व्याचक्षीत ॥ ४१ ॥
इति श्रीवाचस्पतिमिश्रविरचिते भाष्यविभागे भामत्यां तृतीयस्याध्यायस्य द्वितीयः पादः ॥ २ ॥
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ।
पूर्वेण सङ्गतिमाह –
व्याख्यातं विज्ञेयस्य ब्रह्मण इति ।
निरुपाधिब्रह्मतत्त्वगोचरं विज्ञानं मन्वान आक्षिपति –
ननु विज्ञेयं ब्रह्मेति ।
सावयवस्य ह्यवयवानां भेदात्तदवयवविशिष्टब्रह्मगोचराणि विज्ञानानि गोचरभेदाद्भिद्येरन्नित्यवयवा ब्रह्मणो निराकृताः पूर्वापरादीत्यनेन ।
नच नानास्वभावं ब्रह्म यतः स्वभावभेदाद्भिन्नानि ज्ञानानीत्युक्तम् –
एकरसमिति ।
घनङ्कठिनम् ।
नन्वेकमप्यनेकरूपं लोके दृष्टं, यथा सोमशर्मैकोऽप्याचार्यो मातुलपिता पुत्रो भ्राता भर्ता जामाता द्विजोत्तम इत्यनेकरूप इत्यत उक्तम् –
एकरूपत्वाच्च ।
एकस्मिन् गोचरे सम्भवन्ति बहूनि विज्ञानानि न त्वनेकाकारणीत्युक्तम् –
अनेकरूपाणि ।
रूपमाकारः ।
समाधत्ते –
उच्यते सगुणेति ।
तत्तद्गुणोपाधानब्रह्मविषया उपासनाः प्राणादिविषयाश्च दृष्टादृष्टक्रमुक्तिफला विषयभेदाद्भिद्यन्त इत्यर्थः ।
तत उपपन्नो विमर्श इत्याह –
तेष्वेषा चिन्ता ।
पूर्वपक्षं गृह्णाति –
तत्रेति ।
नाम्नस्तावदिति ।
अस्ति “अथैष ज्योति एतेन सहस्रदक्षिणेन यजेत” इति । तत्र संशयः किं यजेतेति संनिहितज्योतिष्टोमानुवादेन सहस्रदक्षिणालक्षणगुणविधानम् , उतैतद्गुणविशिष्टकर्मान्तरविधानमिति । किं तावत्प्राप्तम् , ज्योतिष्टोमस्य प्रक्रान्तत्वाद्यजेतेति तदनुवादाज्ज्योतिरिति प्रातिपदिकमात्रं पठित्वा एतेनेत्यनुकृष्य कर्मसामानाधिकरण्येन कर्मनामव्यवस्थापनात् , कर्मणश्चानुवाद्यत्वेन तत्तन्त्रस्य नाम्नोऽपि तथैव व्यवस्थापनात् , ज्योतिःशब्दस्य “वसन्ते वसन्ते ज्योतिषा” इति च ज्योतिष्टोमे योगदर्शनात्नामैकदेशेन च नामोपलक्षणस्य लोकसिद्धत्वाद्भीमसेनोपलक्षणभीमपदवत् , अथशब्दस्य चानन्तर्यार्थस्यासम्बन्धित्वेऽनुपपत्तेः, गुणविशिष्टकर्मान्तरविधेश्च गुणमात्रविधानस्य लाघवात् , द्वादशशतदक्षिणायाश्चोत्पत्त्यशिष्टतया समशिष्टतया सहस्रदक्षिणया सह विकल्पोपपत्तेः, प्रकृतस्यैव ज्योतिष्टोमस्य सहस्रदक्षिणालक्षणगुणविधानार्थमयमनुवादो न तु कर्मान्तरमिति प्राप्तम् । एवं प्राप्त उच्यते भवेत्पूर्वस्मिन् गुणविधिर्यदि तदेव प्रकरणं स्यात् । विच्छिन्नं तु तत् । तथाहि संनिधावपि पूर्वासम्बद्धार्थं संज्ञान्तरं प्रतीयमानम् “अन्यायश्चानेकार्थत्वम्” इति न्यायादुत्सर्गतोऽर्थान्तरार्थत्वात्पूर्वबुद्धिं व्यवच्छिनत्त्यपूर्वबुद्धिं च प्रसूत इति लोकसिद्धम् । न जातु देहि देवदत्ताय गामथ देवाय वाजिनमिति देवशब्दाद्देवदत्तं वाजिभाजमवस्यन्ति लौकिकाः । तथा चोपरिष्टात् ‘यजेत’ इति श्रूयमाणमसम्बद्धार्थपदव्यवायात्तत्कर्मबुद्धिमनादधत्तत्र गुणविधानमात्रासमर्थं कर्मान्तरमेव विधत्ते । न चैकत्रानुपपत्त्या लक्षणया ज्योतिःशब्दो ज्योतिष्टोमे प्रवृत्त इत्यसत्यामनुपपत्तौ लाक्षणिको युक्तः । नहि गङ्गायां घोष इत्यत्र गङ्गापदं लाक्षणिकमिति मीनो गङ्गायामित्यत्रापि लाक्षणिकं भवति । भेदेऽपि च प्रथमं संज्ञान्तरेणोल्लिखिते यजिशब्दसामानाधिकरण्यं कर्मनामधेयतामात्रतामावहति नतु संज्ञान्तरोपजनितां भेदधियमपनेतुमुत्सहते । तथा चाथशब्दोऽधिकारार्थः प्रकरणान्तरतामवद्योतयति । एषशब्दश्चाधिक्रियमाणपरामर्शक इति सोऽयं संज्ञान्तराद्भेद इति ।
भवतु संज्ञान्तरात्कर्मभेदः प्रस्तुते तु किमायातमित्यत आह –
अस्ति चात्र वेदान्तान्तरविहितेष्विति ।
यथैव काठकादिसमाख्या ग्रन्थे प्रयुज्यन्त एवं ज्ञानेऽपि लौकिकाः । न चास्ति विशेषो यतो ग्रन्थे मुख्याविज्ञाने गौणी भवेत् । प्रणयनं च ग्रन्थज्ञानयोरभिन्नं प्रवृत्तिनिमित्तम् । तस्माज्ज्ञानस्यापि वाचिका समाख्या । तथाच यदा ज्योतिष्टोमसंनिधौ श्रूयमाणं समाख्यान्तरं तत्प्रतीकमपि कर्मणो भेदकं तदा कैव कथा शाखान्तरीये विप्रकृष्टतमेऽतत्प्रतीकभूतसमाख्यान्तराभिधेये ज्ञात इति । तथा रूपभेदोऽपि कर्मभेदस्य प्रतिपादकः प्रसिद्धो यथा “वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्” इत्येवमादिषु । इदमाम्नयते “तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा” इति । अत्र हि द्रव्यदेवतासम्बन्धानुमितो यागो विधीयते । तदनन्तरं चेदमाम्नायते “वाजिभ्यो वाजिनम्” इति । अत्रेदं सन्दिह्यते किं पूर्वस्मिन्नेव कर्मणि वाजिनं गुणो विधीयते उत कर्मान्तरं द्रव्यदेवतान्तरविशिष्टमपूर्वं विधीयत इति । किं तावत्प्राप्तम् , द्रव्यदेवतान्तरविशिष्टकर्मान्तरविधौ विधिगौरवप्रसङ्गात्कर्मान्तरापूर्वान्तरकल्पनागौरवप्रसङ्गाच्च न कर्मान्तरविधानमपि तु पूर्वस्मिन्नेव कर्मणि वाजिनद्रव्यविधिः । न चोत्पत्तिशिष्टमिक्षागुणावरोधात्तत्र वाजिनमलब्धावकाशं कर्मान्तरं गोचरयतीति युक्तम् । उभयोरपि वाक्ययोः समसमयप्रवृत्तेरामिक्षावाजिनयोरुत्पत्तौ समं शिष्यमाणत्वेन नामिक्षायाः शिष्टत्वम् । तत्कथमनयावरुद्धं कर्म न वाजिनं निविशेत् । न च वैश्वदेवीत्यत्र श्रौत आमिक्षासम्बन्धो विश्वेषां देवानां येन वाजिनसम्बन्धाद्वाक्यगम्याद्बलवान्भवेदुभयोरपि पदान्तरापेक्षप्रतीतितया वाक्यगम्यत्वाविशेषात् । नो खलु वैश्वदेवीत्युक्ते आमिक्षापदानपेक्षामामिक्षामध्यवस्यामः । अस्तु वा श्रौतत्वं तथापि वाजिभ्य इति पदं वाजमन्नमामिक्षा तदेषामस्तीति व्युत्पत्त्या तत्सम्बन्धिनो विश्वान्देवानुपलक्षयति । यद्यपि विश्वदेवशब्दाद्वाजिपदं भिन्नं, येन च शब्देन चोदना तेनैवोद्देशे देवतात्वं न शब्दान्तरेणान्यथार्थैकत्वेन सूर्यादित्यपदयोः सूर्यादित्यचर्वोरेकदैवत्यप्रसङ्गात् , तथापि वाजिन्नितीनेः सर्वनामार्थे स्मरणात्संनिहितस्य च सर्वनामार्थत्वात् , विश्वेषां देवानां च विश्वदेवपदेन संनिधापनात्तत्पदपुरःसरा एवैते वाजिपदेनोपस्थाप्या न तु सूर्यादित्यपदवत्स्वतन्त्राः । तथाच तदुपलक्षणार्थं वाजिपदं विश्वदेवोपहितामेव देवतामुपलक्षयतीति न शब्दान्तरोद्देवताभेदः । ततश्चामिक्षासम्बन्धोपजीवनेन विश्वेभ्यो वाजिनं विधीयमानं नामिक्षया बाध्यते किन्तु तया सह समुच्चीयत इति न कर्मान्तरमपि तु वाक्याभ्यां द्रव्ययुक्तमेकं कर्म विधीयत इति प्राप्त उच्यते स्यादेतदेवं यदि वैश्वदेवीति तद्धितश्रुत्यामिक्षा नोच्येत । तद्धितस्य त्वस्येति सर्वनामार्थे स्मरणात्संनिहितस्य च विशेष्यस्य सर्वनामार्थत्वात्तत्रैव तद्धितस्यापि वृत्तिर्नतु विश्वेषु देवेषु । न तत्सम्बन्धे, नापि तत्सम्बन्धिमात्रे । नन्वेवं सति कस्माद्वैश्वदेवीशब्दमात्रादेव नामिक्षां प्रतीमः किमिति चामिक्षापदमपेक्षामहे । तद्धितान्तस्य पदस्याभिधानापर्यवसानान्न प्रतीमस्तत्पर्यवसानाय चापेक्षामहे । अवसिताभिधानं हि पदं समर्थमर्थधियमाधातुम् । इदं तु संनिहितविशेषाभिधायि तत्संनिधिमपेक्षमाणं संनिधापकमामिक्षापदमपेक्षत इति कुत आमिक्षापदानपेक्ष आमिक्षाप्रत्ययप्रसङ्गः । कुतो वा तत्रानपेक्षा । अतश्च सत्यामपि पदान्तरापेक्षायां यत्पदं पदान्तरापेक्षमभिधत्ते तत्प्रमाणभूतप्रथमभाविपदावगम्यत्वाच्छ्रौतं बलीयश्च । यत्तु पर्यवसिताभिधानपदाभिहितपदार्थावगमगम्यं तत्तच्चरमप्रतीतिवाक्यगम्यं दुर्बलं चेति तद्धितश्रुत्यवगतामिक्षालक्षणगुणावरोधात्पूर्वकर्मासंयोगि वाजिनद्रव्यं ससम्बन्धि पूर्वस्माद्भिनत्ति । एवंच सति नित्यवदवगतानपेक्षसाधनभावामिक्षा न वाचिनद्रव्येण सह विकल्पसमुच्चयौ प्राप्स्यति । नचाश्वत्वे निरूढत्वादनपेक्षवृत्ति वाजिपदं कथञ्चिद्यौगिकं सापेक्षावृत्ति विश्वदेवशब्दां देवतां वैश्वदेवीपदादामिक्षाद्रव्यं प्रत्युपसर्जनीभूतामवगतामुपलक्षयिष्यति । प्रकृतं हि सर्वनामपदगोचरः । प्रधानं च प्रकृतमुच्यते नोपसर्जनम् । प्रामाणिके च विधिकल्पनागौरवे अभ्युपेतव्ये एव प्रमाणस्य तत्त्वविषयत्वात् । तस्माद्यथेह पूर्वकर्मासम्भविनो गुणात्कर्मभेद एवमिहापि पञ्चाग्निविद्यायाः षडग्निविद्या भिन्ना, एवं प्राणसंवादेषूनाधिकभावेन विद्याभेद इति । तथा धर्मविशेषोऽपि कर्मभेदस्य प्रतिपादक इति । तथाहि कारीरीवाक्यान्यधीयानास्तैत्तिरीया भूमौ भोजनमाचरन्ति नाचरन्त्यन्ये । तथाग्निमधीयानाः केचिदुपाध्यायस्योदकुम्भमाहरन्ति नाहरन्त्यन्ये । तथाश्वमेधमधीयानाः केचिदश्वस्य घासमानयन्ति नानयन्त्यन्ये । केचित्त्वाचरन्त्यन्यमेव धर्मम् । नच तान्येव कर्माणि भूमिभोजनादिजनितमुपकारमाकाङ्क्षन्ति नाकाङ्क्षन्ति चेति युज्यते । अतोऽवगम्यते भिन्नानि तासु शाखासु कर्माणीति ।
अस्तु प्रस्तुते किमायातमित्यत आह –
अस्ति चात्रेति ।
अन्येषां शाखिनां नास्तीति शेषः ।
एवं पुनरुक्त्यादयोऽपीति ।
“समिधो यजति” इत्यादिषु पञ्चकृत्वोऽभ्यस्तो यजतिशब्दः । तत्र किमेका कर्मभावना किंवा पञ्चैवेति । किं तावत्प्राप्तं, धात्वर्थानुबन्धभेदेन शब्दान्तराधिकरणे भावनाभेदाभिधानाद्धात्वर्थस्य च धातुभेदमन्तरेण भेदानुपपत्तेः “समिधो यजति” इति प्रथमभाविना वाक्येन विहिता कर्मभावना विपरिवर्तमानोपरितनैर्वाक्यैरनूद्यते । नच प्रयोजनाभावादननुवादः प्रमाणसिद्धस्याप्रयोजनस्याननुयोज्यत्वात् । कर्मभावनाभेदे चानेकापूर्वकल्पनाप्रसङ्गादेकापूर्ववान्तरव्यापारमेकं कर्मेति प्राप्तम् । एवं प्राप्त उच्यते - परस्परानपेक्षाणि हि समिदादिवाक्यानीति । सर्वाण्येव प्राथम्यार्हाण्यपि युगपदध्ययनानुपपत्तेः क्रमेणाधीतानीति । न त्वयमेषां प्रयोजकः क्रमः । परस्परापेक्षाणामेकवाक्यत्वे हि प्रयोजकः स्यात् । तेन प्राथम्याभावात्प्राप्तमित्येव नास्तीति कस्य कोऽनुवादः । कथञ्चिद्विपरिवृत्तिमात्रस्यौत्सर्गिकाप्रवृत्तप्रवर्तनालक्षणविधित्वापवादसामर्थ्याभावात् । गुणश्रवणे हि गुणविशिष्टकर्मविधाने विधिगौरवभिया गुणमात्रविधानलाघवाय कर्मानुवादापेक्षायां विपरिवृत्तेरुपकारः । यथा “दध्ना जुहोति” इति दधिविधिपरे वाक्ये विपरिवृत्त्यपेक्षायाम् “अग्निहोत्रं जुहोति” इति विहितस्य होमस्य विपरिवर्तमानस्यानुवादः । न चात्र गुणाद्भेदः, समिदादिपदानां कर्मनामधेयानां गुणवचनत्वाभावात् । अगृह्यमाणविशेषतया च किंवचनविहितकिङ्कर्मानुवादेन कस्य गुणविधित्वमिति न विनिगम्यते । न चापूर्वा नाम ज्योतिरादिवद्विधानसम्बन्धं प्रथममवगतं, यतः पूर्वबुद्धिविच्छेदेन विधीयमानं कर्म पूर्वस्मात्संज्ञातो व्यवच्छिन्द्यात् । किन्तु प्रथमत एव कर्मसामानाधिकरण्येनावगताः समिदादयस्तद्वशात्कर्मनामधेयतां प्रतिपद्यमाना आख्यातस्यानुवादत्वेऽनुवादा विधित्वे विधयो न तु स्वातन्त्र्येण कस्यचिदीशते । तस्मात्स्वरससिद्धाप्राप्तकर्मविधिपरत्वात्कर्मण्ययमभ्यासो भावनानुबन्धभूतानि भिन्दानो भावनां भिनत्ति यथा तथा शाखान्तरविहिता अपि विद्याः शाखान्तरविहिताभ्यो विद्याभ्योऽभ्यासो भेत्स्यतीति । अशक्तेश्च । नह्येकः पुरुषः सर्ववेदान्तप्रत्ययात्मिकामुपासनामुपसंहर्तुं शक्नोति सर्ववेदान्ताध्ययनासामर्थ्यादनधीतार्थोपसंहारेऽध्ययनविधानवैयर्त्यप्रसङ्गात् । प्रतिशाखं भेदे तूपासनानां नायं दोषः । समाप्तिभेदाच्च । केषाञ्चित्शाखिनामोङ्कारसार्वात्म्यकथने समाप्तिः । केषाञ्चिदन्यत्र । तस्मादप्युपासनाभेदः । अन्यार्थदर्शनादपि भेदः । तथाहि “नैतदचीर्णव्रतोऽधीते” इति अचीर्णव्रतस्याध्ययनाभावदर्शनादुपासनाभावः । क्वचिदचीर्णव्रतस्याध्ययनदर्शनादुपासनावगम्यते । तस्मादुपासनाभेद इति ।
