भामतीव्याख्या
आवृत्त्यधिकरणविषयाः
अथ चतुर्थोऽध्यायः
नाभ्यर्थ्या इह सन्तः स्वयं प्रवृत्ता न चेतरे शक्याः ।
मत्सरपित्तनिबन्धनमचिकित्स्यमरोचकं येषाम् ॥ १ ॥
शङ्के सम्प्रति निर्विशङ्कमधुना स्वराज्यसौख्यं वहन्नेन्द्रः सान्द्रतपःस्थितेषु कथमप्युद्वेगमभ्येष्यति ।
यद्वाचस्पतिमिश्रनिर्मितमितव्याख्यानमात्रस्फुटद्वेदान्तार्थविवेकवञ्चितभवाः स्वर्गेऽप्यमी निःस्पृहाः ॥ २ ॥
आवृत्तिरसकृदुपदेशात् ।
साधनानुष्ठानपूर्वकत्वात्फलसिद्धेर्विषयक्रमेण विषयिणोरपि तद्विचारयोः क्रममाह –
तृतीयेऽध्याय इति ।
मुक्तिलक्षणस्य फलस्यात्यन्तपरोक्षत्वात्तदर्थानि दर्शनश्रवणमनननिदिध्यासनानि चोद्यमानान्यदृष्टार्थानीति यावद्विधानमनुष्ठेयानि न तु ततोऽधिकमावर्तनीयानि प्रमाणाभावात् । यत्र पुनः सकृदुपदेश उपासीतेत्यादिषु तत्र सकृदेव प्रयोगः प्रयाजादिवदिति प्राप्त उच्यते । यद्यपि मुक्तिरदृष्टचरी तथापि सवासनाविद्योच्छेदेनात्मनः स्वरूपावस्थानलक्षणायास्तस्याः श्रुतिसिद्धत्वादविद्यायाश्च विद्योत्पादविरोधितया विद्योत्पादेन समुच्छेदस्याहिविभ्रमस्येव रज्जुतत्त्वसाक्षात्कारेण समुच्छेदस्योपपत्तिसिद्धत्वादन्वयव्यतिरेकाभ्यां च श्रवणमनननिदिध्यासनाभ्यासस्यैव स्वगोचरसाक्षात्कारफलत्वेन लोकसिद्धत्वात्सकलदुःखविनिर्मुक्तैकचैतन्यात्मकोऽहमित्यपरोक्षरूपानुभवस्यापि श्रवणाद्यभ्याससाधनत्वेनानुमानात्तदर्थानि श्रवणादीनि दृष्टार्थानि भवन्ति । न च दृष्टार्थत्वे सत्यदृष्टार्थत्वं युक्तम् । न चैतान्यनावृत्तानि सत्कारदीर्घकालनैरन्तर्येण साक्षात्कारवते तादृशानुभवाय कल्पन्ते । न चात्रासाक्षात्कारवद्विज्ञानं साक्षात्कारवतीमविद्यामुच्छेत्तुमर्हति । न खलु पित्तोपहृतेन्द्रियस्य गुडे तिक्ततासाक्षात्कारोऽन्तरेणमाधुर्यसाक्षात्कारं सहस्रेणाप्युपपत्तिभिर्निवर्तितुमर्हति । अतद्वतो नरान्तरवचांसि वोपपत्तिसहस्राणि वा परामृशतोऽपि थूत्कृत्य गुडत्यागात् । तदेवं दृष्टार्थत्वाद्ध्यानोपासनयोश्चान्तर्नीतावृत्तिकत्वेन लोकतः प्रतीतेरावृत्तिरेवेति सिद्धम् ॥ १ ॥
लिङ्गाच्च ।
अधिकरणार्थमुक्त्वा निरुपाधिब्रह्मविषयत्वमस्याक्षिपति –
अत्राह भवतु नामेति ।
साध्ये ह्यनुभवे प्रत्ययावृत्तिरर्थवती नासाध्ये ।
नहि ब्रह्मानुभवो ब्रह्मसाक्षात्कारो नित्यशुद्धस्वभावाद्ब्रह्मणोऽतिरिच्यते । तथाच नित्यस्य ब्रह्मणः स्वभावो नित्य एवेति कृतमत्र प्रत्ययावृत्या । तदिदमुक्तम् –
आत्मभूतमिति ।
आक्षेप्तारं प्रतिशङ्कते –
सकृच्छ्रुताविति ।
अयमभिसन्धिः न च ब्रह्मात्मभूतस्तत्साक्षात्कारोऽविद्यामुच्छिनत्ति तया सहानुवृत्तेरविरोधात् । विरोधे वा तस्य नित्यत्वान्नाविद्योदीयेत कुत एव तु तेन सहानुवर्तेत । तस्मात्तन्निवृत्तये आगन्तुकस्तत्साक्षात्कार एषितव्यः । तथाच प्रत्ययानुवृत्तिरर्थवती ।
आक्षेप्ता सर्वपूर्वोक्ताक्षेपेण प्रत्यवतिष्ठते –
न आवृत्तावपीति ।
न खलु ज्योतिष्टोमवाक्यार्थप्रत्ययः शतशोऽप्यावर्तमानः साक्षात्कारप्रमाणं स्वविषये जनयति । उत्पन्नस्यापि तादृशो दृष्टव्यभिचारत्वेन प्रातिभत्वात् । ब्रह्मात्मत्वप्रतीतिं ब्रह्मात्मसाक्षात्कारम् ।
पुनः शङ्कते –
न केवलं वाक्यमिति ।
आक्षेप्ता दूषयति –
तथाप्यावृत्त्यानर्थक्यमिति ।
वाक्यं चेद्युक्त्यपेक्षं साक्षात्काराय प्रभवति तथा सति कृतमावृत्या । सकृत्प्रवृत्तस्यैव तस्य सोपपत्तिकस्य यावत्कर्तव्यकरणादिति ।
पुनः शङ्कते –
अथापि स्यादिति ।
न युक्तिवाक्ये साक्षात्कारफले प्रत्यक्षस्यैव प्रमाणस्य तत्फलत्वात् । ते तु परोक्षार्थावगाहिनी सामान्यमात्रमभिनिविशेते नतु विशेषं साक्षात्कुरुत इति तद्विशेषसाक्षात्कारायावृत्तिरुपास्यते । सा हि सत्कारदीर्घकालनैरन्तर्यसेविता सती दृढभूमिर्विशेषसाक्षात्काराय प्रभवति कामिनीभावनेव स्त्रैणस्य पुंस इति ।
आक्षेप्ताह –
न । असकृदपीति ।
स खल्वयं साक्षात्कारः शास्त्रयुक्तियोनिर्वा स्याद्भावनामात्रयोनिर्वा । न तावत्परोक्षाभासविज्ञानफले शास्त्रयुक्ती साक्षात्कारलक्षणं प्रत्यक्षप्रमाणफलं प्रसोतुमर्हतः । न खलु कुटजबीजाद्वटाङ्कुरो जायते । नच भावनाप्रकर्षपर्यन्तजमपरोक्षावभासमपि ज्ञानं प्रमाणं व्यभिचारादित्युक्तम् ।
आक्षेप्ता स्वपक्षमुपसंहरति –
तस्माद्यदीति ।
आक्षेप्ताक्षेपान्तरमाह –
नच सकृत्प्रवृत्ते इति ।
कश्चित्खलु शुद्धसत्त्वोगर्भस्थ इव वामदेवः श्रुत्वा च मत्वा च क्षणमवधाय जीवात्मनो ब्रह्मात्मतामनुभवति । ततोऽप्यावृत्तिरनर्थिकेति ।
अतश्चावृत्तिरनर्थिका यन्निरंशस्य ग्रहणमद्ग्रहणं वा न तु व्यक्ताव्यक्तत्वे सामान्यवशेषवत्पद्मरागादिवदित्यत आह –
अपि चानेकांशेति ।
समाधत्ते –
अत्रोच्यते भवेदावृत्त्यानर्थक्यमिति ।
अयमभिसन्धिः सत्यं न ब्रह्मसाक्षात्कारः साक्षादागमयुक्तिफलमपि तु युक्त्यागमार्थज्ञानाहितसंस्कारसचिवं चित्तमेव ब्रह्मणि साक्षात्कारवतीं बुद्धिवृत्तिं समाधत्ते । सा च नानुमानितवह्निसाक्षात्कारवत्प्रातिभत्वेनाप्रमाणं तदानीं वह्निस्वलक्षणस्य परोक्षत्वात्सदातनं तु ब्रह्मस्वरूपस्योपाधिरूषितस्य जीवस्यापरोक्षत्वम् । नहि शुद्धबुद्धत्वादयो वस्तुतस्ततोऽतिरिच्यन्ते । जीव एव तु तत्तदुपाधिरहितः शुद्धादिस्वभावो ब्रह्मेति गम्यते । नच तत्तदुपाधिविरहोऽपि ततोऽतिरिच्यते । तस्माद्यथा गान्धर्वशास्त्रार्थज्ञानाभ्यासाहितसंस्कारः सचिवेन श्रोत्रेण षड्जादिस्वरग्राममूर्च्छनामेदमध्यक्षेणेक्षते एवं वेदान्तार्थज्ञानाहितसंस्कारो जीवस्य ब्रह्मस्वभावमन्तःकरणेनेति ।
यस्तत्त्वमसीति सकृदुक्तमेवेति ।
श्रुत्वा मत्वा क्षणमवधाय प्राग्भवीयाभ्यासजातसंस्कारादित्यर्थः ।
यस्तु न शक्नोतीति ।
प्राग्भवीयब्रह्माभ्यासरहित इत्यर्थः ।
नहि दृष्टेऽनुपपन्नं नामेति ।
यत्र परोक्षप्रतिभासिनि वाक्यार्थेऽपि व्यक्ताव्यक्तत्वतारतम्यं तत्र मननोत्तरकालमाध्यासनाभ्यासनिकर्षप्रकर्षक्रमजन्मनि प्रत्ययप्रवाहे साक्षात्कारावधौ व्यक्तितारतम्यं प्रति कैव कथेति भावः । तदेवं वाक्यमात्रस्यार्थेऽपि न द्रागित्येव प्रत्यय इत्युक्तम् । तत्त्वमसीति तु वाक्यमत्यन्तदुर्ग्रहपदार्थं न पदार्थज्ञानपूर्वके स्वार्थे ज्ञाने द्रागित्येव प्रवर्तते ।
किन्तु विलम्बिततमपदार्थज्ञानमतिविलम्बेनेत्याह –
अपिच तत्त्वमसीत्येतद्वाक्यं त्वम्पदार्थस्येति ।
स्यादेतत्पदार्थसंसर्गात्मा वाक्यार्थः पदार्थज्ञानक्रमेण तदधीननिरूपणीयतया क्रमवत्प्रतीतिर्युज्यते । ब्रह्म तु निरंशत्वेनाससृष्टनानात्वपदार्थकमिति कस्यानुक्रमेम क्रमवती प्रतीतिरिति सकृदेव तद्गृह्येत न वा गृह्यतेत्युक्तमित्यत आह –
यद्यपि च प्रतिपत्तव्य आत्मा निरंश इति ।
निरंशोऽप्यहमपरोक्षोऽप्यात्मा तत्तद्देहाद्यारोपव्युदासाभ्यामंशवानिवात्यन्तपरोक्ष इव । ततश्च वाक्यार्थतया क्रमवत्प्रत्यय उपपद्यते ।
तत्किंमियमेव वाक्यजनिता प्रतीतिरात्मनि तथाच न साक्षात्प्रतीतिरात्मन्यनागतफलत्वादस्य इत्यत आह –
तत्तु पूर्वरूपमेवात्मप्रतिपत्तेः
साक्षात्कारवत्याः । एतदुक्तं भवति वाक्यार्थश्रवणमननोत्तरकाला विशेषणत्रयवती भावना ब्रह्म साक्षात्काराय कल्पत इति वाक्यार्थप्रतीतिः साक्षात्कारस्य पूर्वरूपमिति ।
शङ्कते –
सत्यमेवमिति ।
समारोपो हि तत्त्वप्रत्ययेनापोद्यते न तत्त्वप्रत्ययः । दुःखित्वादिप्रत्ययश्चात्मनि सर्वेषां सर्वदोत्पद्यत इत्यबाधितत्वात्समीचीन इति बलवान्न शक्योऽपनेतुमित्यर्थः ।
निराकरोति –
न । देहाद्यभिमानवदिति ।
नहि सर्वेषां सर्वदोत्पद्यत इत्येतावता तात्त्विकत्वम् । देहात्माभिमानस्यापि सत्यत्वप्रसङ्गात्सोऽपि सर्वेषां सर्वदोत्पद्यते । उक्तं चास्य तत्र तत्रोपपत्त्या बाधनमेवं दुःखित्वाद्यभिमानोऽपि तथा । नहि नित्यशुद्धबुद्धस्वभावस्यात्मना उपजनापायधर्माणो दुःखशोकादय आत्मानो भवितुमर्हन्ति । नापि धर्माः तेषां ततोत्यन्तभिन्नानां तद्धर्मत्वानुपपत्तेः, नहि गौरश्वस्य धर्मः सम्बन्धस्यापि व्यतिरेकाव्यतिरेकाभ्यां सम्बन्धासम्बन्धाभ्यां च विचारासहत्वात् । भेदाभेदयोश्च परस्परविरोधेनैकत्रासम्भवात् । इति सर्वमेतदुपपादितं द्वितीयाध्याये ।
तदिदमुक्तम् –
देहादिवदेव चैतन्याद्बहिरुपलभ्यमानत्वादिति ।
इतश्च दुःखित्वादीनां न तादात्म्यमित्याह –
सुषुप्तादिषु चेति ।
स्यादेतत् । कस्मादनुभवार्थ एवावृत्त्यभ्युपगमो यावता द्रष्टव्यः श्रोतव्य इत्यादिभिस्तत्वमसिवाक्यविषयादन्यविषयैवावृत्तिर्विधास्यत इत्यत आह –
तत्रापि न तत्त्वमसिवाक्यार्थादिति ।
आत्मा वा अरे द्रष्टव्य इत्याद्यात्मविषयं दर्शनं विधीयते । न च तत्त्वमसीवाक्यविषयादन्यदात्मदर्शनमाम्नातं येनोपक्रम्यते येन चोपसंह्रियते स वाक्यार्थः । सदेव सोम्येदमिति चोपक्रम्य तत्त्वमसीत्युपसंहृत इति स एव वाक्यार्थः । तदितः प्राच्याव्यावृत्तिमन्यत्र विदधानः प्रधानमङ्गेन विहन्ति । वरो हि कर्मणाभिप्रेयमाणत्वात्सम्प्रदानं प्रधानम् । तमुद्वाहेन कर्मणाङ्गेन न विघ्नन्तीति ।
ननु विधिप्रधानत्वाद्वाक्यस्य न भूतार्थप्रधानत्वं भूतस्त्वर्थस्तदङ्गतया प्रत्याय्यते । यथाहुः “चोदना हि भूतं भवन्तम्” इत्यादि शाबरं वाक्यं व्याचक्षाणाः “कार्यमर्थमवगमयन्ती चोदना तच्छेषतया भूतादिकमवगमयति” इत्याशङ्क्याह –
नियुक्तस्य चास्मिन्नधिकृतोऽहमिति ।
यथा तावद्भूतार्थपर्यवसिता वेदान्ता न कार्यविधिनिष्ठास्तथोपपादितं “तत्तु समन्वयात्”(ब्र. सू. १ । १ । ४) इत्यत्र । प्रत्युत विधिनिष्ठत्वे मुक्तिविरुद्धप्रत्ययोत्पादान्मुक्तिविहन्तृत्वमेवास्येत्यभ्युच्चयमात्रमत्रोक्तमिति ॥ २ ॥
आत्मेति तूपगच्छन्ति ग्राहयन्ति च ।
यद्यपि तत्त्वमसीत्याद्याः श्रुतयः संसारिणः परमात्मभावं प्रतिपादयन्ति तथापि तयोरपहतपाप्मत्वानपहतपाप्मत्वादिलक्षणविरुद्धधर्मसंसर्गेण नानत्वस्य विनिश्चयाच्छ्रुतेश्च तत्वमसीत्यद्याया “मनो ब्रह्म”(छा. उ. ३ । १८ । १) , “आदित्यो ब्रह्म”(छा. उ. ३ । १९ । १) इत्यादिवत्प्रतीकोपदेशपरतयाप्युपपत्तेः प्रतीकोपदेश एवायम् । नच यथा समारोपितं सर्पत्वमनूद्य रज्जुत्वं पुरोवर्तिनो द्रव्यस्य विधीयत एवं प्रकाशात्मनो जीवभावमनूद्य परमात्मत्वं विधीयत इति युक्तम् । युक्तं हि पुरोवर्तिनि द्रव्ये द्राघीयसि सामान्यरूपेणालोचिते विशेषरूपेणागृहीते विशेषान्तरसमारोपणम् । इह तु प्रकाशात्मनो निर्विशेषसामान्यस्यापराधीनप्रकाशस्य नागृहीतमस्ति किञ्चिद्रूपमिति कस्य विशेषस्याग्रहे किं विशेषान्तरं समारोप्यताम् । तस्माद्ब्रह्मणो जीवभावारोपासम्भवाज्जीवो जीवो ब्रह्म च ब्रह्मेति तत्त्वमसीति प्रतीकोपदेश एवेति प्राप्तम् ।
एवं प्राप्तेऽभिधीयते - श्वेतकेतोरात्मैव परमेश्वरः प्रतिपत्तव्यो न तु श्वेतकेतोर्व्यतिरिक्तः परमेश्वरः । भेदे हि गौणत्वापत्तिर्न च मुख्यसम्भवे गौणत्वं युक्तम् । अपिच प्रतीकोपदेशे सकृद्वचनं तु प्रतीयते भेददर्शननिन्दा च( ? ) । अभ्यासे हि भूयस्त्वमर्थस्य भवति, नाल्पत्वमतिदवीय एवोपचरितत्वम् । तस्मात्पौर्वापर्यालोचनया श्रुतेस्तावज्जीवस्य परमात्मता वास्तवीत्येतत्परता लक्ष्यते । नच मानान्तरवीरोधादत्राप्रामाण्यं श्रुतेः । नच मानान्तरविरोध इत्यादि तु सर्वमुपपादितं प्रथमेऽध्याये । निरंशस्यापि चानाद्यनिर्वाच्याविद्यातद्वासनासमारोपितविविधप्रपञ्चात्मनः सांशस्येव कस्यचिदंशस्याग्रहणाद्विभ्रम इव परमार्थस्तु न विभ्रमो नाम कश्चिन्न च संसारो नाम । किन्तु सर्वमेतत्सर्वानुपपत्तिभाजनत्वेनानिर्वचनीयमिति युक्तमुत्पश्यामः । तदनेनाभिसन्धिनोक्तम् –
यद्येवं प्रतिबद्धोऽसि नास्ति कस्यचिदप्रतिबोध इति ।
अन्येऽप्याहुः “यद्यद्वैते न तोषोऽस्ति मुक्त एवासि सर्वदा” इति । अतिरेहितार्थमन्यदिति ॥ ३ ॥
न प्रतीके न हि सः ।
