अद्वैतशारदा

भामतीव्याख्या

तदन्तरप्रतिपत्त्यधिकरणविषयाः (२)

व्याख्याः

सम्भृ­ति­द्यु­व्या­प्त्यपि चातः ।
“ब्रह्मज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान । ब्रह्म भूतानां प्रथमं तु जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ।”(तै .ब्रा.२-४-६) ब्रह्म ज्येष्ठं येषां तानि ब्रह्मज्येष्ठा जज्ञे आस । यद्यपि तासु तासु शाण्डि­ल्या­दि­वि­द्या­स्वा­य­त­न­भे­द­प­रि­ग्र­हे­णा­ध्या­त्मि­का­य­त­नत्वं सम्भृत्यादीनां गुणा­ना­मा­धि­दै­वि­क­त्व­मि­त्या­य­त­न­भेदः प्रतिभाति, तथापि ज्यायान् दिव इत्यादिना सन्द­र्भे­णा­धि­दै­वि­क­वि­भू­ति­प्र­त्य­भि­ज्ञा­ना­त्षो­ड­श­क­ला­द्यासु च विद्या­स्वा­य­त­ना­श्र­व­णा­द­न्ततो ब्रह्माश्रयतया साम्येन प्रत्य­भि­ज्ञा­स­म्भ­वा­त्स­म्बृ­त्या­दीनां गुणानां शाण्डि­ल्या­दि­वि­द्यासु षोड­श­क­ला­दि­वि­द्यासु चोपसंहार इति पूर्वः पक्षः । राद्धान्तस्तु मिथः समानगुणश्रवणं प्रत्यभिज्ञाय यद्विद्या अपूर्वानपि तत्रा­श्रु­ता­न्गु­णा­नु­प­सं­हा­र­यति न त्विह सम्भृ­त्या­दि­गु­ण­क­ब्र­ह्म­वि­द्यायां शाण्डि­ल्या­दि­वि­द्या­ग­त­गु­ण­श्र­व­ण­मस्ति । या तु काचिदाधिदैविकी विभूतिः शाण्डि­ल्या­दि­वि­द्यायां श्रूयते तस्या­स्त­त्प्र­क­र­णा­धी­न­त्वा­त्ता­व­न्मात्रं ग्रहीष्यते नैतावन्मात्रेण सम्भृ­त्या­दी­न­नु­क्र­ष्टु­म­र्हति । तत्रै­त­त्प्र­त्य­भि­ज्ञा­ना­भा­वा­दि­त्यु­क्तम् । ब्रह्मा­श्र­य­त्वेन तु प्रत्य­भि­ज्ञा­न­स­म­र्थ­न­म­ति­प्र­स­क्तम् । भूय­सी­ना­मै­क्य­प्र­स­ङ्गात् ।

तदिदमुक्तं –
सम्भृत्यादयस्तु शाण्डि­ल्या­दि­वा­क्य­गो­च­रा­श्चेति ।
तस्मा­त्स­म्भृ­तिश्च द्युव्याप्तिश्च तदिदं सम्भृ­ति­द्यु­व्या­प्त्यपि चातः प्रत्य­भि­ज्ञा­ना­भा­वान्न शाण्डि­ल्या­दि­वि­द्या­सू­प­सं­ह्रि­यत इति सिद्धम् ॥ २३ ॥

पुरु­ष­वि­द्या­या­मिव चेत­रे­षा­म­ना­म्ना­नात् ।
पुरु­ष­य­ज्ञ­त्व­मु­भ­य­त्रा­प्य­वि­शि­ष्टम् । नच विदुषो यज्ञस्येति न सामा­ना­धि­क­र­ण्य­स­म्भवः । यज्ञ­स्या­त्मे­त्या­त्म­श­ब्दस्य स्वरूपवचनत्वात् । यज्ञस्य स्वरूपं यजमानस्तस्य च चेतनत्वाद्विदुष इति सामा­ना­धि­क­र­ण्य­स­म्भवः । तस्मा­त्पु­रु­ष­य­ज्ञ­त्वा­वि­शे­षा­न्म­र­णा­व­भृ­थ­त्वा­दि­सा­मा­न्या­च्चै­क­वि­द्या­ध्य­व­साने उभयत्र उभयधर्मोपसंहार इति प्राप्तम् । एवं प्राप्त उच्यते यादृशं ताण्डिनां पैङ्गिनां च पुरु­ष­य­ज्ञ­स­म्पा­दनं तदायुषश्च त्रेधा व्यवस्थितस्य सव­न­त्र­य­स­म्पा­द­नम् । अशिशिषादीनां च दीक्षा­दि­भा­व­स­म्पा­दनं नैवं तैत्तिरीयाणाम् । तेषां न तावत्पुरुषे यज्ञसम्पत्तिः । नह्यात्मा यजमान इत्य­त्रा­य­मा­त्म­शब्दः स्वरूपवचनः । नहि यज्ञस्वरूपं यजमानो भवति । कर्तृ­क­र्म­णो­र­भे­दा­भा­वात् । चेत­ना­चे­त­न­यो­श्चै­क्या­नु­प­पत्तेः यज्ञ­क­र्म­णो­श्चा­चे­त­न­त्वात् । यजमानस्य चेतनत्वात् । आत्मनस्तु चेतनस्य यजमानत्वं च विद्वत्त्वं चोपपद्यते । तथा चायमर्थः - एवं विदुषः पुरुषस्य यः सम्बन्धी यज्ञः तस्य सम्बन्धितया यजमान आत्मा तथा चात्मनो यजमानत्वं च विद्व­त्स­म्ब­न्धिता च यज्ञस्य मुख्ये स्याता­मि­त­र­था­त्म­श­ब्दस्य स्वरूपवाचित्वे विदुषो यज्ञस्येति च यजमानो यज्ञस्वरूपमिति च गौणे स्याताम् । नच सत्यां गतौ तद्युक्तम् । तस्मा­त्पु­रु­ष­य­ज्ञता तैत्तिरीये नास्तीति तया तावन्न साम्यम् । नच पत्नी­य­ज­मा­न­वे­द­वि­द्या­दि­स­म्पा­दनं तैत्तिरीयाणामिव ताण्डिनां पैङ्गिनां वा विद्यते सव­न­स­म्प­त्ति­र­प्येषां विलक्षणैव । तस्माद्भूयो वैलक्षण्ये सति न किञ्चि­न्मा­त्र­सा­ल­क्ष­ण्या­द्वि­द्यै­क­त्व­मु­चि­त­म­ति­प्र­स­ङ्गात् । अपिच तस्यैवं विदुष इत्यनुवादश्रुतौ सत्या­म­ने­का­र्थ­वि­धाने वाक्य­भे­द­दो­ष­प्र­स­क्ति­रि­त्यर्थः । अपि चेयं पैङ्गिनां ताण्डिनां च पुरु­ष­य­ज्ञ­वि­द्या­फ­ला­न्त­र­युक्ता स्वतन्त्रा प्रतीयते । तैत्तिरीयाणां तु एवंविदुष इति श्रव­णा­त्पू­र्वो­क्त­प­रा­म­र्शा­त्त­त्फ­ल­त्व­श्रु­तेश्च पारतन्त्र्यम् ।

नच स्वत­न्त्र­त­प­र­न्त्र­यो­रै­क्य­मु­चि­त­मि­त्याह –
अपिच ससं­न्या­सा­मा­त्म­वि­द्या­मिति ।

उपसंहरति –
तस्मादिति ॥ २४ ॥

वेधा­द्य­र्थ­भे­दात् ।

विचारविषयं दर्शयति –
आथर्वणिकानामिति ।
आथ­र्व­णि­का­द्यु­प­नि­ष­दा­रम्भे ते ते मन्त्रास्तानि तानि च प्रवर्ग्यादीनि कर्माणि समम्नातानि ।

संशयमाह –
किमिम इति ।

पूर्वपक्षं गृह्णाति –
उपसंहार एवैषां विद्यास्विति ।
सफला हि सर्वा विद्या आम्ना­ता­स्त­त्स­न्निधौ मन्त्राः । कर्माणि च समाम्नातानि “फल­व­त्स­न्नि­धा­व­फलं तदङ्गम्” इति न्याया­द्वि­द्या­ङ्गा­भा­वेन विज्ञायन्ते ।

चोदयति –
नन्वेषामिति ।
नह्यत्र श्रुति­लि­ङ्ग­वा­क्य­प्र­क­र­ण­स्था­न­स­मा­ख्या­नानि सन्ति विनियोजकानि प्रमाणानि, नहि यथा दर्श­पू­र्ण­मा­सा­वा­रभ्य समिदादयः समाम्नातास्तथा काञ्चि­द्वि­द्या­मा­रभ्य मन्त्रा वा कर्माणि वा समाम्नातानि । न चासति सामान्यसम्बन्धे सम्ब­न्धि­सं­नि­धा­न­मा­त्रा­त्ता­द­र्थ्य­स­म्भवः । नच श्रुत­स्वा­ङ्ग­प­रि­पूर्णा विद्या एता­ना­का­ङ्क्षि­तु­म­र्हति येन प्रक­र­णा­प­दि­त­सा­मा­न्य­स­म्ब­न्धानां संनि­धि­र्वि­शे­ष­स­म्ब­न्धाय भवेदित्यर्थः ।

समाधत्ते –
बाढमनुपलभमाना अपीति ।
मा नाम भूत्फलवतीनां विद्यानां परि­पू­र्णा­ङ्गा­ना­मा­काङ्क्षा ॥ मन्त्राणां तु स्वाध्या­य­वि­ध्या­पा­दि­त­पु­रु­षा­र्थ­भा­वानां कर्मणां च प्रवर्ग्यादीनां स्ववि­ध्या­पा­दि­त­पु­रु­षा­र्थ­भा­वानां पुरु­षा­भि­ल­षि­त­मा­का­ङ्क्षतां संनि­धा­ना­द­न्य­त­रा­का­ङ्क्षा­नि­बन्धो रक्तपटन्यायेन सम्बन्धः । तत्रापि च विद्यानां फल­व­त्त्वा­त्ता­द­र्थ्य­म­फ­लानां मन्त्राणां कर्मणां च । नच प्रवर्ग्यादीनां पिण्ड­पि­तृ­य­ज्ञ­व­त्स्वर्गः कल्पनास्पदं, फलवत्संनिधानेन तदवरोहात् ।

अनुमानस्यामहे संनि­धि­सा­म­र्थ्या­दिति ।
इदं खलु निवृ­त्ता­का­ङ्क्षाया विद्यायाः संनिधाने श्रुत­म­ना­का­ङ्क्षाया साकाङ्क्षस्यापि सम्ब­द्धु­म­सा­म­र्थ्या­त्तस्या अप्या­का­ङ्क्षा­मु­त्था­प­यति । उत्थाप्य चैक­वा­क्य­ता­मु­पैति । असमर्थस्य चोप­का­र­क­त्वा­नु­प­पत्तेः प्रकरणिनं प्रति उप­का­र­सा­म­र्थ्य­मा­त्मनः कल्पयति । नच सत्यपि सामर्थ्ये तत्र श्रुत्या अविनियुक्तं सद­ङ्ग­ता­मु­प­ग­न्तु­म­र्ह­ती­त्य­नया परम्परया संनिधिः श्रुति­म­र्था­पत्त्या कल्पयति ।

आक्षिपति –
ननु नैषां मन्त्राणामिति ।
प्रयो­ग­स­म­वे­ता­र्थ­प्र­का­श­नेन हि मन्त्रा­णा­मु­प­योगो वर्णितः “अविशिष्टस्तु वाक्यार्थः” इत्यत्र । नच विद्यासम्बद्धं कञ्चनार्थं मन्त्रेषु प्रतीमः । यद्यपि च प्रवर्ग्यो न किञ्चिदारभ्य श्रूयते तथापि वाक्यसंयोगेन क्रतुसंयोगेन क्रतुसम्बन्धं प्रतिपद्यते । “पुरस्तादुपसदां प्रवर्ग्येण प्रचरन्ति” इति । उपसदां जुहू­व­द­व्य­भि­च­रि­त­क्र­तु­स­म्ब­न्ध­त्वात् । यद्यपि ज्योति­ष्टो­म­वि­कृ­ता­वपि सन्त्यु­प­स­द­स्त­थापि तत्रानुमानिक्यो ज्योतिष्टोमे तु प्रत्य­क्ष­वि­हि­ता­स्तेन शीघ्र­प्र­वृ­त्ति­तया ज्योति­ष्टो­मा­ङ्ग­तैव वाक्येनावगम्यते । अपिच प्रकृतौ विहितस्य प्रवर्ग्यस्य चोद­के­नो­प­स­द्व­त्त­द्वि­कृ­ता­वपि प्राप्तिः ।

प्रकृतौ वा अद्वि­रु­क्त­त्वा­दिति न्याया­ज्ज्यो­ति­ष्टोमे एव विधानमुपसदा सह युक्तं, तदेतदाह –
कथं च प्रव­र्ग्या­दी­नीति ।
संनि­धा­ना­द­र्थ­वि­प्र­क­र्षेण वाक्यं बलीय इति भावः ।

समाधत्ते –
नैष दोषः । सामर्थ्यं तावदिति ।
यथा “अग्नये त्वा जुष्टं निर्वपामि” इति मन्त्रे अग्नये निर्वपामीति पदे कर्म­स­म­वे­ता­र्थ­प्र­का­शके । शिष्टानां तु पदानां तदेकवाक्यतया यथा­क­थ­ञ्चि­द्व्या­ख्या­न­मे­व­मि­हापि हृद­य­प­द­स्यो­पा­स­नायां सम­वे­ता­र्थ­त्वा­त्त­द­नु­सा­रेण तदे­क­वा­क्य­ता­प­न्नानि पदान्तराणि गौण्या लक्षणया च वृत्त्या कथ­ञ्चि­न्ने­या­नीति नासमवेतार्थता मन्त्राणाम् ।

नच मन्त्रविनियोगो नोपासनेषु दृष्टो येना­त्य­न्ता­दृष्टं कल्प्यत इत्याह –
दृष्ट­श्चो­पा­स­ने­ष्विति ।
यद्यपि वाक्येन बलीयसा संनिधिर्दुर्बलो बाध्यते तथापि विरोधे सति । न चेहास्ति विरोधः । वाक्येन विनियुक्तस्यापि ज्योतिष्टोमे प्रवर्ग्यस्य संनिधिना विद्यायामपि विनियोगसम्भवात् । यथा “ब्रह्म­व­र्च­स­कामो बृहस्पतिसवेन यजेत” इति ब्रह्म­व­र्च­स­फ­लोऽपि बृहस्पतिसवो वाजपेयाङ्गत्वेन चोद्यते वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेति । अत्र हि क्त्वः समा­न­क­र्तृ­क­त्व­म­व­ग­म्यते धातुसम्बन्धे प्रत्ययविधानात् । धात्व­र्था­न्त­र­स­म्ब­न्धश्च कथं च समानः कर्ता स्यात् । यद्येकः प्रयोगो भवेत् । प्रयोगाविष्टं हि कर्तृत्वम् । तच्च प्रयोगभेदे कथमेकम् । तस्मा­त्स­मा­न­क­र्तृ­क­त्वा­दे­क­प्र­यो­गत्वं वाज­पे­य­बृ­ह­स्प­ति­स­व­यो­र्धा­त्व­र्था­न्त­र­स­म्ब­न्धाच्च । नच गुण­प्र­धा­न­भा­व­म­न्त­रे­णै­क­प्र­यो­गता सम्बन्धश्च तत्रापि वाजपेयस्य प्रकरणे समा­म्ना­ना­द्वा­ज­पेयः प्रधानम् । अङ्गं बृहस्पतिसवः । नच “दर्श­पू­र्ण­मा­सा­भ्या­मिष्ट्वा सोमेन यजेत” इत्य­त्रा­ङ्ग­प्र­धा­न­भा­व­प्र­सङ्गः । नह्येतद्वचनं कस्य­चि­द्द­र्श­पू­र्ण­मा­सस्य सोमस्य वा प्रकरणे समाम्नातम् । तथाच द्वयोः साधिकारतया अगृ­ह्य­मा­ण­वि­शे­ष­तया गुणप्रधानभावं प्रति विनि­ग­म­ना­भा­वे­ना­धि­ष्ठा­न­मा­त्र­वि­व­क्षया लाक्षणिकं समा­न­क­र्तृ­क­त्व­मि­त्य­दोषः । यदि तु कस्या­ञ्चि­च्छा­खा­या­मा­र­भ्या­धीतं दर्श­पू­र्ण­मा­सा­भ्या­मि­ष्ट्वेति । तथा­प्य­ना­र­भ्या­धी­त­स्यै­वा­र­भ्या­धीते प्रत्य­भि­ज्ञा­न­मिति युक्तम् । तथा सति द्वयोरपि पृथगधिकारतया प्रतीतं सम­प्र­धा­न­त्व­म­त्यक्तं भवेदितरथा तु गुणप्रधानभावेन तत्त्यागो भवेत् । तस्मा­त्का­ला­र्थोऽयं संयोग इति सिद्धम् ।

सिद्धा­न्त­मु­प­क्र­मते –
एवं प्राप्त इति ।
हृदयं प्रविध्येत्ययं मन्त्रः स्वर­स­त­स्ता­व­दा­भि­चा­रि­क­क­र्म­स­म­वेतं सकलैरेव पदै­र­र्थ­म­भि­द­ध­दु­प­ल­भ्यते तद­स्या­भि­धा­न­सा­म­र्थ्य­ल­क्षणं लिङ्गं वाक्य­प्र­क­र­णाभ्यां क्रमा­द्ब­ली­यो­भ्या­मपि बलवत्किमङ्ग पुनः क्रमात् , तस्माल्लिङ्गेन संनि­धि­म­पो­द्या­भि­चा­रि­क­क­र्म­शे­ष­त्व­मे­वा­पा­द्यते । यद्यपि चोपासनासु हृदयपदमात्रस्य समवेतार्थत्वम् । तथापि तदितरेषां सर्वेषामेव पदा­ना­म­स­म­वे­ता­र्थ­त्वम् । आभिचारिके तु कर्मणि सर्वे­षा­म­र्थ­स­म­वाय इति किमे­क­प­द­स­म­वे­ता­र्थता करिष्यति । नच संनि­ध्यु­प­गृ­ही­ता­सू­पा­स­नासु मन्त्र­म­व­स्था­प­य­तीति युक्तम् । हृद­य­प­द­स्या­भि­चा­रेऽपि सम­वे­ता­र्थ­स्ये­त­र­प­दै­क­वा­क्य­ता­प­न्नस्य वाक्य­प्र­मा­ण­स­हि­त­स्या­भि­चा­रि­का­त्क­र्मणः संनि­धि­ना­चा­ल­यि­तु­म­श­क्य­त्वा­देवं “देव सवितः प्रसुव यज्ञम्” इत्यादेरपि यज्ञ­प्र­स­व­लि­ङ्गस्य यज्ञाङ्गत्वे सिद्धे जघन्यो विद्यासंनिधिः किं करिष्यति । एवमन्येषामपि श्वेताश्व इत्येवमादीनां केषा­ञ्चि­ल्लि­ङ्गेन केषा­ञ्चि­च्छुत्या केषा­ञ्चि­त्प्र­मा­णा­न्त­रेण प्रकरणेनेति ।