अत्र सिद्धान्तमाह –
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ।
तद्व्याचष्टे –
सर्ववेदान्तप्रत्ययानि सर्ववेदान्तप्रमाणानि विज्ञानानि तस्मिंस्तस्मिन् वेदान्ते तानि तान्येव भवितुमर्हन्ति ।
यान्येकस्मिन् वेदान्ते तान्येव वेदान्तान्तरेष्वपीत्यर्थः । चोदनाद्यविशेषात् । आदिशब्देन संयोगरूपाख्याः सङ्गृह्यन्ते । अत्र च चोद्यत इति चोदना पुरुषप्रयत्नः । स हि पुरुषस्य व्यापारः । तत्र खल्वयं होमादिधात्वर्थावच्छिन्ने प्रवर्तते । तस्य देवतोद्देशेन त्यागस्यासेचनादिकस्यावच्छेद्यः पुरुषप्रयत्नः स एव शाखान्तरे यथैवमिहापि प्राणज्येष्ठत्वश्रेष्ठत्ववेदनविषयः पुरुषप्रयत्नः स एव शाखान्तरेष्वपीति । एवं फलसंयोगोऽपि ज्येष्ठश्रेष्ठभवनलक्षणः स एव । रूपमपि तदेव । यथा यागस्य यदेकस्यां शाखायां द्रव्यदेवतारूपं तदेव शाखान्तरेष्वपीति । एवं वेदनस्यापि यदेकत्र प्राणज्येष्ठत्वश्रेष्ठत्वरूपं विषयस्तच्छाखान्तरेष्वपीति ॥ १ ॥
कञ्चिद्विशेषमिति ।
युक्तं यदग्नीषोमीयस्योत्पन्नस्य पश्चादेकादशकपालत्वादिसम्बन्धेऽप्यभेद इति । यथोत्पन्नस्य तस्य सर्वत्र प्रत्यभिज्ञायमानत्वादिह त्वग्निषूत्वपत्तिगत एव गुणभेद इति कथं वैश्वदेवीवन्न भेदक इति विशेषः ।
तमिमं विशेषमभिप्रेत्याशङ्कते सूत्रकारः –
भेदान्नेति चेदिति ।
परिहारः सूत्रावयवः ।
न एकस्यामपीति ।
पञ्चैव साम्पादिका अग्नयो वाजसनेयिनामपि छान्दोग्यानामिव विधीयन्ते । षष्ठस्त्वग्निः सम्पद्व्यतिरेकायानूद्यते न तु विधीयते । वैश्वदेव्यां तूत्पत्तौ गुणो विधीयत इति भवतु भेदः । अथवा छान्दोग्यानामपि षष्ठोऽग्निः पठ्यत एव । अथवा भवतु वाजसनेयिनां षष्ठाग्निविधानं मा च भूच्छान्दोग्यानां तथापि पञ्चत्वसङ्ख्याया अविधानान्नोत्पत्तिशिष्टत्वं सङ्ख्यायाः किन्तूत्पन्नेष्वग्निषु प्रचयशिष्टा सङ्ख्यानूद्यते साम्पादिकानग्नीनवच्छेतुं, तेन येषामुत्पत्तिस्तेषां प्रत्यभिज्ञानात् । अप्रत्यभिज्ञायमानायाश्च सङ्ख्याया अनुवाद्यत्वेनानुत्पत्तेर्विधीयमानस्य चाधिकस्य षोडशिग्रहणवद्विकल्पसम्भवान्न शाखान्तरे ज्ञानभेदः । उत्पत्तिशिष्टत्वेऽसिद्धे प्राणसंवादादयोऽपि भवन्ति प्रत्यभिज्ञानादभिन्नास्तासु तासु शाखास्विति ॥ २ ॥
स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियमः ।
यैराथर्वणिकग्रन्थोपाया विद्या वेदितव्यां तेषामेव शिरोव्रतपूर्वाध्ययनप्राप्तग्रन्थबोधिता फलं प्रयच्छति नान्यथा । अन्येषां तु छान्दोग्यादीनां सैव विद्या चीर्णशिरोव्रतानां फलदेत्याथर्वणग्रन्थाध्ययनसम्बन्धादवगम्यते । तत्सम्बन्धश्च वेदव्रतेनेति “नैतदचीर्णव्रतोऽधीते” इति समाम्नानादवगम्यते । “तेषामेवैतां ब्रह्मविद्यां वदेत”(मु. उ. ३ । २ । १०) इति विद्यासंयोगेऽप्येतामिति प्रकृतपरामर्शिना सर्वनाम्नाध्ययनसम्बन्धाविरोधादाथर्वविहितैव विद्योच्यत इति । सवा होमाः सप्त सौर्यादयः शतौदनान्ता आथर्वणिकानां त एकस्मिन्नेवाथर्वणिकेऽग्नौ क्रियन्ते न त्रेतायाम् ॥ ३ ॥
विद्यैकत्वम् –
दर्शयति च ।
भूयोभूयो विद्यैकत्वस्य वेददर्शनाद्यत्रापि सगुणब्रह्मविद्यानां न साक्षाद्वेद एकत्वमाह तासामपि तत्प्रायपठितानां तद्विधानां प्रायदर्शनादेकत्वमेव । तथाह्यग्र्यप्राये लिखितं दृष्ट्वा भवेदयमग्र्य इति बुद्धिरिति । यच्च काठकादिसमाख्ययोपासनाभेद इति तदयुक्तम् । एता हि पौरुषेय्यः समाख्याः काठकादिप्रवचनयोगात्तासां शाखानां न तूपासनानाम् । नह्येताः कठादिभिः प्रोक्ता नच कठाद्यनुष्ठानमासामितरानुष्ठानेभ्यो विशेष्यते । नच कठप्रोक्तानिमित्तमात्रेण ग्रन्थे प्रवृत्तौ तद्योगाच्च कथञ्चिल्लक्षणयोपासनासु प्रवृत्तौ सम्भवन्त्यामुपासनाभिधानमप्यासां शक्यं कल्पयितुम् । नच तद्भेदाभेदौ ज्ञानभेदाभेदप्रयोजकौ, मा भूद्यथास्वमासामभेदाज्ज्ञानानामेकशाखागतानामैक्यम् । कठादिपुरुषप्रवचननिमित्ताश्चैताः समाख्याः कठादिभ्यः प्राक्नासन्निति तन्निबन्धनो ज्ञानभेदो नासीदिदानीं चास्तीति दुर्घटमापद्येत । तस्मान्न समाख्यातो भेदः । अभ्यासोऽपि नात्र भेदकः । युक्तं यदेकशाखागतो यजत्यभ्यासः समिदादीनां भेदक इति । तत्र हि विधित्वमौत्सर्गिकमज्ञातज्ञापनमप्रवृत्तप्रवर्तनं च कुप्येयाताम्ऽशाखान्तरे त्वध्येतृपुरुषभेदादेकत्वेऽपि नौत्सर्गिकविधित्वव्याकोप इति । अशक्तिरपि न भेदहेतुः स्वाध्यायोऽध्येतव्य इति स्वशाखायामध्ययननियमः । ततश्च शाखान्तरीयानर्थानन्येभ्यस्तद्विद्येभ्योऽधिगम्योपसंहरिष्यति । समाप्तिश्चैकस्मिन्नपि तत्सम्बन्धिनि समाप्ते तस्य व्यपदिश्यते । यथाध्वर्यवे कर्मणि ज्योतिष्टोमस्य समाप्तिं व्यपदिशन्ति “ज्योतिष्टोमः समाप्तः” इति तस्मात्समाप्तिभेदोऽपि न साधनमुपासनाभेदस्य । तदेवमसति बाधके चोदनाद्यविशेषात्सर्ववेदान्तप्रत्ययानि कर्माणि तानि तान्येवेति सिद्धम् ॥ ४ ॥