यथा हि शास्त्रोक्तं शुद्धमुक्तस्वभावं ब्रह्मात्मत्वेनैव जीवेनोपास्यतेऽहं ब्रह्मास्मि तत्त्वमसि श्वेतकेतो इत्यादिषु तत्कस्य हेतोर्जीवात्मनो ब्रह्मरूपेण तात्विकत्वादद्वितीयमिति श्रुतेश्च । जीवात्मानश्चाविद्यादर्पणा यथा ब्रह्मप्रतिबिम्बकास्तथा यत्र यत्र मनो ब्रह्मादित्यो ब्रह्मेत्यादिषु ब्रह्मदृष्टेरुपदेशस्तत्र सर्वत्राहं मन इत्यादि द्रष्टव्यं ब्रह्मणो मुख्यमात्मत्वमिति । उपपन्नं च मनःप्रभृतीनां ब्रह्मविकारत्वेन तादात्म्यम् । घटशरावोदञ्चनादीनामिव मृद्विकाराणां मृदात्मकत्वम् । तथाच तादृशानां प्रतीकोपदेशानां क्वचित्कस्यचिद्विकारस्य प्रविलयावगमाद्भेदप्रपञ्चप्रविलयपरत्वमेवेति प्राप्त उच्यते - न तावदहं ब्रह्मेत्यादिभिर्यथाहङ्कारास्पदस्य ब्रह्मात्मत्वमुपदिश्यते एवं मनो ब्रह्मेत्यादिभिरहङ्कारास्पदत्वं मनःप्रभृतीनां, किन्त्वेषां ब्रह्मत्वेनोपास्यत्वम् । अहङ्कारास्पदस्य ब्रह्मतया ब्रह्मत्वेनोपासनीयेषु मनःप्रभृतिष्वप्यहङ्कारास्पदत्वेनोपासनमिति चेत् । न । एवमादिष्वहमित्यश्रवणात् । ब्रह्मात्मतया त्वहङ्कारास्पदत्वकल्पने तत्प्रतिबिम्बस्येव तद्विकारान्तरस्याप्याकाशादेर्मनःप्रभृतिषूपासनप्रसङ्गः । तस्माद्यस्य यन्मात्रात्मतयोपासनं विहितं तस्य तन्मात्रात्मतयैव प्रतिपत्तव्यं “यावद्वचनं वाचनिकम्” इति न्यायात् । नाधिकमध्याहर्तव्यमतिप्रसङ्गात् । नच सर्वस्य वाक्यजातस्य प्रपञ्चस्य विलयः प्रयोजनम् । तदर्थत्वे हि मन इति प्रतीकग्रहणमनर्थकं विश्वमिति वाच्यं यथा सर्वं खल्विदं ब्रह्मेति । नच सर्वोपलक्षणार्थं मनोग्रहणं युक्तम् । मुख्यार्थसम्भवे लक्षणाया अयोगात् । आदित्यो ब्रह्मेत्यादीनां चानर्थक्यापत्तेः ।
नह्युपासकः प्रतीकानीति ।
अनुभवाद्वा प्रतीकानां मनःप्रभृतीनामात्मत्वेनाकलनं श्रुतेर्वा, न त्वेतदुभयमस्तीत्यर्थः ।
प्रतीकाभावप्रसङ्गादिति ।
ननु यथावच्छिन्नस्याहङ्करास्पदस्यानवच्छिन्नब्रह्मात्मतया भवत्यभाव एवं प्रतीकानामपि भविष्यतीत्यत आह –
स्वरूपोपमर्दे च नामादीनामिति ।
इह हि प्रतीकान्यहङ्कारास्पदत्वेनोपास्यतया प्रधानत्वेन विधित्सितानि । नतु तत्त्वमसीत्यादावहङ्कारास्पदमुपास्यमवगम्यते । किन्तु सर्पत्वानुवादेन रज्जुतत्त्वज्ञापन इवाहङ्कारास्पदस्यावच्छिन्नस्य प्रविलयोऽवगम्यते । किमतो यद्येवम् । एतदतो भवति प्रधानीभूतानां न प्रतीकानामुच्छेदो युक्तो नच तदुच्छेदे विधेयस्याप्युपपत्तिरिति ।
अपिच –
नच ब्रह्मण आत्मत्वादिति ।
नह्युपासनविधानानि जीवात्मनो ब्रह्मस्वभावप्रतिपादनपरैस्तत्त्वमस्यादिसन्दर्भैरेकवाक्यभावमापद्यन्ते येन तदेकवाक्यतया ब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिः कल्पेत भिन्नप्रकरणत्वात् । तथाच तत्र यथालोकप्रतीतिव्यवस्थितो जीवः कर्ता भोक्ता च संसारी न ब्रह्मेति कथं तस्य ब्रह्मात्मतयाब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिरुपदिश्यतेत्यर्थः ।
अतश्चोपासकस्य प्रतीकैः समत्वादिति ।
यद्यप्युपासको जीवात्मा न ब्रह्मविकारः, प्रतीकानि तु मनःप्रभृतीनि ब्रह्मविकारस्तथाप्यवच्छिन्नतया जीवात्मनः प्रतीकैः साम्यं दृष्टव्यम् ॥ ४ ॥
ब्रह्मदृष्टिरुत्कर्षात् ।
यद्यपि सामानाधिकरण्यमुभयथापि घटते तथापि ब्रह्मणः सर्वाध्यक्षतया फलप्रसवसामर्थ्येन फलवत्त्वात्प्राधान्येन तदेवादित्यादिदृष्टिभिः संस्कर्तव्यमित्यादित्यादिदृष्टयो ब्रह्मण्येव कर्तव्या न तु ब्रह्मदृष्टिरादित्यादिषु । न चैवंविधेऽवधृते शास्त्रार्थे निकृष्टदृष्टिर्नोत्कृष्ट इति लौकिको न्यायोऽपवादाय प्रभवत्यागमविरोधेन तस्यैवापोदितत्वादिति पूर्वपक्षसङ्क्षेपः । सत्यं सर्वाध्यक्षतया फलदातृत्वेन ब्रह्मण एव सर्वत्र वास्तवं प्राधान्यं तथापि शब्दगत्यनुरोधेन क्वचित्कर्मण एव प्राधान्यमवसीयते । यथा “दर्शपूर्णमासाभ्यां यजेत स्वर्गकामः”, “चित्रया यजेत पशुकामः” इत्यादौ । अत्र हि सर्वत्र यागाद्याराधिता देवतैव फलं प्रयच्छतीति स्थापितं तथापि शब्दतः कर्मणः करणत्वावगमने फलवत्त्वप्रतीतेः प्राधान्यम् । क्वचिद्द्रव्यस्य यथा व्रीहीन्प्रोक्षतीत्यादौ । तदुक्तं “यैस्तु द्रव्यं सञ्चिकीर्ष्यते गुणस्तत्र प्रतीयते” इति । तदिह यद्यपि सर्वाध्यक्षतया वस्तुतो ब्रह्मैव फलं प्रयच्छति तथापि शास्त्रं ब्रह्मबुद्ध्याऽदित्यादौ प्रतीक उपास्यमाने ब्रह्म फलाय कल्पते इत्यभिवदति किंवादित्यादिबुद्ध्या ब्रह्मैव विषयीकृतं फलायेत्युभयथापि ब्रह्मणः सर्वाध्यक्षस्य फलदानोपपत्तेः शास्त्रार्थसन्देहे लोकानुसारतो निश्चीयते ।
तदिदमुक्तम् –
निर्धारिते शास्त्रार्थ एतदेवं स्यादिति ।
न केवलं लौकिको न्यायो निश्चये हेतुरपि तु आदित्यादिशब्दानां प्राथम्येन मुख्यार्थत्वमपीत्याह –
प्राथम्याच्चेति ।
इति परत्वमपि ब्रह्मशब्दस्यामुमेव न्यायमवगमयति । तथाहि स्वरप्रवृत्या आदित्यादिशब्दा यथा स्वार्थे वर्तन्ते तथा ब्रह्मशब्दोऽपि स्वार्थे वर्त्स्यति यदि स्वार्थोऽस्य विवक्षितः स्यात् । तथाचेतिपरत्वमनर्थकं तस्मादितिना स्वार्थात्प्रच्याव्य ब्रह्मपदं ज्ञानपरं स्वरूपपरं वा कर्तव्यम् ।
नच ब्रह्मपदमादित्यादिपदार्थ इति, प्रतीतिपर एवायमितिपरः शब्दो यथा गौरिति मे गवयोऽभवदिति । तथाच आदित्यादयो ब्रह्मेति प्रतिपत्तव्या इत्यर्थो भवतीत्याह –
इतिपरत्वादपि ब्रह्मशब्दस्येति ।
शेषमतिरोहितार्थम् ॥ ५ ॥
आदित्यादिमतयश्चाङ्ग उपपत्तेः ।
अथवा नियमेनोद्गीथादिमतय आदित्यादिष्वध्यस्येरन्निति ।
सत्स्वपि आदित्यादिषु फलानुत्पादादुत्पत्तिमतः कर्मण एव फलदर्शनात्कर्मैव फलवत् । तथा चादित्यादिमतिभिर्यद्युद्गीथादिकर्माणि विषयीक्रियेरंस्तत आदित्यादिदृष्टिभिः कर्मरूपाण्यभिभूयेरन् ॥ एवंच कर्मरूपेष्वसत्कल्पेषु कुतः फलमुत्पद्येत । आदित्यादिषु पुनरुद्गीथादिदृष्टावुद्गीथादिबुद्ध्योपास्यमाना आदित्यादयः कर्मात्मकाः सन्तः फलाय कल्पिष्यन्त इति । अत एव च पृथिव्यग्न्योरृक्सामशब्दप्रयोग उपपन्नो यतः पृथिव्यामृग्दृष्टिरध्यस्ताग्नौ च सामदृष्टिः ।
साम्नि पुनरग्निदृष्टौ ऋचि च पृथिवीदृष्टौ विपरीतं भवेत् । तस्मादप्येतदेव युक्तमित्याह –
तथाचेयमेवेति ।
उपपत्त्यन्तरमाह –
अपिच लोकेष्विति ।
एवं खल्वधिकरणनिर्देशो विषयत्वप्रतिपादनपर उपपद्यते यदि लोकेषु सामदृष्टिरध्यस्येत नान्यथेति ।
पूर्वाधिकरणराद्धान्तोपपत्तिमत्रैवार्थे ब्रूते –
प्रथमनिर्दिष्टेषु चेति ।
सिद्धान्तमत्र प्रक्रमते –
आदित्यादिमतय एवेति ।
यद्युद्गीथादिमतय आदित्यादिषु क्षिप्येरंस्तत आदित्यादीनां स्वयमकार्यत्वादुद्गीथादिमतेस्तत्र वैयर्थ्यं प्रसज्येत । नह्यादित्यादिभिः किञ्चित्क्रियते यद्विद्यया वीर्यवत्तरं भवेदादित्यादिमत्या विद्ययोद्गीथादिकर्मसु कार्येषु यदेव विद्यया करोति तदेव वीर्यवत्तरं भवतीत्यादित्यमतीनामुपपद्यते उद्गीथादिषु संस्कारकत्वेनोपयोगः ।
चोदयति –
भवतु कर्मसमृद्धिफलेष्वेवमिति ।
यत्र हि कर्मणः फलं तत्रैवं भवतु यत्र तु गुणात्फलं तत्र गुणस्य सिद्धत्वेनाकार्यत्वात्करोतीत्येव नास्तीत्यत्र विद्यायाः क्व उपयोग इत्यर्थः ।
परिहरति –
तेष्वपीति ।
न तावद्गुणः सिद्धस्वभावः कार्याय फलाय पर्याप्तः, मा भूत्प्रकृतकर्मानिवेशिनो यत्किञ्चित्फलोत्पादः, तस्मात्प्रकृतापूर्वसंनिवेशिनः फलोत्पाद इति तस्य क्रियमाणत्वेन विद्यया वीर्यवत्तरत्वोपपत्तिरिति ।
फलात्मकत्वाच्चादित्यादीनामिति ।
यद्यपि ब्रह्मविकारत्वेनादित्योद्गीथयोरविशेषस्तथापि फलात्मकत्वेनादित्यादीनामस्त्युद्गीथादिभ्यो विशेष इत्यर्थः ।
द्वितीयानिर्देशादप्युद्गीथादीनां प्राधान्यमित्याह –
अपि चोमितीति ।
स्वयमेवोपासनस्य कर्मत्वात्फलवत्त्वोपपत्तेः ।
ननूक्तं सिद्धरूपैरादित्यादिभिरध्यस्तैः साध्यभूतत्वमभिभूतङ्कर्मणामित्यत आह –
आदित्यादिभावेनापि च दृश्यमानानामिति ।
भवेदेतदेवं यद्यध्यासेन कर्मरूपमभिभूयेत । अपि तु माणवक इवाग्निदृष्टिः केनचित्तीव्रत्वादिना गुणेन गौण्यनभिभूतमाणवकत्वात्तथेहापि । नहीयं शुक्तिकायां रजतधीरिव वह्निधीर्येन माणवकत्वमभिभवेत् । किन्तु गौणी । तथेयमप्युद्गीथादावादित्यदृष्टिर्गौणीति भावः ।
तदेतस्यामृच्यध्यूढंसामेति त्विति ।
अन्यथापि लक्षणोपपत्तौ न ऋक्सामेत्यध्यासकल्पना पृथिव्यग्न्योरित्यर्थः ।
अक्षरन्यासालोचनया तु विपरीतमेवेत्याह –
इयमेवर्गिति ।
“लोकेषु पञ्चविधं सामोपासीत”(छा. उ. २ । २ । ३) इति द्वितीयानिर्देशात्साम्नामुपास्यत्वमवगम्यते । तत्र यदि सामधीरध्यस्येत ततो न सामान्युपास्येरनपि तु लोकाः पृथिव्यादयः । तथा च द्वितीयार्थं परित्यज्य तृतीयार्थः परिकल्प्येत साम्नेति । लोकेष्विति सप्तमी द्वितीयार्थे कथञ्चिन्नीयते । अगारे गावो वास्यन्तां प्रावारे कुसुमानीतिवत् । तेनोक्तन्यायानुरोधेन सप्तम्याश्चोभयथाप्यवश्यं कल्पनीयार्थत्वाद्वरं यथाश्रुतद्वितीयार्थानुरोधाय तृतीयार्थे सप्तमी व्याख्यातव्या ।
लोकपृथिव्यादिबुद्ध्या पञ्चविधं हिङ्कारप्रस्तावोङ्कारोद्गीथप्रतिहारोपद्रवनिधनप्रकारं सामोपासीतेति, तत्र को विनिगमनायां हेतुरित्यत आह –
तत्रापीति ।
तत्रापि समस्तस्य सप्तविधस्य साम्न उपासनमिति साम्न उपास्यत्वश्रुतेः साध्विति पञ्चविधस्य । साधुत्वं चास्य धर्मत्वम् । तथाच श्रुतिः “साधुकारी साधुर्भवति”(बृ. उ. ४ । ४ । ५) इति । हिङ्कारानुवादेन पृथिवीदृष्टिविधाने हिङ्कारः पृथिवीति प्राप्ते विपरीतनिर्देशः पृथिवी हिङ्कारः ॥ ६ ॥
आसीनः सम्भवात् ।
कर्माङ्गसंबन्धिषु यत्र हि तिष्ठतः कर्म चोदितं तत्र तत्सम्बद्धोपासनापि तिष्ठतैव कर्तव्या । यत्र त्वासीनस्य तत्रोपासनाप्यासीनेनैवेति । नापि सम्यग्दर्शने वस्तुतन्त्रत्वात्प्रमाणतन्त्रत्वाच्च । प्रमाणतन्त्रा च वस्तुव्यवस्था प्रमाणं च .....नापेक्षत इति तत्राप्यनियमः( ? ) । यन्महता प्रयत्नेन विनोपासितुमशक्यं यथा प्रतीकादि, यथा वा सम्यग्दर्शनमपि तत्त्वमस्यादि, तत्रैषा चिन्ता । तत्र चोदकशास्त्राभावादनियमे प्राप्ते यथा शक्यत इत्युपबन्धादासीनस्यैव सिद्धम् । ननु यस्यामवस्थायां ध्यायतिरुपचर्यते प्रयुज्यते किमसौ तदा तिष्ठतो न भवति न भवतीत्याह । आसीनश्चाविद्यमानायासो भवतीति । अतिरोहितार्थमितरत् ॥ ७ ॥
ध्यानाच्च ॥ ८ ॥
अचलत्वं चापेक्ष्य ॥ ९ ॥
स्मरन्ति च ॥ १० ॥
यत्रैकाग्रता तत्राविशेषात् ।
समे शुचौ शर्करावह्निवालुकाविवर्जित इत्यादिवचनान्नियमे सिद्धे दिग्देशादिनियममवाचनिकमपि प्राचीनप्रवणे वैश्वदेवेन यजेतेतिवद्वैदिकारम्भसामान्यात्क्वचित्कश्चिदाशङ्कते । तमनुग्रहीतुमाचार्यः सुहृद्भावेनैव तदाह स्म । यत्रैकाग्रता मनस्तत्रैव भावनां प्रयोजयेत् । ओविशेषात् । नह्यत्रास्ति वैश्वदेवादिवद्वचनं विशेषेकं तस्मादिति ॥ ११ ॥
आ प्रायणात्तत्रापि हि दृष्टम् ।
अधिकरणविषयं विवेचयति –
तत्र यानि तावदिति ।
अविद्यमाननियोज्या या ब्रह्मात्मत्वप्रतिपत्तिस्तस्याः । शास्त्रं हि नियोज्यस्य कार्यरूपनियोगसम्बन्धमवबोधयति तस्यैव कर्मण्यैश्वर्यलक्षणमधिकारं तच्चैतदुभयमतीन्द्रियत्वाद्भवति शास्त्रलक्षणं प्रमाणान्तराप्राप्ये शास्त्रस्यार्थवत्त्वाद्ब्रह्मात्वप्रतीतेस्तु जीवन्मुक्तेन दृष्टत्वान्नास्तीह तिरोहितमिव किञ्चनेति किमत्र शास्त्रं करिष्यति । नन्वेवमप्यभ्युदयफलान्युपासनानि तत्र नियोज्यनियोगलक्षणस्य च कर्मणि स्वामितालक्षणस्य च सम्बन्धस्यातीन्द्रियत्वात्तत्र सकृत्करणादेव शास्त्रार्थसमाप्तौ प्राप्तायामुपासनपदवेदनीयावृत्तिमात्रमेव कृतवत उपरमः प्राप्तस्तावतैव कृतशास्त्रार्थत्वादिति प्राप्तेऽभिधीयते - सविज्ञानो भवतीत्यादिश्रुतेर्यत्र स्वर्गादिफलानामपि कर्मणां प्रायणकाले स्वर्गादिविज्ञानापेक्षकत्वं तत्र कैव कथातीन्द्रियफलानामुपासनानाम् । तानि खलु आप्रायणं तत्तदुपास्यगोचरबुद्धिप्रवाहवाहितया दृष्टेनैव रूपेण प्रायणसमये तद्बुद्दिं भावयिष्यन्ति । किमत्र फलवत्प्रायणसमये बुद्ध्याक्षेपेण नहि दृष्टे सम्भवत्यदृष्टकल्पना युक्ता । तस्मादाप्रायणं प्रवृत्ता वृत्तिरिति ।
तदिदमुक्तम् –
प्रत्ययास्त्वेत इति ।
