अद्वैतशारदा

भामतीव्याख्या

आवृत्त्यधिकरणविषयाः

व्याख्याः

अथ चतुर्थोऽध्यायः
नाभ्यर्थ्या इह सन्तः स्वयं प्रवृत्ता न चेतरे शक्याः ।
मत्स­र­पि­त्त­नि­ब­न्ध­न­म­चि­कि­त्स्य­म­रो­चकं येषाम् ॥ १ ॥
शङ्के सम्प्रति निर्विशङ्कमधुना स्वराज्यसौख्यं वहन्नेन्द्रः सान्द्र­त­पः­स्थि­तेषु कथ­म­प्यु­द्वे­ग­म­भ्ये­ष्यति ।
यद्वा­च­स्प­ति­मि­श्र­नि­र्मि­त­मि­त­व्या­ख्या­न­मा­त्र­स्फु­ट­द्वे­दा­न्ता­र्थ­वि­वे­क­व­ञ्चि­त­भवाः स्वर्गेऽप्यमी निःस्पृहाः ॥ २ ॥
आवृ­त्ति­र­स­कृ­दु­प­दे­शात् ।

साध­ना­नु­ष्ठा­न­पू­र्व­क­त्वा­त्फ­ल­सि­द्धे­र्वि­ष­य­क्र­मेण विषयिणोरपि तद्विचारयोः क्रममाह –
तृतीयेऽध्याय इति ।
मुक्तिलक्षणस्य फल­स्या­त्य­न्त­प­रो­क्ष­त्वा­त्त­द­र्थानि दर्श­न­श्र­व­ण­म­न­न­नि­दि­ध्या­स­नानि चोद्य­मा­ना­न्य­दृ­ष्टा­र्था­नीति याव­द्वि­धा­न­म­नु­ष्ठे­यानि न तु ततोऽ­धि­क­मा­व­र्त­नी­यानि प्रमाणाभावात् । यत्र पुनः सकृदुपदेश उपासीतेत्यादिषु तत्र सकृदेव प्रयोगः प्रयाजादिवदिति प्राप्त उच्यते । यद्यपि मुक्तिरदृष्टचरी तथापि सवा­स­ना­वि­द्यो­च्छे­दे­ना­त्मनः स्वरू­पा­व­स्था­न­ल­क्ष­णा­या­स्तस्याः श्रुति­सि­द्ध­त्वा­द­वि­द्या­याश्च विद्यो­त्पा­द­वि­रो­धि­तया विद्योत्पादेन समु­च्छे­द­स्या­हि­वि­भ्र­म­स्येव रज्जु­त­त्त्व­सा­क्षा­त्का­रेण समु­च्छे­द­स्यो­प­प­त्ति­सि­द्ध­त्वा­द­न्व­य­व्य­ति­रे­काभ्यां च श्रव­ण­म­न­न­नि­दि­ध्या­स­ना­भ्या­स­स्यैव स्वगो­च­र­सा­क्षा­त्का­र­फ­ल­त्वेन लोक­सि­द्ध­त्वा­त्स­क­ल­दुः­ख­वि­नि­र्मु­क्तै­क­चै­त­न्या­त्म­कोऽ­ह­मि­त्य­प­रो­क्ष­रू­पा­नु­भ­व­स्यापि श्रव­णा­द्य­भ्या­स­सा­ध­न­त्वे­ना­नु­मा­ना­त्त­द­र्थानि श्रवणादीनि दृष्टार्थानि भवन्ति । न च दृष्टार्थत्वे सत्य­दृ­ष्टा­र्थत्वं युक्तम् । न चैता­न्य­ना­वृ­त्तानि सत्का­र­दी­र्घ­का­ल­नै­र­न्त­र्येण साक्षात्कारवते तादृशानुभवाय कल्पन्ते । न चात्रा­सा­क्षा­त्का­र­व­द्वि­ज्ञानं साक्षा­त्का­र­व­ती­म­वि­द्या­मु­च्छे­त्तु­म­र्हति । न खलु पित्तो­प­हृ­ते­न्द्रि­यस्य गुडे तिक्त­ता­सा­क्षा­त्का­रोऽ­न्त­रे­ण­मा­धु­र्य­सा­क्षा­त्कारं सह­स्रे­णा­प्यु­प­प­त्ति­भि­र्नि­व­र्ति­तु­म­र्हति । अतद्वतो नरान्तरवचांसि वोप­प­त्ति­स­ह­स्राणि वा परामृशतोऽपि थूत्कृत्य गुडत्यागात् । तदेवं दृष्टा­र्थ­त्वा­द्ध्या­नो­पा­स­न­यो­श्चा­न्त­र्नी­ता­वृ­त्ति­क­त्वेन लोकतः प्रती­ते­रा­वृ­त्ति­रे­वेति सिद्धम् ॥ १ ॥

लिङ्गाच्च ।

अधि­क­र­णा­र्थ­मुक्त्वा निरु­पा­धि­ब्र­ह्म­वि­ष­य­त्व­म­स्या­क्षि­पति –
अत्राह भवतु नामेति ।
साध्ये ह्यनुभवे प्रत्य­या­वृ­त्ति­र­र्थ­वती नासाध्ये ।

नहि ब्रह्मानुभवो ब्रह्म­सा­क्षा­त्कारो नित्य­शु­द्ध­स्व­भा­वा­द्ब्र­ह्म­णोऽ­ति­रि­च्यते । तथाच नित्यस्य ब्रह्मणः स्वभावो नित्य एवेति कृतमत्र प्रत्ययावृत्या । तदिदमुक्तम् –
आत्मभूतमिति ।

आक्षेप्तारं प्रतिशङ्कते –
सकृच्छ्रुताविति ।
अयमभिसन्धिः न च ब्रह्मा­त्म­भू­त­स्त­त्सा­क्षा­त्का­रोऽ­वि­द्या­मु­च्छि­नत्ति तया सहा­नु­वृ­त्ते­र­वि­रो­धात् । विरोधे वा तस्य नित्य­त्वा­न्ना­वि­द्यो­दी­येत कुत एव तु तेन सहानुवर्तेत । तस्मा­त्त­न्नि­वृ­त्तये आग­न्तु­क­स्त­त्सा­क्षा­त्कार एषितव्यः । तथाच प्रत्य­या­नु­वृ­त्ति­र­र्थ­वती ।

आक्षेप्ता सर्व­पू­र्वो­क्ता­क्षे­पेण प्रत्यवतिष्ठते –
न आवृत्तावपीति ।
न खलु ज्योति­ष्टो­म­वा­क्या­र्थ­प्र­त्ययः शत­शोऽ­प्या­व­र्त­मानः साक्षा­त्का­र­प्र­माणं स्वविषये जनयति । उत्पन्नस्यापि तादृशो दृष्ट­व्य­भि­चा­र­त्वेन प्रातिभत्वात् । ब्रह्मा­त्म­त्व­प्र­तीतिं ब्रह्मा­त्म­सा­क्षा­त्का­रम् ।

पुनः शङ्कते –
न केवलं वाक्यमिति ।

आक्षेप्ता दूषयति –
तथा­प्या­वृ­त्त्या­न­र्थ­क्य­मिति ।
वाक्यं चेद्यु­क्त्य­पेक्षं साक्षात्काराय प्रभवति तथा सति कृतमावृत्या । सकृ­त्प्र­वृ­त्त­स्यैव तस्य सोपपत्तिकस्य याव­त्क­र्त­व्य­क­र­णा­दिति ।

पुनः शङ्कते –
अथापि स्यादिति ।
न युक्तिवाक्ये साक्षात्कारफले प्रत्यक्षस्यैव प्रमाणस्य तत्फलत्वात् । ते तु परो­क्षा­र्था­व­गा­हिनी सामा­न्य­मा­त्र­म­भि­नि­वि­शेते नतु विशेषं साक्षात्कुरुत इति तद्वि­शे­ष­सा­क्षा­त्का­रा­या­वृ­त्ति­रु­पा­स्यते । सा हि सत्का­र­दी­र्घ­का­ल­नै­र­न्त­र्य­से­विता सती दृढ­भू­मि­र्वि­शे­ष­सा­क्षा­त्का­राय प्रभवति कामिनीभावनेव स्त्रैणस्य पुंस इति ।

आक्षेप्ताह –
न । असकृदपीति ।
स खल्वयं साक्षात्कारः शास्त्र­यु­क्ति­यो­निर्वा स्याद्भा­व­ना­मा­त्र­यो­निर्वा । न ताव­त्प­रो­क्षा­भा­स­वि­ज्ञा­न­फले शास्त्रयुक्ती साक्षा­त्का­र­ल­क्षणं प्रत्य­क्ष­प्र­मा­ण­फलं प्रसोतुमर्हतः । न खलु कुट­ज­बी­जा­द्व­टा­ङ्कुरो जायते । नच भाव­ना­प्र­क­र्ष­प­र्य­न्त­ज­म­प­रो­क्षा­व­भा­स­मपि ज्ञानं प्रमाणं व्यभि­चा­रा­दि­त्यु­क्तम् ।

आक्षेप्ता स्वप­क्ष­मु­प­सं­ह­रति –
तस्माद्यदीति ।

आक्षे­प्ता­क्षे­पा­न्त­र­माह –
नच सकृत्प्रवृत्ते इति ।
कश्चित्खलु शुद्ध­स­त्त्वो­ग­र्भस्थ इव वामदेवः श्रुत्वा च मत्वा च क्षणमवधाय जीवात्मनो ब्रह्मा­त्म­ता­म­नु­भ­वति । ततोऽ­प्या­वृ­त्ति­र­न­र्थि­केति ।

अत­श्चा­वृ­त्ति­र­न­र्थिका यन्निरंशस्य ग्रहणमद्ग्रहणं वा न तु व्यक्ता­व्य­क्तत्वे सामा­न्य­व­शे­ष­व­त्प­द्म­रा­गा­दि­व­दि­त्यत आह –
अपि चानेकांशेति ।

समाधत्ते –
अत्रोच्यते भवे­दा­वृ­त्त्या­न­र्थ­क्य­मिति ।
अयमभिसन्धिः सत्यं न ब्रह्म­सा­क्षा­त्कारः साक्षा­दा­ग­म­यु­क्ति­फ­ल­मपि तु युक्त्या­ग­मा­र्थ­ज्ञा­ना­हि­त­सं­स्का­र­स­चिवं चित्तमेव ब्रह्मणि साक्षात्कारवतीं बुद्धिवृत्तिं समाधत्ते । सा च नानु­मा­नि­त­व­ह्नि­सा­क्षा­त्का­र­व­त्प्रा­ति­भ­त्वे­ना­प्र­माणं तदानीं वह्नि­स्व­ल­क्ष­णस्य परो­क्ष­त्वा­त्स­दा­तनं तु ब्रह्म­स्व­रू­प­स्यो­पा­धि­रू­षि­तस्य जीव­स्या­प­रो­क्ष­त्वम् । नहि शुद्ध­बु­द्ध­त्वा­दयो वस्तु­त­स्त­तोऽ­ति­रि­च्यन्ते । जीव एव तु तत्तदुपाधिरहितः शुद्धादिस्वभावो ब्रह्मेति गम्यते । नच तत्त­दु­पा­धि­वि­र­होऽपि ततोऽतिरिच्यते । तस्माद्यथा गान्ध­र्व­शा­स्त्रा­र्थ­ज्ञा­ना­भ्या­सा­हि­त­सं­स्कारः सचिवेन श्रोत्रेण षड्जा­दि­स्व­र­ग्रा­म­मू­र्च्छ­ना­मे­द­म­ध्य­क्षे­णे­क्षते एवं वेदा­न्ता­र्थ­ज्ञा­ना­हि­त­सं­स्कारो जीवस्य ब्रह्म­स्व­भा­व­म­न्तः­क­र­णे­नेति ।

यस्तत्त्वमसीति सकृदुक्तमेवेति ।
श्रुत्वा मत्वा क्षणमवधाय प्राग्भ­वी­या­भ्या­स­जा­त­सं­स्का­रा­दि­त्यर्थः ।

यस्तु न शक्नोतीति ।
प्राग्भ­वी­य­ब्र­ह्मा­भ्या­स­र­हित इत्यर्थः ।

नहि दृष्टेऽनुपपन्नं नामेति ।
यत्र परो­क्ष­प्र­ति­भा­सिनि वाक्यार्थेऽपि व्यक्ता­व्य­क्त­त्व­ता­र­तम्यं तत्र मन­नो­त्त­र­का­ल­मा­ध्या­स­ना­भ्या­स­नि­क­र्ष­प्र­क­र्ष­क्र­म­ज­न्मनि प्रत्ययप्रवाहे साक्षात्कारावधौ व्यक्तितारतम्यं प्रति कैव कथेति भावः । तदेवं वाक्य­मा­त्र­स्या­र्थेऽपि न द्रागित्येव प्रत्यय इत्युक्तम् । तत्त्वमसीति तु वाक्य­म­त्य­न्त­दु­र्ग्र­ह­प­दार्थं न पदा­र्थ­ज्ञा­न­पू­र्वके स्वार्थे ज्ञाने द्रागित्येव प्रवर्तते ।

किन्तु विल­म्बि­त­त­म­प­दा­र्थ­ज्ञा­न­म­ति­वि­ल­म्बे­ने­त्याह –
अपिच तत्त्व­म­सी­त्ये­त­द्वाक्यं त्वम्प­दा­र्थ­स्येति ।

स्यादे­त­त्प­दा­र्थ­सं­स­र्गात्मा वाक्यार्थः पदा­र्थ­ज्ञा­न­क्र­मेण तद­धी­न­नि­रू­प­णी­य­तया क्रम­व­त्प्र­ती­ति­र्यु­ज्यते । ब्रह्म तु निरं­श­त्वे­ना­स­सृ­ष्ट­ना­ना­त्व­प­दा­र्थ­क­मिति कस्यानुक्रमेम क्रमवती प्रतीतिरिति सकृदेव तद्गृह्येत न वा गृह्य­ते­त्यु­क्त­मि­त्यत आह –
यद्यपि च प्रतिपत्तव्य आत्मा निरंश इति ।
निरं­शोऽ­प्य­ह­म­प­रो­क्षोऽ­प्यात्मा तत्त­द्दे­हा­द्या­रो­प­व्यु­दा­सा­भ्या­मं­श­वा­नि­वा­त्य­न्त­प­रोक्ष इव । ततश्च वाक्यार्थतया क्रमवत्प्रत्यय उपपद्यते ।

तत्किंमियमेव वाक्यजनिता प्रतीतिरात्मनि तथाच न साक्षा­त्प्र­ती­ति­रा­त्म­न्य­ना­ग­त­फ­ल­त्वा­दस्य इत्यत आह –
तत्तु पूर्व­रू­प­मे­वा­त्म­प्र­ति­पत्तेः
साक्षा­त्का­र­वत्याः । एतदुक्तं भवति वाक्या­र्थ­श्र­व­ण­म­न­नो­त्त­र­काला विशेषणत्रयवती भावना ब्रह्म साक्षात्काराय कल्पत इति वाक्या­र्थ­प्र­तीतिः साक्षात्कारस्य पूर्वरूपमिति ।

शङ्कते –
सत्यमेवमिति ।
समारोपो हि तत्त्व­प्र­त्य­ये­ना­पो­द्यते न तत्त्वप्रत्ययः । दुःखि­त्वा­दि­प्र­त्य­य­श्चा­त्मनि सर्वेषां सर्वदोत्पद्यत इत्य­बा­धि­त­त्वा­त्स­मी­चीन इति बलवान्न शक्योऽ­प­ने­तु­मि­त्यर्थः ।

निराकरोति –
न । देहा­द्य­भि­मा­न­व­दिति ।
नहि सर्वेषां सर्वदोत्पद्यत इत्येतावता तात्त्विकत्वम् । देहा­त्मा­भि­मा­न­स्यापि सत्य­त्व­प्र­स­ङ्गा­त्सोऽपि सर्वेषां सर्वदोत्पद्यते । उक्तं चास्य तत्र तत्रोपपत्त्या बाधनमेवं दुःखि­त्वा­द्य­भि­मा­नोऽपि तथा । नहि नित्य­शु­द्ध­बु­द्ध­स्व­भा­व­स्या­त्मना उपजनापायधर्माणो दुःखशोकादय आत्मानो भवितुमर्हन्ति । नापि धर्माः तेषां ततो­त्य­न्त­भि­न्नानां तद्ध­र्म­त्वा­नु­प­पत्तेः, नहि गौरश्वस्य धर्मः सम्बन्धस्यापि व्यति­रे­का­व्य­ति­रे­काभ्यां सम्ब­न्धा­स­म्ब­न्धाभ्यां च विचारासहत्वात् । भेदाभेदयोश्च पर­स्प­र­वि­रो­धे­नै­क­त्रा­स­म्भ­वात् । इति सर्व­मे­त­दु­प­पा­दितं द्वितीयाध्याये ।

तदिदमुक्तम् –
देहादिवदेव चैत­न्या­द्ब­हि­रु­प­ल­भ्य­मा­न­त्वा­दिति ।

इतश्च दुःखित्वादीनां न तादा­त्म्य­मि­त्याह –
सुषुप्तादिषु चेति ।

स्यादेतत् । कस्मादनुभवार्थ एवा­वृ­त्त्य­भ्यु­प­गमो यावता द्रष्टव्यः श्रोतव्य इत्या­दि­भि­स्त­त्व­म­सि­वा­क्य­वि­ष­या­द­न्य­वि­ष­यै­वा­वृ­त्ति­र्वि­धा­स्यत इत्यत आह –
तत्रापि न तत्त्व­म­सि­वा­क्या­र्था­दिति ।
आत्मा वा अरे द्रष्टव्य इत्या­द्या­त्म­वि­षयं दर्शनं विधीयते । न च तत्त्व­म­सी­वा­क्य­वि­ष­या­द­न्य­दा­त्म­द­र्श­न­मा­म्नातं येनोपक्रम्यते येन चोपसंह्रियते स वाक्यार्थः । सदेव सोम्येदमिति चोपक्रम्य तत्त्व­म­सी­त्यु­प­सं­हृत इति स एव वाक्यार्थः । तदितः प्राच्या­व्या­वृ­त्ति­म­न्यत्र विदधानः प्रधानमङ्गेन विहन्ति । वरो हि कर्म­णा­भि­प्रे­य­मा­ण­त्वा­त्स­म्प्र­दानं प्रधानम् । तमुद्वाहेन कर्मणाङ्गेन न विघ्नन्तीति ।

ननु विधि­प्र­धा­न­त्वा­द्वा­क्यस्य न भूता­र्थ­प्र­धा­नत्वं भूत­स्त्व­र्थ­स्त­द­ङ्ग­तया प्रत्याय्यते । यथाहुः “चोदना हि भूतं भवन्तम्” इत्यादि शाबरं वाक्यं व्याचक्षाणाः “कार्य­म­र्थ­म­व­ग­म­यन्ती चोदना तच्छेषतया भूतादिकमवगमयति” इत्याशङ्क्याह –
नियुक्तस्य चास्मि­न्न­धि­कृ­तोऽ­ह­मिति ।
यथा ताव­द्भू­ता­र्थ­प­र्य­व­सिता वेदान्ता न कार्य­वि­धि­नि­ष्ठा­स्त­थो­प­पा­दितं “तत्तु समन्वयात्”(ब्र. सू. १ । १ । ४) इत्यत्र । प्रत्युत विधिनिष्ठत्वे मुक्ति­वि­रु­द्ध­प्र­त्य­यो­त्पा­दा­न्मु­क्ति­वि­ह­न्तृ­त्व­मे­वा­स्ये­त्य­भ्यु­च्च­य­मा­त्र­म­त्रो­क्त­मिति ॥ २ ॥

आत्मेति तूपगच्छन्ति ग्राहयन्ति च ।
यद्यपि तत्त्व­म­सी­त्याद्याः श्रुतयः संसारिणः परमात्मभावं प्रतिपादयन्ति तथापि तयो­र­प­ह­त­पा­प्म­त्वा­न­प­ह­त­पा­प्म­त्वा­दि­ल­क्ष­ण­वि­रु­द्ध­ध­र्म­सं­स­र्गेण नानत्वस्य विनि­श्च­या­च्छ्रु­तेश्च तत्व­म­सी­त्य­द्याया “मनो ब्रह्म”(छा. उ. ३ । १८ । १) , “आदित्यो ब्रह्म”(छा. उ. ३ । १९ । १) इत्या­दि­व­त्प्र­ती­को­प­दे­श­प­र­त­या­प्यु­प­पत्तेः प्रतीकोपदेश एवायम् । नच यथा समारोपितं सर्पत्वमनूद्य रज्जुत्वं पुरोवर्तिनो द्रव्यस्य विधीयत एवं प्रकाशात्मनो जीवभावमनूद्य परमात्मत्वं विधीयत इति युक्तम् । युक्तं हि पुरोवर्तिनि द्रव्ये द्राघीयसि सामा­न्य­रू­पे­णा­लो­चिते विशे­ष­रू­पे­णा­गृ­हीते विशे­षा­न्त­र­स­मा­रो­प­णम् । इह तु प्रकाशात्मनो निर्वि­शे­ष­सा­मा­न्य­स्या­प­रा­धी­न­प्र­का­शस्य नागृहीतमस्ति किञ्चिद्रूपमिति कस्य विशेषस्याग्रहे किं विशेषान्तरं समारोप्यताम् । तस्माद्ब्रह्मणो जीव­भा­वा­रो­पा­स­म्भ­वा­ज्जीवो जीवो ब्रह्म च ब्रह्मेति तत्त्वमसीति प्रतीकोपदेश एवेति प्राप्तम् ।

एवं प्राप्तेऽ­भि­धी­यते - श्वेत­के­तो­रा­त्मैव परमेश्वरः प्रतिपत्तव्यो न तु श्वेत­के­तो­र्व्य­ति­रिक्तः परमेश्वरः । भेदे हि गौणत्वापत्तिर्न च मुख्यसम्भवे गौणत्वं युक्तम् । अपिच प्रतीकोपदेशे सकृद्वचनं तु प्रतीयते भेददर्शननिन्दा च( ? ) । अभ्यासे हि भूयस्त्वमर्थस्य भवति, नाल्पत्वमतिदवीय एवोपचरितत्वम् । तस्मा­त्पौ­र्वा­प­र्या­लो­च­नया श्रुते­स्ता­व­ज्जी­वस्य परमात्मता वास्त­वी­त्ये­त­त्प­रता लक्ष्यते । नच माना­न्त­र­वी­रो­धा­द­त्रा­प्रा­माण्यं श्रुतेः । नच मानान्तरविरोध इत्यादि तु सर्वमुपपादितं प्रथमेऽध्याये । निरंशस्यापि चाना­द्य­नि­र्वा­च्या­वि­द्या­त­द्वा­स­ना­स­मा­रो­पि­त­वि­वि­ध­प्र­प­ञ्चा­त्मनः सांशस्येव कस्य­चि­दं­श­स्या­ग्र­ह­णा­द्वि­भ्रम इव परमार्थस्तु न विभ्रमो नाम कश्चिन्न च संसारो नाम । किन्तु सर्व­मे­त­त्स­र्वा­नु­प­प­त्ति­भा­ज­न­त्वे­ना­नि­र्व­च­नी­य­मिति युक्त­मु­त्प­श्यामः । तद­ने­ना­भि­स­न्धि­नो­क्तम् –
यद्येवं प्रतिबद्धोऽसि नास्ति कस्यचिदप्रतिबोध इति ।
अन्येऽप्याहुः “यद्यद्वैते न तोषोऽस्ति मुक्त एवासि सर्वदा” इति । अति­रे­हि­ता­र्थ­म­न्य­दिति ॥ ३ ॥

