अद्वैतशारदा

ब्रह्मसूत्रभाष्यम्

प्रथमोऽध्यायः

व्याख्याः

प्रथमः पादः

युष्म­द­स्म­त्प्र­त्य­य­गो­च­र­यो­र्वि­ष­य­वि­ष­यि­णो­स्त­मः­प्र­का­श­व­द्वि­रु­द्ध­स्व­भा­व­यो­रि­त­रे­त­र­भा­वा­नु­प­पत्तौ सिद्धायाम् , तद्धर्माणामपि सुत­रा­मि­त­रे­त­र­भा­वा­नु­प­पत्तिः — इत्यतः अस्म­त्प्र­त्य­य­गो­चरे विषयिणि चिदात्मके युष्म­त्प्र­त्य­य­गो­च­रस्य विषयस्य तद्धर्माणां चाध्यासः तद्विपर्ययेण विष­यि­ण­स्त­द्ध­र्माणां च विषयेऽध्यासो मिथ्येति भवितुं युक्तम् । तथा­प्य­न्यो­न्य­स्मि­न्न­न्यो­न्या­त्म­क­ता­म­न्यो­न्य­ध­र्मां­श्चा­ध्य­स्ये­त­रे­त­रा­वि­वे­केन अत्य­न्त­वि­वि­क्त­यो­र्ध­र्म­ध­र्मिणोः मिथ्या­ज्ञा­न­नि­मित्तः सत्यानृते मिथुनीकृत्य ‘अहमिदम्’ ‘ममेदम्’ इति नैसर्गिकोऽयं लोकव्यवहारः ॥

आह — कोऽयमध्यासो नामेति । उच्यते — स्मृतिरूपः परत्र पूर्व­दृ­ष्टा­व­भासः । तं केचित् अन्य­त्रा­न्य­ध­र्मा­ध्यास इति वदन्ति । केचित्तु यत्र यदध्यासः तद्वि­वे­का­ग्र­ह­नि­ब­न्धनो भ्रम इति । अन्ये तु यत्र यदध्यासः तस्यैव विप­री­त­ध­र्म­त्व­क­ल्प­ना­मा­च­क्षते । सर्वथापि तु अन्य­स्या­न्य­ध­र्मा­व­भा­सतां न व्यभिचरति । तथा च लोकेऽनुभवः — शुक्तिका हि रजतवदवभासते, एकश्चन्द्रः सद्वितीयवदिति ॥

कथं पुनः प्रत्य­गा­त्म­न्य­वि­षये अध्यासो विष­य­त­द्ध­र्मा­णाम् ? सर्वो हि पुरोऽवस्थित एव विषये विष­या­न्त­र­म­ध्य­स्यति; युष्म­त्प्र­त्य­या­पे­तस्य च प्रत्यगात्मनः अविषयत्वं ब्रवीषि । उच्यते — न ताव­द­य­मे­का­न्ते­ना­वि­षयः, अस्म­त्प्र­त्य­य­वि­ष­य­त्वात् अपरोक्षत्वाच्च प्रत्य­गा­त्म­प्र­सिद्धेः । न चायमस्ति नियमः — पुरोऽवस्थित एव विषये विष­या­न्त­र­म­ध्य­सि­त­व्य­मिति । अप्रत्यक्षेऽपि ह्याकाशे बालाः तलमलिनतादि अध्यस्यन्ति । एवमविरुद्धः प्रत्य­गा­त्म­न्यपि अनात्माध्यासः ॥

तमे­त­मे­वं­ल­क्ष­ण­म­ध्यासं पण्डिता अविद्येति मन्यन्ते । तद्विवेकेन च वस्तु­स्व­रू­पा­व­धा­रणं विद्यामाहुः । तत्रैवं सति, यत्र यदध्यासः, तत्कृतेन दोषेण गुणेन वा अणुमात्रेणापि स न सम्बध्यते । तमे­त­म­वि­द्या­ख्य­मा­त्मा­ना­त्म­नो­रि­त­रे­त­रा­ध्यासं पुरस्कृत्य सर्वे प्रमा­ण­प्र­मे­य­व्य­व­हारा लौकिका वैदिकाश्च प्रवृत्ताः, सर्वाणि च शास्त्राणि विधि­प्र­ति­षे­ध­मो­क्ष­प­राणि । कथं पुन­र­वि­द्या­व­द्वि­ष­याणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति ? उच्यते — देहे­न्द्रि­या­दिषु अहं­म­मा­भि­मा­न­र­हि­तस्य प्रमा­तृ­त्वा­नु­प­पत्तौ प्रमा­ण­प्र­वृ­त्त्य­नु­प­पत्तेः । न हीन्द्रि­या­ण्य­नु­पा­दाय प्रत्य­क्षा­दि­व्य­व­हारः सम्भवति । न चाधि­ष्ठा­न­म­न्त­रेण इन्द्रियाणां व्यवहारः सम्भवति । न चान­ध्य­स्ता­त्म­भा­वेन देहेन कश्चि­द्व्या­प्रि­यते । न चैतस्मिन् सर्वस्मिन्नसति असङ्गस्यात्मनः प्रमा­तृ­त्व­मु­प­प­द्यते । न च प्रमा­तृ­त्व­म­न्त­रेण प्रमा­ण­प्र­वृ­त्ति­रस्ति । तस्मा­द­वि­द्या­व­द्वि­ष­या­ण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति । पश्वा­दि­भि­श्चा­वि­शे­षात् । यथा हि पश्वादयः शब्दादिभिः श्रोत्रादीनां सम्बन्धे सति शब्दादिविज्ञाने प्रतिकूले जाते ततो निवर्तन्ते, अनुकूले च प्रवर्तन्ते; यथा दण्डोद्यतकरं पुरु­ष­म­भि­मु­ख­मु­प­लभ्य ‘मां हन्तुमयमिच्छति’ इति पला­यि­तु­मा­र­भन्ते, हरि­त­तृ­ण­पू­र्ण­पा­णि­मु­प­लभ्य तं प्रति अभिमुखीभवन्ति; एवं पुरुषा अपि व्युत्प­न्न­चित्ताः क्रूर­दृ­ष्टी­ना­क्रो­शतः खड्गो­द्य­त­क­रा­न्ब­ल­वत उपलभ्य ततो निवर्तन्ते, तद्वि­प­री­ता­न्प्रति प्रवर्तन्ते । अतः समानः पश्वादिभिः पुरुषाणां प्रमा­ण­प्र­मे­य­व्य­व­हारः । पश्वादीनां च प्रसिद्धः अविवेकपुरस्सरः प्रत्य­क्षा­दि­व्य­व­हारः । तत्सा­मा­न्य­द­र्श­ना­द्व्यु­त्प­त्ति­म­ता­मपि पुरुषाणां प्रत्य­क्षा­दि­व्य­व­हा­र­स्त­त्कालः समान इति निश्चीयते । शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मनः पर­लो­क­स­म्ब­न्ध­म­धि­क्रि­यते, तथापि न वेदा­न्त­वे­द्य­म­श­ना­या­द्य­ती­त­म­पे­त­ब्र­ह्म­क्ष­त्रा­दि­भे­द­म­सं­सा­र्या­त्म­त­त्त्व­म­धि­का­रेऽ­पे­क्ष्यते, अनुपयोगात् अधिकारविरोधाच्च । प्राक् च तथा­भू­ता­त्म­वि­ज्ञा­नात् प्रवर्तमानं शास्त्र­म­वि­द्या­व­द्वि­ष­यत्वं नातिवर्तते । तथा हि — ‘ब्राह्मणो यजेत’ इत्यादीनि शास्त्रा­ण्या­त्मनि वर्णा­श्र­म­व­योऽ­व­स्था­दि­वि­शे­षा­ध्या­स­मा­श्रित्य प्रवर्तन्ते । अध्यासो नाम अत­स्मिं­स्त­द्बु­द्धि­रि­त्य­वो­चाम । तद्यथा — पुत्रभार्यादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेति बाह्य­ध­र्मा­ना­त्म­न्य­ध्य­स्यति । तथा देहधर्मान् ‘स्थूलोऽहं कृशोऽहं गौरोऽहं तिष्ठामि गच्छामि लङ्घयामि च’ इति । तथे­न्द्रि­य­ध­र्मान् ‘मूकः काणः क्लीबो बधिरोऽन्धोऽहम्’ इति; तथा­न्तः­क­र­ण­ध­र्मान् काम­स­ङ्क­ल्प­वि­चि­कि­त्सा­ध्य­व­सा­या­दीन् । एव­म­हं­प्र­त्य­यि­न­म­शे­ष­स्व­प्र­चा­र­सा­क्षिणि प्रत्य­गा­त्म­न्य­ध्यस्य तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्वि­प­र्य­ये­णा­न्तः­क­र­णा­दि­ष्व­ध्य­स्यति । एवमयमनादिरनन्तो नैस­र्गि­कोऽ­ध्यासो मिथ्या­प्र­त्य­य­रूपः कर्तृ­त्व­भो­क्तृ­त्व­प्र­व­र्तकः सर्व­लो­क­प्र­त्यक्षः । अस्यानर्थहेतोः प्रहाणाय आत्मै­क­त्व­वि­द्या­प्र­ति­प­त्तये सर्वे वेदान्ता आरभ्यन्ते । यथा चायमर्थः सर्वेषां वेदान्तानाम् , तथा वयमस्यां शारी­र­क­मी­मां­सायां प्रदर्शयिष्यामः । वेदा­न्त­मी­मां­सा­शा­स्त्रस्य व्याचि­ख्या­सि­त­स्ये­द­मा­दिमं सूत्रम् —

अथातो ब्रह्मजिज्ञासा ॥ १ ॥

तत्र अथशब्दः आनन्तर्यार्थः परिगृह्यते; नाधिकारार्थः, ब्रह्म­जि­ज्ञा­साया अनधिकार्यत्वात् । मङ्गलस्य च वाक्यार्थे समन्वयाभावात् । अर्था­न्त­र­प्र­युक्त एव ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवति । पूर्व­प्र­कृ­ता­पे­क्षा­याश्च फलत आन­न्त­र्या­व्य­ति­रे­कात् । सति च आन­न्त­र्या­र्थत्वे, यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षते, एवं ब्रह्म­जि­ज्ञा­सापि यत्पूर्ववृत्तं नियमेनापेक्षते तद्वक्तव्यम् । स्वाध्या­या­न­न्तर्यं तु समानम् । नन्विह कर्मा­व­बो­धा­न­न्तर्यं विशेषः; न; धर्मजिज्ञासायाः प्रागपि अधीतवेदान्तस्य ब्रह्म­जि­ज्ञा­सो­प­पत्तेः । यथा च हृद­या­द्य­व­दा­ना­ना­मा­न­न्त­र्य­नि­यमः, क्रमस्य विवक्षितत्वात् , न तथेह क्रमो विवक्षितः । शेषशेषित्वे अधिकृताधिकारे वा प्रमाणाभावात् । धर्म­ब्र­ह्म­जि­ज्ञा­सयोः फल­जि­ज्ञा­स्य­भे­दाच्च । अभ्युदयफलं धर्मज्ञानम् , तच्चा­नु­ष्ठा­ना­पे­क्षम्; निःश्रेयसफलं तु ब्रह्मविज्ञानम् , न चानु­ष्ठा­ना­न्त­रा­पे­क्षम् । भव्यश्च धर्मो जिज्ञास्यो न ज्ञानकालेऽस्ति, पुरु­ष­व्या­पा­र­त­न्त्र­त्वात् । इह तु भूतं ब्रह्म जिज्ञास्यं नित्यत्वान्न पुरु­ष­व्या­पा­र­त­न्त्रम् । चोद­ना­प्र­वृ­त्ति­भे­दाच्च । या हि चोदना धर्मस्य लक्षणं सा स्वविषये नियुञ्जानैव पुरुषमवबोधयति । ब्रह्मचोदना तु पुरु­ष­म­व­बो­ध­य­त्येव केवलम् । अवबोधस्य चोदनाजन्यत्वात् , न पुरुषोऽवबोधे नियुज्यते । यथा अक्षा­र्थ­स­न्नि­क­र्षे­णा­र्था­व­बोधे, तद्वत् । तस्मात्किमपि वक्तव्यम् , यदनन्तरं ब्रह्म­जि­ज्ञा­सो­प­दि­श्यत इति । उच्यते — नित्या­नि­त्य­व­स्तु­वि­वेकः, इहा­मु­त्रा­र्थ­फ­ल­भो­ग­वि­रागः, शम­द­मा­दि­सा­ध­न­स­म्पत् , मुमुक्षुत्वं च । तेषु हि सत्सु, प्रागपि धर्मजिज्ञासाया ऊर्ध्वं च, शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं च; न विपर्यये । तस्मात् अथशब्देन यथो­क्त­सा­ध­न­स­म्प­त्त्या­न­न्त­र्य­मु­प­दि­श्यते ॥

अतःशब्दः हेत्वर्थः । यस्माद्वेद एव अग्नि­हो­त्रा­दीनां श्रेयः­सा­ध­ना­ना­म­नि­त्य­फ­लतां दर्शयति — ‘तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’(छा. उ. ८ । १ । ६) इत्यादिः; तथा ब्रह्म­वि­ज्ञा­ना­दपि परं पुरुषार्थं दर्शयति — ‘ब्रह्म­वि­दा­प्नोति परम्’(तै. उ. २ । १ । १) इत्यादिः । तस्मात् यथो­क्त­सा­ध­न­स­म्प­त्त्य­न­न्तरं ब्रह्मजिज्ञासा कर्तव्या ॥

ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा । ब्रह्म च वक्ष्य­मा­ण­ल­क्ष­णम् ‘जन्माद्यस्य यतः’ इति । अत एव न ब्रह्मशब्दस्य जात्या­द्य­र्था­न्त­र­मा­श­ङ्कि­त­व्यम् । ब्रह्मण इति कर्मणि षष्ठी, न शेषे; जिज्ञा­स्या­पे­क्ष­त्वा­ज्जि­ज्ञा­सायाः। जिज्ञा­स्या­न्त­रा­नि­र्दे­शाच्च । ननु शेष­ष­ष्ठी­प­रि­ग्र­हेऽपि ब्रह्मणो जिज्ञा­सा­क­र्मत्वं न विरुध्यते, सम्ब­न्ध­सा­मा­न्यस्य विशे­ष­नि­ष्ठ­त्वात् । एवमपि प्रत्यक्षं ब्रह्मणः कर्म­त्व­मु­त्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थः प्रयासः स्यात् । न व्यर्थः, ब्रह्मा­श्रि­ता­शे­ष­वि­चा­र­प्र­ति­ज्ञा­ना­र्थ­त्वा­दिति चेत् न; प्रधानपरिग्रहे तद­पे­क्षि­ता­ना­म­र्था­क्षि­प्त­त्वात् । ब्रह्म हि ज्ञाने­ना­प्तु­मि­ष्ट­त­म­त्वा­त्प्र­धा­नम् । तस्मिन्प्रधाने जिज्ञासाकर्मणि परिगृहीते, यैर्जि­ज्ञा­सि­तै­र्विना ब्रह्म जिज्ञासितं न भवति, तान्य­र्था­क्षि­प्ता­न्ये­वेति न पृथ­क्सू­त्र­यि­त­व्यानि । यथा ‘राजासौ गच्छति’ इत्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति, तद्वत् । श्रुत्यनुगमाच्च । ‘यतो वा इमानि भूतानि जायन्ते’(तै. उ. ३ । १ । १) इत्याद्याः श्रुतयः ‘तद्वि­जि­ज्ञा­सस्व । तद्ब्रह्म’(तै. उ. ३ । १ । १) इति प्रत्यक्षमेव ब्रह्मणो जिज्ञा­सा­क­र्मत्वं दर्शयन्ति । तच्च कर्म­णि­ष­ष्ठी­प­रि­ग्रहे सूत्रेणानुगतं भवति । तस्माद्ब्रह्मण इति कर्मणि षष्ठी ॥

ज्ञातुमिच्छा जिज्ञासा । अवगतिपर्यन्तं ज्ञानं सन्वाच्याया इच्छायाः कर्म, फल­वि­ष­य­त्वा­दि­च्छायाः । ज्ञानेन हि प्रमा­णे­ना­व­ग­न्तु­मिष्टं ब्रह्म । ब्रह्मावगतिर्हि पुरुषार्थः, निःशे­ष­सं­सा­र­बी­जा­वि­द्या­द्य­न­र्थ­नि­ब­र्ह­णात् । तस्माद्ब्रह्म जिज्ञासितव्यम् ॥

तत्पुनर्ब्रह्म प्रसि­द्ध­म­प्र­सिद्धं वा स्यात् । यदि प्रसिद्धं न जिज्ञासितव्यम् । अथाप्रसिद्धं नैव शक्यं जिज्ञासितुमिति । उच्यते — अस्ति तावद्ब्रह्म नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावं सर्वज्ञं सर्व­श­क्ति­स­म­न्वि­तम् । ब्रह्मशब्दस्य हि व्युत्पा­द्य­मा­नस्य नित्य­शु­द्ध­त्वा­द­योऽर्थाः प्रतीयन्ते, बृंह­ते­र्धा­तो­र­र्था­नु­ग­मात् । सर्व­स्या­त्म­त्वाच्च ब्रह्मा­स्ति­त्व­प्र­सिद्धिः । सर्वो ह्यात्मा­स्तित्वं प्रत्येति, न ‘नाहमस्मि’ इति । यदि हि नात्मा­स्ति­त्व­प्र­सिद्धिः स्यात् , सर्वो लोकः ‘नाहमस्मि’ इति प्रतीयात् । आत्मा च ब्रह्म । यदि तर्हि लोके ब्रह्म आत्मत्वेन प्रसिद्धमस्ति, ततो ज्ञात­मे­वे­त्य­जि­ज्ञा­स्यत्वं पुनरापन्नम्; न । तद्विशेषं प्रति विप्रतिपत्तेः । देहमात्रं चैत­न्य­वि­शि­ष्ट­मा­त्मेति प्राकृता जना लोकायतिकाश्च प्रतिपन्नाः । इन्द्रियाण्येव चेत­ना­न्या­त्मे­त्य­परे । मन इत्यन्ये । विज्ञानमात्रं क्षणिकमित्येके । शून्यमित्यपरे । अस्ति देहा­दि­व्य­ति­रिक्तः संसारी कर्ता भोक्तेत्यपरे । भोक्तैव केवलं न कर्तेत्येके । अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित् । आत्मा स भोक्तुरित्यपरे । एवं बहवो विप्रतिपन्ना युक्ति­वा­क्य­त­दा­भा­स­स­मा­श्रयाः सन्तः । तत्राविचार्य यत्कि­ञ्चि­त्प्र­ति­प­द्य­मानो निःश्रे­य­सा­त्प्र­ति­ह­न्येत, अनर्थं चेयात् । तस्मा­द्ब्र­ह्म­जि­ज्ञा­सो­प­न्या­स­मु­खेन वेदा­न्त­वा­क्य­मी­मांसा तद­वि­रो­धि­त­र्को­प­क­रणा निःश्रे­य­स­प्र­यो­जना प्रस्तूयते ॥ १ ॥

ब्रह्म जिज्ञा­सि­त­व्य­मि­त्यु­क्तम् । किंलक्षणकं पुन­स्त­द्ब्र­ह्मे­त्यत आह भगवान्सूत्रकारः —

जन्माद्यस्य यतः ॥ २ ॥

जन्म उत्पत्तिः आदिः अस्य — इति तद्गु­ण­सं­वि­ज्ञानो बहुव्रीहिः । जन्मस्थितिभङ्गं समासार्थः । जन्मनश्चादित्वं श्रुति­नि­र्दे­शा­पेक्षं वस्तु­वृ­त्ता­पेक्षं च । श्रुति­नि­र्दे­श­स्ता­वत् — ‘यतो वा इमानि भूतानि जायन्ते’(तै. उ. ३ । १ । १) इति, अस्मिन्वाक्ये जन्म­स्थि­ति­प्र­ल­यानां क्रमदर्शनात् । वस्तुवृत्तमपि — जन्मना लब्धसत्ताकस्य धर्मिणः स्थिति­प्र­ल­य­स­म्भ­वात् । अस्येति प्रत्य­क्षा­दि­स­न्नि­धा­पि­तस्य धर्मिण इदमा निर्देशः । षष्ठी जन्मा­दि­ध­र्म­स­म्ब­न्धार्था । यत इति कारणनिर्देशः । अस्य जगतो नामरूपाभ्यां व्याकृतस्य अने­क­क­र्तृ­भो­क्तृ­सं­यु­क्तस्य प्रति­नि­य­त­दे­श­का­ल­नि­मि­त्त­क्रि­या­फ­ला­श्र­यस्य मन­सा­प्य­चि­न्त्य­र­च­ना­रू­पस्य जन्मस्थितिभङ्गं यतः सर्व­ज्ञा­त्स­र्व­शक्तेः कारणाद्भवति, तद्ब्रह्मेति वाक्यशेषः । अन्येषामपि भावविकाराणां त्रिष्वे­वा­न्त­र्भाव इति जन्म­स्थि­ति­ना­शा­ना­मिह ग्रहणम् । यास्क­प­रि­प­ठि­तानां तु ‘जायतेऽस्ति’ इत्यादीनां ग्रहणे तेषां जगतः स्थितिकाले सम्भा­व्य­मा­न­त्वा­न्मू­ल­का­र­णा­दु­त्प­त्ति­स्थि­ति­नाशा जगतो न गृहीताः स्युरि­त्या­श­ङ्क्येत । तन्मा शङ्कि; इति या उत्प­त्ति­र्ब्र­ह्मणः, तत्रैव स्थितिः प्रलयश्च, त एव गृह्यन्ते । न यथोक्तविशेषणस्य जगतो यथो­क्त­वि­शे­ष­ण­मी­श्वरं मुक्त्वा, अन्यतः प्रधानादचेतनात् अणुभ्यः अभावात् संसारिणो वा उत्पत्त्यादि सम्भावयितुं शक्यम् । न च स्वभावतः, विशि­ष्ट­दे­श­का­ल­नि­मि­त्ता­ना­मि­हो­पा­दा­नात् । एतदेवानुमानं संसा­रि­व्य­ति­रि­क्ते­श्व­रा­स्ति­त्वा­दि­सा­धनं मन्यन्ते ईश्वरकारणवादिनः ॥

नन्विहापि तदेवोपन्यस्तं जन्मादिसूत्रे । न; वेदा­न्त­वा­क्य­कु­सु­म­ग्र­थ­ना­र्थ­त्वा­त्सू­त्रा­णाम् । वेदान्तवाक्यानि हि सूत्रैरुदाहृत्य विचार्यन्ते । वाक्या­र्थ­वि­चा­र­णा­ध्य­व­सा­न­नि­र्वृत्ता हि ब्रह्मावगतिः, नानु­मा­ना­दि­प्र­मा­णा­न्त­र­नि­र्वृत्ता । सत्सु तु वेदान्तवाक्येषु जगतो जन्मा­दि­का­र­ण­वा­दिषु, तद­र्थ­ग्र­ह­ण­दा­र्ढ्याय अनुमानमपि वेदा­न्त­वा­क्या­वि­रोधि प्रमाणं भवत् , न निवार्यते, श्रुत्यैव च सहायत्वेन तर्क­स्या­भ्यु­पे­त­त्वात् । तथा हि — ‘श्रोतव्यो मन्तव्यः’(बृ. उ. २ । ४ । ५) इति श्रुतिः ‘पण्डितो मेधावी गन्धा­रा­ने­वो­प­स­म्प­द्ये­तै­व­मे­वे­हा­चा­र्य­वा­न्पु­रुषो वेद’(छा. उ. ६ । १४ । २) इति च पुरु­ष­बु­द्धि­सा­हा­य्य­मा­त्मनो दर्शयति । न धर्म­जि­ज्ञा­सा­या­मिव श्रुत्यादय एव प्रमाणं ब्रह्म­जि­ज्ञा­सा­याम् । किन्तु श्रुत्या­द­योऽ­नु­भ­वा­द­यश्च यथासम्भवमिह प्रमाणम् , अनु­भ­वा­व­सा­न­त्वा­द्भू­त­व­स्तु­वि­ष­य­त्वाच्च ब्रह्मज्ञानस्य । कर्तव्ये हि विषये नानु­भ­वा­पे­क्षा­स्तीति श्रुत्यादीनामेव प्रामाण्यं स्यात् , पुरु­षा­धी­ना­त्म­ला­भ­त्वाच्च कर्तव्यस्य । कर्तु­म­क­र्तु­म­न्यथा वा कर्तुं शक्यं लौकिकं वैदिकं च कर्म; यथा अश्वेन गच्छति, पद्भ्याम् , अन्यथा वा, न वा गच्छतीति । तथा ‘अतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णाति’ ‘उदिते जुहोति, अनुदिते जुहोति’ इति विधि­प्र­ति­षे­धाश्च अत्र अर्थवन्तः स्युः, विक­ल्पो­त्स­र्गा­प­वा­दाश्च । न तु वस्तु ‘एवम् , नैवम्’ ‘अस्ति, नास्ति’ इति वा विकल्प्यते । विकल्पनास्तु पुरु­ष­बु­द्ध्य­पेक्षाः । न वस्तु­या­था­त्म्य­ज्ञानं पुरु­ष­बु­द्ध्य­पे­क्षम् । किं तर्हि ? वस्तुतन्त्रमेव तत् । न हि स्थाणावेकस्मिन् ‘स्थाणुर्वा, पुरुषोऽन्यो वा’ इति तत्त्वज्ञानं भवति । तत्र ‘पुरुषोऽन्यो वा’ इति मिथ्याज्ञानम् । ‘स्थाणुरेव’ इति तत्त्वज्ञानम् , वस्तु­त­न्त्र­त्वात् । एवं भूत­व­स्तु­वि­ष­याणां प्रामाण्यं वस्तुतन्त्रम् । तत्रैवं सति ब्रह्मज्ञानमपि वस्तुतन्त्रमेव, भूत­व­स्तु­वि­ष­य­त्वात् । ननु भूतवस्तुत्वे ब्रह्मणः प्रमा­णा­न्त­र­वि­ष­य­त्व­मे­वेति वेदा­न्त­वा­क्य­वि­चा­रणा अनर्थिकैव प्राप्ता । न; इन्द्रि­या­वि­ष­य­त्वेन सम्ब­न्धा­ग्र­ह­णात् । स्वभावतो विष­य­वि­ष­या­णी­न्द्रि­याणि, न ब्रह्मविषयाणि । सति हीन्द्रि­य­वि­ष­यत्वे ब्रह्मणः इदं ब्रह्मणा सम्बद्धं कार्यमिति गृह्येत । कार्यमात्रमेव तु गृह्यमाणम् — किं ब्रह्मणा सम्बद्धम् ? किमन्येन केनचिद्वा सम्बद्धम् ? — इति न शक्यं निश्चेतुम् । तस्मा­ज्ज­न्मा­दि­सूत्रं नानु­मा­नो­प­न्या­सा­र्थम् । किं तर्हि ? वेदा­न्त­वा­क्य­प्र­द­र्श­ना­र्थम् । किं पुन­स्त­द्वे­दा­न्त­वाक्यं यत् सूत्रेणेह लिलक्षयिषितम् ? ‘भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति’(तै. उ. ३ । १ । १) इत्युपक्रम्याह — ‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्र­य­न्त्य­भि­सं­वि­शन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति । ’(तै. उ. ३ । १ । १) तस्य च निर्णयवाक्यम् — ‘आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रय­न्त्य­भि­सं­वि­शन्ति’(तै. उ. ३ । ६ । १) इति । अन्या­न्य­प्ये­वं­जा­ती­य­कानि वाक्यानि नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भा­व­स­र्व­ज्ञ­स्व­रू­प­का­र­ण­वि­ष­याणि उदाहर्तव्यानि ॥ २ ॥

जग­त्का­र­ण­त्व­प्र­द­र्श­नेन सर्वज्ञं ब्रह्मे­त्यु­प­क्षि­प्तम् , तदेव द्रढयन्नाह —

शास्त्र­यो­नि­त्वात् ॥ ३ ॥

महत ऋग्वेदादेः शास्त्रस्य अने­क­वि­द्या­स्था­नो­प­बृं­हि­तस्य प्रदी­प­व­त्स­र्वा­र्था­व­द्यो­तिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म । न हीदृशस्य शास्त्रस्य ऋग्वे­दा­दि­ल­क्ष­णस्य सर्व­ज्ञ­गु­णा­न्वि­तस्य सर्वज्ञादन्यतः सम्भवोऽस्ति । यद्य­द्वि­स्त­रार्थं शास्त्रं यस्मा­त्पु­रु­ष­वि­शे­षा­त्स­म्भ­वति, यथा व्याकरणादि पाणिन्यादेः ज्ञेयै­क­दे­शा­र्थ­मपि, स ततोऽ­प्य­धि­क­त­र­वि­ज्ञान इति प्रसिद्धं लोके । किमु वक्तव्यम् — अने­क­शा­खा­भे­द­भि­न्नस्य देव­ति­र्य­ङ्म­नु­ष्य­व­र्णा­श्र­मा­दि­प्र­वि­भा­ग­हेतोः ऋग्वे­दा­द्या­ख्यस्य सर्वज्ञानाकरस्य अप्रयत्नेनैव लीलान्यायेन पुरु­ष­निः­श्वा­स­वत् यस्मान्महतो भूतात् योनेः सम्भवः — ‘अस्य महतो भूतस्य निःश्वसितमेतत् यदृग्वेदः’(बृ. उ. २ । ४ । १०) इत्यादिश्रुतेः — तस्य महतो भूतस्य निरतिशयं सर्वज्ञत्वं सर्व­श­क्ति­मत्त्वं चेति ॥

अथवा यथो­क्त­मृ­ग्वे­दा­दि­शास्त्रं योनिः कारणं प्रमाणमस्य ब्रह्मणो यथा­व­त्स्व­रू­पा­धि­गमे । शास्त्रादेव प्रमाणात् जगतो जन्मादिकारणं ब्रह्माधिगम्यत इत्यभिप्रायः । शास्त्रमुदाहृतं पूर्वसूत्रे — ‘यतो वा इमानि भूतानि जायन्ते’(तै. उ. ३ । १ । १) इत्यादि । किमर्थं तर्हीदं सूत्रम् , यावता पूर्वसूत्र एव एवंजातीयकं शास्त्रमुदाहरता शास्त्रयोनित्वं ब्रह्मणो दर्शितम् । उच्यते — तत्र सूत्राक्षरेण स्पष्टं शास्त्र­स्या­नु­पा­दा­ना­ज्ज­न्मा­दि­सू­त्रेण केव­ल­म­नु­मा­न­मु­प­न्य­स्त­मि­त्या­श­ङ्क्येत; तामाशङ्कां निवर्तयितुमिदं सूत्रं प्रववृते — ‘शास्त्र­यो­नि­त्वात्’ इति ॥ ३ ॥

कथं पुनर्ब्रह्मणः शास्त्र­प्र­मा­ण­क­त्व­मु­च्यते, यावता ‘आम्नायस्य क्रिया­र्थ­त्वा­दा­न­र्थ­क्य­म­त­द­र्था­नाम्’(जै. सू. १ । २ । १) इति क्रियापरत्वं शास्त्रस्य प्रदर्शितम् । अतो वेदा­न्ता­ना­मा­न­र्थ­क्यम् , अक्रि­या­र्थ­त्वात् । कर्तृ­दे­व­ता­दि­प्र­का­श­ना­र्थ­त्वेन वा क्रिया­वि­धि­शे­ष­त्वम् , उपा­स­ना­दि­क्रि­या­न्त­र­वि­धा­ना­र्थत्वं वा । न हि परि­नि­ष्ठि­त­व­स्तु­प्र­ति­पा­दनं सम्भवति; प्रत्य­क्षा­दि­वि­ष­य­त्वा­त्प­रि­नि­ष्ठि­त­व­स्तुनः । तत्प्रतिपादने च हेयोपादेयरहिते पुरु­षा­र्था­भा­वात् । अत एव ‘सोऽरोदीत्’ इत्ये­व­मा­दी­ना­मा­न­र्थक्यं मा भूदिति ‘विधिना त्वेक­वा­क्य­त्वा­त्स्तु­त्य­र्थेन विधीनां स्युः’(जै. सू. १ । २ । ७) इति स्ताव­क­त्वे­ना­र्थ­व­त्त्व­मु­क्तम् । मन्त्राणां च ‘इषे त्वा’ इत्यादीनां क्रिया­त­त्सा­ध­ना­भि­धा­यि­त्वेन कर्म­स­म­वा­यि­त्व­मु­क्तम् । अतो न क्वचिदपि वेदवाक्यानां विधि­सं­स्प­र्श­म­न्त­रे­णा­र्थ­वत्ता दृष्टा उपपन्ना वा । न च परिनिष्ठिते वस्तुस्वरूपे विधिः सम्भवति, क्रिया­वि­ष­य­त्वा­द्विधेः । तस्मा­त्क­र्मा­पे­क्षि­त­क­र्तृ­दे­व­ता­दि­स्व­रू­प­प्र­का­श­नेन क्रिया­वि­धि­शे­षत्वं वेदान्तानाम् । अथ प्रक­र­णा­न्त­र­भ­या­न्नै­त­द­भ्यु­प­ग­म्यते, तथापि स्ववा­क्य­ग­तो­पा­स­ना­दि­क­र्म­प­र­त्वम् । तस्मान्न ब्रह्मणः शास्त्र­यो­नि­त्व­मिति प्राप्ते, उच्यते —

तत्तु समन्वयात् ॥ ४ ॥

तुशब्दः पूर्व­प­क्ष­व्या­वृ­त्त्यर्थः । तद्ब्रह्म सर्वज्ञं सर्वशक्ति जग­दु­त्प­त्ति­स्थि­ति­ल­य­का­रणं वेदा­न्त­शा­स्त्रा­दे­वा­व­ग­म्यते । कथम् ? समन्वयात् । सर्वेषु हि वेदान्तेषु वाक्यानि तात्प­र्ये­णै­त­स्या­र्थस्य प्रतिपादकत्वेन समनुगतानि — ‘सदेव सोम्येदमग्र आसीत् एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) ‘आत्मा वा इदमेक एवाग्र आसीत्’(ऐ. उ. १ । १ । १) ‘तदे­त­द्ब्र­ह्मा­पू­र्व­म­न­प­र­म­न­न्त­र­म­बा­ह्य­म्अ­य­मात्मा ब्रह्म सर्वानुभूः’(बृ. उ. २ । ५ । १९) ‘ब्रह्मै­वे­द­म­मृतं पुरस्तात्’(मु. उ. २ । २ । १२) इत्यादीनि । न च तद्गतानां पदानां ब्रह्म­स्व­रू­प­वि­षये निश्चिते सम­न्व­येऽ­व­ग­म्य­माने अर्थान्तरकल्पना युक्ता, श्रुत­हा­न्य­श्रु­त­क­ल्प­ना­प्र­स­ङ्गात् । न च तेषां कर्तृ­दे­व­ता­दि­स्व­रू­प­प्र­ति­पा­द­न­प­रता अवसीयते, ‘तत्केन कं पश्येत्’(बृ. उ. २ । ४ । १४) इत्या­दि­क्रि­या­का­र­क­फ­ल­नि­रा­क­र­ण­श्रुतेः । न च परि­नि­ष्ठि­त­व­स्तु­स्व­रू­प­त्वेऽपि प्रत्य­क्षा­दि­वि­ष­यत्वं ब्रह्मणः, ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) इति ब्रह्मा­त्म­भा­वस्य शास्त्र­म­न्त­रे­णा­न­व­ग­म्य­मा­न­त्वात् । यत्तु हेयो­पा­दे­य­र­हि­त­त्वा­दु­प­दे­शा­न­र्थ­क्य­मिति, नैष दोषः; हेयो­पा­दे­य­शू­न्य­ब्र­ह्मा­त्म­ता­व­ग­मा­देव सर्व­क्ले­श­प्र­हा­णा­त्पु­रु­षा­र्थ­सिद्धेः । देव­ता­दि­प्र­ति­पा­द­नस्य तु स्ववा­क्य­ग­तो­पा­स­ना­र्थ­त्वेऽपि न कश्चिद्विरोधः । न तु तथा ब्रह्मण उपा­स­ना­वि­धि­शे­षत्वं सम्भवति, एकत्वे हेयो­पा­दे­य­शू­न्य­तया क्रिया­का­र­का­दि­द्वै­त­वि­ज्ञा­नो­प­म­र्दो­प­पत्तेः । न हि एक­त्व­वि­ज्ञा­ने­नो­न्म­थि­तस्य द्वैतविज्ञानस्य पुनः सम्भवोऽस्ति येनो­पा­स­ना­वि­धि­शे­षत्वं ब्रह्मणः प्रतिपाद्येत । यद्यप्यन्यत्र वेदवाक्यानां विधि­सं­स्प­र्श­म­न्त­रेण प्रमाणत्वं न दृष्टम् , तथा­प्या­त्म­वि­ज्ञा­नस्य फल­प­र्य­न्त­त्वान्न तद्विषयस्य शास्त्रस्य प्रामाण्यं शक्यं प्रत्याख्यातुम् । न चानुमानगम्यं शास्त्र­प्रा­मा­ण्यम् , येनान्यत्र दृष्टं निद­र्श­न­म­पे­क्ष्येत । तस्मात्सिद्धं ब्रह्मणः शास्त्र­प्र­मा­ण­क­त्वम् ॥

