भामतीव्याख्या
तदन्तरप्रतिपत्त्यधिकरणविषयाः (२)
सम्भृतिद्युव्याप्त्यपि चातः ।
“ब्रह्मज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान । ब्रह्म भूतानां प्रथमं तु जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ।”(तै .ब्रा.२-४-६) ब्रह्म ज्येष्ठं येषां तानि ब्रह्मज्येष्ठा जज्ञे आस । यद्यपि तासु तासु शाण्डिल्यादिविद्यास्वायतनभेदपरिग्रहेणाध्यात्मिकायतनत्वं सम्भृत्यादीनां गुणानामाधिदैविकत्वमित्यायतनभेदः प्रतिभाति, तथापि ज्यायान् दिव इत्यादिना सन्दर्भेणाधिदैविकविभूतिप्रत्यभिज्ञानात्षोडशकलाद्यासु च विद्यास्वायतनाश्रवणादन्ततो ब्रह्माश्रयतया साम्येन प्रत्यभिज्ञासम्भवात्सम्बृत्यादीनां गुणानां शाण्डिल्यादिविद्यासु षोडशकलादिविद्यासु चोपसंहार इति पूर्वः पक्षः । राद्धान्तस्तु मिथः समानगुणश्रवणं प्रत्यभिज्ञाय यद्विद्या अपूर्वानपि तत्राश्रुतान्गुणानुपसंहारयति न त्विह सम्भृत्यादिगुणकब्रह्मविद्यायां शाण्डिल्यादिविद्यागतगुणश्रवणमस्ति । या तु काचिदाधिदैविकी विभूतिः शाण्डिल्यादिविद्यायां श्रूयते तस्यास्तत्प्रकरणाधीनत्वात्तावन्मात्रं ग्रहीष्यते नैतावन्मात्रेण सम्भृत्यादीननुक्रष्टुमर्हति । तत्रैतत्प्रत्यभिज्ञानाभावादित्युक्तम् । ब्रह्माश्रयत्वेन तु प्रत्यभिज्ञानसमर्थनमतिप्रसक्तम् । भूयसीनामैक्यप्रसङ्गात् ।
तदिदमुक्तं –
सम्भृत्यादयस्तु शाण्डिल्यादिवाक्यगोचराश्चेति ।
तस्मात्सम्भृतिश्च द्युव्याप्तिश्च तदिदं सम्भृतिद्युव्याप्त्यपि चातः प्रत्यभिज्ञानाभावान्न शाण्डिल्यादिविद्यासूपसंह्रियत इति सिद्धम् ॥ २३ ॥
पुरुषविद्यायामिव चेतरेषामनाम्नानात् ।
पुरुषयज्ञत्वमुभयत्राप्यविशिष्टम् । नच विदुषो यज्ञस्येति न सामानाधिकरण्यसम्भवः । यज्ञस्यात्मेत्यात्मशब्दस्य स्वरूपवचनत्वात् । यज्ञस्य स्वरूपं यजमानस्तस्य च चेतनत्वाद्विदुष इति सामानाधिकरण्यसम्भवः । तस्मात्पुरुषयज्ञत्वाविशेषान्मरणावभृथत्वादिसामान्याच्चैकविद्याध्यवसाने उभयत्र उभयधर्मोपसंहार इति प्राप्तम् । एवं प्राप्त उच्यते यादृशं ताण्डिनां पैङ्गिनां च पुरुषयज्ञसम्पादनं तदायुषश्च त्रेधा व्यवस्थितस्य सवनत्रयसम्पादनम् । अशिशिषादीनां च दीक्षादिभावसम्पादनं नैवं तैत्तिरीयाणाम् । तेषां न तावत्पुरुषे यज्ञसम्पत्तिः । नह्यात्मा यजमान इत्यत्रायमात्मशब्दः स्वरूपवचनः । नहि यज्ञस्वरूपं यजमानो भवति । कर्तृकर्मणोरभेदाभावात् । चेतनाचेतनयोश्चैक्यानुपपत्तेः यज्ञकर्मणोश्चाचेतनत्वात् । यजमानस्य चेतनत्वात् । आत्मनस्तु चेतनस्य यजमानत्वं च विद्वत्त्वं चोपपद्यते । तथा चायमर्थः - एवं विदुषः पुरुषस्य यः सम्बन्धी यज्ञः तस्य सम्बन्धितया यजमान आत्मा तथा चात्मनो यजमानत्वं च विद्वत्सम्बन्धिता च यज्ञस्य मुख्ये स्यातामितरथात्मशब्दस्य स्वरूपवाचित्वे विदुषो यज्ञस्येति च यजमानो यज्ञस्वरूपमिति च गौणे स्याताम् । नच सत्यां गतौ तद्युक्तम् । तस्मात्पुरुषयज्ञता तैत्तिरीये नास्तीति तया तावन्न साम्यम् । नच पत्नीयजमानवेदविद्यादिसम्पादनं तैत्तिरीयाणामिव ताण्डिनां पैङ्गिनां वा विद्यते सवनसम्पत्तिरप्येषां विलक्षणैव । तस्माद्भूयो वैलक्षण्ये सति न किञ्चिन्मात्रसालक्षण्याद्विद्यैकत्वमुचितमतिप्रसङ्गात् । अपिच तस्यैवं विदुष इत्यनुवादश्रुतौ सत्यामनेकार्थविधाने वाक्यभेददोषप्रसक्तिरित्यर्थः । अपि चेयं पैङ्गिनां ताण्डिनां च पुरुषयज्ञविद्याफलान्तरयुक्ता स्वतन्त्रा प्रतीयते । तैत्तिरीयाणां तु एवंविदुष इति श्रवणात्पूर्वोक्तपरामर्शात्तत्फलत्वश्रुतेश्च पारतन्त्र्यम् ।
नच स्वतन्त्रतपरन्त्रयोरैक्यमुचितमित्याह –
अपिच ससंन्यासामात्मविद्यामिति ।
उपसंहरति –
तस्मादिति ॥ २४ ॥
वेधाद्यर्थभेदात् ।
विचारविषयं दर्शयति –
आथर्वणिकानामिति ।
आथर्वणिकाद्युपनिषदारम्भे ते ते मन्त्रास्तानि तानि च प्रवर्ग्यादीनि कर्माणि समम्नातानि ।
संशयमाह –
किमिम इति ।
पूर्वपक्षं गृह्णाति –
उपसंहार एवैषां विद्यास्विति ।
सफला हि सर्वा विद्या आम्नातास्तत्सन्निधौ मन्त्राः । कर्माणि च समाम्नातानि “फलवत्सन्निधावफलं तदङ्गम्” इति न्यायाद्विद्याङ्गाभावेन विज्ञायन्ते ।
चोदयति –
नन्वेषामिति ।
नह्यत्र श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानानि सन्ति विनियोजकानि प्रमाणानि, नहि यथा दर्शपूर्णमासावारभ्य समिदादयः समाम्नातास्तथा काञ्चिद्विद्यामारभ्य मन्त्रा वा कर्माणि वा समाम्नातानि । न चासति सामान्यसम्बन्धे सम्बन्धिसंनिधानमात्रात्तादर्थ्यसम्भवः । नच श्रुतस्वाङ्गपरिपूर्णा विद्या एतानाकाङ्क्षितुमर्हति येन प्रकरणापदितसामान्यसम्बन्धानां संनिधिर्विशेषसम्बन्धाय भवेदित्यर्थः ।
समाधत्ते –
बाढमनुपलभमाना अपीति ।
मा नाम भूत्फलवतीनां विद्यानां परिपूर्णाङ्गानामाकाङ्क्षा ॥ मन्त्राणां तु स्वाध्यायविध्यापादितपुरुषार्थभावानां कर्मणां च प्रवर्ग्यादीनां स्वविध्यापादितपुरुषार्थभावानां पुरुषाभिलषितमाकाङ्क्षतां संनिधानादन्यतराकाङ्क्षानिबन्धो रक्तपटन्यायेन सम्बन्धः । तत्रापि च विद्यानां फलवत्त्वात्तादर्थ्यमफलानां मन्त्राणां कर्मणां च । नच प्रवर्ग्यादीनां पिण्डपितृयज्ञवत्स्वर्गः कल्पनास्पदं, फलवत्संनिधानेन तदवरोहात् ।
अनुमानस्यामहे संनिधिसामर्थ्यादिति ।
इदं खलु निवृत्ताकाङ्क्षाया विद्यायाः संनिधाने श्रुतमनाकाङ्क्षाया साकाङ्क्षस्यापि सम्बद्धुमसामर्थ्यात्तस्या अप्याकाङ्क्षामुत्थापयति । उत्थाप्य चैकवाक्यतामुपैति । असमर्थस्य चोपकारकत्वानुपपत्तेः प्रकरणिनं प्रति उपकारसामर्थ्यमात्मनः कल्पयति । नच सत्यपि सामर्थ्ये तत्र श्रुत्या अविनियुक्तं सदङ्गतामुपगन्तुमर्हतीत्यनया परम्परया संनिधिः श्रुतिमर्थापत्त्या कल्पयति ।
आक्षिपति –
ननु नैषां मन्त्राणामिति ।
प्रयोगसमवेतार्थप्रकाशनेन हि मन्त्राणामुपयोगो वर्णितः “अविशिष्टस्तु वाक्यार्थः” इत्यत्र । नच विद्यासम्बद्धं कञ्चनार्थं मन्त्रेषु प्रतीमः । यद्यपि च प्रवर्ग्यो न किञ्चिदारभ्य श्रूयते तथापि वाक्यसंयोगेन क्रतुसंयोगेन क्रतुसम्बन्धं प्रतिपद्यते । “पुरस्तादुपसदां प्रवर्ग्येण प्रचरन्ति” इति । उपसदां जुहूवदव्यभिचरितक्रतुसम्बन्धत्वात् । यद्यपि ज्योतिष्टोमविकृतावपि सन्त्युपसदस्तथापि तत्रानुमानिक्यो ज्योतिष्टोमे तु प्रत्यक्षविहितास्तेन शीघ्रप्रवृत्तितया ज्योतिष्टोमाङ्गतैव वाक्येनावगम्यते । अपिच प्रकृतौ विहितस्य प्रवर्ग्यस्य चोदकेनोपसद्वत्तद्विकृतावपि प्राप्तिः ।
प्रकृतौ वा अद्विरुक्तत्वादिति न्यायाज्ज्योतिष्टोमे एव विधानमुपसदा सह युक्तं, तदेतदाह –
कथं च प्रवर्ग्यादीनीति ।
संनिधानादर्थविप्रकर्षेण वाक्यं बलीय इति भावः ।
समाधत्ते –
नैष दोषः । सामर्थ्यं तावदिति ।
यथा “अग्नये त्वा जुष्टं निर्वपामि” इति मन्त्रे अग्नये निर्वपामीति पदे कर्मसमवेतार्थप्रकाशके । शिष्टानां तु पदानां तदेकवाक्यतया यथाकथञ्चिद्व्याख्यानमेवमिहापि हृदयपदस्योपासनायां समवेतार्थत्वात्तदनुसारेण तदेकवाक्यतापन्नानि पदान्तराणि गौण्या लक्षणया च वृत्त्या कथञ्चिन्नेयानीति नासमवेतार्थता मन्त्राणाम् ।
नच मन्त्रविनियोगो नोपासनेषु दृष्टो येनात्यन्तादृष्टं कल्प्यत इत्याह –
दृष्टश्चोपासनेष्विति ।
यद्यपि वाक्येन बलीयसा संनिधिर्दुर्बलो बाध्यते तथापि विरोधे सति । न चेहास्ति विरोधः । वाक्येन विनियुक्तस्यापि ज्योतिष्टोमे प्रवर्ग्यस्य संनिधिना विद्यायामपि विनियोगसम्भवात् । यथा “ब्रह्मवर्चसकामो बृहस्पतिसवेन यजेत” इति ब्रह्मवर्चसफलोऽपि बृहस्पतिसवो वाजपेयाङ्गत्वेन चोद्यते वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेति । अत्र हि क्त्वः समानकर्तृकत्वमवगम्यते धातुसम्बन्धे प्रत्ययविधानात् । धात्वर्थान्तरसम्बन्धश्च कथं च समानः कर्ता स्यात् । यद्येकः प्रयोगो भवेत् । प्रयोगाविष्टं हि कर्तृत्वम् । तच्च प्रयोगभेदे कथमेकम् । तस्मात्समानकर्तृकत्वादेकप्रयोगत्वं वाजपेयबृहस्पतिसवयोर्धात्वर्थान्तरसम्बन्धाच्च । नच गुणप्रधानभावमन्तरेणैकप्रयोगता सम्बन्धश्च तत्रापि वाजपेयस्य प्रकरणे समाम्नानाद्वाजपेयः प्रधानम् । अङ्गं बृहस्पतिसवः । नच “दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत” इत्यत्राङ्गप्रधानभावप्रसङ्गः । नह्येतद्वचनं कस्यचिद्दर्शपूर्णमासस्य सोमस्य वा प्रकरणे समाम्नातम् । तथाच द्वयोः साधिकारतया अगृह्यमाणविशेषतया गुणप्रधानभावं प्रति विनिगमनाभावेनाधिष्ठानमात्रविवक्षया लाक्षणिकं समानकर्तृकत्वमित्यदोषः । यदि तु कस्याञ्चिच्छाखायामारभ्याधीतं दर्शपूर्णमासाभ्यामिष्ट्वेति । तथाप्यनारभ्याधीतस्यैवारभ्याधीते प्रत्यभिज्ञानमिति युक्तम् । तथा सति द्वयोरपि पृथगधिकारतया प्रतीतं समप्रधानत्वमत्यक्तं भवेदितरथा तु गुणप्रधानभावेन तत्त्यागो भवेत् । तस्मात्कालार्थोऽयं संयोग इति सिद्धम् ।
सिद्धान्तमुपक्रमते –
एवं प्राप्त इति ।
हृदयं प्रविध्येत्ययं मन्त्रः स्वरसतस्तावदाभिचारिककर्मसमवेतं सकलैरेव पदैरर्थमभिदधदुपलभ्यते तदस्याभिधानसामर्थ्यलक्षणं लिङ्गं वाक्यप्रकरणाभ्यां क्रमाद्बलीयोभ्यामपि बलवत्किमङ्ग पुनः क्रमात् , तस्माल्लिङ्गेन संनिधिमपोद्याभिचारिककर्मशेषत्वमेवापाद्यते । यद्यपि चोपासनासु हृदयपदमात्रस्य समवेतार्थत्वम् । तथापि तदितरेषां सर्वेषामेव पदानामसमवेतार्थत्वम् । आभिचारिके तु कर्मणि सर्वेषामर्थसमवाय इति किमेकपदसमवेतार्थता करिष्यति । नच संनिध्युपगृहीतासूपासनासु मन्त्रमवस्थापयतीति युक्तम् । हृदयपदस्याभिचारेऽपि समवेतार्थस्येतरपदैकवाक्यतापन्नस्य वाक्यप्रमाणसहितस्याभिचारिकात्कर्मणः संनिधिनाचालयितुमशक्यत्वादेवं “देव सवितः प्रसुव यज्ञम्” इत्यादेरपि यज्ञप्रसवलिङ्गस्य यज्ञाङ्गत्वे सिद्धे जघन्यो विद्यासंनिधिः किं करिष्यति । एवमन्येषामपि श्वेताश्व इत्येवमादीनां केषाञ्चिल्लिङ्गेन केषाञ्चिच्छुत्या केषाञ्चित्प्रमाणान्तरेण प्रकरणेनेति ।
कस्मात्पुनः संनिधिर्लिङ्गादिभिर्बाध्यते इत्यत आह –
दुर्बलो हि संनिधिरिति ।
प्रथमतन्त्रगतोऽर्थः स्मार्यते । तत्र तु श्रुतिलिङ्गयोः समवाये समानविषयत्वलक्षणे विरोधे किं बलीय इति चिन्ता । अत्रोदाहरणमस्त्यैन्द्री ऋक् “कदाचन स्तरीरसि नेन्द्र” इत्यादिका श्रुतिर्विनियोक्त्री “ऐन्द्र्या गार्हपत्यमुपतिष्ठते” इति । अत्र हि सामर्थ्यलक्षणाल्लिङ्गादिन्द्रे विनियोगः प्रतिभाति । श्रुतेश्च गार्हपत्यमिति द्वितीयातो गार्हपत्यस्य शेषित्वमैन्द्र्येति चतृतीयाश्रुतेरैन्द्र्या ऋचः शेषत्वमवगम्यते । यद्यपि गार्हपत्यमिति द्वितीयाश्रुतेराग्नेयीमृचं प्रति गार्हपत्यस्य शेषित्वेनोपपत्तेः । यद्यपि चैन्द्र्येति च तृतीयाश्रुतेरैन्द्र्या इन्द्रं प्रति शेषत्वनोपपत्तेरविरोधः । पदान्तरसम्बन्धे तु वाक्यस्यैव लिङ्गेन विरोधो न तु श्रुतेः । तत्र च विपरीतं बलाबलम् । तथापि श्रुतिवाक्ययो रूपतो व्यापारभेदाददोषः । द्वितीयातृतीयाश्रुती हि कारकविभक्तितया क्रियां प्रति प्रकृत्यर्थस्य कर्मकरणभावमवगमयत इति विनियोजिके । क्रियां प्रति हि कर्मणः शेषित्वं करणस्य च शेषत्वमिति हि विनियोगः । पदान्तरानपेक्षे च क्रियां प्रति शेषशेषित्वे श्रुतिमात्रात्प्रतियेते इति श्रौते । सोऽयं श्रुतितः सामान्यावगतो विनियोगः पदान्तरवशाद्विशेषेऽवस्थाप्यते । सोऽयं विशेषणविशेष्यभावलक्षणः सम्बन्धो वाक्यगोचरः, शेषशेषिभावस्तु श्रौतः, तस्माद्वाक्यलभ्यं विशेषमपेक्ष्य श्रौतः शेषशेषिभावो लिङ्गेन विरुध्यत इति श्रुतिलिङ्गविरोधे किं लिङ्गानुगुणेन गार्हपत्यमिति द्वितीयाश्रुतिः सप्तम्यर्थे व्याख्यायतां गार्हपत्यसमीपे ऐन्द्र्येन्द्र उपस्थेय इति । आहो श्रुत्यनुगुणतया लिङ्गं व्याख्यायताम् । प्रभवति हि स्वोचितायां क्रियायां गार्हपत्य इतीन्द्र इन्द्रतेरैश्वर्यवचनत्वादिति । किं तावत्प्राप्तं श्रुतेर्लिङ्गं बलीय इति । नो खलु यत्रासमर्थं तच्छ्रुतिसहस्रेणापि तत्र विनियोक्तुं शक्यते । यथा अग्निना सिञ्चेत्पाथसा दहेदिति । तस्मात्सामर्थ्यं पुरोधाय श्रुत्या विनियोक्तव्यम् । तच्चास्या ऋचः प्रमाणान्तरतः शब्दतश्च इन्द्रे प्रतीयते । तथाहि विदितपदतदर्थः कदाचनेत्यृचः स्पष्टमिन्द्रमवगच्छति, शब्दाच्चैन्द्र्येत्यतः । तस्माद्दारुदहनस्येव दहनस्य सलिलदहने विनियोगो गार्हपत्ये विनियोग ऐन्द्र्याः । नच श्रुत्यनुरोधाज्जघन्यामास्थाया वृत्तिं सामर्थ्यकल्पनेति साम्प्रतम् । सामर्थ्यस्य पूर्वभावितया तदनुरोधेनैव श्रुतिव्यवस्थापनात् । तस्मादैन्द्र्येन्द्र एव गार्हपत्यसमीप उपस्थातव्य इति प्राप्तेऽभिधीयते “लिङ्गज्ञानं पुरोधाय न श्रुतेर्विनयोक्तृता । श्रुतिज्ञानं पुरोधाय लिङ्गं तु विनियोजकम्” । यदि हि सामर्थ्यमवगम्य श्रुतेर्विनियोगमवधारयेत्प्रमाता ततः श्रुतेर्विनियोगं प्रति लिङ्गज्ञानापेक्षत्वाद्दुर्बलत्वं भवेत् । न त्वेतदस्ति । श्रुतिर्विनियोगाय सामर्थ्यमपेक्षते नापेक्षते सामर्थ्यविज्ञानम् । अवगते तु ततो विनियोगे नासमर्थस्य स इति तन्निर्वाहाय सामर्थ्यं कल्प्यते । तच्छ्रुतिविनियोगात्पूर्वमस्ति सामर्थ्यम् । न तु पूर्वमवगम्यते । विनियोगे तु सिद्धे तदन्यथानुपपत्त्या पश्चात्प्रतीयत इति श्रुतिविनियोगात्पराचीना सामर्थ्यप्रतीतिस्तदनुरोधेनावस्थापनीया । लिङ्गं तु न स्वतो विनियोजकमपि तु विनियोक्त्रीं कल्पयित्वा श्रुतिम् । तथाहि न स्वरसतो लिङ्गादनेनेन्द्र उपस्थातव्य इति प्रतीयते, किन्त्वीदृगिन्द्र इति तस्य तु प्रकरणाम्नानसामर्थ्यात्सामान्यतः प्रकरणापादितैदमर्थ्यस्य तदन्यथानुपपत्त्या विनियोगकल्पनायामपि श्रौताद्विनियोगात्कल्पनीयस्य विनियोगस्यार्थविप्रकर्षाच्छ्रुतिरेव कल्पयितुमुचिता न तु तदर्थो विनियोगः । नहि श्रुतमनुपपन्नं शक्यमर्थेनोपपादयितुम् । नहि त्रयोऽत्र ब्राह्मणाः कठकौण्डिन्याविति वाक्यं प्रमाणान्तरोपस्थापितेन माठरेणोपपादयन्ति, उपपादयतो वा नोपहसन्ति । शाब्दाः । माठरश्चेति तु श्रावयन्तमनुमन्यन्ते । तस्माच्छ्रुतार्थसमुत्थानानुपपत्तिः श्रुतेनैवार्थान्तरेणोपपादनीया, नार्थान्तरमात्रेण प्रमाणान्तरोपनीतेनेति लोकसिद्धम् । नच लोकसिद्धस्य नियोगानुयोगौ युज्येते शब्दार्थज्ञानोपायभूतलोकविरोधात् । तस्माद्विनियोजिका श्रुतिः कल्पनीया । तथाच यावल्लिङ्गाद्विनियोजिकां श्रुतिं कल्पयितुं प्रक्रान्तव्यापारस्तावत्प्रत्यक्षया श्रुत्या गार्हपत्ये विनियोगः सिद्ध इति निवृत्ताकाङ्क्षं प्रकरणमिति कस्यानुपपत्त्या लिङ्गं विनियोक्त्रीं श्रुतिमुपकल्पयेत् । मन्त्रसमाम्नानस्य प्रत्यक्षयैव विनियोगश्रुत्योपपादितत्वात् । यथाहुः “यावदज्ञातसन्दिग्धं ज्ञेयं तावत्प्रमित्स्यते । प्रमिते तु प्रमातॄणां प्रमौत्सुक्यं विहन्यते” इति । तस्मात्प्रतीतश्रौतविनियोगोपपत्त्यै मन्त्रस्य सामर्थ्यं तदनुगुणत्वेन नीयमानं प्रथमां वृत्तिमजहज्जघन्ययापि नेयमिति सिद्धम् । लिङ्गवाक्ययोरिह विरोधो यथा “स्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्पयामि । तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः” इति । किमयं कृत्स्न एव मन्त्रः सदनकरणे पुरोडाशासादने च प्रयोक्तव्य उत कल्पयाम्यन्त उपस्तरणे तस्मिन्त्सीदेत्येवमादिस्तु पुरोडाशासादन इति । यदि वाक्यं बलीयः कृत्स्नो मन्त्र उभयत्र, सुशेवं कल्पयामीत्येतदपेक्षो हि तस्मिन्सीदेत्यादिः पूर्वेणैकवाक्यतामुपैति यत्कल्पयामि तस्मिन्त्सीदेति । अथ लिङ्गं बलीयस्ततः कल्पयाम्यन्तः सदनकरणे तत्प्रकाशने हि तत्समर्थम् । तस्मिन्सीदेति पुरोडाशासादने तत्र हि तत्समर्थमिति । किं तावत्प्राप्तम् । लिङ्गाद्वाक्यं बलीय इत्युभयत्र कृत्स्नस्य विनियोग इति । इह हि यत्तत्पदसमभिव्याहारेण विभज्यमानसाकाङ्क्षत्वादेकवाक्यतायां सिद्धायां तदनुरोधेन पश्चात्तदभिधानसामार्थ्यं कल्पनीयम् । यथा देवस्यत्वेतिमन्त्रेऽग्नये निर्वपामीति पदयोः समवेतार्थत्वेन तदेकवाक्यतया पदान्तराणां तत्परत्वेन तत्र सामर्थ्यकल्पना । तदेवं प्रतीतैकवाक्यतानिर्वाहाय तदनुगुणतया सामर्थ्यं कॢप्तं सन्न तद्व्यापादयितुमर्हति, अपि तु विनियोजिकां श्रुतिं कल्पयत्तदनुगुणमेव कल्पयेत् । तथा च वाक्यस्य लिङ्गतो बलीयस्त्वात्सदनकरणे च पुरोडाशासाधने च कृत्स्न एव मन्त्रः प्रयोक्तव्य इति प्राप्तम् । एवं प्राप्ते उच्यते - भवेदेतदेवं यद्येकवाक्यतावगमपूर्वं सामर्थ्यावधारणमपि तु अवधृतसामर्थ्यानां पदानां प्रश्लिष्टपठितानां सामर्थ्यवशेन प्रयोजनैकत्वेनेकवाक्यत्वावधारणम् । यावन्ति पदानि प्रधानमेकमर्थमवगमयितुं समर्थानि विभागे साकाङ्क्षाणि तान्येकं वाक्यम् । अनुष्ठेयश्चार्थो मन्त्रेषु प्रकाश्यमानः प्रधानम् । सदनकरणपुरोडाशासादने चानुष्ठेयतया प्रधाने । तयोश्च सदनकरणं कल्पयाम्यन्तो मन्त्रः समर्थः प्रकाशयितुं पुरोडाशासादनं च तस्मिन्सीदेत्यादिः । ततश्च यावदेकवाक्यतावशेन सामर्थ्यमनुमीयते तावत्प्रतीतं सामर्थ्यमेकैकस्य भागस्यैकैकस्मिन्नर्थे विनियोजिकां श्रुतिं कल्पयति । तथाच श्रुत्यैवैकैकस्य भागस्यैकत्र विनियोगे सति प्रकरणपाठोपपत्तौ न वाक्यकल्पितं लिङ्गं विनियोजिकां श्रुतिमपरां कल्पयितुमर्हतीत्येकवाक्यताबुद्धिरुत्पन्नाप्याभासीभवति लिङ्गेन बाधनात् । यत्र तु विरोधकं लिङ्गं नास्ति तत्र समवेतार्थैकद्वित्रिपदैकवाक्यता पदान्तराणामपि सामर्थ्यं कल्पयतीति भवति वाक्यस्य विनियोजकत्वम् । यथात्रैव स्योनं त इत्यादीनाम् । तस्माद्वाक्याल्लिङ्गं बलीय इति सिद्धम् ॥ वाक्यप्रकरणयोर्विरोधोदाहरणम् । अत्र च पदानां परस्परापेक्षावशात्कस्मिंश्चिद्विशिष्ट एकस्मिन्नर्थे पर्यवसितानां वाक्यत्वं, लब्धवाक्यभावानां च पुनः कार्यान्तरापेक्षावशेन वाक्यान्तरेण सम्बन्धः प्रकरणम् । कर्तव्यायाः खलु फलभावनाया लब्धधात्वर्थकरणाया इतिकर्तव्यताकाङ्क्षाया वचनं प्रकरणमाचक्षते वृद्धाः । यथा “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इति । एतद्धि वचनं प्रकरणम् । तदेतस्मिन् स्वपदगणेन कियत्यप्यर्थे पर्यवसिते करणोपकारलक्षणकार्यान्तरापेक्षायां ‘समिधो यजति’ इत्यादिवाक्यान्तरसम्बन्धः । समिदादिभावना हि स्वविध्युपहिताः पुरुषे हितं भाव्यमपेक्षमाणा विश्वजिन्न्यायेन वानुषङ्गतो वार्थवादतो वा फलान्तराप्रतिलम्भेन दर्शपूर्णमासभावनां निर्वारयितुमीशते । तस्मात्तदाकाङ्क्षायामुपनिपतितान्येतानि वाक्यानि स्वकार्यापेक्षाणि तदपेक्षितकरणोपकारलक्षणं कार्यमासाद्य निवन्ति च निर्वारयन्ति च प्रधानम् । सोऽयमनयोर्नष्टाश्वदग्धरथवत्संयोगः । तदेवं लक्षणयोर्वाक्यप्रकरणयोर्विरोधोदाहरणं सूक्तवाकनिगदः । तत्र हि पौर्णमासीदेवता अमावस्यादेवताः समाम्नाताः । ताश्च न मिथ एकवाक्यतां गन्तुमर्हन्तीति लिङ्गेन पौर्णमासीयागादिन्द्राग्नीशब्द उत्क्रष्टव्यः अमावास्यायां च समवेतार्थत्वात्प्रयोक्तव्यः । अथेदानीं सन्दिह्यते किं यदिन्द्राग्निपदैकवाक्यतया प्रतीयते “अविवृधेथां महो ज्यायोऽकाताम्” इति तन्नोत्क्रष्टव्यमुतेन्द्राग्निशब्दाभ्यां सहोत्क्रष्टव्यमिति । तत्र यदि प्रकरणं बलीयस्ततोऽपनीतदेवताकोऽपि शेषः प्रयोक्तव्योऽथ वाक्यं ततो यत्र देवताशब्दस्तत्रैव प्रयोक्तव्यः । किं तावत्प्राप्तमपनीतदेवताकोऽपि शेषः प्रयोक्तव्यः प्रकरणस्यैवाङ्गसम्बन्धप्रतिपादकत्वात् । फलवती हि भावना प्रधानेतिकर्तव्यतात्वमापादयति । तदुपजीवनेन श्रुत्यादीनां विशेषसम्बन्धापादकत्वात् । अतः प्रधानभावनावचनलक्षणप्रकरणविरोधे तदुपजीविवाक्यं बाध्यत इति प्राप्तम् । एवं प्राप्त उच्यते भवेदेतदेवं यदि विनियोज्यस्वरूपसामर्थ्यमनपेक्ष्य प्रकरणं विनियोजयेत् । अपि तु विनियोगाय तदपेक्षतेऽन्यथा पूषाद्यनुमन्त्रणमन्त्रस्य द्वादशोपसत्तायाश्च नोत्कर्षः स्यात् । तद्रूपालोचनायां च यद्यदेव शीघ्रं प्रतीयते तत्तद्बलवद्विप्रकृष्टं तु दुर्बलम् । तत्र यदि तद्रूपं श्रुत्या लिङ्गेन वाक्येन वान्यत्र विनियुक्तं ततः प्रकरणं भङ्क्त्वोत्कृष्यते, परिशिष्टैस्तु प्रकरणस्येतिकर्तव्यतापेक्षा पूर्यते । अथ स्वस्य शीघ्रप्रवृत्तं श्रुत्यादि नास्ति ततः प्रकरणं विनियोजकम् । यथा समिदादेः । तदिह प्रकरणाद्वाक्यस्य शीघ्रप्रवृत्तत्वमुच्यते । प्रकरणे हि स्वार्थपूर्णानां वाक्यानामुपकार्योपकारकाकाङ्क्षामात्रं दृश्यते । वाक्ये तु पदानां प्रत्यक्षसम्बन्धः । ततश्च सह प्रस्थितयोर्वाक्यप्रकरणयोर्यावत्प्रकरणेनैकवाक्यता कल्प्यते तावद्वाक्येनाभिधानसामर्थ्यं, यावदितरत्र वाक्येन सामर्थ्यं तावदितरत्र सामर्थ्येन श्रुतिर्यावदितरत्र सामर्थ्येन श्रुतिस्तावदिह श्रुत्या विनियोगस्तावता च विच्छिन्नायामाकाङ्क्षायां श्रुत्यनुमाने विहते प्रकरणेनान्तरा कल्पितं विलीयन्त इति वाक्यबलीयस्त्वात्तद्देवताशेषणामपकर्ष एवेति सिद्धम् ॥ क्रमप्रकरणविरोधोदाहरणम् । राजसूयप्रकरणे प्रधानस्यैवाभिषेचनीयस्य संनिधौ शौनःशेपोपाख्यानाद्याम्नातं, तत्किं समस्तस्य राजसूयस्याङ्गमुताभिषेचनीयस्य । यदि प्रकरणं बलीयस्ततः समस्तस्य राजसूयस्य, अथ क्रमस्ततोऽभिषेचनीयस्यैवेति, किं तावत्प्राप्तम् । नाकाङ्क्षामात्रं हि सम्बन्धहेतुः । गामानय प्रासादं पश्येति गामित्यस्य क्रियामात्रापेक्षिणः पश्येत्यनेनापि सम्बन्धसम्भवाद्विनिगमनाभावप्रसङ्गात् । तस्मात्संनिधानं सम्बन्धकारणम् । तथा चानयेत्यननैव गामित्यस्य सम्बन्धो विनिगम्यते । नच संनिधानमपि सम्बन्धकारणम् । अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यत्र राज्ञ इत्यस्य पुत्रपुरुषपदसंनिधानाविशेषान्मा भूदविनिगमना । तस्मादाकाङ्क्षा निश्चयहेतुर्वक्तव्या । अत्र पुत्रशब्दस्य सम्बन्धिवचनतया समुत्थिताकाङ्क्षस्यान्तिके यदुपनिपतितं सम्बन्ध्यन्तराकाङ्क्षं पदं तस्य तेनैवाकाङ्क्षापरिपूर्तेः पुरुषपदेन पुरुषरूपमात्राभिधायिना स्वतन्त्रेणैव न सम्बन्धः किन्तु परेणापसार्यतामित्यनेनापसरणीयापेक्षेणेति । सत्यपि संनिधाने आकाङ्क्षाभावादसम्बन्धः । तथा चाभाणकः “तप्तं तप्तेन सम्बध्यते” इति । तथा चाकाङ्क्षितमपि न यावत्संनिधाप्यते तावन्न सम्बध्यते । तथा संनिहितमपि यावन्नाकाङ्क्ष्यते न तावत्सम्बध्यत इति द्वयोः सम्बन्धं प्रति समानबलत्वात्क्रमप्रकरणयोः समुच्चयासम्भवाच्च विकल्पेन राजसूयाभिषेचनीययोर्विनियोगः शौनःशेपोपाख्यानादीनामिति प्राप्तम् । एवं प्राप्त उच्यतेराजसूयके कथम्भावापेक्षा हि पवित्रादारभ्य क्षत्रस्य धृतिं यावदनुवर्तते । यथा च “अविच्छिन्ने कथम्भावे यत्प्रधानस्य पठ्यते । अनिर्ज्ञातफलं कर्म तस्य प्रकरणाङ्गता” इति न्यायाद्राजसूयाङ्गता शौनःशेपोपाख्यानादीनाम् । अभिषेचनीयस्य तु स्ववाक्योपात्तपदार्थनिराकाङ्क्षस्य संनिधिपाठेनाकाङ्क्षोत्थापनीया यावत्तावत्सिद्धाकाङ्क्षेण राजसूयेनैकवाक्यता कल्प्यते । यावच्चाभिषेचनीयाकाङ्क्षया तदेकवाक्यता कल्प्यते तावत्कॢप्तया राजसूयैकवाक्यतया तदुपकारतया सामर्थ्यलक्षणं लिङ्गं यावच्चाभिषेचनीयैकवाक्यतया लिङ्गं कल्प्यते तावत्कॢप्तलिङ्गं विनियोक्त्रीं श्रुतिं कल्पयति यावद्वाक्यकल्पितेन लिङ्गेन श्रुतिरितरत्र कल्प्यते तावत्कॢप्तया श्रुत्या विनियोगे सति प्रकरणपाठोपपत्तौ संनिधानपरिकल्पितमन्तरा विलीयते । प्रमाणाभावेऽप्रतिभत्वात् । प्रकरणिनश्च राजसूयस्य सर्वदा बुद्धिसांनिध्येन तत्संनिधेरकल्पनीयत्वात् । तस्मात्प्रकरणविरोधे क्रमस्य बाध एव नच विकल्पो दुर्बलत्वादिति सिद्धम् ॥ क्रमसमाख्ययोर्विरोधोदाहरणम्पौरोडाशिक इति समाख्याते काण्डे सान्नाय्यक्रमे च शुन्धध्वं दैव्याय कर्मण इति शुन्धनार्थो मन्त्रः समाम्नातः, तत्र सन्दिह्यते किं समाख्यानस्य बलीयस्त्वात्पुरोडाशपात्राणां शुन्धने विनियोक्तव्यः, आहो सान्नाय्यपात्राणां शुन्धने क्रमो बलीयानिति । किन्तावत्प्राप्तम् । समाख्यानां बलीय इति पौरोडाशिकशब्देन हि पुरोडाशसम्बन्धीनीत्युच्यन्ते तान्यधिकृत्य प्रवृत्तं काण्डं पौरोडाशिकम् । ततश्च यावत्क्रमेण प्रकरणाद्यनुमानपरम्परया सम्बन्धः प्रतिपादनीयः यावत्समाख्यया श्रुत्यैव साक्षादेव स प्रतिपादित इति अर्थविप्रकर्षेण क्रमात्समाख्यैव बलीयसीति पुरोडाशपात्रशुन्धने मन्त्रः प्रयोक्तव्यः न सान्नाय्यपात्रशुन्धन इति प्राप्तम् । एवं प्राप्तेऽभिधीयते - समाख्यानात्क्रमो बलवानर्थविप्रकर्षादिति । तथाहि - समाख्या न तावत्सम्बन्धस्य वाचिका किन्तु पौरोडाशविशिष्टं काण्डमाह । तद्विशिष्टत्वान्यथानुपपत्त्या तु सम्बन्धः काण्डस्यानुमीयते न तु साक्षान्मन्त्रभेदस्य । तद्धारेण च तन्मध्यपातिनो मन्त्रभेदस्यापि तदनुमानम् । न चासौ सम्बन्धोऽपि श्रुत्यैव शेषशेषिभावः प्रतीयते । अपि तु सम्बन्धमात्रम् । तस्माच्छ्रुतिसादृश्यमस्य दूरापेतमिति क्रमेण नास्य स्पर्धोचिता । तत्रापि च सामान्यतो दर्शपूर्णमासप्रकरणापादितैदमर्थ्यस्य शौनःशेपोपाख्यानादिवच्चारादुपकारकतया प्रकृतमात्रसम्बन्धानुपपत्तिः । मन्त्रस्य प्रयोगसमवेतार्थस्मारणेन सामवायिकाङ्गत्वात् । तथाच यं कञ्चित्प्रकृतप्रयोगगतमर्थं प्रकाशयतोऽस्य प्रकरणाङ्गत्वमविरुद्धमिति विशेषापेक्षायां सान्नाय्यक्रमः सान्नाय्यं प्रति प्रकरणाद्यनुमानद्वारेण विनियोगं कल्पयितुमुत्सहते न तु समाख्यानम् । तस्य दुर्बलत्वात् । तथाहि - समाख्या सम्बन्धनिबन्धना सती तत्सिध्यर्थं संनिधिमुपकल्पयति यावत्ताद्वैदिकेन प्रत्यक्षदृष्टेन संनिधानेनाकाङ्क्षा कल्प्यते । यावच्च कॢप्तेन संनिधानेनाकाङ्क्षा कल्प्यते तावदितरत्र कॢप्तयाकाङ्क्षयैकवाक्यता यावच्च कॢप्तयाकाङ्क्षैकवाक्यता तावदितरत्रैकवाक्यतया कॢप्तयोपकारसामर्थ्यम् । यावच्चात्रैकवाक्यतयोपकारसामर्थ्यं तावदितरत्र लिङ्गेन विनियोजिका श्रुतिः । यावदत्र लिङ्गेन विनियोजिका श्रुतिस्तावदितरत्र कॢप्तया श्रुत्या विनियोग इति तावतैव प्रकरणपाठोपपत्तेः सर्वं समाख्यानकल्पितं विच्छिन्नमूलत्वाल्लूयमानसस्यमिव निर्बीजं भवति । पुरोडाशाभिधायकमन्त्रबाहुल्यात्काण्डस्य पौरोडाशिकसमाख्येति मन्तव्यम् । “एकद्वित्रिचतुष्पञ्चवस्त्वन्तरयकारितम् । श्रुत्यर्थं प्रति वैषम्यं लिङ्गादीनां प्रतीयते ॥' इत्यर्थविप्रकर्ष उक्तः । तत्रापि च “बाधिकैव श्रुतिर्नित्यं समाख्या बाध्यते सदा । मध्यमानां तु बाध्यत्वं बाधकत्वमपेक्षया ॥' इति विशेष उक्तो वृद्धैः । तद्वयं विस्तराद्बिभ्यतोऽपि प्रथमतन्त्रानभिज्ञानुकम्पया निघ्ना विस्तरे पतिताः स्म इत्युपरम्यते । तस्माद्यथानुज्ञापनानुज्ञयोः प्रज्ञातक्रमयोरुपहूत उपहूयस्वेत्येवं मन्त्रावाम्नातौ देशसामान्यात्तथैवाङ्गतया प्राप्नुतः । उपहूत इति लिङ्गतोऽनुज्ञामन्त्रो नानुज्ञापने उपहूयस्वेति च लिङ्गतोऽनुज्ञापने च मन्त्रो नानुज्ञायाम् । तदिह लिङ्गेन क्रमं बाधित्वा विपरीतं शेषत्वमापाद्यते । यावद्धि स्थानेन प्रकरणमुत्पाद्यैकवाक्यत्वं कल्प्यते तावल्लिङ्गेन श्रुतिं कल्पयित्वा साधितो विनियोग इति अकल्पितलिङ्गश्रुतेः क्रमस्य बाधः । तद्वदिहापि विनियोगे प्रत्येकान्तरितेन लिङ्गेन चतुरन्तरितस्य विद्याक्रमस्य बाध इति । यद्यपि प्रथमतन्त्र एवायमर्थ उपपादितस्तथापि विरोधे तदुपपादनमिह त्वविरोधः । नहि लिङ्गेनाभिचारिककर्मसम्बन्धः विद्यासम्बन्धेन क्रमकृतेन विरुध्यते । नच विनियुक्तविनियोगलक्षणोऽत्र विरोधो बृहस्पतिसवेऽपि तत्प्रसङ्गात् । अथैव प्रतीतिविरोधो नच वस्तुविरोधः स विद्यायां विनियोगेऽपि तुल्यः । तस्मादविरोधाद्वेधादिमन्त्रस्योपासनाङ्गत्वमित्यस्त्यभ्यधिका शङ्का । तत्रोच्यते “नहि लिङ्गविरोधेन क्रमबाधोऽभिधीयते । किन्तु लिङ्गपरिच्छिन्ने न क्रमः कल्पनाक्षमः” । प्रकरणपाठोपपत्त्या हि श्रुतिलिङ्गवाक्यप्रकरणैरविनियुक्तः क्रमेण प्रकरणवाक्यलिङ्गश्रुतिकल्पनाप्राणालिकया विनियुज्यते । तदा विनियुक्तस्य प्रकरणपाठानर्थक्यप्रसङ्गात् । उपपादिते तु श्रुत्यादिभि प्रकरणपाठे क्षीणत्वादर्थापत्तेः क्रमो न स्वोचितां प्रमामुत्पादयितुमर्हति प्रमित्साभावादिति । बृहस्पतिसवस्य तु क्त्वाश्रुतिरेव धातुसम्बन्धाधिकारकात्समानकर्तृकतायां विहिता संयोगपृथक्त्वेन विनियुक्तमपि विनियोजयन्ती न शक्या श्रुत्यन्तरेण निरोद्धुं स्वप्रमामिति वैषम्यम् ।
तदिदमुक्तम् –
वाजपेये तु बृहस्पतिसवस्य स्पष्टं विनियोगान्तरमिति ।
अपि चैकोऽयं प्रवर्ग्य इति ।
तुल्यबलतया बृहस्पतिसवस्य तुल्यताशङ्कापाकरणद्वारेण समुच्चयो न तु पृथगुक्तितया परस्परापेक्षत्वादिति ।
संनिधिपाठमुपपादयति –
अरण्यादिवचनवादिति ॥ २५ ॥
हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दःस्तुत्युपगानवत्तदुक्तम् ।
यत्र हानोपायने श्रूयेते तत्राविवादः संनिपाते यत्राप्युपायनमात्रश्रवणं तत्रापि नान्तरीयकतया हानमाक्षिप्तमित्यस्ति संनिपातः । यत्र तु हानमात्रं सुकृतदुष्कृतयोः श्रुतं न श्रूयते उपायनं, तत्र किमुपायनमुपादानं संनिपतेन्न वेति संशयः ।
अत्र पूर्वपक्षं गृह्णाति –
असंनिपात इति ।
स्यादेतत् । यथा श्रूयमाणमेकत्र शाखायामुपासनाङ्गं तस्मिन्नेवोपासने शाखान्तरेऽश्रूयमाणमुपसंह्रियते ।
एवं शाखान्तरश्रुतमुपायनमुपसंहरिष्यत इत्यत आह –
विद्यान्तरगोचरत्वाच्चेति ।
एकत्वे ह्युपासनकर्मणामन्यत्र श्रुतानामप्यन्यत्र समवायो घटते । न त्विहोपासनानामेकत्वं, सगुणनिर्गुणत्वेन भेदादित्यर्थः ।
ननु यथोपायनं श्रुतं हानमुपस्थापयत्येवं हानमपि उपायनमित्यत आह –
अपि चात्मकर्तृकमिति ।
ग्रहणं हि न स्वामिनोऽपगममन्तरेण भवतीति ग्रहणादपगमसिद्धिरवश्यम्भाविनी । अपगमस्त्वसत्यप्यन्येन ग्रहणे दृष्टो यथा प्रायश्चित्तेनापगतिरेनस इति । कर्तृभेदकथनं त्वेतदुपोद्बलनार्थं न पुनरवश्यम्भावस्य प्रयोजकमुपायनेनानैकान्त्यादिति ।
सिद्धान्तमुपक्रमते –
अस्यां प्राप्ताविति ।
अयमस्यार्थः कर्मान्तरे विहितं हि न कर्मान्तर उपसंह्रियते प्रमाणाभावात् । यत्पुनर्न विधीयते किन्तु स्तुत्यर्थं सिद्धतया सङ्कीर्त्यते तदसति बाधके देवताधिकरणन्यायेन शब्दतः प्रतीयमानं परित्यक्तुमशक्यम् । तथाच विधूतयोः सुकृतदुष्कृतयोर्निर्गुणायां विद्यायामश्वरोमादिवत्किं भवत्वित्याकाङ्क्षायां न तावत्प्रायश्चित्तेनेव तद्विलयसम्भवस्तथा सत्यश्वरोमराहुदृष्टान्तानुपपत्तेः । न जात्वश्वरोमराहुमुखयोर्विलयनमस्ति । अपि त्वश्वचन्द्राभ्यां विभागः । नच नष्टे विधूननप्रमोचनार्थसम्भवः । तस्मादर्थवादस्यापेक्षायां शब्दसंनिधिकृतोऽपि विशेष उपायनं बुद्धौ संनिधापयितुं शक्नोत्यपेक्षां पूरयितुमिति । निर्गुणापि विद्या हानोपायनाभ्यां स्तोतव्या । स्तुतिप्रकर्षस्तु प्रयोजनं न प्रमाणम् । अप्रकर्षेऽपि स्तुत्युपपत्तेः । न चार्थवादान्तरापेक्षार्थवादान्तराणां न दृष्टा ।
नच तैर्न पूरणमित्याह –
प्रसिद्धा चेति ।
विद्यास्तुत्यर्थत्वाच्चास्योपायनवादस्येति ।
यद्यप्यन्यदीये अपि सुकृतदुष्कृते अन्यस्य फलं प्रयच्छतः, यथा पुत्रस्य श्राद्धकर्म पितुस्तृप्तिं यथा च पितुर्वैश्वानरीयेष्टिः पुत्रस्य । नार्याश्च सुरापानं भर्तुर्नरकम् । तथाप्यन्यदीये अपि सुकृतदुष्कृते साक्षादन्यस्मिन्न सम्भवत इत्याशयेन शङ्का । फलतः प्राप्त्या स्तुतिरिति परिहारः । गुणोपसंहारविवक्षायामित्यपि न स्वरूपतः सुकृतदुष्कृतसञ्चाराभिप्रायम् ।
ननु विद्यागुणोपसंहाराधिकारे कोऽयमकाण्डे स्तुत्यर्थविचार इति शङ्कामुपसंहरन्नपाकरोति –
तस्माद्गुणोपसंहारविचारप्रसङ्गेनेति ।
विद्यागुणोपसंहारप्रसङ्गतः स्तुतिगुणोपसंहारो विचारितः । प्रयोजनं चोपासके सौहार्दमाचरितव्यं न त्वसौहार्दमिति छन्द एवाच्छन्द आच्छादनादाच्छन्दो भवति ।
यथैव चाविशेषेणोपगानमिति ।
ऋत्विज उपगायन्तीत्यविशेषेणोपगानमृत्विजाम् । भाल्लविनस्तु विशेषेण नाध्वर्युरुपगायतीति । तदेतस्माद्भाल्लविनां वाक्यमृत्विज उपगायन्तीत्येतच्छेषं विज्ञायते । एतदुक्तं भवति - अध्वर्युवर्जिता ऋत्विज उपगायन्तीति । कस्मात्पुनरेवं व्याख्यायते ।
ननु स्वतन्त्राण्येव सन्तु वाक्यानीत्यत आह –
श्रुत्यन्तरकृतमिति ।
अष्टदोषदुष्टविकल्पप्रसङ्गभयेन वाक्यान्तरस्य वाक्यान्तरशेषत्वमत्रभवतो जैमिनेरपि संमतमित्याह –
तदुक्तं द्वादशलक्षण्याम् ।
'अपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यात्” इत्येतदेव सूत्रमर्थद्वारेण पठति –
अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात्
स चान्याय्य इति शेषः । एवं किल श्रूयते “एष वै सप्तदशः प्रजापतिर्यज्ञे यज्ञेऽन्वायत्त” इति । ततो नानुयाजेषु येयजामहं करोतीति । तदत्रानारभ्य कञ्चिद्यज्ञं यज्ञेषु येयजामहकरणमुपदिष्टम् । तदुपदिश्य चाम्नातं नानुयाजेष्विति । तत्र संशयः किं विधिप्रतिषेधयोर्विकल्प उत पर्युदासोऽनुयाजवर्जितेषु येयजामहः कर्तव्य इति । मा भूदर्थप्राप्तस्य शास्त्रीयेण निषेधे विकल्पः । दृष्टं हि तादात्विकीमस्य सुन्दरतां गमयति नायतौ दोषवत्तां निषेधति । तस्य तत्रौदासीन्यात् । निषेधशास्त्रं तु तादात्विकं सौन्दर्यमबाधमानमेव प्रवृत्त्युन्मुखं नरं निवारयदायत्यामस्य दुःखफलत्वमवगमयति । यथाह “अकर्तव्यो दुःखफलः” इति । ततो रागतः प्रवृत्तमप्यायत्यां दुःखतो बिभ्यतं पुरुषं शक्नोति निवारयितुमिति बलीयान् शास्त्रीयः प्रतिषेधो रागतः प्रवृत्तेरिति न तया विकल्पमर्हति । शास्त्रीयौ तु विधिनिषेधौ तुल्यबलतया षोडशिग्रहणवद्विकल्प्येते । तत्र हि विधिदर्शनात्प्रधानस्योपकारभूयस्त्वं कल्प्यते । निषेधदर्शनाच्च वैगुण्येऽपि फलसिद्धिरवगम्यते । तथाह “अर्थप्राप्तवदिति चेन्न तुल्यत्वादुभयं शब्दलक्षणं” इति । नच वाच्यं यावद्यजतिषु येयजामहकरणं यावद्यजतिसामान्यद्वारेणानुयाजं यजतिविशेषमुपसर्पति तावदनुयाजगतेन निषेधेन तन्निषिद्धमिति शीघ्रप्रवृत्तेः सामान्यशास्त्राद्विशेषनिषेधो बलवानिति । यतो भवत्वेवंविधिषु ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेति । तत्र तक्रविधिर्न दधिविधिमपेक्षते प्रवर्तितुमिह तु प्राप्तिपूर्वकत्वात्प्रतिषेधस्य येयजामहस्य चान्यतोऽप्राप्तेस्तन्निषेधेन निषेधप्राप्त्यै तद्विधिरपेक्षणीयः । नच सापेक्षतया निषेधाद्विधिरेव बलीयानित्यतुल्यशिष्टतया न विकल्पः किन्तु निषेधस्यैव बाधनमिति साम्प्रतं, तथा सति निषेधशास्त्रं प्रमत्तगीतं स्यात् । नच तद्युक्तं तुल्यं हि साम्प्रदायिकम् । नच न तौ पशौ करोतीतिवदर्थवादता । असमवेतार्थत्वात् । पशौ हि नाज्यभागौ स्त इत्युपपद्यते । न चात्र तथा येयजामहाभावः, यजतिषु येयजामहविधानात् । अनुयाजानां च तद्भावात् । नच पर्युदासस्तदाननुयाजेष्विति, कात्यायनमतेन नियमप्रसक्तेः । तस्माद्विहितप्रतिषिद्धतया विकल्प इति प्राप्तम् । एवं प्राप्त उच्यते उक्तं षोडशिग्रहणयोर्विकल्प इति । नहि तत्रान्या गतिरस्ति । तेनाष्टदोषदुष्टोऽपि विकल्प आस्थीयते पक्षेऽपि प्रामाण्यान्मा भूत्प्रमत्तगीततेति । इह तु पर्युदासेनाप्युपपत्तौ सम्भवन्त्यामन्याय्यं विकल्पाश्रयणमयुक्तम् । एवं हि तदा नञः सम्बन्धोऽननुयाजेषु यजतिष्वनुयाजवर्तितेषु येयजामहः कर्तव्य इति । किमतो यद्येवम् । एतदतो भवति - नानुयाजेष्वित्येतद्वाक्यमपरिपूर्णं साकाङ्क्षं पूर्ववाक्यैकदेशेन सम्भन्त्स्यते यदेतद्येयजामहङ्करोतीत्येतन्नानुयाजेषु यावदुक्तं स्यादनुयाजवर्जितेष्विति तावदुक्तं भवति नानुयाजेष्विति । तथाच यजितिविशेषणार्थत्वादननुयाजविधिरेवायमिति प्रतिषेधाभावान्न विकल्पः । न चाभियुक्ततरपाणिनिविरोधे कात्यायनस्यासद्वादित्वं नित्यसमासवादिनः सम्भवति । स हि विभाषाधिकारे समासं शास्ति । तस्मादनुयाजवर्जितेषु येयजामहविधानमिति सिद्धम् ।