न प्रतीके न हि सः ।
यथा हि शास्त्रोक्तं शुद्ध­मु­क्त­स्व­भावं ब्रह्मा­त्म­त्वे­नैव जीवे­नो­पा­स्य­तेऽहं ब्रह्मास्मि तत्त्वमसि श्वेतकेतो इत्यादिषु तत्कस्य हेतोर्जीवात्मनो ब्रह्मरूपेण तात्वि­क­त्वा­द­द्वि­ती­य­मिति श्रुतेश्च । जीवा­त्मा­न­श्चा­वि­द्या­द­र्पणा यथा ब्रह्म­प्र­ति­बि­म्ब­का­स्तथा यत्र यत्र मनो ब्रह्मादित्यो ब्रह्मेत्यादिषु ब्रह्म­दृ­ष्टे­रु­प­दे­श­स्तत्र सर्वत्राहं मन इत्यादि द्रष्टव्यं ब्रह्मणो मुख्य­मा­त्म­त्व­मिति । उपपन्नं च मनःप्रभृतीनां ब्रह्म­वि­का­र­त्वेन तादात्म्यम् । घट­श­रा­वो­द­ञ्च­ना­दी­ना­मिव मृद्विकाराणां मृदात्मकत्वम् । तथाच तादृशानां प्रतीकोपदेशानां क्वचि­त्क­स्य­चि­द्वि­का­रस्य प्रवि­ल­या­व­ग­मा­द्भे­द­प्र­प­ञ्च­प्र­वि­ल­य­प­र­त्व­मे­वेति प्राप्त उच्यते - न तावदहं ब्रह्मे­त्या­दि­भि­र्य­था­ह­ङ्का­रा­स्प­दस्य ब्रह्मा­त्म­त्व­मु­प­दि­श्यते एवं मनो ब्रह्मे­त्या­दि­भि­र­ह­ङ्का­रा­स्प­दत्वं मनःप्रभृतीनां, किन्त्वेषां ब्रह्म­त्वे­नो­पा­स्य­त्वम् । अहङ्कारास्पदस्य ब्रह्मतया ब्रह्म­त्वे­नो­पा­स­नी­येषु मनः­प्र­भृ­ति­ष्व­प्य­ह­ङ्का­रा­स्प­द­त्वे­नो­पा­स­न­मिति चेत् । न । एव­मा­दि­ष्व­ह­मि­त्य­श्र­व­णात् । ब्रह्मात्मतया त्वह­ङ्का­रा­स्प­द­त्व­क­ल्पने तत्प्र­ति­बि­म्ब­स्येव तद्वि­का­रा­न्त­र­स्या­प्या­का­शा­दे­र्म­नः­प्र­भृ­ति­षू­पा­स­न­प्र­सङ्गः । तस्माद्यस्य यन्मा­त्रा­त्म­त­यो­पा­सनं विहितं तस्य तन्मा­त्रा­त्म­त­यैव प्रतिपत्तव्यं “यावद्वचनं वाचनिकम्” इति न्यायात् । नाधि­क­म­ध्या­ह­र्त­व्य­म­ति­प्र­स­ङ्गात् । नच सर्वस्य वाक्यजातस्य प्रपञ्चस्य विलयः प्रयोजनम् । तदर्थत्वे हि मन इति प्रती­क­ग्र­ह­ण­म­न­र्थकं विश्वमिति वाच्यं यथा सर्वं खल्विदं ब्रह्मेति । नच सर्वो­प­ल­क्ष­णार्थं मनोग्रहणं युक्तम् । मुख्यार्थसम्भवे लक्षणाया अयोगात् । आदित्यो ब्रह्मे­त्या­दीनां चान­र्थ­क्या­पत्तेः ।

नह्युपासकः प्रतीकानीति ।
अनुभवाद्वा प्रतीकानां मनः­प्र­भृ­ती­ना­मा­त्म­त्वे­ना­क­लनं श्रुतेर्वा, न त्वेत­दु­भ­य­म­स्ती­त्यर्थः ।

प्रती­का­भा­व­प्र­स­ङ्गा­दिति ।

ननु यथा­व­च्छि­न्न­स्या­ह­ङ्क­रा­स्प­द­स्या­न­व­च्छि­न्न­ब्र­ह्मा­त्म­तया भवत्यभाव एवं प्रतीकानामपि भविष्यतीत्यत आह –
स्वरूपोपमर्दे च नामादीनामिति ।
इह हि प्रती­का­न्य­ह­ङ्का­रा­स्प­द­त्वे­नो­पा­स्य­तया प्रधानत्वेन विधित्सितानि । नतु तत्त्व­म­सी­त्या­दा­व­ह­ङ्का­रा­स्प­द­मु­पा­स्य­म­व­ग­म्यते । किन्तु सर्पत्वानुवादेन रज्जु­त­त्त्व­ज्ञा­पन इवा­ह­ङ्का­रा­स्प­द­स्या­व­च्छि­न्नस्य प्रवि­ल­योऽ­व­ग­म्यते । किमतो यद्येवम् । एतदतो भवति प्रधानीभूतानां न प्रती­का­ना­मु­च्छेदो युक्तो नच तदुच्छेदे विधे­य­स्या­प्यु­प­प­त्ति­रिति ।

अपिच –
नच ब्रह्मण आत्मत्वादिति ।
नह्यु­पा­स­न­वि­धा­नानि जीवात्मनो ब्रह्म­स्व­भा­व­प्र­ति­पा­द­न­प­रै­स्त­त्त्व­म­स्या­दि­स­न्द­र्भै­रे­क­वा­क्य­भा­व­मा­प­द्यन्ते येन तदेकवाक्यतया ब्रह्म­दृ­ष्ट्यु­प­दे­शे­ष्वा­त्म­दृष्टिः कल्पेत भिन्न­प्र­क­र­ण­त्वात् । तथाच तत्र यथा­लो­क­प्र­ती­ति­व्य­व­स्थितो जीवः कर्ता भोक्ता च संसारी न ब्रह्मेति कथं तस्य ब्रह्मा­त्म­त­या­ब्र­ह्म­दृ­ष्ट्यु­प­दे­शे­ष्वा­त्म­दृ­ष्टि­रु­प­दि­श्य­ते­त्यर्थः ।

अतश्चोपासकस्य प्रतीकैः समत्वादिति ।
यद्यप्युपासको जीवात्मा न ब्रह्मविकारः, प्रतीकानि तु मनःप्रभृतीनि ब्रह्म­वि­का­र­स्त­था­प्य­व­च्छि­न्न­तया जीवात्मनः प्रतीकैः साम्यं दृष्टव्यम् ॥ ४ ॥

ब्रह्म­दृ­ष्टि­रु­त्क­र्षात् ।
यद्यपि सामा­ना­धि­क­र­ण्य­मु­भ­य­थापि घटते तथापि ब्रह्मणः सर्वाध्यक्षतया फल­प्र­स­व­सा­म­र्थ्येन फल­व­त्त्वा­त्प्रा­धा­न्येन तदे­वा­दि­त्या­दि­दृ­ष्टिभिः संस्क­र्त­व्य­मि­त्या­दि­त्या­दि­दृ­ष्टयो ब्रह्मण्येव कर्तव्या न तु ब्रह्म­दृ­ष्टि­रा­दि­त्या­दिषु । न चैवंविधेऽवधृते शास्त्रार्थे निकृ­ष्ट­दृ­ष्टि­र्नो­त्कृष्ट इति लौकिको न्यायोऽपवादाय प्रभ­व­त्या­ग­म­वि­रो­धेन तस्यै­वा­पो­दि­त­त्वा­दिति पूर्व­प­क्ष­स­ङ्क्षेपः । सत्यं सर्वाध्यक्षतया फलदातृत्वेन ब्रह्मण एव सर्वत्र वास्तवं प्राधान्यं तथापि शब्दगत्यनुरोधेन क्वचित्कर्मण एव प्राधा­न्य­म­व­सी­यते । यथा “दर्श­पू­र्ण­मा­साभ्यां यजेत स्वर्गकामः”, “चित्रया यजेत पशुकामः” इत्यादौ । अत्र हि सर्वत्र यागाद्याराधिता देवतैव फलं प्रयच्छतीति स्थापितं तथापि शब्दतः कर्मणः करणत्वावगमने फल­व­त्त्व­प्र­तीतेः प्राधान्यम् । क्वचि­द्द्र­व्यस्य यथा व्रीही­न्प्रो­क्ष­ती­त्यादौ । तदुक्तं “यैस्तु द्रव्यं सञ्चिकीर्ष्यते गुणस्तत्र प्रतीयते” इति । तदिह यद्यपि सर्वाध्यक्षतया वस्तुतो ब्रह्मैव फलं प्रयच्छति तथापि शास्त्रं ब्रह्म­बु­द्ध्याऽ­दि­त्यादौ प्रतीक उपास्यमाने ब्रह्म फलाय कल्पते इत्यभिवदति किंवा­दि­त्या­दि­बुद्ध्या ब्रह्मैव विषयीकृतं फलायेत्युभयथापि ब्रह्मणः सर्वाध्यक्षस्य फलदानोपपत्तेः शास्त्रा­र्थ­स­न्देहे लोकानुसारतो निश्चीयते ।

तदिदमुक्तम् –
निर्धारिते शास्त्रार्थ एतदेवं स्यादिति ।

न केवलं लौकिको न्यायो निश्चये हेतुरपि तु आदि­त्या­दि­श­ब्दानां प्राथम्येन मुख्या­र्थ­त्व­म­पी­त्याह –
प्राथम्याच्चेति ।
इति परत्वमपि ब्रह्म­श­ब्द­स्या­मु­मेव न्यायमवगमयति । तथाहि स्वरप्रवृत्या आदित्यादिशब्दा यथा स्वार्थे वर्तन्ते तथा ब्रह्मशब्दोऽपि स्वार्थे वर्त्स्यति यदि स्वार्थोऽस्य विवक्षितः स्यात् । तथा­चे­ति­प­र­त्व­म­न­र्थकं तस्मादितिना स्वार्था­त्प्र­च्याव्य ब्रह्मपदं ज्ञानपरं स्वरूपपरं वा कर्तव्यम् ।

नच ब्रह्म­प­द­मा­दि­त्या­दि­प­दार्थ इति, प्रतीतिपर एवायमितिपरः शब्दो यथा गौरिति मे गवयोऽभवदिति । तथाच आदित्यादयो ब्रह्मेति प्रतिपत्तव्या इत्यर्थो भवतीत्याह –
इतिपरत्वादपि ब्रह्म­श­ब्द­स्येति ।
शेष­म­ति­रो­हि­ता­र्थम् ॥ ५ ॥

आदि­त्या­दि­म­त­य­श्चाङ्ग उपपत्तेः ।

अथवा निय­मे­नो­द्गी­था­दि­म­तय आदि­त्या­दि­ष्व­ध्य­स्ये­र­न्निति ।
सत्स्वपि आदित्यादिषु फला­नु­त्पा­दा­दु­त्प­त्ति­मतः कर्मण एव फल­द­र्श­ना­त्क­र्मैव फलवत् । तथा चादि­त्या­दि­म­ति­भि­र्य­द्यु­द्गी­था­दि­क­र्माणि विष­यी­क्रि­ये­रं­स्तत आदि­त्या­दि­दृ­ष्टिभिः कर्म­रू­पा­ण्य­भि­भू­ये­रन् ॥ एवंच कर्म­रू­पे­ष्व­स­त्क­ल्पेषु कुतः फलमुत्पद्येत । आदित्यादिषु पुन­रु­द्गी­था­दि­दृ­ष्टा­वु­द्गी­था­दि­बु­द्ध्यो­पा­स्य­माना आदित्यादयः कर्मात्मकाः सन्तः फलाय कल्पिष्यन्त इति । अत एव च पृथि­व्य­ग्न्यो­रृ­क्सा­म­श­ब्द­प्र­योग उपपन्नो यतः पृथि­व्या­मृ­ग्दृ­ष्टि­र­ध्य­स्ताग्नौ च सामदृष्टिः ।

साम्नि पुनरग्निदृष्टौ ऋचि च पृथिवीदृष्टौ विपरीतं भवेत् । तस्मादप्येतदेव युक्तमित्याह –
तथाचेयमेवेति ।

उपपत्त्यन्तरमाह –
अपिच लोकेष्विति ।
एवं खल्व­धि­क­र­ण­नि­र्देशो विष­य­त्व­प्र­ति­पा­द­न­पर उपपद्यते यदि लोकेषु साम­दृ­ष्टि­र­ध्य­स्येत नान्यथेति ।

पूर्वा­धि­क­र­ण­रा­द्धा­न्तो­प­प­त्ति­म­त्रै­वार्थे ब्रूते –
प्रथ­म­नि­र्दि­ष्टेषु चेति ।

सिद्धान्तमत्र प्रक्रमते –
आदित्यादिमतय एवेति ।
यद्यु­द्गी­था­दि­म­तय आदित्यादिषु क्षिप्येरंस्तत आदित्यादीनां स्वय­म­का­र्य­त्वा­दु­द्गी­था­दि­म­ते­स्तत्र वैयर्थ्यं प्रसज्येत । नह्या­दि­त्या­दिभिः किञ्चित्क्रियते यद्विद्यया वीर्यवत्तरं भवे­दा­दि­त्या­दि­मत्या विद्य­यो­द्गी­था­दि­क­र्मसु कार्येषु यदेव विद्यया करोति तदेव वीर्यवत्तरं भव­ती­त्या­दि­त्य­म­ती­ना­मु­प­प­द्यते उद्गीथादिषु संस्का­र­क­त्वे­नो­प­योगः ।

चोदयति –
भवतु कर्म­स­मृ­द्धि­फ­ले­ष्वे­व­मिति ।
यत्र हि कर्मणः फलं तत्रैवं भवतु यत्र तु गुणात्फलं तत्र गुणस्य सिद्ध­त्वे­ना­का­र्य­त्वा­त्क­रो­ती­त्येव नास्तीत्यत्र विद्यायाः क्व उपयोग इत्यर्थः ।

परिहरति –
तेष्वपीति ।
न तावद्गुणः सिद्धस्वभावः कार्याय फलाय पर्याप्तः, मा भूत्प्र­कृ­त­क­र्मा­नि­वे­शिनो यत्कि­ञ्चि­त्फ­लो­त्पादः, तस्मा­त्प्र­कृ­ता­पू­र्व­सं­नि­वे­शिनः फलोत्पाद इति तस्य क्रियमाणत्वेन विद्यया वीर्य­व­त्त­र­त्वो­प­प­त्ति­रिति ।

फला­त्म­क­त्वा­च्चा­दि­त्या­दी­ना­मिति ।
यद्यपि ब्रह्म­वि­का­र­त्वे­ना­दि­त्यो­द्गी­थ­यो­र­वि­शे­ष­स्त­थापि फला­त्म­क­त्वे­ना­दि­त्या­दी­ना­म­स्त्यु­द्गी­था­दिभ्यो विशेष इत्यर्थः ।

द्विती­या­नि­र्दे­शा­द­प्यु­द्गी­था­दीनां प्राधा­न्य­मि­त्याह –
अपि चोमितीति ।
स्वयमेवोपासनस्य कर्म­त्वा­त्फ­ल­व­त्त्वो­प­पत्तेः ।

ननूक्तं सिद्ध­रू­पै­रा­दि­त्या­दि­भि­र­ध्यस्तैः साध्य­भू­त­त्व­म­भि­भू­त­ङ्क­र्म­णा­मि­त्यत आह –
आदि­त्या­दि­भा­वे­नापि च दृश्यमानानामिति ।
भवेदेतदेवं यद्यध्यासेन कर्मरूपमभिभूयेत । अपि तु माणवक इवाग्निदृष्टिः केन­चि­त्ती­व्र­त्वा­दिना गुणेन गौण्य­न­भि­भू­त­मा­ण­व­क­त्वा­त्त­थे­हापि । नहीयं शुक्तिकायां रजतधीरिव वह्निधीर्येन माण­व­क­त्व­म­भि­भ­वेत् । किन्तु गौणी । तथे­य­म­प्यु­द्गी­था­दा­वा­दि­त्य­दृ­ष्टि­र्गौ­णीति भावः ।

तदे­त­स्या­मृ­च्य­ध्यू­ढं­सा­मेति त्विति ।
अन्यथापि लक्षणोपपत्तौ न ऋक्सा­मे­त्य­ध्या­स­क­ल्पना पृथि­व्य­ग्न्यो­रि­त्यर्थः ।

अक्ष­र­न्या­सा­लो­च­नया तु विपरीतमेवेत्याह –
इयमेवर्गिति ।
“लोकेषु पञ्चविधं सामोपासीत”(छा. उ. २ । २ । ३) इति द्विती­या­नि­र्दे­शा­त्सा­म्ना­मु­पा­स्य­त्व­म­व­ग­म्यते । तत्र यदि सामधीरध्यस्येत ततो न सामा­न्यु­पा­स्ये­र­नपि तु लोकाः पृथिव्यादयः । तथा च द्वितीयार्थं परित्यज्य तृतीयार्थः परिकल्प्येत साम्नेति । लोकेष्विति सप्तमी द्वितीयार्थे कथञ्चिन्नीयते । अगारे गावो वास्यन्तां प्रावारे कुसुमानीतिवत् । तेनो­क्त­न्या­या­नु­रो­धेन सप्त­म्या­श्चो­भ­य­था­प्य­वश्यं कल्प­नी­या­र्थ­त्वा­द्वरं यथा­श्रु­त­द्वि­ती­या­र्था­नु­रो­धाय तृतीयार्थे सप्तमी व्याख्यातव्या ।

लोक­पृ­थि­व्या­दि­बुद्ध्या पञ्चविधं हिङ्का­र­प्र­स्ता­वो­ङ्का­रो­द्गी­थ­प्र­ति­हा­रो­प­द्र­व­नि­ध­न­प्र­कारं सामोपासीतेति, तत्र को विनिगमनायां हेतुरित्यत आह –
तत्रापीति ।
तत्रापि समस्तस्य सप्तविधस्य साम्न उपासनमिति साम्न उपा­स्य­त्व­श्रुतेः साध्विति पञ्चविधस्य । साधुत्वं चास्य धर्मत्वम् । तथाच श्रुतिः “साधुकारी साधुर्भवति”(बृ. उ. ४ । ४ । ५) इति । हिङ्कारानुवादेन पृथि­वी­दृ­ष्टि­वि­धाने हिङ्कारः पृथिवीति प्राप्ते विपरीतनिर्देशः पृथिवी हिङ्कारः ॥ ६ ॥

आसीनः सम्भवात् ।
कर्मा­ङ्ग­सं­ब­न्धिषु यत्र हि तिष्ठतः कर्म चोदितं तत्र तत्स­म्ब­द्धो­पा­स­नापि तिष्ठतैव कर्तव्या । यत्र त्वासीनस्य तत्रो­पा­स­ना­प्या­सी­ने­नै­वेति । नापि सम्यग्दर्शने वस्तु­त­न्त्र­त्वा­त्प्र­मा­ण­त­न्त्र­त्वाच्च । प्रमाणतन्त्रा च वस्तुव्यवस्था प्रमाणं च .....नापेक्षत इति तत्राप्यनियमः( ? ) । यन्महता प्रयत्नेन विनो­पा­सि­तु­म­शक्यं यथा प्रतीकादि, यथा वा सम्यग्दर्शनमपि तत्त्वमस्यादि, तत्रैषा चिन्ता । तत्र चोद­क­शा­स्त्रा­भा­वा­द­नि­यमे प्राप्ते यथा शक्यत इत्यु­प­ब­न्धा­दा­सी­न­स्यैव सिद्धम् । ननु यस्यामवस्थायां ध्याय­ति­रु­प­च­र्यते प्रयुज्यते किमसौ तदा तिष्ठतो न भवति न भवतीत्याह । आसी­न­श्चा­वि­द्य­मा­ना­यासो भवतीति । अति­रो­हि­ता­र्थ­मि­त­रत् ॥ ७ ॥

ध्यानाच्च ॥ ८ ॥

अचलत्वं चापेक्ष्य ॥ ९ ॥

स्मरन्ति च ॥ १० ॥

यत्रैकाग्रता तत्राविशेषात् ।
समे शुचौ शर्क­रा­व­ह्नि­वा­लु­का­वि­व­र्जित इत्या­दि­व­च­ना­न्नि­यमे सिद्धे दिग्दे­शा­दि­नि­य­म­म­वा­च­नि­क­मपि प्राचीनप्रवणे वैश्वदेवेन यजे­ते­ति­व­द्वै­दि­का­र­म्भ­सा­मा­न्या­त्क्व­चि­त्क­श्चि­दा­श­ङ्कते । तम­नु­ग्र­ही­तु­मा­चार्यः सुहृद्भावेनैव तदाह स्म । यत्रैकाग्रता मनस्तत्रैव भावनां प्रयोजयेत् । ओविशेषात् । नह्यत्रास्ति वैश्व­दे­वा­दि­व­द्व­चनं विशेषेकं तस्मादिति ॥ ११ ॥

आ प्राय­णा­त्त­त्रापि हि दृष्टम् ।

अधिकरणविषयं विवेचयति –
तत्र यानि तावदिति ।
अवि­द्य­मा­न­नि­योज्या या ब्रह्मा­त्म­त्व­प्र­ति­प­त्ति­स्तस्याः । शास्त्रं हि नियोज्यस्य कार्य­रू­प­नि­यो­ग­स­म्ब­न्ध­म­व­बो­ध­यति तस्यैव कर्म­ण्यै­श्व­र्य­ल­क्ष­ण­म­धि­कारं तच्चै­त­दु­भ­य­म­ती­न्द्रि­य­त्वा­द्भ­वति शास्त्रलक्षणं प्रमा­णा­न्त­रा­प्राप्ये शास्त्र­स्या­र्थ­व­त्त्वा­द्ब्र­ह्मा­त्व­प्र­ती­तेस्तु जीवन्मुक्तेन दृष्ट­त्वा­न्ना­स्तीह तिरोहितमिव किञ्चनेति किमत्र शास्त्रं करिष्यति । नन्वे­व­म­प्य­भ्यु­द­य­फ­ला­न्यु­पा­स­नानि तत्र नियो­ज्य­नि­यो­ग­ल­क्ष­णस्य च कर्मणि स्वामि­ता­ल­क्ष­णस्य च सम्ब­न्ध­स्या­ती­न्द्रि­य­त्वा­त्तत्र सकृत्करणादेव शास्त्रा­र्थ­स­माप्तौ प्राप्ता­या­मु­पा­स­न­प­द­वे­द­नी­या­वृ­त्ति­मा­त्र­मेव कृतवत उपरमः प्राप्तस्तावतैव कृत­शा­स्त्रा­र्थ­त्वा­दिति प्राप्तेऽ­भि­धी­यते - सविज्ञानो भव­ती­त्या­दि­श्रु­ते­र्यत्र स्वर्गा­दि­फ­ला­ना­मपि कर्मणां प्रायणकाले स्वर्गा­दि­वि­ज्ञा­ना­पे­क्ष­कत्वं तत्र कैव कथा­ती­न्द्रि­य­फ­ला­ना­मु­पा­स­ना­नाम् । तानि खलु आप्रायणं तत्त­दु­पा­स्य­गो­च­र­बु­द्धि­प्र­वा­ह­वा­हि­तया दृष्टेनैव रूपेण प्रायणसमये तद्बुद्दिं भावयिष्यन्ति । किमत्र फलवत्प्रायणसमये बुद्ध्याक्षेपेण नहि दृष्टे सम्भ­व­त्य­दृ­ष्ट­क­ल्पना युक्ता । तस्मादाप्रायणं प्रवृत्ता वृत्तिरिति ।