कञ्चिद्विशेषमाशङ्क्य पूर्वतन्त्रप्रसाधितम् । वक्ष्यमाणार्थसिद्ध्यर्थमर्थमाह स्म सूत्रकृत् ॥ चिन्ताप्रयोजनप्रदर्शनार्थं सूत्रम् –
उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ।
अत्रैदमाशङ्कते भवतु सर्वशाखाप्रत्ययमेकं विज्ञानं तथापि शाखान्तरोक्तानां तदङ्गान्तराणां न शाखान्तरोक्ते तस्मिन्नुपसंहारो भवितुमर्हति । तस्यैकस्य कर्मणो यावन्मात्रमङ्गजातमेकस्यां शाखायां विहितं तावान्मात्रेणैवोपकारसिद्धेरधिकानपेक्षणात् । अपेक्षणे चाधिकमपि तत्र विधीयेत । नच विहितम् । तस्माद्यथा नैमित्तिकं कर्म सकलाङ्गवद्विहितमपि अशक्तौ यावच्छक्यमङ्गमनुष्ठातुं तावन्मात्रजन्येनोपकारेणौपकृतं भवत्येवमिहाप्यङ्गान्तराविधानादेव भविष्यतीति । एवं प्राप्त उच्यते सर्वत्रैकत्वे कर्मणः स्थिते गृहमेधीयन्यायेन नोपकारावच्छेदो युज्यते । नहि तदेव कर्म सत्तदङ्गमपेक्षते नापेक्षते चेति युज्यते । नैमित्तिके तु निमित्तानुरोधादवश्यकर्तव्ये सर्वाङ्गोपसंहारस्य सदातनत्वासम्भवादुपकारावच्छेदः कल्प्यते । प्राकृतोपकारपिण्डे चोदकप्राप्ते आज्यभागविधानाद्गृहमेधीयेऽप्युपकारावच्छेदः स्यात् । इह तु शाखान्तरे कतिपयाङ्गविधानं तानि विधत्ते नेतराणि परिसञ्चष्टे । नच तदुपकारपिण्डे चोदकप्राप्ते आज्यभागवत्तन्मात्रविधानम् । तस्मात्तत्त्वेन कर्मणां सर्वाङ्गसङ्गम औत्सर्गिकोऽसति बलवति बाधके नापवदितुं युक्त इति ॥ ५ ॥
अन्यथात्वं शब्दादिति चेन्नाविशेषात् ।
द्वया द्विप्रकाराः प्राजापत्या देवाश्चासुराश्च । ततः कानीयसा एव देवा ज्यायसा असुराः । शास्त्रजन्यया सात्त्विक्या बुद्ध्या सम्पन्ना देवाः । ते हि दीव्यन्त इति देवाः । शास्त्रयुक्त्यपरिकल्पितमतयस्तामसवृत्तिप्रधाना असुरा असुभिः प्राणैरनिन्द्रियैरगृहीतैस्तेषु तेषु विषयेषु रमन्त इत्यसुरा अत एव ते ज्यायांसः । यतोऽमी तत्त्वज्ञानवन्तः कानीयसास्तु देवाः । अज्ञानपूर्वकत्वात्तत्त्वज्ञानस्य । प्राणस्य प्रजापतेः सात्त्विकवृत्त्युद्भवस्तामसवृत्त्यभिभवः कदाचित् । कदाचित्तामसवृत्त्युद्भवोऽभिभवश्च सात्त्विक्या वृत्तेः । सेयं स्पर्धा । ते ह देवा ऊचुः, हन्त असुरान् यज्ञ उद्गीथेनात्ययाम असुरान् जयामास्मिन्नाभिचारिके यज्ञ उद्गीथलक्षणसामभक्त्युपलक्षितेनोद्गात्रेण कर्मणेति । ते ह वाचमूचुरित्यादिना सन्दर्भेण वाक्प्राणचक्षुःश्रोत्रमनसामासुरपाप्मविद्धतया निन्दित्वा अथ हेममासन्यमास्ये भवमासन्यं मुखान्तर्बिलस्थं मुख्यं प्राणं प्राणाभिमानवतीं देवतामूचुस्त्वं न उद्गायेति । तथेत्यभ्युपगम्य तेभ्य एव प्राण उदगायत्तेऽसुरा विदुरनेन प्राणेनोद्गात्रा नोऽस्मान् देवा अत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाविध्यन्नसुरा यथाश्मानमृत्वा प्राप्य मृत्त्वाल्लोष्टो वा विध्वंसत एवं विध्वंसमाना विष्वञ्चोऽसुरा विनेशुः ।
तदेतत्सङ्क्षिप्याह –
वाजसनेयक इति ।
तथा छान्दोग्येऽप्येतदुक्तमित्याह –
तथा छान्दोग्येऽपीति ।
विषयं दर्शयित्वा विमृशति –
तत्र संशय इति ।
पूर्वपक्षं गृह्णाति –
विद्यैकत्वमिति ।
पूर्वपक्षमाक्षिपति –
ननु न युक्तमिति ।
एकत्रोद्गातृत्वेनोच्यते प्राण एकत्र चोद्गानत्वेन क्रियाकर्त्रोश्च स्फुटो भेद इत्यर्थः ।
समाधत्ते –
नैष दोष इति ।
बहुतररूपप्रत्यभिज्ञा नादप्रत्यभिज्ञायमानं किञ्चिल्लक्षणया नेतव्यम् ।
न केवलं शाखान्तरे, एकस्यामपि शाखायां दृष्टमेतन्न च तत्र विद्याभेद इत्याह –
वाजसनेयकेऽपि चेति ।
बहुतररूपप्रत्यभिज्ञानानुग्रहाय चोमित्यनेनापि उद्गीथावयवेन उद्गीथ एव लक्षणीय इति पूर्वपक्षः ॥ ६ ॥
न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ।
बहुतरप्रत्यभिज्ञानेऽपि उपक्रमभेदात्तदनुरोधेन चोपसंहारवर्णनादेकस्मिन्वाक्ये तस्यैव चोद्गीथस्य पुनःपुनः सङ्कीर्तनाल्लक्षणायां च छान्दोग्ये वाजसनेयके प्रमाणाभावाद्विद्याभेद इति राद्धान्तः । ओङ्कारस्योपास्यत्वं प्रस्तुत्य रसतमादिगुणोपव्याख्यानमोङ्कारस्य । तथाहि भूतपृथिव्योषधिपुरुषवागृक्साम्नां पूर्वस्योत्तरमुत्तरं रसतया सारतयोक्तम् । तेषां सर्वेषां रसतम ओङ्कार उक्तश्छान्दोग्ये ।
नच विवक्षितार्थभेद इति ।
एकत्रोद्गीथोद्गातारावुपास्यत्वेन विवक्षितावेकत्र तदवयव ओङ्कार इति । तथा ह्यभ्युदयवाक्ये इति । एवं हि श्रूयते “विवा एतं प्रजया पशुभिरर्धयति वर्धयत्यस्य भ्रातृव्यं यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति स त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं निर्वपेद्ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुं ये क्षोदिष्ठास्तान् विष्णवे शिपिविष्टाय शृते चरुम्” इति । तत्र सन्देहः किं कालापराधे यागान्तरमिदं चोद्यत उत तेष्वेव कर्मसु प्रकृतेषु कालापराधे निमित्ते देवतापनय इति । एष तावदत्र विषयः अमावास्यायामेव दर्शकर्मार्थं वेदिक्रियाग्निप्रणयनक्रिया व्रतादिश्च यजमानसंस्कारः । दध्यर्थश्च दोहः । प्रतिपदि च