कस्मात्पुनः संनि­धि­र्लि­ङ्गा­दि­भि­र्बा­ध्यते इत्यत आह –
दुर्बलो हि संनिधिरिति ।
प्रथ­म­त­न्त्र­ग­तोऽर्थः स्मार्यते । तत्र तु श्रुतिलिङ्गयोः समवाये समा­न­वि­ष­य­त्व­ल­क्षणे विरोधे किं बलीय इति चिन्ता । अत्रो­दा­ह­र­ण­म­स्त्यैन्द्री ऋक् “कदाचन स्तरीरसि नेन्द्र” इत्यादिका श्रुति­र्वि­नि­योक्त्री “ऐन्द्र्या गार्ह­प­त्य­मु­प­ति­ष्ठते” इति । अत्र हि साम­र्थ्य­ल­क्ष­णा­ल्लि­ङ्गा­दिन्द्रे विनियोगः प्रतिभाति । श्रुतेश्च गार्हपत्यमिति द्वितीयातो गार्हपत्यस्य शेषि­त्व­मै­न्द्र्येति चतृ­ती­या­श्रु­ते­रैन्द्र्या ऋचः शेषत्वमवगम्यते । यद्यपि गार्हपत्यमिति द्विती­या­श्रु­ते­रा­ग्ने­यी­मृचं प्रति गार्हपत्यस्य शेषि­त्वे­नो­प­पत्तेः । यद्यपि चैन्द्र्येति च तृती­या­श्रु­ते­रैन्द्र्या इन्द्रं प्रति शेष­त्व­नो­प­प­त्ते­र­वि­रोधः । पदान्तरसम्बन्धे तु वाक्यस्यैव लिङ्गेन विरोधो न तु श्रुतेः । तत्र च विपरीतं बलाबलम् । तथापि श्रुतिवाक्ययो रूपतो व्यापा­र­भे­दा­द­दोषः । द्विती­या­तृ­ती­या­श्रुती हि कारकविभक्तितया क्रियां प्रति प्रकृत्यर्थस्य कर्म­क­र­ण­भा­व­म­व­ग­म­यत इति विनियोजिके । क्रियां प्रति हि कर्मणः शेषित्वं करणस्य च शेषत्वमिति हि विनियोगः । पदान्तरानपेक्षे च क्रियां प्रति शेषशेषित्वे श्रुति­मा­त्रा­त्प्र­ति­येते इति श्रौते । सोऽयं श्रुतितः सामान्यावगतो विनियोगः पदा­न्त­र­व­शा­द्वि­शे­षेऽ­व­स्था­प्यते । सोऽयं विशे­ष­ण­वि­शे­ष्य­भा­व­ल­क्षणः सम्बन्धो वाक्यगोचरः, शेषशेषिभावस्तु श्रौतः, तस्मा­द्वा­क्य­लभ्यं विशेषमपेक्ष्य श्रौतः शेषशेषिभावो लिङ्गेन विरुध्यत इति श्रुति­लि­ङ्ग­वि­रोधे किं लिङ्गानुगुणेन गार्हपत्यमिति द्वितीयाश्रुतिः सप्तम्यर्थे व्याख्यायतां गार्हपत्यसमीपे ऐन्द्र्येन्द्र उपस्थेय इति । आहो श्रुत्यनुगुणतया लिङ्गं व्याख्यायताम् । प्रभवति हि स्वोचितायां क्रियायां गार्हपत्य इतीन्द्र इन्द्र­ते­रै­श्व­र्य­व­च­न­त्वा­दिति । किं तावत्प्राप्तं श्रुतेर्लिङ्गं बलीय इति । नो खलु यत्रासमर्थं तच्छ्रु­ति­स­ह­स्रे­णापि तत्र विनियोक्तुं शक्यते । यथा अग्निना सिञ्चेत्पाथसा दहेदिति । तस्मा­त्सा­मर्थ्यं पुरोधाय श्रुत्या विनियोक्तव्यम् । तच्चास्या ऋचः प्रमाणान्तरतः शब्दतश्च इन्द्रे प्रतीयते । तथाहि विदितपदतदर्थः कदाचनेत्यृचः स्पष्ट­मि­न्द्र­म­व­ग­च्छति, शब्दा­च्चै­न्द्र्ये­त्यतः । तस्मा­द्दा­रु­द­ह­न­स्येव दहनस्य सलिलदहने विनियोगो गार्हपत्ये विनियोग ऐन्द्र्याः । नच श्रुत्य­नु­रो­धा­ज्ज­घ­न्या­मा­स्थाया वृत्तिं साम­र्थ्य­क­ल्प­नेति साम्प्रतम् । सामर्थ्यस्य पूर्वभावितया तदनुरोधेनैव श्रुति­व्य­व­स्था­प­नात् । तस्मा­दै­न्द्र्येन्द्र एव गार्हपत्यसमीप उपस्थातव्य इति प्राप्तेऽ­भि­धी­यते “लिङ्गज्ञानं पुरोधाय न श्रुते­र्वि­न­यो­क्तृता । श्रुतिज्ञानं पुरोधाय लिङ्गं तु विनियोजकम्” । यदि हि सामर्थ्यमवगम्य श्रुते­र्वि­नि­यो­ग­म­व­धा­र­ये­त्प्र­माता ततः श्रुते­र्वि­नि­योगं प्रति लिङ्ग­ज्ञा­ना­पे­क्ष­त्वा­द्दु­र्ब­लत्वं भवेत् । न त्वेतदस्ति । श्रुति­र्वि­नि­यो­गाय साम­र्थ्य­म­पे­क्षते नापेक्षते साम­र्थ्य­वि­ज्ञा­नम् । अवगते तु ततो विनियोगे नासमर्थस्य स इति तन्निर्वाहाय सामर्थ्यं कल्प्यते । तच्छ्रु­ति­वि­नि­यो­गा­त्पू­र्व­मस्ति सामर्थ्यम् । न तु पूर्वमवगम्यते । विनियोगे तु सिद्धे तद­न्य­था­नु­प­पत्त्या पश्चात्प्रतीयत इति श्रुति­वि­नि­यो­गा­त्प­रा­चीना साम­र्थ्य­प्र­ती­ति­स्त­द­नु­रो­धे­ना­व­स्था­प­नीया । लिङ्गं तु न स्वतो विनियोजकमपि तु विनियोक्त्रीं कल्पयित्वा श्रुतिम् । तथाहि न स्वरसतो लिङ्गा­द­ने­नेन्द्र उपस्थातव्य इति प्रतीयते, किन्त्वी­दृ­गिन्द्र इति तस्य तु प्रक­र­णा­म्ना­न­सा­म­र्थ्या­त्सा­मा­न्यतः प्रक­र­णा­पा­दि­तै­द­म­र्थ्यस्य तद­न्य­था­नु­प­पत्त्या विनि­यो­ग­क­ल्प­ना­या­मपि श्रौता­द्वि­नि­यो­गा­त्क­ल्प­नी­यस्य विनि­यो­ग­स्या­र्थ­वि­प्र­क­र्षा­च्छ्रु­ति­रेव कल्पयितुमुचिता न तु तदर्थो विनियोगः । नहि श्रुतमनुपपन्नं शक्य­म­र्थे­नो­प­पा­द­यि­तुम् । नहि त्रयोऽत्र ब्राह्मणाः कठ­कौ­ण्डि­न्या­विति वाक्यं प्रमा­णा­न्त­रो­प­स्था­पि­तेन माठ­रे­णो­प­पा­द­यन्ति, उपपादयतो वा नोपहसन्ति । शाब्दाः । माठरश्चेति तु श्राव­य­न्त­म­नु­म­न्यन्ते । तस्मा­च्छ्रु­ता­र्थ­स­मु­त्था­ना­नु­प­पत्तिः श्रुते­नै­वा­र्था­न्त­रे­णो­प­पा­द­नीया, नार्था­न्त­र­मा­त्रेण प्रमा­णा­न्त­रो­प­नी­ते­नेति लोकसिद्धम् । नच लोकसिद्धस्य नियोगानुयोगौ युज्येते शब्दा­र्थ­ज्ञा­नो­पा­य­भू­त­लो­क­वि­रो­धात् । तस्मा­द्वि­नि­यो­जिका श्रुतिः कल्पनीया । तथाच याव­ल्लि­ङ्गा­द्वि­नि­यो­जिकां श्रुतिं कल्पयितुं प्रक्रा­न्त­व्या­पा­र­स्ता­व­त्प्र­त्य­क्षया श्रुत्या गार्हपत्ये विनियोगः सिद्ध इति निवृ­त्ता­काङ्क्षं प्रकरणमिति कस्यानुपपत्त्या लिङ्गं विनियोक्त्रीं श्रुति­मु­प­क­ल्प­येत् । मन्त्र­स­मा­म्ना­नस्य प्रत्यक्षयैव विनि­यो­ग­श्रु­त्यो­प­पा­दि­त­त्वात् । यथाहुः “याव­द­ज्ञा­त­स­न्दिग्धं ज्ञेयं ताव­त्प्र­मि­त्स्यते । प्रमिते तु प्रमातॄणां प्रमौत्सुक्यं विहन्यते” इति । तस्मा­त्प्र­ती­त­श्रौ­त­वि­नि­यो­गो­प­पत्त्यै मन्त्रस्य सामर्थ्यं तदनुगुणत्वेन नीयमानं प्रथमां वृत्ति­म­ज­ह­ज्ज­घ­न्य­यापि नेयमिति सिद्धम् । लिङ्गवाक्ययोरिह विरोधो यथा “स्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्पयामि । तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः” इति । किमयं कृत्स्न एव मन्त्रः सदनकरणे पुरोडाशासादने च प्रयोक्तव्य उत कल्पयाम्यन्त उपस्तरणे तस्मि­न्त्सी­दे­त्ये­व­मा­दिस्तु पुरोडाशासादन इति । यदि वाक्यं बलीयः कृत्स्नो मन्त्र उभयत्र, सुशेवं कल्प­या­मी­त्ये­त­द­पेक्षो हि तस्मि­न्सी­दे­त्यादिः पूर्वे­णै­क­वा­क्य­ता­मु­पैति यत्कल्पयामि तस्मिन्त्सीदेति । अथ लिङ्गं बलीयस्ततः कल्पयाम्यन्तः सदनकरणे तत्प्रकाशने हि तत्समर्थम् । तस्मिन्सीदेति पुरोडाशासादने तत्र हि तत्समर्थमिति । किं तावत्प्राप्तम् । लिङ्गाद्वाक्यं बलीय इत्युभयत्र कृत्स्नस्य विनियोग इति । इह हि यत्त­त्प­द­स­म­भि­व्या­हा­रेण विभ­ज्य­मा­न­सा­का­ङ्क्ष­त्वा­दे­क­वा­क्य­तायां सिद्धायां तदनुरोधेन पश्चा­त्त­द­भि­धा­न­सा­मार्थ्यं कल्पनीयम् । यथा देव­स्य­त्वे­ति­म­न्त्रेऽ­ग्नये निर्वपामीति पदयोः समवेतार्थत्वेन तदेकवाक्यतया पदान्तराणां तत्परत्वेन तत्र सामर्थ्यकल्पना । तदेवं प्रती­तै­क­वा­क्य­ता­नि­र्वा­हाय तदनुगुणतया सामर्थ्यं कॢप्तं सन्न तद्व्या­पा­द­यि­तु­म­र्हति, अपि तु विनियोजिकां श्रुतिं कल्प­य­त्त­द­नु­गु­ण­मेव कल्पयेत् । तथा च वाक्यस्य लिङ्गतो बली­य­स्त्वा­त्स­द­न­क­रणे च पुरोडाशासाधने च कृत्स्न एव मन्त्रः प्रयोक्तव्य इति प्राप्तम् । एवं प्राप्ते उच्यते - भवेदेतदेवं यद्ये­क­वा­क्य­ता­व­ग­म­पूर्वं साम­र्थ्या­व­धा­र­ण­मपि तु अव­धृ­त­सा­म­र्थ्यानां पदानां प्रश्लि­ष्ट­प­ठि­तानां सामर्थ्यवशेन प्रयो­ज­नै­क­त्वे­ने­क­वा­क्य­त्वा­व­धा­र­णम् । यावन्ति पदानि प्रधा­न­मे­क­म­र्थ­म­व­ग­म­यितुं समर्थानि विभागे साकाङ्क्षाणि तान्येकं वाक्यम् । अनु­ष्ठे­य­श्चार्थो मन्त्रेषु प्रकाश्यमानः प्रधानम् । सद­न­क­र­ण­पु­रो­डा­शा­सा­दने चानुष्ठेयतया प्रधाने । तयोश्च सदनकरणं कल्पयाम्यन्तो मन्त्रः समर्थः प्रकाशयितुं पुरोडाशासादनं च तस्मि­न्सी­दे­त्यादिः । ततश्च याव­दे­क­वा­क्य­ता­व­शेन साम­र्थ्य­म­नु­मी­यते तावत्प्रतीतं साम­र्थ्य­मे­कै­कस्य भाग­स्यै­कै­क­स्मि­न्नर्थे विनियोजिकां श्रुतिं कल्पयति । तथाच श्रुत्यै­वै­कै­कस्य भागस्यैकत्र विनियोगे सति प्रक­र­ण­पा­ठो­प­पत्तौ न वाक्यकल्पितं लिङ्गं विनियोजिकां श्रुतिमपरां कल्प­यि­तु­म­र्ह­ती­त्ये­क­वा­क्य­ता­बु­द्धि­रु­त्प­न्ना­प्या­भा­सी­भ­वति लिङ्गेन बाधनात् । यत्र तु विरोधकं लिङ्गं नास्ति तत्र सम­वे­ता­र्थै­क­द्वि­त्रि­प­दै­क­वा­क्यता पदान्तराणामपि सामर्थ्यं कल्पयतीति भवति वाक्यस्य विनियोजकत्वम् । यथात्रैव स्योनं त इत्यादीनाम् । तस्मा­द्वा­क्या­ल्लिङ्गं बलीय इति सिद्धम् ॥ वाक्य­प्र­क­र­ण­यो­र्वि­रो­धो­दा­ह­र­णम् । अत्र च पदानां पर­स्प­रा­पे­क्षा­व­शा­त्क­स्मिं­श्चि­द्वि­शिष्ट एकस्मिन्नर्थे पर्यवसितानां वाक्यत्वं, लब्ध­वा­क्य­भा­वानां च पुनः कार्या­न्त­रा­पे­क्षा­व­शेन वाक्यान्तरेण सम्बन्धः प्रकरणम् । कर्तव्यायाः खलु फलभावनाया लब्ध­धा­त्व­र्थ­क­र­णाया इति­क­र्त­व्य­ता­का­ङ्क्षाया वचनं प्रकरणमाचक्षते वृद्धाः । यथा “दर्श­पू­र्ण­मा­साभ्यां स्वर्गकामो यजेत” इति । एतद्धि वचनं प्रकरणम् । तदेतस्मिन् स्वपदगणेन कियत्यप्यर्थे पर्यवसिते कर­णो­प­का­र­ल­क्ष­ण­का­र्या­न्त­रा­पे­क्षायां ‘समिधो यजति’ इत्या­दि­वा­क्या­न्त­र­स­म्बन्धः । समिदादिभावना हि स्वविध्युपहिताः पुरुषे हितं भाव्यमपेक्षमाणा विश्व­जि­न्न्या­येन वानुषङ्गतो वार्थवादतो वा फला­न्त­रा­प्र­ति­ल­म्भेन दर्श­पू­र्ण­मा­स­भा­वनां निर्वा­र­यि­तु­मी­शते । तस्मा­त्त­दा­का­ङ्क्षा­या­मु­प­नि­प­ति­ता­न्ये­तानि वाक्यानि स्वका­र्या­पे­क्षाणि तद­पे­क्षि­त­क­र­णो­प­का­र­ल­क्षणं कार्यमासाद्य निवन्ति च निर्वारयन्ति च प्रधानम् । सोऽय­म­न­यो­र्न­ष्टा­श्व­द­ग्ध­र­थ­व­त्सं­योगः । तदेवं लक्ष­ण­यो­र्वा­क्य­प्र­क­र­ण­यो­र्वि­रो­धो­दा­ह­रणं सूक्तवाकनिगदः । तत्र हि पौर्णमासीदेवता अमावस्यादेवताः समाम्नाताः । ताश्च न मिथ एकवाक्यतां गन्तुमर्हन्तीति लिङ्गेन पौर्ण­मा­सी­या­गा­दि­न्द्रा­ग्नी­शब्द उत्क्रष्टव्यः अमावास्यायां च सम­वे­ता­र्थ­त्वा­त्प्र­यो­क्तव्यः । अथेदानीं सन्दिह्यते किं यदि­न्द्रा­ग्नि­प­दै­क­वा­क्य­तया प्रतीयते “अविवृधेथां महो ज्यायोऽकाताम्” इति तन्नो­त्क्र­ष्ट­व्य­मु­ते­न्द्रा­ग्नि­श­ब्दाभ्यां सहो­त्क्र­ष्ट­व्य­मिति । तत्र यदि प्रकरणं बली­य­स्त­तोऽ­प­नी­त­दे­व­ता­कोऽपि शेषः प्रयोक्तव्योऽथ वाक्यं ततो यत्र देव­ता­श­ब्द­स्त­त्रैव प्रयोक्तव्यः । किं ताव­त्प्रा­प्त­म­प­नी­त­दे­व­ता­कोऽपि शेषः प्रयोक्तव्यः प्रक­र­ण­स्यै­वा­ङ्ग­स­म्ब­न्ध­प्र­ति­पा­द­क­त्वात् । फलवती हि भावना प्रधा­ने­ति­क­र्त­व्य­ता­त्व­मा­पा­द­यति । तदुपजीवनेन श्रुत्यादीनां विशे­ष­स­म्ब­न्धा­पा­द­क­त्वात् । अतः प्रधा­न­भा­व­ना­व­च­न­ल­क्ष­ण­प्र­क­र­ण­वि­रोधे तदुपजीविवाक्यं बाध्यत इति प्राप्तम् । एवं प्राप्त उच्यते भवेदेतदेवं यदि विनि­यो­ज्य­स्व­रू­प­सा­म­र्थ्य­म­न­पेक्ष्य प्रकरणं विनियोजयेत् । अपि तु विनियोगाय तदपेक्षतेऽन्यथा पूषा­द्य­नु­म­न्त्र­ण­म­न्त्रस्य द्वाद­शो­प­स­त्ता­याश्च नोत्कर्षः स्यात् । तद्रूपालोचनायां च यद्यदेव शीघ्रं प्रतीयते तत्त­द्ब­ल­व­द्वि­प्र­कृष्टं तु दुर्बलम् । तत्र यदि तद्रूपं श्रुत्या लिङ्गेन वाक्येन वान्यत्र विनियुक्तं ततः प्रकरणं भङ्क्त्वो­त्कृ­ष्यते, परिशिष्टैस्तु प्रक­र­ण­स्ये­ति­क­र्त­व्य­ता­पेक्षा पूर्यते । अथ स्वस्य शीघ्रप्रवृत्तं श्रुत्यादि नास्ति ततः प्रकरणं विनियोजकम् । यथा समिदादेः । तदिह प्रक­र­णा­द्वा­क्यस्य शीघ्र­प्र­वृ­त्त­त्व­मु­च्यते । प्रकरणे हि स्वार्थ­पू­र्णानां वाक्या­ना­मु­प­का­र्यो­प­का­र­का­का­ङ्क्षा­मात्रं दृश्यते । वाक्ये तु पदानां प्रत्य­क्ष­स­म्बन्धः । ततश्च सह प्रस्थि­त­यो­र्वा­क्य­प्र­क­र­ण­यो­र्या­व­त्प्र­क­र­णे­नै­क­वा­क्यता कल्प्यते ताव­द्वा­क्ये­ना­भि­धा­न­सा­मर्थ्यं, यावदितरत्र वाक्येन सामर्थ्यं तावदितरत्र सामर्थ्येन श्रुति­र्या­व­दि­त­रत्र सामर्थ्येन श्रुतिस्तावदिह श्रुत्या विनियोगस्तावता च विच्छि­न्ना­या­मा­का­ङ्क्षायां श्रुत्यनुमाने विहते प्रकरणेनान्तरा कल्पितं विलीयन्त इति वाक्य­ब­ली­य­स्त्वा­त्त­द्दे­व­ता­शे­ष­णा­म­प­कर्ष एवेति सिद्धम् ॥ क्रम­प्र­क­र­ण­वि­रो­धो­दा­ह­र­णम् । राजसूयप्रकरणे प्रधा­न­स्यै­वा­भि­षे­च­नी­यस्य संनिधौ शौनः­शे­पो­पा­ख्या­ना­द्या­म्नातं, तत्किं समस्तस्य राज­सू­य­स्या­ङ्ग­मु­ता­भि­षे­च­नी­यस्य । यदि प्रकरणं बलीयस्ततः समस्तस्य राजसूयस्य, अथ क्रम­स्त­तोऽ­भि­षे­च­नी­य­स्यै­वेति, किं तावत्प्राप्तम् । नाका­ङ्क्षा­मात्रं हि सम्बन्धहेतुः । गामानय प्रासादं पश्येति गामित्यस्य क्रिया­मा­त्रा­पे­क्षिणः पश्येत्यनेनापि सम्ब­न्ध­स­म्भ­वा­द्वि­नि­ग­म­ना­भा­व­प्र­स­ङ्गात् । तस्मात्संनिधानं सम्बन्धकारणम् । तथा चानयेत्यननैव गामित्यस्य सम्बन्धो विनिगम्यते । नच संनिधानमपि सम्बन्धकारणम् । अयमेति पुत्रो राज्ञः पुरु­षोऽ­प­सा­र्य­ता­मि­त्यत्र राज्ञ इत्यस्य पुत्र­पु­रु­ष­प­द­सं­नि­धा­ना­वि­शे­षान्मा भूदविनिगमना । तस्मादाकाङ्क्षा निश्च­य­हे­तु­र्व­क्तव्या । अत्र पुत्रशब्दस्य सम्बन्धिवचनतया समु­त्थि­ता­का­ङ्क्ष­स्या­न्तिके यदुपनिपतितं सम्ब­न्ध्य­न्त­रा­काङ्क्षं पदं तस्य तेनै­वा­का­ङ्क्षा­प­रि­पूर्तेः पुरुषपदेन पुरु­ष­रू­प­मा­त्रा­भि­धा­यिना स्वतन्त्रेणैव न सम्बन्धः किन्तु परे­णा­प­सा­र्य­ता­मि­त्य­ने­ना­प­स­र­णी­या­पे­क्षे­णेति । सत्यपि संनिधाने आका­ङ्क्षा­भा­वा­द­स­म्बन्धः । तथा चाभाणकः “तप्तं तप्तेन सम्बध्यते” इति । तथा चाकाङ्क्षितमपि न याव­त्सं­नि­धा­प्यते तावन्न सम्बध्यते । तथा संनिहितमपि याव­न्ना­का­ङ्क्ष्यते न तावत्सम्बध्यत इति द्वयोः सम्बन्धं प्रति समा­न­ब­ल­त्वा­त्क्र­म­प्र­क­र­णयोः समु­च्च­या­स­म्भ­वाच्च विकल्पेन राज­सू­या­भि­षे­च­नी­य­यो­र्वि­नि­योगः शौनः­शे­पो­पा­ख्या­ना­दी­ना­मिति प्राप्तम् । एवं प्राप्त उच्यतेराजसूयके कथम्भावापेक्षा हि पवित्रादारभ्य क्षत्रस्य धृतिं यावदनुवर्तते । यथा च “अविच्छिन्ने कथम्भावे यत्प्रधानस्य पठ्यते । अनिर्ज्ञातफलं कर्म तस्य प्रकरणाङ्गता” इति न्याया­द्रा­ज­सू­या­ङ्गता शौनः­शे­पो­पा­ख्या­ना­दी­नाम् । अभिषेचनीयस्य तु स्ववा­क्यो­पा­त्त­प­दा­र्थ­नि­रा­का­ङ्क्षस्य संनि­धि­पा­ठे­ना­का­ङ्क्षो­त्था­प­नीया याव­त्ता­व­त्सि­द्धा­का­ङ्क्षेण राज­सू­ये­नै­क­वा­क्यता कल्प्यते । याव­च्चा­भि­षे­च­नी­या­का­ङ्क्षया तदेकवाक्यता कल्प्यते तावत्कॢप्तया राज­सू­यै­क­वा­क्य­तया तदुपकारतया सामर्थ्यलक्षणं लिङ्गं याव­च्चा­भि­षे­च­नी­यै­क­वा­क्य­तया लिङ्गं कल्प्यते ताव­त्कॢ­प्त­लिङ्गं विनियोक्त्रीं श्रुतिं कल्पयति याव­द्वा­क्य­क­ल्पि­तेन लिङ्गेन श्रुतिरितरत्र कल्प्यते तावत्कॢप्तया श्रुत्या विनियोगे सति प्रक­र­ण­पा­ठो­प­पत्तौ संनि­धा­न­प­रि­क­ल्पि­त­म­न्तरा विलीयते । प्रमा­णा­भा­वेऽ­प्र­ति­भ­त्वात् । प्रकरणिनश्च राजसूयस्य सर्वदा बुद्धि­सां­नि­ध्येन तत्सं­नि­धे­र­क­ल्प­नी­य­त्वात् । तस्मा­त्प्र­क­र­ण­वि­रोधे क्रमस्य बाध एव नच विकल्पो दुर्बलत्वादिति सिद्धम् ॥ क्रम­स­मा­ख्य­यो­र्वि­रो­धो­दा­ह­र­ण­म्पौ­रो­डा­शिक इति समाख्याते काण्डे सान्नाय्यक्रमे च शुन्धध्वं दैव्याय कर्मण इति शुन्धनार्थो मन्त्रः समाम्नातः, तत्र सन्दिह्यते किं समाख्यानस्य बली­य­स्त्वा­त्पु­रो­डा­श­पा­त्राणां शुन्धने विनियोक्तव्यः, आहो सान्ना­य्य­पा­त्राणां शुन्धने क्रमो बलीयानिति । किन्ता­व­त्प्रा­प्तम् । समाख्यानां बलीय इति पौरोडाशिकशब्देन हि पुरो­डा­श­स­म्ब­न्धी­नी­त्यु­च्यन्ते तान्यधिकृत्य प्रवृत्तं काण्डं पौरोडाशिकम् । ततश्च यावत्क्रमेण प्रक­र­णा­द्य­नु­मा­न­प­र­म्प­रया सम्बन्धः प्रतिपादनीयः यावत्समाख्यया श्रुत्यैव साक्षादेव स प्रतिपादित इति अर्थविप्रकर्षेण क्रमात्समाख्यैव बलीयसीति पुरो­डा­श­पा­त्र­शु­न्धने मन्त्रः प्रयोक्तव्यः न सान्ना­य्य­पा­त्र­शु­न्धन इति प्राप्तम् । एवं प्राप्तेऽ­भि­धी­यते - समा­ख्या­ना­त्क्रमो बल­वा­न­र्थ­वि­प्र­क­र्षा­दिति । तथाहि - समाख्या न तावत्सम्बन्धस्य वाचिका किन्तु पौरोडाशविशिष्टं काण्डमाह । तद्वि­शि­ष्ट­त्वा­न्य­था­नु­प­पत्त्या तु सम्बन्धः काण्ड­स्या­नु­मी­यते न तु साक्षा­न्म­न्त्र­भे­दस्य । तद्धारेण च तन्मध्यपातिनो मन्त्रभेदस्यापि तदनुमानम् । न चासौ सम्बन्धोऽपि श्रुत्यैव शेषशेषिभावः प्रतीयते । अपि तु सम्बन्धमात्रम् । तस्मा­च्छ्रु­ति­सा­दृ­श्य­मस्य दूरापेतमिति क्रमेण नास्य स्पर्धोचिता । तत्रापि च सामान्यतो दर्श­पू­र्ण­मा­स­प्र­क­र­णा­पा­दि­तै­द­म­र्थ्यस्य शौनः­शे­पो­पा­ख्या­ना­दि­व­च्चा­रा­दु­प­का­र­क­तया प्रकृ­त­मा­त्र­स­म्ब­न्धा­नु­प­पत्तिः । मन्त्रस्य प्रयो­ग­स­म­वे­ता­र्थ­स्मा­र­णेन साम­वा­यि­का­ङ्ग­त्वात् । तथाच यं कञ्चि­त्प्र­कृ­त­प्र­यो­ग­ग­त­मर्थं प्रकाशयतोऽस्य प्रक­र­णा­ङ्ग­त्व­म­वि­रु­द्ध­मिति विशेषापेक्षायां सान्नाय्यक्रमः सान्नाय्यं प्रति प्रक­र­णा­द्य­नु­मा­न­द्वा­रेण विनियोगं कल्प­यि­तु­मु­त्स­हते न तु समाख्यानम् । तस्य दुर्बलत्वात् । तथाहि - समाख्या सम्बन्धनिबन्धना सती तत्सिध्यर्थं संनि­धि­मु­प­क­ल्प­यति याव­त्ता­द्वै­दि­केन प्रत्य­क्ष­दृ­ष्टेन संनि­धा­ने­ना­काङ्क्षा कल्प्यते । यावच्च कॢप्तेन संनि­धा­ने­ना­काङ्क्षा कल्प्यते तावदितरत्र कॢप्त­या­का­ङ्क्ष­यै­क­वा­क्यता यावच्च कॢप्त­या­का­ङ्क्षै­क­वा­क्यता ताव­दि­त­र­त्रै­क­वा­क्य­तया कॢप्त­यो­प­का­र­सा­म­र्थ्यम् । याव­च्चा­त्रै­क­वा­क्य­त­यो­प­का­र­सा­मर्थ्यं तावदितरत्र लिङ्गेन विनियोजिका श्रुतिः । यावदत्र लिङ्गेन विनियोजिका श्रुति­स्ता­व­दि­त­रत्र कॢप्तया श्रुत्या विनियोग इति तावतैव प्रक­र­ण­पा­ठो­प­पत्तेः सर्वं समाख्यानकल्पितं विच्छि­न्न­मू­ल­त्वा­ल्लू­य­मा­न­स­स्य­मिव निर्बीजं भवति । पुरो­डा­शा­भि­धा­य­क­म­न्त्र­बा­हु­ल्या­त्का­ण्डस्य पौरो­डा­शि­क­स­मा­ख्येति मन्तव्यम् । “एक­द्वि­त्रि­च­तु­ष्प­ञ्च­व­स्त्व­न्त­र­य­का­रि­तम् । श्रुत्यर्थं प्रति वैषम्यं लिङ्गादीनां प्रतीयते ॥' इत्य­र्थ­वि­प्र­कर्ष उक्तः । तत्रापि च “बाधिकैव श्रुतिर्नित्यं समाख्या बाध्यते सदा । मध्यमानां तु बाध्यत्वं बाधकत्वमपेक्षया ॥' इति विशेष उक्तो वृद्धैः । तद्वयं विस्त­रा­द्बि­भ्य­तोऽपि प्रथ­म­त­न्त्रा­न­भि­ज्ञा­नु­क­म्पया निघ्ना विस्तरे पतिताः स्म इत्युपरम्यते । तस्मा­द्य­था­नु­ज्ञा­प­ना­नु­ज्ञयोः प्रज्ञा­त­क्र­म­यो­रु­प­हूत उपहूयस्वेत्येवं मन्त्रावाम्नातौ देश­सा­मा­न्या­त्त­थै­वा­ङ्ग­तया प्राप्नुतः । उपहूत इति लिङ्ग­तोऽ­नु­ज्ञा­मन्त्रो नानुज्ञापने उपहूयस्वेति च लिङ्ग­तोऽ­नु­ज्ञा­पने च मन्त्रो नानुज्ञायाम् । तदिह लिङ्गेन क्रमं बाधित्वा विपरीतं शेषत्वमापाद्यते । यावद्धि स्थानेन प्रक­र­ण­मु­त्पा­द्यै­क­वा­क्यत्वं कल्प्यते तावल्लिङ्गेन श्रुतिं कल्पयित्वा साधितो विनियोग इति अक­ल्पि­त­लि­ङ्ग­श्रुतेः क्रमस्य बाधः । तद्वदिहापि विनियोगे प्रत्ये­का­न्त­रि­तेन लिङ्गेन चतुरन्तरितस्य विद्याक्रमस्य बाध इति । यद्यपि प्रथमतन्त्र एवायमर्थ उपपादितस्तथापि विरोधे तदुपपादनमिह त्वविरोधः । नहि लिङ्गे­ना­भि­चा­रि­क­क­र्म­स­म्बन्धः विद्यासम्बन्धेन क्रमकृतेन विरुध्यते । नच विनि­यु­क्त­वि­नि­यो­ग­ल­क्ष­णोऽत्र विरोधो बृहस्पतिसवेऽपि तत्प्रसङ्गात् । अथैव प्रतीतिविरोधो नच वस्तुविरोधः स विद्यायां विनियोगेऽपि तुल्यः । तस्मा­द­वि­रो­धा­द्वे­धा­दि­म­न्त्र­स्यो­पा­स­ना­ङ्ग­त्व­मि­त्य­स्त्य­भ्य­धिका शङ्का । तत्रोच्यते “नहि लिङ्गविरोधेन क्रम­बा­धोऽ­भि­धी­यते । किन्तु लिङ्ग­प­रि­च्छिन्ने न क्रमः कल्पनाक्षमः” । प्रक­र­ण­पा­ठो­प­पत्त्या हि श्रुति­लि­ङ्ग­वा­क्य­प्र­क­र­णै­र­वि­नि­युक्तः क्रमेण प्रक­र­ण­वा­क्य­लि­ङ्ग­श्रु­ति­क­ल्प­ना­प्रा­णा­लि­कया विनियुज्यते । तदा विनियुक्तस्य प्रक­र­ण­पा­ठा­न­र्थ­क्य­प्र­स­ङ्गात् । उपपादिते तु श्रुत्यादिभि प्रकरणपाठे क्षीण­त्वा­द­र्था­पत्तेः क्रमो न स्वोचितां प्रमा­मु­त्पा­द­यि­तु­म­र्हति प्रमि­त्सा­भा­वा­दिति । बृहस्पतिसवस्य तु क्त्वाश्रुतिरेव धातु­स­म्ब­न्धा­धि­का­र­का­त्स­मा­न­क­र्तृ­क­तायां विहिता संयोगपृथक्त्वेन विनियुक्तमपि विनियोजयन्ती न शक्या श्रुत्यन्तरेण निरोद्धुं स्वप्रमामिति वैषम्यम् ।

तदिदमुक्तम् –
वाजपेये तु बृहस्पतिसवस्य स्पष्टं विनि­यो­गा­न्त­र­मिति ।

अपि चैकोऽयं प्रवर्ग्य इति ।
तुल्यबलतया बृहस्पतिसवस्य तुल्य­ता­श­ङ्का­पा­क­र­ण­द्वा­रेण समुच्चयो न तु पृथगुक्तितया पर­स्प­रा­पे­क्ष­त्वा­दिति ।

संनि­धि­पा­ठ­मु­प­पा­द­यति –
अर­ण्या­दि­व­च­न­वा­दिति ॥ २५ ॥

हानौ तूपा­य­न­श­ब्द­शे­ष­त्वा­त्कु­शा­च्छ­न्दः­स्तु­त्यु­प­गा­न­व­त्त­दु­क्तम् ।
यत्र हानोपायने श्रूयेते तत्राविवादः संनिपाते यत्रा­प्यु­पा­य­न­मा­त्र­श्र­वणं तत्रापि नान्तरीयकतया हान­मा­क्षि­प्त­मि­त्यस्ति संनिपातः । यत्र तु हानमात्रं सुकृतदुष्कृतयोः श्रुतं न श्रूयते उपायनं, तत्र किमु­पा­य­न­मु­पा­दानं संनिपतेन्न वेति संशयः ।

अत्र पूर्वपक्षं गृह्णाति –
असंनिपात इति ।
स्यादेतत् । यथा श्रूयमाणमेकत्र शाखा­या­मु­पा­स­नाङ्गं तस्मि­न्ने­वो­पा­सने शाखा­न्त­रेऽ­श्रू­य­मा­ण­मु­प­सं­ह्रि­यते ।

एवं शाखा­न्त­र­श्रु­त­मु­पा­य­न­मु­प­सं­ह­रि­ष्यत इत्यत आह –
विद्या­न्त­र­गो­च­र­त्वा­च्चेति ।
एकत्वे ह्युपा­स­न­क­र्म­णा­म­न्यत्र श्रुता­ना­म­प्य­न्यत्र समवायो घटते । न त्विहो­पा­स­ना­ना­मे­कत्वं, सगु­ण­नि­र्गु­ण­त्वेन भेदादित्यर्थः ।

ननु यथोपायनं श्रुतं हान­मु­प­स्था­प­य­त्येवं हानमपि उपायनमित्यत आह –
अपि चात्मकर्तृकमिति ।
ग्रहणं हि न स्वामि­नोऽ­प­ग­म­म­न्त­रेण भवतीति ग्रह­णा­द­प­ग­म­सि­द्धि­र­व­श्य­म्भा­विनी । अप­ग­म­स्त्व­स­त्य­प्य­न्येन ग्रहणे दृष्टो यथा प्राय­श्चि­त्ते­ना­प­ग­ति­रे­नस इति । कर्तृभेदकथनं त्वेत­दु­पो­द्ब­ल­नार्थं न पुन­र­व­श्य­म्भा­वस्य प्रयो­ज­क­मु­पा­य­ने­ना­नै­का­न्त्या­दिति ।

सिद्धा­न्त­मु­प­क्र­मते –
अस्यां प्राप्ताविति ।
अयमस्यार्थः कर्मान्तरे विहितं हि न कर्मान्तर उपसंह्रियते प्रमाणाभावात् । यत्पुनर्न विधीयते किन्तु स्तुत्यर्थं सिद्धतया सङ्कीर्त्यते तदसति बाधके देव­ता­धि­क­र­ण­न्या­येन शब्दतः प्रतीयमानं परि­त्य­क्तु­म­श­क्यम् । तथाच विधूतयोः सुकृ­त­दु­ष्कृ­त­यो­र्नि­र्गु­णायां विद्या­या­म­श्व­रो­मा­दि­वत्किं भव­त्वि­त्या­का­ङ्क्षायां न ताव­त्प्रा­य­श्चि­त्ते­नेव तद्वि­ल­य­स­म्भ­व­स्तथा सत्य­श्व­रो­म­रा­हु­दृ­ष्टा­न्ता­नु­प­पत्तेः । न जात्व­श्व­रो­म­रा­हु­मु­ख­यो­र्वि­ल­य­न­मस्ति । अपि त्वश्व­च­न्द्राभ्यां विभागः । नच नष्टे विधू­न­न­प्र­मो­च­ना­र्थ­स­म्भवः । तस्मा­द­र्थ­वा­द­स्या­पे­क्षायां शब्द­सं­नि­धि­कृ­तोऽपि विशेष उपायनं बुद्धौ संनिधापयितुं शक्नोत्यपेक्षां पूरयितुमिति । निर्गुणापि विद्या हानोपायनाभ्यां स्तोतव्या । स्तुति­प्र­क­र्षस्तु प्रयोजनं न प्रमाणम् । अप्रकर्षेऽपि स्तुत्युपपत्तेः । न चार्थ­वा­दा­न्त­रा­पे­क्षा­र्थ­वा­दा­न्त­राणां न दृष्टा ।

नच तैर्न पूरणमित्याह –
प्रसिद्धा चेति ।

विद्या­स्तु­त्य­र्थ­त्वा­च्चा­स्यो­पा­य­न­वा­द­स्येति ।
यद्यप्यन्यदीये अपि सुकृतदुष्कृते अन्यस्य फलं प्रयच्छतः, यथा पुत्रस्य श्राद्धकर्म पितुस्तृप्तिं यथा च पितु­र्वै­श्वा­न­री­येष्टिः पुत्रस्य । नार्याश्च सुरापानं भर्तुर्नरकम् । तथाप्यन्यदीये अपि सुकृतदुष्कृते साक्षा­द­न्य­स्मिन्न सम्भवत इत्याशयेन शङ्का । फलतः प्राप्त्या स्तुतिरिति परिहारः । गुणो­प­सं­हा­र­वि­व­क्षा­या­मि­त्यपि न स्वरूपतः सुकृ­त­दु­ष्कृ­त­स­ञ्चा­रा­भि­प्रा­यम् ।

ननु विद्या­गु­णो­प­सं­हा­रा­धि­कारे कोऽयमकाण्डे स्तुत्यर्थविचार इति शङ्का­मु­प­सं­ह­र­न्न­पा­क­रोति –
तस्मा­द्गु­णो­प­सं­हा­र­वि­चा­र­प्र­स­ङ्गे­नेति ।
विद्या­गु­णो­प­सं­हा­र­प्र­स­ङ्गतः स्तुति­गु­णो­प­सं­हारो विचारितः । प्रयोजनं चोपासके सौहा­र्द­मा­च­रि­तव्यं न त्वसौहार्दमिति छन्द एवाच्छन्द आच्छा­द­ना­दा­च्छन्दो भवति ।

यथैव चावि­शे­षे­णो­प­गा­न­मिति ।
ऋत्विज उप­गा­य­न्ती­त्य­वि­शे­षे­णो­प­गा­न­मृ­त्वि­जाम् । भाल्लविनस्तु विशेषेण नाध्व­र्यु­रु­प­गा­य­तीति । तदे­त­स्मा­द्भा­ल्ल­विनां वाक्यमृत्विज उप­गा­य­न्ती­त्ये­त­च्छेषं विज्ञायते । एतदुक्तं भवति - अध्वर्युवर्जिता ऋत्विज उपगायन्तीति । कस्मात्पुनरेवं व्याख्यायते ।

ननु स्वतन्त्राण्येव सन्तु वाक्यानीत्यत आह –
श्रुत्य­न्त­र­कृ­त­मिति ।

अष्ट­दो­ष­दु­ष्ट­वि­क­ल्प­प्र­स­ङ्ग­भ­येन वाक्यान्तरस्य वाक्या­न्त­र­शे­ष­त्व­म­त्र­भ­वतो जैमिनेरपि संमतमित्याह –
तदुक्तं द्वाद­श­ल­क्ष­ण्याम् ।

'अपि तु वाक्यशेषः स्याद­न्या­य्य­त्वा­द्वि­क­ल्पस्य विधीनामेकदेशः स्यात्” इत्येतदेव सूत्र­म­र्थ­द्वा­रेण पठति –
अपि तु वाक्य­शे­ष­त्वा­दि­त­र­प­र्यु­दासः स्यात्प्रतिषेधे विकल्पः स्यात्
स चान्याय्य इति शेषः । एवं किल श्रूयते “एष वै सप्तदशः प्रजापतिर्यज्ञे यज्ञेऽन्वायत्त” इति । ततो नानुयाजेषु येयजामहं करोतीति । तदत्रानारभ्य कञ्चिद्यज्ञं यज्ञेषु येय­जा­म­ह­क­र­ण­मु­प­दि­ष्टम् । तदुपदिश्य चाम्नातं नानुयाजेष्विति । तत्र संशयः किं विधि­प्र­ति­षे­ध­यो­र्वि­कल्प उत पर्यु­दा­सोऽ­नु­या­ज­व­र्जि­तेषु येयजामहः कर्तव्य इति । मा भूद­र्थ­प्रा­प्तस्य शास्त्रीयेण निषेधे विकल्पः । दृष्टं हि तादात्विकीमस्य सुन्दरतां गमयति नायतौ दोषवत्तां निषेधति । तस्य तत्रौदासीन्यात् । निषेधशास्त्रं तु तादात्विकं सौन्द­र्य­म­बा­ध­मा­न­मेव प्रवृ­त्त्यु­न्मुखं नरं निवा­र­य­दा­य­त्या­मस्य दुःख­फ­ल­त्व­म­व­ग­म­यति । यथाह “अकर्तव्यो दुःखफलः” इति । ततो रागतः प्रवृ­त्त­म­प्या­यत्यां दुःखतो बिभ्यतं पुरुषं शक्नोति निवारयितुमिति बलीयान् शास्त्रीयः प्रतिषेधो रागतः प्रवृत्तेरिति न तया विकल्पमर्हति । शास्त्रीयौ तु विधिनिषेधौ तुल्यबलतया षोड­शि­ग्र­ह­ण­व­द्वि­क­ल्प्येते । तत्र हि विधि­द­र्श­ना­त्प्र­धा­न­स्यो­प­का­र­भू­यस्त्वं कल्प्यते । निषेधदर्शनाच्च वैगुण्येऽपि फल­सि­द्धि­र­व­ग­म्यते । तथाह “अर्थ­प्रा­प्त­व­दिति चेन्न तुल्यत्वादुभयं शब्दलक्षणं” इति । नच वाच्यं यावद्यजतिषु येयजामहकरणं याव­द्य­ज­ति­सा­मा­न्य­द्वा­रे­णा­नु­याजं यज­ति­वि­शे­ष­मु­प­स­र्पति तावदनुयाजगतेन निषेधेन तन्निषिद्धमिति शीघ्रप्रवृत्तेः सामा­न्य­शा­स्त्रा­द्वि­शे­ष­नि­षेधो बलवानिति । यतो भवत्वेवंविधिषु ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेति । तत्र तक्रविधिर्न दधिविधिमपेक्षते प्रवर्तितुमिह तु प्राप्ति­पू­र्व­क­त्वा­त्प्र­ति­षे­धस्य येयजामहस्य चान्य­तोऽ­प्रा­प्ते­स्त­न्नि­षे­धेन निषेधप्राप्त्यै तद्वि­धि­र­पे­क्ष­णीयः । नच सापेक्षतया निषेधाद्विधिरेव बली­या­नि­त्य­तु­ल्य­शि­ष्ट­तया न विकल्पः किन्तु निषेधस्यैव बाधनमिति साम्प्रतं, तथा सति निषेधशास्त्रं प्रमत्तगीतं स्यात् । नच तद्युक्तं तुल्यं हि साम्प्रदायिकम् । नच न तौ पशौ करो­ती­ति­व­द­र्थ­वा­दता । अस­म­वे­ता­र्थ­त्वात् । पशौ हि नाज्यभागौ स्त इत्युपपद्यते । न चात्र तथा येयजामहाभावः, यजतिषु येयजामहविधानात् । अनुयाजानां च तद्भावात् । नच पर्यु­दा­स­स्त­दा­न­नु­या­जे­ष्विति, कात्यायनमतेन नियमप्रसक्तेः । तस्मा­द्वि­हि­त­प्र­ति­षि­द्ध­तया विकल्प इति प्राप्तम् । एवं प्राप्त उच्यते उक्तं षोड­शि­ग्र­ह­ण­यो­र्वि­कल्प इति । नहि तत्रान्या गतिरस्ति । तेना­ष्ट­दो­ष­दु­ष्टोऽपि विकल्प आस्थीयते पक्षेऽपि प्रामाण्यान्मा भूत्प्र­म­त्त­गी­त­तेति । इह तु पर्यु­दा­से­ना­प्यु­प­पत्तौ सम्भ­व­न्त्या­म­न्याय्यं विक­ल्पा­श्र­य­ण­म­यु­क्तम् । एवं हि तदा नञः सम्ब­न्धोऽ­न­नु­या­जेषु यज­ति­ष्व­नु­या­ज­व­र्ति­तेषु येयजामहः कर्तव्य इति । किमतो यद्येवम् । एतदतो भवति - नानु­या­जे­ष्वि­त्ये­त­द्वा­क्य­म­प­रि­पूर्णं साकाङ्क्षं पूर्व­वा­क्यै­क­दे­शेन सम्भन्त्स्यते यदे­त­द्ये­य­जा­म­ह­ङ्क­रो­ती­त्ये­त­न्ना­नु­या­जेषु यावदुक्तं स्याद­नु­या­ज­व­र्जि­ते­ष्विति तावदुक्तं भवति नानुयाजेष्विति । तथाच यजि­ति­वि­शे­ष­णा­र्थ­त्वा­द­न­नु­या­ज­वि­धि­रे­वा­य­मिति प्रति­षे­धा­भा­वान्न विकल्पः । न चाभि­यु­क्त­त­र­पा­णि­नि­वि­रोधे कात्या­य­न­स्या­स­द्वा­दित्वं नित्यसमासवादिनः सम्भवति । स हि विभाषाधिकारे समासं शास्ति । तस्मा­द­नु­या­ज­व­र्जि­तेषु येय­जा­म­ह­वि­धा­न­मिति सिद्धम् ।

