अद्वैतशारदा

भामतीव्याख्या

तदन्तरप्रतिपत्त्यधिकरणविषयाः (१)

व्याख्याः

तद­न्त­र­प्र­ति­पत्तौ रंहति सम्परिष्वक्तः प्रश्न­नि­रू­प­णा­भ्याम् । द्विती­य­तृ­ती­या­ध्या­य­यो­र्हे­तु­म­द्भा­व­ल­क्षणं सम्बन्धं दर्शयन् सुखा­व­बो­धा­र्थ­म­र्थ­स­ङ्क्षे­प­माह –
द्वितीयेऽध्याय इति ।
स्मृति­न्या­य­श्रु­ति­वि­रो­ध­प­रि­हा­रेण हि अन­ध्य­व­सा­य­ल­क्ष­ण­म­प्रा­माण्यं परिहृतं तथा च प्रामाण्ये निश्चलीकृते तार्तीयो विचारो भवत्यन्यथा तु निर्बीजतया न सिद्ध्येदिति । अवान्तरसङ्गतिं दर्शयितुं तत्र च जीव­व्य­ति­रि­क्तानि तत्त्वानि जीवोपकरणानि चेत्युक्तम् ।

अध्या­या­र्थ­स­ङ्क्षे­प­मुक्त्वा पादा­र्थ­स­ङ्क्षे­प­माह –
तत्र प्रथमे तावत्पाद इति ।

तस्य प्रयोजनमाह –
वैराग्य इति ।

पूर्वा­प­र­प­रि­शो­ध­नाय भूमिकामारचयति –
जीवो मुख्यप्राणसचिव इति ।

कर­णो­पा­दा­न­व­द्भू­तो­पा­दा­न­स्या­श्रु­त­त्वा­दिति ।
अत्र च कर­णो­पा­दा­न­श्रु­त्यैव भौति­क­त्वा­त्क­र­णानां भूतो­पा­दा­न­सि­द्धे­रि­न्द्रि­यो­पा­दा­ना­ति­रि­क्त­भू­त­वि­व­क्ष­या­धि­क­र­णा­रम्भः । यदि भूता­न्या­दा­या­ग­मि­ष्य­त्तदा तदपि कर­णो­पा­दा­न­व­दे­व­श्रो­ष्यत् । नच श्रूयते तस्मान्न भूतपरिष्वक्तो रंहत्यपि तु कर­ण­मा­त्र­प­रि­ष्वक्तः । नह्या­ग­मै­क­ग­म्येऽर्थे तदभावः प्रमेयाभावं न परि­च्छे­त्तु­म­र्हति ।

नच देहा­न्त­रा­र­म्भा­न्य­था­नु­प­पत्त्या भूतपरिष्वक्तस्य रंहणकल्पनेति युक्तमित्याह –
सुलभाश्च सर्वत्र भूतमात्रा इति ।

द्युपर्जन्य इति ।
इह हि काया­र­म्भ­णा­म­ग्नि­हो­त्रा­पू­र्व­प­रि­णा­म­ल­क्षणं श्रद्धादित्वेन पञ्चधा प्रविभज्य द्युप्र­भृ­ति­ष्व­ग्निषु होत­व्य­त्वे­नो­पा­स­न­मु­त्त­र­मा­र्ग­प्र­ति­प­त्ति­सा­धनं विवक्षन्त्याह श्रुतिः “असौ वाव लोको गौतमाग्निः”(छा. उ. ५ । ४ । १) इत्यादि । अत्र साय­म्प्रा­त­र­ग्नि­हो­त्रा­हुतो, हुते पय आदिसाधने श्रद्धा­पू­र्व­मा­ह­व­नी­या­ग्नि­स­मि­द्धू­मा­र्चि­र­ङ्गा­र­वि­स्फु­लि­ङ्ग­भा­विते कर्त्रा­दि­का­र­क­भा­विते चान्तरिक्षं क्रमे­णो­त्क्राम्य द्युलोकं प्रविशन्त्यौ सूक्ष्मभूते द्रव­द्र­व्य­प­यः­प्र­भृ­त्य­प्स­म्ब­न्धा­द­प्श­ब्द­वाच्ये, श्रद्धा­हे­तु­क­त्वाच्च श्रद्धा­श­ब्द­वाच्ये । तयो­रा­हु­त्यो­र­धि­क­र­ण­म­ग्नि­रन्ये च समि­द्धू­मा­र्चि­र­ङ्गा­र­वि­स्फु­लिङ्गा रूपकत्वेन निर्दिश्यन्ते । असौ वाव द्युलोको गौतमाग्निः । यथा­ग्नि­हो­त्रा­धि­क­र­ण­मा­ह­व­नीय एवं श्रद्धा­श­ब्द­वा­च्या­ग्नि­हो­त्रा­हु­ति­प­रि­णा­मा­व­स्था­रूपाः सूक्ष्मा या आपः श्रद्धा­भा­वि­ता­स्त­द­धि­क­रणं द्युलोकः । अस्यादित्य एव समित् । तेन हीद्धोऽसौ द्युलोको दीप्यतेऽतः समि­न्ध­ना­त्स­मि­त्त­स्या­दि­त्यस्य रश्मयो धूमा इन्ध­ना­दि­वा­दि­त्या­द्र­श्मीनां समुत्थानात् । अहरर्थिः । प्रका­श­सा­मा­न्या­दा­दि­त्य­का­र्य­त्वाच्च । चन्द्रमा अङ्गारः । अर्चिषः प्रश­मेऽ­भि­व्यक्तेः । नक्षत्राप्यस्य विस्फुलिङ्गाः चन्द्र­म­सोऽ­ङ्गा­र­स्या­व­यवा इव विप्र­की­र्ण­ता­सा­मा­न्या­द्वि­स्फु­लिङ्गः । तदेतस्मिन्नग्नौ देवा यजमानप्राणा अग्न्यादिरूपा अधिदेवम् । श्रद्धां जुह्वति श्रद्धा चोक्ता । पर्जन्यो वाव गौतमाग्निः पर्जन्यो नाम वृष्ट्यु­प­क­र­णा­भि­मानी देवताविशेषः । तस्य वायुरेव समित् । वायुना हि पर्जन्योऽग्निः समिध्यते, पुरो­वा­ता­दि­प्रा­बल्ये वृष्टिदर्शनात् । अभ्रं धूमः । धूम­का­र्य­त्वा­त्धू­म­सा­दृ­श्याच्च । विद्युदर्चिः । प्रका­श­सा­मा­न्यात् । अशनिरङ्गाराः काठि­न्या­द्वि­द्यु­त्स­म्ब­न्धाच्च । गर्जितं मोघानां विस्फुलिङ्गाः विप्र­की­र्ण­ता­सा­मा­न्यात् । तस्मिन्देवा यजमानप्राणा अग्निरूपाः सोमं राजानं जुह्वति तस्य सोम­स्या­हु­ते­र्वर्षं भवति । एतदुक्तं भवति श्रद्धाख्या आपो द्युलो­क­मा­हु­ति­त्वेन प्रविश्य चन्द्राकारेण परिणताः सत्यो द्वितीये पर्याये पर्जन्याग्नौ हुता वृष्टित्वेन परिणमन्त इति । “पृथिवी वाव गौतमाग्निः”(छा. उ. ५ । ६ । १) तस्य पृथि­व्या­ख्य­स्याग्नैः संवत्सर एव समित् । संवत्सरेण कालेन हि समिद्धा भूमि­र्व्री­ह्या­दि­नि­ष्प­त्तये कल्पते । आकाशो धूमः पृथि­व्य­ग्ने­रु­त्थित इवाकाशो दृश्यते । रात्रिरर्चिः पृथिव्याः श्यामाया अनुरूपा श्यामतया रात्रि­र­ग्ने­रि­वा­नु­रू­प­मर्चिः । दिशोङ्गाराः प्रगे रात्रि­रू­पा­र्चिः­श­मने उपशान्तानां प्रसन्नानां दिशां दर्शनात् । अवान्तरदिशो विस्फुलिङ्गाः क्षुद्र­त्व­सा­म्यात् । तस्मिन्नग्नौ श्रद्धा­सो­म­प­रि­णा­म­क्र­मे­णा­गता अपो वृष्टिरूपेण परिणता देवा जुह्वति तस्या आहुतेरन्नं व्रीहियवादि भवति । पुरुषो वाव गौतमाग्निस्तस्य वागेव समित् । वाचा खल्वयं ताल्वा­द्य­ष्ट­स्था­न­स्थि­तया वर्ण­प­द­वा­क्या­भि­व्य­क्ति­क्र­मे­णा­र्थ­जातं प्रकाशयन् समिध्यते । प्राणो धूमः । धूम­व­न्मु­खा­न्नि­र्ग­मात् । जिह्वार्चिः लोहि­त­त्व­सा­म्यात् । चक्षुरङ्गाराः प्रभाश्रयत्वात् । श्रोत्रं विस्फुलिङ्गाः विप्र­की­र्ण­त्वात् । ता एवापः श्रद्धा­दि­प­रि­णा­म­क्र­मे­णा­गताः व्रीह्यादिरूपैः परिणता सत्यः पुरुषेऽग्नौ हुतास्तासां परिणामो रेतः सम्भवति । योषा वाव गौतमाग्निः तस्या उपस्थ एव समित् । तेन हि सा पुत्रा­द्यु­त्पा­द­नाय समिध्यते यदुपमन्त्रयते स धूमः । स्त्रीस­म्भ­वा­दु­प­म­न्त्र­णस्य लोमानि वा धूमः योनिरर्चिः लोहितत्वात् । यदन्तः करोति मैथुनं तेऽङ्गाराः । अभिनन्दाः सुखलवा विस्फुलिङ्गाः, क्षुद्रत्वात् । तस्मि­न्ने­त­स्मि­न्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः सम्भवति । एवं श्रद्धा­सो­म­व­र्षा­न्न­रे­तो­ह­व­न­क्र­मेण योषाग्निं प्राप्यापो गर्भाख्या भवन्ति । तत्रा­प्स­म­वा­यि­त्वा­दापः पुरुषवचसो भवन्ति पञ्च­म्या­मा­हु­ता­विति । यतः पञ्च­म्या­मा­हु­ता­वापः पुरुषवचसो भवन्ति तस्मादद्भिः परिवेष्टितो जीवो रहतीति गम्यते । एतदुक्तं भवति श्रद्धा­श­ब्द­वाच्या आप इत्यग्रे वक्ष्यति तासां त्रिवृत्कततया तेजोऽ­न्ना­वि­ना­भा­वे­ना­ब्ग्र­ह­णेन तेजोन्नयोरपि सङ्ग्रह इत्येतदपि वक्ष्यते । यद्यप्येतावतापि भूतवेष्टितस्य जीवस्य रंहणं नावगम्यते तेजोबन्नानां पञ्चम्यामाहुतौ पुरु­ष­व­च­स्त्व­मा­त्र­श्र­व­णात् , तथा­पी­ष्टा­दि­का­रिणां धूमादिना पितृयाणेन पथा चन्द्र­लो­क­प्रा­प्ति­क­थ­न­प­रया “आका­शा­च्च­न्द्र­म­स­मेष सोमो राट्”(छा. उ. ५ । १० । ४) इति श्रुत्या सह “श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति”(छा. उ. ५ । ४ । २) इत्यस्याः श्रुतेः मानत्वाद्गम्यते भूतपरिष्वक्तो रंहतीति । तथाहि या एवापो हुता द्विती­य­स्या­मा­हुतौ सोमभावं गतास्ताभिरेष परिष्वक्तो जीव इष्टादिकारी चन्द्रभूयं गतश्चन्द्रलोकं प्राप्त इति । ननु स्वतन्त्रा आपः श्रद्धादिक्रमेण सोम­भा­व­मा­प्नु­वन्तु ताभिरपरिष्वक्त एव तु जीवः सेन्द्रियमात्रो गत्वा सोमभावमनुभवतु । को दोषः । अयं दोषः । यतः श्रुति­सा­मा­न्या­ति­क्रम इति । एवं हि श्रुतिसामान्यं कल्पेत यदि येन रूपेण येन च क्रमेणापां सोमभावस्तेनैव जीवस्यापि सोमभावो भवेत् । अन्यथा तु न श्रुतिसामान्यं स्यात् । तस्मा­त्प­रि­ष्व­क्ता­प­रि­ष्व­क्त­रं­ह­ण­वि­शये श्रुति­सा­मा­न्या­नु­रो­धेन परिष्वक्तरंहणं निश्चीयते । अतो दधिपयःप्रभृतयो द्रव­भू­य­स्त्वा­दापो हुताः सूक्ष्मीभूता इष्टा­दि­का­रि­ण­मा­श्रिता नेन्धनेन विधिना देहे हूयमाने हुताः सत्य आहुतिमय्य इष्टादिकारिणं परिवेष्ट्य स्वर्गं लोकं नयन्तीति ।

चोदयति –
नन्वन्या श्रुतिरिति ।
अयमर्थः एवं हि सूक्ष्म­दे­ह­प­रि­ष्वक्तो रंहेत्यद्यस्य स्थूलं शरीरं रंहतो न भवेत् । अस्ति त्वस्य वर्त­मा­न­स्थू­ल­श­री­र­योग आदे­हा­न्त­र­प्रा­प्ते­स्तृ­ण­ज­ला­यु­का­नि­द­र्श­नेन, तस्मा­न्नि­द­र्श­न­श्रु­ति­वि­रो­धान्न सूक्ष्म­दे­ह­प­रि­ष्वक्तो रंहतीति ।

परिहरति –
तत्रापीति ।
न तावत्परमात्मनः संसरणसम्भवः, तस्य नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भा­व­त्वात् । किन्तु जीवानाम् । परमात्मैव चोपा­धि­क­ल्पि­ता­व­च्छेदो जीव इत्याख्यायते, तस्य च देहे­न्द्रि­या­दे­रु­पाधेः प्रादे­शि­क­त्वान्न तत्र सन् देहान्तरं गन्तुमर्हति । तस्मा­त्सू­क्ष्म­दे­ह­प­रि­ष्वक्तो रंह­ति­क­र्मो­प­स्था­पितः प्रतिपत्तव्यः प्राप्तव्यो यो देहस्तद्विषयाया भावनाया उत्पादनाया दीर्घीभावमात्रं जलूकयोपमीयते ।

साङ्ख्यानां कल्पनामाह –
व्यापिनां करणानामिति ।
आह­ङ्का­रि­क­त्वा­त्क­र­णा­ना­म­ह­ङ्का­रस्य च जग­न्म­ण्ड­ल­व्या­पि­त्वा­त्क­र­णा­ना­मपि व्यापितेत्यर्थः ।

बौद्धानां कल्पनामाह –
केवलस्यैवात्मन इति ।
आल­य­वि­ज्ञा­न­स­न्तान आत्मा तस्य वृत्तिः षट्प्र­वृ­त्ति­वि­ज्ञा­नानि । पञ्चेन्द्रियाणि तु चक्षुरादीनि अभिनवानि जायन्ते ।

कण­भु­क्क्ल्प­ना­माह –
मन एव चेति ।
भोगस्थानं भोगायतनं शरीरमभिनवमिति यावत् ।

दिग­म्ब­र­क­ल्प­ना­माह –
जीव एवोत्प्लुत्येति ।
आदिग्रहणेन लोकायतिकानां कल्पनां सङ्गृह्णाति । ते हि शरीरात्मवादिनो भस्मीभावमात्मन आहुर्न कस्यचिद्गमनमिति ॥ १ ॥

चोदयति –
ननू­दा­हृ­ता­भ्या­मिति ।

अत्र सूत्रेणोत्तरमाह –
त्र्यात्म­क­त्वात्तु भूयस्त्वात् ।
तेजसः कार्य­म­शि­त­पी­ता­हा­र­प­रि­पाकः । अपां कार्यं स्नेहस्वेदादि । पृथिव्याः कार्यं गन्धादि ।

यस्तु गन्ध­स्वे­द­पा­क­प्रा­णा­व­का­श­दा­न­द­र्श­ना­द्दे­हस्य पाञ्चभौतिकत्वं पश्यं­स्ते­जो­ब­न्ना­त्म­क­त्वेन त्र्यात्मकत्वे न परितुष्यति, तं प्रत्याह –
पुनश्च त्र्यात्मक इति ।
वात­पि­त्त­श्ले­ष्म­भि­स्त्रि­भि­र्धा­तुभिः शरी­र­धा­र­णा­त्म­कै­स्त्रि­धा­तु­त्वात् । अतो न स देहो भूतान्तराणि प्रत्याख्याय केव­ला­भि­र­द्भि­रा­रब्धुं शक्यते ।

अब्ग्र­ह­ण­नि­य­म­स्तर्हि कस्मादित्यत आह –
तस्मा­द्भू­य­स्त्वा­पेक्ष इति ।
पृथि­वी­धा­तु­व­र्ज­मि­त­र­तेज आद्यपेक्षया कार्यस्य शरीरस्य लोहि­ता­दि­द्र­व­भू­य­स्त्वा­त्त­त्क­र­ण­यो­श्चो­पा­दा­न­नि­मि­त्त­यो­र्द्र­व­भू­य­स्त्वा­दपां पुरु­ष­व­च­स्त्वो­क्तिर्न पुन­र्भू­ता­न्त­र­नि­रा­सार्था ॥ २ ॥

प्राणगतेश्च ।
प्राणानां जीवद्देहे साश्रयत्वमवगतं गच्छति जीवद्देहे तदनुविधायिनः प्राणा अपि गच्छन्तीति दृष्टम् । अतः षाट्कौशिका देहा­दु­त्क्रा­मन्तः कस्मिं­श्चि­दु­त्क्रा­म­त्यु­त्क्रा­मन्ति । स चैषामनुविधेयः सूक्ष्मो देहो भूतेन्द्रियमय इति गम्यते । नही­न्द्रि­य­मा­त्रा­श्र­य­त्व­मेषां दृष्टं यत­स्त­न्मा­त्रा­श्र­याणां गतिरुपपद्येतेति ॥ ३ ॥

अग्न्या­दि­ग­ति­श्रु­ते­रिति चेन्न भाक्तत्वात् ।
श्रावितेऽपि स्पष्टे जीवस्य प्राणैः सह गम­नेऽ­ग्न्या­दि­ग­ति­शङ्का श्रुति­वि­रो­धो­त्था­प­नार्था । अत्र हि लोम­के­श­यो­रो­ष­धि­व­न­स्प­ति­ग­मनं दृष्ट­वि­रो­धा­द्भाक्तं तावदभ्युपेयम् । एवं च तन्म­ध्य­प­ति­त­त्वेन तेषामपि श्रुति­वि­रो­धा­द्भा­क्त­त्व­मे­वो­चि­त­मिति । भक्ति­श्चो­प­का­र­नि­वृ­त्ति­रुक्ता ॥ ४ ॥

प्रथ­मेऽ­श्र­व­णा­दिति चेन्न ता एव ह्युपपत्तेः ।
पञ्च­म्या­मा­हु­ता­वपां पुरु­ष­व­च­स्त्व­प्र­कारे पृष्टे प्रथमायामाहुतौ अनपां श्रद्धाया होत­व्य­ता­भि­धा­न­स­म्भ­द्ध­म­नु­प­पन्नं च । नहि यथा पश्वादिभ्यो हृदयादयोऽवयवा अवदाय निष्कृष्य हूयन्ते, एवं श्रद्धा बुद्धि­प्र­सा­द­ल­क्षणा निष्क्रष्टुं वा होतुं वा शक्यते । न चाप्ये­व­मौ­त्स­र्गिकी कारणानुरूपता कार्यस्य युज्यते । तस्मा­द्भ­क्त्या­य­मप्सु श्रद्धाशब्दः प्रयुक्त इति । अत एव श्रुतिः “आपो हास्मै”(ऐ .आ. २.१.७.) इति ॥ ५ ॥

अश्रुतत्वादिति चेन्ने­ष्टा­दि­का­रिणां प्रतीतेः ।
अस्यार्थः पूर्वमेवोक्तः । अग्निहोत्रे षट्सू­त्क्रा­न्ति­ग­ति­प्र­ति­ष्ठा­तृ­प्ति­पु­न­रा­वृ­त्ति­लो­क­प्र­त्यु­त्था­यि­ष्व­ग्नि­स­मि­द्धू­मा­र्चि­र­ङ्गा­र­वि­स्फु­लि­ङ्गेषु प्रश्नाः षट् , तेषां यः समाहारः षण्णां सा षट्प्रश्नी, तस्या निरूपणं प्रतिवचनम् ॥ ६ ॥

सूत्रा­न्त­र­म­व­ता­र­यितुं शङ्कते –
कथं पुनरिति ।

सोमं राजा­न­मा­प्या­य­स्वा­प­क्षी­य­स्वे­त्ये­व­मे­नां­स्तत्र भक्षयन्तीति ।
क्रिया­स­म­भि­हा­रे­णा­प्या­य­ना­प­क्षयौ यथा सोमस्य तथा भक्षयन्ति सोम­म­यां­ल्लो­का­नि­त्यर्थः ।

अत उत्तरं पठति –
भाक्तं वाना­त्म­वि­त्त्वा­त्त­थाहि दर्शयति ।
कर्म­ज­नि­त­फ­लो­प­भो­ग­कर्ता ह्यधिकारी न पुन­रु­प­भो­ग्य­स्त­स्मा­च्च­न्द्र­सा­लो­क्य­मु­प­ग­तानां देवा­दि­भ­क्ष्यत्वे ‘स्वर्गकामो यजेत’ इति यागभावनायाः कर्त्र­पे­क्षि­तो­पा­य­ता­रू­प­वि­धि­श्रु­ति­वि­रो­धा­द­न्न­शब्दो भोक्तॄणामेव सतां देवो­प­जी­वि­ता­मा­त्रेण भाक्तो गमयितव्यो न तु चर्व­ण­नि­ग­र­णाभ्यां मुख्य इति ।

अत्रैवार्थे श्रुत्यन्तरं सङ्गच्छत इत्याह –
तथाहि दर्शयति ।
श्रुति­र­ना­त्म­वि­दा­म­ना­त्म­वि­त्त्वा­देव पशु­व­द्दे­वो­प­भो­ग्यतां न तु चर्वणीयतया । यथा हि बलीवर्दादयो भुञ्जाना अपि स्वफलं स्वामिनो हला­दि­व­ह­ने­नो­प­कु­र्वाणा भोग्याः, एवं पर­म­त­त्त्व­म­वि­द्वांस इष्टादिकारिण इह दधि­प­यः­पु­रो­डा­शा­दि­ना­मु­ष्मिंश्च लोके परिचारकतया देवानामुपभोग्या इति श्रुत्यर्थः । अथवा अना­त्म­वि­त्त्वा­त्त­थाहि दर्शयति इत्यस्यान्या व्याख्या । आत्म­वि­त्प­ञ्चा­ग्नि­वि­द्या­वित्न आत्म­वि­त­ना­त्म­वित् । यो हि पञ्चा­ग्नि­विद्यां न वेद तं देवा भक्षयन्तीति निन्द्यते पञ्चा­ग्नि­विद्यां स्तोतुं तस्या एव प्रकृतत्वात् । तदनेनोपचारस्य प्रयोजनमुक्तम् ।

उप­चा­र­नि­मि­त्त­म­नु­प­प­त्ति­माह –
तथाहि दर्शयति ।
श्रुति­र्भो­क्तृ­त्वम् ।

स सोमलोके विभूतिमनुभूयेति ।
शेष­म­ति­रो­हि­ता­र्थम् ॥ ७ ॥

कृता­त्य­येऽ­नु­श­य­वान् दृष्ट­स्मृ­तिभ्यां यथेतमनेवं च ।

याव­त्स­म्पा­त­मु­षि­त्वेति ।
यावदुपबन्धात् ।

यत्किञ्चेह करोत्ययमिति ।
च यत्किञ्चेह कर्म कृतं तस्यान्तं प्राप्येति श्रवणात् , प्रायणस्य चैकप्रघट्टकेन सक­ल­क­र्मा­भि­व्य­ञ्ज­क­त्वात् । न खल्व­भि­व्य­क्ति­नि­मि­त्तस्य साधा­र­ण्येऽ­भि­व्य­क्ति­नि­यमो युक्तः । फल­दा­ना­भि­मु­खी­क­रणं चाभि­व्य­क्ति­स्त­स्मा­त्स­म­स्त­मेव कर्म फलमुपभोजितवत् । स्वफलविरोधि च कर्म । तस्मा­च्छ्रु­ते­रु­प­प­त्तेश्च निरनुशयानामेव चर­णा­दा­चा­रा­द­व­रोहो न कर्मणः । आचारकर्मणी च श्रुतेः प्रसिद्धभेदे । यथाकारी यथाचारी तथा भवतीति । तथाच रमणीयचरणाः कपूयचरणा इत्याचारमेव योनि­नि­मि­त्त­मु­प­दि­शति न तु कर्म । स्तां वा कर्मशीले द्वे अप्य­वि­शे­षे­णा­नु­श­य­स्त­थापि यद्य­प्य­य­मि­ष्टा­पू­र्त­कारी स्वयं निरनुशयो भुक्त­भो­ग­त्वा­त्त­थापि पित्रा­दि­ग­ता­नु­श­य­व­शा­त्त­द्वि­पा­कान् जात्या­यु­र्भो­गां­श्च­न्द्र­लो­का­द­व­रु­ह्या­नु­भ­वि­ष्यति । स्मर्यते ह्यन्यस्य सुकृ­त­दु­ष्कृ­ता­भ्या­म­न्यस्य तत्स­म्ब­न्धि­न­स्त­त्फ­ल­भा­गिता “पतत्यर्धशरीरेण यस्य भार्या सुरां पिबेत्” इत्यादि । तथा श्राद्ध­वै­श्वा­न­री­ये­ष्ट्यादेः पिता­पु­त्रा­दि­गा­मि­फ­ल­श्रुतिः । तस्मा­द्या­व­त्स­म्पा­त­मि­त्यु­प­क्र­मा­नु­रो­धात् “यत्किञ्चेह करोति”(बृ. उ. ४ । ४ । ६)“यत्किञ्चेह करोति”(बृ. उ. ४ । ४ । ६) इति च श्रुत्य­न्त­रा­नु­सा­रा­द्र­म­णी­य­च­र­णत्वं सम्ब­न्ध्य­न्त­र­ग­त­मि­ष्टा­पू­र्त­का­रिणि भाक्तं गमयितव्यम् । तथाच निरनुशयानामेव भुक्त­भो­गा­ना­म­व­रोह इति प्राप्त उच्यतेयेन कर्मकलापेन फलमुपभोजितं तस्मिन्नतीतेऽपि सानुशया एव चन्द्र­म­ण्ड­ला­द­व­रो­हन्ति । कुतः­दृ­ष्ट­स्मृ­ति­भ्याम् । प्रत्यक्षदृष्टा श्रुति­र्दृ­ष्ट­श­ब्द­वाच्या । स्मृति­श्चो­प­न्यस्ता । अथवा दृष्ट­श­ब्दे­नो­च्चा­व­च­रूपो भोग उच्यते । अय­म­भि­स­न्धिः­क­पू­य­च­रणा रमणीयचरणा इत्य­व­रो­हि­ता­मे­त­द्वि­शे­ष­णम् । नच सति मुख्यार्थसम्भवे सम्ब­न्धि­मा­त्रे­णो­प­च­रि­ता­र्थत्वं न्याय्यम् । न चोप­क्र­म­वि­रो­धा­च्छ्रु­त्य­न्त­र­वि­रो­धाच्च मुख्यार्थासम्भव इति साम्प्रतम् । दत्त­फ­ले­ष्टा­पू­र्त­क­र्मा­पे­क्ष­यापि यावत्पदस्य यत्कि­ञ्चे­ति­प­दस्य चोपपत्तेः । नहि ‘याव­ज्जी­व­म­ग्नि­होत्रं जुहुयात्’ इति याव­ज्जी­व­मा­हा­र­वि­हा­रा­दि­स­म­येऽपि होमं विधत्ते नापि मध्याह्नादावपि तु साय­म्प्रा­तः­का­ला­पे­क्षया । साय­म्प्रा­तः­का­ल­वि­धा­न­सा­म­र्थ्यात् , कालस्य चानु­पा­दे­य­त­या­न­ङ्ग­स्यापि निमि­त्ता­नु­प्र­वे­शा­त्त­त्रै­व­मिति चेत् । न । इहापि रमणीयचरणा इत्या­दे­र्मु­ख्या­र्थ­त्वा­नु­रो­धा­त्त­दु­प­पत्तेः । तत्कि­मि­दा­नी­मु­प­सं­हा­रा­नु­रो­धे­नो­प­क्रमः सङ्कोचयितव्यः । नेत्युच्यते । नह्य­सा­वु­प­सं­हा­रा­न­नु­रो­धेऽ­प्य­स­ङ्कु­च­द्वृ­त्ति­रु­प­प­त्तु­म­र्हति । नहि यावन्तः सम्पाता यावतां वा पुंसां सम्पातास्ते सर्वे तत्रे­ष्टा­दि­का­रिणा भोगेन क्षयं नीयन्ते । पुरु­षा­न्त­रा­श्र­याणां कर्माशयानां तद्भोगेन क्षयेऽ­ति­प्र­स­ङ्गात् । चिरोपभुक्तानां च कर्माशयानामसतां चन्द्र­म­ण्ड­लो­प­भो­गे­ना­प­न­य­नात् । तथाच स्वयं सङ्कुचन्ती याव­च्छ्रु­ति­रु­प­सं­हा­रा­नु­रो­ध­प्रा­प्त­मपि सङ्को­च­न­म­नु­म­न्यते । एतेन “यत्किञ्चेह करोति” इत्यपि व्याख्यातम् । अपि चेष्टा­पू­र्त­का­रीह जन्मनि केवलं न तन्मा­त्र­म­का­र्षी­दपि तु गोदोहनेनापः प्रणयन् पशुफलमप्यपूर्वं समचैषीत् । एवमहर्निशं च वाङ्म­नः­श­री­र­चे­ष्टाभिः पुण्या­पु­ण्य­मि­हा­मु­त्रो­प­भोग्यं सञ्चितवतो न मर्त्य­लो­का­दि­भोग्यं चन्द्रलोके भोग्यं भवितुमर्हति । नच स्वफ­ल­वि­रो­धि­नोऽ­नु­श­यस्य ऋते प्राय­श्चि­त्ता­दा­त्म­ज्ञा­ना­द्वा­द­त्त­फ­लस्य ध्वंसः सम्भवति । तस्मा­त्ते­ना­नु­श­ये­ना­य­म­नु­श­य­वान् परावर्तत इति श्लिष्टम् । न चैकभविकः कर्माशय इत्यग्रे भाष्य­कृ­द्व­क्ष्यति ।