वर्णकान्तरमाह –
अथवैतास्विति ।
यथा हि सुकृतदुष्कृतयोरमूर्तयोः कल्पनं नाञ्जसं मूर्त्यनुविधायित्वात्कम्पस्य । तथान्यदीययोरन्यत्र सञ्चारोऽप्यनुपपन्नोऽमूर्तत्वादेव । तस्माद्यत्र विधूननमात्रं श्रुतं तत्र कम्पनेन वरं स्वकार्यारम्भाच्चालनमात्रमेव लक्ष्यतां न तु ततोऽपगत्यान्यत्र सञ्चारः कल्पनागौरवप्रसङ्गात् । तस्मात्स्वकार्यारम्भाच्चालनं विधूननमिति प्राप्तेऽभिधीयते - यत्र तावदुपायनश्रुतिस्तत्रावश्यं त्यागो विधूननं वक्तव्यम् । क्वचिदपि चेद्विधूननं त्यागे वर्तते तथा सत्यन्यत्रापि तत्रैव वर्तितुमर्हति । एवं हि न वर्तेत यदि विधूननमिह मुख्यं लभ्येत । न चैतदस्ति । तत्रापि स्वकार्याच्चालनस्य लक्ष्यमाणत्वात् । नच प्रामाणिकं कल्पनागौरवं लोहगन्धितामाचरति । अपिचानेकार्थत्वाद्धातूनां त्यागेऽपि विधूयेति मुख्यमेव भविष्यति । प्राचुर्येण त्यागेऽपि लोके प्रयोगदर्शनात् । विनिगमनहेतोरभावात् । गणकारस्य चोपलक्षणत्वेनाप्यर्थनिर्देशस्य तत्र दर्शनात् । तस्माद्धानार्थ एवात्रेति युक्तम् ॥ २६ ॥
साम्पराये तर्तव्याभावात्तथा ह्यन्ये ।
ननु पाठक्रमादर्धपथे सुकृतदुष्कृततरणे प्रतीयेते । विद्यासामर्थ्याच्च प्रागेवावगम्येते । तथा शाठ्यायनिनां ताण्डिनां च श्रुतेः । श्रुत्यर्थौ च पाठक्रमाद्बलीयांसौ, “अग्निहोत्रं जुहोति यवागूं पचति” इत्यत्र यथा । तस्मात्पूर्वपक्षाभावादनारभ्यमेतत् । अत्रोच्यते । नैतत्पाठक्रममात्रमपि तु श्रुतिस्तत्सुकृतदुष्कृते विधूनुत इति । तदिति हि सर्वनाम तस्मादर्थे सन्निहितपरामर्शकं तस्य हेतुभावमाह । सन्निहितं च यदनन्तरं श्रुतम् । तच्चार्धपथवर्ति विरजानदीमनोऽभिगमनमित्यर्धपथ एव सुकृतदुष्कृतत्यागः । नच श्रुत्यन्तरविरोधः । अर्धपथेऽपि पापविधूनने ब्रह्मलोकसम्भवात्प्राक्कालतोपपत्तेः । एवं शाठ्यायनिनामप्यविरोधः । नहि तत्र जीवन्निति वा जीवत इति वा श्रुतम् । तथा चार्धपथ एव सुकृतदुष्कृतविमोकः । एवंच न पर्यङ्कविद्यातस्तत्प्रक्षय इति पूर्वः पक्षः । राद्धान्तस्तु विद्यासामर्थ्यविधूतकल्मषस्य ज्ञानवत उत्तरेण पथा गच्छतो ब्रह्मप्राप्तिर्न चाप्रक्षीणकल्मषस्योत्तरमार्गगमनं सम्भवति । यथा यवागूपाकात्प्राग्नाग्निहोत्रम् । यमनियमाद्यनुष्ठानसहिताया विद्याया उत्तरेण मार्गेण पर्यङ्कस्थब्रह्मप्राप्त्युपायत्वश्रवणात् । अप्रक्षीणपाप्मनश्च तदनुपपत्तेः । विद्यैव तादृशी कल्मषं क्षपयति क्षपितकल्मषं चोत्तरमार्गं प्रापयतीति कथमर्धपथे कल्मषक्षयः । तस्मात्पाठक्रमबाधेनार्थक्रमोऽनुसर्तव्यः । ननु न पाठक्रममात्रमत्र, तदिति सर्वनामश्रुत्या संनिहितपरामर्शादित्युक्तम् । तदयुक्तं, बुद्धिसंनिधानमात्रमत्रोपयुज्यते नान्यत् , तच्चानन्तरस्येव विद्याप्रकरणाद्विद्याया अपीति समाना श्रुतिरुभयत्रापीति । अर्थपाठौ परिशिष्येते तत्र चार्थो बलीयानिति । नच ताण्ड्यादिश्रुत्यविरोधः पूर्वपक्षे । अश्व इव रोमाणि विधूयेति हि स्वतन्त्रस्य पुरुषस्य व्यापारं ब्रूते, नच परेतस्यास्ति स्वातन्त्र्यम् , तस्मात्तद्विरोधः ॥ २७ ॥
छन्दत उभयाविरोधात् ।
केभ्यश्चित्पदेभ्य इदं सूत्रम् । ननु यथा परेतस्योत्तरेण पथा ब्रह्मप्राप्तिर्भवतीति विद्याफलमेवं तस्यैवार्धपथे सुकृतदुष्कृतहानिरपि भविष्यतीति शङ्कापदानि तेभ्य उत्तरमिदं सूत्रम् ।
तद्व्याचष्टे –
यदि च देहादपसृप्तस्येति ।
विद्याफलमपि ब्रह्मप्राप्तिर्नापरेतस्य भवितुमर्हति शङ्कापदेभ्यः । यथाहुः - नाजनित्वा तत्र गच्छन्तीति । सुकृतदुष्कृतप्रक्षयस्तु सत्यपि नरशरीरे सम्भवतीति समर्थस्य हेतोर्यमनियमादिसहिताया विद्यायाः कार्यक्षयायोगाद्युक्तो जीवत एव सुकृतदुष्कृतक्षय इति सिद्धम् । छन्दतः स्वच्छन्दतः स्वेच्छयेति यावत् । स्वेच्छयानुष्ठानं यमनियमादिसहिताया विद्यायाः । तस्य जीवतः पुरुषस्य स्यान्न मृतस्य । तत्पूर्वकं च सुकृतदुष्कृतहानं स्याज्जीवत एव । समर्थस्य क्षेपायोगात् । एवं कारणानन्तरं कार्योत्पादे सति निमित्तनैमित्तकयोस्तद्भावस्योपपत्तिस्ताण्डिशाठ्यायनिश्रुत्योश्च सङ्गतिरितरथा स्वातन्त्र्याभावेनासङ्गतिरुक्ता स्यात् । तदनेनोभयाविरोधो व्याख्यातः । ये तु परस्य विदुषः सुकृतदुष्कृते कथं परत्र सङ्क्रामत इति शङ्कोत्तरतया सूत्रं व्याचख्युः । छन्दतः सङ्कल्पत इति श्रुतिस्मृत्योरविरोधादेव । न त्वत्रागमगम्येऽर्थे स्वातन्त्र्येण युक्तिर्निवेशनीयेति । तेषामधिकरणशरीरानुप्रवेशे सम्भवत्यर्थान्तरोपवर्णनमसङ्गतमेवेति ॥ २८ ॥
गतेरर्थवत्त्वमुभयथान्यथा हि विरोधः ।
यथा हानिसंनिधावुपायनमन्यत्र श्रुतमिति, यत्रापि केवला हानिः श्रूयते तत्रापि उपायनमुपस्थापयत्येवं तत्सन्निधावेव देवयानः पन्थाः श्रुत इति यत्रापि सुकृतदुष्कृतहानिः केवला श्रुता तत्रापि देवयानं पन्थानमुपस्थापयितुमर्हति । नच निरञ्जनः परमं साम्यमुपैतीत्यनेन विरोधः । देवयानेन पथा ब्रह्मलोकप्राप्तौ निरञ्जनस्य परमसाम्योपपत्तेः । तस्माद्धानिमात्रे देवयानः पन्थाः सम्बध्यत इति प्राप्तम् । एवं प्राप्त उच्यते - विद्वान् पुण्यपापे विधूयनिरञ्जनः परमं साम्यमुपैतीति हि विदुषो विधूतपुण्यपापस्य विद्यया क्षेमप्राप्तिमाह । भ्रमनिबन्धनोऽक्षेमो याथात्म्यज्ञानलक्षणया विद्यया विनिवर्तनीयः । नासौ देशविशेषमपेक्षते । नहि जातु रज्जौ सर्पभ्रमनिवृत्तये समुत्पन्नं रज्जुतत्त्वज्ञानं देशविशेषमपेक्षते । विद्योत्पादस्यैव स्वविरोध्यविद्यानिवृत्तिरूपत्वात् । नच विद्योत्पादाया ब्रह्मलोकप्राप्तिरपेक्षणीया । यमनियमादिविशुद्धसत्त्वस्येहैव श्रवणादिभिर्विद्योत्पादात् । यदि परमारब्धकार्यकर्मक्षपणाय शरीरपातावध्यपेक्षेति न देवयानेनास्तीहार्थ इति श्रुतिदृष्टविरोधान्नापेक्षितव्य इति । अस्ति तु पर्यङ्कविद्यायां तस्यार्थ इत्युक्तं द्वितीयेन सूत्रेणेति । ये तु यदि पुण्यमपि निवर्तते किमर्था तर्हि गतरित्याशङ्क्य सूत्रमवतारयन्ति । गतेरर्थवत्त्वमुभयथा दुष्कृतनिवृत्त्या सुकृतनिवृत्त्या च । यदि पुनः पुण्यमनुवर्तेत ब्रह्मलोकगतस्यापीह पुण्यफलोपभोगायावृत्तिः स्यात् । तथा चैतेन प्रतिपाद्यमानागत्यनावृत्तिश्रुतिविरोधः । तस्माद्दुष्कृतस्येव सुकृतस्यापि प्रक्षय इति तैः पुनरनाशङ्कनीयमेवाशङ्कितम् । विद्याक्षिप्तायां हि गतौ केयमाशङ्का यदि क्षीणसुकृतः किमर्थमयं यातीति । नह्येषा सुकृतनिबन्धना गतिरपि तु विद्यानिबन्धना । तस्माद्वृद्धोक्तमेवोपवर्णनं साध्विति ॥ २९ ॥
अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ।
प्रकरणं हि धर्माणां नियामकम् । यदि तु तन्नाद्रियते ततो दर्शपूर्णमासज्योतिष्टोमादिधर्माः सङ्कीर्येरन् । नच तेषां विकृतिषु सौर्यादिषु द्वादशाहादिषु चोदकतः प्राप्तिः । सर्वत्रौपदेशिकत्वात् । नच दर्विहोमस्याप्रकृतिविकारस्याधर्मकत्वम् । नच सर्वधर्मयुक्तं कर्म किञ्चिदपि शक्यमनुष्ठातुम् । न चैवं सति श्रुत्यादयोऽपि विनियोजकास्तेषामपि हि प्रकरणेन सामान्यसम्बन्धे सति विनियोजकत्वात् । यत्रापि विनाप्रकरणं श्रुत्यादिभ्यो विनियोगोऽवगम्यते तत्रापि तन्निर्वाहाय प्रकरणस्यावश्यं कल्पनीयत्वात् । तस्मात्प्रकरणं विनियोगाय तन्नियमाय चावश्याभ्युपेतव्यमन्यथा श्रुत्यदीनामप्रामाण्यप्रसक्तेः । तस्माद्यास्वेवोपासनासु देवयानः पितृयाणो वा पन्था आम्नातस्तास्वेव न तूपासनान्तरेषु तदनाम्नानात् । नच “ये चेमेऽरण्ये श्रद्धा तप इत्युपासते”(छा. उ. ५ । १० । १)“ये चेमेऽरण्ये श्रद्धा तप इत्युपासते”(छा. उ. ५ । १० । १) इति सामान्यवचनात्सर्वविद्यासु तत्पथप्राप्तिः । श्रद्धातपःपरायणानामेव तत्र तत्पथप्राप्तिः श्रूयते, न तु विद्यापरायणानाम् । अपिचैवं सत्येकस्यां विद्यायां मार्गोपदेशः सर्वासु विद्यास्वित्येकत्रैव मार्गोपदेशः कर्तव्यो न विद्यान्तरे । विद्यान्तरे च श्रूयते । तस्मान्न सर्वोपासनासु पथिप्राप्तिरिति प्राप्तम् । एवं प्राप्ते उच्यते “ये चेमेऽरण्ये श्रद्धा तप इत्युपासते” इति न श्रद्धातपोमात्रस्य पथिप्राप्तिमाहापि तु विद्यया तदारोहन्तीत्यत्र नाविद्वांसस्तपस्विन इति केवलस्य तपसः श्रद्धायाश्च तत्प्राप्तिप्रतिषेधाद्विद्यासहिते श्रद्धातपसी तत्प्राप्युपायतया वदन् विद्यान्तरीलानामपि पञ्चाग्निविद्याविद्भिः समानमार्गतां दर्शयति । तथान्यत्रापि पञ्चाग्निविद्याधिकारेऽभिधीयते “य एवमेताद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते”(छा. उ. ५ । २ । १५) इति । सत्यशब्दस्य ब्रह्मण्येवानपेक्षप्रवृत्तित्वात् । तदेव हि सत्यमन्यस्य मिथ्यात्वेन कथञ्चिदापेक्षिकसत्यत्वात् । पञ्चाग्निविदां चेत्थंवित्तयैवोपात्तत्वात् । विद्यासाहचर्याच्च विद्यान्तरपरायणानामेवेदमुपादानं न्याय्यम् । मार्गद्वयभ्रष्टानां चाधोगतिश्रवणात् । तत्रापि च योग्यतया देवयानस्यैवेहाध्वनोऽभिसम्बन्धः । एतदुक्तं भवति - भवेत्प्रकरणं नियामकं यद्यनियमप्रतिपादकं वाक्यं श्रौतं स्मार्तं वा न स्यादस्ति तु तत्तस्य च प्रकरणाद्बलीयस्त्वम् । तस्मादनियमो विद्यान्तरेष्वपि सगुणेषु देवयानः पन्था असकृन्मार्गोपदेशस्य च प्रयोजनं वर्णितं भाष्यकृतेति ॥ ३१ ॥
यावदधिकारमवस्थितिराधिकारिकाणाम् ।
सगुणायां विद्यायां चिन्तां कृत्वा निर्गुणायां चिन्तयति । निर्गुणायां विद्यायां नापवर्गः पलं भवितुमर्हति । श्रुतिस्मृतीतिहासपुराणेषु विदुषामप्यपान्तरतमःप्रभृतीनां तत्तद्देहपरिग्रहपरित्यागौ श्रूयेते । तदपवर्गफलत्वे नोपपद्यते । अपवृक्तस्य तदनुपपत्तेः । उपपत्तौ वा तल्लक्षणायोगात् । अपुनरावृत्तिर्हि तल्लक्षणम् । तेन सत्यामपि विद्यायां तदनुपपत्तेर्न मोक्षः फलं, विद्यायां विभूतयस्तु तास्तास्तस्याः फलम् । अपुनरावृत्तिश्रुतिः पुनस्तत्प्रशंसार्थेति मन्यते । नच “तावदेवास्य चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य”(छा. उ. ६ । १४ । २) इति श्रुतेर्विदुषो देहपातावधिप्रतीक्षावद्वसिष्ठादीनामपि प्रारब्धकर्मफलोपभोगप्रतीक्षेति साम्प्रतम् । येन हि कर्मणा वसिष्ठादीनामारब्धं शरीरं तत्प्रतीक्षा स्यात् । तथाच न शरीरान्तरं ते गृह्णीयुः । नच तावदेव चिरमित्येतदप्यार्जवेन घटते । समर्थहेतुसंनिधौ क्षेपायोगात् । तस्मादेतदपि विद्यास्तुत्यैव गमयितव्यम् । तस्मान्नापवर्गो विद्याफलम् । तथा चापवर्गाक्षेपेण पूर्वः पक्षः । अत्र च पाक्षिकं मोक्षहेतुत्वमित्यापाततः, अहेतुत्वं वेति तु पूर्वपक्षतत्त्वम् । राद्धान्तस्तु विद्याकर्मस्वनुष्ठानतोषितेश्वरचोदितम् । अधिकारं समाप्यैते प्रतिशन्ति परं पदम् ॥ निर्गुणायां विद्यायामपवर्गलक्षणं श्रूयमाणं न स्तुतिमात्रतया व्याख्यातुमुचितम् । पौर्वापर्यपर्यालोचने भूयसीनां श्रुतीनामत्रैव तात्पर्यावधारणात् । नच यत्र तात्पर्यं तदन्यथयितुं युक्तम् । उक्तं हि “न विधौ परः शब्दार्थ” इति । नच विदुषामपान्तरतमःप्रभृतीनां तत्तद्देहसञ्चारात्सत्यामपि ब्रह्मविद्यायामनिर्मोक्षान्न ब्रह्मविद्या मोक्षस्य हेतुरिति साम्प्रतम् । हेतोरपि सति प्रतिबन्धे कार्यानुपजनो न हेतुभावमपाकरोति । नहि वृन्तफलसंयोगप्रतिबद्धं गुरुत्वं न पतनमजीजनदिति प्रतिबन्धापगमे तत्कुर्वन्न तद्धेतुः । नच न सेतुप्रतिबन्धानामपां निम्नदेशानभिसर्पणमिति सेतुभेदे न निम्नमभिसर्पन्ति । तद्वदिहापि विद्याकर्माराधनावर्जितेश्वरविहिताधिकारपदप्रतिबद्धा ब्रह्मविद्या यद्यपि न मुक्तिं दत्तवती तथापि तत्परिसमाप्तौ प्रतिबन्धविगमे दास्यति । यथा हि प्रारब्धविपाकस्य कर्मणः प्रक्षयं प्रतीक्षमाणश्चरमदेहसमुत्पन्नब्रह्मसाक्षात्कारोऽपि ध्रियतेऽथ तत्प्रक्षयान्मोक्षं प्राप्नोति । एवं प्रारब्धाधिकारलक्षणफलविद्याकर्मा पुरुषो वसिष्ठादिर्विद्वानपि तत्क्षयं प्रतीक्षमाणो युगुपत्क्रमेण वा तत्तद्देहपरिग्रहपरित्यागौ कुर्वन्मुक्तोऽप्यनाभोगात्मिकया प्रख्यया सांसारिक इव विहरति ।
तदिदमुक्तम् –
सकृत्प्रवृत्तमेव हि ते कर्माशयमधिकारफलदानायेति ।
प्रारब्धविपाकानि तु कर्माणि वर्जयित्वा व्यपगतानि ज्ञानेनैवातिवाहितानि ।
न चैते जातिस्मरा इति ।
यो हि परवशो देहं परित्याज्यते देहान्तरं च नीतः पूर्वजन्मानुभूतस्य स्मरति स जन्मवाञ्जातिस्मरश्च । गृहादिव गृहान्तरे स्वेच्छया कायान्तरं सञ्चरमाणो न जातिस्मर आख्यायते । व्युद्य विवादं कृत्वा ।
व्यतिरेकमाह –
यदि ह्युपयुक्ते सकृत्प्रवृत्ते प्रारब्धविपाके कर्मणि कर्मान्तरमप्रारब्धविपाकमिति ।
स्येदेतत् । विद्ययाविद्यादिक्लेशनिवृत्तौ नावश्यं निःशेषस्य कर्माशयस्य निवृत्तिरनादिभवपरम्पराहितस्यानियतविपाककालस्यासङ्ख्येयत्वात्कर्माशयस्येत्यत आह –
न चाविद्यादिक्लेशदाहे सतीति ।
नहि समाने विनाशहेतौ कस्यचिद्विनाशो नापरस्येति शक्यं वदितुम् । तत्किमिदानीं प्रवृत्तफलमपि कर्म विनश्येत् । तथाच न विदुषो वसिष्ठादेर्देहधारणेत्यत आह –
प्रवृत्तफलस्य तु कर्मण इति ।
तस्य तावदेव चिरमिति श्रुतिप्रामाण्यादनागतफलमेव कर्म क्षीयते न प्रवृत्तफलमित्यवगम्यते ।
अपिच नाधिकारवतां सर्वेषामृषीणामात्मतत्त्वज्ञानं तेनाव्यापकोऽप्ययं पर्वपक्ष इत्याह –
ज्ञानान्तरेषु चेति ।
तत्किन्तेषामनिर्मोक्ष एव, नेत्याह –
ते पश्चादैश्वर्यक्षय इति ।
निर्विण्णा विरक्ताः । प्रतिसञ्चरः प्रलयः । अपिच स्वर्गादावनुभवपथमनारोहति शब्दैकसमधिगम्ये विचिकित्सा स्यादपि मन्दधियामामुष्मिकफलत्वं प्रति । यथा चार्थवादः “को हि तद्वेद यदमुष्मिंल्लोकेऽस्ति वा न वेति” ।
अद्वैतज्ञानफलत्वे मोक्षस्यानुभवसिद्धे विचिकित्सागन्धोऽपि नास्तीत्याह –
प्रत्यक्षफलत्वाच्चेति ।
अद्वैततत्त्वसाक्षात्कारो हि अविद्यासमारोपितं प्रपञ्चं समूलघातं निघ्नन्घोरं संसाराङ्गारपरितापमुपशमयति पुरुषस्येत्यनुभवादिति स्फुटमुपपत्तिद्रढिम्नश्च श्रुतिर्दर्शिता । तच्चानुभवाद्वामदेवादीनां सिद्धम् ।
ननु तत्त्वमसि वर्तस इति वाक्यं कथमनुभवमेव द्योतयतीत्यत आह –
नहि तत्त्वमसीत्यस्येति ।
वर्तमानापदेशस्य भविष्यदर्थता मृतशब्दाध्याहारश्चाशक्य इत्यर्थः ॥ ३२ ॥
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ।
अक्षगविषयाणां प्रतिषेधधियां सर्ववेदवर्तिनीनामवरोध उपसंहारः प्रतिषेधसामान्यादक्षरस्य तद्भावप्रत्यभिज्ञानात् । आनन्दादयः प्रधानस्येत्यत्रायमर्थो यद्यपि भावरूपेषु विशेषणेषु सिद्धस्तन्त्र्यायतया च निषेधरूपेष्विति सिद्ध एव । तथापि तस्यैवैष प्रपञ्चोऽवगन्तव्यः ।
निदर्शनम् । जामदग्न्येऽहीन इति ।
यद्यपि शाबरे दत्तोत्तरमत्रोदाहरणान्तरं तथापि तुल्यन्यायतयैदपि शक्यमुदाहर्तुमित्युदाहरणान्तरं दर्शितम् । तत्र शाबरमुदाहरणमस्त्याधानं यजुर्वेदविहितम् “य एवं विद्वानग्निमाधत्त” इति । तदङ्गत्वेन यजुर्वेद एव “य एवं विद्वान्वारवन्तीयं गायति य एवं विद्वान्यज्ञायज्ञीयं गायति य एवं विद्वान्वामदेव्यं गायति” इति विहितम् । एतानि च सामानि सामवेदेषूत्पन्नानि । तत्रेदं सन्दिह्यतेकिमेतानि यत्रोत्पद्यन्ते तत्रत्यैनेवोच्चैष्ट्वेन स्वरेणाधाने प्रयोक्तव्यान्यथ यत्र विनियुज्यन्ते तत्रत्येनोपांशुत्वेन स्वरेण “उच्चैः साम्नोपांशु यजुषा” इति श्रुतेः । किं तावत्प्राप्तम् । उत्पत्तिविधिनैवापेक्षितोपायत्वात्मना विहितत्वादङ्गनां तस्यैव प्राथम्यात्तन्निबन्धन एवोच्चैःस्वरे प्राप्त उच्यते गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः । अयमर्थः उत्पत्तिविधिर्गुणो विनियोगविधिस्तु प्रधानं, तदनयोर्व्यातिक्रमे विरोधे उत्पत्तिविध्यालोचनेनोच्चैष्ट्वं विनियोगविध्यालोचनेन चोपांशुत्वं सोऽयं विरोधो व्यतिक्रमस्तस्मिन्वयतिक्रमे मुख्येन प्रधानेन नियुज्यमानत्वरूपेण तस्य वारवन्तीयादेर्वेदसंयोगो ग्राह्यो नोत्पद्यमानत्वेन गुणेन । कुतः, विनियुज्यमानत्वस्य मुख्यत्वेनोत्पद्यमानत्वस्य गुणत्वेन तदर्थत्वाद्विनियुज्यमानार्थत्वादुत्पद्यमानत्वस्य । एतदुक्तं भवतियद्यप्युत्पत्तिविधावपि चातूरूप्यमस्ति विधित्वस्याविशेषात् । तन्मात्रनान्तरीयकत्वाच्च चातूरूप्यस्य । तथापि वाक्यानामैदम्पर्यं भिद्यते । एकस्यैव विधेरुत्पत्तिविनियोगाधिकारप्रयोगरूपेषु चतुर्षु मध्ये किञ्चिदेव रूपं केनचिद्वाक्येनोल्लिख्यते यदन्यतोऽप्राप्तम् । तत्र यद्यपि सामवेदे सामानि विहितानि तथापि तद्वाक्यानां तदुत्पत्तिमात्रपरता विनियोगस्य याजुर्वैदिकैरेव वाक्यै प्राप्तत्वात् । तथाचोत्पत्तिवाक्येभ्यः समीहितार्थाप्रतिलम्भाद्विनियोगवाक्येभ्यश्च तदवगतेस्तदर्थान्येवोत्पत्तिवाक्यानि भवन्तीति तत्र येन वाक्येन विनियुज्यन्ते तस्यैव स्वरस्य साधनत्वंसंस्पर्शिनो ग्रहणं न तु रूपमात्रस्पर्शिन इति । भाष्यकारीयमप्युदाहरणमेवमेव योजयितव्यम् ।
उद्गातृवेदोत्पन्नानां मन्त्रणामुद्गात्रा प्रयोगे प्राप्ते अध्वर्युप्रदानकेऽपि पुरोडाशे विनियुक्तत्वात्प्रधानानुरोधेनाध्वर्युणैव तेषां प्रयोगो नोद्गात्रेति दार्ष्टान्तिके योजयति –
एवमिहापीति ॥ ३३ ॥
इयदामननात् ।
“गुहां प्रविष्टावात्मानौ”(ब्र. सू. १ । २ । ११) इत्यत्र सिद्धोऽप्यर्थः प्रपञ्च्यते । एकत्र भोक्त्रभोक्त्रोर्वेद्यता, अन्यत्र भोक्त्रोरेवेति वेद्यभेदाद्विद्याभेद इति । नच सृष्टिरुपदधातीतिवत्पिबदपिबल्लक्षणापरं पिबन्ताविति नेतुमुचितम् । सति मुख्यार्थसम्भवे तदाश्रयणायोगात् । नच वाक्यशेषानुरोधात्तदाश्रयणम् । सन्देहे हि वाक्यशेषान्निर्णयो नच मुख्यलाक्षणिकग्रहणविषयो विषयः सम्भवति, तुल्यबलत्वाभावात् । प्रकरणस्य च ततो बलीयसा वाक्येन बाधनात् । तस्माद्वेद्यभेदाद्विद्याभेद इति प्राप्त उच्यते - द्वासुपर्णेत्यत्र ऋतं पिबन्तावित्यत्र च द्वित्वसङ्ख्योत्पत्तौ प्रतीयते तेन समानतौत्सर्गिकी । पिबन्ताविति द्वयोः पिबन्ता या सा बाधनीया, सा चोपक्रमोपसंहारानुरोधेन न द्वयोरपि तु छत्रिन्यायेन लाक्षाणिकी व्याख्येया । येन ह्युपक्रम्यते येन चोपसंस्थियते तदनुरोधेन मध्यं ज्ञेयम् । यथा जामित्वदोषसङ्कीर्तनोपक्रमे तत्प्रतिसमाधानोपसंहारे च सन्दर्भे मध्यपातिनो विष्णुरूपांशु यष्टव्योऽजामित्वायेत्यादयः पृथग्विधित्वमलभमाना विधित्वमविवक्षित्वार्थवादतया नीतास्तत्कस्य हेतोरेकवाक्यता हि साधीयसी वाक्यभेदादिति । तथेहापि तदनुरोधेन पिबदपिबत्समूहपरं लक्षणीयं पिबन्तावित्यनेन । तथाच वेद्याभेदाद्विद्याभेद इति । अपिच त्रिष्वप्येतेषु वेदान्तेषु प्रकरणत्रयेऽपि पौर्वापर्यपर्यालोचनया परमात्मविद्यैवावगम्यते ।