तदिदमुक्तम् –
प्रत्ययास्त्वेत इति ।
तथा च श्रुतिः सर्वा­ती­न्द्रि­य­वि­षया “स यथा­क्र­तु­र­स्मा­ल्लो­का­त्प्रैति तात्क्र­तु­र्हामुं लोकं प्रेत्या­भि­स­म्भ­वति” इति । क्रतुः सङ्कल्पविशेषः । स्मृत­य­श्चो­दा­हृता इति ॥ १२ ॥

तदधिगम उत्त­र­पू­र्वा­घ­यो­र­श्ले­ष­वि­नाशौ तद्व्यपदेशात् ।
गतस्तृतीयशेषः साधनगोचरो विचारः । इदा­नी­मे­त­द­ध्या­य­ग­त­फ­ल­वि­षया चिन्ता प्रतन्यते । तत्र तावत्प्रथममिदं विचार्यते किं ब्रह्माधिगमे ब्रह्मज्ञाने सति ब्रह्म­ज्ञा­न­फ­ला­न्मो­क्षा­द्वि­प­री­त­फलं दुरितं बन्धनफलं क्षीयते न क्षीयत इति संशयः । किं तावत्प्राप्तं, शास्त्रेण हि फलाय यद्विहितं प्रतिषिद्धं चान­र्थ­प­रि­हा­रा­या­श्व­मे­धादि ब्रह्महत्यादि चापू­र्वा­वा­न्त­र­व्या­पारं किं तद­पू­र्व­मु­प­र­तेऽपि कर्मण्यत्र सुख­दुः­खो­प­भो­गा­त्प्रा­ङ्गा­वि­र­न्तु­म­र्हति । स हि तस्य विना­श­हे­तु­स्त­द­भावे कथं विनश्येदिति । तस्या­क­स्मि­क­त्व­प्र­स­ङ्गा­त्शा­स्त्र­व्या­को­पा­च्चेति । अदत्तफलं चेत्कर्मापूर्वं विनश्यति कर्मण एव फल­प्र­स­व­सा­म­र्थ्य­बो­ध­क­शा­स्त्र­म­प्र­माणं भवेत् । नच प्रायश्चित्तमिव ब्रह्म­ज्ञा­न­म­द­त्त­फ­ला­न्यपि कर्मापूर्वाणि क्षिणोतीति साम्प्रतम् । प्राय­श्चि­त्ता­ना­मपि तद­प्र­क्ष­य­हे­तु­त्वा­त्त­द्वि­धा­नस्य चैन­स्वि­न­रा­धि­का­रि­प्रा­प्ति­मा­त्रे­णो­प­प­त्ता­वु­पा­त्त­दु­रि­त­नि­ब­र्ह­ण­फ­ला­क्षे­प­क­त्वा­यो­गात् । अत एव स्मरन्ति नाभुक्तं क्षीयते कर्मेति । यदि पुन­र­पे­क्षि­तो­पा­य­तात्मा प्राय­श्चि­त्त­वि­धिर्न नियो­ज्य­वि­शे­ष­प्र­ति­ल­म्भ­मा­त्रेण निर्वृ­णो­ती­त्य­पे­क्षि­ता­का­ङ्क्षायां दोषसंयोगेन श्रव­णा­त्त­न्नि­ब­र्ह­ण­फलः कल्पेत । तथापि ब्रह्मज्ञानस्य तत्सं­यो­गे­ना­श्र­व­णा­न्न­दु­रि­त­नि­ब­र्ह­ण­सा­मर्थ्ये प्रमाणमस्ति मोक्षवत् । तस्यापि स्वर्गा­दि­फ­ल­व­द्दे­श­का­ल­नि­मि­त्ता­पे­क्ष­यो­प­पत्तेः । शास्त्र­प्रा­मा­ण्या­त्स­म्भ­वि­ष्य­त्य­सा­व­वस्था यस्यामुपभोगेन समस्तकर्मक्षये ब्रह्मज्ञानं मोक्षं प्रसोष्यति । योगार्ध्द्यैव वा दिवि भुव्यन्तरिक्षे बहूनि शरीरेन्द्रियाणि निर्माय फला­न्यु­प­भु­ज्य­र्द्धेन योगसामर्थ्येन योगी कर्माणि क्षपयित्वा मोक्षी सम्पत्स्यते । स्थिते चैतस्मिन्नर्थे न्यायबलाद्यथा पुष्करपलाश इत्यादिव्यपदेशो ब्रह्म­वि­द्या­स्तु­ति­मा­त्र­प­र­तया व्याख्येय इति प्राप्त उच्यते - व्याख्यायेतैवं व्यपदेशो यदि कर्मविधिविरोधः स्यान्न त्वयमस्ति । शास्त्रं हि फलो­त्पा­द­न­सा­म­र्थ्य­मात्रं कर्मणामवगमयति न तु कुत­श्चि­दा­ग­न्तु­का­न्नि­मि­त्ततः प्राय­श्चि­त्ता­दे­स्त­द­प्र­ति­ब­न्ध­मपि । तस्य तत्रौदासीन्यात् । यदि शास्त्र­बो­धि­त­फ­ल­प्र­स­व­सा­म­र्थ्य­म­प्र­ति­ब­द्ध­मा­ग­न्तु­केन केनचित्कर्मणा ततस्तत्फलं प्रसूत एवेति न शास्त्रव्याघातः । नाभुक्तं कर्म क्षीयत इति च स्मर­ण­म­प्र­ति­ब­द्ध­सा­म­र्थ्य­क­र्मा­भि­प्रा­यम् । दोषक्षयोद्धेशेन चाप­र­वि­द्या­ना­मस्ति प्राय­श्चि­त्त­व­द्वि­धा­न­मै­श्व­र्य­फ­ला­ना­म­प्यु­भ­य­सं­यो­गा­वि­शे­षात् । यत्रापि निर्गुणायां परविद्यायां दोषोद्धेशो नास्ति तत्रापि तत्स्व­भा­वा­लो­च­ना­देव तत्प्र­क्ष­य­प्र­स­व­सा­म­र्थ्य­म­व­सी­यते । नहि तत्त्व­म­सि­वा­क्या­र्थ­प­रि­भा­व­ना­भुवा प्रसङ्ख्यानेन निर्मृ­ष्ट­नि­खि­ल­क­र्तृ­भो­क्तृ­त्वा­दि­वि­भ्रमो जीवः फलोपभोगेन युज्यते । नहि रज्ज्वां भुज­ङ्ग­स­मा­रो­प­नि­ब­न्धना भयकम्पादयः सति रज्जु­त­त्त्व­सा­क्षा­त्कारे प्रभवन्ति, किन्तु संस्का­र­शे­षा­त्कि­ञ्चि­त्का­ल­म­नु­वृत्ता अपि निवर्तन्त एव । अमु­मे­वा­र्थ­म­नु­व­दन्तो यथा पुष्करपलाश इत्यादयो व्यपदेशाः समवेतार्थाः सन्तो न स्तुतिमात्रतया कथ­ञ्चि­द्व्या­ख्या­न­म­र्हन्ति ।

ननूक्तं सम्भविष्यति सावस्था जीवात्मनो यस्यां पर्या­ये­णो­प­भो­गाद्वा योगर्द्धेः प्रभावतो युग­प­न्नै­क­वि­ध­का­य­नि­र्मा­णे­ना­प­र्या­ये­णो­प­भो­गाद्वा जन्तुः कर्माणि क्षपयित्वा मोक्षी सम्पत्स्यत इत्यत आह –
एवमेव च मोक्ष उपपद्यत इति ।
अना­दि­का­ल­प्र­वृत्ता हि कर्माशया अनियतकालविपाकाः क्रमवता तावद्भोगेन क्षेतुमशक्याः । भुञ्जानः खल्वयमपरानपि सञ्चिनोति कर्माशयानिति । नाप्य­प­र्या­य­मु­प­भो­गे­ना­सक्तः कर्मा­न्त­रा­ण्य­स­ञ्चि­न्वानः क्षेष्यतीति साम्प्रतम् । कल्पशतानि क्रम­का­ल­भो­ग्यानां सम्प्रति भोक्तु­म­सा­म­र्थ्यात् । दीर्घकालफलानि च कर्माणि कथमेकपदे क्षेष्यन्ति । तस्मान्नान्यथा मोक्षसम्भवः ।

ननु सत्स्वपि कर्माशयान्तरेषु सुखदुःखफलेषु मोक्ष­फ­ला­त्क­र्मणः समुदाचरतो ब्रह्म­भा­व­म­नु­भू­याथ लब्धविपाकानां कर्मान्तराणां फलानि भोक्ष्यन्त इत्यत आह –
नच देश­का­ल­नि­मि­त्ता­पेक्ष इति ।
नहि कार्यः सन्मोक्षो मोक्षो भवितुमर्हति ब्रह्मभावो हि सः । नच ब्रह्म क्रियते नित्य­त्वा­दि­त्यर्थः । परो­क्ष­त्वा­नु­प­त्तेश्च ज्ञानफलस्य । ज्ञानफलं खलु मोक्षोऽ­भ्यु­पे­यते । ज्ञानस्य चानन्तरभाविनी ज्ञेया­भि­व्यक्तिः फलं, सैवा­वि­द्यो­च्छे­द­मा­द­धती ब्रह्म­स्व­भा­व­स्व­रू­पा­व­स्था­न­ल­क्ष­णाय मोक्षाय कल्पते । एवं हि दृष्टार्थता ज्ञानस्य स्यात् । अपू­र्वा­धा­न­प­र­म्प­रया ज्ञानस्य मोक्षफले कल्प्यमाने ज्ञानस्य परो­क्ष­फ­ल­त्व­म­दृ­ष्टा­र्थत्वं भवेत् । नच दृष्टे सम्भ­व­त्य­दृ­ष्ट­क­ल्पना युक्तेत्यर्थः । तस्मा­द्ब्र­ह्मा­धि­गमे ब्रह्मज्ञाने सत्यद्वैतसिद्धौ दुरितक्षय इति सिद्धम् ॥ १३ ॥

इत­र­स्या­प्ये­व­म­सं­श्लेषः पाते तु ।
अधर्मस्य स्वाभाविकत्वेन रागा­दि­नि­ब­न्ध­न­त्वेन शास्त्रीयेण ब्रह्मज्ञानेन प्रतिबन्धो युक्तः । धर्मज्ञानयोस्तु शास्त्रीयत्वेन, ज्योति­ष्टो­म­द­र्श­पौ­र्ण­मा­स­व­द­वि­रो­धा­न्नो­च्छे­द्यो­च्छे­त्तृ­भावो युज्यते । पाप्मनश्च विशेषतो ब्रह्म­ज्ञा­नो­च्छे­द्य­त्व­श्रु­ते­र्ध­र्मस्य न तदुच्छेद्यत्वम् । विशेषविधानस्य शेष­प्र­ति­षे­ध­ना­न्त­री­य­क­त्वेन लोकतः सिद्धेः । यथा देवदत्तो दक्षिणेनाक्ष्णा पश्यतीत्युक्ते न वामेन पश्यतीति गम्यते । उभे ह्येवैष एते तरतीति च यथासम्भवं, ब्रह्मज्ञानेन दुष्कृतं भोगेन सुकृतमिति । “क्षीयन्ते चास्य कर्माणि”(मु. उ. २ । २ । ९) इति च सामान्यवचनं “सर्वे पाप्मानः”(छा. उ. ५ । २४ । ३) इति विशे­ष­श्र­व­णा­त्पा­प­क­र्मा­णीति विशेषे उपसंहरणीयम् । तस्मा­द्ब्र­ह्म­ज्ञा­ना­द्दु­ष्कृ­त­स्यैव क्षयो न सुकृतस्येति प्राप्ते पूर्वा­धि­क­र­ण­रा­द्धा­न्तोऽ­ति­दि­श्यते । नो खलु ब्रह्मविद्या केनचिददृष्टेन द्वारेण दुष्कृ­त­म­प­न­य­त्यपि तु दृष्टेनैव भोक्तृ­भो­क्त­व्य­भो­गा­दि­प्र­वि­ल­य­द्वा­रेण तच्चैतत्तुल्यं सुकृतेपीति कथमेतदपि नोच्छिन्द्यात् । एवं च सति न शास्त्री­य­त्व­सा­म्य­मा­त्र­म­वि­रो­ध­हे­तु­र्नहि प्रत्य­क्ष­त्व­सा­मा­न्य­मा­त्रा­द­वि­रोधो जलानलादीनाम् । नच सुकृ­त­शा­स्त्र­म­न­र्थ­क­म­ब्र­ह्म­विदं प्रति तद्वि­धे­र­र्थ­व­त्त्वात् । एवमवस्थिते च पाप्मश्रुत्या पुण्यमपि ग्रहीतव्यम् । ब्रह्म­ज्ञा­न­म­पेक्ष्य पुण्यस्य निकृ­ष्ट­फ­ल­त्वा­त्त­त्फलं हि क्षयातिशयवत् । नह्येवं मोक्षो निर­ति­श­य­त्वा­न्नि­त्य­त्वाच्च । दृष्ट­प्र­यो­ग­श्चायं पाप्मशब्दो वेदे पुण्यपापयोः । तद्यथा पुण्यपापे अनुक्रम्य सर्वे पाप्मानोऽतो निवर्तन्त इत्यत्र । तस्मादविशेषेण पुण्य­पा­प­यो­र­श्ले­ष­वि­ना­शा­विति सिद्धम् ॥ १४ ॥

अनारब्धकार्य एव तु पूर्वे तदवधेः ।
यद्य­द्वै­त­ज्ञा­न­स्व­भा­वा­लो­च­न­यो­त्त­र­पू­र्व­सु­कृ­त­दु­ष्कृ­त­यो­र­श्ले­ष­वि­नाशौ हन्त आर­ब्धा­ना­र­ब्ध­का­र्य­यो­श्चा­वि­शे­षे­णैव विनाशः स्यात् । कर्तृ­क­र्मा­दि­प्र­वि­ल­य­स्यो­भ­य­त्रा­वि­शे­षात् । तन्नि­ब­न्ध­न­त्वाच्च विनाशस्य । नच संस्का­र­शे­षा­त्कु­ला­ल­च­क्र­भ्र­म­ण­व­द­नु­वृत्तिः । वस्तुनः खल्वनुवृत्तिः । मायावादिनश्च पुण्यपापयोश्च माया­मा­त्र­वि­नि­र्मि­त­त्वेन मायानिवृत्तौ न पुण्यापुण्ये न तत्संस्कारो वस्तुसन्तीति कस्यानुवृत्तिः । नच रज्जौ सर्पा­दि­वि­भ्र­म­ज­निता भयकम्पादयो निवृत्तेऽपि विभ्रमे यथानुवर्तन्ते तथेहापीति युक्तम् । तत्रापि सर्पासत्त्वेऽपि तज्ज्ञानस्य सत्त्वे तज्ज­नि­त­भ­य­क­म्पा­दीनां तत्संस्काराणां च वस्तुसत्त्वेन निवृत्तेऽपि विभ्र­मेऽ­नि­वृत्तेः । अत्र तु न माया न तज्जः संस्कारो न तद्गोचर इति तुच्छ­त्वा­त्कि­म­नु­व­र्तेत । न संस्कारशेषो न कर्मे­त्य­वि­शे­षे­णा­र­ब्ध­का­र्या­णा­म­ना­र­ब्ध­का­र्याणां च निवृत्तिः । नच तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति श्रुते­र्दे­ह­पा­त­प्र­ती­क्षा­र­ब्ध­का­र्याणां युक्ता । नह्येषा श्रुति­र­व­धि­भे­द­वि­धा­यि­न्यपि तु क्षिप्रतापरा । यथा लोक एतावन्मे चिरं यत्स्नातो भुञ्जानश्चेति । नहि तत्र स्नानभोजने अवधित्वेन विधीयेते किं तु क्षेपीयस्ता प्रतिपाद्यते । उभयविधाने हि वाक्यं भिद्येतावधिभेदः चिरता चेति प्राप्तेऽ­भि­धी­यते यद्य­प्य­द्वै­त­ब्र­ह्म­त­त्त्व­सा­क्षा­त्का­रोऽ­ना­द्य­वि­द्यो­प­द­र्शि­त­प्र­प­ञ्च­मा­त्र­वि­रो­धि­तया तन्म­ध्य­प­ति­त­स­क­ल­क­र्म­वि­रोधी । तथा­प्य­ना­र­ब्ध­वि­पाकं कर्मजातं द्रागित्येव समुच्छिनत्ति न त्वारब्धविपाकं सम्पा­दि­त­जा­त्या­यु­र्वि­त­त­पू­र्वा­प­री­भू­त­सु­ख­दुः­खो­प­भो­ग­प्र­वाहं कर्मजातम् । तद्धि समु­दा­च­र­द्वृ­त्ति­त­ये­त­रे­भ्यः­प्र­सु­प्त­वृ­त्तिभ्यो बलवत् । अन्यथा देवर्षीणां हिर­ण्य­ग­र्भ­म­नू­द्दा­ल­क­प्र­भृ­तीनां विग­लि­त­नि­खि­ल­क्ले­श­जा­ला­व­र­ण­तया परितः प्रद्यो­त­मा­न­बु­द्धि­स­त्त्वानां न ज्योग्जीविता भवेत् । श्रूयते चैषां श्रुति­स्मृ­ती­ति­हा­स­पु­रा­णेषु तत्त्वज्ञता च महा­क­ल्प­क­ल्प­म­न्व­न्त­रा­दि­जी­विता च । न चैते महाधियो न ब्रह्मविदो ब्रह्म­वि­द­श्चा­ल्प­पु­ण्य­मे­धसो मनुष्या इति श्रद्धेयम् । तस्मा­दा­ग­मा­नु­सा­र­तोऽस्ति प्रार­ब्ध­वि­पा­कानां कर्मणां प्रक्षयाय तदी­य­स­म­स्त­फ­लो­प­भो­ग­प्र­तीक्षा सत्यपि तत्त्व­सा­क्षा­त्कारे ।

तावदेव चिरमिति न चिरता विधीयते । अपि तु श्रुत्य­न्त­र­सिद्धां चिरतामनूद्य देह­पा­ता­व­धि­मा­त्र­वि­धानं तदे­त­द­भि­स­न्धा­यौ­चि­त्य­मा­त्र­त­याह स्म भगवान् भाष्यकारः –
न ताव­द­ना­श्रि­त्या­र­ब्ध­कार्यं कर्माशयमिति ।

न चेदं न जातु दृष्टं यद्विरोधिसमवाये विरो­द्ध्य­न्त­र­म­नु­व­र्तत इत्याह –
अक­र्त्रा­त्म­बो­धोऽ­पीति ।
यदा लोकेऽपि विरोधिनोः किञ्चित्कालं सहा­नु­वृ­त्ति­रु­प­लब्धा तदे­हा­ग­म­ब­ला­द्दी­र्घ­का­ल­मपि भवतीति न शक्या निवारयितुम् । प्रमाणसिद्धस्य नियो­ग­प­र्य­नु­यो­गा­नु­प­पत्तेः । तदेवं मध्य­स्था­न्प्र­ति­पाद्य ये भाष्यकारमाप्तं मन्यन्ते तान् प्रत्याह

अपिच नैवात्र विवदितव्यमिति ।
स्थितप्रज्ञश्च न साध­क­स्त­स्यो­त्त­रो­त्त­र­ध्या­नो­त्क­र्षेण पूर्व­प्र­त्य­या­न­व­स्थि­त­त्वात् । निरतिशयस्तु स्थितप्रज्ञः । स च सिद्ध एव । नच ज्ञानकार्या भयकम्पादयः, ज्ञान­मा­त्रा­द­नु­त्पा­दात् । सर्पावच्छेदो हि तस्य भयकम्पादिहेतुः । स चासन्न निर्वचनीय इति कुतो वस्तुसतः कर्योत्पादः । नच कार्यमपि भयकम्पादि वस्तुसत् । तस्यापि विचा­रा­स­ह­त्वे­ना­नि­र्वा­च्य­त्वात् । अनि­र्वा­च्या­च्चा­नि­र्वा­च्यो­त्पत्तौ नानुपपत्तिः । यादृशो हि यक्षस्तादृशो बलिरिति सर्वमवदातम् ॥ १५ ॥

अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ।
यदि पुण्य­स्या­प्य­श्ले­ष­वि­नाशौ हन्त नित्य­म­प्य­ग्नि­हो­त्रादि न कर्तव्यं योगमारूरुक्षुणा । तस्या­पी­त­र­पु­ण्य­व­द्वि­द्यया विनाशात् । “प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरमि” ति न्यायात् । नच विविदिषन्ति यज्ञेन दानेनेति मोक्ष­ल­क्ष­णै­क­का­र्य­तया विद्या­क­र्म­णो­र­वि­रोधः । सहा­स­म्भ­वे­नै­क­का­र्य­त्वा­स­म्भ­वात् । नह्येतमात्मानं विदुषो विग­लि­ता­खि­ल­क­र्तृ­भो­क्तृ­त्वा­दि­प्र­प­ञ्च­वि­भ्र­मस्य पूर्वोत्तरे नित्ये क्रियाजन्ये पुण्ये सम्भवतः । तस्मा­द्वि­वि­दि­षन्ति यज्ञेनेति वर्तमानापदेशो ब्रह्मज्ञानस्य यज्ञादीनां वा स्तुतिमात्रं न तु मोक्षमाणस्य मुक्तिसाधनं यज्ञादिविधिरिति प्राप्त उच्यते - सत्यं न विद्य­यै­क­का­र्यत्वं कर्मणां परस्परविरोधेन सहासम्भवात् । विद्योत्पादकतया तु कर्म­णा­मा­रा­दु­प­का­र­का­णा­मस्तु मोक्षोपयोगः । नच कर्मणां विद्यया विरुध्यमानानां न विद्याकारणत्वं, स्वका­र­ण­वि­रो­धिनां कार्याणां बहुलमुपलब्धेः । तथाच विद्या­ल­क्ष­ण­का­र्यो­पा­य­तया कार्य­वि­ना­श्या­ना­मपि कर्म­णा­मु­पा­दा­न­म­र्थ­वत् । तदभावे तत्का­र्य­स्या­नु­त्पा­देन मोक्ष­स्या­स­म्भ­वात् । एवंच विविदिषन्ति यज्ञेनेति यज्ञसाधनत्वं विद्याया अपूर्वमर्थं प्रापयतः पञ्चमलकारस्य नात्य­न्त­प­रो­क्ष­वृ­त्ति­तया ज्ञान­स्तु­त्य­र्थ­तया कथ­ञ्चि­द्व्या­ख्यानं भविष्यति ।