अन्ये तु सकलकर्मक्षये परावृत्तिशङ्का निर्बीजेति मन्यमाना अन्यथाधिकरणं वर्ण­या­ञ्च­क्रु­रि­त्याह –
केचि­त्ता­व­दा­हु­रिति ।
अनुशयोऽत्र दत्तफलस्य कर्मणः शेष उच्यते । तत्रेदमिह विचार्यते किं दत्त­फ­ला­ना­मि­ष्टा­पू­र्त­क­र्म­णा­म­व­शे­षा­दि­हा­व­र्तन्ते उत तान्युपभोगेन निरवशेषं क्षप­यि­त्वा­नु­प­भु­क्त­क­र्म­व­शा­दि­हा­व­र्तन्त इति । तत्रेष्टादीनां भोगेन समूलकाषं कषि­त­त्वा­न्नि­र­नु­शया एवा­नु­प­भु­क्त­क­र्म­व­शा­दा­व­र्तन्त इति प्राप्त उच्यते सानुशया एवावर्तन्त इति । कुतः दृष्टानुसारात् । यथा भाण्डस्थे मधुनि सर्पिषि वा क्षालितेऽपि भाण्डलेपकं तच्छेषं मधु वा सर्पिर्वा न क्षालयितुं शक्यमिति दृष्टमेवं तदनुसारादेतदपि प्रतिपत्तव्यम् । न चाव­शे­ष­मा­त्रा­च्च­न्द्र­म­ण्डले तिष्ठासन्नपि स्थातुं पारयति । यथा सेवको हास्ति­का­श्वी­य­प­दा­ति­व्रा­त­प­रि­वृतो महाराजं सेवमानः काल­व­शा­च्छ­त्र­पा­दु­का­व­शेषो न सेवितुमर्हतीति दृष्टं तन्मूला च लौकिकी स्मृतिरिति दृष्ट­स्मृ­तिभ्यां सानुशया एवावर्तन्त इति ।

तदेदद्दूषयति –
न चैतदिति ।
एवकारे प्रयोक्तव्ये इवकारो गुडजिह्विकया प्रयुक्तः । शब्दै­क­ग­म्येऽर्थे न सामा­न्य­तो­दृ­ष्टा­नु­मा­ना­व­सर इत्यर्थः । शेष­म­ति­रो­हि­ता­र्थम् ।

पूर्व­प­क्ष­हे­तु­म­नु­भा­षते –
यदप्युक्तं प्रायणमिति ।

दूषयति –
तद­प्य­नु­श­य­स­द्भा­वेति ।
रमणीयचरणा कपूयचरणा इत्या­दि­क­या­नु­श­य­प्र­ति­पा­द­न­प­रया श्रुत्या विरु­द्ध­मि­त्यर्थः ।

अपिचेत्यादि ।
इह जन्मनि हि पर्यायेण सुखदुःखे भुज्यमाने दृश्येते । युग­प­च्चे­दे­क­प्र­घ­ट्ट­केन प्रायणेन सुखदुःखफलानि कर्माणि व्यज्येरन् । युगपदेव तत्फलानि भुज्येरन् । तस्मा­दु­प­भो­ग­प­र्या­य­द­र्श­ना­द्ब­ली­यसा दुर्बलस्याभिभवः कल्पनीयः । एवं विरु­द्ध­जा­ति­नि­मि­त्तो­प­भो­ग­फ­ले­ष्वपि कर्मसु द्रष्टव्यम् । न चाभिव्यक्तं च कर्म फलं न दत्त इति च सम्भवति । फलोपजनाभिमुख्यं हि कर्म­णा­म­भि­व्यक्तिः । अपिच प्राण­स्या­भि­व्य­ञ्ज­कत्वे स्वर्ग­न­र­क­ति­र्य­ग्यो­नि­ग­तानां जन्तूनां तस्मिञ्जन्मनि कर्म­स्व­न­धि­का­रा­न्ना­पू­र्व­क­र्मो­प­जनः पूर्वकृतस्य क्रमाशयस्य प्राय­णा­भि­व्य­क्त­तया फलोपभोगेन प्रक्ष­या­न्नास्ति तेषां कर्माशय इति न ते संसरेयुः । नच मुच्ये­र­न्ना­त्म­ज्ञा­ना­भा­वा­दिति कष्टां बताविष्टा दशाम् । किञ्च स्वसमवेतमेव प्राय­णे­ना­भि­व्य­ज्य­तेऽ­पूर्वं न परसमवेतं, येन पित्रादिगतेन कर्मणा वर्तेरन्निति । शेषं सुगमम् ॥ ८ ॥

चरणादिति चेन्नो­प­ल­क्ष­णा­र्थेति कार्ष्णाजिनिः ।
अनेन निरनुशया एवावरोहन्तीति पूर्वपक्षबीजं निगूढमुद्धाट्य निरस्यति । यद्यपि “अक्रोधः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च ज्ञानं च शील­मे­त­द्वि­दु­र्बुधाः ॥' इति स्मृतेः शील­मा­चा­रोऽ­नु­श­या­द्भि­न्न­स्त­था­प्य­स्या­नु­श­या­ङ्ग­त­या­नु­श­यो­प­ल­क्ष­णत्वं कार्ष्णा­जि­नि­रा­चार्यो मेने । तथाच रमणीयचरणाः कपूयचरणा इत्य­ने­ना­नु­श­यो­प­ल­क्ष­णा­त्सिद्धं सानु­श­या­ना­मे­वा­व­रो­ह­ण­मिति ॥ ९ ॥

आनर्थक्यमिति चेन्न तदपेक्षत्वात् ।
“आचारहीनं न पुनन्ति वेदाः”(देवी भागवत ११.२.१) इति हि स्मृत्या वेदपदेन वेदा­र्थ­मु­प­ल­क्ष­यन्त्या वेदा­र्था­नु­ष्ठा­न­शे­ष­त्व­मा­चा­र­स्योक्तं न तु स्वतन्त्र आचारः फलस्य साधनं, तेन वेदा­र्था­नु­ष्ठा­नो­प­का­र­क­त­या­चा­रस्य नानर्थक्यं क्रत्वर्थस्य ।

तदनेन समि­दा­दि­व­दा­चा­रस्य क्रत्व­र्थ­त्व­मु­क्तम् । सम्प्रति स्नाना­दि­व­त्पु­रु­षा­र्थत्वे पुरु­ष­सं­स्का­र­त्वेऽ­प्य­दोष इत्याह –
पुरु­षा­र्थ­त्वेऽ­प्या­चा­र­स्येति ।
तदेवं चर­ण­श­ब्दे­ना­चा­र­वा­चिना सर्वोऽनुशयो लक्षित इत्युक्तम् ॥ १० ॥

बादरिस्तु मुख्य एव चरणशब्दः कर्मणीत्याह –
सुकृतदुष्कृते एवेति तु बादरिः ।
ब्राह्म­ण­प­रि­व्रा­ज­क­न्यायो गोबलीवर्दन्यायः । शेष­म­ति­रो­हि­ता­र्थम् ॥ ११ ॥

अनि­ष्टा­धि­का­रि­णा­मपि च श्रुतम् ।
“ये वै के चास्मा­ल्लो­का­त्प्र­यन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति”(कौ.१.२) इति कौषीतकिनां समाम्नानात् , देहारम्भस्य च चन्द्र­लो­क­ग­म­न­म­न्त­रे­णा­नु­प­पत्तेः पञ्च­म्या­मा­हु­ता­वि­त्या­हु­ति­स­ङ्ख्या­नि­य­मात् । तथाहि द्युसो­म­वृ­ष्ट्य­न्न­रे­तः­प­रि­णा­म­क्र­मेण ता एवापो योषिदग्नौ हुताः पुरुषवचसो भव­न्ती­त्य­वि­शे­षेण श्रुतम् । न चैत­न्म­नु­ष्या­भि­प्रायं, कपूयचरणाः स्वयो­नि­मि­त्य­म­नु­ष्य­स्यापि श्रवणात् । गमनागमनाय च देव­या­न­पि­तृ­या­ण­यो­रेव मार्ग­यो­रा­म्ना­नात् , पथ्य­न्त­र­स्या­श्रुतेः, “जायस्व म्रियस्वेति तृतीयं स्थानम्”(छा.उ. ५.१०.८) इति च स्थान­त्व­मा­त्रे­णा­व­ग­मा­त्प­थि­त्वे­ना­प्र­ती­ते­श्च­न्द्र­लो­का­द­व­ती­र्णा­ना­मपि च तत्स्था­न­त्व­स­म्भ­वा­द­स­म्पू­र­णेन प्रति­व­च­नो­प­पत्तेः, अनन्यमार्गतया च तद्भो­ग­वि­र­हि­णा­मपि ग्रामं गच्छन् वृक्ष­मू­ला­न्यु­प­स­र्प­ती­ति­व­त्सं­य­म­ना­दिषु यमवश्यतायै चन्द्र­लो­क­ग­म­नो­प­पत्तेः, “न कतरेणचन”(छा. उ. ५ । १० । ८) इत्य­स्या­स­म्पू­र­ण­प्र­ति­पा­द­न­प­र­तया मार्ग­द्व­य­नि­षे­ध­प­र­त्वा­भा­वात् , अनि­ष्टा­दि­का­रि­णा­मपि चन्द्रलोकगमने प्राप्तेऽ­भि­धी­य­ते­सत्यं स्थानतयावगतस्य न मार्गत्वं तथापि वेत्थ यथासौ मार्गो न सम्पूर्यते इत्यस्य प्रतिवचनावसरे मार्ग­द्व­य­नि­षे­ध­पूर्वं तृतीयं स्थान­म­भि­व­द­न्न­स­म्पू­र­णाय तत्प्र­ति­प­क्ष­मा­च­क्षीत । यदि पुनस्तेनैव मार्गेणागत्य जन्म­म­र­ण­प्र­ब­न्ध­व­त्स्था­न­म­ध्या­सीत नैतत्तृतीयं स्थानं भवेत् । नही­ष्टा­दि­का­रि­ण­श्च­न्द्र­म­ण्ड­ला­द­व­रुह्य रमणीयां निन्दितां वा योनिं प्रति­प­द्य­मा­ना­स्तृ­तीयं स्थानं प्रतिपद्यन्ते । तत्कस्य हेतोः । पितृयाणेन पथावरोहात् । तद्यदि क्षुद्र­ज­न्त­वोऽ­प्य­ने­नैव पथावरोहेयुः, नैतदेषां जन्म­म­र­ण­प्र­ब­न्ध­व­त्तृ­तीयं स्थानं भवेत् । ततोऽवगच्छामः संयमनं सप्त च यात­ना­भू­मी­र्य­म­व­श­तया प्रतिपद्यमाना अनिष्टाधिकारिणो न चन्द्र­म­ण्ड­ला­द­व­रो­ह­न्तीति । तस्मात् “ये वै के च”(कौ. उ. १ । २) इती­ष्टा­दि­का­रि­वि­षयं न सर्वविषयम् । पञ्च­म्या­मा­हु­ता­विति च स्वार्थविधानपरं न पुन­र­प­ञ्च­म्या­हु­ति­प्र­ति­षे­ध­प­र­मपि, वाक्य­भे­द­प्र­स­ङ्गात् । संयमने त्वनुभूयेति सूत्रे­णा­व­रो­हा­पा­दा­न­तया संय­म­न­स्यो­पा­दा­ना­च्च­न्द्र­म­ण्ड­ला­पा­दा­न­नि­षेध आञ्जसः । तथाच सिद्धा­न्त­सू­त्र­मेव । पूर्व­प­क्ष­सू­त्रत्वे तु शङ्का­न्त­रा­ध्या­हा­रेण कथ­ञ्चि­द्ग­म­यि­त­व्यम् । जीवजञ्जरायुजम् । संशोकजं संस्वेदजम् ॥ १२ ॥

संयमने त्वनु­भू­ये­त­रे­षा­मा­रो­हा­व­रोहौ तद्गतिदर्शनात् ॥ १३ ॥

स्मरन्ति च ॥ १४ ॥

अपि च सप्त ॥ १५ ॥

तत्रापि च तद्व्या­पा­रा­द­वि­रोधः ॥ १६ ॥

विद्या­क­र्म­णो­रिति तु प्रकृतत्वात् ॥ १७ ॥

न तृतीये तथोपलब्धेः ॥ १८ ॥

स्मर्यतेऽपि च लोके ॥ १९ ॥

दर्शनाच्च ॥ २० ॥

तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥

साभा­व्या­प­त्ति­रु­प­पत्तेः ।
यद्यपि यथे­त­मा­का­श­मा­का­शा­द्वा­यु­मि­त्यतो न तादात्म्यं स्फुटमवगम्यते तथापि वायु­र्भू­त्वे­त्यादेः स्फुटतरं तादा­त्म्या­व­ग­मा­द्य­थे­त­मा­का­श­मि­त्ये­त­दपि तादात्म्य एवावतिष्ठते । न चान्य­स्या­न्य­भा­वा­नु­प­पत्तिः । मनुष्यशरीरस्य नन्दिकेश्वरस्य देव­दे­ह­रू­प­प­रि­णा­म­स्म­र­णा­द्दे­व­दे­हस्य च नहुषस्य तिर्य­क्त्व­स्म­र­णात् । तस्मा­न्मु­ख्या­र्थ­प­रि­त्या­गेन न गौणी वृत्ति­रा­श्र­य­णीया । गौण्यां च वृत्तौ लक्षणाशब्दः प्रयुक्तो गुणे लक्षणायाः सम्भवात् । यथाहुः “लक्ष्य­मा­ण­गु­णै­र्यो­गा­द्वृ­त्ते­रिष्टा तु गौणत” इति ।

एवं प्राप्ते ब्रूमः –
साभाव्यापत्तिः ।
समानो भावो रूपं येषां ते सभावास्तेषां भावः साभाव्यं सारूप्यं सादृश्यमिति यावत् । कुत उपपत्तेः ।

एतदेव व्यतिरेकमुखेन व्याचष्टे –
नह्य­न्य­स्या­न्य­भावो मुख्य उपपद्यते ।
युक्त­मे­त­द्य­द्दे­व­श­री­र­म­ज­ग­र­भा­वेन परिणमते, देव­दे­ह­स­म­येऽ­ज­ग­र­श­री­र­स्या­भा­वात् । यदि तु देवाजगरशरीरे समसमये स्यातां न देव­श­री­र­म­ज­ग­र­श­रीरं शिल्पिशतेनापि क्रियते । नहि दधिपयसी समसमये परस्परात्मनी शक्ये सम्पादयितुं, तथेहापि सूक्ष्म­श­री­रा­का­श­यो­र्यु­ग­प­द्भा­वान्न परस्परात्मत्वं भवितुमर्हति । एवं वाय्वादिष्वपि योज्यम् । तथाच तद्भा­व­स्त­त्सा­दृ­श्ये­नौ­प­चा­रिको व्याख्येयः ।

नन्वाकाशभावेन संयोगमात्रं लक्ष्यतां किं सादृश्येनेत्यत आह –
विभु­त्वा­च्चा­का­शे­नेति ॥ २२ ॥

नातिचिरेण विशेषात् ।
“दुर्नि­ष्प्र­प­त­रम्”(छा. उ. ५ । १० । ६) इति दुःखेन निःसरणं ब्रूते न तु विलम्बेनेति मन्यते पूर्वपक्षी । विना स्थूलशरीरं न सूक्ष्मशरीरे दुःखभागीति दुर्निष्प्रपतरं विलम्बं लक्षयतीति राद्धान्तः ॥ २३ ॥

अन्याधिष्ठितेषु पूर्ववदभिलापात् ।
आकाशसारूप्यं वायु­धू­मा­दि­स­म्प­र्कोऽ­नु­श­यि­ना­मुक्त इहेदानीं व्रीहियवा ओष­धि­व­न­स्प­त­य­स्ति­ल­माषा इति जायन्त इति श्रूयते । तत्र संशयः किमनुशयिनां भोगाधिष्ठानं व्रीहियवादयः स्थावरा भवन्ति, आहो­स्वि­त्क्षे­त्र­ज्ञा­न्त­रा­धि­ष्ठि­ते­ष्वेषु संस­र्ग­मा­त्र­म­नु­भ­व­न्तीति । तत्र मनुष्यो जायते देवो जायत इत्यादौ प्रयोगे जनेः शरीरपरिग्रहे प्रसि­द्ध­त्वा­द­त्रापि व्रीह्या­दि­श­री­र­प­रि­ग्रह एव जनिर्मुख्यार्थ इति व्रीह्यादिशरीरा एवानुशयिन इति युक्तम् । नच रमणीयचरणाः कपूयचरणा इति­व­त्क­र्म­वि­शे­षा­स­ङ्की­र्त­ना­त्त­द­भावे व्रीह्यादीनां शरी­र­भा­वा­भा­वा­त्क्षे­त्र­ज्ञा­न्त­रा­धि­ष्ठि­ता­ना­मेव यत्स­म्प­र्क­मा­त्र­मिति साम्प्रतम् । इष्टा­दि­का­रि­णा­मि­ष्टा­दि­क­र्म­स­ङ्की­र्त­ना­दि­ष्टा­देश्च हिंसा­दो­ष­दू­षि­त­त्वेन सावद्यफलतया चन्द्र­लो­क­भो­गा­न­न्तरं स्थाव­र­श­री­र­भो­ग्य­दुः­ख­फ­ल­त्व­स्या­प्यु­प­पत्तेः । नच ‘न हिंस्यात्सर्वा भूतानि’ इति सामा­न्य­शा­स्त्र­स्या­ग्नी­षो­मी­य­प­शु­हिं­सा­वि­ष­य­वि­शे­ष­शा­स्त्रेण बाधनं, सामा­न्य­शा­स्त्रस्य हिंसा­मा­न्य­द्वा­रेण विशेषोपसर्पणं विलम्बेनेति साक्षा­द्वि­शे­ष­स्पृशः शास्त्र­च्छी­घ्र­त­र­प्र­वृ­त्ता­द्दु­र्ब­ल­त्वा­दिति साम्प्रतम् । नहि बलवदित्येव दुर्बलं बाधते किन्तु सति विरोधे । न चेहास्ति विरोधः, भिन्न­गो­च­र­चा­रि­त्वात् । ‘अग्नीषोमीयं पशुमालभेत’ इति हि क्रतुप्रकरणे समाम्नातं क्रत्वर्थतामस्य गमयति न त्वपनयति निषे­धा­पा­दि­ता­मस्य पुरुषं प्रत्य­न­र्थ­हे­तु­ताम् । तेनास्तु निषेधादस्य पुरुषं प्रत्य­न­र्थ­हे­तुता विधेश्च क्रत्वर्थता को विरोधः । यथाहुः “यो नाम क्रतुमध्यस्थः कलञ्जादीनि भक्षयेत् । न क्रतोस्तत्र वैगुण्यं यथा चोदितसिद्धितः” इति । तस्मा­ज्ज­ने­र्मु­ख्या­र्थ­त्वा­द्व्री­ह्या­दि­श­रीरा अनुशयिनो जायन्त इति प्राप्तेऽ­भि­धी­यते - भवेदेतदेवं यदि रमणीयचरणाः कपूयचरणा इति­व­द्व्री­ह्या­दि­ष्व­नु­श­य­वतां कर्मविशेषः कीर्त्येत न चैतदस्ति । न चेष्टादेः कर्मणः स्थाव­र­श­री­रो­प­भो­ग्य­दुः­ख­फ­ल­प्र­स­व­हे­तु­भावः सम्भवति, तस्य धर्मत्वेन सुखैकहेतुत्वात् । नच तद्गतायाः पशुहिंसायाऽन हिंस्यात्ऽइति निषे­धा­त्क्र­त्व­र्थाया अपि दुःख­फ­ल­व­त्व­स­म्भवः । पुरुषार्थाया एव न हिंस्यादिति प्रतिषेधात् । तथाहि - न हिंस्यादिति निषेधस्य निषे­ध्या­धी­न­नि­रू­प­ण­तया यदर्थं निषेध्यं तदर्थ एव निषेधो विज्ञायते । न चैतत् ‘नानृतं वदेत्’ ‘न तौ पशौ करोति’ इति­व­त्क­स्य­चि­त्प्र­क­रणे समाम्नातं येना­नृ­त­त­व­द­न­व­दस्य निषेध्यस्य क्रत्वर्थत्वे निषेधोऽपि क्रत्वर्थः स्यात् । पशौ निषि­द्ध­यो­रा­ज्य­भा­गयोः क्रत्वर्थत्वेन निषेधस्यापि क्रत्वर्थत्वं भवेत् । एवं हि सत्या­ज्य­भा­ग­र­हि­तै­र­प्य­ङ्गा­न्त­रै­रा­ज्य­भा­ग­साध्यः क्रतूपकारो विज्ञायते । तस्मा­द­ना­र­भ्या­धी­तेन न हिंस्या­दि­त्य­ने­ना­भि­हि­तस्य विध्युपहितस्य पुरुषव्यापारस्य विधि­वि­भ­क्ति­वि­रो­धा­त्प्र­कृ­त्य­र्थ­हिं­सा­क­र्म­भा­व्य­त्व­प­रि­त्या­गेन पुरुषार्थ एव भाव्योऽवतिष्ठते । आख्या­ता­न­भि­हि­त­स्यापि पुरुषस्य कर्तृ­व्या­पा­रा­भि­धा­न­द्वा­रे­णो­प­स्था­पि­त­त्वात् । केवलं तस्य रागतः प्राप्त­त्वा­त्त­द­नु­वा­देन नञर्थं विधि­रु­प­स­ङ्क्रा­मति, तेन पुरुषार्थो निषेध्य इति तदधीननिरूपणो निषेधोऽपि पुरुषार्थो भवति । तथा चायमर्थः सम्पद्यते यत्पुरुषार्थं हननं तन्न कुर्यादिति । क्रत्वर्थस्यापि च निषेधे हिंसायाः क्रतू­प­का­र­क­त्व­मपि कल्प्यते । नच दृष्टे पुरुषोपकारकत्वे प्रत्यर्थिनि सति तत्कल्पनास्पदम् । नच स्वात­न्त्र्य­पा­र­तन्त्र्ये सति संयोगपृथक्त्वे खादि­र­ता­दि­व­दे­कत्र सम्भवतः । तस्मा­त्पु­रु­षा­र्थ­प्र­ति­षेधो न क्रत्व­र्थ­त्व­म­प्या­स्क­न्द­तीति शुद्ध­सु­ख­फ­ल­त्व­मे­वे­ष्टा­दीनां न स्थाव­र­श­री­रो­प­भो­ग्य­दुः­ख­फ­ल­त्व­म­पीति । आकाशादिष्विव कर्म­व्या­पा­र­म­न्त­रे­णा­भि­ला­पात् । अनुशयिनां व्रीह्या­दि­सं­यो­ग­मात्रं न तु देहत्वमिति । अयमेवार्थ उत्स­र्गा­प­वा­द­क­थ­ने­नो­प­ल­क्षितः ।

अपिच मुख्येऽनुशयिनां व्रीह्या­दि­ज­न्म­नीति ।
व्रीह्या­दि­भा­व­मा­पन्नाः खल्वनुशयिनः पुरुषैरुपभुक्ता रेतः­सि­ग्भा­व­म­नु­भ­वन्ती श्रूयते । तदे­त­द्व्री­ह्या­दि­दे­ह­त्वेऽ­नु­श­यिनां नोपपद्यते । व्रीह्या­दि­दे­हत्वे हि व्रीह्यादिषु लूनेष्ववहन्तिना फलीकृतेषु च व्रीह्या­दि­दे­ह­वि­ना­शा­द­नु­श­यिनः प्रवसेयुरिति कथमनुशयिनां रेतःसिग्भावः संसर्गमात्रे तु संसर्गिषु व्रीह्यादिषु नष्टेष्वपि न संस­र्गि­णोऽ­नु­श­यिनः प्रवसेयुरिति रेतःसिग्भाव उपपद्यते । शेषमुक्तम् ॥ २४ ॥

अशुद्धमिति चेन्न शब्दात् ॥ २५ ॥

रेतःसिग्योगोऽथ ।
सद्यो जातो हि बालो न रेतःसिग्भवत्यपि तु चिरजातः प्रौढयौवनः, तस्मादपि संसर्गमात्रमिति गम्यते ॥ २६ ॥

तत्किमिदानीं सर्व­त्रै­वा­नु­श­यिनां संसर्गमात्रं तथाच रमणीयचरणा इत्यादिषु तथाभाव आपद्येतेति नेत्याह –
योनेः शरीरम् ।
सुगमम् ॥ २७ ॥
इति श्रीवा­च­स्प­ति­मि­श्र­वि­र­चिते शारी­र­क­मी­मां­सा­भा­ष्य­वि­भागे भामत्यां तृती­य­स्या­ध्या­यस्य प्रथमः पादः ॥

सन्ध्ये सृष्टिराह हि ।
इदानीं तु तस्यैव जीव­स्या­व­स्था­भेदः स्वय­ञ्ज्यो­ति­ष्ट्व­सि­द्ध्यर्थं प्रपञ्च्यते

किं प्रबोध इव स्वप्नेऽपि पारमार्थिकी सृष्टि­रा­हो­स्वि­न्मा­या­म­यीति ।
यद्यपि ब्रह्म­णोऽ­न्य­स्या­नि­र्वा­च्य­तया जाग्र­त्स्व­प्ना­व­स्था­ग­त­यो­रु­भ­यो­रपि सर्ग­यो­र्मा­य­म­यत्वं तथापि यथा जाग्र­त्सृ­ष्टि­र्ब्र­ह्मा­त्म­भा­व­सा­क्षा­त्का­रा­त्प्रा­ग­नु­व­र्तते । ब्रह्मा­त्म­भा­व­सा­क्षा­त्का­रात्तु निवर्तते । एवं किं स्वप्न­सृ­ष्टि­रा­हो­स्वि­त्प्र­ति­दि­न­मेव निवर्तत इति विमर्शार्थः ॥ द्वयोः इह­लो­क­प­र­लो­क­स्था­नयोः । सन्धौ भवं सन्ध्यम् । ऐह­लौ­कि­क­च­क्षु­रा­द्य­व्या­पा­रा­द्रू­पा­दि­सा­क्षा­त्का­रो­प­ज­न­ना­द­नै­ह­लौ­किकं पार­लौ­कि­के­न्द्रि­या­दि­व्या­पा­रस्य च भवि­ष्य­तोऽ­प्र­त्यु­त्प­न्न­त्वेन न पारलौकिकम् । नच न रूपा­दि­सा­क्षा­त्का­रोऽस्ति स्वप्नदृशः । तस्मा­दु­भ­यो­र्लो­क­यो­र­स्या­न्त­रा­ल­त्व­मिति ब्रह्मा­त्म­भा­व­सा­क्षा­त्का­रा­त्प्रा­क्त­थ्य­रू­पैव सृष्टि­र्भ­वि­तु­म­र्हति । अयमभिसन्धिः इह सर्वाण्येव मिथ्या­ज्ञा­ना­न्यु­दा­ह­रणं तेषां सत्यत्वं प्रतिज्ञायते । प्रकृतोपयोगितया तु स्वप्न­ज्ञा­न­मु­दा­हृ­तम् । ज्ञानं यमर्थमवबोधयति स तथैवेति युक्तम् । तथाभावस्य ज्ञानारोहात् । अतथात्वस्य त्वप्रतीयमानस्य तथा­भा­व­प्र­मे­य­वि­रो­धेन कल्प­ना­स्प­द­त्वा­त्बा­ध­क­प्र­त्य­या­द­त­था­त्व­मिति चेत् । न । तस्य बाधकत्वासिद्धेः । समानगोचरे हि विरु­द्धा­र्थो­प­सं­हा­रिणी ज्ञाने विरुध्येते । बल­व­द­ब­ल­व­त्त्वा­नि­श्च­याच्च बाध्यबाधकभावं प्रतिपद्येते । न चेह समानविषयत्वं, कालभेदेन व्यवस्थोपपत्तेः । यथाहि क्षीरं दृष्टं कालान्तरे दधि भवति, एवं रजतं दृष्टं कालान्तरे शुक्तिर्भवेत् । नानारूपं वा तद्वस्तु । तद्यस्य तीव्रा­त­प­क्ला­न्ति­स­हितं चक्षुः स तस्य रजतरूपतां गृह्णाति । यस्य तु केव­ल­मा­लो­क­मा­त्रो­प­कृतं, स तस्यैव शुक्तिरूपतां गृह्णाति । एवमुत्पलमपि नीललोहितं दिवा सौरी­भि­र्भा­भि­र­भि­व्यक्तं नीलतया गृह्यते । प्रदी­पा­भि­व्यक्तं तु नक्तं लोहिततया । एवमसत्यां निद्रायां सतोऽपि रथादीन्न गृह्णाति निद्राणस्तु गृह्णातीति सामग्रीभेदाद्वा कालभेदाद्वा विरोधाभावः । नापि पूर्वो­त्त­र­यो­र्ब­ल­व­द­ब­ल­व­त्त्व­नि­र्णयः । द्वयोरपि स्वगोचरचारितया समानत्वेन विनि­ग­म­ना­हे­तो­र­भा­वात् । तस्मा­द­प्य­व­श्य­म­वि­रोधो व्यवस्थापनीयः । तत्सिद्धमेतत् । विवादास्पदं प्रत्ययाः, सम्यञ्चः, प्रत्ययत्वात् , जाग्र­त्स्त­म्भा­दि­प्र­त्य­य­व­दिति । इममर्थं श्रुतिरपि दर्शयति “अथ रथान् रथयोगान् पथः सृजते”(बृ.उ. ४-३-१०) इति । नच “न तत्र रथा न रथयोगा न पन्थानो भवन्ति”(बृ. उ. ४ । ३ । १०) इति विरो­धा­दु­प­च­रि­तार्थां सृजत इति श्रुति­र्व्या­ख्येया । सृजत इति हि श्रुते­र्ब­हु­श्रु­ति­सं­वा­दा­त्प्र­मा­णा­न्त­र­सं­वा­दाच्च बलीयस्त्वेन तदनुगुणतया न तत्र रथा इत्यस्या भाक्तत्वेन व्याख्यानात् । जाग्र­द­व­स्था­द­र्श­न­योग्या न सन्ति न तु रथा न सन्तीति । अत एव कर्तृश्रुतिः शाखा­न्त­र­श्रु­ति­रु­दा­हृता । प्राज्ञ­क­र्तृ­क­त्वा­च्चास्य पारमार्थिकत्वं वियदादिसर्गवत् । नच जीव­क­र्तृ­क­त्वान्न प्राज्ञ­क­र्तृ­क­त्व­मिति साम्प्रतम् । “अन्यत्र धर्मा­द­न्य­त्रा­ध­र्मात्”(क. उ. १ । २ । १४) इति प्राज्ञस्यैव प्रकृतत्वात् । जीव­क­र्तृ­क­त्वेऽपि च प्राज्ञादभेदेन जीवस्य प्राज्ञत्वात् । अपिच जाग्र­त्प्र­त्य­य­सं­वा­द­व­न्तोऽपि स्वप्नप्रत्ययाः केचिद्दृश्यन्ते । तद्यथा स्वप्ने शुक्लाम्बरधरः शुक्ल­मा­ल्या­नु­ले­पनो ब्राह्मणायनः प्रियव्रतं प्रत्या­ह­प्रि­य­व्रत, पञ्चमेऽहनि प्रात­रे­वो­र्व­रा­प्रा­य­भू­मि­दा­नेन नरपतिस्त्वां मानयिष्यतीति । स च जाग्रत्तथात्मनो मानमनुभूय स्वप्नप्रत्ययं सत्यमभिमन्यते । तस्मात्सन्ध्ये पारमार्थिकी सृष्टिः ॥ १ ॥