यद्येवं कथं तर्हि जीवोपादानमस्त्वित्यत आह –
तादात्म्यविवक्षयेति ।
नास्यां जीवः प्रतिपाद्यते किन्तु परमात्मनोऽभेदं जीवस्य दर्शयितुमसावनूद्यते । परमात्मविद्यायाश्चाभेदविषयत्वान्न भेदाभेदविचारावतारः । तस्मादैकविद्यमत्र सिद्धम् ॥ ३४ ॥
अन्तरा भूतग्रामवत्स्वात्मनः ।
कौषीतकेयकहोलचाक्रायणोषस्तप्रश्नोपक्रमयोर्विद्योर्नैरन्तर्येणाम्नातयोः किमस्ति भेदो न वेति विशये भेद एवेति भ्रूमः । कुतः यद्यप्युभयत्र प्रश्नोत्तरयोरभेदः प्रतीयते, तथापि तत्स्यैवैकस्य पुनः श्रुतेरविशेषादानर्थक्यप्रसङ्गाद्यजत्यभ्यासवद्भेदः प्राप्तः । न चैकस्यैव ताण्डिनां नवकृत्व उपदेशेऽपि यथा भेदो न भवति “स आत्मा तत्त्वमसि श्वेतकेतो”(छा. उ. ६ । १४ । ३) इत्यत्र तथेहाप्यभेद इति युक्तम् । भूय एव मा भगवान् विज्ञापयतु, इति हि तत्र श्रूयते तेनाभेदो युज्यते । न चेह तथास्ति । तेन यद्यपीह वेद्याभेदोऽवगम्यते तथाप्येकत्र तस्यैवाशनायादिमात्रात्ययोपाधेरुपासनादेकत्र च कार्यकरणविरहोपाधेरुपासनाद्विद्याभेद एवेति प्राप्ते प्रत्युच्यते । नैतदुपासनाविधानपरमपि तु वस्तुस्वरूपप्रतिपादनपरं प्रश्नप्रतिवचनालोचनेनोपलभ्यते । किमतो यद्येवम् । एतदतो भवतिविधेरप्राप्तप्रापणार्थत्वात्प्राप्तावनुपपत्तिः । वस्तुस्वरूपं तु पुनःपुनरुच्यमानमपि न दोषमावहति शतकृत्वोऽपि हि पथ्यं वदन्त्याप्ताः । विशेषतस्तु वेदः पितृभ्यामप्यभ्यर्हितः । नच सर्वथा पौनरुक्त्यम् । एकत्राशनायाद्यत्ययादन्यत्र च कार्यकारणप्रविलयात् । तस्मादेका विद्या प्रत्यभिज्ञानात् । उभाभ्यामपि विद्याभ्यां भिन्न आत्मा प्रतिपाद्यते इति यो मन्यते पूर्वपक्षैकदेशी तं प्रति सर्वान्तरत्वविरोधो दर्शितः ॥ ३५ ॥
अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवदिति।
अस्य तु पूर्वपक्षतत्त्वाभिप्रायो दर्शितः । सुगममन्यत् ॥ ३६ ॥
व्यतिहारो विशिंषन्ति हीतरवत् ।
उत्कृष्टस्य निकृष्टरूपापत्तेर्नोभयत्रोभयरूपानुचिन्तनम् । अपि तु निकृष्टे जीव उत्कृष्टरूपाभेदचिन्तनम् । एवं हि निकृष्ट उत्कृष्टो भवतीति प्राप्तम् । एवं प्राप्त उच्यते इतरेतरानुवादेनेतरेतररूपविधानादुभयत्राभयचिन्तनं विधीयते । इतरथा तु योऽहं सोऽसावित्येतावदेवोच्येत । जीवात्मानमनूद्येश्वरत्वमस्य विधीयेत । न त्वीश्वरस्य जीवात्मत्वं योऽसौ सोऽहमिति । यथा तत्त्वमसीत्यत्र । तस्मादुभयरूपमुभयत्राध्यानायोपदिश्यते । नन्वेवमुत्कृष्टस्य निकृष्टत्वप्रसङ्ग इत्युक्तं तत्किमिदानीं सगुणे ब्रह्मण्युपास्यमानेऽस्य वस्तुतो निर्गुणस्य निकृष्टता भवति । कस्मैचित्फलाय तथा ध्यानमात्रं विधीयते न त्वस्य निकृष्टतामापादयतीति चेदिहापि व्यतिहारानुचिन्तनमात्रमुपदिश्यते फलाय न तु निकृष्टता भवत्युत्कृष्टस्य । अन्वाचयशिष्टं तु तादात्म्यदार्ढ्यं भवन्नोपेक्षामहे । सत्यकामादिगुणोपदेशैव तद्गुणेश्वरसिद्धिरिति सिद्धमुभयत्रोभयात्मत्वाध्यानमिति ॥ ३७ ॥
सैव हि सत्यादयः ।
तद्वै तदेतदेव तदास सत्यमेव स यो हैतन्महद्यक्षं प्रथमजं वेदं सत्यं ब्रह्मेति जयतीमांल्लोकाञ्जित इत्यसावसद्य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म । पूर्वोक्तस्य हृदयाख्यस्य ब्रह्मणः सत्यमित्युपासनमनेन सन्दर्भेण विधीयते । तदिति हृदयाख्यं ब्रह्मैकेन तदा परामृशति । एतदेवेति वक्ष्यमाणं प्रकारान्तरमस्य परामृशति । तत्तादाग्रे आस बभूव । किं तदित्यत आहसत्यमेव । सच्च मूर्तं त्यच्चामूर्तं च सत्त्यम् । तदुपासकस्य फलमाहस यो हैतमिति । यः प्रथमजं यक्षं पूज्यं वेद । कथं वेदेत्यत आह - सत्यं ब्रह्मेतीति । स जयतीमान् लोकान् । किञ्च जितो वशीकृत इनुशब्द इत्थंशब्दस्यार्थे वर्तते । विजेतव्यत्वेन बुद्धिसंनिहितं शत्रुं परामृशति असाविति । असद्भवेन्नश्येत् । उक्तमर्थं निगमयतिय एवमेतदिति । एवं विद्वान्कस्माज्जयतीत्यत आहसत्यमेव यस्माद्ब्रह्मेति । अतस्तदुपासनात्फलोत्पादोऽपि सत्य इत्यर्थः । तद्यत्तत्सत्यं किमसौ । अत्रापि तत्पदाभ्यां रूपप्रकारौ परामृष्टौ । कस्मिंन्नालम्बने तदुपासनीयमित्यत उत्तरम् - स आदित्यो य एष इत्यादिना तस्योपनिषदहरहमिति । हन्ति पाप्मानं जहाति च य एवं वेदेत्यन्तेन । उपनिषत्रहस्यं नाम । तस्य निर्वचनं - हन्ति पाप्मानं जहाति चेति । हन्तेर्जहातेर्वा रूपमेतत् । तथाच निर्वचनं कुर्वन्फलं पापहानिमाहेति ।
तमिमं विषयमाह भाष्यकारः –
यो वै हैतमिति ।
सनामाक्षरोपासनामिति ।
तथाच श्रुतिः “तदेतदक्षरं सत्यमिति स इत्येकमक्षरं तीत्येकमक्षरं यमित्येकमक्षरं प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं तदेतदनृमुभयतः सत्येन परिगृहीतं सत्यभूयमेव भवति नैवंविद्वांसमनृतं हिनस्ति”(बृ. उ. ५ । ५ । १) इति । तीतीकारानुबन्ध उच्चारणार्थः । निरनुबन्धस्तकारो द्रष्टव्यः । अत्र हि प्रथमोत्तमे अक्षरे सत्यं मृत्युरूपाभावात् । मध्यतो मध्येऽनृतमनृतं हि मृत्युः । मृत्य्वनृतयोस्तकारसाम्यात् । तदेतदनृतं मृत्युरूपमुभयतः सत्येन परिगृहीतम् । अन्तर्भावितं सत्यरूपाभ्याम् । अतोऽकिञ्चित्करं तत्सत्यभूयमेव सत्यबाहुल्यमेव भवति । शेषमतिरोहितार्थम् । सेयं सत्यविद्यायाः सनामाक्षरोपासनता । यद्यपि तद्यत्सत्यमिति प्रकृतानुकर्षेणाभेदः प्रतीयते तथापि फलभेदेन भेदः साध्यभेदेनेव नित्यकाम्यविषयोर्दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत यावज्जीवं दर्शपूर्णमासाभ्यां यजेतेति शास्त्रयोः सत्यप्यनुबन्धाभेदे भेद इति प्राप्ते प्रत्युच्यते - एकैवेयं विद्या तत्सत्यमिति प्रकृतपरामर्शादभेदेन प्रत्यभिज्ञानात् । नच फलभेदः । तस्योपनिषदहरहमिति तस्यैव यदङ्गान्तरं रहस्यनाम्नोपासनं तत्प्रशंसार्थोऽर्थवादोऽयं न फलविधिः । यदि पुनर्विद्याविधावधिकारश्रवणाभावात्तत्कल्पनायामार्थवादिकं फलं कल्प्येत ततो जातेष्टाविवागृह्यमाणविशेषतया संवलिताधिकारकल्पना ततश्च समस्तार्थवादिकफलयुक्तमेकमेवोपासनमिति सिद्धम् ।
परकीयं व्याख्यानमुपन्यस्यति –
केचित्पुनरिति ।
वाजसनेयकमप्यक्ष्यादित्यविषयं छान्दोग्यमपीत्युपास्याभेदादभेदः । ततश्च वाजसनेयोक्तानां सत्यादीनामुपसंहार इत्यत्रार्थे सैव हि सत्यादय इति सूत्रं व्याख्यातं तदेतद्दूषयति –
तन्न साध्विति ।
ज्योतिष्टोमकर्मसम्बन्धनीयमुद्गीथव्यपाश्रयेति ।
अनुबन्धाभेदेऽपि साध्यभेदाद्भेद इति विद्याभेदादनुपसंहार इति ॥ ३८ ॥
कामादीतरत्र तत्र चायतनादिभ्यः ।
छान्दोग्यवाजसनेयविद्ययोर्यद्यपि सगुणनिर्गुणत्वेन भेदः । तथाहि छान्दोग्ये “अथ य इहात्मानमनुविद्य व्रजन्ति एतांश्च सत्यान्कामान्”(छा. उ. ८ । १ । ६) इत्यात्मवत्कामानामपि वेद्यत्वं श्रूयते । वाजसनेये तु निर्गुणमेव परं ब्रह्मोपदिश्यते “विमोक्षाय ब्रूहि”(बृ. उ. ४ । ३ । १४) इति तथापि तयोः परस्परगुणोपसंहारः । निर्गुणायां तावद्विद्यायां ब्रह्मस्तुत्यर्थमेव सगुणविद्यासम्बन्धिगुणोपसंहारः सम्भवी । सगुणायां च यद्यप्याध्यानाय न वशित्वादिगुणोपसंहारसम्भवः । नहि निर्गुणायां विद्यायामाध्यातव्यत्वेनैते चोदिता येनात्राध्येयत्वेन सम्बध्येरन्नपि तु सत्यकामादिगुणनान्तरीयकत्वेनैतेषां प्राप्तिरित्युपसंहार उच्यते । एवं व्यवस्थित एष सङ्क्षेपोऽधिकरणार्थस्य साम्यबाहुल्येऽप्येकत्राकाशाधारत्वस्यापरत्र चाकाशतादात्म्यस्य श्रवणाद्भेदे विद्ययोर्न परस्परगुणोपसंहार इति पूर्वपक्षः । राद्धान्तस्तु सर्वसाम्यमेवोभयत्राप्यात्मोपदेशादाकाशशब्देनैकत्रात्मोक्तोऽन्यत्र च दहराकाशाधारः स एवोक्त इति सर्वसाम्याद्ब्रह्मण्युभयत्रापि सर्वगुणोपसंहारः । सगुणनिर्गुणत्वेन तु विद्याभेदेऽपि गुणोपसंहारव्यवस्था दर्शिता । तस्मात्सर्वमवदातम् ॥ ३९ ॥
आदरादलोपः ।
अस्ति वैश्वानरविद्यायां तदुपासकस्यातिथिभ्यः पूर्वभोजनम् । तेन यद्यपीयमुपासनागोचरा न चिन्ता साक्षात्तथापि तत्सम्बद्धप्रथमभोजनसम्बन्धादस्ति सङ्गतिः ।
विचारगोचरं दर्शयति –
छान्दोग्ये वैश्वानरविद्यां प्रकृत्येति ।
विचारप्रयोजकं सन्देहमाह –
किं भोजनलोप इति ।
अत्र पूर्वपक्षाभावेन संशयमाक्षिपति –
तद्यद्भक्तमिति भक्तागमनसंयोगश्रवणादिति ।
उक्तं खल्वेतत्प्रथम एव तन्त्रे “पदकर्माप्रयोजकं नयनस्य परार्थत्वात्”(जै.सू. ४-१-२५) इत्यनेन । यथा सोमक्रयार्थानीयमानैकहायनीसप्तमपदपांशुग्रहणमप्रयोजकं न पुनरेकहायन्या नयनं प्रयोजयति । तत्कस्य हेतोः । सोमक्रयेण तन्नयनस्य प्रयुक्तत्वात्तदुपजीवित्वात्सप्तमपदपांशुग्रहणस्येति । तथेहापि भोजनार्थभक्तागमनसंयोगात्प्राणाहुतेर्भोजनाभावे भक्तं प्रत्यप्रयोजकत्वमिति नास्ति पूर्वपक्ष इत्यपूर्वपक्षमिदमधिकरणमित्यर्थः ।
पूर्वपक्षमाक्षिप्य समाधत्ते –
एवं प्राप्ते, न लुप्येतेति तावदाह ।
तावच्छब्दः सिद्धान्तशङ्कानिराकरणार्थः ।
पृच्छति –
कस्मात् ।
उत्तरमादरात् ।
तदेव स्फोरयति –
तथाहीति ।
जाबाला हि श्रावयन्ति “पूर्वोऽतिथिभ्योऽश्नीयात्” इति । अश्नीयादिति च प्राणाग्निहोत्रप्रधानं वचः । “यथा हि श्रुधिता बाला मातरं पर्युपासते । एवं सर्वाणि भूतान्यग्निहोत्रमुपासते” इति वचनादग्निहोत्रस्यातिथीन्भूतानि प्रत्युपजीव्यत्वेन श्रवणात्तदेकवाक्यतयेहापि पूर्वोऽतिथिभ्योऽश्नीयादिति प्राणाहुतिप्रधानं लक्ष्यते । तदेवं सति “यथाह वै स्वयमहुत्वाग्निहोत्रं परस्य जुहुयादित्येवं तत्” इत्यतिथिभोजनस्य प्राथम्यं निन्दित्वास्वामिभोजनं स्वामिनः प्राणाग्निहोत्रं प्रथमं प्रापयन्ती प्राणाग्निहोत्रादरं करोति ।
नन्वाद्रियतामेषा श्रुतिः प्राणहुतिं किन्तु स्वामिभोजनपक्ष एव नाभोजनेऽपीत्यत आह –
या हि न प्राथम्यलोपं सहते नतरां सा प्राथम्यवतोऽग्निहोत्रस्य लोपं सहेतेति मन्यते ।
ईदृशः खल्वयमादरः प्राणाग्निहोत्रस्य यदतिथिभोजनोत्तरकालविहितं स्वामिभोजनं समयादपकृष्यातिथिभोजनस्य पुरस्ताद्विहितम् । तद्यदाग्निहोत्रस्य धर्मिणः प्राथम्यधर्मलोपमपि न सहते श्रुतिस्तदास्याः कैव कथा धर्मिलोपं सहत इत्यर्थः ।
पूर्वपक्षाक्षेपमनुभाष्य दूषयति –
ननु भोजनार्था इति ।
यथा हि कौण्डपायिनामयनगते अग्निहोत्रे प्रकरणान्तरान्नैयमिकाग्निहोत्राद्भिन्ने द्रव्यदेवतारूपधर्मान्तररहिततया तदाकाङ्क्षे साध्यसादृश्येन नैयमिकाग्निहोत्रसमाननामतया तद्धर्मातिदेशेन रूपधर्मान्तरप्राप्तिरेवं प्राणाग्निहोत्रेऽपि नैयमिकाग्निहोत्रगतपयःप्रभृतिप्राप्तौ भोजनागतभक्तद्रव्यता विधीयते । न चैतावता भोजनस्य प्रयोजकत्वम् । उक्तमेतद्यथा भोजनकालातिक्रमात्प्राणाग्निहोत्रस्य न भोजनप्रयुक्तत्वमिति । न चैकदेशद्रव्यतयोत्तरार्धात्स्विष्टकृते समवद्यतीतिवदप्रयोजकत्वमेकदेशद्रव्यसाधनस्यापि प्रयोजकत्वात् । यथा जाघन्या पत्नीः संयाजयन्तीति पत्नीसंयाजानां जाघन्येकदेशद्रव्यजुषां जाघनीप्रयोजकत्वम् । स हि नामाप्रयोजको भवति यस्य प्रयोजकग्रहणमन्तरेणार्थो न ज्ञायते । यथा न प्रयोजकपुरोडाशग्रहणमन्तरेणोत्तरार्धं ज्ञातुं शक्यम् । शक्यं तु जाघनीवद्भक्तं ज्ञातुम् । तस्माद्यथा जाघन्यन्तरेणापि पशूपादानं परप्रयुक्तपशूपजीवनं वा खण्डशो मांसविक्रयिणो मुण्डादिवदाकृतिरूपादीयते । एवं भक्तमपि शक्यमुपादातुम् । तस्मान्न भोजनस्य लोपे प्राणाग्निहोत्रलोप इति मन्यते पूर्वपक्षी । अद्भिरिति तु प्रतिनिध्युपादानमावश्यकत्वसूचनार्थं भाष्यकारस्य ॥ ४० ॥
उपस्थितेऽतस्तद्वचनात् ।
तद्धोमीयमिति हि वचन किमपि संनिहितद्रव्यं होमे विनियुङ्क्ते तदः सर्वनाम्नः संनिहितावगममन्तरेणाभिधानापर्यवसानात्तदनेन स्वाभिधानपर्यवसानाय तद्यद्भक्तं प्रथममागच्छेदिति संनिहितमपेक्ष्य निर्वर्तितव्यम् । तच्च संनिहितं भक्तं भोजनार्थमित्युत्तरार्धात्स्विष्टकृते समवद्यतीतिवन्न भक्तं वापो वा द्रव्यान्तरं वा प्रयोक्तुमर्हति । जाघन्यास्त्ववयवभेदस्य नाग्नीषोमीयपश्वधीनं निरूपणं स्वतन्त्रस्यापि तस्य सूनास्थस्य दर्शनात्तस्मादस्त्येतस्य जाघनीतो विशेषः ।
यच्चोक्तं चोदकप्राप्तद्रव्यबाधया भक्तद्रव्यविधानमिति । तदयुक्तम् । विध्युद्देशगतस्याग्निहोत्रनाम्नस्तथाभावादार्थवादिकस्य तु सिद्धं किञ्चित्सादृश्यमुपादाय स्तावकत्वेनोपपत्तेर्न तद्भावं विधातुमर्हतीत्याह –
न चात्र प्राकृताग्निहोत्रधर्मप्राप्तिरिति ।
अपि चाग्निहोत्रस्य चोदकतो धर्मप्राप्तावभ्युपगम्यमानायां बहुतरं प्राप्तं बाध्यते । नच सम्भवे बाधनिचयो न्याय्यः ।
कृष्णलचरौ खल्वगत्या प्राप्तबाधोऽभ्युपेयत इत्याह –
तद्धर्मप्राप्तौ चाभ्युपगम्यमानायामिति ।
चोदकाभावमुपोद्बलयति –
अत एव चेहापीति ।
यत एवोक्तेन क्रमेणातिदेशाभावोऽत एव साम्पादिकत्वमग्निहोत्राङ्गानाम् । तत्प्राप्तौ तु साम्पादिकत्वं नोपपद्येत । कामिन्यां किल कुचवदनाद्यसता चक्रवाकनलिनादिरूपेण सम्पाद्यते । न तु नद्यां चक्रवाकादय एव चक्रवाकादिना सम्पाद्यन्ते । अतोऽप्यवगच्छामो न चोदकप्राप्तिरिति । यत्त्वादरदर्शनमिति तद्भोजनपक्षे प्राथम्यविधानार्थम् । यस्मिन्पक्षे धर्मानवलोपस्तस्मिन्धर्मिणोऽपि न त्वेतावता धर्मिनित्यता सिध्यतीति भावः ।
नन्वतिथिभोजनोत्तरकालता स्वामिभोजनस्य विहितेति कथमसौ बाध्यत इत्यत आह –
नास्ति वचनस्यातिभारः ।
सामान्यशास्त्रबाधायां विशेषशास्त्रस्यातिभारो नास्तीत्यर्थः ॥ ४१ ॥
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम् ।
यथैव “यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति” इत्येतदनारभ्याधीतमव्यभिचारितक्रतुसम्बन्धं जुहूद्वारा क्रतुप्रयोगवचनगृहीतं क्रत्वर्थं सत्फलानपेक्षं सिद्धवर्तमानाप्रदेशप्रतीतं न रात्रिसत्रवत्फलतया स्वीकरोतीति । एवमव्यभिचारितकर्मसम्बन्धोद्गीथगतमुपासनं कर्मप्रयोगवचनगृहीतं न सिद्धवर्तमानापदेशावगतसमस्तकामवापकत्वलक्षणफलकल्पनायालम् । परार्थत्वात् । तथाच पारमर्षं सूत्रम् “द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्”(जै.सू. ४-३-१) इति । एवंच सति क्रतौ पर्णतानियमवदुपासनानियम इति प्राप्ते उच्यते - युक्तं पर्णतायां फलश्रुतेरर्थवादमात्रत्वम् । नहि पर्णतानाश्रया यागादिवत्फलसम्बन्धमनुभवितुमर्हति । अव्यापाररूपत्वात् । व्यापारस्यैव च फलवत्त्वात् । यथाहुः “उत्पत्तिमतःफलदर्शनात्” इति । नापि खादिरतायामिव प्रकृतक्रतुसम्बद्धो यूप आश्रयस्तदाश्रयः प्रकृतोऽस्ति अनारभ्याधीतत्वात्पर्णतायाः । तस्माद्वाक्येनैव जुहूसम्बन्धद्वारेण पर्णतायाः क्रतुराश्रयो ज्ञापनीयः । न चातत्परं वाक्यं ज्ञापयितुमर्हतीति तत्र वाक्यतात्पर्यमवश्याश्रयणीयम् । तथाच तत्परं सन्न पर्णतायाः फलसम्बन्धमपि गमयितुमर्हति । वाक्यभेदप्रसङ्गात् । उपासनानां तु व्यापारात्मत्वेन स्वत एव फलसम्बन्धोपपत्तेः उद्गीथाद्याश्रयणं फले विधानं न विरुध्यते विशिष्टविधानात् । फलाय खलूद्गीथसाधनकमुपासनं विधीयमानं न वाक्यभेदमावहति । ननु कर्माङ्गोद्गीथसंस्कार उपासनं प्रोक्षणादिवद्वितीयाश्रुतेरुद्गीथमिति । तथा चाञ्जनादिष्विव संस्कारेषु फलश्रुतेरर्थवादत्वम् । मैवम् । नह्यत्रोद्गीथस्योपासनं किन्तु तदवयवस्योङ्कारस्येत्युक्तमधस्तात् । न चोङ्कारः कर्माङ्गमपि तु कर्माङ्गोद्गीथावयवः । न चानुपयोगमीप्सितम् । तस्मात्सक्तून् जुहोतीतिवद्विनियोगभङ्गेनोङ्कारसाधानादुपासनात्फलमिति सम्बन्धः । तस्माद्यथा क्रत्वाश्रयाण्यपि गोदोहनादीनि फलसंयोगादनित्यानि एवमुद्गीथाद्युपासनानीति द्रष्टव्यम् । शेषमुक्तं भाष्ये ।
न चेदं फलश्रवणमर्थवादमात्रमिति ।
अर्थवादमात्रत्वेऽत्यन्तपरोक्षा वृत्तिर्यथा न तथा फलपरत्वे । न तु वर्तमानापदेशात्साक्षात्फलप्रतीतिः । अत एव प्रयाजादिषु नार्थवादाद्वर्तमानापदेशात्फलकल्पना । फलपरत्वे त्वस्य न शक्यं प्रयाजादीनां पारार्थ्येनाफलत्वं वक्तुमिति ॥ ४२ ॥
प्रदानवदेव तदुक्तम् ।
तत्तच्छ्रुत्यर्थालोचनया वायुप्राणयोः स्वरूपाभेदे सिद्धे तदधीननिरूपणतया तद्विषयोपासनाप्यभिन्ना न चाध्यात्माधिदैवगुणभेदाद्भेदः । नहि गुणभेदे गुणवतो भेदः । नह्यग्निहोत्रं जुहोतीत्युत्पन्नस्याग्निहोत्रस्य तण्डुलादिगुणभेदाद्भेदो भवति । उत्पद्यमानकर्मसंयुक्तो हि गुणभेदः कर्मणो भेदकः । यथामिक्षावाजिनसंयुक्तयोः कर्मणोः । नोत्पन्नकर्मसंयुक्तः । अध्यात्माधिदैवोपदेशेषु चोत्पन्नोपासनासंयोगः । तथोपक्रमोपसंहारालोचनया विद्यैकत्वविनिश्चयादेकैव सकृत्प्रवृत्तिरिति पूर्वपक्षः । राद्धान्तस्तु सत्यं विद्यैकत्वं तथापि गुणभेदात्प्रवृत्तिभेदः । सायम्प्रातःकालगुणभेदाद्यथैकस्मिन्नप्यग्निहोत्रे प्रवृत्तिभेदः एवमिहाप्यध्यात्माधिदैवगुणभेदादुपासनस्यैकस्यापि प्रवृत्तिभेद इति सिद्धम् ।
आध्यानार्थो ह्ययमध्यात्माधिदैवविभागोपदेश इति ।
अग्निहोत्रस्येवाध्यानस्य कृते दधितण्डुलादिवदयं पृथगुपदेशः ।
एतेन व्रतोपदेश इति ।
एतेन तत्त्वाभेदेन । एवकारश्च वागादिव्रतनिराकरणार्थः ।
नन्वेतस्यै देवतायै इति देवतामात्रं श्रूयते न तु वायुस्तत्कथं वायुप्राप्तिमाहेत्यत आह –
देवतेत्यत्र वायुरिति ।
वायुः खल्वग्न्यादीन्संवृणुत इत्यग्न्यादीनपेक्ष्यानवच्छिन्नोऽग्न्यादयस्तुतेनैवावच्छिन्ना इति संवर्णगुणतया वायुरनवच्छिन्ना देवता ।