तद­ने­ना­भि­सं­धि­नो­क्तम् –
ज्ञानस्यैव हि प्रापकं सत्कर्म प्रणाड्या मोक्ष­का­र­ण­मि­त्यु­प­च­र्यते ।
यत एव न विद्योदयसमये कर्मास्ति नापि परस्तादपि तु प्रागेव विद्यायाः, अत एव चाति­क्रा­न्त­वि­ष­य­मे­त­त्का­र्यै­क­त्वा­भि­धा­नम् ।

एतदेव स्फोरयति –
नहि ब्रह्मविद इति ॥ १६ ॥

सूत्रा­न्त­र­म­व­ता­र­यितुं पृच्छति –
किंविषयं पुनरिदमिति ।

अस्योत्तरं सूत्रम् –
अतोऽन्यापि ह्येकेषामुभयोः ।
काम्य­क­र्म­वि­ष­य­म­श्ले­ष­वि­ना­श­व­चनं शाखान्तरीयवचनं च तस्य पुत्रा दायमुपयन्तीति ॥ १७ ॥

यदेव विद्ययेति हि ।
अस्ति विद्यासंयुक्तं यज्ञादि य एवं विद्वा­न्य­जे­ते­त्या­दि­कम् । अस्ति च केवलम् । तत्र यथा ब्राह्मणाय हिरण्यं दद्यादित्युक्ते विदुषे ब्राह्मणाय दद्यान्न ब्राह्मणब्रुवाय मूर्खायेति विशेषप्रतिलम्भः तत्कस्य हेतो­स्त­स्या­ति­श­य­व­त्त्वात् । एवं विद्या­र­हि­ता­द्य­ज्ञा­दे­र्वि­द्या­स­हि­त­म­ति­श­य­व­दिति तस्यैव पर­वि­द्या­सा­ध­न­त्व­मु­पा­त्त­दु­रि­त­क्ष­य­द्वारा नेतरस्य । तस्मा­द्वि­वि­दि­षन्ति यज्ञे­ने­त्य­वि­शे­ष­श्रु­त­मपि विद्यासहिते यज्ञा­दा­वु­प­सं­ह­र्त­व्य­मिति प्राप्तेऽ­भि­धी­यते - यदेव विद्यया करोति तदेवास्य वीर्यवत्तरमिति तर­ब­र्थ­श्रु­ते­र्वि­द्या­र­हि­तस्य वीर्य­व­त्ता­मा­त्र­म­व­ग­म्यते । नच सर्व­था­कि­ञ्चि­त्क­रस्य तदुपपद्यते । तस्मा­द­स्त्य­स्यापि कयापि मात्रया पर­वि­द्यो­त्पा­दो­प­योग इति विद्यारहितमपि यज्ञादि पर­वि­द्या­र्थि­ना­नु­ष्ठे­य­मिति सिद्धम् ॥ १८ ॥

भोगेन त्वितरे क्षपयित्वा सम्पद्यते ।
अनारब्धकार्य इत्यस्य नञः फलं भोगेन निवृत्तिं दर्शयत्यनेन सूत्रेण । अस्य तूपपादनं पुरस्तादपकृष्य कृतमिति नेह क्रियते पुनरुक्तिभयात् ॥ १९ ॥
इति श्रीवा­च­स्प­ति­मि­श्र­वि­र­चिते शारी­र­क­भ­ग­व­त्पा­द­भा­ष्य­वि­भागे भामत्यां चतु­र्थ­स्या­ध्या­यस्य प्रथमः पादः समाप्तः ॥

चतुर्थेऽध्याये द्वितीयः पादः ।
वाङ्मनसि दर्श­ना­च्छ­ब्दाच्च ।

अथास्मिन् फलविचारलक्षणे वाङ्मनसि सम्पद्यत इत्या­दि­वि­चा­रोऽ­स­ङ्गत इत्यत आह –
अथापरासु विद्यासु फलप्राप्तय इति ।
अप­र­वि­द्या­फ­ल­प्रा­प्त्य­र्थ­दे­व­या­न­मा­र्गा­र्थ­त्वा­दु­त्क्रा­न्ते­स्त­द्गतो विचारः पारम्पर्येण भवति फलविचार इति नासङ्गत इत्यर्थः ।

नन्व­य­मु­त्क्रा­न्ति­क्रमो विदुषो नोपपद्यते “न तस्य प्राणा उत्क्रा­म­न्त्य­त्रैव समवनीयन्ते”(बृ. उ. ४ । ४ । ६) इति श्रव­णा­त्त­त्क­थ­मस्य विद्याधिकार इत्यत आह –
समाना हि विद्व­द­वि­दु­षो­रिति ।

विषयमाह –
अस्तीति ।

विमृशति –
किमिहेति ।
विशयः संशयः ।

पूर्वपक्षमाह –
तत्र वागेवेति ।
श्रति­ल­क्ष­णा­वि­शये संशये ।

सिद्धान्तसूत्रं पूरयित्वा पठति –
वाग्वृ­त्ति­र्म­नसि सम्पद्यते इति ।

वृत्त्य­ध्या­हा­र­प्र­यो­जनं प्रश्नपूर्वकमाह –
कथमिति ।
उत्त­रा­धि­क­र­ण­प­र्या­लो­च­ने­नैवं पूरितमित्यर्थः । तत्त्वस्य धर्मिणो वाचः प्रलयविवक्षायां त्विह सर्वत्रैव परत्रेह चावि­भा­ग­सा­म्यात्किं परत्रैव विशिंष्यादविभाग इति न त्वत्रापि । तस्मा­दि­हा­वि­भा­गे­ना­विं­शि­ष­तोऽत्र वृत्त्यु­प­सं­हा­र­मा­त्र­वि­वक्षा सूत्रकारस्येति गम्यते ।

सिद्धान्तहेतुं प्रश्नपूर्वकमाह –
कस्मादिति ।

सत्यामेव मनोवृत्तौ वाग्वृ­त्ते­रु­प­सं­हा­र­द­र्श­नात् । वाच­स्तू­प­सं­हा­र­म­दृष्टं नागमोऽपि गमयितुमर्हति । आग­म­प्र­भ­व­यु­क्ति­वि­रो­धाच्च । आगमो हि दृष्टानुसारतः प्रकृतौ विकाराणां लयमाह । न च वाचः प्रकृतिर्मनो येनास्मिन्नियं लीयेत । तस्मा­द्वृ­त्ति­वृ­त्ति­म­तो­र­भे­द­वि­व­क्षया वाक्पदं तद्वृत्तौ व्याख्येयम् । सम्भवति च वाग्वृ­त्ते­र्वा­ग­प्र­कृ­ता­वपि मनसि लयः । तथा तत्र तत्र दर्शनादित्याह –
वृत्त्यु­द्भ­वा­भि­भ­वा­विति ॥ १ ॥

अत एव च सर्वाण्यनु ।
यत एव प्रकृ­ति­वि­का­र­भा­वा­भा­वा­न्म­नसि न स्वरूपलयो वाचोऽपि तु वृत्तिलयः, अत एव च सर्वेषां चक्षु­रा­दी­ना­मि­द्रि­याणां सत्येव सवृत्तिके मनसि वृत्ते­र­नु­ग­ति­र्लयो न स्वरूपलयः । वाचस्तु पृथक्ग्रहणं पूर्वसूत्रे उदाहरणापेक्षं न तु तदेवेह विव­क्षि­त­मि­त्यर्थः ॥ २ ॥

तन्मनः प्राण उत्तरात् ।
यदि स्वप्रकृतौ विकारस्य लयस्ततो मनः प्राणे सम्पद्यते इत्यत्र मनःस्वरूपस्यैव प्राणे सम्पत्त्या भवितव्यम् । तथा हि मनः इति नोपचारतो व्याख्यानं भविष्यति । सम्भवति हि प्रकृ­ति­वि­का­र­भावः प्राणमनसोः । अन्नमयं हि सोम्य मन इत्य­न्ना­त्म­ता­माह मनसः श्रुतिरापोमयः प्राण इति च प्राण­स्या­बा­त्म­ताम् । प्रकृ­ति­वि­का­र­यो­स्ता­दा­त्म्यात् । तथा च प्राणो मनसः प्रकृतिरिति मनसो वृत्तिमतः प्राणे लय इति प्राप्तेऽ­भि­धी­यते सत्यम् , आपोऽन्नमसृजन्त इति श्रुतेरबन्नयोः प्रकृ­ति­वि­का­र­भा­वोऽ­व­ग­म्यते । न तु तद्विकारयोः प्राणमनसोः । स्वयो­नि­प्र­णा­डि­कया तु मिथो विकारयोः प्रकृ­ति­वि­का­र­भा­वा­भ्यु­प­गमे सङ्क­रा­द­ति­प्र­सङ्गः स्यात् । तस्माद्यो यस्य साक्षा­द्वि­का­र­स्तस्य तत्र लय इत्यन्नस्याप्सु लयो न त्वब्विकारे प्राणेऽ­न्न­वि­का­रस्य मनसः । तथा चात्रापि मनो­वृ­त्ते­र्वृ­त्ति­मति प्राणे लयो न तु वृत्तिमतो मनस इति सिद्धम् ॥ ३ ॥

सोऽध्यक्षे तदुपगमादिभ्यः ।
प्राणस्तेजसीति तेजःशब्दस्य भूत­वि­शे­ष­व­च­न­त्वा­द्वि­ज्ञा­ना­त्मनि चाप्रसिद्धेः प्राणस्य जीवा­त्म­न्यु­प­ग­मा­नु­ग­मा­व­स्था­न­श्रु­तीनां च तेजो­द्धा­रे­णा­प्यु­प­पत्तेः । तेजसि समापन्नवृत्तिः खलु प्राणः । तेजस्तु जीवात्मनि समापन्नवृत्ति । तद्द्वारा जीवा­त्म­स­मा­प­न्न­वृत्तिः प्राण इत्युपपद्यते । तस्मात्तेजस्येव प्राण­वृ­त्ति­प्र­वि­लय इति प्राप्तेऽ­भि­धी­यते स प्रकृतः प्राणोऽध्यक्षे विज्ञा­ना­त्म­न्य­व­ति­ष्ठते तत्त­न्त्र­वृ­त्ति­र्भ­वति । कुतः उप­ग­मा­नु­ग­मा­व­स्था­नेभ्यो हेतुभ्यः ।

तत्रो­प­ग­म­श्रु­ति­माह –
एव­मे­वे­म­मा­त्मा­न­मिति ।

अनुगमनश्रुतिमाह –
तमु­त्क्रा­म­न्त­मिति ।

अव­स्था­न­श्रु­ति­माह –
सविज्ञानो भवतीति चेति ।
विज्ञा­य­तेऽ­ने­नेति विज्ञानं पञ्च­वृ­त्ति­प्रा­ण­स­हित इन्द्रि­य­ग्रा­म­स्तेन सहावतिष्ठत इति सविज्ञानः ।

चोदयति –
ननु प्राणस्तेजसीति श्रूयत इति ।
अधि­का­वा­पोऽ­श­ब्दा­र्थ­व्या­ख्या­नम् ।

परिहरति –
नैष दोष इति ।
यद्यपि प्राण­स्ते­ज­सी­त्य­त­स्ते­जसि प्राणवृत्तिलयः प्रतीयते, तथापि सर्व­शा­खा­प्र­त्य­य­त्वेन विद्यानां श्रुत्य­न्त­रा­लो­च­नया विज्ञानात्मनि लयोऽवगम्यते । न च तेजसस्तत्रापि लय इति साम्प्रतम् । तस्या­नि­ला­का­श­क्र­मेण परमात्मनि तत्त्वलयावगमात् । तस्मा­त्ते­जो­ग्र­ह­णे­नो­प­ल­क्ष्यते तेजः सह­च­रि­त­दे­ह­बी­ज­भू­त­प­ञ्च­भू­त­सू­क्ष्म­प­रि­चा­रा­ध्यक्षो जीवात्मा तस्मिन् प्राण­वृ­त्ति­र­प्ये­तीति ।

चोदयति –
ननु चेयं श्रुतिरिति ।
तेजःसहचरितानि भूता­न्यु­प­ल­क्ष्यन्तां तेजः­श­ब्दे­ना­ध्यक्षे तु किमायातं तस्य तद­सा­ह­च­र्या­दि­त्यर्थः ।

परिहरति –
सोऽध्यक्ष इत्य­ध्य­क्ष­स्या­पीति ।
यदा ह्ययं प्राणोऽ­न्त­रा­लेऽ­ध्यक्षं प्राप्या­ध्य­क्ष­स­म्प­र्क­व­शा­देव तेजःप्रभृतीनि भूतसूक्ष्माणि प्राप्नोति तदोपपद्यते प्राणस्तेजसीति ।

अत्रैव दृष्टान्तमाह –
योऽपि स्रुघ्नादिति ॥ ४ ॥

भूतेषु तच्छ्रुतेः ॥ ५ ॥

सूत्रा­न्त­र­म­व­ता­र­यितुं पृच्छति –
कथं तेजः­स­ह­च­रि­ते­ष्विति ।

नैकस्मिन् दर्शयतो हि ।

अत्र भाष्य­का­रोऽ­नु­मा­न­द­र्श­न­माह –
कार्यस्य शरीरस्येति ।
स्थूल­श­री­रा­नु­रू­प­म­नु­मेयं सूक्ष्ममपि शरीरं पञ्चा­त्म­क­मि­त्यर्थः ।

दर्शयत इति सूत्रावयवं व्याचष्टे –
दर्श­य­त­श्चै­त­म­र्थ­मिति ।
प्रश्न­प्र­ति­व­च­ना­भि­प्रायं द्विवचनं श्रुति­स्मृ­त्य­भि­प्रायं वा । अण्व्यो मात्राः सूक्ष्मा दशार्धानां पञ्चभूतानामिति ।

श्रुत्य­न्त­र­वि­रोधं चोदयति –
ननु चोपसंहृतेषु वागादिष्विति ।
कर्माश्रयतेति प्रतीयते न भूता­श्र­य­ते­त्यर्थः ।

परिहरति –
अत्रोच्यत इति ।
ग्रहा इन्द्रियाणि अति­ग्र­हा­स्त­द्वि­षयाः । कर्मणां प्रयो­ज­क­त्वे­ना­श्र­यत्वं भूतानां तूपा­दा­न­त्वे­ने­त्य­वि­रोधः ।

प्रशंसाशब्दोऽपि कर्मणां प्रयोजकतया प्रकृ­ष्ट­मा­श्र­यत्वं ब्रूते सति निकृष्ट आश्रयान्तरे तदु­प­प­त्ते­रि­त्याह –
प्रशंसाशब्दादपि तत्रेति ॥ ६ ॥

समाना चासृ­त्यु­प­क्र­मा­द­मृ­तत्वं चानुपोष्य ।
अत्रा­मृ­त­त्व­प्रा­प्ति­श्रुतेः परविद्यावन्तं प्रत्येतदिति मन्वानस्य पूर्वः पक्षः । विशयानानां सन्दिहानानां पुंसाम् ।

चोदयति –
ननु विद्याप्रकरण इति ।

परिहरति –
न स्वापादिवदिति ।
पर­वि­द्य­यै­वा­मृ­त­त्व­प्रा­प्त्य­व­स्था­मा­ख्यातुं तत्सधर्माश्च तद्वि­ध­र्मा­श्चान्या अप्य­व­स्था­स्त­द­नु­गु­ण­त­या­ख्या­यन्ते । साध­र्म्य­वै­ध­र्म्याभ्यां हि स्फुटतरः प्रति­पि­पा­द­यि­षिते वस्तुनि प्रत्ययो भवतीति । न तु विदुषः सका­शा­द्वि­शे­ष­व­न्तोऽ­वि­द्वांसो विधीयन्ते येन विद्या­प्र­क­र­ण­व्या­घातो भवेदपि तु विद्यां प्रतिपादयितुं लोकसिद्धानां तदनुगुणतया तेषामनुवाद इति ।

एवं प्राप्तेऽ­भि­धी­यते –
समाना चैषो­त्क्रा­न्ति­र्वा­ङ्म­न­सी­त्याद्या विद्वदविदुषोः ।

कुतः –
आसृत्युपक्रमात् ।
सृतिः सरणं देवयानेन पथा कार्य­ब्र­ह्म­लो­क­प्रा­प्ति­रा­सृ­ते­रा­का­र्य­ब्र­ह्म­लो­क­प्राप्तेः । अयं विद्योपक्रम आरम्भः प्रयत्न इति यावत् । तस्मादेतदुक्तं भवति नेयं परा विद्या यतो नाडी­द्वा­र­मा­श्र­यते । अपि त्वपरविद्येयम् । न चास्या­मा­त्य­न्तिकः क्लेशप्रदाहो यतो न तत्रो­त्क्रा­न्ति­र्भ­वेत् । तस्मा­द­प­र­वि­द्या­सा­म­र्थ्या­दा­पे­क्षि­क­मा­भू­त­स­म्प्ल­व­स्था­न­म­मृ­तत्वं प्रेप्सते पुरुषार्थाय सम्भवत्येष उत्क्रा­न्ति­भे­द­वान् सृत्यु­प­क्र­मो­प­देशः । उपपूर्वादुष दाह इत्य­स्मा­दु­पो­ष्येति प्रयोगः ॥ ७ ॥

तदापीतेः संसारव्यपदेशात् ।
सिद्धां कृत्वा बीजभावावशेषं पर­मा­त्म­स­म्पत्तिं विद्व­द­वि­दु­षो­रु­त्क्रान्तिः समर्थिता । सैव सम्प्रति चिन्त्यते । किमात्मनि तेजःप्रभृतीनां भूतसूक्ष्माणां तत्त्वप्रविलय एव सम्प­त्ति­रा­हो­स्वि­द्बी­ज­भा­वा­व­शे­षेति । यदि पूर्वः पक्षः, नोत्क्रान्तिः । अथोत्तरः ततः सेति । तत्राप्रकृतौ न विका­र­त­त्त्व­प्र­वि­लयो यथा मनसि न वागादीनाम् । सर्वस्य च जनिमतः प्रकृतिः परा देवतेति तत्त्वप्रलय एवात्यन्तिकः स्यात्ते­जः­प्र­भृ­ती­ना­मिति प्राप्तेऽ­भि­धी­यते “योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणु­म­न्येऽ­नु­सं­यन्ति यथाकर्म यथाश्रुतम् ॥”(क. उ. २ । २ । ७) )इत्यविद्यावतः संसारमुपदिशति श्रुतिः सेयमात्यन्तिके तत्त्वलये नोपपद्यते ।

न च प्रायणस्यैवैष महिमा विद्वां­स­म­वि­द्वांसं वा प्रतीति साम्प्रतमित्याह –
अन्यथा हि सर्वः प्रायणसमय एवेति ।
विधिशास्त्रं ज्योति­ष्टो­मा­दि­वि­ष­य­म­न­र्थकं प्राय­णा­दे­वा­त्य­न्ति­क­प्र­लये पुनर्भवाभावात् । मोक्षशास्त्रं चाप्र­य­त्न­ल­भ्या­त्प्रा­य­णा­देव जन्तुमात्रस्य मोक्षप्राप्तेः ।

न केवलं शास्त्रा­न­र्थ­क्य­म­यु­क्तश्च प्राय­ण­मा­त्रा­न्मोक्ष इत्याह –
मिथ्याज्ञानेति ।
नासति निदानप्रशमे प्रशमस्तद्वतो युज्यत इत्यर्थः ॥ ८ ॥

अथेतरभूतसहितं तेजो जीव­स्या­श्र­य­भू­त­मु­त्क्र­म­द्दे­हा­द्दे­हा­न्तरं वा सञ्च­र­त्क­स्मा­द­स्मा­भिर्न निरीक्ष्यते । तद्धि मह­त्त्वा­द्वा­ने­क­द्र­व्य­त्वाद्वा रूप­व­दु­प­ल­ब्ध­व्यम् । कस्मान्न मूर्तान्तरैः प्रतिबध्यत इति शङ्का­म­पा­क­र्तु­मिदं सूत्रम् –
सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ।
चकारो भिन्नक्रमः । न केव­ल­मा­पी­ते­स्त­द­व­ति­ष्ठते । तच्च सूक्ष्मं स्वरूपतः परिमाणतश्च स्वरूपमेव हि तस्य तादृशमदृश्यम् । यथा चाक्षुषस्य तेजसो महतोऽपि अदृ­ष्ट­व­शा­द­नु­द्भू­त­रू­प­स्पर्शं हि तत् ।

परिमाणतः सौक्ष्म्यं यतो नोपलभ्यते यथा त्रसरेणवो जाल­सू­र्य­म­री­चि­भ्योऽ­न्यत्र प्रमा­ण­त­स्त­थो­प­ल­ब्धि­रिति व्याचष्टे –
तथाहि नाडीनिष्क्रमण इति ।
आदिग्रहणेन चक्षुष्टो वा मूर्ध्नो वा अन्येभ्यो वा शरीरदेशेभ्य इति सङ्गृहीतम् ।

अप्रतिघाते हेतुमाह –
स्वच्छ­त्वा­च्चेति ।
एतदपि हि सूक्ष्मत्वेनैव सङ्गृहीतम् । यथा हि काचाभ्रपटलं स्वच्छस्वभावस्य न तेजसः प्रतिघातम् । एवं सर्वमेव वस्तुजातमस्येति ॥ ९ ॥

नोपमर्देनातः ।
अत एव च स्वच्छ­ता­ल­क्ष­णा­त्सौ­क्ष्म्या­द­स­क्त­त्वा­प­र­नाम्नः ॥ १० ॥

अस्यैव चोपपत्तेरेष ऊष्मा ।
उपपत्तिः प्राप्तिः । एतदुक्तं भवति दृष्ट­श्रु­ता­भ्या­मू­ष्म­णोऽ­न्व­य­व्य­ति­रे­का­भ्या­मस्ति स्थूला­द्दे­हा­द­ति­रिक्तं किञ्चि­च्च­दा­मा­त्सूक्ष्मं शरीरमिति ॥ ११ ॥

प्रतिषेधादिति चेन्न शारीरात् ।

अधि­क­र­ण­ता­त्प­र्य­माह –
अमृतत्वं चानुपोष्येत्यतो विशेषणादिति ।

विषयमाह –
अथाकामयमान इति ।

सिद्धा­न्ति­म­त­मा­शङ्क्य तन्निराकरणेन पूर्वपक्षी स्वमतमवस्थापयति –
अतः पर­वि­द्या­वि­ष­या­त्प्र­ति­षे­धा­दिति ।
यदि हि प्राणो­प­ल­क्षि­तस्य सूक्ष्मशरीरस्य जीवात्मनः स्थूल­श­री­रा­दु­त्क्रान्तिं प्रति­षे­धे­च्छ्रुतिः तत एतदुपपद्यते । न त्वेतदस्ति । न तस्मात्प्राणा उत्क्रामन्तीति हि तदा सर्वनाम्ना प्रधा­ना­व­म­र्शि­ना­भ्यु­द­य­निः­श्रे­य­सा­धि­कृतो देही प्रधानं परामृश्यते । तथा च तस्माद्देहिनो न प्राणाः सूक्ष्मं शरी­र­मु­त्क्रा­म­न्त्यपि तु तत्सहितः क्षेत्रज्ञ एवोत्क्रामतीति गम्यते । स पुनरतिक्रम्य ब्रह्मनाड्या संसारमण्डलं हिर­ण्य­ग­र्भ­प­र्यन्तं सलिङ्गो जीवः पर­स्मि­न्ब्र­ह्मणि लीयते तस्मात्परामपि देवतां विदुष उत्क्रान्तिरत एव मार्गश्रुतयः, स्मृतिश्च मुमुक्षोः शुक­स्या­दि­त्य­म­ण्ड­ल­प्र­स्थानं दर्शयतीति प्राप्तम् ॥ १२ ॥