वर्णकान्तरमाह –
अथवैतास्विति ।
यथा हि सुकृ­त­दु­ष्कृ­त­यो­र­मू­र्तयोः कल्पनं नाञ्जसं मूर्त्य­नु­वि­धा­यि­त्वा­त्क­म्पस्य । तथा­न्य­दी­य­यो­र­न्यत्र सञ्चा­रोऽ­प्य­नु­प­प­न्नोऽ­मू­र्त­त्वा­देव । तस्माद्यत्र विधूननमात्रं श्रुतं तत्र कम्पनेन वरं स्वका­र्या­र­म्भा­च्चा­ल­न­मा­त्र­मेव लक्ष्यतां न तु ततोऽ­प­ग­त्या­न्यत्र सञ्चारः कल्प­ना­गौ­र­व­प्र­स­ङ्गात् । तस्मा­त्स्व­का­र्या­र­म्भा­च्चा­लनं विधूननमिति प्राप्तेऽ­भि­धी­यते - यत्र ताव­दु­पा­य­न­श्रु­ति­स्त­त्रा­वश्यं त्यागो विधूननं वक्तव्यम् । क्वचिदपि चेद्विधूननं त्यागे वर्तते तथा सत्यन्यत्रापि तत्रैव वर्तितुमर्हति । एवं हि न वर्तेत यदि विधूननमिह मुख्यं लभ्येत । न चैतदस्ति । तत्रापि स्वका­र्या­च्चा­ल­नस्य लक्ष्यमाणत्वात् । नच प्रामाणिकं कल्पनागौरवं लोह­ग­न्धि­ता­मा­च­रति । अपि­चा­ने­का­र्थ­त्वा­द्धा­तूनां त्यागेऽपि विधूयेति मुख्यमेव भविष्यति । प्राचुर्येण त्यागेऽपि लोके प्रयोगदर्शनात् । विनि­ग­म­न­हे­तो­र­भा­वात् । गणकारस्य चोप­ल­क्ष­ण­त्वे­ना­प्य­र्थ­नि­र्दे­शस्य तत्र दर्शनात् । तस्माद्धानार्थ एवात्रेति युक्तम् ॥ २६ ॥

साम्पराये तर्त­व्या­भा­वा­त्तथा ह्यन्ये ।
ननु पाठक्रमादर्धपथे सुकृ­त­दु­ष्कृ­त­त­रणे प्रतीयेते । विद्या­सा­म­र्थ्याच्च प्रागे­वा­व­ग­म्येते । तथा शाठ्यायनिनां ताण्डिनां च श्रुतेः । श्रुत्यर्थौ च पाठ­क्र­मा­द्ब­ली­यांसौ, “अग्निहोत्रं जुहोति यवागूं पचति” इत्यत्र यथा । तस्मा­त्पू­र्व­प­क्षा­भा­वा­द­ना­र­भ्य­मे­तत् । अत्रोच्यते । नैत­त्पा­ठ­क्र­म­मा­त्र­मपि तु श्रुति­स्त­त्सु­कृ­त­दु­ष्कृते विधूनुत इति । तदिति हि सर्वनाम तस्मादर्थे सन्नि­हि­त­प­रा­म­र्शकं तस्य हेतुभावमाह । सन्निहितं च यदनन्तरं श्रुतम् । तच्चार्धपथवर्ति विर­जा­न­दी­म­नोऽ­भि­ग­म­न­मि­त्य­र्ध­पथ एव सुकृ­त­दु­ष्कृ­त­त्यागः । नच श्रुत्य­न्त­र­वि­रोधः । अर्धपथेऽपि पापविधूनने ब्रह्म­लो­क­स­म्भ­वा­त्प्रा­क्का­ल­तो­प­पत्तेः । एवं शाठ्या­य­नि­ना­म­प्य­वि­रोधः । नहि तत्र जीवन्निति वा जीवत इति वा श्रुतम् । तथा चार्धपथ एव सुकृ­त­दु­ष्कृ­त­वि­मोकः । एवंच न पर्य­ङ्क­वि­द्या­त­स्त­त्प्र­क्षय इति पूर्वः पक्षः । राद्धान्तस्तु विद्या­सा­म­र्थ्य­वि­धू­त­क­ल्म­षस्य ज्ञानवत उत्तरेण पथा गच्छतो ब्रह्म­प्रा­प्तिर्न चाप्र­क्षी­ण­क­ल्म­ष­स्यो­त्त­र­मा­र्ग­ग­मनं सम्भवति । यथा यवा­गू­पा­का­त्प्रा­ग्ना­ग्नि­हो­त्रम् । यम­नि­य­मा­द्य­नु­ष्ठा­न­स­हि­ताया विद्याया उत्तरेण मार्गेण पर्य­ङ्क­स्थ­ब्र­ह्म­प्रा­प्त्यु­पा­य­त्व­श्र­व­णात् । अप्र­क्षी­ण­पा­प्म­नश्च तदनुपपत्तेः । विद्यैव तादृशी कल्मषं क्षपयति क्षपितकल्मषं चोत्तरमार्गं प्रापयतीति कथमर्धपथे कल्मषक्षयः । तस्मा­त्पा­ठ­क्र­म­बा­धे­ना­र्थ­क्र­मोऽ­नु­स­र्तव्यः । ननु न पाठ­क्र­म­मा­त्र­मत्र, तदिति सर्वनामश्रुत्या संनि­हि­त­प­रा­म­र्शा­दि­त्यु­क्तम् । तदयुक्तं, बुद्धि­सं­नि­धा­न­मा­त्र­म­त्रो­प­यु­ज्यते नान्यत् , तच्चानन्तरस्येव विद्या­प्र­क­र­णा­द्वि­द्याया अपीति समाना श्रुति­रु­भ­य­त्रा­पीति । अर्थपाठौ परिशिष्येते तत्र चार्थो बलीयानिति । नच ताण्ड्या­दि­श्रु­त्य­वि­रोधः पूर्वपक्षे । अश्व इव रोमाणि विधूयेति हि स्वतन्त्रस्य पुरुषस्य व्यापारं ब्रूते, नच परेतस्यास्ति स्वातन्त्र्यम् , तस्मा­त्त­द्वि­रोधः ॥ २७ ॥

छन्दत उभयाविरोधात् ।
केभ्य­श्चि­त्प­देभ्य इदं सूत्रम् । ननु यथा परेतस्योत्तरेण पथा ब्रह्म­प्रा­प्ति­र्भ­व­तीति विद्याफलमेवं तस्यैवार्धपथे सुकृ­त­दु­ष्कृ­त­हा­नि­रपि भविष्यतीति शङ्कापदानि तेभ्य उत्तरमिदं सूत्रम् ।

तद्व्याचष्टे –
यदि च देहा­द­प­सृ­प्त­स्येति ।
विद्याफलमपि ब्रह्म­प्रा­प्ति­र्ना­प­रे­तस्य भवितुमर्हति शङ्कापदेभ्यः । यथाहुः - नाजनित्वा तत्र गच्छन्तीति । सुकृ­त­दु­ष्कृ­त­प्र­क्ष­यस्तु सत्यपि नरशरीरे सम्भवतीति समर्थस्य हेतो­र्य­म­नि­य­मा­दि­स­हि­ताया विद्यायाः कार्य­क्ष­या­यो­गा­द्युक्तो जीवत एव सुकृ­त­दु­ष्कृ­त­क्षय इति सिद्धम् । छन्दतः स्वच्छन्दतः स्वेच्छयेति यावत् । स्वेच्छ­या­नु­ष्ठानं यम­नि­य­मा­दि­स­हि­ताया विद्यायाः । तस्य जीवतः पुरुषस्य स्यान्न मृतस्य । तत्पूर्वकं च सुकृ­त­दु­ष्कृ­त­हानं स्याज्जीवत एव । समर्थस्य क्षेपायोगात् । एवं कारणानन्तरं कार्योत्पादे सति निमि­त्त­नै­मि­त्त­क­यो­स्त­द्भा­व­स्यो­प­प­त्ति­स्ता­ण्डि­शा­ठ्या­य­नि­श्रु­त्योश्च सङ्गतिरितरथा स्वात­न्त्र्या­भा­वे­ना­स­ङ्ग­ति­रुक्ता स्यात् । तदनेनोभयाविरोधो व्याख्यातः । ये तु परस्य विदुषः सुकृतदुष्कृते कथं परत्र सङ्क्रामत इति शङ्कोत्तरतया सूत्रं व्याचख्युः । छन्दतः सङ्कल्पत इति श्रुति­स्मृ­त्यो­र­वि­रो­धा­देव । न त्वत्रा­ग­म­ग­म्येऽर्थे स्वातन्त्र्येण युक्ति­र्नि­वे­श­नी­येति । तेषा­म­धि­क­र­ण­श­री­रा­नु­प्र­वेशे सम्भ­व­त्य­र्था­न्त­रो­प­व­र्ण­न­म­स­ङ्ग­त­मे­वेति ॥ २८ ॥

गते­र­र्थ­व­त्त्व­मु­भ­य­था­न्यथा हि विरोधः ।
यथा हानि­सं­नि­धा­वु­पा­य­न­म­न्यत्र श्रुतमिति, यत्रापि केवला हानिः श्रूयते तत्रापि उपा­य­न­मु­प­स्था­प­य­त्येवं तत्सन्निधावेव देवयानः पन्थाः श्रुत इति यत्रापि सुकृ­त­दु­ष्कृ­त­हानिः केवला श्रुता तत्रापि देवयानं पन्था­न­मु­प­स्था­प­यि­तु­म­र्हति । नच निरञ्जनः परमं साम्य­मु­पै­ती­त्य­नेन विरोधः । देवयानेन पथा ब्रह्म­लो­क­प्राप्तौ निरञ्जनस्य पर­म­सा­म्यो­प­पत्तेः । तस्मा­द्धा­नि­मात्रे देवयानः पन्थाः सम्बध्यत इति प्राप्तम् । एवं प्राप्त उच्यते - विद्वान् पुण्यपापे विधूयनिरञ्जनः परमं साम्यमुपैतीति हि विदुषो विधू­त­पु­ण्य­पा­पस्य विद्यया क्षेम­प्रा­प्ति­माह । भ्रम­नि­ब­न्ध­नोऽ­क्षेमो याथा­त्म्य­ज्ञा­न­ल­क्ष­णया विद्यया विनिवर्तनीयः । नासौ देश­वि­शे­ष­म­पे­क्षते । नहि जातु रज्जौ सर्प­भ्र­म­नि­वृ­त्तये समुत्पन्नं रज्जु­त­त्त्व­ज्ञानं देश­वि­शे­ष­म­पे­क्षते । विद्यो­त्पा­द­स्यैव स्ववि­रो­ध्य­वि­द्या­नि­वृ­त्ति­रू­प­त्वात् । नच विद्योत्पादाया ब्रह्म­लो­क­प्रा­प्ति­र­पे­क्ष­णीया । यम­नि­य­मा­दि­वि­शु­द्ध­स­त्त्व­स्ये­हैव श्रव­णा­दि­भि­र्वि­द्यो­त्पा­दात् । यदि पर­मा­र­ब्ध­का­र्य­क­र्म­क्ष­प­णाय शरी­र­पा­ता­व­ध्य­पे­क्षेति न देव­या­ने­ना­स्ती­हार्थ इति श्रुति­दृ­ष्ट­वि­रो­धा­न्ना­पे­क्षि­तव्य इति । अस्ति तु पर्य­ङ्क­वि­द्यायां तस्यार्थ इत्युक्तं द्वितीयेन सूत्रेणेति । ये तु यदि पुण्यमपि निवर्तते किमर्था तर्हि गतरित्याशङ्क्य सूत्रमवतारयन्ति । गते­र­र्थ­व­त्त्व­मु­भ­यथा दुष्कृ­त­नि­वृत्त्या सुकृतनिवृत्त्या च । यदि पुनः पुण्यमनुवर्तेत ब्रह्म­लो­क­ग­त­स्या­पीह पुण्य­फ­लो­प­भो­गा­या­वृत्तिः स्यात् । तथा चैतेन प्रति­पा­द्य­मा­ना­ग­त्य­ना­वृ­त्ति­श्रु­ति­वि­रोधः । तस्मा­द्दु­ष्कृ­त­स्येव सुकृतस्यापि प्रक्षय इति तैः पुन­र­ना­श­ङ्क­नी­य­मे­वा­श­ङ्कि­तम् । विद्या­क्षि­प्तायां हि गतौ केयमाशङ्का यदि क्षीणसुकृतः किमर्थमयं यातीति । नह्येषा सुकृतनिबन्धना गतिरपि तु विद्यानिबन्धना । तस्मा­द्वृ­द्धो­क्त­मे­वो­प­व­र्णनं साध्विति ॥ २९ ॥

अनियमः सर्वासामविरोधः शब्दा­नु­मा­ना­भ्याम् ।
प्रकरणं हि धर्माणां नियामकम् । यदि तु तन्नाद्रियते ततो दर्श­पू­र्ण­मा­स­ज्यो­ति­ष्टो­मा­दि­धर्माः सङ्कीर्येरन् । नच तेषां विकृतिषु सौर्यादिषु द्वादशाहादिषु चोदकतः प्राप्तिः । सर्व­त्रौ­प­दे­शि­क­त्वात् । नच दर्वि­हो­म­स्या­प्र­कृ­ति­वि­का­र­स्या­ध­र्म­क­त्वम् । नच सर्वधर्मयुक्तं कर्म किञ्चिदपि शक्यमनुष्ठातुम् । न चैवं सति श्रुत्यादयोऽपि विनि­यो­ज­का­स्ते­षा­मपि हि प्रकरणेन सामान्यसम्बन्धे सति विनियोजकत्वात् । यत्रापि विनाप्रकरणं श्रुत्यादिभ्यो विनि­यो­गोऽ­व­ग­म्यते तत्रापि तन्निर्वाहाय प्रकरणस्यावश्यं कल्पनीयत्वात् । तस्मात्प्रकरणं विनियोगाय तन्नियमाय चाव­श्या­भ्यु­पे­त­व्य­म­न्यथा श्रुत्य­दी­ना­म­प्रा­मा­ण्य­प्र­सक्तेः । तस्मा­द्या­स्वे­वो­पा­स­नासु देवयानः पितृयाणो वा पन्था आम्नातस्तास्वेव न तूपासनान्तरेषु तदनाम्नानात् । नच “ये चेमेऽरण्ये श्रद्धा तप इत्युपासते”(छा. उ. ५ । १० । १)“ये चेमेऽरण्ये श्रद्धा तप इत्युपासते”(छा. उ. ५ । १० । १) इति सामा­न्य­व­च­ना­त्स­र्व­वि­द्यासु तत्पथप्राप्तिः । श्रद्धा­त­पः­प­रा­य­णा­ना­मेव तत्र तत्पथप्राप्तिः श्रूयते, न तु विद्या­प­रा­य­णा­नाम् । अपिचैवं सत्येकस्यां विद्यायां मार्गोपदेशः सर्वासु विद्या­स्वि­त्ये­क­त्रैव मार्गोपदेशः कर्तव्यो न विद्यान्तरे । विद्यान्तरे च श्रूयते । तस्मान्न सर्वोपासनासु पथिप्राप्तिरिति प्राप्तम् । एवं प्राप्ते उच्यते “ये चेमेऽरण्ये श्रद्धा तप इत्युपासते” इति न श्रद्धा­त­पो­मा­त्रस्य पथि­प्रा­प्ति­मा­हापि तु विद्यया तदा­रो­ह­न्ती­त्यत्र नावि­द्वां­स­स्त­प­स्विन इति केवलस्य तपसः श्रद्धायाश्च तत्प्रा­प्ति­प्र­ति­षे­धा­द्वि­द्या­स­हिते श्रद्धातपसी तत्प्रा­प्यु­पा­य­तया वदन् विद्या­न्त­री­ला­ना­मपि पञ्चा­ग्नि­वि­द्या­विद्भिः समानमार्गतां दर्शयति । तथान्यत्रापि पञ्चा­ग्नि­वि­द्या­धि­का­रेऽ­भि­धी­यते “य एव­मे­ता­द्वि­दुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते”(छा. उ. ५ । २ । १५) इति । सत्यशब्दस्य ब्रह्म­ण्ये­वा­न­पे­क्ष­प्र­वृ­त्ति­त्वात् । तदेव हि सत्यमन्यस्य मिथ्यात्वेन कथ­ञ्चि­दा­पे­क्षि­क­स­त्य­त्वात् । पञ्चाग्निविदां चेत्थं­वि­त्त­यै­वो­पा­त्त­त्वात् । विद्या­सा­ह­च­र्याच्च विद्या­न्त­र­प­रा­य­णा­ना­मे­वे­द­मु­पा­दानं न्याय्यम् । मार्ग­द्व­य­भ्र­ष्टानां चाधोगतिश्रवणात् । तत्रापि च योग्यतया देव­या­न­स्यै­वे­हा­ध्व­नोऽ­भि­स­म्बन्धः । एतदुक्तं भवति - भवेत्प्रकरणं नियामकं यद्य­नि­य­म­प्र­ति­पा­दकं वाक्यं श्रौतं स्मार्तं वा न स्यादस्ति तु तत्तस्य च प्रक­र­णा­द्ब­ली­य­स्त्वम् । तस्मादनियमो विद्या­न्त­रे­ष्वपि सगुणेषु देवयानः पन्था अस­कृ­न्मा­र्गो­प­दे­शस्य च प्रयोजनं वर्णितं भाष्यकृतेति ॥ ३१ ॥

याव­द­धि­का­र­म­व­स्थि­ति­रा­धि­का­रि­का­णाम् ।
सगुणायां विद्यायां चिन्तां कृत्वा निर्गुणायां चिन्तयति । निर्गुणायां विद्यायां नापवर्गः पलं भवितुमर्हति । श्रुति­स्मृ­ती­ति­हा­स­पु­रा­णेषु विदु­षा­म­प्य­पा­न्त­र­त­मः­प्र­भृ­तीनां तत्त­द्दे­ह­प­रि­ग्र­ह­प­रि­त्यागौ श्रूयेते । तदपवर्गफलत्वे नोपपद्यते । अपवृक्तस्य तदनुपपत्तेः । उपपत्तौ वा तल्लक्षणायोगात् । अपु­न­रा­वृ­त्तिर्हि तल्लक्षणम् । तेन सत्यामपि विद्यायां तदनुपपत्तेर्न मोक्षः फलं, विद्यायां विभूतयस्तु तास्तास्तस्याः फलम् । अपु­न­रा­वृ­त्ति­श्रुतिः पुन­स्त­त्प्र­शं­सा­र्थेति मन्यते । नच “तावदेवास्य चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य”(छा. उ. ६ । १४ । २) इति श्रुतेर्विदुषो देह­पा­ता­व­धि­प्र­ती­क्षा­व­द्व­सि­ष्ठा­दी­ना­मपि प्रार­ब्ध­क­र्म­फ­लो­प­भो­ग­प्र­ती­क्षेति साम्प्रतम् । येन हि कर्मणा वसि­ष्ठा­दी­ना­मा­रब्धं शरीरं तत्प्रतीक्षा स्यात् । तथाच न शरीरान्तरं ते गृह्णीयुः । नच तावदेव चिर­मि­त्ये­त­द­प्या­र्ज­वेन घटते । समर्थहेतुसंनिधौ क्षेपायोगात् । तस्मादेतदपि विद्यास्तुत्यैव गमयितव्यम् । तस्मान्नापवर्गो विद्याफलम् । तथा चापवर्गाक्षेपेण पूर्वः पक्षः । अत्र च पाक्षिकं मोक्ष­हे­तु­त्व­मि­त्या­पा­ततः, अहेतुत्वं वेति तु पूर्व­प­क्ष­त­त्त्वम् । राद्धान्तस्तु विद्या­क­र्म­स्व­नु­ष्ठा­न­तो­षि­ते­श्व­र­चो­दि­तम् । अधिकारं समाप्यैते प्रतिशन्ति परं पदम् ॥ निर्गुणायां विद्या­या­म­प­व­र्ग­ल­क्षणं श्रूयमाणं न स्तुतिमात्रतया व्याख्या­तु­मु­चि­तम् । पौर्वा­प­र्य­प­र्या­लो­चने भूयसीनां श्रुतीनामत्रैव तात्प­र्या­व­धा­र­णात् । नच यत्र तात्पर्यं तदन्यथयितुं युक्तम् । उक्तं हि “न विधौ परः शब्दार्थ” इति । नच विदु­षा­म­पा­न्त­र­त­मः­प्र­भृ­तीनां तत्त­द्दे­ह­स­ञ्चा­रा­त्स­त्या­मपि ब्रह्म­वि­द्या­या­म­नि­र्मो­क्षान्न ब्रह्मविद्या मोक्षस्य हेतुरिति साम्प्रतम् । हेतोरपि सति प्रतिबन्धे कार्यानुपजनो न हेतुभावमपाकरोति । नहि वृन्त­फ­ल­सं­यो­ग­प्र­ति­बद्धं गुरुत्वं न पतनमजीजनदिति प्रतिबन्धापगमे तत्कुर्वन्न तद्धेतुः । नच न सेतु­प्र­ति­ब­न्धा­ना­मपां निम्न­दे­शा­न­भि­स­र्प­ण­मिति सेतुभेदे न निम्न­म­भि­स­र्पन्ति । तद्वदिहापि विद्या­क­र्मा­रा­ध­ना­व­र्जि­ते­श्व­र­वि­हि­ता­धि­का­र­प­द­प्र­ति­बद्धा ब्रह्मविद्या यद्यपि न मुक्तिं दत्तवती तथापि तत्परिसमाप्तौ प्रतिबन्धविगमे दास्यति । यथा हि प्रार­ब्ध­वि­पा­कस्य कर्मणः प्रक्षयं प्रती­क्ष­मा­ण­श्च­र­म­दे­ह­स­मु­त्प­न्न­ब्र­ह्म­सा­क्षा­त्का­रोऽपि ध्रियतेऽथ तत्प्र­क्ष­या­न्मोक्षं प्राप्नोति । एवं प्रार­ब्धा­धि­का­र­ल­क्ष­ण­फ­ल­वि­द्या­कर्मा पुरुषो वसि­ष्ठा­दि­र्वि­द्वा­नपि तत्क्षयं प्रतीक्षमाणो युगुपत्क्रमेण वा तत्त­द्दे­ह­प­रि­ग्र­ह­प­रि­त्यागौ कुर्व­न्मु­क्तोऽ­प्य­ना­भो­गा­त्मि­कया प्रख्यया सांसारिक इव विहरति ।

तदिदमुक्तम् –
सकृ­त्प्र­वृ­त्त­मेव हि ते कर्मा­श­य­म­धि­का­र­फ­ल­दा­ना­येति ।
प्रार­ब्ध­वि­पा­कानि तु कर्माणि वर्जयित्वा व्यपगतानि ज्ञाने­नै­वा­ति­वा­हि­तानि ।

न चैते जातिस्मरा इति ।
यो हि परवशो देहं परित्याज्यते देहान्तरं च नीतः पूर्व­ज­न्मा­नु­भू­तस्य स्मरति स जन्म­वा­ञ्जा­ति­स्म­रश्च । गृहादिव गृहान्तरे स्वेच्छया कायान्तरं सञ्चरमाणो न जातिस्मर आख्यायते । व्युद्य विवादं कृत्वा ।

व्यतिरेकमाह –
यदि ह्युपयुक्ते सकृत्प्रवृत्ते प्रारब्धविपाके कर्मणि कर्मा­न्त­र­म­प्रा­र­ब्ध­वि­पा­क­मिति ।

स्येदेतत् । विद्य­या­वि­द्या­दि­क्ले­श­नि­वृत्तौ नावश्यं निःशेषस्य कर्माशयस्य निवृ­त्ति­र­ना­दि­भ­व­प­र­म्प­रा­हि­त­स्या­नि­य­त­वि­पा­क­का­ल­स्या­स­ङ्ख्ये­य­त्वा­त्क­र्मा­श­य­स्ये­त्यत आह –
न चावि­द्या­दि­क्ले­श­दाहे सतीति ।

नहि समाने विनाशहेतौ कस्यचिद्विनाशो नापरस्येति शक्यं वदितुम् । तत्किमिदानीं प्रवृत्तफलमपि कर्म विनश्येत् । तथाच न विदुषो वसि­ष्ठा­दे­र्दे­ह­धा­र­णे­त्यत आह –
प्रवृत्तफलस्य तु कर्मण इति ।
तस्य तावदेव चिरमिति श्रुति­प्रा­मा­ण्या­द­ना­ग­त­फ­ल­मेव कर्म क्षीयते न प्रवृ­त्त­फ­ल­मि­त्य­व­ग­म्यते ।

अपिच नाधिकारवतां सर्वे­षा­मृ­षी­णा­मा­त्म­त­त्त्व­ज्ञानं तेना­व्या­प­कोऽ­प्ययं पर्वपक्ष इत्याह –
ज्ञानान्तरेषु चेति ।

तत्कि­न्ते­षा­म­नि­र्मोक्ष एव, नेत्याह –
ते पश्चा­दै­श्व­र्य­क्षय इति ।
निर्विण्णा विरक्ताः । प्रतिसञ्चरः प्रलयः । अपिच स्वर्गा­दा­व­नु­भ­व­प­थ­म­ना­रो­हति शब्दैकसमधिगम्ये विचिकित्सा स्यादपि मन्द­धि­या­मा­मु­ष्मि­क­फ­लत्वं प्रति । यथा चार्थवादः “को हि तद्वेद यद­मु­ष्मिं­ल्लो­केऽस्ति वा न वेति” ।

अद्वै­त­ज्ञा­न­फ­लत्वे मोक्ष­स्या­नु­भ­व­सिद्धे विचि­कि­त्सा­ग­न्धोऽपि नास्तीत्याह –
प्रत्य­क्ष­फ­ल­त्वा­च्चेति ।
अद्वै­त­त­त्त्व­सा­क्षा­त्कारो हि अवि­द्या­स­मा­रो­पितं प्रपञ्चं समूलघातं निघ्नन्घोरं संसा­रा­ङ्गा­र­प­रि­ता­प­मु­प­श­म­यति पुरु­ष­स्ये­त्य­नु­भ­वा­दिति स्फुट­मु­प­प­त्ति­द्र­ढि­म्नश्च श्रुतिर्दर्शिता । तच्चा­नु­भ­वा­द्वा­म­दे­वा­दीनां सिद्धम् ।

ननु तत्त्वमसि वर्तस इति वाक्यं कथमनुभवमेव द्योतयतीत्यत आह –
नहि तत्त्व­म­सी­त्य­स्येति ।
वर्तमानापदेशस्य भविष्यदर्थता मृत­श­ब्दा­ध्या­हा­र­श्चा­शक्य इत्यर्थः ॥ ३२ ॥

अक्षरधियां त्ववरोधः सामा­न्य­त­द्भा­वा­भ्या­मौ­प­स­द­व­त्त­दु­क्तम् ।
अक्षगविषयाणां प्रतिषेधधियां सर्व­वे­द­व­र्ति­नी­ना­म­व­रोध उपसंहारः प्रति­षे­ध­सा­मा­न्या­द­क्ष­रस्य तद्भा­व­प्र­त्य­भि­ज्ञा­नात् । आनन्दादयः प्रधा­न­स्ये­त्य­त्रा­य­मर्थो यद्यपि भावरूपेषु विशेषणेषु सिद्ध­स्त­न्त्र्या­य­तया च निषेधरूपेष्विति सिद्ध एव । तथापि तस्यैवैष प्रप­ञ्चोऽ­व­ग­न्तव्यः ।

निदर्शनम् । जामदग्न्येऽहीन इति ।
यद्यपि शाबरे दत्तो­त्त­र­म­त्रो­दा­ह­र­णा­न्तरं तथापि तुल्य­न्या­य­त­यै­दपि शक्य­मु­दा­ह­र्तु­मि­त्यु­दा­ह­र­णा­न्तरं दर्शितम् । तत्र शाब­र­मु­दा­ह­र­ण­म­स्त्या­धानं यजुर्वेदविहितम् “य एवं विद्वा­न­ग्नि­मा­धत्त” इति । तदङ्गत्वेन यजुर्वेद एव “य एवं विद्वा­न्वा­र­व­न्तीयं गायति य एवं विद्वा­न्य­ज्ञा­य­ज्ञीयं गायति य एवं विद्वा­न्वा­म­देव्यं गायति” इति विहितम् । एतानि च सामानि साम­वे­दे­षू­त्प­न्नानि । तत्रेदं सन्दि­ह्य­ते­कि­मे­तानि यत्रोत्पद्यन्ते तत्र­त्यै­ने­वो­च्चै­ष्ट्वेन स्वरेणाधाने प्रयो­क्त­व्या­न्यथ यत्र विनियुज्यन्ते तत्र­त्ये­नो­पां­शु­त्वेन स्वरेण “उच्चैः साम्नोपांशु यजुषा” इति श्रुतेः । किं तावत्प्राप्तम् । उत्प­त्ति­वि­धि­नै­वा­पे­क्षि­तो­पा­य­त्वा­त्मना विहि­त­त्वा­द­ङ्गनां तस्यैव प्राथ­म्या­त्त­न्नि­ब­न्धन एवोच्चैःस्वरे प्राप्त उच्यते गुण­मु­ख्य­व्य­ति­क्रमे तद­र्थ­त्वा­न्मु­ख्येन वेदसंयोगः । अयमर्थः उत्प­त्ति­वि­धि­र्गुणो विनियोगविधिस्तु प्रधानं, तद­न­यो­र्व्या­ति­क्रमे विरोधे उत्प­त्ति­वि­ध्या­लो­च­ने­नो­च्चैष्ट्वं विनि­यो­ग­वि­ध्या­लो­च­नेन चोपांशुत्वं सोऽयं विरोधो व्यति­क्र­म­स्त­स्मि­न्व­य­ति­क्रमे मुख्येन प्रधानेन नियु­ज्य­मा­न­त्व­रू­पेण तस्य वार­व­न्ती­या­दे­र्वे­द­सं­योगो ग्राह्यो नोत्प­द्य­मा­न­त्वेन गुणेन । कुतः, विनि­यु­ज्य­मा­न­त्वस्य मुख्य­त्वे­नो­त्प­द्य­मा­न­त्वस्य गुणत्वेन तद­र्थ­त्वा­द्वि­नि­यु­ज्य­मा­ना­र्थ­त्वा­दु­त्प­द्य­मा­न­त्वस्य । एतदुक्तं भव­ति­य­द्य­प्यु­त्प­त्ति­वि­धा­वपि चातूरूप्यमस्ति विधि­त्व­स्या­वि­शे­षात् । तन्मा­त्र­ना­न्त­री­य­क­त्वाच्च चातूरूप्यस्य । तथापि वाक्या­ना­मै­द­म्पर्यं भिद्यते । एकस्यैव विधे­रु­त्प­त्ति­वि­नि­यो­गा­धि­का­र­प्र­यो­ग­रू­पेषु चतुर्षु मध्ये किञ्चिदेव रूपं केन­चि­द्वा­क्ये­नो­ल्लि­ख्यते यद­न्य­तोऽ­प्रा­प्तम् । तत्र यद्यपि सामवेदे सामानि विहितानि तथापि तद्वाक्यानां तदु­त्प­त्ति­मा­त्र­प­रता विनियोगस्य याजुर्वैदिकैरेव वाक्यै प्राप्तत्वात् । तथा­चो­त्प­त्ति­वा­क्येभ्यः समी­हि­ता­र्था­प्र­ति­ल­म्भा­द्वि­नि­यो­ग­वा­क्ये­भ्यश्च तद­व­ग­ते­स्त­द­र्था­न्ये­वो­त्प­त्ति­वा­क्यानि भवन्तीति तत्र येन वाक्येन विनियुज्यन्ते तस्यैव स्वरस्य साध­न­त्वं­सं­स्प­र्शिनो ग्रहणं न तु रूप­मा­त्र­स्प­र्शिन इति । भाष्य­का­री­य­म­प्यु­दा­ह­र­ण­मे­व­मेव योजयितव्यम् ।

उद्गा­तृ­वे­दो­त्प­न्नानां मन्त्र­णा­मु­द्गात्रा प्रयोगे प्राप्ते अध्व­र्यु­प्र­दा­न­केऽपि पुरोडाशे विनि­यु­क्त­त्वा­त्प्र­धा­ना­नु­रो­धे­ना­ध्व­र्यु­णैव तेषां प्रयोगो नोद्गात्रेति दार्ष्टान्तिके योजयति –
एवमिहापीति ॥ ३३ ॥

इयदामननात् ।
“गुहां प्रवि­ष्टा­वा­त्मानौ”(ब्र. सू. १ । २ । ११) इत्यत्र सिद्धोऽप्यर्थः प्रपञ्च्यते । एकत्र भोक्त्र­भो­क्त्रो­र्वे­द्यता, अन्यत्र भोक्त्रोरेवेति वेद्य­भे­दा­द्वि­द्या­भेद इति । नच सृष्टि­रु­प­द­धा­ती­ति­व­त्पि­ब­द­पि­ब­ल्ल­क्ष­णा­परं पिबन्ताविति नेतुमुचितम् । सति मुख्यार्थसम्भवे तदाश्रयणायोगात् । नच वाक्य­शे­षा­नु­रो­धा­त्त­दा­श्र­य­णम् । सन्देहे हि वाक्य­शे­षा­न्नि­र्णयो नच मुख्य­ला­क्ष­णि­क­ग्र­ह­ण­वि­षयो विषयः सम्भवति, तुल्य­ब­ल­त्वा­भा­वात् । प्रकरणस्य च ततो बलीयसा वाक्येन बाधनात् । तस्मा­द्वे­द्य­भे­दा­द्वि­द्या­भेद इति प्राप्त उच्यते - द्वासु­प­र्णे­त्यत्र ऋतं पिबन्तावित्यत्र च द्वित्व­स­ङ्ख्यो­त्पत्तौ प्रतीयते तेन समानतौत्सर्गिकी । पिबन्ताविति द्वयोः पिबन्ता या सा बाधनीया, सा चोप­क्र­मो­प­सं­हा­रा­नु­रो­धेन न द्वयोरपि तु छत्रिन्यायेन लाक्षाणिकी व्याख्येया । येन ह्युपक्रम्यते येन चोपसंस्थियते तदनुरोधेन मध्यं ज्ञेयम् । यथा जामि­त्व­दो­ष­स­ङ्की­र्त­नो­प­क्रमे तत्प्र­ति­स­मा­धा­नो­प­सं­हारे च सन्दर्भे मध्यपातिनो विष्णुरूपांशु यष्ट­व्योऽ­जा­मि­त्वा­ये­त्या­दयः पृथ­ग्वि­धि­त्व­म­ल­भ­माना विधि­त्व­म­वि­व­क्षि­त्वा­र्थ­वा­द­तया नीतास्तत्कस्य हेतोरेकवाक्यता हि साधीयसी वाक्यभेदादिति । तथेहापि तदनुरोधेन पिब­द­पि­ब­त्स­मू­ह­परं लक्षणीयं पिबन्तावित्यनेन । तथाच वेद्या­भे­दा­द्वि­द्या­भेद इति । अपिच त्रिष्वप्येतेषु वेदान्तेषु प्रकरणत्रयेऽपि पौर्वा­प­र्य­प­र्या­लो­च­नया पर­मा­त्म­वि­द्यै­वा­व­ग­म्यते ।