तथा च श्रुतिः सर्वातीन्द्रियविषया “स यथाक्रतुरस्माल्लोकात्प्रैति तात्क्रतुर्हामुं लोकं प्रेत्याभिसम्भवति” इति । क्रतुः सङ्कल्पविशेषः । स्मृतयश्चोदाहृता इति ॥ १२ ॥
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ।
गतस्तृतीयशेषः साधनगोचरो विचारः । इदानीमेतदध्यायगतफलविषया चिन्ता प्रतन्यते । तत्र तावत्प्रथममिदं विचार्यते किं ब्रह्माधिगमे ब्रह्मज्ञाने सति ब्रह्मज्ञानफलान्मोक्षाद्विपरीतफलं दुरितं बन्धनफलं क्षीयते न क्षीयत इति संशयः । किं तावत्प्राप्तं, शास्त्रेण हि फलाय यद्विहितं प्रतिषिद्धं चानर्थपरिहारायाश्वमेधादि ब्रह्महत्यादि चापूर्वावान्तरव्यापारं किं तदपूर्वमुपरतेऽपि कर्मण्यत्र सुखदुःखोपभोगात्प्राङ्गाविरन्तुमर्हति । स हि तस्य विनाशहेतुस्तदभावे कथं विनश्येदिति । तस्याकस्मिकत्वप्रसङ्गात्शास्त्रव्याकोपाच्चेति । अदत्तफलं चेत्कर्मापूर्वं विनश्यति कर्मण एव फलप्रसवसामर्थ्यबोधकशास्त्रमप्रमाणं भवेत् । नच प्रायश्चित्तमिव ब्रह्मज्ञानमदत्तफलान्यपि कर्मापूर्वाणि क्षिणोतीति साम्प्रतम् । प्रायश्चित्तानामपि तदप्रक्षयहेतुत्वात्तद्विधानस्य चैनस्विनराधिकारिप्राप्तिमात्रेणोपपत्तावुपात्तदुरितनिबर्हणफलाक्षेपकत्वायोगात् । अत एव स्मरन्ति नाभुक्तं क्षीयते कर्मेति । यदि पुनरपेक्षितोपायतात्मा प्रायश्चित्तविधिर्न नियोज्यविशेषप्रतिलम्भमात्रेण निर्वृणोतीत्यपेक्षिताकाङ्क्षायां दोषसंयोगेन श्रवणात्तन्निबर्हणफलः कल्पेत । तथापि ब्रह्मज्ञानस्य तत्संयोगेनाश्रवणान्नदुरितनिबर्हणसामर्थ्ये प्रमाणमस्ति मोक्षवत् । तस्यापि स्वर्गादिफलवद्देशकालनिमित्तापेक्षयोपपत्तेः । शास्त्रप्रामाण्यात्सम्भविष्यत्यसाववस्था यस्यामुपभोगेन समस्तकर्मक्षये ब्रह्मज्ञानं मोक्षं प्रसोष्यति । योगार्ध्द्यैव वा दिवि भुव्यन्तरिक्षे बहूनि शरीरेन्द्रियाणि निर्माय फलान्युपभुज्यर्द्धेन योगसामर्थ्येन योगी कर्माणि क्षपयित्वा मोक्षी सम्पत्स्यते । स्थिते चैतस्मिन्नर्थे न्यायबलाद्यथा पुष्करपलाश इत्यादिव्यपदेशो ब्रह्मविद्यास्तुतिमात्रपरतया व्याख्येय इति प्राप्त उच्यते - व्याख्यायेतैवं व्यपदेशो यदि कर्मविधिविरोधः स्यान्न त्वयमस्ति । शास्त्रं हि फलोत्पादनसामर्थ्यमात्रं कर्मणामवगमयति न तु कुतश्चिदागन्तुकान्निमित्ततः प्रायश्चित्तादेस्तदप्रतिबन्धमपि । तस्य तत्रौदासीन्यात् । यदि शास्त्रबोधितफलप्रसवसामर्थ्यमप्रतिबद्धमागन्तुकेन केनचित्कर्मणा ततस्तत्फलं प्रसूत एवेति न शास्त्रव्याघातः । नाभुक्तं कर्म क्षीयत इति च स्मरणमप्रतिबद्धसामर्थ्यकर्माभिप्रायम् । दोषक्षयोद्धेशेन चापरविद्यानामस्ति प्रायश्चित्तवद्विधानमैश्वर्यफलानामप्युभयसंयोगाविशेषात् । यत्रापि निर्गुणायां परविद्यायां दोषोद्धेशो नास्ति तत्रापि तत्स्वभावालोचनादेव तत्प्रक्षयप्रसवसामर्थ्यमवसीयते । नहि तत्त्वमसिवाक्यार्थपरिभावनाभुवा प्रसङ्ख्यानेन निर्मृष्टनिखिलकर्तृभोक्तृत्वादिविभ्रमो जीवः फलोपभोगेन युज्यते । नहि रज्ज्वां भुजङ्गसमारोपनिबन्धना भयकम्पादयः सति रज्जुतत्त्वसाक्षात्कारे प्रभवन्ति, किन्तु संस्कारशेषात्किञ्चित्कालमनुवृत्ता अपि निवर्तन्त एव । अमुमेवार्थमनुवदन्तो यथा पुष्करपलाश इत्यादयो व्यपदेशाः समवेतार्थाः सन्तो न स्तुतिमात्रतया कथञ्चिद्व्याख्यानमर्हन्ति ।
ननूक्तं सम्भविष्यति सावस्था जीवात्मनो यस्यां पर्यायेणोपभोगाद्वा योगर्द्धेः प्रभावतो युगपन्नैकविधकायनिर्माणेनापर्यायेणोपभोगाद्वा जन्तुः कर्माणि क्षपयित्वा मोक्षी सम्पत्स्यत इत्यत आह –
एवमेव च मोक्ष उपपद्यत इति ।
अनादिकालप्रवृत्ता हि कर्माशया अनियतकालविपाकाः क्रमवता तावद्भोगेन क्षेतुमशक्याः । भुञ्जानः खल्वयमपरानपि सञ्चिनोति कर्माशयानिति । नाप्यपर्यायमुपभोगेनासक्तः कर्मान्तराण्यसञ्चिन्वानः क्षेष्यतीति साम्प्रतम् । कल्पशतानि क्रमकालभोग्यानां सम्प्रति भोक्तुमसामर्थ्यात् । दीर्घकालफलानि च कर्माणि कथमेकपदे क्षेष्यन्ति । तस्मान्नान्यथा मोक्षसम्भवः ।
ननु सत्स्वपि कर्माशयान्तरेषु सुखदुःखफलेषु मोक्षफलात्कर्मणः समुदाचरतो ब्रह्मभावमनुभूयाथ लब्धविपाकानां कर्मान्तराणां फलानि भोक्ष्यन्त इत्यत आह –
नच देशकालनिमित्तापेक्ष इति ।
नहि कार्यः सन्मोक्षो मोक्षो भवितुमर्हति ब्रह्मभावो हि सः । नच ब्रह्म क्रियते नित्यत्वादित्यर्थः । परोक्षत्वानुपत्तेश्च ज्ञानफलस्य । ज्ञानफलं खलु मोक्षोऽभ्युपेयते । ज्ञानस्य चानन्तरभाविनी ज्ञेयाभिव्यक्तिः फलं, सैवाविद्योच्छेदमादधती ब्रह्मस्वभावस्वरूपावस्थानलक्षणाय मोक्षाय कल्पते । एवं हि दृष्टार्थता ज्ञानस्य स्यात् । अपूर्वाधानपरम्परया ज्ञानस्य मोक्षफले कल्प्यमाने ज्ञानस्य परोक्षफलत्वमदृष्टार्थत्वं भवेत् । नच दृष्टे सम्भवत्यदृष्टकल्पना युक्तेत्यर्थः । तस्माद्ब्रह्माधिगमे ब्रह्मज्ञाने सत्यद्वैतसिद्धौ दुरितक्षय इति सिद्धम् ॥ १३ ॥
इतरस्याप्येवमसंश्लेषः पाते तु ।
अधर्मस्य स्वाभाविकत्वेन रागादिनिबन्धनत्वेन शास्त्रीयेण ब्रह्मज्ञानेन प्रतिबन्धो युक्तः । धर्मज्ञानयोस्तु शास्त्रीयत्वेन, ज्योतिष्टोमदर्शपौर्णमासवदविरोधान्नोच्छेद्योच्छेत्तृभावो युज्यते । पाप्मनश्च विशेषतो ब्रह्मज्ञानोच्छेद्यत्वश्रुतेर्धर्मस्य न तदुच्छेद्यत्वम् । विशेषविधानस्य शेषप्रतिषेधनान्तरीयकत्वेन लोकतः सिद्धेः । यथा देवदत्तो दक्षिणेनाक्ष्णा पश्यतीत्युक्ते न वामेन पश्यतीति गम्यते । उभे ह्येवैष एते तरतीति च यथासम्भवं, ब्रह्मज्ञानेन दुष्कृतं भोगेन सुकृतमिति । “क्षीयन्ते चास्य कर्माणि”(मु. उ. २ । २ । ९) इति च सामान्यवचनं “सर्वे पाप्मानः”(छा. उ. ५ । २४ । ३) इति विशेषश्रवणात्पापकर्माणीति विशेषे उपसंहरणीयम् । तस्माद्ब्रह्मज्ञानाद्दुष्कृतस्यैव क्षयो न सुकृतस्येति प्राप्ते पूर्वाधिकरणराद्धान्तोऽतिदिश्यते । नो खलु ब्रह्मविद्या केनचिददृष्टेन द्वारेण दुष्कृतमपनयत्यपि तु दृष्टेनैव भोक्तृभोक्तव्यभोगादिप्रविलयद्वारेण तच्चैतत्तुल्यं सुकृतेपीति कथमेतदपि नोच्छिन्द्यात् । एवं च सति न शास्त्रीयत्वसाम्यमात्रमविरोधहेतुर्नहि प्रत्यक्षत्वसामान्यमात्रादविरोधो जलानलादीनाम् । नच सुकृतशास्त्रमनर्थकमब्रह्मविदं प्रति तद्विधेरर्थवत्त्वात् । एवमवस्थिते च पाप्मश्रुत्या पुण्यमपि ग्रहीतव्यम् । ब्रह्मज्ञानमपेक्ष्य पुण्यस्य निकृष्टफलत्वात्तत्फलं हि क्षयातिशयवत् । नह्येवं मोक्षो निरतिशयत्वान्नित्यत्वाच्च । दृष्टप्रयोगश्चायं पाप्मशब्दो वेदे पुण्यपापयोः । तद्यथा पुण्यपापे अनुक्रम्य सर्वे पाप्मानोऽतो निवर्तन्त इत्यत्र । तस्मादविशेषेण पुण्यपापयोरश्लेषविनाशाविति सिद्धम् ॥ १४ ॥
अनारब्धकार्य एव तु पूर्वे तदवधेः ।
यद्यद्वैतज्ञानस्वभावालोचनयोत्तरपूर्वसुकृतदुष्कृतयोरश्लेषविनाशौ हन्त आरब्धानारब्धकार्ययोश्चाविशेषेणैव विनाशः स्यात् । कर्तृकर्मादिप्रविलयस्योभयत्राविशेषात् । तन्निबन्धनत्वाच्च विनाशस्य । नच संस्कारशेषात्कुलालचक्रभ्रमणवदनुवृत्तिः । वस्तुनः खल्वनुवृत्तिः । मायावादिनश्च पुण्यपापयोश्च मायामात्रविनिर्मितत्वेन मायानिवृत्तौ न पुण्यापुण्ये न तत्संस्कारो वस्तुसन्तीति कस्यानुवृत्तिः । नच रज्जौ सर्पादिविभ्रमजनिता भयकम्पादयो निवृत्तेऽपि विभ्रमे यथानुवर्तन्ते तथेहापीति युक्तम् । तत्रापि सर्पासत्त्वेऽपि तज्ज्ञानस्य सत्त्वे तज्जनितभयकम्पादीनां तत्संस्काराणां च वस्तुसत्त्वेन निवृत्तेऽपि विभ्रमेऽनिवृत्तेः । अत्र तु न माया न तज्जः संस्कारो न तद्गोचर इति तुच्छत्वात्किमनुवर्तेत । न संस्कारशेषो न कर्मेत्यविशेषेणारब्धकार्याणामनारब्धकार्याणां च निवृत्तिः । नच तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति श्रुतेर्देहपातप्रतीक्षारब्धकार्याणां युक्ता । नह्येषा श्रुतिरवधिभेदविधायिन्यपि तु क्षिप्रतापरा । यथा लोक एतावन्मे चिरं यत्स्नातो भुञ्जानश्चेति । नहि तत्र स्नानभोजने अवधित्वेन विधीयेते किं तु क्षेपीयस्ता प्रतिपाद्यते । उभयविधाने हि वाक्यं भिद्येतावधिभेदः चिरता चेति प्राप्तेऽभिधीयते यद्यप्यद्वैतब्रह्मतत्त्वसाक्षात्कारोऽनाद्यविद्योपदर्शितप्रपञ्चमात्रविरोधितया तन्मध्यपतितसकलकर्मविरोधी । तथाप्यनारब्धविपाकं कर्मजातं द्रागित्येव समुच्छिनत्ति न त्वारब्धविपाकं सम्पादितजात्यायुर्विततपूर्वापरीभूतसुखदुःखोपभोगप्रवाहं कर्मजातम् । तद्धि समुदाचरद्वृत्तितयेतरेभ्यःप्रसुप्तवृत्तिभ्यो बलवत् । अन्यथा देवर्षीणां हिरण्यगर्भमनूद्दालकप्रभृतीनां विगलितनिखिलक्लेशजालावरणतया परितः प्रद्योतमानबुद्धिसत्त्वानां न ज्योग्जीविता भवेत् । श्रूयते चैषां श्रुतिस्मृतीतिहासपुराणेषु तत्त्वज्ञता च महाकल्पकल्पमन्वन्तरादिजीविता च । न चैते महाधियो न ब्रह्मविदो ब्रह्मविदश्चाल्पपुण्यमेधसो मनुष्या इति श्रद्धेयम् । तस्मादागमानुसारतोऽस्ति प्रारब्धविपाकानां कर्मणां प्रक्षयाय तदीयसमस्तफलोपभोगप्रतीक्षा सत्यपि तत्त्वसाक्षात्कारे ।
तावदेव चिरमिति न चिरता विधीयते । अपि तु श्रुत्यन्तरसिद्धां चिरतामनूद्य देहपातावधिमात्रविधानं तदेतदभिसन्धायौचित्यमात्रतयाह स्म भगवान् भाष्यकारः –
न तावदनाश्रित्यारब्धकार्यं कर्माशयमिति ।
न चेदं न जातु दृष्टं यद्विरोधिसमवाये विरोद्ध्यन्तरमनुवर्तत इत्याह –
अकर्त्रात्मबोधोऽपीति ।
यदा लोकेऽपि विरोधिनोः किञ्चित्कालं सहानुवृत्तिरुपलब्धा तदेहागमबलाद्दीर्घकालमपि भवतीति न शक्या निवारयितुम् । प्रमाणसिद्धस्य नियोगपर्यनुयोगानुपपत्तेः । तदेवं मध्यस्थान्प्रतिपाद्य ये भाष्यकारमाप्तं मन्यन्ते तान् प्रत्याह
अपिच नैवात्र विवदितव्यमिति ।
स्थितप्रज्ञश्च न साधकस्तस्योत्तरोत्तरध्यानोत्कर्षेण पूर्वप्रत्ययानवस्थितत्वात् । निरतिशयस्तु स्थितप्रज्ञः । स च सिद्ध एव । नच ज्ञानकार्या भयकम्पादयः, ज्ञानमात्रादनुत्पादात् । सर्पावच्छेदो हि तस्य भयकम्पादिहेतुः । स चासन्न निर्वचनीय इति कुतो वस्तुसतः कर्योत्पादः । नच कार्यमपि भयकम्पादि वस्तुसत् । तस्यापि विचारासहत्वेनानिर्वाच्यत्वात् । अनिर्वाच्याच्चानिर्वाच्योत्पत्तौ नानुपपत्तिः । यादृशो हि यक्षस्तादृशो बलिरिति सर्वमवदातम् ॥ १५ ॥
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ।
यदि पुण्यस्याप्यश्लेषविनाशौ हन्त नित्यमप्यग्निहोत्रादि न कर्तव्यं योगमारूरुक्षुणा । तस्यापीतरपुण्यवद्विद्यया विनाशात् । “प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरमि” ति न्यायात् । नच विविदिषन्ति यज्ञेन दानेनेति मोक्षलक्षणैककार्यतया विद्याकर्मणोरविरोधः । सहासम्भवेनैककार्यत्वासम्भवात् । नह्येतमात्मानं विदुषो विगलिताखिलकर्तृभोक्तृत्वादिप्रपञ्चविभ्रमस्य पूर्वोत्तरे नित्ये क्रियाजन्ये पुण्ये सम्भवतः । तस्माद्विविदिषन्ति यज्ञेनेति वर्तमानापदेशो ब्रह्मज्ञानस्य यज्ञादीनां वा स्तुतिमात्रं न तु मोक्षमाणस्य मुक्तिसाधनं यज्ञादिविधिरिति प्राप्त उच्यते - सत्यं न विद्ययैककार्यत्वं कर्मणां परस्परविरोधेन सहासम्भवात् । विद्योत्पादकतया तु कर्मणामारादुपकारकाणामस्तु मोक्षोपयोगः । नच कर्मणां विद्यया विरुध्यमानानां न विद्याकारणत्वं, स्वकारणविरोधिनां कार्याणां बहुलमुपलब्धेः । तथाच विद्यालक्षणकार्योपायतया कार्यविनाश्यानामपि कर्मणामुपादानमर्थवत् । तदभावे तत्कार्यस्यानुत्पादेन मोक्षस्यासम्भवात् । एवंच विविदिषन्ति यज्ञेनेति यज्ञसाधनत्वं विद्याया अपूर्वमर्थं प्रापयतः पञ्चमलकारस्य नात्यन्तपरोक्षवृत्तितया ज्ञानस्तुत्यर्थतया कथञ्चिद्व्याख्यानं भविष्यति ।
तदनेनाभिसंधिनोक्तम् –
ज्ञानस्यैव हि प्रापकं सत्कर्म प्रणाड्या मोक्षकारणमित्युपचर्यते ।
यत एव न विद्योदयसमये कर्मास्ति नापि परस्तादपि तु प्रागेव विद्यायाः, अत एव चातिक्रान्तविषयमेतत्कार्यैकत्वाभिधानम् ।
एतदेव स्फोरयति –
नहि ब्रह्मविद इति ॥ १६ ॥
सूत्रान्तरमवतारयितुं पृच्छति –
किंविषयं पुनरिदमिति ।
अस्योत्तरं सूत्रम् –
अतोऽन्यापि ह्येकेषामुभयोः ।