दर्शकर्मप्रवृत्तिरित्यनुष्ठानक्रमस्तात्त्विकः । यस्य तु यजमानस्य कुतश्चिद्भ्रमनिबन्धनाच्चतुर्दश्यामेवामावास्याबुद्धौ प्रवृत्तप्रयोगस्य चन्द्रमा अभ्युदीयते तत्रेदं श्रूयते “यस्य हविर्निरुप्तम्” इति । तेन यजमानेनाभ्युदितेनामावास्यायामेव निमित्ताधिकारं परिसमाप्य पुरस्तदहरेव वेद्युद्धरणादिकर्म कृत्वा प्रतिपदि दर्शः प्रवर्तयितव्यः । तत्राभ्युदये किं नैमित्तिकमिदं कर्मान्तरं दर्शाच्चोद्यत उत तस्मिन्नेव दर्शकर्मणि पूर्वदेवतापनयनेन देवतान्तरं विधीयत इति । तत्र हविर्भागमात्रश्रवणाच्चरुविधानसामर्थ्याच्च कर्मान्तरम् । यदि हि पूर्वदेवताभ्यो हवींषि विभजेदिति श्रूयते ततस्तान्येव हवींषि देवतान्तरेण युज्यमानानि न कर्मान्तरं गमयितुमर्हन्ति किन्तु प्रकृतमेव कर्म तद्धविष्कमपनीतपूर्तदेवताकं देवतान्तरयुक्तं स्यात् । अत्र पुनस्त्रेधा तण्डुलान् विभजेदिति हविष एव मध्यमादिक्रमेण विभागश्रवणादनपनीता हविषि पूर्वदेवता इति पूर्वदेवतावरुद्धे हविषि देवतान्तरमलब्धावकाशं श्रूयमाणं कर्मान्तरमेव गोचरयेत् । अपिच प्राप्ते पूर्वस्मिन् कर्मणि दध्नस्तण्डुलानां पयसस्तण्डुलानां चेन्द्रादिदेवता सम्बन्धश्च विधातव्यः । चरुत्वं चात्र विहितं नास्तीति तदपि विधातव्यम् । तथा प्राप्ते कर्मण्यनेकगुणविधानाद्वाक्यं भिद्येत । कर्मान्तरं त्वपूर्वं शक्यमेकेनैव प्रयत्नेनानेकगुणविशिष्टं विधातुमिति निमित्ते कर्मान्तरमेव विधीयते । दर्शस्तु लुप्यते कालापराधादिति प्राप्त उच्यते न कर्मान्तरम् । पूर्वदेवतातो हविषो विभागपूर्वं निमित्ते देवतान्तरविधानात् । चर्वर्थस्य चार्थप्राप्तेः । भवेदेतदेवं यदा त्रेधा तण्डुलान् विभजेदिति तण्डुलानां त्रेधा विभागविधानपरमेतद्वाक्यं स्यादपि तु वाक्यान्तरप्राप्तं तण्डुलानां त्रेधात्वमनूद्य विभजेदित्येतावद्विधत्ते तत्र वाक्यान्तरालोचनया पूर्वदेवताभ्य इति गम्यते तण्डुलानिति त्वविवक्षितं हविरुभयत्ववत् । तथा च ये मध्यमा इत्यादीनि वाक्यान्यपनीते पूर्ववत्देवतासम्बन्धे हविषस्तस्मिन्नेव कर्मण्यप्रत्यूहं देवतान्तरसम्बन्धं विधातुं शक्नुवन्ति । तथाच द्रव्यमुखेन प्रकृतमुखप्रत्यभिज्ञानाद्देवतान्तरसम्बन्धेऽपि न कर्मान्तरकल्पनाभवितुमर्हति । ततश्च समाप्तेऽपि नैमित्तिकाधिकारसिद्ध्यर्थं तान्येव पुनः कर्माण्यनुष्ठेयानि । नच दधनि चरुमिति चरुसप्तम्यर्थयोर्विधानं तयोरप्यर्थप्राप्तत्वात् । प्रकृते हि कर्मणि तण्डुलपेषणप्रथनं पुरोडाशपाकादि दधिपयसी च प्राप्तानि तत्राभ्युदयनिमित्ते दधियुक्तानां पयोयुक्तानां च तण्डुलानां विभजेदिति वाक्येन पूर्वदेवतापनयं कृत्वा ये मध्यमा इत्यादिभिर्वाक्यैर्देवतान्तरसम्बन्धः कृतः । नच प्रभूतदधिपयः संसक्तैरल्पैस्तण्डुलैः पुरोडाशक्रिया सम्भवति । इति पुरोडाशनिवृत्तौ तदर्थस्य प्रथनस्यापि निवृत्तिरनिवृत्तस्तु पाकोऽपवादाभावात्तथा चार्थप्राप्तश्चोद्यते । भवतु वा अनेकवाक्यकल्पनम् । प्रकृताधिकारावगमबलादस्यापि न्याय्यत्वादिति । तस्मात्तदेवेदं कर्म न तु कर्मान्तरमिति सिद्धम् । पशुकामवाक्ये त्वपूर्वकर्मविधिरभ्युदयवाक्यसारूप्येऽपि । “यः पशुकामः स्यात्सोऽमावास्यामिष्ट्वा वत्सानपाकुर्याद्ये स्थविष्ठास्तानग्नये सनिमतेऽष्ठाकपालं निर्वपेद्ये मध्यमास्तान् विष्णवे शिपिविष्टाय शृते चरुं ये क्षोदिष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुम्” इति । अत्र हि अमावास्यामिष्ट्वेति समाप्ते यागे पशुकामेष्टिविधानं नात्र पूर्वस्य कर्मणोऽननुवृत्तेर्यागान्तरविधिरिति युक्तम् ।
परोवरीयस्त्वादिवत् ।
यथोद्गीथोपासनासाम्येऽपि आदित्यगतहिरण्यश्मक्षुत्वादिगुणविशिष्टोद्गीथोपासनातः परोवरीयस्त्वगुणविशिष्टोद्गीथोपासना भिन्ना तद्वदिदमपीति । परस्मात्परो वराच्च वरीयानिति परोवरीयानुद्गीथः परमात्मरूपः सम्पन्नः । अत एव अनन्तः । परमात्मदृष्टिमुद्गीथे भवयितुम् “आकाशो ह्येवैभ्यो भूतेभ्यो ज्यायान्”(छा. उ. १ । ९ । २) इत्याकाशशब्देन परमात्मानं निर्दिशति ॥ ७ ॥
संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ।
स्फुटतरे भेदावगमे संज्ञैकत्वं नाभेदसाधनमतिप्रसङ्गपातात् । अपिच श्रुत्यक्षरालोचनया भेदप्रत्ययोऽन्तरङ्गश्चानपेक्षश्च । संज्ञैकत्वं तु श्रुतिबाह्यतया बहिरङ्गं च पौरुषेयतया सापेक्षं च । तस्माद्दुर्बलं नाभेदसाधनायालमिति ॥ ८ ॥
व्याप्तेश्च समञ्जसम् । अध्यासो नामेति ।
गौणी बुद्धिरध्यासः । यथा माणवकेऽनिवृत्तायामेव माणवकबुद्धिव्यपदेशवृत्तौ सिंहबुद्धिव्यपदेशवृत्तिः सिंहो माणवक इति, एवं प्रतिमायां वासुदेवबुद्धिर्नाम्नि च ब्रह्मबुद्धिस्तथोङ्कार उद्गीथबुद्धिव्यपदेशाविति । अपवादैकत्वविशेषणानि चोक्तानि । एकार्थेऽपि च शब्दद्वयप्रयोगो दृश्यते । यथा वैश्वदेव्यामिक्षा विज्ञानमानन्दम् । व्याख्यायां च पर्यायाणमपि सहप्रयोगो यथा सिन्धुरः करी पिकः कोकिल इति ।
विमृश्यानध्यवसायलक्षणं पक्षं गृह्णाति –
तत्रान्यतम इति ।
सिद्धान्तमाह –
इदमुच्यते व्याप्तेश्च ।