निर्मातारं चैके पुत्रादयश्च ॥ २ ॥

इति प्राप्ते उच्यते –
मायामात्रं तु कार्त्स्न्ये­ना­न­भि­व्य­क्त­स्व­रू­प­त्वात् ।
इदमत्राकूतम् । न तावत्क्षीरस्येव दधि रजतस्य परिणामः शुक्तिः सम्भवति । नहि जात्वीश्वरगृहे चिरस्थितान्यपि रजतभाजनानि शुक्ति­भा­व­म­नु­भ­वन्ति दृश्यन्ते । न चेतरस्य रज­ता­नु­भ­व­स­म­येऽ­न्योऽ­ना­कु­ले­न्द्रियो न तस्य शुक्ति­भा­व­म­नु­भ­वति प्रत्येति च । न चोभयरूपं वस्तु । सामग्रीभेदात्तु कदाचिदस्य तोयभावोऽनुभूयते कदा­चि­न्म­री­चि­तेति साम्प्रतम् । पारमार्थिके ह्यास्य तोयभावे तत्सा­ध्या­मु­दा­न्यो­प­श­म­ल­क्ष­णा­र्थ­क्रियां कुर्या­न्म­री­चि­सा­ध्या­मपि रूप­प्र­का­श­ल­क्ष­णाम् । न मरीचिभिः कस्यचित्तृष्णज उदन्योपशाम्यति । नच तोयमेव द्विवि­ध­मु­द­न्यो­प­श­म­न­म­त­दु­प­श­म­न­मिति युक्तम् । तद­र्थ­क्रि­या­का­रि­त्व­व्याप्तं तोयत्वं मात्रयापि ताम­कु­र्व­त्तो­य­मेव न स्यात् । अपिच तोय­प्र­त्य­य­स­मी­ची­न­त्वा­यास्य द्वैवि­ध्य­म­भ्यु­पे­यते तच्चा­भ्यु­प­ग­मेऽपि न सेद्धुमर्हति । तथाहि - असमर्थविधापाति तोयमेतदिति मन्वानो न तृष्णयापि मरी­चि­तो­य­म­भि­धा­वे­त्यथा मरीचीननुभवन् । अथा­श­क्त­म­भि­म­न्य­मा­नोऽ­भि­धा­वति । किमपराद्धं मरीचिषु तोयविपर्यासेन सर्वजनीनेन यत्तमतिलङ्घ्य विपर्यासान्तरं कल्प्यते । नच क्षीर­द­धि­प्र­त्य­य­व­दा­चा­र्य­मा­तु­ल­ब्रा­ह्म­ण­प्र­त्य­य­वद्वा तोय­म­री­चि­वि­ज्ञाने समु­च्चि­ता­व­गा­हिनी स्वानु­भ­वा­त्प­र­स्प­र­वि­रु­द्ध­यो­र्बा­ध्य­बा­ध­क­भा­वा­व­भा­स­नात् । तत्रापि रजतज्ञानं पूर्वमुत्पन्नं बाध्यमुत्तरं तु बाधकं शुक्तिज्ञानं प्राप्ति­पू­र्व­क­त्वा­त्प्र­ति­षे­धस्य । रज­त­ज्ञा­ना­त्प्रा­क्प्रा­प­का­भा­वेन शुक्ते­र­प्रा­प्तायाः प्रति­षे­धा­स­म्भ­वा­त्पू­र्व­ज्ञा­न­प्राप्तं तु रजतं शुक्ति­ज्ञा­न­म­प­बा­धि­तु­म­र्हति । तदपबाधात्मकं च स्वानु­भ­वा­द­व­सी­यते । यथाहुः “आगा­मि­त्वा­द­बा­धित्वा परं पूर्वं हि जायते । पूर्वं पुनरबाधित्वा परं नोत्पद्यते क्वचित्” । नच वर्त­मा­न­र­ज­ता­व­भासि ज्ञानं भवि­ष्य­त्ता­म­स्या­गो­च­र­यन्न भविष्यता स्वसमयवर्तिनीं शुक्तिं गोचरयता प्रत्ययेन बाध्यते, कालभेदेन विरोधाभावादिति युक्तम् । मा नामास्य ज्ञासी­त्प्र­त्यक्षं भविष्यत्तां तत्पृष्ठभावि त्वनु­मा­न­मु­प­का­र­भा­व­हे­तु­मि­वा­सति विना­श­प्र­त्य­यो­प­नि­पाते स्थेमानमाकलयति । असति विना­श­प्र­त्य­यो­प­नि­पाते रजतमिदं स्थिरं रज­त­त्वा­द­नु­भू­त­प्र­त्य­भि­ज्ञा­त­र­ज­त­वत् । तथाच रजतगोचरं प्रत्यक्षं वस्तुतः स्थिरमेव रजतं गोचरयेत् । तथाच भवि­ष्य­च्छु­क्ति­का­ज्ञा­न­कालं, रजतं व्याप्नुयादिति विरो­धा­च्छु­क्ति­ज्ञा­नेन बाध्यते । यथाहुः “रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते । भवि­ष्य­च्छु­क्ति­का­ज्ञा­न­कालं व्याप्नोति तेन तत्” ॥ इति । प्रत्यक्षेण चिरस्थायीति गृह्यत इति केचि­द्व्या­च­क्षते । तदयुक्तम् । यदि चिरस्थायित्वं योग्यता न सा प्रत्यक्षगोचरः शक्ते­र­ती­न्द्रि­य­त्वात् । अथ काला­न्त­र­व्या­पित्वं, तदप्ययुक्तं, कालान्तरेण भवि­ष्य­ते­न्द्रि­यस्य संयो­गा­यो­गा­त्त­दु­प­हि­त­सीम्नो व्यापि­त्व­स्या­ती­न्द्रि­य­त्वात् । नच प्रत्य­भि­ज्ञा­प्र­त्य­य­व­द­त्रास्ति संस्कारः सहकारी येना­व­र्त­मा­न­म­प्या­क­ल­येत् । तस्मा­द­त्य­न्ता­भ्या­स­व­शेन प्रत्य­क्षा­न­न्तरं शीघ्र­त­रो­त्प­न्न­वि­न­श्य­द­व­स्था­नु­मा­न­स­हि­त­प्र­त्य­क्षा­भि­प्रा­य­मेव चिरस्थायीति गृह्यत इति मन्तव्यम् । अत एवै­त­त्सू­क्ष्म­तरं काल­व्य­व­धा­न­म­वि­वे­च­यन्तः सौगताः प्राहुः, द्विविधो हि विषयः प्रत्यक्षस्य ग्राह्य­श्चा­ध्य­व­से­यश्च । ग्राह्यक्षण एकः स्वल­क्ष­णोऽ­ध्य­व­से­यश्च सन्तान इति । एतेन स्वप्नप्रत्ययो मिथ्यात्वेन व्याख्यातः । यत्तु सत्यं स्वप्न­द­र्श­न­मुक्तं तत्रा­प्या­ख्यात्रा ब्राह्म­णा­य­ने­ना­ख्याते संवादाभावात् । प्रिय­व्र­त­स्या­ख्या­त­सं­वा­दस्तु काकतालीयो न स्वप्नज्ञानं प्रमा­ण­यि­तु­म­र्हति । तादृशस्यैव बहुलं विसंवाददर्शनात् । दर्शितश्च विसंवादो भाष्यकृता कार्त्स्न्ये­ना­न­भि­व्यक्तिं विवृण्वता ।

रजन्यां सुप्त इति ।
रजनीसमयेऽपि हि भार­ता­द्व­र्षा­न्तरे केतुमालादौ वासरो भवतीति भारते वर्ष इत्युक्तम् ॥ ३ ॥

सूचकश्च हि श्रुतेराचक्षते च तद्विदः ।
दर्शनं सूचकं तच्च स्वरूपेण सत् । असत्तु दृश्यम् । अत एव स्त्रीद­र्श­न­स्व­रू­प­सा­ध्या­श्च­र­म­धा­तु­वि­स­र्गा­दयो जाग्र­द­व­स्था­या­म­नु­व­र्तन्ते । स्त्रीसा­ध्यास्तु माल्य­वि­ले­प­न­द­न्त­क्ष­ता­दयो नानुवर्तन्ते ।

न चास्माभिः स्वप्नेऽपि प्राज्ञव्यापार इति ।
प्राज्ञ­व्या­पा­र­त्वेन पार­मा­र्थि­क­त्वा­नु­मानं प्रत्यक्षेण बाधकप्रत्ययेन विरुध्यमानं नात्मानं लभत इति भावः । बन्ध­मो­क्ष­यो­रा­न्त­रा­लिकं तृती­य­मै­श्व­र्य­मिति ॥ ४ ॥

पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ।
देहयोगाद्वा सोऽपि
इति सूत्रद्वयं कृतो­प­पा­द­न­म­स्माभिः प्रथमसूत्रे । निगदव्याख्यातं चैत­यो­र्भा­ष्य­मिति ॥ ५ ॥

देहयोगाद्वा सोऽपि ॥ ६ ॥

तदभावो नाडीषु तच्छ्रु­ते­रा­त्मनि च ।
इह हि नाडी­पु­री­त­त्प­र­मा­त्मानो जीवस्य सुषु­प्ता­व­स्थायां स्थानत्वेन श्रूयन्ते । तत्र किमेषां स्थानानां विकल्प आहो­स्वि­त्स­मु­च्चयः । किमतो यद्येवम् । एतदतो भवति । यदा नाड्यो वा पुरीतद्वा सुषुप्तस्थानं तदा विप­री­त­ग्र­ह­ण­नि­वृ­त्ता­वपि न जीवस्य परमात्मभाव इति । अवि­द्या­नि­वृ­त्ता­वपि जीवस्य परमात्मभावाय कार­णा­न्त­र­म­पे­क्षि­तव्यं तच्च कर्मैव न तु तत्त्वज्ञानं विप­री­त­ज्ञा­न­नि­वृ­त्ति­मा­त्रेण तस्योपयोगात् , विप­री­त­ज्ञा­न­नि­वृ­त्तेश्च विनापि तत्त्वज्ञानं सुषुप्तावपि सम्भवात् । ततश्च कर्मणैवापवर्गो न ज्ञानेन । यथाहुः “कर्मणैव तु संसि­द्धि­मा­स्थिता जनकादयः”(भ.गी. ३-२०) इति । अथ तु परमात्मैव नाडी­पु­री­त­स्मृ­ति­द्वारा सुषुप्तिस्थानं ततो विप­री­त­ज्ञा­न­नि­वृ­त्ते­रस्ति मात्रया परमात्मभाव उपयोगः । तया हि तावदेष जीवस्तदवस्थानो भवति केवलम् । तत्त्व­ज्ञा­ना­भा­वेन समू­ल­का­ष­म­वि­द्याया अका­षा­ज्जा­ग्र­त्स्व­प्न­ल­क्षणं जीवस्य व्युत्थानं भवति । तस्मा­त्प्र­यो­ज­न­व­त्येषा विचारणेति । किं तावत्प्राप्तं, नाडी­पु­री­त­त्प­र­मा­त्मसु स्थानेषु सुषुप्तस्य जीवस्य निलयं प्रति विकल्पः । यथा बहुषु प्रासादेष्वेको नरेन्द्रः कदा­चि­त्क्व­चि­न्नि­ली­यते कदा­चि­त्क्व­चि­दे­व­मेको जीवः कदाचिन्नाडीषु कदाचित्पुरीतति कदा­चि­द्ब्र­ह्म­णीति । यथा निरपेक्षा व्रीहियवाः क्रतु­सा­ध­नी­भू­त­पु­रो­डा­श­प्र­कृ­ति­तया श्रुता एकार्था विकल्प्यन्ते, एवं सप्तमीश्रुत्या वायतनश्रुत्या वैकनिलयनार्थाः परस्परानपेक्षा नाड्यादयोऽपि विकल्पमर्हन्ति । यत्रापि नाडीभिः प्रत्यवसृप्य पुरीतति शेत इति नाडीपुरीततोः समुच्चयश्रवणम् “तथा तासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यति । अथास्मिन् प्राण एवैकधा भवति”(कौ . ब्रा. ४ । २०) इति नाडी­ब्र­ह्म­णो­रा­धा­रयोः समुच्चयश्रवणम् । प्राणशब्दं च ब्रह्म “अथास्मिन् प्राणे ब्रह्मणि स जीव एकधा भवति” इति वचनात् । तथाप्यासु तदा नाडीषु सृप्तो भवतीति च पुरीतति शेत इति च निर­पे­क्ष­यो­र्ना­डी­पु­री­त­तो­रा­धा­र­त्वेन निर्दे­शा­न्नि­र­पे­क्ष­यो­रे­वा­धा­र­त्वम् । इयांस्तु विशेषः । कदाचिन्नाड्य एवाधारः कदाचिन्नाडीभिः सञ्चरमाणस्य पुरीतदेव । एवं ताभिरेव सञ्चरमाणस्य कदा­चि­द्ब्र­ह्मै­वा­धार इति सिद्धमाधारत्वे नाडी­पु­री­त­त्प­र­मा­त्म­ना­म­न­पे­क्ष­त्वम् । तथा च विकल्पो व्रीहि­य­व­व­द्बृ­ह­द्र­थ­न्त­र­व­द्वेति प्राप्तम् । एवं प्राप्तेऽ­भि­धी­यते जीवः समु­च्च­ये­नै­वै­तानि नाड्यादीनि स्वापायोपैति न विकल्पेन । अयमभिसन्धिः नित्य­व­दा­म्ना­तानां नाम तद्ग­त्य­न्त­रा­भावे कल्प्यते । यथाहुः “एव­मे­षोऽ­ष्ट­दो­षोऽपि यद्व्री­हि­य­व­वा­क्ययोः । विकल्प आश्रितस्तत्र गतिरन्या न विद्यते” इति । प्रकृ­त­क्र­तु­सा­ध­नी­भू­त­पु­रो­डा­श­द्र­व्य­प्र­कृ­ति­तया हि परस्परानपेक्षौ व्रीहियवौ विहितौ शक्नुतश्चैतौ प्रत्येकं पुरो­डा­श­म­भि­नि­र्व­र्त­यि­तुम् । तत्र यदि मिश्राभ्यां पुरो­डा­शोऽ­भि­नि­र्व­र्त्येत पर­स्प­रा­न­पे­क्ष­व्री­हि­य­व­वि­धा­तृणी उभे अपि शास्त्रे बाध्येयाताम् । न चैतौ प्रयोगवचनः समुच्चेतुमर्हति । स हि यथा विहि­ता­न्य­ङ्गा­न्य­भि­स­मीक्ष्य प्रवर्तमानो नैता­न्य­न्य­थ­यितुं शक्नोति । मिश्रणे चान्य­था­त्व­मे­ते­षाम् । न चाङ्गानुरोधेन प्रधानाभ्यासो ‘गोसवे उभे कुर्यात्’ इतिवद्युक्तः । अश्रुतो ह्यत्र प्रधा­ना­भ्या­सोऽ­ङ्गा­नु­रो­धेन च सोऽन्याय्यः । न चाङ्ग­भू­तै­न्द्र­वा­य­वा­दि­ग्र­हा­नु­रो­धेन यथा प्रधानस्य सोम­या­ग­स्या­वृ­त्ति­रे­व­म­त्रा­पीति युक्तम् । ‘सोमेन यजेत’ इति हि तत्रा­पू­र्व­या­ग­विधिः । तत्र च दश­मु­ष्टि­प­रि­मि­तस्य सोमद्रव्यस्य ‘सोममभिषुणोति’ , ‘सोम­म­भि­प्ला­व­यति’ इति च वाक्या­न्त­रा­नु­लो­च­नया रसद्वारेण याग­सा­ध­नी­भू­त­स्ये­न्द्र­वा­य्वा­द्यु­द्दे­शेन प्रादे­श­मा­त्रे­षू­र्ध्व­पा­त्रेषु ग्रहणानि पृथ­क्प्र­क­ल्प­नानि संस्कारा विधीयन्ते, नतु सोम­या­गो­द्दे­शे­ने­न्द्र­वा­य्वा­दयो देव­ता­श्चो­द्यन्ते, येन तासां याग­नि­ष्प­त्ति­ल­क्ष­णै­का­र्थ­त्वेन विकल्पः स्यात् । नच प्रादे­श­मा­त्र­मे­कै­क­मू­र्ध्व­पात्रं दश­मु­ष्टि­प­रि­मि­त­सो­म­र­स­ग्र­ह­णाय कल्पते, येन तुल्यार्थतया ग्रहणानि विकल्पेरन् । नच याव­न्मा­त्र­मे­क­मू­र्ध्व­पात्रं व्याप्नोति तावन्मात्रं गृहीत्वा परिशिष्टं त्यज्येतेति युज्यते । दश­मु­ष्टि­प­रि­मि­तो­पा­दा­न­स्या­दृ­ष्टा­र्थ­त्व­प्र­स­ङ्गात् । एवं तद्दृष्टार्थं भवेद्यदि तत्सर्वं याग उपयुज्येत । नच दृष्टे सम्भ­व­त्य­दृ­ष्ट­क­ल्पना न्याय्या । तस्मात्सकलस्य सोमरसस्य यागशेषत्वेन संस्का­रा­र्ह­त्वा­दे­कै­केन च ग्रहणेन सकलस्य संस्क­र्तु­म­श­क्य­त्वा­त्त­द­व­य­व­स्यै­केन संस्का­रेऽ­व­य­वा­न्त­रस्य ग्रहणान्तरेण संस्कार इति कार्य­भे­दा­द्ग्र­ह­णानि समुच्चीयेरन् । अत एव समुच्चयदर्शनं “दशैतानध्वर्युः प्रातःसवने ग्रहान् गृह्णाति” इति । समुच्चये च सति क्रमोऽ­प्यु­प­प­द्यते । “आश्विनो दशमो गृह्यते तृतीयो हूयते” । तथैव “ऐन्द्र­वा­य­वा­ग्रा­न्ग्र­हा­न्गृ­ह्णाति” इति । तेषां च समुच्चये सति यावद्यदुद्देशेन गृहीतं तावत्तस्यै देवतायै त्यक्त­व्य­मि­त्य­र्था­द्या­ग­स्या­वृत्त्या भवितव्यम् । यदि पुनः पृथ­क्कृ­ता­न्य­प्ये­की­कृत्य काञ्चन देवतामुद्दिश्य त्यजेरन् , पृथक्करणानि च देव­तो­द्दे­शा­श्चा­दृ­ष्टार्था भवेयुः । नच दृष्टे सम्भ­व­त्य­दृ­ष्ट­क­ल्पना न्याय्ये­त्यु­क्तम् । तस्मात्तत्र समु­च्च­य­स्या­व­श्य­म्भा­वि­त्वा­द्गु­णा­नु­रो­धे­नापि प्रधानाभ्यास आस्थीयते । इह त्वभ्या­स­क­ल्प­ना­प्र­मा­णा­भा­वा­त्पु­रो­डा­श­द्र­व्यस्य चानियमेन प्रकृतिद्रव्ये यस्मि­न्क­स्मिं­श्चि­त्प्राप्ते एकैका परस्परानपेक्षा व्रीहि­श्रु­ति­र्य­व­श्रु­तिश्च निया­मि­कै­का­र्थ­तया विकल्पमर्हतः । न तु नाडी­पु­री­त­त्प­र­मा­त्म­ना­म­न्यो­न्या­न­पे­क्ष­णा­मे­क­नि­ल­य­ना­र्थ­स­म्भवो येन विकल्पो भवेत् । नह्ये­क­वि­भ­क्ति­नि­र्दे­श­मा­त्रे­णै­का­र्थता भवति समु­च्चि­ता­ना­म­प्ये­क­वि­भ­क्ति­नि­र्दे­श­द­र्श­नात् पर्यङ्के शेते प्रसादे शेत इति । तस्मा­दे­क­वि­भ­क्ति­नि­र्दे­श­स्या­नै­का­न्ति­क­त्वा­द­न्यतो विनिगमना वक्तव्या ।

सा चोक्ता भाष्यकृता –
यत्रापि निरपेक्षा इव नाडीः सुप्ति­स्था­न­त्वेन श्राव­य­ती­त्या­दिना ।
सापे­क्ष­श्रु­त्य­नु­रो­धेन निर­पे­क्ष­श्रु­ति­र्ने­त­व्ये­त्यर्थः । शेष­म­ति­रो­हि­ता­र्थम् ।

ननु यदि ब्रह्मैव निलयनस्थानं ताव­न्मा­त्र­मु­च्यतां कृतं नाड्यु­प­न्या­से­ने­त्यत आह –
अपिचात्रेति ।
अपिचेति समुच्चये न विकल्पे । एतदुपपत्तिसहिता पूर्वो­प­प­त्ति­र­र्थ­सा­धि­नीति । मार्गो­प­दे­शो­प­यु­क्तानां नाडीनां स्तुत्यर्थमत्र नाडी­स­ङ्की­र्त­न­मि­त्यर्थः । पित्ते­ना­भि­व्या­प्त­क­रणो न बाह्या­न्वि­ष­या­न्वे­देति तद्द्वारा सुखदुःखाभावेन तत्का­र­ण­पा­प्मा­स्प­र्शेन नाडीस्तुतिः । यदा तु तेजो ब्रह्म तदा सुगमम् ।

अपिच –
नाड्यः पुरीतद्वा जीव­स्यो­पा­ध्या­धार एव भवतीति ।
अयमर्थः अभ्युपेत्य जीव­स्या­धे­य­त्व­मि­द­मु­क्तम् । परमार्थतस्तु न जीव­स्या­धे­य­त्व­मस्ति । तथाहि नाड्यः पुरीतद्वा जीवस्योपाधीनां करणानामाश्रयो जीवस्तु ब्रह्मा­व्य­ति­रे­का­त्स्व­म­हि­म­प्र­तिष्ठः । न चापि ब्रह्म जीवस्याधारः, तादात्म्यात् । विकल्प्य तु व्यतिरेकं ब्रह्मण आधारत्वमुच्यते जीवं प्रति । तथाच सुषु­प्ता­व­स्था­या­मु­पा­धी­ना­म­स­मु­दा­चा­रा­ज्जी­वस्य ब्रह्मा­त्म­त्व­मेव ब्रह्माधारत्वं न तु नाडी­पु­री­त­दा­धा­र­त्वम् । तदु­पा­धि­क­र­ण­मा­त्रा­धा­र­तया तु सुषु­प्त­द­शा­र­म्भाय जीवस्य नाडी­पु­री­त­दा­धा­र­त्व­मि­त्य­तु­ल्या­र्थ­तया न विकल्प इति ।

अपिच न कदा­चि­ज्जी­व­स्येति ।
औत्सगिकं ब्रह्म­स्व­रू­पत्वं जीवस्यासति जाग्र­त्स्व­प्न­द­शा­रू­पेऽ­प­वादे सुषु­प्ता­व­स्थायां नान्यथयितुं शक्यमित्यर्थः । अपिच येऽपि स्थान­वि­क­ल्प­मा­स्थि­षत तैरपि विशे­ष­वि­ज्ञा­नो­प­श­म­ल­क्षणा सुषु­प्त्य­व­स्था­ङ्गी­क­र्तव्या । न चेय­मा­त्म­ता­दात्म्यं विना नाड्यादिषु पर­मा­त्म­व्य­ति­रि­क्तेषु स्थानेषूपपद्यते । तत्र हि स्थितोऽयं जीव आत्म­व्य­ति­रे­का­भि­मानी सन्नवश्यं विशेषज्ञानवान् भवेत् । तथाहि श्रुतिः “यत्र वा अन्यदिव स्यात्त­त्रा­न्योऽ­न्य­त्प­श्येत्”(बृ. उ. ४ । ५ । १५) इति ।

आत्मस्थानत्वे त्वदोषः । “यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्ये­द्वि­जा­नी­यात्”(बृ. उ. ४ । ५ । १५) इति श्रुतेः । तस्मा­द­प्या­त्म­स्था­न­त्वस्य द्वारं नाड्यादीत्याह –
अपिच स्थान­वि­क­ल्पा­भ्यु­प­ग­मेऽ­पीति ।
अत्र चोदयति ननु भेदविषयस्यापीति । भिद्यत इति भेदः । भिद्यमानस्यापि विषयस्येत्यर्थः ।

परिहरति –
बाढमेवं स्यादिति ।
न ताव­ज्जी­व­स्यास्ति स्वतः­प­रि­च्छे­द­स्तस्य ब्रह्मात्मत्वेन विभुत्वात् औपाधिके तु परिच्छेदे यत्रो­पा­धि­र­सं­नि­हि­त­स्त­न्मात्रं न जानीयान्न तु सर्वम् । नह्य­सं­नि­धा­ना­त्सु­मे­रु­म­वि­द्वान् देवदत्तः संनिहितमपि न वेद । तस्मा­त्स­र्व­वि­शे­ष­वि­ज्ञा­न­प्र­त्य­स्त­मयीं सुषुप्तिं प्रसाधयता तदास्य सर्वो­पा­ध्यु­प­सं­हारो वक्तव्यः । तथाच सिद्धमस्य तदा ब्रह्मा­त्म­त्व­मि­त्यर्थः ।

गुणप्रधानभावेन समुच्चयो न सम­प्र­धा­न­त­या­ग्ने­या­दि­व­दिति वद­न्वि­क­ल्प­म­प्य­पा­क­रोति –
नच वयमिहेति ।
स्वाध्या­या­ध्य­य­न­वि­ध्या­पा­दि­त­पु­रु­षा­र्थ­त्वस्य वेदराशेरेकेनापि वर्णेन नापुरुषार्थेन भवितुं युक्तम् । नच सुषु­प्ता­व­स्थायां जीवस्य स्वरूपेण नाड्या­दि­स्था­न­त्व­प्र­ति­पा­दने किञ्चि­त्प्र­यो­जनं ब्रह्म­भू­य­प्र­ति­पा­दने त्वस्ति । तस्मान्न समप्रधानभावेन समुच्चयो नापि विकल्प इति भावः । नीतार्थमन्यत् ॥ ७ ॥

अतः प्रबोधोऽस्मात् ॥ ८ ॥

स एव तु कर्मा­नु­स्मृ­ति­श­ब्द­वि­धिभ्यः ।
यद्य­पी­श्व­रा­द­भिन्नो जीव­स्त­था­प्यु­पा­ध्य­व­च्छे­देन भेदं विव­क्षि­त्वा­धि­क­र­णा­न्त­रा­रम्भः । स एवेति दुःसम्पादमिति । स वान्यो वेति ईश्वरो वेति सम्भ­व­मा­त्रे­णो­प­न्यासः । नहि तस्य शुद्ध­मु­क्त­स्व­भा­व­स्या­वि­द्या­कृ­त­व्यु­त्था­न­स­म्भवः । अत एव विम­र्शा­व­स­रेऽ­स्या­नु­प­न्यासः । यद्धि द्व्यहा­दि­नि­र्व­र्त­नी­य­मे­कस्य पुंसश्चोदितं कर्म तस्य पूर्वे­द्यु­र­नु­ष्ठि­त­स्यास्ति स्मृतिरिति वक्तव्येऽनुः प्रत्य­भि­ज्ञा­न­सू­च­नार्थः । अत एव सोऽह­म­स्मी­त्यु­क्तम् ।

पुनः प्रतिन्यायं प्रति­यो­न्या­द्र­व­तीति ।
अयनमायः नियमेन गमनं न्यायः । जीवः प्रतिन्यायं सम्प्रसादे सुषु­प्ता­व­स्थायां वृद्धा­न्ता­या­द्र­वति आगच्छति प्रतियोनि ।

योहि व्याघ्रयोनिः सुषुप्तो बुद्धा­न्त­मा­ग­च्छन् स व्याघ्र एव भवति न जात्यन्तरम् । तदिदमुक्तम् –
त इह व्याघ्रो वा सिंहो वेति ।

अथ तत्र सुप्त उत्तिष्ठेदिति ।
यो हि जीवः सुप्तः स शरीरान्तर उत्तिष्ठति शरीरान्तरगतस्तु सुप्त­जी­व­स­म्ब­न्धिनि शरीर उत्तिष्ठति, ततश्च न शरीरान्तरे व्यवहारलोप इत्यर्थः ।

अपिच न जीवो नाम कश्चि­त्प­र­स्मा­दन्य इति ।
यथा घटाकाशो नाम न परमाकाशादन्यः । अथ चान्य इव याव­द्घ­ट­म­नु­व­र्तते । न चासौ दुर्वि­वे­च­स्त­दु­पा­धे­र्घ­टस्य विविक्तत्वात् । एव­म­ना­द्य­नि­र्व­च­नी­या­वि­द्यो­प­धा­न­भे­दो­पा­धि­क­ल्पितो जीवो न वस्तुतः परमात्मनो भिद्यते तदु­पा­द्यु­द्भ­वा­भि­भ­वाभ्यां चोद्भूत इवाभिभूत इव प्रतीयते । ततश्च सुषुप्तादावपि अभिभूत इव जाग्र­द­व­स्था­दि­षू­द्भूत इव । तस्य चावि­द्या­त­द्वा­स­नो­पा­धे­र­ना­दि­तया कार्यकारणभावेन प्रवहतः सुविवेचतया तदुपहितो जीवः सुविवेच इति ॥ ९ ॥