अत्रापरे प्रत्य­व­ति­ष्ठन्ते — यद्यपि शास्त्रप्रमाणकं ब्रह्म, तथापि प्रति­प­त्ति­वि­धि­वि­ष­य­त­यैव शास्त्रेण ब्रह्म समर्प्यते । यथा यूपा­ह­व­नी­या­दी­न्य­लौ­कि­का­न्यपि विधिशेषतया शास्त्रेण समर्प्यन्ते, तद्वत् । कुत एतत् ? प्रवृ­त्ति­नि­वृ­त्ति­प्र­यो­ज­न­त्वा­च्छा­स्त्रस्य । तथा हि शास्त्र­ता­त्प­र्य­विद आहुः — ‘दृष्टो हि तस्यार्थः कर्मावबोधनं नाम’ इति; ‘चोदनेति क्रियायाः प्रवर्तकं वचनम्’ ‘तस्य ज्ञानमुपदेशः’ (जै. सू. १ । १ । ५), ‘तद्भूतानां क्रियार्थेन समाम्नायः’(जै. सू. १ । १ । २५) ‘आम्नायस्य क्रिया­र्थ­त्वा­दा­न­र्थ­क्य­म­त­द­र्था­नाम्’(जै. सू. १ । २ । १) इति च । अतः पुरुषं क्वचि­द्वि­ष­य­वि­शेषे प्रव­र्त­य­त्कु­त­श्चि­द्वि­ष­य­वि­शे­षा­न्नि­व­र्त­य­च्चा­र्थ­व­च्छा­स्त्रम् । तच्छेषतया चान्यदुपयुक्तम् । तत्सा­मा­न्या­द्वे­दा­न्ता­ना­मपि तथैवार्थवत्त्वं स्यात् । सति च विधिपरत्वे यथा स्वर्गा­दि­का­म­स्या­ग्नि­हो­त्रा­दि­सा­धनं विधीयते, एवममृतत्वकामस्य ब्रह्मज्ञानं विधीयत इति युक्तम् । नन्विह जिज्ञा­स्य­वै­ल­क्ष­ण्य­मु­क्तम् — कर्मकाण्डे भव्यो धर्मो जिज्ञास्यः, इह तु भूतं नित्यनिर्वृत्तं ब्रह्म जिज्ञास्यमिति; तत्र धर्म­ज्ञा­न­फ­ला­द­नु­ष्ठा­ना­पे­क्षा­द्वि­ल­क्षणं ब्रह्मज्ञानफलं भवितुमर्हति । नार्हत्येवं भवितुम् , कार्य­वि­धि­प्र­यु­क्त­स्यैव ब्रह्मणः प्रति­पा­द्य­मा­न­त्वात् । ‘आत्मा वा अरे द्रष्टव्यः’(बृ. उ. २ । ४ । ५) ‘य आत्मापहतपाप्मा ... सोऽन्वेष्टव्यः स विजि­ज्ञा­सि­तव्यः’(छा. उ. ८ । ७ । १) ‘आत्मे­त्ये­वो­पा­सीत’(बृ. उ. १ । ४ । ७) ‘आत्मानमेव लोकमुपासीत’(बृ. उ. १ । ४ । १५) ‘ब्रह्म वेद ब्रह्मैव भवति’(मु. उ. ३ । २ । ९) इत्यादिषु विधानेषु सत्सु, ‘कोऽसावात्मा ?’ ‘किं तद्ब्रह्म ?’ इत्या­का­ङ्क्षायां तत्स्व­रू­प­स­म­र्प­णेन सर्वे वेदान्ता उपयुक्ताः — नित्यः सर्वज्ञः सर्वगतो नित्यतृप्तो नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावो विज्ञानमानन्दं ब्रह्म इत्येवमादयः । तदुपासनाच्च शास्त्र­दृ­ष्टोऽ­दृष्टो मोक्षः फलं भविष्यति । कर्त­व्य­वि­ध्य­न­नु­प्र­वेशे तु वस्तुमात्रकथने हानो­पा­दा­ना­स­म्भ­वात् ‘सप्तद्वीपा वसुमती’ ‘राजासौ गच्छति’ इत्या­दि­वा­क्य­व­द्वे­दा­न्त­वा­क्या­ना­मा­न­र्थ­क्य­मेव स्यात् । ननु वस्तु­मा­त्र­क­थ­नेऽपि ‘रज्जुरियम् , नायं सर्पः’ इत्यादौ भ्रान्ति­ज­नि­त­भी­ति­नि­व­र्त­ने­ना­र्थ­वत्त्वं दृष्टम् । तथे­हा­प्य­सं­सा­र्या­त्म­व­स्तु­क­थ­नेन संसा­रि­त्व­भ्रा­न्ति­नि­व­र्त­ने­ना­र्थ­वत्त्वं स्यात् । स्यादेतदेवम् , यदि रज्जु­स्व­रू­प­श्र­व­ण­मा­त्रे­णेव सर्पभ्रान्तिः, संसा­रि­त्व­भ्रा­न्ति­र्ब्र­ह्म­स्व­रू­प­श्र­व­ण­मा­त्रेण निवर्तेत; न तु निवर्तते । श्रुत­ब्र­ह्म­णोऽपि यथापूर्वं सुख­दुः­खा­दि­सं­सा­रि­ध­र्म­द­र्श­नात् । ‘श्रोतव्यो मन्तव्यो निदि­ध्या­सि­तव्यः’(बृ. उ. २ । ४ । ५) इति च श्रव­णो­त्त­र­का­ल­यो­र्म­न­न­नि­दि­ध्या­स­न­यो­र्वि­धि­द­र्श­नात् । तस्मा­त्प्र­ति­प­त्ति­वि­धि­वि­ष­य­त­यैव शास्त्रप्रमाणकं ब्रह्मा­भ्यु­प­ग­न्त­व्य­मिति ॥

अत्राभिधीयते — न; कर्म­ब्र­ह्म­वि­द्या­फ­ल­यो­र्वै­ल­क्ष­ण्यात् । शारीरं वाचिकं मानसं च कर्म श्रुति­स्मृ­ति­सिद्धं धर्माख्यम् , यद्विषया जिज्ञासा ‘अथातो धर्मजिज्ञासा’(जै. सू. १ । १ । १) इति सूत्रिता । अधर्मोऽपि हिंसादिः प्रति­षे­ध­चो­द­ना­ल­क्ष­ण­त्वा­ज्जि­ज्ञास्यः परिहाराय । तयो­श्चो­द­ना­ल­क्ष­ण­यो­र­र्था­न­र्थ­यो­र्ध­र्मा­ध­र्मयोः फले प्रत्यक्षे सुखदुःखे शरी­र­वा­ङ्म­नो­भि­रे­वो­प­भु­ज्य­माने विष­ये­न्द्रि­य­सं­यो­ग­जन्ये ब्रह्मादिषु स्थावरान्तेषु प्रसिद्धे । मनु­ष्य­त्वा­दा­रभ्य ब्रह्मान्तेषु देहवत्सु सुख­ता­र­त­म्य­म­नु­श्रू­यते । ततश्च तद्धे­तो­र्ध­र्म­स्यापि तारतम्यं गम्यते । धर्म­ता­र­त­म्या­द­धि­का­रि­ता­र­त­म्यम् । प्रसिद्धं चार्थि­त्व­सा­म­र्थ्या­दि­कृ­त­म­धि­का­रि­ता­र­त­म्यम् । तथा च यागा­द्य­नु­ष्ठा­यि­ना­मेव विद्या­स­मा­धि­वि­शे­षा­दु­त्त­रेण पथा गमनम् , केव­लै­रि­ष्टा­पू­र्त­द­त्त­सा­ध­नै­र्धू­मा­दि­क्र­मेण दक्षिणेन पथा गमनम् , तत्रापि सुखतारतम्यम् , तत्साधनतारतम्यं च शास्त्रात् ‘याव­त्स­म्पा­त­मु­षित्वा’(छा. उ. ५ । १० । ५) इत्य­स्मा­द्ग­म्यते । तथा मनुष्यादिषु स्थावरान्तेषु सुख­ल­व­श्चो­द­ना­ल­क्ष­ण­ध­र्म­साध्य एवेति गम्यते तारतम्येन वर्तमानः । तथो­र्ध्व­ग­ते­ष्व­धो­ग­तेषु च देहवत्सु दुःख­ता­र­त­म्य­द­र्श­ना­त्त­द्धे­तो­र­ध­र्मस्य प्रति­षे­ध­चो­द­ना­ल­क्ष­णस्य तदनुष्ठायिनां च तारतम्यं गम्यते । एव­म­वि­द्या­दि­दो­ष­वतां धर्मा­ध­र्म­ता­र­त­म्य­नि­मित्तं शरी­रो­पा­दा­न­पू­र्वकं सुख­दुः­ख­ता­र­त­म्य­म­नित्यं संसाररूपं श्रुति­स्मृ­ति­न्या­य­प्र­सि­द्धम् । तथा च श्रुतिः ‘न ह वै सशरीरस्य सतः प्रिया­प्रि­य­यो­र­प­ह­ति­रस्ति’ इति यथावर्णितं संसाररूपमनुवदति । ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’(छा. उ. ८ । १२ । १) इति प्रिया­प्रि­य­स्प­र्श­न­प्र­ति­षे­धा­च्चो­द­ना­ल­क्ष­ण­ध­र्म­का­र्यत्वं मोक्षा­ख्य­स्या­श­री­र­त्वस्य प्रतिषिध्यत इति गम्यते । धर्मकार्यत्वे हि प्रिया­प्रि­य­स्प­र्श­न­प्र­ति­षेधो नोपपद्येत । अशरीरत्वमेव धर्मकार्यमिति चेत् , न । तस्य स्वाभाविकत्वात् — ‘अशरीरꣳ शरी­रे­ष्व­न­व­स्थे­ष्व­व­स्थि­तम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति’ (क. उ. १ । २ । २२), ‘अप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २ । १ । २), ‘असङ्गो ह्ययं पुरुषः’(बृ. उ. ४ । ३ । १५) इत्या­दि­श्रु­तिभ्यः । अत एवा­नु­ष्ठे­य­क­र्म­फ­ल­वि­ल­क्षणं मोक्षा­ख्य­म­श­री­रत्वं नित्यमिति सिद्धम् । तत्र किञ्चि­त्प­रि­णा­मि­नित्यं यस्मि­न्वि­क्रि­य­मा­णेऽपि तदेवेदमिति बुद्धिर्न विहन्यते; यथा पृथिव्यादि जग­न्नि­त्य­त्व­वा­दि­नाम् , यथा वा साङ्ख्यानां गुणाः । इदं तु पारमार्थिकं कूटस्थनित्यं व्योम­व­त्स­र्व­व्यापि सर्व­वि­क्रि­या­र­हितं नित्यतृप्तं निरवयवं स्वयं­ज्यो­तिः­स्व­भा­वम् , यत्र धर्माधर्मौ सह कार्येण कालत्रयं च नोपावर्तेते । तदेतदशरीरत्वं मोक्षाख्यम् — ‘अन्यत्र धर्मा­द­न्य­त्रा­ध­र्मा­द­न्य­त्रा­स्मा­त्कृ­ता­कृ­तात् । अन्यत्र भूताच्च भव्याच्च’(क. उ. १ । २ । १४) इत्या­दि­श्रु­तिभ्यः । अतस्तद्ब्रह्म, यस्येयं जिज्ञासा प्रस्तुता । तद्यदि कर्त­व्य­शे­ष­त्वे­नो­प­दि­श्येत, तेन च कर्तव्येन साध्य­श्चे­न्मो­क्षोऽ­भ्यु­प­ग­म्येत, अनित्य एव स्यात् । तत्रैवं सति यथो­क्त­क­र्म­फ­ले­ष्वेव तार­त­म्या­व­स्थि­ते­ष्व­नि­त्येषु कश्चिदतिशयो मोक्ष इति प्रसज्येत । नित्यश्च मोक्षः सर्वै­र्मो­क्ष­वा­दि­भि­र­भ्यु­प­ग­म्यते । अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्तः । अपि च ‘ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९),‘ब्रह्म वेद ब्रह्मैव भवति’(मु. उ. ३ । २ । ९) (मु. उ. ३ । २ । ९), ‘क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९), ‘आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १), ‘अभयं वै जनक प्राप्तोऽसि’(बृ. उ. ४ । २ । ४,) ‘तदा­त्मा­न­मे­वा­वे­दहं ब्रह्मास्मीति, तस्मा­त्त­त्स­र्व­म­भ­वत्’ (वाजसनेयि ब्रह्मण. उ. १ । ४ । १०), ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’(ई. उ. ७) इत्येवमाद्याः श्रुतयो ब्रह्म­वि­द्या­न­न्त­र­मेव मोक्षं दर्शयन्त्यो मध्ये कार्यान्तरं वारयन्ति । तथा ‘तद्धै­त­त्प­श्य­न्नृ­षि­र्वा­म­देवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च’(बृ. उ. १ । ४ । १०) इति ब्रह्म­द­र्श­न­स­र्वा­त्म­भा­व­यो­र्मध्ये कर्त­व्या­न्त­र­वा­र­णा­यो­दा­हा­र्यम् — यथा ‘तिष्ठन्गायति’ इति तिष्ठ­ति­गा­य­त्यो­र्मध्ये तत्कर्तृकं कार्यान्तरं नास्तीति गम्यते । ‘त्वं हि नः पिता योऽस्मा­क­म­वि­द्यायाः परं पारं तारयसि’ (प्र. उ. ६ । ८), ‘श्रुतं ह्येव मे भग­व­द्दृ­शे­भ्य­स्त­रति शोकमात्मविदिति; सोऽहं भगवः शोचामि, तं मा भगवाञ्छोकस्य पारं तारयतु’(छा. उ. ७ । १ । ३) ‘तस्मै मृदितकषायाय तमसः पारं दर्शयति भग­वा­न्स­न­त्कु­मारः’(छा. उ. ७ । २६ । २) इति चैवमाद्याः श्रुतयो मोक्ष­प्र­ति­ब­न्ध­नि­वृ­त्ति­मा­त्र­मे­वा­त्म­ज्ञा­नस्य फलं दर्शयन्ति । तथा च आचार्यप्रणीतं न्यायोपबृंहितं सूत्रम् — ‘दुःख­ज­न्म­प्र­वृ­त्ति­दो­ष­मि­थ्या­ज्ञा­ना­ना­मु­त्त­रो­त्त­रा­पाये तद­न­न्त­रा­पा­या­द­प­वर्गः’(न्या. सू. १ । १ । २) इति । मिथ्या­ज्ञा­ना­पा­यश्च ब्रह्मा­त्मै­क­त्व­वि­ज्ञा­ना­द्भ­वति । न चेदं ब्रह्मा­त्मै­क­त्व­वि­ज्ञानं सम्पद्रूपम् — यथा ‘अनन्तं वै मनोऽनन्ता विश्वेदेवा अनन्तमेव स तेन लोकं जयति’(बृ. उ. ३ । १ । ९) इति । न चाध्यासरूपम् — यथा ‘मनो ब्रह्मे­त्यु­पा­सीत’(छा. उ. ३ । १८ । १) ‘आदित्यो ब्रह्मे­त्या­देशः’(छा. उ. ३ । १९ । १) इति च मनआदित्यादिषु ब्रह्म­दृ­ष्ट्य­ध्यासः । नापि विशि­ष्ट­क्रि­या­यो­ग­नि­मि­त्तम् ‘वायुर्वाव संवर्गः’(छा. उ. ४ । ३ । १) ‘प्राणो वाव संवर्गः’(छा. उ. ४ । ३ । ३) इतिवत् । नाप्या­ज्या­वे­क्ष­णा­दि­क­र्म­व­त्क­र्मा­ङ्ग­सं­स्का­र­रू­पम् । सम्पदादिरूपे हि ब्रह्मा­त्मै­क­त्व­वि­ज्ञा­नेऽ­भ्यु­प­ग­म्य­माने, ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) ‘अहं ब्रह्मास्मि’(बृ. उ. १ । ४ । १०) ‘अयमात्मा ब्रह्म’(बृ. उ. २ । ५ । १९)‘अयमात्मा ब्रह्म’(बृ. उ. २ । ५ । १९) इत्येवमादीनां वाक्यानां ब्रह्मा­त्मै­क­त्व­व­स्तु­प्र­ति­पा­द­न­परः पदसमन्वयः पीड्येत । ‘भिद्यते हृद­य­ग्र­न्थि­श्छि­द्यन्ते सर्वसंशयाः’(मु. उ. २ । २ । ९) इति चैव­मा­दी­न्य­वि­द्या­नि­वृ­त्ति­फ­ल­श्र­व­णा­न्यु­प­रु­ध्ये­रन् । ‘ब्रह्म वेद ब्रह्मैव भवति’ इति चैवमादीनि तद्भा­वा­प­त्ति­व­च­नानि सम्पदादिरूपत्वे न साम­ञ्ज­स्ये­नो­प­प­द्ये­रन् । तस्मान्न सम्पदादिरूपं ब्रह्मा­त्मै­क­त्व­वि­ज्ञा­नम् । अतो न पुरु­ष­व्या­पा­र­तन्त्रा ब्रह्मविद्या । किं तर्हि ? प्रत्य­क्षा­दि­प्र­मा­ण­वि­ष­य­व­स्तु­ज्ञा­न­व­द्व­स्तु­त­न्त्रैव । एवंभूतस्य ब्रह्म­ण­स्त­ज्ज्ञा­नस्य च न कयाचिद्युक्त्या शक्यः कार्यानुप्रवेशः कल्पयितुम् । न च विदि­क्रि­या­क­र्म­त्वेन कार्यानुप्रवेशो ब्रह्मणः — ‘अन्यदेव तद्विदितादथो अविदितादधि’(के. उ. १ । ४) इति विदि­क्रि­या­क­र्म­त्व­प्र­ति­षे­धात् , ‘येनेदं सर्वं विजानाति तं केन विजानीयात्’(बृ. उ. २ । ४ । १४) इति च । तथो­पा­स्ति­क्रि­या­क­र्म­त्व­प्र­ति­षे­धोऽपि भवति — ‘यद्वा­चा­न­भ्यु­दितं येन वागभ्युद्यते’ इत्यविषयत्वं ब्रह्मण उपन्यस्य, ‘तदेव ब्रह्म त्वं विद्धि, नेदं यदिदमुपासते’(के. उ. १ । ५) इति । अविषयत्वे ब्रह्मणः शास्त्र­यो­नि­त्वा­नु­प­प­त्ति­रिति चेत् , न; अवि­द्या­क­ल्पि­त­भे­द­नि­वृ­त्ति­प­र­त्वा­च्छा­स्त्रस्य । न हि शास्त्रमिदंतया विषयभूतं ब्रह्म प्रतिपिपादयिषति । किं तर्हि ? प्रत्य­गा­त्म­त्वे­ना­वि­ष­य­तया प्रतिपादयत् अविद्याकल्पितं वेद्य­वे­दि­तृ­वे­द­ना­दि­भे­द­म­प­न­यति । तथा च शास्त्रम् — ‘यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञा­त­म­वि­जा­न­ताम्’(के. उ. २ । ३) ‘न दृष्टे­र्द्र­ष्टारं पश्येः’(बृ. उ. ३ । ४ । २) ‘न विज्ञा­ते­र्वि­ज्ञा­तारं विजानीयाः’(बृ. उ. ३ । ४ । २) इति चैवमादि । अतोऽ­वि­द्या­क­ल्पि­त­सं­सा­रि­त्व­नि­व­र्त­नेन नित्य­मु­क्ता­त्म­स्व­रू­प­स­म­र्प­णान्न मोक्ष­स्या­नि­त्य­त्व­दोषः । यस्य तूत्पाद्यो मोक्षः, तस्य मानसं वाचिकं कायिकं वा कार्यमपेक्षत इति युक्तम् । तथा विकार्यत्वे च । तयोः पक्ष­यो­र्मो­क्षस्य ध्रुव­म­नि­त्य­त्वम् । न हि दध्यादि विकार्यम् उत्पाद्यं वा घटादि नित्यं दृष्टं लोके । न च आप्यत्वेनापि कार्यापेक्षा, स्वात्म­स्व­रू­पत्वे सत्य­ना­प्य­त्वात्; स्वरू­प­व्य­ति­रि­क्त­त्वेऽपि ब्रह्मणो नाप्यत्वम् , सर्वगतत्वेन नित्या­प्त­स्व­रू­प­त्वा­त्स­र्वेण ब्रह्मण आकाशस्येव । नापि संस्कार्यो मोक्षः, येन व्यापारमपेक्षेत । संस्कारो हि नाम संस्कार्यस्य गुणाधानेन वा स्यात् , दोषापनयनेन वा । न तावद्गुणाधानेन सम्भवति, अना­धे­या­ति­श­य­ब्र­ह्म­स्व­रू­प­त्वा­न्मो­क्षस्य । नापि दोषापनयनेन, नित्य­शु­द्ध­ब्र­ह्म­स्व­रू­प­त्वा­न्मो­क्षस्य । स्वात्मधर्म एव सन् तिरोभूतो मोक्षः क्रिययात्मनि संस्क्रि­य­मा­णेऽ­भि­व्य­ज्यते — यथा आदर्शे निघर्षणक्रियया संस्क्रियमाणे भास्वरत्वं धर्म इति चेत् , न; क्रिया­श्र­य­त्वा­नु­प­प­त्ते­रा­त्मनः । यदाश्रया हि क्रिया, तमविकुर्वती नैवात्मानं लभते । यद्यात्मा क्रियया विक्रियेत, अनि­त्य­त्व­मा­त्मनः प्रसज्येत । ‘अवि­का­र्योऽ­य­मु­च्यते’(भ. गी. २ । २५) इति चैवमादीनि वाक्यानि बाध्येरन् । तच्चानिष्टम् । तस्मान्न स्वाश्रया क्रिया आत्मनः सम्भवति । अन्या­श्र­या­यास्तु क्रियाया अविषयत्वान्न तयात्मा संस्क्रियते । ननु देहाश्रयया स्नाना­च­म­न­य­ज्ञो­प­वी­त­धा­र­णा­दिना क्रियया देही संस्क्रियमाणो दृष्टः, न; देहा­दि­सं­ह­त­स्यै­वा­वि­द्या­गृ­ही­त­स्या­त्मनः संस्क्रि­य­मा­ण­त्वात् । प्रत्यक्षं हि स्नाना­च­म­ना­दे­र्दे­ह­स­म­वा­यि­त्वम् । तया देहाश्रयया तत्संहत एव कश्चि­द­वि­द्य­या­त्म­त्वेन परिगृहीतः संस्क्रियत इति युक्तम् । यथा देहा­श्र­य­चि­कि­त्सा­नि­मि­त्तेन धातुसाम्येन तत्संहतस्य तदभिमानिन आरोग्यफलम् , ‘अहमरोगः’ इति यत्र बुद्धि­रु­त्प­द्यते — एवं स्नाना­च­म­न­य­ज्ञो­प­वी­त­धा­र­णा­दि­कया ‘अहं शुद्धः संस्कृतः’ इति यत्र बुद्धि­रु­त्प­द्यते, स संस्क्रियते । स च देहेन संहत एव । तेनैव ह्यहंकर्त्रा अहं­प्र­त्य­य­वि­ष­येण प्रत्ययिना सर्वाः क्रिया निर्वर्त्यन्ते । तत्फलं च स एवाश्नाति, ‘तयोरन्यः पिप्पलं स्वाद्व­त्त्य­न­श्न­न्न­न्योऽ­भि­चा­क­शीति’(मु. उ. ३ । १ । १) इति मन्त्रवर्णात् — ‘आत्मे­न्द्रि­य­म­नो­युक्तं भोक्ते­त्या­हु­र्म­नी­षिणः’(क. उ. १ । ३ । ४) इति च । तथा ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्व­भू­ता­न्त­रात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च’(श्वे. उ. ६ । ११) इति, ‘स पर्य­गा­च्छु­क्र­म­का­य­म­व्र­ण­म­स्ना­विरं शुद्ध­म­पा­प­वि­द्धम्’(ई. उ. ८) इति, च — एतौ मन्त्रा­व­ना­धे­या­ति­श­यतां नित्यशुद्धतां च ब्रह्मणो दर्शयतः । ब्रह्मभावश्च मोक्षः । तस्मान्न संस्कार्योऽपि मोक्षः । अतोऽन्यन्मोक्षं प्रति क्रिया­नु­प्र­वे­श­द्वारं न शक्यं केन­चि­द्द­र्श­यि­तुम् । तस्मा­ज्ज्ञा­न­मेकं मुक्त्वा क्रियाया गन्ध­मा­त्र­स्या­प्य­नु­प्र­वेश इह नोपपद्यते । ननु ज्ञानं नाम मानसी क्रिया, न; वैलक्षण्यात् । क्रिया हि नाम सा, यत्र वस्तु­स्व­रू­प­नि­र­पे­क्षैव चोद्यते, पुरु­ष­चि­त्त­व्या­पा­रा­धीना च, यथा — ‘यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्याये­द्व­ष­ट्क­रि­ष्यन्’(ऐ॰ब्रा॰ ३-१-८)इति, ‘सन्ध्यां मनसा ध्यायेत्’(ऐ. ब्रा. ३ । ८ । १) इति चैवमादिषु । ध्यानं चिन्तनं यद्यपि मानसम् , तथापि पुरुषेण कर्तु­म­क­र्तु­म­न्यथा वा कर्तुं शक्यम् , पुरु­ष­त­न्त्र­त्वात् । ज्ञानं तु प्रमाणजन्यम् । प्रमाणं च यथा­भू­त­व­स्तु­वि­ष­यम् । अतो ज्ञानं कर्तु­म­क­र्तु­म­न्यथा वा कर्तुमशक्यम् । केवलं वस्तुतन्त्रमेव तत्; न चोदनातन्त्रम् , नापि पुरुषतन्त्रम् । तस्मा­न्मा­न­स­त्वेऽपि ज्ञानस्य महद्वैलक्षण्यम् । यथा च ‘पुरुषो वाव गौतमाग्निः’(छा. उ. ५ । ७ । १) ‘योषा वाव गौतमाग्निः’(छा. उ. ५ । ८ । १) इत्यत्र योषि­त्पु­रु­ष­यो­र­ग्नि­बु­द्धि­र्मा­नसी भवति । केव­ल­चो­द­ना­ज­न्य­त्वात् क्रियैव सा पुरुषतन्त्रा च । या तु प्रसि­द्धेऽ­ग्ना­व­ग्नि­बुद्धिः, न सा चोदनातन्त्रा; नापि पुरुषतन्त्रा । किं तर्हि ? प्रत्य­क्ष­वि­ष­य­व­स्तु­त­न्त्रै­वेति ज्ञानमेवैतत्; न क्रिया — एवं सर्व­प्र­मा­ण­वि­ष­य­व­स्तुषु वेदितव्यम् । तत्रैवं सति यथा­भू­त­ब्र­ह्मा­त्म­वि­ष­य­मपि ज्ञानं न चोदनातन्त्रम् । तद्विषये लिङादयः श्रूयमाणा अपि अनि­यो­ज्य­वि­ष­य­त्वा­त्कु­ण्ठी­भ­वन्ति उपलादिषु प्रयु­क्त­क्षु­र­तै­क्ष्ण्या­दि­वत् , अहे­या­नु­पा­दे­य­व­स्तु­वि­ष­य­त्वात् । किमर्थानि तर्हि ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यः’(बृ. उ. २ । ४ । ५) इत्यादीनि विधिच्छायानि वचनानि ? स्वाभा­वि­क­प्र­वृ­त्ति­वि­ष­य­वि­मु­खी­क­र­णा­र्था­नीति ब्रूमः । यो हि बहिर्मुखः प्रवर्तते पुरुषः ‘इष्टं मे भूयादनिष्टं मा भूत्’ इति, न च तत्रात्यन्तिकं पुरुषार्थं लभते, तमा­त्य­न्ति­क­पु­रु­षा­र्थ­वा­ञ्छिनं स्वाभा­वि­का­त्का­र्य­क­र­ण­स­ङ्घा­त­प्र­वृ­त्ति­गो­च­रा­द्वि­मु­खी­कृत्य प्रत्य­गा­त्म­स्रो­त­स्तया प्रवर्तयन्ति ‘आत्मा वा अरे द्रष्टव्यः’ इत्यादीनि; तस्या­त्मा­न्वे­ष­णाय प्रवृ­त्त­स्या­हे­य­म­नु­पा­देयं चात्म­त­त्त्व­मु­प­दि­श्यते — ‘इदं सर्वं यदयमात्मा’(बृ. उ. २ । ४ । ६) ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्येत् ... केन कं विजानीयात्’(बृ. उ. ४ । ५ । १५) ‘विज्ञातारमरे केन विजानीयात्’(बृ. उ. २ । ४ । १४) ‘अयमात्मा ब्रह्म’ इत्यादिभिः । यद­प्य­क­र्त­व्य­प्र­धा­न­मा­त्म­ज्ञानं हानायोपादानाय वा न भवतीति, तत्त­थै­वे­त्य­भ्यु­प­ग­म्यते । अलङ्कारो ह्ययमस्माकम् — यद्ब्र­ह्मा­त्मा­व­गतौ सत्यां सर्व­क­र्त­व्य­ता­हानिः कृतकृत्यता चेति । तथा च श्रुतिः — ‘आत्मानं चेद्वि­जा­नी­या­द­य­म­स्मीति पूरुषः । किमिच्छन्कस्य कामाय शरी­र­म­नु­सं­ज्व­रेत्’(बृ. उ. ४ । ४ । १२) इति, ‘एतद्बुद्ध्वा बुद्धि­मा­न्स्या­त्कृ­त­कृ­त्यश्च भारत’(भ. गी. १५ । २०) इति च स्मृतिः । तस्मान्न प्रति­प­त्ति­वि­धि­वि­ष­य­तया ब्रह्मणः समर्पणम् ॥

यदपि केचिदाहुः — प्रवृ­त्ति­नि­वृ­त्ति­वि­धि­त­च्छे­ष­व्य­ति­रे­केण केवलवस्तुवादी वेदभागो नास्तीति, तन्न । औपनिषदस्य पुरु­ष­स्या­न­न्य­शे­ष­त्वात् । योऽसा­वु­प­नि­ष­त्स्वे­वा­धि­गतः पुरुषोऽसंसारी ब्रह्मस्वरूपः उत्पा­द्या­दि­च­तु­र्वि­ध­द्र­व्य­वि­ल­क्षणः स्वप्र­क­र­ण­स्थोऽ­न­न्य­शेषः, नासौ नास्ति नाधिगम्यत इति वा शक्यं वदितुम् । ‘स एष नेति नेत्यात्मा’(बृ. उ. ३ । ९ । २६) इत्यात्मशब्दात् आत्मनश्च प्रत्या­ख्या­तु­म­श­क्य­त्वात् , य एव निराकर्ता तस्यै­वा­त्म­त्वात् । नन्वात्मा अहं­प्र­त्य­य­वि­ष­य­त्वा­दु­प­नि­ष­त्स्वेव विज्ञायत इत्यनुपपन्नम् । न, तत्साक्षित्वेन प्रत्यु­क्त­त्वात् । न ह्यहं­प्र­त्य­य­वि­ष­य­क­र्तृ­व्य­ति­रे­केण तत्साक्षी सर्वभूतस्थः सम एकः कूटस्थनित्यः पुरुषो विधिकाण्डे तर्कसमये वा केनचिदधिगतः सर्वस्यात्मा । अतः स न केन­चि­त्प्र­त्या­ख्यातुं शक्यः, विधिशेषत्वं वा नेतुम्; आत्मत्वादेव च सर्वेषाम् — न हेयो नाप्युपादेयः । सर्वं हि विन­श्य­द्वि­का­र­जातं पुरुषान्तं विनश्यति । पुरुषो हि विना­श­हे­त्व­भा­वा­द­वि­नाशी । विक्रि­या­हे­त्व­भा­वाच्च कूटस्थनित्यः । अत एव नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावः; तस्मात् ‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’(क. उ. १ । ३ । ११) ‘तं त्वौपनिषदं पुरुषं पृच्छामि’(बृ. उ. ३ । ९ । २६) इति चौप­नि­ष­द­त्व­वि­शे­षणं पुरु­ष­स्यो­प­नि­षत्सु प्राधान्येन प्रकाश्यमानत्वे उपपद्यते । अतो भूतवस्तुपरो वेदभागो नास्तीति वचनं साहसमात्रम् ॥

यदपि शास्त्र­ता­त्प­र्य­वि­दा­म­नु­क्र­म­णम् — ‘दृष्टो हि तस्यार्थः कर्मावबोधनम्’ इत्येवमादि, तत् धर्म­जि­ज्ञा­सा­वि­ष­य­त्वा­द्वि­धि­प्र­ति­षे­ध­शा­स्त्रा­भि­प्रायं द्रष्टव्यम् । अपि च ‘आम्नायस्य क्रिया­र्थ­त्वा­दा­न­र्थ­क्य­म­त­द­र्था­नाम्’ इत्ये­त­दे­का­न्ते­ना­भ्यु­प­ग­च्छतां भूतो­प­दे­शा­न­र्थ­क्य­प्र­सङ्गः । प्रवृ­त्ति­नि­वृ­त्ति­वि­धि­व्य­ति­रे­केण भूतं चेद्वस्तूपदिशति भव्यार्थत्वेन, कूटस्थनित्यं भूतं नोपदिशतीति को हेतुः । न हि भूतमुपदिश्यमानं क्रिया भवति । अक्रियात्वेऽपि भूतस्य क्रिया­सा­ध­न­त्वा­त्क्रि­यार्थ एव भूतोपदेश इति चेत् , नैष दोषः । क्रिया­र्थ­त्वेऽपि क्रिया­नि­र्व­र्त­न­श­क्ति­म­द्व­स्तू­प­दि­ष्ट­मेव । क्रियार्थत्वं तु प्रयोजनं तस्य । न चैतावता वस्त्वनुपदिष्टं भवति । यदि नामोपदिष्टं किं तव तेन स्यादिति, उच्यते — अन­व­ग­ता­त्म­व­स्तू­प­दे­शश्च तथैव भवितुमर्हति । तदवगत्या मिथ्याज्ञानस्य संसा­र­हे­तो­र्नि­वृत्तिः प्रयोजनं क्रियत इत्य­वि­शि­ष्ट­म­र्थ­वत्त्वं क्रिया­सा­ध­न­व­स्तू­प­दे­शेन । अपि च ‘ब्राह्मणो न हन्तव्यः’ इति चैवमाद्या निवृ­त्ति­रु­प­दि­श्यते । न च सा क्रिया । नापि क्रियासाधनम् । अक्रि­या­र्था­ना­मु­प­दे­शोऽ­न­र्थ­क­श्चेत् , ‘ब्राह्मणो न हन्तव्यः’ इत्या­दि­नि­वृ­त्त्यु­प­दे­शा­ना­मा­न­र्थक्यं प्राप्तम् । तच्चानिष्टम् । न च स्वभा­व­प्रा­प्त­ह­न्त्य­र्था­नु­रा­गेण नञः शक्य­म­प्रा­प्त­क्रि­या­र्थत्वं कल्पयितुं हन­न­क्रि­या­नि­वृ­त्त्यौ­दा­सी­न्य­व्य­ति­रे­केण । नञश्चैष स्वभावः, यत्स्व­स­म्ब­न्धि­नोऽ­भावं बोधयतीति । अभा­व­बु­द्धि­श्चौ­दा­सी­न्य­का­र­णम् । सा च दग्धे­न्ध­ना­ग्नि­व­त्स्व­य­मे­वो­प­शा­म्यति । तस्मा­त्प्र­स­क्त­क्रि­या­नि­वृ­त्त्यौ­दा­सी­न्य­मेव ‘ब्राह्मणो न हन्तव्यः’ इत्यादिषु प्रतिषेधार्थं मन्यामहे, अन्यत्र प्रजा­प­ति­व्र­ता­दिभ्यः । तस्मा­त्पु­रु­षा­र्था­नु­प­यो­ग्यु­पा­ख्या­ना­दि­भू­ता­र्थ­वा­द­वि­ष­य­मा­न­र्थ­क्या­भि­धानं द्रष्टव्यम् ॥