एवं प्राप्ते प्रत्युच्यते –
स्पष्टो ह्येकेषाम् ।
नायं देह्यपादानस्य प्रतिषेधः । अपि तु देहापादानस्य । तथा हि आर्त­भा­ग­प्र­श्नो­त्तरे ह्येक­स्मि­न्पक्षे संसारिण एव जीवा­त्म­नोऽ­नु­त्क्रान्तिं परिगृह्य न तर्ह्येष मृतः प्राणा­ना­म­नु­त्क्रा­न्ते­रिति स्वयमाशङ्क्य प्राणानां प्रविलयं प्रतिज्ञाय तत्सि­द्ध्य­र्थ­मु­त्क्रा­न्त्य­व­धे­रु­च्छ्व­य­ना­ध्माने ब्रुव­न्य­स्यो­च्छ्व­य­ना­ध्माने तस्य तदवधित्वमाह । शरीरस्य च ते इति शरीरमेव तदपादानं गम्यते ।

नन्वे­व­म­प्य­स्त्व­वि­दुषः संसारिणो विदुषस्तु किमायातमित्यत आह –
तत्सामान्यादिति ।

ननु तदा सर्वनाम्ना प्रधानतया देही परामृष्टः तत्कथमत्र देहावगतिरित्यत आह –
अभेदोपचारेण ।

देह­दे­हि­नो­र्दे­हि­प­रा­म­र्शिना सर्वनाम्ना देह एव परामृष्ट इति पञ्चमीपाठे व्याख्येयम् । षष्ठीपाठे तु नोपचार इत्याह –
येषां तु षष्ठीति ।

अपि च प्राप्तिपूर्वः प्रतिषेधो भवति नाप्राप्ते । अविदुषो हि देहादुत्क्रामणं दृष्टमिति विदुषोऽपि तत्सा­मा­न्या­द्दे­हा­दु­त्क्र­मणे प्राप्ते प्रतिषेध उपपद्यते न तु प्राणानां जीवावधिकं क्वचिदुत्क्रमणं दृष्टं येन तन्निषिध्यते । अपि­चा­द्वै­त­प­रि­भा­व­ना­भुवा प्रसङ्ख्यानेन निर्मृ­ष्ट­नि­खि­ल­प्र­प­ञ्चा­व­भा­स­जा­तस्य गन्तव्याभावादेव नास्ति गतिरित्याह –
नच ब्रह्मविद इति ।
अपदस्य हि ब्रह्मविदो मार्गे पदैषिणोऽपि देवा इति योजना ।

चोदयति –
ननु गतिरपीति ।

परिहरति –
सशरीरस्यैवायं योगबलेन ।
अप­र­वि­द्या­ब­ले­नेति ॥ १३ ॥

स्मर्यते च ॥ १४ ॥

तानि परे तथा ह्याह ।
प्रति­ष्ठा­वि­ल­य­न­श्रु­त्यो­र्वि­प्र­ति­प­त्ते­र्वि­म­र्श­स्त­म­प­ने­तु­म­य­मा­रम्भः । तानि पुनः प्राण­श­ब्दो­दि­ता­नी­न्द्रि­या­ण्ये­का­दश सूक्ष्माणि च भूतानि पञ्च ।

ब्रह्म­वि­द­स्त­स्मि­न्नेव पर­स्मि­न्ना­त्म­नीति ।

आरम्भबीजं विमर्शमाह –
ननु गताः कला इति ।
घ्राण­म­न­सो­रे­क­प्र­कृ­तित्वं विवक्षित्वा पञ्च­द­श­त्व­मु­क्तम् ।

अत्र श्रुत्यो­र्वि­ष­य­व्य­व­स्थया विप्र­ति­प­त्त्य­भा­व­माह –
सा खल्विति ।
व्यवहारो लौकिकः सांव्य­व­हा­रि­क­प्र­मा­णा­पे­क्षेयं श्रुतिः । न तात्त्वि­क­प्र­मा­णा­पेक्षा । इतरा तु एवमेवास्य परिद्रष्टुः इत्यादिका विद्व­त्प्र­ति­प­त्त्य­पेक्षा तात्त्वि­क­प्र­मा­णा­पेक्षा । तस्मा­द्वि­ष­य­भे­दा­द­वि­प्र­ति­पत्तिः श्रुत्योरिति ॥ १५ ॥

अविभागो वचनात् ।
निमित्तापाये नैमि­त्ति­क­स्या­त्य­न्ति­का­पायः । अवि­द्या­नि­मि­त्तश्च विभागो नाविद्यायां विद्यया समूलघातमपहतायां सावशेषो भवितुमर्हति । तथापि प्रवि­ल­य­सा­मा­न्या­त्सा­व­शे­ष­ता­श­ङ्का­म­ति­म­न्दा­म­प­ने­तु­मिदं सूत्रम् ॥ १६ ॥

तदोकोग्रज्वलनं तत्प्र­का­शि­त­द्वारो विद्या­सा­म­र्थ्या­त्त­च्छे­ष­ग­त्य­नु­स्मृ­ति­यो­गाच्च हार्दानुगृहीतः शताधिकया ।
अप­र­वि­द्या­वि­दोऽ­वि­दु­ष­श्चो­त्क्रा­न्ति­रुक्ता । तत्र किं विद्वा­न­वि­द्वां­श्चा­वि­शे­षेण मूर्धादिभ्य उत्क्रामत्याहो विद्वा­न्मू­र्ध­स्था­ना­देव, अपरे तु स्थानान्तरेभ्य इति । अत्र विद्या­सा­म­र्थ्य­म­प­श्यतः पूर्वपक्षः । तस्यो­प­सं­हृ­त­वा­गा­दि­क­ला­प­स्यो­च्चि­क्र­मि­षतो विज्ञानात्मन ओक आयतनं हृदयं तस्याग्रं तस्य ज्वलनं यत्त­त्प्र­का­शि­त­द्वारो विनि­ष्क्र­म­द्वारो विद्वा­न्मू­र्ध­स्था­ना­देव निष्क्रामति नान्ये­भ्य­श्च­क्षु­रा­दि­स्था­नेभ्यः । कुतः विद्या­सा­म­र्थ्यात् हार्द­वि­द्या­सा­म­र्थ्यात् । उत्कृ­ष्ट­स्था­न­प्र­ति­ल­म्भाय हि हार्द­वि­द्यो­प­देशः । मूर्ध­स्था­ना­द­नि­ष्क्र­मणे च नोत्कृ­ष्ट­दे­श­प्राप्तिः ।

अथ स्थाना­न्त­रे­भ्योऽ­प्यु­त्क्रा­म­न्क­स्मा­ल्लो­क­मु­त्कृष्टं न प्राप्नोतीत्यत आह –
तच्छे­ष­ग­त्य­नु­स्मृ­ति­यो­गाच्च ।
हार्द­वि­द्या­शे­ष­भूता हि मूर्धन्या नाडी गत्यै उपदिष्टा । तदनुशीलनेन खल्वयं जीवो हार्देन सूपासितेन ब्रह्म­णा­नु­गृ­ही­त­स्त­स्या­नु­स्म­रं­स्त­द्भा­व­मा­पन्नो मूर्धन्ययैव शताधिकया नाड्या निष्क्रामति । हृदयादुद्गता हि ब्रह्मनाडी भास्वरा तालुमूलं भित्त्वा मूर्धानमेत्य रश्मिभिरेकीभूता आदि­त्य­म­ण्ड­ल­म­नु­प्र­विष्टा ताम­नु­शी­ल­य­त­स्त­यै­वा­न्त­काले निर्गमनं भवतीति ॥ १७ ॥

रश्म्यनुसारी ।
रात्रावहनि चाविशेषेण रश्म्यनुसारी सन्ना­दि­त्य­म­ण्डलं प्राप्नोतीति सिद्धा­न्त­प­क्ष­प्र­तिज्ञा ॥ १८ ॥

पूर्व­प­क्ष­मा­श­ङ्कते सूत्रावयवेन –
निशि नेति चेन् ।

सूत्रा­व­य­वा­न्त­रेण निराकरोति –
न सम्बन्धस्य याव­द्दे­ह­भा­वि­त्वा­द्द­र्श­यति च ।
यावद्देहभावि हि शिरा­कि­र­ण­स­म्पर्कः प्रमा­णा­न्त­रा­त्प्र­ती­यते । दर्शयति चैतमर्थं श्रुतिरप्यशेषेण । अमु­ष्मा­दा­दि­त्या­त्प्र­ता­यन्ते रश्मयस्त आसु नाडीषु सृप्ता भवन्ति य आभ्यो नाडीभ्यः प्रतायन्ते विस्तार्यन्ते ते रश्म­योऽ­मु­ष्मि­न्ना­दित्ये सृप्ताः ।

प्रता­पा­दि­का­र्य­द­र्श­ना­दिति ।

आदिग्रहणेन चन्द्रापः सङ्गृह्यन्ते । चन्द्रमसा खल्वम्मयेन सम्बध्यमानानां सूरीणां भासां चन्द्रिकात्वम् । तस्मादप्यस्ति निशि सौर्य­र­श्मि­प्र­चार इति । ये त्वाहुः स याव­त्क्षि­प्ये­न्म­न­स्ता­व­दा­दित्यं गच्छेदिति निर­पे­क्ष­श्र­व­णा­द्रात्रौ प्रेते नास्ति रश्म्यपेक्षेति । तान्प्रत्याह –
यदि च रात्रौ प्रेत इति ।

नह्ये­त­द्वि­शि­ष्या­धी­य­तेऽ­ध्ये­तारः । ये तु मन्यन्ते विद्वानपि रात्रि­प्रा­य­णा­प­रा­धेन नोर्ध्वमाक्रमत इति तान्प्रत्याह –
अथ तु विद्वानपीति ।
नित्य­व­त्फ­ल­स­म्ब­न्धेन विहिता विद्या न पाक्षिकफला युक्तेति ।

ये तु रात्रौ प्रेतस्य विदु­षोऽ­ह­र­पेक्षां सूर्य­म­ण्ड­ल­प्रा­प्ति­मा­च­क्षते तन्मतमाशङ्क्याह –
अथापि रात्राविति ।
याव­त्ता­व­दु­प­ब­न्धे­ना­न­पेक्षा गतिः श्रुता । न चापेक्षा शक्यावगमा उप­ब­न्ध­वि­रो­धा­दिति ॥ १९ ॥

अतश्चायनेऽपि दक्षिणे ।

अत एवे­त्यु­क्त­हे­तु­प­रा­मर्श इत्याह –
अत एव चोदी­क्षा­नु­प­प­त्ते­रिति ।

पूर्वपक्षबीजमाह –
उत्त­रा­य­ण­म­र­ण­प्रा­शस्त्य इति ।

अपनोदमाह –
प्राश­स्त्य­प्र­सि­द्धि­रिति ।
अतः­प­द­प­रा­मृ­ष्ट­हे­तु­ब­ला­द­वि­दुषो मरणं प्रश­स्त­मु­त्त­रा­यणे विदु­ष­स्तू­भ­य­त्रा­प्य­वि­शेषो विद्या­सा­म­र्थ्या­दिति । विदुषोऽपि च भीष्म­स्यो­त्त­रा­य­ण­प्र­ती­क्ष­ण­म­वि­दुष आचारं ग्राहयति “यद्यदाचरति श्रेष्ठ­स्त­त्त­दे­वे­तरो जनः”(भ. गी. ३-२१) इति न्यायात् । आपू­र्य­मा­ण­प­क्षा­दि­त्याद्या च श्रुतिर्न काल­वि­शे­ष­प्र­ति­प­त्त्यर्था, अपि त्वाति­वा­हि­की­र्दे­वताः प्रतिपादयतीति वक्ष्यति । तस्मादविरोधः ॥ २० ॥

सूत्रा­न्त­रा­व­त­र­णाय चोदयति –
ननु च यत्र काले त्विति ।
काल एवात्र प्राधा­न्ये­नो­च्यते न त्वातिवाहिकी देवतेत्यर्थः ।

योगिनः प्रति च स्मर्यते स्मार्ते चैते ।
स्मार्ती­मु­पा­सनां प्रत्ययं स्मार्तः कालभेदविनियोगः प्रत्यासत्तेः न तु श्रौतीं प्रतीत्यर्थः । अत्र यदि स्मृतौ कालभेदविधिः श्रुतौ चाग्नि­ज्यो­ति­रा­दि­वि­धि­स्त­त्रा­ग्न्या­दी­ना­मा­ति­वा­हि­क­तया विषयव्यवस्थया विरोधाभाव उक्तः । अथ तु प्रत्यभिज्ञानं तथापि यत्र काल इत्यत्रापि काला­भि­धा­न­द्वा­रे­णा­ति­वा­हिक्य एव देवता उक्ता इत्यविरोध एवेति ॥ २१ ॥
इति श्रीवा­च­स्प­ति­मि­श्र­वि­र­चिते शारी­र­क­भा­ष्य­वि­भागे भामत्यां चतु­र्थ­स्या­ध्या­यस्य द्वितीयः पादः ॥ २ ॥

चतुर्थेऽध्याये तृतीयः पादः
अर्चिरादिना तत्प्रथितेः ।
भिन्न­प्र­क­र­ण­स्थ­त्वा­द्भि­न्नो­पा­स­न­यो­गतः । अनपेक्षा मिथो मार्गा­स्त्व­रा­तोऽ­व­धृ­ते­रपि ॥ गन्तव्यमेकं नगरं प्रति वक्रेणाध्वना गतिमपेक्ष्य ऋजुनाध्वना गतिस्त्वरावती कल्प्यते । एकमार्गत्वे तु कमपरमपेक्ष्य त्वरा स्यात् । अथ तैरेव रश्मि­भि­रि­त्य­व­धा­रणं नोपपद्यते पथ्यन्तरस्य निव­र्त­नी­य­स्या­भा­वा­त्त­स्मा­त्प­रा­न­पेक्षा एवैते पन्थान एक­ब्र­ह्म­लो­क­प्रा­प्त्यु­पाया व्रीहियवाविव विकल्पेरन्निति प्राप्ते प्रत्युच्यते एकत्वेऽपि पथोऽ­ने­क­प­र्व­स­ङ्ग­म­स­म्भ­वात् । गौरवान्नैव नानात्वं प्रत्य­भि­ज्ञा­न­लि­ङ्गतः ॥ सपर्वा हि पन्था नगरादिकमेकं गन्तव्यं प्रापयति नाभागः । तत्र किमेते रश्म्य­ह­र्वा­यु­सू­र्या­द­योऽ­ध्वनः पर्वाणः सन्तोऽध्वनैकेन युज्यन्ते, आहो यथायथमध्वानमपि भिन्दन्तीति सन्दे­हेऽ­भे­देऽ­प्य­ध्वनो भाग­भे­दो­प­प­त्तेर्न भागि­भे­द­क­ल्प­नो­चिता, गौरवप्रसङ्गात् । एक­दे­श­प्र­त्य­भि­ज्ञा­नाच्च विशे­ष­ण­वि­शे­ष्य­भा­वो­प­प­त्ते­र्ना­ने­का­ध्व­क­ल्पना । अथैतैरेव रश्मि­भि­रि­त्य­व­धा­रणं न ताव­द­र्था­न्त­र­नि­वृ­त्त्यर्थं तत्प्रापकैरेव वाक्या­न्त­रै­र्वि­रो­धात् , तस्मा­द­न्या­न­पे­क्षा­म­स्या­व­धा­र­य­तीति वक्तव्यम् । न चैकं वाक्य­म­प्रा­प्त­म­ध्वानं प्रापयति तस्य चानपेक्षतां प्रति­पा­द­य­ती­त्य­र्थ­द्व­याय पर्याप्तं, तस्मा­द्वि­धि­सा­म­र्थ्य­प्रा­प्त­म­यो­ग­व्य­व­च्छे­द­मे­व­का­रोऽ­नु­व­द­तीति युक्तम् ।

त्वरावचनं चेति ।
न खल्वेकस्मिन्नेव गन्तव्ये पथिभेदमपेक्ष्य त्वरावकल्प्यते किन्तु गन्तव्यभेदादपि तदुपपत्तिः । यथा कश्मीरेभ्यो मथुरां क्षिप्रं याति चैत्र इति तथेहाप्यन्यतः कुत­श्चि­द्ग­न्त­व्या­द­ने­नो­पा­येन ब्रह्मलोकं क्षिप्रं प्रयातीति ।

भूयां­स्य­र्चि­रा­दि­श्रुतौ मार्गपर्वाणीति ।
अयमर्थः एक­त्वा­त्प्रा­प्त­व्यस्य ब्रह्म­लो­क­स्या­ल्प­प­र्वणा मार्गेण तत्प्राप्तौ सम्भवन्त्यां बहुमार्गोपदेशो व्यर्थः प्रसज्यते । तत्र चेत­न­स्या­प्र­वृत्तेः । तस्माद्भूयसां पर्व­णा­म­वि­रो­धे­ना­ल्पानां तदनुप्रवेश एव युक्त इति ॥ १ ॥

वायु­म­ब्दा­द­वि­शे­ष­वि­शे­षा­भ्याम् ।
“श्रुत्या­द्य­भावे पाठस्य क्रमं प्रति नियन्तृता । ऊर्ध्वा­क्र­म­ण­मात्रे च श्रुता वायोर्निमित्तता ॥” “स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते”(बृ. उ. ५ । १० । १) इति हि वायु­नि­मि­त्त­मू­र्ध्वा­क्र­मणं श्रुतं न तु वायु­नि­मि­त्त­मा­दि­त्य­ग­मनं “स आदित्यं गच्छति” इत्या­दि­त्य­ग­म­न­मा­त्र­प्र­तीतेः । नच तेने­त्य­न­न्त­र­श्रु­तो­र्ध्वी­क्र­म­ण­क्रि­या­स­म्बन्धि निरा­का­ङ्क्ष­मा­दि­त्य­ग­म­न­क्रि­य­यापि सम्ब­न्द्धु­म­र्हति । न चादित्यागमनस्य तेनेति विना काचि­द­नु­प­प­त्ति­र्ये­ना­न्य­स­म्ब­द्ध­म­प्य­नु­ष­ज्यते । तत्रा­ग्नि­लो­क­मा­ग­च्छति स वायु­लो­क­मि­त्या­दि­स­न्द­र्भ­ग­तस्य पाठस्य क्वचि­न्नि­या­म­क­त्वेन कॢप्त­सा­म­र्थ्या­द­ग्नि­वा­यु­व­रु­ण­क्र­म­नि­या­म­क­श्रु­त्या­द्य­भा­वा­दिति प्राप्ते प्रत्युच्यते ऊर्ध्वशब्दो न लोकस्य कस्य­चि­त्प्र­ति­पा­दकः । तद्भेदापेक्षया युक्तमादित्येन विशेषणम् ॥ भवेदेतदेवं यद्यू­र्ध्व­श­ब्दा­त्क­श्चि­ल्लो­क­भेदः प्रतीयेत स तूप­रि­दे­श­मा­त्र­वाची लोक­भे­दा­द्वि­ना­प­र्य­व­स्यं­ल्लो­क­भे­द­वा­चि­ना­दि­त्य­प­दे­ना­दित्ये व्यवस्थाप्यते । तथा चादि­त्य­लो­क­ग­म­न­मेव वायुनिमित्तमिति श्रौतक्रमनियमे, पाठः पदा­र्थ­मा­त्र­प्र­द­र्श­नार्थो न तु क्रमाय प्रभवति श्रुति­वि­रो­धा­दिति सिद्धम् । वाजसनेयिनां संवत्सरलोको न पठ्यते छान्दोग्यानां देवलोको न पठ्यते तत्रो­भ­या­नु­रो­धा­दु­भ­य­पाठे मास­स­म्ब­न्धा­त्सं­व­त्सरः पूर्वः पश्चिमो देवलोकः । नहि मासो देवलोकेन सम्बध्यते किन्तु संवत्सरेण । तस्मात्तयोः पर­स्प­र­स­म्ब­न्धा­न्मा­सा­र­भ्य­त्वाच्च संवत्सरस्य मासानन्तर्ये स्थिते देवलोकः संवत्सरस्य परस्ताद्भवति । तत्रा­दि­त्या­न­न्त­र्याय वायोः संव­त्स­रा­दि­त्यस्य स्थाने देव­लो­का­द्वा­यु­मिति पठितव्यम् ।

वायुमब्दादिति तु सूत्रमत्रापि वाचकमेव । तथापि संव­त्स­रा­त्प­रा­ञ्च­मा­दि­त्या­द­र्वाञ्चं वायु­म­भि­स­म्भ­व­न्तीति छान्दो­ग्य­पा­ठ­मा­त्रा­पे­क्ष­योक्तं, तदिदमाह –
वायुमब्दादिति त्विति ॥ २ ॥

तडितोऽधि वरुणः सम्बन्धात् ।
तडि­द­न्तेऽ­र्चि­रा­द्येऽ­ध्व­न्य­प्प­ति­स्त­डितः परः । तत्स­म्ब­न्धा­त्त­थे­न्द्रा­दि­र­प्पतेः पर इष्यते ॥ आगन्तूनां निवेशोऽन्ते स्थाना­भा­वा­त्प्र­सा­धितः । तथा चेन्द्रा­दि­रा­गन्तुः पठ्यते चाप्पतेः परः ॥ ३ ॥