काम्यकर्मविषयमश्लेषविनाशवचनं शाखान्तरीयवचनं च तस्य पुत्रा दायमुपयन्तीति ॥ १७ ॥
यदेव विद्ययेति हि ।
अस्ति विद्यासंयुक्तं यज्ञादि य एवं विद्वान्यजेतेत्यादिकम् । अस्ति च केवलम् । तत्र यथा ब्राह्मणाय हिरण्यं दद्यादित्युक्ते विदुषे ब्राह्मणाय दद्यान्न ब्राह्मणब्रुवाय मूर्खायेति विशेषप्रतिलम्भः तत्कस्य हेतोस्तस्यातिशयवत्त्वात् । एवं विद्यारहिताद्यज्ञादेर्विद्यासहितमतिशयवदिति तस्यैव परविद्यासाधनत्वमुपात्तदुरितक्षयद्वारा नेतरस्य । तस्माद्विविदिषन्ति यज्ञेनेत्यविशेषश्रुतमपि विद्यासहिते यज्ञादावुपसंहर्तव्यमिति प्राप्तेऽभिधीयते - यदेव विद्यया करोति तदेवास्य वीर्यवत्तरमिति तरबर्थश्रुतेर्विद्यारहितस्य वीर्यवत्तामात्रमवगम्यते । नच सर्वथाकिञ्चित्करस्य तदुपपद्यते । तस्मादस्त्यस्यापि कयापि मात्रया परविद्योत्पादोपयोग इति विद्यारहितमपि यज्ञादि परविद्यार्थिनानुष्ठेयमिति सिद्धम् ॥ १८ ॥
भोगेन त्वितरे क्षपयित्वा सम्पद्यते ।
अनारब्धकार्य इत्यस्य नञः फलं भोगेन निवृत्तिं दर्शयत्यनेन सूत्रेण । अस्य तूपपादनं पुरस्तादपकृष्य कृतमिति नेह क्रियते पुनरुक्तिभयात् ॥ १९ ॥
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां चतुर्थस्याध्यायस्य प्रथमः पादः समाप्तः ॥
चतुर्थेऽध्याये द्वितीयः पादः ।
वाङ्मनसि दर्शनाच्छब्दाच्च ।
अथास्मिन् फलविचारलक्षणे वाङ्मनसि सम्पद्यत इत्यादिविचारोऽसङ्गत इत्यत आह –
अथापरासु विद्यासु फलप्राप्तय इति ।
अपरविद्याफलप्राप्त्यर्थदेवयानमार्गार्थत्वादुत्क्रान्तेस्तद्गतो विचारः पारम्पर्येण भवति फलविचार इति नासङ्गत इत्यर्थः ।
नन्वयमुत्क्रान्तिक्रमो विदुषो नोपपद्यते “न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते”(बृ. उ. ४ । ४ । ६) इति श्रवणात्तत्कथमस्य विद्याधिकार इत्यत आह –
समाना हि विद्वदविदुषोरिति ।
विषयमाह –
अस्तीति ।
विमृशति –
किमिहेति ।
विशयः संशयः ।
पूर्वपक्षमाह –
तत्र वागेवेति ।
श्रतिलक्षणाविशये संशये ।
सिद्धान्तसूत्रं पूरयित्वा पठति –
वाग्वृत्तिर्मनसि सम्पद्यते इति ।
वृत्त्यध्याहारप्रयोजनं प्रश्नपूर्वकमाह –
कथमिति ।
उत्तराधिकरणपर्यालोचनेनैवं पूरितमित्यर्थः । तत्त्वस्य धर्मिणो वाचः प्रलयविवक्षायां त्विह सर्वत्रैव परत्रेह चाविभागसाम्यात्किं परत्रैव विशिंष्यादविभाग इति न त्वत्रापि । तस्मादिहाविभागेनाविंशिषतोऽत्र वृत्त्युपसंहारमात्रविवक्षा सूत्रकारस्येति गम्यते ।
सिद्धान्तहेतुं प्रश्नपूर्वकमाह –
कस्मादिति ।
सत्यामेव मनोवृत्तौ वाग्वृत्तेरुपसंहारदर्शनात् । वाचस्तूपसंहारमदृष्टं नागमोऽपि गमयितुमर्हति । आगमप्रभवयुक्तिविरोधाच्च । आगमो हि दृष्टानुसारतः प्रकृतौ विकाराणां लयमाह । न च वाचः प्रकृतिर्मनो येनास्मिन्नियं लीयेत । तस्माद्वृत्तिवृत्तिमतोरभेदविवक्षया वाक्पदं तद्वृत्तौ व्याख्येयम् । सम्भवति च वाग्वृत्तेर्वागप्रकृतावपि मनसि लयः । तथा तत्र तत्र दर्शनादित्याह –
वृत्त्युद्भवाभिभवाविति ॥ १ ॥
अत एव च सर्वाण्यनु ।
यत एव प्रकृतिविकारभावाभावान्मनसि न स्वरूपलयो वाचोऽपि तु वृत्तिलयः, अत एव च सर्वेषां चक्षुरादीनामिद्रियाणां सत्येव सवृत्तिके मनसि वृत्तेरनुगतिर्लयो न स्वरूपलयः । वाचस्तु पृथक्ग्रहणं पूर्वसूत्रे उदाहरणापेक्षं न तु तदेवेह विवक्षितमित्यर्थः ॥ २ ॥
तन्मनः प्राण उत्तरात् ।
यदि स्वप्रकृतौ विकारस्य लयस्ततो मनः प्राणे सम्पद्यते इत्यत्र मनःस्वरूपस्यैव प्राणे सम्पत्त्या भवितव्यम् । तथा हि मनः इति नोपचारतो व्याख्यानं भविष्यति । सम्भवति हि प्रकृतिविकारभावः प्राणमनसोः । अन्नमयं हि सोम्य मन इत्यन्नात्मतामाह मनसः श्रुतिरापोमयः प्राण इति च प्राणस्याबात्मताम् । प्रकृतिविकारयोस्तादात्म्यात् । तथा च प्राणो मनसः प्रकृतिरिति मनसो वृत्तिमतः प्राणे लय इति प्राप्तेऽभिधीयते सत्यम् , आपोऽन्नमसृजन्त इति श्रुतेरबन्नयोः प्रकृतिविकारभावोऽवगम्यते । न तु तद्विकारयोः प्राणमनसोः । स्वयोनिप्रणाडिकया तु मिथो विकारयोः प्रकृतिविकारभावाभ्युपगमे सङ्करादतिप्रसङ्गः स्यात् । तस्माद्यो यस्य साक्षाद्विकारस्तस्य तत्र लय इत्यन्नस्याप्सु लयो न त्वब्विकारे प्राणेऽन्नविकारस्य मनसः । तथा चात्रापि मनोवृत्तेर्वृत्तिमति प्राणे लयो न तु वृत्तिमतो मनस इति सिद्धम् ॥ ३ ॥
सोऽध्यक्षे तदुपगमादिभ्यः ।
प्राणस्तेजसीति तेजःशब्दस्य भूतविशेषवचनत्वाद्विज्ञानात्मनि चाप्रसिद्धेः प्राणस्य जीवात्मन्युपगमानुगमावस्थानश्रुतीनां च तेजोद्धारेणाप्युपपत्तेः । तेजसि समापन्नवृत्तिः खलु प्राणः । तेजस्तु जीवात्मनि समापन्नवृत्ति । तद्द्वारा जीवात्मसमापन्नवृत्तिः प्राण इत्युपपद्यते । तस्मात्तेजस्येव प्राणवृत्तिप्रविलय इति प्राप्तेऽभिधीयते स प्रकृतः प्राणोऽध्यक्षे विज्ञानात्मन्यवतिष्ठते तत्तन्त्रवृत्तिर्भवति । कुतः उपगमानुगमावस्थानेभ्यो हेतुभ्यः ।
तत्रोपगमश्रुतिमाह –
एवमेवेममात्मानमिति ।
अनुगमनश्रुतिमाह –
तमुत्क्रामन्तमिति ।
अवस्थानश्रुतिमाह –
सविज्ञानो भवतीति चेति ।
विज्ञायतेऽनेनेति विज्ञानं पञ्चवृत्तिप्राणसहित इन्द्रियग्रामस्तेन सहावतिष्ठत इति सविज्ञानः ।
चोदयति –
ननु प्राणस्तेजसीति श्रूयत इति ।
अधिकावापोऽशब्दार्थव्याख्यानम् ।
परिहरति –
नैष दोष इति ।
यद्यपि प्राणस्तेजसीत्यतस्तेजसि प्राणवृत्तिलयः प्रतीयते, तथापि सर्वशाखाप्रत्ययत्वेन विद्यानां श्रुत्यन्तरालोचनया विज्ञानात्मनि लयोऽवगम्यते । न च तेजसस्तत्रापि लय इति साम्प्रतम् । तस्यानिलाकाशक्रमेण परमात्मनि तत्त्वलयावगमात् । तस्मात्तेजोग्रहणेनोपलक्ष्यते तेजः सहचरितदेहबीजभूतपञ्चभूतसूक्ष्मपरिचाराध्यक्षो जीवात्मा तस्मिन् प्राणवृत्तिरप्येतीति ।
चोदयति –
ननु चेयं श्रुतिरिति ।
तेजःसहचरितानि भूतान्युपलक्ष्यन्तां तेजःशब्देनाध्यक्षे तु किमायातं तस्य तदसाहचर्यादित्यर्थः ।
परिहरति –
सोऽध्यक्ष इत्यध्यक्षस्यापीति ।
यदा ह्ययं प्राणोऽन्तरालेऽध्यक्षं प्राप्याध्यक्षसम्पर्कवशादेव तेजःप्रभृतीनि भूतसूक्ष्माणि प्राप्नोति तदोपपद्यते प्राणस्तेजसीति ।
अत्रैव दृष्टान्तमाह –
योऽपि स्रुघ्नादिति ॥ ४ ॥
भूतेषु तच्छ्रुतेः ॥ ५ ॥
सूत्रान्तरमवतारयितुं पृच्छति –
कथं तेजःसहचरितेष्विति ।
नैकस्मिन् दर्शयतो हि ।
अत्र भाष्यकारोऽनुमानदर्शनमाह –
कार्यस्य शरीरस्येति ।
स्थूलशरीरानुरूपमनुमेयं सूक्ष्ममपि शरीरं पञ्चात्मकमित्यर्थः ।
दर्शयत इति सूत्रावयवं व्याचष्टे –
दर्शयतश्चैतमर्थमिति ।
प्रश्नप्रतिवचनाभिप्रायं द्विवचनं श्रुतिस्मृत्यभिप्रायं वा । अण्व्यो मात्राः सूक्ष्मा दशार्धानां पञ्चभूतानामिति ।
श्रुत्यन्तरविरोधं चोदयति –
ननु चोपसंहृतेषु वागादिष्विति ।
कर्माश्रयतेति प्रतीयते न भूताश्रयतेत्यर्थः ।
परिहरति –
अत्रोच्यत इति ।
ग्रहा इन्द्रियाणि अतिग्रहास्तद्विषयाः । कर्मणां प्रयोजकत्वेनाश्रयत्वं भूतानां तूपादानत्वेनेत्यविरोधः ।
प्रशंसाशब्दोऽपि कर्मणां प्रयोजकतया प्रकृष्टमाश्रयत्वं ब्रूते सति निकृष्ट आश्रयान्तरे तदुपपत्तेरित्याह –
प्रशंसाशब्दादपि तत्रेति ॥ ६ ॥
समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ।
अत्रामृतत्वप्राप्तिश्रुतेः परविद्यावन्तं प्रत्येतदिति मन्वानस्य पूर्वः पक्षः । विशयानानां सन्दिहानानां पुंसाम् ।
चोदयति –
ननु विद्याप्रकरण इति ।
परिहरति –
न स्वापादिवदिति ।
परविद्ययैवामृतत्वप्राप्त्यवस्थामाख्यातुं तत्सधर्माश्च तद्विधर्माश्चान्या अप्यवस्थास्तदनुगुणतयाख्यायन्ते । साधर्म्यवैधर्म्याभ्यां हि स्फुटतरः प्रतिपिपादयिषिते वस्तुनि प्रत्ययो भवतीति । न तु विदुषः सकाशाद्विशेषवन्तोऽविद्वांसो विधीयन्ते येन विद्याप्रकरणव्याघातो भवेदपि तु विद्यां प्रतिपादयितुं लोकसिद्धानां तदनुगुणतया तेषामनुवाद इति ।
एवं प्राप्तेऽभिधीयते –
समाना चैषोत्क्रान्तिर्वाङ्मनसीत्याद्या विद्वदविदुषोः ।
कुतः –
आसृत्युपक्रमात् ।
सृतिः सरणं देवयानेन पथा कार्यब्रह्मलोकप्राप्तिरासृतेराकार्यब्रह्मलोकप्राप्तेः । अयं विद्योपक्रम आरम्भः प्रयत्न इति यावत् । तस्मादेतदुक्तं भवति नेयं परा विद्या यतो नाडीद्वारमाश्रयते । अपि त्वपरविद्येयम् । न चास्यामात्यन्तिकः क्लेशप्रदाहो यतो न तत्रोत्क्रान्तिर्भवेत् । तस्मादपरविद्यासामर्थ्यादापेक्षिकमाभूतसम्प्लवस्थानममृतत्वं प्रेप्सते पुरुषार्थाय सम्भवत्येष उत्क्रान्तिभेदवान् सृत्युपक्रमोपदेशः । उपपूर्वादुष दाह इत्यस्मादुपोष्येति प्रयोगः ॥ ७ ॥
तदापीतेः संसारव्यपदेशात् ।
सिद्धां कृत्वा बीजभावावशेषं परमात्मसम्पत्तिं विद्वदविदुषोरुत्क्रान्तिः समर्थिता । सैव सम्प्रति चिन्त्यते । किमात्मनि तेजःप्रभृतीनां भूतसूक्ष्माणां तत्त्वप्रविलय एव सम्पत्तिराहोस्विद्बीजभावावशेषेति । यदि पूर्वः पक्षः, नोत्क्रान्तिः । अथोत्तरः ततः सेति । तत्राप्रकृतौ न विकारतत्त्वप्रविलयो यथा मनसि न वागादीनाम् । सर्वस्य च जनिमतः प्रकृतिः परा देवतेति तत्त्वप्रलय एवात्यन्तिकः स्यात्तेजःप्रभृतीनामिति प्राप्तेऽभिधीयते “योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥”(क. उ. २ । २ । ७) )इत्यविद्यावतः संसारमुपदिशति श्रुतिः सेयमात्यन्तिके तत्त्वलये नोपपद्यते ।
न च प्रायणस्यैवैष महिमा विद्वांसमविद्वांसं वा प्रतीति साम्प्रतमित्याह –
अन्यथा हि सर्वः प्रायणसमय एवेति ।
विधिशास्त्रं ज्योतिष्टोमादिविषयमनर्थकं प्रायणादेवात्यन्तिकप्रलये पुनर्भवाभावात् । मोक्षशास्त्रं चाप्रयत्नलभ्यात्प्रायणादेव जन्तुमात्रस्य मोक्षप्राप्तेः ।
न केवलं शास्त्रानर्थक्यमयुक्तश्च प्रायणमात्रान्मोक्ष इत्याह –
मिथ्याज्ञानेति ।
नासति निदानप्रशमे प्रशमस्तद्वतो युज्यत इत्यर्थः ॥ ८ ॥
अथेतरभूतसहितं तेजो जीवस्याश्रयभूतमुत्क्रमद्देहाद्देहान्तरं वा सञ्चरत्कस्मादस्माभिर्न निरीक्ष्यते । तद्धि महत्त्वाद्वानेकद्रव्यत्वाद्वा रूपवदुपलब्धव्यम् । कस्मान्न मूर्तान्तरैः प्रतिबध्यत इति शङ्कामपाकर्तुमिदं सूत्रम् –
सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ।
चकारो भिन्नक्रमः । न केवलमापीतेस्तदवतिष्ठते । तच्च सूक्ष्मं स्वरूपतः परिमाणतश्च स्वरूपमेव हि तस्य तादृशमदृश्यम् । यथा चाक्षुषस्य तेजसो महतोऽपि अदृष्टवशादनुद्भूतरूपस्पर्शं हि तत् ।
परिमाणतः सौक्ष्म्यं यतो नोपलभ्यते यथा त्रसरेणवो जालसूर्यमरीचिभ्योऽन्यत्र प्रमाणतस्तथोपलब्धिरिति व्याचष्टे –
तथाहि नाडीनिष्क्रमण इति ।
आदिग्रहणेन चक्षुष्टो वा मूर्ध्नो वा अन्येभ्यो वा शरीरदेशेभ्य इति सङ्गृहीतम् ।
अप्रतिघाते हेतुमाह –
स्वच्छत्वाच्चेति ।
एतदपि हि सूक्ष्मत्वेनैव सङ्गृहीतम् । यथा हि काचाभ्रपटलं स्वच्छस्वभावस्य न तेजसः प्रतिघातम् । एवं सर्वमेव वस्तुजातमस्येति ॥ ९ ॥
नोपमर्देनातः ।
अत एव च स्वच्छतालक्षणात्सौक्ष्म्यादसक्तत्वापरनाम्नः ॥ १० ॥
अस्यैव चोपपत्तेरेष ऊष्मा ।
उपपत्तिः प्राप्तिः । एतदुक्तं भवति दृष्टश्रुताभ्यामूष्मणोऽन्वयव्यतिरेकाभ्यामस्ति स्थूलाद्देहादतिरिक्तं किञ्चिच्चदामात्सूक्ष्मं शरीरमिति ॥ ११ ॥
प्रतिषेधादिति चेन्न शारीरात् ।
अधिकरणतात्पर्यमाह –
अमृतत्वं चानुपोष्येत्यतो विशेषणादिति ।
विषयमाह –
अथाकामयमान इति ।
सिद्धान्तिमतमाशङ्क्य तन्निराकरणेन पूर्वपक्षी स्वमतमवस्थापयति –
अतः परविद्याविषयात्प्रतिषेधादिति ।
यदि हि प्राणोपलक्षितस्य सूक्ष्मशरीरस्य जीवात्मनः स्थूलशरीरादुत्क्रान्तिं प्रतिषेधेच्छ्रुतिः तत एतदुपपद्यते । न त्वेतदस्ति । न तस्मात्प्राणा उत्क्रामन्तीति हि तदा सर्वनाम्ना प्रधानावमर्शिनाभ्युदयनिःश्रेयसाधिकृतो देही प्रधानं परामृश्यते । तथा च तस्माद्देहिनो न प्राणाः सूक्ष्मं शरीरमुत्क्रामन्त्यपि तु तत्सहितः क्षेत्रज्ञ एवोत्क्रामतीति गम्यते । स पुनरतिक्रम्य ब्रह्मनाड्या संसारमण्डलं हिरण्यगर्भपर्यन्तं सलिङ्गो जीवः परस्मिन्ब्रह्मणि लीयते तस्मात्परामपि देवतां विदुष उत्क्रान्तिरत एव मार्गश्रुतयः, स्मृतिश्च मुमुक्षोः शुकस्यादित्यमण्डलप्रस्थानं दर्शयतीति प्राप्तम् ॥ १२ ॥