सर्वेषामभिगमयन्निति ।
मिलितानां श्रवणाविशेषादिन्द्रस्य देवताया अभेदात्रयाणामपि पुरोडाशानां सहप्रदानाशङ्कायामुत्पत्तिवाक्य एव राजाधिराजस्वराजगुणभेदाद्याज्यानुवाक्याव्यत्यासविधानाच्च यथान्यासमेव देवतापृथक्त्वात्प्रदानपृथक्त्वं भवति । सहप्रदाने हि व्यत्यासविधानमनुपपन्नम् । क्रमवति प्रदाने व्यत्यासविधिरर्थवान् । तथाविधस्यैव क्रमस्य विवक्षितत्वात् । सुगममन्यत् ॥ ४३ ॥
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ।
इह सिद्धान्तेनोपक्रम्य पूर्वपक्षयित्वा सिद्धान्तयति । तत्र यद्यपि भूयांसि सन्ति लिङ्गानि मनश्चिदादीनां स्वातन्त्र्यसूचकानि तथापि न तानि स्वातन्त्र्येण स्वातन्त्र्यं प्रति प्रापकाणि । प्रमाणप्रापितं तु स्वातन्त्र्यमुपोद्बलयन्ति । न चात्रास्ति स्वातन्त्र्यप्रापकं प्रमाणम् । न चेदं सामर्थ्यलक्षणं लिङ्गं येनास्य स्वातन्त्र्येण प्रापकं भवेत् । तद्धि सामर्थ्यमाभिधानस्य वार्थस्य वा स्यात् । तथा पूषाद्यनुमन्त्रणमन्त्रस्य पूषानुमन्त्रणे, यथा वा ‘पशुना यजेत’ इत्येकत्वसङ्ख्याया अर्थस्य सङ्ख्येयावच्छेतसामर्थ्यम् । न चेदमन्यस्यार्थदर्शनलक्षणं लिङ्गं तथा । स्तुत्यर्थत्वेनास्य विध्युद्देशेनैकवाक्यतया विधिपरत्वात् । तस्मादसति सामर्थ्यलक्षणे विरोद्धरि प्रकरणप्रत्यूहं मनश्चिदादीनां क्रियाशेषतामवगमयति । नच ते हैते विद्याचित एवेत्यवधारणश्रुतिः क्रियानुप्रवेशं वारयति । येन श्रुतिविरोधे सति न प्रकरणं भवेत् , बाह्यसाधनतापाकरणार्थत्वादवधारणस्य । नच विद्यया हैवैत एवंविदश्चिता भवन्तीति पुरुषसम्बन्धमापादयद्वाक्यं प्रकरणमपबाधितुमर्हति । अन्यार्थदर्शनं खल्वेतदपि । नच तत्स्वातन्त्र्येण प्रापकमित्युक्तम् । तस्मात्तदपि न प्रकरणविरोधायालमिति साम्पादिका अप्येते अग्नयः प्रकरणात्क्रियानुप्रवेशिन एव मानसवत् । द्वादशाहे तु श्रूयते “अनया त्वा पात्रेण समुद्रं रसया प्राजापत्यं मनोग्रहं गृह्णामि” इति । तत्र संशयः किं मानसं द्वादशाहा दहरन्तरमुत तन्मध्यपातिनो दशमस्याह्नाङ्गमिति । तत्र वाग्वै द्वादशाहो मनो मानसमिति मानसस्य द्वादशाहाद्भेदेन व्यपदेशाद्वाङ्मनसभेदवद्भेदः । निर्धूतानि द्वादशाहस्य गतरसानि छन्दांसि तानि मानसेनैवाप्यायन्तीति च द्वादशाहस्य मानसेन स्तूयमानत्वाद्भेदे च सति स्तुतिस्तुत्यभावस्योपपत्तेर्द्वादशाहादहरन्तरं न तदङ्गं, पत्नीसंयाजान्तत्वाच्चाह्नां पत्नीः संयाज्य मानसाय प्रसर्पन्तीति च मानसस्य पत्नीसंयाजस्य परस्ताच्छ्रुतेः । त्रयोदशाहेऽप्यवयुज्य द्वादशसङ्ख्यासमवायात्कथञ्चिज्जघन्ययापि वृत्त्या द्वादशाहसंज्ञाविरोधाभावादिति प्राप्तेऽभिधीयते प्रमाणान्तरेण हि त्रयोदशत्वेऽह्नां सिद्धे द्वादशाह इति जघन्यया वृत्त्योन्नीयेत । न त्वस्ति तादृशं प्रमाणान्तरम् । नच व्यपदेशभेदोऽहरन्तरत्वं कल्पयितुमर्हति । अङ्गाङ्गिभेदेनापि तदुपपत्तेः । अत एव च स्तुत्यस्तावकभावस्याप्युपपत्तिः देवदत्तस्येव दीर्घैः केशैः । पत्नीसंयाजान्तता तु यद्यप्यौत्सर्गिकी तथापि दशमस्याह्नो विशेषवचनान्मानसानि ग्रहणासादनहवनादीनि पत्नीसंयाजात्पराञ्चि भविष्यन्ति । किमिव हि न कुर्याद्वचनमिति । एष वै दशमस्याह्नो विसर्गो यन्मानसमिति वचनाद्दशमाहरङ्गता गम्यते । विसर्गोऽन्तोऽन्तवतो धर्मो न स्वतन्त्र इति दशमेऽहनि मानसाय प्रसर्पन्तीति दशमस्याह्न आधारत्वनिर्देशाच्च तदङ्गं मानसं नाहरन्तरमिति सिद्धम् । तदिह द्वादशाहसम्बन्धिनो दशमस्याह्नोऽङ्गं मानसमिति धर्ममीमांसासूत्रकृतोक्तम् । दशरात्रगस्यापि दशमस्याह्नोऽङ्गमिति भगवन्भाष्यकारः ।
श्रुत्यन्तरबलेनाह –
यथा दशरात्रस्य दशमेऽहन्यविवाक्य इति ।
अविवाक्य इति दशमस्याह्नो नाम ॥ ४४ ॥
पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॥ ४५ ॥
अतिदेशाच्च ।
नहि साम्पादिकानामग्नीनामिष्टकासु चितेनाग्निना किञ्चिदस्ति सादृश्यमन्यत्र क्रियानुप्रवेशात् । तस्मादपि न स्वतन्त्र इति प्राप्तेऽभिधीयते ॥ ४६ ॥
विद्यैव तु निर्धारणात् ।
मा भूदन्येषां श्रुतविध्युद्देशानामन्यार्थदर्शनानामप्राप्तप्रापकत्वमेतेषु त्वश्रुतविध्युद्देशेषु “वचनानि त्वपूर्वत्वात्” इति न्यायाद्विधिरुन्नेतव्यः । तथा चैतेभ्यो यादृशोऽर्थः प्रतीयते तदनुरूप एव स भवति । प्रतीयते चैतेभ्यो मनश्चिदादीनां सान्तत्यं चावधारणं च फलभेदसमन्वयश्च पुरुषसम्बन्धश्च । न चास्य गोदोहनादिवत्क्रत्वर्थाश्रितत्वं येन पुरुषार्थस्य कर्मपारतन्त्र्यं भवेत् । नच विद्याचित एवेत्यवधारणं बाह्यसाधनापाकरणार्थम् । स्वभावत एव विद्याया बाह्यानुपेक्षत्वसिद्धेः । तस्मात्परिशेषान्मानसग्रहवत्क्रियानुप्रवेशशङ्कापाकरणार्थमवधारणम् । न चैवमर्थत्वे सम्भवति । द्योतकत्वमात्रेण निपातश्रुतिः पीडनीया । तस्माच्छ्रुतिलिङ्गवाक्यानि प्रकरणमपोद्य स्वातन्त्र्यं मनश्चिदादीनामवगमयन्तीति सिद्धम् । अनुबन्धातिदेशश्रुत्यादिभ्य एवमेव विज्ञेयम् । ते च भाष्य एव स्फुटाः । यदुक्तं पूर्वपक्षिणा क्रत्वङ्गत्वे पूर्वेणेष्टकाचितेन मनश्चिदादीनां विकल्प इति ।
तदुतल्यकार्यत्वेन दूषयति –
नच सत्येव क्रियासम्बन्ध इति ।
अपिच पूर्वापरयोर्भागयोर्विद्याप्राधान्यदर्शनात्तन्मध्यपातिनोऽपि तत्सामान्याद्विद्याप्रधानत्वमेव लक्ष्यते न कर्माङ्गत्वमित्याह सूत्रेण –
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ।
स्फुटमस्य भाष्यम् । अस्ति राजसूयः “राजा स्वाराज्यकामो राजसूयेन यजेत” इति । तं प्रकृत्यामनन्ति अवेष्टिं नामेष्टिम् । आग्नेयोऽष्टाकपालो हिरण्यं दक्षिणेत्येवमादि तां प्रकृत्याधीयते । यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिं हुत्वाभिधारयेद्यदि वैश्यो वैश्वदेवं यदि राजन्य ऐन्द्रमिति । तत्र सन्दिह्यते किं ब्राह्मणादीनां प्राप्तानां निमित्तार्थेन श्रवणमुत ब्राह्मणादीनामयं यागो विधीयत इति । तत्र यदि प्रजापालनकण्टकोद्धरणादि कर्म राज्यं तस्य कर्ता राजेति राजशब्दस्यार्थस्ततो राजा राजसूयेन यजेतेति राज्यस्य कर्तू राजसूयेऽधिकारः । तस्मात्सम्भवन्त्यविशिषेण ब्राह्मणक्षत्रियवैश्या राज्यस्य कर्तार इति सिद्धं सर्वम् एवैते राजसूये प्राप्ता इति “यदि ब्राह्मणो यजेत” इत्येवमादयो निमित्तार्थाः श्रुतयः । अथ तु राज्ञः कर्म राज्यमिति राजकर्तृयोगात्तत्कर्म राज्यं ततः को राजेत्यपेक्षायामार्येषु तत्प्रसिद्धेरभावात्पिकनेमतामरसादिशब्दार्थावधारणाय म्लेच्छप्रसिद्धिरिवान्ध्राणां क्षत्रियजातौ राजशब्दप्रसिद्धिस्तदवधारणकारणमिति क्षत्रिय एव राजेति न ब्राह्मणवैश्ययोः प्राप्तिरिति राजसूयप्रकरणं भित्त्वा ब्राह्मणादिकर्तृकाणि पृथगेव कर्माणि प्राप्यन्त इति न नैमित्तिकानि । तत्र किं तावत्प्राप्तं, नैमित्तिकानीति । राज्यस्य कर्ता राजेत्यार्याणामान्ध्राणां चाविवादः । तथाहि - ब्राह्मणादिषु प्रजापालनकर्तृषु कनकदण्डातपत्रश्वेतचामरादिलाञ्छनेषु राजपदमान्ध्राश्चार्याश्चाविवादं प्रयुञ्जाना दृश्यन्ते । तेनाविप्रतिपत्तेर्विप्रतिपत्तावप्यार्यान्ध्रप्रयोगयोर्यववराहवदायर्प्रसिद्धेरान्ध्रप्रसिद्धितो बलीयसीत्वात् । बलवदार्यप्रसिद्धिविरोधे त्वतन्मूलायाः पाणिनीयप्रसिद्धेः “विरोधे त्वनपेक्षं स्यात्”(जै० सू० ११३ ॥ ३) इति न्यायेन बाधनात्तदनुगुणतया वा कथञ्चिन्नखनकुलादिवदन्वाख्यानामात्रपरतया नीयमानत्वाद्रज्यस्य कर्ता राजेति सिद्धे निमित्तार्थाः श्रुतयः । तथाच यदिशब्दोऽप्याञ्जसः स्यादिति प्राप्तम् । एवं प्राप्त उच्यते - “रूपतो न विशेषोऽस्ति ह्यार्यम्लेच्छप्रयोगयोः । वैदिकाद्वाक्यशेषात्तु विशेषस्तत्र दर्शितः” ॥ तदिह राजशब्दस्य कर्मयोगाद्वा कर्तरि प्रयोगः कर्तृप्रयोगाद्वा कर्मणीति विशये वैदिकवाक्यशेषवदभियुक्ततरस्यात्रभवतः पाणिनेः स्मृतेर्निर्णीयते प्रसिद्धिरान्ध्रणामनादिरादिमती चार्याणां प्रसिद्धिर्गोगाव्यादिशब्दवत् । नच सम्भावितादिमद्भावा प्रसिद्धिः पाणिनिस्मृतिमपोद्यानादिप्रसिद्धिमादिमतीं कर्तुमुत्सहते । गाव्यादिशब्दप्रसिद्धेरनादित्वेन गवादिपदप्रसिद्धेरप्यादिमत्त्वापत्तेः । तस्मात्पाणिनीयस्मृत्यनुमतान्ध्रप्रसिद्धिबलीयस्त्वेन क्षत्रियत्वजातौ राजशब्दे मुख्ये तत्कर्तर्यतज्जातौ राजशब्दो गौण इति क्षत्रियस्यैवाकाराद्राजसूये तत्प्रकरणमपोद्यावेष्टेरुत्कर्षः । अन्वयानुरोधी यदिशब्दो न त्वपूर्वविधौ सति तमन्यथयितुमर्हति । अत एवाहुः “यदि शब्दपरित्यागो रुच्यध्यहारकल्पना” इति । इयं च राजसूयादधिकारान्तरमेतयान्नाद्यकामं याजयेदिति नास्तीतिकृत्वा चिन्ता । एतस्मिंस्त्वधिकारेऽन्नाद्यकामस्य त्रैवर्णिकस्य सम्भवात्प्राप्तेर्निमित्तार्थता ब्राह्मणादिश्रवणस्य दुर्वारैवेति ॥ ४७ ॥
दर्शनाच्च ॥ ४८ ॥
श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥ ४९ ॥
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् ॥ ५० ॥
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॥ ५१ ॥
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥ ५२ ॥
एक आत्मनः शरीरे भावात् ।
अधिकरणतात्पर्यमाह –
इहेति ।
समर्थनप्रयोजनमाह –
बन्धमोक्षेति ।
असमर्थने बन्धमोक्षाधिकाराभावमाह –
न ह्यसतीति ।
अधस्तनतन्त्रोक्तेन पौनरुक्त्यं चोदयति –
नन्विति ।
परिहरति –
उक्तं भाष्यकृतेति ।
न सूत्रकारेण तत्रोक्तं येन पुनरुक्तं भवेदपि तु भाष्यकृतेत्यत्रत्यस्यैवार्थस्यापकर्षः प्रमाणलक्षणोपयोगितया तत्र कृत इति । यत इह सूत्रकृद्वक्ष्यत्यत एव भगवतोपवर्षेणोद्धारोऽपकर्षस्य कृतः ।
विचारस्यास्य पूर्वोत्तरतन्त्रशेषत्वमाह –
इह चेति ।
पूर्वाधिकरणसङ्गतिमाह –
अपिचेति ।
नन्वात्मास्तित्वोपपत्तय एवात्रोच्यन्तां किं तदाक्षेपेणेत्यत आह - –
आक्षेपपूर्विका हीति ।
आक्षेपमाह –
अत्रैके देहमात्रात्मदर्शिन इति ।
यद्यपि समस्तव्यस्तेषु पृथिव्यप्तेजोवायुषु न चैतन्यं दृष्टं तथापि कायाकारपरिणतेषु भविष्यति । नहि किण्वादयः समस्तव्यस्ता न मदना दृष्टा इति मदिराकारपरिणता न मदयन्ति । अहमिति चानुभवे देह एव गौराद्याकारः प्रथते । न तु तदतिरिक्तः तदधिष्ठानः कुण्ड इव दधीति । अत एवाहं स्थूलो गच्छामीत्यादिसामानाधिकरण्योपपत्तिरहमः स्थूलादिभिः । न जातु दधिसमानाधिकरणानि मधुरादीनि कुण्डस्यैकाधिकरण्यमनुभवन्ति सितं मधुरं कुण्डमिति । न चाप्रत्यक्षमात्मतत्त्वमनुमानादिभिः शक्यमुन्नेतुम् । न खल्वप्रत्यक्षं प्रमाणमस्ति । उक्तं हि “देशकालादिरूपाणां भेदाद्भिन्नासु शक्तिषु । भावानामनुमानेन प्रसिद्धिरतिदुर्लभा” इति । यदा च उपलब्धिसाध्यनान्तरीयकभावस्य लिङ्गस्येयं गतिस्तदा कैव कथा दृष्टव्यभिचारस्य शब्दस्यार्थापत्तेश्चात्यन्तपरोक्षार्थगोचराया उपमानस्य च सर्वैकदेशसादृश्यविकल्पितस्य । सर्वसारूप्ये तत्त्वात् । एकदेशसारूप्ये चातिप्रसङ्गात्सर्वस्य सर्वेणोपमानात् । सौत्रस्तु हेतुर्भाष्यकृता व्याख्यातः । चेष्टा हिताहितप्राप्तिपरिहारार्थो व्यापारः । स च शरीराधीनतया दृश्यमानः शरीरधर्म एवं प्राणः श्वासप्रश्वासादिरूपः शरीरधर्म एव । इच्छाप्रयत्नादयश्च यद्यप्यान्तराः तथापि शरीरातिरिक्तस्य तदाश्रयानुपलब्धेः सति शरीरे भावातन्तःशरीराश्रया एव, अन्यथा दृष्टहानादृष्टकल्पनाप्रसङ्गात् । शरीरातिरिक्त आत्मनि प्रमाणाभावाच्छरीरे च सम्भवाच्छरीरमेवेच्छादिमदात्मेति प्राप्त उच्यते ॥ ५३ ॥
व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ।
नाप्रत्यक्षं प्रमाणमिति ब्रुवाणः प्रष्टव्यो जायते कुतो भवाननुमानादीनामप्रामाण्यमवधारितवानिति । प्रत्यक्षं हि लिङ्गादिरूपमात्रग्राहि नाप्रामाण्यमेषां विनिश्चेतुमर्हति । नहि धूमज्ञानमिवैषामिन्द्रियार्थसन्निकर्षादप्रामाण्यज्ञानमुदेतुमर्हति । किन्तु देशकालावस्थारूपभेदेन व्यभिचारोत्प्रेक्षया । न चैतावान्प्रत्यक्षस्य व्यापारः सम्भवति । यथाहुः - नहीदमियतो व्यापारान्कर्तुं समर्थं संनिहितविषयबलेनोत्पत्तेरविचारकत्वादिति । तस्मादस्मिन्ननिच्छतापि प्रमाणान्तरमभ्युपेयम् । अपिच प्रतिपन्नं पुमांसमपहायाप्रतिपन्नसन्दिग्धाः प्रेक्षावद्भिः प्रतिपाद्यन्ते । न चैषामित्थम्भावो भवत्प्रत्यक्षगोचरः । न खल्वेते गौरत्वादिवत्प्रत्यक्षगोचराः किन्तु वचनचेष्टादिलिङ्गानुमेयाः । नच लिङ्गं प्रमाणं यत एते सिध्यन्ति । न पुंसामित्थम्भावमविज्ञाय यं कञ्चन पुरुषं प्रतिपिपादयिषतोऽनवधेयवचनस्य प्रेक्षावत्ता नाम । अपिच पशवोऽपि हिताहितप्राप्तिपरिहारार्थिनः कोमलशष्पश्यामलायां भुवि प्रवर्तन्ते । परिहरन्ति चाश्यानतृणकण्टकाकीर्णाम् । नास्तिकस्तु पशोरपि पशुरिष्टनिष्टसाधनमविद्वान् । न खल्वस्मिन्ननुमानगोचरप्रवृत्तिनिवृत्तिगोचरे प्रत्यक्षं प्रभवति । नच परप्रत्यायनाय शब्दं प्रयुञ्जीत शाब्दस्यार्थस्याप्रत्यक्षत्वात् । तदेव मा नाम भून्नास्तिकस्य जन्मान्तरमस्मिन्नेव जन्मन्युपस्थितोऽस्य मूकत्वप्रवृत्तिनिवृत्तिविरहरूपो महान्नरकः । पराक्रान्तं चात्र सूरिभिः । अत्यन्तपरोक्षगोचराप्यन्यथानुपपद्यमानार्थप्रभवार्थापत्तिः । भूयःसामान्ययोगेन चोपमानमुपपादितं प्रमाणलक्षणे । तदत्रास्तु तावत्प्रमाणान्तरं प्रत्यक्षमेवाहंप्रत्ययः शरीरातिरिक्तमालम्बत इत्यन्वयव्यतिरेकाभ्यामवधार्यते । योगव्याघ्रवत्स्वप्नदशायां च शरीरान्तरपरिग्रहाभिमानेऽप्यहङ्कारास्पदस्य प्रत्यभिज्ञायमानत्वमित्युक्तम् । सूत्रयोजना तु न त्वव्यतिरिक्तः किन्तु व्यतिरिक्त आत्मा देहात् । कुतस्तद्भावाभावित्वात् । चैतन्यादिर्यदि शरीरगुणः ततोऽनेन विशेषगुणेन भवितव्यम् । न तु सङ्ख्यापरिमाणसंयोगादिवत्सामान्यगुणेन । तथाच ये भूतविशेषगुणास्ते यावद्भूतभाविनो दृष्टा यथा रूपादयः । नह्यस्ति सम्भवः भूतं च रूपादिरहितं चेति । तस्माद्भूतविशेषगुणरूपादिवैधर्म्यान्न चैतन्यं शरीरगुणः । एतेनेच्छादीनां शरीरविशेषगुणत्वं प्रत्युक्तम् । प्राणचेष्टादयो यद्यपि देहधर्मा एव तथापि न देहमात्रप्रभवाः । मृतावस्थायामपि प्रसङ्गात् । तस्माद्यस्यैते अधिष्ठानाद्देहधर्मा भवन्ति स देहातिरिक्त आत्मा । अदृष्टकारणत्वेऽभ्युपगम्यमाने तस्यापि देहाश्रयत्वानुपपत्तेरात्मैवाभ्युपेतव्य इति ।
वैधर्म्यान्तरमाह –
देहधर्माश्चेति ।
स्वपरप्रत्यक्षा हि देहधर्मा दृष्टा यथा रूपादयः । इच्छादयस्तु स्वप्रत्यक्षा एवेति देहधर्मवैधर्म्यम् । तस्मादपि देहातिरिक्तधर्मा इति । तत्र यद्यपि चैतन्यमपि भूतविशेषगुणस्तथापि यावद्भूतमनुवर्तेत । नच मदशक्त्या व्यभिचारः । सामर्थ्यस्य सामान्यगुणत्वात् । अपिच मदशक्तिः प्रतिमदिरावयवं मात्रयावतिष्ठते तद्वद्देहेऽपि चैतन्यं तदवयवेष्वपि मात्रया भवेत् । तथा चैकस्मिन्देहे बहवश्चेतयेरन् । नच बहूनां चेतनानामन्योन्याभिप्रायानुविधानसम्भव इति एकपाशनिबद्धा इव बहवो विहङ्गमाः विरुद्धादिक्रियाभिमुखाः समर्था अपि न हस्तमात्रमपि देशमतिपतितुमुत्सहन्ते । एवं शरीरमपि न किञ्चित्कर्तुमुत्सहते । अपि च नान्वयमात्रात्तद्धर्मधर्मिभावः । शक्यो विनिश्चेतुं, मा भूदाकाशस्य सर्वो धर्मः सर्वेष्वन्वयात् । अपि त्वन्वयव्यतिरेकाभ्याम् । सन्दिग्धश्चात्र व्यतिरेकः ।
तथाच साधकत्वमन्वयमात्रस्येत्याह –
अपिच सति हि तावदिति ।
दूषणान्तरं विवक्षुराक्षिपति –
किमात्मकं चेति ।
स एवैकग्रन्थेनाह –
नहीति ।
नास्तिक आह –
यदनुभवनमिति ।
यथा हि भूतपरिणामभेदो रूपादिर्न तु भूतचतुष्टयादर्थान्तरमेवं भूतपरिणामभेद एव चैतन्यं न तु भूतेभ्योऽर्थान्तरं, येन “पृथिव्यापस्तेजो वायुरिति तत्त्वानि” इति प्रतिज्ञाव्याघातः स्यादित्यर्थः । एतदुक्तं भवति - चतुर्णामेव भूतानां समस्तं जगत्परिणामो न त्वस्ति तत्त्वान्तरं यस्य परिणामो रूपादयोऽन्यद्वा परिणामान्तरमिति ।
अत्रोक्ताभिस्तावदुपपत्तिभिर्देहधर्मत्वं निरस्तं तथाप्युपपत्त्यन्तराभिधित्सयाह –
चेत्तर्हीति ।
भूतधर्मा रूपादयो जडत्वाद्विषया एव दृष्टा न तु विषयिणः । नच केषाञ्चिद्विषयाणामपि विषयित्वं भविष्यतीति वाच्यम् । स्वात्मनि वृत्तिविरोधात् । न चोपलब्धावेव प्रसङ्गस्तस्या अजडायाः स्वयम्प्रकाशत्वाभ्युपगमात् । कृतोपपादनं चैतत्पुरस्तात् ।
उपलब्धिवदिति सूत्रावयवं योजयति –
यथैवास्या इति ।
उपलब्धिग्राहिण एव प्रमाणाच्छरीव्यतिरेकोऽप्यवगम्यते । तस्यास्ततः स्वयम्प्रकाशप्रत्ययेन भूतधर्मेभ्यो जडेभ्यो वैलक्षण्येन व्यतिरेकनिश्चयात् ।
अस्तु तर्हि व्यतिरेकादुपलब्धिर्भूतेभ्यः स्वतन्त्रा तथाप्यात्मनि प्रमाणाभाव इत्यत आह –
उपलब्धिस्वरूप एव च न आत्मेति ।
आजानतस्तावदुपलब्धिभेदो नानुभूयत इति विषयभेदादभ्युपेयः । न चोपलब्धिव्यतिरेकिणां विषयाणां प्रथा सम्भवतीत्युपपादितम् । नच विषयभेदग्राहि प्रमाणमस्तीति चोपपादितं ब्रह्मतत्त्वसमीक्षायामस्माभिः । एवं च सति विषयरूपतद्भेदादेव सुदुर्लभाविति दूरनिरस्ता विषयभेदादुपलब्धिभेदसङ्कथा । तेनोपलब्धेरुपलब्धृत्वमपि न तात्त्विकम् । किन्त्वविद्याकल्पितम् । तत्राविद्यादशायामप्युपलब्धेरभेद इत्याह
अहमिदमद्राक्षमिति चेति ।
न केवलं तात्त्विकाभेदान्नित्यत्वमतात्त्विकादपि नित्यत्वमेवेति तस्यार्थः ।
स्मृत्याद्युपपत्तेश्च ।
नानात्वे हि नान्येनोपलब्धेऽन्यस्य पुरुषस्य स्मृतिरुपपद्यत इत्यर्थः ।
निराकृतमप्यर्थं निराकरणान्तरायानुभाषते –
यत्तूक्तमिति ।
यो हि देहव्यापारादुपलब्धिरुत्पद्यते तेन देहधर्म इति मन्यते तं प्रतीदं दूषणम् –
न चात्यन्तं देहस्येति ।
प्रकृतमुपसंहरति –
तस्मादनवद्यमिति ॥ ५४ ॥
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ।