मुग्धेऽ­र्ध­स­म्पत्तिः परिशेषात् ।
विशे­ष­वि­ज्ञा­ना­भा­वा­न्मूर्च्छा जाग­र­स्व­प्ना­व­स्थाभ्यां भिद्यते पुनरुत्थानाच्च मरणावस्थायाः । अतः सुषुप्तिरेव मूर्च्छा विशे­ष­ज्ञा­ना­भा­वा­वि­शे­षात् । चिरा­नु­च्छ्वा­स­वे­प­थु­प्र­भृ­त­यस्तु सुप्ते­र­वा­न्त­र­प्र­भेदाः । तद्यथा कश्चि­त्सु­प्तो­त्थितः प्राह सुखमहमस्वाप्सं लघूनि मे गात्राणि प्रसन्नं मे मन इति, कश्चि­त्पु­न­र्दुः­ख­म­स्वाप्सं गुरूणि मे गात्राणि भ्रमत्यनवस्थितं मे मन इति । न चैतावता सुषु­प्ति­र्भि­द्यते । तथा विकारान्तरेऽपि मूर्च्छा न सुषु­प्ते­र्भि­द्यते । तस्मा­ल्लो­क­प्र­सि­द्ध्य­भा­वा­न्नेयं पञ्चम्यवस्थेति प्राप्तम् । एवं प्राप्त उच्यते यद्यपि विशे­ष­वि­ज्ञा­नो­प­श­मेन मोहसुषुप्तयोः साम्यं तथापि नैक्यम् । नहि विशे­ष­वि­ज्ञा­न­स­द्भा­व­सा­म्य­मा­त्रेण स्वप्न­जा­ग­र­यो­र­भेदः । बाह्ये­न्द्रि­य­व्या­पा­र­भा­वा­भा­वाभ्यां तु भेदे तयोः सुषुप्तमोहयोरपि प्रयो­ज­न­भे­दा­त्का­र­ण­भे­दा­ल्ल­क्ष­ण­भे­दाच्च भेदः । श्रमा­प­नु­त्त्यर्था हि ब्रह्मणा सम्पत्तिः सुषप्तम् । शरीरत्यागार्था तु ब्रह्मणा सम्पत्तिर्मोहः । यद्यपि सत्यपि मोहे न मरणं तथाप्यसति मोहे न मरणमिति मरणार्थो मोहः । मुस­ल­स­म्पा­ता­दि­नि­मि­त्त­त्वा­न्मो­हस्य श्रमा­दि­नि­मि­त्त­त्वाच्च सुषुप्तस्य मुख­ने­त्रा­दि­वि­का­र­ल­क्ष­ण­त्वा­न्मो­हस्य प्रस­न्न­व­द­न­त्वा­दि­ल­क्ष­ण­भे­दाच्च सुषु­प्त­स्या­सु­षु­प्तस्य त्ववा­न्त­र­भे­देऽपि निमि­त्त­प्र­यो­ज­न­ल­क्ष­णा­भे­दा­दे­क­त्वम् । तस्मा­त्सु­षु­प्त­मो­हा­व­स्थ­यो­र्ब्र­ह्मणा सम्पत्तावपि सुषुप्ते यादृशी सम्पत्तिर्न तादृशी मोह इत्य­र्ध­स­म्प­त्ति­रुक्ता । साम्य­वै­ष­म्या­भ्या­म­र्ध­त्वम् । यदा नैतदवस्थान्तरं तदा भेदा­त्त­त्प्र­वि­ल­याय यत्ना­न्त­र­मा­स्थे­यम् । अभेदे तु न यत्नान्तरमिति चिन्ताप्रयोजनम् ॥ १० ॥

न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ।

अवा­न्त­र­स­ङ्ग­ति­माह –
येन ब्रह्मणा सुषु­प्ता­दि­ष्विति ।
यद्यपि “तद­न­न्य­त्व­मा­र­म्भ­ण­श­ब्दा­दिभ्यः”(ब्र. सू. २ । १ । १४) इत्यत्र निष्प्रपञ्चमेव ब्रह्मोपपादितं तथापि प्रप­ञ्च­लि­ङ्गानां बह्वीनां श्रुतीनां दर्शनाद्भवति पुनर्विचिकित्सा अत­स्त­न्नि­वा­र­णा­या­रम्भः । तस्य च तत्त्व­ज्ञा­न­म­प­व­र्गो­प­यो­गीति प्रयोजनवान् विचारः । तत्रो­भ­य­लि­ङ्ग­श्र­व­णा­दु­भ­य­रू­पत्वं ब्रह्मणः प्राप्तम् । तत्रापि सवि­शे­ष­त्व­नि­र्वि­शे­ष­त्व­यो­र्वि­रो­धा­त्स्वा­भा­वि­क­त्वा­नु­प­प­त्ते­रेकं स्वतोऽपरं तु परतः । नच यत्प­र­त­स्त­द­पा­र­मा­र्थि­कम् । नहि चक्षुरादीनां स्वतः­प्र­मा­ण­भू­तानां दोष­तोऽ­प्रा­मा­ण्य­म­पा­र­मा­र्थि­कम् । विप­र्य­य­ज्ञा­न­ल­क्ष­ण­का­र्या­नु­त्पा­द­प्र­स­ङ्गात् । तस्मा­दु­भ­य­लि­ङ्ग­क­शा­स्त्र­प्रा­मा­ण्या­दु­भ­य­रू­पता ब्रह्मणः पारमार्थिकीति प्राप्त उच्यते न स्थानत उपाधितोऽपि परस्य ब्रह्मण उभ­य­चि­ह्न­त्व­स­म्भवः । एकं हि पार­मा­र्थि­क­म­न्य­द­ध्या­रो­पि­तम् । पारमार्थिकत्वे ह्युपाधिजनितस्य रूपस्य ब्रह्मणः परिणामो भवेत् । स च प्राक्प्र­ति­षिद्धः । तत्पा­रि­शे­ष्या­त्स्फ­टि­क­म­णे­रिव स्वभा­व­स्व­च्छ­ध­व­लस्य लाक्षा­र­सा­व­से­को­पा­धि­र­रू­णिमा सर्व­ग­न्ध­त्वा­दि­रौ­पा­धिको ब्रह्मण्यध्यस्त इति पश्यामो निर्वि­शे­ष­ता­प्र­ति­पा­द­ना­र्थ­त्वा­च्छ्रु­ती­नाम् । सविशेषतायामपि “यश्चायमस्यां पृथिव्यां तेजोमयः”(बृ. उ. २ । ५ । १) इत्यादीनां श्रुतीनां ब्रह्मै­क­त्व­प्र­ति­पा­द­न­प­र­त्वा­दे­क­त्व­ना­ना­त्व­यो­श्चै­क­स्मि­न्न­स­म्भ­वा­दे­क­त्वा­ङ्ग­त्वे­नैव नाना­त्व­प्र­ति­पा­द­न­प­र्य­व­सा­नात् , नानात्वस्य प्रमा­णा­न्त­र­सि­द्ध­त­या­नु­वा­द्य­त्वा­दे­क­त्वस्य चान­धि­ग­ते­र्वि­धे­य­त्वो­प­प­त्ते­र्भे­द­द­र्श­न­नि­न्दया च साक्षा­द्भू­य­सीभिः श्रुति­भि­र­भे­द­प्र­ति­पा­द­ना­दा­का­र­व­द्ब्र­ह्म­वि­ष­याणां च कासा­ञ्चि­च्छ्रु­ती­ना­मु­पा­स­ना­प­र­त्व­म­सति बाध­केऽ­न्य­प­रा­द्व­च­ना­त्प्र­ती­य­मा­न­मपि गृह्यते । यथा देवतानां विग्रहवत्त्वम् । सन्ति चात्र साक्षा­द्वै­ता­प­वा­दे­ना­द्वै­त­प्र­ति­पा­द­न­पराः शतशः श्रुतयः । कासाञ्चिच्च द्वैता­भि­धा­यि­नीनां तत्प्र­वि­ल­य­प­र­त्वम् । तस्मा­न्नि­र्वि­शे­ष­मे­क­रूपं चैतन्यैकरसं सद्ब्रह्म परमार्थतः, विशेषाश्च सर्व­ग­न्ध­त्व­वा­म­नी­त्वा­दय उपा­धि­व­शा­द­ध्यस्ता इति सिद्धम् । शेष­म­ति­रो­हि­ता­र्थम् ॥ ११ ॥

न भेदादिति चेन्न प्रत्ये­क­म­त­द्व­च­नात् ॥ १२ ॥

अपि चैवमेके ॥ १३ ॥

अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥

प्रका­श­व­च्चा­वै­य­र्थ्यात् ॥ १५ ॥

आह च तन्मात्रम् ॥ १६ ॥

दर्शयति चाथो अपि स्मर्यते ॥ १७ ॥

अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥

अम्बु­व­द­ग्र­ह­णात्तु न तथात्वम् ॥ १९ ॥

वृद्धि­ह्रा­स­भा­क्त्व­म­न्त­र्भा­वा­दु­भ­य­सा­म­ञ्ज­स्या­दे­वम् ॥ २० ॥

दर्शनाच्च ॥ २१ ॥

अत्र केचिद्द्वे अधिकरणे कल्पयन्तीति ।

किं सल्लक्षणं च प्रकाशलक्षणं च ब्रह्म किं सल्लक्षणमेव ब्रह्मोत प्रका­श­ल­क्ष­ण­मे­वेति तत्र पूर्वपक्षं गृह्णाति –
प्रका­श­व­च्चा­वै­य­र्थ्यात् ।
चकारात्सच्च । अवैयर्थ्यात् ।

ब्रह्मणि सच्छ्रुतेः सिद्धान्तयति –
आह च तन्मात्रम् ।
प्रकाशमात्रम् । नहि सत्त्वं नाम प्रका­श­रू­पा­द­न्यत् , यथा सर्व­ग­न्ध­त्वा­द­योऽपि तु प्रकाशरूपमेव सदिति नोभयरूपत्वं ब्रह्मण इत्यर्थः । तदे­त­द­ने­नो­प­न्यस्य दूषितम् । सत्ता­प्र­का­श­यो­रे­कत्वे नोभयलक्षणत्वम् । भेदे न स्थानतोऽपीति निराकृतमिति नाधिकरणान्तरं प्रयोजयति । पर­मा­र्थ­त­स्त्व­भेद एव प्रक­र्ष­प्र­का­श­व­दिति । सर्वेषां च साधारणे प्रविलयार्थत्वे सति” अरूपवदेव हि तत्प्र­धा­न­त्वात्” इति विनि­ग­म­न­का­र­ण­व­च­न­म­न­व­काशं स्यात् । एवं हि तस्यावकाशः स्याद्याद काश्चि­दु­पा­स­ना­प­र­तया रूपमाचक्षीरन् काश्चि­न्नी­रू­प­ब्र­ह्म­प्र­ति­पा­द­न­परा भवेयुः । सर्वासां तु प्रवि­ल­या­र्थ­त्वेन नीरू­प­ब्र­ह्म­प्र­ति­पा­द­ना­र्थत्वे उक्तो विनिगमनहेतुर्न स्यादित्यर्थः । एकनियोगप्रतीतेः प्रया­ज­द­र्श­पू­र्ण­मा­स­वा­क्य­व­दि­त्य­धि­का­रा­भि­प्रा­यम् , अनुबन्धभेदात्तु भिन्नोऽनयोरपि नियोग इति ।

कोऽयं प्रपञ्चप्रविलय इति ।
वास्तवस्य वा प्रपञ्चस्य प्रविलयः सर्पिष इवाग्निसंयोगात् । समारोपितस्य वा रज्ज्वां सर्पभावस्येव रज्जु­त­त्त्व­प­रि­ज्ञा­नात् । न तावद्वास्तवः सर्वसाधारणः पृथि­व्या­दि­प्र­पञ्चः पुरुषमात्रेण शक्यः समुच्छेत्तुम् । अपिच प्रह्ला­द­शु­का­दिभिः पुरुषधौरेयैः समूलमुन्मूलितः प्रपञ्च इति शून्यं जगद्भवेत् । नच वास्तवं तत्त्वज्ञानेन शक्यं समुच्छेत्तुम् । आरो­पि­त­रू­प­वि­रो­धि­त्वा­त्त­त्त्व­ज्ञा­न­स्ये­त्यु­क्तम् । समारोपितरूपस्तु प्रपञ्चो ब्रह्म­त­त्त्व­ज्ञा­प­न­प­रै­रेव वाक्यै­र्ब्र­ह्म­त­त्त्व­म­व­बो­ध­यद्भिः शक्यः समुच्छेत्तुमिति कृतमत्र विधिना । नहि विधिशतेनापि विना तत्त्वावबोधनं प्रव­र्त­स्वा­त्म­ज्ञान इति वा कुरु प्रपञ्चप्रविलयं वेति प्रवर्तितः शक्नोति प्रपञ्चप्रविलयं कर्तुम् । न चास्या­त्म­ज्ञा­न­विधिं विना वेदा­न्ता­र्थ­ब्र­ह्म­त­त्त्वा­व­बोधो न भवति । मौलिकस्य स्वाध्या­या­ध्य­य­न­वि­धे­रेव विवक्षितार्थतया सकलस्य वेदराशेः फल­व­द­र्था­व­बो­ध­न­प­र­ता­मा­पा­द­यतो विद्यमानत्वात् । अन्यथा कर्म­वि­धि­वा­क्या­न्यपि विध्य­न्त­र­म­पे­क्षे­र­न्निति । नच चिन्ता­सा­क्षा­त्का­र­यो­र्वि­धि­रिति तत्त्व­स­मी­क्षा­या­म­स्मा­भि­रु­प­पा­दि­तम् । विस्तरेण चायमर्थस्तत्रैव प्रपञ्चितः । तस्मात् “जर्तिलयवाग्वा जुहुयात्” इतिवद्विधिसरूपा एते “आत्मा वा अरे द्रष्टव्य”(बृ. उ. २ । ४ । ५) इत्यादयो न तु विधय इति ।

तदिदमुक्तम् –
द्रष्ट­व्या­दि­शब्दा अपि तत्त्वा­भि­मु­खी­क­र­ण­प्र­धाना न तत्त्वा­व­बो­ध­वि­धि­प्र­धाना इति ।
अपिच ब्रह्मतत्त्वं निष्प्र­प­ञ्च­मुक्तं न तत्र नियोज्यः कश्चित्सम्भवति । जीवो हि नियोज्यो भवेत् , स चेत्प्र­प­ञ्च­पक्षे वर्तते को नियो­ज्य­स्त­स्यो­च्छि­न्न­त्वात् । अथ ब्रह्मपक्षे तथाप्यनियोज्यः, ब्रह्म­णोऽ­नि­यो­ज्य­त्वात् । अथ ब्रह्म­णोऽ­न­न्योऽ­प्य­वि­द्य­यान्य इवेति नियोज्यः । तदयुक्तम् । ब्रह्मभावं पार­मा­र्थि­क­म­व­ग­म­य­ता­ग­मे­ना­वि­द्याया निरस्तत्वात् । तस्मा­न्नि­यो­ज्या­भा­वा­दपि न नियोगः ।

तदिदमुक्तम् –
जीवो नाम प्रप­ञ्च­प­क्ष­स्यै­वेति ।
अपिच ज्ञानविधिपरत्वे तन्मात्रात्तु ज्ञान­स्या­नु­त्प­त्ते­स्त­त्त्व­प्र­ति­पा­द­न­प­र­त्व­म­भ्यु­प­ग­म­नी­यम् । तत्र वरं तत्त्व­प्र­ति­पा­द­न­प­र­त्व­मे­वास्तु तस्या­व­श्या­भ्यु­प­ग­न्त­व्य­त्वे­नो­भ­य­वा­दि­सि­द्ध­त्वात् ।

एवं च कृतं तत्त्व­ज्ञा­न­वि­धि­ने­त्याह –
ज्ञेया­भि­मु­ख­स्या­पीति ।
नच ज्ञानाधाने प्रमा­णा­न­पे­क्ष­स्यास्ति कश्चिदुपयोगो विधेः । एवं हि तदुपयोगो भवे­द्य­द्य­न्य­था­कारं ज्ञानमन्यथादधीत ।

नच तच्छक्यं वापि युक्तमित्याह –
नच प्रमा­णा­न्त­रे­णेति ।
किञ्चा­न्य­न्नि­यो­ग­नि­ष्ठ­त­यैव च पर्य­व­स्य­त्या­म्नाये यद­भ्यु­प­ग­त­म्भ­वद्भिः शास्त्र­प­र्या­लो­च­न­या­नि­यो­ज्य­ब्र­ह्मा­त्मत्वं जीवस्येति तदे­त­च्छा­स्त्रा­वि­रो­धा­द­प्र­मा­ण­कम् ।

अथै­त­च्छा­स्त्र­म­नि­यो­ज्य­ब्र­ह्मा­त्मत्वं च जीवस्य प्रतिपादयति जीवं च नियुक्तं ततो द्व्यर्थं च विरुद्धार्थं च स्यादित्याह –
अथेति ।
दर्श­पौ­र्ण­मा­सा­दि­वा­क्येषु जीव­स्या­नि­यो­ज्य­स्यापि वस्तु­तोऽ­ध्य­स्त­नि­यो­ज्य­भा­वस्य नियोज्यता युक्ता । नहि तद्वाक्यं तस्य नियोज्यतामाहापि तु लौकि­क­प्र­मा­ण­सिद्धां नियो­ज्य­ता­मा­श्रित्य दर्शपूर्णमासौ विधत्ते । इदं तु नियोज्यतामपनयति च नियुङ्क्ते चेति दुर्घटमिति भावः ।

नियोगपरतायां चेति ।
पौर्वा­प­र्या­लो­च­नया वेदान्तानां तत्त्वनिष्ठता श्रुता न श्रुता नियो­ग­नि­ष्ठ­ते­त्यर्थः ।

अपिच नियोगनिष्ठत्वे वाक्यस्य दर्श­पौ­र्णा­मा­स­क­र्मण इवा­पू­र्वा­वा­न्त­र­व्या­पा­रा­दा­त्म­ज्ञा­न­क­र्म­णोऽ­प्य­पू­र्वा­वा­न्त­र­व्या­पा­रा­देव स्वर्गा­दि­फ­ल­व­न्मो­क्ष­स्या­न­न्द­रू­प­फ­लस्य सिद्धिः । तथा चानित्यत्वं सातिशयत्वं स्वर्ग­व­द्भ­वे­दि­त्याह –
कर्मफलवदिति ।

अपिच ब्रह्म­वा­क्ये­ष्विति ।
सप्र­प­ञ्च­नि­ष्प्र­प­ञ्चो­प­दे­शेषु हि साध्या­नु­ब­न्ध­भे­दा­दे­क­नि­यो­ग­त्व­म­सि­द्धम् । दर्श­पौ­र्ण­मा­स­प्र­या­ज­वा­क्येषु तु यद्य­प्य­नु­ब­न्ध­भे­द­स्त­था­प्य­धि­का­रां­शस्य साध्यस्य भेदाभावादभेद इति ॥ २१ ॥

प्रकृ­तै­ता­वत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ।

अधिकरणविषयमाह –
द्वे वाव ब्रह्मणो रूपे इति ।
द्वे एव ब्रह्मणो रूपे ब्रह्मणः पर­मा­र्थ­तोऽ­रू­प­स्या­ध्या­रो­पिते द्वे एव रूपे ताभ्यां हि तद्रूप्यते ।

ते दर्शयति –
मूर्तं चैवामूर्तं च ।
समु­च्ची­य­मा­ना­व­धा­र­णम् । अत्र पृथि­व्य­प्ते­जांसि त्रीणि भूतानि ब्रह्मणो रूपं मूर्तं मूर्च्छि­ता­व­य­व­मि­त­रे­त­रा­नु­प्र­वि­ष्टा­व­यवं कठिनमिति यावत् । तस्यैव विशेषणान्तराणि मर्त्यं मरणधर्मकम् । स्थितमव्यापि । अवच्छिन्नमिति यावत् । सतन्येभ्यो विशि­ष्य­मा­ण­म­सा­धा­र­ण­ध­र्म­व­दिति यावत् । गन्ध­स्ने­हो­ष्ण­ता­श्चा­न्यो­न्य­व्य­व­च्छे­द­हे­त­वोऽ­सा­धा­रणा धर्माः । तस्यैतस्य ब्रह्मरूपस्य तेजोऽबन्नस्य चतु­र्वि­शे­ष­ण­स्यैष रसः सारो य एष सविता तपति । अथामूर्तं वायु­श्चा­न्त­रिक्षं च तद्धि न कठि­न­मि­त्य­मू­र्त­मे­त­द­मृ­त­म­म­र­ण­ध­र्म­कम् । मूर्तं हि मूर्ता­न्त­रे­णा­भि­ह­न्य­मा­न­म­व­य­व­वि­श्ले­षा­द्ध्वं­सते नतु तथाभावः सम्भ­व­त्य­मू­र्तस्य । एतद्यदेति गच्छति व्याप्नोतीति । एतत्त्यं नित्य­प­रो­क्ष­मि­त्यर्थः । तस्यै­त­स्या­मू­र्त­स्यै­त­स्या­मृ­त­स्यै­तस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन् सवितृमण्डले पुरुषः । करणात्मको हिर­ण्य­ग­र्भ­प्रा­णा­ह्व­य­स्त्यस्य ह्येष रसः सारो नित्यपरोक्षता च साम्य­मि­त्य­धि­दै­व­तम् । अथा­ध्या­त्म­मि­द­मेव मूर्तं यद­न्य­त्प्रा­णा­न्त­रा­का­शाभ्यां भूतत्रयं शरी­रा­र­म्भ­क­मे­त­न्म­र्त्य­मे­त­त्स्थि­त­मे­त­त्स­त्त­स्यै­तस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्योष रस इति । अथामूर्तं प्राणश्च यश्चा­य­म­न्त­रा­त्म­न्ना­काश एत­द­मृ­त­मे­त­द्य­दे­तत्त्यं तस्यै­त­स्या­मू­र्त­स्यै­त­स्या­मृ­त­स्यै­तस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेक्षन् पुरुषस्त्यस्य ह्येष रसः । लिङ्गस्य हि करणात्मकस्य हिरण्यगर्भस्य दक्षि­ण­म­क्ष्य­धि­ष्ठानं श्रुतेरधिगतम् । तदेवं ब्रह्मण औपा­धि­क­यो­र्मू­र्ता­मू­र्त­यो­रा­ध्या­त्मि­का­धि­दै­वि­कयोः कार्यकारणभावेन विभागो व्याख्यातः सत्त्य­च्छ­ब्द­वा­च्ययोः ।

अथेदानीं तस्य करणात्मनः पुरुषस्य लिङ्गस्य रूपं वक्तव्यम् । मूर्ता­मू­र्त­वा­स­ना­वि­ज्ञा­न­मयं विचित्रं माया­म­हे­न्द्र­जा­लो­पमं तद्वि­चि­त्रै­र्दृ­ष्टा­न्तै­रा­द­र्श­यति “तद्यथा माहारजनं”(बृ. उ. २ । ३ । ६) इत्यादिना । एतदुक्तं भवति मूर्ता­मू­र्त­वा­स­ना­वि­ज्ञा­न­म­यस्य विचित्रं रूपं लिङ्गस्येति । तदेवं निरवशेषं सवासनं सत्यरूपमुक्त्वा यत्तत्सत्यस्य सत्यमुक्तं ब्रह्म तत्स्व­रू­पा­व­धा­र­णा­र्थ­मि­द­मा­र­भ्यते । यतः सत्यस्य रूपं निःशे­ष­मु­क्त­म­तोऽ­व­शिष्टं सत्यस्य यत्सत्यं तस्यानन्तरं तदुक्तिहेतुकं स्वरूपं वक्तव्यमित्याह –
अथात आदेशः

कथनं सत्यसत्यस्य परमात्मनस्तमाह –
नेति नेतीति ।
एत­द­र्थ­क­थ­ना­र्थ­मि­द­म­धि­क­र­णम् ।

ननु किमे­ता­व­दे­वा­दे­श्य­मु­तेतः पर­म­न्य­त­प्य­स्ती­त्यत आह –
नह्ये­त­स्मा­द्ब्र­ह्मण इति ।
नेत्या­दि­ष्टा­द­न्य­त्प­र­मस्ति यदादेश्यं भवेत् । तस्मा­दे­ता­व­दे­वा­देश्यं नाप­र­म­स्ती­त्यर्थः । अत्रै­व­म­र्थे­ने­तिना यत्संनिहितं परामृष्टं तन्निषिध्यते नञा संनिहितं च मूर्तामूर्तं सवासनं रूपद्वयम् । तदवच्छेदकत्वेन च ब्रह्म । तत्रेदं विचार्यते किं रूपद्वयं सवासनं ब्रह्म च सर्वमेव च प्रतिषिध्यते, उत ब्रह्मैवाथ सवासनं रूपद्वयं ब्रह्म तु परिशिष्यत इति । यद्यपि तेषु तेषु वेदा­न्त­प्र­दे­शेषु ब्रह्मस्वरूपं प्रतिपादितं तदसद्भावज्ञानं च निन्दितम् । “अस्ती­त्ये­वो­प­ल­ब्धव्यः”(क. उ. २ । ३ । १३)“अस्ती­त्ये­वो­प­ल­ब्धव्यः”(क. उ. २ । ३ । १३) इति चास्य सत्त्वमवधारितं तथापि सद्बोधरूपं तद्ब्रह्म सवा­स­न­मू­र्ता­मू­र्त­रू­प­सा­धा­र­ण­तया च सामान्यं तस्य चैते विशेषा मूर्तामूर्तादयः । नच तत्त­द्वि­शे­ष­नि­षेधे सामा­न्य­म­व­स्था­तु­म­र्हति निर्विशेषस्य सामा­न्य­स्या­यो­गात् । यथाहुः “निर्विशेषं न सामान्यं भवे­च्छ­श­वि­षा­ण­वत्” इति । तस्मा­त्त­द्वि­शे­ष­नि­षे­धेऽपि तत्सामान्यस्य ब्रह्म­णोऽ­न­व­स्था­ना­त्स­र्व­स्यै­वायं निषेधः । अत एव नह्येतस्मादिति नेत्य­न्य­त्प­र­म­स्तीति निषेधात्परं नास्तीति सर्वनिषेधमेव तत्त्वमाह श्रुतिः । “अस्ती­त्ये­वो­प­ल­ब्धव्यः” इति चोपा­स­ना­वि­धा­न­व­न्नेयं, न त्वस्ति­त्व­मे­वास्य तत्त्वम् । तत्प्रशंसार्थं चास­द्भा­व­ज्ञा­न­निन्दा । यच्चान्यत्र ब्रह्म­स्व­रू­प­प्र­ति­पा­दनं तदपि मूर्ता­मू­र्त­रू­प­प्र­ति­पा­द­न­व­न्नि­षे­धा­र्थम् । असंनिहितोऽपि च तत्र निषेधो योग्य­त्वा­त्स­म्भ­न्स्यते । यथाहुः “येन यस्याभिसम्बन्धो दूरस्थस्यापि तेन सः” इति । तस्मा­त्स­र्व­स्यै­वा­वि­शे­षेण निषेध इति प्रथमः पक्षः । अथवा पृथि­व्या­दि­प्र­प­ञ्चस्य समस्तस्य प्रत्य­क्षा­दि­प्र­मा­ण­सि­द्ध­त्वात् , ब्रह्मणस्तु वाङ्मनसागोचरतया सक­ल­प्र­मा­ण­वि­र­हात् , कतरस्यास्तु निषेध इति विशये प्रप­ञ्च­प्र­ति­षेधे सम­स्त­प्र­त्य­क्षा­दि­व्या­को­प­प्र­स­ङ्गात् , ब्रह्मप्रतिषेधे त्वव्या­को­पा­द्ब्र­ह्मैव प्रतिषेधेन सम्बध्यते योग्यत्वान्न प्रप­ञ्च­स्त­द्वै­प­री­त्यात् , वीप्सा तु तद­त्य­न्ता­भा­व­सू­च­ना­येति मध्यमः पक्षः ।

तत्र प्रथमं पक्षं निराकरोति –
न तावदुभयप्रतिषेध उपपद्यते शून्य­वा­द­प्र­स­ङ्गा­दिति ।
अयमभिसन्धिः - उपाधयो ह्यमी पृथि­व्या­द­योऽ­वि­द्या­क­ल्पिता न तु शोणकर्कादय इव विशेषा अश्वत्वस्य । न चोपाधिविगमे उप­हि­त­स्या­भा­वोऽ­प्र­ती­तिर्वा । नह्युपादीनां दर्प­ण­म­णि­कृ­पा­णा­दी­ना­म­प­गमे मुख­स्या­भा­वोऽ­प्र­ती­तिर्वा । तस्मा­दु­पा­धि­नि­षे­धेऽपि नोपहितस्य शश­वि­षा­णा­य­मा­न­ता­प्र­त्ययो वा । न चेतीति संनि­धा­ना­वि­शे­षा­त्स­र्वस्य प्रति­षे­ध्य­त्व­मिति युक्तम् । नहि भावमनुपाश्रित्य प्रतिषेध उपपद्यते । किञ्चिद्धि क्वचि­न्नि­षि­ध्यते । नह्यनाश्रयः प्रतिषेधः शक्यः प्रतिपत्तुम् ।

तदिदमुक्तम् –
परिशिष्यमाणे चान्यस्मिन्य इतरः प्रति­षे­द्धु­मा­र­भ्यते तस्य प्रति­षे­द्धु­म­श­क्य­त्वा­त्त­स्यैव पर­मा­र्थ­त्वा­पत्तेः प्रति­षे­धा­नु­प­पत्तिः ।

मध्यमं पक्षं प्रतिक्षिपति –
नापि ब्रह्मप्रतिषेध उपपद्यते ।
युक्तं यन्नै­स­र्गि­का­वि­द्या­प्राप्तः प्रपञ्चः प्रतिषिध्यते प्राप्ति­पू­र्व­क­त्वा­त्प्र­ति­षे­धस्य । ब्रह्म तु नाविद्यासिद्धं, नापि प्रमाणान्तरात् । तस्माच्छब्देन प्राप्तं प्रतिषेधनीयम् । तथाच यस्तस्य शब्दः प्रापकः स तत्पर इति स ब्रह्मणि प्रमाणमिति कथमस्य निषेधोऽपि प्रमाणवान् । नच पर्यु­दा­सा­धि­क­र­ण­पू­र्व­प­क्ष­न्या­येन विकल्पः, वस्तुनि सिद्धस्वभावे तदनुपपत्तेः । न चावाङ्मनसगोचरो बुद्धावलेखितुं शक्यः । अशक्यश्च कथं निषिध्यते । प्रप­ञ्च­स्त्व­ना­द्य­वि­द्या­सि­द्धोऽ­नूद्य ब्रह्मणि प्रतिषिध्यत इति युक्तम् । तदि­मा­म­नु­प­प­त्ति­म­भि­प्रे­त्यो­क्तम् “नापि ब्रह्मप्रतिषेध उपपद्यते” इति ।