एवं प्राप्ते प्रत्युच्यते –
स्पष्टो ह्येकेषाम् ।
नायं देह्यपादानस्य प्रतिषेधः । अपि तु देहापादानस्य । तथा हि आर्तभागप्रश्नोत्तरे ह्येकस्मिन्पक्षे संसारिण एव जीवात्मनोऽनुत्क्रान्तिं परिगृह्य न तर्ह्येष मृतः प्राणानामनुत्क्रान्तेरिति स्वयमाशङ्क्य प्राणानां प्रविलयं प्रतिज्ञाय तत्सिद्ध्यर्थमुत्क्रान्त्यवधेरुच्छ्वयनाध्माने ब्रुवन्यस्योच्छ्वयनाध्माने तस्य तदवधित्वमाह । शरीरस्य च ते इति शरीरमेव तदपादानं गम्यते ।
नन्वेवमप्यस्त्वविदुषः संसारिणो विदुषस्तु किमायातमित्यत आह –
तत्सामान्यादिति ।
ननु तदा सर्वनाम्ना प्रधानतया देही परामृष्टः तत्कथमत्र देहावगतिरित्यत आह –
अभेदोपचारेण ।
देहदेहिनोर्देहिपरामर्शिना सर्वनाम्ना देह एव परामृष्ट इति पञ्चमीपाठे व्याख्येयम् । षष्ठीपाठे तु नोपचार इत्याह –
येषां तु षष्ठीति ।
अपि च प्राप्तिपूर्वः प्रतिषेधो भवति नाप्राप्ते । अविदुषो हि देहादुत्क्रामणं दृष्टमिति विदुषोऽपि तत्सामान्याद्देहादुत्क्रमणे प्राप्ते प्रतिषेध उपपद्यते न तु प्राणानां जीवावधिकं क्वचिदुत्क्रमणं दृष्टं येन तन्निषिध्यते । अपिचाद्वैतपरिभावनाभुवा प्रसङ्ख्यानेन निर्मृष्टनिखिलप्रपञ्चावभासजातस्य गन्तव्याभावादेव नास्ति गतिरित्याह –
नच ब्रह्मविद इति ।
अपदस्य हि ब्रह्मविदो मार्गे पदैषिणोऽपि देवा इति योजना ।
चोदयति –
ननु गतिरपीति ।
परिहरति –
सशरीरस्यैवायं योगबलेन ।
अपरविद्याबलेनेति ॥ १३ ॥
स्मर्यते च ॥ १४ ॥
तानि परे तथा ह्याह ।
प्रतिष्ठाविलयनश्रुत्योर्विप्रतिपत्तेर्विमर्शस्तमपनेतुमयमारम्भः । तानि पुनः प्राणशब्दोदितानीन्द्रियाण्येकादश सूक्ष्माणि च भूतानि पञ्च ।
ब्रह्मविदस्तस्मिन्नेव परस्मिन्नात्मनीति ।
आरम्भबीजं विमर्शमाह –
ननु गताः कला इति ।
घ्राणमनसोरेकप्रकृतित्वं विवक्षित्वा पञ्चदशत्वमुक्तम् ।
अत्र श्रुत्योर्विषयव्यवस्थया विप्रतिपत्त्यभावमाह –
सा खल्विति ।
व्यवहारो लौकिकः सांव्यवहारिकप्रमाणापेक्षेयं श्रुतिः । न तात्त्विकप्रमाणापेक्षा । इतरा तु एवमेवास्य परिद्रष्टुः इत्यादिका विद्वत्प्रतिपत्त्यपेक्षा तात्त्विकप्रमाणापेक्षा । तस्माद्विषयभेदादविप्रतिपत्तिः श्रुत्योरिति ॥ १५ ॥
अविभागो वचनात् ।
निमित्तापाये नैमित्तिकस्यात्यन्तिकापायः । अविद्यानिमित्तश्च विभागो नाविद्यायां विद्यया समूलघातमपहतायां सावशेषो भवितुमर्हति । तथापि प्रविलयसामान्यात्सावशेषताशङ्कामतिमन्दामपनेतुमिदं सूत्रम् ॥ १६ ॥
तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ।
अपरविद्याविदोऽविदुषश्चोत्क्रान्तिरुक्ता । तत्र किं विद्वानविद्वांश्चाविशेषेण मूर्धादिभ्य उत्क्रामत्याहो विद्वान्मूर्धस्थानादेव, अपरे तु स्थानान्तरेभ्य इति । अत्र विद्यासामर्थ्यमपश्यतः पूर्वपक्षः । तस्योपसंहृतवागादिकलापस्योच्चिक्रमिषतो विज्ञानात्मन ओक आयतनं हृदयं तस्याग्रं तस्य ज्वलनं यत्तत्प्रकाशितद्वारो विनिष्क्रमद्वारो विद्वान्मूर्धस्थानादेव निष्क्रामति नान्येभ्यश्चक्षुरादिस्थानेभ्यः । कुतः विद्यासामर्थ्यात् हार्दविद्यासामर्थ्यात् । उत्कृष्टस्थानप्रतिलम्भाय हि हार्दविद्योपदेशः । मूर्धस्थानादनिष्क्रमणे च नोत्कृष्टदेशप्राप्तिः ।
अथ स्थानान्तरेभ्योऽप्युत्क्रामन्कस्माल्लोकमुत्कृष्टं न प्राप्नोतीत्यत आह –
तच्छेषगत्यनुस्मृतियोगाच्च ।
हार्दविद्याशेषभूता हि मूर्धन्या नाडी गत्यै उपदिष्टा । तदनुशीलनेन खल्वयं जीवो हार्देन सूपासितेन ब्रह्मणानुगृहीतस्तस्यानुस्मरंस्तद्भावमापन्नो मूर्धन्ययैव शताधिकया नाड्या निष्क्रामति । हृदयादुद्गता हि ब्रह्मनाडी भास्वरा तालुमूलं भित्त्वा मूर्धानमेत्य रश्मिभिरेकीभूता आदित्यमण्डलमनुप्रविष्टा तामनुशीलयतस्तयैवान्तकाले निर्गमनं भवतीति ॥ १७ ॥
रश्म्यनुसारी ।
रात्रावहनि चाविशेषेण रश्म्यनुसारी सन्नादित्यमण्डलं प्राप्नोतीति सिद्धान्तपक्षप्रतिज्ञा ॥ १८ ॥
पूर्वपक्षमाशङ्कते सूत्रावयवेन –
निशि नेति चेन् ।
सूत्रावयवान्तरेण निराकरोति –
न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च ।
यावद्देहभावि हि शिराकिरणसम्पर्कः प्रमाणान्तरात्प्रतीयते । दर्शयति चैतमर्थं श्रुतिरप्यशेषेण । अमुष्मादादित्यात्प्रतायन्ते रश्मयस्त आसु नाडीषु सृप्ता भवन्ति य आभ्यो नाडीभ्यः प्रतायन्ते विस्तार्यन्ते ते रश्मयोऽमुष्मिन्नादित्ये सृप्ताः ।
प्रतापादिकार्यदर्शनादिति ।
आदिग्रहणेन चन्द्रापः सङ्गृह्यन्ते । चन्द्रमसा खल्वम्मयेन सम्बध्यमानानां सूरीणां भासां चन्द्रिकात्वम् । तस्मादप्यस्ति निशि सौर्यरश्मिप्रचार इति । ये त्वाहुः स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छेदिति निरपेक्षश्रवणाद्रात्रौ प्रेते नास्ति रश्म्यपेक्षेति । तान्प्रत्याह –
यदि च रात्रौ प्रेत इति ।
नह्येतद्विशिष्याधीयतेऽध्येतारः । ये तु मन्यन्ते विद्वानपि रात्रिप्रायणापराधेन नोर्ध्वमाक्रमत इति तान्प्रत्याह –
अथ तु विद्वानपीति ।
नित्यवत्फलसम्बन्धेन विहिता विद्या न पाक्षिकफला युक्तेति ।
ये तु रात्रौ प्रेतस्य विदुषोऽहरपेक्षां सूर्यमण्डलप्राप्तिमाचक्षते तन्मतमाशङ्क्याह –
अथापि रात्राविति ।
यावत्तावदुपबन्धेनानपेक्षा गतिः श्रुता । न चापेक्षा शक्यावगमा उपबन्धविरोधादिति ॥ १९ ॥
अतश्चायनेऽपि दक्षिणे ।
अत एवेत्युक्तहेतुपरामर्श इत्याह –
अत एव चोदीक्षानुपपत्तेरिति ।
पूर्वपक्षबीजमाह –
उत्तरायणमरणप्राशस्त्य इति ।
अपनोदमाह –
प्राशस्त्यप्रसिद्धिरिति ।
अतःपदपरामृष्टहेतुबलादविदुषो मरणं प्रशस्तमुत्तरायणे विदुषस्तूभयत्राप्यविशेषो विद्यासामर्थ्यादिति । विदुषोऽपि च भीष्मस्योत्तरायणप्रतीक्षणमविदुष आचारं ग्राहयति “यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः”(भ. गी. ३-२१) इति न्यायात् । आपूर्यमाणपक्षादित्याद्या च श्रुतिर्न कालविशेषप्रतिपत्त्यर्था, अपि त्वातिवाहिकीर्देवताः प्रतिपादयतीति वक्ष्यति । तस्मादविरोधः ॥ २० ॥
सूत्रान्तरावतरणाय चोदयति –
ननु च यत्र काले त्विति ।
काल एवात्र प्राधान्येनोच्यते न त्वातिवाहिकी देवतेत्यर्थः ।
योगिनः प्रति च स्मर्यते स्मार्ते चैते ।
स्मार्तीमुपासनां प्रत्ययं स्मार्तः कालभेदविनियोगः प्रत्यासत्तेः न तु श्रौतीं प्रतीत्यर्थः । अत्र यदि स्मृतौ कालभेदविधिः श्रुतौ चाग्निज्योतिरादिविधिस्तत्राग्न्यादीनामातिवाहिकतया विषयव्यवस्थया विरोधाभाव उक्तः । अथ तु प्रत्यभिज्ञानं तथापि यत्र काल इत्यत्रापि कालाभिधानद्वारेणातिवाहिक्य एव देवता उक्ता इत्यविरोध एवेति ॥ २१ ॥
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभाष्यविभागे भामत्यां चतुर्थस्याध्यायस्य द्वितीयः पादः ॥ २ ॥
चतुर्थेऽध्याये तृतीयः पादः
अर्चिरादिना तत्प्रथितेः ।
भिन्नप्रकरणस्थत्वाद्भिन्नोपासनयोगतः । अनपेक्षा मिथो मार्गास्त्वरातोऽवधृतेरपि ॥ गन्तव्यमेकं नगरं प्रति वक्रेणाध्वना गतिमपेक्ष्य ऋजुनाध्वना गतिस्त्वरावती कल्प्यते । एकमार्गत्वे तु कमपरमपेक्ष्य त्वरा स्यात् । अथ तैरेव रश्मिभिरित्यवधारणं नोपपद्यते पथ्यन्तरस्य निवर्तनीयस्याभावात्तस्मात्परानपेक्षा एवैते पन्थान एकब्रह्मलोकप्राप्त्युपाया व्रीहियवाविव विकल्पेरन्निति प्राप्ते प्रत्युच्यते एकत्वेऽपि पथोऽनेकपर्वसङ्गमसम्भवात् । गौरवान्नैव नानात्वं प्रत्यभिज्ञानलिङ्गतः ॥ सपर्वा हि पन्था नगरादिकमेकं गन्तव्यं प्रापयति नाभागः । तत्र किमेते रश्म्यहर्वायुसूर्यादयोऽध्वनः पर्वाणः सन्तोऽध्वनैकेन युज्यन्ते, आहो यथायथमध्वानमपि भिन्दन्तीति सन्देहेऽभेदेऽप्यध्वनो भागभेदोपपत्तेर्न भागिभेदकल्पनोचिता, गौरवप्रसङ्गात् । एकदेशप्रत्यभिज्ञानाच्च विशेषणविशेष्यभावोपपत्तेर्नानेकाध्वकल्पना । अथैतैरेव रश्मिभिरित्यवधारणं न तावदर्थान्तरनिवृत्त्यर्थं तत्प्रापकैरेव वाक्यान्तरैर्विरोधात् , तस्मादन्यानपेक्षामस्यावधारयतीति वक्तव्यम् । न चैकं वाक्यमप्राप्तमध्वानं प्रापयति तस्य चानपेक्षतां प्रतिपादयतीत्यर्थद्वयाय पर्याप्तं, तस्माद्विधिसामर्थ्यप्राप्तमयोगव्यवच्छेदमेवकारोऽनुवदतीति युक्तम् ।
त्वरावचनं चेति ।
न खल्वेकस्मिन्नेव गन्तव्ये पथिभेदमपेक्ष्य त्वरावकल्प्यते किन्तु गन्तव्यभेदादपि तदुपपत्तिः । यथा कश्मीरेभ्यो मथुरां क्षिप्रं याति चैत्र इति तथेहाप्यन्यतः कुतश्चिद्गन्तव्यादनेनोपायेन ब्रह्मलोकं क्षिप्रं प्रयातीति ।
भूयांस्यर्चिरादिश्रुतौ मार्गपर्वाणीति ।
अयमर्थः एकत्वात्प्राप्तव्यस्य ब्रह्मलोकस्याल्पपर्वणा मार्गेण तत्प्राप्तौ सम्भवन्त्यां बहुमार्गोपदेशो व्यर्थः प्रसज्यते । तत्र चेतनस्याप्रवृत्तेः । तस्माद्भूयसां पर्वणामविरोधेनाल्पानां तदनुप्रवेश एव युक्त इति ॥ १ ॥
वायुमब्दादविशेषविशेषाभ्याम् ।
“श्रुत्याद्यभावे पाठस्य क्रमं प्रति नियन्तृता । ऊर्ध्वाक्रमणमात्रे च श्रुता वायोर्निमित्तता ॥” “स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते”(बृ. उ. ५ । १० । १) इति हि वायुनिमित्तमूर्ध्वाक्रमणं श्रुतं न तु वायुनिमित्तमादित्यगमनं “स आदित्यं गच्छति” इत्यादित्यगमनमात्रप्रतीतेः । नच तेनेत्यनन्तरश्रुतोर्ध्वीक्रमणक्रियासम्बन्धि निराकाङ्क्षमादित्यगमनक्रिययापि सम्बन्द्धुमर्हति । न चादित्यागमनस्य तेनेति विना काचिदनुपपत्तिर्येनान्यसम्बद्धमप्यनुषज्यते । तत्राग्निलोकमागच्छति स वायुलोकमित्यादिसन्दर्भगतस्य पाठस्य क्वचिन्नियामकत्वेन कॢप्तसामर्थ्यादग्निवायुवरुणक्रमनियामकश्रुत्याद्यभावादिति प्राप्ते प्रत्युच्यते ऊर्ध्वशब्दो न लोकस्य कस्यचित्प्रतिपादकः । तद्भेदापेक्षया युक्तमादित्येन विशेषणम् ॥ भवेदेतदेवं यद्यूर्ध्वशब्दात्कश्चिल्लोकभेदः प्रतीयेत स तूपरिदेशमात्रवाची लोकभेदाद्विनापर्यवस्यंल्लोकभेदवाचिनादित्यपदेनादित्ये व्यवस्थाप्यते । तथा चादित्यलोकगमनमेव वायुनिमित्तमिति श्रौतक्रमनियमे, पाठः पदार्थमात्रप्रदर्शनार्थो न तु क्रमाय प्रभवति श्रुतिविरोधादिति सिद्धम् । वाजसनेयिनां संवत्सरलोको न पठ्यते छान्दोग्यानां देवलोको न पठ्यते तत्रोभयानुरोधादुभयपाठे माससम्बन्धात्संवत्सरः पूर्वः पश्चिमो देवलोकः । नहि मासो देवलोकेन सम्बध्यते किन्तु संवत्सरेण । तस्मात्तयोः परस्परसम्बन्धान्मासारभ्यत्वाच्च संवत्सरस्य मासानन्तर्ये स्थिते देवलोकः संवत्सरस्य परस्ताद्भवति । तत्रादित्यानन्तर्याय वायोः संवत्सरादित्यस्य स्थाने देवलोकाद्वायुमिति पठितव्यम् ।
वायुमब्दादिति तु सूत्रमत्रापि वाचकमेव । तथापि संवत्सरात्पराञ्चमादित्यादर्वाञ्चं वायुमभिसम्भवन्तीति छान्दोग्यपाठमात्रापेक्षयोक्तं, तदिदमाह –
वायुमब्दादिति त्विति ॥ २ ॥
तडितोऽधि वरुणः सम्बन्धात् ।
तडिदन्तेऽर्चिराद्येऽध्वन्यप्पतिस्तडितः परः । तत्सम्बन्धात्तथेन्द्रादिरप्पतेः पर इष्यते ॥ आगन्तूनां निवेशोऽन्ते स्थानाभावात्प्रसाधितः । तथा चेन्द्रादिरागन्तुः पठ्यते चाप्पतेः परः ॥ ३ ॥
आतिवाहिकास्तल्लिङ्गात् ।