यदप्युक्तम् — कर्त­व्य­वि­ध्य­नु­प्र­वे­श­म­न्त­रेण वस्तु­मा­त्र­मु­च्य­मा­न­म­न­र्थकं स्यात् ‘सप्तद्वीपा वसुमती’ इत्यादिवदिति, तत्परिहृतम् । ‘रज्जुरियम् , नायं सर्पः’ इति वस्तु­मा­त्र­क­थ­नेऽपि प्रयोजनस्य दृष्टत्वात् । ननु श्रुत­ब्र­ह्म­णोऽपि यथापूर्वं संसा­रि­त्व­द­र्श­नान्न रज्जु­स्व­रू­प­क­थ­न­व­द­र्थ­व­त्त्व­मि­त्यु­क्तम् । अत्रोच्यते — नाव­ग­त­ब्र­ह्मा­त्म­भा­वस्य यथापूर्वं संसारित्वं शक्यं दर्शयितुम् , वेद­प्र­मा­ण­ज­नि­त­ब्र­ह्मा­त्म­भा­व­वि­रो­धात् । न हि शरी­रा­द्या­त्मा­भि­मा­निनो दुःख­भ­या­दि­मत्त्वं दृष्टमिति, तस्यैव वेद­प्र­मा­ण­ज­नि­त­ब्र­ह्मा­त्मा­व­गमे तदभिमाननिवृत्तौ तदेव मिथ्या­ज्ञा­न­नि­मित्तं दुःख­भ­या­दि­मत्त्वं भवतीति शक्यं कल्पयितुम् । न हि धनिनो गृहस्थस्य धनाभिमानिनो धनापहारनिमित्तं दुःखं दृष्टमिति, तस्यैव प्रव्रजितस्य धनाभिमानरहितस्य तदेव धनापहारनिमित्तं दुःखं भवति । न च कुण्डलिनः कुण्ड­लि­त्वा­भि­मा­न­नि­मित्तं सुखं दृष्टमिति तस्यैव कुण्ड­ल­वि­यु­क्तस्य कुण्ड­लि­त्वा­भि­मा­न­र­हि­तस्य तदेव कुण्ड­लि­त्वा­भि­मा­न­नि­मित्तं सुखं भवति । तदुक्तं श्रुत्या — ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’(छा. उ. ८ । १२ । १) इति । शरीरे पतितेऽशरीरत्वं स्यात् , न जीवत इति चेत् , न; सशरीरत्वस्य मिथ्या­ज्ञा­न­नि­मि­त्त­त्वात् । न ह्यात्मनः शरी­रा­त्मा­भि­मा­न­ल­क्षणं मिथ्याज्ञानं मुक्त्वा अन्यतः सशरीरत्वं शक्यं कल्पयितुम् । नित्य­म­श­री­र­त्व­म­क­र्म­नि­मि­त्त­त्वा­दि­त्य­वो­चाम । तत्कृ­त­ध­र्मा­ध­र्म­नि­मित्तं सशरीरत्वमिति चेत् , न । शरी­र­स­म्ब­न्ध­स्या­सि­द्ध­त्वात् धर्मा­ध­र्म­यो­रा­त्म­कृ­त­त्वा­सिद्धेः, शरीरसम्बन्धस्य धर्मा­ध­र्म­यो­स्त­त्कृ­त­त्वस्य चेत­रे­त­रा­श्र­य­त्व­प्र­स­ङ्गात् । अन्धपरम्परैषा अनादित्वकल्पना । क्रिया­स­म­वा­या­भा­वा­च्चा­त्मनः कर्तृ­त्वा­नु­प­पत्तेः । सन्निधानमात्रेण राजप्रभृतीनां दृष्टं कर्तृत्वमिति चेत् , न । धन­दा­ना­द्यु­पा­र्जि­त­भृ­त्य­स­म्ब­न्धि­त्वा­त्तेषां कर्तृ­त्वो­प­पत्तेः । न त्वात्मनो धन­दा­ना­दि­व­च्छ­री­रा­दिभिः स्वस्वा­मि­भा­व­स­म्ब­न्ध­नि­मित्तं किञ्चिच्छक्यं कल्पयितुम् । मिथ्याभिमानस्तु प्रत्यक्षः सम्बन्धहेतुः । एतेन यजमानत्वमात्मनो व्याख्यातम् । अत्राहुः — देहा­दि­व्य­ति­रि­क्त­स्या­त्मनः आत्मीये देहादावभिमानो गौणः, न मिथ्येति चेत् , न । प्रसि­द्ध­व­स्तु­भे­दस्य गौण­त्व­मु­ख्य­त्व­प्र­सिद्धेः । यस्य हि प्रसिद्धो वस्तुभेदः — यथा केस­रा­दि­मा­ना­कृ­ति­वि­शे­षोऽ­न्व­य­व्य­ति­रे­काभ्यां सिंह­श­ब्द­प्र­त्य­य­भा­ङ्मु­ख्योऽन्यः प्रसिद्धः, ततश्चान्यः पुरुषः प्रायिकैः क्रौर्य­शौ­र्या­दिभिः सिंहगुणैः सम्पन्नः सिद्धः, तस्य पुरुषे सिंह­श­ब्द­प्र­त्ययौ गौणौ भवतः । नाप्र­सि­द्ध­व­स्तु­भे­दस्य । तस्य त्वन्य­त्रा­न्य­श­ब्द­प्र­त्ययौ भ्रान्ति­नि­मि­त्ता­वेव भवतः, न गौणौ । यथा मन्दान्धकारे स्थाणु­र­य­मि­त्य­गृ­ह्य­मा­ण­वि­शेषे पुरु­ष­श­ब्द­प्र­त्ययौ स्थाणुविषयौ, यथा वा शुक्ति­का­या­म­क­स्मा­द्र­ज­त­मि­द­मिति निश्चितौ शब्दप्रत्ययौ, तद्व­द्दे­हा­दि­स­ङ्घाते अहम् इति निरुपचारेण शब्द­प्र­त्य­या­वा­त्मा­ना­त्मा­वि­वे­के­नो­त्प­द्य­मानौ कथं गौणौ शक्यौ वदितुम् । आत्मा­ना­त्म­वि­वे­कि­ना­मपि पण्डि­ता­ना­म­जा­वि­पा­ला­ना­मि­वा­वि­विक्तौ शब्दप्रत्ययौ भवतः । तस्मा­द्दे­हा­दि­व्य­ति­रि­क्ता­त्मा­स्ति­त्व­वा­दिनां देहा­दा­व­हं­प्र­त्ययो मिथ्यैव, न गौणः । तस्मा­न्मि­थ्या­प्र­त्य­य­नि­मि­त्त­त्वा­त्स­श­री­र­त्वस्य, सिद्धं जीवतोऽपि विदु­षोऽ­श­री­र­त्वम् । तथा च ब्रह्मविद्विषया श्रुतिः — ‘तद्य­था­हि­नि­र्ल्व­यनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेते अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव’(बृ. उ. ४ । ४ । ७) इति; ‘सच­क्षु­र­च­क्षु­रिव सकर्णोऽकर्ण इव सवागवागिव समना अमना इव सप्राणोऽप्राण इव’ इति च । स्मृतिरपि — ‘स्थितप्रज्ञस्य का भाषा’(भ. गी. २ । ५४) इत्याद्या स्थितप्रज्ञस्य लक्ष­णा­न्या­च­क्षाणा विदुषः सर्व­प्र­वृ­त्त्य­स­म्बन्धं दर्शयति । तस्मा­न्ना­व­ग­त­ब्र­ह्मा­त्म­भा­वस्य यथापूर्वं संसारित्वम् । यस्य तु यथापूर्वं संसारित्वं नासा­व­व­ग­त­ब्र­ह्मा­त्म­भाव इत्यनवद्यम् ॥

यत्पुनरुक्तं श्रव­णा­त्प­रा­ची­न­यो­र्म­न­न­नि­दि­ध्या­स­न­यो­र्द­र्श­ना­द्वि­धि­शे­षत्वं ब्रह्मणः, न स्वरू­प­प­र्य­व­सा­यि­त्व­मिति, तन्न । श्रव­ण­व­द­व­ग­त्य­र्थ­त्वा­न्म­न­न­नि­दि­ध्या­स­नयोः । यदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येत, भवेत्तदा विधिशेषत्वम् । न तु तदस्ति, मन­न­नि­दि­ध्या­स­न­यो­रपि श्रव­ण­व­द­व­ग­त्य­र्थ­त्वात् । तस्मान्न प्रति­प­त्ति­वि­धि­वि­ष­य­तया शास्त्र­प्र­मा­ण­कत्वं ब्रह्मणः सम्भवतीत्यतः स्वतन्त्रमेव ब्रह्म शास्त्रप्रमाणकं वेदा­न्त­वा­क्य­स­म­न्व­या­दिति सिद्धम् । एवं च सति ‘अथातो ब्रह्मजिज्ञासा’ इति तद्विषयः पृथ­क्शा­स्त्रा­रम्भ उपपद्यते । प्रति­प­त्ति­वि­धि­प­रत्वे हि ‘अथातो धर्मजिज्ञासा’ इत्ये­वा­र­ब्ध­त्वान्न पृथ­क्शा­स्त्र­मा­र­भ्येत । आरभ्यमाणं चैवमारभ्येत — अथातः परि­शि­ष्ट­ध­र्म­जि­ज्ञा­सेति, ‘अथातः क्रत्व­र्थ­पु­रु­षा­र्थ­यो­र्जि­ज्ञासा’(जै. सू. ४ । १। १) इतिवत् । ब्रह्मा­त्मै­क्या­व­ग­ति­स्त्व­प्र­ति­ज्ञा­तेति तदर्थो युक्तः शास्त्रारम्भः — ‘अथातो ब्रह्मजिज्ञासा’ इति । तस्मात् अहं ब्रह्मा­स्मी­त्ये­त­द­व­साना एव सर्वे विधयः सर्वाणि चेतराणि प्रमाणानि । न ह्यहे­या­नु­पा­दे­या­द्वै­ता­त्मा­व­गतौ , निर्वि­ष­या­ण्य­प्र­मा­तृ­काणि च प्रमाणानि भवितुमर्हन्तीति । अपि चाहुः — ‘गौण­मि­थ्या­त्म­नोऽ­सत्त्वे पुत्र­दे­हा­दि­बा­ध­नात् । सद्ब्र­ह्मा­त्मा­ह­मि­त्येवं बोधे कार्यं कथं भवेत् ॥ अन्वे­ष्ट­व्या­त्म­वि­ज्ञा­ना­त्प्रा­क्प्र­मा­तृ­त्व­मा­त्मनः । अन्विष्टः स्यात्प्रमातैव पाप्म­दो­षा­दि­व­र्जितः ॥ देहात्मप्रत्ययो यद्व­त्प्र­मा­ण­त्वेन कल्पितः । लौकिकं तद्वदेवेदं प्रमाणं त्वाऽऽत्म­नि­श्च­यात्’ इति ॥ ४ ॥

एवं ताव­द्वे­दा­न्त­वा­क्यानां ब्रह्मा­त्मा­व­ग­ति­प्र­यो­ज­नानां ब्रह्मात्मनि तात्पर्येण सम­न्वि­ता­ना­म­न्त­रे­णापि कार्यानुप्रवेशं ब्रह्मणि पर्यवसानमुक्तम् । ब्रह्म च सर्वज्ञं सर्वशक्ति जग­दु­त्प­त्ति­स्थि­ति­ना­श­का­र­ण­मि­त्यु­क्तम् । साङ्ख्यादयस्तु परिनिष्ठितं वस्तु प्रमा­णा­न्त­र­ग­म्य­मे­वेति मन्यमानाः प्रधानादीनि कार­णा­न्त­रा­ण्य­नु­मि­मा­ना­स्त­त्प­र­त­यैव वेदान्तवाक्यानि योजयन्ति । सर्वेष्वेव वेदान्तवाक्येषु सृष्टि­वि­ष­ये­ष्व­नु­मा­ने­नैव कार्येण कारणं लिलक्षयिषितम् । प्रधा­न­पु­रु­ष­सं­योगा नित्यानुमेया इति साङ्ख्या मन्यन्ते । काणा­दा­स्त्वे­तेभ्य एव वाक्येभ्य ईश्वरं निमि­त्त­का­र­ण­म­नु­मि­मते, अणूंश्च समवायिकारणम् । एवमन्येऽपि तार्किका वाक्या­भा­स­यु­क्त्या­भा­सा­व­ष्टम्भाः पूर्वपक्षवादिन इहोत्तिष्ठन्ते । तत्र पद­वा­क्य­प्र­मा­ण­ज्ञे­ना­चा­र्येण वेदा­न्त­वा­क्यानां ब्रह्मा­त्मा­व­ग­ति­प­र­त्व­प्र­द­र्श­नाय वाक्या­भा­स­यु­क्त्या­भा­स­प्र­ति­प­त्तयः पूर्वपक्षीकृत्य निराक्रियन्ते ॥

तत्र साङ्ख्याः प्रधानं त्रिगुणमचेतनं स्वतन्त्रं जगतः कारणमिति मन्यमाना आहुः — यानि वेदान्तवाक्यानि सर्वज्ञस्य सर्व­श­क्ते­र्ब्र­ह्मणो जगत्कारणत्वं प्रद­र्श­य­न्ती­त्य­वोचः, तानि प्रधा­न­का­र­ण­प­क्षेऽपि योजयितुं शक्यन्ते । सर्वशक्तिमत्वं ताव­त्प्र­धा­न­स्यापि स्ववि­का­र­वि­ष­य­मु­प­प­द्यते । एवं सर्व­ज्ञ­त्व­म­प्यु­प­प­द्यते । कथम् ? यत्त्वं ज्ञानं मन्यसे, स सत्त्वधर्मः, ‘सत्त्वा­त्सं­जा­यते ज्ञानम्’(भ. गी. १४ । १७) इति स्मृतेः । तेन च सत्त्वधर्मेण ज्ञानेन कार्यकरणवन्तः पुरुषाः सर्वज्ञा योगिनः प्रसिद्धाः । सत्त्वस्य हि निरतिशयोत्कर्षे सर्वज्ञत्वं प्रसिद्धम् । न केवलस्य अकार्यकरणस्य पुरु­ष­स्यो­प­ल­ब्धि­मा­त्रस्य सर्वज्ञत्वं किञ्चिज्ज्ञत्वं वा कल्पयितुं शक्यम् । त्रिगुणत्वात्तु प्रधानस्य सर्व­ज्ञा­न­का­र­ण­भूतं सत्त्वं प्रधा­ना­व­स्था­या­मपि विद्यत इति प्रधा­न­स्या­चे­त­न­स्यैव सतः सर्व­ज्ञ­त्व­मु­प­च­र्यते वेदान्तवाक्येषु । अवश्यं च त्वयापि सर्वज्ञं ब्रह्मा­भ्यु­प­ग­च्छता सर्व­ज्ञा­न­श­क्ति­म­त्त्वे­नैव सर्व­ज्ञ­त्व­म­भ्यु­प­ग­न्त­व्यम् । न हि सर्वदा सर्वविषयं ज्ञानं कुर्वदेव ब्रह्म वर्तते । तथाहि — ज्ञानस्य नित्यत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यं ब्रह्मणो हीयेत; अथानित्यं तदिति ज्ञानक्रियाया उपरमे उपरमेतापि ब्रह्म, तदा सर्व­ज्ञा­न­श­क्ति­म­त्त्वे­नैव सर्व­ज्ञ­त्व­मा­प­तति । अपि च प्रागुत्पत्तेः सर्वकारकशून्यं ब्रह्मेष्यते त्वया । न च ज्ञानसाधनानां शरी­रे­न्द्रि­या­दी­ना­म­भावे ज्ञानोत्पत्तिः कस्यचिदुपपन्ना । अपि च प्रधा­न­स्या­ने­का­त्म­कस्य परि­णा­म­स­म्भ­वा­त्का­र­ण­त्वो­प­प­त्ति­र्मृ­दा­दि­वत् , नासं­ह­त­स्यै­का­त्म­कस्य ब्रह्मणः — इत्येवं प्राप्ते, इदं सूत्रमारभ्यते —

ईक्ष­ते­र्ना­श­ब्दम् ॥ ५ ॥

न साङ्ख्य­प­रि­क­ल्पि­त­म­चे­तनं प्रधानं जगतः कारणं शक्यं वेदा­न्ते­ष्वा­श्र­यि­तुम् । अशब्दं हि तत् । कथमशब्दत्वम् ? ईक्षतेः ईक्षि­तृ­त्व­श्र­व­णा­त्का­र­णस्य । कथम् ? एवं हि श्रूयते — ‘सदेव सोम्येदमग्र आसी­दे­क­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) इत्युपक्रम्य ‘तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत’(छा. उ. ६ । २ । ३) इति । तत्र इदंशब्दवाच्यं नामरूपव्याकृतं जगत् प्रागुत्पत्तेः सदात्मनावधार्य, तस्यैव प्रकृतस्य सच्छ­ब्द­वा­च्य­स्ये­क्ष­ण­पू­र्वकं तेजःप्रभृतेः स्रष्टृत्वं दर्शयति । तथान्यत्र — ‘आत्मा वा इदमेक एवाग्र आसीत् । नान्यत्किञ्चन मिषत् । स ईक्षत लोकान्नु सृजा इति ।’(ऐ. उ. १ । १ । १) ‘स इमाँ­ल्लो­का­न­सृ­जत’(ऐ. उ. १ । १ । २) इती­क्षा­पू­र्वि­का­मेव सृष्टिमाचष्टे । क्वचिच्च षोडशकलं पुरुषं प्रस्तुत्याह — ‘स ईक्षाञ्चक्रे’(प्र. उ. ६ । ३) , ‘स प्राणमसृजत’(प्र. उ. ६ । ४) इति । ईक्षतेरिति च धात्व­र्थ­नि­र्दे­शोऽ­भि­प्रेतः, यजतेरितिवत् , न धातुनिर्देशः । तेन ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मा­दे­त­द्ब्रह्म नाम रूपमन्नं च जायते’(मु. उ. १ । १ । ९) इत्येवमादीन्यपि सर्व­ज्ञे­श्व­र­का­र­ण­प­राणि वाक्या­न्यु­दा­ह­र्त­व्यानि ॥

यत्तूक्तं सत्त्वधर्मेण ज्ञानेन सर्वज्ञं प्रधानं भविष्यतीति, तन्नोपपद्यते । न हि प्रधानावस्थायां गुण­सा­म्या­त्स­त्त्व­धर्मो ज्ञानं सम्भवति । ननूक्तं सर्व­ज्ञा­न­श­क्ति­म­त्त्वेन सर्वज्ञं भविष्यतीति; तदपि नोपपद्यते । यदि गुणसाम्ये सति सत्त्व­व्य­पा­श्रयां ज्ञान­श­क्ति­मा­श्रित्य सर्वज्ञं प्रधानमुच्येत, कामं रज­स्त­मो­व्य­पा­श्र­या­मपि ज्ञान­प्र­ति­ब­न्ध­क­श­क्ति­मा­श्रित्य किञ्चि­ज्ज्ञ­मु­च्येत । अपि च नासाक्षिका सत्त्व­वृ­त्ति­र्जा­ना­तिना अभिधीयते । न चाचेतनस्य प्रधानस्य साक्षित्वमस्ति । तस्मादनुपपन्नं प्रधानस्य सर्वज्ञत्वम् । योगिनां तु चेत­न­त्वा­त्स­त्त्वो­त्क­र्ष­नि­मित्तं सर्व­ज्ञ­त्व­मु­प­प­न्न­मि­त्य­नु­दा­ह­र­णम् । अथ पुनः साक्षि­नि­मि­त्त­मी­क्षि­तृत्वं प्रधानस्य कल्प्येत, यथा­ग्नि­नि­मि­त्त­म­यः­पि­ण्डा­दे­र्द­ग्धृ­त्वम् । तथा सति यन्नि­मि­त्त­मी­क्षि­तृत्वं प्रधानस्य, तदेव सर्वज्ञं ब्रह्म मुख्यं जगतः कारणमिति युक्तम् । यत्पुनरुक्तं ब्रह्मणोऽपि न मुख्यं सर्व­ज्ञ­त्व­मु­प­प­द्यते, नित्य­ज्ञा­न­क्रि­यत्वे ज्ञानक्रियां प्रति स्वात­न्त्र्या­स­म्भ­वा­दिति । अत्रोच्यते — इदं ताव­द्भ­वा­न्प्र­ष्टव्यः — कथं नित्य­ज्ञा­न­क्रि­यत्वे सर्व­ज्ञ­त्व­हा­नि­रिति । यस्य हि सर्व­वि­ष­या­व­भा­स­न­क्षमं ज्ञानं नित्यमस्ति, सोऽसर्वज्ञ इति विप्रतिषिद्धम् । अनित्यत्वे हि ज्ञानस्य, कदाचिज्जानाति कदाचिन्न जाना­ती­त्य­स­र्व­ज्ञ­त्व­मपि स्यात् ।

नासौ ज्ञाननित्यत्वे दोषोऽस्ति । ज्ञाननित्यत्वे ज्ञानविषयः स्वात­न्त्र्य­व्य­प­देशो नोपपद्यते इति चेत् , न । प्रत­तौ­ष्ण्य­प्र­का­शेऽपि सवितरि ‘दहति’ ‘प्रकाशयति’ इति स्वात­न्त्र्य­व्य­प­दे­श­द­र्श­नात् । ननु सवि­तु­र्दा­ह्य­प्र­का­श्य­सं­योगे सति ‘दहति’ ‘प्रकाशयति’ इति व्यपदेशः स्यात्; न तु ब्रह्मणः प्रागु­त्प­त्ते­र्ज्ञा­न­क­र्म­सं­यो­गोऽ­स्तीति विषमो दृष्टान्तः । न; असत्यपि कर्मणि ‘सविता प्रकाशते’ इति कर्तृ­त्व­व्य­प­दे­श­द­र्श­नात् , एवमसत्यपि ज्ञानकर्मणि ब्रह्मणः ‘तदैक्षत’ इति कर्तृ­त्व­व्य­प­दे­शो­प­प­त्तेर्न वैषम्यम् । कर्मापेक्षायां तु ब्रह्मणि ईक्षि­तृ­त्व­श्रु­तयः सुतरामुपपन्नाः । किं पुनस्तत्कर्म, यत्प्रा­गु­त्प­त्ते­री­श्व­र­ज्ञा­नस्य विषयो भवतीति — तत्त्वा­न्य­त्वा­भ्या­म­नि­र्व­च­नीये नामरूपे अव्याकृते व्याचिकीर्षिते इति ब्रूमः । यत्प्रसादाद्धि योगि­ना­म­प्य­ती­ता­ना­ग­त­वि­षयं प्रत्यक्षं ज्ञानमिच्छन्ति योगशास्त्रविदः, किमु वक्तव्यं तस्य नित्य­सि­द्ध­स्ये­श्व­रस्य सृष्टि­स्थि­ति­सं­हृ­ति­वि­षयं नित्यज्ञानं भवतीति । यदप्युक्तं प्रागु­त्प­त्ते­र्ब्र­ह्मणः शरी­रा­दि­स­म्ब­न्ध­म­न्त­रे­णे­क्षि­तृ­त्व­म­नु­प­प­न्न­मिति, न तच्चोद्यमवतरति; सवि­तृ­प्र­का­श­व­द्ब्र­ह्मणो ज्ञान­स्व­रू­प­नि­त्य­त्वेन ज्ञान­सा­ध­ना­पे­क्षा­नु­प­पत्तेः । अपि चाविद्यादिमतः संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः स्यात्; न ज्ञान­प्र­ति­ब­न्ध­का­र­ण­र­हि­त­स्ये­श्व­रस्य । मन्त्रौ चेमावीश्वरस्य शरी­रा­द्य­न­पे­क्ष­ता­म­ना­व­र­ण­ज्ञा­नतां च दर्शयतः — ‘न तस्य कार्यं करणं च विद्यते न तत्स­म­श्चा­भ्य­धि­कश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’(श्वे. उ. ६ । ८) इति । ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्’(श्वे. उ. ३ । १९) इति च । ननु नास्ति तव ज्ञान­प्र­ति­ब­न्ध­का­र­ण­वा­नी­श्व­रा­दन्यः संसारी — ‘नान्योऽतोऽस्ति द्रष्टा ... नान्योऽतोऽस्ति विज्ञाता’(बृ. उ. ३ । ७ । २३) इतिश्रुतेः; तत्र किमिदमुच्यते — संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः, नेश्वरस्येति ? अत्रोच्यते — सत्यं नेश्वरादन्यः संसारी; तथापि देहा­दि­स­ङ्घा­तो­पा­धि­स­म्बन्ध इष्यत एव, घट­क­र­क­गि­रि­गु­हा­द्यु­पा­धि­स­म्बन्ध इव व्योम्नः । तत्कृतश्च शब्द­प्र­त्य­य­व्य­व­हारो लोकस्य दृष्टः — ‘घटच्छिद्रम्’ ‘करकच्छिद्रम्’ इत्यादिः, आका­शा­व्य­ति­रे­केऽपि; तत्कृता चाकाशे घटा­का­शा­दि­भे­द­मि­थ्या­बु­द्धि­र्दृष्टा; तथेहापि देहा­दि­स­ङ्घा­तो­पा­धि­स­म्ब­न्धा­वि­वे­क­कृ­ते­श्व­र­सं­सा­रि­भे­द­मि­थ्या­बुद्धिः । दृश्यते चात्मन एव सतो देहा­दि­स­ङ्घा­तेऽ­ना­त्म­न्या­त्म­त्वा­भि­नि­वेशो मिथ्या­बु­द्धि­मा­त्रेण पूर्वेण पूर्वेण । सति चैवं संसारित्वे देहा­द्य­पे­क्ष­मी­क्षि­तृ­त्व­मु­प­पन्नं संसारिणः । यदप्युक्तं प्रधा­न­स्या­ने­का­त्म­क­त्वा­न्मृ­दा­दि­व­त्का­र­ण­त्वो­प­प­त्ति­र्ना­सं­ह­तस्य ब्रह्मण इति, तत्प्र­धा­न­स्या­श­ब्द­त्वे­नैव प्रत्युक्तम् । यथा तु तर्केणापि ब्रह्मण एव कारणत्वं निर्वोढुं शक्यते, न प्रधानादीनाम् , तथा प्रपञ्चयिष्यति ‘न विलक्षणत्वादस्य ...’(ब्र. सू. २ । १ । ४) इत्येवमादिना ॥ ५ ॥

अत्राह — यदुक्तं नाचेतनं प्रधानं जग­त्का­र­ण­मी­क्षि­तृ­त्व­श्र­व­णा­दिति, तद­न्य­था­प्यु­प­प­द्यते । अचेतनेऽपि चेत­न­व­दु­प­चा­र­द­र्श­नात् । यथा प्रत्या­स­न्न­प­त­नतां नद्याः कूलस्यालक्ष्य ‘कूलं पिपतिषति’ इत्यचेतनेऽपि कूले चेतनवदुपचारो दृष्टः, तद्वदचेतनेऽपि प्रधाने प्रत्या­स­न्न­सर्गे चेतनवदुपचारो भविष्यति ‘तदैक्षत’ इति । यथा लोके कश्चिच्चेतनः ‘स्नात्वा भुक्त्वा चापराह्णे ग्रामं रथेन गमिष्यामि’ इतीक्षित्वा अनन्तरं तथैव नियमेन प्रवर्तते, तथा प्रधानमपि महदाद्याकारेण नियमेन प्रवर्तते । तस्मा­च्चे­त­न­व­दु­प­च­र्यते । कस्मात्पुनः कारणात् विहाय मुख्य­मी­क्षि­तृ­त्वम् औपचारिकं तत्कल्प्यते ? ‘तत्तेज ऐक्षत’(छा. उ. ६ । २ । ३) ‘ता आप ऐक्षन्त’(छा. उ. ६ । २ । ४) इति चाचे­त­न­यो­र­प्य­प्ते­ज­सो­श्चे­त­न­व­दु­प­चा­र­द­र्श­नात्; तस्मा­त्स­त्क­र्तृ­क­म­पी­क्ष­ण­मौ­प­चा­रि­क­मिति गम्यते, उपचारप्राये वचनात् । इत्येवं प्राप्ते, इदं सूत्रमारभ्यते —

गौण­श्चे­न्ना­त्म­श­ब्दात् ॥ ६ ॥

यदुक्तं प्रधानमचेतनं सच्छब्दवाच्यं तस्मि­न्नौ­प­चा­रि­क­मी­क्षि­तृ­त्वम् अप्तेजसोरिवेति, तदसत् । कस्मात् ? आत्मशब्दात्; ‘सदेव सोम्येदमग्र आसीत्’ इत्युपक्रम्य, ‘तदैक्षत’(छा. उ. ६ । २ । ३) ‘तत्तेजोऽसृजत’(छा. उ. ६ । २ । ३) इति च तेजोबन्नानां सृष्टिमुक्त्वा, तदेव प्रकृतं सदीक्षितृ तानि च तेजोबन्नानि देवताशब्देन परामृश्याह — ‘सेयं देवतैक्षत ‘हन्ता­ह­मि­मा­स्तिस्रो देवता अनेन जीवे­ना­त्म­ना­नु­प्र­विश्य नामरूपे व्याकरवाणि’(छा. उ. ६ । ३ । २) इति । तत्र यदि प्रधानमचेतनं गुण­वृ­त्त्ये­क्षितृ कल्प्येत, तदेव प्रकृतत्वात् ‘सेयं देवता’ इति परामृश्येत; न तदा देवता जीव­मा­त्म­श­ब्दे­ना­भि­द­ध्यात् । जीवो हि नाम चेतनः शरीराध्यक्षः प्राणानां धारयिता, तत्प्र­सि­द्धे­र्नि­र्व­च­नाच्च । स कथमचेतनस्य प्रधानस्यात्मा भवेत् । आत्मा हि नाम स्वरूपम् । नाचेतनस्य प्रधानस्य चेतनो जीवः स्वरूपं भवितुमर्हति । अथ तु चेतनं ब्रह्म मुख्यमीक्षितृ परिगृह्येत, तस्य जीवविषय आत्मशब्दप्रयोग उपपद्यते । तथा ‘स य एषोऽ­णि­मै­त­दा­त्म्य­मिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो’(छा. उ. ६ । १४ । ३) इत्यत्र ‘स आत्मा’ इति प्रकृतं सद­णि­मा­न­मा­त्मा­न­मा­त्म­श­ब्दे­नो­प­दिश्य, ‘तत्त्वमसि श्वेतकेतो’ इति चेतनस्य श्वेत­के­तो­रा­त्म­त्वे­नो­प­दि­शति । अप्तेजसोस्तु विष­य­त्वा­द­चे­त­न­त्वम् , नाम­रू­प­व्या­क­र­णादौ च प्रयोज्यत्वेनैव निर्देशात् , न चात्म­श­ब्द­व­त्कि­ञ्चि­न्मु­ख्यत्वे कारणमस्तीति युक्तं कूल­व­द्गौ­ण­त्व­मी­क्षि­तृ­त्वस्य । तयोरपि च सद­धि­ष्ठि­त­त्वा­पे­क्ष­मे­वे­क्षि­तृ­त्वम् । सत­स्त्वा­त्म­श­ब्दान्न गौण­मी­क्षि­तृ­त्व­मि­त्यु­क्तम् ॥ ६ ॥

अथोच्येत — अचेतनेऽपि प्रधाने भवत्यात्मशब्दः, आत्मनः सर्वा­र्थ­का­रि­त्वात्; यथा राज्ञः सर्वार्थकारिणि भृत्ये भवत्यात्मशब्दः ‘ममात्मा भद्रसेनः’ इति । प्रधानं हि पुरुषस्यात्मनो भोगापवर्गौ कुर्वदुपकरोति, राज्ञ इव भृत्यः सन्धि­वि­ग्र­हा­दिषु वर्तमानः । अथवैक एवा­त्म­श­ब्द­श्चे­त­ना­चे­त­न­वि­षयो भविष्यति, ‘भूतात्मा’ ‘इन्द्रियात्मा’ इति च प्रयोगदर्शनात्; यथैक एव ज्योतिःशब्दः क्रतुज्वलनविषयः । तत्र कुत एत­दा­त्म­श­ब्दा­दी­क्ष­ते­र­गौ­ण­त्व­मि­त्यत उत्तरं पठति —

तन्निष्ठस्य मोक्षोपदेशात् ॥ ७ ॥

न प्रधा­न­म­चे­त­न­मा­त्म­श­ब्दा­ल­म्बनं भवितुमर्हति । ‘स आत्मा’ इति प्रकृतं सदणिमानमादाय, ‘तत्त्वमसि श्वेतकेतो’ इति चेतनस्य श्वेत­के­तो­र्मो­क्ष­यि­त­व्यस्य तन्नि­ष्ठा­मु­प­दिश्य, ‘आचा­र्य­वा­न्पु­रुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’(छा. उ. ६ । १४ । २) इति मोक्षोपदेशात् । यदि ह्यचेतनं प्रधानं सच्छब्दवाच्यम् ‘तत् असि’ इति ग्राहयेत् मुमुक्षुं चेतनं सन्त­म­चे­त­नोऽ­सीति, तदा विपरीतवादि शास्त्रं पुरु­ष­स्या­न­र्था­ये­त्य­प्र­माणं स्यात् । न तु निर्दोषं शास्त्रमप्रमाणं कल्पयितुं युक्तम् । यदि चाज्ञस्य सतो मुमु­क्षो­र­चे­त­न­म­ना­त्मा­न­मा­त्मे­त्यु­प­दि­शे­त्प्र­मा­ण­भूतं शास्त्रम् , स श्रद्दधानतया अन्ध­गो­ला­ङ्गू­ल­न्या­येन तदात्मदृष्टिं न परित्यजेत् , तद्व्यतिरिक्तं चात्मानं न प्रतिपद्येत । तथा सति पुरु­षा­र्था­द्वि­ह­न्येत, अनर्थं च ऋच्छेत् । तस्माद्यथा स्वर्गा­द्य­र्थि­नोऽ­ग्नि­हो­त्रा­दि­सा­धनं यथाभूतमुपदिशति, तथा मुमुक्षोरपि ‘स आत्मा तत्त्वमसि श्वेतकेतो’ इति यथा­भू­त­मे­वा­त्मा­न­मु­प­दि­श­तीति युक्तम् । एवं च सति तप्त­प­र­शु­ग्र­ह­ण­मो­क्ष­दृ­ष्टा­न्तेन सत्याभिसन्धस्य मोक्षोपदेश उपपद्यते । अन्यथा ह्यमुख्ये सदा­त्म­त­त्त्वो­प­देशे, ‘अहमुक्थमस्मीति विद्यात्’(ऐ. आ. २ । १ । २ । ६) इति­व­त्स­म्प­न्मा­त्र­मि­द­म­नि­त्य­फलं स्यात् । तत्र मोक्षोपदेशो नोपपद्येत । तस्मान्न सद­णि­म­न्या­त्म­श­ब्दस्य गौणत्वम् । भृत्ये तु स्वामि­भृ­त्य­भे­दस्य प्रत्य­क्ष­त्वा­दु­प­पन्नो गौण आत्मशब्दः ‘ममात्मा भद्रसेनः’ इति । अपि च क्वचिद्गौणः शब्दो दृष्ट इति नैतावता शब्द­प्र­मा­ण­केऽर्थे गौणीकल्पना न्याय्या, सर्व­त्रा­ना­श्वा­स­प्र­स­ङ्गात् । यत्तूक्तं चेतनाचेतनयोः साधारण आत्मशब्दः, क्रतुज्वलनयोरिव ज्योतिःशब्द इति, तन्न । अने­का­र्थ­त्व­स्या­न्या­य्य­त्वात् । तस्माच्चेतनविषय एव मुख्य आत्म­श­ब्द­श्चे­त­न­त्वो­प­चा­रा­द्भू­ता­दिषु प्रयुज्यते — ‘भूतात्मा’ ‘इन्द्रियात्मा’ इति च । साधा­र­ण­त्वेऽ­प्या­त्म­श­ब्दस्य न प्रकरणमुपपदं वा किञ्चि­न्नि­श्चा­य­क­म­न्त­रे­णा­न्य­त­र­वृ­त्तिता निर्धारयितुं शक्यते । न चात्राचेतनस्य निश्चायकं किञ्चि­त्का­र­ण­मस्ति । प्रकृतं तु सदीक्षितृ, सन्निहितश्च चेतनः श्वेतकेतुः । न हि चेतनस्य श्वेतकेतोरचेतन आत्मा सम्भवतीत्यवोचाम । तस्माच्चेतनविषय इहात्मशब्द इति निश्चीयते । ज्योतिःशब्दोऽपि लौकिकेन प्रयोगेण ज्वलन एव रूढः, अर्थवादकल्पितेन तु ज्वलनसादृश्येन क्रतौ प्रवृत्त इत्यदृष्टान्तः । अथवा पूर्वसूत्र एवात्मशब्दं निर­स्त­स­म­स्त­गौ­ण­त्व­सा­धा­र­ण­त्व­श­ङ्क­तया व्याख्याय, ततः स्वतन्त्र एव प्रधा­न­का­र­ण­नि­रा­क­र­ण­हे­तु­र्व्या­ख्येयः — ‘तन्निष्ठस्य मोक्षोपदेशात्’ इति । तस्मान्नाचेतनं प्रधानं सच्छब्दवाच्यम् ॥ ७ ॥

कुतश्च न प्रधानं सच्छब्दवाच्यम् ? —

हेयत्वावचनाच्च ॥ ८ ॥

यद्यनात्मैव प्रधानं सच्छब्दवाच्यम् ‘स आत्मा तत्त्वमसि’ इतीहोपदिष्टं स्यात्; स तदु­प­दे­श­श्र­व­णा­द­ना­त्म­ज्ञ­तया तन्निष्ठो मा भूदिति, मुख्य­मा­त्मा­न­मु­प­दि­दिक्षु शास्त्रं तस्य हेयत्वं ब्रूयात् । यथारुन्धतीं दिद­र्श­यि­षु­स्त­त्स­मी­पस्थां स्थूलां ताराममुख्यां प्रथममरुन्धतीति ग्राहयित्वा, तां प्रत्याख्याय, पश्चा­द­रु­न्ध­ती­मेव ग्राहयति; तद्व­न्ना­य­मा­त्मेति ब्रूयात् । न चैवमवोचत् । सन्मा­त्रा­त्मा­व­ग­ति­नि­ष्ठैव हि षष्ठ­प्र­पा­ठ­क­प­रि­स­मा­प्ति­र्दृ­श्यते । चशब्दः प्रति­ज्ञा­वि­रो­धा­भ्यु­च्च­य­प्र­द­र्श­नार्थः । सत्यपि हेयत्ववचने प्रतिज्ञाविरोधः प्रसज्येत । कार­ण­वि­ज्ञा­नाद्धि सर्वं विज्ञातमिति प्रतिज्ञातम् — ‘उत तमा­दे­श­म­प्राक्ष्यो येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति; कथं नु भगवः स आदेशो भवतीति’(छा. उ. ६ । १ । ३) ; ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वा­चा­र­म्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’(छा. उ. ६ । १ । ४) ‘एवं सोम्य स आदेशो भवति’(छा. उ. ६ । १ । ६) इति वाक्योपक्रमे श्रवणात् । न च सच्छब्दवाच्ये प्रधाने भोग्यवर्गकारणे हेय­त्वे­ना­हे­य­त्वेन वा विज्ञाते भोक्तृवर्गो विज्ञातो भवति, अप्र­धा­न­वि­का­र­त्वा­द्भो­क्तृ­व­र्गस्य । तस्मान्न प्रधानं सच्छब्दवाच्यम् ॥ ८ ॥