हेत्वन्तरमाह –
ब्रह्म ते ब्रवाणीति ।

उप­क्र­म­वि­रो­धा­दिति ।
उप­क्र­म­प­रा­म­र्शो­प­सं­हा­र­प­र्या­लो­च­नया हि वेदान्तानां सर्वेषामेव ब्रह्म­प­र­त्व­मु­प­पा­दितं प्रथमेऽध्याये । न चास­त्या­मा­का­ङ्क्षायां दूरतरस्थेन प्रतिषेधेनैषां सम्बन्धः सम्भवति ।

यच्च वाङ्मनसातीततया ब्रह्म­ण­स्त­त्प्र­ति­षे­धस्य न प्रमा­णा­न्त­र­वि­रोध इति तत्राह –
वाङ्म­न­सा­ती­त­त्व­म­पीति ।
प्रतिपादयन्ति वेदान्ता महता प्रयत्नेन ब्रह्म । नच निषेधाय तत्प्रतिपादनम् , अनु­प­प­त्ते­रि­त्यु­क्त­म­ध­स्तात् । इदानीं तु निष्प्र­यो­ज­न­मि­त्युक्तं “प्रक्षालनाद्धि पङ्कस्य” इति न्यायात् । तस्मा­द्वे­दा­न्त­वाचा मनसि संनि­धा­ना­द्ब्र­ह्मणो वाङ्मनसातीतत्वं नाञ्जसमपि तु प्रति­पा­द­न­प्र­क्रि­यो­प­क्रम एषः । यथा गवादयो विषयाः साक्षा­च्छृ­ङ्ग­ग्रा­हि­कया प्रतिपाद्यन्ते प्रतियन्ते च नैवं ब्रह्म । यथाहुः “भेद­प्र­प­ञ्च­वि­ल­य­द्वा­रेण च निरूपणम्” इति ।

ननु प्रकृतप्रतिषेधे ब्रह्मणोऽपि कस्मान्न प्रतिषेध इत्यत आह –
तद्धि प्रकृतं प्रपञ्चितं चेति ।
प्रधानं प्रकृतं प्रपञ्चश्च प्रधानं न ब्रह्म तस्य षष्ठ्यन्ततया प्रप­ञ्चा­व­च्छे­द­क­त्वे­ना­प्र­धा­न­त्वा­दि­त्यर्थः । ततोऽ­न्य­द्ब्र­वी­तीति नेति नेतीति प्रति­षे­धा­द­न्य­द्भूयो ब्रवीतीति तन्निर्वचनम् । नह्ये­त­स्मा­दि­त्यस्य यदा नह्येतस्मादिति नेति नेत्या­दि­ष्टा­द्ब्र­ह्म­णोऽ­न्य­त्प­र­म­स्तीति व्याख्यानं तदा प्रप­ञ्च­प्र­ति­षे­धा­द­न्य­द्ब्र­ह्मैव ब्रवीतीति व्याख्येयम् । यदा तु नह्येतस्मादिति सर्वनाम्ना प्रतिषेधो ब्रह्मण आदेशः परामृश्यते तदापि प्रप­ञ्च­प्र­ति­षे­ध­मात्रं न प्रतिपत्तव्यमपि तु तेन प्रतिषेधेन भावरूपं ब्रह्मो­प­ल­क्ष्यते ।

कस्मादित्यत आह –
ततो ब्रवीति च भूय इति ।
यस्मा­त्प्र­ति­षे­धस्य परस्तादपि ब्रवीति । अथ ब्रह्मणो नामधेयं नाम सत्यस्य सत्यमिति तद्व्याचष्टे श्रुतिः “प्राणा वै सत्यम्”(बृ. उ. २ । १ । २०) इति । महा­र­ज­ना­द्यु­प­मितं लिङ्गमुपलक्षयति । तत्खलु सत्य­मि­त­रा­पे­क्षया तस्यापि परं सत्यं ब्रह्म । तदेवं यतः प्रतिषेधस्य परस्ताद्ब्रवीति तस्मान्न प्रप­ञ्च­प्र­ति­षे­ध­मात्रं ब्रह्मापि तु भावरूपमिति । तदेवं पूर्वस्मिन् व्याख्याने निर्वचनं ब्रवीतीति व्याख्यातम् । अस्मिस्तुं सत्यस्य सत्यमिति ब्रवीतीति व्याख्येयम् । शेष­म­ति­रो­हि­ता­र्थम् ॥ २३ ॥

अपि च संराधने प्रत्य­क्षा­नु­मा­ना­भ्याम् ॥ २४ ॥

प्रका­शा­दि­व­च्चा­वै­शेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥

अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥

उभ­य­व्य­प­दे­शा­त्त्व­हि­कु­ण्ड­ल­वत् ।
अने­ना­हि­रू­पे­णा­भेदः । कुण्डलादिरूपेण तु भेद इत्युक्तं तेन विष­य­भे­दा­द्भे­दा­भे­द­यो­र­वि­रोध इत्येकविषयत्वेन वा सर्व­दो­प­ल­ब्धे­र­वि­रोधः । विरुद्धमिति हि नः क्व संप्रत्ययो न यत्प्र­मा­णे­नो­प­ल­भ्यते । आगमतश्च प्रमा­णा­दे­क­गो­च­रा­वपि भेदाभेदौ प्रतीयमानौ न विरोधमावहतः सवि­तृ­प्र­का­श­यो­रिव प्रत्य­क्षा­त्प्र­मा­णा­द्भे­दा­भे­दा­विति ॥ २७ ॥

प्रकारान्तरेण भेदा­भे­द­यो­र­वि­रो­ध­माह –
प्रका­शा­श्र­य­वद्वा तेजस्त्वात् ॥ २८ ॥

तदेवं परमतमुपन्यस्य स्वमतमाह –
पूर्ववद्वा ।
अयमभिसन्धिः - यस्य मतं वस्तु­नोऽ­हि­त्वे­ना­भेदः कुण्डलत्वेन भेद इति, स एवं ब्रुवाणः प्रष्टव्यो जायते, किम­हि­त्व­कु­ण्ड­लत्वे वस्तुनो भिन्ने उताभिन्ने इति । यदि भिन्ने, अहि­त्व­कु­ण्ड­लत्वे भिन्ने इति वक्तव्यं न तु वस्तुनस्ताभ्यां भेदाभेदौ । नह्य­न्य­भे­दा­भे­दा­भ्या­म­न्य­द्भि­न्न­म­भिन्नं वा भवितुमर्हति । अतिप्रसङ्गात् । अथ वस्तुनो न भिद्येते अहि­त्व­कु­ण्ड­लत्वे तथा सति को भेदा­भे­द­यो­र्वि­ष­य­भे­द­स्त­यो­र्व­स्तु­नोऽ­न­न्य­त्वे­ना­भे­दात् । न चैकविषयत्वेऽपि सदा­नु­भू­य­मा­न­त्वा­द्भे­दा­भे­द­यो­र­वि­रोधः स्वरू­प­वि­रु­द्ध­यो­र­प्य­वि­रोधे क्व नाम विरोधो व्यवतिष्ठेत । नच सदानुभूयमानं विचारासहं भाविकं भवितुमर्हति । देहा­त्म­भा­व­स्यापि सर्व­दा­नु­भू­य­मा­नस्य भावि­क­त्व­प्र­स­ङ्गात् । प्रपञ्चितं चैतदस्माभिः प्रथमसूत्र इति नेह प्रपञ्चितम् । तस्मा­द­ना­द्य­वि­द्या­वि­क्री­डि­त­मे­वै­क­स्या­त्मनो जीवभावभेदो न भाविकः । तथाच तत्त्व­ज्ञा­न­द­वि­द्या­नि­वृ­त्ता­व­प­व­र्ग­सिद्धिः । तात्त्विकत्वे त्वस्य न ज्ञाना­न्नि­वृ­त्ति­स­म्भवः । नच तत्त्व­ज्ञा­ना­द­न्य­द­प­व­र्ग­सा­ध­न­मस्ति । यथाह श्रुतिः “तमेव विदि­त्वा­ति­मृ­त्यु­मेति नान्यः पन्था विद्यतेऽयनाय”(श्वे. उ. ३ । ८) इति । शेष­म­ति­रो­हि­ता­र्थम् ॥ २९ ॥

प्रतिषेधाच्च ॥ ३० ॥

परमतः सेतू­न्मा­न­स­म्ब­न्ध­भे­द­व्य­प­दे­शेभ्यः ।
यद्यपि श्रुति­प्रा­चु­र्या­द्ब्र­ह्म­व्य­ति­रिक्तं तत्त्वं नास्ती­त्य­व­धा­रितं तथापि सेत्वा­दि­श्रु­ती­ना­मा­पा­त­त­स्त­द्वि­रो­ध­द­र्श­ना­त्त­त्प्र­ति­स­मा­धा­ना­र्थ­म­य­मा­रम्भः । जाङ्गलं स्थलम् । प्रका­श­व­द­न­न्त­व­ज्ज्यो­ति­ष्म­दा­य­त­न­व­दिति पादा ब्रह्म­ण­श्च­त्वा­र­स्तेषां पादा­ना­म­र्धा­न्यष्टौ शफाः । तेऽष्टावस्य ब्रह्मण इत्यष्टशफं ब्रह्म । षोडश कला अस्येति षोडशकलम् । तद्यथा प्राची प्रतीची दक्षिणोदीचीति चतस्रः कला अवयवा इव कलाः स प्रकाशवान्नाम प्रथमः पादः । एतदुपासनायां प्रका­श­वा­न्मुख्यो भवतीति प्रकाशवान् पादः । अथापराः पृथि­व्य­न्त­रिक्षं द्यौः समुद्र इति चतस्रः कला एष द्वितीयः पादोऽ­न­न्त­वा­न्नाम । सोऽय­म­न­न्त­व­त्त्वेन गुणे­नो­पा­स्य­मा­नोऽ­न­न्त­त्व­मु­पा­स­क­स्या­व­ह­तीति अनन्तवान् पादः । अथाग्निः सूर्यश्चन्द्रमा विद्युदिति चतस्रः कलाः स ज्योतिष्मान्नाम पाद­स्तृ­ती­य­स्त­दु­पा­स­ना­ज्ज्यो­ति­ष्मान् भवतीति ज्योतिष्मान् पादः । अथ घ्राणश्चक्षुः श्रोत्रं वागिति चतस्रः कलाश्चतुर्थः पाद आयतनवान्नाम । एते घ्राणादयो हि गन्धादिविषया मन आयतनमाश्रित्य भोगसाधनं भव­न्ती­त्या­य­त­न­वा­न्नाम पादः । तदेवं चतु­ष्पा­द्ब्र­ह्मा­ष्ट­शफं षोड­श­क­ल­मु­न्मि­षितं श्रुत्या । अतस्ततो ब्रह्मणः परमन्यदस्ति ।

स्यादेतत् । अस्ति चेत्प­रि­स­ङ्ख्या­यो­च्य­ता­मे­ता­व­दिति । अत आह –
अमितमस्तीति ।
प्रमाणसिद्धम् । न त्वेता­व­दि­त्यर्थः । भेदव्यपदेशश्च त्रिप्रकार आधा­र­त­श्चा­ति­दे­श­त­श्चा­व­धि­तश्च ॥ ३१ ॥

सामान्यात्तु ।
जग­त­स्त­न्म­र्या­दानां च विधारकत्वं च सेतुसामान्यम् । यथा हि तन्तवः पटं विधारयन्ति तदु­पा­दा­न­त्वा­देवं ब्रह्मापि जगद्विधारयति तदुपपादकत्वात् । तन्मर्यादानां च विधारकं ब्रह्म । इत­र­था­ति­च­प­ल­स्थू­ल­ब­ल­व­त्क­ल्लो­ल­मा­ला­क­लिलो जल­नि­धि­रि­ला­प­रि­म­ण्ड­ल­म­व­गि­लेत् । वडवानलो वा विस्फु­र्जि­त­ज्वा­ला­ज­टिलो जग­द्भ­स्म­सा­द्भा­व­येत् । पवनः प्रचण्डो वाकाण्डमेव ब्रह्माण्डं विघटयेदिति । तथाच श्रुतिः “भीषास्माद्वातः पवते”(तै. उ. २ । ८ । १) इत्यादिका ॥ ३२ ॥

बुद्ध्यर्थः पादवत् ।
मनसो ब्रह्मप्रतीकस्य समा­रो­पि­त­ब्र­ह्म­भा­वस्य वाग्घ्रा­ण­श्चक्षुः श्रोत्रमिति चत्वारः पादाः । मनो हि वक्त­व्य­घ्रा­त­व्य­द्र­ष्ट­व्य­श्रो­त­व्यान् गोचरान् वागादिभिः सञ्चरतीति सञ्चरणसाधारणतया मनसः पाद­स्त­दि­द­म­ध्या­त्मम् । आकाशस्य ब्रह्म­प्र­ती­क­स्या­ग्नि­र्वा­यु­रा­दित्यो दिश इति चत्वारः पादाः । ते हि व्यापिनो नभस उदर इव गोः पादा विलग्ना उपलक्ष्यन्त इति पादा­स्त­दि­द­म­धि­दै­व­तम् ।

तदनेन पादवदिति वैदिकं निदर्शनं व्याख्याय लौकिकं चेदं निदर्शनमित्याह –
अथवा पादवदिति ।

तद्वदिति ।
इहापि मन्द­बु­द्धी­ना­मा­ध्या­न­व्य­व­हा­रा­ये­त्यर्थः ॥ ३३ ॥

स्थान­वि­शे­षा­त्प्र­का­शा­दि­वत् ।
बुद्ध्या­द्यु­पा­धि­स्था­न­वि­शे­ष­यो­गा­दु­द्भू­तस्य जाग्र­त्स्व­प्न­यो­र्वि­शे­ष­वि­ज्ञा­न­स्यो­पा­ध्यु­प­श­मेऽ­भि­भवे सुषु­प्ता­व­स्था­न­मिति । तथा भेदव्यपदेशोऽपि त्रिविधो ब्रह्मण उपा­धि­भे­दा­पे­क्ष­येति । यथा सौध­जा­ल­मा­र्ग­नि­वे­शिन्यः सवितृभासो जाल­मा­र्गो­पा­धि­भे­दा­द्भिन्ना भासन्ते तद्विगमे तु गभ­स्ति­म­ण्ड­ले­नै­की­भ­व­न्त्य­त­स्तेन सम्बध्यन्त एवमिहापीति ॥ ३४ ॥

स्यादेतत् । एकीभावः कस्मादिह सम्बन्धः कथ­ञ्चि­द्व्या­ख्या­यते न मुख्य एवे­त्ये­त­त्सू­त्रेण परिहरति –
उपपत्तेश्च ।
स्वमपीत इति हि स्वरूपसम्बन्धं ब्रूते । स्वभावश्चेदनेन सम्बन्धत्वेन स्पृष्टस्ततः स्वाभा­वि­क­स्ता­दा­त्म्या­न्ना­ति­रि­च्यत इति तर्कपाद उप­पा­दि­त­मि­त्यर्थः । तथा भेदोऽपि त्रिविधो वान्यादृशः स्वाभाविक इत्यर्थः ॥ ३५ ॥

तथा­न्य­प्र­ति­षे­धात् ।
सुगमेन भाष्येण व्याख्यातम् ॥ ३६ ॥

अनेन सर्व­ग­त­त्व­मा­या­म­श­ब्दा­दिभ्यः ।

ब्रह्मा­द्वै­त­सि­द्धा­वपि न सर्वगतत्वं सर्वव्यापिता सर्वस्य ब्रह्मणा स्वरूपेण रूपवत्त्वं सिध्यतीत्यत आह –
अनेन सेत्वा­दि­नि­रा­क­र­णेन ।
पर­हे­तु­नि­रा­क­र­णे­ना­न्य­प्र­ति­षे­ध­स­मा­श्र­य­णेन च स्वसा­ध­नो­प­न्या­सेन च सर्व­ग­त­त्व­म­प्या­त्मनः सिद्धं भवति । अद्वैते सिद्धे सर्वोऽ­य­म­नि­र्व­च­नीयः प्रपञ्चावभासो ब्रह्माधिष्ठान इति सर्वस्य ब्रह्म­स­म्ब­न्धा­द्ब्रह्म सर्वगतमिति सिद्धम् ॥ ३७ ॥

फलमत उपपत्तेः ।
सिद्धा­न्तो­प­क्र­म­मि­द­म­धि­क­र­णम् ।

स्यादेतत् । नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भा­वस्य ब्रह्मणः कुत ईश्वरत्वं कुतश्च फल­हे­तु­त्व­म­पी­त्यत आह –
तस्यैव ब्रह्मणो व्याव­हा­रि­क्या­मिति ।
नास्य पारमार्थिकं रूप­मा­श्रि­त्यै­त­च्चि­न्त्यते किन्तु सांव्यवहारिकम् । एतच्च “तपसा चीयते ब्रह्म”(मु.उ. १-१-८) इति व्याच­क्षा­णै­र­स्मा­भि­रु­प­पा­दि­तम् । इष्टम्फलं स्वर्गः । यथाहुः “यन्न दुःखन सम्भिन्नं नच ग्रस्तमनन्तरम् । अभिलाषोपनीतं च सुखं स्वर्ग­प­दा­स्प­दम्” इति । अनि­ष्ट­म­वी­च्या­दि­स्था­न­भोग्यं, व्यामिश्रं मनुष्यभोग्यम् । तत्र ताव­त्प्र­ति­पा­द्य­ते­फ­ल­मत ईश्व­रा­त्क­र्म­भि­रा­रा­धि­ता­द्भ­वि­तु­म­र्हति ।

अथ कर्मण एव फलं कस्मान्न भवतीत्यत आह –
कर्म­ण­स्त्व­नु­क्ष­ण­वि­ना­शि­नः­प्र­त्य­क्ष­वि­ना­शिन इति ।

चोदयति –
स्यादेतत्कर्म विनश्यदिति ।
उपात्तमपि फलं भोक्तु­म­यो­ग्य­त्वाद्वा कर्मा­न्त­र­प्र­ति­ब­न्धाद्वा न भुज्यत इत्यर्थः ।

परिहरति –
तदपि न परिशुध्यतीति ।
नहि स्वर्ग आत्मानं लभ­ता­मि­त्य­धि­का­रिणः कामयन्ते किन्तु भोग्योऽ­स्मा­क­म्भ­व­त्विति । तेन यादृशमेभिः काम्यते तादृशस्य फलत्वमिति भोग्यमेव सत्फलमिति । नच तादृशं कर्मानन्तरमिति कथं फलं, सदपि स्वरूपेण । अपिच स्वर्गनरकौ तीव्रतमे सुखदुःखे इति तद्वि­ष­ये­णा­नु­भ­वेन भोगा­प­र­ना­म्ना­वश्यं भवितव्यम् । तस्मा­द­नु­भ­व­योग्ये अननुभूयमाने शशशृङ्गवन्न स्त इति निश्चीयते ।

चोदयति –
अथोच्येत मा भूत्कर्मानन्तरं फलोत्पादः । कर्म­का­र्या­द­पू­र्वा­त्फ­ल­मु­त्प­त्स्यत इति ।

परिहरति –
तदपि नेति ।
यद्यदचेतनं तत्तत्सर्वं चेतनाधिष्ठितं प्रवर्तत इति प्रत्य­क्षा­ग­मा­भ्या­म­व­धा­रि­तम् । तस्मा­द­पू­र्वो­णा­प्य­चे­त­नेन चेत­ना­धि­ष्ठि­ते­नैव प्रवर्तितव्यं नान्यथेत्यर्थः ।

न चापूर्वं प्रामा­णि­क­म­पी­त्याह –
तदस्तित्वे इति ॥ ३८ ॥

श्रुतत्वाच्च ।
अन्नादः अन्नप्रदः ॥ ३९ ॥

सिद्धा­न्ते­नो­प­क्रम्य पूर्वपक्षं गृह्णाति –
धर्मं जैमिनिरत एव ।

श्रुतिमाह –
श्रूयते तावदिति ।
ननु “स्वर्गकामो यजेत” इत्यादयः श्रुतयः फलं प्रति न साधनतया यागं विदधति । तथाहि - यदि यागादय एव क्रिया न तदतिरिक्ता भावना तथापि त एव स्वपदेभ्यः पूर्वापरीभूताः साध्यस्वभावा अवगम्यन्त इति न साध्या­न्त­र­म­पे­क्षन्त इति न स्वर्गेण साध्यान्तरेण सम्ब­द्धु­म­र्हन्ति । अथापि तदतिरेकिणी भावानास्ति तथाप्यसौ भाव्यापेक्षापि स्वपदोपात्तं पूर्वावगतं न भाव्यं धात्वर्थमपहाय न भिन्नपदोपात्तं पुरुषविशेषणं च स्वर्गादि भाव्यतया स्वीकर्तुमर्हति । न चैकस्मिन् वाक्ये साध्य­द्व­य­स­म्ब­न्ध­स­म्भवः, वाक्य­भे­द­प्र­स­ङ्गात् । न केवलं शब्दतो वस्तुतश्च पुरुषप्रयत्नस्य भावनायाः साक्षा­द्धा­त्वर्थ एव साध्यो न तु स्वर्गादिस्तस्य तदव्याप्यत्वात् । स्वर्गादेस्तु नामपदाभिधेयतया सिद्ध­रू­प­स्या­ख्या­त­वाच्यं साध्यं धात्वर्थं प्रति “भूतं भव्या­यो­प­दि­श्यते” इति न्यायात्साधनतया गुण­त्वे­ना­भि­स­म्बन्धः । तथाच पारमर्षं सूत्रम् “द्रव्याणां कर्मसंयोगे गुण­त्वे­ना­भि­स­म्बन्धः” इति । तथाच कर्मणो यागा­दे­र्दुः­ख­त्वेन पुरु­षे­णा­स­मी­हि­त­त्वात् , समीहितस्य च स्वर्गा­दे­र­सा­ध्य­त्वान्न यागादयः पुरु­ष­स्यो­प­कु­र्व­न्त्य­नु­प­का­रिणां चैषां न पुरुष ईष्टे अनीशानश्च न तेषु सम्भ­व­त्य­धि­का­री­त्य­धि­का­रा­भा­व­प्र­ति­पा­दि­ता­न­र्थ­क्य­प­रि­हा­राय कृत्स्न­स्यै­वा­म्ना­यस्य निर्मृ­ष्ट­नि­खि­ल­दुः­खा­नु­ष­ङ्ग­नि­त्य­सु­ख­म­य­ब्र­ह्म­ज्ञा­न­प­रत्वं भेद­प्र­प­ञ्च­वि­ल­य­न­द्वा­रेण तथाहि - सर्व­त्रै­वा­म्नाये क्वचि­त्क­स्य­चि­द्भे­दस्य प्रविलयो गम्यते यथा “स्वर्गकामो यजेत” इति शरी­रा­त्म­भा­व­प्र­वि­लयः । इह खल्वापाततो देहातिरिक्त आमु­ष्मि­क­फ­लो­प­भो­ग­स­म­र्थोऽ­धि­कारी गम्यते । तत्रा­धि­का­र­स्यो­क्तेन क्रमेण निराकरणादसतोऽपि प्रतीयमानस्य विचा­रा­स­ह­स्यो­पा­य­ता­मा­त्रे­णा­व­स्था­ना­द­नेन वाक्येन देहा­त्म­भा­व­प्र­वि­ल­य­स्त­त्प­रेण क्रियते । “गोदोहनेन पशुकामस्य प्रणयेत्” इत्य­त्रा­प्या­पा­त­तोऽ­धि­कृ­ता­धि­का­रा­व­ग­मा­द­धि­का­रि­भे­द­प्र­वि­लयः । निषेधवाक्यानि च साक्षादेव प्रवृ­त्ति­नि­षे­धेन विधिवाक्यानि चान्यानि “साङ्ग्रहण्या यजेत ग्रामकामः” इत्यादीनि न साङ्ग्र­ह­ण्या­दि­प्र­वृ­त्ति­प­रा­ण्यपि तूपा­या­न्त­रो­प­दे­शेन सेवा­दि­दृ­ष्टो­पा­य­प्र­ति­षे­धा­र्थानि । यथा विषं भुङ्क्षव मास्य गृहे भुङ्क्ष्वेति । तथाच रागा­द्य­क्षि­प्त­प्र­वृ­त्ति­प्र­ति­षे­धेन शास्त्रस्य शास्त्र­त्व­म­प्यु­प­प­द्यते । रागनिबन्धनां तूपा­यो­प­दे­श­द्वा­रेण प्रवृ­त्ति­म­नु­जा­नतो राग­सं­व­र्ध­ना­द­शा­स्त्र­त्व­प्र­सङ्गः । तन्निषेधेन तु ब्रह्मणि प्रणि­धा­न­मा­द­ध­च्छास्त्रं शास्त्रं भवेत् । तस्मा­त्क­र्म­फ­ल­स­म्ब­न्ध­स्या­प्रा­मा­णि­क­त्वा­द­ना­दि­वि­चि­त्रा­वि­द्या­स­ह­का­रिण ईश्वरादेव कर्मा­न­पे­क्षा­द्वि­चि­त्र­फ­लो­त्प­त्ति­रिति । कथं तर्हि विधिः किमत्र कथं प्रव­र्त­ना­मा­त्र­त्वा­द्वि­धे­स्तस्य चाधि­का­र­म­न्त­रे­णा­प्यु­प­पत्तेः ।

नहि यो यः प्रवर्तयति स सर्वोऽ­धि­कृ­त­म­पे­क्षते । पवनादेः प्रवर्तकस्य तद­न­पे­क्ष­त्वा­दिति शङ्का­म­पा­चि­की­र्षु­राह –
तत्र च विधि­श्रु­ते­र्वि­ष­य­भा­वो­प­ग­मा­द्यागः स्वर्ग­स्यो­त्पा­दक इति गम्यते ।
अन्यथा ह्यननुष्ठातृको याग आपद्येत । अयमभिसन्धिः - उपदेशो हि विधिः । यथोक्तम् “तस्य ज्ञानमुपदेशः”(जै. सू० ११११५) इति । उपदेशश्च नियोज्यप्रयोजने कर्मणि लोकशास्त्रयोः प्रसिद्धः । तद्यथारोग्यकामो जीर्णे भुञ्जीत । एष सुपन्था गच्छतु भवाननेनेति । न त्वज्ञानादिरिव नियो­क्तृ­प्र­यो­ज­न­स्त­त्रा­भि­प्रा­यस्य प्रवर्तकत्वात् , तस्य चापौ­रु­षे­येऽ­स­म्भ­वात् । अस्य चोपदेशस्य नियो­ज्य­प्र­यो­ज­न­व्या­पा­र­वि­ष­य­त्व­म­नु­ष्ठा­त्र­पे­क्षि­ता­नु­कू­ल­व्या­पा­र­गो­च­र­त्व­म­स्मा­भि­रु­प­पा­दितं न्यायकणिकायाम् । तथाच “स्वर्गकामो यजेत” इत्यादिषु स्वर्गकामादेः समीहितोपाया गम्यन्ते यागादयः । इतरथा तु न साध­यि­ता­र­म­नु­ग­च्छेयुः । तदुक्तमृषिणा “असाधकं तु तादर्थ्यात्” इति । अनु­ष्ठा­त्र­पे­क्षि­तो­पा­य­ता­र­हि­त­प्र­व­र्त­ना­मा­त्रा­र्थत्वे यजे­ते­त्या­दी­ना­म­सा­धकं कर्म यागादि स्यात् । साधयितारं नाधि­ग­च्छे­दि­त्यर्थः । न चैते साक्षा­द्भा­व­ना­भाव्या अपि कर्त्र­पे­क्षि­त­सा­ध­न­ता­वि­ध्यु­प­हि­त­म­र्यादा भावनोद्देश्या भवितुमर्हन्ति, येन पुंसामनुपकारकाः सन्तो नाधिकारभाजो भवेयुः । दुःखत्वेन कर्मणां चेत­न­स­मी­हा­ना­स्प­द­त्वात् । स्वर्गादीनां तु भाव­ना­पू­र्व­रू­प­का­म­नो­प­धा­नाच्च । प्रीत्या­त्म­क­त्वाच्च । नाम­प­दा­भि­धे­या­ना­मपि पुरु­ष­वि­शे­ष­णा­ना­मपि भाव­नो­द्दे­श्य­ता­ल­क्ष­ण­भा­व्य­त्व­प्र­तीतेः । फला­र्थ­प्र­वृ­त्त­भा­व­ना­भा­व्य­त्व­ल­क्ष­णेन च यागा­दि­सा­ध्य­त्वेन फला­र्थ­प्र­वृ­त्त­भा­व­ना­भा­व्य­त्व­रू­पस्य फलसाध्यत्वस्य सम­प्र­धा­न­त्वा­भा­वे­नै­क­वा­क्य­स­म­वा­य­स­म्भ­वात् , भाव­ना­भा­व्य­त्व­मा­त्रस्य च यागा­दि­सा­ध्य­त्वस्य कर­णेऽ­प्य­वि­रो­धात् । अन्यथा सर्वत्र तदुच्छेदात् । परश्वादेरपि छिदादिषु तथाभावात् । फलस्य साक्षा­द्भा­व­ना­व्या­प्य­त्व­वि­र­हि­णोऽपि तदुद्देश्यतया सर्वत्र व्यापितया व्यव­स्था­ना­त्स्व­र्ग­सा­धने यागादौ स्वर्ग­का­मा­दे­र­धि­कार इति सिद्धम् । न चाप्रा­प्ता­र्थ­वि­षयाः साङ्ग्र­ह­ण्या­दि­या­ग­वि­धयः परिसङ्ख्यायका नियामका वा भवितुमर्हन्ति । न चाधिकाराभावे देहात्मप्रविलयो वाधि­का­रि­भे­द­प्र­वि­लयो वा शक्य उपपादयितुम् । आपाततः प्रतिभाने चास्य तत्परत्वमेव नार्था­या­त­प­र­त्वम् । स्वरसतः प्रतीयमानेऽर्थे वाक्यस्य तादर्थ्ये सम्भवति न सम्पा­ता­या­त­प­र­त्व­मु­चि­तम् । न चैतावता शास्त्र­त्व­व्या­घातः । तस्य स्वर्गा­द्यु­पा­य­शा­स­नेऽपि शास्त्र­त्वो­प­पत्तेः । पुरु­ष­श्रे­योऽ­भि­धा­य­कत्वं हि शास्त्रत्वम् । सरा­ग­वी­त­रा­ग­पु­रु­ष­श्रे­योऽ­भि­धा­य­क­त्वेन सर्वपारिषदतया न तत्त्वव्याघातः । तस्मा­द्वि­धि­वि­ष­य­भा­वो­प­ग­मा­द्यागः स्वर्ग­स्यो­त्पा­दक इति सिद्धम् ।