आति­वा­हि­का­स्त­ल्लि­ङ्गात् ।
मार्ग­चि­ह्न­स­रू­प­त्वा­च्चि­ह्ना­न्ये­वा­र्चि­रा­दयः । भर्तृभोगभुवो वा स्युर्लो­क­त्वा­न्ना­ति­वा­हिकाः ॥ अर्चिरादिशब्दा हि ज्वल­ना­दा­व­चे­त­नेषु निरूढवृत्तयो लोके । न चैषां त्वावधिकानामिव नियमवती संवहनस्वरूपा स्वतन्त्रक्रिया बुद्धिपूर्वा सम्भ­व­त्य­चे­त­ना­नाम् । तस्मा­ल्लो­क­श­ब्द­वा­च्य­त्वा­द्भ­र्तु­र्जी­वा­त्मनो भोगभूमय एवेति मन्यामहे । अपि चार्चिष इत्यस्मादपादानं प्रतीयते । न हेतुर्नागुणे हेतौ पञ्चमी दृश्यते क्वचित् ॥ जाड्याद्बद्ध इत्यादिषु गुणवचनेषु जाड्यादिषु हेतुपञ्चमी दृष्टा । न चार्चिरादिशब्दा गुणवाचिनो येन पञ्चम्या तेषां वहनं प्रति हेतुत्वमुच्यते । अपादानत्वं चाचे­त­ने­ष्व­प्य­स्तीति नातिवाहिकाः । न चामानवस्य पुरुषस्य विद्युदादिषु वोढृ­त्व­द­र्श­ना­द­र्चि­रा­दी­ना­मपि वोढृ­त्व­मु­न्ने­यम् । यावद्वचनं हि वाचनिकं न तदवाच्ये सञ्चा­र­यि­तु­मु­चि­तम् । अपि चार्चिरादीनां वोढृत्वे विद्युदादीनामपि वोढृ­त्वा­न्ना­मा­नवः पुरुषो वोढा श्रूयेत । यतः श्रूयते ततोऽवगच्छामो विद्यु­दा­दि­व­न्ना­र्चि­रा­दीनां वोढृत्वमिति । तस्माद्भोगभूमय एवार्चिरादयो नातिवाहिका इति प्राप्ते प्रत्युच्यते सम्पिण्डकरणानां हि सूक्ष्मदेहवतां गतौ । न स्वातन्त्र्यं न चाग्न्याद्या नेता­रोऽ­चे­त­नास्तु ते ॥ ईदृशी हि नियमवती गतिः स्वयं वा प्रेक्षा­व­तोऽ­प्रे­क्षा­वतो वा प्रेक्षा­व­त्प्र­यु­क्तस्य । न ताव­द्वि­ग­लि­त­स्थू­ल­क­ले­वराः सूक्ष्मदेहवन्तः सम्पि­ण्डि­त­क­र­ण­ग्रामा उत्क्रा­न्ति­मन्तो जीवात्मानो मत्त­मू­र्च्छि­च­व­त्स्वयं प्रेक्षावन्तो यदेवं स्वातन्त्र्येण गच्छे­यु­स्त­द्य­द्य­र्चि­रा­द­योऽपि मार्गचिह्नानि वा शमी­का­र­स्क­रा­दि­व­द्भो­ग­भू­मयो वा सुमे­रु­शै­ले­ला­वृ­त्ता­दि­व­दु­भ­य­था­प्य­चे­त­न­तया न नयनं प्रत्येषामस्ति स्वातन्त्र्यम् । न चैतेभ्योऽन्यस्य चेतनस्य नेतुः कल्पना सति श्रुतानां चैतन्यसम्भवे । नच परमेश्वर एवास्तु नेतेति युक्तम् । तस्या­त्य­न्त­सा­धा­र­ण­तया लोक­पा­ल­ग्र­हा­दी­ना­म­कि­ञ्चि­त्क­र­त्वात् । तस्मा­द्व्य­व­स्थित एव परमेश्वरस्य सर्वाध्यक्षत्वे यथा यथात्वं लोकपालादीनां स्वात­न्त्र्य­मे­व­मि­हा­प्य­र्चि­रा­दी­ना­मा­ति­वा­हि­क­त्व­मेव दर्श­ना­नु­सा­रा­च्छ­ब्दार्थ इति युक्तम् । इम­मे­वा­र्थ­म­मा­न­व­पु­रु­षा­ति­वा­ह­न­ल­क्षणं लिङ्ग­मु­पो­द्व­ल­य­ती­त्यु­क्तम् ।

अन­व­स्थि­त­त्वा­द­र्चि­रा­दी­ना­मिति ।
अवस्थितं हि मार्गचिह्नं भव­त्य­व्य­भि­चा­रा­न्ना­न­व­स्थितं व्यभिचारादिति । अर्चिष इति च हेतौ पञ्चमी नापादाने । गुणत्वं चाश्रिततया । नच वैशेषिकपरिभाषया नियम आस्थेयो लोकविरोधात् । अपिच तेऽर्चि­र­भि­स­म्भ­व­न्तीति सम्ब­न्ध­मा­त्र­मु­क्त­मिति । सामान्यवचने शब्दे विशे­षा­का­ङ्क्षिणि स्फुटम् । यद्विशेषपदं तेन तत्सामान्यं नियम्यते ॥ यथा ब्राह्मणमानय भोजयितव्य इति तद्वि­शे­षा­पे­क्षायां यदा तत्सं­नि­धा­वु­प­नि­प­तति पदं कण्ठादि( ? )तदा तेनैतन्नियम्यते एवमिहापीति ॥ ४ ॥

उभ­य­व्या­मो­हा­त्त­त्सिद्धेः ॥ ५ ॥

वैद्युतेनैव ततस्तच्छ्रुतेः ।
विद्यु­ल्लो­क­मा­ग­तोऽ­मा­नवः पुरुषो वैद्युतस्तेनैव न तु वरुणादिना स्वयमुह्यते । तच्छ्रु­ते­स्त­स्यैव स्वयं वोढृत्वश्रुतेः । वरुणादयस्तु तत्साहायके वर्तमाना वोढारो भवन्तीति च वैषम्यं न वोढृत्वे इति सर्वमवदातम् ॥ ६ ॥

पाठ­क्र­मा­द­र्थ­क्रमो बलवानिति यथार्थक्रमं पठ्यन्ते सूत्राणि –
परं जैमि­नि­र्मु­ख्य­त्वात् ।
स एतान् ब्रह्म गमयतीति विचिकित्स्यते । किं परं ब्रह्म गम­य­त्या­हो­स्वि­द­परं कार्यं ब्रह्मेति । मुख्य­त्वा­द­मृ­त­प्राप्तेः परप्रकरणादपि । गन्तव्यं जैमिनिर्मेने पर­मे­वा­र्चि­रा­दिना ॥ ब्रह्म गमयतीत्यत्र हि नपुंसकं ब्रह्मपदं परस्मिन्नेव ब्रह्मणि निरू­ढ­त्वा­द­न­पे­क्ष­तया मुख्यमिति सति सम्भवे न कार्ये ब्रह्मणि गुणकल्पनया व्याख्या­तु­मु­चि­तम् । अपि चामृ­त­त्व­फ­ला­वा­प्तिर्न कार्य­ब्र­ह्म­प्राप्तौ युज्यते । तस्य कार्यत्वेन मर­ण­ध­र्म­व­त्त्वात् । किञ्च तत्र तत्र परमेव ब्रह्म प्रकृत्य प्रजा­प­ति­स­द्म­प्र­ति­प­त्त्या­दय उच्यमाना नापरब्रह्मविषया भवितुमर्हन्ति प्रकरणविरोधात् । न च पर­स्मि­न्त्स­र्व­गते गतिर्नोपपद्यते प्राप्तत्वादिति युक्तम् । प्राप्तेपि हि प्राप्तिफला गतिर्दृश्यते । यथै­क­स्मि­न्न्य­ग्रो­ध­पा­दपे मूला­द­ग्र­म­ग्राच्च मूलं गच्छतः शाखा­मृ­ग­स्यै­के­नैव न्यग्रोधपादपेन निरन्तरं संयोगविभागा भवन्ति । न चैते तदवयवविषया न तु न्यग्रोधविषया इति साम्प्रतं तथा सति न शाखामृगो न्यग्रोधेन युज्यते । न्यग्रोधावयवस्य तदवयवयोगात् । एवं दृश्यमानानामपि तदवयवानां न योग­स्त­द­व­य­व­यो­गा­त्त­द­न्तेन क्रमेण तदवयवेषु परमाणुषु व्यवतिष्ठते । ते चातीन्द्रिया इति कस्मिन्नु नामा­य­म­नु­भ­व­प­द्ध­ति­म­ध्यास्तां संयोगतपस्वी । तस्मा­द­का­मे­ना­प्य­नु­भ­वा­नु­रो­धेन प्राप्त एव प्राप्ति­फ­ल­त्वा­व­ग­ति­रे­षि­तव्या । तद्ब्रह्म प्राप्तमपि प्राप्ति­फ­ला­या­व­ग­ते­गो­चरो भविष्यति । ब्रह्म­लो­के­ष्विति च बहु­व­च­न­मे­क­स्मि­न्नपि प्रयो­ग­सा­धु­ता­मा­त्रेण गमयितव्यम् । लोक­श­ब्द­श्चा­लो­कने प्रकाशे वर्तयितव्यो न तु सन्निवेशवति देशविशेषे । तस्मा­त्प­र­ब्र­ह्म­प्रा­प्त्यर्थं गत्यु­प­दे­श­सा­म­र्थ्या­द­य­मर्थो भवति । यथा विद्या­क­र्म­व­शा­द­र्चि­रा­दिना गतस्य सत्य­लो­क­म­ति­क्रम्य परं जगत्कारणं ब्रह्म लोकमालोकं स्वयं प्रकाशकमिति यावत् । प्राप्तस्य तत्रैव लिङ्गं प्रलीयते न तु गतिमेवंभूतां विना लिङ्गप्रविलय इति । अत एव श्रुतिः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति । तदनेनाभिसन्धिना परं ब्रह्म गमयत्यमानव इति मेने जैमिनिराचार्यः ।

कार्यं बादरिरस्य गत्युपपत्तेः ।
तत्त्वदर्शीं बादरिर्ददर्श कार्य­म­प्रा­प्त­पू­र्व­त्वा­द­प्रा­प्त­प्रा­पणी गतिः । प्रापयेद्ब्रह्म न परं प्राप्त­त्वा­ज्ज­ग­दा­त्म­कम् ॥ तत्त्व­म­सि­वा­क्या­र्थ­सा­क्षा­त्का­रा­त्प्रा­क्किल जीवा­त्मा­वि­द्या­क­र्म­वा­स­ना­द्यु­पा­ध्य­व­च्छे­दा­द्व­स्तु­तोऽ­न­व­च्छि­न्नोऽ­व­च्छि­न्न­मि­वा­भि­न्नोऽपि लोकेभ्यो भिन्न­मि­वा­त्मा­न­म­भि­म­न्य­मानः स्वरू­पा­द­न्या­न­प्रा­प्ता­न­र्चि­रा­दीं­ल्लो­का­न्ग­त्या­प्नो­तीति युज्यते । अद्वै­त­ब्र­ह्म­त­त्त्व­सा­क्षा­त्का­र­व­तस्तु विग­लि­त­नि­खि­ल­प्र­प­ञ्चा­व­भा­स­वि­भ्र­मस्य न गन्तव्यं न गतिर्न गमयितार इति किं केन सङ्गतम् । तस्मादनिदर्शनं न्यग्रो­ध­सं­यो­ग­वि­भागा न्यग्रो­ध­वा­न­र­त­द्ग­ति­त­त्सं­यो­ग­वि­भा­गानां मिथो भेदात् । नच तत्रापि प्राप्त­प्राप्तिः कर्मजेन हि विभागेन निरुद्धायां पूर्व­प्रा­प्ता­व­प्रा­प्त­स्यै­वो­त्त­र­प्रा­प्ते­रु­त्पत्तेः । एतदपि वस्तुतो विचारासहतया सर्वमनिर्वचनीयं विजृ­म्भि­त­म­वि­द्यायाः समु­त्प­न्ना­द्वै­त­त­त्त्व­सा­क्षा­त्कारो न विद्वानभिमन्यते । विदुषोऽपि देहपातात्पूर्वं स्थितप्रज्ञस्य यथाभासमात्रेण सांसा­रि­क­ध­र्मा­नु­वृ­त्ति­र­भ्यु­पे­यते एव­मा­लि­ङ्ग­श­री­र­पा­ता­द्वि­दु­ष­स्त­द्ध­र्मा­नु­वृत्तिः । तथा­चा­प्रा­प्त­प्रा­प्ते­र्ग­त्यु­प­प­त्ति­स्त­द्दे­श­प्राप्तौ च लिङ्ग­दे­ह­नि­वृ­त्ते­र्मुक्तिः श्रुति­प्रा­मा­ण्या­दिति चेत् । न । परविद्यावत उत्क्रा­न्ति­प्र­ति­षे­धात् “ब्रह्मैव सन्ब्र­ह्मा­प्येति न तस्मात्प्राणा उत्क्रामन्ति अत्रैव समवनीयन्ते”(बृ. उ. ३ । २ । ११) इति । यथा विद्या­ब्र­ह्म­प्राप्त्योः समानकालता श्रूयते “ब्रह्म वेद ब्रह्मैव भवति”(मु. उ. ३ । २ । ९) “आनन्दं ब्रह्मणो विद्वान्न बिभेति”(तै. उ. २ । ९ । १) “तदा­त्मा­न­मे­वा­वे­दहं ब्रह्मास्मीति तत्सर्वमभवत्”(वाजसनेयि ब्रह्मण. उ. १ । ४ । १०) “तत्र को मोहः कः शोक एकत्वमनुपश्यतः”(ई. उ. ७) इति पौर्वा­प­र्या­श्र­व­णा­त्प­र­वि­द्या­वतो मुक्तिं प्रति नोपा­या­न्त­रा­पे­क्षेति लक्ष्य­तेऽ­भि­सन्धिः श्रुतेः । उपपन्नं चैतत् । न खलु ब्रह्मैवेदं विश्वमहं ब्रह्मास्मीति परिभावनाभुवा जीवात्मनो ब्रह्म­भा­व­सा­क्षा­त्का­रे­णो­न्मू­लि­ता­या­म­न­व­य­वे­ना­वि­द्या­या­मस्ति गन्त­व्य­ग­न्तृ­वि­भागो विदुषस्तदभावे कथ­म­य­म­र्चि­रा­दि­मार्गे प्रवर्तेत । नच छायामात्रेणापि सांसा­रि­क­ध­र्मा­नु­वृ­त्ति­स्तत्र प्रवृत्त्यङ्गं यादृ­च्छि­क­प्र­वृत्तेः । श्रद्धाविहीनस्य दृष्टार्थानि कर्माणि फलन्ति न फलन्ति च । अदृष्टार्थानां तु फले का कथेत्युक्तं प्रथमसूत्रे । न चार्चि­रा­दि­मा­र्ग­भा­व­नायाः पर­ब्र­ह्म­प्रा­प्त्य­र्थ­म­वि­दुषः प्रत्यु­प­दे­श­स्तथा च कर्मान्तरेष्विव नित्यादिषु तत्रापि स्यात्तस्य प्रवृत्तिरिति साम्प्रतम् । विकल्पासहत्वात् । किमियं परविद्यानपेक्षा पर­ब्र­ह्म­प्रा­प्ति­सा­धनं तदपेक्षा वा । न तावदनपेक्षा “तमेव विदि­त्वा­ति­मृ­त्यु­मेति नान्यः पन्था विद्यतेऽयनाय”(श्वे. उ. ३ । ८) इति पर­ब्र­ह्म­वि­ज्ञा­ना­द­न्य­स्या­ध्वनः साक्षा­त्प्र­ति­षे­धात् । पर­वि­द्या­पे­क्षत्वे तु मार्गभावनायाः किमियं विद्याकार्ये मार्गभावना साहायकमाचरत्यथ विद्योत्पादे । न ताव­द्वि­द्या­कार्ये तया सह तस्या द्वैता­द्वै­त­गो­च­र­तया मिथो विरोधेन सहासम्भवात् । नापि यज्ञा­दि­व­द्वि­द्यो­त्पादे साक्षा­त्ब्र­ह्म­प्रा­प्त्यु­पा­य­त्व­श्र­व­णा­दे­ता­न्ब्रह्म गमयतीति । यज्ञादेस्तु विविदिषासंयोगेन श्रव­णा­द्वि­द्यो­त्पा­दा­ङ्ग­त्वम् । तस्मा­दु­प­न्य­स्त­ब­हु­श्रु­त्य­नु­रो­धा­दु­प­प­त्तेश्च ब्रह्म­श­ब्दोऽ­स­म्भ­व­न्मु­ख्य­वृ­त्ति­र्ब्र­ह्म­सा­मी­प्या­द­प­र­ब्र­ह्मणि लक्षणया नेतव्यः । तथाच लोकेष्विति बहुवचनोपपत्तेः कार्य­ब्र­ह्म­लो­कस्य । परस्य त्वनवयवतया तद्द्वा­रे­णा­प्य­नु­प­पत्तेः । लोकत्वं चेला­वृ­त्ता­दि­व­त्स­न्नि­वे­श­वि­शे­ष­वति भोगभूमौ निरूढं न कथञ्चिद्योगेन प्रकाशे व्याख्यातं भवति । तस्मा­त्सा­धु­दर्शी स भग­वा­न्बा­द­रि­र­सा­धु­दर्शी जैमिनिरिति सिद्धम् । अप्रामाणिकानां बहुप्रलापाः सर्वगतस्य द्रव्यस्य गुणाः सर्वगता एव चैत­न्या­न­न्दा­द­यश्च गुणिनः परमात्मनो भेदाभेदवन्तो गुणा इत्यादयो दूष­णा­या­नु­भा­ष्य­माणा अप्य­प्रा­मा­णि­क­त्व­मा­व­ह­न्त्य­स्मा­क­मि­त्यु­पे­क्षिताः । ग्रन्थयोजना तु प्रत्य­गा­त्म­त्वाच्च गन्तॄणां प्रतिप्रति अञ्चति गच्छतीति प्रत्य­क्प्र­ति­भा­व­वृत्ति ब्रह्म तदा­त्म­त्वा­द्ग­न्तॄणां जीवात्मनामिति ।

गौणी त्वन्यत्रेति ।
यौगिक्यपि हि योगगुणापेक्षया गौण्येव ।

विशु­द्धो­पा­धि­स­म्ब­न्ध­मिति ।
मनोमयत्वादयः कल्पनाः कार्याः । कार्य­त्वा­द­वि­शुद्धा अपि श्रेयो­हे­तु­त्वा­द्वि­शुद्धाः । प्रतिसञ्चरो महाप्रलयः प्रति­प­त्त्य­भि­सन्धिः प्रति­प­त्ति­र्गतिः पदे­र्ग­त्य­र्थ­त्वात् । अभि­स­न्धि­स्ता­त्प­र्यम् । यस्य ब्रह्मणो नामाभिधानं यश इति ।

पूर्व­वा­क्य­वि­च्छे­दे­नेति ।
श्रुतिवाक्ये बलीयसी प्रकरणात् ।

सगुणेऽपि च ब्रह्मणीति ।
प्रशं­सा­र्थ­मि­त्यर्थः ।

चोदयति –
ननु गतस्यापि पारमार्थिकी गन्तव्यता देशा­न्त­र­वि­शि­ष्ट­स्येति ।
न्यग्रो­ध­वा­न­र­दृ­ष्टान्त उपपादितः ।

परिहरति –
न । प्रति­षि­द्ध­स­र्व­वि­शे­ष­त्वा­द्ब्र­ह्मण इति ।

अयमभिसन्धिः यथातथा न्यग्रोधावयवी परि­णा­म­वा­नु­प­ज­ना­पा­य­ध­र्मभिः कर्मजैः संयोगविभागैः संयुज्यतामयं पुनः परमात्मा निर­स्त­नि­खि­ल­भे­द­प्र­पञ्चः कूटस्थनित्यो न न्यग्रो­ध­व­त्सं­यो­ग­वि­भा­ग­भा­ग्भ­वि­तु­म­र्हति । काल्प­नि­क­सं­यो­ग­वि­भा­गस्तु काल्पनिकस्यैव कार्य­ब्र­ह्म­लो­क­स्यो­प­प­द्यते न परस्य । शङ्कते –
जग­दु­त्प­त्ति­स्थि­ति­प्र­ल­य­हे­तु­त्व­श्रु­ते­रिति ।
नह्यु­त्प­त्त्या­दि­हे­तु­भा­वोऽ­प­रि­णा­मिनः सम्भवति तस्मा­त्प­रि­णा­मीति । तथा च भावि­क­म­स्यो­प­प­द्यते गन्त­व्य­त्व­मि­त्यर्थः ।

निराकरोति –
न । विशे­ष­नि­रा­क­र­ण­श्रु­ती­ना­मिति ।
विशेषनिराकरणं सम­स्त­शो­का­दि­दुः­ख­श­म­न­तया पुरुषार्थफलवत् । अफलं तूत्प­त्त्या­दि­वि­धा­नम् । तस्मात्फलवतः संनि­धा­वा­म्ना­य­मानं तदर्थमेवोच्यत इत्युपपत्तिः । तद्वि­जि­ज्ञा­स­स्वेति च श्रुतिः । तस्मा­च्छ्रु­त्यु­प­प­त्तिभ्यां निर­स्त­स­म­स्त­वि­शे­ष­ब्र­ह्म­प्र­ति­पा­द­न­प­रोऽ­य­मा­म्नायो न तूत्प­त्त्या­दि­प्र­ति­पा­द­न­परः । तस्मान्न गतिस्तात्त्विकी ।

अपि चेयं गतिर्न विचारं सहत इत्याह –
गतिकल्पनायां चेति ।
अन्या­न­न्य­त्वा­श्र­या­व­व­य­व­वि­का­र­पक्षौ । अन्यो वात्यन्तम् ।

अथ कस्मा­दा­त्य­न्ति­क­म­न­न्यत्वं न कल्प्यत इत्यत आह –
अत्य­न्त­ता­दात्म्य इति ।
मृदात्मतया हि स्वभावेन घटादयो भावास्तद्विकारा व्याप्ताः, तदभावे न भवन्ति शिंशपेव वृक्षत्वाभाव इति । विका­रा­व­य­व­प­क्ष­योश्च तद्वतः सह विकारावयवैः स्थिर­त्वा­द­च­ल­त्वा­द्ब्र­ह्मणः संसारलक्षणं गमनं विका­रा­व­य­व­ये­र­नु­प­प­न्नम् । नहि स्थिरा­त्म­क­म­स्थिरं भवति । अन्यानन्यत्वे अपि चैकस्य विरो­धा­द­स­म्भ­वन्ती इति भावः ।

अथान्य एव जीवो ब्रह्मणः ।
तथाच ब्रह्म­ण्य­सं­स­र­त्यपि जीवस्य संसारः कल्पत इति ।

एतद्विकल्प्य दूषयति –
सोऽणुरिति ।

मध्यमपरिमाणत्व इति ।
मध्यमपरिमाणानां घटा­दी­ना­म­नि­त्य­त्व­द­र्श­नात् ।

न । मुख्यैकत्वेति ।
भेदा­भे­द­यो­र्वि­रो­धि­नो­रे­क­त्रा­स­म्भ­वा­द्बु­द्धि­व्य­प­दे­श­भे­दा­द­र्थ­भेदः । अयु­त­सि­द्ध­त­यो­प­चा­रे­णा­भि­न्न­मु­च्यत इत्य­मु­ख्य­म­स्यै­क­त्व­मि­त्यर्थः । अपिच जीवानां ब्रह्मा­व­य­व­त्व­प­रि­णा­मा­त्य­न्त­भे­द­प­क्षेषु तात्त्विकी संसारितेति मुक्तौ स्वभा­व­हा­ना­ज्जी­वानां विनाशप्रसङ्गः ।

ब्रह्म­वि­व­र्तत्वे तु ब्रह्मैवैषां स्वभावः प्रति­बि­म्बा­ना­मिव बिम्बं तच्चाविनाशीति न जीवविनाश इत्याह –
सर्वे­ष्वे­ते­ष्विति ।