कुतश्च न प्रधानं सच्छब्दवाच्यम् ? —

स्वाप्ययात् ॥ ९ ॥

तदेव सच्छब्दवाच्यं कारणं प्रकृत्य श्रूयते — ‘यत्रैतत्पुरुषः स्वपिति नाम, सता सोम्य तदा सम्पन्नो भवति; स्वमपीतो भवति; तस्मादेनं स्वपि­ती­त्या­च­क्षते; स्वं ह्यपीतो भवति’(छा. उ. ६ । ८ । १) इति । एषा श्रुतिः स्वपि­ती­त्ये­त­त्पु­रु­षस्य लोकप्रसिद्धं नाम निर्वक्ति । स्वश­ब्दे­ने­हा­त्मो­च्यते । यः प्रकृतः सच्छ­ब्द­वा­च्य­स्त­म­पीतो भवत्यपिगतो भवतीत्यर्थः । अपि­पू­र्व­स्यै­ते­र्ल­या­र्थत्वं प्रसिद्धम् , प्रभ­वा­प्य­या­वि­त्यु­त्प­त्ति­प्र­ल­ययोः प्रयोगदर्शनात् । मनः­प्र­चा­रो­पा­धि­वि­शे­ष­स­म्ब­न्धा­दि­न्द्रि­या­र्था­न्गृ­ह्णं­स्त­द्वि­शे­षा­पन्नो जीवो जागर्ति । तद्वा­स­ना­वि­शिष्टः स्वप्ना­न्प­श्य­न्म­नः­श­ब्द­वाच्यो भवति । स उपाधिद्वयोपरमे सुषु­प्ता­व­स्था­या­मु­पा­धि­कृ­त­वि­शे­षा­भा­वा­त्स्वा­त्मनि प्रलीन इवेति ‘स्वं ह्यपीतो भवति’(छा. उ. ६ । ८ । १) इत्युच्यते । यथा हृद­य­श­ब्द­नि­र्व­चनं श्रुत्या दर्शितम् — ‘स वा एष आत्मा हृदि, तस्यैतदेव निरुक्तम् — हृद्ययमिति; तस्मा­द्धृ­द­य­मिति’(छा. उ. ८ । ३ । ३) ; यथा वाश­ना­यो­द­न्या­श­ब्द­प्र­वृ­त्ति­मूलं दर्शयति श्रुतिः — ‘आप एव तदशितं नयन्ते’(छा. उ. ६ । ८ । ३) ‘तेज एव तत्पीतं नयते’(छा. उ. ६ । ८ । ५) इति च । एवं स्वमात्मानं सच्छ­ब्द­वा­च्य­म­पीतो भवति इतीममर्थं स्वपि­ति­ना­म­नि­र्व­च­नेन दर्शयति । न च चेतन आत्मा अचेतनं प्रधानं स्वरूपत्वेन प्रतिपद्येत । यदि पुनः प्रधा­न­मे­वा­त्मी­य­त्वा­त्स्व­श­ब्दे­नै­वो­च्येत, एवमपि चेत­नोऽ­चे­त­न­म­प्ये­तीति विरुद्धमापद्येत । श्रुत्यन्तरं च — ‘प्राज्ञे­ना­त्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’(बृ. उ. ४ । ३ । २१) इति सुषु­प्ता­व­स्थायां चेतने अप्ययं दर्शयति । अतो यस्मिन्नप्ययः सर्वेषां चेतनानां तच्चेतनं सच्छब्दवाच्यं जगतः कारणम्, न प्रधानम् ॥ ९ ॥

कुतश्च न प्रधानं जगतः कारणम् ? —

गतिसामान्यात् ॥ १० ॥

१०

यदि तार्किकसमय इव वेदान्तेष्वपि भिन्ना कार­णा­व­ग­ति­र­भ­वि­ष्यत् , क्वचिच्चेतनं ब्रह्म जगतः कारणम् , क्वचिदचेतनं प्रधानम् , क्वचिदन्यदेवेति । ततः कदा­चि­त्प्र­धा­न­का­र­ण­वा­दा­नु­रो­धे­ना­पी­क्ष­त्या­दि­श्र­व­ण­म­क­ल्प­यि­ष्यत । न त्वेतदस्ति । समानैव हि सर्वेषु वेदान्तेषु चेतनकारणावगतिः । ‘यथा­ग्ने­र्ज्व­लतः सर्वा दिशो विस्फुलिङ्गा विप्र­ति­ष्ठे­र­न्ने­व­मे­वै­त­स्मा­दा­त्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः’(कौ. उ. ३ । ३) इति, ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’(तै. उ. २ । १ । १) इति, ‘आत्मत एवेदं सर्वम्’(छा. उ. ७ । २६ । १) इति, ‘आत्मन एष प्राणो जायते’(प्र. उ. ३ । ३) इति च आत्मनः कारणत्वं दर्शयन्ति सर्वे वेदान्ताः । आत्मशब्दश्च चेतनवचन इत्यवोचाम । महच्च प्रामा­ण्य­का­र­ण­मे­तत् , यद्वे­दा­न्त­वा­क्यानां चेतनकारणत्वे समानगतित्वम् , चक्षुरादीनामिव रूपादिषु । अतो गति­सा­मा­न्या­त्स­र्वज्ञं ब्रह्म जगतः कारणम् ॥ १० ॥

कुतश्च सर्वज्ञं ब्रह्म जगतः कारणम् ? —

श्रुतत्वाच्च ॥ ११ ॥

११

स्वशब्देनैव च सर्वज्ञ ईश्वरो जगतः कारणमिति श्रूय­ते,श्वे­ता­श्व­त­राणां मन्त्रोपनिषदि सर्वज्ञमीश्वरं प्रकृत्य — ‘स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः’(श्वे. उ. ६ । ९) इति । तस्मात्सर्वज्ञं ब्रह्म जगतः कारणम् , नाचेतनं प्रधा­न­म­न्य­द्वेति सिद्धम् ॥ ११ ॥

‘जन्माद्यस्य यतः’ इत्यारभ्य ‘श्रुतत्वाच्च’ इत्येवमन्तैः सूत्रै­र्या­न्यु­दा­हृ­तानि वेदा­न्त­वा­क्यानि, तेषां सर्वज्ञः सर्व­श­क्ति­री­श्वरो जगतो जन्म­स्थि­ति­ल­य­का­र­ण­मि­त्ये­त­स्या­र्थस्य प्रतिपादकत्वं न्यायपूर्वकं प्रतिपादितम् । गति­सा­मा­न्यो­प­न्या­सेन च सर्वे वेदा­न्ता­श्चे­त­न­का­र­ण­वा­दिन इति व्याख्यातम् । अतः परस्य ग्रन्थस्य किमुत्थानमिति, उच्यते — द्विरूपं हि ब्रह्मावगम्यते — नाम­रू­प­वि­का­र­भे­दो­पा­धि­वि­शि­ष्टम् , तद्विपरीतं च सर्वो­पा­धि­वि­व­र्जि­तम् । ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’(बृ. उ. २ । ४ । १४) ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्येत्’(बृ. उ. ४ । ५ । १५) ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रा­न्य­त्प­श्य­त्य­न्य­च्छृ­णो­त्य­न्य­द्वि­जा­नाति तदल्पम्; यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यम्’(छा. उ. ७ । २४ । १) ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वा­भि­व­द­न्य­दास्ते’(तै. आ. ३ । १२ । ७) ‘निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । अमृतस्य परं सेतुं दग्धे­न्ध­न­मि­वा­न­लम्’(श्वे. उ. ६ । १९) ‘नेति नेति’(बृ. उ. २ । ३ । ६) ‘अस्थू­ल­म­न­ण्व­ह्र­स्व­म­दी­र्घम्’(बृ. उ. ३ । ८ । ८) ‘न्यून­म­न्य­त्स्थानं सम्पूर्णमन्यत्’ इति चैवं सहस्रशो विद्या­वि­द्या­वि­ष­य­भे­देन ब्रह्मणो द्विरूपतां दर्शयन्ति वाक्यानि । तत्रा­वि­द्या­व­स्थायां ब्रह्मण उपा­स्यो­पा­स­का­दि­ल­क्षणः सर्वो व्यवहारः । तत्र कानिचिद्ब्रह्मण उपा­स­ना­न्य­भ्यु­द­या­र्थानि, कानि­चि­त्क्र­म­मु­क्त्य­र्थानि, कानि­चि­त्क­र्म­स­मृ­द्ध्य­र्थानि । तेषां गुण­वि­शे­षो­पा­धि­भे­देन भेदः । एक एव तु पर­मा­त्मे­श्व­र­स्तै­स्तै­र्गु­ण­वि­शे­षै­र्वि­शिष्ट उपास्यो यद्यपि भवति, तथापि यथागुणोपासनमेव फलानि भिद्यन्ते; ‘तं यथा यथोपासते तदेव भवति’ इति श्रुतेः, ‘यथा­क्र­तु­र­स्मिँ­ल्लोके पुरुषो भवति, तथेतः प्रेत्य भवति’(छा. उ. ३ । १४ । १) इति च । स्मृतेश्च — ‘यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः’(भ. गी. ८ । ६) इति । यद्यप्येक आत्मा सर्वभूतेषु स्थावरजङ्गमेषु गूढः, तथापि चित्तो­पा­धि­वि­शे­ष­ता­र­त­म्या­दा­त्मनः कूट­स्थ­नि­त्य­स्यै­क­रू­प­स्या­प्यु­त्त­रो­त्त­र­मा­वि­ष्कृ­तस्य तार­त­म्य­मै­श्व­र्य­श­क्ति­वि­शेषैः श्रूयते — ‘तस्य य आत्मा­न­मा­वि­स्तरां वेद’(ऐ. आ. २ । ३ । २ । १) इत्यत्र । स्मृतावपि — ‘यद्य­द्वि­भू­ति­म­त्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्’(भ. गी. १० । ४१) इति यत्र यत्र विभू­त्या­द्य­ति­शयः, स स ईश्वर इत्युपास्यतया चोद्यते । एव­मि­हा­प्या­दि­त्य­म­ण्डले हिरण्मयः पुरुषः सर्व­पा­प्मो­द­य­लि­ङ्गा­त्पर एवेति वक्ष्यति । एवम् ‘आका­श­स्त­ल्लि­ङ्गात्’(ब्र. सू. १ । १ । २२) इत्यादिषु द्रष्टव्यम् । एवं सद्यो­मु­क्ति­का­र­ण­म­प्या­त्म­ज्ञा­न­मु­पा­धि­वि­शे­ष­द्वा­रे­णो­प­दि­श्य­मा­न­म­प्य­वि­व­क्षि­तो­पा­धि­स­म्ब­न्ध­वि­शेषं परापरविषयत्वेन सन्दिह्यमानं वाक्य­ग­ति­प­र्या­लो­च­नया निर्णेतव्यं भवति — यथेहैव तावत् ‘आन­न्द­म­योऽ­भ्या­सात्’ इति । एवमेकमपि ब्रह्मा­पे­क्षि­तो­पा­धि­स­म्बन्धं निर­स्तो­पा­धि­स­म्बन्धं चोपास्यत्वेन ज्ञेयत्वेन च वेदा­न्ते­षू­प­दि­श्यत इति प्रदर्शयितुं परो ग्रन्थ आरभ्यते । यच्च ‘गतिसामान्यात्’ इत्य­चे­त­न­का­र­ण­नि­रा­क­र­ण­मु­क्तम् , तदपि वाक्यान्तराणि ब्रह्मविषयाणि व्याचक्षाणेन ब्रह्म­वि­प­री­त­का­र­ण­नि­षे­धेन प्रपञ्च्यते —

आन­न्द­म­योऽ­भ्या­सात् ॥ १२ ॥

१२

तैत्तिरीयके अन्नमयं प्राणमयं मनोमयं विज्ञानमयं चानु­क्र­म्या­म्ना­यते — ‘तस्माद्वा एत­स्मा­द्वि­ज्ञा­न­म­या­द­न्योऽ­न्तर आत्मानन्दमयः’(तै. उ. २ । ५ । १) इति । तत्र संशयः — किमि­हा­न­न्द­म­य­श­ब्देन परमेव ब्रह्मोच्यते, यत्प्रकृतम् ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै. उ. २ । १ । १) इति, किं वान्न­म­या­दि­व­द्ब्र­ह्म­णोऽ­र्था­न्त­र­मिति । किं तावत्प्राप्तम् ? ब्रह्म­णोऽ­र्था­न्त­र­म­मुख्य आत्मानन्दमयः स्यात् । कस्मात् ? अन्न­म­या­द्य­मु­ख्या­त्म­प्र­वा­ह­प­ति­त­त्वात् । अथापि स्यात्स­र्वा­न्त­र­त्वा­दा­न­न्द­मयो मुख्य एवात्मेति; न स्यात्प्रि­या­द्य­व­य­व­यो­गा­च्छा­री­र­त्व­श्र­व­णाच्च । मुख्यश्चेदात्मा आनन्दमयः स्यान्न प्रिया­दि­सं­स्पर्शः स्यात् । इह तु ‘तस्य प्रियमेव शिरः’(तै. उ. २ । ५ । १) इत्यादि श्रूयते । शारीरत्वं च श्रूयते — ‘तस्यैष एव शारीर आत्मा यः पूर्वस्य’ इति । तस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा य एष आनन्दमय इत्यर्थः । न च सशरीरस्य सतः प्रिया­प्रि­य­सं­स्पर्शो वारयितुं शक्यः । तस्मा­त्सं­सा­र्ये­वा­न­न्द­मय आत्मेत्येवं प्राप्ते, इदमुच्यते —

‘आन­न्द­म­योऽ­भ्या­सात्’ । पर एवात्मानन्दमयो भवितुमर्हति । कुतः ? अभ्यासात् । परस्मिन्नेव ह्यात्म­न्या­न­न्द­शब्दो बहु­कृ­त्वोऽ­भ्य­स्यते । आनन्दमयं प्रस्तुत्य ‘रसो वै सः’(तै. उ. २ । ७ । १) इति तस्यैव रसत्वमुक्त्वा, उच्यते — ‘रसꣳ ह्येवायं लब्ध्वाऽऽ­न­न्दी­भ­वति । को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति’(तै. उ. २ । ७ । १) ‘सैषानन्दस्य मीमाꣳसा भवति’(तै. उ. २ । ८ । १) ‘एत­मा­न­न्द­म­य­मा­त्मा­न­मु­प­स­ङ्क्रा­मति’(तै. उ. २ । ८ । ५) ‘आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन’(तै. उ. २ । ९ । १) इति; ‘आनन्दो ब्रह्मेति व्यजानात्’(तै. उ. ३ । ६ । १) इति च । श्रुत्यन्तरे च ‘विज्ञानमानन्दं ब्रह्म’(बृ. उ. ३ । ९ । २८) इति ब्रह्म­ण्ये­वा­न­न्द­शब्दो दृष्टः । एवमानन्दशब्दस्य बहुकृत्वो ब्रह्म­ण्य­भ्या­सा­दा­न­न्द­मय आत्मा ब्रह्मेति गम्यते । यत्तू­क्त­म­न्न­म­या­द्य­मु­ख्या­त्म­प्र­वा­ह­प­ति­त­त्वा­दा­न­न्द­म­य­स्या­प्य­मु­ख्य­त्व­मिति, नासौ दोषः, आनन्दमयस्य सर्वान्तरत्वात् । मुख्यमेव ह्यात्मा­न­मु­प­दि­दिक्षु शास्त्रं लोक­बु­द्धि­म­नु­स­रत् , अन्नमयं शरी­र­म­ना­त्मा­न­म­त्य­न्त­मू­ढा­ना­मा­त्म­त्वेन प्रसिद्धमनूद्य मूषा­नि­षि­क्त­द्रु­त­ता­म्रा­दि­प्र­ति­मा­व­त्त­तोऽ­न्तरं ततोऽ­न्त­र­मि­त्येवं पूर्वेण पूर्वेण समा­न­मु­त्त­र­मु­त्त­र­म­ना­त्मा­न­मा­त्मेति ग्राहयत् , प्रति­प­त्ति­सौ­क­र्या­पे­क्षया सर्वान्तरं मुख्य­मा­न­न्द­म­य­मा­त्मा­न­मु­प­दि­दे­शेति श्लिष्टतरम् । यथा­रु­न्ध­ती­नि­द­र्शने बह्वीष्वपि तारा­स्व­मु­ख्या­स्व­रु­न्ध­तीषु दर्शितासु, या अन्त्या प्रदर्श्यते सा मुख्यैवारुन्धती भवति; एव­मि­हा­प्या­न­न्द­म­यस्य सर्वा­न्त­र­त्वा­न्मु­ख्य­मा­त्म­त्वम् । यत्तु ब्रूषे, प्रियादीनां शिर­स्त्वा­दि­क­ल्प­ना­नु­प­पन्ना मुख्यस्यात्मन इति — अती­ता­न­न्त­रो­पा­धि­ज­निता सा; न स्वाभा­वि­की­त्य­दोषः । शारी­र­त्व­म­प्या­न­न्द­म­य­स्या­न्न­म­या­दि­श­री­र­प­र­म्प­रया प्रद­र्श्य­मा­न­त्वात् । न पुनः साक्षादेव शारीरत्वं संसारिवत् । तस्मादानन्दमयः पर एवात्मा ॥ १२ ॥

विका­र­श­ब्दा­न्नेति चेन्न प्राचुर्यात् ॥ १३ ॥

१३

अत्राह — नानन्दमयः पर आत्मा भवितुमर्हति; कस्मात् ? विकारशब्दात् । प्रकृ­त­व­च­ना­द­य­मन्यः शब्दो विकारवचनः समधिगतः ‘आनन्दमयः’ इति, मयटो विकारार्थत्वात् । तस्मा­द­न्न­म­या­दि­श­ब्द­व­द्वि­का­र­वि­षय एवानन्दमयशब्द इति चेत् , न; प्राचु­र्या­र्थेऽपि मयटः स्मरणात् । ‘तत्प्रकृतवचने मयट्’(पा. सू. ५ । ४ । २) इति हि प्रचुरतायामपि मयट् स्मर्यते; यथा ‘अन्नमयो यज्ञः’ इत्यन्नप्रचुर उच्यते, एवमानन्दप्रचुरं ब्रह्मा­न­न्द­म­य­मु­च्यते । आनन्दप्रचुरत्वं च ब्रह्मणो मनु­ष्य­त्वा­दा­र­भ्यो­त्त­र­स्मि­न्नु­त्त­र­स्मि­न्स्थाने शतगुण आनन्द इत्युक्त्वा ब्रह्मानन्दस्य निर­ति­श­य­त्वा­व­धा­र­णात् । तस्मा­त्प्रा­चु­र्यार्थे मयट् ॥ १३ ॥

तद्धे­तु­व्य­प­दे­शाच्च ॥ १४ ॥

१४

इतश्च प्राचुर्यार्थे मयट्; यस्मा­दा­न­न्द­हे­तुत्वं ब्रह्मणो व्यपदिशति श्रुतिः — ‘एष ह्येवानन्दयाति’ इति — आनन्दयतीत्यर्थः । यो ह्यन्या­ना­न­न्द­यति स प्रचुरानन्द इति प्रसिद्धं भवति; यथा लोके योऽन्येषां धनिकत्वमापादयति स प्रचुरधन इति गम्यते, तद्वत् । तस्मा­त्प्रा­चु­र्या­र्थेऽपि मयटः सम्भवादानन्दमयः पर एवात्मा ॥ १४ ॥

मान्त्र­व­र्णि­क­मेव च गीयते ॥ १५ ॥

१५

इतश्चानन्दमयः पर एवात्मा; यस्मात् ‘ब्रह्म­वि­दा­प्नोति परम्’(तै. उ. २ । १ । १) इत्युपक्रम्य, ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै. उ. २ । १ । १) इत्य­स्मि­न्मन्त्रे यत् प्रकृतं ब्रह्म सत्य­ज्ञा­ना­न­न्त­वि­शे­ष­णै­र्नि­र्धा­रि­तम् , यस्मा­दा­का­शा­दि­क्र­मेण स्थावरजङ्गमानि भूतान्यजायन्त, यच्च भूतानि सृष्ट्वा तान्यनुप्रविश्य गुहायामवस्थितं सर्वान्तरम् , यस्य विज्ञानाय ‘अन्योऽन्तर आत्मा’ ‘अन्योऽन्तर आत्मा’ इति प्रक्रान्तम् , तन्मा­न्त्र­व­र्णि­क­मेव ब्रह्मेह गीयते — ‘अन्योऽन्तर आत्मानन्दमयः’(तै. उ. २ । ५ । १) इति । मन्त्र­ब्रा­ह्म­ण­यो­श्चै­का­र्थत्वं युक्तम् , अविरोधात् । अन्यथा हि प्रकृ­त­हा­ना­प्र­कृ­त­प्र­क्रिये स्याताम् । न चान्नमयादिभ्य इवा­न­न्द­म­या­द­न्योऽ­न्तर आत्माभिधीयते । एतन्निष्ठैव च ‘सैषा भार्गवी वारुणी विद्या’(तै. उ. ३ । ६ । १)‘आनन्दो ब्रह्मेति व्यजानात्’(तै. उ. ३ । ६ । १) इति । तस्मादानन्दमयः पर एवात्मा ॥ १५ ॥

नेतरोऽनुपपत्तेः ॥ १६ ॥

१६

इतश्चानन्दमयः पर एवात्मा, नेतरः; इतर ईश्वरादन्यः संसारी जीव इत्यर्थः । न जीव आन­न्द­म­य­श­ब्दे­ना­भि­धी­यते । कस्मात् ? अनुपपत्तेः । आनन्दमयं हि प्रकृत्य श्रूयते — ‘सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदꣳ सर्वमसृजत । यदिदं किञ्च’(तै. उ. २ । ६ । १) इति । तत्र प्राक्श­री­रा­द्यु­त्प­त्ते­र­भि­ध्या­नम् , सृज्यमानानां च विकाराणां स्रष्टु­र­व्य­ति­रेकः, सर्व­वि­का­र­सृ­ष्टिश्च न पर­स्मा­दा­त्म­नोऽ­न्य­त्रो­प­प­द्यते ॥ १६ ॥

भेदव्यपदेशाच्च ॥ १७ ॥

१७

इतश्च नानन्दमयः संसारी; यस्मा­दा­न­न्द­म­या­धि­कारे ‘रसो वै सः । रसꣳ ह्येवायं लब्ध्वाऽऽनन्दी भवति’(तै. उ. २ । ७ । १) इति जीवानन्दमयौ भेदेन व्यपदिशति । न हि लब्धैव लब्धव्यो भवति । कथं तर्हि ‘आत्मा­न्वे­ष्टव्यः’, ‘आत्मलाभान्न परं विद्यते’(आ.ध.सू. १.८.१.२) इति श्रुतिस्मृती, यावता न लब्धैव लब्धव्यो भवतीत्युक्तम् ? बाढम् — तथा­प्या­त्म­नोऽ­प्र­च्यु­ता­त्म­भा­व­स्यैव सत­स्त­त्त्वा­न­व­बो­ध­नि­मित्तो मिथ्यैव देहा­दि­ष्व­ना­त्मसु आत्मत्वनिश्चयो लौकिको दृष्टः । तेन देहा­दि­भू­त­स्या­त्म­नोऽपि आत्मा — अनन्विष्टः ‘अन्वेष्टव्यः’, अलब्धः ‘लब्धव्यः’, अश्रुतः ‘श्रोतव्यः’, अमतः ‘मन्तव्यः’, अविज्ञातः ‘विज्ञातव्यः’ — इत्या­दि­भे­द­व्य­प­देश उपपद्यते । प्रतिषिध्यत एव तु परमार्थतः सर्व­ज्ञा­त्प­र­मे­श्व­रा­दन्यो द्रष्टा श्रोता वा ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. उ. ३ । ७ । २३) इत्यादिना । परमेश्वरस्तु अवि­द्या­क­ल्पि­ता­च्छा­री­रा­त्क­र्तु­र्भोक्तुः विज्ञा­ना­त्मा­ख्यात् अन्यः । यथा माया­वि­न­श्च­र्म­ख­ड्ग­ध­रा­त्सू­त्रे­णा­का­श­म­धि­रो­हतः स एव मायावी परमार्थरूपो भूमिष्ठोऽन्यः । यथा वा घटा­का­शा­दु­पा­धि­प­रि­च्छि­न्ना­द­नु­पा­धि­प­रि­च्छिन्न आकाशोऽन्यः । ईदृशं च विज्ञा­ना­त्म­प­र­मा­त्म­भे­द­मा­श्रित्य ‘नेत­रोऽ­नु­प­पत्तेः’, ‘भेद­व्य­प­दे­शाच्च’ इत्युक्तम् ॥१७ ॥

कामाच्च नानुमानापेक्षा ॥ १८ ॥

१८

आनन्दमयाधिकारे च ‘सोऽकामयत बहु स्यां प्रजायेयेति’(तै. उ. २ । ६ । १) इति काम­यि­तृ­त्व­नि­र्दे­शात् नानुमानिकमपि साङ्ख्य­प­रि­क­ल्पि­त­म­चे­तनं प्रधा­न­मा­न­न्द­म­य­त्वेन कारणत्वेन वा अपेक्षितव्यम् । ‘ईक्ष­ते­र्ना­श­ब्दम्’(ब्र. सू. १ । १ । ५) इति निराकृतमपि प्रधानं पूर्व­सू­त्रो­दा­हृतां काम­यि­तृ­त्व­श्रु­ति­मा­श्रित्य प्रस­ङ्गा­त्पु­न­र्नि­रा­क्रि­यते गति­सा­मा­न्य­प्र­प­ञ्च­नाय ॥ १८ ॥

अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥

१९

इतश्च न प्रधाने जीवे वानन्दमयशब्दः; यस्मा­द­स्मि­न्ना­न­न्द­मये प्रकृत आत्मनि, प्रति­बु­द्ध­स्यास्य जीवस्य, तद्योगं शास्ति — तदात्मना योगस्तद्योगः, तद्भावापत्तिः, मुक्तिरित्यर्थः — तद्योगं शास्ति शास्त्रम् — ‘यदा ह्येवैष एत­स्मि­न्न­दृ­श्येऽ­ना­त्म्येऽ­नि­रु­क्तेऽ­नि­ल­य­नेऽ­भयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति । यदा ह्येवैष एत­स्मि­न्नु­द­र­म­न्तरं कुरुते । अथ तस्य भयं भवति’(तै. उ. २ । ७ । १) इति । एतदुक्तं भवति — यदै­त­स्मि­न्ना­न­न्द­म­येऽ­ल्प­म­प्य­न्त­र­म­ता­दा­त्म्य­रूपं पश्यति, तदा संसारभयान्न निवर्तते । यदा त्वेत­स्मि­न्ना­न­न्द­मये निरन्तरं तादात्म्येन प्रतितिष्ठति, तदा संसा­र­भ­या­न्नि­व­र्तत इति । तच्च परमात्मपरिग्रहे घटते, न प्रधानपरिग्रहे जीवपरिग्रहे वा । तस्मादानन्दमयः परमात्मेति स्थितम् ॥ १९ ॥

इदं त्विह वक्तव्यम् — ‘स वा एष पुरु­षोऽ­न्न­र­स­मयः’(तै. उ. २ । १ । १) ‘तस्माद्वा एत­स्मा­द­न्न­र­स­म­या­द­न्योऽ­न्तर आत्मा प्राणमयः’(तै. उ. २ । २ । १) तस्मात् ‘अन्योऽन्तर आत्मा मनोमयः’(तै. उ. २ । ३ । १) तस्मात् ‘अन्योऽन्तर आत्मा विज्ञानमयः’(तै. उ. २ । ४ । १) इति च विकारार्थे मयट्‍प्रवाहे सति, आनन्दमय एवा­क­स्मा­द­र्ध­ज­र­ती­य­न्या­येन कथमिव मयटः प्राचु­र्या­र्थत्वं ब्रह्मविषयत्वं चाश्रीयत इति । मान्त्र­व­र्णि­क­ब्र­ह्मा­धि­का­रा­दिति चेत् , न; अन्नमयादीनामपि तर्हि ब्रह्म­त्व­प्र­सङ्गः । अत्राह — युक्त­म­न्न­म­या­दी­ना­म­ब्र­ह्म­त्वम् , तस्मा­त्त­स्मा­दा­न्त­र­स्या­न्त­र­स्या­न्य­स्या­न्य­स्या­त्मन उच्यमानत्वात् । आनन्दमयात्तु न कश्चिदन्य आन्तर आत्मोच्यते । तेनानन्दमयस्य ब्रह्मत्वम् , अन्यथा प्रकृ­त­हा­ना­प्र­कृ­त­प्र­क्रि­या­प्र­स­ङ्गा­दिति । अत्रोच्यते — यद्य­प्य­न्न­म­या­दिभ्य इवानन्दमयात् ‘अन्योऽन्तर आत्मा’ इति न श्रूयते, तथापि नानन्दमयस्य ब्रह्मत्वम्; यत आनन्दमयं प्रकृत्य श्रूयते — ‘तस्य प्रियमेव शिरः, मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा’(तै. उ. २ । ५ । १) इति । तत्र यद्ब्रह्म मन्त्रवर्णे प्रकृतम् ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै. उ. २ । १ । १)‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै. उ. २ । १ । १) इति, तदिह ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्युच्यते । तद्वि­जि­ज्ञा­प­यि­ष­यै­वा­न्न­म­या­दय आन­न्द­म­य­प­र्यन्ताः पञ्च कोशाः कल्प्यन्ते । तत्र कुतः प्रकृ­त­हा­ना­प्र­कृ­त­प्र­क्रि­या­प्र­सङ्गः । नन्वा­न­न्द­म­य­स्या­व­य­व­त्वेन ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्युच्यते, अन्नमयादीनामिव ‘इदं पुच्छं प्रतिष्ठा’ इत्यादि । तत्र कथं ब्रह्मणः स्वप्रधानत्वं शक्यं विज्ञातुम् ? प्रकृतत्वादिति ब्रूमः । नन्वा­न­न्द­म­या­व­य­व­त्वे­नापि ब्रह्मणि विज्ञायमाने न प्रकृतत्वं हीयते, आनन्दमयस्य ब्रह्मत्वादिति । अत्रोच्यते — तथा सति तदेव ब्रह्म आनन्दमय आत्मा अवयवी, तदेव च ब्रह्म पुच्छं प्रतिष्ठा अवयव इत्यसामञ्जस्यं स्यात् । अन्यतरपरिग्रहे तु युक्तम् ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यत्रैव ब्रह्मनिर्देश आश्रयितुम् , ब्रह्म­श­ब्द­सं­यो­गात्। नानन्दमयवाक्ये, ब्रह्म­श­ब्द­सं­यो­गा­भा­वा­दिति । अपि च ब्रह्म पुच्छं प्रति­ष्ठे­त्यु­क्त्वे­द­मु­च्यते — ‘तदप्येष श्लोको भवति । असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुः’(तै. उ. २ । ६ । १) इति । अस्मिंश्च श्लोकेऽ­न­नु­कृ­ष्या­न­न्द­मयं ब्रह्मण एव भावा­भा­व­वे­द­न­यो­र्गु­ण­दो­षा­भि­धा­ना­द्ग­म्यते — ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यत्र ब्रह्मण एव स्वप्र­धा­न­त्व­मिति । न चान­न्द­म­य­स्या­त्मनो भावाभावशङ्का युक्ता, प्रिय­मो­दा­दि­वि­शि­ष्ट­स्या­न­न्द­म­यस्य सर्व­लो­क­प्र­सि­द्ध­त्वात् । कथं पुनः स्वप्रधानं सद्ब्रह्म आनन्दमयस्य पुच्छत्वेन निर्दिश्यते — ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति ? नैष दोषः । पुच्छवत्पुच्छम् , प्रतिष्ठा परायणमेकनीडं लौकि­क­स्या­न­न्द­जा­तस्य ब्रह्मानन्दः इत्येतदनेन विवक्ष्यते, नावयवत्वम्; ‘एत­स्यै­वा­न­न्द­स्या­न्यानि भूतानि मात्रा­मु­प­जी­वन्ति’(बृ. उ. ४ । ३ । ३२) इति श्रुत्यन्तरात् । अपि चानन्दमयस्य ब्रह्मत्वे प्रिया­द्य­व­य­व­त्वेन सविशेषं ब्रह्मा­भ्यु­प­ग­न्त­व्यम् । निर्विशेषं तु ब्रह्म वाक्यशेषे श्रूयते, वाङ्म­न­स­यो­र­गो­च­र­त्वा­भि­धा­नात् — ‘यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चन’(तै. उ. २ । ९ । १) इति । अपि चानन्दप्रचुर इत्युक्ते दुःखास्तित्वमपि गम्यते; प्राचुर्यस्य लोके प्रति­यो­ग्य­ल्प­त्वा­पे­क्ष­त्वात् । तथा च सति ‘यत्र नान्यत्पश्यति, नान्यच्छृणोति, नान्य­द्वि­जा­नाति, स भूमा’(छा. उ. ७ । २४ । १) इति भूम्नि ब्रह्मणि तद्व्य­ति­रि­क्ता­भा­व­श्रु­ति­रु­प­रु­ध्येत । प्रतिशरीरं च प्रिया­दि­भे­दा­दा­न­न्द­म­य­स्यापि भिन्नत्वम् । ब्रह्म तु न प्रतिशरीरं भिद्यते, ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्या­न­न्त्य­श्रुतेः ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्व­भू­ता­न्त­रात्मा’(श्वे. उ. ६ । ११) इति च श्रुत्यन्तरात् । न चान­न्द­म­य­स्या­भ्यासः श्रूयते । प्राति­प­दि­का­र्थ­मा­त्र­मेव हि सर्व­त्रा­भ्य­स्यते — ‘रसो वै सः । रसꣳ ह्येवायं लब्ध्वानन्दी भवति । को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात्’(तै. उ. २ । ७ । १) ‘सैषानन्दस्य मीमाꣳसा भवति’(तै. उ. २ । ८ । १) ‘आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति’(तै. उ. २ । ९ । १) ‘आनन्दो ब्रह्मेति व्यजानात्’(तै. उ. ३ । ६ । १)‘आनन्दो ब्रह्मेति व्यजानात्’(तै. उ. ३ । ६ । १) इति च । यदि चानन्दमयशब्दस्य ब्रह्मविषयत्वं निश्चितं भवेत् , तत उत्त­रे­ष्वा­न­न्द­मा­त्र­प्र­यो­गे­ष्व­प्या­न­न्द­म­या­भ्यासः कल्प्येत । न त्वानन्दमयस्य ब्रह्मत्वमस्ति, प्रिय­शि­र­स्त्वा­दि­भि­र्हे­तु­भि­रि­त्य­वो­चाम । तस्मा­च्छ्रु­त्य­न्तरे ‘विज्ञानमानन्दं ब्रह्म’(बृ. उ. ३ । ९ । २८) इत्या­न­न्द­प्रा­ति­प­दि­कस्य ब्रह्मणि प्रयोगदर्शनात् , ‘यदेष आकाश आनन्दो न स्यात्’(तै. उ. २ । ७ । १) इति ब्रह्मविषयः प्रयोगो न त्वान­न्द­म­या­भ्यास इत्यवगन्तव्यम् । यस्त्वयं मय­ड­न्त­स्यै­वा­न­न्द­म­य­श­ब्द­स्या­भ्यासः ‘एत­मा­न­न्द­म­य­मा­त्मा­न­मु­प­स­ङ्क्रा­मति’(तै. उ. २ । ८ । ५) इति, न तस्य ब्रह्म­वि­ष­य­त्व­मस्ति । विका­रा­त्म­ना­मे­वा­न्न­म­या­दी­ना­म­ना­त्म­ना­मु­प­स­ङ्क्र­मि­त­व्यानां प्रवाहे पठितत्वात् । नन्वा­न­न्द­म­य­स्यो­प­स­ङ्क्र­मि­त­व्य­स्या­न्न­म­या­दि­व­द­ब्र­ह्मत्वे सति नैव विदुषो ब्रह्मप्राप्तिः फलं निर्दिष्टं भवेत् । नैष दोषः, आन­न्द­म­यो­प­स­ङ्क्र­म­ण­नि­र्दे­शे­नैव विदुषः पुच्छ­प्र­ति­ष्ठा­भू­त­ब्र­ह्म­प्राप्तेः फलस्य निर्दिष्टत्वात् , ‘तदप्येष श्लोको भवति’ ‘यतो वाचो निवर्तन्ते’ इत्यादिना च प्रप­ञ्च्य­मा­न­त्वात् । या त्वान­न्द­म­य­स­न्नि­धाने ‘सोऽकामयत बहु स्यां प्रजायेयेति’(तै. उ. २ । ६ । १) इतीयं श्रुतिरुदाहृता, सा ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यनेन सन्निहिततरेण ब्रह्मणा सम्बध्यमाना नानन्दमयस्य ब्रह्मतां प्रतिबोधयति । तद­पे­क्ष­त्वा­च्चो­त्त­रस्य ग्रन्थस्य ‘रसो वै सः’(तै. उ. २ । ७ । १) इत्या­दे­र्ना­न­न्द­म­य­वि­ष­यता । ननु ‘सोऽकामयत’ इति ब्रह्मणि पुंलि­ङ्ग­नि­र्देशो नोपपद्यते । नायं दोषः, ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ इत्यत्र पुंलि­ङ्गे­ना­प्या­त्म­श­ब्देन ब्रह्मणः प्रकृतत्वात् । या तु भार्गवी वारुणी विद्या — ‘आनन्दो ब्रह्मेति व्यजानात्’ इति, तस्यां मय­ड­श्र­व­णा­त्प्रि­य­शि­र­स्त्वा­द्य­श्र­व­णाच्च युक्तमानन्दस्य ब्रह्मत्वम् । तस्मा­द­णु­मा­त्र­मपि विशेषमनाश्रित्य न स्वत एव प्रिय­शि­र­स्त्वादि ब्रह्मण उपपद्यते । न चेह सविशेषं ब्रह्म प्रति­पि­पा­द­यि­षि­तम् , वाङ्म­न­स­गो­च­रा­ति­क्र­म­श्रुतेः । तस्मा­द­न्न­म­या­दि­ष्वि­वा­न­न्द­म­येऽपि विकारार्थ एव मयट् विज्ञेयः, न प्राचुर्यार्थः ॥