कर्मणो वा काचिदवस्थेति ।
कर्म­णोऽ­वा­न्त­र­व्या­पारः । एतदुक्तं भवति कर्मणो हि फलं प्रति यत्साधनत्वं श्रुतं, तन्निर्वाहयितुं तस्यै­वा­वा­न्त­र­व्या­पारो भवति । नच व्यापारवति सत्येव व्यापारो नासतीति युक्तम् । अस­त्स्व­प्या­ग्ने­या­दिषु तदु­त्प­त्त्य­पू­र्वाणां परमापूर्वे जनयितव्ये तद­वा­न्त­र­व्या­पा­र­त्वात् । असत्यपि च तैलपानकर्मणि तेन पुष्टौ कर्त­व्या­या­म­न्तरा तैल­प­रि­णा­म­भे­दानां तद­वा­न्त­र­व्या­पा­र­त्वात् । तस्मा­त्क­र्म­का­र्य­म­पूर्वं कर्मणा फले कर्तव्ये तदवान्तरव्यापार इति युक्तम् ।

यदा पुनः फलो­प­ज­न­ना­न्य­था­नु­प­पत्त्या किञ्चि­त्क­ल्प्यते तदा –
फलस्य वा पूर्वावस्था ।

अविचित्रस्य कारणस्येति ।
यदीश्वरादेव केवलादिति शेषः । कर्मभिर्वा शुभाशुभैः कार्य­द्वै­धो­त्पादे रागा­दि­म­त्त्व­प्र­सङ्ग इत्याशयः ॥ ४० ॥

पूर्वं तु बादरायणो हेतुव्यपदेशात् ।
दृष्टानुसारिणी हि कल्पना युक्ता नान्यथा । नहि जातु मृत्पि­ण्ड­द­ण्डा­दयः कुम्भ­का­रा­द्य­न­धि­ष्ठिताः कुम्भा­द्या­र­म्भाय विभववन्तो दृष्टाः । नच विद्यु­त्प­व­ना­दि­भि­र­प्र­य­त्न­पू­र्वै­र्व्य­भि­चारः, तेषामपि कल्पनास्पदतया व्यभि­चा­र­नि­द­र्श­न­त्वा­नु­प­पत्तेः । तस्मादचेतनं कर्म वापूर्वं वा न चेतनानधिष्ठितं स्वतन्त्रं स्वकार्यं प्रव­र्ति­तु­मु­त्स­हते नच चैतन्यमात्रं कर्म­स्व­रू­प­सा­मा­न्य­वि­नि­यो­गा­दि­वि­शे­ष­वि­ज्ञा­न­शू­न्य­मु­प­यु­ज्यते, येन तद्र­हि­त­क्षे­त्र­ज्ञ­मा­त्रा­धि­ष्ठा­नेन सिद्ध­सा­ध्य­त्व­मु­द्भा­व्येत । तस्मा­त्त­त्त­त्प्रा­सा­दा­ट्टा­ल­गो­पु­र­तो­र­णा­द्यु­प­ज­न­नि­द­र्श­न­स­हस्रैः सुपरिनिश्चितं यथा चेत­ना­धि­ष्ठा­ना­द­चे­त­नानां कार्या­र­म्भ­क­त्व­मिति तथा चैतन्यं देवताया असति बाधके श्रुति­स्मृ­ती­ति­हा­स­पु­रा­ण­प्र­सिद्धं न शक्यं प्रति­षे­द्धु­मि­त्यपि स्पष्टं निरटङ्कि देवताधिकरणे । लौकिकश्चेश्वरो दान­प­रि­च­र­ण­प्र­णा­मा­ञ्ज­लि­क­र­ण­स्तु­ति­म­यी­भि­र­ति­श्र­द्धा­ग­र्भा­भि­र्भ­क्ति­भि­रा­रा­धितः प्रसन्नः स्वानु­रू­प­मा­रा­ध­काय फलं प्रयच्छति विरो­ध­त­श्चा­प­क्रि­या­भि­र्वि­रो­ध­का­या­हि­ता­मि­त्यपि सुप्रसिद्धम् । तदिह केवलं कर्म वापूर्वं वा चेत­ना­न­धि­ष्ठि­त­म­चे­तनं फलं प्रसूत इति दृष्टविरुद्धम् । यथा विनष्टं कर्म न फलं प्रसूत इति कल्प्यते दृष्ट­वि­रो­धा­दे­व­मि­हा­पीति । तथा देवपूजात्मको यागो देवतां न प्रसादयन् फलं प्रसूत इत्यपि दृष्टविरुद्धम् । नहि राज­पू­जा­त्म­क­मा­रा­धनं राजानमप्रसाद्य फलाय कल्पते । तस्मा­द्दृ­ष्टा­नु­गु­ण्याय यागादिभिरपि देव­ता­प्र­स­त्ति­रु­त्पा­द्यते । तथाच देवताप्रसादादेव स्थायिनः फलो­त्प­त्ते­रु­प­पत्तेः कृतमपूर्वेण । एवमशुभेनापि कर्मणा देवताविरोधनं श्रुति­स्मृ­ति­प्र­सि­द्धम् । ततः स्थायि­नोऽ­नि­ष्ट­फ­ल­प्र­सवः । नच शुभाशुभकारिणां तदनुरूपं फलं प्रसुवाना देवता द्वेष­प­क्ष­पा­त­व­तीति युज्यते । नहि राजा साधु­का­रि­ण­म­नु­गृ­ह्ण­न्नि­गृ­ह्णन् वा पापकारिणं भवति द्विष्टो रक्तो वा तद्व­द­लौ­कि­कोऽ­पी­श्वरः । यथा च परमापूर्वे कर्तव्ये उत्प­त्त्य­पू­र्वा­णा­म­ङ्गा­पू­र्वाणां चोपयोगः । एवं प्रधा­ना­रा­ध­नेऽ­ङ्गा­रा­ध­ना­ना­मु­त्प­त्त्या­रा­ध­नानां चोपयोगः । स्वाम्याराधन इव तद­मा­त्य­त­त्प्र­ण­यि­ज­ना­रा­ध­ना­ना­मिति सर्वं समा­न­म­न्य­त्रा­भि­नि­वे­शात् । तस्मा­द्दृ­ष्टा­वि­रो­धेन देवताराधनात्फलं न त्वपू­र्वा­त्क­र्मणो वा केवलाद्विरोधतो हेतुव्यपदेशश्च श्रौतः स्मार्तश्च व्याख्यातः । ये पुन­र­न्त­र्या­मि­व्या­पा­राया फलोत्पादनाया नित्यत्वं सर्व­सा­धा­र­ण­त्व­मिति मन्यमाना भाष्य­का­री­य­म­धि­क­रणं दूष­या­म्ब­भू­वु­स्तेभ्यो व्याव­हा­रि­क्या­मी­शि­त्री­शि­त­व्य­वि­भा­गा­व­स्था­या­मिति भाष्यं व्याचक्षीत ॥ ४१ ॥
इति श्रीवा­च­स्प­ति­मि­श्र­वि­र­चिते भाष्यविभागे भामत्यां तृती­य­स्या­ध्या­यस्य द्वितीयः पादः ॥ २ ॥

सर्व­वे­दा­न्त­प्र­त्ययं चोद­ना­द्य­वि­शे­षात् ।

पूर्वेण सङ्गतिमाह –
व्याख्यातं विज्ञेयस्य ब्रह्मण इति ।

निरु­पा­धि­ब्र­ह्म­त­त्त्व­गो­चरं विज्ञानं मन्वान आक्षिपति –
ननु विज्ञेयं ब्रह्मेति ।
सावयवस्य ह्यवयवानां भेदा­त्त­द­व­य­व­वि­शि­ष्ट­ब्र­ह्म­गो­च­राणि विज्ञानानि गोच­र­भे­दा­द्भि­द्ये­र­न्नि­त्य­व­यवा ब्रह्मणो निराकृताः पूर्वा­प­रा­दी­त्य­नेन ।

नच नानास्वभावं ब्रह्म यतः स्वभा­व­भे­दा­द्भि­न्नानि ज्ञाना­नी­त्यु­क्तम् –
एकरसमिति ।
घनङ्कठिनम् ।

नन्वे­क­म­प्य­ने­क­रूपं लोके दृष्टं, यथा सोम­श­र्मै­कोऽ­प्या­चार्यो मातुलपिता पुत्रो भ्राता भर्ता जामाता द्विजोत्तम इत्यनेकरूप इत्यत उक्तम् –
एकरूपत्वाच्च ।

एकस्मिन् गोचरे सम्भवन्ति बहूनि विज्ञानानि न त्वने­का­का­र­णी­त्यु­क्तम् –
अनेकरूपाणि ।
रूपमाकारः ।

समाधत्ते –
उच्यते सगुणेति ।
तत्त­द्गु­णो­पा­धा­न­ब्र­ह्म­वि­षया उपासनाः प्राणा­दि­वि­ष­याश्च दृष्टा­दृ­ष्ट­क्र­मु­क्ति­फला विष­य­भे­दा­द्भि­द्यन्त इत्यर्थः ।

तत उपपन्नो विमर्श इत्याह –
तेष्वेषा चिन्ता ।

पूर्वपक्षं गृह्णाति –
तत्रेति ।

नाम्नस्तावदिति ।
अस्ति “अथैष ज्योति एतेन सहस्रदक्षिणेन यजेत” इति । तत्र संशयः किं यजेतेति संनि­हि­त­ज्यो­ति­ष्टो­मा­नु­वा­देन सह­स्र­द­क्षि­णा­ल­क्ष­ण­गु­ण­वि­धा­नम् , उतै­त­द्गु­ण­वि­शि­ष्ट­क­र्मा­न्त­र­वि­धा­न­मिति । किं तावत्प्राप्तम् , ज्योतिष्टोमस्य प्रक्रा­न्त­त्वा­द्य­जे­तेति तद­नु­वा­दा­ज्ज्यो­ति­रिति प्राति­प­दि­क­मात्रं पठित्वा एतेनेत्यनुकृष्य कर्म­सा­मा­ना­धि­क­र­ण्येन कर्म­ना­म­व्य­व­स्था­प­नात् , कर्म­ण­श्चा­नु­वा­द्य­त्वेन तत्तन्त्रस्य नाम्नोऽपि तथैव व्यवस्थापनात् , ज्योतिःशब्दस्य “वसन्ते वसन्ते ज्योतिषा” इति च ज्योतिष्टोमे योग­द­र्श­ना­त्ना­मै­क­दे­शेन च नामोपलक्षणस्य लोक­सि­द्ध­त्वा­द्भी­म­से­नो­प­ल­क्ष­ण­भी­म­प­द­वत् , अथशब्दस्य चान­न्त­र्या­र्थ­स्या­स­म्ब­न्धि­त्वेऽ­नु­प­पत्तेः, गुण­वि­शि­ष्ट­क­र्मा­न्त­र­वि­धेश्च गुण­मा­त्र­वि­धा­नस्य लाघवात् , द्वाद­श­श­त­द­क्षि­णा­या­श्चो­त्प­त्त्य­शि­ष्ट­तया समशिष्टतया सहस्रदक्षिणया सह विकल्पोपपत्तेः, प्रकृतस्यैव ज्योतिष्टोमस्य सह­स्र­द­क्षि­णा­ल­क्ष­ण­गु­ण­वि­धा­ना­र्थ­म­य­म­नु­वादो न तु कर्मान्तरमिति प्राप्तम् । एवं प्राप्त उच्यते भवे­त्पू­र्व­स्मिन् गुणविधिर्यदि तदेव प्रकरणं स्यात् । विच्छिन्नं तु तत् । तथाहि संनिधावपि पूर्वा­स­म्ब­द्धार्थं संज्ञान्तरं प्रतीयमानम् “अन्या­य­श्चा­ने­का­र्थ­त्वम्” इति न्याया­दु­त्स­र्ग­तोऽ­र्था­न्त­रा­र्थ­त्वा­त्पू­र्व­बुद्धिं व्यव­च्छि­न­त्त्य­पू­र्व­बुद्धिं च प्रसूत इति लोकसिद्धम् । न जातु देहि देवदत्ताय गामथ देवाय वाजिनमिति देव­श­ब्दा­द्दे­व­दत्तं वाजि­भा­ज­म­व­स्यन्ति लौकिकाः । तथा चोपरिष्टात् ‘यजेत’ इति श्रूय­मा­ण­म­स­म्ब­द्धा­र्थ­प­द­व्य­वा­या­त्त­त्क­र्म­बु­द्धि­म­ना­द­ध­त्तत्र गुण­वि­धा­न­मा­त्रा­स­मर्थं कर्मान्तरमेव विधत्ते । न चैक­त्रा­नु­प­पत्त्या लक्षणया ज्योतिःशब्दो ज्योतिष्टोमे प्रवृत्त इत्य­स­त्या­म­नु­प­पत्तौ लाक्षणिको युक्तः । नहि गङ्गायां घोष इत्यत्र गङ्गापदं लाक्षणिकमिति मीनो गङ्गा­या­मि­त्य­त्रापि लाक्षणिकं भवति । भेदेऽपि च प्रथमं संज्ञा­न्त­रे­णो­ल्लि­खिते यजि­श­ब्द­सा­मा­ना­धि­क­रण्यं कर्म­ना­म­धे­य­ता­मा­त्र­ता­मा­व­हति नतु संज्ञा­न्त­रो­प­ज­नितां भेद­धि­य­म­प­ने­तु­मु­त्स­हते । तथा चाथ­श­ब्दोऽ­धि­का­रार्थः प्रक­र­णा­न्त­र­ता­म­व­द्यो­त­यति । एष­श­ब्द­श्चा­धि­क्रि­य­मा­ण­प­रा­म­र्शक इति सोऽयं संज्ञा­न्त­रा­द्भेद इति ।

भवतु संज्ञा­न्त­रा­त्क­र्म­भेदः प्रस्तुते तु किमायातमित्यत आह –
अस्ति चात्र वेदा­न्ता­न्त­र­वि­हि­ते­ष्विति ।
यथैव काठकादिसमाख्या ग्रन्थे प्रयुज्यन्त एवं ज्ञानेऽपि लौकिकाः । न चास्ति विशेषो यतो ग्रन्थे मुख्याविज्ञाने गौणी भवेत् । प्रणयनं च ग्रन्थ­ज्ञा­न­यो­र­भिन्नं प्रवृ­त्ति­नि­मि­त्तम् । तस्मा­ज्ज्ञा­न­स्यापि वाचिका समाख्या । तथाच यदा ज्योति­ष्टो­म­सं­निधौ श्रूयमाणं समाख्यान्तरं तत्प्रतीकमपि कर्मणो भेदकं तदा कैव कथा शाखान्तरीये विप्र­कृ­ष्ट­त­मेऽ­त­त्प्र­ती­क­भू­त­स­मा­ख्या­न्त­रा­भि­धेये ज्ञात इति । तथा रूपभेदोऽपि कर्मभेदस्य प्रतिपादकः प्रसिद्धो यथा “वैश्व­दे­व्या­मिक्षा वाजिभ्यो वाजिनम्” इत्येवमादिषु । इदमाम्नयते “तप्ते पयसि दध्यानयति सा वैश्व­दे­व्या­मिक्षा” इति । अत्र हि द्रव्य­दे­व­ता­स­म्ब­न्धा­नु­मितो यागो विधीयते । तदनन्तरं चेदमाम्नायते “वाजिभ्यो वाजिनम्” इति । अत्रेदं सन्दिह्यते किं पूर्वस्मिन्नेव कर्मणि वाजिनं गुणो विधीयते उत कर्मान्तरं द्रव्य­दे­व­ता­न्त­र­वि­शि­ष्ट­म­पूर्वं विधीयत इति । किं तावत्प्राप्तम् , द्रव्य­दे­व­ता­न्त­र­वि­शि­ष्ट­क­र्मा­न्त­र­विधौ विधि­गौ­र­व­प्र­स­ङ्गा­त्क­र्मा­न्त­रा­पू­र्वा­न्त­र­क­ल्प­ना­गौ­र­व­प्र­स­ङ्गाच्च न कर्मा­न्त­र­वि­धा­न­मपि तु पूर्वस्मिन्नेव कर्मणि वाजि­न­द्र­व्य­विधिः । न चोत्प­त्ति­शि­ष्ट­मि­क्षा­गु­णा­व­रो­धा­त्तत्र वाजि­न­म­ल­ब्धा­व­काशं कर्मान्तरं गोचरयतीति युक्तम् । उभयोरपि वाक्ययोः सम­स­म­य­प्र­वृ­त्ते­रा­मि­क्षा­वा­जि­न­यो­रु­त्पत्तौ समं शिष्यमाणत्वेन नामिक्षायाः शिष्टत्वम् । तत्क­थ­म­न­या­व­रुद्धं कर्म न वाजिनं निविशेत् । न च वैश्वदेवीत्यत्र श्रौत आमिक्षासम्बन्धो विश्वेषां देवानां येन वाजि­न­स­म्ब­न्धा­द्वा­क्य­ग­म्या­द्ब­ल­वा­न्भ­वे­दु­भ­यो­रपि पदा­न्त­रा­पे­क्ष­प्र­ती­ति­तया वाक्य­ग­म्य­त्वा­वि­शे­षात् । नो खलु वैश्व­दे­वी­त्युक्ते आमि­क्षा­प­दा­न­पे­क्षा­मा­मि­क्षा­म­ध्य­व­स्यामः । अस्तु वा श्रौतत्वं तथापि वाजिभ्य इति पदं वाजमन्नमामिक्षा तदेषामस्तीति व्युत्पत्त्या तत्सम्बन्धिनो विश्वा­न्दे­वा­नु­प­ल­क्ष­यति । यद्यपि विश्व­दे­व­श­ब्दा­द्वा­जि­पदं भिन्नं, येन च शब्देन चोदना तेनैवोद्देशे देवतात्वं न शब्दा­न्त­रे­णा­न्य­था­र्थै­क­त्वेन सूर्या­दि­त्य­प­दयोः सूर्या­दि­त्य­च­र्वो­रे­क­दै­व­त्य­प्र­स­ङ्गात् , तथापि वाजिन्नितीनेः सर्वनामार्थे स्मर­णा­त्सं­नि­हि­तस्य च सर्व­ना­मा­र्थ­त्वात् , विश्वेषां देवानां च विश्वदेवपदेन संनि­धा­प­ना­त्त­त्प­द­पु­रः­सरा एवैते वाजि­प­दे­नो­प­स्थाप्या न तु सूर्या­दि­त्य­प­द­व­त्स्व­तन्त्राः । तथाच तदुपलक्षणार्थं वाजिपदं विश्व­दे­वो­प­हि­ता­मेव देव­ता­मु­प­ल­क्ष­य­तीति न शब्दा­न्त­रो­द्दे­व­ता­भेदः । तत­श्चा­मि­क्षा­स­म्ब­न्धो­प­जी­व­नेन विश्वेभ्यो वाजिनं विधीयमानं नामिक्षया बाध्यते किन्तु तया सह समुच्चीयत इति न कर्मान्तरमपि तु वाक्याभ्यां द्रव्ययुक्तमेकं कर्म विधीयत इति प्राप्त उच्यते स्यादेतदेवं यदि वैश्वदेवीति तद्धि­त­श्रु­त्या­मिक्षा नोच्येत । तद्धितस्य त्वस्येति सर्वनामार्थे स्मर­णा­त्सं­नि­हि­तस्य च विशेष्यस्य सर्व­ना­मा­र्थ­त्वा­त्त­त्रैव तद्धितस्यापि वृत्तिर्नतु विश्वेषु देवेषु । न तत्सम्बन्धे, नापि तत्स­म्ब­न्धि­मात्रे । नन्वेवं सति कस्मा­द्वै­श्व­दे­वी­श­ब्द­मा­त्रा­देव नामिक्षां प्रतीमः किमिति चामि­क्षा­प­द­म­पे­क्षा­महे । तद्धितान्तस्य पद­स्या­भि­धा­ना­प­र्य­व­सा­नान्न प्रती­म­स्त­त्प­र्य­व­सा­नाय चापेक्षामहे । अवसिताभिधानं हि पदं सम­र्थ­म­र्थ­धि­य­मा­धा­तुम् । इदं तु संनि­हि­त­वि­शे­षा­भि­धायि तत्सं­नि­धि­म­पे­क्ष­माणं संनि­धा­प­क­मा­मि­क्षा­प­द­म­पे­क्षत इति कुत आमि­क्षा­प­दा­न­पेक्ष आमि­क्षा­प्र­त्य­य­प्र­सङ्गः । कुतो वा तत्रानपेक्षा । अतश्च सत्यामपि पदा­न्त­रा­पे­क्षायां यत्पदं पदा­न्त­रा­पे­क्ष­म­भि­धत्ते तत्प्र­मा­ण­भू­त­प्र­थ­म­भा­वि­प­दा­व­ग­म्य­त्वा­च्छ्रौतं बलीयश्च । यत्तु पर्य­व­सि­ता­भि­धा­न­प­दा­भि­हि­त­प­दा­र्था­व­ग­म­गम्यं तत्त­च्च­र­म­प्र­ती­ति­वा­क्य­गम्यं दुर्बलं चेति तद्धि­त­श्रु­त्य­व­ग­ता­मि­क्षा­ल­क्ष­ण­गु­णा­व­रो­धा­त्पू­र्व­क­र्मा­सं­योगि वाजिनद्रव्यं ससम्बन्धि पूर्व­स्मा­द्भि­नत्ति । एवंच सति नित्य­व­द­व­ग­ता­न­पे­क्ष­सा­ध­न­भा­वा­मिक्षा न वाचिनद्रव्येण सह विकल्पसमुच्चयौ प्राप्स्यति । नचाश्वत्वे निरू­ढ­त्वा­द­न­पे­क्ष­वृत्ति वाजिपदं कथञ्चिद्यौगिकं सापेक्षावृत्ति विश्वदेवशब्दां देवतां वैश्व­दे­वी­प­दा­दा­मि­क्षा­द्रव्यं प्रत्यु­प­स­र्ज­नी­भू­ता­म­व­ग­ता­मु­प­ल­क्ष­यि­ष्यति । प्रकृतं हि सर्वनामपदगोचरः । प्रधानं च प्रकृतमुच्यते नोपसर्जनम् । प्रामाणिके च विधिकल्पनागौरवे अभ्युपेतव्ये एव प्रमाणस्य तत्त्व­वि­ष­य­त्वात् । तस्माद्यथेह पूर्व­क­र्मा­स­म्भ­विनो गुणात्कर्मभेद एवमिहापि पञ्चा­ग्नि­वि­द्यायाः षडग्निविद्या भिन्ना, एवं प्राण­सं­वा­दे­षू­ना­धि­क­भा­वेन विद्याभेद इति । तथा धर्मविशेषोऽपि कर्मभेदस्य प्रतिपादक इति । तथाहि कारी­री­वा­क्या­न्य­धी­या­ना­स्तै­त्ति­रीया भूमौ भोजनमाचरन्ति नाचरन्त्यन्ये । तथाग्निमधीयानाः केचि­दु­पा­ध्या­य­स्यो­द­कु­म्भ­मा­ह­रन्ति नाहरन्त्यन्ये । तथा­श्व­मे­ध­म­धी­यानाः केचिदश्वस्य घासमानयन्ति नानयन्त्यन्ये । केचि­त्त्वा­च­र­न्त्य­न्य­मेव धर्मम् । नच तान्येव कर्माणि भूमि­भो­ज­ना­दि­ज­नि­त­मु­प­का­र­मा­का­ङ्क्षन्ति नाकाङ्क्षन्ति चेति युज्यते । अतोऽवगम्यते भिन्नानि तासु शाखासु कर्माणीति ।

अस्तु प्रस्तुते किमायातमित्यत आह –
अस्ति चात्रेति ।
अन्येषां शाखिनां नास्तीति शेषः ।

एवं पुन­रु­क्त्या­द­योऽ­पीति ।
“समिधो यजति” इत्यादिषु पञ्च­कृ­त्वोऽ­भ्यस्तो यजतिशब्दः । तत्र किमेका कर्मभावना किंवा पञ्चैवेति । किं तावत्प्राप्तं, धात्व­र्था­नु­ब­न्ध­भे­देन शब्दा­न्त­रा­धि­क­रणे भाव­ना­भे­दा­भि­धा­ना­द्धा­त्व­र्थस्य च धातुभेदमन्तरेण भेदानुपपत्तेः “समिधो यजति” इति प्रथमभाविना वाक्येन विहिता कर्मभावना विप­रि­व­र्त­मा­नो­प­रि­त­नै­र्वा­क्यै­र­नू­द्यते । नच प्रयो­ज­ना­भा­वा­द­न­नु­वादः प्रमा­ण­सि­द्ध­स्या­प्र­यो­ज­न­स्या­न­नु­यो­ज्य­त्वात् । कर्मभावनाभेदे चाने­का­पू­र्व­क­ल्प­ना­प्र­स­ङ्गा­दे­का­पू­र्व­वा­न्त­र­व्या­पा­र­मेकं कर्मेति प्राप्तम् । एवं प्राप्त उच्यते - पर­स्प­रा­न­पे­क्षाणि हि समि­दा­दि­वा­क्या­नीति । सर्वाण्येव प्राथ­म्या­र्हा­ण्यपि युग­प­द­ध्य­य­ना­नु­प­पत्तेः क्रमेणाधीतानीति । न त्वयमेषां प्रयोजकः क्रमः । पर­स्प­रा­पे­क्षा­णा­मे­क­वा­क्यत्वे हि प्रयोजकः स्यात् । तेन प्राथ­म्या­भा­वा­त्प्रा­प्त­मि­त्येव नास्तीति कस्य कोऽनुवादः । कथ­ञ्चि­द्वि­प­रि­वृ­त्ति­मा­त्र­स्यौ­त्स­र्गि­का­प्र­वृ­त्त­प्र­व­र्त­ना­ल­क्ष­ण­वि­धि­त्वा­प­वा­द­सा­म­र्थ्या­भा­वात् । गुणश्रवणे हि गुण­वि­शि­ष्ट­क­र्म­वि­धाने विधिगौरवभिया गुण­मा­त्र­वि­धा­न­ला­घ­वाय कर्मा­नु­वा­दा­पे­क्षायां विप­रि­वृ­त्ते­रु­प­कारः । यथा “दध्ना जुहोति” इति दधिविधिपरे वाक्ये विप­रि­वृ­त्त्य­पे­क्षा­याम् “अग्निहोत्रं जुहोति” इति विहितस्य होमस्य विप­रि­व­र्त­मा­न­स्या­नु­वादः । न चात्र गुणाद्भेदः, समिदादिपदानां कर्मनामधेयानां गुण­व­च­न­त्वा­भा­वात् । अगृ­ह्य­मा­ण­वि­शे­ष­तया च किंव­च­न­वि­हि­त­कि­ङ्क­र्मा­नु­वा­देन कस्य गुणविधित्वमिति न विनिगम्यते । न चापूर्वा नाम ज्योति­रा­दि­व­द्वि­धा­न­स­म्बन्धं प्रथममवगतं, यतः पूर्व­बु­द्धि­वि­च्छे­देन विधीयमानं कर्म पूर्व­स्मा­त्सं­ज्ञातो व्यव­च्छि­न्द्यात् । किन्तु प्रथमत एव कर्म­सा­मा­ना­धि­क­र­ण्ये­ना­व­गताः समि­दा­द­य­स्त­द्व­शा­त्क­र्म­ना­म­धे­यतां प्रतिपद्यमाना आख्या­त­स्या­नु­वा­द­त्वेऽ­नु­वादा विधित्वे विधयो न तु स्वातन्त्र्येण कस्यचिदीशते । तस्मा­त्स्व­र­स­सि­द्धा­प्रा­प्त­क­र्म­वि­धि­प­र­त्वा­त्क­र्म­ण्य­य­म­भ्यासो भाव­ना­नु­ब­न्ध­भू­तानि भिन्दानो भावनां भिनत्ति यथा तथा शाखान्तरविहिता अपि विद्याः शाखा­न्त­र­वि­हि­ताभ्यो विद्या­भ्योऽ­भ्यासो भेत्स्यतीति । अशक्तेश्च । नह्येकः पुरुषः सर्व­वे­दा­न्त­प्र­त्य­या­त्मि­का­मु­पा­स­ना­मु­प­सं­हर्तुं शक्नोति सर्व­वे­दा­न्ता­ध्य­य­ना­सा­म­र्थ्या­द­न­धी­ता­र्थो­प­सं­हा­रेऽ­ध्य­य­न­वि­धा­न­वै­य­र्त्य­प्र­स­ङ्गात् । प्रतिशाखं भेदे तूपासनानां नायं दोषः । समाप्तिभेदाच्च । केषा­ञ्चि­त्शा­खि­ना­मो­ङ्का­र­सा­र्वा­त्म्य­क­थने समाप्तिः । केषाञ्चिदन्यत्र । तस्मा­द­प्यु­पा­स­ना­भेदः । अन्या­र्थ­द­र्श­ना­दपि भेदः । तथाहि “नैत­द­ची­र्ण­व्र­तोऽ­धीते” इति अची­र्ण­व्र­त­स्या­ध्य­य­ना­भा­व­द­र्श­ना­दु­पा­स­ना­भावः । क्वचि­द­ची­र्ण­व्र­त­स्या­ध्य­य­न­द­र्श­ना­दु­पा­स­ना­व­ग­म्यते । तस्मादुपासनाभेद इति ।