मार्गचिह्नसरूपत्वाच्चिह्नान्येवार्चिरादयः । भर्तृभोगभुवो वा स्युर्लोकत्वान्नातिवाहिकाः ॥ अर्चिरादिशब्दा हि ज्वलनादावचेतनेषु निरूढवृत्तयो लोके । न चैषां त्वावधिकानामिव नियमवती संवहनस्वरूपा स्वतन्त्रक्रिया बुद्धिपूर्वा सम्भवत्यचेतनानाम् । तस्माल्लोकशब्दवाच्यत्वाद्भर्तुर्जीवात्मनो भोगभूमय एवेति मन्यामहे । अपि चार्चिष इत्यस्मादपादानं प्रतीयते । न हेतुर्नागुणे हेतौ पञ्चमी दृश्यते क्वचित् ॥ जाड्याद्बद्ध इत्यादिषु गुणवचनेषु जाड्यादिषु हेतुपञ्चमी दृष्टा । न चार्चिरादिशब्दा गुणवाचिनो येन पञ्चम्या तेषां वहनं प्रति हेतुत्वमुच्यते । अपादानत्वं चाचेतनेष्वप्यस्तीति नातिवाहिकाः । न चामानवस्य पुरुषस्य विद्युदादिषु वोढृत्वदर्शनादर्चिरादीनामपि वोढृत्वमुन्नेयम् । यावद्वचनं हि वाचनिकं न तदवाच्ये सञ्चारयितुमुचितम् । अपि चार्चिरादीनां वोढृत्वे विद्युदादीनामपि वोढृत्वान्नामानवः पुरुषो वोढा श्रूयेत । यतः श्रूयते ततोऽवगच्छामो विद्युदादिवन्नार्चिरादीनां वोढृत्वमिति । तस्माद्भोगभूमय एवार्चिरादयो नातिवाहिका इति प्राप्ते प्रत्युच्यते सम्पिण्डकरणानां हि सूक्ष्मदेहवतां गतौ । न स्वातन्त्र्यं न चाग्न्याद्या नेतारोऽचेतनास्तु ते ॥ ईदृशी हि नियमवती गतिः स्वयं वा प्रेक्षावतोऽप्रेक्षावतो वा प्रेक्षावत्प्रयुक्तस्य । न तावद्विगलितस्थूलकलेवराः सूक्ष्मदेहवन्तः सम्पिण्डितकरणग्रामा उत्क्रान्तिमन्तो जीवात्मानो मत्तमूर्च्छिचवत्स्वयं प्रेक्षावन्तो यदेवं स्वातन्त्र्येण गच्छेयुस्तद्यद्यर्चिरादयोऽपि मार्गचिह्नानि वा शमीकारस्करादिवद्भोगभूमयो वा सुमेरुशैलेलावृत्तादिवदुभयथाप्यचेतनतया न नयनं प्रत्येषामस्ति स्वातन्त्र्यम् । न चैतेभ्योऽन्यस्य चेतनस्य नेतुः कल्पना सति श्रुतानां चैतन्यसम्भवे । नच परमेश्वर एवास्तु नेतेति युक्तम् । तस्यात्यन्तसाधारणतया लोकपालग्रहादीनामकिञ्चित्करत्वात् । तस्माद्व्यवस्थित एव परमेश्वरस्य सर्वाध्यक्षत्वे यथा यथात्वं लोकपालादीनां स्वातन्त्र्यमेवमिहाप्यर्चिरादीनामातिवाहिकत्वमेव दर्शनानुसाराच्छब्दार्थ इति युक्तम् । इममेवार्थममानवपुरुषातिवाहनलक्षणं लिङ्गमुपोद्वलयतीत्युक्तम् ।
अनवस्थितत्वादर्चिरादीनामिति ।
अवस्थितं हि मार्गचिह्नं भवत्यव्यभिचारान्नानवस्थितं व्यभिचारादिति । अर्चिष इति च हेतौ पञ्चमी नापादाने । गुणत्वं चाश्रिततया । नच वैशेषिकपरिभाषया नियम आस्थेयो लोकविरोधात् । अपिच तेऽर्चिरभिसम्भवन्तीति सम्बन्धमात्रमुक्तमिति । सामान्यवचने शब्दे विशेषाकाङ्क्षिणि स्फुटम् । यद्विशेषपदं तेन तत्सामान्यं नियम्यते ॥ यथा ब्राह्मणमानय भोजयितव्य इति तद्विशेषापेक्षायां यदा तत्संनिधावुपनिपतति पदं कण्ठादि( ? )तदा तेनैतन्नियम्यते एवमिहापीति ॥ ४ ॥
उभयव्यामोहात्तत्सिद्धेः ॥ ५ ॥
वैद्युतेनैव ततस्तच्छ्रुतेः ।
विद्युल्लोकमागतोऽमानवः पुरुषो वैद्युतस्तेनैव न तु वरुणादिना स्वयमुह्यते । तच्छ्रुतेस्तस्यैव स्वयं वोढृत्वश्रुतेः । वरुणादयस्तु तत्साहायके वर्तमाना वोढारो भवन्तीति च वैषम्यं न वोढृत्वे इति सर्वमवदातम् ॥ ६ ॥
पाठक्रमादर्थक्रमो बलवानिति यथार्थक्रमं पठ्यन्ते सूत्राणि –
परं जैमिनिर्मुख्यत्वात् ।
स एतान् ब्रह्म गमयतीति विचिकित्स्यते । किं परं ब्रह्म गमयत्याहोस्विदपरं कार्यं ब्रह्मेति । मुख्यत्वादमृतप्राप्तेः परप्रकरणादपि । गन्तव्यं जैमिनिर्मेने परमेवार्चिरादिना ॥ ब्रह्म गमयतीत्यत्र हि नपुंसकं ब्रह्मपदं परस्मिन्नेव ब्रह्मणि निरूढत्वादनपेक्षतया मुख्यमिति सति सम्भवे न कार्ये ब्रह्मणि गुणकल्पनया व्याख्यातुमुचितम् । अपि चामृतत्वफलावाप्तिर्न कार्यब्रह्मप्राप्तौ युज्यते । तस्य कार्यत्वेन मरणधर्मवत्त्वात् । किञ्च तत्र तत्र परमेव ब्रह्म प्रकृत्य प्रजापतिसद्मप्रतिपत्त्यादय उच्यमाना नापरब्रह्मविषया भवितुमर्हन्ति प्रकरणविरोधात् । न च परस्मिन्त्सर्वगते गतिर्नोपपद्यते प्राप्तत्वादिति युक्तम् । प्राप्तेपि हि प्राप्तिफला गतिर्दृश्यते । यथैकस्मिन्न्यग्रोधपादपे मूलादग्रमग्राच्च मूलं गच्छतः शाखामृगस्यैकेनैव न्यग्रोधपादपेन निरन्तरं संयोगविभागा भवन्ति । न चैते तदवयवविषया न तु न्यग्रोधविषया इति साम्प्रतं तथा सति न शाखामृगो न्यग्रोधेन युज्यते । न्यग्रोधावयवस्य तदवयवयोगात् । एवं दृश्यमानानामपि तदवयवानां न योगस्तदवयवयोगात्तदन्तेन क्रमेण तदवयवेषु परमाणुषु व्यवतिष्ठते । ते चातीन्द्रिया इति कस्मिन्नु नामायमनुभवपद्धतिमध्यास्तां संयोगतपस्वी । तस्मादकामेनाप्यनुभवानुरोधेन प्राप्त एव प्राप्तिफलत्वावगतिरेषितव्या । तद्ब्रह्म प्राप्तमपि प्राप्तिफलायावगतेगोचरो भविष्यति । ब्रह्मलोकेष्विति च बहुवचनमेकस्मिन्नपि प्रयोगसाधुतामात्रेण गमयितव्यम् । लोकशब्दश्चालोकने प्रकाशे वर्तयितव्यो न तु सन्निवेशवति देशविशेषे । तस्मात्परब्रह्मप्राप्त्यर्थं गत्युपदेशसामर्थ्यादयमर्थो भवति । यथा विद्याकर्मवशादर्चिरादिना गतस्य सत्यलोकमतिक्रम्य परं जगत्कारणं ब्रह्म लोकमालोकं स्वयं प्रकाशकमिति यावत् । प्राप्तस्य तत्रैव लिङ्गं प्रलीयते न तु गतिमेवंभूतां विना लिङ्गप्रविलय इति । अत एव श्रुतिः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति । तदनेनाभिसन्धिना परं ब्रह्म गमयत्यमानव इति मेने जैमिनिराचार्यः ।
कार्यं बादरिरस्य गत्युपपत्तेः ।
तत्त्वदर्शीं बादरिर्ददर्श कार्यमप्राप्तपूर्वत्वादप्राप्तप्रापणी गतिः । प्रापयेद्ब्रह्म न परं प्राप्तत्वाज्जगदात्मकम् ॥ तत्त्वमसिवाक्यार्थसाक्षात्कारात्प्राक्किल जीवात्माविद्याकर्मवासनाद्युपाध्यवच्छेदाद्वस्तुतोऽनवच्छिन्नोऽवच्छिन्नमिवाभिन्नोऽपि लोकेभ्यो भिन्नमिवात्मानमभिमन्यमानः स्वरूपादन्यानप्राप्तानर्चिरादींल्लोकान्गत्याप्नोतीति युज्यते । अद्वैतब्रह्मतत्त्वसाक्षात्कारवतस्तु विगलितनिखिलप्रपञ्चावभासविभ्रमस्य न गन्तव्यं न गतिर्न गमयितार इति किं केन सङ्गतम् । तस्मादनिदर्शनं न्यग्रोधसंयोगविभागा न्यग्रोधवानरतद्गतितत्संयोगविभागानां मिथो भेदात् । नच तत्रापि प्राप्तप्राप्तिः कर्मजेन हि विभागेन निरुद्धायां पूर्वप्राप्तावप्राप्तस्यैवोत्तरप्राप्तेरुत्पत्तेः । एतदपि वस्तुतो विचारासहतया सर्वमनिर्वचनीयं विजृम्भितमविद्यायाः समुत्पन्नाद्वैततत्त्वसाक्षात्कारो न विद्वानभिमन्यते । विदुषोऽपि देहपातात्पूर्वं स्थितप्रज्ञस्य यथाभासमात्रेण सांसारिकधर्मानुवृत्तिरभ्युपेयते एवमालिङ्गशरीरपाताद्विदुषस्तद्धर्मानुवृत्तिः । तथाचाप्राप्तप्राप्तेर्गत्युपपत्तिस्तद्देशप्राप्तौ च लिङ्गदेहनिवृत्तेर्मुक्तिः श्रुतिप्रामाण्यादिति चेत् । न । परविद्यावत उत्क्रान्तिप्रतिषेधात् “ब्रह्मैव सन्ब्रह्माप्येति न तस्मात्प्राणा उत्क्रामन्ति अत्रैव समवनीयन्ते”(बृ. उ. ३ । २ । ११) इति । यथा विद्याब्रह्मप्राप्त्योः समानकालता श्रूयते “ब्रह्म वेद ब्रह्मैव भवति”(मु. उ. ३ । २ । ९) “आनन्दं ब्रह्मणो विद्वान्न बिभेति”(तै. उ. २ । ९ । १) “तदात्मानमेवावेदहं ब्रह्मास्मीति तत्सर्वमभवत्”(वाजसनेयि ब्रह्मण. उ. १ । ४ । १०) “तत्र को मोहः कः शोक एकत्वमनुपश्यतः”(ई. उ. ७) इति पौर्वापर्याश्रवणात्परविद्यावतो मुक्तिं प्रति नोपायान्तरापेक्षेति लक्ष्यतेऽभिसन्धिः श्रुतेः । उपपन्नं चैतत् । न खलु ब्रह्मैवेदं विश्वमहं ब्रह्मास्मीति परिभावनाभुवा जीवात्मनो ब्रह्मभावसाक्षात्कारेणोन्मूलितायामनवयवेनाविद्यायामस्ति गन्तव्यगन्तृविभागो विदुषस्तदभावे कथमयमर्चिरादिमार्गे प्रवर्तेत । नच छायामात्रेणापि सांसारिकधर्मानुवृत्तिस्तत्र प्रवृत्त्यङ्गं यादृच्छिकप्रवृत्तेः । श्रद्धाविहीनस्य दृष्टार्थानि कर्माणि फलन्ति न फलन्ति च । अदृष्टार्थानां तु फले का कथेत्युक्तं प्रथमसूत्रे । न चार्चिरादिमार्गभावनायाः परब्रह्मप्राप्त्यर्थमविदुषः प्रत्युपदेशस्तथा च कर्मान्तरेष्विव नित्यादिषु तत्रापि स्यात्तस्य प्रवृत्तिरिति साम्प्रतम् । विकल्पासहत्वात् । किमियं परविद्यानपेक्षा परब्रह्मप्राप्तिसाधनं तदपेक्षा वा । न तावदनपेक्षा “तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय”(श्वे. उ. ३ । ८) इति परब्रह्मविज्ञानादन्यस्याध्वनः साक्षात्प्रतिषेधात् । परविद्यापेक्षत्वे तु मार्गभावनायाः किमियं विद्याकार्ये मार्गभावना साहायकमाचरत्यथ विद्योत्पादे । न तावद्विद्याकार्ये तया सह तस्या द्वैताद्वैतगोचरतया मिथो विरोधेन सहासम्भवात् । नापि यज्ञादिवद्विद्योत्पादे साक्षात्ब्रह्मप्राप्त्युपायत्वश्रवणादेतान्ब्रह्म गमयतीति । यज्ञादेस्तु विविदिषासंयोगेन श्रवणाद्विद्योत्पादाङ्गत्वम् । तस्मादुपन्यस्तबहुश्रुत्यनुरोधादुपपत्तेश्च ब्रह्मशब्दोऽसम्भवन्मुख्यवृत्तिर्ब्रह्मसामीप्यादपरब्रह्मणि लक्षणया नेतव्यः । तथाच लोकेष्विति बहुवचनोपपत्तेः कार्यब्रह्मलोकस्य । परस्य त्वनवयवतया तद्द्वारेणाप्यनुपपत्तेः । लोकत्वं चेलावृत्तादिवत्सन्निवेशविशेषवति भोगभूमौ निरूढं न कथञ्चिद्योगेन प्रकाशे व्याख्यातं भवति । तस्मात्साधुदर्शी स भगवान्बादरिरसाधुदर्शी जैमिनिरिति सिद्धम् । अप्रामाणिकानां बहुप्रलापाः सर्वगतस्य द्रव्यस्य गुणाः सर्वगता एव चैतन्यानन्दादयश्च गुणिनः परमात्मनो भेदाभेदवन्तो गुणा इत्यादयो दूषणायानुभाष्यमाणा अप्यप्रामाणिकत्वमावहन्त्यस्माकमित्युपेक्षिताः । ग्रन्थयोजना तु प्रत्यगात्मत्वाच्च गन्तॄणां प्रतिप्रति अञ्चति गच्छतीति प्रत्यक्प्रतिभाववृत्ति ब्रह्म तदात्मत्वाद्गन्तॄणां जीवात्मनामिति ।
गौणी त्वन्यत्रेति ।
यौगिक्यपि हि योगगुणापेक्षया गौण्येव ।
विशुद्धोपाधिसम्बन्धमिति ।
मनोमयत्वादयः कल्पनाः कार्याः । कार्यत्वादविशुद्धा अपि श्रेयोहेतुत्वाद्विशुद्धाः । प्रतिसञ्चरो महाप्रलयः प्रतिपत्त्यभिसन्धिः प्रतिपत्तिर्गतिः पदेर्गत्यर्थत्वात् । अभिसन्धिस्तात्पर्यम् । यस्य ब्रह्मणो नामाभिधानं यश इति ।
पूर्ववाक्यविच्छेदेनेति ।
श्रुतिवाक्ये बलीयसी प्रकरणात् ।
सगुणेऽपि च ब्रह्मणीति ।
प्रशंसार्थमित्यर्थः ।
चोदयति –
ननु गतस्यापि पारमार्थिकी गन्तव्यता देशान्तरविशिष्टस्येति ।
न्यग्रोधवानरदृष्टान्त उपपादितः ।
परिहरति –
न । प्रतिषिद्धसर्वविशेषत्वाद्ब्रह्मण इति ।
अयमभिसन्धिः यथातथा न्यग्रोधावयवी परिणामवानुपजनापायधर्मभिः कर्मजैः संयोगविभागैः संयुज्यतामयं पुनः परमात्मा निरस्तनिखिलभेदप्रपञ्चः कूटस्थनित्यो न न्यग्रोधवत्संयोगविभागभाग्भवितुमर्हति । काल्पनिकसंयोगविभागस्तु काल्पनिकस्यैव कार्यब्रह्मलोकस्योपपद्यते न परस्य । शङ्कते –
जगदुत्पत्तिस्थितिप्रलयहेतुत्वश्रुतेरिति ।
नह्युत्पत्त्यादिहेतुभावोऽपरिणामिनः सम्भवति तस्मात्परिणामीति । तथा च भाविकमस्योपपद्यते गन्तव्यत्वमित्यर्थः ।
निराकरोति –
न । विशेषनिराकरणश्रुतीनामिति ।
विशेषनिराकरणं समस्तशोकादिदुःखशमनतया पुरुषार्थफलवत् । अफलं तूत्पत्त्यादिविधानम् । तस्मात्फलवतः संनिधावाम्नायमानं तदर्थमेवोच्यत इत्युपपत्तिः । तद्विजिज्ञासस्वेति च श्रुतिः । तस्माच्छ्रुत्युपपत्तिभ्यां निरस्तसमस्तविशेषब्रह्मप्रतिपादनपरोऽयमाम्नायो न तूत्पत्त्यादिप्रतिपादनपरः । तस्मान्न गतिस्तात्त्विकी ।
अपि चेयं गतिर्न विचारं सहत इत्याह –
गतिकल्पनायां चेति ।
अन्यानन्यत्वाश्रयाववयवविकारपक्षौ । अन्यो वात्यन्तम् ।
अथ कस्मादात्यन्तिकमनन्यत्वं न कल्प्यत इत्यत आह –
अत्यन्ततादात्म्य इति ।
मृदात्मतया हि स्वभावेन घटादयो भावास्तद्विकारा व्याप्ताः, तदभावे न भवन्ति शिंशपेव वृक्षत्वाभाव इति । विकारावयवपक्षयोश्च तद्वतः सह विकारावयवैः स्थिरत्वादचलत्वाद्ब्रह्मणः संसारलक्षणं गमनं विकारावयवयेरनुपपन्नम् । नहि स्थिरात्मकमस्थिरं भवति । अन्यानन्यत्वे अपि चैकस्य विरोधादसम्भवन्ती इति भावः ।
अथान्य एव जीवो ब्रह्मणः ।
तथाच ब्रह्मण्यसंसरत्यपि जीवस्य संसारः कल्पत इति ।
एतद्विकल्प्य दूषयति –
सोऽणुरिति ।
मध्यमपरिमाणत्व इति ।
मध्यमपरिमाणानां घटादीनामनित्यत्वदर्शनात् ।
न । मुख्यैकत्वेति ।
भेदाभेदयोर्विरोधिनोरेकत्रासम्भवाद्बुद्धिव्यपदेशभेदादर्थभेदः । अयुतसिद्धतयोपचारेणाभिन्नमुच्यत इत्यमुख्यमस्यैकत्वमित्यर्थः । अपिच जीवानां ब्रह्मावयवत्वपरिणामात्यन्तभेदपक्षेषु तात्त्विकी संसारितेति मुक्तौ स्वभावहानाज्जीवानां विनाशप्रसङ्गः ।
ब्रह्मविवर्तत्वे तु ब्रह्मैवैषां स्वभावः प्रतिबिम्बानामिव बिम्बं तच्चाविनाशीति न जीवविनाश इत्याह –
सर्वेष्वेतेष्विति ।
मतान्तरमुपन्यस्यति दूषयितुम् –
यत्तु कैश्चिज्जल्प्यते विनैव ब्रह्मज्ञानं नित्यनैमित्तिकानीति ।