सूत्राणि त्वेवं व्याख्येयानि — ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यत्र किमा­न­न्द­म­या­व­य­व­त्वेन ब्रह्म विवक्ष्यते, उत स्वप्र­धा­न­त्वे­नेति । पुच्छ­श­ब्दा­द­व­य­व­त्वे­नेति प्राप्ते, उच्यते — आन­न्द­म­योऽ­भ्या­सात् — आनन्दमय आत्मा इत्यत्र ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति स्वप्रधानमेव ब्रह्मो­प­दि­श्यते; अभ्यासात् ‘असन्नेव स भवति’ इत्य­स्मि­न्नि­ग­म­न­श्लोके ब्रह्मण एव केव­ल­स्या­भ्य­स्य­मा­न­त्वात् । विका­र­श­ब्दा­न्नेति चेन्न प्राचुर्यात् — विका­र­श­ब्दे­ना­व­य­व­श­ब्दोऽ­भि­प्रेतः; पुच्छ­मि­त्य­व­य­व­श­ब्दान्न स्वप्रधानत्वं ब्रह्मण इति यदुक्तम् , तस्य परिहारो वक्तव्यः; अत्रोच्यते — नायं दोषः, प्राचु­र्या­द­प्य­व­य­व­श­ब्दो­प­पत्तेः; प्राचुर्यं प्रायापत्तिः, अवयवप्राये वचनमित्यर्थः; अन्नमयादीनां हि शिरआदिषु पुच्छा­न्ते­ष्व­व­य­वे­षू­क्ते­ष्वा­न­न्द­म­य­स्यापि शिर­आ­दी­न्य­व­य­वा­न्त­रा­ण्युक्त्वा अव­य­व­प्रा­या­पत्त्या ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्याह, नावयवविवक्षया; यत्कारणम् ‘अभ्यासात्’ इति स्वप्रधानत्वं ब्रह्मणः समर्थितम् । तद्धे­तु­व्य­प­दे­शाच्च — सर्वस्य हि विकारजातस्य सानन्दमयस्य कारणत्वेन ब्रह्म व्यपदिश्यते — ‘इदꣳ सर्वमसृजत, यदिदं किञ्च’(तै. उ. २ । ६ । १) इति । न च कारणं सद्ब्रह्म स्ववि­का­र­स्या­न­न्द­म­यस्य मुख्यया वृत्त्यावयव उपपद्यते । अपराण्यपि सूत्राणि यथासम्भवं पुच्छ­वा­क्य­नि­र्दि­ष्ट­स्यैव ब्रह्मण उपपादकानि द्रष्टव्यानि ॥१२ – १९ ॥

अन्त­स्त­द्ध­र्मो­प­दे­शात् ॥ २० ॥

२०

इदमाम्नायते — ‘अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिर­ण्य­श्म­श्रु­र्हि­र­ण्य­केश आ प्रणखात्सर्व एव सुवर्णः’(छा. उ. १ । ६ । ६) ,‘तस्य यथा कप्यासं पुण्ड­री­क­मे­व­म­क्षिणी तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद’(छा. उ. १ । ६ । ७) ‘... इत्यधिदैवतम्’(छा. उ. १ । ६ । ८) ‘अथाध्यात्मम् ...’(छा. उ. १ । ७ । १) ‘अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते’(छा. उ. १ । ७ । ५) इत्यादि । तत्र संशयः — किं विद्या­क­र्मा­ति­श­य­व­शा­त्प्रा­प्तो­त्कर्षः कश्चित्संसारी सूर्यमण्डले चक्षुषि चोपास्यत्वेन श्रूयते, किं वा नित्यसिद्धः परमेश्वर इति । किं तावत्प्राप्तम् ? संसारीति । कुतः ? रूप­व­त्त्व­श्र­व­णात् । आदित्यपुरुषे तावत् ‘हिर­ण्य­श्मश्रुः’ इत्यादि रूपमुदाहृतम् । अक्षिपुरुषेऽपि तदेवातिदेशेन प्राप्यते ‘तस्यैतस्य तदेव रूपं यदमुष्य रूपम्’ इति । न च परमेश्वरस्य रूपवत्त्वं युक्तम् , ‘अश­ब्द­म­स्प­र्श­म­रू­प­म­व्य­यम्’(क. उ. १ । ३ । १५) इति श्रुतेः; आधारश्रवणाच्च — ‘य एषोऽन्तरादित्ये य एषोऽन्तरक्षिणि’ इति । न ह्यनाधारस्य स्वम­हि­म­प्र­ति­ष्ठस्य सर्वव्यापिनः परमेश्वरस्याधार उपदिश्येत । ‘स भगवः कस्मि­न्प्र­ति­ष्ठित इति स्वे महिम्नि’(छा. उ. ७ । २४ । १) इति ‘आका­श­व­त्स­र्व­ग­तश्च नित्यः’(शत. ब्रा. १० । ६ । ३ । २) इति च श्रुती भवतः । ऐश्व­र्य­म­र्या­दा­श्रु­तेश्च — ‘स एष ये चामु­ष्मा­त्प­राञ्चो लोकास्तेषां चेष्टे देवकामानां च’(छा. उ. १ । ६ । ८) इत्या­दि­त्य­पु­रु­षस्य ऐश्वर्यमर्यादा । ‘स एष ये चैत­स्मा­द­र्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां च’(छा. उ. १ । ७ । ६) इत्य­क्षि­पु­रु­षस्य । न च परमेश्वरस्य मर्या­दा­व­दै­श्वर्यं युक्तम्; ‘एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय’(बृ. उ. ४ । ४ । २२) इत्य­वि­शे­ष­श्रुतेः । तस्मा­न्ना­क्ष्या­दि­त्य­यो­रन्तः परमेश्वर इत्येवं प्राप्ते ब्रूमः —

अन्त­स्त­द्ध­र्मो­प­दे­शात् इति । ‘य एषोऽ­न्त­रा­दित्ये’, ‘य एषोऽन्तरक्षिणि’ इति च श्रूयमाणः पुरुषः परमेश्वर एव, न संसारी । कुतः ? तद्धर्मोपदेशात् । तस्य हि परमेश्वरस्य धर्मा इहोपदिष्टाः । तद्यथा — ‘तस्योदिति नाम’ इति श्रावयित्वा अस्या­दि­त्य­पु­रु­षस्य नाम ‘स एष सर्वेभ्यः पाप्मभ्य उदितः’ इति सर्वपाप्मापगमेन निर्वक्ति । तदेव च कृतनिर्वचनं नामा­क्षि­पु­रु­ष­स्या­प्य­ति­दि­शति — ‘यन्नाम तन्नाम’ इति । सर्व­पा­प्मा­प­ग­मश्च परमात्मन एव श्रूयते — ‘य आत्मापहतपाप्मा’(छा. उ. ८ । ७ । १) इत्यादौ । तथा चाक्षुषे पुरुषे ‘सैव ऋक् तत्साम तदुक्थं तद्य­जु­स्त­द्ब्रह्म’ इति ऋक्सा­मा­द्या­त्म­कतां निर्धारयति । सा च पर­मे­श्व­र­स्यो­प­प­द्यते, सर्व­का­र­ण­त्वा­त्स­र्वा­त्म­क­त्वो­प­पत्तेः । पृथि­व्य­ग्न्या­द्या­त्मके चाधि­दै­व­त­मृ­क्सामे, वाक्प्रा­णा­द्या­त्मके चाध्या­त्म­म­नु­क्र­म्याह — ‘तस्यर्क्च साम च गेष्णौ’ इत्यधिदैवतम् । तथाध्यात्ममपि — ‘यावमुष्य गेष्णौ तौ गेष्णौ’ इति । तच्च सर्वात्मकत्वे सत्येवोपपद्यते । ‘तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः’(छा. उ. १ । ७ । ६) इति च लौकिकेष्वपि गानेष्वस्यैव गीयमानत्वं दर्शयति । तच्च परमेश्वरपरिग्रह एव घटते — ‘यद्य­द्वि­भू­ति­म­त्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम्’(भ. गी. १० । ४१) इति भग­व­द्गी­ता­द­र्श­नात् । लोक­का­मे­शि­तृ­त्व­मपि निरङ्कुशं श्रूयमाणं परमेश्वरं गमयति । यत्तूक्तं हिर­ण्य­श्म­श्रु­त्वा­दि­रू­प­व­त्त्व­श्र­वणं परमेश्वरे नोपपद्यत इति, अत्र ब्रूमः — स्यात्प­र­मे­श्व­र­स्या­पी­च्छा­व­शा­न्मा­या­मयं रूपं साध­का­नु­ग्र­हा­र्थम् , ‘माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।’(म॰भा॰ १२-३३९-४५) ‘सर्व­भू­त­गु­णै­र्युक्तं मैवं मां ज्ञातुमर्हसि’(म॰भा॰ १२-३३९-४६) इति स्मरणात् । अपि च, यत्र तु निर­स्त­स­र्व­वि­शेषं पारमेश्वरं रूपमुपदिश्यते, भवति तत्र शास्त्रम् ‘अश­ब्द­म­स्प­र्श­म­रू­प­म­व्य­यम्’(क. उ. १ । ३ । १५) इत्यादि । सर्व­का­र­ण­त्वात्तु विकारधर्मैरपि कैश्चि­द्वि­शिष्टः परमेश्वर उपास्यत्वेन निर्दिश्यते — ‘सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः’(छा. उ. ३ । १४ । २) इत्यादिना । तथा हिर­ण्य­श्म­श्रु­त्वा­दि­नि­र्दे­शोऽपि भविष्यति । यद­प्या­धा­र­श्र­व­णान्न परमेश्वर इति, अत्रोच्यते — स्वम­हि­म­प्र­ति­ष्ठ­स्या­प्या­धा­र­वि­शे­षो­प­देश उपासनार्थो भविष्यति । सर्व­ग­त­त्वा­द्ब्र­ह्मणो व्योम­व­त्स­र्वा­न्त­र­त्वो­प­पत्तेः । ऐश्व­र्य­म­र्या­दा­श्र­व­ण­म­प्य­ध्या­त्मा­धि­दै­व­त­वि­भा­गा­पे­क्ष­मु­पा­स­ना­र्थ­मेव । तस्मात्परमेश्वर एवा­क्ष्या­दि­त्य­यो­र­न्त­रु­प­दि­श्यते ॥ २० ॥

भेद­व्य­प­दे­शा­च्चान्यः ॥ २१ ॥

२१

अस्ति चादि­त्या­दि­श­री­रा­भि­मा­निभ्यो जीवेभ्योऽन्य ईश्व­रोऽ­न्त­र्यामी — ‘य आदित्ये तिष्ठ­न्ना­दि­त्या­द­न्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृतः’(बृ. उ. ३ । ७ । ९) इति श्रुत्यन्तरे भेदव्यपदेशात् । तत्र हि ‘आदित्यादन्तरो यमादित्यो न वेद’ इति वेदि­तु­रा­दि­त्या­द्वि­ज्ञा­ना­त्म­नोऽ­न्योऽ­न्त­र्यामी स्पष्टं निर्दिश्यते । स एवे­हा­प्य­न्त­रा­दित्ये पुरुषो भवितुमर्हति, श्रुति­सा­मा­न्यात् । तस्मात्परमेश्वर एवेहोपदिश्यत इति सिद्धम् ॥ २१ ॥

आका­श­स्त­ल्लि­ङ्गात् ॥ २२ ॥

२२

इदमामनन्ति ‘अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्’(छा. उ. १ । ९ । १) इति । तत्र संशयः — किमाकाशशब्देन परं ब्रह्माभिधीयते, उत भूताकाशमिति । कुतः संशयः ? उभयत्र प्रयोगदर्शनात् । भूतविशेषे ताव­त्सु­प्र­सिद्धो लोक­वे­द­यो­रा­का­श­शब्दः । ब्रह्मण्यपि क्वचि­त्प्र­यु­ज्य­मानो दृश्यते, यत्र वाक्य­शे­ष­व­शा­द­सा­धा­र­ण­गु­ण­श्र­व­णाद्वा निर्धारितं ब्रह्म भवति — यथा ‘यदेष आकाश आनन्दो न स्यात्’(तै. उ. २ । ७ । १) इति, ‘आकाशो वै नाम नाम­रू­प­यो­र्नि­र्व­हिता ते यदन्तरा तद्ब्रह्म’(छा. उ. ८ । १४ । १) इति चैवमादौ । अतः संशयः । किं पुनरत्र युक्तम् ? भूताकाशमिति । कुतः ? तद्धि प्रसिद्धतरेण प्रयोगेण शीघ्रं बुद्धिमारोहति । न चायमाकाशशब्द उभयोः साधारणः शक्यो विज्ञातुम् , अने­का­र्थ­त्व­प्र­स­ङ्गात् । तस्माद्ब्रह्मणि गौण आकाशशब्दो भवितुमर्हति । विभु­त्वा­दि­भिर्हि बहुभिर्धर्मैः सदृशमाकाशेन ब्रह्म भवति । न च मुख्यसम्भवे गौणोऽर्थो ग्रहणमर्हति । सम्भवति चेह मुख्य­स्यै­वा­का­शस्य ग्रहणम् । ननु भूताकाशपरिग्रहे वाक्यशेषो नोपपद्यते — ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते’ इत्यादिः नैष दोषः, भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वोपपत्तेः । विज्ञायते हि — ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूत आका­शा­द्वा­यु­र्वा­यो­रग्निः’(तै. उ. २ । १ । १) इत्यादि । ज्याय­स्त्व­प­रा­य­णत्वे अपि भूता­न्त­रा­पे­क्ष­यो­प­प­द्येते भूताकाशस्यापि । तस्मा­दा­का­श­श­ब्देन भूताकाशस्य ग्रहणमित्येवं प्राप्ते ब्रूमः —

‘आका­श­स्त­ल्लि­ङ्गात्’ । आकाशशब्देनेह ब्रह्मणो ग्रहणं युक्तम् । कुतः ? तल्लिङ्गात् । परस्य हि ब्रह्मण इदं लिङ्गम् — ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते’ इति । परस्माद्धि ब्रह्मणो भूता­ना­मु­त्प­त्ति­रिति वेदान्तेषु मर्यादा । ननु भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वं दर्शितम् । सत्यं दर्शितम् । तथापि मूलकारणस्य ब्रह्म­णोऽ­प­रि­ग्र­हात् , आका­शा­दे­वे­त्य­व­धा­रणं सर्वाणीति च भूतविशेषणं नानुकूलं स्यात् । तथा ‘आकाशं प्रत्यस्तं यन्ति’ इति ब्रह्मलिङ्गम् , ‘आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्’ इति च ज्याय­स्त्व­प­रा­य­णत्वे । ज्यायस्त्वं ह्यनापेक्षिकं पर­मा­त्म­न्ये­वै­क­स्मि­न्ना­म्ना­तम् — ‘ज्याया­न्पृ­थिव्या ज्याया­न­न्त­रि­क्षा­ज्ज्या­या­न्दिवो ज्यायानेभ्यो लोकेभ्यः’(छा. उ. ३ । १४ । ३) इति । तथा परायणत्वमपि पर­म­का­र­ण­त्वा­त्प­र­मा­त्म­न्येव उपपन्नतरम् । श्रुतिश्च — ‘विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्’(बृ. उ. ३ । ९ । २८) इति । अपि चान्त­व­त्त्व­दो­षेण शालावत्यस्य पक्षं निन्दित्वा, अनन्तं किञ्चि­द्व­क्तु­का­मेन जैवलिनाकाशः परिगृहीतः । तं चाकाशमुद्गीथे सम्पा­द्यो­प­सं­ह­रति — ‘स एष परो­व­री­या­नु­द्गीथः स एषोऽनन्तः’(छा. उ. १ । ९ । २) इति । तच्चानन्त्यं ब्रह्मलिङ्गम् । यत्पुनरुक्तं भूताकाशं प्रसिद्धिबलेन प्रथमतरं प्रतीयत इति, अत्र ब्रूमः — प्रथमतरं प्रतीतमपि सद्वा­क्य­शे­ष­ग­ता­न्ब्र­ह्म­गु­णा­न्दृष्ट्वा न परिगृह्यते । दर्शितश्च ब्रह्म­ण्य­प्या­का­श­शब्दः ‘आकाशो वै नाम नाम­रू­प­यो­र्नि­र्व­हिता’(छा. उ. ८ । १४ । १) इत्यादौ । तथा­का­श­प­र्या­य­वा­चि­ना­मपि ब्रह्मणि प्रयोगो दृश्यते — ‘ऋचो अक्षरे परमे व्योमन् यस्मिन्देवा अधि विश्वे निषेदुः’(ऋ. सं. १ । १६४ । ३९) ‘सैषा भार्गवी वारुणी विद्या परमे व्योम­न्प्र­ति­ष्ठिता’(तै. उ. ३ । ६ । १) ‘ॐ कं ब्रह्म खं ब्रह्म’(छा. उ. ४ । १० । ४) ‘खं पुराणम्’(बृ. उ. ५ । १ । १) इति चैवमादौ । वाक्योपक्रमेऽपि वर्त­मा­न­स्या­का­श­श­ब्दस्य वाक्य­शे­ष­व­शा­द्युक्ता ब्रह्म­वि­ष­य­त्वा­व­धा­रणा । ‘अग्नि­र­धी­तेऽ­नु­वा­कम्’ इति हि वाक्यो­प­क्र­म­ग­तोऽ­प्य­ग्नि­शब्दो माणवकविषयो दृश्यते । तस्मादाकाशशब्दं ब्रह्मेति सिद्धम् ॥ २२ ॥

अत एव प्राणः ॥ २३ ॥

२३

उद्गीथे — ‘प्रस्तोतर्या देवता प्रस्ता­व­म­न्वा­यत्ता’ इत्युपक्रम्य श्रूयते — ‘कतमा सा देवतेति’(छा. उ. १ । ११ । ४) , ‘प्राण इति होवाच, सर्वाणि ह वा इमानि भूतानि प्राण­मे­वा­भि­सं­वि­शन्ति, प्राण­म­भ्यु­ज्जि­हते, सैषा देवता प्रस्ता­व­म­न्वा­यत्ता’(छा. उ. १ । ११ । ५) इति । तत्र संशयनिर्णयौ पूर्ववदेव द्रष्टव्यौ । ‘प्राणबन्धनं हि सोम्य मनः’(छा. उ. ६ । ८ । २) ‘प्राणस्य प्राणम्’(बृ. उ. ४ । ४ । १८) इति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते । वायुविकारे तु प्रसिद्धतरो लोकवेदयोः । अत इह प्राणशब्देन कतरस्योपादानं युक्तमिति भवति संशयः । किं पुनरत्र युक्तम् ? वायुविकारस्य पञ्चवृत्तेः प्राणस्योपादानं युक्तम् । तत्र हि प्रसिद्धतरः प्राणशब्द इत्यवोचाम । ननु पूर्ववदिहापि तल्लि­ङ्गा­द्ब्र­ह्मण एव ग्रहणं युक्तम् । इहापि वाक्यशेषे भूतानां संवेशनोद्गमनं पारमेश्वरं कर्म प्रतीयते । न, मुख्येऽपि प्राणे भूत­सं­वे­श­नो­द्ग­म­नस्य दर्शनात् । एवं ह्याम्नायते — ‘यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः, स यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्ते’(श. ब्रा. १० । ३ । ३ । ६) इति । प्रत्यक्षं चैतत् — स्वापकाले प्राण­वृ­त्ता­व­प­रि­लु­प्य­मा­ना­या­मि­न्द्रि­य­वृ­त्तयः परिलुप्यन्ते, प्रबोधकाले च प्रादु­र्भ­व­न्तीति । इन्द्रि­य­सा­र­त्वाच्च भूतानामविरुद्धो मुख्ये प्राणेऽपि भूत­सं­वे­श­नो­द्ग­म­न­वादी वाक्यशेषः । अपि चादित्योऽन्नं चोद्गी­थ­प्र­ति­हा­र­यो­र्दे­वते प्रस्ता­व­दे­व­तायाः प्राणस्यानन्तरं निर्दिश्येते । न च तयो­र्ब्र­ह्म­त्व­मस्ति । तत्सामान्याच्च प्राणस्यापि न ब्रह्म­त्व­मि­त्येवं प्राप्ते सूत्रकार आह —

‘अत एव प्राणः’ इति । तल्लिङ्गादिति पूर्वसूत्रे निर्दिष्टम् । अत एव तल्लि­ङ्गा­त्प्रा­ण­श­ब्द­मपि परं ब्रह्म भवितुमर्हति । प्राणस्यापि हि ब्रह्म­लि­ङ्ग­स­म्बन्धः श्रूयते — ‘सर्वाणि ह वा इमानि भूतानि प्राण­मे­वा­भि­सं­वि­शन्ति प्राण­म­भ्यु­ज्जि­हते’(छा. उ. १ । ११ । ५) इति । प्राणनिमित्तौ सर्वेषां भूता­ना­मु­त्प­त्ति­प्र­ल­या­वु­च्य­मानौ प्राणस्य ब्रह्मतां गमयतः । ननूक्तं मुख्य­प्रा­ण­प­रि­ग्र­हेऽपि संवे­श­नो­द्ग­म­न­द­र्श­न­म­वि­रु­द्धम् , स्वाप­प्र­बो­ध­यो­र्द­र्श­ना­दिति । अत्रोच्यते — स्वाप­प्र­बो­ध­यो­रि­न्द्रि­या­णा­मेव केवलानां प्राणाश्रयं संवेशनोद्गमनं दृश्यते, न सर्वेषां भूतानाम् । इह तु सेन्द्रियाणां सशरीराणां च जीवाविष्टानां भूतानाम् , ‘सर्वाणि ह वा इमानि भूतानि’ इति श्रुतेः । यदापि भूत­श्रु­ति­र्म­हा­भू­त­वि­षया परिगृह्यते, तदापि ब्रह्म­लि­ङ्ग­त्व­म­वि­रु­द्धम् । ननु सहापि विष­यै­रि­न्द्रि­याणां स्वापप्रबोधयोः प्राणेऽप्ययं प्राणाच्च प्रभवं शृणुमः — ‘यदा सुप्तः स्वप्नं न कञ्चन पश्य­त्य­था­स्मि­न्प्राण एवैकधा भवति तदैनं वाक्स­र्वै­र्ना­मभिः सहाप्येति’(कौ. उ. ३ । ३) इति । तत्रापि तल्लि­ङ्गा­त्प्रा­ण­शब्दं ब्रह्मैव । यत्पु­न­रु­क्त­म­न्ना­दि­त्य­स­न्नि­धा­ना­त्प्रा­ण­स्या­ब्र­ह्म­त्व­मिति, तदयुक्तम् । वाक्यशेषबलेन प्राणशब्दस्य ब्रह्मविषयतायां प्रतीयमानायां सन्नि­धा­न­स्या­कि­ञ्चि­त्क­र­त्वात् । यत्पुनः प्राणशब्दस्य पञ्चवृत्तौ प्रसिद्धतरत्वम् , तदाकाशशब्दस्येव प्रतिविधेयम् । तस्मात्सिद्धं प्रस्ता­व­दे­व­तायाः प्राणस्य ब्रह्मत्वम् ॥

अत्र केचिदुदाहरन्ति — ‘प्राणस्य प्राणम्’ ‘प्राणबन्धनं हि सोम्य मनः’ इति च । तदयुक्तम्; शब्द­भे­दा­त्प्र­क­र­णाच्च संशयानुपपत्तेः । यथा पितुः पितेति प्रयोगे, अन्यः पिता षष्ठी­नि­र्दि­ष्टात् प्रथ­मा­नि­र्दिष्टः, पितुः पिता इति गम्यते । तद्वत् ‘प्राणस्य प्राणम्’ इति शब्द­भे­दा­त्प्र­सि­द्धा­त्प्रा­णात् अन्यः प्राणस्य प्राण इति निश्चीयते । न हि स एव तस्येति भेदनिर्देशार्हो भवति । यस्य च प्रकरणे यो निर्दिश्यते नामान्तरेणापि स एव तत्र प्रकरणी निर्दिष्ट इति गम्यते; यथा ज्योति­ष्टो­मा­धि­कारे ‘वसन्ते वसन्ते ज्योतिषा यजेत’ इत्यत्र ज्योतिःशब्दो ज्योति­ष्टो­म­वि­षयो भवति, तथा परस्य ब्रह्मणः प्रकरणे ‘प्राणबन्धनं हि सोम्य मनः’ इति श्रुतः प्राणशब्दो वायुविकारमात्रं कथमवगमयेत् । अतः संश­या­वि­ष­य­त्वा­न्नै­त­दु­दा­ह­रणं युक्तम् । प्रस्ता­व­दे­व­तायां तु प्राणे संश­य­पू­र्व­प­क्ष­नि­र्णया उपपादिताः ॥ २३ ॥

ज्योति­श्च­र­णा­भि­धा­नात् ॥ २४ ॥

२४

इदमामनन्ति — ‘अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठे­ष्व­नु­त्त­मे­षू­त्त­मेषु लोकेष्विदं वाव तद्य­दि­द­म­स्मि­न्नन्तः पुरुषे ज्योतिः’(छा. उ. ३ । १३ । ७) इति । तत्र संशयः — किमिह ज्योतिः­श­ब्दे­ना­दि­त्या­दिकं ज्योतिरभिधीयते, किं वा पर आत्मा इति । अर्था­न्त­र­वि­ष­य­स्यापि प्राणशब्दस्य तल्लि­ङ्गा­द्ब्र­ह्म­वि­ष­य­त्व­मु­क्तम् । इह तु तल्लि­ङ्ग­मे­वास्ति नास्तीति विचार्यते । किं तावत्प्राप्तम् ? आदित्यादिकमेव ज्योतिःशब्देन परिगृह्यत इति । कुतः ? प्रसिद्धेः । तमो ज्योतिरिति हीमौ शब्दौ पर­स्प­र­प्र­ति­द्व­न्द्वि­वि­षयौ प्रसिद्धौ । चक्षु­र्वृ­त्ते­र्नि­रो­धकं शार्वरादिकं तम उच्यते । तस्या एवा­नु­ग्रा­ह­क­मा­दि­त्या­दिकं ज्योतिः । तथा ‘दीप्यते’ इतीयमपि श्रुति­रा­दि­त्या­दि­वि­षया प्रसिद्धा । न हि रूपादिहीनं ब्रह्म दीप्यत इति मुख्यां श्रुतिमर्हति । द्युम­र्या­द­त्व­श्रु­तेश्च । न हि चराचरबीजस्य ब्रह्मणः सर्वात्मकस्य द्यौर्मर्यादा युक्ता । कार्यस्य तु ज्योतिषः परिच्छिन्नस्य द्यौर्मर्यादा स्यात् । ‘परो दिवो ज्योतिः’ इति च ब्राह्मणम् । ननु कार्यस्यापि ज्योतिषः सर्वत्र गम्य­मा­न­त्वा­द्द्यु­म­र्या­दा­व­त्त्व­म­स­म­ञ्ज­सम् । अस्तु तर्ह्य­त्रि­वृ­त्कृतं तेजः प्रथमजम् । न, अत्रिवृत्कृतस्य तेजसः प्रयो­ज­ना­भा­वा­दिति । इदमेव प्रयोजनं यदुपास्यत्वमिति चेत् , न; प्रयो­ज­ना­न्त­र­प्र­यु­क्त­स्यै­वा­दि­त्या­दे­रु­पा­स्य­त्व­द­र्श­नात् , ‘तासां त्रिवृतं त्रिवृतमेकैकां करवाणि’(छा. उ. ६ । ३ । ३) इति चाविशेषश्रुतेः । न चात्रि­वृ­त्कृ­त­स्यापि तेजसो द्युमर्यादत्वं प्रसिद्धम् । अस्तु तर्हि त्रिवृत्कृतमेव तत्तेजो ज्योतिःशब्दम् । ननूक्तमर्वागपि दिवोऽ­व­ग­म्य­तेऽ­ग्न्या­दिकं ज्योतिरिति । नैष दोषः; सर्वत्रापि गम्यमानस्य ज्योतिषः ‘परो दिवः’ इत्युपासनार्थः प्रदे­श­वि­शे­ष­प­रि­ग्रहो न विरुध्यते । न तु निष्प्रदेशस्य ब्रह्मणः प्रदे­श­वि­शे­ष­क­ल्पना भागिनी । ‘सर्वतः पृष्ठे­ष्व­नु­त्त­मे­षू­त्त­मेषु लोकेषु’ इति चाधा­र­ब­हु­त्व­श्रुतिः कार्ये ज्योति­ष्यु­प­प­द्य­ते­त­राम् । ‘इदं वाव तद्य­दि­द­म­स्मि­न्नन्तः पुरुषे ज्योतिः’(छा. उ. ३ । १३ । ७) इति च कौक्षेये ज्योतिषि परं ज्योति­र­ध्य­स्य­मानं दृश्यते । सारू­प्य­नि­मि­त्ता­श्चा­ध्यासा भवन्ति — यथा ‘तस्य भूरिति शिर एकं हि शिर एकमेतदक्षरम्’(बृ. उ. ५ । ५ । ३) इति । कौक्षेयस्य तु ज्योतिषः प्रसि­द्ध­म­ब्र­ह्म­त्वम् । ‘तस्यैषा दृष्टिः’(छा. उ. ३ । १३ । ८) ‘तस्यैषा श्रुतिः’ इति चौष्ण्य­घो­ष­वि­शि­ष्ट­त्वस्य श्रवणात् । ‘तदेतद्दृष्टं च श्रुतं चेत्युपासीत’ इति च श्रुतेः । ‘चक्षुष्यः श्रुतो भवति य एवं वेद’(छा. उ. ३ । १३ । ८) इति चाल्प­फ­ल­श्र­व­णा­द­ब्र­ह्म­त्वम् । महते हि फलाय ब्रह्मो­पा­स­न­मि­ष्यते । न चान्यदपि किञ्चि­त्स्व­वाक्ये प्राणा­का­श­व­ज्ज्यो­ति­षोऽस्ति ब्रह्मलिङ्गम् । न च पूर्वस्मिन्नपि वाक्ये ब्रह्म निर्दिष्टमस्ति, ‘गायत्री वा इदं सर्वं भूतम्’ इति च्छन्दो­नि­र्दे­शात् । अथापि कथ­ञ्चि­त्पू­र्व­स्मि­न्वाक्ये ब्रह्म निर्दिष्टं स्यात् , एवमपि न तस्येह प्रत्य­भि­ज्ञा­न­मस्ति । तत्र हि ‘त्रिपा­द­स्या­मृतं दिवि’(छा. उ. ३ । १२ । ६) इति द्यौरधिकरणत्वेन श्रूयते । अत्र पुनः ‘परो दिवो ज्योतिः’ इति द्यौर्म­र्या­दा­त्वेन । तस्मात्प्राकृतं ज्योतिरिह ग्राह्यमित्येवं प्राप्ते ब्रूमः —

ज्योतिरिह ब्रह्म ग्राह्यम् । कुतः ? चरणाभिधानात् , पादा­भि­धा­ना­दि­त्यर्थः । पूर्वस्मिन्हि वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम् — ‘तावानस्य महिमा ततो ज्यायांश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’(छा. उ. ३ । १२ । ६) इत्यनेन मन्त्रेण । तत्र यच्चतुष्पदो ब्रह्म­ण­स्त्रि­पा­द­मृतं द्युस­म्ब­न्धि­रूपं निर्दिष्टम् , तदेवेह द्युस­म्ब­न्धा­न्नि­र्दि­ष्ट­मिति प्रत्यभिज्ञायते । तत्परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृ­त­हा­ना­प्र­कृ­त­प्र­क्रिये प्रसज्येयाताम् । न केवलं ज्योतिर्वाक्य एव ब्रह्मा­नु­वृत्तिः; परस्यामपि शाण्डि­ल्य­वि­द्या­या­म­नु­व­र्ति­ष्यते ब्रह्म । तस्मादिह ज्येतिरिति ब्रह्म प्रतिपत्तव्यम् । यत्तूक्तम् — ‘ज्योति­र्दी­प्यते’ इति चैतौ शब्दौ कार्ये ज्योतिषि प्रसिद्धाविति, नायं दोषः; प्रक­र­णा­द्ब्र­ह्मा­व­गमे सत्यनयोः शब्द­यो­र­वि­शे­ष­क­त्वात् , दीप्य­मा­न­का­र्य­ज्यो­ति­रु­प­ल­क्षिते ब्रह्मण्यपि प्रयोगसम्भवात्; ‘येन सूर्यस्तपति तेजसेद्धः’(तै. ब्रा. ३ । १२ । ९ । ७) इति च मन्त्रवर्णात् । यद्वा, नायं ज्योतिः­श­ब्द­श्च­क्षु­र्वृ­त्ते­रे­वा­नु­ग्रा­हके तेजसि वर्तते, अन्यत्रापि प्रयोगदर्शनात् — ‘वाचैवायं ज्योतिषास्ते’(बृ. उ. ४ । ३ । ५) ‘मनो ज्योति­र्जु­ष­ताम्’(तै. ब्रा. १ । ६ । ३ । ३) इति च । तस्मा­द्य­द्य­त्क­स्य­चि­द­व­भा­सकं तत्त­ज्ज्यो­तिः­श­ब्दे­ना­भि­धी­यते । तथा सति ब्रह्मणोऽपि चैतन्यरूपस्य सम­स्त­ज­ग­द­व­भा­स­हे­तु­त्वा­दु­प­पन्नो ज्योतिःशब्दः । ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’(क. उ. २ । २ । १५) ‘तद्देवा ज्योतिषां ज्योति­रा­यु­र्हो­पा­स­तेऽ­मृ­तम्’(बृ. उ. ४ । ४ । १६) इत्या­दि­श्रु­ति­भ्यश्च । यदप्युक्तं द्युमर्यादत्वं सर्वगतस्य ब्रह्मणो नोपपद्यत इति, अत्रोच्यते — सर्वगतस्यापि ब्रह्मण उपासनार्थः प्रदे­श­वि­शे­ष­प­रि­ग्रहो न विरुध्यते । ननूक्तं निष्प्रदेशस्य ब्रह्मणः प्रदे­श­वि­शे­ष­क­ल्पना नोपपद्यत इति; नायं दोषः, निष्प्र­दे­श­स्यापि ब्रह्मण उपा­धि­वि­शे­ष­स­म्ब­न्धा­त्प्र­दे­श­वि­शे­ष­क­ल्प­नो­प­पत्तेः । तथा हि — आदित्ये, चक्षुषि, हृदये इति प्रदे­श­वि­शे­ष­स­म्ब­न्धीनि ब्रह्मणः उपासनानि श्रूयन्ते । एतेन ‘विश्वतः पृष्ठेषु’ इत्या­धा­र­ब­हु­त्व­मु­प­पा­दि­तम् । यदप्येतदुक्तम् औष्ण्य­घो­षा­नु­मिते कौक्षेये कार्ये ज्योति­ष्य­ध्य­स्य­मा­न­त्वा­त्प­र­मपि दिवः कार्यं ज्योतिरेवेति, तदप्ययुक्तम्; परस्यापि ब्रह्मणो नामा­दि­प्र­ती­क­त्व­व­त्कौ­क्षे­य­ज्यो­ति­ष्प्र­ती­क­त्वो­प­पत्तेः । ‘दृष्टं च श्रुतं चेत्युपासीत’ इति तु प्रतीकद्वारकं दृष्टत्वं श्रुतत्वं च भविष्यति । यद­प्यु­क्त­म­ल्प­फ­ल­श्र­व­णात् न ब्रह्मेति, तदप्यनुपपन्नम्; न हि इयते फलाय ब्रह्मा­श्र­य­णी­यम् , इयते न इति नियमे हेतुरस्ति । यत्र हि निर­स्त­स­र्व­वि­शे­ष­स­म्बन्धं परं ब्रह्मा­त्म­त्वे­नो­प­दि­श्यते, तत्रैकरूपमेव फलं मोक्ष इत्यवगम्यते । यत्र तु गुण­वि­शे­ष­स­म्बन्धं प्रती­क­वि­शे­ष­स­म्बन्धं वा ब्रह्मो­प­दि­श्यते, तत्र संसा­र­गो­च­रा­ण्ये­वो­च्चा­व­चानि फलानि दृश्यन्ते — ‘अन्नादो वसुदानो विन्दते वसु य एवं वेद’(बृ. उ. ४ । ४ । २४) इत्याद्यासु श्रुतिषु । यद्यपि न स्ववाक्ये किञ्चि­ज्ज्यो­तिषो ब्रह्म­लि­ङ्ग­मस्ति, तथापि पूर्व­स्मि­न्वाक्ये दृश्यमानं ग्रहीतव्यं भवति । तदुक्तं सूत्रकारेण — ज्योति­श्च­र­णा­भि­धा­ना­दिति । कथं पुन­र्वा­क्या­न्त­र­ग­तेन ब्रह्म­स­न्नि­धा­नेन ज्योतिःश्रुतिः स्वविषयात् शक्या प्रच्यावयितुम् ? नैष दोषः, ‘अथ यदतः परो दिवो ज्योतिः’ इति प्रथमतरपठितेन यच्छब्देन सर्वनाम्ना द्युस­म्ब­न्धा­त्प्र­त्य­भि­ज्ञा­य­माने पूर्व­वा­क्य­नि­र्दिष्टे ब्रह्मणि स्वसामर्थ्येन परामृष्टे सत्य­र्था­ज्ज्यो­तिः­श­ब्द­स्यापि ब्रह्म­वि­ष­य­त्वो­प­पत्तेः । तस्मादिह ज्योतिरिति ब्रह्म प्रतिपत्तव्यम् ॥ २४ ॥