प्रत्यनुवाकं प्रत्यृचमुपक्रमे च समाप्तौ चोकारः सर्दवेदव्यापीति किङ्गतोऽयमोङ्कारस्तत्तदाप्त्यादिगुणविशिष्टस्तस्मै तस्मै कामावाप्त्यादिफलायोपास्यत्वेनाधिक्रियत इत्यपेक्षायामुद्गीथपदेनेति विशिष्यते । उद्गीथपदेनोंकाराद्यवयवघटितसामभक्तिभेदाभिधायिना समुदायस्यावयवभावानुपपत्तेस्तत्सम्बन्ध्यवयव ओङ्कारो लक्ष्यते, न पुनरोङ्कारेणावयविन उद्गीथस्य लक्षणा । ओङ्कारस्यैवोपरिष्टात्तु तत्तद्गुणविशिष्टस्य तत्तत्फलविशिष्टस्य चोपव्याख्यास्यमानत्वात् । दृष्टश्च समुदायशब्दोऽवयवे लक्षणया यथा ग्रामो दग्धः पटो दग्ध इति तदेकदेशदाहे । अध्यासे तु लक्षणा फलकल्पना च । तथाहि आप्त्यादिगुणकप्रणवोपासनादिदमुद्गीथतोपासनं प्रणवस्यान्यत् । नचात्राप्यादि उपासनेष्विव फलं श्रूयते । तस्मात्कल्पनीयम् । उद्गीथसम्बन्धिप्रणवोपासनाधिकारपरे वाक्ये नायं दोषः । अपिच गौण्या वृत्तेर्लक्षणावृत्तिर्बलीयसी लाघवात् । लक्षणाया हि लक्षणीयपरत्वं पदस्य तस्यैव वाक्यार्थान्तर्भावात् । यथा गङ्गायां घोष इति लक्ष्यमाणस्य तीरस्य वाक्यार्थेऽन्तर्भावोऽधिकरणतया । गौर्वाहीक इत्यत्र तु गोसम्बन्धितिष्ठन्मूत्रपुरीषादिलक्षणया न तत्परत्वं गोशब्दस्य । अपितु तत्कक्षाध्यवसिततद्गुणयुक्तवाहीकपरत्वमिति गौण्या वृत्तेर्दुर्बलत्वम् ।
तदिदमुक्तं –
लक्षणायामपि त्विति ।
गौण्यपि वृत्तिर्लक्षणावयवत्वाल्लक्षणोक्ता । यद्यपि वैश्वदेवीपदमामिक्षायां प्रवर्तते तथाप्यर्थभेदः स्फुटतरः । आमिक्षापदं हि रूपेणामिक्षायां प्रवर्तते । वैश्वदेवीपदं तु तस्यामेव विश्वदेवविशिष्टायाम् । एवं हि विज्ञानानन्दयोरपि स्फुटतरः प्रवृत्तिनिमित्तभेदः सत्यपि ब्रह्मण्यैकार्थ्ये । नच व्याख्यानमुभयोरपि प्रसिद्धार्थत्वाद्भिन्नार्थत्वाच्च । शेषमतिरोहितार्थम् ॥ ९ ॥
सर्वाभेदादन्यत्रेमे ।
एवंशब्दस्य सन्निहितप्रकारभेदपरामर्शार्थत्वात्साक्षाच्छब्दोपस्थापितस्य च संनिधानाच्छाखान्तरगतस्य चानुक्रमतया( ? ) संनिधानाभावान्न कौषीतकिप्राणसंवादवाक्ये प्राणस्य वसिष्ठत्वादिभिर्गुणैरुपास्यत्वमपि तु ज्येष्ठश्रेष्ठत्वमात्रेणेति पूर्वः पक्षः । सिद्धान्तस्तु - सत्यं संनिहितं परामृशति एवंकारो न तु शब्दोपात्तमात्रं संनिहितम् । किन्तु यच्छब्दाभिहितार्थनान्तरीयकतया प्राप्तं तदपि हि बुद्धौ संनिहितं संनिहितमेव । यथा “यस्य पर्णमयी जुहूर्भवति” इत्यव्यभिचरितक्रतुसमन्वयया जुह्वोपस्थापितः क्रतुः । तस्मादुपास्यफलप्रत्यभिज्ञानात्तदव्यभिचारिणः प्रकारभेदस्येहानुक्तस्यापि बुद्धौ संनिधानात्प्रकृतपरामर्शिनैवङ्कारेण परामर्शो युक्त इति सिद्धं कौषीतकिब्राह्मणगतेन तावदेवंकारेण शक्यते पराम्रष्टुम् ।
तथाप्यभ्युपेत्यापि ब्रूम इत्याशयवता भाष्यकृतोक्तम् –
तथापि तस्मिन्नेव विज्ञाने वाजसनेयिब्राह्मणगतेनेति ।
श्रुतहानिरिति ।
केवलस्य श्रुतस्य हानिरितरसहितस्य चाश्रुतस्य कल्पना न चेत्यर्थः । अतिरोहितमन्यत् ॥ १० ॥
आनन्दादयः प्रधानस्य ।
गुणवदुपासनाविधानस्य वास्तवगुणव्याख्यानाद्विवेकार्थमिदमधिकरणम् । यथैकस्य ब्रह्मणः । संयद्वामत्वादयः सत्यकामादयश्च गुणा न सङ्कीर्येरन् । एवमानन्दविज्ञानत्वादयो विभुत्वनित्यत्वादिभिर्गुणैः प्रदेशान्तरोक्तैर्न सङ्कीर्येरन् । तत्सङ्करे वा संयद्वामत्वादयोऽपि सत्यकामादिभिः सङ्कीर्येरन् । नहि ब्रह्मणो धर्मिणः सत्त्वे कश्चिद्विशेष इति पूर्वः पक्षः । राद्धान्तस्तु वास्तवविधेययोर्वस्तुधर्मतया चानुष्ठेयतया चाव्यवस्थाव्यवस्थे व्यवतिष्ठेते । वस्तुधर्मो हि यावद्वस्तु व्यवतिष्ठते । नासावेकत्रोक्तोऽन्यत्रानुक्तो नास्तीति शक्यं वक्तुम् । विधेयस्तु पुरुषप्रयत्नतन्त्रः पुरुषप्रयत्नश्च यत्र यावद्गुणविशिष्टे ब्रह्मणि चोदितः स तावत्येवावतिष्ठते नाविहितमपि गुणं गोचरीकर्तुमर्हति । तस्य विधितन्त्रत्वाद्विधेश्च व्यवस्थानात् । तस्मादानन्दविज्ञानादयो ब्रह्मतत्त्वात्मतयोक्ता यत्र यत्र ब्रह्म श्रूयते तत्र तत्रानुक्ता अपि लभ्यन्ते । संयद्वामादयश्चोपासनाप्रयत्नविधिविषया यथाविध्यवतिष्ठन्ते न तु यथावस्त्विति सिद्धम् । प्रियशिरस्त्वादीनां तूपास्यत्वमारोप्य न्यायो दर्शितः । तस्य ( ? )तु संयद्वामादिरुक्तः । मोदनमात्रं मोदः । प्रमोदः प्रकृष्टो मोदस्ताविमौ परस्परापेक्षावुपचयापचयौ ॥ ११ ॥
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ १२ ॥
इतरे त्वर्थसामान्यात् ॥ १३ ॥
आध्यानाय प्रयोजनाभावात् । इन्द्रियेभ्यः परा ह्यर्था इति ।
किमत्र सर्वेषामेवार्थादीनां परत्वं प्रतिपिपादयिषितम् , आहो पुरुषस्यैव तत्प्रतिपादनार्थं चेतरेषां परत्वप्रतिपादनम् । तत्र प्रत्येकमर्थादिपरत्वप्रतिपादनश्रुतेः श्रूयमाणतत्तत्परत्वे च सम्भवति न तत्तदतिक्रमे सर्वेषामेकपरत्वाध्यवसानं न्याय्यम् । न च प्रयोजनाभावादसम्भवः । सर्वेषामेव प्रत्येकं परत्वाभिधानस्याध्यानप्रयोजनत्वात् । तत्तदाध्यानानां च प्रयोजनवत्त्वस्मृतेः । तथाहि स्मृतिः “दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः ॥ बौद्धा दश सहस्राणि तिष्ठन्ति विगतज्वराः । पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः । पुरुषं निर्गुणं प्राप्य कालसङ्ख्या न विद्यते ।”(वायुपुराणम्) इति । प्रामाणिकस्य वाक्यभेदस्याभ्युपेयत्वात्प्रत्येकं तेषामर्थादीनां परत्वपराण्येतानि वाक्यानीति प्राप्त उच्यते इन्द्रियेभ्यः परा ह्यर्था इत्येष तावत्सन्दर्भो वस्तुतत्त्वप्रतिपादनपरः प्रतीयते नाध्यानविधिपरः । तदश्रुतेः । तदत्र यत्प्रत्ययस्य साक्षात्प्रयोजनवत्त्वं दृश्यते तत्प्रत्ययपरत्वं सर्वेषाम् । दृष्टं च विष्णोः परमपदज्ञानस्य निखिलानर्थसंसारकारणाविद्योपशमः । तत्त्वज्ञानोदयस्य विपर्यासोपशमलक्षणत्वेत तत्र तत्र दर्शनात् । अर्थादिपरत्वप्रत्ययस्य तु न दृष्टमस्ति प्रयोजनम् । नच दृष्टे सम्भवति अदृष्टकल्पना न्याय्या । नच परमपुरुषार्थहेतुपरत्वे सम्भवति अवान्तरपुरुषार्थतोचिता । तस्माद्दृष्टप्रयोजनवत्त्वात् , पुरुषपरत्वप्रतिपादनार्थोऽयं सन्दर्भ इति गम्यते ।