अत्र सिद्धान्तमाह –
सर्व­वे­दा­न्त­प्र­त्ययं चोद­ना­द्य­वि­शे­षात् ।

तद्व्याचष्टे –
सर्व­वे­दा­न्त­प्र­त्य­यानि सर्व­वे­दा­न्त­प्र­मा­णानि विज्ञानानि तस्मिंस्तस्मिन् वेदान्ते तानि तान्येव भवितुमर्हन्ति ।
यान्येकस्मिन् वेदान्ते तान्येव वेदा­न्ता­न्त­रे­ष्व­पी­त्यर्थः । चोद­ना­द्य­वि­शे­षात् । आदिशब्देन संयोगरूपाख्याः सङ्गृह्यन्ते । अत्र च चोद्यत इति चोदना पुरुषप्रयत्नः । स हि पुरुषस्य व्यापारः । तत्र खल्वयं होमा­दि­धा­त्व­र्था­व­च्छिन्ने प्रवर्तते । तस्य देवतोद्देशेन त्याग­स्या­से­च­ना­दि­क­स्या­व­च्छेद्यः पुरुषप्रयत्नः स एव शाखान्तरे यथैवमिहापि प्राण­ज्ये­ष्ठ­त्व­श्रे­ष्ठ­त्व­वे­द­न­वि­षयः पुरुषप्रयत्नः स एव शाखा­न्त­रे­ष्व­पीति । एवं फलसंयोगोऽपि ज्येष्ठ­श्रे­ष्ठ­भ­व­न­ल­क्षणः स एव । रूपमपि तदेव । यथा यागस्य यदेकस्यां शाखायां द्रव्यदेवतारूपं तदेव शाखा­न्त­रे­ष्व­पीति । एवं वेदनस्यापि यदेकत्र प्राण­ज्ये­ष्ठ­त्व­श्रे­ष्ठ­त्व­रूपं विष­य­स्त­च्छा­खा­न्त­रे­ष्व­पीति ॥ १ ॥

कञ्चि­द्वि­शे­ष­मिति ।
युक्तं यद­ग्नी­षो­मी­य­स्यो­त्प­न्नस्य पश्चा­दे­का­द­श­क­पा­ल­त्वा­दि­स­म्ब­न्धेऽ­प्य­भेद इति । यथोत्पन्नस्य तस्य सर्वत्र प्रत्य­भि­ज्ञा­य­मा­न­त्वा­दिह त्वग्नि­षू­त्व­प­त्ति­गत एव गुणभेद इति कथं वैश्वदेवीवन्न भेदक इति विशेषः ।

तमिमं विशे­ष­म­भि­प्रे­त्या­श­ङ्कते सूत्रकारः –
भेदान्नेति चेदिति ।
परिहारः सूत्रावयवः ।

न एकस्यामपीति ।
पञ्चैव साम्पादिका अग्नयो वाजसनेयिनामपि छान्दोग्यानामिव विधीयन्ते । षष्ठस्त्वग्निः सम्प­द्व्य­ति­रे­का­या­नू­द्यते न तु विधीयते । वैश्वदेव्यां तूत्पत्तौ गुणो विधीयत इति भवतु भेदः । अथवा छान्दोग्यानामपि षष्ठोऽग्निः पठ्यत एव । अथवा भवतु वाजसनेयिनां षष्ठाग्निविधानं मा च भूच्छा­न्दो­ग्यानां तथापि पञ्च­त्व­स­ङ्ख्याया अवि­धा­ना­न्नो­त्प­त्ति­शि­ष्टत्वं सङ्ख्यायाः किन्तू­त्प­न्ने­ष्व­ग्निषु प्रचयशिष्टा सङ्ख्यानूद्यते साम्पा­दि­का­न­ग्नी­न­व­च्छेतुं, तेन येषा­मु­त्प­त्ति­स्तेषां प्रत्य­भि­ज्ञा­नात् । अप्र­त्य­भि­ज्ञा­य­मा­ना­याश्च सङ्ख्याया अनु­वा­द्य­त्वे­ना­नु­त्प­त्ते­र्वि­धी­य­मा­नस्य चाधिकस्य षोड­शि­ग्र­ह­ण­व­द्वि­क­ल्प­स­म्भ­वान्न शाखान्तरे ज्ञानभेदः । उत्प­त्ति­शि­ष्ट­त्वेऽ­सिद्धे प्राण­सं­वा­दा­द­योऽपि भवन्ति प्रत्य­भि­ज्ञा­ना­द­भि­न्ना­स्तासु तासु शाखास्विति ॥ २ ॥

स्वाध्यायस्य तथात्वेन हि समा­चा­रेऽ­धि­का­राच्च सववच्च तन्नियमः ।
यैरा­थ­र्व­णि­क­ग्र­न्थो­पाया विद्या वेदितव्यां तेषामेव शिरो­व्र­त­पू­र्वा­ध्य­य­न­प्रा­प्त­ग्र­न्थ­बो­धिता फलं प्रयच्छति नान्यथा । अन्येषां तु छान्दोग्यादीनां सैव विद्या चीर्ण­शि­रो­व्र­तानां फल­दे­त्या­थ­र्व­ण­ग्र­न्था­ध्य­य­न­स­म्ब­न्धा­द­व­ग­म्यते । तत्सम्बन्धश्च वेदव्रतेनेति “नैत­द­ची­र्ण­व्र­तोऽ­धीते” इति समा­म्ना­ना­द­व­ग­म्यते । “तेषामेवैतां ब्रह्मविद्यां वदेत”(मु. उ. ३ । २ । १०) इति विद्या­सं­यो­गेऽ­प्ये­ता­मिति प्रकृ­त­प­रा­म­र्शिना सर्व­ना­म्ना­ध्य­य­न­स­म्ब­न्धा­वि­रो­धा­दा­थ­र्व­वि­हि­तैव विद्योच्यत इति । सवा होमाः सप्त सौर्यादयः शतौदनान्ता आथर्वणिकानां त एक­स्मि­न्ने­वा­थ­र्व­णि­केऽग्नौ क्रियन्ते न त्रेतायाम् ॥ ३ ॥

विद्यैकत्वम् –
दर्शयति च ।
भूयोभूयो विद्यैकत्वस्य वेद­द­र्श­ना­द्य­त्रापि सगु­ण­ब्र­ह्म­वि­द्यानां न साक्षाद्वेद एकत्वमाह तासामपि तत्प्रा­य­प­ठि­तानां तद्विधानां प्राय­द­र्श­ना­दे­क­त्व­मेव । तथा­ह्य­ग्र्य­प्राये लिखितं दृष्ट्वा भवेदयमग्र्य इति बुद्धिरिति । यच्च काठ­का­दि­स­मा­ख्य­यो­पा­स­ना­भेद इति तदयुक्तम् । एता हि पौरुषेय्यः समाख्याः काठ­का­दि­प्र­व­च­न­यो­गा­त्तासां शाखानां न तूपासनानाम् । नह्येताः कठादिभिः प्रोक्ता नच कठा­द्य­नु­ष्ठा­न­मा­सा­मि­त­रा­नु­ष्ठा­नेभ्यो विशेष्यते । नच कठ­प्रो­क्ता­नि­मि­त्त­मा­त्रेण ग्रन्थे प्रवृत्तौ तद्योगाच्च कथ­ञ्चि­ल्ल­क्ष­ण­यो­पा­स­नासु प्रवृत्तौ सम्भ­व­न्त्या­मु­पा­स­ना­भि­धा­न­म­प्यासां शक्यं कल्पयितुम् । नच तद्भेदाभेदौ ज्ञान­भे­दा­भे­द­प्र­यो­जकौ, मा भूद्य­था­स्व­मा­सा­म­भे­दा­ज्ज्ञा­ना­ना­मे­क­शा­खा­ग­ता­ना­मै­क्यम् । कठा­दि­पु­रु­ष­प्र­व­च­न­नि­मि­त्ता­श्चैताः समाख्याः कठादिभ्यः प्राक्नासन्निति तन्निबन्धनो ज्ञानभेदो नासीदिदानीं चास्तीति दुर्घटमापद्येत । तस्मान्न समाख्यातो भेदः । अभ्यासोऽपि नात्र भेदकः । युक्तं यदेकशाखागतो यजत्यभ्यासः समिदादीनां भेदक इति । तत्र हि विधि­त्व­मौ­त्स­र्गि­क­म­ज्ञा­त­ज्ञा­प­न­म­प्र­वृ­त्त­प्र­व­र्तनं च कुप्ये­या­ता­म्ऽ­शा­खा­न्तरे त्वध्ये­तृ­पु­रु­ष­भे­दा­दे­क­त्वेऽपि नौत्स­र्गि­क­वि­धि­त्व­व्या­कोप इति । अशक्तिरपि न भेदहेतुः स्वाध्या­योऽ­ध्ये­तव्य इति स्वशा­खा­या­म­ध्य­य­न­नि­यमः । ततश्च शाखा­न्त­री­या­न­र्था­न­न्ये­भ्य­स्त­द्वि­द्ये­भ्योऽ­धि­ग­म्यो­प­सं­ह­रि­ष्यति । समा­प्ति­श्चै­क­स्मि­न्नपि तत्सम्बन्धिनि समाप्ते तस्य व्यपदिश्यते । यथाध्वर्यवे कर्मणि ज्योतिष्टोमस्य समाप्तिं व्यपदिशन्ति “ज्योतिष्टोमः समाप्तः” इति तस्मा­त्स­मा­प्ति­भे­दोऽपि न साध­न­मु­पा­स­ना­भे­दस्य । तदेवमसति बाधके चोद­ना­द्य­वि­शे­षा­त्स­र्व­वे­दा­न्त­प्र­त्य­यानि कर्माणि तानि तान्येवेति सिद्धम् ॥ ४ ॥

कञ्चि­द्वि­शे­ष­मा­शङ्क्य पूर्व­त­न्त्र­प्र­सा­धि­तम् । वक्ष्य­मा­णा­र्थ­सि­द्ध्य­र्थ­म­र्थ­माह स्म सूत्रकृत् ॥ चिन्ता­प्र­यो­ज­न­प्र­द­र्श­नार्थं सूत्रम् –
उप­सं­हा­रोऽ­र्था­भे­दा­द्वि­धि­शे­ष­व­त्स­माने च ।
अत्रैदमाशङ्कते भवतु सर्व­शा­खा­प्र­त्य­य­मेकं विज्ञानं तथापि शाखा­न्त­रो­क्तानां तदङ्गान्तराणां न शाखान्तरोक्ते तस्मि­न्नु­प­सं­हारो भवितुमर्हति । तस्यैकस्य कर्मणो याव­न्मा­त्र­म­ङ्ग­जा­त­मे­कस्यां शाखायां विहितं तावा­न्मा­त्रे­णै­वो­प­का­र­सि­द्धे­र­धि­का­न­पे­क्ष­णात् । अपेक्षणे चाधिकमपि तत्र विधीयेत । नच विहितम् । तस्माद्यथा नैमित्तिकं कर्म सक­ला­ङ्ग­व­द्वि­हि­त­मपि अशक्तौ याव­च्छ­क्य­म­ङ्ग­म­नु­ष्ठातुं ताव­न्मा­त्र­ज­न्ये­नो­प­का­रे­णौ­प­कृतं भव­त्ये­व­मि­हा­प्य­ङ्गा­न्त­रा­वि­धा­ना­देव भविष्यतीति । एवं प्राप्त उच्यते सर्वत्रैकत्वे कर्मणः स्थिते गृहमेधीयन्यायेन नोपकारावच्छेदो युज्यते । नहि तदेव कर्म सत्त­द­ङ्ग­म­पे­क्षते नापेक्षते चेति युज्यते । नैमित्तिके तु निमि­त्ता­नु­रो­धा­द­व­श्य­क­र्तव्ये सर्वा­ङ्गो­प­सं­हा­रस्य सदा­त­न­त्वा­स­म्भ­वा­दु­प­का­रा­व­च्छेदः कल्प्यते । प्राकृ­तो­प­का­र­पिण्डे चोदकप्राप्ते आज्य­भा­ग­वि­धा­ना­द्गृ­ह­मे­धी­येऽ­प्यु­प­का­रा­व­च्छेदः स्यात् । इह तु शाखान्तरे कतिपयाङ्गविधानं तानि विधत्ते नेतराणि परिसञ्चष्टे । नच तदुपकारपिण्डे चोदकप्राप्ते आज्य­भा­ग­व­त्त­न्मा­त्र­वि­धा­नम् । तस्मात्तत्त्वेन कर्मणां सर्वाङ्गसङ्गम औत्सर्गिकोऽसति बलवति बाधके नापवदितुं युक्त इति ॥ ५ ॥

अन्यथात्वं शब्दादिति चेन्नाविशेषात् ।
द्वया द्विप्रकाराः प्राजापत्या देवाश्चासुराश्च । ततः कानीयसा एव देवा ज्यायसा असुराः । शास्त्रजन्यया सात्त्विक्या बुद्ध्या सम्पन्ना देवाः । ते हि दीव्यन्त इति देवाः । शास्त्र­यु­क्त्य­प­रि­क­ल्पि­त­म­त­य­स्ता­म­स­वृ­त्ति­प्र­धाना असुरा असुभिः प्राणै­र­नि­न्द्रि­यै­र­गृ­ही­तै­स्तेषु तेषु विषयेषु रमन्त इत्यसुरा अत एव ते ज्यायांसः । यतोऽमी तत्त्व­ज्ञा­न­वन्तः कानीयसास्तु देवाः । अज्ञा­न­पू­र्व­क­त्वा­त्त­त्त्व­ज्ञा­नस्य । प्राणस्य प्रजापतेः सात्त्वि­क­वृ­त्त्यु­द्भ­व­स्ता­म­स­वृ­त्त्य­भि­भवः कदाचित् । कदा­चि­त्ता­म­स­वृ­त्त्यु­द्भ­वोऽ­भि­भ­वश्च सात्त्विक्या वृत्तेः । सेयं स्पर्धा । ते ह देवा ऊचुः, हन्त असुरान् यज्ञ उद्गीथेनात्ययाम असुरान् जया­मा­स्मि­न्ना­भि­चा­रिके यज्ञ उद्गी­थ­ल­क्ष­ण­सा­म­भ­क्त्यु­प­ल­क्षि­ते­नो­द्गा­त्रेण कर्मणेति । ते ह वाच­मू­चु­रि­त्या­दिना सन्दर्भेण वाक्प्रा­ण­च­क्षुः­श्रो­त्र­म­न­सा­मा­सु­र­पा­प्म­वि­द्ध­तया निन्दित्वा अथ हेममासन्यमास्ये भवमासन्यं मुखा­न्त­र्बि­लस्थं मुख्यं प्राणं प्राणाभिमानवतीं देवतामूचुस्त्वं न उद्गायेति । तथेत्यभ्युपगम्य तेभ्य एव प्राण उदगायत्तेऽसुरा विदुरनेन प्राणे­नो­द्गात्रा नोऽस्मान् देवा अत्येष्यन्तीति । तमभिद्रुत्य पाप्म­ना­वि­ध्य­न्न­सुरा यथाश्मानमृत्वा प्राप्य मृत्त्वा­ल्लोष्टो वा विध्वंसत एवं विध्वंसमाना विष्वञ्चोऽसुरा विनेशुः ।

तदे­त­त्स­ङ्क्षि­प्याह –
वाजसनेयक इति ।

तथा छान्दो­ग्येऽ­प्ये­त­दु­क्त­मि­त्याह –
तथा छान्दोग्येऽपीति ।

विषयं दर्शयित्वा विमृशति –
तत्र संशय इति ।

पूर्वपक्षं गृह्णाति –
विद्यैकत्वमिति ।

पूर्व­प­क्ष­मा­क्षि­पति –
ननु न युक्तमिति ।
एक­त्रो­द्गा­तृ­त्वे­नो­च्यते प्राण एकत्र चोद्गानत्वेन क्रिया­क­र्त्रोश्च स्फुटो भेद इत्यर्थः ।

समाधत्ते –
नैष दोष इति ।
बहु­त­र­रू­प­प्र­त्य­भिज्ञा नाद­प्र­त्य­भि­ज्ञा­य­मानं किञ्चिल्लक्षणया नेतव्यम् ।

न केवलं शाखान्तरे, एकस्यामपि शाखायां दृष्टमेतन्न च तत्र विद्याभेद इत्याह –
वाजसनेयकेऽपि चेति ।
बहु­त­र­रू­प­प्र­त्य­भि­ज्ञा­ना­नु­ग्र­हाय चोमित्यनेनापि उद्गीथावयवेन उद्गीथ एव लक्षणीय इति पूर्वपक्षः ॥ ६ ॥

न वा प्रक­र­ण­भे­दा­त्प­रो­व­री­य­स्त्वा­दि­वत् ।
बहु­त­र­प्र­त्य­भि­ज्ञा­नेऽपि उप­क्र­म­भे­दा­त्त­द­नु­रो­धेन चोप­सं­हा­र­व­र्ण­ना­दे­क­स्मि­न्वाक्ये तस्यैव चोद्गीथस्य पुनःपुनः सङ्की­र्त­ना­ल्ल­क्ष­णायां च छान्दोग्ये वाजसनेयके प्रमा­णा­भा­वा­द्वि­द्या­भेद इति राद्धान्तः । ओङ्का­र­स्यो­पा­स्यत्वं प्रस्तुत्य रस­त­मा­दि­गु­णो­प­व्या­ख्या­न­मो­ङ्का­रस्य । तथाहि भूत­पृ­थि­व्यो­ष­धि­पु­रु­ष­वा­गृ­क्साम्नां पूर्व­स्यो­त्त­र­मु­त्तरं रसतया सारतयोक्तम् । तेषां सर्वेषां रसतम ओङ्कार उक्त­श्छा­न्दोग्ये ।

नच विवक्षितार्थभेद इति ।
एक­त्रो­द्गी­थो­द्गा­ता­रा­वु­पा­स्य­त्वेन विवक्षितावेकत्र तदवयव ओङ्कार इति । तथा ह्यभ्युदयवाक्ये इति । एवं हि श्रूयते “विवा एतं प्रजया पशुभिरर्धयति वर्धयत्यस्य भ्रातृव्यं यस्य हविर्निरुप्तं पुर­स्ता­च्च­न्द्रमा अभ्युदेति स त्रेधा तण्डु­ला­न्वि­भ­जेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरो­डा­श­म­ष्टा­क­पालं निर्वपेद्ये स्थवि­ष्ठा­स्ता­नि­न्द्राय प्रदात्रे दधंश्चरुं ये क्षोदि­ष्ठा­स्तान् विष्णवे शिपिविष्टाय शृते चरुम्” इति । तत्र सन्देहः किं कालापराधे यागान्तरमिदं चोद्यत उत तेष्वेव कर्मसु प्रकृतेषु कालापराधे निमित्ते देवतापनय इति । एष तावदत्र विषयः अमावास्यायामेव दर्शकर्मार्थं वेदि­क्रि­या­ग्नि­प्र­ण­य­न­क्रिया व्रतादिश्च यजमानसंस्कारः । दध्यर्थश्च दोहः । प्रतिपदि च दर्श­क­र्म­प्र­वृ­त्ति­रि­त्य­नु­ष्ठा­न­क्र­म­स्ता­त्त्विकः । यस्य तु यजमानस्य कुत­श्चि­द्भ्र­म­नि­ब­न्ध­ना­च्च­तु­र्द­श्या­मे­वा­मा­वा­स्या­बुद्धौ प्रवृ­त्त­प्र­यो­गस्य चन्द्रमा अभ्युदीयते तत्रेदं श्रूयते “यस्य हविर्निरुप्तम्” इति । तेन यज­मा­ने­ना­भ्यु­दि­ते­ना­मा­वा­स्या­या­मेव निमित्ताधिकारं परिसमाप्य पुरस्तदहरेव वेद्यु­द्ध­र­णा­दि­कर्म कृत्वा प्रतिपदि दर्शः प्रवर्तयितव्यः । तत्राभ्युदये किं नैमित्तिकमिदं कर्मान्तरं दर्शाच्चोद्यत उत तस्मिन्नेव दर्शकर्मणि पूर्व­दे­व­ता­प­न­य­नेन देवतान्तरं विधीयत इति । तत्र हवि­र्भा­ग­मा­त्र­श्र­व­णा­च्च­रु­वि­धा­न­सा­म­र्थ्याच्च कर्मान्तरम् । यदि हि पूर्वदेवताभ्यो हवींषि विभजेदिति श्रूयते ततस्तान्येव हवींषि देवतान्तरेण युज्यमानानि न कर्मान्तरं गमयितुमर्हन्ति किन्तु प्रकृतमेव कर्म तद्ध­वि­ष्क­म­प­नी­त­पू­र्त­दे­व­ताकं देवतान्तरयुक्तं स्यात् । अत्र पुनस्त्रेधा तण्डुलान् विभजेदिति हविष एव मध्यमादिक्रमेण विभा­ग­श्र­व­णा­द­न­प­नीता हविषि पूर्वदेवता इति पूर्व­दे­व­ता­व­रुद्धे हविषि देव­ता­न्त­र­म­ल­ब्धा­व­काशं श्रूयमाणं कर्मान्तरमेव गोचरयेत् । अपिच प्राप्ते पूर्वस्मिन् कर्मणि दध्न­स्त­ण्डु­लानां पयसस्तण्डुलानां चेन्द्रादिदेवता सम्बन्धश्च विधातव्यः । चरुत्वं चात्र विहितं नास्तीति तदपि विधातव्यम् । तथा प्राप्ते कर्म­ण्य­ने­क­गु­ण­वि­धा­ना­द्वाक्यं भिद्येत । कर्मान्तरं त्वपूर्वं शक्यमेकेनैव प्रय­त्ने­ना­ने­क­गु­ण­वि­शिष्टं विधातुमिति निमित्ते कर्मान्तरमेव विधीयते । दर्शस्तु लुप्यते कालापराधादिति प्राप्त उच्यते न कर्मान्तरम् । पूर्वदेवतातो हविषो विभागपूर्वं निमित्ते देव­ता­न्त­र­वि­धा­नात् । चर्वर्थस्य चार्थप्राप्तेः । भवेदेतदेवं यदा त्रेधा तण्डुलान् विभजेदिति तण्डुलानां त्रेधा विभा­ग­वि­धा­न­प­र­मे­त­द्वाक्यं स्यादपि तु वाक्या­न्त­र­प्राप्तं तण्डुलानां त्रेधात्वमनूद्य विभ­जे­दि­त्ये­ता­व­द्वि­धत्ते तत्र वाक्या­न्त­रा­लो­च­नया पूर्वदेवताभ्य इति गम्यते तण्डुलानिति त्वविवक्षितं हविरुभयत्ववत् । तथा च ये मध्यमा इत्यादीनि वाक्यान्यपनीते पूर्व­व­त्दे­व­ता­स­म्बन्धे हवि­ष­स्त­स्मि­न्नेव कर्म­ण्य­प्र­त्यूहं देव­ता­न्त­र­स­म्बन्धं विधातुं शक्नुवन्ति । तथाच द्रव्यमुखेन प्रकृ­त­मु­ख­प्र­त्य­भि­ज्ञा­ना­द्दे­व­ता­न्त­र­स­म्ब­न्धेऽपि न कर्मा­न्त­र­क­ल्प­ना­भ­वि­तु­म­र्हति । ततश्च समाप्तेऽपि नैमि­त्ति­का­धि­का­र­सि­द्ध्यर्थं तान्येव पुनः कर्मा­ण्य­नु­ष्ठे­यानि । नच दधनि चरुमिति चरु­स­प्त­म्य­र्थ­यो­र्वि­धानं तयो­र­प्य­र्थ­प्रा­प्त­त्वात् । प्रकृते हि कर्मणि तण्डु­ल­पे­ष­ण­प्र­थनं पुरोडाशपाकादि दधिपयसी च प्राप्तानि तत्रा­भ्यु­द­य­नि­मित्ते दधियुक्तानां पयोयुक्तानां च तण्डुलानां विभजेदिति वाक्येन पूर्वदेवतापनयं कृत्वा ये मध्यमा इत्या­दि­भि­र्वा­क्यै­र्दे­व­ता­न्त­र­स­म्बन्धः कृतः । नच प्रभूतदधिपयः संस­क्तै­र­ल्पै­स्त­ण्डुलैः पुरोडाशक्रिया सम्भवति । इति पुरोडाशनिवृत्तौ तदर्थस्य प्रथनस्यापि निवृ­त्ति­र­नि­वृ­त्तस्तु पाकोऽ­प­वा­दा­भा­वा­त्तथा चार्थ­प्रा­प्त­श्चो­द्यते । भवतु वा अने­क­वा­क्य­क­ल्प­नम् । प्रकृ­ता­धि­का­रा­व­ग­म­ब­ला­द­स्यापि न्याय्यत्वादिति । तस्मात्तदेवेदं कर्म न तु कर्मान्तरमिति सिद्धम् । पशुकामवाक्ये त्वपू­र्व­क­र्म­वि­धि­र­भ्यु­द­य­वा­क्य­सा­रू­प्येऽपि । “यः पशुकामः स्यात्सोऽ­मा­वा­स्या­मिष्ट्वा वत्सा­न­पा­कु­र्याद्ये स्थवि­ष्ठा­स्ता­न­ग्नये सनि­म­तेऽ­ष्ठा­क­पालं निर्वपेद्ये मध्यमास्तान् विष्णवे शिपिविष्टाय शृते चरुं ये क्षोदि­ष्ठा­स्ता­नि­न्द्राय प्रदात्रे दधंश्चरुम्” इति । अत्र हि अमा­वा­स्या­मि­ष्ट्वेति समाप्ते यागे पशु­का­मे­ष्टि­वि­धानं नात्र पूर्वस्य कर्म­णोऽ­न­नु­वृ­त्ते­र्या­गा­न्त­र­वि­धि­रिति युक्तम् ।

परो­व­री­य­स्त्वा­दि­वत् ।
यथो­द्गी­थो­पा­स­ना­सा­म्येऽपि आदि­त्य­ग­त­हि­र­ण्य­श्म­क्षु­त्वा­दि­गु­ण­वि­शि­ष्टो­द्गी­थो­पा­स­नातः परो­व­री­य­स्त्व­गु­ण­वि­शि­ष्टो­द्गी­थो­पा­सना भिन्ना तद्वदिदमपीति । परस्मात्परो वराच्च वरीयानिति परो­व­री­या­नु­द्गीथः परमात्मरूपः सम्पन्नः । अत एव अनन्तः । पर­मा­त्म­दृ­ष्टि­मु­द्गीथे भवयितुम् “आकाशो ह्येवैभ्यो भूतेभ्यो ज्यायान्”(छा. उ. १ । ९ । २) इत्याकाशशब्देन परमात्मानं निर्दिशति ॥ ७ ॥

संज्ञा­त­श्चे­त्त­दु­क्त­मस्ति तु तदपि ।
स्फुटतरे भेदावगमे संज्ञैकत्वं नाभे­द­सा­ध­न­म­ति­प्र­स­ङ्ग­पा­तात् । अपिच श्रुत्य­क्ष­रा­लो­च­नया भेद­प्र­त्य­योऽ­न्त­र­ङ्ग­श्चा­न­पे­क्षश्च । संज्ञैकत्वं तु श्रुतिबाह्यतया बहिरङ्गं च पौरुषेयतया सापेक्षं च । तस्माद्दुर्बलं नाभे­द­सा­ध­ना­या­ल­मिति ॥ ८ ॥

व्याप्तेश्च समञ्जसम् । अध्यासो नामेति ।
गौणी बुद्धिरध्यासः । यथा माण­व­केऽ­नि­वृ­त्ता­या­मेव माण­व­क­बु­द्धि­व्य­प­दे­श­वृत्तौ सिंह­बु­द्धि­व्य­प­दे­श­वृत्तिः सिंहो माणवक इति, एवं प्रतिमायां वासु­दे­व­बु­द्धि­र्नाम्नि च ब्रह्म­बु­द्धि­स्त­थो­ङ्कार उद्गी­थ­बु­द्धि­व्य­प­दे­शा­विति । अप­वा­दै­क­त्व­वि­शे­ष­णानि चोक्तानि । एकार्थेऽपि च शब्दद्वयप्रयोगो दृश्यते । यथा वैश्व­दे­व्या­मिक्षा विज्ञानमानन्दम् । व्याख्यायां च पर्यायाणमपि सहप्रयोगो यथा सिन्धुरः करी पिकः कोकिल इति ।

विमृ­श्या­न­ध्य­व­सा­य­ल­क्षणं पक्षं गृह्णाति –
तत्रान्यतम इति ।

सिद्धान्तमाह –
इदमुच्यते व्याप्तेश्च ।
प्रत्यनुवाकं प्रत्यृ­च­मु­प­क्रमे च समाप्तौ चोकारः सर्दवेदव्यापीति किङ्ग­तोऽ­य­मो­ङ्का­र­स्त­त्त­दा­प्त्या­दि­गु­ण­वि­शि­ष्ट­स्तस्मै तस्मै कामा­वा­प्त्या­दि­फ­ला­यो­पा­स्य­त्वे­ना­धि­क्रि­यत इत्य­पे­क्षा­या­मु­द्गी­थ­प­दे­नेति विशिष्यते । उद्गी­थ­प­दे­नों­का­रा­द्य­व­य­व­घ­टि­त­सा­म­भ­क्ति­भे­दा­भि­धा­यिना समु­दा­य­स्या­व­य­व­भा­वा­नु­प­प­त्ते­स्त­त्स­म्ब­न्ध्य­व­यव ओङ्कारो लक्ष्यते, न पुन­रो­ङ्का­रे­णा­व­य­विन उद्गीथस्य लक्षणा । ओङ्का­र­स्यै­वो­प­रि­ष्टात्तु तत्त­द्गु­ण­वि­शि­ष्टस्य तत्त­त्फ­ल­वि­शि­ष्टस्य चोप­व्या­ख्या­स्य­मा­न­त्वात् । दृष्टश्च समु­दा­य­श­ब्दोऽ­व­यवे लक्षणया यथा ग्रामो दग्धः पटो दग्ध इति तदेकदेशदाहे । अध्यासे तु लक्षणा फलकल्पना च । तथाहि आप्त्या­दि­गु­ण­क­प्र­ण­वो­पा­स­ना­दि­द­मु­द्गी­थ­तो­पा­सनं प्रणवस्यान्यत् । नचात्राप्यादि उपासनेष्विव फलं श्रूयते । तस्मा­त्क­ल्प­नी­यम् । उद्गी­थ­स­म्ब­न्धि­प्र­ण­वो­पा­स­ना­धि­का­र­परे वाक्ये नायं दोषः । अपिच गौण्या वृत्ते­र्ल­क्ष­णा­वृ­त्ति­र्ब­ली­यसी लाघवात् । लक्षणाया हि लक्षणीयपरत्वं पदस्य तस्यैव वाक्या­र्था­न्त­र्भा­वात् । यथा गङ्गायां घोष इति लक्ष्यमाणस्य तीरस्य वाक्या­र्थेऽ­न्त­र्भा­वोऽ­धि­क­र­ण­तया । गौर्वाहीक इत्यत्र तु गोस­म्ब­न्धि­ति­ष्ठ­न्मू­त्र­पु­री­षा­दि­ल­क्ष­णया न तत्परत्वं गोशब्दस्य । अपितु तत्क­क्षा­ध्य­व­सि­त­त­द्गु­ण­यु­क्त­वा­ही­क­प­र­त्व­मिति गौण्या वृत्ते­र्दु­र्ब­ल­त्वम् ।