छन्दो­भि­धा­ना­न्नेति चेन्न तथा चेतो­र्प­ण­नि­ग­दा­त्त­थाहि दर्शनम् ॥२५॥

२५

अथ यदुक्तं पूर्वस्मिन्नपि वाक्ये न ब्रह्मा­भि­हि­त­मस्ति, ‘गायत्री वा इदꣳ सर्वं भूतं यदिदं किञ्च’(छा. उ. ३ । १२ । १) इति गायत्र्याख्यस्य च्छन्द­सोऽ­भि­हि­त­त्वा­दिति; तत्परिहर्तव्यम् । कथं पुन­श्छ­न्दो­भि­धा­नान्न ब्रह्मा­भि­हि­त­मिति शक्यते वक्तुम् ? यावता ‘तावानस्य महिमा’(छा. उ. ३ । १२ । ६) इत्येतस्यामृचि चतुष्पाद्ब्रह्म दर्शितम् । नैतदस्ति । ‘गायत्री वा इदꣳ सर्वम्’ इति गाय­त्री­मु­प­क्रम्य, तामेव भूत­पृ­थि­वी­श­री­र­हृ­द­य­वा­क्प्रा­ण­प्र­भे­दै­र्व्या­ख्याय, ‘सैषा चतुष्पदा षड्विधा गायत्री तदे­त­दृ­चा­भ्य­नूक्तं’(छा. उ. ३ । १२ । ५) ‘तावानस्य महिमा’ इति तस्यामेव व्याख्या­त­रू­पायां गाय­त्र्या­मु­दा­हृतो मन्त्रः कथ­म­क­स्मा­द्ब्रह्म चतु­ष्पा­द­भि­द­ध्यात् । योऽपि तत्र ‘यद्वै तद्ब्रह्म’(छा. उ. ३ । १२ । ७) इति ब्रह्मशब्दः, सोऽपि च्छन्दसः प्रकृ­त­त्वा­च्छ­न्दो­वि­षय एव । ‘य एतामेवं ब्रह्मोपनिषदं वेद’(छा. उ. ३ । ११ । ३) इत्यत्र हि वेदोपनिषदमिति व्याचक्षते । तस्मा­च्छ­न्दो­भि­धा­नान्न ब्रह्मणः प्रकृतत्वमिति चेत् , नैष दोषः । तथा चेतोर्पणनिगदात् — तथा गाय­त्र्या­ख्य­च्छ­न्दो­द्वा­रेण, तदनुगते ब्रह्मणि चेतसोऽर्पणं चित्तसमाधानम् अनेन ब्राह्मणवाक्येन निगद्यते — ‘गायत्री वा इदꣳ सर्वम्’ इति । न ह्यक्ष­र­स­न्नि­वे­श­मा­त्राया गायत्र्याः सर्वात्मकत्वं सम्भवति । तस्मा­द्य­द्गा­य­त्र्या­ख्य­वि­का­रेऽ­नु­गतं जगत्कारणं ब्रह्म , तदिह सर्व­मि­त्यु­च्यते, यथा ‘सर्वं खल्विदं ब्रह्म’(छा. उ. ३ । १४ । १) इति । कार्यं च कार­णा­द­व्य­ति­रि­क्त­मिति वक्ष्यामः — ‘तद­न­न्य­त्व­मा­र­म्भ­ण­श­ब्दा­दिभ्यः’(ब्र. सू. २ । १ । १४) इत्यत्र । तथान्यत्रापि विकारद्वारेण ब्रह्मण उपासनं दृश्यते — ‘एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते च्छन्दोगाः’(ऐ. आ. ३ । २ । ३ । १२) इति । तस्मादस्ति च्छन्दो­भि­धा­नेऽपि पूर्व­स्मि­न्वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम् । तदेव ज्योति­र्वा­क्येऽपि परामृश्यत उपा­स­ना­न्त­र­वि­धा­नाय । अपर आह — साक्षादेव गायत्रीशब्देन ब्रह्म प्रतिपाद्यते, संख्या­सा­मा­न्यात् । यथा गायत्री चतुष्पदा षडक्षरैः पादैः, तथा ब्रह्म चतुष्पात् । तथान्यत्रापि च्छन्दोभिधायी शब्दोऽर्थान्तरे संख्या­सा­मा­न्या­त्प्र­यु­ज्य­मानो दृश्यते । तद्यथा — ‘ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्’ इत्युपक्रम्याह ‘सैषा विराडन्नादी’ इति । अस्मिन्पक्षे ब्रह्मै­वा­भि­हि­त­मिति न च्छन्दोभिधानम् । सर्वथाप्यस्ति पूर्व­स्मि­न्वाक्ये प्रकृतं ब्रह्म ॥ २५ ॥

भूता­दि­पा­द­व्य­प­दे­शो­प­प­त्ते­श्चै­वम् ॥ २६ ॥

२६

इत­श्चै­व­म­भ्यु­प­ग­न्त­व्य­मस्ति पूर्व­स्मि­न्वाक्ये प्रकृतं ब्रह्मेति; यतो भूतादीन्पादान् व्यपदिशति श्रुतिः । भूत­पृ­थि­वी­श­री­र­हृ­द­यानि हि निर्दिश्याह — ‘सैषा चतुष्पदा षड्विधा गायत्री’(छा. उ. ३ । १२ । ५) इति । न हि ब्रह्मानाश्रयणे केवलस्य च्छन्दसो भूतादयः पादा उपपद्यन्ते । अपि च ब्रह्मानाश्रयणे नेयमृक् सम्बध्येत — ‘तावानस्य महिमा’ इति । अनया हि ऋचा स्वरसेन ब्रह्मै­वा­भि­धी­यते, ‘पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’(छा. उ. ३ । १२ । ६) इति सर्वा­त्म­त्वो­प­पत्तेः । पुरु­ष­सू­क्तेऽ­पी­य­मृक् ब्रह्मपरतयैव समाम्नायते । स्मृतिश्च ब्रह्मण एवंरूपतां दर्शयति — ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’(भ. गी. १० । ४२) इति । ‘यद्वै तद्ब्रह्म’(छा. उ. ३ । १२ । ७) इति च निर्देश एवं सति मुख्यार्थ उपपद्यते । ‘ते वा एते पञ्च ब्रह्मपुरुषाः’(छा. उ. ३ । १३ । ६) इति च हृदयसुषिषु ब्रह्म­पु­रु­ष­श्रु­ति­र्ब्र­ह्म­स­म्ब­न्धि­तायां विवक्षितायां सम्भवति । तस्मादस्ति पूर्व­स्मि­न्वाक्ये ब्रह्म प्रकृतम् । तदेव ब्रह्म ज्योतिर्वाक्ये द्युस­म्ब­न्धा­त्प्र­त्य­भि­ज्ञा­य­मानं परामृश्यत इति स्थितम् ॥ २६ ॥

उपदेशभेदान्नेति चेन्नो­भ­य­स्मि­न्न­प्य­वि­रो­धात् ॥ २७ ॥

२७

यदप्येतदुक्तम् — पूर्वत्र ‘त्रिपा­द­स्या­मृतं दिवि’ इति सप्तम्या द्यौः आधा­र­त्वे­नो­प­दिष्टा । इह पुनः ‘अथ यदतः परो दिवः’ इति पञ्चम्या मर्यादात्वेन । तस्मा­दु­प­दे­श­भे­दान्न तस्येह प्रत्य­भि­ज्ञा­न­म­स्तीति — तत्परिहर्तव्यम् । अत्रोच्यते — नायं दोषः, उभ­य­स्मि­न्न­प्य­वि­रो­धात् । उभयस्मिन्नपि सप्तम्यन्ते पञ्चम्यन्ते चोपदेशे न प्रत्यभिज्ञानं विरुध्यते । यथा लोके वृक्षा­ग्र­स­म्ब­द्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यते — वृक्षाग्रे श्येनो वृक्षा­ग्रा­त्प­रतः श्येन इति च, एवं दिव्येव सद्ब्रह्म दिवः पर­मि­त्यु­प­दि­श्यते । अपर आह — यथा लोके वृक्षा­ग्रे­णा­स­म्ब­द्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यते — वृक्षाग्रे श्येनो वृक्षा­ग्रा­त्प­रतः श्येन इति च, एवं दिवः परमपि सद्ब्रह्म दिवी­त्यु­प­दि­श्यते । तस्मादस्ति पूर्व­नि­र्दि­ष्टस्य ब्रह्मण इह प्रत्यभिज्ञानम् । अतः परमेव ब्रह्म ज्योतिःशब्दमिति सिद्धम् ॥ २७ ॥

प्राण­स्त­था­नु­ग­मात् ॥ २८ ॥

२८

अस्ति कौषी­त­कि­ब्रा­ह्म­णो­प­नि­ष­दी­न्द्र­प्र­त­र्द­ना­ख्या­यिका — ‘प्रतर्दनो ह वै दैवो­दा­सि­रि­न्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च’(कौ. उ. ३ । १) इत्या­र­भ्या­म्नाता । तस्यां श्रूयते — ‘स होवाच प्राणोऽस्मि प्रज्ञात्मा तं मामा­यु­र­मृ­त­मि­त्यु­पास्स्व’(कौ. उ. ३ । २) इति । तथोत्तरत्रापि — ‘अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परि­गृ­ह्यो­त्था­प­यति’(कौ. उ. ३ । ३) इति । तथा ‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’ इति । अन्ते च ‘स एष प्राण एव प्रज्ञा­त्मा­न­न्दोऽ­ज­रोऽ­मृतः’(कौ. उ. ३ । ९) इत्यादि । तत्र संशयः — किमिह प्राणशब्देन वायु­मा­त्र­म­भि­धी­यते, उत देवतात्मा, उत जीवः, अथवा परं ब्रह्मेति । ननु ‘अत एव प्राणः’ इत्यत्र वर्णितं प्राणशब्दस्य ब्रह्मपरत्वम् । इहापि च ब्रह्म­लि­ङ्ग­मस्ति — ‘आन­न्दोऽ­ज­रोऽ­मृतः’ इत्यादि । कथमिह पुनः संशयः सम्भवति ? — अने­क­लि­ङ्ग­द­र्श­ना­दिति ब्रूमः । न केवलमिह ब्रह्म­लि­ङ्ग­मे­वो­प­ल­भ्यते । सन्ति हीतरलिङ्गान्यपि — ‘मामेव विजानीहि’(कौ. उ. ३ । १) इतीन्द्रस्य वचनं देवतात्मलिङ्गम् । ‘इदं शरीरं परि­गृ­ह्यो­त्था­प­यति’ इति प्राणलिङ्गम् । ‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’ इत्यादि जीवलिङ्गम् । अत उपपन्नः संशयः । तत्र प्रसि­द्धे­र्वायुः प्राण इति प्राप्ते उच्यते —

प्राणशब्दं ब्रह्म विज्ञेयम् । कुतः ? तथानुगमात् । तथाहि पौर्वापर्येण पर्यालोच्यमाने वाक्ये पदानां समन्वयो ब्रह्म­प्र­ति­पा­द­न­पर उपलभ्यते । उपक्रमे तावत् ‘वरं वृणीष्व’ इतीन्द्रेणोक्तः प्रतर्दनः परमं पुरुषार्थं वरमुपचिक्षेप — ‘त्वमेव वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे’ इति । तस्मै हित­त­म­त्वे­नो­प­दि­श्य­मानः प्राणः कथं परमात्मा न स्यात् । न ह्यन्यत्र पर­मा­त्म­वि­ज्ञा­ना­द्धि­त­त­म­प्रा­प्ति­रस्ति, ‘तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’(श्वे. उ. ३ । ८) इत्या­दि­श्रु­तिभ्यः । तथा ‘स यो मां वेद न ह वै तस्य केनच कर्मणा लोको मीयते न स्तेयेन न भ्रूणहत्यया’(कौ. उ. ३ । १) इत्यादि च ब्रह्मपरिग्रहे घटते । ब्रह्मविज्ञानेन हि सर्वकर्मक्षयः प्रसिद्धः — ‘क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ इत्याद्यासु श्रुतिषु । प्रज्ञात्मत्वं च ब्रह्मपक्ष एवोपपद्यते । न ह्यचेतनस्य वायोः प्रज्ञात्मत्वं सम्भवति । तथोपसंहारेऽपि ‘आन­न्दोऽ­ज­रोऽ­मृतः’ इत्या­न­न्द­त्वा­दीनि न ब्रह्मणोऽन्यत्र सम्यक् सम्भवन्ति । ‘स न साधुना कर्मणा भूयान्भवति नो एवासाधुना कर्मणा कनीयानेष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष उ एवासाधु कर्म कारयति तं यमेभ्यो लोकेभ्योऽधो निनीषते’ इति, ‘एष लोकाधिपतिरेष लोकपाल एष लोकेशः’(कौ. उ. ३ । ९) इति च । सर्व­मे­त­त्प­र­स्मि­न्ब्र­ह्म­ण्या­श्री­य­मा­णेऽ­नु­गन्तुं शक्यते, न मुख्ये प्राणे । तस्मात्प्राणो ब्रह्म ॥ २८ ॥

न वक्तु­रा­त्मो­प­दे­शा­दिति चेद­ध्या­त्म­स­म्ब­न्ध­भूमा ह्यस्मिन् ॥ २९ ॥

२९

यदुक्तं प्राणो ब्रह्मेति, तदाक्षिप्यते — न परं ब्रह्म प्राणशब्दम्; कस्मात् ? वक्तु­रा­त्मो­प­दे­शात् । वक्ता हीन्द्रो नाम कश्चि­द्वि­ग्र­ह­वा­न्दे­व­ता­वि­शेषः स्वमात्मानं प्रत­र्द­ना­या­च­चक्षे — ‘मामेव विजानीहि’ इत्युपक्रम्य ‘प्राणोऽस्मि प्रज्ञात्मा’ इत्यहंकारवादेन । स एष वक्तु­रा­त्म­त्वे­नो­प­दि­श्य­मानः प्राणः कथं ब्रह्म स्यात् ? न हि ब्रह्मणो वक्तृत्वं सम्भवति, ‘अवागमनाः’(बृ. उ. ३ । ८ । ८) इत्या­दि­श्रु­तिभ्यः । तथा विग्र­ह­स­म्ब­न्धि­भि­रेव ब्रह्म­ण्य­स­म्भ­व­द्भि­र्ध­र्मै­रा­त्मानं तुष्टाव — ‘त्रिशीर्षाणं त्वाष्ट्र­म­ह­न­म­रु­न्मु­खा­न्य­ती­न्सा­ला­वृ­केभ्यः प्रायच्छम्’ इत्येवमादिभिः । प्राणत्वं चेन्द्रस्य बल­व­त्त्वा­दु­प­प­द्यते। ‘प्राणो वै बलम्’ इति हि विज्ञायते । बलस्य चेन्द्रो देवता प्रसिद्धा । ‘या च काचिद्बलकृतिः, इन्द्रकर्मैव तत्’ इति हि वदन्ति । प्रज्ञा­त्म­त्व­म­प्य­प्र­ति­ह­त­ज्ञा­न­त्वा­द्दे­व­ता­त्मनः सम्भवति । अप्रतिहतज्ञाना देवता इति हि वदन्ति । निश्चिते चैवं देवतात्मोपदेशे हित­त­म­त्वा­दि­व­च­नानि यथासम्भवं तद्विषयाण्येव योजयितव्यानि । तस्मा­द्व­क्तु­रि­न्द्र­स्या­त्मो­प­दे­शात् न प्राणो ब्रह्मे­त्या­क्षिप्य प्रतिसमाधीयते — ‘अध्या­त्म­स­म्ब­न्ध­भूमा ह्यस्मिन्’ इति । अध्या­त्म­स­म्बन्धः प्रत्य­गा­त्म­स­म्बन्धः, तस्य भूमा बाहुल्यम् , अस्मिन्नध्याये उपलभ्यते । ‘याव­द्ध्य­स्मि­ञ्श­रीरे प्राणो वसति तावदायुः’ इति प्राणस्यैव प्रज्ञात्मनः प्रत्य­ग्भू­त­स्या­यु­ष्प्र­दा­नो­प­सं­हा­रयोः स्वातन्त्र्यं दर्शयति, न देवताविशेषस्य पराचीनस्य । तथास्तित्वे च प्राणानां निःश्रे­य­स­मि­त्य­ध्या­त्म­मे­वे­न्द्रि­या­श्रयं प्राणं दर्शयति । तथा ‘प्राण एव प्रज्ञात्मेदं शरीरं परि­गृ­ह्यो­त्था­प­यति’(कौ. उ. ३ । ३) इति । ‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’ इति चोपक्रम्य ‘तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञा­मा­त्रा­स्व­र्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञा­त्मा­न­न्दोऽ­ज­रोऽ­मृतः’ इति विष­ये­न्द्रि­य­व्य­व­हा­रा­र­ना­भि­भूतं प्रत्य­गा­त्मा­न­मे­वो­प­सं­ह­रति । ‘स म आत्मेति विद्यात्’ इति चोपसंहारः प्रत्य­गा­त्म­प­रि­ग्रहे साधुः, न पराचीनपरिग्रहे । ‘अयमात्मा ब्रह्म सर्वानुभूः’(बृ. उ. २ । ५ । १९) इति च श्रुत्यन्तरम् । तस्मा­द­ध्या­त्म­स­म्ब­न्ध­बा­हु­ल्या­द्ब्र­ह्मो­प­देश एवायम् , न देवतात्मोपदेशः ॥ २९ ॥

कथं तर्हि वक्तु­रा­त्मो­प­देशः ? —

शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ ३० ॥

३०

इन्द्रो नाम देवतात्मा स्वमात्मानं परमात्मत्वेन ‘अहमेव परं ब्रह्म’ इत्यार्षेण दर्शनेन यथाशास्त्रं पश्यन् उपदिशति स्म — ‘मामेव विजानीहि’ इति । यथा ‘तद्धै­त­त्प­श्य­न्नृ­षि­र्वा­म­देवः प्रतिपेदेऽहं मनुरभवꣳ सूर्यश्च’ इति, तद्वत्; ‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्’(बृ. उ. १ । ४ । १०) इति श्रुतेः । यत्पुनरुक्तम् — ‘मामेव विजानीहि’ इत्युक्त्वा, विग्र­ह­ध­र्मै­रिन्द्रः आत्मानं तुष्टाव त्वाष्ट्र­व­धा­दि­भि­रिति, तत्प­रि­ह­र्त­व्यम्; अत्रोच्यते — न त्वाष्ट्र­व­धा­दीनां विज्ञे­ये­न्द्र­स्तु­त्य­र्थ­त्वे­नो­प­न्यासः — ‘यस्मा­दे­वं­क­र्मा­हम् , तस्मान्मां विजानीहि’ इति । कथं तर्हि ? विज्ञा­न­स्तु­त्य­र्थ­त्वेन; यत्कारणं त्वाष्ट्र­व­धा­दीनि साह­सा­न्यु­प­न्यस्य परेण विज्ञा­न­स्तु­ति­म­नु­स­न्द­धाति — ‘तस्य मे तत्र लोम च न मीयते स यो मां वेद न ह वै तस्य केन च कर्मणा लोको मीयते’ इत्यादिना । एतदुक्तं भवति — यस्मा­दी­दृ­शा­न्यपि क्रूराणि कर्माणि कृतवतो मम ब्रह्मभूतस्य लोमापि न हिंस्यते, स योऽन्योऽपि मां वेद, न तस्य केनचिदपि कर्मणा लोको हिंस्यत इति । विज्ञेयं तु ब्रह्मैव ‘प्राणोऽस्मि प्रज्ञात्मा’ इति वक्ष्यमाणम् । तस्मा­द्ब्र­ह्म­वा­क्य­मे­तत् ॥ ३० ॥

जीव­मु­ख्य­प्रा­ण­लि­ङ्गा­न्नेति चेन्नो­पा­सा­त्रै­वि­ध्या­दा­श्रि­त­त्वा­दिह तद्योगात् ॥ ३१ ॥

३१

यद्य­प्य­ध्या­त्म­स­म्ब­न्ध­भू­म­द­र्श­नान्न पराचीनस्य देवतात्मन उपदेशः, तथापि न ब्रह्मवाक्यं भवितुमर्हति । कुतः ? जीवलिङ्गात् मुख्य­प्रा­ण­लि­ङ्गाच्च । जीवस्य ताव­द­स्मि­न्वाक्ये विस्पष्टं लिङ्गमुपलभ्यते — ‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’ इत्यादि । अत्र हि वागादिभिः कर­णै­र्व्या­पृ­तस्य कार्य­क­र­णा­ध्य­क्षस्य जीवस्य विज्ञे­य­त्व­म­भि­धी­यते । तथा मुख्य­प्रा­ण­लि­ङ्ग­मपि — ‘अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परि­गृ­ह्यो­त्था­प­यति’ इति । शरीरधारणं च मुख्यप्राणस्य धर्मः; प्राणसंवादे वागा­दी­न्प्रा­णा­न्प्र­कृत्य — ‘तान्वरिष्ठः प्राण उवाच मा मोह­मा­प­द्य­था­ह­मे­वै­त­त्प­ञ्च­धा­त्मानं प्रवि­भ­ज्यै­त­द्बा­ण­म­व­ष्टभ्य विधारयामि’(प्र. उ. २ । ३) इति श्रवणात् । ये तु ‘इमं शरीरं परिगृह्य’ इति पठन्ति, तेषाम् इमं जीव­मि­न्द्रि­य­ग्रामं वा परिगृह्य शरी­र­मु­त्था­प­य­तीति व्याख्येयम् । प्रज्ञा­त्म­त्व­मपि जीवे ताव­च्चे­त­न­त्वा­दु­प­प­न्नम् । मुख्येऽपि प्राणे प्रज्ञा­सा­ध­न­प्रा­णा­न्त­रा­श्र­य­त्वा­दु­प­प­न्न­मेव । जीव­मु­ख्य­प्रा­ण­प­रि­ग्रहे च, प्राण­प्र­ज्ञा­त्मनोः सह­वृ­त्ति­त्वे­ना­भे­द­नि­र्देशः, स्वरूपेण च भेदनिर्देशः, इत्युभयथा निर्देश उपपद्यते — ‘यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणः’ ‘सह ह्येता­व­स्मि­ञ्श­रीरे वसतः सहोत्क्रामतः’ इति । ब्रह्मपरिग्रहे तु किं कस्माद्भिद्येत ? तस्मादिह जीव­मु­ख्य­प्रा­ण­यो­र­न्य­तर उभौ वा प्रतीयेयातां न ब्रह्मेति चेत् , नैतदेवम् । उपा­सा­त्रै­वि­ध्यात् । एवं सति त्रिविधमुपासनं प्रसज्येत — जीवोपासनं मुख्य­प्रा­णो­पा­सनं ब्रह्मोपासनं चेति । न चैत­दे­क­स्मि­न्वा­क्येऽ­भ्यु­प­गन्तुं युक्तम् । उप­क्र­मो­प­सं­हा­राभ्यां हि वाक्यै­क­त्व­म­व­ग­म्यते । ‘मामेव विजानीहि’ इत्युपक्रम्य, ‘प्राणोऽस्मि प्रज्ञात्मा तं मामा­यु­र­मृ­त­मि­त्यु­पास्स्व’ इत्युक्त्वा, अन्ते ‘स एष प्राण एव प्रज्ञा­त्मा­न­न्दोऽ­ज­रोऽ­मृतः’ इत्ये­क­रू­पा­वु­प­क्र­मो­प­सं­हारौ दृश्येते । तत्रार्थैकत्वं युक्त­मा­श्र­यि­तुम् । न च ब्रह्म­लि­ङ्ग­म­न्य­प­र­त्वेन परिणेतुं शक्यम्; दशानां भूतमात्राणां प्रज्ञा­मा­त्राणां च ब्रह्मणोऽन्यत्र अर्पणानुपपत्तेः । आश्रितत्वाच्च अन्यत्रापि ब्रह्म­लि­ङ्ग­व­शा­त्प्रा­ण­श­ब्दस्य ब्रह्मणि वृत्तेः, इहापि च हित­त­मो­प­न्या­सा­दि­ब्र­ह्म­लि­ङ्ग­यो­गात् , ब्रह्मोपदेश एवायमिति गम्यते । यत्तु मुख्य­प्रा­ण­लिङ्गं दर्शितम् — ‘इदं शरीरं परि­गृ­ह्यो­त्था­प­यति’ इति, तदसत्; प्राण­व्या­पा­र­स्यापि पर­मा­त्मा­य­त्त­त्वा­त्प­र­मा­त्म­न्यु­प­च­रितुं शक्यत्वात् — ‘न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मि­न्ने­ता­वु­पा­श्रितौ’(क. उ. २ । २ । ५) इति श्रुतेः । यदपि ‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’ इत्यादि जीवलिङ्गं दर्शितम् , तदपि न ब्रह्मपक्षं निवारयति । न हि जीवो नामा­त्य­न्त­भिन्नो ब्रह्मणः, ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ इत्या­दि­श्रु­तिभ्यः । बुद्ध्या­द्यु­पा­धि­कृतं तु विशेषमाश्रित्य ब्रह्मैव सन् जीवः कर्ता भोक्ता चेत्युच्यते । तस्यो­पा­धि­कृ­त­वि­शे­ष­प­रि­त्या­गेन स्वरूपं ब्रह्म दर्शयितुम् ‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’ इत्यादिना प्रत्य­गा­त्मा­भि­मु­खी­क­र­णार्थ उपदेशो न विरुध्यते । ‘यद्वा­चा­न­भ्यु­दितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’(के. उ. १ । ५) इत्यादि च श्रुत्यन्तरं वच­ना­दि­क्रि­या­व्या­पृ­त­स्यै­वा­त्मनो ब्रह्मत्वं दर्शयति । यत्पु­न­रे­त­दु­क्तम् — ‘सह ह्येता­व­स्मि­ञ्श­रीरे वसतः सहोत्क्रामतः’ इति प्राण­प्र­ज्ञा­त्म­नो­र्भे­द­द­र्शनं ब्रह्मवादे नोपपद्यत इति, नैष दोषः; ज्ञान­क्रि­या­श­क्ति­द्व­या­श्र­य­यो­र्बु­द्धि­प्रा­णयोः प्रत्य­गा­त्मो­पा­धि­भू­त­यो­र्भे­द­नि­र्दे­शो­प­पत्तेः । उपा­धि­द्व­यो­प­हि­तस्य तु प्रत्यगात्मनः स्वरूपेणाभेद इत्यतः ‘प्राण एव प्रज्ञात्मा’ इत्ये­की­क­र­ण­म­वि­रु­द्धम् ॥

अथवा ‘नोपा­सा­त्रै­वि­ध्या­दा­श्रि­त­त्वा­दिह तद्योगात्’ इत्य­स्या­य­म­न्योऽर्थः — न ब्रह्मवाक्येऽपि जीव­मु­ख्य­प्रा­ण­लिङ्गं विरुध्यते । कथम् ? उपा­सा­त्रै­वि­ध्यात् । त्रिविधमिह ब्रह्मण उपासनं विवक्षितम् — प्राणधर्मेण, प्रज्ञाधर्मेण, स्वधर्मेण च । तत्र ‘आयु­र­मृ­त­मि­त्यु­पा­स्स्वायुः प्राणः’ इति ‘इदं शरीरं परि­गृ­ह्यो­त्था­प­यति’ इति ‘तस्मा­दे­त­दे­वो­क्थ­मु­पा­सीत’ इति च प्राणधर्मः । ‘अथ यथास्यै प्रज्ञायै सर्वाणि भूता­न्ये­की­भ­वन्ति तद्व्या­ख्या­स्यामः’ इत्युपक्रम्य ‘वागेवास्या एक­म­ङ्ग­म­दू­दु­ह­त्तस्यै नाम पर­स्ता­त्प्र­ति­वि­हिता भूतमात्रा प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति’ इत्यादिः प्रज्ञाधर्मः । ‘ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतम् । यद्धि भूतमात्रा न स्युर्न प्रज्ञामात्राः स्युः । यद्धि प्रज्ञामात्रा न स्युर्न भूतमात्राः स्युः । न ह्यन्यतरतो रूपं किञ्चन सिध्येत् । नो एतन्नाना । तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञा­मा­त्रा­स्व­र्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्मा’ इत्या­दि­र्ब्र­ह्म­धर्मः । तस्माद्ब्रह्मण एवै­त­दु­पा­धि­द्व­य­ध­र्मेण स्वधर्मेण चैकमुपासनं त्रिविधं विवक्षितम् । अन्यत्रापि ‘मनोमयः प्राणशरीरः’(छा. उ. ३ । १४ । २) इत्या­दा­वु­पा­धि­ध­र्मेण ब्रह्मण उपासनमाश्रितम्; इहापि तद्युज्यते वाक्य­स्यो­प­क्र­मो­प­सं­हा­रा­भ्या­मे­का­र्थ­त्वा­व­ग­मात् प्राण­प्र­ज्ञा­ब्र­ह्म­लि­ङ्गा­व­ग­माच्च । तस्मा­द्ब्र­ह्म­वा­क्य­मे­वै­त­दिति सिद्धम् ॥ ३१ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ शारी­र­क­मी­मां­सा­सू­त्र­भाष्ये प्रथमाध्यायस्य प्रथमः पादः ॥

द्वितीयः पादः

प्रथमे पादे ‘जन्माद्यस्य यतः’ इत्याकाशादेः समस्तस्य जगतो जन्मादिकारणं ब्रह्मे­त्यु­क्तम् । तस्य सम­स्त­ज­ग­त्का­र­णस्य ब्रह्मणो व्यापित्वं नित्यत्वं सर्वज्ञत्वं सर्वशक्तित्वं सर्वा­त्म­त्व­मि­त्ये­वं­जा­ती­यका धर्मा उक्ता एव भवन्ति । अर्था­न्त­र­प्र­सि­द्धानां च केषा­ञ्चि­च्छ­ब्दानां ब्रह्म­वि­ष­य­त्व­हे­तु­प्र­ति­पा­द­नेन कानि­चि­द्वा­क्यानि स्पष्ट­ब्र­ह्म­लि­ङ्गानि सन्दिह्यमानानि ब्रह्मपरतया निर्णीतानि । पुनरप्यन्यानि वाक्या­न्य­स्प­ष्ट­ब्र­ह्म­लि­ङ्गानि सन्दिह्यन्ते — किं परं ब्रह्म प्रतिपादयन्ति, आहो­स्वि­द­र्था­न्तरं किञ्चिदिति । तन्निर्णयाय द्वितीयतृतीयौ पादावारभ्येते —

सर्वत्र प्रसि­द्धो­प­दे­शात् ॥ १ ॥

इदमाम्नायते — ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथा­क्र­तु­र­स्मिँ­ल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत’(छा. उ. ३ । १४ । १) , ‘मनोमयः प्राणशरीरः’(छा. उ. ३ । १४ । २) इत्यादि । तत्र संशयः — किमिह मनो­म­य­त्वा­दि­भि­र्धर्मैः शारीर आत्मो­पा­स्य­त्वे­नो­प­दि­श्यते, आहोस्वित्परं ब्रह्मेति । किं तावत्प्राप्तम् ? शारीर इति । कुतः ? तस्य हि कार्यकरणाधिपतेः प्रसिद्धो मनआदिभिः सम्बन्धः, न परस्य ब्रह्मणः; ‘अप्राणो ह्यमनाः शुभ्रः’(मु. उ. २ । १ । २) इत्या­दि­श्रु­तिभ्यः । ननु ‘सर्वं खल्विदं ब्रह्म’ इति स्वशब्देनैव ब्रह्मोपात्तम्; कथमिह शारीर आत्मो­पा­स्य­त्वे­ना­श­ङ्क्यते ? नैष दोषः । नेदं वाक्यं ब्रह्मो­पा­स­ना­वि­धि­प­रम् । किं तर्हि ? शमविधिपरम्; यत्कारणम् ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत’ इत्याह । एतदुक्तं भवति — यस्मात्सर्वमिदं विकारजातं ब्रह्मैव, तज्जत्वात् तल्लत्वात् तदनत्वाच्च — न च सर्व­स्यै­का­त्मत्वे रागादयः सम्भवन्ति — तस्मात् शान्त उपासीतेति । न च शमविधिपरत्वे सत्यनेन वाक्येन ब्रह्मोपासनं नियन्तुं शक्यते । उपासनं तु ‘स क्रतुं कुर्वीत’ इत्यनेन विधीयते । क्रतुः सङ्कल्पो ध्यानमित्यर्थः । तस्य च विषयत्वेन श्रूयते — ‘मनोमयः प्राणशरीरः’ इति जीवलिङ्गम् । अतो ब्रूमः — जीव­वि­ष­य­मे­त­दु­पा­स­न­मिति । ‘सर्वकर्मा सर्वकामः’ इत्याद्यपि श्रूयमाणं पर्यायेण जीव­वि­ष­य­मु­प­प­द्यते । ‘एष म आत्मा­न्त­र्हृ­द­येऽ­णी­या­न्व्री­हेर्वा यवाद्वा’ इति च हृद­या­य­त­न­त्व­म­णी­यस्त्वं चाराग्रमात्रस्य जीवस्यावकल्पते, नापरिच्छिन्नस्य ब्रह्मणः । ननु ‘ज्याया­न्पृ­थिव्याः’ इत्याद्यपि न परि­च्छि­न्नेऽ­व­क­ल्पत इति । अत्र ब्रूमः — न तावदणीयस्त्वं ज्यायस्त्वं चोभ­य­मे­क­स्मि­न्स­मा­श्र­यितुं शक्यम् , विरोधात् । अन्यतराश्रयणे च, प्रथ­म­श्रु­त­त्वा­द­णी­यस्त्वं युक्त­मा­श्र­यि­तुम् । ज्यायस्त्वं तु ब्रह्म­भा­वा­पे­क्षया भविष्यतीति । निश्चिते च जीवविषयत्वे यदन्ते ब्रह्म­स­ङ्की­र्त­नम् — ‘एतद्ब्रह्म’(छा. उ. ३ । १४ । ४) इति, तदपि प्रकृ­त­प­रा­म­र्शा­र्थ­त्वा­ज्जी­व­वि­ष­य­मेव । तस्मा­न्म­नो­म­य­त्वा­दि­भि­र्ध­र्मै­र्जीव उपास्य इत्येवं प्राप्ते ब्रूमः —

परमेव ब्रह्मेह मनो­म­य­त्वा­दि­भि­र्ध­र्मै­रु­पा­स्यम् । कुतः ? सर्वत्र प्रसि­द्धो­प­दे­शात् । यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्म­श­ब्द­स्या­ल­म्बनं जगत्कारणम् , इह च ‘सर्वं खल्विदं ब्रह्म’ इति वाक्योपक्रमे श्रुतम् , तदेव मनो­म­य­त्वा­दि­ध­र्मै­र्वि­शि­ष्ट­मु­प­दि­श्यत इति युक्तम् । एवं च सति प्रकृ­त­हा­ना­प्र­कृ­त­प्र­क्रिये न भविष्यतः । ननु वाक्योपक्रमे शमविधिविवक्षया ब्रह्म निर्दिष्टं न स्ववि­व­क्ष­ये­त्यु­क्तम्; अत्रोच्यते — यद्यपि शमविधिविवक्षया ब्रह्म निर्दिष्टम् , तथापि मनो­म­य­त्वा­दि­षू­प­दि­श्य­मा­नेषु तदेव ब्रह्म सन्निहितं भवति, जीवस्तु न सन्निहितः, न च स्वशब्देनोपात्त इति वैषम्यम् ॥ १ ॥

विव­क्षि­त­गु­णो­प­प­त्तेश्च ॥ २ ॥

वक्तुमिष्टा विवक्षिताः । यद्यप्यपौरुषेये वेदे वक्तुरभावात् नेच्छार्थः सम्भवति, तथाप्युपादानेन फलेनोपचर्यते । लोके हि यच्छ­ब्दा­भि­हि­त­मु­पा­देयं भवति तद्वि­व­क्षि­त­मि­त्यु­च्यते, यदनुपादेयं तदविवक्षितमिति । तद्व­द्वे­देऽ­प्यु­पा­दे­य­त्वे­ना­भि­हितं विवक्षितं भवति, इतरदविवक्षितम् । उपादानानुपादाने तु वेद­वा­क्य­ता­त्प­र्या­ता­त्प­र्या­भ्या­म­व­ग­म्येते । तदिह ये विवक्षिता गुणा उपा­स­ना­या­मु­पा­दे­य­त्वे­नो­प­दिष्टाः सत्य­स­ङ्क­ल्प­प्र­भृ­तयः, ते पर­स्मि­न्ब्र­ह्म­ण्यु­प­प­द्यन्ते । सत्यसङ्कल्पत्वं हि सृष्टि­स्थि­ति­सं­हा­रे­ष्व­प्र­ति­ब­द्ध­श­क्ति­त्वा­त्प­र­मा­त्मन एवावकल्पते । परमात्मगुणत्वेन च ‘य आत्मापहतपाप्मा’(छा. उ. ८ । ७ । १) इत्यत्र ‘सत्यकामः सत्यसङ्कल्पः’ इति श्रुतम् , ‘आकाशात्मा’ इति च आकाशवदात्मा अस्येत्यर्थः । सर्व­ग­त­त्वा­दि­भि­र्धर्मैः सम्भवत्याकाशेन साम्यं ब्रह्मणः । ‘ज्याया­न्पृ­थिव्याः’ इत्यादिना चैतदेव दर्शयति । यदापि आकाश आत्मा यस्येति व्याख्यायते, तदापि सम्भवति सर्वजगत्कारणस्य सर्वात्मनो ब्रह्मण आकाशात्मत्वम् । अत एव ‘सर्वकर्मा’ इत्यादि । एवमिहोपास्यतया विवक्षिता गुणा ब्रह्म­ण्यु­प­प­द्यन्ते । यत्तूक्तम् — ‘मनोमयः प्राणशरीरः’ इति जीवलिङ्गम् , न तद्ब्र­ह्म­ण्यु­प­प­द्यत इति; तदपि ब्रह्म­ण्यु­प­प­द्यत इति ब्रूमः । सर्वा­त्म­त्वाद्धि ब्रह्मणो जीवसम्बन्धीनि मनोमयत्वादीनि ब्रह्म­स­म्ब­न्धीनि भवन्ति । तथा च ब्रह्मविषये श्रुतिस्मृती भवतः — ‘त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः’(श्वे. उ. ४ । ३) इति; ‘सर्वतःपाणिपादं तत्स­र्व­तोऽ­क्षि­शि­रो­मु­खम् । सर्व­तः­श्रु­ति­म­ल्लोके सर्वमावृत्य तिष्ठति’(भ. गी. १३ । १३) इति च । ‘अप्राणो ह्यमनाः शुभ्रः’ इति श्रुतिः शुद्ध­ब्र­ह्म­वि­षया, इयं तु श्रुतिः ‘मनोमयः प्राणशरीरः’ इति सगु­ण­ब्र­ह्म­वि­ष­येति विशेषः । अतो विव­क्षि­त­गु­णो­प­पत्तेः परमेव ब्रह्म इहो­पा­स्य­त्वे­नो­प­दि­ष्ट­मिति गम्यते ॥ २ ॥

अनुपपत्तेस्तु न शारीरः ॥ ३ ॥

पूर्वेण सूत्रेण ब्रह्मणि विवक्षितानां गुणा­ना­मु­प­प­त्ति­रुक्ता । अनेन शारीरे तेषा­म­नु­प­प­त्ति­रु­च्यते । तुश­ब्दोऽ­व­धा­र­णार्थः । ब्रह्मैवोक्तेन न्यायेन मनो­म­य­त्वा­दि­गु­णम्; न तु शारीरो जीवो मनो­म­य­त्वा­दि­गुणः; यत्कारणम् — ‘सत्यसङ्कल्पः’ ‘आकाशात्मा’ ‘अवाकी’ ‘अनादरः’ ‘ज्याया­न्पृ­थिव्याः’ इति चैवंजातीयका गुणा न शारीरे आञ्ज­स्ये­नो­प­प­द्यन्ते । शारीर इति शरीरे भव इत्यर्थः । नन्वीश्वरोऽपि शरीरे भवति । सत्यम् , शरीरे भवति; न तु शरीर एव भवति; ‘ज्याया­न्पृ­थिव्या ज्याया­न­न्त­रि­क्षात्’ ‘आका­श­व­त्स­र्व­ग­तश्च नित्यः’(शत. ब्रा. १० । ६ । ३ । २) इति च व्यापि­त्व­श्र­व­णात् । जीवस्तु शरीर एव भवति, तस्य भोगा­धि­ष्ठा­ना­च्छ­री­रा­द­न्यत्र वृत्त्यभावात् ॥ ३ ॥