यद्येवं कथं तर्हि जीवो­पा­दा­न­म­स्त्वि­त्यत आह –
तादा­त्म्य­वि­व­क्ष­येति ।
नास्यां जीवः प्रतिपाद्यते किन्तु परमात्मनोऽभेदं जीवस्य दर्श­यि­तु­म­सा­व­नू­द्यते । पर­मा­त्म­वि­द्या­या­श्चा­भे­द­वि­ष­य­त्वान्न भेदा­भे­द­वि­चा­रा­व­तारः । तस्मा­दै­क­वि­द्य­मत्र सिद्धम् ॥ ३४ ॥

अन्तरा भूत­ग्रा­म­व­त्स्वा­त्मनः ।
कौषी­त­के­य­क­हो­ल­चा­क्रा­य­णो­ष­स्त­प्र­श्नो­प­क्र­म­यो­र्वि­द्यो­र्नै­र­न्त­र्ये­णा­म्ना­तयोः किमस्ति भेदो न वेति विशये भेद एवेति भ्रूमः । कुतः यद्यप्युभयत्र प्रश्नो­त्त­र­यो­र­भेदः प्रतीयते, तथापि तत्स्यैवैकस्य पुनः श्रुते­र­वि­शे­षा­दा­न­र्थ­क्य­प्र­स­ङ्गा­द्य­ज­त्य­भ्या­स­व­द्भेदः प्राप्तः । न चैकस्यैव ताण्डिनां नवकृत्व उपदेशेऽपि यथा भेदो न भवति “स आत्मा तत्त्वमसि श्वेतकेतो”(छा. उ. ६ । १४ । ३) इत्यत्र तथेहाप्यभेद इति युक्तम् । भूय एव मा भगवान् विज्ञापयतु, इति हि तत्र श्रूयते तेनाभेदो युज्यते । न चेह तथास्ति । तेन यद्यपीह वेद्या­भे­दोऽ­व­ग­म्यते तथाप्येकत्र तस्यै­वा­श­ना­या­दि­मा­त्रा­त्य­यो­पा­धे­रु­पा­स­ना­दे­कत्र च कार्य­क­र­ण­वि­र­हो­पा­धे­रु­पा­स­ना­द्वि­द्या­भेद एवेति प्राप्ते प्रत्युच्यते । नैत­दु­पा­स­ना­वि­धा­न­प­र­मपि तु वस्तु­स्व­रू­प­प्र­ति­पा­द­न­परं प्रश्न­प्र­ति­व­च­ना­लो­च­ने­नो­प­ल­भ्यते । किमतो यद्येवम् । एतदतो भव­ति­वि­धे­र­प्रा­प्त­प्रा­प­णा­र्थ­त्वा­त्प्रा­प्ता­व­नु­प­पत्तिः । वस्तुस्वरूपं तु पुनः­पु­न­रु­च्य­मा­न­मपि न दोषमावहति शतकृत्वोऽपि हि पथ्यं वदन्त्याप्ताः । विशेषतस्तु वेदः पितृ­भ्या­म­प्य­भ्य­र्हितः । नच सर्वथा पौनरुक्त्यम् । एक­त्रा­श­ना­या­द्य­त्य­या­द­न्यत्र च कार्य­का­र­ण­प्र­वि­ल­यात् । तस्मादेका विद्या प्रत्य­भि­ज्ञा­नात् । उभाभ्यामपि विद्याभ्यां भिन्न आत्मा प्रतिपाद्यते इति यो मन्यते पूर्वपक्षैकदेशी तं प्रति सर्वा­न्त­र­त्व­वि­रोधो दर्शितः ॥ ३५ ॥

अन्यथा भेदा­नु­प­प­त्ति­रिति चेन्नो­प­दे­शा­न्त­र­व­दिति।
अस्य तु पूर्व­प­क्ष­त­त्त्वा­भि­प्रायो दर्शितः । सुगममन्यत् ॥ ३६ ॥

व्यतिहारो विशिंषन्ति हीतरवत् ।
उत्कृष्टस्य निकृ­ष्ट­रू­पा­प­त्ते­र्नो­भ­य­त्रो­भ­य­रू­पा­नु­चि­न्त­नम् । अपि तु निकृष्टे जीव उत्कृ­ष्ट­रू­पा­भे­द­चि­न्त­नम् । एवं हि निकृष्ट उत्कृष्टो भवतीति प्राप्तम् । एवं प्राप्त उच्यते इत­रे­त­रा­नु­वा­दे­ने­त­रे­त­र­रू­प­वि­धा­ना­दु­भ­य­त्रा­भ­य­चि­न्तनं विधीयते । इतरथा तु योऽहं सोऽसा­वि­त्ये­ता­व­दे­वो­च्येत । जीवा­त्मा­न­म­नू­द्ये­श्व­र­त्व­मस्य विधीयेत । न त्वीश्वरस्य जीवात्मत्वं योऽसौ सोऽहमिति । यथा तत्त्वमसीत्यत्र । तस्मा­दु­भ­य­रू­प­मु­भ­य­त्रा­ध्या­ना­यो­प­दि­श्यते । नन्वे­व­मु­त्कृ­ष्टस्य निकृ­ष्ट­त्व­प्र­सङ्ग इत्युक्तं तत्किमिदानीं सगुणे ब्रह्म­ण्यु­पा­स्य­मा­नेऽस्य वस्तुतो निर्गुणस्य निकृष्टता भवति । कस्मैचित्फलाय तथा ध्यानमात्रं विधीयते न त्वस्य निकृ­ष्ट­ता­मा­पा­द­य­तीति चेदिहापि व्यति­हा­रा­नु­चि­न्त­न­मा­त्र­मु­प­दि­श्यते फलाय न तु निकृष्टता भव­त्यु­त्कृ­ष्टस्य । अन्वाचयशिष्टं तु तादा­त्म्य­दार्ढ्यं भवन्नोपेक्षामहे । सत्य­का­मा­दि­गु­णो­प­दे­शैव तद्गु­णे­श्व­र­सि­द्धि­रिति सिद्ध­मु­भ­य­त्रो­भ­या­त्म­त्वा­ध्या­न­मिति ॥ ३७ ॥

सैव हि सत्यादयः ।
तद्वै तदेतदेव तदास सत्यमेव स यो हैतन्महद्यक्षं प्रथमजं वेदं सत्यं ब्रह्मेति जय­ती­मां­ल्लो­का­ञ्जित इत्यसावसद्य एव­मे­त­न्म­ह­द्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म । पूर्वोक्तस्य हृदयाख्यस्य ब्रह्मणः सत्य­मि­त्यु­पा­स­न­म­नेन सन्दर्भेण विधीयते । तदिति हृदयाख्यं ब्रह्मैकेन तदा परामृशति । एतदेवेति वक्ष्यमाणं प्रकारान्तरमस्य परामृशति । तत्तादाग्रे आस बभूव । किं तदित्यत आहसत्यमेव । सच्च मूर्तं त्यच्चामूर्तं च सत्त्यम् । तदुपासकस्य फलमाहस यो हैतमिति । यः प्रथमजं यक्षं पूज्यं वेद । कथं वेदेत्यत आह - सत्यं ब्रह्मेतीति । स जयतीमान् लोकान् । किञ्च जितो वशीकृत इनुशब्द इत्थं­श­ब्द­स्यार्थे वर्तते । विजेतव्यत्वेन बुद्धिसंनिहितं शत्रुं परामृशति असाविति । अस­द्भ­वे­न्न­श्येत् । उक्तमर्थं निगमयतिय एवमेतदिति । एवं विद्वा­न्क­स्मा­ज्ज­य­ती­त्यत आहसत्यमेव यस्मा­द्ब्र­ह्मेति । अत­स्त­दु­पा­स­ना­त्फ­लो­त्पा­दोऽपि सत्य इत्यर्थः । तद्यत्तत्सत्यं किमसौ । अत्रापि तत्पदाभ्यां रूपप्रकारौ परामृष्टौ । कस्मिं­न्ना­ल­म्बने तदुपासनीयमित्यत उत्तरम् - स आदित्यो य एष इत्यादिना तस्यो­प­नि­ष­द­ह­र­ह­मिति । हन्ति पाप्मानं जहाति च य एवं वेदेत्यन्तेन । उपनिषत्रहस्यं नाम । तस्य निर्वचनं - हन्ति पाप्मानं जहाति चेति । हन्ते­र्ज­हा­तेर्वा रूपमेतत् । तथाच निर्वचनं कुर्वन्फलं पापहानिमाहेति ।

तमिमं विषयमाह भाष्यकारः –
यो वै हैतमिति ।

सना­मा­क्ष­रो­पा­स­ना­मिति ।
तथाच श्रुतिः “तदेतदक्षरं सत्यमिति स इत्येकमक्षरं तीत्येकमक्षरं यमित्येकमक्षरं प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं तदेतदनृमुभयतः सत्येन परिगृहीतं सत्यभूयमेव भवति नैवं­वि­द्वां­स­म­नृतं हिनस्ति”(बृ. उ. ५ । ५ । १) इति । तीतीकारानुबन्ध उच्चारणार्थः । निर­नु­ब­न्ध­स्त­कारो द्रष्टव्यः । अत्र हि प्रथमोत्तमे अक्षरे सत्यं मृत्यु­रू­पा­भा­वात् । मध्यतो मध्येऽनृतमनृतं हि मृत्युः । मृत्य्व­नृ­त­यो­स्त­का­र­सा­म्यात् । तदेतदनृतं मृत्युरूपमुभयतः सत्येन परिगृहीतम् । अन्तर्भावितं सत्यरूपाभ्याम् । अतोऽकिञ्चित्करं तत्सत्यभूयमेव सत्यबाहुल्यमेव भवति । शेष­म­ति­रो­हि­ता­र्थम् । सेयं सत्यविद्यायाः सना­मा­क्ष­रो­पा­स­नता । यद्यपि तद्यत्सत्यमिति प्रकृ­ता­नु­क­र्षे­णा­भेदः प्रतीयते तथापि फलभेदेन भेदः साध्यभेदेनेव नित्य­का­म्य­वि­ष­यो­र्द­र्श­पू­र्ण­मा­साभ्यां स्वर्गकामो यजेत यावज्जीवं दर्श­पू­र्ण­मा­साभ्यां यजेतेति शास्त्रयोः सत्य­प्य­नु­ब­न्धा­भेदे भेद इति प्राप्ते प्रत्युच्यते - एकैवेयं विद्या तत्सत्यमिति प्रकृ­त­प­रा­म­र्शा­द­भे­देन प्रत्य­भि­ज्ञा­नात् । नच फलभेदः । तस्यो­प­नि­ष­द­ह­र­ह­मिति तस्यैव यदङ्गान्तरं रह­स्य­ना­म्नो­पा­सनं तत्प्र­शं­सा­र्थोऽ­र्थ­वा­दोऽयं न फलविधिः । यदि पुन­र्वि­द्या­वि­धा­व­धि­का­र­श्र­व­णा­भा­वा­त्त­त्क­ल्प­ना­या­मा­र्थ­वा­दिकं फलं कल्प्येत ततो जाते­ष्टा­वि­वा­गृ­ह्य­मा­ण­वि­शे­ष­तया संव­लि­ता­धि­का­र­क­ल्पना ततश्च सम­स्ता­र्थ­वा­दि­क­फ­ल­यु­क्त­मे­क­मे­वो­पा­स­न­मिति सिद्धम् ।

परकीयं व्याख्या­न­मु­प­न्य­स्यति –
केचित्पुनरिति ।

वाज­स­ने­य­क­म­प्य­क्ष्या­दि­त्य­वि­षयं छान्दो­ग्य­म­पी­त्यु­पा­स्या­भे­दा­द­भेदः । ततश्च वाजसनेयोक्तानां सत्या­दी­ना­मु­प­सं­हार इत्यत्रार्थे सैव हि सत्यादय इति सूत्रं व्याख्यातं तदेतद्दूषयति –
तन्न साध्विति ।

ज्योति­ष्टो­म­क­र्म­स­म्ब­न्ध­नी­य­मु­द्गी­थ­व्य­पा­श्र­येति ।
अनुबन्धाभेदेऽपि साध्यभेदाद्भेद इति विद्या­भे­दा­द­नु­प­सं­हार इति ॥ ३८ ॥

कामादीतरत्र तत्र चायतनादिभ्यः ।
छान्दो­ग्य­वा­ज­स­ने­य­वि­द्य­यो­र्य­द्यपि सगु­ण­नि­र्गु­ण­त्वेन भेदः । तथाहि छान्दोग्ये “अथ य इहा­त्मा­न­म­नु­विद्य व्रजन्ति एतांश्च सत्यान्कामान्”(छा. उ. ८ । १ । ६) इत्या­त्म­व­त्का­मा­ना­मपि वेद्यत्वं श्रूयते । वाजसनेये तु निर्गुणमेव परं ब्रह्मोपदिश्यते “विमोक्षाय ब्रूहि”(बृ. उ. ४ । ३ । १४) इति तथापि तयोः पर­स्प­र­गु­णो­प­सं­हारः । निर्गुणायां तावद्विद्यायां ब्रह्म­स्तु­त्य­र्थ­मेव सगु­ण­वि­द्या­स­म्ब­न्धि­गु­णो­प­सं­हारः सम्भवी । सगुणायां च यद्यप्याध्यानाय न वशि­त्वा­दि­गु­णो­प­सं­हा­र­स­म्भवः । नहि निर्गुणायां विद्या­या­मा­ध्या­त­व्य­त्वे­नैते चोदिता येना­त्रा­ध्ये­य­त्वेन सम्बध्येरन्नपि तु सत्य­का­मा­दि­गु­ण­ना­न्त­री­य­क­त्वे­नै­तेषां प्राप्ति­रि­त्यु­प­सं­हार उच्यते । एवं व्यवस्थित एष सङ्क्षे­पोऽ­धि­क­र­णा­र्थस्य साम्य­बा­हु­ल्येऽ­प्ये­क­त्रा­का­शा­धा­र­त्व­स्या­प­रत्र चाका­श­ता­दा­त्म्यस्य श्रवणाद्भेदे विद्ययोर्न पर­स्प­र­गु­णो­प­सं­हार इति पूर्वपक्षः । राद्धान्तस्तु सर्व­सा­म्य­मे­वो­भ­य­त्रा­प्या­त्मो­प­दे­शा­दा­का­श­श­ब्दे­नै­क­त्रा­त्मो­क्तोऽ­न्यत्र च दहराकाशाधारः स एवोक्त इति सर्व­सा­म्या­द्ब्र­ह्म­ण्यु­भ­य­त्रापि सर्वगुणोपसंहारः । सगु­ण­नि­र्गु­ण­त्वेन तु विद्याभेदेऽपि गुणो­प­सं­हा­र­व्य­वस्था दर्शिता । तस्मा­त्स­र्व­म­व­दा­तम् ॥ ३९ ॥

आदरादलोपः ।
अस्ति वैश्वा­न­र­वि­द्यायां तदु­पा­स­क­स्या­ति­थिभ्यः पूर्वभोजनम् । तेन यद्य­पी­य­मु­पा­स­ना­गो­चरा न चिन्ता साक्षात्तथापि तत्स­म्ब­द्ध­प्र­थ­म­भो­ज­न­स­म्ब­न्धा­दस्ति सङ्गतिः ।

विचारगोचरं दर्शयति –
छान्दोग्ये वैश्वानरविद्यां प्रकृत्येति ।

विचारप्रयोजकं सन्देहमाह –
किं भोजनलोप इति ।

अत्र पूर्वपक्षाभावेन संशयमाक्षिपति –
तद्यद्भक्तमिति भक्ता­ग­म­न­सं­यो­ग­श्र­व­णा­दिति ।
उक्तं खल्वेतत्प्रथम एव तन्त्रे “पद­क­र्मा­प्र­यो­जकं नयनस्य परार्थत्वात्”(जै.सू. ४-१-२५) इत्यनेन । यथा सोम­क्र­या­र्था­नी­य­मा­नै­क­हा­य­नी­स­प्त­म­प­द­पां­शु­ग्र­ह­ण­म­प्र­यो­जकं न पुनरेकहायन्या नयनं प्रयोजयति । तत्कस्य हेतोः । सोमक्रयेण तन्नयनस्य प्रयु­क्त­त्वा­त्त­दु­प­जी­वि­त्वा­त्स­प्त­म­प­द­पां­शु­ग्र­ह­ण­स्येति । तथेहापि भोज­ना­र्थ­भ­क्ता­ग­म­न­सं­यो­गा­त्प्रा­णा­हु­ते­र्भो­ज­ना­भावे भक्तं प्रत्य­प्र­यो­ज­क­त्व­मिति नास्ति पूर्वपक्ष इत्य­पू­र्व­प­क्ष­मि­द­म­धि­क­र­ण­मि­त्यर्थः ।

पूर्व­प­क्ष­मा­क्षिप्य समाधत्ते –
एवं प्राप्ते, न लुप्येतेति तावदाह ।
तावच्छब्दः सिद्धा­न्त­श­ङ्का­नि­रा­क­र­णार्थः ।

पृच्छति –
कस्मात् ।
उत्तरमादरात् ।

तदेव स्फोरयति –
तथाहीति ।
जाबाला हि श्रावयन्ति “पूर्वोऽ­ति­थि­भ्योऽ­श्नी­यात्” इति । अश्नीयादिति च प्राणा­ग्नि­हो­त्र­प्र­धानं वचः । “यथा हि श्रुधिता बाला मातरं पर्युपासते । एवं सर्वाणि भूता­न्य­ग्नि­हो­त्र­मु­पा­सते” इति वच­ना­द­ग्नि­हो­त्र­स्या­ति­थी­न्भू­तानि प्रत्यु­प­जी­व्य­त्वेन श्रव­णा­त्त­दे­क­वा­क्य­त­ये­हापि पूर्वोऽ­ति­थि­भ्योऽ­श्नी­या­दिति प्राणा­हु­ति­प्र­धानं लक्ष्यते । तदेवं सति “यथाह वै स्वय­म­हु­त्वा­ग्नि­होत्रं परस्य जुहुयादित्येवं तत्” इत्यतिथिभोजनस्य प्राथम्यं निन्दि­त्वा­स्वा­मि­भो­जनं स्वामिनः प्राणा­ग्नि­होत्रं प्रथमं प्रापयन्ती प्राणा­ग्नि­हो­त्रा­दरं करोति ।

नन्वा­द्रि­य­ता­मेषा श्रुतिः प्राणहुतिं किन्तु स्वामिभोजनपक्ष एव नाभोजनेऽपीत्यत आह –
या हि न प्राथम्यलोपं सहते नतरां सा प्राथ­म्य­व­तोऽ­ग्नि­हो­त्रस्य लोपं सहेतेति मन्यते ।
ईदृशः खल्वयमादरः प्राणा­ग्नि­हो­त्रस्य यद­ति­थि­भो­ज­नो­त्त­र­का­ल­वि­हितं स्वामिभोजनं सम­या­द­प­कृ­ष्या­ति­थि­भो­ज­नस्य पुर­स्ता­द्वि­हि­तम् । तद्य­दा­ग्नि­हो­त्रस्य धर्मिणः प्राथ­म्य­ध­र्म­लो­प­मपि न सहते श्रुति­स्त­दास्याः कैव कथा धर्मिलोपं सहत इत्यर्थः ।

पूर्व­प­क्षा­क्षे­प­म­नु­भाष्य दूषयति –
ननु भोजनार्था इति ।
यथा हि कौण्ड­पा­यि­ना­म­य­न­गते अग्निहोत्रे प्रक­र­णा­न्त­रा­न्नै­य­मि­का­ग्नि­हो­त्रा­द्भिन्ने द्रव्य­दे­व­ता­रू­प­ध­र्मा­न्त­र­र­हि­त­तया तदाकाङ्क्षे साध्यसादृश्येन नैय­मि­का­ग्नि­हो­त्र­स­मा­न­ना­म­तया तद्धर्मातिदेशेन रूप­ध­र्मा­न्त­र­प्रा­प्ति­रेवं प्राणा­ग्नि­हो­त्रेऽपि नैय­मि­का­ग्नि­हो­त्र­ग­त­प­यः­प्र­भृ­ति­प्राप्तौ भोज­ना­ग­त­भ­क्त­द्र­व्यता विधीयते । न चैतावता भोजनस्य प्रयोजकत्वम् । उक्तमेतद्यथा भोज­न­का­ला­ति­क्र­मा­त्प्रा­णा­ग्नि­हो­त्रस्य न भोज­न­प्र­यु­क्त­त्व­मिति । न चैक­दे­श­द्र­व्य­त­यो­त्त­रा­र्धा­त्स्वि­ष्ट­कृते सम­व­द्य­ती­ति­व­द­प्र­यो­ज­क­त्व­मे­क­दे­श­द्र­व्य­सा­ध­न­स्यापि प्रयोजकत्वात् । यथा जाघन्या पत्नीः संयाजयन्तीति पत्नीसंयाजानां जाघ­न्ये­क­दे­श­द्र­व्य­जुषां जाघ­नी­प्र­यो­ज­क­त्वम् । स हि नामाप्रयोजको भवति यस्य प्रयो­ज­क­ग्र­ह­ण­म­न्त­रे­णार्थो न ज्ञायते । यथा न प्रयो­ज­क­पु­रो­डा­श­ग्र­ह­ण­म­न्त­रे­णो­त्त­रार्धं ज्ञातुं शक्यम् । शक्यं तु जाघनीवद्भक्तं ज्ञातुम् । तस्माद्यथा जाघन्यन्तरेणापि पशूपादानं पर­प्र­यु­क्त­प­शू­प­जी­वनं वा खण्डशो मांसविक्रयिणो मुण्डा­दि­व­दा­कृ­ति­रू­पा­दी­यते । एवं भक्तमपि शक्यमुपादातुम् । तस्मान्न भोजनस्य लोपे प्राणा­ग्नि­हो­त्र­लोप इति मन्यते पूर्वपक्षी । अद्भिरिति तु प्रति­नि­ध्यु­पा­दा­न­मा­व­श्य­क­त्व­सू­च­नार्थं भाष्यकारस्य ॥ ४० ॥

उप­स्थि­तेऽ­त­स्त­द्व­च­नात् ।
तद्धोमीयमिति हि वचन किमपि संनिहितद्रव्यं होमे विनियुङ्क्ते तदः सर्वनाम्नः संनि­हि­ता­व­ग­म­म­न्त­रे­णा­भि­धा­ना­प­र्य­व­सा­ना­त्त­द­नेन स्वाभि­धा­न­प­र्य­व­सा­नाय तद्यद्भक्तं प्रथ­म­मा­ग­च्छे­दिति संनिहितमपेक्ष्य निर्वर्तितव्यम् । तच्च संनिहितं भक्तं भोज­ना­र्थ­मि­त्यु­त्त­रा­र्धा­त्स्वि­ष्ट­कृते समवद्यतीतिवन्न भक्तं वापो वा द्रव्यान्तरं वा प्रयोक्तुमर्हति । जाघ­न्या­स्त्व­व­य­व­भे­दस्य नाग्नी­षो­मी­य­प­श्व­धीनं निरूपणं स्वतन्त्रस्यापि तस्य सूनास्थस्य दर्श­ना­त्त­स्मा­द­स्त्ये­तस्य जाघनीतो विशेषः ।

यच्चोक्तं चोद­क­प्रा­प्त­द्र­व्य­बा­धया भक्त­द्र­व्य­वि­धा­न­मिति । तदयुक्तम् । विध्यु­द्दे­श­ग­त­स्या­ग्नि­हो­त्र­ना­म्न­स्त­था­भा­वा­दा­र्थ­वा­दि­कस्य तु सिद्धं किञ्चि­त्सा­दृ­श्य­मु­पा­दाय स्ताव­क­त्वे­नो­प­प­त्तेर्न तद्भावं विधा­तु­म­र्ह­ती­त्याह –
न चात्र प्राकृ­ता­ग्नि­हो­त्र­ध­र्म­प्रा­प्ति­रिति ।
अपि चाग्निहोत्रस्य चोदकतो धर्म­प्रा­प्ता­व­भ्यु­प­ग­म्य­मा­नायां बहुतरं प्राप्तं बाध्यते । नच सम्भवे बाधनिचयो न्याय्यः ।

कृष्णलचरौ खल्वगत्या प्राप्त­बा­धोऽ­भ्यु­पे­यत इत्याह –
तद्धर्मप्राप्तौ चाभ्यु­प­ग­म्य­मा­ना­या­मिति ।

चोद­का­भा­व­मु­पो­द्ब­ल­यति –
अत एव चेहापीति ।
यत एवोक्तेन क्रमे­णा­ति­दे­शा­भा­वोऽत एव साम्पा­दि­क­त्व­म­ग्नि­हो­त्रा­ङ्गा­नाम् । तत्प्राप्तौ तु साम्पादिकत्वं नोपपद्येत । कामिन्यां किल कुचवदनाद्यसता चक्र­वा­क­न­लि­ना­दि­रू­पेण सम्पाद्यते । न तु नद्यां चक्रवाकादय एव चक्रवाकादिना सम्पाद्यन्ते । अतोऽप्यवगच्छामो न चोद­क­प्रा­प्ति­रिति । यत्त्वा­द­र­द­र्श­न­मिति तद्भोजनपक्षे प्राथ­म्य­वि­धा­ना­र्थम् । यस्मिन्पक्षे धर्मा­न­व­लो­प­स्त­स्मि­न्ध­र्मि­णोऽपि न त्वेतावता धर्मिनित्यता सिध्यतीति भावः ।

नन्व­ति­थि­भो­ज­नो­त्त­र­का­लता स्वामिभोजनस्य विहितेति कथमसौ बाध्यत इत्यत आह –
नास्ति वचनस्यातिभारः ।
सामा­न्य­शा­स्त्र­बा­धायां विशे­ष­शा­स्त्र­स्या­ति­भारो नास्तीत्यर्थः ॥ ४१ ॥

तन्नि­र्धा­र­णा­नि­य­म­स्त­द्दृष्टेः पृथ­ग्ध्य­प्र­ति­बन्धः फलम् ।
यथैव “यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति” इत्ये­त­द­ना­र­भ्या­धी­त­म­व्य­भि­चा­रि­त­क्र­तु­स­म्बन्धं जुहूद्वारा क्रतु­प्र­यो­ग­व­च­न­गृ­हीतं क्रत्वर्थं सत्फलानपेक्षं सिद्ध­व­र्त­मा­ना­प्र­दे­श­प्र­तीतं न रात्रि­स­त्र­व­त्फ­ल­तया स्वीकरोतीति । एव­म­व्य­भि­चा­रि­त­क­र्म­स­म्ब­न्धो­द्गी­थ­ग­त­मु­पा­सनं कर्म­प्र­यो­ग­व­च­न­गृ­हीतं न सिद्ध­व­र्त­मा­ना­प­दे­शा­व­ग­त­स­म­स्त­का­म­वा­प­क­त्व­ल­क्ष­ण­फ­ल­क­ल्प­ना­या­लम् । परार्थत्वात् । तथाच पारमर्षं सूत्रम् “द्रव्य­सं­स्का­र­क­र्मसु परा­र्थ­त्वा­त्फ­ल­श्रु­ति­र­र्थ­वादः स्यात्”(जै.सू. ४-३-१) इति । एवंच सति क्रतौ पर्ण­ता­नि­य­म­व­दु­पा­स­ना­नि­यम इति प्राप्ते उच्यते - युक्तं पर्णतायां फल­श्रु­ते­र­र्थ­वा­द­मा­त्र­त्वम् । नहि पर्णतानाश्रया यागा­दि­व­त्फ­ल­स­म्ब­न्ध­म­नु­भ­वि­तु­म­र्हति । अव्या­पा­र­रू­प­त्वात् । व्यापारस्यैव च फलवत्त्वात् । यथाहुः “उत्प­त्ति­म­तः­फ­ल­द­र्श­नात्” इति । नापि खादिरतायामिव प्रकृ­त­क्र­तु­स­म्बद्धो यूप आश्रयस्तदाश्रयः प्रकृतोऽस्ति अना­र­भ्या­धी­त­त्वा­त्प­र्ण­तायाः । तस्मा­द्वा­क्ये­नैव जुहू­स­म्ब­न्ध­द्वा­रेण पर्णतायाः क्रतुराश्रयो ज्ञापनीयः । न चातत्परं वाक्यं ज्ञाप­यि­तु­म­र्ह­तीति तत्र वाक्य­ता­त्प­र्य­म­व­श्या­श्र­य­णी­यम् । तथाच तत्परं सन्न पर्णतायाः फलसम्बन्धमपि गमयितुमर्हति । वाक्य­भे­द­प्र­स­ङ्गात् । उपासनानां तु व्यापा­रा­त्म­त्वेन स्वत एव फल­स­म्ब­न्धो­प­पत्तेः उद्गी­था­द्या­श्र­यणं फले विधानं न विरुध्यते विशिष्टविधानात् । फलाय खलू­द्गी­थ­सा­ध­न­क­मु­पा­सनं विधीयमानं न वाक्यभेदमावहति । ननु कर्मा­ङ्गो­द्गी­थ­सं­स्कार उपासनं प्रोक्ष­णा­दि­व­द्वि­ती­या­श्रु­ते­रु­द्गी­थ­मिति । तथा चाञ्जनादिष्विव संस्कारेषु फल­श्रु­ते­र­र्थ­वा­द­त्वम् । मैवम् । नह्य­त्रो­द्गी­थ­स्यो­पा­सनं किन्तु तद­व­य­व­स्यो­ङ्का­र­स्ये­त्यु­क्त­म­ध­स्तात् । न चोङ्कारः कर्माङ्गमपि तु कर्मा­ङ्गो­द्गी­था­व­यवः । न चानु­प­यो­ग­मी­प्सि­तम् । तस्मात्सक्तून् जुहो­ती­ति­व­द्वि­नि­यो­ग­भ­ङ्गे­नो­ङ्का­र­सा­धा­ना­दु­पा­स­ना­त्फ­ल­मिति सम्बन्धः । तस्माद्यथा क्रत्वा­श्र­या­ण्यपि गोदोहनादीनि फल­सं­यो­गा­द­नि­त्यानि एव­मु­द्गी­था­द्यु­पा­स­ना­नीति द्रष्टव्यम् । शेषमुक्तं भाष्ये ।

न चेदं फल­श्र­व­ण­म­र्थ­वा­द­मा­त्र­मिति ।
अर्थ­वा­द­मा­त्र­त्वेऽ­त्य­न्त­प­रोक्षा वृत्तिर्यथा न तथा फलपरत्वे । न तु वर्त­मा­ना­प­दे­शा­त्सा­क्षा­त्फ­ल­प्र­तीतिः । अत एव प्रयाजादिषु नार्थ­वा­दा­द्व­र्त­मा­ना­प­दे­शा­त्फ­ल­क­ल्पना । फलपरत्वे त्वस्य न शक्यं प्रयाजादीनां पारा­र्थ्ये­ना­फ­लत्वं वक्तुमिति ॥ ४२ ॥

प्रदानवदेव तदुक्तम् ।
तत्त­च्छ्रु­त्य­र्था­लो­च­नया वायुप्राणयोः स्वरूपाभेदे सिद्धे तदधीननिरूपणतया तद्वि­ष­यो­पा­स­ना­प्य­भिन्ना न चाध्या­त्मा­धि­दै­व­गु­ण­भे­दा­द्भेदः । नहि गुणभेदे गुणवतो भेदः । नह्यग्निहोत्रं जुहो­ती­त्यु­त्प­न्न­स्या­ग्नि­हो­त्रस्य तण्डु­ला­दि­गु­ण­भे­दा­द्भेदो भवति । उत्प­द्य­मा­न­क­र्म­सं­युक्तो हि गुणभेदः कर्मणो भेदकः । यथा­मि­क्षा­वा­जि­न­सं­यु­क्तयोः कर्मणोः । नोत्प­न्न­क­र्म­सं­युक्तः । अध्या­त्मा­धि­दै­वो­प­दे­शेषु चोत्प­न्नो­पा­स­ना­सं­योगः । तथो­प­क्र­मो­प­सं­हा­रा­लो­च­नया विद्यै­क­त्व­वि­नि­श्च­या­दे­कैव सकृ­त्प्र­वृ­त्ति­रिति पूर्वपक्षः । राद्धान्तस्तु सत्यं विद्यैकत्वं तथापि गुण­भे­दा­त्प्र­वृ­त्ति­भेदः । साय­म्प्रा­तः­का­ल­गु­ण­भे­दा­द्य­थै­क­स्मि­न्न­प्य­ग्नि­होत्रे प्रवृत्तिभेदः एव­मि­हा­प्य­ध्या­त्मा­धि­दै­व­गु­ण­भे­दा­दु­पा­स­न­स्यै­क­स्यापि प्रवृत्तिभेद इति सिद्धम् ।

आध्यानार्थो ह्यय­म­ध्या­त्मा­धि­दै­व­वि­भा­गो­प­देश इति ।
अग्नि­हो­त्र­स्ये­वा­ध्या­नस्य कृते दधि­त­ण्डु­ला­दि­व­दयं पृथगुपदेशः ।

एतेन व्रतोपदेश इति ।
एतेन तत्त्वाभेदेन । एवकारश्च वागा­दि­व्र­त­नि­रा­क­र­णार्थः ।

नन्वेतस्यै देवतायै इति देवतामात्रं श्रूयते न तु वायुस्तत्कथं वायु­प्रा­प्ति­मा­हे­त्यत आह –
देवतेत्यत्र वायुरिति ।
वायुः खल्व­ग्न्या­दी­न्सं­वृ­णुत इत्य­ग्न्या­दी­न­पे­क्ष्या­न­व­च्छि­न्नोऽ­ग्न्या­द­य­स्तु­ते­नै­वा­व­च्छिन्ना इति संवर्णगुणतया वायुरनवच्छिन्ना देवता ।