किञ्चादरादप्ययमेवास्यार्थ इत्याह –
अपिच परप्रतिषेधेनेति ।
नन्वत्राध्यानविधिर्नास्ति तत्कथमुच्यते आध्यानायेत्यत आह –
आध्यानायेति ॥ १४ ॥
आत्मशब्दाच्च ।
अनधिगतार्थप्रतिपादनस्वभावत्वाप्रमाणानां विशेषतश्चागमस्य, पुरुषशब्दवाच्यस्य चात्मनः स्वयं श्रुत्यैव दुरधिगमत्वावधारणाद्वस्तुतश्च दुरधिगमत्वादर्थादीनां च सुगमत्वात्तत्परत्वमेवार्थादिपरत्वाभिधानस्येत्यर्थः । श्रुतेराशयातिशय इवाशयातिशयः । तत्तात्पर्यतेति यावत् ।
किञ्च श्रुत्यन्तरापेक्षिताभिधानादप्येवमेव । अर्थादिपरत्वे तु स्वरूपेण विवक्षिते नापेक्षितं श्रुतिराचष्टे इत्याह –
अपिच सोऽध्वनः पारमाप्नोतीति ॥ १५ ॥
आत्मगृहीतिरितरवदुत्तरात् ।
श्रुतिस्मृत्योर्हि लोकसृष्टिः परमेश्वराधिष्ठिता परमेश्वरहिरण्यगर्भकर्तृकोपलब्धा सेयमिह महाभूतसर्गमनभिधाय प्राथमिकी लोकसृष्टिरुपलभ्यमानावान्तरेश्वरकार्या प्रागुत्पत्तेरात्मैकत्वावधारणं चावान्तरेश्वरसम्बन्धितया गमयति । पारमेश्वरसर्गस्य महाभूताकाशादित्वादस्य च तद्वैपरीत्यात् । अस्ति हि तस्यैवैकस्य विकारान्तरापेक्षयाग्नत्वमस्ति चेक्षणम् । अपि चैतस्मिन्नैतरेयके पूर्वस्मिन्प्रकरणे प्रजापतिकर्तृकैव लोकसृष्टिरुक्ता । तदनुसारादप्येतदेव विज्ञायते । अपिच ताभ्यो गामानयदित्यादयश्च व्यवहाराः श्रुत्योक्ता विशेषवत्स्वात्मपरमात्मसु प्रसिद्धाः । ततोऽप्यवान्तरेश्वर एव विज्ञायते । आत्मशब्दप्रयोगश्चात्रापि दृष्टस्तस्मादपरात्माभिलापोऽयमिति प्राप्त उच्यते परमात्मनो गृहीतिरिह यथा इतरेषु सृष्टिश्रवणेषु “एतस्मादात्मन आकाशः सम्भूतः”(तै. उ. २ । १ । १)“एतस्मादात्मन आकाशः सम्भूतः”(तै. उ. २ । १ । १) इत्यादिषु । तस्मादुत्तरात्स ऐक्षतेतीक्षणपूर्वकस्रष्टृत्वश्रवणादात्मेत्यवधारणाच्च । एतदभिसंहितम्मुख्यं तावत्सर्गात्प्राक्केवलत्वमात्मपदत्वं स्रष्टृत्वं च परमेश्वरस्यात्र भवतः । तदसत्यामनुपपत्तौ नान्यत्र व्याख्यातुमुचितम् । नच महाभूतसृष्ट्यनभिधानेन लोकसृष्ट्यभिधानमनुपपत्तिबीजम् । आकाशपूर्विकायां वस्तुतो ब्रह्मणः सृष्टौ यथा क्वचित्तेजःपूर्वकसृष्ट्यभिधानं न विरुध्यते “एतस्मादात्मन आकाशः सम्भूतः” इति दर्शनात् । आकाशं वायुं सृष्ट्वेति हि तत्र पूरयितव्यमेवमिहापि महाभूतानि सृष्ट्वेति कल्पनीयम् । सर्वशाखाप्रत्ययत्वेन ज्ञानस्य श्रुतिसिद्ध्यर्थमश्रुतोपलब्धौ यत्नवता भवितव्यं न पुनः श्रुते महाभूतादित्वे सर्गस्य शैथिल्यमादरणीयम् । अपिच स्वाध्यायविध्यधीनग्रहणो वेदराशिरध्ययनविध्यापादितप्रयोजनवदर्थमभिदधानो यथा यथा प्रयोजनाधिक्यमाप्नोति तथा तथानुमन्यतेतराम् । यथा चास्य ब्रह्मगोचरत्वे परमपुरुषार्थौपयिकत्वं नैवमन्यगोचरत्वे ।
तदिदमुक्तम् –
योऽप्ययं व्यापारविशेषानुगम इति ।
नच लोकसर्गोऽपि हिरण्यगर्भव्यापारोऽपि तु तदनुप्रविष्टस्य परमात्मन इत्यत्रैवोक्तम् । तस्मादात्मैवाग्न इत्युपक्रमात्तद्व्यापारेण चेक्षणेन मध्ये परामर्शादुपरिष्टाच्च भेदजातं महाभूतैः सहानुक्रम्य ब्रह्मप्रतिष्ठत्वेन ब्रह्मण उपसंहाराद्ब्रह्माभिलापत्वमेवास्येति निश्चीयते । यत्र तु पुरुषविधादिश्रवणं तस्य भवेत्त्वन्यपरत्वं गत्यन्तराभावादिति सर्वमवदातम् । अपरः कल्पः । सदुपक्रमस्य सन्दर्भस्यात्मोपक्रमस्य च किमैकार्थ्यमाहोस्विदर्थभेदः । तत्र सच्छब्दस्याविशेषेणात्मनि चानात्मनि च प्रवृत्तेर्नात्मार्थत्वं किन्तु समस्तवस्त्वनुगतसत्तासामान्यार्थत्वं तथा चोपक्रमभेदाद्भिन्नार्थत्वम् । स आत्मा तत्त्वमसीति चोपसंहार उपक्रमानुरोधेन सम्पत्त्यर्थतया व्याख्येयः । तद्धि सत्सामान्यं परमात्मतया सम्पादनीयम् । तद्विज्ञानेन च सर्वविज्ञानं महासामान्यस्य सत्तायाः समस्तवस्तुविस्तारव्यापित्वादित्येवं प्राप्त उच्यते आत्मगृहीतिर्वाजसनेयिनामिव छान्दोग्यानामप्युत्तरात्स आत्मा तत्त्वमसीति तादात्म्योपदेशात् । अस्तु तावदात्मव्यातिरिक्तस्य प्रपञ्चस्य सदसत्त्वाभ्यामनिर्वाच्यतया न सत्त्वं, सत्त्वं त्वात्मधातोरेव तत्त्वेन निर्वाच्यत्वात्तस्मादात्मैव सन्निति । अभ्युपेत्याह । सच्छब्दस्य सत्तासामान्याभिधायित्वात्प्रतिव्यक्ति च तस्य प्रवृत्तेरात्मनि चान्यत्र च सच्छब्दप्रवृत्तेः संशये सत्युपसंहारानुरोधेन सदेवेत्यात्मन्येवावस्थाप्यते । नीतार्थोपक्रमानुरोधेन ह्युपसंहारवर्णना न पुनः सन्दिग्धार्थेनोपक्रमेणोपसंहारो वर्णनीयः । अपिच सम्पत्तौ फलं कल्पनीयम् । नच सामान्यमात्रे ज्ञाते विशेषज्ञानसम्भवः । न खल्वाकाराद्वृक्षे ज्ञाते शिंशपादयस्तद्विशेषा ज्ञाता भवन्ति । तदेवमवधारणादि सर्वमनात्मार्थत्वे स्यादनुपपन्नमिति छान्दोग्यस्यात्मार्थत्वमेवेति सिद्धम् । अत्र च पूर्वस्मिन् पूर्वपक्षे हिरण्यगर्भोपासना सिद्धान्ते तु ब्रह्मभावनेति ॥ १६ ॥