यथा हि कफनिमित्तो ज्वर उपात्तस्य कफस्य विशेषणादिभिः प्रक्षये कफान्तरोत्पत्तिनिमित्तदध्यादिवर्जने प्रशान्तोऽपि न पुनर्भवति । एवं कर्मनिमित्तो बन्ध उपात्तानां कर्मणामुपभोगात्प्रक्षये प्रशाम्यति । कर्मान्तराणां च बन्धहेतूनामननुष्ठानात्कारणाभावे कार्यानुपपत्तेर्बन्धाभावात्स्वभावसिद्धो मोक्ष आरोग्यमिव । उपात्तदुरितनिबर्हणाय च नित्यनैमित्तिककर्मानुष्ठानाद्दुरितनिमित्तप्रत्यवायो न भवति । प्रत्यवायानुत्पत्तौ च स्वस्थस्वान्तो न निषिद्धान्याचरेदिति ।
तदेतद्दूषयति –
तदसत् । प्रमाणाभावादिति ।
शास्त्रं खल्वस्मिन्प्रमाणं तच्च मोक्षमाणस्यात्मज्ञानमेवोपदिशति नतूक्तमाचारम् ।
न चात्रोपपत्तिः प्रभवति संसारस्यानादितया कर्माशयस्याप्यसङ्ख्येयस्यानियतविपाककालस्य भोगेनोच्छेत्तुमशक्यत्वादित्याह –
न चैतत्तर्कयितुमपीति ।
चोदयति –
स्यादेतदिति ।
नित्येति ।
परिहरति –
तन्न विरोधाभावादिति ।
यदि हि नित्यनैमित्तिकानि कर्माणि सुकृतमपि दुष्कृतमिव निर्वहेयुस्ततः काम्यकर्मोपदेशा दत्तजलाञ्जलयः प्रसज्येरन् । नह्यस्ति कश्चिच्चातुर्वर्ण्ये चातुराश्रम्ये वा यो न नित्यनैमित्तिकानि कर्माणि करोति । तस्मान्नैषां सुकृतविरोधितेति ।
अभ्युच्चयमात्रमाह –
नच नित्यनैमित्तिकानुष्ठानादिति ।
न चासति सम्यग्दर्शने इति ।
सम्यग्दर्शी हि विरक्तः काम्यनिषिद्धे वर्जयन्नपि प्रमादादुपनिपतिते तेनैवसम्यग्दर्शनेन क्षपयति । ज्ञानपरिपाके च न करोत्येव । अज्ञस्तु निपुणोऽपि प्रमादात्करोति । कृते च न क्षपयितुं क्षमत इति विशेषः ।
न चानभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्व इति ।
कर्तृत्वभोक्तृत्वे समाक्षिप्तक्रियाभोगे ते चेदात्मनः स्वभावावधारिते न त्वारोपिते ततो न शक्यावपनेतुम् । नहि स्वभावाद्भावोऽवरोपयितुं शक्यो भावस्य विनाशप्रसङ्गात् ।
न च भोगोऽपि सत्स्वभावः शक्योऽसत्कर्तुं, नो खलु नीलमनीलं शक्यं शक्रेणापि कर्तुं तदिदमुक्तम् –
स्वभावस्यापरिहार्यत्वादिति ।
समारोपितस्य त्वनिर्वचनीयस्य तत्स्वभावस्य शक्यस्तत्त्वज्ञानेनावरोपः कर्तुं सर्पस्येव रज्जुतत्त्वज्ञानेनेति भावः ।
भावमिममविद्वान्परिचोदयति –
स्यादेतत् । कर्तृत्वभोक्तृत्वकार्यमिति ।
अप्रकाशितभावो यथोक्तमेव समाधत्ते –
तच्च नेति ।
कर्तृत्वभोक्तृत्वयोर्निमित्तसम्बन्धस्य च शक्तिद्वारेण नित्यत्वाद्भविष्यति कदाचिदेषां समुदाचारो यतः सुखदुःखे भोज्येते इति सम्भावनातः कुतः कैवल्यनिश्चय इत्यर्थः ।
भूयोनिरस्तमपि मतिद्रढिम्ने पुनरुपन्यस्य दूषयति –
परस्मादनन्यत्वेऽपीति ।
शेषमतिरोहितार्थम् ॥ ७ ॥
विशेषितत्वाच्च ॥ ८ ॥
सामीप्यात्तु तद्व्यपदेशः ॥ ९ ॥
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ १० ॥
स्मृतेश्च ॥ ११ ॥
परं जैमिनिर्मुख्यत्वात् ॥ १२ ॥
दर्शनाच्च ॥ १३ ॥
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १४ ॥
अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात्तत्क्रतुश्च ।
अब्रह्मक्रतवो यान्ति यथा पञ्चाग्निविद्यया । ब्रह्मलोकं प्रयास्यन्ति प्रतीकोपासकास्तथा ॥ सन्ति हि मनो ब्रह्मेत्युपासीतेत्याद्याः प्रतीकविषया विद्याः । तद्वन्तोऽप्यर्चिरादिमार्गेण कार्यब्रह्मोपासका इव गन्तुमर्हन्ति “अनियमः सर्वासाम्” इत्यविशेषेण विद्यान्तरेष्वपि गतेरवधारणात् । न चैषां परब्रह्मविदामिव गत्यसम्भव इति । नच ब्रह्मक्रतव एव ब्रह्मलोकभाजो नातत्क्रतव इत्यप्येकान्तः । अतत्क्रतूनामपि पञ्चाग्निविदां तत्प्राप्तेः । न चैते न ब्रह्मक्रतवो मनो ब्रह्मेत्युपासीतेत्यादौ सर्वत्र ब्रह्मानुगमेन तत्क्रतुत्वस्यापि सम्भवात् । फलविशेषस्य ब्रह्मलोकप्राप्तावप्युपपत्तेः, तस्य सावयवतयोत्कर्षनिकर्षसम्भवादिति प्राप्ते प्रत्युच्यते उत्तरोत्तरभूयस्त्वादब्रह्मक्रतुभावतः । प्रतीकोपासकान् ब्रह्मलोकं नामानवो नयेत् ॥ भवतु पञ्चाग्निविद्यायामब्रह्मक्रतूनामपि ब्रह्मलोकनयनं, वचनात् । किमिव हि वचनं न कुर्यात्नास्ति वचनस्यातिभार इह तु तदभावात् । “तं यथायथोपासते तदेव भवति”(मुद्गलोपनिषत्.३) इति श्रुतेरौत्सर्गिक्यान्नासति विशेषवचनेऽपवादो युज्यते । नच प्रतीकोपासको ब्रह्मोपास्ते सत्यपि ब्रह्मेत्यनुगमे । किन्तु नामादिविशेषं ब्रह्मरूपतया । तथा खल्वयं नामादितन्त्रो न ब्रह्मतन्त्रः । आश्रयान्तरप्रत्ययस्याश्रयान्तरे प्रक्षेपः प्रतीक इति हि वृद्धाः । ब्रह्माश्रयश्च प्रत्ययो नामादिषु प्रक्षिप्त इति नामतन्त्रः । तस्मान्न तदुपासको ब्रह्मक्रतुः किन्तुनामादिक्रतुः । न च ब्रह्मक्रतुत्वे नामाद्युपासकानामविशेषादुत्तरोत्तरोत्कर्षः सम्भवी । नच ब्रह्मक्रतुस्तदवयवक्रतुर्येन तदवयवापेक्षयोत्कर्षो वर्ण्येत । तस्मात्प्रतीकालम्बनान्विदुषो वर्जयित्वा सर्वानन्यान्विकारालम्बनान्नयत्यमानवो ब्रह्मलोकम् । न ह्येवमुभयथाभाव उभयथार्थत्वे कांश्चित्प्रतीकालम्बनान्न नयति विकारालम्बनान्विदुषस्तु नयतीत्यभ्युपगमे कश्चिद्दोषोऽस्ति “अनियमः सर्वासाम्” इत्यस्य न्यायस्येति सर्वमवदातम् ॥ १५ ॥
विशेषं च दर्शयति ॥ १६ ॥
इति श्रीवाचस्पतिमिश्रविरचिते भगवत्पादभाष्यविभागे भामत्यां चतुर्थस्याध्यायस्य तृतीयः पादः ॥ ३ ॥
चतुर्थेऽध्याये चतुर्थः पादः ।
सम्पद्याविर्भावः स्वेन शब्दात् ।
प्रागभूतस्य निष्पत्तौ कर्तृत्वं न सतो यतः । फलत्वेन प्रसिद्धेश्च मुक्ते रूपान्तरोद्भवः । अभूतस्य घटादेर्भवनं निष्पत्तिर्न पुनरत्यन्तसतोऽसतो वा । न जातु गगनतत्कुसुमे निष्पद्येते । स्वरूपावस्थानं चेदात्मनो मुक्तिर्न सा निष्पद्येत, तस्य गगनवदत्यन्तसतः प्रागसत्त्वाभावात् । न चास्य बन्धाभावो निष्पद्यते, तस्य तुच्छस्वभावस्य कार्यत्वेनातुच्छत्वप्रसङ्गात् । फलत्वप्रसिद्धेश्च मोक्षस्याकार्यस्य फलत्वानवकल्पनादागन्तुना रूपेण केनचिदुत्पत्तौ स्वेनेति प्राप्तमनूद्यत इति प्राप्तेऽभिधीयते - सम्भवत्यर्थवत्त्वे हि नानर्थक्यमुपेयते । बन्धस्य सदसत्त्वाभ्यां रूपमेकं विशिष्यते ॥ अनधिगतावबोधनं हि प्रमाणं शाब्दमगत्या कथञ्चिदनुवादतया वर्ण्यते । सकलसांसारिकधर्मापेतं तु प्रसन्नमात्मरूपमप्रसन्नात्तस्मादेव रूपाद्व्यावृत्तमनधिगतमवबोधयन्नानुवादो युज्यते । न चास्य निष्पत्त्यसम्भवः, सत इव घटादेः सांव्यवहारिकेण प्रमाणेन बन्धविगमस्यापि निष्पत्तेर्लोकसिद्धत्वात् । विचारासहतया त्वसिद्धिरुभयत्रापि तुल्या । न ह्यसदुत्पत्तुमर्हतीत्यसकृदावेदितम् । अन्धो भवतीति स्वप्नावस्था दर्शिता बाह्येन्द्रियव्यापाराभावात् । रोदितीव जाग्रदवस्था दुःखशोकाद्यात्मकत्वात् । विनाशमेवापीत इति सुषुप्तिः । एवकारश्चैवार्थेऽनवधारणे ॥ १ ॥
मुक्तः प्रतिज्ञानात् ॥ २ ॥
आत्मा प्रकरणात् ।
ननु ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत इति पौर्वापर्यश्रवणात्स्वरूपनिष्पत्तेरन्या ज्योतिरुपसम्पत्तिः तथाच भौतिकत्वेऽपि न मोक्षव्याघातः । भवेदेतदेवं यदि ज्योतिरुपसम्पद्य तत् परित्यजेदिति श्रूयेत । तदध्याहारेऽपि तत्प्रतिपादनवैयर्थ्यं तदपरित्यागे च ज्योतिषैव स्वेन रूपेणेति गम्यते । तस्य च भूतत्वे विकारत्वान्मरणधर्मकत्वप्रसिद्धेरमुक्तित्वमिति प्राप्ते प्रत्युच्यते - ज्योतिष्पदस्य मुख्यत्वं भौतिके यद्यपि स्थितम् । तथापि प्रक्रमाद्वाक्यादात्मन्येवात्र युज्यते ॥ परंज्योतिरिति हि परपदसमभिव्याहारात्परत्वस्य चानपेक्षस्य ब्रह्मण्येव प्रवृत्तेज्योतिषि चापरे किञ्चिदपेक्ष्य परत्वात्परं ज्योतिरिति वाक्यादात्मैवात्र गम्यते । प्रकरणं चोक्तम् । यत्सम्पद्य निष्पद्यत इति तन्मुखं व्यादाय स्वपितीतिवत् । तस्माज्ज्योतिरुपसम्पन्नो मुक्त इति सूक्तम् ॥ ३ ॥
अविभागेन दृष्टत्वात् ।
यद्यपि जीवात्मा ब्रह्मणो न भिन्न इति तत्र तत्रोपपादितं तथापि स तत्र पर्येतीत्याधाराधेयभावव्यपदेशस्य सम्पत्तृसम्पत्तव्यभावव्यपदेशस्य च समाधानार्थमाह ॥ ४ ॥
ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ।
उपन्यास उद्देशो ज्ञातस्य यथा य आत्मापहतपाप्मेत्यादिः । तथाज्ञातज्ञापनं विधिः । यथा स तत्र पर्येति जक्षद्रममाण इति, तस्य सर्वेषु लोकेषु कामचारो भवतीत्येतदज्ञातज्ञापनं विधिः । सर्वज्ञः सर्वेश्वर इति व्यपदेशः । नायमुद्देशो विधेयान्तराभावात् । नापि विधिरप्रतिपाद्यत्वात् । सिद्धवद्व्यपदेशात् । तन्निर्वचनसामर्थ्यादयमर्थः प्रतीयते त एते उपन्यासादयः । एतेभ्यो हेतुभ्यः । भावाभावात्मकै रूपैर्भाविकैः परमेश्वरः । मुक्तः सम्पद्यते स्वैरित्याह स्म किल जैमिनिः ॥ न च चित्स्वभावस्यात्मनोऽभावात्मानोऽपहतपाप्मत्वादयो भावात्मनश्च सर्वज्ञत्वादयो धर्मा अद्वैतं घ्नन्ति । नो खलु धर्मिणो धर्मा भिद्यन्ते, मा भूद्गवाश्ववद्धर्मिधर्मभावाभाव इति जैमिनिराचार्य उवाच ॥ ५ ॥
चितितन्मात्रेण तदात्मकत्त्वादित्यौडुलोमिः ।
अनेकाकारतैकस्य नैकत्वान्नैकता भवेत् । परस्परविरोधेन न भेदाभेदसम्भवः ॥ न ह्येकस्यात्मनः पारमार्थिकानेकधर्मसम्भवः । ते चेदात्मनो भिद्यन्ते द्वैतापत्तेरद्वैतश्रुतयो व्यावर्तेरन् । अथ न भिद्यन्ते तत एकस्मादात्मनोऽभेदान्मिथोऽपि न भिद्येरन् । आत्मरूपवत् । आत्मरूपं वा भिद्येत । भिन्नेभ्योऽनन्यत्वान्नीलपीतरूपवत् । नच धर्मिण आत्मनो न भिद्यन्ते मिथस्तु भिद्यन्त इति साम्प्रतम् । धर्म्यभेदेन तदनन्यत्वेन तेषामप्यभेदप्रसङ्गात् । भेदे वा धर्मिणोऽपि भेदप्रसङ्गादित्युक्तम् । भेदाभेदौ च परस्परविरोधादेकत्राभावान्न सम्भवत इत्युपपादितं प्रथमे सूत्रे । अभावरूपाणामद्वैताविहन्तृत्वेऽपि तस्य पाप्मादेः काल्पनिकतया तदधीननिरूपणतया तेषामपि काल्पनिकत्वमिति न तात्त्विकी तद्धर्मता श्लिष्यते । एतेन सत्यकामसर्वज्ञसर्वेश्वरत्वादयोऽप्यौपाधिका व्याख्याताः ।
तस्मान्निरस्ताशेषप्रपञ्चेनाव्यपदेश्येन चैतन्यमात्रात्मनाभिनिष्पद्यमानस्य मुक्तावात्मनोऽर्थशून्यैरेवापहतपाप्मसत्यकामादिशब्दैर्व्यपदेश इत्यौडुलोमिर्मेने । तदिदमुक्तम् –
शब्दविकल्पजा एवैते
अपहतपाप्मत्वादयो न तु सांव्यवहारिका अपीति ॥ ६ ॥
एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ।
तदेतदतिशौण्डीर्यमौडुलोमेर्न मृष्यते । बादरायण आचार्यो मृष्यन्नपि हि तन्मतम् ॥ एवमपीत्यौडुलोमिमतमनुजानाति ।
शौण्डीर्यं तु न सहत इत्याह –
व्यवहारापेक्षयेति ।
एतदुक्तं भवति - सत्यं तात्त्विकानन्दचैतन्यमात्र एवात्मा, अपहतपाप्मसत्यकामत्वादयस्त्वौपाधिकतयातात्त्विका अपि व्यावहारिकप्रमाणोपनीततया लोकसिद्धा नात्यन्तासन्तो येन तच्छब्दा राहोः शिर इतिवदवास्तवा इत्यर्थः ॥ ७ ॥
सङ्कल्पादेव तु तच्छ्रुतेः ।
यत्नानपेक्षः सङ्कल्पो लोके वस्तुप्रसाधनः । न दृष्टः सोऽत्र यत्नस्य लाघवादवधारितः ॥ लोके हि कञ्चिदर्थं चिकीर्षुः प्रयतते प्रयतमानः समीहते समीहानस्तमर्थमाप्नोतीति क्रमो दृष्टः । न त्विच्छानन्तरमेवास्येष्यमाणमुपतिष्ठते । तेन श्रुत्यापि लोकवृत्तमनुरुध्यमानया विदुषस्तादृश एव क्रमोऽनुमन्तव्यः । अवधारणं तु सङ्कल्पादेवेति लौकिकं यत्नगौरवमपेक्ष्य विद्याप्रभावतो विदुषो यत्नलाघवात् । यल्लघु तदसत्कल्पमिति ।
स्यादेतत् । यथा मनोरथमात्रोपस्थापिता स्त्री स्त्रैणानां चरमधातुविसर्गहेतुरेवं पित्रादयोऽप्यस्य सङ्कल्पोपस्थापिताः कल्पिष्यन्ते स्वकार्यायेत्यत आह –
नच सङ्कल्पमात्रसमुत्थाना इति ।
सन्ति हि खलु कानिचिद्वस्तुस्वरूपसाध्यानि कार्याणि यथा स्त्रीवस्तुसाध्यानि दन्तक्षतमणिमालादीनि । कानिचित्तु ज्ञानसाध्यानि यथोक्तचरमधातुविसर्गरोमहर्षादीनि । तत्र मनोरथमात्रोपनीते पित्रादौ भवन्तु तज्ज्ञानमात्रसाध्यानि कार्याणि नतु तत्साध्यानि भवितुमर्हन्ति । नहि स्त्रैणस्य रोमहर्षादिवद्भवन्ति स्त्रीवस्तुसाध्या मणिमालादयस्तदिदमुक्तम्पुष्कलं भोगमिति प्राप्तेऽभिधीयते पित्रादीनां समुत्थानं सङ्कल्पादेव तच्छ्रुतेः । न चानुमानबाधोऽत्र श्रुत्या तस्यैव बाधनात् ॥ प्रमाणान्तरानपेक्षा हि श्रुतिः स्वार्थं गोचरयन्ति न प्रमाणान्तरेण शक्या बाधितुम् । अनुमानमेव तु स्वोत्पादाय पक्षधर्मत्वादिवन्मानान्तराबाधितविषयत्वं स्वसामग्रीमध्यपातेनापेक्षमाणं सामग्रीखण्डनेन तद्विरुद्धया श्रुत्या बाध्यते । अत एव नरशिरःकपालादिशौचानुमानमागमबाधितविषयतया नोपपद्यते । तस्माद्विद्याप्रभावाद्विदुषां सङ्कल्पमात्रादेव पित्राद्युपस्थानमिति साम्प्रतम् । तथाहुरागमिनः को हि योगप्रभावादृतेऽगस्त्य इव समुद्रं पिबति स इव दण्डकारण्ये सृजति । तस्मात्सर्वमवदातम् ॥ ८ ॥