सर्वे­षा­म­भि­ग­म­य­न्निति ।
मिलितानां श्रव­णा­वि­शे­षा­दि­न्द्रस्य देवताया अभेदात्रयाणामपि पुरोडाशानां सह­प्र­दा­ना­श­ङ्का­या­मु­त्प­त्ति­वाक्य एव राजा­धि­रा­ज­स्व­रा­ज­गु­ण­भे­दा­द्या­ज्या­नु­वा­क्या­व्य­त्या­स­वि­धा­नाच्च यथान्यासमेव देव­ता­पृ­थ­क्त्वा­त्प्र­दा­न­पृ­थक्त्वं भवति । सहप्रदाने हि व्यत्या­स­वि­धा­न­म­नु­प­प­न्नम् । क्रमवति प्रदाने व्यत्या­स­वि­धि­र­र्थ­वान् । तथाविधस्यैव क्रमस्य विवक्षितत्वात् । सुगममन्यत् ॥ ४३ ॥

लिङ्ग­भू­य­स्त्वा­त्तद्धि बलीयस्तदपि ।
इह सिद्धा­न्ते­नो­प­क्रम्य पूर्वपक्षयित्वा सिद्धान्तयति । तत्र यद्यपि भूयांसि सन्ति लिङ्गानि मनश्चिदादीनां स्वात­न्त्र्य­सू­च­कानि तथापि न तानि स्वातन्त्र्येण स्वातन्त्र्यं प्रति प्रापकाणि । प्रमाणप्रापितं तु स्वात­न्त्र्य­मु­पो­द्ब­ल­यन्ति । न चात्रास्ति स्वात­न्त्र्य­प्रा­पकं प्रमाणम् । न चेदं सामर्थ्यलक्षणं लिङ्गं येनास्य स्वातन्त्र्येण प्रापकं भवेत् । तद्धि साम­र्थ्य­मा­भि­धा­नस्य वार्थस्य वा स्यात् । तथा पूषा­द्य­नु­म­न्त्र­ण­म­न्त्रस्य पूषानुमन्त्रणे, यथा वा ‘पशुना यजेत’ इत्ये­क­त्व­स­ङ्ख्याया अर्थस्य सङ्ख्ये­या­व­च्छे­त­सा­म­र्थ्यम् । न चेद­म­न्य­स्या­र्थ­द­र्श­न­ल­क्षणं लिङ्गं तथा । स्तुत्य­र्थ­त्वे­नास्य विध्यु­द्दे­शे­नै­क­वा­क्य­तया विधिपरत्वात् । तस्मादसति सामर्थ्यलक्षणे विरोद्धरि प्रकरणप्रत्यूहं मनश्चिदादीनां क्रिया­शे­ष­ता­म­व­ग­म­यति । नच ते हैते विद्याचित एवे­त्य­व­धा­र­ण­श्रुतिः क्रियानुप्रवेशं वारयति । येन श्रुतिविरोधे सति न प्रकरणं भवेत् , बाह्य­सा­ध­न­ता­पा­क­र­णा­र्थ­त्वा­द­व­धा­र­णस्य । नच विद्यया हैवैत एवंविदश्चिता भवन्तीति पुरु­ष­स­म्ब­न्ध­मा­पा­द­य­द्वाक्यं प्रक­र­ण­म­प­बा­धि­तु­म­र्हति । अन्यार्थदर्शनं खल्वेतदपि । नच तत्स्वा­त­न्त्र्येण प्राप­क­मि­त्यु­क्तम् । तस्मात्तदपि न प्रक­र­ण­वि­रो­धा­या­ल­मिति साम्पादिका अप्येते अग्नयः प्रक­र­णा­त्क्रि­या­नु­प्र­वे­शिन एव मानसवत् । द्वादशाहे तु श्रूयते “अनया त्वा पात्रेण समुद्रं रसया प्राजापत्यं मनोग्रहं गृह्णामि” इति । तत्र संशयः किं मानसं द्वादशाहा दहरन्तरमुत तन्मध्यपातिनो दश­म­स्या­ह्ना­ङ्ग­मिति । तत्र वाग्वै द्वादशाहो मनो मानसमिति मानसस्य द्वाद­शा­हा­द्भे­देन व्यप­दे­शा­द्वा­ङ्म­न­स­भे­द­व­द्भेदः । निर्धूतानि द्वादशाहस्य गतरसानि छन्दांसि तानि मान­से­नै­वा­प्या­य­न्तीति च द्वादशाहस्य मानसेन स्तूय­मा­न­त्वा­द्भेदे च सति स्तुति­स्तु­त्य­भा­व­स्यो­प­प­त्ते­र्द्वा­द­शा­हा­द­ह­र­न्तरं न तदङ्गं, पत्नी­सं­या­जा­न्त­त्वा­च्चाह्नां पत्नीः संयाज्य मानसाय प्रसर्पन्तीति च मानसस्य पत्नीसंयाजस्य परस्ताच्छ्रुतेः । त्रयो­द­शा­हेऽ­प्य­व­युज्य द्वाद­श­स­ङ्ख्या­स­म­वा­या­त्क­थ­ञ्चि­ज्ज­घ­न्य­यापि वृत्त्या द्वाद­शा­ह­सं­ज्ञा­वि­रो­धा­भा­वा­दिति प्राप्तेऽ­भि­धी­यते प्रमाणान्तरेण हि त्रयो­द­श­त्वेऽह्नां सिद्धे द्वादशाह इति जघन्यया वृत्त्योन्नीयेत । न त्वस्ति तादृशं प्रमाणान्तरम् । नच व्यप­दे­श­भे­दोऽ­ह­र­न्त­रत्वं कल्पयितुमर्हति । अङ्गा­ङ्गि­भे­दे­नापि तदुपपत्तेः । अत एव च स्तुत्य­स्ता­व­क­भा­व­स्या­प्यु­प­पत्तिः देवदत्तस्येव दीर्घैः केशैः । पत्नी­सं­या­जा­न्तता तु यद्य­प्यौ­त्स­र्गिकी तथापि दशमस्याह्नो विशे­ष­व­च­ना­न्मा­न­सानि ग्रह­णा­सा­द­न­ह­व­ना­दीनि पत्नी­सं­या­जा­त्प­राञ्चि भविष्यन्ति । किमिव हि न कुर्याद्वचनमिति । एष वै दशमस्याह्नो विसर्गो यन्मानसमिति वच­ना­द्द­श­मा­ह­र­ङ्गता गम्यते । विस­र्गोऽ­न्तोऽ­न्त­वतो धर्मो न स्वतन्त्र इति दशमेऽहनि मानसाय प्रसर्पन्तीति दशमस्याह्न आधा­र­त्व­नि­र्दे­शाच्च तदङ्गं मानसं नाहरन्तरमिति सिद्धम् । तदिह द्वाद­शा­ह­स­म्ब­न्धिनो दश­म­स्या­ह्नोऽङ्गं मानसमिति धर्म­मी­मां­सा­सू­त्र­कृ­तो­क्तम् । दशरात्रगस्यापि दश­म­स्या­ह्नोऽ­ङ्ग­मिति भगवन्भाष्यकारः ।

श्रुत्य­न्त­र­ब­ले­नाह –
यथा दशरात्रस्य दश­मेऽ­ह­न्य­वि­वाक्य इति ।
अविवाक्य इति दशमस्याह्नो नाम ॥ ४४ ॥

पूर्वविकल्पः प्रक­र­णा­त्स्या­त्क्रि­या­मा­न­स­वत् ॥ ४५ ॥

अतिदेशाच्च ।
नहि साम्पा­दि­का­ना­म­ग्नी­ना­मि­ष्ट­कासु चितेनाग्निना किञ्चिदस्ति सादृश्यमन्यत्र क्रिया­नु­प्र­वे­शात् । तस्मादपि न स्वतन्त्र इति प्राप्तेऽ­भि­धी­यते ॥ ४६ ॥

विद्यैव तु निर्धारणात् ।
मा भूदन्येषां श्रुत­वि­ध्यु­द्दे­शा­ना­म­न्या­र्थ­द­र्श­ना­ना­म­प्रा­प्त­प्रा­प­क­त्व­मे­तेषु त्वश्रु­त­वि­ध्यु­द्दे­शेषु “वचनानि त्वपूर्वत्वात्” इति न्याया­द्वि­धि­रु­न्ने­तव्यः । तथा चैतेभ्यो यादृशोऽर्थः प्रतीयते तदनुरूप एव स भवति । प्रतीयते चैतेभ्यो मनश्चिदादीनां सान्तत्यं चावधारणं च फलभेदसमन्वयश्च पुरुषसम्बन्धश्च । न चास्य गोदो­ह­ना­दि­व­त्क्र­त्व­र्था­श्रि­तत्वं येन पुरुषार्थस्य कर्म­पा­र­तन्त्र्यं भवेत् । नच विद्याचित एवेत्यवधारणं बाह्य­सा­ध­ना­पा­क­र­णा­र्थम् । स्वभावत एव विद्याया बाह्या­नु­पे­क्ष­त्व­सिद्धेः । तस्मा­त्प­रि­शे­षा­न्मा­न­स­ग्र­ह­व­त्क्रि­या­नु­प्र­वे­श­श­ङ्का­पा­क­र­णा­र्थ­म­व­धा­र­णम् । न चैवमर्थत्वे सम्भवति । द्योत­क­त्व­मा­त्रेण निपातश्रुतिः पीडनीया । तस्मा­च्छ्रु­ति­लि­ङ्ग­वा­क्यानि प्रकरणमपोद्य स्वातन्त्र्यं मन­श्चि­दा­दी­ना­म­व­ग­म­य­न्तीति सिद्धम् । अनु­ब­न्धा­ति­दे­श­श्रु­त्या­दिभ्य एवमेव विज्ञेयम् । ते च भाष्य एव स्फुटाः । यदुक्तं पूर्वपक्षिणा क्रत्वङ्गत्वे पूर्वे­णे­ष्ट­का­चि­तेन मनश्चिदादीनां विकल्प इति ।

तदु­त­ल्य­का­र्य­त्वेन दूषयति –
नच सत्येव क्रियासम्बन्ध इति ।

अपिच पूर्वा­प­र­यो­र्भा­ग­यो­र्वि­द्या­प्रा­धा­न्य­द­र्श­ना­त्त­न्म­ध्य­पा­ति­नोऽपि तत्सा­मा­न्या­द्वि­द्या­प्र­धा­न­त्व­मेव लक्ष्यते न कर्मा­ङ्ग­त्व­मि­त्याह सूत्रेण –
परेण च शब्दस्य ताद्विध्यं भूय­स्त्वा­त्त्व­नु­बन्धः ।
स्फुटमस्य भाष्यम् । अस्ति राजसूयः “राजा स्वाराज्यकामो राजसूयेन यजेत” इति । तं प्रकृत्यामनन्ति अवेष्टिं नामेष्टिम् । आग्ने­योऽ­ष्टा­क­पालो हिरण्यं दक्षि­णे­त्ये­व­मादि तां प्रकृत्याधीयते । यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिं हुत्वा­भि­धा­र­ये­द्यदि वैश्यो वैश्वदेवं यदि राजन्य ऐन्द्रमिति । तत्र सन्दिह्यते किं ब्राह्मणादीनां प्राप्तानां निमित्तार्थेन श्रवणमुत ब्राह्म­णा­दी­ना­मयं यागो विधीयत इति । तत्र यदि प्रजा­पा­ल­न­क­ण्ट­को­द्ध­र­णादि कर्म राज्यं तस्य कर्ता राजेति राज­श­ब्द­स्या­र्थ­स्ततो राजा राजसूयेन यजेतेति राज्यस्य कर्तू राजसूयेऽधिकारः । तस्मा­त्स­म्भ­व­न्त्य­वि­शि­षेण ब्राह्म­ण­क्ष­त्रि­य­वैश्या राज्यस्य कर्तार इति सिद्धं सर्वम् एवैते राजसूये प्राप्ता इति “यदि ब्राह्मणो यजेत” इत्येवमादयो निमित्तार्थाः श्रुतयः । अथ तु राज्ञः कर्म राज्यमिति राज­क­र्तृ­यो­गा­त्त­त्कर्म राज्यं ततः को राजे­त्य­पे­क्षा­या­मा­र्येषु तत्प्र­सि­द्धे­र­भा­वा­त्पि­क­ने­म­ता­म­र­सा­दि­श­ब्दा­र्था­व­धा­र­णाय म्लेच्छ­प्र­सि­द्धि­रि­वा­न्ध्राणां क्षत्रियजातौ राज­श­ब्द­प्र­सि­द्धि­स्त­द­व­धा­र­ण­का­र­ण­मिति क्षत्रिय एव राजेति न ब्राह्म­ण­वै­श्ययोः प्राप्तिरिति राजसूयप्रकरणं भित्त्वा ब्राह्म­णा­दि­क­र्तृ­काणि पृथगेव कर्माणि प्राप्यन्त इति न नैमित्तिकानि । तत्र किं तावत्प्राप्तं, नैमित्तिकानीति । राज्यस्य कर्ता राजे­त्या­र्या­णा­मा­न्ध्राणां चाविवादः । तथाहि - ब्राह्मणादिषु प्रजा­पा­ल­न­क­र्तृषु कन­क­द­ण्डा­त­प­त्र­श्वे­त­चा­म­रा­दि­ला­ञ्छ­नेषु राज­प­द­मा­न्ध्रा­श्चा­र्या­श्चा­वि­वादं प्रयुञ्जाना दृश्यन्ते । तेना­वि­प्र­ति­प­त्ते­र्वि­प्र­ति­प­त्ता­व­प्या­र्या­न्ध्र­प्र­यो­ग­यो­र्य­व­व­रा­ह­व­दा­य­र्प्र­सि­द्धे­रा­न्ध्र­प्र­सि­द्धितो बलीयसीत्वात् । बल­व­दा­र्य­प्र­सि­द्धि­वि­रोधे त्वतन्मूलायाः पाणि­नी­य­प्र­सिद्धेः “विरोधे त्वनपेक्षं स्यात्”(जै० सू० ११३ ॥ ३) इति न्यायेन बाध­ना­त्त­द­नु­गु­ण­तया वा कथ­ञ्चि­न्न­ख­न­कु­ला­दि­व­द­न्वा­ख्या­ना­मा­त्र­प­र­तया नीय­मा­न­त्वा­द्र­ज्यस्य कर्ता राजेति सिद्धे निमित्तार्थाः श्रुतयः । तथाच यदि­श­ब्दोऽ­प्या­ञ्जसः स्यादिति प्राप्तम् । एवं प्राप्त उच्यते - “रूपतो न विशेषोऽस्ति ह्यार्य­म्ले­च्छ­प्र­यो­गयोः । वैदि­का­द्वा­क्य­शे­षात्तु विशेषस्तत्र दर्शितः” ॥ तदिह राजशब्दस्य कर्मयोगाद्वा कर्तरि प्रयोगः कर्तृ­प्र­यो­गाद्वा कर्मणीति विशये वैदि­क­वा­क्य­शे­ष­व­द­भि­यु­क्त­त­र­स्या­त्र­भ­वतः पाणिनेः स्मृते­र्नि­र्णी­यते प्रसि­द्धि­रा­न्ध्र­णा­म­ना­दि­रा­दि­मती चार्याणां प्रसि­द्धि­र्गो­गा­व्या­दि­श­ब्द­वत् । नच सम्भा­वि­ता­दि­म­द्भावा प्रसिद्धिः पाणि­नि­स्मृ­ति­म­पो­द्या­ना­दि­प्र­सि­द्धि­मा­दि­मतीं कर्तुमुत्सहते । गाव्या­दि­श­ब्द­प्र­सि­द्धे­र­ना­दि­त्वेन गवा­दि­प­द­प्र­सि­द्धे­र­प्या­दि­म­त्त्वा­पत्तेः । तस्मा­त्पा­णि­नी­य­स्मृ­त्य­नु­म­ता­न्ध्र­प्र­सि­द्धि­ब­ली­य­स्त्वेन क्षत्रियत्वजातौ राजशब्दे मुख्ये तत्क­र्त­र्य­त­ज्जातौ राजशब्दो गौण इति क्षत्रि­य­स्यै­वा­का­रा­द्रा­ज­सूये तत्प्र­क­र­ण­म­पो­द्या­वे­ष्टे­रु­त्कर्षः । अन्वयानुरोधी यदिशब्दो न त्वपूर्वविधौ सति तम­न्य­थ­यि­तु­म­र्हति । अत एवाहुः “यदि शब्दपरित्यागो रुच्य­ध्य­हा­र­क­ल्पना” इति । इयं च राज­सू­या­द­धि­का­रा­न्त­र­मे­त­या­न्ना­द्य­कामं याजयेदिति नास्तीतिकृत्वा चिन्ता । एत­स्मिं­स्त्व­धि­का­रेऽ­न्ना­द्य­का­मस्य त्रैवर्णिकस्य सम्भ­वा­त्प्रा­प्ते­र्नि­मि­त्ता­र्थता ब्राह्म­णा­दि­श्र­व­णस्य दुर्वारैवेति ॥ ४७ ॥

दर्शनाच्च ॥ ४८ ॥

श्रुत्या­दि­ब­ली­य­स्त्वाच्च न बाधः ॥ ४९ ॥

अनुबन्धादिभ्यः प्रज्ञा­न्त­र­पृ­थ­क्त्व­व­द्दृ­ष्टश्च तदुक्तम् ॥ ५० ॥

न सामा­न्या­द­प्यु­प­ल­ब्धे­र्मृ­त्यु­वन्न हि लोकापत्तिः ॥ ५१ ॥

परेण च शब्दस्य ताद्विध्यं भूय­स्त्वा­त्त्व­नु­बन्धः ॥ ५२ ॥

एक आत्मनः शरीरे भावात् ।

अधि­क­र­ण­ता­त्प­र्य­माह –
इहेति ।

सम­र्थ­न­प्र­यो­ज­न­माह –
बन्धमोक्षेति ।

असमर्थने बन्ध­मो­क्षा­धि­का­रा­भा­व­माह –
न ह्यसतीति ।

अध­स्त­न­त­न्त्रो­क्तेन पौनरुक्त्यं चोदयति –
नन्विति ।

परिहरति –
उक्तं भाष्यकृतेति ।
न सूत्रकारेण तत्रोक्तं येन पुनरुक्तं भवेदपि तु भाष्य­कृ­ते­त्य­त्र­त्य­स्यै­वा­र्थ­स्या­प­कर्षः प्रमा­ण­ल­क्ष­णो­प­यो­गि­तया तत्र कृत इति । यत इह सूत्र­कृ­द्व­क्ष्य­त्यत एव भग­व­तो­प­व­र्षे­णो­द्धा­रोऽ­प­क­र्षस्य कृतः ।

विचारस्यास्य पूर्वो­त्त­र­त­न्त्र­शे­ष­त्व­माह –
इह चेति ।

पूर्वा­धि­क­र­ण­स­ङ्ग­ति­माह –
अपिचेति ।

नन्वा­त्मा­स्ति­त्वो­प­प­त्तय एवात्रोच्यन्तां किं तदाक्षेपेणेत्यत आह - –
आक्षेपपूर्विका हीति ।

आक्षेपमाह –
अत्रैके देह­मा­त्रा­त्म­द­र्शिन इति ।
यद्यपि समस्तव्यस्तेषु पृथि­व्य­प्ते­जो­वा­युषु न चैतन्यं दृष्टं तथापि कायाकारपरिणतेषु भविष्यति । नहि किण्वादयः समस्तव्यस्ता न मदना दृष्टा इति मदिराकारपरिणता न मदयन्ति । अहमिति चानुभवे देह एव गौराद्याकारः प्रथते । न तु तदतिरिक्तः तदधिष्ठानः कुण्ड इव दधीति । अत एवाहं स्थूलो गच्छा­मी­त्या­दि­सा­मा­ना­धि­क­र­ण्यो­प­प­त्ति­र­हमः स्थूलादिभिः । न जातु दधि­स­मा­ना­धि­क­र­णानि मधुरादीनि कुण्ड­स्यै­का­धि­क­र­ण्य­म­नु­भ­वन्ति सितं मधुरं कुण्डमिति । न चाप्र­त्य­क्ष­मा­त्म­त­त्त्व­म­नु­मा­ना­दिभिः शक्यमुन्नेतुम् । न खल्वप्रत्यक्षं प्रमाणमस्ति । उक्तं हि “देश­का­ला­दि­रू­पाणां भेदाद्भिन्नासु शक्तिषु । भावानामनुमानेन प्रसि­द्धि­र­ति­दु­र्लभा” इति । यदा च उप­ल­ब्धि­सा­ध्य­ना­न्त­री­य­क­भा­वस्य लिङ्गस्येयं गतिस्तदा कैव कथा दृष्ट­व्य­भि­चा­रस्य शब्द­स्या­र्था­प­त्ते­श्चा­त्य­न्त­प­रो­क्षा­र्थ­गो­च­राया उपमानस्य च सर्वै­क­दे­श­सा­दृ­श्य­वि­क­ल्पि­तस्य । सर्वसारूप्ये तत्त्वात् । एकदेशसारूप्ये चाति­प्र­स­ङ्गा­त्स­र्वस्य सर्वेणोपमानात् । सौत्रस्तु हेतुर्भाष्यकृता व्याख्यातः । चेष्टा हिता­हि­त­प्रा­प्ति­प­रि­हा­रार्थो व्यापारः । स च शरीराधीनतया दृश्यमानः शरीरधर्म एवं प्राणः श्वास­प्र­श्वा­सा­दि­रूपः शरीरधर्म एव । इच्छा­प्र­य­त्ना­द­यश्च यद्यप्यान्तराः तथापि शरीरातिरिक्तस्य तदा­श्र­या­नु­प­लब्धेः सति शरीरे भावा­त­न्तः­श­री­रा­श्रया एव, अन्यथा दृष्ट­हा­ना­दृ­ष्ट­क­ल्प­ना­प्र­स­ङ्गात् । शरीरातिरिक्त आत्मनि प्रमा­णा­भा­वा­च्छ­रीरे च सम्भ­वा­च्छ­री­र­मे­वे­च्छा­दि­म­दा­त्मेति प्राप्त उच्यते ॥ ५३ ॥

व्यति­रे­क­स्त­द्भा­व­भा­वि­त्वान्न तूपलब्धिवत् ।
नाप्रत्यक्षं प्रमाणमिति ब्रुवाणः प्रष्टव्यो जायते कुतो भवा­न­नु­मा­ना­दी­ना­म­प्रा­मा­ण्य­म­व­धा­रि­त­वा­निति । प्रत्यक्षं हि लिङ्गा­दि­रू­प­मा­त्र­ग्राहि नाप्रा­मा­ण्य­मेषां विनि­श्चे­तु­म­र्हति । नहि धूम­ज्ञा­न­मि­वै­षा­मि­न्द्रि­या­र्थ­स­न्नि­क­र्षा­द­प्रा­मा­ण्य­ज्ञा­न­मु­दे­तु­म­र्हति । किन्तु देश­का­ला­व­स्था­रू­प­भे­देन व्यभि­चा­रो­त्प्रे­क्षया । न चैता­वा­न्प्र­त्य­क्षस्य व्यापारः सम्भवति । यथाहुः - नहीदमियतो व्यापा­रा­न्कर्तुं समर्थं संनि­हि­त­वि­ष­य­ब­ले­नो­त्प­त्ते­र­वि­चा­र­क­त्वा­दिति । तस्मा­द­स्मि­न्न­नि­च्छ­तापि प्रमा­णा­न्त­र­म­भ्यु­पे­यम् । अपिच प्रतिपन्नं पुमां­स­म­प­हा­या­प्र­ति­प­न्न­स­न्दिग्धाः प्रेक्षावद्भिः प्रतिपाद्यन्ते । न चैषामित्थम्भावो भव­त्प्र­त्य­क्ष­गो­चरः । न खल्वेते गौर­त्वा­दि­व­त्प्र­त्य­क्ष­गो­चराः किन्तु वच­न­चे­ष्टा­दि­लि­ङ्गा­नु­मेयाः । नच लिङ्गं प्रमाणं यत एते सिध्यन्ति । न पुंसा­मि­त्थ­म्भा­व­म­वि­ज्ञाय यं कञ्चन पुरुषं प्रति­पि­पा­द­यि­ष­तोऽ­न­व­धे­य­व­च­नस्य प्रेक्षावत्ता नाम । अपिच पशवोऽपि हिता­हि­त­प्रा­प्ति­प­रि­हा­रा­र्थिनः कोम­ल­श­ष्प­श्या­म­लायां भुवि प्रवर्तन्ते । परिहरन्ति चाश्या­न­तृ­ण­क­ण्ट­का­की­र्णाम् । नास्तिकस्तु पशोरपि पशु­रि­ष्ट­नि­ष्ट­सा­ध­न­म­वि­द्वान् । न खल्व­स्मि­न्न­नु­मा­न­गो­च­र­प्र­वृ­त्ति­नि­वृ­त्ति­गो­चरे प्रत्यक्षं प्रभवति । नच परप्रत्यायनाय शब्दं प्रयुञ्जीत शाब्द­स्या­र्थ­स्या­प्र­त्य­क्ष­त्वात् । तदेव मा नाम भून्नास्तिकस्य जन्मा­न्त­र­म­स्मि­न्नेव जन्म­न्यु­प­स्थि­तोऽस्य मूक­त्व­प्र­वृ­त्ति­नि­वृ­त्ति­वि­र­ह­रूपो महान्नरकः । पराक्रान्तं चात्र सूरिभिः । अत्य­न्त­प­रो­क्ष­गो­च­रा­प्य­न्य­था­नु­प­प­द्य­मा­ना­र्थ­प्र­भ­वा­र्था­पत्तिः । भूयः­सा­मा­न्य­यो­गेन चोपमानमुपपादितं प्रमाणलक्षणे । तदत्रास्तु ताव­त्प्र­मा­णा­न्तरं प्रत्य­क्ष­मे­वा­हं­प्र­त्ययः शरी­रा­ति­रि­क्त­मा­ल­म्बत इत्य­न्व­य­व्य­ति­रे­का­भ्या­म­व­धा­र्यते । योग­व्या­घ्र­व­त्स्व­प्न­द­शायां च शरी­रा­न्त­र­प­रि­ग्र­हा­भि­मा­नेऽ­प्य­ह­ङ्का­रा­स्प­दस्य प्रत्य­भि­ज्ञा­य­मा­न­त्व­मि­त्यु­क्तम् । सूत्रयोजना तु न त्वव्यतिरिक्तः किन्तु व्यतिरिक्त आत्मा देहात् । कुत­स्त­द्भा­वा­भा­वि­त्वात् । चैतन्यादिर्यदि शरीरगुणः ततोऽनेन विशेषगुणेन भवितव्यम् । न तु सङ्ख्या­प­रि­मा­ण­सं­यो­गा­दि­व­त्सा­मा­न्य­गु­णेन । तथाच ये भूत­वि­शे­ष­गु­णास्ते यावद्भूतभाविनो दृष्टा यथा रूपादयः । नह्यस्ति सम्भवः भूतं च रूपादिरहितं चेति । तस्मा­द्भू­त­वि­शे­ष­गु­ण­रू­पा­दि­वै­ध­र्म्यान्न चैतन्यं शरीरगुणः । एतेनेच्छादीनां शरी­र­वि­शे­ष­गु­णत्वं प्रत्युक्तम् । प्राणचेष्टादयो यद्यपि देहधर्मा एव तथापि न देहमात्रप्रभवाः । मृतावस्थायामपि प्रसङ्गात् । तस्माद्यस्यैते अधि­ष्ठा­ना­द्दे­ह­धर्मा भवन्ति स देहातिरिक्त आत्मा । अदृ­ष्ट­का­र­ण­त्वेऽ­भ्यु­प­ग­म्य­माने तस्यापि देहा­श्र­य­त्वा­नु­प­प­त्ते­रा­त्मै­वा­भ्यु­पे­तव्य इति ।

वैध­र्म्या­न्त­र­माह –
देहधर्माश्चेति ।
स्वपरप्रत्यक्षा हि देहधर्मा दृष्टा यथा रूपादयः । इच्छादयस्तु स्वप्रत्यक्षा एवेति देह­ध­र्म­वै­ध­र्म्यम् । तस्मादपि देहा­ति­रि­क्त­धर्मा इति । तत्र यद्यपि चैतन्यमपि भूत­वि­शे­ष­गु­ण­स्त­थापि याव­द्भू­त­म­नु­व­र्तेत । नच मदशक्त्या व्यभिचारः । सामर्थ्यस्य सामा­न्य­गु­ण­त्वात् । अपिच मदशक्तिः प्रतिमदिरावयवं मात्रयावतिष्ठते तद्वद्देहेऽपि चैतन्यं तदवयवेष्वपि मात्रया भवेत् । तथा चैकस्मिन्देहे बहवश्चेतयेरन् । नच बहूनां चेत­ना­ना­म­न्यो­न्या­भि­प्रा­या­नु­वि­धा­न­स­म्भव इति एकपाशनिबद्धा इव बहवो विहङ्गमाः विरु­द्धा­दि­क्रि­या­भि­मुखाः समर्था अपि न हस्तमात्रमपि देश­म­ति­प­ति­तु­मु­त्स­हन्ते । एवं शरीरमपि न किञ्चि­त्क­र्तु­मु­त्स­हते । अपि च नान्व­य­मा­त्रा­त्त­द्ध­र्म­ध­र्मि­भावः । शक्यो विनिश्चेतुं, मा भूदाकाशस्य सर्वो धर्मः सर्वेष्वन्वयात् । अपि त्वन्व­य­व्य­ति­रे­का­भ्याम् । सन्दिग्धश्चात्र व्यतिरेकः ।

तथाच साध­क­त्व­म­न्व­य­मा­त्र­स्ये­त्याह –
अपिच सति हि तावदिति ।

दूषणान्तरं विव­क्षु­रा­क्षि­पति –
किमात्मकं चेति ।

स एवैकग्रन्थेनाह –
नहीति ।

नास्तिक आह –
यदनुभवनमिति ।
यथा हि भूतपरिणामभेदो रूपादिर्न तु भूत­च­तु­ष्ट­या­द­र्था­न्त­र­मेवं भूतपरिणामभेद एव चैतन्यं न तु भूते­भ्योऽ­र्था­न्तरं, येन “पृथि­व्या­प­स्तेजो वायुरिति तत्त्वानि” इति प्रति­ज्ञा­व्या­घातः स्यादित्यर्थः । एतदुक्तं भवति - चतुर्णामेव भूतानां समस्तं जगत्परिणामो न त्वस्ति तत्त्वान्तरं यस्य परिणामो रूपादयोऽन्यद्वा परिणामान्तरमिति ।

अत्रो­क्ता­भि­स्ता­व­दु­प­प­त्ति­भि­र्दे­ह­ध­र्मत्वं निरस्तं तथा­प्यु­प­प­त्त्य­न्त­रा­भि­धि­त्स­याह –
चेत्तर्हीति ।
भूतधर्मा रूपादयो जडत्वाद्विषया एव दृष्टा न तु विषयिणः । नच केषा­ञ्चि­द्वि­ष­या­णा­मपि विषयित्वं भविष्यतीति वाच्यम् । स्वात्मनि वृत्तिविरोधात् । न चोपलब्धावेव प्रसङ्गस्तस्या अजडायाः स्वय­म्प्र­का­श­त्वा­भ्यु­प­ग­मात् । कृतोपपादनं चैतत्पुरस्तात् ।

उपलब्धिवदिति सूत्रावयवं योजयति –
यथैवास्या इति ।
उपलब्धिग्राहिण एव प्रमा­णा­च्छ­री­व्य­ति­रे­कोऽ­प्य­व­ग­म्यते । तस्यास्ततः स्वय­म्प्र­का­श­प्र­त्य­येन भूतधर्मेभ्यो जडेभ्यो वैलक्षण्येन व्यति­रे­क­नि­श्च­यात् ।

अस्तु तर्हि व्यति­रे­का­दु­प­ल­ब्धि­र्भू­तेभ्यः स्वतन्त्रा तथाप्यात्मनि प्रमाणाभाव इत्यत आह –
उपलब्धिस्वरूप एव च न आत्मेति ।
आजा­न­त­स्ता­व­दु­प­ल­ब्धि­भेदो नानुभूयत इति विष­य­भे­दा­द­भ्यु­पेयः । न चोप­ल­ब्धि­व्य­ति­रे­किणां विषयाणां प्रथा सम्भ­व­ती­त्यु­प­पा­दि­तम् । नच विषयभेदग्राहि प्रमाणमस्तीति चोपपादितं ब्रह्म­त­त्त्व­स­मी­क्षा­या­म­स्माभिः । एवं च सति विष­य­रू­प­त­द्भे­दा­देव सुदुर्लभाविति दूरनिरस्ता विष­य­भे­दा­दु­प­ल­ब्धि­भे­द­स­ङ्कथा । तेनो­प­ल­ब्धे­रु­प­ल­ब्धृ­त्व­मपि न तात्त्विकम् । किन्त्व­वि­द्या­क­ल्पि­तम् । तत्रा­वि­द्या­द­शा­या­म­प्यु­प­ल­ब्धे­र­भेद इत्याह

अह­मि­द­म­द्रा­क्ष­मिति चेति ।
न केवलं तात्त्वि­का­भे­दा­न्नि­त्य­त्व­म­ता­त्त्वि­का­दपि नित्यत्वमेवेति तस्यार्थः ।

स्मृत्या­द्यु­प­प­त्तेश्च ।
नानात्वे हि नान्ये­नो­प­ल­ब्धेऽ­न्यस्य पुरुषस्य स्मृतिरुपपद्यत इत्यर्थः ।

निराकृतमप्यर्थं निरा­क­र­णा­न्त­रा­या­नु­भा­षते –
यत्तूक्तमिति ।

यो हि देह­व्या­पा­रा­दु­प­ल­ब्धि­रु­त्प­द्यते तेन देहधर्म इति मन्यते तं प्रतीदं दूषणम् –
न चात्यन्तं देहस्येति ।