मता­न्त­र­मु­प­न्य­स्यति दूषयितुम् –
यत्तु कैश्चि­ज्ज­ल्प्यते विनैव ब्रह्मज्ञानं नित्य­नै­मि­त्ति­का­नीति ।
यथा हि कफनिमित्तो ज्वर उपात्तस्य कफस्य विशेषणादिभिः प्रक्षये कफा­न्त­रो­त्प­त्ति­नि­मि­त्त­द­ध्या­दि­व­र्जने प्रशान्तोऽपि न पुनर्भवति । एवं कर्मनिमित्तो बन्ध उपात्तानां कर्म­णा­मु­प­भो­गा­त्प्र­क्षये प्रशाम्यति । कर्मान्तराणां च बन्ध­हे­तू­ना­म­न­नु­ष्ठा­ना­त्का­र­णा­भावे कार्या­नु­प­प­त्ते­र्ब­न्धा­भा­वा­त्स्व­भा­व­सिद्धो मोक्ष आरोग्यमिव । उपा­त्त­दु­रि­त­नि­ब­र्ह­णाय च नित्य­नै­मि­त्ति­क­क­र्मा­नु­ष्ठा­ना­द्दु­रि­त­नि­मि­त्त­प्र­त्य­वायो न भवति । प्रत्य­वा­या­नु­त्पत्तौ च स्वस्थस्वान्तो न निषि­द्धा­न्या­च­रे­दिति ।

तदेतद्दूषयति –
तदसत् । प्रमाणाभावादिति ।
शास्त्रं खल्व­स्मि­न्प्र­माणं तच्च मोक्ष­मा­ण­स्या­त्म­ज्ञा­न­मे­वो­प­दि­शति नतूक्तमाचारम् ।

न चात्रोपपत्तिः प्रभवति संसा­र­स्या­ना­दि­तया कर्मा­श­य­स्या­प्य­स­ङ्ख्ये­य­स्या­नि­य­त­वि­पा­क­का­लस्य भोगे­नो­च्छे­त्तु­म­श­क्य­त्वा­दि­त्याह –
न चैत­त्त­र्क­यि­तु­म­पीति ।

चोदयति –
स्यादेतदिति ।

नित्येति ।

परिहरति –
तन्न विरोधाभावादिति ।
यदि हि नित्य­नै­मि­त्ति­कानि कर्माणि सुकृतमपि दुष्कृतमिव निर्वहेयुस्ततः काम्यकर्मोपदेशा दत्तजलाञ्जलयः प्रसज्येरन् । नह्यस्ति कश्चि­च्चा­तु­र्वर्ण्ये चातुराश्रम्ये वा यो न नित्य­नै­मि­त्ति­कानि कर्माणि करोति । तस्मान्नैषां सुकृतविरोधितेति ।

अभ्यु­च्च­य­मा­त्र­माह –
नच नित्य­नै­मि­त्ति­का­नु­ष्ठा­ना­दिति ।

न चासति सम्यग्दर्शने इति ।
सम्यग्दर्शी हि विरक्तः काम्यनिषिद्धे वर्जयन्नपि प्रमा­दा­दु­प­नि­प­तिते तेनै­व­स­म्य­ग्द­र्श­नेन क्षपयति । ज्ञानपरिपाके च न करोत्येव । अज्ञस्तु निपुणोऽपि प्रमादात्करोति । कृते च न क्षपयितुं क्षमत इति विशेषः ।

न चान­भ्यु­प­ग­म्य­माने ज्ञानगम्ये ब्रह्मात्मत्व इति ।
कर्तृ­त्व­भो­क्तृत्वे समा­क्षि­प्त­क्रि­या­भोगे ते चेदात्मनः स्वभावावधारिते न त्वारोपिते ततो न शक्यावपनेतुम् । नहि स्वभा­वा­द्भा­वोऽ­व­रो­प­यितुं शक्यो भावस्य विनाशप्रसङ्गात् ।

न च भोगोऽपि सत्स्वभावः शक्योऽ­स­त्कर्तुं, नो खलु नीलमनीलं शक्यं शक्रेणापि कर्तुं तदिदमुक्तम् –
स्वभा­व­स्या­प­रि­हा­र्य­त्वा­दिति ।
समारोपितस्य त्वनिर्वचनीयस्य तत्स्वभावस्य शक्य­स्त­त्त्व­ज्ञा­ने­ना­व­रोपः कर्तुं सर्पस्येव रज्जु­त­त्त्व­ज्ञा­ने­नेति भावः ।

भाव­मि­म­म­वि­द्वा­न्प­रि­चो­द­यति –
स्यादेतत् । कर्तृ­त्व­भो­क्तृ­त्व­का­र्य­मिति ।

अप्रकाशितभावो यथोक्तमेव समाधत्ते –
तच्च नेति ।
कर्तृ­त्व­भो­क्तृ­त्व­यो­र्नि­मि­त्त­स­म्ब­न्धस्य च शक्तिद्वारेण नित्य­त्वा­द्भ­वि­ष्यति कदाचिदेषां समुदाचारो यतः सुखदुःखे भोज्येते इति सम्भावनातः कुतः कैवल्यनिश्चय इत्यर्थः ।

भूयोनिरस्तमपि मतिद्रढिम्ने पुनरुपन्यस्य दूषयति –
पर­स्मा­द­न­न्य­त्वेऽ­पीति ।
शेष­म­ति­रो­हि­ता­र्थम् ॥ ७ ॥

विशेषितत्वाच्च ॥ ८ ॥

सामीप्यात्तु तद्व्यपदेशः ॥ ९ ॥

कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ १० ॥

स्मृतेश्च ॥ ११ ॥

परं जैमि­नि­र्मु­ख्य­त्वात् ॥ १२ ॥

दर्शनाच्च ॥ १३ ॥

न च कार्ये प्रति­प­त्त्य­भि­सन्धिः ॥ १४ ॥

अप्र­ती­का­ल­म्ब­ना­न्न­य­तीति बादरायण उभ­य­थाऽ­दो­षा­त्त­त्क्र­तुश्च ।
अब्रह्मक्रतवो यान्ति यथा पञ्चा­ग्नि­वि­द्यया । ब्रह्मलोकं प्रयास्यन्ति प्रती­को­पा­स­का­स्तथा ॥ सन्ति हि मनो ब्रह्मे­त्यु­पा­सी­ते­त्याद्याः प्रतीकविषया विद्याः । तद्व­न्तोऽ­प्य­र्चि­रा­दि­मा­र्गेण कार्य­ब्र­ह्मो­पा­सका इव गन्तुमर्हन्ति “अनियमः सर्वासाम्” इत्यविशेषेण विद्या­न्त­रे­ष्वपि गतेरवधारणात् । न चैषां परब्रह्मविदामिव गत्यसम्भव इति । नच ब्रह्मक्रतव एव ब्रह्मलोकभाजो नातत्क्रतव इत्यप्येकान्तः । अतत्क्रतूनामपि पञ्चाग्निविदां तत्प्राप्तेः । न चैते न ब्रह्मक्रतवो मनो ब्रह्मे­त्यु­पा­सी­ते­त्यादौ सर्वत्र ब्रह्मानुगमेन तत्क्र­तु­त्व­स्यापि सम्भवात् । फलविशेषस्य ब्रह्म­लो­क­प्रा­प्ता­व­प्यु­प­पत्तेः, तस्य साव­य­व­त­यो­त्क­र्ष­नि­क­र्ष­स­म्भ­वा­दिति प्राप्ते प्रत्युच्यते उत्त­रो­त्त­र­भू­य­स्त्वा­द­ब्र­ह्म­क्र­तु­भा­वतः । प्रतीकोपासकान् ब्रह्मलोकं नामानवो नयेत् ॥ भवतु पञ्चा­ग्नि­वि­द्या­या­म­ब्र­ह्म­क्र­तू­ना­मपि ब्रह्मलोकनयनं, वचनात् । किमिव हि वचनं न कुर्यात्नास्ति वचनस्यातिभार इह तु तदभावात् । “तं यथायथोपासते तदेव भवति”(मुद्ग­लो­प­नि­षत्.३) इति श्रुते­रौ­त्स­र्गि­क्या­न्ना­सति विशेषवचनेऽपवादो युज्यते । नच प्रतीकोपासको ब्रह्मोपास्ते सत्यपि ब्रह्मेत्यनुगमे । किन्तु नामादिविशेषं ब्रह्मरूपतया । तथा खल्वयं नामादितन्त्रो न ब्रह्मतन्त्रः । आश्र­या­न्त­र­प्र­त्य­य­स्या­श्र­या­न्तरे प्रक्षेपः प्रतीक इति हि वृद्धाः । ब्रह्माश्रयश्च प्रत्ययो नामादिषु प्रक्षिप्त इति नामतन्त्रः । तस्मान्न तदुपासको ब्रह्मक्रतुः किन्तु­ना­मा­दि­क्रतुः । न च ब्रह्मक्रतुत्वे नामा­द्यु­पा­स­का­ना­म­वि­शे­षा­दु­त्त­रो­त्त­रो­त्कर्षः सम्भवी । नच ब्रह्म­क्र­तु­स्त­द­व­य­व­क्र­तु­र्येन तद­व­य­वा­पे­क्ष­यो­त्कर्षो वर्ण्येत । तस्मा­त्प्र­ती­का­ल­म्ब­ना­न्वि­दुषो वर्जयित्वा सर्वा­न­न्या­न्वि­का­रा­ल­म्ब­ना­न्न­य­त्य­मा­नवो ब्रह्मलोकम् । न ह्येवमुभयथाभाव उभयथार्थत्वे कांश्चि­त्प्र­ती­का­ल­म्ब­नान्न नयति विका­रा­ल­म्ब­ना­न्वि­दु­षस्तु नयतीत्यभ्युपगमे कश्चि­द्दो­षोऽस्ति “अनियमः सर्वासाम्” इत्यस्य न्यायस्येति सर्वमवदातम् ॥ १५ ॥

विशेषं च दर्शयति ॥ १६ ॥
इति श्रीवा­च­स्प­ति­मि­श्र­वि­र­चिते भग­व­त्पा­द­भा­ष्य­वि­भागे भामत्यां चतु­र्थ­स्या­ध्या­यस्य तृतीयः पादः ॥ ३ ॥

चतुर्थेऽध्याये चतुर्थः पादः ।
सम्प­द्या­वि­र्भावः स्वेन शब्दात् ।
प्रागभूतस्य निष्पत्तौ कर्तृत्वं न सतो यतः । फलत्वेन प्रसिद्धेश्च मुक्ते रूपान्तरोद्भवः । अभूतस्य घटादेर्भवनं निष्पत्तिर्न पुन­र­त्य­न्त­स­तोऽ­सतो वा । न जातु गगनतत्कुसुमे निष्पद्येते । स्वरूपावस्थानं चेदात्मनो मुक्तिर्न सा निष्पद्येत, तस्य गगनवदत्यन्तसतः प्राग­स­त्त्वा­भा­वात् । न चास्य बन्धाभावो निष्पद्यते, तस्य तुच्छस्वभावस्य कार्य­त्वे­ना­तु­च्छ­त्व­प्र­स­ङ्गात् । फल­त्व­प्र­सि­द्धेश्च मोक्ष­स्या­का­र्यस्य फल­त्वा­न­व­क­ल्प­ना­दा­ग­न्तुना रूपेण केनचिदुत्पत्तौ स्वेनेति प्राप्तमनूद्यत इति प्राप्तेऽ­भि­धी­यते - सम्भ­व­त्य­र्थ­वत्त्वे हि नान­र्थ­क्य­मु­पे­यते । बन्धस्य सदसत्त्वाभ्यां रूपमेकं विशिष्यते ॥ अनधिगतावबोधनं हि प्रमाणं शाब्दमगत्या कथञ्चिदनुवादतया वर्ण्यते । सक­ल­सां­सा­रि­क­ध­र्मा­पेतं तु प्रस­न्न­मा­त्म­रू­प­म­प्र­स­न्ना­त्त­स्मा­देव रूपा­द्व्या­वृ­त्त­म­न­धि­ग­त­म­व­बो­ध­य­न्ना­नु­वादो युज्यते । न चास्य निष्प­त्त्य­स­म्भवः, सत इव घटादेः सांव्यवहारिकेण प्रमाणेन बन्धविगमस्यापि निष्प­त्ते­र्लो­क­सि­द्ध­त्वात् । विचारासहतया त्वसि­द्धि­रु­भ­य­त्रापि तुल्या । न ह्यस­दु­त्प­त्तु­म­र्ह­ती­त्य­स­कृ­दा­वे­दि­तम् । अन्धो भवतीति स्वप्नावस्था दर्शिता बाह्ये­न्द्रि­य­व्या­पा­रा­भा­वात् । रोदितीव जाग्रदवस्था दुःख­शो­का­द्या­त्म­क­त्वात् । विनाशमेवापीत इति सुषुप्तिः । एव­का­र­श्चै­वा­र्थेऽ­न­व­धा­रणे ॥ १ ॥

मुक्तः प्रतिज्ञानात् ॥ २ ॥

आत्मा प्रकरणात् ।
ननु ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यत इति पौर्वा­प­र्य­श्र­व­णा­त्स्व­रू­प­नि­ष्प­त्ते­रन्या ज्योति­रु­प­स­म्पत्तिः तथाच भौतिकत्वेऽपि न मोक्षव्याघातः । भवेदेतदेवं यदि ज्योति­रु­प­स­म्पद्य तत् परित्यजेदिति श्रूयेत । तदध्याहारेऽपि तत्प्र­ति­पा­द­न­वै­यर्थ्यं तदपरित्यागे च ज्योतिषैव स्वेन रूपेणेति गम्यते । तस्य च भूतत्वे विका­र­त्वा­न्म­र­ण­ध­र्म­क­त्व­प्र­सि­द्धे­र­मु­क्ति­त्व­मिति प्राप्ते प्रत्युच्यते - ज्योतिष्पदस्य मुख्यत्वं भौतिके यद्यपि स्थितम् । तथापि प्रक्र­मा­द्वा­क्या­दा­त्म­न्ये­वात्र युज्यते ॥ परंज्योतिरिति हि पर­प­द­स­म­भि­व्या­हा­रा­त्प­र­त्वस्य चानपेक्षस्य ब्रह्मण्येव प्रवृ­त्ते­ज्यो­तिषि चापरे किञ्चिदपेक्ष्य परत्वात्परं ज्योतिरिति वाक्या­दा­त्मै­वात्र गम्यते । प्रकरणं चोक्तम् । यत्सम्पद्य निष्पद्यत इति तन्मुखं व्यादाय स्वपितीतिवत् । तस्मा­ज्ज्यो­ति­रु­प­स­म्पन्नो मुक्त इति सूक्तम् ॥ ३ ॥

अविभागेन दृष्टत्वात् ।
यद्यपि जीवात्मा ब्रह्मणो न भिन्न इति तत्र तत्रोपपादितं तथापि स तत्र पर्ये­ती­त्या­धा­रा­धे­य­भा­व­व्य­प­दे­शस्य सम्प­त्तृ­स­म्प­त्त­व्य­भा­व­व्य­प­दे­शस्य च समाधानार्थमाह ॥ ४ ॥

ब्राह्मेण जैमि­नि­रु­प­न्या­सा­दिभ्यः ।
उपन्यास उद्देशो ज्ञातस्य यथा य आत्मा­प­ह­त­पा­प्मे­त्यादिः । तथाज्ञातज्ञापनं विधिः । यथा स तत्र पर्येति जक्षद्रममाण इति, तस्य सर्वेषु लोकेषु कामचारो भव­ती­त्ये­त­द­ज्ञा­त­ज्ञा­पनं विधिः । सर्वज्ञः सर्वेश्वर इति व्यपदेशः । नायमुद्देशो विधे­या­न्त­रा­भा­वात् । नापि विधि­र­प्र­ति­पा­द्य­त्वात् । सिद्ध­व­द्व्य­प­दे­शात् । तन्नि­र्व­च­न­सा­म­र्थ्या­द­य­मर्थः प्रतीयते त एते उपन्यासादयः । एतेभ्यो हेतुभ्यः । भावाभावात्मकै रूपैर्भाविकैः परमेश्वरः । मुक्तः सम्पद्यते स्वैरित्याह स्म किल जैमिनिः ॥ न च चित्स्व­भा­व­स्या­त्म­नोऽ­भा­वा­त्मा­नोऽ­प­ह­त­पा­प्म­त्वा­दयो भावात्मनश्च सर्वज्ञत्वादयो धर्मा अद्वैतं घ्नन्ति । नो खलु धर्मिणो धर्मा भिद्यन्ते, मा भूद्ग­वा­श्व­व­द्ध­र्मि­ध­र्म­भा­वा­भाव इति जैमिनिराचार्य उवाच ॥ ५ ॥

चितितन्मात्रेण तदा­त्म­क­त्त्वा­दि­त्यौ­डु­लोमिः ।
अनेकाकारतैकस्य नैकत्वान्नैकता भवेत् । परस्परविरोधेन न भेदाभेदसम्भवः ॥ न ह्येकस्यात्मनः पार­मा­र्थि­का­ने­क­ध­र्म­स­म्भवः । ते चेदात्मनो भिद्यन्ते द्वैता­प­त्ते­र­द्वै­त­श्रु­तयो व्यावर्तेरन् । अथ न भिद्यन्ते तत एक­स्मा­दा­त्म­नोऽ­भे­दा­न्मि­थोऽपि न भिद्येरन् । आत्मरूपवत् । आत्मरूपं वा भिद्येत । भिन्ने­भ्योऽ­न­न्य­त्वा­न्नी­ल­पी­त­रू­प­वत् । नच धर्मिण आत्मनो न भिद्यन्ते मिथस्तु भिद्यन्त इति साम्प्रतम् । धर्म्यभेदेन तदनन्यत्वेन तेषा­म­प्य­भे­द­प्र­स­ङ्गात् । भेदे वा धर्मिणोऽपि भेद­प्र­स­ङ्गा­दि­त्यु­क्तम् । भेदाभेदौ च पर­स्प­र­वि­रो­धा­दे­क­त्रा­भा­वान्न सम्भवत इत्युपपादितं प्रथमे सूत्रे । अभा­व­रू­पा­णा­म­द्वै­ता­वि­ह­न्तृ­त्वेऽपि तस्य पाप्मादेः काल्पनिकतया तदधीननिरूपणतया तेषामपि काल्पनिकत्वमिति न तात्त्विकी तद्धर्मता श्लिष्यते । एतेन सत्य­का­म­स­र्व­ज्ञ­स­र्वे­श्व­र­त्वा­द­योऽ­प्यौ­पा­धिका व्याख्याताः ।

तस्मा­न्नि­र­स्ता­शे­ष­प्र­प­ञ्चे­ना­व्य­प­दे­श्येन चैत­न्य­मा­त्रा­त्म­ना­भि­नि­ष्प­द्य­मा­नस्य मुक्ता­वा­त्म­नोऽ­र्थ­शू­न्यै­रे­वा­प­ह­त­पा­प्म­स­त्य­का­मा­दि­श­ब्दै­र्व्य­प­देश इत्यौ­डु­लो­मि­र्मेने । तदिदमुक्तम् –
शब्दविकल्पजा एवैते
अप­ह­त­पा­प्म­त्वा­दयो न तु सांव्यवहारिका अपीति ॥ ६ ॥

एव­म­प्यु­प­न्या­सा­त्पू­र्व­भा­वा­द­वि­रोधं बादरायणः ।
तदे­त­द­ति­शौ­ण्डी­र्य­मौ­डु­लो­मेर्न मृष्यते । बादरायण आचार्यो मृष्यन्नपि हि तन्मतम् ॥ एव­म­पी­त्यौ­डु­लो­मि­म­त­म­नु­जा­नाति ।

शौण्डीर्यं तु न सहत इत्याह –
व्यव­हा­रा­पे­क्ष­येति ।
एतदुक्तं भवति - सत्यं तात्त्वि­का­न­न्द­चै­त­न्य­मात्र एवात्मा, अप­ह­त­पा­प्म­स­त्य­का­म­त्वा­द­य­स्त्वौ­पा­धि­क­त­या­ता­त्त्विका अपि व्याव­हा­रि­क­प्र­मा­णो­प­नी­त­तया लोकसिद्धा नात्यन्तासन्तो येन तच्छब्दा राहोः शिर इतिवदवास्तवा इत्यर्थः ॥ ७ ॥

सङ्कल्पादेव तु तच्छ्रुतेः ।
यत्नानपेक्षः सङ्कल्पो लोके वस्तुप्रसाधनः । न दृष्टः सोऽत्र यत्नस्य लाघवादवधारितः ॥ लोके हि कञ्चिदर्थं चिकीर्षुः प्रयतते प्रयतमानः समीहते समी­हा­न­स्त­म­र्थ­मा­प्नो­तीति क्रमो दृष्टः । न त्विच्छा­न­न्त­र­मे­वा­स्ये­ष्य­मा­ण­मु­प­ति­ष्ठते । तेन श्रुत्यापि लोक­वृ­त्त­म­नु­रु­ध्य­मा­नया विदुषस्तादृश एव क्रमोऽ­नु­म­न्तव्यः । अवधारणं तु सङ्कल्पादेवेति लौकिकं यत्न­गौ­र­व­म­पेक्ष्य विद्याप्रभावतो विदुषो यत्नलाघवात् । यल्लघु तदसत्कल्पमिति ।

स्यादेतत् । यथा मनो­र­थ­मा­त्रो­प­स्था­पिता स्त्री स्त्रैणानां चर­म­धा­तु­वि­स­र्ग­हे­तु­रेवं पित्रा­द­योऽ­प्यस्य सङ्क­ल्पो­प­स्था­पिताः कल्पिष्यन्ते स्वकार्यायेत्यत आह –
नच सङ्क­ल्प­मा­त्र­स­मु­त्थाना इति ।
सन्ति हि खलु कानि­चि­द्व­स्तु­स्व­रू­प­सा­ध्यानि कार्याणि यथा स्त्रीव­स्तु­सा­ध्यानि दन्त­क्ष­त­म­णि­मा­ला­दीनि । कानिचित्तु ज्ञानसाध्यानि यथो­क्त­च­र­म­धा­तु­वि­स­र्ग­रो­म­ह­र्षा­दीनि । तत्र मनो­र­थ­मा­त्रो­प­नीते पित्रादौ भवन्तु तज्ज्ञा­न­मा­त्र­सा­ध्यानि कार्याणि नतु तत्साध्यानि भवितुमर्हन्ति । नहि स्त्रैणस्य रोम­ह­र्षा­दि­व­द्भ­वन्ति स्त्रीव­स्तु­साध्या मणि­मा­ला­द­य­स्त­दि­द­मु­क्त­म्पु­ष्कलं भोगमिति प्राप्तेऽ­भि­धी­यते पित्रादीनां समुत्थानं सङ्कल्पादेव तच्छ्रुतेः । न चानुमानबाधोऽत्र श्रुत्या तस्यैव बाधनात् ॥ प्रमा­णा­न्त­रा­न­पेक्षा हि श्रुतिः स्वार्थं गोचरयन्ति न प्रमाणान्तरेण शक्या बाधितुम् । अनुमानमेव तु स्वोत्पादाय पक्ष­ध­र्म­त्वा­दि­व­न्मा­ना­न्त­रा­बा­धि­त­वि­ष­यत्वं स्वसा­म­ग्री­म­ध्य­पा­ते­ना­पे­क्ष­माणं सामग्रीखण्डनेन तद्विरुद्धया श्रुत्या बाध्यते । अत एव नर­शि­रः­क­पा­ला­दि­शौ­चा­नु­मा­न­मा­ग­म­बा­धि­त­वि­ष­य­तया नोपपद्यते । तस्मा­द्वि­द्या­प्र­भा­वा­द्वि­दुषां सङ्क­ल्प­मा­त्रा­देव पित्रा­द्यु­प­स्था­न­मिति साम्प्रतम् । तथाहुरागमिनः को हि योग­प्र­भा­वा­दृ­तेऽ­गस्त्य इव समुद्रं पिबति स इव दण्डकारण्ये सृजति । तस्मा­त्स­र्व­म­व­दा­तम् ॥ ८ ॥