स्वरादिभेदात्प्रतिवेदमुद्गीथादयो भिद्यन्ते । तदनुबद्धास्तु प्रत्ययाः प्रतिशाखं विहिता भेदेन । तत्र संशयःकिं यस्मिन्वेदे यदुद्गीथादयो विहितास्तेषामेव तद्वेदविहिताः प्रत्यया उतान्यवेदविहितानामप्युद्गीथादीनां ते प्रत्यया इति । किं तावत्प्राप्तम् । “ओमित्यक्षरमुद्गीथमुपासीत”(छा. उ. १ । १ । १) इत्युद्गीथश्रवणेनोद्गीथसामान्यमवगम्यते । निर्विशेषस्य च तस्यानुपपत्तेर्विशेषकाङ्क्षायां स्वशाखाविहितस्य विशेषस्य संनिधानात्तेनैवाकाङ्क्षाविनिवृत्तेर्न शाखान्तरीयमुद्गीथान्तरमपेक्षते । न चैवं संनिधानेन श्रुतिपीडा, यदि हि श्रुतिसमर्पितमर्थमपबाधेन ततः श्रुतिं पीडयेन्न चैतदस्ति । नह्युद्गीथश्रुत्यभिहितलक्षितौ सामान्यविशेषौ बाधितौ स्वशाखागतयोः स्वीकरणाच्छाखान्तरीयास्वीकारेऽपि । यथाहुः “जातिव्यक्ती गृहीत्वेह वयं तु श्रुतलक्षिते । कृष्णादि यदि मुञ्चामः का श्रुतिस्तत्र पीड्यते” ॥ एवं प्राप्तम् । एवं प्राप्त उच्यते - उद्गीथाङ्गवबद्धास्तु प्रत्यया नानाशाखासु प्रतिवेदमनुवर्तेरन्न प्रतिशाखं व्यवतिष्ठेरन् । उद्गीथमित्यादिसामान्यश्रुतेरविशेषातेतदुक्तं भवति युक्तं शुक्लं पटमानयेत्यादौ पटश्रुतिमविशेषप्रवृत्तामपि संनिधानाच्छुक्लश्रुतिर्बाधत इति । विशिष्टार्थप्रत्यायनप्रत्युक्तत्वात्पदानां समभिव्याहारस्य । अन्यथा तदनुपपत्तेः । नच स्वार्थमस्मारयित्वा विशिष्टार्थप्रत्यायनं पदानामिति विशिष्टार्थप्रयुक्तं स्वार्थस्मारणं न स्वप्रयोजकमपवाधितुमुत्सहते । मा च बाधिप्रयोजकाभावेन स्वार्थस्मारणमपीति युक्तमविशेषप्रवृत्ताया अपि श्रुतेरेकस्मिन्नेव विशेषे अवस्थापनम् । इह तूद्गीथश्रुतेरविशेषेण विशिष्टार्थप्रत्यायकत्वात् । सङ्कोचे प्रमाणं किञ्चिन्नास्ति । नच संनिधिमात्रमपबाधितुमर्हति । श्रुतिसामान्यद्वारेण च सर्वविशेषगामिन्याः श्रुतेरेकस्मिन्नवस्थानं पीडैव । तस्मात्सर्वोद्गीथविषयाः प्रत्यया इति ॥ ५५ ॥
मन्त्रादिवद्वाविरोधः ।
विरुद्धमिति नः संप्रत्ययो यत्प्रमाणेन नोपलभ्यते । उपलब्धं च मन्त्रादिषु शाखान्तरीयेषु शाखान्तरीयकर्मसम्बन्धित्वम् । तद्वदिहापीति दर्शनादविरोधः । एतच्च दर्शितं भाष्येण सुगमेनेति ॥ ५६ ॥
भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ।
वैश्वानरविद्यायां छान्दोग्ये किं व्यस्तोपासनं समस्तोपासनं च उता समस्तोपासनमेवेति । तत्र दिवमेव भगवो राजन्निति होवाचेति प्रत्येकमुपासनश्रुतेः प्रत्येकं च फलवत्त्वाम्नानात्समस्तोपासने च फलवत्त्वश्रुतेरुभयथाप्युपासनम् । नच यथा वैश्वानरीयेष्टौ यदष्टाकपालो भवतीत्यादीनामवयुज्यवादानां प्रत्येकं फलश्रवणेऽप्यर्थवादमात्रत्वं वैश्वानरं द्वादशकपालं निर्वपेदित्यस्यैव तु फलवत्त्वमेवमत्रापि भवितुमर्हति । तत्र हि द्वादशकपालं निर्वपेदिति । विधिभक्तिश्रुतिर्यदष्टाकपालो भवतीत्यादिषु वर्तमानापदेशः । नच वचनानि त्वपूर्वत्वादिति विधिकल्पना । अवयुज्यवादेन स्तुत्याप्युपपत्तेः । इह तु समस्ते व्यस्ते च वर्तमानापदेशस्याविशेषादगृह्यमाणविशेषतया उभयत्रापि विधिकल्पनायाः फलकल्पनायाश्च भेदात् । निन्दायाश्च समस्तोपासनारम्भे व्यस्तोपासनेऽप्युपपत्तेः । श्यामो वाश्वाहुतिमभ्यवहरतीतिवदुभयविधमुपासनमिति प्राप्त उच्यते - समस्तोपासनस्यैव ज्यायस्त्वं न व्यस्तोपासनस्य । यद्यपि वर्तमानापदेशत्वमुभयत्राप्यविशिष्टं तथापि पौर्वापर्यालोचनया समस्तोपासनपरत्वस्यावगमः । यत्परं हि वाक्यं तदस्यार्थः । तथाहि - प्राचीनशालप्रभृतयो वैश्वानरविद्यानिर्णयायाश्वपतिं कैकेयमाजग्मुः । ते च तत्तदेकदेशोपासनमुपन्यस्तवन्तः । तत्र कैकेयस्तत्तदुपासननिन्दापूर्वं तन्निवारणेन समस्तोपासनमुपसञ्जहार । तथा चैकवाक्यतालाभाय वाक्यभेदपरिहाराय च समस्तोपासनपरतैव सन्दर्भस्य लक्ष्यते । तस्माद्बहुफलसङ्कीर्तनम् । प्रधानस्तवनाय । समस्तोपासनस्यैव तु फलवत्त्वमिति सिद्धम् ।
एकदेशिव्याख्यानमुपन्यस्य दूषयति –
केचित्त्वत्रेति ।
सम्भवत्येकवाक्यत्वे वाक्यभेदस्यान्याय्यत्वात्नेदृशं सूत्रव्याख्यानं समञ्जसमित्यर्थः ॥ ५७ ॥
नानाशब्दादिभेदात् ।
सिद्धं कृत्वा विद्याभेदमधस्तनं विचारजातमभिनिर्वर्तितम् । सम्प्रति तु सर्वासामीश्वरगोचराणां विद्यानां किमभेदो भेदो वा, एवं प्राणादिगोचरास्विति विचारयितव्यम् । ननु यथा प्रत्ययाभिधेयाया अपूर्वभावनाया आजानतो भेदाभावेऽपि धात्वर्थेन निरूप्यमाणत्वात्तस्य च यागादेर्भेदात्प्रकृत्यर्थयागादिधात्वर्थानुबन्धभेदाद्भेदः । तदनुरक्ताया एव तस्याः प्रतीयमानत्वात् । एवं विद्यानामपि रूपतो वेद्यस्येश्वरस्याभेदेऽपि तत्तत्सत्यसङ्कल्पत्वादिगुणोपधानभेदाद्विद्याभेद इति नास्त्यभेदाशङ्का । उच्यते - युक्तमनुबन्धभेदात्कार्यरूपाणामपूर्वभावनानां भेद इति । इह ब्रह्मणः सिद्धरूपत्वाद्गुणानामपि सत्यसङ्कल्पत्वादीनां तदाश्रयाणां सिद्धतया सर्वत्राभेदो विद्यासु । नहि विशालवक्षाश्चकोरेक्षणः क्षत्रिययुवा दुश्च्यवनधर्मेति एकत्रोपदिष्टोऽन्यत्र सिंहास्यो वृषस्कन्धः स एवोपदिश्यमानश्चकोरेक्षणत्वाद्यपजहाति न खलु प्रत्युपदेशं वस्तु भिद्यते । तस्य सर्वत्र तादवस्थ्यात् । अतादवस्थ्ये वा तदेव न भवेत् । नहि वस्तु विकल्प्यत इति । तस्माद्वेद्याभेदाद्विद्यानां भेद इति प्राप्तम् । एवं प्राप्त उच्यते - भवेदेतदेवं यदि वस्तुनिष्ठान्युपासनवाक्यानि किन्तु तद्विषयामुपासनाभावनां विदधति । सा च कार्यरूपा । यद्यपि चोपासनाभावना उपासनाधीननिरूपणोपासनं चोपास्याधीननिरूपणमुपास्यं चेश्वरादि व्यवस्थितरूपम् , तथाप्युपासनाविषयीभावोऽस्य कदाचित्कस्यचित्केनचिद्रूपेणेत्यपरिनिष्ठित एव । यथैकः स्त्रीकायः केनचिद्भक्ष्यतया केनचिदुपगन्तव्यतया केनचिदपत्यतया केनचिन्मातृतया केनचिदुपेक्षणीयतया विषयीक्रियमाणः पुरुषेच्छातन्त्रः । एवमिहापि उपासनानि पुरुषेच्छातन्त्रतया विधेयतां नातिक्रामन्ति । नच तत्तद्गुणतयोपासनानि गुणभेदान्न भिद्यन्ते । न चाग्निहोत्रमिवोपसनां विधाय दधितण्डुलादिगुणवदिह सत्यसङ्कल्पत्वादिगुणविधिर्येनैकशास्त्रत्वं स्यात् । अपि तूत्पत्तावेवोपासनानां तत्तद्गुणविशिष्टानामवगमात् । तत्रागृह्यमाणविशेषतया सर्वासां भेदस्तुल्यः । नच समस्तशाखाविहितसर्वगुणोपसंहारः शक्यानुष्ठानस्तस्माद्भेदः ।
न चास्मिन्पक्षे सामाना सन्तः सत्यकामादय इति ।
केचित्खलु गुणाः कासुचिद्विद्यासु समानास्तेनैकविद्यात्वे आवर्तयितव्याः । एकत्रोक्तत्वात् । विद्याभेदे तु न पौनरुक्त्यमेकस्यां विद्यायामुक्ता विद्यान्तरे नोक्ता इति विद्यान्तरस्यापि तद्गुणत्वाय वक्तव्या अनुक्तानामप्राप्तेरिति ॥ ५८ ॥
विकल्पोऽविशिष्टफलत्वात् ।
अग्निहोत्रदर्शपूर्णमासादिषु पृथगधिकाराणामपि समुच्चयो दृष्टो नियमवांस्तेषां नित्यत्वादुपासनास्तु काम्यतया न नित्यास्तस्मान्नासां समुच्चयनियमः । तेन समानफलानां दर्शपूर्णमासज्योतिष्टोमादीनामिव न नियमवान्विकल्पः फलभूमार्थिनः समुच्चयस्यापि सम्भवादिति पूर्वः पक्षः । उपासनानाममूषामुपास्यसाक्षात्करणसाध्यत्वात्फलभेदस्यैकेनोपासनेनोपास्यसाक्षात्करणे तत एव फलप्रतिलाभे तु कृतमुपासनान्तरेण । नच साक्षात्करणस्यातिशयसम्भवस्योपायसहस्रैरपि तादवस्थ्यात्तन्मात्रसाध्यत्वाच्च फलावाप्तेः । उपासनान्तराभ्यासे च चित्तैकाग्रताव्याघातेन कस्य चिदुपासनानिष्पत्तेरिह विकल्प एव नियमवानिति राद्धान्तः ॥ ५९ ॥
काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ।
यासूपासनासु विनोपास्यसाक्षात्करणमदृष्टेनैव काम्यसाधनं तासां काम्यदर्शपौर्णमासादिवत्पुरुषेच्छावशेन विकल्पसमुच्चयाविति साम्प्रतम् ॥ ६० ॥
अङ्गेषु यथाश्रयभावः ।
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलमित्यत्रोपसनासु फलश्रुतेः पर्णमयीन्यायेनार्थवादतयोपासनानां क्रत्वर्थत्वेन समुच्चयनियममाशङ्क्य पुरुषार्थतयैकप्रयोगवचनग्रहणाभावे समुच्चयनियमो निरस्तः । इह तु सत्यपि पुरुषार्थत्वे कस्मान्नैकप्रयोगवचनग्रहणं भवतीति पूर्वोक्तमर्थमाक्षिपन् प्रत्यवतिष्ठते । यद्यपि हि काम्या एता उपासनास्तथापि न स्वतन्त्रा भवितुमर्हन्ति । तथा सति हि क्रत्वर्थानाश्रिततया क्रतुप्रयोगाद्बहिरप्यमूषां प्रयोगः प्रसज्यते । नच प्रयुज्यन्ते तत्कस्य होतोः । क्रत्वर्थाश्रितानामेव तासां तत्तत्फलोद्देशेन विधानादिति । एवं चाश्रयतन्त्रत्वादाश्रितानां प्रयोगवचनेनाश्रयाणां समुच्चयनियमेनाश्रितानामपि समुच्चयनियमो युक्त इतरथा तदाश्रितत्वानुपपत्तेः । स च प्रयोगवचन उपासनाः समुच्चिन्वंस्तत्तत्फलकामनानामवश्यम्भावमाक्षिपति तदभावे तासां समुच्चयनियमाभावादिति मन्वानस्य पूर्वः पक्षः । राद्धान्तस्तु यथाविहितोद्दिष्टपदार्थानुरोधी प्रयोगवचनो न पदार्थस्वभावानन्यथयितुमर्हति । किन्तु तदविरोधेनावतिष्ठते । तत्र क्रत्वर्थानां नित्यवदाम्नानात्तथाभावस्य च सम्भवान्नियमेनैतान्त्समुच्चिनोतु । कामावबद्धास्तूपासनाः कामानामनित्यत्वान्न समुच्चयेन नियन्तुमर्हति । नहि कामा विधीयन्ते येन समुच्चीयेरन्नपि तूद्दिश्यन्ते । मानान्तरानुसारी चोद्देशो न तद्विरोधेनोद्देश्यमन्यथयती । तथा सत्युद्देशानुपपत्तेः । तस्मात्कामानामनित्यत्वात्तदवबद्धानामुपासनानामप्यनित्यत्वम् । नित्यानित्यसंयोगविरोधात्सत्यपि तदाश्रयाणां नित्यत्वे इदमेव चाश्रयतन्त्रत्वमाश्रितानां यदाश्रये सत्येव वृत्तिर्नासतीति । न तु तत्र वृत्तिरेव नावृत्तिरिति तदिदमुक्तमाश्रयतन्त्राण्यपि हीति ॥ ६१ ॥
शिष्टेश्च ॥ ६२ ॥
समाहारात् । होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरतीति ।
अपिर्भिन्नक्रमो दिरुद्गीथमपीति । वेदान्तरोदितप्रणवोद्गीथैकत्वप्रत्ययसामर्थ्याद्धोतृकर्मणः शंसनादुद्गाता प्रतिसमादधाति किं तदित्यत आह दुरुद्गीथमपि वेदान्तरोदिते चौद्गात्रे कर्मणि उत्पन्नं क्षतम् । एवं ब्रुवन्वेदान्तरोदितस्य प्रत्ययस्येत्यादि योजनीयम् ॥ ६३ ॥
गुणसाधारण्यश्रुतेश्च ।
अस्य सूत्रस्यान्वयमुखेन व्यतिरेकमुखेन च व्याख्या । शेषमतिरोहितार्थम् ॥ ६४ ॥
न वा तत्सहभावाश्रुतेः ॥ ६५ ॥
दर्शनाच्च ॥ ६६ ॥
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां तृतीयाध्यायस्य तृतीयः पादः ॥ ३ ॥
पुरुषार्थोऽतः शब्दादिति बादरायणः ।
स्थितं कृत्वोपनिषदामपवर्गाख्यपुरुषार्थसाधनात्मज्ञानपरत्वमुपासनानां च तत्तत्पुरुषार्थसाधनत्वमधस्तनं विचारजातमभिनिर्वर्तितम् । सम्प्रति तु किमौपनिषदात्मतत्त्वज्ञानमपवर्गसाधनतया पुरुषार्थमाहो क्रतुप्रयोगापेक्षितकर्तृप्रतिपादकतया क्रत्वर्थमिति मीमांसामहे । यदा च क्रत्वर्थं तदा यावन्मात्रं क्रतुप्रयोगविधिनापेक्षितं कर्तृत्वमामुष्मिकफलोपभोक्तृत्वं च न चैतदनित्यत्वे घटते कृतविप्रणाशाकृताभ्यागमप्रसङ्गादतो नित्यत्वमपि, तावन्मात्रमुपनिषत्सु विवक्षितम् । इतोऽन्यदनपेक्षितं विपरीतं च नोपनिषदर्थः स्यात् । यथा शुद्धत्वादि । यद्यपि जीवानुवादेन तस्य ब्रह्मत्वप्रतिपादनपरत्वमुपनिषदामिति महता प्रबन्धेन तत्र तत्र प्रतिपादितं तथाप्यत्र केषाञ्चित्पूर्वपक्षशङ्काबीजानां निराकरणे तदेव स्थूणानिखननन्यायेन निश्चलीक्रियत इत्यप्यस्ति विचारप्रयोजनम् । तत्र यद्यपि प्रोक्षणादिवदात्मज्ञानं न कञ्चित्क्रतुमारभ्याधीतम् , यद्यपि च कर्तृमात्रं नाव्यभिचारितक्रतुसम्बन्धं कर्तृमात्रस्य लौकिकेष्वपि कर्मसु दर्शनाद्येन पर्णतादिवदनारभ्याधीतमप्यव्यभिचरितक्रतुसम्बन्धजुहूद्वारेण वाक्येनैव क्रत्वर्थमापद्यते तथापि यादृश आत्मा कर्तामुष्मिकस्वर्गादिफलभोगभागीदेहाद्यतिरिक्तो वेदान्तैः प्रतिपाद्यते न तादृशस्यास्ति लौकिकेषु कर्मसूपयोगः । तेषामैहिकफलानां शरीरानतिरिक्तेनापि यादृशतादृशेन कर्त्रोपपत्तेः । आमुष्मिकफलानां तु वैदिकानां कर्मणां तमन्तरेणासम्भवात्तत्सम्बन्ध एवायमौपनिषदः कर्तेति तदव्यभिचारात्तान्यनुस्मारयज्जुह्वादिवद्वाक्येनैव तज्ज्ञानं पर्णतावत्क्रत्वैदमर्थ्यमापद्यत इति फलश्रुतिरर्थवादः । तदुक्तम् “द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्”(जै.सू. ४-३-१) इति औपनिषदात्मज्ञानसंस्कृतो हि कर्ता पारलौकिकफलोपभोगयोग्योऽस्मीति विद्यावाञ्छ्रद्धावान्क्रतुप्रयोगाङ्गं नान्यथा प्रोक्षिता इव व्रीहयः क्रत्वङ्गमिति । प्रियादिसूचितस्य च संसारिण एवात्मनो द्रष्टव्यत्वेन प्रतिज्ञापनादपहतपाप्मत्वादि तु तद्विशेषणं तस्यैव स्तुत्यर्थम् । न तु तत्परत्वमुपनिषदाम् । तस्मात्क्रत्वर्थमेवात्मज्ञानं कर्तृसंस्कारद्वारा न पुनः पुरुषार्थमिति । एतदुपोद्बलनार्थं च ब्रह्मविदामाचारादिः श्रुत्यवगत उपन्यस्तः । न केवलं वाक्यादात्मज्ञानस्य क्रत्वर्थत्वम् । तृतीयाश्रुतेश्च । न त्वेतत्प्रकृतोद्गीथविद्याविषयं यदेव विद्ययेति सर्वनामावधारणाभ्यां व्याप्तेरधिगमत् । यथा य एव धूमवान्देशः स वह्निमानिति । समन्वारम्भवचनं च फलारम्भे विद्याकर्मणोः साहित्यं दर्शयति । तच्च यद्यप्याग्नेयादियागषट्कवत्समप्रधानत्वेनापि भवति तथाप्युक्तया युक्त्या विद्यायाः कर्म प्रत्यङ्गभावेनैव नेतव्यम् । वेदार्थज्ञानवतः कर्मविधानादुपनिषदोऽपि वेदार्थ इति तज्ज्ञानमपि कर्माङ्गमिति ॥ १ ॥
शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥ २ ॥
आचारदर्शनात् ॥ ३ ॥
तच्छ्रुतेः ॥ ४ ॥
समन्वारम्भणात् ॥ ५ ॥
तद्वतो विधानात् ॥ ६ ॥
नियमाच्च ।
सुगमम् ॥ ७ ॥
सिद्धान्तयति –
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ।
यदि शरीराद्यतिरिक्तः कर्ता भोक्तात्मेत्येतन्मात्र उपनिषदः पर्यवसिताः स्युस्ततः स्यादेवं, न त्वेतदस्ति । तास्त्वेवंभूतजीवानुवादेन तस्य शुद्धबुद्धोदासीनब्रह्मरूपताप्रतिपादनपरा इति तत्र तत्रासकृदावेदितम् । अनधिगतार्थबोधनस्वरसता हि शब्दस्य प्रमाणान्तरसिद्धानुवादेन । तथा चौपनिषदात्मज्ञानस्य क्रत्वनुष्ठानविरोधिनः क्रतुसम्बन्ध एव नास्ति । किमङ्ग पुनः तदव्यभिचारस्ततश्च क्रतुशेषता । तथाच नापवर्गफलश्रुतेरर्थवादमात्रत्वमपि तु फलपरत्वमेव । अत एव प्रियादिसूचितेन संसारिणात्मनोपक्रम्य तस्यैवात्मनोऽधिकोपदिदीक्षायां परमात्मनात्यन्ताभेद उपदिश्यते । यथा समारोपितस्य भुजंगस्य रज्जुरूपादत्यन्ताभेदः प्रतिपाद्यते योऽयं सर्पः सा रज्जुरिति । यथा विद्यायाः कर्माङ्गत्वे दर्शनमुपन्यस्तमेवमकर्माङ्गत्वे दर्शनमुक्तम् । तत्र कर्माङ्गत्वदर्शनानामन्यथासिद्धिरुक्ता केवलविद्यादर्शनानां तु नान्यथासिद्धिः ॥ ८ ॥
तुल्यं तु दर्शनम् ॥ ९ ॥
असार्वत्रिकी ।
व्याप्तिरप्युद्गीथविद्यापेक्षया तस्या एव प्रकृतत्वान्न त्वशेषापेक्षया । यथा सर्वे ब्राह्मणा भोज्यन्तामिति निमन्त्रितापेक्षया तेषामेव प्रकृतत्वात् ॥ १० ॥
विभागः शतवत् ।
सुगमम् ।
अविभागेऽपि न दोष इत्याह –
न चेदं समन्वारम्भवचनमिति ।
संसारिविषया विद्याविहितायथोद्गीथविद्या । प्रतिषिद्धा च यथासच्छास्त्राधिगमनलक्षणा ॥ ११ ॥
अध्ययनमात्रवतः ।
अध्ययनमात्रवत एव कर्मविधिर्नतूपनिषदध्ययनवतः । एतदुक्तं भवति - यदध्ययनमर्थावबोधपर्यन्तं कर्मसूपयुज्यते यथा कर्मविधिवाक्यानां तन्मात्रवत एवाधिकारः कर्मसु नोपनिषदध्यनवतः तदध्ययनस्य कर्मस्वनुपयोगादिति ।
अध्ययनमात्रवत एवेति मात्रग्रहणेनार्थज्ञानं वा व्यवच्छिन्नमिति मन्वानो भ्रान्तश्चोदयति - –
नन्वेवं सतीति ।
स्वाभिप्रायमुद्घाटयन्समाधत्ते –
न वयमिति ।
उपनिषदध्ययनापेक्षं मात्रग्रहणं नार्थबोधापेक्षमित्यर्थः ॥ १२ ॥
नाविशेषात् ।
कुर्वन्नेवेह कर्माणीत्यविद्यावद्विषयमित्यर्थः ॥ १३ ॥
विद्यावद्विषयत्वेऽप्यविरोधो विद्यास्तुत्यर्थत्वादित्याह –
स्तुतयेऽनुमतिर्वा ॥ १४ ॥
अपिच विद्याफलं प्रत्यक्षं दर्शयन्ती श्रुतिः कालान्तरभाविफलकर्माङ्गत्वं विद्याया निराकरोतीत्याह –
कामकारेण चैके ।
कामकार इच्छा ॥ १५ ॥
उपमर्दं च ।
अधिकोपदेशादित्यनेनात्मन एव शुद्धबुद्धोदासीनत्वादय उक्ताः । इह तु समस्तक्रियाकारकफलविभागोपमर्दं चेति ॥ १६ ॥
ऊर्ध्वरेतःसु च शब्दे हि ।
सुबोधम् ॥ १७ ॥
परामर्शं जैमिनिरचोदना चापवदति हि ।
सिद्ध ऊर्ध्वरेतसामाश्रमित्वे तद्विद्यानामकर्माङ्गतयापवर्गार्थं स्यात् । आश्रमित्वं त्वेषामन्यार्थपरामर्शमात्रान्न सिध्यति । विध्यभावात् । स्मृत्याचारप्रसिद्धिश्च तेषां प्रत्यक्षश्रुतिविरोधादप्रमाणम् । निन्दति हि प्रत्यक्षा श्रुतिराश्रमान्तरं “वीरहा वा एष देवानाम्” इत्यादिका । प्रत्यक्षश्रुतिविरोधे च स्मृत्याचारयोरप्रामाण्यमुक्तं “विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्”(जै० सू० ११३ ॥ ३) इति ।
तदेतत्सर्वमाह –
त्रयो धर्मस्कन्धा इत्यादिना ।
अनधिकृतविषया वेति ।
अन्धपङ्ग्वादयो हि ये नैमित्तिककर्मानधिकृतास्तान्प्रत्याश्रमान्तरविधिरिति ।
अपिचापवदिति हि ।
न केवलमन्यपरतया परामर्शस्याश्रमान्तरं न लभ्यते अपि त्वाश्रमान्तरनिन्दाद्वारेणापवादादपीत्यर्थः ।
स्यादेतत् । भवत्वेष परामर्शोऽन्यार्थः । ये चेमेऽरण्य इत्यादिभ्यस्त्वाश्रमान्तरं सेत्स्यतीत्यत आह –
ये चेमेऽरण्य इति ।
अस्यापि देवपथोपदेशपरत्वान्नैतत्परत्वमित्यर्थः ।
न चान्यपरादपि स्फुटतराश्रमान्तरप्रत्यय इत्याह –
सन्दिग्धं चेति ।
नहि तप एव द्वितीय इत्यत्राश्रमान्तराभिधायी कश्चिदस्ति शब्द इति ।
नन्वेतमेव प्रव्राजिन इति वचनादाश्रमान्तरं सेत्स्यतीत्यत आह –
तथैतमेवेति ।
एतदपि लोकसंस्तनवनपरमिति ।
अधिकरणारम्भमाक्षिप्य नास्ति प्रत्यक्षवचनमितिकृत्वा चिन्तेयमिति समाधत्ते –
ननु ब्रह्मचर्यादेवेति ॥ १८ ॥
अनुष्ठेयं बादरायणः साम्यश्रुतेः ।