प्रकृतमुपसंहरति –
तस्मादनवद्यमिति ॥ ५४ ॥

अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ।
स्वरा­दि­भे­दा­त्प्र­ति­वे­द­मु­द्गी­था­दयो भिद्यन्ते । तदनुबद्धास्तु प्रत्ययाः प्रतिशाखं विहिता भेदेन । तत्र संशयःकिं यस्मिन्वेदे यदुद्गीथादयो विहितास्तेषामेव तद्वेदविहिताः प्रत्यया उता­न्य­वे­द­वि­हि­ता­ना­म­प्यु­द्गी­था­दीनां ते प्रत्यया इति । किं तावत्प्राप्तम् । “ओमि­त्य­क्ष­र­मु­द्गी­थ­मु­पा­सीत”(छा. उ. १ । १ । १) इत्यु­द्गी­थ­श्र­व­णे­नो­द्गी­थ­सा­मा­न्य­म­व­ग­म्यते । निर्विशेषस्य च तस्या­नु­प­प­त्ते­र्वि­शे­ष­का­ङ्क्षायां स्वशाखाविहितस्य विशेषस्य संनि­धा­ना­त्ते­नै­वा­का­ङ्क्षा­वि­नि­वृ­त्तेर्न शाखा­न्त­री­य­मु­द्गी­था­न्त­र­म­पे­क्षते । न चैवं संनिधानेन श्रुतिपीडा, यदि हि श्रुति­स­म­र्पि­त­म­र्थ­म­प­बा­धेन ततः श्रुतिं पीडयेन्न चैतदस्ति । नह्यु­द्गी­थ­श्रु­त्य­भि­हि­त­ल­क्षितौ सामान्यविशेषौ बाधितौ स्वशाखागतयोः स्वीक­र­णा­च्छा­खा­न्त­री­या­स्वी­का­रेऽपि । यथाहुः “जातिव्यक्ती गृहीत्वेह वयं तु श्रुतलक्षिते । कृष्णादि यदि मुञ्चामः का श्रुतिस्तत्र पीड्यते” ॥ एवं प्राप्तम् । एवं प्राप्त उच्यते - उद्गी­था­ङ्ग­व­ब­द्धास्तु प्रत्यया नानाशाखासु प्रति­वे­द­म­नु­व­र्ते­रन्न प्रतिशाखं व्यवतिष्ठेरन् । उद्गी­थ­मि­त्या­दि­सा­मा­न्य­श्रु­ते­र­वि­शे­षा­ते­त­दुक्तं भवति युक्तं शुक्लं पटमानयेत्यादौ पट­श्रु­ति­म­वि­शे­ष­प्र­वृ­त्ता­मपि संनि­धा­ना­च्छु­क्ल­श्रु­ति­र्बा­धत इति । विशि­ष्टा­र्थ­प्र­त्या­य­न­प्र­त्यु­क्त­त्वा­त्प­दानां समभिव्याहारस्य । अन्यथा तदनुपपत्तेः । नच स्वार्थ­म­स्मा­र­यित्वा विशि­ष्टा­र्थ­प्र­त्या­यनं पदानामिति विशि­ष्टा­र्थ­प्र­युक्तं स्वार्थस्मारणं न स्वप्र­यो­ज­क­म­प­वा­धि­तु­मु­त्स­हते । मा च बाधि­प्र­यो­ज­का­भा­वेन स्वार्थ­स्मा­र­ण­म­पीति युक्त­म­वि­शे­ष­प्र­वृ­त्ताया अपि श्रुते­रे­क­स्मि­न्नेव विशेषे अवस्थापनम् । इह तूद्गी­थ­श्रु­ते­र­वि­शे­षेण विशि­ष्टा­र्थ­प्र­त्या­य­क­त्वात् । सङ्कोचे प्रमाणं किञ्चिन्नास्ति । नच संनि­धि­मा­त्र­म­प­बा­धि­तु­म­र्हति । श्रुति­सा­मा­न्य­द्वा­रेण च सर्व­वि­शे­ष­गा­मिन्याः श्रुते­रे­क­स्मि­न्न­व­स्थानं पीडैव । तस्मा­त्स­र्वो­द्गी­थ­वि­षयाः प्रत्यया इति ॥ ५५ ॥

मन्त्रा­दि­व­द्वा­वि­रोधः ।
विरुद्धमिति नः संप्रत्ययो यत्प्रमाणेन नोपलभ्यते । उपलब्धं च मन्त्रादिषु शाखान्तरीयेषु शाखा­न्त­री­य­क­र्म­स­म्ब­न्धि­त्वम् । तद्वदिहापीति दर्शनादविरोधः । एतच्च दर्शितं भाष्येण सुगमेनेति ॥ ५६ ॥

भूम्नः क्रतु­व­ज्ज्या­यस्त्वं तथा हि दर्शयति ।
वैश्वा­न­र­वि­द्यायां छान्दोग्ये किं व्यस्तोपासनं समस्तोपासनं च उता सम­स्तो­पा­स­न­मे­वेति । तत्र दिवमेव भगवो राजन्निति होवाचेति प्रत्ये­क­मु­पा­स­न­श्रुतेः प्रत्येकं च फल­व­त्त्वा­म्ना­ना­त्स­म­स्तो­पा­सने च फल­व­त्त्व­श्रु­ते­रु­भ­य­था­प्यु­पा­स­नम् । नच यथा वैश्वानरीयेष्टौ यदष्टाकपालो भव­ती­त्या­दी­ना­म­व­यु­ज्य­वा­दानां प्रत्येकं फल­श्र­व­णेऽ­प्य­र्थ­वा­द­मा­त्रत्वं वैश्वानरं द्वादशकपालं निर्व­पे­दि­त्य­स्यैव तु फल­व­त्त्व­मे­व­म­त्रापि भवितुमर्हति । तत्र हि द्वादशकपालं निर्वपेदिति । विधि­भ­क्ति­श्रु­ति­र्य­द­ष्टा­क­पालो भवतीत्यादिषु वर्तमानापदेशः । नच वचनानि त्वपू­र्व­त्वा­दिति विधिकल्पना । अवयुज्यवादेन स्तुत्या­प्यु­प­पत्तेः । इह तु समस्ते व्यस्ते च वर्त­मा­ना­प­दे­श­स्या­वि­शे­षा­द­गृ­ह्य­मा­ण­वि­शे­ष­तया उभयत्रापि विधिकल्पनायाः फलकल्पनायाश्च भेदात् । निन्दायाश्च सम­स्तो­पा­स­ना­रम्भे व्यस्तो­पा­स­नेऽ­प्यु­प­पत्तेः । श्यामो वाश्वा­हु­ति­म­भ्य­व­ह­र­ती­ति­व­दु­भ­य­वि­ध­मु­पा­स­न­मिति प्राप्त उच्यते - समस्तोपासनस्यैव ज्यायस्त्वं न व्यस्तोपासनस्य । यद्यपि वर्त­मा­ना­प­दे­श­त्व­मु­भ­य­त्रा­प्य­वि­शिष्टं तथापि पौर्वा­प­र्या­लो­च­नया सम­स्तो­पा­स­न­प­र­त्व­स्या­व­गमः । यत्परं हि वाक्यं तदस्यार्थः । तथाहि - प्राची­न­शा­ल­प्र­भृ­तयो वैश्वा­न­र­वि­द्या­नि­र्ण­या­या­श्व­पतिं कैकेयमाजग्मुः । ते च तत्त­दे­क­दे­शो­पा­स­न­मु­प­न्य­स्त­वन्तः । तत्र कैके­य­स्त­त्त­दु­पा­स­न­नि­न्दा­पूर्वं तन्निवारणेन सम­स्तो­पा­स­न­मु­प­स­ञ्ज­हार । तथा चैकवाक्यतालाभाय वाक्य­भे­द­प­रि­हा­राय च समस्तोपासनपरतैव सन्दर्भस्य लक्ष्यते । तस्मा­द्ब­हु­फ­ल­स­ङ्की­र्त­नम् । प्रधानस्तवनाय । समस्तोपासनस्यैव तु फलवत्त्वमिति सिद्धम् ।

एक­दे­शि­व्या­ख्या­न­मु­प­न्यस्य दूषयति –
केचित्त्वत्रेति ।
सम्भ­व­त्ये­क­वा­क्यत्वे वाक्य­भे­द­स्या­न्या­य्य­त्वा­त्ने­दृशं सूत्रव्याख्यानं समञ्जसमित्यर्थः ॥ ५७ ॥

नाना­श­ब्दा­दि­भे­दात् ।
सिद्धं कृत्वा विद्या­भे­द­म­ध­स्तनं विचा­र­जा­त­म­भि­नि­र्व­र्ति­तम् । सम्प्रति तु सर्वा­सा­मी­श्व­र­गो­च­राणां विद्यानां किमभेदो भेदो वा, एवं प्राणा­दि­गो­च­रा­स्विति विचारयितव्यम् । ननु यथा प्रत्य­या­भि­धे­याया अपूर्वभावनाया आजानतो भेदाभावेऽपि धात्वर्थेन निरू­प्य­मा­ण­त्वा­त्तस्य च यागा­दे­र्भे­दा­त्प्र­कृ­त्य­र्थ­या­गा­दि­धा­त्व­र्था­नु­ब­न्ध­भे­दा­द्भेदः । तदनुरक्ताया एव तस्याः प्रतीयमानत्वात् । एवं विद्यानामपि रूपतो वेद्य­स्ये­श्व­र­स्या­भे­देऽपि तत्त­त्स­त्य­स­ङ्क­ल्प­त्वा­दि­गु­णो­प­धा­न­भे­दा­द्वि­द्या­भेद इति नास्त्य­भे­दा­शङ्का । उच्यते - युक्त­म­नु­ब­न्ध­भे­दा­त्का­र्य­रू­पा­णा­म­पू­र्व­भा­व­नानां भेद इति । इह ब्रह्मणः सिद्ध­रू­प­त्वा­द्गु­णा­ना­मपि सत्य­स­ङ्क­ल्प­त्वा­दीनां तदाश्रयाणां सिद्धतया सर्वत्राभेदो विद्यासु । नहि विशा­ल­व­क्षा­श्च­को­रे­क्षणः क्षत्रिययुवा दुश्च्य­व­न­ध­र्मेति एक­त्रो­प­दि­ष्टोऽ­न्यत्र सिंहास्यो वृषस्कन्धः स एवो­प­दि­श्य­मा­न­श्च­को­रे­क्ष­ण­त्वा­द्य­प­ज­हाति न खलु प्रत्युपदेशं वस्तु भिद्यते । तस्य सर्वत्र तादवस्थ्यात् । अतादवस्थ्ये वा तदेव न भवेत् । नहि वस्तु विकल्प्यत इति । तस्मा­द्वे­द्या­भे­दा­द्वि­द्यानां भेद इति प्राप्तम् । एवं प्राप्त उच्यते - भवेदेतदेवं यदि वस्तु­नि­ष्ठा­न्यु­पा­स­न­वा­क्यानि किन्तु तद्वि­ष­या­मु­पा­स­ना­भा­वनां विदधति । सा च कार्यरूपा । यद्यपि चोपासनाभावना उपा­स­ना­धी­न­नि­रू­प­णो­पा­सनं चोपा­स्या­धी­न­नि­रू­प­ण­मु­पास्यं चेश्वरादि व्यवस्थितरूपम् , तथा­प्यु­पा­स­ना­वि­ष­यी­भा­वोऽस्य कदा­चि­त्क­स्य­चि­त्के­न­चि­द्रू­पे­णे­त्य­प­रि­नि­ष्ठित एव । यथैकः स्त्रीकायः केन­चि­द्भ­क्ष्य­तया केन­चि­दु­प­ग­न्त­व्य­तया केनचिदपत्यतया केनचिन्मातृतया केन­चि­दु­पे­क्ष­णी­य­तया विषयीक्रियमाणः पुरु­षे­च्छा­तन्त्रः । एवमिहापि उपासनानि पुरु­षे­च्छा­त­न्त्र­तया विधेयतां नातिक्रामन्ति । नच तत्त­द्गु­ण­त­यो­पा­स­नानि गुणभेदान्न भिद्यन्ते । न चाग्नि­हो­त्र­मि­वो­प­सनां विधाय दधि­त­ण्डु­ला­दि­गु­ण­व­दिह सत्य­स­ङ्क­ल्प­त्वा­दि­गु­ण­वि­धि­र्ये­नै­क­शा­स्त्रत्वं स्यात् । अपि तूत्प­त्ता­वे­वो­पा­स­नानां तत्त­द्गु­ण­वि­शि­ष्टा­ना­म­व­ग­मात् । तत्रा­गृ­ह्य­मा­ण­वि­शे­ष­तया सर्वासां भेदस्तुल्यः । नच सम­स्त­शा­खा­वि­हि­त­स­र्व­गु­णो­प­सं­हारः शक्या­नु­ष्ठा­न­स्त­स्मा­द्भेदः ।

न चास्मिन्पक्षे सामाना सन्तः सत्यकामादय इति ।
केचित्खलु गुणाः कासु­चि­द्वि­द्यासु समा­ना­स्ते­नै­क­वि­द्यात्वे आवर्तयितव्याः । एकत्रोक्तत्वात् । विद्याभेदे तु न पौन­रु­क्त्य­मे­कस्यां विद्यायामुक्ता विद्यान्तरे नोक्ता इति विद्या­न्त­र­स्यापि तद्गुणत्वाय वक्तव्या अनु­क्ता­ना­म­प्रा­प्ते­रिति ॥ ५८ ॥

विक­ल्पोऽ­वि­शि­ष्ट­फ­ल­त्वात् ।
अग्नि­हो­त्र­द­र्श­पू­र्ण­मा­सा­दिषु पृथगधिकाराणामपि समुच्चयो दृष्टो नियमवांस्तेषां नित्य­त्वा­दु­पा­स­नास्तु काम्यतया न नित्या­स्त­स्मा­न्नासां समुच्चयनियमः । तेन समानफलानां दर्श­पू­र्ण­मा­स­ज्यो­ति­ष्टो­मा­दी­ना­मिव न नियमवान्विकल्पः फलभूमार्थिनः समुच्चयस्यापि सम्भवादिति पूर्वः पक्षः । उपा­स­ना­ना­म­मू­षा­मु­पा­स्य­सा­क्षा­त्क­र­ण­सा­ध्य­त्वा­त्फ­ल­भे­द­स्यै­के­नो­पा­स­ने­नो­पा­स्य­सा­क्षा­त्क­रणे तत एव फलप्रतिलाभे तु कृत­मु­पा­स­ना­न्त­रेण । नच साक्षा­त्क­र­ण­स्या­ति­श­य­स­म्भ­व­स्यो­पा­य­स­ह­स्रै­रपि ताद­व­स्थ्या­त्त­न्मा­त्र­सा­ध्य­त्वाच्च फलावाप्तेः । उपा­स­ना­न्त­रा­भ्यासे च चित्तै­का­ग्र­ता­व्या­घा­तेन कस्य चिदु­पा­स­ना­नि­ष्प­त्ते­रिह विकल्प एव नियमवानिति राद्धान्तः ॥ ५९ ॥

काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्व­हे­त्व­भा­वात् ।
यासूपासनासु विनो­पा­स्य­सा­क्षा­त्क­र­ण­म­दृ­ष्टे­नैव काम्यसाधनं तासां काम्य­द­र्श­पौ­र्ण­मा­सा­दि­व­त्पु­रु­षे­च्छा­व­शेन विक­ल्प­स­मु­च्च­या­विति साम्प्रतम् ॥ ६० ॥

अङ्गेषु यथाश्रयभावः ।
तन्नि­र्धा­र­णा­नि­य­म­स्त­द्दृष्टेः पृथ­ग्ध्य­प्र­ति­बन्धः फल­मि­त्य­त्रो­प­स­नासु फलश्रुतेः पर्ण­म­यी­न्या­ये­ना­र्थ­वा­द­त­यो­पा­स­नानां क्रत्वर्थत्वेन समु­च्च­य­नि­य­म­मा­शङ्क्य पुरु­षा­र्थ­त­यै­क­प्र­यो­ग­व­च­न­ग्र­ह­णा­भावे समुच्चयनियमो निरस्तः । इह तु सत्यपि पुरुषार्थत्वे कस्मा­न्नै­क­प्र­यो­ग­व­च­न­ग्र­हणं भवतीति पूर्वो­क्त­म­र्थ­मा­क्षि­पन् प्रत्यवतिष्ठते । यद्यपि हि काम्या एता उपासनास्तथापि न स्वतन्त्रा भवितुमर्हन्ति । तथा सति हि क्रत्व­र्था­ना­श्रि­त­तया क्रतु­प्र­यो­गा­द्ब­हि­र­प्य­मूषां प्रयोगः प्रसज्यते । नच प्रयुज्यन्ते तत्कस्य होतोः । क्रत्व­र्था­श्रि­ता­ना­मेव तासां तत्त­त्फ­लो­द्दे­शेन विधानादिति । एवं चाश्र­य­त­न्त्र­त्वा­दा­श्रि­तानां प्रयो­ग­व­च­ने­ना­श्र­याणां समु­च्च­य­नि­य­मे­ना­श्रि­ता­ना­मपि समुच्चयनियमो युक्त इतरथा तदा­श्रि­त­त्वा­नु­प­पत्तेः । स च प्रयोगवचन उपासनाः समु­च्चि­न्वं­स्त­त्त­त्फ­ल­का­म­ना­ना­म­व­श्य­म्भा­व­मा­क्षि­पति तदभावे तासां समु­च्च­य­नि­य­मा­भा­वा­दिति मन्वानस्य पूर्वः पक्षः । राद्धान्तस्तु यथा­वि­हि­तो­द्दि­ष्ट­प­दा­र्था­नु­रोधी प्रयोगवचनो न पदा­र्थ­स्व­भा­वा­न­न्य­थ­यि­तु­म­र्हति । किन्तु तद­वि­रो­धे­ना­व­ति­ष्ठते । तत्र क्रत्वर्थानां नित्य­व­दा­म्ना­ना­त्त­था­भा­वस्य च सम्भ­वा­न्नि­य­मे­नै­ता­न्त्स­मु­च्चि­नोतु । कामा­व­ब­द्धा­स्तू­पा­सनाः कामा­ना­म­नि­त्य­त्वान्न समुच्चयेन नियन्तुमर्हति । नहि कामा विधीयन्ते येन समुच्चीयेरन्नपि तूद्दिश्यन्ते । मानान्तरानुसारी चोद्देशो न तद्वि­रो­धे­नो­द्दे­श्य­म­न्य­थ­यती । तथा सत्यु­द्दे­शा­नु­प­पत्तेः । तस्मा­त्का­मा­ना­म­नि­त्य­त्वा­त्त­द­व­ब­द्धा­ना­मु­पा­स­ना­ना­म­प्य­नि­त्य­त्वम् । नित्या­नि­त्य­सं­यो­ग­वि­रो­धा­त्स­त्यपि तदाश्रयाणां नित्यत्वे इदमेव चाश्र­य­त­न्त्र­त्व­मा­श्रि­तानां यदाश्रये सत्येव वृत्तिर्नासतीति । न तु तत्र वृत्तिरेव नावृत्तिरिति तदि­द­मु­क्त­मा­श्र­य­त­न्त्रा­ण्यपि हीति ॥ ६१ ॥

शिष्टेश्च ॥ ६२ ॥

समाहारात् । होतृ­ष­द­ना­द्धै­वापि दुरु­द्गी­थ­म­नु­स­मा­ह­र­तीति ।
अपिर्भिन्नक्रमो दिरुद्गीथमपीति । वेदा­न्त­रो­दि­त­प्र­ण­वो­द्गी­थै­क­त्व­प्र­त्य­य­सा­म­र्थ्या­द्धो­तृ­क­र्मणः शंसनादुद्गाता प्रतिसमादधाति किं तदित्यत आह दुरुद्गीथमपि वेदान्तरोदिते चौद्गात्रे कर्मणि उत्पन्नं क्षतम् । एवं ब्रुव­न्वे­दा­न्त­रो­दि­तस्य प्रत्य­य­स्ये­त्यादि योजनीयम् ॥ ६३ ॥

गुण­सा­धा­र­ण्य­श्रु­तेश्च ।
अस्य सूत्र­स्या­न्व­य­मु­खेन व्यतिरेकमुखेन च व्याख्या । शेष­म­ति­रो­हि­ता­र्थम् ॥ ६४ ॥

न वा तत्स­ह­भा­वा­श्रुतेः ॥ ६५ ॥

दर्शनाच्च ॥ ६६ ॥
इति श्रीवा­च­स्प­ति­मि­श्र­वि­र­चिते शारी­र­क­भ­ग­व­त्पा­द­भा­ष्य­वि­भागे भामत्यां तृतीयाध्यायस्य तृतीयः पादः ॥ ३ ॥

पुरुषार्थोऽतः शब्दादिति बादरायणः ।
स्थितं कृत्वो­प­नि­ष­दा­म­प­व­र्गा­ख्य­पु­रु­षा­र्थ­सा­ध­ना­त्म­ज्ञा­न­प­र­त्व­मु­पा­स­नानां च तत्त­त्पु­रु­षा­र्थ­सा­ध­न­त्व­म­ध­स्तनं विचा­र­जा­त­म­भि­नि­र्व­र्ति­तम् । सम्प्रति तु किमौ­प­नि­ष­दा­त्म­त­त्त्व­ज्ञा­न­म­प­व­र्ग­सा­ध­न­तया पुरुषार्थमाहो क्रतु­प्र­यो­गा­पे­क्षि­त­क­र्तृ­प्र­ति­पा­द­क­तया क्रत्वर्थमिति मीमांसामहे । यदा च क्रत्वर्थं तदा यावन्मात्रं क्रतु­प्र­यो­ग­वि­धि­ना­पे­क्षितं कर्तृ­त्व­मा­मु­ष्मि­क­फ­लो­प­भो­क्तृत्वं च न चैतदनित्यत्वे घटते कृत­वि­प्र­णा­शा­कृ­ता­भ्या­ग­म­प्र­स­ङ्गा­दतो नित्यत्वमपि, ताव­न्मा­त्र­मु­प­नि­षत्सु विवक्षितम् । इतोऽ­न्य­द­न­पे­क्षितं विपरीतं च नोपनिषदर्थः स्यात् । यथा शुद्धत्वादि । यद्यपि जीवानुवादेन तस्य ब्रह्म­त्व­प्र­ति­पा­द­न­प­र­त्व­मु­प­नि­ष­दा­मिति महता प्रबन्धेन तत्र तत्र प्रतिपादितं तथाप्यत्र केषा­ञ्चि­त्पू­र्व­प­क्ष­श­ङ्का­बी­जानां निराकरणे तदेव स्थूणा­नि­ख­न­न­न्या­येन निश्चलीक्रियत इत्यप्यस्ति विचारप्रयोजनम् । तत्र यद्यपि प्रोक्ष­णा­दि­व­दा­त्म­ज्ञानं न कञ्चि­त्क्र­तु­मा­र­भ्या­धी­तम् , यद्यपि च कर्तृमात्रं नाव्य­भि­चा­रि­त­क्र­तु­स­म्बन्धं कर्तृमात्रस्य लौकिकेष्वपि कर्मसु दर्शनाद्येन पर्ण­ता­दि­व­द­ना­र­भ्या­धी­त­म­प्य­व्य­भि­च­रि­त­क्र­तु­स­म्ब­न्ध­जु­हू­द्वा­रेण वाक्येनैव क्रत्व­र्थ­मा­प­द्यते तथापि यादृश आत्मा कर्ता­मु­ष्मि­क­स्व­र्गा­दि­फ­ल­भो­ग­भा­गी­दे­हा­द्य­ति­रिक्तो वेदान्तैः प्रतिपाद्यते न तादृशस्यास्ति लौकिकेषु कर्मसूपयोगः । तेषामैहिकफलानां शरी­रा­न­ति­रि­क्ते­नापि यादृशतादृशेन कर्त्रोपपत्तेः । आमुष्मिकफलानां तु वैदिकानां कर्मणां तम­न्त­रे­णा­स­म्भ­वा­त्त­त्स­म्बन्ध एवायमौपनिषदः कर्तेति तद­व्य­भि­चा­रा­त्ता­न्य­नु­स्मा­र­य­ज्जु­ह्वा­दि­व­द्वा­क्ये­नैव तज्ज्ञानं पर्ण­ता­व­त्क्र­त्वै­द­म­र्थ्य­मा­प­द्यत इति फल­श्रु­ति­र­र्थ­वादः । तदुक्तम् “द्रव्य­सं­स्का­र­क­र्मसु परा­र्थ­त्वा­त्फ­ल­श्रु­ति­र­र्थ­वादः स्यात्”(जै.सू. ४-३-१) इति औप­नि­ष­दा­त्म­ज्ञा­न­सं­स्कृतो हि कर्ता पार­लौ­कि­क­फ­लो­प­भो­ग­यो­ग्योऽ­स्मीति विद्या­वा­ञ्छ्र­द्धा­वा­न्क्र­तु­प्र­यो­गाङ्गं नान्यथा प्रोक्षिता इव व्रीहयः क्रत्वङ्गमिति । प्रिया­दि­सू­चि­तस्य च संसारिण एवात्मनो द्रष्टव्यत्वेन प्रति­ज्ञा­प­ना­द­प­ह­त­पा­प्म­त्वादि तु तद्विशेषणं तस्यैव स्तुत्यर्थम् । न तु तत्प­र­त्व­मु­प­नि­ष­दाम् । तस्मा­त्क्र­त्व­र्थ­मे­वा­त्म­ज्ञानं कर्तृ­सं­स्का­र­द्वारा न पुनः पुरुषार्थमिति । एत­दु­पो­द्ब­ल­नार्थं च ब्रह्म­वि­दा­मा­चा­रादिः श्रुत्यवगत उपन्यस्तः । न केवलं वाक्या­दा­त्म­ज्ञा­नस्य क्रत्वर्थत्वम् । तृतीयाश्रुतेश्च । न त्वेत­त्प्र­कृ­तो­द्गी­थ­वि­द्या­वि­षयं यदेव विद्ययेति सर्व­ना­मा­व­धा­र­णाभ्यां व्याप्तेरधिगमत् । यथा य एव धूमवान्देशः स वह्निमानिति । समन्वारम्भवचनं च फलारम्भे विद्याकर्मणोः साहित्यं दर्शयति । तच्च यद्य­प्या­ग्ने­या­दि­या­ग­ष­ट्क­व­त्स­म­प्र­धा­न­त्वे­नापि भवति तथाप्युक्तया युक्त्या विद्यायाः कर्म प्रत्य­ङ्ग­भा­वे­नैव नेतव्यम् । वेदार्थज्ञानवतः कर्म­वि­धा­ना­दु­प­नि­ष­दोऽपि वेदार्थ इति तज्ज्ञानमपि कर्माङ्गमिति ॥ १ ॥

शेष­त्वा­त्पु­रु­षा­र्थ­वादो यथान्येष्विति जैमिनिः ॥ २ ॥

आचारदर्शनात् ॥ ३ ॥

तच्छ्रुतेः ॥ ४ ॥

समन्वारम्भणात् ॥ ५ ॥

तद्वतो विधानात् ॥ ६ ॥

नियमाच्च ।
सुगमम् ॥ ७ ॥

सिद्धान्तयति –
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ।
यदि शरी­रा­द्य­ति­रिक्तः कर्ता भोक्ता­त्मे­त्ये­त­न्मात्र उपनिषदः पर्यवसिताः स्युस्ततः स्यादेवं, न त्वेतदस्ति । तास्त्वे­वं­भू­त­जी­वा­नु­वा­देन तस्य शुद्ध­बु­द्धो­दा­सी­न­ब्र­ह्म­रू­प­ता­प्र­ति­पा­द­न­परा इति तत्र तत्रा­स­कृ­दा­वे­दि­तम् । अन­धि­ग­ता­र्थ­बो­ध­न­स्व­र­सता हि शब्दस्य प्रमा­णा­न्त­र­सि­द्धा­नु­वा­देन । तथा चौप­नि­ष­दा­त्म­ज्ञा­नस्य क्रत्व­नु­ष्ठा­न­वि­रो­धिनः क्रतुसम्बन्ध एव नास्ति । किमङ्ग पुनः तद­व्य­भि­चा­र­स्त­तश्च क्रतुशेषता । तथाच नाप­व­र्ग­फ­ल­श्रु­ते­र­र्थ­वा­द­मा­त्र­त्व­मपि तु फलपरत्वमेव । अत एव प्रियादिसूचितेन संसा­रि­णा­त्म­नो­प­क्रम्य तस्यै­वा­त्म­नोऽ­धि­को­प­दि­दी­क्षायां पर­मा­त्म­ना­त्य­न्ता­भेद उपदिश्यते । यथा समारोपितस्य भुजंगस्य रज्जु­रू­पा­द­त्य­न्ता­भेदः प्रतिपाद्यते योऽयं सर्पः सा रज्जुरिति । यथा विद्यायाः कर्माङ्गत्वे दर्श­न­मु­प­न्य­स्त­मे­व­म­क­र्मा­ङ्गत्वे दर्शनमुक्तम् । तत्र कर्मा­ङ्ग­त्व­द­र्श­ना­ना­म­न्य­था­सि­द्धि­रुक्ता केव­ल­वि­द्या­द­र्श­नानां तु नान्यथासिद्धिः ॥ ८ ॥

तुल्यं तु दर्शनम् ॥ ९ ॥

असार्वत्रिकी ।
व्याप्ति­र­प्यु­द्गी­थ­वि­द्या­पे­क्षया तस्या एव प्रकृतत्वान्न त्वशेषापेक्षया । यथा सर्वे ब्राह्मणा भोज्यन्तामिति निम­न्त्रि­ता­पे­क्षया तेषामेव प्रकृतत्वात् ॥ १० ॥

विभागः शतवत् ।
सुगमम् ।

अविभागेऽपि न दोष इत्याह –
न चेदं सम­न्वा­र­म्भ­व­च­न­मिति ।
संसारिविषया विद्या­वि­हि­ता­य­थो­द्गी­थ­विद्या । प्रतिषिद्धा च यथा­स­च्छा­स्त्रा­धि­ग­म­न­ल­क्षणा ॥ ११ ॥

अध्ययनमात्रवतः ।
अध्ययनमात्रवत एव कर्म­वि­धि­र्न­तू­प­नि­ष­द­ध्य­य­न­वतः । एतदुक्तं भवति - यद­ध्य­य­न­म­र्था­व­बो­ध­प­र्यन्तं कर्मसूपयुज्यते यथा कर्म­वि­धि­वा­क्यानां तन्मात्रवत एवाधिकारः कर्मसु नोपनिषदध्यनवतः तदध्ययनस्य कर्म­स्व­नु­प­यो­गा­दिति ।

अध्ययनमात्रवत एवेति मात्र­ग्र­ह­णे­ना­र्थ­ज्ञानं वा व्यवच्छिन्नमिति मन्वानो भ्रान्तश्चोदयति - –
नन्वेवं सतीति ।

स्वाभि­प्रा­य­मु­द्घा­ट­य­न्स­मा­धत्ते –
न वयमिति ।
उप­नि­ष­द­ध्य­य­ना­पेक्षं मात्रग्रहणं नार्थ­बो­धा­पे­क्ष­मि­त्यर्थः ॥ १२ ॥

नाविशेषात् ।
कुर्वन्नेवेह कर्मा­णी­त्य­वि­द्या­व­द्वि­ष­य­मि­त्यर्थः ॥ १३ ॥

विद्या­व­द्वि­ष­य­त्वेऽ­प्य­वि­रोधो विद्या­स्तु­त्य­र्थ­त्वा­दि­त्याह –
स्तुत­येऽ­नु­म­तिर्वा ॥ १४ ॥

अपिच विद्याफलं प्रत्यक्षं दर्शयन्ती श्रुतिः काला­न्त­र­भा­वि­फ­ल­क­र्मा­ङ्गत्वं विद्याया निराकरोतीत्याह –
कामकारेण चैके ।
कामकार इच्छा ॥ १५ ॥

उपमर्दं च ।
अधि­को­प­दे­शा­दि­त्य­ने­ना­त्मन एव शुद्ध­बु­द्धो­दा­सी­न­त्वा­दय उक्ताः । इह तु सम­स्त­क्रि­या­का­र­क­फ­ल­वि­भा­गो­प­मर्दं चेति ॥ १६ ॥

ऊर्ध्वरेतःसु च शब्दे हि ।
सुबोधम् ॥ १७ ॥

परामर्शं जैमिनिरचोदना चापवदति हि ।
सिद्ध ऊर्ध्व­रे­त­सा­मा­श्र­मित्वे तद्वि­द्या­ना­म­क­र्मा­ङ्ग­त­या­प­व­र्गार्थं स्यात् । आश्रमित्वं त्वेषा­म­न्या­र्थ­प­रा­म­र्श­मा­त्रान्न सिध्यति । विध्यभावात् । स्मृत्या­चा­र­प्र­सि­द्धिश्च तेषां प्रत्य­क्ष­श्रु­ति­वि­रो­धा­द­प्र­मा­णम् । निन्दति हि प्रत्यक्षा श्रुति­रा­श्र­मा­न्तरं “वीरहा वा एष देवानाम्” इत्यादिका । प्रत्य­क्ष­श्रु­ति­वि­रोधे च स्मृत्या­चा­र­यो­र­प्रा­मा­ण्य­मुक्तं “विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्”(जै० सू० ११३ ॥ ३) इति ।

तदेतत्सर्वमाह –
त्रयो धर्मस्कन्धा इत्यादिना ।

अनधिकृतविषया वेति ।
अन्धपङ्ग्वादयो हि ये नैमि­त्ति­क­क­र्मा­न­धि­कृ­ता­स्ता­न्प्र­त्या­श्र­मा­न्त­र­वि­धि­रिति ।

अपिचापवदिति हि ।
न केवलमन्यपरतया परा­म­र्श­स्या­श्र­मा­न्तरं न लभ्यते अपि त्वाश्र­मा­न्त­र­नि­न्दा­द्वा­रे­णा­प­वा­दा­द­पी­त्यर्थः ।

स्यादेतत् । भवत्वेष परा­म­र्शोऽ­न्यार्थः । ये चेमेऽरण्य इत्या­दि­भ्य­स्त्वा­श्र­मा­न्तरं सेत्स्यतीत्यत आह –
ये चेमेऽरण्य इति ।
अस्यापि देव­प­थो­प­दे­श­प­र­त्वा­न्नै­त­त्प­र­त्व­मि­त्यर्थः ।

न चान्यपरादपि स्फुट­त­रा­श्र­मा­न्त­र­प्र­त्यय इत्याह –
सन्दिग्धं चेति ।
नहि तप एव द्वितीय इत्य­त्रा­श्र­मा­न्त­रा­भि­धायी कश्चिदस्ति शब्द इति ।

नन्वेतमेव प्रव्राजिन इति वच­ना­दा­श्र­मा­न्तरं सेत्स्यतीत्यत आह –
तथैतमेवेति ।
एतदपि लोक­सं­स्त­न­व­न­प­र­मिति ।