अत एव चानन्याधिपतिः ॥ ९ ॥
अभावं बादरिराह ह्येवम् ।
अन्ययोगव्यवच्छित्त्या मनसेति विशेषणात् । देहेन्द्रियवियोगः स्याद्विदुषो बादरेर्मतम् ॥ अनेकधाभावश्चर्द्धिप्रभावभुवो मनोभेदाद्वा स्तुतिमात्रं वा कथञ्चिद्भूमविद्यायां निर्गुणायां तदसम्भवादसतापि हि गुणेन स्तुतिर्भवत्येवेति ॥ १० ॥
भावं जैमिनिर्विकल्पामननात् ।
शरीरेन्द्रियभेदे हि नानाभावः समञ्जसः । न चार्थसम्भवे युक्तं स्तुतिमात्रमनर्थकम् ॥ नहि मनोमात्रभेदे स्फुटतरोऽनेकधाभावो यथा शरीरेन्द्रियभेदे । अत एव सौभरेरभिविनिर्मितविविधदेहस्यापर्यायेण मान्धातृकन्याभिः पञ्चाशता विहारः पैराणिकैः स्मर्यते । न चार्थसम्भवे स्तुतिमात्रमनर्थकमवकल्पते । सम्भवति चास्यार्थवत्त्वम् । यद्यपि निर्गुणायामिदं भौमविद्यायां पठ्यते तथापि तस्याः पुरस्तादनेन सगुणावस्थागतेनैश्वर्येण निर्गुणैव विद्या स्तूयते । न चान्ययोगव्यवच्छेदेनैव विशेषणम् ।अयोगव्यवच्छेदेनापि विशेषणात् । यथा चैत्रो धनुर्धरः । तस्मान्मनः शरीरेन्द्रिययोग ऐश्वर्यशालिनां नियमेनेति मेने जैमिनिः ॥ ११ ॥
द्वादशाहवदुभयविधं बादरायणोऽतः ।
मनसेति केवलमनोविषयां च स एकधा भवति त्रिधा भवतीति शरीरेन्द्रियभेदविषयां च श्रुतिमुपलभ्यानियमवादी खलु बादरायणो नियमवादौ पूर्वयोर्न सहते । द्विविधश्रुत्यनुरोधात् । न चायोगव्यवच्छेदेनैवंविधेषु विशेषणमवकल्प्यते । कामेषु हि रमणं समनस्केन्द्रियेण शरीरेण पुरुषाणां सिद्धमेवेति नास्ति शङ्का मनोयोगस्येति तद्व्यवच्छेदो व्यर्थः । सिद्धस्य तु मनोयोगस्य तदन्यपरिसङ्ख्यानेनार्थवत्त्वमवकल्पते । तस्माद्वामेनाक्ष्णा पश्यतीतिवदत्रान्ययोगव्यवच्छेद इति साम्प्रतम् ।
द्वादशाहवदिति ।
द्वादशाहस्य सत्रत्वमासनोपायिचोदने । अहीनत्वं च यजतिचोदने सति गम्यते ॥ द्वादशाहमृद्धिकामा उपेयुरित्युपायिचोदनेन य एवं विद्वांसः सत्रमुपयन्तीति च द्वादशाहस्य सत्रत्वं बहुकर्तृकस्य गम्यते । एवं तस्यैव द्वादशाहेन प्रजाकामं याजयेदिति यजतिचोदनेन नियतकर्तृपरिमाणत्वेन द्विरात्रेण यजेतेत्यादिवदहीनत्वमपि गम्यत इति । सम्प्रति शरीरेन्द्रियाभावेन मनोमात्रेण विदुषः स्वप्नवत्सूक्ष्मो भोगो भवति । कुतः उपपत्तेः । मनसैतानिति श्रुतेः । यदि पुनः सुषुप्तवदभोगो भवेत्नैषा श्रुतिरुपपद्येत । नच सशरीरवदुपभोगः शरीराद्युपादानवैयर्थ्यात् । सशरीरस्य तु पुष्कलो भोगः । इहाप्युपपत्तेरित्यनुषञ्जनीयम् ॥ १२ ॥
तदिदमुक्तं सूत्राभ्याम् –
तन्वभावे सन्ध्यवदुपपत्तेः । भावे जाग्रद्वत् । इति ॥ १२ ॥
तन्वभावे सन्ध्यवदुपपत्तेः ॥ १३ ॥
भावे जाग्रद्वत् ॥ १४ ॥
प्रदीपवदावेशस्तथा हि दर्शयति ।
वस्तुतः परमात्मनोऽभिन्नोऽप्ययं विज्ञानात्मानाद्यविद्याकल्पितप्रादेशिकान्तःकरणावच्छेदेनानादिजीवभावमापन्नः प्रादेशिकः सन्न देहान्तराणि स्वभावनिर्मितान्यपि नानाप्रदेशवर्तीनि सान्तःकरणो युगपदावेष्टुमर्हति । न वात्मान्तरं स्रष्टुमपि । सृज्यमानस्य स्रष्ट्रतिरेकेऽनात्मत्वादात्मत्वे वा कर्तृकर्मभावाभावाद्भेदाश्रयत्वादस्य । नाप्यन्तःकरणान्तरं तत्र सृजति सृज्यमानस्य तदुपाधित्वाभावात् । अनादिना खल्वन्तःकरणेनौत्पत्तिकेनायमवरुद्धो नेदानीन्तनेनान्तःकरणेनोपाधितया सम्बद्धुमर्हति । तस्माद्यथा दारुयन्त्रं तत्प्रयोक्त्रा चेतनेनाधिष्ठितं सत्तदिच्छामनुरुध्यते । एवं निर्माणशरीराण्यपि सेन्द्रियाणीति प्राप्ते प्रत्यभिधीयते शरीरत्वं न जातु स्याद्भोगाधिष्ठानतां विना । स त्रिधेति शरीरत्वमुक्तं युक्तं च तद्विभौ ॥ स त्रिधा भवति पञ्चधा सप्तधा नवधेत्यादिका श्रुतिर्विदुषो नानाभावमाचक्षाणा भिन्नशरीरेन्द्रियोपाधिसम्बन्धेऽवकल्पते नादेहहेतु(भूत)भेदे । नहि यन्त्राणि भिन्नानि निर्माय वाहयन्यन्त्रवाहो नानात्वेनापदिश्यते । भोगाधिष्ठानत्वं च शरीरत्वं नाभोगाधिष्ठानेषु यन्त्रेष्विव युज्यते । तस्माद्देहान्तराणि सृजति । न वानेनाधिष्ठितानि देहपक्षे वर्तन्ते । नच सर्वगतस्य वस्तुतो विगलितप्रायाविद्यस्य विदुषः पृथग्जनस्येवौत्पत्तिकान्तःकरणवश्यता येन तदौत्पत्तिकमन्तःकरणमागन्तुकान्तःकरणान्तरसम्बन्धमस्य वारयेत् । तस्माद्विद्वान् सर्वस्य वशी सर्वेश्वरः सत्यसङ्कल्पः सेन्द्रियमनांसि शरीराणि निर्माय तानि चैकपदे प्रविश्य तत्तदिन्द्रियमन्तःकरणैस्तेषु लोकेषु मुक्तो विहरतीति साम्प्रतम् । प्रदीपवदिति तु निदर्शनं प्रदीपैक्यं प्रदीपव्यक्तिषूपचर्यते भिन्नवर्तिवर्तिनीनां भिन्नव्यक्तीनां भेदात् । एवं विद्वाञ्जीवात्मा देहभेदेऽप्येक इति परामर्शार्थः । एकमनोनुवर्तीनीत्येकाभिप्रायवर्तीनीत्यर्थः ॥ १५ ॥
सम्पन्नः केवलो मुक्त इत्युच्यते । न चैतस्येत्थम्भावसम्भवः श्रुतिविरोधादित्युक्तमर्थजातमाक्षिपति –
कथं पुनर्मुक्तस्येति ।
सलिल इति ।
सलिलमिव सलिलः सलिलप्रातिपदिकात्सर्वप्रातिपदिकेभ्य इत्युपमानादाचारे क्विपि कृते पचाद्यचि च कृते रूपम् । एतदुक्तं भवति यथा सलिलमम्भोनिधौ प्रक्षिप्तं तदेकीभावमुपयाति । एवं द्रष्टापि ब्रह्मणेति ।
अत्रोत्तरं सूत्रम् –
स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ।
आसु काश्चिच्छ्रुतयः सुषुप्तिमपेक्ष्य काश्चित्तु सम्पत्तिं तदधिकारात् । ऐश्वर्यश्रुतयस्तु सगुणविद्याविपाकावस्थापेक्षा मुक्त्यभिसन्धानं तु तदवस्थासत्तेर्यथारुणदर्शने सन्ध्यायां दिवसाभिधानम् ॥ १६ ॥
जगद्व्यापारवर्जं प्रकरणादसंनिहितत्वाच्च ।
स्वाराज्यकामचारादिश्रुतिभ्यः स्यान्निरङ्कुशः । स्वकार्य ईश्वराधीनसिद्धिरप्यत्र साधकः ॥ “आप्नोति स्वाराज्यम्”(तै. उ. १ । ६ । २) “सर्वेऽस्मै देवा बलिमावहन्ति”(तै. उ. १ । ५ । ३) “सर्वेषु लोकेषु कामचारो भवति”(छा. उ. ७ । २५ । २) इत्यादिश्रुतिभ्यो विदुषः परब्रह्मण इवान्यानधीनत्वमैश्वर्यमवगम्यते । नन्वस्य ब्रह्मोपासनालब्धमैश्वर्यं कथं ब्रह्माधीनं न तु स्वभावः । नहि कारणाधीनजन्मानो भावाः स्वकार्ये स्वकारणमपेक्षन्ते । किं त्वत्र ते स्वतन्त्रा एव । यथाहुः मृत्पिण्डदण्डचक्रादि घटो जन्मन्यपेक्षते । उदकाहरणे त्वस्य तदपेक्षा न विद्यते ॥ न च विदुषां परमेश्वराधीनैश्वर्यसिद्धित्वात्तद्गतमैश्वर्यं येन लौकिका इव राजानो महाराजाधीनः स्वव्यापारे विद्वांसः परमेश्वराधीना भवेयुः । न खलु यदधीनोत्पादं यस्य रूपं तत्तद्रूपादूनं भवतीति कश्चिन्नियमः । तत्समानां तदधिकानां च दर्शनात्तथा ह्यन्तेवासी गुर्वधीनविधः तत्समस्तदधिको वा दृश्यते । दुष्टसामन्ताश्च पार्थिवाधीनैश्वर्याः पार्थिवान्स्पर्धमानास्तान्विजयमाना वा दृश्यन्ते । तदिह निरतिशयैश्वर्यत्वात्परमेश्वरस्य मा नाम भूवन्विद्वांसस्ततोऽधिकास्तत्समास्तु भविष्यन्ति । तथाच न तदधीनाः । नहि समप्रधानभावानामस्ति मिथोऽपेक्षा । तदेते स्वतन्त्राः सन्तस्तद्व्यापारे जगत्सर्जनेऽपि प्रवर्तेरन्निति प्राप्ते प्रत्यभिधीयते - नित्यत्वादनपेक्षत्वात्श्रुतेस्तत्प्रक्रमादपि । एक्यमत्याच्च विदुषां परमेश्वरतन्त्रता ॥ जगत्सर्गलक्षणं हि कार्यं कारणैकस्वभावस्यैव हि भवतु आहो कार्यकारणस्वभावस्य । तत्रोभयस्वभावस्य स्वोत्पत्तौ मूलकारणापेक्षस्य पूर्वसिद्धः परमेश्वर एव कारणमभ्युपेतव्य इति स एवैकोऽस्तु जगत्कारणम् । तस्यैव नित्यत्वेन स्वकारणानपेक्षस्य कॢप्तसामर्थ्यात् । कल्प्यसामर्थ्यास्तु जगत्सर्जनं प्रति विद्वांसः । न च जगत्स्रष्टृत्वमेषां श्रूयते । श्रूयते त्वत्रभवतः परमेश्वरस्यैव । तमेव प्रकृत्य सर्वासां तच्छ्रुतीनां प्रवृत्तेः । अपिच समप्रधानानां हि न नियमवदैकमत्यं दृष्टमिति यदैकः सिसृक्षति तदैवेतरः सञ्जिहीर्षतीत्यपर्यायेण सृष्टिसंहारौ स्याताम् । न चोभयोरपीश्वरत्वं व्याघातात् । एकस्य तु तदाधिपत्ये तदभिप्रायानुरोधिनां सर्वेषामैकमत्योपपत्तेरदोषः । तत्रागन्तुकानां कारणाधीनजन्मैश्वर्याणां गृह्यमाणविशेषतयासमत्वान्नित्यैश्वर्यशालिनः स एव तेषामधीश इति तत्तन्त्रा विद्वांस इति परमेश्वरव्यापारस्य सर्गसंहारस्य नेशते ॥ १७ ॥
पूर्वपक्षिणोऽनुशयबीजमाशङ्क्य निराकरोति –
प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ।
यतः परमेश्वराधीनमैश्वर्यं तस्मात्ततो न्यूनमणिमादिमात्रं स्वाराज्यं न तु जदत्स्रष्टृत्वम् । उक्तान्न्यायात् ॥ १८ ॥
विकारावर्ति च तथा हि स्थितिमाह ।
एतावानस्य महिमेति विकारवर्ति रूपमुक्तम् । ततो ज्यायांश्चेति निर्विकारं रूपम् । तथा पादोऽस्य विश्वा भूतानीति विकारवर्ति रूपम् , त्रिपादस्यामृतं दिवीति निर्विकारमाह रूपम् ॥ १९ ॥
दर्शयतश्चैवं प्रत्यक्षानुमाने ।
दर्शयतश्चापरे श्रुतिस्मृती निर्विकारमेव रूपं भगवतस्ते च पठिते । एतदुक्तं भवतियदि ब्रूषे सगुणे ब्रह्मण्युपास्यमाने यथा तद्गुणस्य निरवग्रहत्वमपि वस्तुतोऽस्तीति निरवग्रहत्वे विदुषा प्राप्तव्यमिति तदनेन व्यभिचारयते । यथा सविकारे ब्रह्मण्युपास्यमाने वस्तुतः स्थितमपि निर्विकाररूपं न प्राप्यते तत्कस्य हेतोः, अतत्क्रतुत्वादुपासकस्य । तथा तद्गुणोपासनया वस्तुतः स्थितमपि निरवग्रहत्वं नाप्यते । तत्त्वोपासनासु पुरुषक्रतुत्वात् । उपासकस्य तदक्रतुत्वं च निरवग्रहत्वस्योपासनविध्यगोचरत्वाद्विध्यधीनत्वाच्चोपासनासु पुरुषस्वातन्त्र्याभावात्स्वातन्त्र्ये वा प्रातिभत्वप्रसङ्गादिति ॥ २० ॥
भोगमात्रसाम्यलिङ्गाच्च ।
न केवलं स्वाराज्यस्येश्वराधीनतयाजगत्सर्जनम् , साक्षाद्भोगमात्रेण तेन परमेश्वरेण साम्याभिधानादपि व्यपदेशलिङ्गादिति । भूतान्यवन्ति प्रीणयन्तीति भोजयन्तीति यावत् ।
सूत्रान्तरावतारणाय शङ्कते –
नन्वेवं सति सातिशयत्वादिति ।
सह परमेश्वरस्यातिशयेन वर्तत इति विदुष ऐश्वर्यं सातिशयम् । यच्च कार्यं सातिशयं तच्च यथा लौकिकमैश्वर्यम् । तदनेन कार्यत्वमुक्तम् । तथाच कार्यत्वादन्तवत्प्राप्तमिति तच्च न युक्तमानन्त्येन तद्विदुषां तत्र प्रवृत्तेरिति ॥ २१ ॥
अत उत्तरं पठति –
अनावृत्तिः शब्दादनावृत्तिः शब्दात् ।
किमर्चिरादिमार्गेण ब्रह्मलोकप्राप्तानामैश्वर्यस्यान्तवत्त्वं त्वया साध्यते । आहोस्विच्चन्द्रलोकादिव ब्रह्मलोकादेतल्लोकप्राप्तिर्मुक्तेरन्तवत्त्वम् । तत्र पूर्वस्मिन् कल्पे सिद्धसाधनम् । उत्तरत्र तु श्रुतिस्मृतिविरोधः । तद्विधानां च क्रममुक्तिप्रतिपादनादिति ।
तत्त्वमसिवाक्यार्थैकोपासनापरान् प्रत्याह –
सम्यग्दर्शनविध्वस्ततमसामिति ।
द्विधाविद्यातमः । निरुपाधिब्रह्मसाक्षात्कारस्तत्त्वदर्शनम् ।
न चैतन्निर्वाणं स्वरूपावस्थानलक्षणं कार्यं येनानित्यं स्यादित्याह –
नित्यसिद्धेति ॥ २२ ॥
भङ्क्त्वा वाद्यसुरेन्द्रवृन्दमखिलाविद्योपधानातिगं येनाम्नायपयोनिधेर्नयपथा ब्रह्मामृतं प्राप्यते ।
सोऽयं शाङ्करभाष्यजातविषयो वाचस्पतेः सादरं सन्दर्भः परिभाव्यतां सुमतयः स्वार्थेषु को मत्सरः ॥ १ ॥
अज्ञानसागरं तीर्त्वा ब्रह्मतत्त्वमभीप्सताम् ।
नीतिनौकर्णधारेण मयापूरि मनोरथः ॥ २ ॥
यन्न्यायकणिकातत्त्वसमीक्षातत्त्वबिन्दुभिः ।
यन्न्यायसाङ्ख्ययोगानां वेदान्तानां निबन्धनैः ॥ ३ ॥
समचैषं महत्पुण्यं तत्फलं पुष्कलं मया ।
समर्पितमथैतेन प्रीयतां परमेश्वरः ॥ ४ ॥
नृपान्तराणां मनसाप्यगम्यां भ्रूक्षेपमात्रेण चकार कीर्तिम् ।
कार्तस्वरासारसुपूरितार्थसार्थः स्वयं शास्त्रविचक्षणश्च ॥ ५ ॥
नरेश्वरा यच्चरितानुकारमिच्छन्ति कर्तुं नच पारयन्ति ।
तस्मिन्महीपे महनीयकीर्तौ श्रीमन्नृगेऽकारि मया निबन्धः ॥ ६ ॥
इति श्रीवाचस्पतिमिश्रविरचिते शङ्करभगवत्पादभाष्यविभागे भामत्यां चतुर्थस्याध्यायस्य चतुर्थः पादः समाप्तः ।