कर्म­क­र्तृ­व्य­प­दे­शाच्च ॥ ४ ॥

इतश्च न शारीरो मनो­म­य­त्वा­दि­गुणः; यस्मा­त्क­र्म­क­र्तृ­व्य­प­देशो भवति — ‘एतमितः प्रेत्या­भि­स­म्भ­वि­तास्मि’(छा. उ. ३ । १४ । ४) इति । एतमिति प्रकृतं मनो­म­य­त्वा­दि­गु­ण­मु­पा­स्य­मा­त्मानं कर्मत्वेन प्राप्यत्वेन व्यपदिशति; अभि­स­म्भ­वि­ता­स्मीति शारीरमुपासकं कर्तृत्वेन प्रापकत्वेन । अभि­स­म्भ­वि­ता­स्मीति प्राप्ता­स्मी­त्यर्थः । न च सत्यां गतावेकस्य कर्म­क­र्तृ­व्य­प­देशो युक्तः । तथो­पा­स्यो­पा­स­क­भा­वोऽपि भेदाधिष्ठान एव । तस्मादपि न शारीरो मनो­म­य­त्वा­दि­वि­शिष्टः ॥ ४ ॥

शब्दविशेषात् ॥ ५ ॥

इतश्च शारीरादन्यो मनो­म­य­त्वा­दि­गुणः; यस्मा­च्छ­ब्द­वि­शेषो भवति समानप्रकरणे श्रुत्यन्तरे — ‘यथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वैव­म­य­म­न्त­रा­त्म­न्पु­रुषो हिरण्मयः’(श. ब्रा. १० । ६ । ३ । २) इति । शारीरस्यात्मनो यः शब्दोऽभिधायकः सप्तम्यन्तः — अन्त­रा­त्म­न्निति; तस्मा­द्वि­शि­ष्टोऽन्यः प्रथमान्तः पुरुषशब्दो मनो­म­य­त्वा­दि­वि­शि­ष्ट­स्या­त्म­नोऽ­भि­धा­यकः । तस्मा­त्त­यो­र्भे­दोऽ­धि­ग­म्यते ॥ ५ ॥

स्मृतेश्च ॥ ६ ॥

स्मृतिश्च शारी­र­प­र­मा­त्म­नो­र्भेदं दर्शयति — ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्राम­य­न्स­र्व­भू­तानि यन्त्रारूढानि मायया’(भ. गी. १८ । ६१) इत्याद्या ।

अत्राह — कः पुनरयं शारीरो नाम परमात्मनोऽन्यः, यः प्रतिषिध्यते — ‘अनुपपत्तेस्तु न शारीरः’ इत्यादिना ? श्रुतिस्तु ‘नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता’(बृ. उ. ३ । ७ । २३) इत्येवंजातीयका पर­मा­त्म­नोऽ­न्य­मा­त्मानं वारयति । तथा स्मृतिरपि ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’(भ. गी. १३ । २) इत्ये­वं­जा­ती­य­केति । अत्रोच्यते — सत्यमेवैतत् , पर एवात्मा देहे­न्द्रि­य­म­नो­बु­द्ध्यु­पा­धिभिः परिच्छिद्यमानो बालैः शारीर इत्युपचर्यते । यथा घट­क­र­का­द्यु­पा­धि­व­शा­द­प­रि­च्छि­न्न­मपि नभः परि­च्छि­न्न­व­द­व­भा­सते, तद्वत् । तदपेक्षया च कर्म­त्व­क­र्तृ­त्वा­दि­भे­द­व्य­व­हारो न विरुध्यते प्राक् ‘तत्त्वमसि’ इत्या­त्मै­क­त्वो­प­दे­श­ग्र­ह­णात् । गृहीते त्वात्मैकत्वे बन्ध­मो­क्षा­दि­स­र्व­व्य­व­हा­र­प­रि­स­मा­प्ति­रेव स्यात् ॥ ६ ॥

अर्भ­कौ­क­स्त्वा­त्त­द्व्य­प­दे­शाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥

अर्भकमल्पम् ओको नीडम् , ‘एष म आत्मा­न्त­र्हृ­दये’ इति परि­च्छि­न्ना­य­त­न­त्वात् , स्वशब्देन च ‘अणी­या­न्व्री­हेर्वा यवाद्वा’ इत्य­णी­य­स्त्व­व्य­प­दे­शात् , शारीर एवाराग्रमात्रो जीव इहोपदिश्यते, न सर्वगतः परमात्मा — इति यदुक्तं तत्परिहर्तव्यम् । अत्रोच्यते — नायं दोषः । न ताव­त्प­रि­च्छि­न्न­दे­शस्य सर्व­ग­त­त्व­व्य­प­देशः कथमप्युपपद्यते । सर्वगतस्य तु सर्वदेशेषु विद्य­मा­न­त्वा­त्प­रि­च्छि­न्न­दे­श­व्य­प­दे­शोऽपि कयाचिदपेक्षया सम्भवति । यथा सम­स्त­व­सु­धा­धि­प­ति­रपि हि सन् अयो­ध्या­धि­प­ति­रिति व्यपदिश्यते । कया पुनरपेक्षया सर्वगतः सन्नी­श्व­रोऽ­र्भ­कौका अणीयांश्च व्यपदिश्यत इति । निचा­य्य­त्वा­दे­व­मिति ब्रूमः । एवम् अणी­य­स्त्वा­दि­गु­ण­ग­णो­पेत ईश्वरः, तत्र हृदयपुण्डरीके निचाय्यो द्रष्टव्य उपदिश्यते; यथा सालग्रामे हरिः । तत्रास्य बुद्धिविज्ञानं ग्राहकम् । सर्व­ग­तोऽ­पी­श्व­र­स्त­त्रो­पा­स्य­मानः प्रसीदति । व्योम­व­च्चै­त­द्द्र­ष्ट­व्यम् । यथा सर्वगतमपि सद्व्योम सूची­पा­शा­द्य­पे­क्ष­या­र्भ­कौ­कोऽ­णी­यश्च व्यपदिश्यते, एवं ब्रह्मापि । तदेवं निचा­य्य­त्वा­पेक्षं ब्रह्म­णोऽ­र्भ­कौ­क­स्त्व­म­णी­यस्त्वं च, न पारमार्थिकम् । तत्र यदाशङ्क्यते — हृद­या­य­त­न­त्वा­द्ब्र­ह्मणो हृदयानां च प्रतिशरीरं भिन्न­त्वा­द्भि­न्ना­य­त­नानां च शुका­दी­ना­म­ने­क­त्व­सा­व­य­व­त्वा­नि­त्य­त्वा­दि­दो­ष­द­र्श­ना­द्ब्र­ह्म­णोऽपि तत्प्रसङ्ग इति, तदपि परिहृतं भवति ॥ ७ ॥

सम्भो­ग­प्रा­प्ति­रिति चेन्न वैशेष्यात् ॥ ८ ॥

व्योम­व­त्स­र्व­ग­तस्य ब्रह्मणः सर्व­प्रा­णि­हृ­द­य­स­म्ब­न्धात् , चिद्रूपतया च शारी­रा­द­वि­शि­ष्ट­त्वात् , सुख­दुः­खा­दि­स­म्भो­गोऽ­प्य­वि­शिष्टः प्रसज्येत । एकत्वाच्च; न हि पर­स्मा­दा­त्म­नोऽन्यः कश्चिदात्मा संसारी विद्यते, ‘नान्योऽतोऽस्ति विज्ञाता’(बृ. उ. ३ । ७ । २३) इत्या­दि­श्रु­तिभ्यः । तस्मात्परस्यैव ब्रह्मणः सम्भो­ग­प्रा­प्ति­रिति चेत् , न; वैशेष्यात् । न ताव­त्स­र्व­प्रा­णि­हृ­द­य­स­म्ब­न्धात् शारी­र­व­द्ब्र­ह्मणः सम्भोगप्रसङ्गः, वैशेष्यात् । विशेषो हि भवति शारी­र­प­र­मे­श्व­रयोः । एकः कर्ता भोक्ता धर्मा­ध­र्मा­दि­सा­धनः सुख­दुः­खा­दि­मांश्च । एक­स्त­द्वि­प­री­तोऽ­प­ह­त­पा­प्म­त्वा­दि­गुणः । एत­स्मा­द­न­यो­र्वि­शे­षा­दे­कस्य भोगः, नेतरस्य । यदि च सन्निधानमात्रेण वस्तु­श­क्ति­म­ना­श्रित्य कार्य­स­म्ब­न्धोऽ­भ्यु­प­ग­म्येत, आकाशादीनामपि दाहादिप्रसङ्गः । सर्व­ग­ता­ने­का­त्म­वा­दि­ना­मपि समावेतौ चोद्यपरिहारौ । यद­प्ये­क­त्वा­द्ब्र­ह्मण आत्मा­न्त­रा­भा­वा­च्छा­री­रस्य भोगेन ब्रह्मणो भोगप्रसङ्ग इति, अत्र वदामः — इदं ताव­द्दे­वा­नां­प्रियः प्रष्टव्यः; कथमयं त्वया­त्मा­न्त­रा­भा­वोऽ­ध्य­व­सित इति । ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ ‘नान्योऽतोऽस्ति विज्ञाता’ इत्या­दि­शा­स्त्रेभ्य इति चेत् , यथाशास्त्रं तर्हि शास्त्रीयोऽर्थः प्रतिपत्तव्यः, न तत्रार्धजरतीयं लभ्यम् । शास्त्रं च ‘तत्त्वमसि’ इत्य­प­ह­त­पा­प्म­त्वा­दि­वि­शे­षणं ब्रह्म शारी­र­स्या­त्म­त्वे­नो­प­दि­श­च्छा­री­र­स्यैव ताव­दु­प­भो­क्तृत्वं वारयति । कुतस्तदुपभोगेन ब्रह्मण उपभोगप्रसङ्गः । अथागृहीतं शारीरस्य ब्रह्मणैकत्वम् , तदा मिथ्या­ज्ञा­न­नि­मित्तः शारीरस्योपभोगः । न तेन परमार्थरूपस्य ब्रह्मणः संस्पर्शः । न हि बालै­स्त­ल­म­लि­न­ता­दि­भि­र्व्योम्नि विकल्प्यमाने तल­म­लि­न­ता­दि­वि­शि­ष्ट­मेव परमार्थतो व्योम भवति । तदाह — न वैशेष्यादिति नैकत्वेऽपि शारीरस्योपभोगेन ब्रह्मण उपभोगप्रसङ्गः, वैशेष्यात् । विशेषो हि भवति मिथ्या­ज्ञा­न­स­म्य­ग्ज्ञा­नयोः । मिथ्या­ज्ञा­न­क­ल्पित उपभोगः, सम्य­ग्ज्ञा­न­दृ­ष्ट­मे­क­त्वम् । न च मिथ्या­ज्ञा­न­क­ल्पि­ते­नो­प­भो­गेन सम्य­ग्ज्ञा­न­दृष्टं वस्तु संस्पृश्यते । तस्मा­न्नो­प­भो­ग­ग­न्धोऽपि शक्य ईश्वरस्य कल्पयितुम् ॥ ८ ॥

अत्ता चराचरग्रहणात् ॥ ९ ॥

कठवल्लीषु पठ्यते ‘यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्यु­र्य­स्यो­प­से­चनं क इत्था वेद यत्र सः’(क. उ. १ । २ । २५) इति । अत्र कश्चि­दो­द­नो­प­से­च­न­सू­चि­तोऽत्ता प्रतीयते । तत्र किमग्निरत्ता स्यात् , उत जीवः, अथवा परमात्मा, इति संशयः । विशेषानवधारणात् । त्रयाणां चाग्नि­जी­व­प­र­मा­त्म­ना­म­स्मि­न्ग्रन्थे प्रश्नो­प­न्या­सो­प­लब्धेः । किं तावत्प्राप्तम् ? अग्निरत्तेति । कुतः ? ‘अग्निरन्नादः’(बृ. उ. १ । ४ । ६) इति श्रुति­प्र­सि­द्धि­भ्याम् । जीवो वा अत्ता स्यात् ‘तयोरन्यः पिप्पलं स्वाद्वत्ति’(मु. उ. ३ । १ । १) इति दर्शनात् । न परमात्मा, ‘अन­श्न­न्न­न्योऽ­भि­चा­क­शीति’ इति दर्शनादित्येवं प्राप्ते ब्रूमः —

अत्तात्र परमात्मा भवितुमर्हति । कुतः ? चराचरग्रहणात् । चराचरं हि स्थावरजङ्गमं मृत्यू­प­से­च­न­मि­हा­द्य­त्वेन प्रतीयते । तादृशस्य चाद्यस्य न परमात्मनोऽन्यः कार्त्स्न्ये­नात्ता सम्भवति । परमात्मा तु विकारजातं संह­र­न्स­र्व­म­त्ती­त्यु­प­प­द्यते । नन्विह चराचरग्रहणं नोपलभ्यते, कथं सिद्ध­व­च्च­रा­च­र­ग्र­हणं हेतु­त्वे­नो­पा­दी­यते ? नैष दोषः, मृत्यू­प­से­च­न­त्वे­ने­हा­द्य­त्वेन सर्वस्य प्राणिनिकायस्य प्रतीयमानत्वात् , ब्रह्म­क्ष­त्र­योश्च प्राधा­न्या­त्प्र­द­र्श­ना­र्थ­त्वो­प­पत्तेः । यत्तु परमात्मनोऽपि नात्तृत्वं सम्भवति ‘अन­श्न­न्न­न्योऽ­भि­चा­क­शीति’ इति दर्शनादिति, अत्रोच्यते — कर्मफलभोगस्य प्रति­षे­ध­क­मे­त­द्द­र्श­नम् , तस्य सन्निहितत्वात् । न विकारसंहारस्य प्रतिषेधकम् , सर्ववेदान्तेषु सृष्टि­स्थि­ति­सं­हा­र­का­र­ण­त्वेन ब्रह्मणः प्रसिद्धत्वात् । तस्मा­त्प­र­मा­त्मै­वे­हात्ता भवितुमर्हति ॥ ९ ॥

प्रकरणाच्च ॥ १० ॥

१०

इतश्च पर­मा­त्मै­वे­हात्ता भवितुमर्हति; यत्कारणं प्रकरणमिदं परमात्मनः — ‘न जायते म्रियते वा विपश्चित्’(क. उ. १ । २ । १८) इत्यादि । प्रकृतग्रहणं च न्याय्यम् । ‘क इत्था वेद यत्र सः’ इति च दुर्विज्ञानत्वं परमात्मलिङ्गम् ॥ १० ॥

गुहां प्रवि­ष्टा­वा­त्मानौ हि तद्दर्शनात् ॥ ११ ॥

११

कठवल्लीष्वेव पठ्यते — ‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः’(क. उ. १ । ३ । १) इति । तत्र संशयः — किमिह बुद्धिजीवौ निर्दिष्टौ, उत जीव­प­र­मा­त्मा­ना­विति । यदि बुद्धिजीवौ, ततो बुद्धि­प्र­धा­ना­त्का­र्य­क­र­ण­स­ङ्घा­ता­द्वि­ल­क्षणो जीवः प्रतिपादितो भवति । तदपीह प्रति­पा­द­यि­त­व्यम् , ‘येयं प्रेते विचिकित्सा मनु­ष्येऽ­स्ती­त्येके नायमस्तीति चैके । एत­द्वि­द्या­म­नु­शि­ष्ट­स्त्व­याहं वराणामेष वरस्तृतीयः’(क. उ. १ । १ । २०) इति पृष्टत्वात् । अथ जीवपरमात्मानौ, ततो जीवाद्विलक्षणः परमात्मा प्रतिपादितो भवति । तदपीह प्रति­पा­द­यि­त­व्यम् — ‘अन्यत्र धर्मा­द­न्य­त्रा­ध­र्मा­द­न्य­त्रा­स्मा­त्कृ­ता­कृ­तात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’(क. उ. १ । २ । १४) इति पृष्टत्वात् । अत्राहाक्षेप्ता — उभावप्येतौ पक्षौ न सम्भवतः । कस्मात् ? ऋतपानं कर्मफलोपभोगः, ‘सुकृतस्य लोके’ इति लिङ्गात् । तच्च चेतनस्य क्षेत्रज्ञस्य सम्भवति, नाचेतनाया बुद्धेः । ‘पिबन्तौ’ इति च द्विवचनेन द्वयोः पानं दर्शयति श्रुतिः । अतो बुद्धि­क्षे­त्र­ज्ञ­प­क्ष­स्ता­वन्न सम्भवति । अत एव क्षेत्र­ज्ञ­प­र­मा­त्म­प­क्षोऽपि न सम्भवति । चेतनेऽपि परमात्मनि ऋतपानासम्भवात् , ‘अन­श्न­न्न­न्योऽ­भि­चा­क­शीति’(मु. उ. ३ । १ । १) इति मन्त्रवर्णादिति । अत्रोच्यते — नैष दोषः; छत्रिणो गच्छ­न्ती­त्ये­के­नापि च्छत्रिणा बहू­ना­म­च्छ­त्रिणां छत्रि­त्वो­प­चा­र­द­र्श­नात् । एवमेकेनापि पिबता द्वौ पिब­न्ता­वु­च्ये­या­ताम् । यद्वा जीवस्तावत्पिबति । ईश्वरस्तु पाययति । पाययन्नपि पिबतीत्युच्यते, पाचयितर्यपि पक्तृ­त्व­प्र­सि­द्धि­द­र्श­नात् । बुद्धि­क्षे­त्र­ज्ञ­प­रि­ग्र­होऽपि सम्भवति; करणे कर्तृ­त्वो­प­चा­रात् । ‘एधांसि पचन्ति’ इति प्रयोगदर्शनात् । न चाध्या­त्मा­धि­का­रेऽन्यौ कौचिद्द्वावृतं पिबन्तौ सम्भवतः । तस्मा­द्बु­द्धि­जीवौ स्यातां जीवपरमात्मानौ वेति संशयः ॥

किं तावत्प्राप्तम् ? बुद्धि­क्षे­त्र­ज्ञा­विति । कुतः ? ‘गुहां प्रविष्टौ’ इति विशेषणात् । यदि शरीरं गुहा, यदि वा हृदयम् , उभयथापि बुद्धि­क्षे­त्रज्ञौ गुहां प्रवि­ष्टा­वु­प­प­द्येते । न च सति सम्भवे सर्वगतस्य ब्रह्मणो विशिष्टदेशत्वं युक्तं कल्पयितुम् । ‘सुकृतस्य लोके’ इति च कर्म­गो­च­रा­न­ति­क्रमं दर्शयति । परमात्मा तु न सुकृतस्य वा दुष्कृतस्य वा गोचरे वर्तते, ‘न कर्मणा वर्धते नो कनीयान्’(बृ. उ. ४ । ४ । २३) इति श्रुतेः । ‘छायातपौ’ इति च चेत­ना­चे­त­न­यो­र्नि­र्देश उपपद्यते, छाया­त­प­व­त्प­र­स्प­र­वि­ल­क्ष­ण­त्वात् । तस्मा­द्बु­द्धि­क्षे­त्र­ज्ञा­वि­हो­च्ये­या­ता­मि­त्येवं प्राप्ते ब्रूमः —

विज्ञा­ना­त्म­प­र­मा­त्मा­ना­वि­हो­च्ये­या­ताम् । कस्मात् ? आत्मानौ हि तावुभावपि चेतनौ समानस्वभावौ । संख्याश्रवणे च समा­न­स्व­भा­वे­ष्वेव लोके प्रती­ति­र्दृ­श्यते । ‘अस्य गोर्द्वि­ती­योऽ­न्वे­ष्टव्यः’ इत्युक्ते, गौरेव द्विती­योऽ­न्वि­ष्यते, नाश्वः पुरुषो वा । तदिह ऋतपानेन लिङ्गेन निश्चिते विज्ञानात्मनि द्विती­या­न्वे­ष­णायां समा­न­स्व­भा­व­श्चे­तनः परमात्मैव प्रतीयते । ननूक्तं गुहा­हि­त­त्व­द­र्श­नान्न परमात्मा प्रत्येतव्य इति; गुहा­हि­त­त्व­द­र्श­ना­देव परमात्मा प्रत्येतव्य इति वदामः । गुहाहितत्वं तु श्रुति­स्मृ­ति­ष्व­स­कृ­त्प­र­मा­त्मन एव दृश्यते — ‘गुहाहितं गह्वरेष्ठं पुराणम्’(क. उ. १ । २ । १२) ‘यो वेद निहितं गुहायां परमे व्योमन्’(तै. उ. २ । १ । १) ‘आत्मानमन्विच्छ गुहां प्रविष्टम्’ इत्याद्यासु । सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थो देशविशेषोपदेशो न विरुध्यत इत्ये­त­द­प्यु­क्त­मेव । सुकृ­त­लो­क­व­र्तित्वं तु च्छत्रि­त्व­व­दे­क­स्मि­न्नपि वर्त­मा­न­मु­भ­यो­र­वि­रु­द्धम् । ‘छायातपौ’ इत्य­प्य­वि­रु­द्धम्; छाया­त­प­व­त्प­र­स्प­र­वि­ल­क्ष­ण­त्वा­त्सं­सा­रि­त्वा­सं­सा­रि­त्वयोः, अवि­द्या­कृ­त­त्वा­त्सं­सा­रि­त्वस्य पार­मा­र्थि­क­त्वा­च्चा­सं­सा­रि­त्वस्य । तस्मा­द्वि­ज्ञा­ना­त्म­प­र­मा­त्मानौ गुहां प्रविष्टौ गृह्येते ॥ ११ ॥

कुतश्च विज्ञा­ना­त्म­प­र­मा­त्मानौ गृह्येते ? —

विशेषणाच्च ॥ १२ ॥

१२

विशेषणं च विज्ञा­ना­त्म­प­र­मा­त्म­नो­रेव भवति । ‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु’(क. उ. १ । ३ । ३) इत्यादिना परेण ग्रन्थेन रथि­र­था­दि­रू­प­क­क­ल्प­नया विज्ञानात्मानं रथिनं संसा­र­मो­क्ष­यो­र्ग­न्तारं कल्पयति । ‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’(क. उ. १ । ३ । ९) इति च परमात्मानं गन्तव्यं कल्पयति । तथा ‘तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्या­त्म­यो­गा­धि­ग­मेन देवं मत्वा धीरो हर्षशोकौ जहाति’(क. उ. १ । २ । १२) इति पूर्वस्मिन्नपि ग्रन्थे मन्तृ­म­न्त­व्य­त्वे­नै­ता­वेव विशेषितौ । प्रकरणं चेदं परमात्मनः । ‘ब्रह्मविदो वदन्ति’ इति च वक्तृ­वि­शे­षो­पा­दानं परमात्मपरिग्रहे घटते । तस्मादिह जीव­प­र­मा­त्मा­ना­वु­च्ये­या­ताम् । एष एव न्यायः ‘द्वा सुपर्णा सयुजा सखाया’(मु. उ. ३ । १ । १) इत्येवमादिष्वपि । तत्रापि ह्यध्या­त्मा­धि­का­रान्न प्राकृतौ सुपर्णावुच्येते । ‘तयोरन्यः पिप्पलं स्वाद्वत्ति’ इत्य­द­न­लि­ङ्गा­द्वि­ज्ञा­नात्मा भवति । ‘अन­श्न­न्न­न्योऽ­भि­चा­क­शीति’(मु. उ. ३ । १ । १) इत्य­न­श­न­चे­त­न­त्वाभ्यां परमात्मा । अनन्तरे च मन्त्रे तावेव द्रष्टृ­द्र­ष्ट­व्य­भा­वेन विशिनष्टि — ‘समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्य­त्य­न्य­मी­श­मस्य महिमानमिति वीतशोकः’(मु. उ. ३ । १ । २) इति ॥

अपर आह — ‘द्वा सुपर्णा’ इति नेय­मृ­ग­स्या­धि­क­र­णस्य सिद्धान्तं भजते, पैङ्गि­र­ह­स्य­ब्रा­ह्म­णे­ना­न्यथा व्याख्यातत्वात् — ‘तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्व­म­न­श्न­न्न­न्योऽ­भि­चा­क­शी­ती­त्य­न­श्न­न्न­न्योऽ­भि­प­श्यति ज्ञस्तावेतौ सत्त्व­क्षे­त्रज्ञौ’ इति । सत्त्वशब्दो जीवः क्षेत्रज्ञशब्दः परमात्मेति यदुच्यते, तन्न; सत्त्व­क्षे­त्र­ज्ञ­श­ब्द­यो­र­न्तः­क­र­ण­शा­री­र­प­र­तया प्रसिद्धत्वात् । तत्रैव च व्याख्यातत्वात् — ‘तदेतत्सत्त्वं येन स्वप्नं पश्यति, अथ योऽयं शारीर उपद्रष्टा स क्षेत्र­ज्ञ­स्ता­वेतौ सत्त्व­क्षे­त्रज्ञौ’ इति । नाप्य­स्या­धि­क­र­णस्य पूर्वपक्षं भजते । न ह्यत्र शारीरः क्षेत्रज्ञः कर्तृ­त्व­भो­क्तृ­त्वा­दिना संसा­र­ध­र्मे­णो­पेतो विवक्ष्यते । कथं तर्हि ? सर्व­सं­सा­र­ध­र्मा­तीतो ब्रह्म­स्व­भा­व­श्चै­त­न्य­मा­त्र­स्व­रूपः; ‘अन­श्न­न्न­न्योऽ­भि­चा­क­शी­ती­त्य­न­श्न­न्न­न्योऽ­भि­प­श्यति ज्ञः’ इति वचनात् , ‘तत्त्वमसि’ ‘क्षेत्रज्ञं चापि मां विद्धि’(भ. गी. १३ । २) इत्या­दि­श्रु­ति­स्मृ­ति­भ्यश्च । तावता च विद्यो­प­सं­हा­र­द­र्श­न­मे­व­मे­वा­व­क­ल्पते, ‘तावेतौ सत्त्व­क्षे­त्रज्ञौ न ह वा एवंविदि किञ्चन रज आध्वंसते’ इत्यादि । कथं पुनरस्मिन्पक्षे ‘तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम्’ इत्यचेतने सत्त्वे भोक्तृ­त्व­व­च­न­मिति, उच्यते — नेयं श्रुतिरचेतनस्य सत्त्वस्य भोक्तृत्वं वक्ष्यामीति प्रवृत्ता; किं तर्हि ? चेतनस्य क्षेत्र­ज्ञ­स्या­भो­क्तृत्वं ब्रह्मस्वभावतां च वक्ष्यामीति । तदर्थं सुखा­दि­वि­क्रि­या­वति सत्त्वे भोक्तृ­त्व­म­ध्या­रो­प­यति । इदं हि कर्तृत्वं भोक्तृत्वं च सत्त्व­क्षे­त्र­ज्ञ­यो­रि­त­रे­त­र­स्व­भा­वा­वि­वे­क­कृतं कल्प्यते । परमार्थतस्तु नान्यतरस्यापि सम्भवति, अचे­त­न­त्वा­त्स­त्त्वस्य, अविक्रियत्वाच्च क्षेत्रज्ञस्य । अवि­द्या­प्र­त्यु­प­स्था­पि­त­स्व­भा­व­त्वाच्च सत्त्वस्य सुतरां न सम्भवति । तथा च श्रुतिः — ‘यत्र वा अन्यदिव स्यात्त­त्रा­न्योऽ­न्य­त्प­श्येत्’(बृ. उ. ४ । ५ । १५) इत्यादिना स्वप्न­दृ­ष्ट­ह­स्त्या­दि­व्य­व­हा­र­व­द­वि­द्या­वि­षय एव कर्तृ­त्वा­दि­व्य­व­हारं दर्शयति । ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्येत्’(बृ. उ. ४ । ५ । १५) इत्यादिना च विवेकिनः कर्तृ­त्वा­दि­व्य­व­हा­रा­भवं दर्शयति ॥ १२ ॥

अन्तर उपपत्तेः ॥ १३ ॥

१३

‘य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवा­चै­त­द­मृ­त­म­भ­य­मे­त­द्ब्र­ह्मेति । तद्य­द्य­प्य­स्मि­न्स­र्पि­र्वो­दकं वा सिञ्चति वर्त्मनी एव गच्छति’(छा. उ. ४ । १५ । १) इत्यादि श्रूयते । तत्र संशयः — किमयं प्रति­बि­म्बा­त्मा­क्ष्य­धि­क­रणो निर्दिश्यते, अथ विज्ञानात्मा, उत देव­ता­त्मे­न्द्रि­य­स्या­धि­ष्ठाता, अथवेश्वर इति । किं तावत्प्राप्तम् ? छायात्मा पुरुषप्रतिरूप इति । कुतः ? तस्य दृश्य­मा­न­त्व­प्र­सिद्धेः, ‘य एषोऽक्षिणि पुरुषो दृश्यते’ इति च प्रसि­द्ध­व­दु­प­दे­शात् । विज्ञानात्मनो वायं निर्देश इति युक्तम् । स हि चक्षुषा रूपं पश्यंश्चक्षुषि सन्निहितो भवति । आत्म­श­ब्द­श्चा­स्मि­न्प­क्षेऽ­नु­कूलो भवति । आदित्यपुरुषो वा चक्षु­षोऽ­नु­ग्रा­हकः प्रतीयते — ‘रश्मि­भि­रे­षोऽ­स्मि­न्प्र­ति­ष्ठितः’(बृ. उ. ५ । ५ । २) इति श्रुतेः, अमृतत्वादीनां च देवतात्मन्यपि कथ­ञ्चि­त्स­म्भ­वात् । नेश्वरः, स्थान­वि­शे­ष­नि­र्दे­शात् — इत्येवं प्राप्ते ब्रूमः —

परमेश्वर एवा­क्षि­ण्य­भ्य­न्तरः पुरुष इहोपदिष्ट इति । कस्मात् ? उपपत्तेः । उपपद्यते हि परमेश्वरे गुण­जा­त­मि­हो­प­दि­श्य­मा­नम् । आत्मत्वं तावन्मुख्यया वृत्त्या परमेश्वरे उपपद्यते, ‘स आत्मा तत्त्वमसि’ इति श्रुतेः । अमृतत्वाभयत्वे च तस्मि­न्न­स­कृ­च्छ्रुतौ श्रूयेते । तथा पर­मे­श्व­रा­नु­रू­प­मे­त­द­क्षि­स्था­नम् । यथा हि परमेश्वरः सर्व­दो­षै­र­लिप्तः, अप­ह­त­पा­प्म­त्वा­दि­श्र­व­णात्; तथाक्षिस्थानं सर्व­ले­प­र­हि­त­मु­प­दि­ष्टम् ‘तद्य­द्य­प्य­स्मि­न्स­र्पि­र्वो­दकं वा सिञ्चति, वर्त्मनी एव गच्छति’ इति श्रुतेः । संय­द्वा­म­त्वा­दि­गु­णो­प­दे­शश्च तस्मिन्नवकल्पते । ‘एतं संयद्वाम इत्याचक्षते । एतं हि सर्वाणि वामा­न्य­भि­सं­यन्ति’,(छा. उ. ४ । १५ । २) ‘एष उ एव वामनीरेष हि सर्वाणि वामानि नयति ।’(छा. उ. ४ । १५ । ३) ‘एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति’(छा. उ. ४ । १५ । ४) इति च । अत उपपत्तेरन्तरः परमेश्वरः ॥ १३ ॥

स्थाना­दि­व्य­प­दे­शाच्च ॥ १४ ॥

१४

कथं पुन­रा­का­श­व­त्स­र्व­ग­तस्य ब्रह्म­णोऽ­क्ष्यल्पं स्थानमुपपद्यत इति, अत्रोच्यते — भवे­दे­षा­न­व­कॢप्तिः, यद्येतदेवैकं स्थानमस्य निर्दिष्टं भवेत् । सन्ति ह्यन्यान्यपि पृथिव्यादीनि स्थानान्यस्य निर्दिष्टानि — ‘यः पृथिव्यां तिष्ठन्’(बृ. उ. ३ । ७ । ३) इत्यादिना । तेषु हि चक्षुरपि निर्दिष्टम् ‘यश्चक्षुषि तिष्ठन्’ इति । स्थाना­दि­व्य­प­दे­शा­दि­त्या­दि­ग्र­ह­णे­नै­त­द्द­र्श­यति — न केवलं स्थान­मे­वै­क­म­नु­चितं ब्रह्मणो निर्दिश्यमानं दृश्यते । किं तर्हि ? नाम रूप­मि­त्ये­वं­जा­ती­य­क­म­प्य­ना­म­रू­पस्य ब्रह्मणोऽनुचितं निर्दिश्यमानं दृश्यते — ‘तस्योदिति नाम’(छा. उ. १ । ६ । ७) ‘हिर­ण्य­श्मश्रुः’ इत्यादि । निर्गुणमपि सद्ब्रह्म नाम­रू­प­ग­तै­र्गुणैः सगुणमुपासनार्थं तत्र तत्रोपदिश्यत इत्ये­त­द­प्यु­क्त­मेव । सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थं स्थानविशेषो न विरुध्यते, सालग्राम इव विष्णो­रि­त्ये­त­द­प्यु­क्त­मेव ॥ १४ ॥

सुख­वि­शि­ष्टा­भि­धा­ना­देव च ॥ १५ ॥

१५

अपि च नैवात्र विवदितव्यम् — किं ब्रह्मा­स्मि­न्वा­क्येऽ­भि­धी­यते, न वेति । सुख­वि­शि­ष्टा­भि­धा­ना­देव ब्रह्मत्वं सिद्धम् । सुखविशिष्टं हि ब्रह्म यद्वाक्योपक्रमे प्रक्रान्तम् ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’(छा. उ. ४ । १० । ४)‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’(छा. उ. ४ । १० । ४) इति, तदेवेहाभिहितम्; प्रकृ­त­प­रि­ग्र­हस्य न्याय्यत्वात् , ‘आचार्यस्तु ते गतिं वक्ता’(छा. उ. ४ । १४ । १) इति च गति­मा­त्रा­भि­धा­न­प्र­ति­ज्ञा­नात् । कथं पुन­र्वा­क्यो­प­क्रमे सुखविशिष्टं ब्रह्म विज्ञायत इति, उच्यते — ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ इत्येतदग्नीनां वचनं श्रुत्वोपकोसल उवाच — ‘विजानाम्यहं यत्प्राणो ब्रह्म, कं च तु खं च न विजानामि’ इति । तत्रेदं प्रतिवचनम् — ‘यद्वाव कं तदेव खं यदेव खं तदेव कम्’ इति । तत्र खंशब्दो भूताकाशे निरूढो लोके । यदि तस्य विशेषणत्वेन कंशब्दः सुखवाची नोपादीयेत, तथा सति केवले भूताकाशे ब्रह्मशब्दो नामादिष्विव प्रती­का­भि­प्रा­येण प्रयुक्त इति प्रतीतिः स्यात् । तथा कंशब्दस्य विष­ये­न्द्रि­य­स­म्प­र्क­ज­निते सामये सुखे प्रसिद्धत्वात् , यदि तस्य खंशब्दो विशेषणत्वेन नोपादीयेत; लौकिकं सुखं ब्रह्मेति प्रतीतिः स्यात् । इतरेतरविशेषितौ तु कंखंशब्दौ सुखात्मकं ब्रह्म गमयतः । तत्र द्वितीये ब्रह्म­श­ब्देऽ­नु­पा­दी­य­माने ‘कं खं ब्रह्म’ इत्येवोच्यमाने कंशब्दस्य विशे­ष­ण­त्वे­नै­वो­प­यु­क्त­त्वा­त्सु­खस्य गुण­स्या­ध्ये­यत्वं स्यात् । तन्मा भूत् — इत्युभयोः कंखं­श­ब्द­यो­र्ब्र­ह्म­श­ब्द­शि­र­स्त्वम् — ‘कं ब्रह्म खं ब्रह्म’ इति । इष्टं हि सुखस्यापि गुणस्य गुणि­व­द्ध्ये­य­त्वम् । तदेवं वाक्योपक्रमे सुखविशिष्टं ब्रह्मोपदिष्टम् । प्रत्येकं च गार्ह­प­त्या­द­योऽ­ग्नयः स्वं स्वं महिमानमुपदिश्य ‘एषा सोम्य तेऽस्म­द्वि­द्या­त्म­विद्या च’ इत्युपसंहरन्तः पूर्वत्र ब्रह्म निर्दिष्टमिति ज्ञापयन्ति । ‘आचार्यस्तु ते गतिं वक्ता’ इति च गति­मा­त्रा­भि­धा­न­प्र­ति­ज्ञा­न­म­र्था­न्त­र­वि­वक्षां वारयति । ‘यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते’(छा. उ. ४ । १४ । ३) इति चाक्षिस्थानं पुरुषं विजानतः पापेनानुपघातं ब्रुव­न्न­क्षि­स्था­नस्य पुरुषस्य ब्रह्मत्वं दर्शयति । तस्मा­त्प्र­कृ­त­स्यैव ब्रह्म­णोऽ­क्षि­स्था­नतां संय­द्वा­म­त्वा­दि­गु­णतां चोक्त्वा अर्चिरादिकां तद्विदो गतिं वक्ष्या­मी­त्यु­प­क्र­मते — ‘य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच’(छा. उ. ४ । १५ । १) इति ॥ १५ ॥