अधि­क­र­णा­र­म्भ­मा­क्षिप्य नास्ति प्रत्य­क्ष­व­च­न­मि­ति­कृत्वा चिन्तेयमिति समाधत्ते –
ननु ब्रह्म­च­र्या­दे­वेति ॥ १८ ॥

अनुष्ठेयं बादरायणः साम्यश्रुतेः ।
भवत्वन्यार्थः परा­म­र्श­स्त­था­प्ये­त­स्मा­दा­श्र­मा­न्त­राणि प्रतीयमानानि च नापाकरणमर्हन्ति । एवं तान्य­पा­क्रि­ये­र­न्य­द्य­स्मान्न प्रतीयेरन् । प्रतीयमानानि वा श्रुत्या बाध्येरन् । न तावन्न प्रतीयन्ते । तथाहि - त्रयो धर्मस्कन्धा इति स्कन्धत्रित्वं प्रतिज्ञातम् । तत्र स्कन्धशब्दो यद्याश्रमपरो न स्यादपि तु समूहवचनस्ततो धर्माणां यज्ञादीनां प्राति­स्वि­को­त्प­त्तीनां किमपेक्ष्य त्रित्वसङ्ख्या सुव्यवस्थाप्येत । एकै­का­श्र­मो­प­स­ङ्गृ­ही­ता­स्त्वा­श्र­माणां त्रित्वा­च्छ­क्या­स्त्रित्वे व्यव­स्था­प­यि­तु­मि­त्या­श्र­म­त्रि­त्व­प्र­ति­ज्ञो­प­पत्तिः । तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो ब्रह्मचारीति द्वितीयस्तप इति च, तपःप्रधानात्तु वान­प्र­स्था­श्र­मा­न्नान्यः, ब्रह्मसंस्थ इति च पारि­शे­ष्या­त्प­रि­व्रा­डिति वक्ष्यति । तस्मादन्यपरादपि परा­म­र्शा­द­श्र­मा­न्त­राणि प्रतीयमानानि देव­ता­धि­क­र­ण­न्या­येन न शक्य­न्तेऽ­पा­क­र्तुम् । नच प्रत्य­क्ष­श्रु­ति­वि­रोधो वीरहा वेत्यादेः प्रति­प­न्न­गा­र्हस्थ्यं प्रमा­दा­द­ज्ञा­ना­द्वा­ग्नि­मु­द्वा­स­यितुं प्रवृत्तं प्रत्युपपत्तेः । एवंच अविरोधे सिद्ध­व­त्प­रा­म­र्शा­द­श्र­मा­न्त­राणां शास्त्रा­न्त­र­सिद्धिं वा कल्पयिष्यामो यथोपवीतविधिपरे वाक्ये “उपव्ययते देवलक्ष्ममेव तत्कुरुते” इत्यत्र निवीतं मनुष्याणां प्राचीनावीतं पितृणामिति शास्त्रा­न्त­र­सि­द्ध­यो­र्नि­वी­त­प्रा­ची­ना­वी­तयोः परामर्श इति ॥ १९ ॥

विधिर्वा धारणवत् ।
यद्यपि ब्रह्म­सं­स्थ­त्व­स्तु­ति­प­र­त­यास्य सन्द­र्भ­स्यै­क­वा­क्यता गम्यते । सम्भवन्त्यां चैकवाक्यतायां वाक्य­भे­दोऽ­न्याय्यः । तथा­प्या­श्र­मा­न्त­राणां पूर्व­सि­द्धे­र­भा­वा­त्प­रा­म­र्शा­नु­प­पत्तेः, अपरामर्शे च स्तुतेरसम्भवेन किम्परतया एक­वा­क्य­ता­स्त्विति तां भङ्क्त्वा धार­ण­व­द्व­र­म­पू­र्व­त्वा­द्वि­धि­रे­वास्तु । यथा “अधस्तात्समिधं धार­य­न्न­नु­द्र­वे­दु­परि हि देवेभ्यो धारयति” इत्यत्र सत्या­म­प्य­धो­धा­र­णे­नै­क­वा­क्य­ता­प्र­तीतौ विधीयत एवो­प­रि­धा­र­ण­म­पू­र्व­त्वात् । तथोक्तम् “विधिस्तु धार­णेऽ­पू­र्व­त्वात्”(जै. सू. ३ । ४ । १५) इति । तथे­हा­प्या­श्र­मा­न्त­र­प­रा­म­र्श­श्रु­ति­र्वि­ध­रे­वेति कल्प्य्ते । सम्प्रति परा­म­र्शेऽ­पी­त­रे­षा­मा­श्र­माणां ब्रह्मसंस्थता संस्त­व­सा­म­र्थ्या­देव विधातव्या ।

न खल्वविधेयं संस्तूयते तद­र्थ­त्वा­त्सं­स्त­व­स्ये­त्याह –
यदापीति ।

अत्रा­वा­न्त­र­वि­चा­र­मा­र­भते –
सा च किं चतुर्ष्विति ।

विचारप्रयोजनमाह –
यदि चेति ।

ननु अनाश्रम्येव ब्रह्मसंस्थो भविष्यतीत्यत आह –
अनाश्रयमित्वेति ।

तत्र पूर्वपक्षमाह –
तत्र तपःशब्देनेति ।
अयमभिसन्धिः । यदि ताव­द्ब्र­ह्म­संस्थ इति पदं प्रत्य­स्त­मि­ता­व­य­वार्थं परि­व्रा­ज­केऽ­श्व­क­र्णा­दि­प­द­व­द्रूढं तदा­श्र­म­प्रा­प्ति­मा­त्रे­णै­वा­मृ­ती­भाव इति न तद्भावाया ब्रह्म­ज्ञा­न­म­पे­क्षेत । तथाच नान्यः पन्था विद्यतेऽयनायेति विरोधः । नच सम्भत्यवयवार्थे समु­दा­य­श­क्ति­क­ल्पना । तस्माद्ब्रह्मणि संस्थास्येति । ब्रह्मसंस्थः । एवंच चतु­र्ष्वा­श्र­मेषु यस्यैव ब्रह्मणि निष्ठ­त्व­मा­श्र­मिणः स ब्रह्म­सं­स्थोऽ­मृ­त­त्व­मे­तीति युक्तम् । तत्र ताव­द्ब्र­ह्म­चा­रि­गृ­हस्थौ स्वशब्दाभिहितौ तपःपदेन च तपःप्रधानतया भिक्षु­वा­न­प्र­स्था­वु­प­स्था­पितौ । भिक्षुरपि हि समा­धि­क­शौ­चा­ष्ट­ग्रा­सी­भो­ज­न­नि­य­मा­द्भ­वति वान­प्र­स्थ­व­त्त­पः­प्र­धानः । नच गृहस्थादेः कर्मिणो ब्रह्म­नि­ष्ठ­त्वा­स­म्भवः । यदि तावत्कर्मयोगः कर्मिता सा भिक्षोरपि काय­वा­ङ्म­नो­भि­रस्ति । अथ ये न ब्रह्मार्पणेन कर्म कुर्वन्ति किन्तु कामार्थितया ते कर्मिणः । तथा सति गृहस्थादयोऽपि ब्रह्मार्पणेन कर्म कुर्वाणा न कर्मिणः । तस्माद्ब्रह्मणि तात्पर्यं ब्रह्मनिष्ठता न तु कर्मत्यागः । प्रमाणविरोधात् । तपसा च द्वयो­रा­श्र­म­यो­रे­की­क­र­णेन त्रय इति त्रित्व­मु­प­प­द्यते । एवंच त्रयोऽप्याश्रमा अब्रह्मसंस्थाः सन्तः पुण्यलोकभाजो भवन्ति यः पुनरेतेषु ब्रह्मसंस्थः सोऽमृतत्वभागिति । नच येषां पुण्य­लो­क­भाक्त्वं तेषा­मे­वा­मृ­त­त्व­मिति विरोधः । यथा देव­द­त्त­य­ज्ञ­दत्तौ मन्द­प्र­ज्ञा­व­भूतां सम्प्रति तयो­र्य­ज्ञा­द­त्तस्तु शास्त्रा­भ्या­सा­त्प­टु­प्रज्ञो वर्तते इति तथेहापि य एवा­ब्र­ह्म­संस्थाः । पुण्यलोकभाजस्त एव ब्रह्मसंस्था अमृतत्वभाज इत्य­व­स्था­भे­दा­द­वि­रोधः । तथाच ब्रह्मसंस्थ इति यौगिकं पदं प्रकृतविषयं भविष्यति । यथा आग्ने­य्या­ग्नी­ध्र­मु­प­ति­ष्ठत इत्यत्र विनियुक्तापि प्रकृतैवाग्नेयी गृह्यते । नच विनि­यु­क्त­वि­नि­यो­ग­वि­रोधः । यदि ह्यत्रा­ग्नो­त्यु­प­दि­श्येत ततो यथा प्रतीता तथोद्दिश्येत । विनियुक्ता च प्रती­ति­र्भ­वे­दिति विनि­यु­क्त­वि­नि­यो­ग­वि­रोधः । इह तु आग्नी­ध्रो­प­स्थाने सा विधेयत्वेन विनियुज्यते । न तूद्दिश्यते । विधेयत्वेन च विनियोगे आग्ने­यी­प­दा­र्था­पे­क्ष­णा­त्प्र­कृ­ता­ति­क्रमे प्रमाणाभावात् । तावता च शास्त्रो­प­प­त्ते­र्ना­प्र­कृ­ता­ना­मपि ग्रहणसम्भवः । नच यातयामतया न विनियोगः । वाचस्तोमे सर्वेषामेव मन्त्राणां विनि­यो­गा­द­न्य­त्रा­प्य­वि­नि­यो­ग­प्र­स­ङ्गात् । तथेहापि प्रकृता एवाश्रमा बुद्धि­वि­प­रि­व­र्तिनः परामृश्यन्ते नानुक्तः परिव्राडेवेति पूर्वः पक्षः ।

राद्धा­न्त­मु­प­क्र­मते –
तदयुक्तम् । नहि सत्यां गतौ वान­प्र­स्थ­वि­शे­ष­णे­नेति ।
यथोपक्रान्तं तथैव परिसमापनमुचितम् । यत्सङ्ख्याकाश्च ये प्रसिद्धास्ते तत्सङ्ख्याका एव कीर्त्यन्ते इति चोचितम् । न तु सत्यां गता­वु­त्स­र्ग­स्या­प­वादो युज्यते । असाधारणेनैकैकेन लक्षणेनैकेक आश्रमो वक्तुमुपक्रान्त इति तथैव समापनमुचितम् । न तु साधा­र­णा­सा­धा­र­णा­भ्या­मु­प­क्र­म­स­माप्ती श्लिष्येते ।

नच तपो नाम नासाधारणं वान­प्र­स्था­ना­मि­त्यत आह –
तपश्चासाधारण इति ।
न खलु पराकादिभिः कायक्लेशप्रधानो यथा वानप्रस्थस्तथा भिक्षुः सत्य­प्य­ष्ट­ग्रा­सा­दि­नि­यमे । नच शौच­स­न्तो­ष­श­म­द­मा­द­य­स्तपः पक्षे वर्तन्ते तत्र वृद्धानां तपः­प्र­सि­द्धे­र­सिद्धेः । अत एव वृद्धास्तपसो भेदेन शौचादीनाचक्षते “शौच­स­न्तो­ष­त­पः­स्वा­ध्या­ये­श्व­र­प्र­णि­धा­नानि नियमाः” इति ।

सिद्ध­स­ङ्ख्या­भे­देषु च सङ्ख्या­न्त­रा­भि­धा­न­मा­श्लि­ष्ट­मि­त्याह –
चतुष्ट्वेन चेति ।

अपिच भेद­व्य­प­दे­शोऽ­त्रेति ।
त्रय एत इति किं भिक्षुरपि परामृश्यते किन्त्वा भिक्षुवर्जं त्रय एव । न तावन्त्रय इति भिक्षुसङ्ग्रहे तद्वर्जनमेते त्रय इत्यत्र कर्तुं शक्यम् । एत इति प्रकृतानां साकल्येन परा­म­र्शा­द्भि­क्षु­स­ङ्ग्रहे च न तस्य पुण्य­लो­क­त्व­म­ब्र­ह्म­सं­स्था­त्वा­भा­वा­द्भिक्षोः । तेन तस्य ब्रह्मसंस्थस्य सदा पुण्य­लो­क­त्व­म­मृ­तत्वं चेति विरोधः । त्रिषु च ब्रह्मसंस्थपदे यदेति सम्बन्धनीयम् । भिक्षौ च सदेति वैषम्यम् ।

तदिदमुक्तम् –
पृथक्त्वे चेति ।

पूर्वपक्षाभासं स्मारयति –
कथं पुन­र्ब्र­ह्म­सं­स्थ­शब्दो योगादिति ।

तन्निराकरोति –
अत्रोच्यत इति ।
अयमभिसन्धिः । सत्यं यौगिकः शब्दः सति प्रकृतसम्भवे न तद­ति­प­त्त्या­प्र­कृते वर्तितुमर्हति । असति तु सम्भवे मा भूत्प्रमादपाठ इत्यप्रकृते वर्तयितव्यः, दर्शि­त­श्चा­त्रा­स­म्भ­वेऽ­ध­स्ता­दिति । एष हि ब्रह्म­सं­स्थ­ता­ल­क्षणो धर्मो भिक्षोरसाधारण आश्रमान्तराणि तत्सं­स्था­न्य­त­त्सं­स्थानि च भिक्षु­स्त­त्संस्थ इत्येव । तत्संस्थता हि स्वाभावं व्यवच्छिन्दन्ती विरो­धा­द्य­स्त­त्संस्थ एव तत्राञ्जसी नान्यत्र ।

शमदमादिस्तु तदीय इति ।
स्वाङ्ग­म­व्य­व­धा­य­क­मि­त्यर्थः ।

ब्रह्म­सं­स्थ­त्व­म­सा­धा­रणं परिव्राजकधर्मं श्रुति­रा­द­र्श­य­ती­त्याह –
तथाच न्यास इति ब्रह्मेति ।

सर्व­स­ङ्ग­प­रि­त्यागो हि न्यासः स ब्रह्मा कुत इत्यत आह –
ब्रह्मा हि परः ।
अतः परो न्यासो ब्रह्मेति ।

किमपेक्ष्य परः संन्यास इत्यत आह –
तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयदिति ।
एतदुक्तं भवति - ब्रह्मपरतया सर्वे­ष­णा­प­रि­त्या­ग­ल­क्षणो न्यासो ब्रह्मेति । तथा चेदृशं न्यासलक्षणं ब्रह्मसंस्थत्वं भिक्षो­रे­वा­सा­धा­रणं नेत­रे­षा­मा­श्र­मि­णाम् । ब्रह्मज्ञानस्य शब्दजनितस्य यः परिपाकः साक्षा­त्का­रोऽ­प­व­र्ग­सा­धनं तदङ्गतया पारिव्राज्यं विहितम् । न त्वनधिकृतं प्रतीत्यर्थः ॥ २० ॥

स्तुति­मा­त्र­मु­पा­दा­ना­दिति चेन्ना­पू­र्व­त्वात् ।
यद्यत्र संनिधान उपा­स­ना­वि­धि­र्नास्ति ततः प्रदे­शा­न्त­र­स्थि­तोऽपि विधि­व्य­भि­चा­रि­त­त­द्वि­धि­स­म्ब­न्धे­नो­द्गी­थे­नो­प­स्था­पितः स एष रसानां रसतम इत्यादिना पद­स­न्द­र्भे­णै­क­वा­क्य­भा­व­मु­प­गतः स्तूयते । नहि सम­भि­व्या­हृ­तै­रे­वै­क­वा­क्यता भवतीति कश्चि­न्नि­य­म­हे­तु­रस्ति । अनु­ष­ङ्गा­ति­दे­श­ल­ब्धै­रपि विध्य­स­म­भि­व्या­हृ­तै­र­र्थ­वा­दै­रे­क­वा­क्य­ता­भ्यु­प­ग­मात् । यदि तूद्गीथमुपासीत सामो­पा­सी­ते­त्या­दि­वि­धि­स­म­भि­व्या­हारः श्रुतस्तथापि तस्यैव विधेः स्तुतिर्न तूपा­स­ना­वि­ष­य­स­म­र्प­ण­पर ओमि­त्ये­त­द­क्ष­र­मु­द्गी­थ­मि­त्य­ने­नै­वो­पा­स­ना­वि­ष­य­स­म­र्प­णा­दिति प्राप्तेऽ­भि­धी­य­तेन तावद्दूरस्थेन कर्म­वि­धि­वा­क्ये­नै­क­वा­क्य­ता­स­म्भवः । प्रती­त­स­म­भि­व्या­हृ­तानां विधिनैकवाक्यतया स्तुत्य­र्थ­त्व­म­र्थ­वा­दानां रक्तपटन्यायेन भवति । न तु स्तुत्या विना काचि­द­नु­प­प­त्ति­र्विधेः । यथाहुः “अस्ति तु तदित्यतिरेके परिहारः” इति । अत एव विधे­र­पे­क्षा­भा­वा­त्प्र­व­र्त­ना­त्म­क­स्या­नु­ष­ङ्ग­ति­दे­शा­दि­भि­र­र्थ­वा­द­प्रा­प्त्य­भि­धा­न­म­स­म­ञ्ज­सम् । नहि कर्त्र­पे­क्षि­तो­पा­या­म­व­ग­तायां प्राश­स्त्य­प्र­त्य­य­स्यास्ति कश्चिदुपयोगः । तस्मा­द्दू­र­स्थस्य कर्मविधेः स्तुता­वा­न­र्थ­क्यम् । तेनै­क­वा­क्य­ता­नु­प­पत्तेः संनिहितस्य तूपासनाविधेः किं विष­य­स­म­र्प­णे­नो­प­यु­ज्य­ता­मुत स्तुत्येति विशये विषयसमर्पणेन यथार्थवत्त्वं नैवं स्तुत्या बहिरङ्गत्वात् । अगत्या हि सा । तस्मा­दु­पा­स­नार्था इति सिद्धम् । “कुर्या­त्क्रि­येत कर्तव्यं भवेत्स्यादिति पञ्चमम् । एत­त्स्या­त्स­र्व­वे­देषु नियतं विधिलक्षणम् ॥” भावनायाः खलु कर्तृ­स­मी­हि­ता­नु­कू­लत्वं विधिर्निषेधश्च कर्तु­र­हि­ता­नु­कू­ल­त्वम् । यथा­हुः“क­र्त­व्यश्च सुखफलोऽकर्तव्यो दुःखफलः” इति । एत­च्चा­स्मा­भि­रु­प­पा­दितं न्यायकणिकायाम् । क्रिया च भावना तद्वचनाश्च करोत्यादयः । यथा­हुः­कृ­भ्व­स्तयः क्रिया­सा­मा­न्य­व­चना इति । अत एव कृभ्व­स्ती­नु­दा­हृ­त­वान् । सामान्योक्तौ तद्विशेषाः पचेदित्यादयोऽपि गम्यन्त इति तत्र कुर्या­दि­त्या­क्षि­प्त­क­र्तृका भावना । क्रियेतेति आक्षिप्तकर्मिका भावना । कर्तव्यमिति तु कर्म­भू­त­द्र­व्यो­प­स­र्ज­न­भा­वना । एवं दण्डी भवेद्दण्डिना भवितव्यं दण्डिना भूये­ते­त्ये­क­धा­त्व­र्थ­वि­षया विध्युपहिता भावना उदाहार्याः । भवतिश्चैष जन्मनि । यथा कुला­ल­व्या­पा­रा­द्घटो भवति बीजादङ्कुरो भवतीति प्रयुञ्जते । नच बीजा­द­ङ्कु­रोऽ­स्तीति प्रयुञ्जते । तस्मादस्ति सत्तायां न जन्मनीति ॥ २१ ॥

भावशब्दाच्च ॥ २२ ॥

पारिप्लवार्था इति चेन्न विशेषितत्वात् ।
यद्यपि उपनिषदाख्यानानि विद्यासंनिधौ श्रुतानि तथापि “सर्वा­ण्या­ख्या­नानि पारिप्लवे” इति सर्वश्रुत्या निःशेषार्थतया दुर्बलस्य संनि­धे­र्बा­धि­त­त्वा­त्पा­रि­प्ल­वा­र्था­न्ये­वा­ख्या­नानि । नच सर्वा दाश­त­यी­र­नु­ब्रू­या­दिति विनियोगेऽपि दाशतयीनां प्राति­स्वि­क­वि­नि­यो­गा­त्तत्र तत्र कर्मणि यथा विनियोगो न विरुध्यते तथेहापि सत्यपि पारिप्लवे विनियेगे संनि­धा­ना­द्वि­द्या­ङ्ग­त्व­मपि भविष्यतीति वाच्यम् । दाशतयीषु प्रातिस्विकानां विनियोगानां समु­दा­य­वि­नि­यो­गस्य च तुल्यबलत्वादिह तु संनि­धा­ना­त्श्रु­ते­र्ब­ली­य­स्त्वात् । तस्मा­त्पा­रि­प्ल­वा­र्था­न्ये­वा­ख्या­ना­नीति प्राप्त उच्यते - नैषामाख्यानानां पारिप्लवे विनियोगः । किन्तु पारि­प्ल­व­मा­च­क्षी­ते­त्यु­प­क्रम्य यान्याम्नातानि मनुर्वैवस्वतो राजेत्यादीनि तेषामेव तत्र विनियोगः, तान्येव हि पारिप्लवेन विशेषितानि । इतरथा पारिप्लवे सर्वा­ण्या­ख्या­ना­नि­त्ये­ता­व­तैव गत­त्वा­त्पा­रि­प्ल­व­मा­च­क्षी­ते­त्य­न­र्थकं स्यात् । आख्या­न­वि­शे­ष­णत्वे त्वर्थवत् । तस्मा­द्वि­शे­षा­णा­नु­रो­धा­त्स­र्व­श­ब्द­स्त­द­पेक्षो न त्वशेषवचनः । यथा सर्वे ब्राह्मणा भोजयितव्या इत्यत्र निम­न्त्रि­ता­पेक्षः सर्वशब्दः । तथा चोप­नि­ष­दा­ख्या­नानां विद्या­सं­नि­धि­र­प्र­ति­द्वन्दीं विद्यैकवाक्यतां सोऽरो­दी­दि­त्या­दी­ना­मिव विद्ये­क­वा­क्यत्वं गमयतीति सिद्धम् । प्रति­प­त्ति­सौ­क­र्या­च्चे­त्यु­पा­ख्या­नेन हि बाला अप्यवधीयन्ते यथा तन्त्रो­पा­ख्या­यि­क­येति ॥ २३ ॥

तथा चैक­वा­क्य­तो­प­ब­न्धात् ॥ २४ ॥

अत एव चाग्नी­न्ध­ना­द्य­न­पेक्षा ।
विद्यायाः क्रत्वर्थत्वे सति तथा क्रतूपकरणाय स्वकार्याय क्रतुरपेक्षितः । तदभावे कस्योपकारो विद्ययेति । यदा तु पुरुषार्था तदा नानया क्रतुरपेक्षितः स्वकार्ये निरपेक्षाया एव तस्याः सामर्थ्यात् ।

अग्नीन्धानादिना चाश्र­म­क­र्मा­ण्यु­प­ल­क्ष्यन्ते तदा­ह­अ­ग्नी­न्ध­ना­दी­न्या­श्र­म­क­र्माणि विद्यया स्वार्थसिद्धौ नापे­क्षि­त­व्या­नीति ।
स्वार्थसिद्धौ नापेक्षितव्यानि न तु स्वसिद्धाविति । एत­च्चा­धि­क­मु­प­रि­ष्टा­द्व­क्ष्यते । तद्विवक्षया चैतत्प्रयोजनं पूर्व­त­न­स्या­धि­क­र­ण­स्यो­क्तम् ॥ २५ ॥

अधिकविवक्ष्येति यदुक्तं तदधिकमाह –
सर्वापेक्षा च यज्ञा­दि­श्रु­ते­र­श्व­वत् ।
यथा स्वार्थसिद्धौ नापेक्ष्यन्ते आश्रमकर्माणि एवमुत्पत्तावपि नापे­क्ष्ये­र­न्निति शङ्का स्यात् । नच विविदिषन्ति यज्ञे­ने­त्या­दि­वि­रोधः । नह्येष विधिरपि तु वर्तमानापदेशः । स च स्तुत्या­प्यु­प­प­द्यते । अपिच चतस्रः प्रतिपत्तयो ब्रह्मणि । प्रथमा ताव­दु­प­नि­ष­द्वा­क्य­श्र­व­ण­मा­त्रा­द्भ­वति यां किलाचक्षते श्रवणमिति । द्वितीया मीमांसासहिता तस्मा­दे­वो­प­नि­ष­द्वा­क्या­द्या­मा­च­क्षते । मननमिति । तृतीया चिन्ता । सन्ततिमयी यामाचक्षते निदिध्यासनमिति । चतुर्थी साक्षात्कारवती वृत्तिरूपा नान्तरीयकं हि तस्याः कैवल्यमिति । तत्राद्ये तावत्प्रतिपत्ति विदितपदतदर्थस्य विदि­त­वा­क्य­ग­ति­गो­च­र­न्या­यस्य च पुंस उपपद्येते एवेति न तत्र कर्मापेक्षा । ते एव च चिन्तामयीं तृतीयां प्रतिपत्तिं प्रसुवाते इति न तत्रापि कर्मापेक्षा । सा चाद­र­नै­र­न्त­र्य­दी­र्घ­का­ल­से­विता साक्षा­त्का­र­व­ती­मा­धत्त एव प्रतिपत्तिं चतुर्थीमिति न तत्राप्यस्ति कर्मापेक्षा । तन्नान्तरीयकं च कैवल्यमिति न तस्यापि कर्मापेक्षा । तदेवं प्रमाणतश्च प्रमेयत उत्पत्तौ च कार्ये च न ज्ञानस्य कर्मापेक्षेति बीजं शङ्कायाम् । एवं प्राप्त उच्यते - उत्पत्तौ ज्ञानस्य कर्मापेक्षा विद्यते विवि­दि­षो­त्पा­द­द्वारा “विविदिषन्ति यज्ञेन”(बृ. उ. ४ । ४ । २२) इति श्रुतेः । न चेदं वर्त­मा­ना­प­दे­श­त्वा­त्स्तु­ति­मा­त्र­म­पू­र्व­त्वा­द­र्थस्य । यथा यस्य पर्णमयी जुहूर्भवतीति पर्ण­म­य­ता­वि­धि­र­पू­र्व­त्वान्न त्वयं वर्तमानापदेशः, अनु­वा­दा­नु­प­पत्तेः । तस्मादुत्पत्तौ विद्यया शमा­दि­व­त्क­र्मा­ण्य­पे­क्ष्यन्ते । तत्रा­प्ये­वं­वि­दिति विद्या­स्व­रू­प­सं­यो­गा­द­न्त­र­ङ्गाणि विद्योत्पादे शमादीनि, बहिरङ्गाणि कर्माणि विवि­दि­षा­सं­यो­गात् । तथाहि - आश्र­म­वि­हि­त­नि­त्य­क­र्मा­नु­ष्ठा­ना­द्ध­र्म­स­मु­त्पा­द­स्ततः पाप्मा विलीयते । स हि तत्त्व­तोऽ­नि­त्या­शु­चि­दुः­खा­ना­त्मनि संसारे सति नित्य­शु­चि­सु­खा­त्म­ल­क्ष­णेन विभ्रमेण मलिनयति चित्त­स­त्त्व­म­ध­र्म­नि­ब­न्ध­न­त्वा­द्वि­भ्र­मा­णाम् । अतः पाप्मनः प्रक्षये प्रत्य­क्षो­प­प­त्ति­द्वा­रा­पा­व­रणे सति प्रत्य­क्षो­प­प­त्तिभ्यां संसारस्य तात्त्वि­की­म­नि­त्या­शु­चि­दुः­ख­रू­प­ता­म­प्र­त्यूहं विनिश्चिनेति । ततोऽ­स्मि­न्न­न­भि­र­ति­संज्ञं वैराग्यमुपजायते । तत­स्त­ज्जि­हा­सा­स्यो­पा­व­र्तते । ततो हानोपायं पर्येषते पर्ये­ष­मा­ण­श्चा­त्म­त­त्त्व­ज्ञा­न­म­स्यो­पाय इति शास्त्रा­दा­चा­र्य­व­च­ना­च्चो­प­श्रुत्य तज्जिज्ञासत इति विवि­दि­षो­प­हा­र­मु­खे­ना­त्म­ज्ञा­नो­त्प­त्ता­वस्ति कर्माणामुपयोगः । विविदिषुः खलु युक्त एकाग्रतया श्रवणमनने कर्तुमुत्सहते । ततोऽ­स्यऽ­त­त्त्व­म­सिऽ­इ­ति­वा­क्य­न्नि­र्वि­चि­कित्सं ज्ञानमुत्पद्यते । नच निर्विचिकित्सं तत्त्वमसीति वाक्या­र्थ­म­व­धा­र­यतः कर्म­ण्य­धि­का­रोऽस्ति । येन भावनायां वा भावनाकार्ये वा साक्षात्कारे कर्मणामुपयोगः । एतेन वृत्ति­रू­प­सा­क्षा­त्का­र­का­र्येऽ­प­वर्गे कर्मणामुपयोगो दूरनिरस्तो वेदितव्यः । तस्माद्यथैव शमदमादयो याव­ज्जी­व­म­नु­व­र्तन्ते एव­मा­श्र­म­क­र्मा­पी­त्य­स­मी­क्षि­ता­भि­धा­नम् । विदु­ष­स्त­त्रा­न­धि­का­रा­दि­त्यु­क्तम् । दृष्टार्थेषु तु कर्मसु प्रति­षि­द्ध­व­र्ज­न­म­न­धि­का­रेऽ­प्य­स­क्तस्य स्वारसिकी प्रवृ­त्ति­रु­प­प­द्यत एव । नहि तत्रा­न्व­य­व्य­ति­रे­क­स­म­धि­ग­म­नी­य­फ­लेऽस्ति विध्यपेक्षा । अतश्च “भ्रान्त्या चेल्लौकिकं कर्म वैदिकं च तथास्तु ते” इति प्रलापः । शमदमादीनां तु विद्यो­त्पा­दा­यो­पा­त्ता­ना­मु­प­रि­ष्टा­द­व­स्था­स्वा­भा­व्या­द­न­पे­क्षि­ता­ना­म­प्य­नु­वृत्तिः । उपपादितं चैतदस्माभिः प्रथमसूत्र इति नेह पुनः प्रत्याप्यते । तस्मा­द्वि­वि­दि­षो­त्पा­द­द्वा­रा­श्र­म­क­र्मणां विद्यो­त्प­त्ता­वु­प­योगो न विद्याकार्य इति सिद्धम् । शेष­म­ति­रो­हि­ता­र्थम् ॥ २६ ॥

शम­द­मा­द्यु­पे­त­स्स्या­त्त­थापि तु तद्वि­धे­स्त­द­ङ्ग­तया तेषा­म­प्य­व­श्या­नु­ष्ठे­य­त्वात् ॥ २७ ॥

सर्वा­न्ना­नु­म­तिश्च प्राणात्यये तद्दर्शनात् ।
प्राणसंवादे सर्वे­न्द्रि­याणां श्रूयते । एष किल विचारविषयः सर्वाणि खलु वागादीन्यवजित्य प्राणो मुख्य उवाचैतानि किं मेऽन्नं भविष्यतीति, तानि होचुः । यदिदं लोकेऽन्नमा च श्वभ्य आ च शकुनिभ्यः सर्वप्राणिनां यदन्नं तत्तवान्नमिति । तदनेन सन्दर्भेण प्राणस्य सर्व­म­न्न­मि­त्य­नु­चि­न्तनं विधायाह श्रुतिः “न ह वा एवंविदि किञ्चनानन्नं भवति”(छा. उ. ५ । २ । १) इति । सर्वं प्राण­स्या­न्न­मि­त्ये­वं­विदि न किञ्चिनानन्नं भवतीति । तत्र संशयः - किमे­त­त्स­र्वा­न्ना­भ्य­नु­ज्ञानं शमा­दि­व­दे­त­द्वि­द्या­ङ्ग­तया विधीयत उत स्तुत्यर्थं सङ्कीर्त्यत इति । तत्र यद्यपि भवतीति वर्त­मा­ना­प­दे­शान्न विधिः प्रतीयते । तथापि यथा यस्य पर्णमयी जुहूर्भवतीति वर्त­मा­ना­प­दे­शा­दपि पला­श­म­यी­त्व­वि­धि­प्र­ति­पत्तिः पञ्च­म­ल­का­रा­पत्त्या तथेहापि प्रवृ­त्ति­वि­शे­ष­क­र­ता­लाभे विधिप्रतिपत्तिः । स्तुतौ हि अर्थवादमात्रं न तथार्थवद्यथा विधौ । भक्ष्या­भ­क्ष्य­शास्त्रं च सामान्यतः प्रवृत्तमनेन विशेषशास्त्रेण बाध्यते । गम्या­ग­म्य­वि­वे­क­शा­स्त्र­मिव सामान्यतः प्रवृत्तं वाम­दे­व­वि­द्या­ङ्ग­भू­त­स­म­स्त­स्त्र्य­प­रि­हा­र­शा­स्त्रेण विशेषविषयेणेति प्राप्त उच्यते अशक्तेः कल्प­नी­य­त्वा­च्छा­स्त्रा­न्त­र­वि­रो­धतः । प्राण­स्या­न्न­मिदं सर्वमिति चिन्तनसंस्तवः ॥ न ताव­त्कौ­ले­य­क­म­र्या­द­मन्नं मनुष्यजातिना युगपत्पर्यायेण वा शक्यमत्तुम् । इभ­क­र­भ­का­दी­ना­म­न्नस्य शमी­क­री­र­क­ण्ट­क­व­ट­का­ष्ठा­दे­रे­क­स्यापि अशक्यादनत्वात् । न चात्र लिङ्ग इव स्फुटतरा विधि­प्र­ति­प­त्ति­रस्ति । नच कल्पनीयो विधि­र­पू­र्व­त्वा­भा­वात् । स्तुत्यापि च तदुपपत्तेः । नच सत्यां गतौ सामान्यतः प्रवृत्तस्य शास्त्रस्य विषयसङ्कोचो युक्तः । तस्मात्सर्वं प्राण­स्या­न्न­मि­त्य­नु­चि­न्त­न­वि­धा­न­स्तु­ति­रिति साम्प्रतम् । शक्यत्वे च प्रवृ­त्ति­वि­शे­ष­क­र­तो­प­यु­ज्यते नाशक्यविधानत्वे । प्राणात्यय इति चावधारणपरं प्राणात्यय एव सर्वान्नत्वम् । तत्रो­पा­ख्या­नाच्च स्फुट­त­र­वि­धि­स्मृ­तेश्च सुरावर्जं विद्वां­स­म­वि­द्वांसं प्रति विधानात् । न त्वन्यत्रेति । इभ्येन हस्तिपकेन सामिस्वादितान् अर्धभक्षितान् । स हि चाक्रायणो हस्ति­प­को­च्छि­ष्टा­न्कु­ल्मा­षा­न्भु­ञ्जानो हस्तिपकेनोक्तः । कुल्माषानिव मदुच्छिष्टमुदकं कस्मा­न्ना­नु­पि­ब­सीति । एव­मु­क्त­स्त­दु­द­क­मु­च्छि­ष्ट­दो­षा­त्प्र­त्या­च­चक्षे । कारणं चात्रोवाच । न वाजीविष्यं न जीवि­ष्या­मी­ती­मा­न्कु­ल्मा­षा­न­खा­दम् । कामो म उदकपानमिति स्वातन्त्र्यं मे उदकपाने नदी­कू­प­त­डा­ग­प्रा­पा­दिषु यथाकामं प्राप्नोमीति नोच्छि­ष्टो­द­का­भावे प्राणात्यय इति तत्रो­च्छि­ष्ट­भ­क्ष­ण­दोष इति मटचीहतेषु कुरुषु ग्लायन्नशनायया मुनिर्निरपत्रप इभ्येन सामि­ज­ग्धा­न्खा­द­या­मास ॥ २८ ॥