भवत्वन्यार्थः परामर्शस्तथाप्येतस्मादाश्रमान्तराणि प्रतीयमानानि च नापाकरणमर्हन्ति । एवं तान्यपाक्रियेरन्यद्यस्मान्न प्रतीयेरन् । प्रतीयमानानि वा श्रुत्या बाध्येरन् । न तावन्न प्रतीयन्ते । तथाहि - त्रयो धर्मस्कन्धा इति स्कन्धत्रित्वं प्रतिज्ञातम् । तत्र स्कन्धशब्दो यद्याश्रमपरो न स्यादपि तु समूहवचनस्ततो धर्माणां यज्ञादीनां प्रातिस्विकोत्पत्तीनां किमपेक्ष्य त्रित्वसङ्ख्या सुव्यवस्थाप्येत । एकैकाश्रमोपसङ्गृहीतास्त्वाश्रमाणां त्रित्वाच्छक्यास्त्रित्वे व्यवस्थापयितुमित्याश्रमत्रित्वप्रतिज्ञोपपत्तिः । तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो ब्रह्मचारीति द्वितीयस्तप इति च, तपःप्रधानात्तु वानप्रस्थाश्रमान्नान्यः, ब्रह्मसंस्थ इति च पारिशेष्यात्परिव्राडिति वक्ष्यति । तस्मादन्यपरादपि परामर्शादश्रमान्तराणि प्रतीयमानानि देवताधिकरणन्यायेन न शक्यन्तेऽपाकर्तुम् । नच प्रत्यक्षश्रुतिविरोधो वीरहा वेत्यादेः प्रतिपन्नगार्हस्थ्यं प्रमादादज्ञानाद्वाग्निमुद्वासयितुं प्रवृत्तं प्रत्युपपत्तेः । एवंच अविरोधे सिद्धवत्परामर्शादश्रमान्तराणां शास्त्रान्तरसिद्धिं वा कल्पयिष्यामो यथोपवीतविधिपरे वाक्ये “उपव्ययते देवलक्ष्ममेव तत्कुरुते” इत्यत्र निवीतं मनुष्याणां प्राचीनावीतं पितृणामिति शास्त्रान्तरसिद्धयोर्निवीतप्राचीनावीतयोः परामर्श इति ॥ १९ ॥
विधिर्वा धारणवत् ।
यद्यपि ब्रह्मसंस्थत्वस्तुतिपरतयास्य सन्दर्भस्यैकवाक्यता गम्यते । सम्भवन्त्यां चैकवाक्यतायां वाक्यभेदोऽन्याय्यः । तथाप्याश्रमान्तराणां पूर्वसिद्धेरभावात्परामर्शानुपपत्तेः, अपरामर्शे च स्तुतेरसम्भवेन किम्परतया एकवाक्यतास्त्विति तां भङ्क्त्वा धारणवद्वरमपूर्वत्वाद्विधिरेवास्तु । यथा “अधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयति” इत्यत्र सत्यामप्यधोधारणेनैकवाक्यताप्रतीतौ विधीयत एवोपरिधारणमपूर्वत्वात् । तथोक्तम् “विधिस्तु धारणेऽपूर्वत्वात्”(जै. सू. ३ । ४ । १५) इति । तथेहाप्याश्रमान्तरपरामर्शश्रुतिर्विधरेवेति कल्प्य्ते । सम्प्रति परामर्शेऽपीतरेषामाश्रमाणां ब्रह्मसंस्थता संस्तवसामर्थ्यादेव विधातव्या ।
न खल्वविधेयं संस्तूयते तदर्थत्वात्संस्तवस्येत्याह –
यदापीति ।
अत्रावान्तरविचारमारभते –
सा च किं चतुर्ष्विति ।
विचारप्रयोजनमाह –
यदि चेति ।
ननु अनाश्रम्येव ब्रह्मसंस्थो भविष्यतीत्यत आह –
अनाश्रयमित्वेति ।
तत्र पूर्वपक्षमाह –
तत्र तपःशब्देनेति ।
अयमभिसन्धिः । यदि तावद्ब्रह्मसंस्थ इति पदं प्रत्यस्तमितावयवार्थं परिव्राजकेऽश्वकर्णादिपदवद्रूढं तदाश्रमप्राप्तिमात्रेणैवामृतीभाव इति न तद्भावाया ब्रह्मज्ञानमपेक्षेत । तथाच नान्यः पन्था विद्यतेऽयनायेति विरोधः । नच सम्भत्यवयवार्थे समुदायशक्तिकल्पना । तस्माद्ब्रह्मणि संस्थास्येति । ब्रह्मसंस्थः । एवंच चतुर्ष्वाश्रमेषु यस्यैव ब्रह्मणि निष्ठत्वमाश्रमिणः स ब्रह्मसंस्थोऽमृतत्वमेतीति युक्तम् । तत्र तावद्ब्रह्मचारिगृहस्थौ स्वशब्दाभिहितौ तपःपदेन च तपःप्रधानतया भिक्षुवानप्रस्थावुपस्थापितौ । भिक्षुरपि हि समाधिकशौचाष्टग्रासीभोजननियमाद्भवति वानप्रस्थवत्तपःप्रधानः । नच गृहस्थादेः कर्मिणो ब्रह्मनिष्ठत्वासम्भवः । यदि तावत्कर्मयोगः कर्मिता सा भिक्षोरपि कायवाङ्मनोभिरस्ति । अथ ये न ब्रह्मार्पणेन कर्म कुर्वन्ति किन्तु कामार्थितया ते कर्मिणः । तथा सति गृहस्थादयोऽपि ब्रह्मार्पणेन कर्म कुर्वाणा न कर्मिणः । तस्माद्ब्रह्मणि तात्पर्यं ब्रह्मनिष्ठता न तु कर्मत्यागः । प्रमाणविरोधात् । तपसा च द्वयोराश्रमयोरेकीकरणेन त्रय इति त्रित्वमुपपद्यते । एवंच त्रयोऽप्याश्रमा अब्रह्मसंस्थाः सन्तः पुण्यलोकभाजो भवन्ति यः पुनरेतेषु ब्रह्मसंस्थः सोऽमृतत्वभागिति । नच येषां पुण्यलोकभाक्त्वं तेषामेवामृतत्वमिति विरोधः । यथा देवदत्तयज्ञदत्तौ मन्दप्रज्ञावभूतां सम्प्रति तयोर्यज्ञादत्तस्तु शास्त्राभ्यासात्पटुप्रज्ञो वर्तते इति तथेहापि य एवाब्रह्मसंस्थाः । पुण्यलोकभाजस्त एव ब्रह्मसंस्था अमृतत्वभाज इत्यवस्थाभेदादविरोधः । तथाच ब्रह्मसंस्थ इति यौगिकं पदं प्रकृतविषयं भविष्यति । यथा आग्नेय्याग्नीध्रमुपतिष्ठत इत्यत्र विनियुक्तापि प्रकृतैवाग्नेयी गृह्यते । नच विनियुक्तविनियोगविरोधः । यदि ह्यत्राग्नोत्युपदिश्येत ततो यथा प्रतीता तथोद्दिश्येत । विनियुक्ता च प्रतीतिर्भवेदिति विनियुक्तविनियोगविरोधः । इह तु आग्नीध्रोपस्थाने सा विधेयत्वेन विनियुज्यते । न तूद्दिश्यते । विधेयत्वेन च विनियोगे आग्नेयीपदार्थापेक्षणात्प्रकृतातिक्रमे प्रमाणाभावात् । तावता च शास्त्रोपपत्तेर्नाप्रकृतानामपि ग्रहणसम्भवः । नच यातयामतया न विनियोगः । वाचस्तोमे सर्वेषामेव मन्त्राणां विनियोगादन्यत्राप्यविनियोगप्रसङ्गात् । तथेहापि प्रकृता एवाश्रमा बुद्धिविपरिवर्तिनः परामृश्यन्ते नानुक्तः परिव्राडेवेति पूर्वः पक्षः ।
राद्धान्तमुपक्रमते –
तदयुक्तम् । नहि सत्यां गतौ वानप्रस्थविशेषणेनेति ।
यथोपक्रान्तं तथैव परिसमापनमुचितम् । यत्सङ्ख्याकाश्च ये प्रसिद्धास्ते तत्सङ्ख्याका एव कीर्त्यन्ते इति चोचितम् । न तु सत्यां गतावुत्सर्गस्यापवादो युज्यते । असाधारणेनैकैकेन लक्षणेनैकेक आश्रमो वक्तुमुपक्रान्त इति तथैव समापनमुचितम् । न तु साधारणासाधारणाभ्यामुपक्रमसमाप्ती श्लिष्येते ।
नच तपो नाम नासाधारणं वानप्रस्थानामित्यत आह –
तपश्चासाधारण इति ।
न खलु पराकादिभिः कायक्लेशप्रधानो यथा वानप्रस्थस्तथा भिक्षुः सत्यप्यष्टग्रासादिनियमे । नच शौचसन्तोषशमदमादयस्तपः पक्षे वर्तन्ते तत्र वृद्धानां तपःप्रसिद्धेरसिद्धेः । अत एव वृद्धास्तपसो भेदेन शौचादीनाचक्षते “शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः” इति ।
सिद्धसङ्ख्याभेदेषु च सङ्ख्यान्तराभिधानमाश्लिष्टमित्याह –
चतुष्ट्वेन चेति ।
अपिच भेदव्यपदेशोऽत्रेति ।
त्रय एत इति किं भिक्षुरपि परामृश्यते किन्त्वा भिक्षुवर्जं त्रय एव । न तावन्त्रय इति भिक्षुसङ्ग्रहे तद्वर्जनमेते त्रय इत्यत्र कर्तुं शक्यम् । एत इति प्रकृतानां साकल्येन परामर्शाद्भिक्षुसङ्ग्रहे च न तस्य पुण्यलोकत्वमब्रह्मसंस्थात्वाभावाद्भिक्षोः । तेन तस्य ब्रह्मसंस्थस्य सदा पुण्यलोकत्वममृतत्वं चेति विरोधः । त्रिषु च ब्रह्मसंस्थपदे यदेति सम्बन्धनीयम् । भिक्षौ च सदेति वैषम्यम् ।
तदिदमुक्तम् –
पृथक्त्वे चेति ।
पूर्वपक्षाभासं स्मारयति –
कथं पुनर्ब्रह्मसंस्थशब्दो योगादिति ।
तन्निराकरोति –
अत्रोच्यत इति ।
अयमभिसन्धिः । सत्यं यौगिकः शब्दः सति प्रकृतसम्भवे न तदतिपत्त्याप्रकृते वर्तितुमर्हति । असति तु सम्भवे मा भूत्प्रमादपाठ इत्यप्रकृते वर्तयितव्यः, दर्शितश्चात्रासम्भवेऽधस्तादिति । एष हि ब्रह्मसंस्थतालक्षणो धर्मो भिक्षोरसाधारण आश्रमान्तराणि तत्संस्थान्यतत्संस्थानि च भिक्षुस्तत्संस्थ इत्येव । तत्संस्थता हि स्वाभावं व्यवच्छिन्दन्ती विरोधाद्यस्तत्संस्थ एव तत्राञ्जसी नान्यत्र ।
शमदमादिस्तु तदीय इति ।
स्वाङ्गमव्यवधायकमित्यर्थः ।
ब्रह्मसंस्थत्वमसाधारणं परिव्राजकधर्मं श्रुतिरादर्शयतीत्याह –
तथाच न्यास इति ब्रह्मेति ।
सर्वसङ्गपरित्यागो हि न्यासः स ब्रह्मा कुत इत्यत आह –
ब्रह्मा हि परः ।
अतः परो न्यासो ब्रह्मेति ।
किमपेक्ष्य परः संन्यास इत्यत आह –
तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयदिति ।
एतदुक्तं भवति - ब्रह्मपरतया सर्वेषणापरित्यागलक्षणो न्यासो ब्रह्मेति । तथा चेदृशं न्यासलक्षणं ब्रह्मसंस्थत्वं भिक्षोरेवासाधारणं नेतरेषामाश्रमिणाम् । ब्रह्मज्ञानस्य शब्दजनितस्य यः परिपाकः साक्षात्कारोऽपवर्गसाधनं तदङ्गतया पारिव्राज्यं विहितम् । न त्वनधिकृतं प्रतीत्यर्थः ॥ २० ॥
स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ।
यद्यत्र संनिधान उपासनाविधिर्नास्ति ततः प्रदेशान्तरस्थितोऽपि विधिव्यभिचारिततद्विधिसम्बन्धेनोद्गीथेनोपस्थापितः स एष रसानां रसतम इत्यादिना पदसन्दर्भेणैकवाक्यभावमुपगतः स्तूयते । नहि समभिव्याहृतैरेवैकवाक्यता भवतीति कश्चिन्नियमहेतुरस्ति । अनुषङ्गातिदेशलब्धैरपि विध्यसमभिव्याहृतैरर्थवादैरेकवाक्यताभ्युपगमात् । यदि तूद्गीथमुपासीत सामोपासीतेत्यादिविधिसमभिव्याहारः श्रुतस्तथापि तस्यैव विधेः स्तुतिर्न तूपासनाविषयसमर्पणपर ओमित्येतदक्षरमुद्गीथमित्यनेनैवोपासनाविषयसमर्पणादिति प्राप्तेऽभिधीयतेन तावद्दूरस्थेन कर्मविधिवाक्येनैकवाक्यतासम्भवः । प्रतीतसमभिव्याहृतानां विधिनैकवाक्यतया स्तुत्यर्थत्वमर्थवादानां रक्तपटन्यायेन भवति । न तु स्तुत्या विना काचिदनुपपत्तिर्विधेः । यथाहुः “अस्ति तु तदित्यतिरेके परिहारः” इति । अत एव विधेरपेक्षाभावात्प्रवर्तनात्मकस्यानुषङ्गतिदेशादिभिरर्थवादप्राप्त्यभिधानमसमञ्जसम् । नहि कर्त्रपेक्षितोपायामवगतायां प्राशस्त्यप्रत्ययस्यास्ति कश्चिदुपयोगः । तस्माद्दूरस्थस्य कर्मविधेः स्तुतावानर्थक्यम् । तेनैकवाक्यतानुपपत्तेः संनिहितस्य तूपासनाविधेः किं विषयसमर्पणेनोपयुज्यतामुत स्तुत्येति विशये विषयसमर्पणेन यथार्थवत्त्वं नैवं स्तुत्या बहिरङ्गत्वात् । अगत्या हि सा । तस्मादुपासनार्था इति सिद्धम् । “कुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम् । एतत्स्यात्सर्ववेदेषु नियतं विधिलक्षणम् ॥” भावनायाः खलु कर्तृसमीहितानुकूलत्वं विधिर्निषेधश्च कर्तुरहितानुकूलत्वम् । यथाहुः“कर्तव्यश्च सुखफलोऽकर्तव्यो दुःखफलः” इति । एतच्चास्माभिरुपपादितं न्यायकणिकायाम् । क्रिया च भावना तद्वचनाश्च करोत्यादयः । यथाहुःकृभ्वस्तयः क्रियासामान्यवचना इति । अत एव कृभ्वस्तीनुदाहृतवान् । सामान्योक्तौ तद्विशेषाः पचेदित्यादयोऽपि गम्यन्त इति तत्र कुर्यादित्याक्षिप्तकर्तृका भावना । क्रियेतेति आक्षिप्तकर्मिका भावना । कर्तव्यमिति तु कर्मभूतद्रव्योपसर्जनभावना । एवं दण्डी भवेद्दण्डिना भवितव्यं दण्डिना भूयेतेत्येकधात्वर्थविषया विध्युपहिता भावना उदाहार्याः । भवतिश्चैष जन्मनि । यथा कुलालव्यापाराद्घटो भवति बीजादङ्कुरो भवतीति प्रयुञ्जते । नच बीजादङ्कुरोऽस्तीति प्रयुञ्जते । तस्मादस्ति सत्तायां न जन्मनीति ॥ २१ ॥
भावशब्दाच्च ॥ २२ ॥
पारिप्लवार्था इति चेन्न विशेषितत्वात् ।
यद्यपि उपनिषदाख्यानानि विद्यासंनिधौ श्रुतानि तथापि “सर्वाण्याख्यानानि पारिप्लवे” इति सर्वश्रुत्या निःशेषार्थतया दुर्बलस्य संनिधेर्बाधितत्वात्पारिप्लवार्थान्येवाख्यानानि । नच सर्वा दाशतयीरनुब्रूयादिति विनियोगेऽपि दाशतयीनां प्रातिस्विकविनियोगात्तत्र तत्र कर्मणि यथा विनियोगो न विरुध्यते तथेहापि सत्यपि पारिप्लवे विनियेगे संनिधानाद्विद्याङ्गत्वमपि भविष्यतीति वाच्यम् । दाशतयीषु प्रातिस्विकानां विनियोगानां समुदायविनियोगस्य च तुल्यबलत्वादिह तु संनिधानात्श्रुतेर्बलीयस्त्वात् । तस्मात्पारिप्लवार्थान्येवाख्यानानीति प्राप्त उच्यते - नैषामाख्यानानां पारिप्लवे विनियोगः । किन्तु पारिप्लवमाचक्षीतेत्युपक्रम्य यान्याम्नातानि मनुर्वैवस्वतो राजेत्यादीनि तेषामेव तत्र विनियोगः, तान्येव हि पारिप्लवेन विशेषितानि । इतरथा पारिप्लवे सर्वाण्याख्यानानित्येतावतैव गतत्वात्पारिप्लवमाचक्षीतेत्यनर्थकं स्यात् । आख्यानविशेषणत्वे त्वर्थवत् । तस्माद्विशेषाणानुरोधात्सर्वशब्दस्तदपेक्षो न त्वशेषवचनः । यथा सर्वे ब्राह्मणा भोजयितव्या इत्यत्र निमन्त्रितापेक्षः सर्वशब्दः । तथा चोपनिषदाख्यानानां विद्यासंनिधिरप्रतिद्वन्दीं विद्यैकवाक्यतां सोऽरोदीदित्यादीनामिव विद्येकवाक्यत्वं गमयतीति सिद्धम् । प्रतिपत्तिसौकर्याच्चेत्युपाख्यानेन हि बाला अप्यवधीयन्ते यथा तन्त्रोपाख्यायिकयेति ॥ २३ ॥
तथा चैकवाक्यतोपबन्धात् ॥ २४ ॥
अत एव चाग्नीन्धनाद्यनपेक्षा ।
विद्यायाः क्रत्वर्थत्वे सति तथा क्रतूपकरणाय स्वकार्याय क्रतुरपेक्षितः । तदभावे कस्योपकारो विद्ययेति । यदा तु पुरुषार्था तदा नानया क्रतुरपेक्षितः स्वकार्ये निरपेक्षाया एव तस्याः सामर्थ्यात् ।
अग्नीन्धानादिना चाश्रमकर्माण्युपलक्ष्यन्ते तदाहअग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीति ।
स्वार्थसिद्धौ नापेक्षितव्यानि न तु स्वसिद्धाविति । एतच्चाधिकमुपरिष्टाद्वक्ष्यते । तद्विवक्षया चैतत्प्रयोजनं पूर्वतनस्याधिकरणस्योक्तम् ॥ २५ ॥
अधिकविवक्ष्येति यदुक्तं तदधिकमाह –
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ।
यथा स्वार्थसिद्धौ नापेक्ष्यन्ते आश्रमकर्माणि एवमुत्पत्तावपि नापेक्ष्येरन्निति शङ्का स्यात् । नच विविदिषन्ति यज्ञेनेत्यादिविरोधः । नह्येष विधिरपि तु वर्तमानापदेशः । स च स्तुत्याप्युपपद्यते । अपिच चतस्रः प्रतिपत्तयो ब्रह्मणि । प्रथमा तावदुपनिषद्वाक्यश्रवणमात्राद्भवति यां किलाचक्षते श्रवणमिति । द्वितीया मीमांसासहिता तस्मादेवोपनिषद्वाक्याद्यामाचक्षते । मननमिति । तृतीया चिन्ता । सन्ततिमयी यामाचक्षते निदिध्यासनमिति । चतुर्थी साक्षात्कारवती वृत्तिरूपा नान्तरीयकं हि तस्याः कैवल्यमिति । तत्राद्ये तावत्प्रतिपत्ति विदितपदतदर्थस्य विदितवाक्यगतिगोचरन्यायस्य च पुंस उपपद्येते एवेति न तत्र कर्मापेक्षा । ते एव च चिन्तामयीं तृतीयां प्रतिपत्तिं प्रसुवाते इति न तत्रापि कर्मापेक्षा । सा चादरनैरन्तर्यदीर्घकालसेविता साक्षात्कारवतीमाधत्त एव प्रतिपत्तिं चतुर्थीमिति न तत्राप्यस्ति कर्मापेक्षा । तन्नान्तरीयकं च कैवल्यमिति न तस्यापि कर्मापेक्षा । तदेवं प्रमाणतश्च प्रमेयत उत्पत्तौ च कार्ये च न ज्ञानस्य कर्मापेक्षेति बीजं शङ्कायाम् । एवं प्राप्त उच्यते - उत्पत्तौ ज्ञानस्य कर्मापेक्षा विद्यते विविदिषोत्पादद्वारा “विविदिषन्ति यज्ञेन”(बृ. उ. ४ । ४ । २२) इति श्रुतेः । न चेदं वर्तमानापदेशत्वात्स्तुतिमात्रमपूर्वत्वादर्थस्य । यथा यस्य पर्णमयी जुहूर्भवतीति पर्णमयताविधिरपूर्वत्वान्न त्वयं वर्तमानापदेशः, अनुवादानुपपत्तेः । तस्मादुत्पत्तौ विद्यया शमादिवत्कर्माण्यपेक्ष्यन्ते । तत्राप्येवंविदिति विद्यास्वरूपसंयोगादन्तरङ्गाणि विद्योत्पादे शमादीनि, बहिरङ्गाणि कर्माणि विविदिषासंयोगात् । तथाहि - आश्रमविहितनित्यकर्मानुष्ठानाद्धर्मसमुत्पादस्ततः पाप्मा विलीयते । स हि तत्त्वतोऽनित्याशुचिदुःखानात्मनि संसारे सति नित्यशुचिसुखात्मलक्षणेन विभ्रमेण मलिनयति चित्तसत्त्वमधर्मनिबन्धनत्वाद्विभ्रमाणाम् । अतः पाप्मनः प्रक्षये प्रत्यक्षोपपत्तिद्वारापावरणे सति प्रत्यक्षोपपत्तिभ्यां संसारस्य तात्त्विकीमनित्याशुचिदुःखरूपतामप्रत्यूहं विनिश्चिनेति । ततोऽस्मिन्ननभिरतिसंज्ञं वैराग्यमुपजायते । ततस्तज्जिहासास्योपावर्तते । ततो हानोपायं पर्येषते पर्येषमाणश्चात्मतत्त्वज्ञानमस्योपाय इति शास्त्रादाचार्यवचनाच्चोपश्रुत्य तज्जिज्ञासत इति विविदिषोपहारमुखेनात्मज्ञानोत्पत्तावस्ति कर्माणामुपयोगः । विविदिषुः खलु युक्त एकाग्रतया श्रवणमनने कर्तुमुत्सहते । ततोऽस्यऽतत्त्वमसिऽइतिवाक्यन्निर्विचिकित्सं ज्ञानमुत्पद्यते । नच निर्विचिकित्सं तत्त्वमसीति वाक्यार्थमवधारयतः कर्मण्यधिकारोऽस्ति । येन भावनायां वा भावनाकार्ये वा साक्षात्कारे कर्मणामुपयोगः । एतेन वृत्तिरूपसाक्षात्कारकार्येऽपवर्गे कर्मणामुपयोगो दूरनिरस्तो वेदितव्यः । तस्माद्यथैव शमदमादयो यावज्जीवमनुवर्तन्ते एवमाश्रमकर्मापीत्यसमीक्षिताभिधानम् । विदुषस्तत्रानधिकारादित्युक्तम् । दृष्टार्थेषु तु कर्मसु प्रतिषिद्धवर्जनमनधिकारेऽप्यसक्तस्य स्वारसिकी प्रवृत्तिरुपपद्यत एव । नहि तत्रान्वयव्यतिरेकसमधिगमनीयफलेऽस्ति विध्यपेक्षा । अतश्च “भ्रान्त्या चेल्लौकिकं कर्म वैदिकं च तथास्तु ते” इति प्रलापः । शमदमादीनां तु विद्योत्पादायोपात्तानामुपरिष्टादवस्थास्वाभाव्यादनपेक्षितानामप्यनुवृत्तिः । उपपादितं चैतदस्माभिः प्रथमसूत्र इति नेह पुनः प्रत्याप्यते । तस्माद्विविदिषोत्पादद्वाराश्रमकर्मणां विद्योत्पत्तावुपयोगो न विद्याकार्य इति सिद्धम् । शेषमतिरोहितार्थम् ॥ २६ ॥
शमदमाद्युपेतस्स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात् ॥ २७ ॥
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ।
प्राणसंवादे सर्वेन्द्रियाणां श्रूयते । एष किल विचारविषयः सर्वाणि खलु वागादीन्यवजित्य प्राणो मुख्य उवाचैतानि किं मेऽन्नं भविष्यतीति, तानि होचुः । यदिदं लोकेऽन्नमा च श्वभ्य आ च शकुनिभ्यः सर्वप्राणिनां यदन्नं तत्तवान्नमिति । तदनेन सन्दर्भेण प्राणस्य सर्वमन्नमित्यनुचिन्तनं विधायाह श्रुतिः “न ह वा एवंविदि किञ्चनानन्नं भवति”(छा. उ. ५ । २ । १) इति । सर्वं प्राणस्यान्नमित्येवंविदि न किञ्चिनानन्नं भवतीति । तत्र संशयः - किमेतत्सर्वान्नाभ्यनुज्ञानं शमादिवदेतद्विद्याङ्गतया विधीयत उत स्तुत्यर्थं सङ्कीर्त्यत इति । तत्र यद्यपि भवतीति वर्तमानापदेशान्न विधिः प्रतीयते । तथापि यथा यस्य पर्णमयी जुहूर्भवतीति वर्तमानापदेशादपि पलाशमयीत्वविधिप्रतिपत्तिः पञ्चमलकारापत्त्या तथेहापि प्रवृत्तिविशेषकरतालाभे विधिप्रतिपत्तिः । स्तुतौ हि अर्थवादमात्रं न तथार्थवद्यथा विधौ । भक्ष्याभक्ष्यशास्त्रं च सामान्यतः प्रवृत्तमनेन विशेषशास्त्रेण बाध्यते । गम्यागम्यविवेकशास्त्रमिव सामान्यतः प्रवृत्तं वामदेवविद्याङ्गभूतसमस्तस्त्र्यपरिहारशास्त्रेण विशेषविषयेणेति प्राप्त उच्यते अशक्तेः कल्पनीयत्वाच्छास्त्रान्तरविरोधतः । प्राणस्यान्नमिदं सर्वमिति चिन्तनसंस्तवः ॥ न तावत्कौलेयकमर्यादमन्नं मनुष्यजातिना युगपत्पर्यायेण वा शक्यमत्तुम् । इभकरभकादीनामन्नस्य शमीकरीरकण्टकवटकाष्ठादेरेकस्यापि अशक्यादनत्वात् । न चात्र लिङ्ग इव स्फुटतरा विधिप्रतिपत्तिरस्ति । नच कल्पनीयो विधिरपूर्वत्वाभावात् । स्तुत्यापि च तदुपपत्तेः । नच सत्यां गतौ सामान्यतः प्रवृत्तस्य शास्त्रस्य विषयसङ्कोचो युक्तः । तस्मात्सर्वं प्राणस्यान्नमित्यनुचिन्तनविधानस्तुतिरिति साम्प्रतम् । शक्यत्वे च प्रवृत्तिविशेषकरतोपयुज्यते नाशक्यविधानत्वे । प्राणात्यय इति चावधारणपरं प्राणात्यय एव सर्वान्नत्वम् । तत्रोपाख्यानाच्च स्फुटतरविधिस्मृतेश्च सुरावर्जं विद्वांसमविद्वांसं प्रति विधानात् । न त्वन्यत्रेति । इभ्येन हस्तिपकेन सामिस्वादितान् अर्धभक्षितान् । स हि चाक्रायणो हस्तिपकोच्छिष्टान्कुल्माषान्भुञ्जानो हस्तिपकेनोक्तः । कुल्माषानिव मदुच्छिष्टमुदकं कस्मान्नानुपिबसीति । एवमुक्तस्तदुदकमुच्छिष्टदोषात्प्रत्याचचक्षे । कारणं चात्रोवाच । न वाजीविष्यं न जीविष्यामीतीमान्कुल्माषानखादम् । कामो म उदकपानमिति स्वातन्त्र्यं मे उदकपाने नदीकूपतडागप्रापादिषु यथाकामं प्राप्नोमीति नोच्छिष्टोदकाभावे प्राणात्यय इति तत्रोच्छिष्टभक्षणदोष इति मटचीहतेषु कुरुषु ग्लायन्नशनायया मुनिर्निरपत्रप इभ्येन सामिजग्धान्खादयामास ॥ २८ ॥