अन्वयादिति चेत्स्यादवधारणात् ॥ १७ ॥
कार्याख्यानादपूर्वम् ।
विषयमाह –
छन्दोगा वाजसनेयिनश्चेति ।
अननं प्राणनमनः प्राणः तं प्राणमनग्नं कुर्वन्तः ।
अनग्नताचिन्तनमिति ।
मन्यन्त इति मननं ज्ञानं तद्व्यानपर्यन्तमिति चिन्तनमुक्तम् ।
संशयमाह –
तत्किमिति ।
खुररवमात्रेणापातत उभयविधानपक्षं गृहीत्वा मध्यमं पक्षमालम्बते पूर्वपक्षी –
अथवाचमनमेवेति ।
यद्येवमनग्नतासङ्कीर्तनस्य किं प्रयोजनमित्यत आह –
तस्यैव तु स्तुत्यर्थमिति ।
अयमभिसन्धिःयद्यपि स्मार्तं प्रायत्यार्थमाचमनमस्ति तथापि प्राणोपासनप्रकरणेऽविधानात्तदङ्गत्वेनाप्राप्तमिति विधानमर्थवद्भवति, अनृतवदनप्रतिषेध इव स्मार्ते ज्योतिष्टोमप्रकरणे समाम्नातो नानृतं वदेदिति प्रतिषेधो ज्योतिष्टोमाङ्गतयार्थवानिति ।
राद्धान्तमाह –
एवं प्राप्त इति ।
चोदयति –
नन्वियं श्रुतिरिति ।
परिहरति –
नेति ।
तुल्यार्थयोर्मूलमूलिभावो नातुल्यार्थयोरित्यर्थः ।
अभिप्रायस्थं पूर्वपक्षबीजं निराकरोति –
न चेयं श्रुतिरिति ।
क्रत्वर्थपुरुषार्थयोरनृतवदनप्रतिषेधयोर्युक्तमपौनरुक्तम् । इह तु स्मार्तवाचमनं सकलकर्माङ्गतया विहितं प्राणोपासनाङ्गमपीति व्यापकेन स्मार्तेनाचमनविधिना पुनरुक्तत्वादनर्थकम् । नच स्मार्तस्यानेन पौनरुक्त्यं तस्य च व्यापकत्वादेतस्य च प्रतिनियतविषयत्वादिति ।
मध्यमं पक्षमपाकृत्य प्रथमपक्षमपाकरोति –
अत एव च नोभयविधानम् ।
युक्त्यन्तरमाह –
उभयविधाने चेति ।
उपसंहरति –
तस्मात्प्राप्तमेवेति ।
न चायमनग्नतावाद इति ।
स्तोतव्याभावे स्तुतिर्नोपपद्यत इत्यर्थः । अपिच मानान्तरप्राप्तेनाप्राप्तं विधेयं स्तूयेत । न चानग्नतासङ्कल्पोऽन्यतः प्राप्तो यतः स्तावको भवेत् ।
न चाचमनमन्यतोऽप्राप्तं येन विधेयं सत्स्तूयेतेत्याह –
स्वयं चानग्नतासङ्कल्पस्येति ।
अपि चैकस्य कर्मण एकार्थतैवेत्युचितं तस्य बलवत्प्रमाणवशादनन्यगतित्वे सत्यनेकार्थता कल्प्यते ।
सङ्कल्पे तु कर्मान्तरे विधीयमाने नायं दोष इत्याह –
न चैवं सत्येकस्याचमनस्येति ।
अपिच दृष्टिचोदनासाहचर्याद्दृष्टिचोदनैव न्याय्या न चाचमनचोदनेत्याह –
अपिच यदिदं किञ्चेति ।
यथा हि श्वादिमर्यादस्यान्नस्यात्तुमशक्यत्वादन्नदृष्टिश्चोद्यते एवमिहाप्यपां परिधानासम्भवाद्दृष्टिरेव चोद्यत इत्यन्नदृष्टिविधिसाहचर्याद्गम्यते । अशब्दत्वं च यद्यपि दृष्ट्यभ्यवहारयोस्तुल्यं तथापि दृष्टिः शाब्ददृश्यनान्तरीयकतया साक्षाच्छब्देन क्रियमाणोपलभ्यते । अभ्यवहारस्त्वध्याहरणीयः कथञ्चिद्योग्यतामात्रेणेति विशेषः । किञ्च छान्दोग्यानां वाजसनेयिनां चाचमने प्रायेणाचामन्तीति वर्तमानापदेशः एवं यत्रापि विधिविभक्तिस्तत्रापि जर्तिलयवाग्ववा वा जुहुयादितिवद्विधित्वमविवक्षितम् ।
मन्यन्त इति त्वत्प्राप्तार्थत्वात्समिधो यजतीत्यादिवद्विधिरेवेत्याह –
अपिचाचामन्तीति ।
शेषमतिरोहितार्थम् ॥ १८ ॥
समान एवं चाभेदात् ।
इहाभ्यासाधिकरणन्यायेन पूर्वः पक्षः । द्वयोर्विद्याविध्योरेकशाखागतयोरगृह्ममाणविशेषतया कस्य कोऽनुवाद इति विनिश्चयाभावादज्ञातज्ञापनाप्रवृत्तप्रवर्तनारूपस्य च विधित्वस्य स्वरससिद्धेरुभयत्रोपासनाभेदः । नच गुणान्तरविधानायैकत्रानुवाद उभयत्रापि गुणान्तरविधानोपलब्धेर्विनिगमनाहेत्वभावात्समानगुणानभिधानप्रसङ्गाच्च । तस्मात्समिधो यजतीत्यादिवदभ्यासादुपासनाभेद इति प्राप्त उच्यते - ऐककर्म्यमेकत्वेन प्रत्यभिज्ञानात् । न चागृह्यमाणविशेषता । यत्र भूयांसो गुणा यस्य कर्मणो विधीयन्ते तत्र तस्य प्रधानस्य विधिरितरत्र तु तदनुवादेन कतिपयगुणविधिः । यथा यत्र छत्रचामरपताकाहास्तिकाश्वीयशक्तीकयाष्टीकधानुष्ककार्पाणिकप्रासिकपदातिप्रचयस्तत्रास्ति राजेति गम्यते न तु कतिपयगजवाजिपदातिभाजि तदमात्ये, तथेहापि । न चैकत्र विहितानां गुणानामितरत्रोक्तिरनर्थिका प्रत्यभिज्ञानदार्ढ्यार्थत्वात् । अस्तु वास्मिन्नित्यानुवादो नह्यनुवादानामवश्यं सर्वत्र प्रयोजनवत्त्वम् । अनुवादमात्रस्यापि तत्र तत्रोपलब्धेः । तस्मात्तदेव बृहदारण्यकेऽप्युपासनं तद्गुणेनोपसंहारादिति सिद्धम् ॥ १९ ॥
सम्बन्धादेवमन्यत्रापि ।
यद्येकस्यामपि शाखायां तत्त्वेन प्रत्यभिज्ञानादुपासनस्य तत्र विहितानां धर्माणां सङ्करः । तथा सति सत्यस्यैकसस्याभेदान्मण्डलद्वयवर्तिन उपनिषदोरपि सङ्करप्रसङ्गात् । तस्येति च प्रकृतपरामर्शित्वाद्भेदः । सत्यस्य च प्रधानस्य प्रकृतत्वादधिदैवमित्यस्य विशेषणतयोपसर्जनत्वेनाप्रस्तुतत्वात्प्रस्तुतस्य च सत्यस्याभेदात्पूर्ववद्गुणसङ्करः ॥ २० ॥
इति प्राप्त उच्यते –
न वा विशेषात् ।
सत्यं यत्र स्वरूपमात्रसम्बन्धो धर्माणां श्रूयते तत्रैवं स्वरूपस्य सर्वत्र प्रत्यभिज्ञायमानत्वात्तन्मात्रसम्बन्धित्वाच्च धर्माणाम् । यत्र तु सविशेषणं प्रधानमवगम्यते तत्र सविशेषणस्यैव तस्य धर्माभिसम्बन्धो न निर्विशेषणस्य नाप्यन्यविशेषणसहितस्य । नहि दण्डिनं पुरुषमानयेत्युक्ते दण्डरहितः कमण्डलुमानानीयते । तस्मादधिदैवं सत्यस्योपनिषदुक्ता न तस्यैवाध्यात्मं भवितुमर्हति । यथा चाचार्यस्य गच्छतोऽनुगमनं विहितं न तिष्ठतो भवति, तस्मान्नोपनिषदोः सङ्करः किन्तु व्यवस्थितिः ।
तदिदमुक्तं –
स्वरूपानपायादिति ॥ २१ ॥
दर्शयति च ।
अतिदेशादप्येवमेव तत्त्वे हि नातिदेशः स्यादिति ॥ २२ ॥