अबाधाच्च ॥ २९ ॥

अपि च स्मर्यते ॥ ३० ॥

शब्द­श्चा­तोऽ­का­म­कारे ॥ ३१ ॥

विहि­त­त्वा­च्चा­श्र­म­क­र्मापि ।
नित्यानि ह्याश्रमकर्माणि याव­ज्जी­व­श्रु­ते­र्नि­त्ये­हि­तो­पा­य­त­या­वश्यं कर्तव्यानि । विविदिषन्तीति च विद्या­सं­यो­गा­द्वि­द्या­या­श्चा­व­श्य­म्भा­व­नि­य­मा­भा­वा­द­नि­त्यता प्राप्नोति । नित्या­नि­त्य­सं­यो­ग­श्चै­कस्य न सम्भवति, अव­श्या­न­व­श्य­म्भा­व­यो­रे­कत्र विरोधात् । नच वाक्य­भे­दा­द्वा­स्तवो विरोधः शक्योऽपनेतुम् । तस्मादनध्यवसाय एवात्रेति प्राप्तम् । एतेन “एकस्य तूभयत्वे संयो­ग­पृ­थ­क्त्वम्” इत्याक्षिप्तम् । एवं प्राप्तेऽ­भि­धी­यते - सिद्धे हि स्याद्विरोधोऽयं न तु साध्ये कथञ्चन । विध्य­धी­ना­त्म­ला­भेऽ­स्मिन् यथाविधि मता स्थितिः ॥ सिद्धं हि वस्तु विरु­द्ध­ध­र्म­यो­गेन बाध्यते । न तु साध्यरूपं यथा षोडशिन एकस्य ग्रहणाग्रहणे । ते हि विध्य­धी­न­त्वा­द्वि­क­ल्पेते एव । न पुनः सिद्धे विकल्पसम्भवः । तदि­है­क­मे­वा­ग्नि­हो­त्राख्यं कर्म याव­ज्जी­व­श्रु­ते­र्नि­मि­त्तेन युज्यमानं नित्ये­हि­तो­पा­त्त­दु­रि­त­प्र­क्ष­य­प्र­यो­ज­न­म­व­श्य­क­र्तव्यं, विद्याङ्गतया च विद्यायाः कादा­चि­त्क­त­या­न­वश्यं भावेऽपि “काम्यो वा नैमित्तिको वा नित्यमर्थं विकृत्य निविशते” इति न्याया­द­नि­त्या­धि­का­रेण निविशमानमपि न नित्यमनित्ययति, तेनापि तत्सिद्धेरिति संयो­ग­पृ­थ­क्त्वान्न नित्या­नि­त्य­सं­यो­ग­वि­रोध एकस्य कार्यस्येति सिद्धम् । सहकारित्वं च कर्मणां न कार्ये विद्यायाः किं तूत्पत्तौ । कोऽर्थो विद्यासहकारीणि कर्माणीति । अयमर्थः सत्सु कर्मसु विद्यैव स्वकार्ये व्याप्रियते । यथा “सहैव दशभिः पुत्रैर्भारं वहति गर्दभी” इति सत्स्वेव दशपुत्रेषु सैव भारस्य वाहिकेति ।

अवि­धि­ल­क्ष­ण­त्वा­दिति ।
विहितं हि दर्श­पौ­र्ण­मा­सा­द्य­ङ्गै­र्यु­ज्यते न त्वविहितम् । ग्राह­क­ग्र­ह­ण­पू­र्व­क­त्वा­द­ङ्ग­भा­वस्य विधैश्च ग्राहकत्वात् । अविहिते च तदनुपपत्तेः । चतसृणामपि च प्रतिपत्तीनां ब्रह्मणि विधा­ना­नु­प­प­त्ते­रि­त्युक्तं प्रथमसूत्रे । द्रष्टव्यो निदिध्यासितव्य इति च विधिसरूपं न विधि­रि­त्य­प्यु­क्तम् । उत्पत्तिं प्रति हेतुभावस्तु सत्त्वशुद्ध्या विवि­दि­षो­प­ज­न­द्वा­रे­त्य­ध­स्ता­दु­प­पा­दि­तम् । असाध्यत्वाच्च विद्या­फ­ल­स्या­प­व­र्गस्य स्वरू­पा­व­स्था­न­ल­क्षणो हि सः । नच स्वं रूपं ब्रह्मणः साध्यं नित्यत्वात् । शेष­म­ति­रो­हि­ता­र्थम् ॥ ३२ ॥

सहकारित्वेन च ॥ ३३ ॥

सर्वथापि त एवोभयलिङ्गात् ।
यथा मासमग्निहोत्रं जुह्वतीति प्रक­र­णा­न्त­रा­त्क­र्म­भेद एवमिहापि “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन”(बृ. उ. ४ । ४ । २२) इति क्रतु­प्र­क­र­ण­म­ति­क्र­म्य­श्र­व­णा­त्प्र­क­र­णा­न्त­रा­त्त­द्बु­द्धि­व्य­व­च्छेदे सति कर्मान्तरमिति प्राप्त उच्यतेसत्यपि प्रकरणान्तरे तदेव कर्म, श्रुतेः स्मृतेश्च संयोगभेदः परं यथा “अग्निहोत्रं जुहु­या­त्स्व­र्ग­कामः” “याव­ज्जी­व­म­ग्नि­होत्रं जुहुयात्” इति तदे­वा­ग्नि­हो­त्र­मु­भ­य­सं­यु­क्तम् । नहि प्रकरणान्तरं साक्षाद्भेदकम् । किन्तु अज्ञा­त­ज्ञा­प­न­स्व­रसो विधिः प्रकरणैक्ये स्फुट­त­र­प्र­त्य­भि­ज्ञा­ब­लेन स्वरसं जह्यात् । प्रकरणान्तरेण तु विघ­टि­त­प्र­त्य­भि­ज्ञानः स्वरसमजहत्कर्म भिनत्ति । इह तु सिद्ध­व­दु­त्प­न्न­रू­पा­ण्येव यज्ञादीनि विविदिषायां विनियुञ्जानो न जुह्व­ती­त्या­दि­व­द­पू­र्व­मेषां रूप­मु­त्पा­द­यि­तु­म­र्हति । नच तत्रापि नैय­मि­का­ग्नि­होत्रे मास­वि­धि­र्ना­पू­र्वा­ग्नि­हो­त्रो­त्प­त्ति­रिति साम्प्रतम् । होम एव साक्षा­द्वि­धि­श्रुतेः । कालस्य चानु­पा­दे­य­स्या­वि­धे­य­त्वात् । काले हि कर्म विधीयते न कर्मणि काल इत्युत्सर्गः । इह तु विविदिषायां विधिश्रुतिः न यज्ञादौ । तानि तु सिद्धा­न्ये­वा­नू­द्यन्त इत्यै­क­क­र्म्या­त्सं­यो­ग­पृ­थक्त्वं सिद्धम् । स्मृतिमुक्त्वा लिङ्ग­द­र्श­न­मु­क्तम् ॥ ३४ ॥

अनभिभवं च दर्शयति ॥ ३५ ॥

अन्तरा चापि तु तद्दृष्टेः ।
यदि विद्या­स­ह­का­री­ण्या­श्र­म­क­र्माणि हन्त भो विधु­रा­दी­ना­म­ना­श्र­मि­णा­म­न­धि­कारो विद्यायाम् , अभा­वा­त्स­ह­का­रि­णा­मा­श्र­म­क­र्म­णा­मिति प्राप्त उच्य­ते­ना­त्य­न्त­म­क­र्माणो विधु­र­रै­क्व­वा­च­क्र­वी­प्र­भृ­तयः । सन्ति हि तेषा­म­ना­श्र­मि­त्वेऽपि जपो­प­वा­स­दे­व­ता­रा­ध­ना­दीनि कर्माणि । कर्मणां च सह­का­रि­त्व­मु­क्त­मा­श्र­म­क­र्म­णा­मु­प­ल­क्ष­ण­त्वा­दिति न तेषामनधिकारो विद्यासु ।

जन्मा­न्त­रा­नु­ष्ठि­ते­रपि चेति ।
न खलु विद्याकार्ये कर्मणामपेक्षा । अपितु उत्पादे । उत्पादयन्ति च विविदिषोपहारेण कर्माणि विद्याम् । उत्प­न्न­वि­वि­दि­षाणां पुरुषधौरेयाणां विधु­र­सं­व­र्त­प्र­भृ­तीनां कृतं कर्मभिः । यद्यपि चेह जन्मनि कर्मा­ण्य­न­नु­ष्ठि­तानि तथापि विवि­दि­षा­ति­श­य­द­र्श­ना­त्प्राचि भवेऽनुष्ठितानि तैरिति गम्यत इति ।

ननु यथाधीतवेद एव धर्म­जि­ज्ञा­सा­या­म­धि­क्रि­यते नानधीतवेद इह जन्मनि । तथेह जन्म­न्या­श्र­म­क­र्मो­त्पा­दि­त­वि­वि­दिष एव विद्यायामधिकृतो नेतर इत्य­ना­श्र­मि­णा­म­न­धि­कारो विधु­र­प्र­भृ­ती­ना­मि­त्यत आह –
दृष्टार्था चेति ।
अवि­द्या­नि­वृ­त्ति­र्वि­द्याया दृष्टोऽर्थः । स चान्व­य­व्य­ति­रे­क­सिद्धो न नियममपेक्षत इत्यर्थः । प्रतिषेधो विधातस्तस्याभाव इत्यर्थः ॥ ३६ ॥

अपि च स्मर्यते ॥ ३७ ॥

विशेषानुग्रहश्च ॥ ३८ ॥

यद्य­ना­श्र­मि­णा­म­प्य­धि­कारो विद्यायां कृतं तर्ह्या­श्र­मै­र­ति­ब­हु­ला­या­सै­रि­त्या­श­ङ्क्याह –
अत­स्त्वि­त­र­ज्ज्यायो लिङ्गाच्च ।
स्वस्थे­ना­श्र­मि­त्व­मा­स्थे­यम् । दैवात्पुनः पत्न्या­दि­वि­यो­गातः सत्यनाश्रमित्वे भवेदधिकारो विद्यायामिति श्रुति­स्मृ­ति­स­न्द­र्भेण विविदिषन्ति यज्ञेनेत्यादिना ज्याय­स्त्वा­व­गतेः श्रुति­लि­ङ्गा­त्स्मृ­ति­लि­ङ्गा­च्चा­व­ग­म्यते । तेनैति पुण्यकृदिति श्रुतिलिङ्गम् , अनाश्रमी न तिष्ठेतेत्यादि च स्मृतिलिङ्गम् ॥ ३९ ॥

तद्भूतस्य तु नातद्भावो जैमिनेरपि निय­मा­त्त­द्रू­पा­भा­वेभ्यः ।
आरो­ह­व­त्प्र­त्य­व­रो­होऽपि कदा­चि­दू­र्ध्व­रे­तसां स्यादिति मन्दा­श­ङ्का­नि­वा­र­णा­र्थ­मि­द­म­धि­क­र­णम् । पूर्वधर्मेषु यागहोमादिषु । रागतो वा गृहस्थोऽहं पत्न्या­दि­प­रि­वृतः स्यामिति ।

नियमं व्याचष्टे –
तथाहि अत्य­न्त­मा­त्मा­न­मिति ।

अत­द्रू­प­ता­मा­रो­ह­तु­ल्य­ता­भावं व्याचष्टे –
यथाच ब्रह्मचर्यं समाप्येति ।

अभावं शिष्टाचाराभावं विभजते –
न चैवमाचाराः शिष्टा इति ।
अति­रो­हि­ता­र्थ­म­न्यत् ॥ ४० ॥

न चाधिकारिकमपि पत­ना­नु­मा­ना­त्त­द­यो­गात् ।
प्रायश्चित्तं न पश्यामीति नैष्ठिकं प्रति प्राय­श्चि­त्ता­भा­व­स्म­र­णा­न्नै­रृ­त­ग­र्द­भा­लम्भः प्राय­श्चि­त्त­मु­प­कु­र्वा­णकं प्रति । तस्मा­च्छि­न्न­शि­रस इव पुंसः प्रतिक्रियाभाव इति पूर्वः पक्षः । सूत्रयोजना तु न चाधि­का­रि­क­म­धि­का­र­ल­क्षणे प्रथमकाण्डे निर्णीतम् “अवकीर्णिपशुश्च तद्व­दा­धा­न­स्या­प्रा­प्त­का­ल­त्वात्”(जै.सू. ६ । ८ । ४ । २२) इत्यनेन यत्प्रा­य­श्चित्तं तन्न नैष्ठिके भवितुमर्हति । कुत आरूढो नैष्ठिकमिति स्मृत्या पत­न­श्रु­त्य­नु­मा­ना­त्त­त्प्रा­य­श्चि­त्ता­यो­गात् ॥ ४१ ॥

उपपूर्वमपि त्वेके भाव­म­श­न­व­त्त­दु­क्तम् ।
श्रुति­स्ता­व­त्स्व­र­स­तोऽ­स­ङ्कु­च­द्वृ­त्ति­र्ब्र­ह्म­चा­रि­मा­त्रस्य नैष्ठि­क­स्यो­प­कु­र्वा­णस्य चाविशेषेण प्राय­श्चि­त्त­मु­प­दि­शति साक्षात् । प्रायश्चित्तं न पश्यामीति तु स्मृतिः । तस्यामपि च साक्षा­त्प्रा­य­श्चित्तं न कर्तव्यमिति प्राय­श्चि­त्त­नि­षेधो न गम्यते, न पश्यामीति तु दर्शनाभावेन सोऽनुमातव्यः । तथा च स्मृति­र्नि­षे­धा­र्थेति अनुमाय तदर्था श्रुति­र­नु­मा­तव्या । श्रुतिस्तु सामान्यविषया विशे­ष­मु­प­स­र्पन्ती शीघ्र­प्र­वृ­त्ति­रिति । स्मार्तं प्राय­श्चि­त्ता­द­र्शनं तु यत्नगौरवार्थम् । एतदुक्तं भव­ति­कृ­त­नि­र्णे­ज­नै­रपि एतैर्न सङ्ख्यानं कर्तव्यमिति । सूत्रार्थस्तु उपपूर्वमपि पातकं नैष्ठि­क­स्या­व­की­र्णित्वं न महा­पा­त­क­म­पि­रे­व­का­रार्थे अत एके प्राय­श्चि­त्त­भा­व­मि­च्छ­न्तीति । आचार्याणां विप्रतिपत्तौ विशे­षा­भा­वा­त्साम्यं भवेत् । शास्त्रस्था या वा प्रसिद्धिः सा ग्राह्या शास्त्र­मू­ल­त्वात् । उपपादितं च प्राय­श्चि­त्त­भा­व­प्र­सिद्धेः शास्त्र­मू­ल­त्व­मिति । सुगममितरत्॥ ४२ ॥

यदि नैष्ठि­का­दी­ना­मस्ति प्रायश्चित्तं तत्किमेतैः कृतनिर्णेजनैः संव्य­व­ह­र्त­व्य­मुत नेति । तत्र दोष­कृ­त­त्वा­द­सं­व्य­व­हा­रस्य प्रायश्चित्तेन तन्नि­ब­र्ह­णा­द­नि­ब­र्हणे वा तत्क­र­ण­वै­य­र्थ्या­त्सं­व्य­व­हार्या एवेति प्राप्त उच्यते –
बहिस्तूभयथापि स्मृतेराचाराच्च ।
निषि­द्ध­क­र्मा­नु­ष्ठा­न­ज­न्य­मेनो लोक­द्व­येऽ­प्य­शु­द्धि­मा­पा­द­यति द्वैधं कस्यचिदेनसो लोक­द्व­येऽ­प्य­शु­द्धि­र­प­नी­यते प्राय­श्चि­त्तै­रे­नो­नि­ब­र्हणं कुर्वाणैः । कस्यचित्तु पर­लो­का­शु­द्धि­मा­त्र­म­प­नी­यते प्राय­श्चि­त्तै­रे­नो­नि­ब­र्हणं कुर्वा­णै­रि­ह­लो­का­शु­द्धि­स्त्वे­न­सा­पा­दिता न शक्यापनेतुम् । यथा स्त्रीबा­ला­दि­घा­ति­नाम् । यथाहुः “विशुद्धानपि धर्मतो न सम्पिबेत्” इति । तथा च “प्राय­श्चि­त्तै­र­पै­त्येनो यदज्ञानकृतं भवेत्” कामतः कृतमपि । बालघ्नादिस्तु कृतनिर्णेजनोऽपि वचनादव्यवहार्य इह लोके जायत इति । वचनं च बाल­घ्नां­श्चे­त्यादि । तस्मा­त्स­र्व­म­व­दा­तम् ॥ ४३ ॥

स्वामिनः फल­श्रु­ते­रि­त्या­त्रेयः ।
प्रथमे काण्डे शेषलक्षणे तथाकाम इत्य­त्र­र्त्वि­क्स­म्बन्धे कर्मणः सिद्धे किं कामो याजमान उतार्त्विज्य इति संश­य्या­र्त्वि­ज्येऽपि कर्मणि याजमान एव कामो गुणफलेष्विति निर्णीतमिह त्वेवंजातीयकानि चाङ्गसम्बद्धानि उपासनानि किं याज­मा­ना­न्ये­वो­ता­र्त्वि­ज्या­नीति विचार्यत इति न पुनरुक्तम् । तत्रोपासकानां फल­श्र­व­णा­द­न­धि­का­रि­ण­स्त­द­नु­प­प­त्ते­र्य­ज­मा­नस्य च कर्म­ज­नि­त­फ­लो­प­भो­ग­भा­जोऽ­धि­का­रा­दृ­त्विजां च तद­नु­प­प­त्ते­र्व­च­नाच्च राजा­ज्ञा­स्था­नी­या­त्क्व­चि­दृ­त्विजां फलश्रुतेरसति वचने यजमानस्य फलवदुपासनं तस्य फलश्रुतेः तं ह बको दाल्भ्यो विदा­ञ्च­का­रे­त्या­दे­रु­पा­स­नस्य च सिद्ध­वि­ष­य­त­या­न्या­या­प­वा­द­सा­म­र्थ्या­भा­वा­द्या­ज­मा­न­मे­वो­पा­स­ना­क­र्मेति प्राप्त उच्यते ॥ ४४ ॥

आर्त्वि­ज्य­मि­त्यौ­डु­लोमिः तस्मै हि परिक्रीयते ।
उपा­ख्या­ना­त्ता­व­दु­पा­स­न­मौ­द्गा­त्र­म­व­ग­म्यते । तद्बलवति सति बाध­केऽ­न्य­थो­प­पा­द­नी­यम् । न चर्त्विक्कर्तृक उपासने यजमानगामिता फलस्यासम्भविनी तेन हि स परि­क्री­त­स्त­द्गा­मिनो फलाय घटते । तस्मान्न व्यस­नि­ता­मा­त्रे­णो­पा­ख्या­न­म­न्य­थ­यितुं युक्तमिति राद्धान्तः ॥ ४५ ॥

श्रुतेश्च ॥ ४६ ॥

सह­का­र्य­न्त­र­विधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ।
तस्मा­द्ब्रा­ह्मणः पाण्डित्यं निर्विद्य निश्चयेन । लब्ध्वा बाल्येन तिष्ठा­से­द्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मण इति । यत्र हि विधिविभक्तिः श्रूयते स विधेयः । बाल्येन तिष्ठा­से­दि­त्यत्र च सा श्रूयते न श्रूयते तु मौने । तस्माद्यथाथ ब्रह्मण इत्ये­त­द­श्रू­य­मा­ण­वि­धि­क­म­वि­धे­य­मेवं मौनमपि । न चापू­र्व­त्वा­द्वि­धेयं, तस्माद्ब्रह्मणः पाण्डित्यं निर्विद्येति पाण्डि­त्य­वि­धा­ना­देव मौनसिद्धेः पाण्डित्यमेव मौनमिति । अथवा भिक्षुवचनोऽयं मुनिशब्दस्तत्र दर्शनात् “गार्ह­स्थ्य­मा­चा­र्य­कुलं मौनं वानप्रस्थम्” इत्यत्र । तस्यान्यतो विहि­त­स्या­य­म­नु­वादः । तस्मा­द्बा­ल्य­मे­वात्र विधीयते मौनं तु प्राप्तं प्रशं­सा­र्थ­म­नू­द्यत इति युक्तम् । भवेदेवं यदि पण्डितपर्यायो मुनिशब्दो भवेत् । अपि तु ज्ञानमात्रं पाण्डित्यं ज्ञाना­ति­श­य­स­म्प­त्तिस्तु मौनं तत्रैव तत्प्रसिद्धेः । आश्रमभेदे तु तत्प्र­वृ­त्ति­र्गा­र्ह­स्थ्या­दि­प­द­सं­नि­धा­नात् । तस्मा­द­पू­र्व­त्वा­न्मौ­नस्य बाल्य­पा­ण्डि­त्या­पे­क्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विधीयते ।

एवं च निर्वे­द­नी­य­त्व­मपि विधान आञ्जसं स्यादित्याह –
निर्वे­द­नी­य­त्व­नि­र्दे­शा­दिति ।

कस्येदं मौनं विधीयते विद्या­स­ह­का­रि­त­ये­त्यत आह –
तद्वतो विद्यावतः संन्यासिनो
भिक्षोः ।

पृच्छति –
कथमिति ।
विद्यावत्ता प्रतीयते न संन्या­सि­ते­त्यर्थः । उत्त­र­न्त­द­धि­का­रा­त्भि­क्षो­स्त­द­धि­का­रात् ।

तद्दर्शयति –
आत्मानं विदित्वेति ।

सूत्रावयवं योजयितुं शङ्कते –
नन्विति ।

परिहरति अत आह –
पक्षेणेति ।
विद्यावानिति न विद्यातिशयो विवक्षितः । अपि तु विद्यो­द­या­या­भ्यासे प्रवृत्तो न पुन­रु­त्प­न्न­वि­द्या­ति­शयः । तथाचास्य पक्षे कदा­चि­द्भे­द­द­र्श­ना­त्स­म्भव इत्यर्थः । विध्या­दि­र्वि­धि­मुख्यः प्रधानमिति यावत् । अत एव समि­दा­दि­र्वि­ध्यन्तः स हि विधिः प्रधानविधेः पश्चादिति । तत्रा­श्रू­य­मा­ण­वि­धि­त्वेऽ­पू­र्व­त्वा­द्वि­धि­रा­स्थेय इत्यर्थः ॥ ४७ ॥

ननु यद्ययमाश्रमो बाल्यप्रधानः कस्मा­त्पु­न­र्गा­र्ह­स्थ्ये­नो­प­सं­ह­र­तीति चोदयति –
एवं बाल्या­दि­वि­शि­ष्टेति ।

उत्तरं पठति –
कृत्स्नभावात्तु गृहिणोपसंहारः ।
छान्दोग्ये बहु­ला­या­स­सा­ध्य­क­र्म­ब­हु­ल­त्वा­द्गा­र्ह­स्थ्यस्य चाश्र­मा­न्त­र­ध­र्माणां च केषा­ञ्चि­द­हिं­सा­दीनां सम­वा­या­त्ते­नो­प­सं­हारो न पुनस्तेन समापनादित्यर्थः ॥ ४८ ॥

एवं तदा­श्र­म­द्व­यो­प­न्या­सेन क्वचि­त्क­दा­चि­दि­त­रा­भा­व­शङ्का मन्दबुद्धेः स्यादिति तदपाकरणार्थं सूत्रम् –
मौन­व­दि­त­रे­षा­म­प्यु­प­दे­शात् ।
वृत्ति­र्वा­न­प्र­स्था­ना­म­ने­क­वि­धै­रेवं ब्रह्म­चा­रि­णोऽ­पीति वृत्ति­भे­दोऽ­नु­ष्ठा­तारो वा पुरुषा भिद्यन्ते, तस्मा­द्द्वि­त्वेऽपि बहु­व­च­न­म­वि­रु­द्धम् ॥ ४९ ॥

अना­वि­ष्कु­र्व­न्न­न्व­यात् ।
बाल्येनेति याव­द्बा­ल­च­रि­त­श्रुतेः काम­चा­र­वा­द­भ­क्ष­ता­या­श्चा­त्य­न्त­बा­ल्येन प्रसिद्धेः शौचा­दि­नि­य­म­वि­धा­यि­नश्च सामा­न्य­शा­स्त्र­स्या­नेन विशेषशास्त्रेण बाध­ना­त्स­क­ल­बा­ल­च­रि­त­वि­धा­न­मिति प्राप्तेऽ­भि­धी­यते विद्याङ्गत्वेन बाल्य­वि­धा­ना­त्स­म­स्त­बा­ल­च­र्यायां च प्रधा­न­वि­रो­ध­प्र­स­ङ्गा­द्य­त्त­द­नु­गु­ण­म­प्रौ­ढे­न्द्रि­य­त्वादि भावशुद्धिरूपं तदेव विधीयते । एवं च शास्त्रा­न्त­रा­बा­धे­ना­प्यु­प­पत्तौ न शास्त्रा­न्त­र­बा­ध­न­म­न्याय्यं भविष्यतीति ॥ ५० ॥

ऐहि­क­म­प्य­प्र­स्तु­त­प्र­ति­बन्धे तद्दर्शनात् ॥५१॥

सङ्गतिमाह –
सर्वापेक्षा चेति ।
किं श्रवणादिभिरिहैव वा जन्मनि विद्या साध्यते उतानियम इह वामुत्र वेति । यद्यपि कर्माणि यज्ञा­दी­न्य­नि­य­त­फ­लानि तेषां च विद्यो­त्पा­द­सा­ध­न­त्वेन विद्यो­त्पा­द­स्या­नि­यमः प्रतिभाति । तथाच गर्भस्थस्य वाम­दे­व­स्या­त्म­प्र­ति­बो­ध­श्र­व­णात् “अने­क­ज­न्म­सं­सि­द्ध­स्ततो याति परां गतिम्”(भ. गी. ६ । ४५) इति च स्मर­णा­दा­मु­ष्मि­क­त्व­म­प्य­व­ग­म्यते । तथापि यज्ञादीनां प्रमे­या­णा­म­प्र­मा­ण­त्वा­च्छ्र­व­णा­देश्च प्रमा­ण­त्वा­त्ते­षा­मेव साक्षा­द्वि­द्या­सा­ध­न­त्वम् । यज्ञादीनां सत्त्व­शु­द्ध्या­धा­नेन वा विद्यो­त्पा­द­क­श्र­व­णा­दि­ल­क्ष­ण­प्र­मा­ण­प्र­वृ­त्ति­वि­घ्नो­प­श­मेन वा विद्यासाधनत्वम् । श्रवणादीनां त्वनपेक्षाणामेव विद्यो­त्पा­द­क­त्वम् । नच प्रमाणेषु प्रवर्तमानाः प्रमातार ऐहिकमपि चिरभाविनं प्रमोत्पादं कामयन्ते किन्तु तादात्विकमेव प्रागेव तु पारलौकिकम् । नहि कुम्भ­ला­दि­दृ­क्षु­श्च­क्षुषी समुन्मीलयति कालान्तरीयाय कुम्भदर्शनाय किन्तु तादात्विकाय । तस्मादैहिक एव विद्योत्पादो नानियतकालः । श्रुतिस्मृती च पारलौकिकं विद्योत्पादं स्तुत्या ब्रूतः । इत्थम्भूतानि नाम श्रव­णा­दी­न्या­व­श्य­क­फ­लानि यत्कालान्तरेऽपि विद्या­मु­त्पा­द­य­न्तीति । एवं प्राप्त उच्यते - यत एवात्र विद्योत्पादे श्रवणादिभिः कर्तव्ये यज्ञादीनां सत्त्व­शु­द्धि­द्वा­रेण वा विघ्नोपशमद्वारा वोपयोगोऽत एव तेषां यज्ञादीनां कर्मा­न्त­र­प्र­ति­ब­न्धा­प्र­ति­ब­न्धा­भ्या­म­नि­य­त­फ­ल­त्वेन तदपेक्षाणां श्रव­णा­दी­ना­म­प्य­नि­य­त­फ­लत्वं न्याय्य­म­न­प­ह­त­वि­घ्नानां श्रव­णा­दी­ना­म­नु­त्पा­द­क­त्वा­द­वि­शु­द्ध­स­त्त्वाद्वा पुंसः प्रत्य­नु­त्पा­द­क­त्वात् । तथाच तेषां यज्ञा­द्य­पे­क्षाणां तेषां चानियतफलत्वेन श्रव­णा­दी­ना­म­प्य­नि­य­त­फ­लत्वं युक्तमेवं श्रुति­स्मृ­ति­प्र­ति­बन्धो न स्तुति­मा­त्र­त्वेन व्याख्येयो भविष्यति ।

पुरुषाश्च विद्यार्थिनः साध­न­सा­म­र्थ्या­नु­सा­रेण तदनुरूपमेव कामयिष्यन्ते तदिदमुक्तम् –
अभि­स­न्धे­र्नि­र­ङ्कु­श­त्वा­दिति ॥ ५१ ॥ इति षोड­श­मै­हि­का­धि­क­र­णम्‌ ॥

एवं मुक्ति­फ­ला­नि­य­म­स्त­द­व­स्था­व­ध­र­ते­स्त­द­व­स्था­व­धृतेः ॥ ५२ ॥ यज्ञा­द्यु­प­कृ­त-वि­द्या­सा­ध­न­श्र­व­णा­दि­वी­र्य­वि­शे­षात् किल तत्फले विद्यायाम् ऐहि­का­मु­ष्मि­क­त्व­ल­क्षण उत्कर्षो दर्शितः। तथा च - यथा साध­नो­त्क­र्ष­नि­क­र्षाभ्यां तत्फलस्य विद्यायाः उत्कर्षनिकर्षौ, एवं विद्याफलस्यापि मुक्तेः उत्कर्षनिकर्षौ संभाव्येते। न च मुक्तौ ऐहि­का­मु­ष्मि­क­त्व­ल­क्षणो विशेषः उपपद्यते; ब्रह्मो­पा­स­ना­प­रि­पा­क­ल­ब्ध­ज­न्मनि विद्यायां जीवतो मुक्तेः अव­श्यं­भा­व­नि­य­मात् सत्यपि आर­ब्ध­वि­पा­क­क­र्मा­प्र­क्षये। तस्मात् मुक्तावेव रूपतो उत्कर्षनिकर्षौ स्याताम्‌।। अपि च सगुणानां विद्यानाम् उत्क­र्ष­नि­क­र्षाभ्यां तत्फलानाम् उत्कर्षनिकर्षौ दृष्टाविति मुक्तेरपि विद्याफलत्वात् रूपतो उत्कर्षनिकर्षौ स्यातामिति प्राप्ते उच्यते – न मुक्तेः, तत्र तत्र ऐकरूप्यश्रुतेः, उपपत्तेश्च। साध्यं हि साधनविशेषात् विशेषवद्भवति। न च मुक्तिः ब्रह्मणो नित्य­स्व­रू­पा­व­स्था­न­ल­क्षणा नित्या सती साध्या भवितुमर्हति । न च सवा­स­न­निः­शे­ष­क्ले­श­क­र्मा­श­य­प्र­क्षयो विद्या­ज­न्म­वि­शे­ष­वान्, येन तद्वि­शे­षा­न्मोक्षो विशेषवान्भवेत् । न च सावशेषः क्लेशा­दि­प्र­क्षयो मोक्षाय कल्पते। न च चिरा­चि­रो­त्पा­दा­नु­त्पा­दा­व­न्त­रेण विद्यायामपि रूपतो भेदः कश्चि­दु­प­ल­क्ष्यते, तस्या अपि एकरूपत्वेन श्रुतेः। सगुणायास्तु विद्यायाः तत्त­द्गु­णा­वा­पो­द्वा­पाभ्यां तत्कार्यस्य फलस्य उत्कर्षनिकर्षो युज्येते। न चात्र विद्यात्वं सामान्यतो दृष्टं भवति। आग­म­त­त्प्र­भ­व­यु­क्ति­बा­धि­त­त्वेन काला­त्य­या­प­दि­ष्ट­त्वात्। तस्मात्तस्याः मुक्त्यवस्थायाः ऐकरूप्यावधृतेः मुक्तिलक्षणस्य फलस्य अविशेषो युक्त इति॥ ५२॥ इति श्रीवा­च­स्प­ति­मि­श्र­वि­र­चिते शारी­र­क­भ­ग­व­त्पा­द­भा­ष्य­वि­भागे भामत्यां तृतीयाध्यायस्य चतुर्थः पादः॥