अबाधाच्च ॥ २९ ॥
अपि च स्मर्यते ॥ ३० ॥
शब्दश्चातोऽकामकारे ॥ ३१ ॥
विहितत्वाच्चाश्रमकर्मापि ।
नित्यानि ह्याश्रमकर्माणि यावज्जीवश्रुतेर्नित्येहितोपायतयावश्यं कर्तव्यानि । विविदिषन्तीति च विद्यासंयोगाद्विद्यायाश्चावश्यम्भावनियमाभावादनित्यता प्राप्नोति । नित्यानित्यसंयोगश्चैकस्य न सम्भवति, अवश्यानवश्यम्भावयोरेकत्र विरोधात् । नच वाक्यभेदाद्वास्तवो विरोधः शक्योऽपनेतुम् । तस्मादनध्यवसाय एवात्रेति प्राप्तम् । एतेन “एकस्य तूभयत्वे संयोगपृथक्त्वम्” इत्याक्षिप्तम् । एवं प्राप्तेऽभिधीयते - सिद्धे हि स्याद्विरोधोऽयं न तु साध्ये कथञ्चन । विध्यधीनात्मलाभेऽस्मिन् यथाविधि मता स्थितिः ॥ सिद्धं हि वस्तु विरुद्धधर्मयोगेन बाध्यते । न तु साध्यरूपं यथा षोडशिन एकस्य ग्रहणाग्रहणे । ते हि विध्यधीनत्वाद्विकल्पेते एव । न पुनः सिद्धे विकल्पसम्भवः । तदिहैकमेवाग्निहोत्राख्यं कर्म यावज्जीवश्रुतेर्निमित्तेन युज्यमानं नित्येहितोपात्तदुरितप्रक्षयप्रयोजनमवश्यकर्तव्यं, विद्याङ्गतया च विद्यायाः कादाचित्कतयानवश्यं भावेऽपि “काम्यो वा नैमित्तिको वा नित्यमर्थं विकृत्य निविशते” इति न्यायादनित्याधिकारेण निविशमानमपि न नित्यमनित्ययति, तेनापि तत्सिद्धेरिति संयोगपृथक्त्वान्न नित्यानित्यसंयोगविरोध एकस्य कार्यस्येति सिद्धम् । सहकारित्वं च कर्मणां न कार्ये विद्यायाः किं तूत्पत्तौ । कोऽर्थो विद्यासहकारीणि कर्माणीति । अयमर्थः सत्सु कर्मसु विद्यैव स्वकार्ये व्याप्रियते । यथा “सहैव दशभिः पुत्रैर्भारं वहति गर्दभी” इति सत्स्वेव दशपुत्रेषु सैव भारस्य वाहिकेति ।
अविधिलक्षणत्वादिति ।
विहितं हि दर्शपौर्णमासाद्यङ्गैर्युज्यते न त्वविहितम् । ग्राहकग्रहणपूर्वकत्वादङ्गभावस्य विधैश्च ग्राहकत्वात् । अविहिते च तदनुपपत्तेः । चतसृणामपि च प्रतिपत्तीनां ब्रह्मणि विधानानुपपत्तेरित्युक्तं प्रथमसूत्रे । द्रष्टव्यो निदिध्यासितव्य इति च विधिसरूपं न विधिरित्यप्युक्तम् । उत्पत्तिं प्रति हेतुभावस्तु सत्त्वशुद्ध्या विविदिषोपजनद्वारेत्यधस्तादुपपादितम् । असाध्यत्वाच्च विद्याफलस्यापवर्गस्य स्वरूपावस्थानलक्षणो हि सः । नच स्वं रूपं ब्रह्मणः साध्यं नित्यत्वात् । शेषमतिरोहितार्थम् ॥ ३२ ॥
सहकारित्वेन च ॥ ३३ ॥
सर्वथापि त एवोभयलिङ्गात् ।
यथा मासमग्निहोत्रं जुह्वतीति प्रकरणान्तरात्कर्मभेद एवमिहापि “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन”(बृ. उ. ४ । ४ । २२) इति क्रतुप्रकरणमतिक्रम्यश्रवणात्प्रकरणान्तरात्तद्बुद्धिव्यवच्छेदे सति कर्मान्तरमिति प्राप्त उच्यतेसत्यपि प्रकरणान्तरे तदेव कर्म, श्रुतेः स्मृतेश्च संयोगभेदः परं यथा “अग्निहोत्रं जुहुयात्स्वर्गकामः” “यावज्जीवमग्निहोत्रं जुहुयात्” इति तदेवाग्निहोत्रमुभयसंयुक्तम् । नहि प्रकरणान्तरं साक्षाद्भेदकम् । किन्तु अज्ञातज्ञापनस्वरसो विधिः प्रकरणैक्ये स्फुटतरप्रत्यभिज्ञाबलेन स्वरसं जह्यात् । प्रकरणान्तरेण तु विघटितप्रत्यभिज्ञानः स्वरसमजहत्कर्म भिनत्ति । इह तु सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुञ्जानो न जुह्वतीत्यादिवदपूर्वमेषां रूपमुत्पादयितुमर्हति । नच तत्रापि नैयमिकाग्निहोत्रे मासविधिर्नापूर्वाग्निहोत्रोत्पत्तिरिति साम्प्रतम् । होम एव साक्षाद्विधिश्रुतेः । कालस्य चानुपादेयस्याविधेयत्वात् । काले हि कर्म विधीयते न कर्मणि काल इत्युत्सर्गः । इह तु विविदिषायां विधिश्रुतिः न यज्ञादौ । तानि तु सिद्धान्येवानूद्यन्त इत्यैककर्म्यात्संयोगपृथक्त्वं सिद्धम् । स्मृतिमुक्त्वा लिङ्गदर्शनमुक्तम् ॥ ३४ ॥
अनभिभवं च दर्शयति ॥ ३५ ॥
अन्तरा चापि तु तद्दृष्टेः ।
यदि विद्यासहकारीण्याश्रमकर्माणि हन्त भो विधुरादीनामनाश्रमिणामनधिकारो विद्यायाम् , अभावात्सहकारिणामाश्रमकर्मणामिति प्राप्त उच्यतेनात्यन्तमकर्माणो विधुररैक्ववाचक्रवीप्रभृतयः । सन्ति हि तेषामनाश्रमित्वेऽपि जपोपवासदेवताराधनादीनि कर्माणि । कर्मणां च सहकारित्वमुक्तमाश्रमकर्मणामुपलक्षणत्वादिति न तेषामनधिकारो विद्यासु ।
जन्मान्तरानुष्ठितेरपि चेति ।
न खलु विद्याकार्ये कर्मणामपेक्षा । अपितु उत्पादे । उत्पादयन्ति च विविदिषोपहारेण कर्माणि विद्याम् । उत्पन्नविविदिषाणां पुरुषधौरेयाणां विधुरसंवर्तप्रभृतीनां कृतं कर्मभिः । यद्यपि चेह जन्मनि कर्माण्यननुष्ठितानि तथापि विविदिषातिशयदर्शनात्प्राचि भवेऽनुष्ठितानि तैरिति गम्यत इति ।
ननु यथाधीतवेद एव धर्मजिज्ञासायामधिक्रियते नानधीतवेद इह जन्मनि । तथेह जन्मन्याश्रमकर्मोत्पादितविविदिष एव विद्यायामधिकृतो नेतर इत्यनाश्रमिणामनधिकारो विधुरप्रभृतीनामित्यत आह –
दृष्टार्था चेति ।
अविद्यानिवृत्तिर्विद्याया दृष्टोऽर्थः । स चान्वयव्यतिरेकसिद्धो न नियममपेक्षत इत्यर्थः । प्रतिषेधो विधातस्तस्याभाव इत्यर्थः ॥ ३६ ॥
अपि च स्मर्यते ॥ ३७ ॥
विशेषानुग्रहश्च ॥ ३८ ॥
यद्यनाश्रमिणामप्यधिकारो विद्यायां कृतं तर्ह्याश्रमैरतिबहुलायासैरित्याशङ्क्याह –
अतस्त्वितरज्ज्यायो लिङ्गाच्च ।
स्वस्थेनाश्रमित्वमास्थेयम् । दैवात्पुनः पत्न्यादिवियोगातः सत्यनाश्रमित्वे भवेदधिकारो विद्यायामिति श्रुतिस्मृतिसन्दर्भेण विविदिषन्ति यज्ञेनेत्यादिना ज्यायस्त्वावगतेः श्रुतिलिङ्गात्स्मृतिलिङ्गाच्चावगम्यते । तेनैति पुण्यकृदिति श्रुतिलिङ्गम् , अनाश्रमी न तिष्ठेतेत्यादि च स्मृतिलिङ्गम् ॥ ३९ ॥
तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः ।
आरोहवत्प्रत्यवरोहोऽपि कदाचिदूर्ध्वरेतसां स्यादिति मन्दाशङ्कानिवारणार्थमिदमधिकरणम् । पूर्वधर्मेषु यागहोमादिषु । रागतो वा गृहस्थोऽहं पत्न्यादिपरिवृतः स्यामिति ।
नियमं व्याचष्टे –
तथाहि अत्यन्तमात्मानमिति ।
अतद्रूपतामारोहतुल्यताभावं व्याचष्टे –
यथाच ब्रह्मचर्यं समाप्येति ।
अभावं शिष्टाचाराभावं विभजते –
न चैवमाचाराः शिष्टा इति ।
अतिरोहितार्थमन्यत् ॥ ४० ॥
न चाधिकारिकमपि पतनानुमानात्तदयोगात् ।
प्रायश्चित्तं न पश्यामीति नैष्ठिकं प्रति प्रायश्चित्ताभावस्मरणान्नैरृतगर्दभालम्भः प्रायश्चित्तमुपकुर्वाणकं प्रति । तस्माच्छिन्नशिरस इव पुंसः प्रतिक्रियाभाव इति पूर्वः पक्षः । सूत्रयोजना तु न चाधिकारिकमधिकारलक्षणे प्रथमकाण्डे निर्णीतम् “अवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात्”(जै.सू. ६ । ८ । ४ । २२) इत्यनेन यत्प्रायश्चित्तं तन्न नैष्ठिके भवितुमर्हति । कुत आरूढो नैष्ठिकमिति स्मृत्या पतनश्रुत्यनुमानात्तत्प्रायश्चित्तायोगात् ॥ ४१ ॥
उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ।
श्रुतिस्तावत्स्वरसतोऽसङ्कुचद्वृत्तिर्ब्रह्मचारिमात्रस्य नैष्ठिकस्योपकुर्वाणस्य चाविशेषेण प्रायश्चित्तमुपदिशति साक्षात् । प्रायश्चित्तं न पश्यामीति तु स्मृतिः । तस्यामपि च साक्षात्प्रायश्चित्तं न कर्तव्यमिति प्रायश्चित्तनिषेधो न गम्यते, न पश्यामीति तु दर्शनाभावेन सोऽनुमातव्यः । तथा च स्मृतिर्निषेधार्थेति अनुमाय तदर्था श्रुतिरनुमातव्या । श्रुतिस्तु सामान्यविषया विशेषमुपसर्पन्ती शीघ्रप्रवृत्तिरिति । स्मार्तं प्रायश्चित्तादर्शनं तु यत्नगौरवार्थम् । एतदुक्तं भवतिकृतनिर्णेजनैरपि एतैर्न सङ्ख्यानं कर्तव्यमिति । सूत्रार्थस्तु उपपूर्वमपि पातकं नैष्ठिकस्यावकीर्णित्वं न महापातकमपिरेवकारार्थे अत एके प्रायश्चित्तभावमिच्छन्तीति । आचार्याणां विप्रतिपत्तौ विशेषाभावात्साम्यं भवेत् । शास्त्रस्था या वा प्रसिद्धिः सा ग्राह्या शास्त्रमूलत्वात् । उपपादितं च प्रायश्चित्तभावप्रसिद्धेः शास्त्रमूलत्वमिति । सुगममितरत्॥ ४२ ॥
यदि नैष्ठिकादीनामस्ति प्रायश्चित्तं तत्किमेतैः कृतनिर्णेजनैः संव्यवहर्तव्यमुत नेति । तत्र दोषकृतत्वादसंव्यवहारस्य प्रायश्चित्तेन तन्निबर्हणादनिबर्हणे वा तत्करणवैयर्थ्यात्संव्यवहार्या एवेति प्राप्त उच्यते –
बहिस्तूभयथापि स्मृतेराचाराच्च ।
निषिद्धकर्मानुष्ठानजन्यमेनो लोकद्वयेऽप्यशुद्धिमापादयति द्वैधं कस्यचिदेनसो लोकद्वयेऽप्यशुद्धिरपनीयते प्रायश्चित्तैरेनोनिबर्हणं कुर्वाणैः । कस्यचित्तु परलोकाशुद्धिमात्रमपनीयते प्रायश्चित्तैरेनोनिबर्हणं कुर्वाणैरिहलोकाशुद्धिस्त्वेनसापादिता न शक्यापनेतुम् । यथा स्त्रीबालादिघातिनाम् । यथाहुः “विशुद्धानपि धर्मतो न सम्पिबेत्” इति । तथा च “प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत्” कामतः कृतमपि । बालघ्नादिस्तु कृतनिर्णेजनोऽपि वचनादव्यवहार्य इह लोके जायत इति । वचनं च बालघ्नांश्चेत्यादि । तस्मात्सर्वमवदातम् ॥ ४३ ॥
स्वामिनः फलश्रुतेरित्यात्रेयः ।
प्रथमे काण्डे शेषलक्षणे तथाकाम इत्यत्रर्त्विक्सम्बन्धे कर्मणः सिद्धे किं कामो याजमान उतार्त्विज्य इति संशय्यार्त्विज्येऽपि कर्मणि याजमान एव कामो गुणफलेष्विति निर्णीतमिह त्वेवंजातीयकानि चाङ्गसम्बद्धानि उपासनानि किं याजमानान्येवोतार्त्विज्यानीति विचार्यत इति न पुनरुक्तम् । तत्रोपासकानां फलश्रवणादनधिकारिणस्तदनुपपत्तेर्यजमानस्य च कर्मजनितफलोपभोगभाजोऽधिकारादृत्विजां च तदनुपपत्तेर्वचनाच्च राजाज्ञास्थानीयात्क्वचिदृत्विजां फलश्रुतेरसति वचने यजमानस्य फलवदुपासनं तस्य फलश्रुतेः तं ह बको दाल्भ्यो विदाञ्चकारेत्यादेरुपासनस्य च सिद्धविषयतयान्यायापवादसामर्थ्याभावाद्याजमानमेवोपासनाकर्मेति प्राप्त उच्यते ॥ ४४ ॥
आर्त्विज्यमित्यौडुलोमिः तस्मै हि परिक्रीयते ।
उपाख्यानात्तावदुपासनमौद्गात्रमवगम्यते । तद्बलवति सति बाधकेऽन्यथोपपादनीयम् । न चर्त्विक्कर्तृक उपासने यजमानगामिता फलस्यासम्भविनी तेन हि स परिक्रीतस्तद्गामिनो फलाय घटते । तस्मान्न व्यसनितामात्रेणोपाख्यानमन्यथयितुं युक्तमिति राद्धान्तः ॥ ४५ ॥
श्रुतेश्च ॥ ४६ ॥
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ।
तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य निश्चयेन । लब्ध्वा बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मण इति । यत्र हि विधिविभक्तिः श्रूयते स विधेयः । बाल्येन तिष्ठासेदित्यत्र च सा श्रूयते न श्रूयते तु मौने । तस्माद्यथाथ ब्रह्मण इत्येतदश्रूयमाणविधिकमविधेयमेवं मौनमपि । न चापूर्वत्वाद्विधेयं, तस्माद्ब्रह्मणः पाण्डित्यं निर्विद्येति पाण्डित्यविधानादेव मौनसिद्धेः पाण्डित्यमेव मौनमिति । अथवा भिक्षुवचनोऽयं मुनिशब्दस्तत्र दर्शनात् “गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थम्” इत्यत्र । तस्यान्यतो विहितस्यायमनुवादः । तस्माद्बाल्यमेवात्र विधीयते मौनं तु प्राप्तं प्रशंसार्थमनूद्यत इति युक्तम् । भवेदेवं यदि पण्डितपर्यायो मुनिशब्दो भवेत् । अपि तु ज्ञानमात्रं पाण्डित्यं ज्ञानातिशयसम्पत्तिस्तु मौनं तत्रैव तत्प्रसिद्धेः । आश्रमभेदे तु तत्प्रवृत्तिर्गार्हस्थ्यादिपदसंनिधानात् । तस्मादपूर्वत्वान्मौनस्य बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विधीयते ।
एवं च निर्वेदनीयत्वमपि विधान आञ्जसं स्यादित्याह –
निर्वेदनीयत्वनिर्देशादिति ।
कस्येदं मौनं विधीयते विद्यासहकारितयेत्यत आह –
तद्वतो विद्यावतः संन्यासिनो
भिक्षोः ।
पृच्छति –
कथमिति ।
विद्यावत्ता प्रतीयते न संन्यासितेत्यर्थः । उत्तरन्तदधिकारात्भिक्षोस्तदधिकारात् ।
तद्दर्शयति –
आत्मानं विदित्वेति ।
सूत्रावयवं योजयितुं शङ्कते –
नन्विति ।
परिहरति अत आह –
पक्षेणेति ।
विद्यावानिति न विद्यातिशयो विवक्षितः । अपि तु विद्योदयायाभ्यासे प्रवृत्तो न पुनरुत्पन्नविद्यातिशयः । तथाचास्य पक्षे कदाचिद्भेददर्शनात्सम्भव इत्यर्थः । विध्यादिर्विधिमुख्यः प्रधानमिति यावत् । अत एव समिदादिर्विध्यन्तः स हि विधिः प्रधानविधेः पश्चादिति । तत्राश्रूयमाणविधित्वेऽपूर्वत्वाद्विधिरास्थेय इत्यर्थः ॥ ४७ ॥
ननु यद्ययमाश्रमो बाल्यप्रधानः कस्मात्पुनर्गार्हस्थ्येनोपसंहरतीति चोदयति –
एवं बाल्यादिविशिष्टेति ।
उत्तरं पठति –
कृत्स्नभावात्तु गृहिणोपसंहारः ।
छान्दोग्ये बहुलायाससाध्यकर्मबहुलत्वाद्गार्हस्थ्यस्य चाश्रमान्तरधर्माणां च केषाञ्चिदहिंसादीनां समवायात्तेनोपसंहारो न पुनस्तेन समापनादित्यर्थः ॥ ४८ ॥
एवं तदाश्रमद्वयोपन्यासेन क्वचित्कदाचिदितराभावशङ्का मन्दबुद्धेः स्यादिति तदपाकरणार्थं सूत्रम् –
मौनवदितरेषामप्युपदेशात् ।
वृत्तिर्वानप्रस्थानामनेकविधैरेवं ब्रह्मचारिणोऽपीति वृत्तिभेदोऽनुष्ठातारो वा पुरुषा भिद्यन्ते, तस्माद्द्वित्वेऽपि बहुवचनमविरुद्धम् ॥ ४९ ॥
अनाविष्कुर्वन्नन्वयात् ।
बाल्येनेति यावद्बालचरितश्रुतेः कामचारवादभक्षतायाश्चात्यन्तबाल्येन प्रसिद्धेः शौचादिनियमविधायिनश्च सामान्यशास्त्रस्यानेन विशेषशास्त्रेण बाधनात्सकलबालचरितविधानमिति प्राप्तेऽभिधीयते विद्याङ्गत्वेन बाल्यविधानात्समस्तबालचर्यायां च प्रधानविरोधप्रसङ्गाद्यत्तदनुगुणमप्रौढेन्द्रियत्वादि भावशुद्धिरूपं तदेव विधीयते । एवं च शास्त्रान्तराबाधेनाप्युपपत्तौ न शास्त्रान्तरबाधनमन्याय्यं भविष्यतीति ॥ ५० ॥
ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥५१॥
सङ्गतिमाह –
सर्वापेक्षा चेति ।
किं श्रवणादिभिरिहैव वा जन्मनि विद्या साध्यते उतानियम इह वामुत्र वेति । यद्यपि कर्माणि यज्ञादीन्यनियतफलानि तेषां च विद्योत्पादसाधनत्वेन विद्योत्पादस्यानियमः प्रतिभाति । तथाच गर्भस्थस्य वामदेवस्यात्मप्रतिबोधश्रवणात् “अनेकजन्मसंसिद्धस्ततो याति परां गतिम्”(भ. गी. ६ । ४५) इति च स्मरणादामुष्मिकत्वमप्यवगम्यते । तथापि यज्ञादीनां प्रमेयाणामप्रमाणत्वाच्छ्रवणादेश्च प्रमाणत्वात्तेषामेव साक्षाद्विद्यासाधनत्वम् । यज्ञादीनां सत्त्वशुद्ध्याधानेन वा विद्योत्पादकश्रवणादिलक्षणप्रमाणप्रवृत्तिविघ्नोपशमेन वा विद्यासाधनत्वम् । श्रवणादीनां त्वनपेक्षाणामेव विद्योत्पादकत्वम् । नच प्रमाणेषु प्रवर्तमानाः प्रमातार ऐहिकमपि चिरभाविनं प्रमोत्पादं कामयन्ते किन्तु तादात्विकमेव प्रागेव तु पारलौकिकम् । नहि कुम्भलादिदृक्षुश्चक्षुषी समुन्मीलयति कालान्तरीयाय कुम्भदर्शनाय किन्तु तादात्विकाय । तस्मादैहिक एव विद्योत्पादो नानियतकालः । श्रुतिस्मृती च पारलौकिकं विद्योत्पादं स्तुत्या ब्रूतः । इत्थम्भूतानि नाम श्रवणादीन्यावश्यकफलानि यत्कालान्तरेऽपि विद्यामुत्पादयन्तीति । एवं प्राप्त उच्यते - यत एवात्र विद्योत्पादे श्रवणादिभिः कर्तव्ये यज्ञादीनां सत्त्वशुद्धिद्वारेण वा विघ्नोपशमद्वारा वोपयोगोऽत एव तेषां यज्ञादीनां कर्मान्तरप्रतिबन्धाप्रतिबन्धाभ्यामनियतफलत्वेन तदपेक्षाणां श्रवणादीनामप्यनियतफलत्वं न्याय्यमनपहतविघ्नानां श्रवणादीनामनुत्पादकत्वादविशुद्धसत्त्वाद्वा पुंसः प्रत्यनुत्पादकत्वात् । तथाच तेषां यज्ञाद्यपेक्षाणां तेषां चानियतफलत्वेन श्रवणादीनामप्यनियतफलत्वं युक्तमेवं श्रुतिस्मृतिप्रतिबन्धो न स्तुतिमात्रत्वेन व्याख्येयो भविष्यति ।
पुरुषाश्च विद्यार्थिनः साधनसामर्थ्यानुसारेण तदनुरूपमेव कामयिष्यन्ते तदिदमुक्तम् –
अभिसन्धेर्निरङ्कुशत्वादिति ॥ ५१ ॥ इति षोडशमैहिकाधिकरणम् ॥
एवं मुक्तिफलानियमस्तदवस्थावधरतेस्तदवस्थावधृतेः ॥ ५२ ॥ यज्ञाद्युपकृत-विद्यासाधनश्रवणादिवीर्यविशेषात् किल तत्फले विद्यायाम् ऐहिकामुष्मिकत्वलक्षण उत्कर्षो दर्शितः। तथा च - यथा साधनोत्कर्षनिकर्षाभ्यां तत्फलस्य विद्यायाः उत्कर्षनिकर्षौ, एवं विद्याफलस्यापि मुक्तेः उत्कर्षनिकर्षौ संभाव्येते। न च मुक्तौ ऐहिकामुष्मिकत्वलक्षणो विशेषः उपपद्यते; ब्रह्मोपासनापरिपाकलब्धजन्मनि विद्यायां जीवतो मुक्तेः अवश्यंभावनियमात् सत्यपि आरब्धविपाककर्माप्रक्षये। तस्मात् मुक्तावेव रूपतो उत्कर्षनिकर्षौ स्याताम्।। अपि च सगुणानां विद्यानाम् उत्कर्षनिकर्षाभ्यां तत्फलानाम् उत्कर्षनिकर्षौ दृष्टाविति मुक्तेरपि विद्याफलत्वात् रूपतो उत्कर्षनिकर्षौ स्यातामिति प्राप्ते उच्यते – न मुक्तेः, तत्र तत्र ऐकरूप्यश्रुतेः, उपपत्तेश्च। साध्यं हि साधनविशेषात् विशेषवद्भवति। न च मुक्तिः ब्रह्मणो नित्यस्वरूपावस्थानलक्षणा नित्या सती साध्या भवितुमर्हति । न च सवासननिःशेषक्लेशकर्माशयप्रक्षयो विद्याजन्मविशेषवान्, येन तद्विशेषान्मोक्षो विशेषवान्भवेत् । न च सावशेषः क्लेशादिप्रक्षयो मोक्षाय कल्पते। न च चिराचिरोत्पादानुत्पादावन्तरेण विद्यायामपि रूपतो भेदः कश्चिदुपलक्ष्यते, तस्या अपि एकरूपत्वेन श्रुतेः। सगुणायास्तु विद्यायाः तत्तद्गुणावापोद्वापाभ्यां तत्कार्यस्य फलस्य उत्कर्षनिकर्षो युज्येते। न चात्र विद्यात्वं सामान्यतो दृष्टं भवति। आगमतत्प्रभवयुक्तिबाधितत्वेन कालात्ययापदिष्टत्वात्। तस्मात्तस्याः मुक्त्यवस्थायाः ऐकरूप्यावधृतेः मुक्तिलक्षणस्य फलस्य अविशेषो युक्त इति॥ ५२॥ इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां तृतीयाध्यायस्य चतुर्थः पादः॥