तदिदमुक्तं –
लक्षणायामपि त्विति ।
गौण्यपि वृत्ति­र्ल­क्ष­णा­व­य­व­त्वा­ल्ल­क्ष­णोक्ता । यद्यपि वैश्व­दे­वी­प­द­मा­मि­क्षायां प्रवर्तते तथाप्यर्थभेदः स्फुटतरः । आमिक्षापदं हि रूपेणामिक्षायां प्रवर्तते । वैश्वदेवीपदं तु तस्यामेव विश्व­दे­व­वि­शि­ष्टा­याम् । एवं हि विज्ञा­ना­न­न्द­यो­रपि स्फुटतरः प्रवृ­त्ति­नि­मि­त्त­भेदः सत्यपि ब्रह्म­ण्यै­कार्थ्ये । नच व्याख्या­न­मु­भ­यो­रपि प्रसि­द्धा­र्थ­त्वा­द्भि­न्ना­र्थ­त्वाच्च । शेष­म­ति­रो­हि­ता­र्थम् ॥ ९ ॥

सर्वा­भे­दा­द­न्य­त्रेमे ।
एवंशब्दस्य सन्नि­हि­त­प्र­का­र­भे­द­प­रा­म­र्शा­र्थ­त्वा­त्सा­क्षा­च्छ­ब्दो­प­स्था­पि­तस्य च संनि­धा­ना­च्छा­खा­न्त­र­ग­तस्य चानुक्रमतया( ? ) संनिधानाभावान्न कौषी­त­कि­प्रा­ण­सं­वा­द­वाक्ये प्राणस्य वसि­ष्ठ­त्वा­दि­भि­र्गु­णै­रु­पा­स्य­त्व­मपि तु ज्येष्ठ­श्रे­ष्ठ­त्व­मा­त्रे­णेति पूर्वः पक्षः । सिद्धान्तस्तु - सत्यं संनिहितं परामृशति एवंकारो न तु शब्दो­पा­त्त­मात्रं संनिहितम् । किन्तु यच्छ­ब्दा­भि­हि­ता­र्थ­ना­न्त­री­य­क­तया प्राप्तं तदपि हि बुद्धौ संनिहितं संनिहितमेव । यथा “यस्य पर्णमयी जुहूर्भवति” इत्य­व्य­भि­च­रि­त­क्र­तु­स­म­न्व­यया जुह्वोपस्थापितः क्रतुः । तस्मा­दु­पा­स्य­फ­ल­प्र­त्य­भि­ज्ञा­ना­त्त­द­व्य­भि­चा­रिणः प्रका­र­भे­द­स्ये­हा­नु­क्त­स्यापि बुद्धौ संनि­धा­ना­त्प्र­कृ­त­प­रा­म­र्शि­नै­व­ङ्का­रेण परामर्शो युक्त इति सिद्धं कौषी­त­कि­ब्रा­ह्म­ण­ग­तेन तावदेवंकारेण शक्यते पराम्रष्टुम् ।

तथा­प्य­भ्यु­पे­त्यापि ब्रूम इत्याशयवता भाष्यकृतोक्तम् –
तथापि तस्मिन्नेव विज्ञाने वाज­स­ने­यि­ब्रा­ह्म­ण­ग­ते­नेति ।

श्रुतहानिरिति ।
केवलस्य श्रुतस्य हानिरितरसहितस्य चाश्रुतस्य कल्पना न चेत्यर्थः । अतिरोहितमन्यत् ॥ १० ॥

आनन्दादयः प्रधानस्य ।
गुण­व­दु­पा­स­ना­वि­धा­नस्य वास्त­व­गु­ण­व्या­ख्या­ना­द्वि­वे­का­र्थ­मि­द­म­धि­क­र­णम् । यथैकस्य ब्रह्मणः । संयद्वामत्वादयः सत्यकामादयश्च गुणा न सङ्कीर्येरन् । एव­मा­न­न्द­वि­ज्ञा­न­त्वा­दयो विभु­त्व­नि­त्य­त्वा­दि­भि­र्गुणैः प्रदे­शा­न्त­रो­क्तैर्न सङ्कीर्येरन् । तत्सङ्करे वा संय­द्वा­म­त्वा­द­योऽपि सत्यकामादिभिः सङ्कीर्येरन् । नहि ब्रह्मणो धर्मिणः सत्त्वे कश्चिद्विशेष इति पूर्वः पक्षः । राद्धान्तस्तु वास्त­व­वि­धे­य­यो­र्व­स्तु­ध­र्म­तया चानुष्ठेयतया चाव्य­व­स्था­व्य­वस्थे व्यवतिष्ठेते । वस्तुधर्मो हि यावद्वस्तु व्यवतिष्ठते । नासा­वे­क­त्रो­क्तोऽ­न्य­त्रा­नुक्तो नास्तीति शक्यं वक्तुम् । विधेयस्तु पुरु­ष­प्र­य­त्न­तन्त्रः पुरुषप्रयत्नश्च यत्र याव­द्गु­ण­वि­शिष्टे ब्रह्मणि चोदितः स ताव­त्ये­वा­व­ति­ष्ठते नाविहितमपि गुणं गोच­री­क­र्तु­म­र्हति । तस्य विधि­त­न्त्र­त्वा­द्वि­धेश्च व्यवस्थानात् । तस्मा­दा­न­न्द­वि­ज्ञा­ना­दयो ब्रह्म­त­त्त्वा­त्म­त­योक्ता यत्र यत्र ब्रह्म श्रूयते तत्र तत्रानुक्ता अपि लभ्यन्ते । संय­द्वा­मा­द­य­श्चो­पा­स­ना­प्र­य­त्न­वि­धि­वि­षया यथा­वि­ध्य­व­ति­ष्ठन्ते न तु यथावस्त्विति सिद्धम् । प्रिय­शि­र­स्त्वा­दीनां तूपा­स्य­त्व­मा­रोप्य न्यायो दर्शितः । तस्य ( ? )तु संय­द्वा­मा­दि­रुक्तः । मोदनमात्रं मोदः । प्रमोदः प्रकृष्टो मोदस्ताविमौ पर­स्प­रा­पे­क्षा­वु­प­च­या­प­चयौ ॥ ११ ॥

प्रिय­शि­र­स्त्वा­द्य­प्रा­प्ति­रु­प­च­या­प­चयौ हि भेदे ॥ १२ ॥

इतरे त्वर्थ­सा­मा­न्यात् ॥ १३ ॥

आध्यानाय प्रयोजनाभावात् । इन्द्रियेभ्यः परा ह्यर्था इति ।
किमत्र सर्वे­षा­मे­वा­र्था­दीनां परत्वं प्रति­पि­पा­द­यि­षि­तम् , आहो पुरुषस्यैव तत्प्र­ति­पा­द­नार्थं चेतरेषां पर­त्व­प्र­ति­पा­द­नम् । तत्र प्रत्ये­क­म­र्था­दि­प­र­त्व­प्र­ति­पा­द­न­श्रुतेः श्रूय­मा­ण­त­त्त­त्प­रत्वे च सम्भवति न तत्तदतिक्रमे सर्वे­षा­मे­क­प­र­त्वा­ध्य­व­सानं न्याय्यम् । न च प्रयो­ज­ना­भा­वा­द­स­म्भवः । सर्वेषामेव प्रत्येकं पर­त्वा­भि­धा­न­स्या­ध्या­न­प्र­यो­ज­न­त्वात् । तत्तदाध्यानानां च प्रयो­ज­न­व­त्त्व­स्मृतेः । तथाहि स्मृतिः “दश मन्वन्तराणीह तिष्ठ­न्ती­न्द्रि­य­चि­न्तकाः । भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः ॥ बौद्धा दश सहस्राणि तिष्ठन्ति विगतज्वराः । पूर्णं शतसहस्रं तु तिष्ठ­न्त्य­व्य­क्त­चि­न्तकाः । पुरुषं निर्गुणं प्राप्य कालसङ्ख्या न विद्यते ।”(वायुपुराणम्) इति । प्रामाणिकस्य वाक्य­भे­द­स्या­भ्यु­पे­य­त्वा­त्प्र­त्येकं तेषामर्थादीनां पर­त्व­प­रा­ण्ये­तानि वाक्यानीति प्राप्त उच्यते इन्द्रियेभ्यः परा ह्यर्था इत्येष तावत्सन्दर्भो वस्तु­त­त्त्व­प्र­ति­पा­द­न­परः प्रतीयते नाध्यानविधिपरः । तदश्रुतेः । तदत्र यत्प्रत्ययस्य साक्षा­त्प्र­यो­ज­न­वत्त्वं दृश्यते तत्प्र­त्य­य­प­रत्वं सर्वेषाम् । दृष्टं च विष्णोः परमपदज्ञानस्य निखि­ला­न­र्थ­सं­सा­र­का­र­णा­वि­द्यो­प­शमः । तत्त्व­ज्ञा­नो­द­यस्य विप­र्या­सो­प­श­म­ल­क्ष­ण­त्वेत तत्र तत्र दर्शनात् । अर्था­दि­प­र­त्व­प्र­त्य­यस्य तु न दृष्टमस्ति प्रयोजनम् । नच दृष्टे सम्भवति अदृष्टकल्पना न्याय्या । नच पर­म­पु­रु­षा­र्थ­हे­तु­प­रत्वे सम्भवति अवा­न्त­र­पु­रु­षा­र्थ­तो­चिता । तस्मा­द्दृ­ष्ट­प्र­यो­ज­न­व­त्त्वात् , पुरु­ष­प­र­त्व­प्र­ति­पा­द­ना­र्थोऽयं सन्दर्भ इति गम्यते ।

किञ्चा­द­रा­द­प्य­य­मे­वा­स्यार्थ इत्याह –
अपिच परप्रतिषेधेनेति ।

नन्व­त्रा­ध्या­न­वि­धि­र्नास्ति तत्कथमुच्यते आध्यानायेत्यत आह –
आध्यानायेति ॥ १४ ॥

आत्मशब्दाच्च ।
अन­धि­ग­ता­र्थ­प्र­ति­पा­द­न­स्व­भा­व­त्वा­प्र­मा­णानां विशे­ष­त­श्चा­ग­मस्य, पुरु­ष­श­ब्द­वा­च्यस्य चात्मनः स्वयं श्रुत्यैव दुर­धि­ग­म­त्वा­व­धा­र­णा­द्व­स्तु­तश्च दुर­धि­ग­म­त्वा­द­र्था­दीनां च सुग­म­त्वा­त्त­त्प­र­त्व­मे­वा­र्था­दि­प­र­त्वा­भि­धा­न­स्ये­त्यर्थः । श्रुतेराशयातिशय इवाशयातिशयः । तत्तात्पर्यतेति यावत् ।

किञ्च श्रुत्य­न्त­रा­पे­क्षि­ता­भि­धा­ना­द­प्ये­व­मेव । अर्थादिपरत्वे तु स्वरूपेण विवक्षिते नापेक्षितं श्रुतिराचष्टे इत्याह –
अपिच सोऽध्वनः पारमाप्नोतीति ॥ १५ ॥

आत्म­गृ­ही­ति­रि­त­र­व­दु­त्त­रात् ।
श्रुति­स्मृ­त्योर्हि लोकसृष्टिः पर­मे­श्व­रा­धि­ष्ठिता पर­मे­श्व­र­हि­र­ण्य­ग­र्भ­क­र्तृ­को­प­लब्धा सेयमिह महा­भू­त­स­र्ग­म­न­भि­धाय प्राथमिकी लोक­सृ­ष्टि­रु­प­ल­भ्य­मा­ना­वा­न्त­रे­श्व­र­कार्या प्रागु­त्प­त्ते­रा­त्मै­क­त्वा­व­धा­रणं चावा­न्त­रे­श्व­र­स­म्ब­न्धि­तया गमयति । पार­मे­श्व­र­स­र्गस्य महा­भू­ता­का­शा­दि­त्वा­दस्य च तद्वैपरीत्यात् । अस्ति हि तस्यैवैकस्य विका­रा­न्त­रा­पे­क्ष­या­ग्न­त्व­मस्ति चेक्षणम् । अपि चैत­स्मि­न्नै­त­रे­यके पूर्व­स्मि­न्प्र­क­रणे प्रजा­प­ति­क­र्तृ­कैव लोकसृष्टिरुक्ता । तद­नु­सा­रा­द­प्ये­त­देव विज्ञायते । अपिच ताभ्यो गामा­न­य­दि­त्या­द­यश्च व्यवहाराः श्रुत्योक्ता विशे­ष­व­त्स्वा­त्म­प­र­मा­त्मसु प्रसिद्धाः । ततोऽ­प्य­वा­न्त­रे­श्वर एव विज्ञायते । आत्म­श­ब्द­प्र­यो­ग­श्चा­त्रापि दृष्ट­स्त­स्मा­द­प­रा­त्मा­भि­ला­पोऽ­य­मिति प्राप्त उच्यते परमात्मनो गृहीतिरिह यथा इतरेषु सृष्टिश्रवणेषु “एतस्मादात्मन आकाशः सम्भूतः”(तै. उ. २ । १ । १)“एतस्मादात्मन आकाशः सम्भूतः”(तै. उ. २ । १ । १) इत्यादिषु । तस्मादुत्तरात्स ऐक्ष­ते­ती­क्ष­ण­पू­र्व­क­स्र­ष्टृ­त्व­श्र­व­णा­दा­त्मे­त्य­व­धा­र­णाच्च । एत­द­भि­सं­हि­त­म्मुख्यं ताव­त्स­र्गा­त्प्रा­क्के­व­ल­त्व­मा­त्म­प­दत्वं स्रष्टृत्वं च परमेश्वरस्यात्र भवतः । तद­स­त्या­म­नु­प­पत्तौ नान्यत्र व्याख्या­तु­मु­चि­तम् । नच महा­भू­त­सृ­ष्ट्य­न­भि­धा­नेन लोक­सृ­ष्ट्य­भि­धा­न­म­नु­प­प­त्ति­बी­जम् । आकाशपूर्विकायां वस्तुतो ब्रह्मणः सृष्टौ यथा क्वचि­त्ते­जः­पू­र्व­क­सृ­ष्ट्य­भि­धानं न विरुध्यते “एतस्मादात्मन आकाशः सम्भूतः” इति दर्शनात् । आकाशं वायुं सृष्ट्वेति हि तत्र पूर­यि­त­व्य­मे­व­मि­हापि महाभूतानि सृष्ट्वेति कल्पनीयम् । सर्व­शा­खा­प्र­त्य­य­त्वेन ज्ञानस्य श्रुति­सि­द्ध्य­र्थ­म­श्रु­तो­प­लब्धौ यत्नवता भवितव्यं न पुनः श्रुते महाभूतादित्वे सर्गस्य शैथि­ल्य­मा­द­र­णी­यम् । अपिच स्वाध्या­य­वि­ध्य­धी­न­ग्र­हणो वेद­रा­शि­र­ध्य­य­न­वि­ध्या­पा­दि­त­प्र­यो­ज­न­व­द­र्थ­म­भि­द­धानो यथा यथा प्रयो­ज­ना­धि­क्य­मा­प्नोति तथा तथा­नु­म­न्य­ते­त­राम् । यथा चास्य ब्रह्मगोचरत्वे पर­म­पु­रु­षा­र्थौ­प­यि­कत्वं नैवमन्यगोचरत्वे ।

तदिदमुक्तम् –
योऽप्ययं व्यापा­र­वि­शे­षा­नु­गम इति ।
नच लोकसर्गोऽपि हिर­ण्य­ग­र्भ­व्या­पा­रोऽपि तु तदनुप्रविष्टस्य परमात्मन इत्यत्रैवोक्तम् । तस्मा­दा­त्मै­वाग्न इत्यु­प­क्र­मा­त्त­द्व्या­पा­रेण चेक्षणेन मध्ये परा­म­र्शा­दु­प­रि­ष्टाच्च भेदजातं महाभूतैः सहानुक्रम्य ब्रह्म­प्र­ति­ष्ठ­त्वेन ब्रह्मण उप­सं­हा­रा­द्ब्र­ह्मा­भि­ला­प­त्व­मे­वा­स्येति निश्चीयते । यत्र तु पुरु­ष­वि­धा­दि­श्र­वणं तस्य भवे­त्त्व­न्य­प­रत्वं गत्य­न्त­रा­भा­वा­दिति सर्वमवदातम् । अपरः कल्पः । सदुपक्रमस्य सन्द­र्भ­स्या­त्मो­प­क्र­मस्य च किमै­का­र्थ्य­मा­हो­स्वि­द­र्थ­भेदः । तत्र सच्छ­ब्द­स्या­वि­शे­षे­णा­त्मनि चानात्मनि च प्रवृ­त्ते­र्ना­त्मा­र्थत्वं किन्तु सम­स्त­व­स्त्व­नु­ग­त­स­त्ता­सा­मा­न्या­र्थत्वं तथा चोप­क्र­म­भे­दा­द्भि­न्ना­र्थ­त्वम् । स आत्मा तत्त्वमसीति चोपसंहार उपक्रमानुरोधेन सम्पत्त्यर्थतया व्याख्येयः । तद्धि सत्सामान्यं परमात्मतया सम्पादनीयम् । तद्विज्ञानेन च सर्वविज्ञानं महासामान्यस्य सत्तायाः सम­स्त­व­स्तु­वि­स्ता­र­व्या­पि­त्वा­दि­त्येवं प्राप्त उच्यते आत्म­गृ­ही­ति­र्वा­ज­स­ने­यि­ना­मिव छान्दो­ग्या­ना­म­प्यु­त्त­रात्स आत्मा तत्त्वमसीति तादा­त्म्यो­प­दे­शात् । अस्तु ताव­दा­त्म­व्या­ति­रि­क्तस्य प्रपञ्चस्य सद­स­त्त्वा­भ्या­म­नि­र्वा­च्य­तया न सत्त्वं, सत्त्वं त्वात्मधातोरेव तत्त्वेन निर्वा­च्य­त्वा­त्त­स्मा­दा­त्मैव सन्निति । अभ्युपेत्याह । सच्छब्दस्य सत्ता­सा­मा­न्या­भि­धा­यि­त्वा­त्प्र­ति­व्यक्ति च तस्य प्रवृ­त्ते­रा­त्मनि चान्यत्र च सच्छ­ब्द­प्र­वृत्तेः संशये सत्यु­प­सं­हा­रा­नु­रो­धेन सदे­वे­त्या­त्म­न्ये­वा­व­स्था­प्यते । नीता­र्थो­प­क्र­मा­नु­रो­धेन ह्युप­सं­हा­र­व­र्णना न पुनः सन्दि­ग्धा­र्थे­नो­प­क्र­मे­णो­प­सं­हारो वर्णनीयः । अपिच सम्पत्तौ फलं कल्पनीयम् । नच सामान्यमात्रे ज्ञाते विशे­ष­ज्ञा­न­स­म्भवः । न खल्वा­का­रा­द्वृक्षे ज्ञाते शिंश­पा­द­य­स्त­द्वि­शेषा ज्ञाता भवन्ति । तदेवमवधारणादि सर्व­म­ना­त्मा­र्थत्वे स्याद­नु­प­प­न्न­मिति छान्दो­ग्य­स्या­त्मा­र्थ­त्व­मे­वेति सिद्धम् । अत्र च पूर्वस्मिन् पूर्वपक्षे हिर­ण्य­ग­र्भो­पा­सना सिद्धान्ते तु ब्रह्मभावनेति ॥ १६ ॥

अन्वयादिति चेत्स्या­द­व­धा­र­णात् ॥ १७ ॥

कार्या­ख्या­ना­द­पू­र्वम् ।

विषयमाह –
छन्दोगा वाजसनेयिनश्चेति ।
अननं प्राणनमनः प्राणः तं प्राणमनग्नं कुर्वन्तः ।

अन­ग्न­ता­चि­न्त­न­मिति ।
मन्यन्त इति मननं ज्ञानं तद्व्या­न­प­र्य­न्त­मिति चिन्तनमुक्तम् ।

संशयमाह –
तत्किमिति ।

खुर­र­व­मा­त्रे­णा­पा­तत उभयविधानपक्षं गृहीत्वा मध्यमं पक्षमालम्बते पूर्वपक्षी –
अथवाचमनमेवेति ।

यद्ये­व­म­न­ग्न­ता­स­ङ्की­र्त­नस्य किं प्रयोजनमित्यत आह –
तस्यैव तु स्तुत्यर्थमिति ।
अय­म­भि­स­न्धिः­य­द्यपि स्मार्तं प्राय­त्या­र्थ­मा­च­म­न­मस्ति तथापि प्राणो­पा­स­न­प्र­क­र­णेऽ­वि­धा­ना­त्त­द­ङ्ग­त्वे­ना­प्रा­प्त­मिति विधा­न­म­र्थ­व­द्भ­वति, अनृतवदनप्रतिषेध इव स्मार्ते ज्योति­ष्टो­म­प्र­क­रणे समाम्नातो नानृतं वदेदिति प्रतिषेधो ज्योति­ष्टो­मा­ङ्ग­त­या­र्थ­वा­निति ।

राद्धान्तमाह –
एवं प्राप्त इति ।

चोदयति –
नन्वियं श्रुतिरिति ।

परिहरति –
नेति ।
तुल्या­र्थ­यो­र्मू­ल­मू­लि­भावो नातु­ल्या­र्थ­यो­रि­त्यर्थः ।

अभिप्रायस्थं पूर्वपक्षबीजं निराकरोति –
न चेयं श्रुतिरिति ।
क्रत्व­र्थ­पु­रु­षा­र्थ­यो­र­नृ­त­व­द­न­प्र­ति­षे­ध­यो­र्यु­क्त­म­पौ­न­रु­क्तम् । इह तु स्मार्तवाचमनं सकलकर्माङ्गतया विहितं प्राणो­पा­स­ना­ङ्ग­म­पीति व्यापकेन स्मार्ते­ना­च­म­न­वि­धिना पुन­रु­क्त­त्वा­द­न­र्थ­कम् । नच स्मार्तस्यानेन पौनरुक्त्यं तस्य च व्याप­क­त्वा­दे­तस्य च प्रति­नि­य­त­वि­ष­य­त्वा­दिति ।

मध्यमं पक्षमपाकृत्य प्रथ­म­प­क्ष­म­पा­क­रोति –
अत एव च नोभयविधानम् ।

युक्त्यन्तरमाह –
उभयविधाने चेति ।

उपसंहरति –
तस्मा­त्प्रा­प्त­मे­वेति ।

न चायमनग्नतावाद इति ।
स्तोतव्याभावे स्तुति­र्नो­प­प­द्यत इत्यर्थः । अपिच माना­न्त­र­प्रा­प्ते­ना­प्राप्तं विधेयं स्तूयेत । न चान­ग्न­ता­स­ङ्क­ल्पोऽ­न्यतः प्राप्तो यतः स्तावको भवेत् ।

न चाच­म­न­म­न्य­तोऽ­प्राप्तं येन विधेयं सत्स्तू­ये­ते­त्याह –
स्वयं चान­ग्न­ता­स­ङ्क­ल्प­स्येति ।
अपि चैकस्य कर्मण एका­र्थ­तै­वे­त्यु­चितं तस्य बल­व­त्प्र­मा­ण­व­शा­द­न­न्य­ग­तित्वे सत्यनेकार्थता कल्प्यते ।

सङ्कल्पे तु कर्मान्तरे विधीयमाने नायं दोष इत्याह –
न चैवं सत्ये­क­स्या­च­म­न­स्येति ।

अपिच दृष्टि­चो­द­ना­सा­ह­च­र्या­द्दृ­ष्टि­चो­द­नैव न्याय्या न चाचमनचोदनेत्याह –
अपिच यदिदं किञ्चेति ।
यथा हि श्वादि­म­र्या­द­स्या­न्न­स्या­त्तु­म­श­क्य­त्वा­द­न्न­दृ­ष्टि­श्चो­द्यते एवमिहाप्यपां परि­धा­ना­स­म्भ­वा­द्दृ­ष्टि­रेव चोद्यत इत्य­न्न­दृ­ष्टि­वि­धि­सा­ह­च­र्या­द्ग­म्यते । अशब्दत्वं च यद्यपि दृष्ट्य­भ्य­व­हा­र­यो­स्तुल्यं तथापि दृष्टिः शाब्द­दृ­श्य­ना­न्त­री­य­क­तया साक्षाच्छब्देन क्रिय­मा­णो­प­ल­भ्यते । अभ्य­व­हा­र­स्त्व­ध्या­ह­र­णीयः कथ­ञ्चि­द्यो­ग्य­ता­मा­त्रे­णेति विशेषः । किञ्च छान्दोग्यानां वाजसनेयिनां चाचमने प्राये­णा­चा­म­न्तीति वर्तमानापदेशः एवं यत्रापि विधि­वि­भ­क्ति­स्त­त्रापि जर्तिलयवाग्ववा वा जुहु­या­दि­ति­व­द्वि­धि­त्व­म­वि­व­क्षि­तम् ।

मन्यन्त इति त्वत्प्रा­प्ता­र्थ­त्वा­त्स­मिधो यज­ती­त्या­दि­व­द्वि­धि­रे­वे­त्याह –
अपिचाचामन्तीति ।
शेष­म­ति­रो­हि­ता­र्थम् ॥ १८ ॥

समान एवं चाभेदात् ।
इहा­भ्या­सा­धि­क­र­ण­न्या­येन पूर्वः पक्षः । द्वयो­र्वि­द्या­वि­ध्यो­रे­क­शा­खा­ग­त­यो­र­गृ­ह्म­मा­ण­वि­शे­ष­तया कस्य कोऽनुवाद इति विनि­श्च­या­भा­वा­द­ज्ञा­त­ज्ञा­प­ना­प्र­वृ­त्त­प्र­व­र्त­ना­रू­पस्य च विधित्वस्य स्वर­स­सि­द्धे­रु­भ­य­त्रो­पा­स­ना­भेदः । नच गुणा­न्त­र­वि­धा­ना­यै­क­त्रा­नु­वाद उभयत्रापि गुणा­न्त­र­वि­धा­नो­प­ल­ब्धे­र्वि­नि­ग­म­ना­हे­त्व­भा­वा­त्स­मा­न­गु­णा­न­भि­धा­न­प्र­स­ङ्गाच्च । तस्मात्समिधो यज­ती­त्या­दि­व­द­भ्या­सा­दु­पा­स­ना­भेद इति प्राप्त उच्यते - ऐक­क­र्म्य­मे­क­त्वेन प्रत्य­भि­ज्ञा­नात् । न चागृ­ह्य­मा­ण­वि­शे­षता । यत्र भूयांसो गुणा यस्य कर्मणो विधीयन्ते तत्र तस्य प्रधानस्य विधिरितरत्र तु तदनुवादेन कतिपयगुणविधिः । यथा यत्र छत्र­चा­म­र­प­ता­का­हा­स्ति­का­श्वी­य­श­क्ती­क­या­ष्टी­क­धा­नु­ष्क­का­र्पा­णि­क­प्रा­सि­क­प­दा­ति­प्र­च­य­स्त­त्रास्ति राजेति गम्यते न तु कति­प­य­ग­ज­वा­जि­प­दा­ति­भाजि तदमात्ये, तथेहापि । न चैकत्र विहितानां गुणा­ना­मि­त­र­त्रो­क्ति­र­न­र्थिका प्रत्य­भि­ज्ञा­न­दा­र्ढ्या­र्थ­त्वात् । अस्तु वास्मि­न्नि­त्या­नु­वादो नह्य­नु­वा­दा­ना­म­वश्यं सर्वत्र प्रयोजनवत्त्वम् । अनु­वा­द­मा­त्र­स्यापि तत्र तत्रोपलब्धेः । तस्मात्तदेव बृह­दा­र­ण्य­केऽ­प्यु­पा­सनं तद्गु­णे­नो­प­सं­हा­रा­दिति सिद्धम् ॥ १९ ॥

सम्ब­न्धा­दे­व­म­न्य­त्रापि ।
यद्येकस्यामपि शाखायां तत्त्वेन प्रत्य­भि­ज्ञा­ना­दु­पा­स­नस्य तत्र विहितानां धर्माणां सङ्करः । तथा सति सत्य­स्यै­क­स­स्या­भे­दा­न्म­ण्ड­ल­द्व­य­व­र्तिन उपनिषदोरपि सङ्करप्रसङ्गात् । तस्येति च प्रकृ­त­प­रा­म­र्शि­त्वा­द्भेदः । सत्यस्य च प्रधानस्य प्रकृ­त­त्वा­द­धि­दै­व­मि­त्यस्य विशे­ष­ण­त­यो­प­स­र्ज­न­त्वे­ना­प्र­स्तु­त­त्वा­त्प्र­स्तु­तस्य च सत्य­स्या­भे­दा­त्पू­र्व­व­द्गु­ण­स­ङ्करः ॥ २० ॥

इति प्राप्त उच्यते –
न वा विशेषात् ।
सत्यं यत्र स्वरू­प­मा­त्र­स­म्बन्धो धर्माणां श्रूयते तत्रैवं स्वरूपस्य सर्वत्र प्रत्य­भि­ज्ञा­य­मा­न­त्वा­त्त­न्मा­त्र­स­म्ब­न्धि­त्वाच्च धर्माणाम् । यत्र तु सविशेषणं प्रधानमवगम्यते तत्र सविशेषणस्यैव तस्य धर्माभिसम्बन्धो न निर्विशेषणस्य नाप्य­न्य­वि­शे­ष­ण­स­हि­तस्य । नहि दण्डिनं पुरु­ष­मा­न­ये­त्युक्ते दण्डरहितः कम­ण्ड­लु­मा­ना­नी­यते । तस्मादधिदैवं सत्य­स्यो­प­नि­ष­दुक्ता न तस्यैवाध्यात्मं भवितुमर्हति । यथा चाचार्यस्य गच्छतोऽनुगमनं विहितं न तिष्ठतो भवति, तस्मा­न्नो­प­नि­षदोः सङ्करः किन्तु व्यवस्थितिः ।

तदिदमुक्तं –
स्वरू­पा­न­पा­या­दिति ॥ २१ ॥

दर्शयति च ।
अति­दे­शा­द­प्ये­व­मेव तत्त्वे हि नातिदेशः स्यादिति ॥ २२ ॥