अत एव चानन्याधिपतिः ॥ ९ ॥

अभावं बादरिराह ह्येवम् ।
अन्य­यो­ग­व्य­व­च्छित्त्या मनसेति विशेषणात् । देहे­न्द्रि­य­वि­योगः स्याद्विदुषो बादरेर्मतम् ॥ अने­क­धा­भा­व­श्च­र्द्धि­प्र­भा­व­भुवो मनोभेदाद्वा स्तुतिमात्रं वा कथ­ञ्चि­द्भू­म­वि­द्यायां निर्गुणायां तदसम्भवादसतापि हि गुणेन स्तुति­र्भ­व­त्ये­वेति ॥ १० ॥

भावं जैमि­नि­र्वि­क­ल्पा­म­न­नात् ।
शरी­रे­न्द्रि­य­भेदे हि नानाभावः समञ्जसः । न चार्थसम्भवे युक्तं स्तुति­मा­त्र­म­न­र्थ­कम् ॥ नहि मनोमात्रभेदे स्फुट­त­रोऽ­ने­क­धा­भावो यथा शरी­रे­न्द्रि­य­भेदे । अत एव सौभ­रे­र­भि­वि­नि­र्मि­त­वि­वि­ध­दे­ह­स्या­प­र्या­येण मान्धा­तृ­क­न्याभिः पञ्चाशता विहारः पैराणिकैः स्मर्यते । न चार्थसम्भवे स्तुति­मा­त्र­म­न­र्थ­क­म­व­क­ल्पते । सम्भवति चास्या­र्थ­व­त्त्वम् । यद्यपि निर्गुणायामिदं भौमविद्यायां पठ्यते तथापि तस्याः पुरस्तादनेन सगु­णा­व­स्था­ग­ते­नै­श्व­र्येण निर्गुणैव विद्या स्तूयते । न चान्य­यो­ग­व्य­व­च्छे­दे­नैव विशेषणम् ।अ­यो­ग­व्य­व­च्छे­दे­नापि विशेषणात् । यथा चैत्रो धनुर्धरः । तस्मान्मनः शरीरेन्द्रिययोग ऐश्वर्यशालिनां नियमेनेति मेने जैमिनिः ॥ ११ ॥

द्वाद­शा­ह­व­दु­भ­य­विधं बादरायणोऽतः ।
मनसेति केवलमनोविषयां च स एकधा भवति त्रिधा भवतीति शरी­रे­न्द्रि­य­भे­द­वि­षयां च श्रुति­मु­प­ल­भ्या­नि­य­म­वादी खलु बादरायणो नियमवादौ पूर्वयोर्न सहते । द्विवि­ध­श्रु­त्य­नु­रो­धात् । न चायो­ग­व्य­व­च्छे­दे­नै­वं­वि­धेषु विशे­ष­ण­म­व­क­ल्प्यते । कामेषु हि रमणं सम­न­स्के­न्द्रि­येण शरीरेण पुरुषाणां सिद्धमेवेति नास्ति शङ्का मनोयोगस्येति तद्व्यवच्छेदो व्यर्थः । सिद्धस्य तु मनोयोगस्य तद­न्य­प­रि­स­ङ्ख्या­ने­ना­र्थ­व­त्त्व­म­व­क­ल्पते । तस्मा­द्वा­मे­नाक्ष्णा पश्य­ती­ति­व­द­त्रा­न्य­यो­ग­व्य­व­च्छेद इति साम्प्रतम् ।

द्वादशाहवदिति ।
द्वादशाहस्य सत्र­त्व­मा­स­नो­पा­यि­चो­दने । अहीनत्वं च यजतिचोदने सति गम्यते ॥ द्वाद­शा­ह­मृ­द्धि­कामा उपे­यु­रि­त्यु­पा­यि­चो­द­नेन य एवं विद्वांसः सत्रमुपयन्तीति च द्वादशाहस्य सत्रत्वं बहुकर्तृकस्य गम्यते । एवं तस्यैव द्वादशाहेन प्रजाकामं याजयेदिति यजतिचोदनेन निय­त­क­र्तृ­प­रि­मा­ण­त्वेन द्विरात्रेण यजे­ते­त्या­दि­व­द­ही­न­त्व­मपि गम्यत इति । सम्प्रति शरी­रे­न्द्रि­या­भा­वेन मनोमात्रेण विदुषः स्वप्न­व­त्सूक्ष्मो भोगो भवति । कुतः उपपत्तेः । मनसैतानिति श्रुतेः । यदि पुनः सुषुप्तवदभोगो भवेत्नैषा श्रुतिरुपपद्येत । नच सशरीरवदुपभोगः शरी­रा­द्यु­पा­दा­न­वै­य­र्थ्यात् । सशरीरस्य तु पुष्कलो भोगः । इहा­प्यु­प­प­त्ते­रि­त्य­नु­ष­ञ्ज­नी­यम् ॥ १२ ॥

तदिदमुक्तं सूत्राभ्याम् –
तन्वभावे सन्ध्य­व­दु­प­पत्तेः । भावे जाग्रद्वत् । इति ॥ १२ ॥

तन्वभावे सन्ध्य­व­दु­प­पत्तेः ॥ १३ ॥

भावे जाग्रद्वत् ॥ १४ ॥

प्रदी­प­व­दा­वे­श­स्तथा हि दर्शयति ।
वस्तुतः पर­मा­त्म­नोऽ­भि­न्नोऽ­प्ययं विज्ञा­ना­त्मा­ना­द्य­वि­द्या­क­ल्पि­त­प्रा­दे­शि­का­न्तः­क­र­णा­व­च्छे­दे­ना­ना­दि­जी­व­भा­व­मा­पन्नः प्रादेशिकः सन्न देहान्तराणि स्वभा­व­नि­र्मि­ता­न्यपि नाना­प्र­दे­श­व­र्तीनि सान्तःकरणो युग­प­दा­वे­ष्टु­म­र्हति । न वात्मान्तरं स्रष्टुमपि । सृज्यमानस्य स्रष्ट्र­ति­रे­केऽ­ना­त्म­त्वा­दा­त्मत्वे वा कर्तृ­क­र्म­भा­वा­भा­वा­द्भे­दा­श्र­य­त्वा­दस्य । नाप्य­न्तः­क­र­णा­न्तरं तत्र सृजति सृज्यमानस्य तदु­पा­धि­त्वा­भा­वात् । अनादिना खल्व­न्तः­क­र­णे­नौ­त्प­त्ति­के­ना­य­म­व­रुद्धो नेदा­नी­न्त­ने­ना­न्तः­क­र­णे­नो­पा­धि­तया सम्बद्धुमर्हति । तस्माद्यथा दारुयन्त्रं तत्प्रयोक्त्रा चेतनेनाधिष्ठितं सत्त­दि­च्छा­म­नु­रु­ध्यते । एवं निर्मा­ण­श­री­रा­ण्यपि सेन्द्रियाणीति प्राप्ते प्रत्यभिधीयते शरीरत्वं न जातु स्याद्भो­गा­धि­ष्ठा­नतां विना । स त्रिधेति शरीरत्वमुक्तं युक्तं च तद्विभौ ॥ स त्रिधा भवति पञ्चधा सप्तधा नवधेत्यादिका श्रुतिर्विदुषो नाना­भा­व­मा­च­क्षाणा भिन्न­श­री­रे­न्द्रि­यो­पा­धि­स­म्ब­न्धेऽ­व­क­ल्पते नादे­ह­हे­तु(भू­त)भेदे । नहि यन्त्राणि भिन्नानि निर्माय वाह­य­न्य­न्त्र­वाहो नाना­त्वे­ना­प­दि­श्यते । भोगाधिष्ठानत्वं च शरीरत्वं नाभो­गा­धि­ष्ठा­नेषु यन्त्रेष्विव युज्यते । तस्मा­द्दे­हा­न्त­राणि सृजति । न वाने­ना­धि­ष्ठि­तानि देहपक्षे वर्तन्ते । नच सर्वगतस्य वस्तुतो विग­लि­त­प्रा­या­वि­द्यस्य विदुषः पृथ­ग्ज­न­स्ये­वौ­त्प­त्ति­का­न्तः­क­र­ण­व­श्यता येन तदौ­त्प­त्ति­क­म­न्तः­क­र­ण­मा­ग­न्तु­का­न्तः­क­र­णा­न्त­र­स­म्ब­न्ध­मस्य वारयेत् । तस्माद्विद्वान् सर्वस्य वशी सर्वेश्वरः सत्यसङ्कल्पः सेन्द्रियमनांसि शरीराणि निर्माय तानि चैकपदे प्रविश्य तत्त­दि­न्द्रि­य­म­न्तः­क­र­णै­स्तेषु लोकेषु मुक्तो विहरतीति साम्प्रतम् । प्रदीपवदिति तु निदर्शनं प्रदीपैक्यं प्रदी­प­व्य­क्ति­षू­प­च­र्यते भिन्न­व­र्ति­व­र्ति­नीनां भिन्नव्यक्तीनां भेदात् । एवं विद्वा­ञ्जी­वात्मा देहभेदेऽप्येक इति परामर्शार्थः । एक­म­नो­नु­व­र्ती­नी­त्ये­का­भि­प्रा­य­व­र्ती­नी­त्यर्थः ॥ १५ ॥

सम्पन्नः केवलो मुक्त इत्युच्यते । न चैत­स्ये­त्थ­म्भा­व­स­म्भवः श्रुति­वि­रो­धा­दि­त्यु­क्त­म­र्थ­जा­त­मा­क्षि­पति –
कथं पुन­र्मु­क्त­स्येति ।

सलिल इति ।
सलिलमिव सलिलः सलि­ल­प्रा­ति­प­दि­का­त्स­र्व­प्रा­ति­प­दि­केभ्य इत्यु­प­मा­ना­दा­चारे क्विपि कृते पचाद्यचि च कृते रूपम् । एतदुक्तं भवति यथा सलिलमम्भोनिधौ प्रक्षिप्तं तदेकीभावमुपयाति । एवं द्रष्टापि ब्रह्मणेति ।

अत्रोत्तरं सूत्रम् –
स्वाप्य­य­स­म्प­त्त्यो­र­न्य­त­रा­पे­क्ष­मा­वि­ष्कृतं हि ।
आसु काश्चिच्छ्रुतयः सुषु­प्ति­म­पेक्ष्य काश्चित्तु सम्पत्तिं तदधिकारात् । ऐश्व­र्य­श्रु­त­यस्तु सगु­ण­वि­द्या­वि­पा­का­व­स्था­पेक्षा मुक्त्य­भि­स­न्धानं तु तद­व­स्था­स­त्ते­र्य­था­रु­ण­द­र्शने सन्ध्यायां दिवसाभिधानम् ॥ १६ ॥

जग­द्व्या­पा­र­वर्जं प्रक­र­णा­द­सं­नि­हि­त­त्वाच्च ।
स्वारा­ज्य­का­म­चा­रा­दि­श्रु­तिभ्यः स्यान्निरङ्कुशः । स्वकार्य ईश्व­रा­धी­न­सि­द्धि­र­प्यत्र साधकः ॥ “आप्नोति स्वाराज्यम्”(तै. उ. १ । ६ । २) “सर्वेऽस्मै देवा बलिमावहन्ति”(तै. उ. १ । ५ । ३) “सर्वेषु लोकेषु कामचारो भवति”(छा. उ. ७ । २५ । २) इत्या­दि­श्रु­तिभ्यो विदुषः परब्रह्मण इवा­न्या­न­धी­न­त्व­मै­श्व­र्य­म­व­ग­म्यते । नन्वस्य ब्रह्मो­पा­स­ना­ल­ब्ध­मै­श्वर्यं कथं ब्रह्माधीनं न तु स्वभावः । नहि कारणाधीनजन्मानो भावाः स्वकार्ये स्वका­र­ण­म­पे­क्षन्ते । किं त्वत्र ते स्वतन्त्रा एव । यथाहुः मृत्पि­ण्ड­द­ण्ड­च­क्रादि घटो जन्मन्यपेक्षते । उदकाहरणे त्वस्य तदपेक्षा न विद्यते ॥ न च विदुषां पर­मे­श्व­रा­धी­नै­श्व­र्य­सि­द्धि­त्वा­त्त­द्ग­त­मै­श्वर्यं येन लौकिका इव राजानो महाराजाधीनः स्वव्यापारे विद्वांसः परमेश्वराधीना भवेयुः । न खलु यदधीनोत्पादं यस्य रूपं तत्तद्रूपादूनं भवतीति कश्चिन्नियमः । तत्समानां तदधिकानां च दर्शनात्तथा ह्यन्तेवासी गुर्वधीनविधः तत्समस्तदधिको वा दृश्यते । दुष्टसामन्ताश्च पार्थि­वा­धी­नै­श्वर्याः पार्थि­वा­न्स्प­र्ध­मा­ना­स्ता­न्वि­ज­य­माना वा दृश्यन्ते । तदिह निर­ति­श­यै­श्व­र्य­त्वा­त्प­र­मे­श्व­रस्य मा नाम भूव­न्वि­द्वां­स­स्त­तोऽ­धि­का­स्त­त्स­मास्तु भविष्यन्ति । तथाच न तदधीनाः । नहि सम­प्र­धा­न­भा­वा­ना­मस्ति मिथोऽपेक्षा । तदेते स्वतन्त्राः सन्त­स्त­द्व्या­पारे जगत्सर्जनेऽपि प्रवर्तेरन्निति प्राप्ते प्रत्यभिधीयते - नित्य­त्वा­द­न­पे­क्ष­त्वा­त्श्रु­ते­स्त­त्प्र­क्र­मा­दपि । एक्यमत्याच्च विदुषां पर­मे­श्व­र­त­न्त्रता ॥ जगत्सर्गलक्षणं हि कार्यं कार­णै­क­स्व­भा­व­स्यैव हि भवतु आहो कार्य­का­र­ण­स्व­भा­वस्य । तत्रो­भ­य­स्व­भा­वस्य स्वोत्पत्तौ मूल­का­र­णा­पे­क्षस्य पूर्वसिद्धः परमेश्वर एव कारणमभ्युपेतव्य इति स एवैकोऽस्तु जगत्कारणम् । तस्यैव नित्यत्वेन स्वका­र­णा­न­पे­क्षस्य कॢप्त­सा­म­र्थ्यात् । कल्प्य­सा­म­र्थ्यास्तु जगत्सर्जनं प्रति विद्वांसः । न च जग­त्स्र­ष्टृ­त्व­मेषां श्रूयते । श्रूयते त्वत्रभवतः परमेश्वरस्यैव । तमेव प्रकृत्य सर्वासां तच्छ्रुतीनां प्रवृत्तेः । अपिच समप्रधानानां हि न नियमवदैकमत्यं दृष्टमिति यदैकः सिसृक्षति तदैवेतरः सञ्जि­ही­र्ष­ती­त्य­प­र्या­येण सृष्टिसंहारौ स्याताम् । न चोभ­यो­र­पी­श्व­रत्वं व्याघातात् । एकस्य तु तदाधिपत्ये तद­भि­प्रा­या­नु­रो­धिनां सर्वे­षा­मै­क­म­त्यो­प­प­त्ते­र­दोषः । तत्रागन्तुकानां कार­णा­धी­न­ज­न्मै­श्व­र्याणां गृह्य­मा­ण­वि­शे­ष­त­या­स­म­त्वा­न्नि­त्यै­श्व­र्य­शा­लिनः स एव तेषामधीश इति तत्तन्त्रा विद्वांस इति पर­मे­श्व­र­व्या­पा­रस्य सर्गसंहारस्य नेशते ॥ १७ ॥

पूर्व­प­क्षि­णोऽ­नु­श­य­बी­ज­मा­शङ्क्य निराकरोति –
प्रत्य­क्षो­प­दे­शा­दिति चेन्ना­धि­का­रि­क­म­ण्ड­ल­स्थोक्तेः ।
यतः पर­मे­श्व­रा­धी­न­मै­श्वर्यं तस्मात्ततो न्यून­म­णि­मा­दि­मात्रं स्वाराज्यं न तु जद­त्स्र­ष्टृ­त्वम् । उक्तान्न्यायात् ॥ १८ ॥

विकारावर्ति च तथा हि स्थितिमाह ।
एतावानस्य महिमेति विकारवर्ति रूपमुक्तम् । ततो ज्यायांश्चेति निर्विकारं रूपम् । तथा पादोऽस्य विश्वा भूतानीति विकारवर्ति रूपम् , त्रिपादस्यामृतं दिवीति निर्विकारमाह रूपम् ॥ १९ ॥

दर्शयतश्चैवं प्रत्य­क्षा­नु­माने ।
दर्शयतश्चापरे श्रुतिस्मृती निर्विकारमेव रूपं भगवतस्ते च पठिते । एतदुक्तं भवतियदि ब्रूषे सगुणे ब्रह्म­ण्यु­पा­स्य­माने यथा तद्गुणस्य निरवग्रहत्वमपि वस्तुतोऽस्तीति निरवग्रहत्वे विदुषा प्राप्तव्यमिति तदनेन व्यभिचारयते । यथा सविकारे ब्रह्म­ण्यु­पा­स्य­माने वस्तुतः स्थितमपि निर्विकाररूपं न प्राप्यते तत्कस्य हेतोः, अत­त्क्र­तु­त्वा­दु­पा­स­कस्य । तथा तद्गुणोपासनया वस्तुतः स्थितमपि निरवग्रहत्वं नाप्यते । तत्त्वोपासनासु पुरु­ष­क्र­तु­त्वात् । उपासकस्य तदक्रतुत्वं च निर­व­ग्र­ह­त्व­स्यो­पा­स­न­वि­ध्य­गो­च­र­त्वा­द्वि­ध्य­धी­न­त्वा­च्चो­पा­स­नासु पुरु­ष­स्वा­त­न्त्र्या­भा­वा­त्स्वा­तन्त्र्ये वा प्राति­भ­त्व­प्र­स­ङ्गा­दिति ॥ २० ॥

भोग­मा­त्र­सा­म्य­लि­ङ्गाच्च ।
न केवलं स्वारा­ज्य­स्ये­श्व­रा­धी­न­त­या­ज­ग­त्स­र्ज­नम् , साक्षा­द्भो­ग­मा­त्रेण तेन परमेश्वरेण साम्याभिधानादपि व्यप­दे­श­लि­ङ्गा­दिति । भूतान्यवन्ति प्रीणयन्तीति भोजयन्तीति यावत् ।

सूत्रा­न्त­रा­व­ता­र­णाय शङ्कते –
नन्वेवं सति सातिशयत्वादिति ।
सह पर­मे­श्व­र­स्या­ति­श­येन वर्तत इति विदुष ऐश्वर्यं सातिशयम् । यच्च कार्यं सातिशयं तच्च यथा लौकिकमैश्वर्यम् । तदनेन कार्यत्वमुक्तम् । तथाच कार्य­त्वा­द­न्त­व­त्प्रा­प्त­मिति तच्च न युक्तमानन्त्येन तद्विदुषां तत्र प्रवृत्तेरिति ॥ २१ ॥

अत उत्तरं पठति –
अनावृत्तिः शब्दादनावृत्तिः शब्दात् ।
किम­र्चि­रा­दि­मा­र्गेण ब्रह्म­लो­क­प्रा­प्ता­ना­मै­श्व­र्य­स्या­न्त­वत्त्वं त्वया साध्यते । आहो­स्वि­च्च­न्द्र­लो­का­दिव ब्रह्म­लो­का­दे­त­ल्लो­क­प्रा­प्ति­र्मु­क्ते­र­न्त­व­त्त्वम् । तत्र पूर्वस्मिन् कल्पे सिद्धसाधनम् । उत्तरत्र तु श्रुति­स्मृ­ति­वि­रोधः । तद्विधानां च क्रम­मु­क्ति­प्र­ति­पा­द­ना­दिति ।

तत्त्व­म­सि­वा­क्या­र्थै­को­पा­स­ना­प­रान् प्रत्याह –
सम्य­ग्द­र्श­न­वि­ध्व­स्त­त­म­सा­मिति ।
द्विधाविद्यातमः । निरु­पा­धि­ब्र­ह्म­सा­क्षा­त्का­र­स्त­त्त्व­द­र्श­नम् ।

न चैतन्निर्वाणं स्वरू­पा­व­स्था­न­ल­क्षणं कार्यं येनानित्यं स्यादित्याह –
नित्यसिद्धेति ॥ २२ ॥
भङ्क्त्वा वाद्य­सु­रे­न्द्र­वृ­न्द­म­खि­ला­वि­द्यो­प­धा­ना­तिगं येना­म्ना­य­प­यो­नि­धे­र्न­य­पथा ब्रह्मामृतं प्राप्यते ।
सोऽयं शाङ्क­र­भा­ष्य­जा­त­वि­षयो वाचस्पतेः सादरं सन्दर्भः परिभाव्यतां सुमतयः स्वार्थेषु को मत्सरः ॥ १ ॥
अज्ञानसागरं तीर्त्वा ब्रह्म­त­त्त्व­म­भी­प्स­ताम् ।
नीतिनौकर्णधारेण मयापूरि मनोरथः ॥ २ ॥
यन्न्या­य­क­णि­का­त­त्त्व­स­मी­क्षा­त­त्त्व­बि­न्दुभिः ।
यन्न्या­य­सा­ङ्ख्य­यो­गानां वेदान्तानां निबन्धनैः ॥ ३ ॥
समचैषं महत्पुण्यं तत्फलं पुष्कलं मया ।
समर्पितमथैतेन प्रीयतां परमेश्वरः ॥ ४ ॥
नृपान्तराणां मनसाप्यगम्यां भ्रूक्षे­प­मा­त्रेण चकार कीर्तिम् ।
कार्त­स्व­रा­सा­र­सु­पू­रि­ता­र्थ­सार्थः स्वयं शास्त्र­वि­च­क्ष­णश्च ॥ ५ ॥
नरेश्वरा यच्च­रि­ता­नु­का­र­मि­च्छन्ति कर्तुं नच पारयन्ति ।
तस्मिन्महीपे महनीयकीर्तौ श्रीम­न्नृ­गेऽ­कारि मया निबन्धः ॥ ६ ॥
इति श्रीवा­च­स्प­ति­मि­श्र­वि­र­चिते शङ्क­र­भ­ग­व­त्पा­द­भा­ष्य­वि­भागे भामत्यां चतु­र्थ­स्या­ध्या­यस्य चतुर्थः पादः समाप्तः ।