श्रुतो­प­नि­ष­त्क­ग­त्य­भि­धा­नाच्च ॥ १६ ॥

१६

इत­श्चा­क्षि­स्थानः पुरुषः परमेश्वरः, यस्मा­च्छ्रु­तो­प­नि­ष­त्कस्य श्रुत­र­ह­स्य­वि­ज्ञा­नस्य ब्रह्मविदो या गति­र्दे­व­या­नाख्या प्रसिद्धा श्रुतौ — ‘अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्य­या­त्मा­न­म­न्वि­ष्या­दि­त्य­म­भि­ज­यन्ते । एतद्वै प्राणा­ना­मा­य­त­न­मे­त­द­मृ­त­म­भ­य­मे­त­त्प­रा­य­ण­मे­त­स्मान्न पुनरावर्तन्ते’(प्र. उ. १ । १०) इति, स्मृतावपि — ‘अग्नि­र्ज्यो­ति­रहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः’(भ. गी. ८ । २४) इति, सैवे­हा­क्षि­पु­रु­ष­वि­दोऽ­भि­धी­य­माना दृश्यते । ‘अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च नार्चि­ष­मे­वा­भि­स­म्भ­वन्ति’ इत्युपक्रम्य ‘आदि­त्या­च्च­न्द्र­मसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते’(छा. उ. ४ । १५ । ५) इति । तदिह ब्रह्म­वि­द्वि­ष­यया प्रसिद्धया गत्या अक्षिस्थानस्य ब्रह्मत्वं निश्चीयते ॥ १६ ॥

अन­व­स्थि­ते­र­स­म्भ­वाच्च नेतरः ॥ १७ ॥

१७

यत्पुनरुक्तं छायात्मा, विज्ञानात्मा, देवतात्मा वा स्यादक्षिस्थान इति, अत्रोच्यते — न च्छाया­त्मा­दि­रि­तर इह ग्रहणमर्हति । कस्मात् ? अनवस्थितेः । न ताव­च्छा­या­त्म­न­श्च­क्षुषि नित्यमवस्थानं सम्भवति । यदैव हि कश्चि­त्पु­रु­ष­श्च­क्षु­रा­सी­दति, तदा चक्षुषि पुरुषच्छाया दृश्यते । अपगते तस्मिन्न दृश्यते । ‘य एषोऽक्षिणि पुरुषः’ इति च श्रुतिः सन्नि­धा­ना­त्स्व­च­क्षुषि दृश्यमानं पुरु­ष­मु­पा­स्य­त्वे­नो­प­दि­शति । न चोपासनाकाले च्छायाकरं कञ्चित्पुरुषं चक्षुःसमीपे सन्नि­धा­प्यो­पास्त इति युक्तं कल्पयितुम् । ‘अस्यैव शरीरस्य नाशमन्वेष नश्यति’(छा. उ. ८ । ९ । १) इति श्रुति­श्छा­या­त्म­नोऽ­प्य­न­व­स्थि­तत्वं दर्शयति । असम्भवाच्च तस्मि­न्न­मृ­त­त्वा­दीनां गुणानां न च्छायात्मनि प्रतीतिः । तथा विज्ञा­ना­त्म­नोऽपि साधारणे कृत्स्न­श­री­रे­न्द्रि­य­स­म्बन्धे सति न चक्षु­ष्ये­वा­व­स्थि­तत्वं शक्यं वक्तुम् । ब्रह्मणस्तु सर्वव्यापिनोऽपि दृष्ट उपलब्ध्यर्थो हृद­या­दि­दे­श­वि­शे­ष­स­म्बन्धः । समानश्च विज्ञा­ना­त्म­न्य­प्य­मृ­त­त्वा­दीनां गुणानामसम्भवः । यद्यपि विज्ञानात्मा परमात्मनोऽनन्य एव, तथा­प्य­वि­द्या­का­म­क­र्म­कृतं तस्मि­न्म­र्त्य­त्व­म­ध्या­रो­पितं भयं चेत्य­मृ­त­त्वा­भ­यत्वे नोपपद्येते । संय­द्वा­म­त्वा­द­य­श्चै­त­स्मि­न्न­नै­श्व­र्या­द­नु­प­पन्ना एव । देवतात्मनस्तु ‘रश्मि­भि­रे­षोऽ­स्मि­न्प्र­ति­ष्ठितः’ इति श्रुतेः यद्यपि चक्षुष्यवस्थानं स्यात् , तथाप्यात्मत्वं तावन्न सम्भवति, पराग्रूपत्वात् । अमृतत्वादयोऽपि न सम्भवन्ति, उत्प­त्ति­प्र­ल­य­श्र­व­णात् । अमरत्वमपि देवानां चिर­का­ला­व­स्था­ना­पे­क्षम् । ऐश्वर्यमपि परमेश्वरायत्तम् , न स्वाभाविकम्; ‘भीषास्माद्वातः पवते । भीषोदेति सूर्यः । भीषा­स्मा­द­ग्नि­श्चे­न्द्रश्च । मृत्युर्धावति पञ्चमः’(तै. उ. २ । ८ । १) इति मन्त्रवर्णात् । तस्मात्परमेश्वर एवायमक्षिस्थानः प्रत्येतव्यः । अस्मिंश्च पक्षे ‘दृश्यते’ इति प्रसि­द्ध­व­दु­पा­दानं शास्त्रा­द्य­पेक्षं विद्वद्विषयं प्ररोचनार्थमिति व्याख्येयम् ॥ १७ ॥

अन्त­र्या­म्य­धि­दै­वा­दिषु तद्ध­र्म­व्य­प­दे­शात् ॥ १८ ॥

१८

‘य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति’(बृ. उ. ३ । ७ । १) इत्युपक्रम्य श्रूयते — ‘यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृतः’(बृ. उ. ३ । ७ । ३) इत्यादि । अत्रा­धि­दै­व­त­म­धि­लो­क­म­धि­वे­द­म­धि­य­ज्ञ­म­धि­भू­त­म­ध्यात्मं च कश्चि­द­न्त­र­व­स्थितो यमयिता अन्तर्यामीति श्रूयते । स किम­धि­दै­वा­द्य­भि­मानी देवतात्मा कश्चित् , किं वा प्राप्ता­णि­मा­द्यै­श्वर्यः कश्चिद्योगी, किं वा परमात्मा, किं वार्थान्तरं किञ्चित् , इत्य­पू­र्व­सं­ज्ञा­द­र्श­ना­त्सं­शयः । किं तावन्नः प्रतिभाति ? संज्ञाया अप्र­सि­द्ध­त्वा­त्सं­ज्ञि­ना­प्य­प्र­सि­द्धे­ना­र्था­न्त­रेण केन­चि­द्भ­वि­त­व्य­मिति । अथवा नानि­रू­पि­त­रू­प­म­र्था­न्तरं शक्य­म­स्त्य­भ्यु­प­ग­न्तुम् । अन्त­र्या­मि­श­ब्द­श्चा­न्त­र्य­म­न­यो­गेन प्रवृत्तो नात्य­न्त­म­प्र­सिद्धः । तस्मा­त्पृ­थि­व्या­द्य­भि­मानी कश्चि­द्दे­वोऽ­न्त­र्यामी स्यात् । तथा च श्रूयते — ‘पृथिव्येव यस्या­य­त­न­म­ग्नि­र्लोको मनो ज्योतिः’(बृ. उ. ३ । ९ । १०) इत्यादि । स च कार्य­क­र­ण­व­त्त्वा­त्पृ­थि­व्या­दी­न­न्त­स्ति­ष्ठ­न्य­म­य­तीति युक्तं देवतात्मनो यमयितृत्वम् । योगिनो वा कस्य­चि­त्सि­द्धस्य सर्वानुप्रवेशेन यमयितृत्वं स्यात् । न तु परमात्मा प्रतीयेत, अकार्यकरणत्वात् — इत्येवं प्राप्ते इदमुच्यते —

योऽन्त­र्या­म्य­धि­दै­वा­दिषु श्रूयते, स परमात्मैव स्यात् , नान्य इति । कुतः ? तद्ध­र्म­व्य­प­दे­शात् । तस्य हि परमात्मनो धर्मा इह निर्दिश्यमाना दृश्यन्ते । पृथिव्यादि ताव­द­धि­दै­वा­दि­भे­द­भिन्नं समस्तं विका­र­जा­त­म­न्त­स्ति­ष्ठ­न्य­म­य­तीति परमात्मनो यमयितृत्वं धर्म उपपद्यते । सर्व­वि­का­र­का­र­णत्वे सति सर्व­श­क्त्यु­प­पत्तेः । ‘एष त आत्मा­न्त­र्या­म्य­मृतः’ इति चात्म­त्वा­मृ­तत्वे मुख्ये परमात्मन उपपद्येते । ‘यं पृथिवी न वेद’ इति च पृथिवीदेवताया अवि­ज्ञे­य­म­न्त­र्या­मिणं ब्रुव­न्दे­व­ता­त्म­नोऽ­न्य­म­न्त­र्या­मिणं दर्शयति । पृथिवी देवता ह्यहमस्मि पृथि­वी­त्या­त्मानं विजानीयात् । तथा ‘अदृ­ष्टोऽ­श्रुतः’ इत्यादिव्यपदेशो रूपा­दि­वि­ही­न­त्वा­त्प­र­मा­त्मन उपपद्यत इति । यत्त्व­का­र्य­क­र­णस्य परमात्मनो यमयितृत्वं नोपपद्यत इति, नैष दोषः; यान्नियच्छति तत्कार्यकरणैरेव तस्य कार्य­क­र­ण­व­त्त्वो­प­पत्तेः । तस्याप्यन्यो निय­न्ते­त्य­न­व­स्था­दो­षश्च न सम्भवति, भेदाभावात् । भेदे हि सत्य­न­व­स्था­दो­षो­प­पत्तिः । तस्मा­त्प­र­मा­त्मै­वा­न्त­र्यामी ॥ १८ ॥

न च स्मार्त­म­त­द्ध­र्मा­भि­ला­पात् ॥ १९ ॥

१९

स्यादेतत् — अदृष्टत्वादयो धर्माः साङ्ख्य­स्मृ­ति­क­ल्पि­तस्य प्रधा­न­स्या­प्यु­प­प­द्यन्ते, रूपादिहीनतया तस्य तैरभ्युपगमात् । ‘अप्र­त­र्क्य­म­वि­ज्ञेयं प्रसुप्तमिव सर्वतः’(मनु. १ । ५) इति हि स्मरन्ति । तस्यापि नियन्तृत्वं सर्व­वि­का­र­का­र­ण­त्वा­दु­प­प­द्यते । तस्मा­त्प्र­धा­न­म­न्त­र्या­मि­शब्दं स्यात् । ‘ईक्ष­ते­र्ना­श­ब्दम्’(ब्र. सू. १ । १ । ५) इत्यत्र निराकृतमपि सत् प्रधा­न­मि­हा­दृ­ष्ट­त्वा­दि­व्य­प­दे­श­स­म्भ­वेन पुनराशङ्क्यते । अत उत्तरमुच्यते — न च स्मार्तं प्रधा­न­म­न्त­र्या­मि­शब्दं भवितुमर्हति । कस्मात् ? अत­द्ध­र्मा­भि­ला­पात् । यद्य­प्य­दृ­ष्ट­त्वा­दि­व्य­प­देशः प्रधानस्य सम्भवति, तथापि न द्रष्टृ­त्वा­दि­व्य­प­देशः सम्भवति, प्रधा­न­स्या­चे­त­न­त्वेन तैरभ्युपगमात् । ‘अदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञातो विज्ञाता’(बृ. उ. ३ । ७ । २३) इति हि वाक्यशेष इह भवति । आत्मत्वमपि न प्रधा­न­स्यो­प­प­द्यते ॥ १९ ॥

यदि प्रधा­न­मा­त्म­त्व­द्र­ष्टृ­त्वा­द्य­स­म्भ­वा­न्ना­न्त­र्या­म्य­भ्यु­प­ग­म्यते, शारी­र­स्त­र्ह्य­न्त­र्यामी भवतु । शारीरो हि चेत­न­त्वा­द्द्रष्टा श्रोता मन्ता विज्ञाता च भवति, आत्मा च प्रत्यक्त्वात् । अमृतश्च, धर्मा­ध­र्म­फ­लो­प­भो­गो­प­पत्तेः । अदृष्टत्वादयश्च धर्माः शारीरे प्रसिद्धाः । दर्श­ना­दि­क्रि­यायाः कर्तरि प्रवृ­त्ति­वि­रो­धात् । ‘न दृष्टे­र्द्र­ष्टारं पश्येः’(बृ. उ. ३ । ४ । २) इत्या­दि­श्रु­ति­भ्यश्च । तस्य च कार्य­क­र­ण­स­ङ्घा­त­म­न्त­र्य­म­यितुं शीलम् , भोक्तृत्वात् । तस्मा­च्छा­री­रोऽ­न्त­र्या­मी­त्यत उत्तरं पठति —

शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥ २० ॥

२०

नेति पूर्व­सू­त्रा­द­नु­व­र्तते । शारीरश्च नान्तर्यामी स्यात् । कस्मात् ? यद्यपि द्रष्टृत्वादयो धर्मास्तस्य सम्भवन्ति, तथापि घटा­का­श­व­दु­पा­धि­प­रि­च्छि­न्न­त्वान्न कार्त्स्न्येन पृथि­व्या­दि­ष्व­न्त­र­व­स्थातुं नियन्तुं च शक्नोति । अपि चोभयेऽपि हि शाखिनः काण्वा माध्य­न्दि­ना­श्चा­न्त­र्या­मिणो भेदेनैनं शारीरं पृथि­व्या­दि­व­द­धि­ष्ठा­न­त्वेन नियम्यत्वेन चाधीयते — ‘यो विज्ञाने तिष्ठन्’(बृ. उ. ३ । ७ । २२) इति काण्वाः । ‘य आत्मनि तिष्ठन्’ इति माध्यन्दिनाः । ‘य आत्मनि तिष्ठन्’ इत्य­स्मिं­स्ता­वत् पाठे भवत्यात्मशब्दः शारीरस्य वाचकः । ‘यो विज्ञाने तिष्ठन्’ इत्यस्मिन्नपि पाठे विज्ञानशब्देन शारीर उच्यते, विज्ञानमयो हि शारीर इति । तस्मा­च्छा­री­रा­दन्य ईश्व­रोऽ­न्त­र्या­मीति सिद्धम् । कथं पुन­रे­क­स्मि­न्देहे द्वौ द्रष्टा­रा­वु­प­प­द्येते यश्चा­य­मी­श्व­रोऽ­न्त­र्यामी, यश्चायमितरः शारीरः ? का पुन­रि­हा­नु­प­पत्तिः ? ‘नान्योऽतोऽस्ति द्रष्टा’ इत्या­दि­श्रु­ति­व­चनं विरुध्येत । अत्र हि प्रकृ­ता­द­न्त­र्या­मि­णोऽन्यं द्रष्टारं श्रोतारं मन्तारं विज्ञातारं चात्मानं प्रतिषेधति । निय­न्त्र­न्त­र­प्र­ति­षे­धा­र्थ­मे­त­द्व­च­न­मिति चेत् , न; निय­न्त्र­न्त­रा­प्र­स­ङ्गा­द­वि­शे­ष­श्र­व­णाच्च । अत्रोच्यते — अवि­द्या­प्र­त्यु­प­स्था­पि­त­का­र्य­क­र­णो­पा­धि­नि­मि­त्तोऽयं शारी­रा­न्त­र्या­मि­णो­र्भे­द­व्य­प­देशः, न पारमार्थिकः । एको हि प्रत्यगात्मा भवति, न द्वौ प्रत्यगात्मानौ सम्भवतः । एकस्यैव तु भेदव्यवहार उपाधिकृतः, यथा घटाकाशो महाकाश इति । ततश्च ज्ञातृ­ज्ञे­या­दि­भे­द­श्रु­तयः प्रत्यक्षादीनि च प्रमाणानि संसारानुभवो विधि­प्र­ति­षे­ध­शास्त्रं चेति सर्व­मे­त­दु­प­प­द्यते । तथा च श्रुतिः — ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ इत्यविद्याविषये सर्वं व्यवहारं दर्शयति । ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्येत्’ इति विद्याविषये सर्वं व्यवहारं वारयति ॥ २० ॥

अदृ­श्य­त्वा­दि­गु­णको धर्मोक्तेः ॥ २१ ॥

२१

‘अथ परा यया तद­क्ष­र­म­धि­ग­म्यते’(मु. उ. १ । १ । ५),‘यत्त­द­द्रे­श्य­म­ग्रा­ह्य­म­गो­त्र­म­व­र्ण­म­च­क्षुः­श्रोत्रं तदपाणिपादम् , नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः’(मु. उ. १ । १ । ६) इति श्रूयते । तत्र संशयः — किम­य­म­दृ­श्य­त्वा­दि­गु­णको भूतयोनिः प्रधानं स्यात् , उत शारीरः, आहो­स्वि­त्प­र­मे­श्वर इति । तत्र प्रधानमचेतनं भूतयोनिरिति युक्तम् , अचेतनानामेव तस्य दृष्टा­न्त­त्वे­नो­पा­दा­नात् । ‘यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरु­षा­त्के­श­लो­मानि तथा­क्ष­रा­त्स­म्भ­व­तीह विश्वम्’(मु. उ. १ । १ । ७) इति । ननूर्णनाभिः पुरुषश्च चेतनाविह दृष्टा­न्त­त्वे­नो­पात्तौ; नेति ब्रूमः । न हि केवलस्य चेतनस्य तत्र सूत्रयोनित्वं केशलोमयोनित्वं चास्ति । चेतनाधिष्ठितं ह्यचे­त­न­मू­र्ण­ना­भि­श­रीरं सूत्रस्य योनिः, पुरुषशरीरं च केशलोम्नामिति प्रसिद्धम् । अपि च पूर्व­त्रा­दृ­ष्ट­त्वा­द्य­भि­ला­प­स­म्भ­वेऽपि द्रष्टृ­त्वा­द्य­भि­ला­पा­स­म्भ­वान्न प्रधा­न­म­भ्यु­प­ग­तम् । इह त्वदृश्यत्वादयो धर्माः प्रधाने सम्भवन्ति । न चात्र विरुध्यमानो धर्मः कश्चिदभिलप्यते । ननु ‘यः सर्वज्ञः सर्ववित्’(मु. उ. १ । १ । ९) इत्ययं वाक्यशेषोऽचेतने प्रधाने न सम्भवति, कथं प्रधानं भूतयोनिः प्रतिज्ञायत इति; अत्रोच्यते — ‘यया तद­क्ष­र­म­धि­ग­म्यते’ ‘यत्त­द­द्रे­श्यम्’ इत्य­क्ष­र­श­ब्दे­ना­दृ­श्य­त्वा­दि­गु­णकं भूतयोनिं श्रावयित्वा, पुनरन्ते श्रावयिष्यति — ‘अक्षरात्परतः परः’(मु. उ. २ । १ । २) इति । तत्र यः परोऽ­क्ष­रा­च्छ्रुतः, स सर्वज्ञः सर्व­वि­त्स­म्भ­वि­ष्यति । प्रधानमेव त्वक्ष­र­श­ब्द­नि­र्दिष्टं भूतयोनिः । यदा तु योनिशब्दो निमित्तवाची, तदा शारीरोऽपि भूतयोनिः स्यात् , धर्माधर्माभ्यां भूत­जा­त­स्यो­पा­र्ज­ना­दिति । एवं प्राप्ते अभिधीयते —

योऽय­म­दृ­श्य­त्वा­दि­गु­णको भूतयोनिः, स परमेश्वर एव स्यात् , नान्य इति । कथमेतदवगम्यते ? धर्मोक्तेः । परमेश्वरस्य हि धर्म इहोच्यमानो दृश्यते — ‘यः सर्वज्ञः सर्ववित्’ इति । न हि प्रधा­न­स्या­चे­त­नस्य शारीरस्य वोपा­धि­प­रि­च्छि­न्न­दृष्टेः सर्वज्ञत्वं सर्ववित्त्वं वा सम्भवति । नन्व­क्ष­र­श­ब्द­नि­र्दि­ष्टा­द्भू­त­योनेः परस्यैव तत्सर्वज्ञत्वं सर्ववित्त्वं च, न भूत­यो­नि­वि­ष­य­मि­त्यु­क्तम्; अत्रोच्यते — नैवं सम्भवति; यत्कारणम् ‘अक्ष­रा­त्स­म्भ­व­तीह विश्वम्’ इति प्रकृतं भूतयोनिमिह जाय­मा­न­प्र­कृ­ति­त्वेन निर्दिश्य, अनन्तरमपि जाय­मा­न­प्र­कृ­ति­त्वे­नैव सर्वज्ञं निर्दिशति — ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मा­दे­त­द्ब्रह्म नाम रूपमन्नं च जायते’ इति । तस्मा­न्नि­र्दे­श­सा­म्येन प्रत्य­भि­ज्ञा­य­मा­न­त्वा­त्प्र­कृ­त­स्यै­वा­क्ष­रस्य भूतयोनेः सर्वज्ञत्वं सर्ववित्त्वं च धर्म उच्यत इति गम्यते । ‘अक्षरात्परतः परः’ इत्यत्रापि न प्रकृ­ता­द्भू­त­यो­ने­र­क्ष­रा­त्परः कश्चिदभिधीयते । कथमेतदवगम्यते ? ‘येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्’(मु. उ. १ । २ । १३) इति प्रकृ­त­स्यै­वा­क्ष­रस्य भूत­यो­ने­र­दृ­श्य­त्वा­दि­गु­ण­कस्य वक्तव्यत्वेन प्रति­ज्ञा­त­त्वात् । कथं तर्हि ‘अक्षरात्परतः परः’ इति व्यपदिश्यत इति ? उत्तरसूत्रे तद्वक्ष्यामः । अपि चात्र द्वे विद्ये वेदितव्ये उक्ते — ‘परा चैवापरा च’ इति । तत्रा­प­रा­मृ­ग्वे­दा­दि­ल­क्षणां विद्यामुक्त्वा ब्रवीति ‘अथ परा यया तद­क्ष­र­म­धि­ग­म्यते’ इत्यादि । तत्र परस्या विद्याया विषयत्वेनाक्षरं श्रुतम् । यदि पुनः पर­मे­श्व­रा­द­न्य­द­दृ­श्य­त्वा­दि­गु­ण­क­म­क्षरं परिकल्प्येत, नेयं परा विद्या स्यात् । परापरविभागो ह्ययं विद्ययोः अभ्यु­द­य­निः­श्रे­य­स­फ­ल­तया परिकल्प्यते । न च प्रधानविद्या निःश्रेयसफला केन­चि­द­भ्यु­प­ग­म्यते । तिस्रश्च विद्याः प्रतिज्ञायेरन्, त्वत्प­क्षेऽ­क्ष­रा­द्भू­त­योनेः परस्य परमात्मनः प्रति­पा­द्य­मा­न­त्वात् । द्वे एव तु विद्ये वेदितव्ये इह निर्दिष्टे । ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’(मु. उ. १ । १ । ३) इति चैकविज्ञानेन सर्व­वि­ज्ञा­ना­पे­क्षणं सर्वात्मके ब्रह्मणि विव­क्ष्य­मा­णेऽ­व­क­ल्पते, नाचे­त­न­मा­त्रै­का­य­तने प्रधाने, भोग्य­व्य­ति­रिक्ते वा भोक्तरि । अपि च ‘स ब्रह्मविद्यां सर्व­वि­द्या­प्र­ति­ष्ठा­म­थ­र्वाय ज्येष्ठपुत्राय प्राह’(मु. उ. १ । १ । १) इति ब्रह्मविद्यां प्राधा­न्ये­नो­प­क्रम्य परापरविभागेन परां विद्या­म­क्ष­रा­धि­ग­मनीं दर्शयन् तस्या ब्रह्म­वि­द्यात्वं दर्शयति । सा च ब्रह्म­वि­द्या­स­माख्या तदधिगम्यस्य अक्ष­र­स्या­ब्र­ह्मत्वे बाधिता स्यात् । अपरा ऋग्वेदादिलक्षणा कर्मविद्या ब्रह्म­वि­द्यो­प­क्रमे उपन्यस्यते ब्रह्म­वि­द्या­प्र­शं­सायै — ‘प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति’(मु. उ. १ । २ । ७) इत्ये­व­मा­दि­नि­न्दा­व­च­नात् । निन्दित्वा चापरां विद्यां ततो विरक्तस्य परविद्याधिकारं दर्शयति — ‘परीक्ष्य लोका­न्क­र्म­चि­ता­न्ब्रा­ह्मणो निर्वे­द­मा­या­न्ना­स्त्य­कृतः कृतेन । तद्विज्ञानार्थं स गुरु­मे­वा­भि­ग­च्छे­त्स­मि­त्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’(मु. उ. १ । २ । १२) इति । यत्तूक्तम् — अचेतनानां पृथिव्यादीनां दृष्टा­न्त­त्वे­नो­पा­दा­ना­द्दा­र्ष्टा­न्ति­के­ना­प्य­चे­त­ने­नैव भूतयोनिना भवितव्यमिति, तदयुक्तम्; न हि दृष्टा­न्त­दा­र्ष्टा­न्ति­क­यो­र­त्य­न्त­सा­म्येन भवितव्यमिति नियमोऽस्ति । अपि च स्थूलाः पृथिव्यादयो दृष्टा­न्त­त्वे­नो­पात्ता इति न स्थूल एव दार्ष्टान्तिको भूत­यो­नि­र­भ्यु­प­ग­म्यते । तस्मा­द­दृ­श्य­त्वा­दि­गु­णको भूतयोनिः परमेश्वर एव ॥ २१ ॥

विशे­ष­ण­भे­द­व्य­प­दे­शाभ्यां च नेतरौ ॥ २२ ॥

२२

इतश्च परमेश्वर एव भूतयोनिः, नेतरौ — शारीरः प्रधानं वा । कस्मात् ? विशे­ष­ण­भे­द­व्य­प­दे­शा­भ्याम् । विशिनष्टि हि प्रकृतं भूतयोनिं शारी­रा­द्वि­ल­क्ष­ण­त्वेन — ‘दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रः’(मु. उ. २ । १ । २) इति । न ह्येत­द्दि­व्य­त्वा­दि­वि­शे­ष­णम् अवि­द्या­प्र­त्यु­प­स्था­पि­त­ना­म­रू­प­प­रि­च्छे­दा­भि­मा­निनः तद्ध­र्मा­न्स्वा­त्मनि कल्पयतः शारी­र­स्यो­प­प­द्यते । तस्मा­त्सा­क्षा­दौ­प­नि­षदः पुरुष इहोच्यते । तथा प्रधानादपि प्रकृतं भूतयोनिं भेदेन व्यपदिशति — ‘अक्षरात्परतः परः’ इति । अक्षरमव्याकृतं नाम­रू­प­बी­ज­श­क्ति­रूपं भूत­सू­क्ष्म­मी­श्व­रा­श्रयं तस्यै­वो­पा­धि­भू­तम् , सर्व­स्मा­द्वि­का­रा­त्परो योऽविकारः, तस्मात्परतः परः इति भेदेन व्यपदिशन् परमात्मानमिह विवक्षितं दर्शयति । नात्र प्रधानं नाम किञ्चि­त्स्व­तन्त्रं तत्त्व­म­भ्यु­प­गम्य, तस्मा­द्भे­द­व्य­प­देश उच्यते । किं तर्हि ? यदि प्रधानमपि कल्प्यमानं श्रुत्य­वि­रो­धे­ना­व्या­कृ­ता­दि­श­ब्द­वाच्यं भूतसूक्ष्मं परिकल्प्येत, परिकल्प्यताम् । तस्मा­द्भे­द­व्य­प­दे­शात् परमेश्वरो भूत­यो­नि­रि­त्ये­त­दिह प्रतिपाद्यते ॥ २२ ॥

कुतश्च परमेश्वरो भूतयोनिः ? —

रूपोपन्यासाच्च ॥ २३ ॥

२३

अपि च ‘अक्षरात्परतः परः’ इत्यस्यानन्तरम् ‘एतस्माज्जायते प्राणः’ इति प्राणप्रभृतीनां पृथि­वी­प­र्य­न्तानां तत्त्वानां सर्गमुक्त्वा, तस्यैव भूतयोनेः सर्वविकारात्मकं रूप­मु­प­न्य­स्य­मानं पश्यामः — ‘अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्व­भू­ता­न्त­रात्मा’(मु. उ. २ । १ । ४) इति । तच्च पर­मे­श्व­र­स्यै­वो­चि­तम् , सर्व­वि­का­र­का­र­ण­त्वात् । न शारीरस्य तनुमहिम्नः; नापि प्रधानस्य अयं रूपोपन्यासः सम्भवति, सर्व­भू­ता­न्त­रा­त्म­त्वा­स­म्भ­वात् । तस्मात्परमेश्वर एव भूतयोनिः, नेतराविति गम्यते । कथं पुनर्भूतयोनेरयं रूपोपन्यास इति गम्यते ? प्रकरणात् , ‘एषः’ इति च प्रकृ­ता­नु­क­र्ष­णात् । भूतयोनिं हि प्रकृत्य ‘एतस्माज्जायते प्राणः’ ‘एष सर्व­भू­ता­न्त­रात्मा’ इति वचनं भूतयोनिविषयमेव भवति । यथा उपाध्यायं प्रकृत्य ‘एतस्मादधीष्व, एष वेद­वे­दा­ङ्ग­पा­रगः’ इति वच­न­मु­पा­ध्या­य­वि­षयं भवति, तद्वत् । कथं पुन­र­दृ­श्य­त्वा­दि­गु­ण­कस्य भूत­यो­ने­र्वि­ग्र­ह­व­द्रूपं सम्भवति ? सर्वा­त्म­त्व­वि­व­क्ष­ये­द­मु­च्यते, न तु विग्र­ह­व­त्त्व­वि­व­क्षया इत्यदोषः, ‘अहमन्नम्’ ‘अहमन्नादः’(तै. उ. ३ । १० । ६) इत्यादिवत् ॥

अन्ये पुनर्मन्यन्ते — नायं भूतयोनेः रूपोपन्यासः, जाय­मा­न­त्वे­नो­प­न्या­सात् । ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायु­र्ज्यो­ति­रापः पृथिवी विश्वस्य धारिणी’ इति हि पूर्वत्र प्राणादि पृथिव्यन्तं तत्त्वजातं जायमानत्वेन निरदिक्षत् । उत्तरत्रापि च ‘तस्मादग्निः समिधो यस्य सूर्यः’ इत्येवमादि ‘अतश्च सर्वा ओषधयो रसश्च’ इत्येवमन्तं जायमानत्वेनैव निर्देक्ष्यति । इहैव कथ­म­क­स्मा­द­न्त­राले भूतयोनेः रूपमुपन्यसेत् ? सर्वात्मत्वमपि सृष्टिं परि­स­मा­प्यो­प­दे­क्ष्यति — ‘पुरुष एवेदं विश्वं कर्म’(मु. उ. २ । १ । १०) इत्यादिना । श्रुति­स्मृ­त्योश्च त्रैलो­क्य­श­री­रस्य प्रजा­प­ते­र्ज­न्मादि निर्दि­श्य­मा­न­मु­प­ल­भा­महे — ‘हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम’(ऋ. सं. १० । १२१ । १) इति; समवर्ततेति अजायतेत्यर्थः — तथा, ‘स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत’ इति च । विका­र­पु­रु­ष­स्यापि सर्व­भू­ता­न्त­रा­त्मत्वं सम्भवति, प्राणात्मना सर्व­भू­ता­ना­म­ध्या­त्म­म­व­स्था­नात् । अस्मिन्पक्षे ‘पुरुष एवेदं विश्वं कर्म’ इत्या­दि­स­र्व­रू­पो­प­न्यासः पर­मे­श्व­र­प्र­ति­प­त्ति­हे­तु­रिति व्याख्येयम् ॥ २३ ॥

वैश्वानरः साधा­र­ण­श­ब्द­वि­शे­षात् ॥ २४ ॥

२४

‘को न आत्मा किं ब्रह्म’(छा. उ. ५ । ११ । १) इति ‘आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि’(छा. उ. ५ । ११ । ६) इति चोपक्रम्य द्युसू­र्य­वा­य्वा­का­श­वा­रि­पृ­थि­वीनां सुते­ज­स्त्वा­दि­गु­ण­यो­ग­मे­कै­को­पा­स­न­नि­न्दया च वैश्वानरं प्रत्येषां मूर्धा­दि­भा­व­मु­प­दि­श्या­म्ना­यते — ‘यस्त्वेतमेवं प्रादे­श­मा­त्र­म­भि­वि­मा­न­मा­त्मानं वैश्वा­न­र­मु­पास्ते, स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वे­ष्वा­त्म­स्व­न्न­मत्ति;’(छा. उ. ५ । १८ । १) , ‘तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुते­जा­श्च­क्षु­र्वि­श्व­रूपः प्राणः पृथ­ग्व­र्त्मात्मा सन्देहो बहुलो वस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽ­न्वा­हा­र्य­प­चन आस्यमाहवनीयः’(छा. उ. ५ । १८ । २) इत्यादि । तत्र संशयः — किं वैश्वानरशब्देन जाठ­रोऽ­ग्नि­रु­प­दि­श्यते, उत भूताग्निः, अथ तदभिमानिनी देवता, अथवा शारीरः, आहो­स्वि­त्प­र­मे­श्वरः इति । किं पुनरत्र संशयकारणम् ? वैश्वानर इति जाठ­र­भू­ता­ग्नि­दे­व­तानां साधा­र­ण­श­ब्द­प्र­यो­गात् , आत्मेति च शारी­र­प­र­मे­श्व­रयोः । तत्र कस्योपादानं न्याय्यं कस्य वा हानमिति भवति संशयः । किं तावत्प्राप्तम् ? जाठरोऽग्निरिति । कुतः ? तत्र हि विशेषेण क्वचित्प्रयोगो दृश्यते — ‘अय­म­ग्नि­र्वै­श्वा­नरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते’(बृ. उ. ५ । ९ । १) इत्यादौ । अग्निमात्रं वा स्यात् , सामान्येनापि प्रयोगदर्शनात् — ‘विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतु­म­ह्ना­म­कृ­ण्वन्’(ऋ. सं. १० । ८८ । १२) इत्यादौ । अग्निशरीरा वा देवता स्यात् , तस्यामपि प्रयोगदर्शनात् — ‘वैश्वानरस्य सुमतौ स्याम राजा हि कं भुव­ना­ना­म­भिश्रीः’(ऋ. सं. १ । ९८ । १) इत्येवमाद्यायाः श्रुते­र्दे­व­ता­या­मै­श्व­र्या­द्यु­पे­तायां सम्भवात् । अथा­त्म­श­ब्द­सा­मा­ना­धि­क­र­ण्या­दु­प­क्रमे च ‘को न आत्मा किं ब्रह्म’ इति केव­ला­त्म­श­ब्द­प्र­यो­गा­दा­त्म­श­ब्द­व­शेन वैश्वानरशब्दः परिणेय इत्युच्यते, तथापि शारीर आत्मा स्यात् । तस्य भोक्तृत्वेन वैश्वा­न­र­स­न्नि­क­र्षात् , प्रादे­श­मा­त्र­मिति च विशेषणस्य तस्मि­न्नु­पा­धि­प­रि­च्छिन्ने सम्भवात् । तस्मान्नेश्वरो वैश्वानर इत्येवं प्राप्ते ततः

इदमुच्यते — वैश्वानरः परमात्मा भवितुमर्हति । कुतः ? साधा­र­ण­श­ब्द­वि­शे­षात् । साधा­र­ण­श­ब्द­यो­र्वि­शेषः साधा­र­ण­श­ब्द­वि­शेषः । यद्य­प्ये­ता­वु­भा­व­प्या­त्म­वै­श्वा­न­र­शब्दौ साधारणशब्दौ — वैश्वा­न­र­श­ब्दस्तु त्रयस्य साधारणः, आत्मशब्दश्च द्वयस्य, तथापि विशेषो दृश्यते, येन परमेश्वरपरत्वं तयोरभ्युपगम्यते — ‘तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः’ इत्यादिः । अत्र हि परमेश्वर एव द्युमू­र्ध­त्वा­दि­वि­शि­ष्टोऽ­व­स्था­न्त­र­गतः प्रत्य­गा­त्म­त्वे­नो­प­न्यस्त आध्यानायेति गम्यते, कारणत्वात् । कारणस्य हि सर्वाभिः कार्य­ग­ता­भि­र­व­स्था­भि­र­व­स्था­व­त्त्वात् द्युलो­का­द्य­व­य­व­त्व­मु­प­प­द्यते । ‘स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वे­ष्वा­त्म­स्व­न्न­मत्ति’ इति च सर्व­लो­का­द्या­श्रयं फलं श्रूयमाणं परमकारणपरिग्रहे सम्भवति, ‘एवं हास्य सर्वे पाप्मानः प्रदूयन्ते’(छा. उ. ५ । २४ । ३) इति च तद्विदः सर्व­पा­प्म­प्र­दा­ह­श्र­व­णम् , ‘को न आत्मा किं ब्रह्म’ इति चात्म­ब्र­ह्म­श­ब्दा­भ्या­मु­प­क्रमः; — इत्येवमेतानि लिङ्गानि परमेश्वरमेव गमयन्ति । तस्मात्परमेश्वर एव वैश्वानरः ॥ २४ ॥

स्मर्य­मा­ण­म­नु­मानं स्यादिति ॥ २५ ॥

२५

इतश्च परमेश्वर एव वैश्वानरः; यस्मा­त्प­र­मे­श्व­र­स्यैव ‘अग्निरास्यं द्यौर्मूर्धा’ इतीदृशं त्रैलोक्यात्मकं रूपं स्मर्यते — ‘यस्या­ग्नि­रास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः । सूर्य­श्च­क्षु­र्दिशः श्रोत्रं तस्मै लोकात्मने नमः’ इति । एतत्स्मर्यमाणं रूपं मूलभूतां श्रुति­म­नु­मा­प­य­दस्य वैश्वानरशब्दस्य परमेश्वरपरत्वे अनुमानं लिङ्गं गमकं स्यादित्यर्थः । इतिशब्दो हेत्वर्थे — यस्मादिदं गमकम् , तस्मादपि वैश्वानरः पर­मा­त्मै­वे­त्यर्थः । यद्यपि स्तुतिरियम् — ‘तस्मै लोकात्मने नमः’ इति, तथापि स्तुतित्वमपि नासति मूलभूते वेदवाक्ये सम्यक् ईदृशेन रूपेण सम्भवति । ‘द्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे । दिशः श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता’ इत्येवंजातीयका च स्मृति­रि­हो­दा­ह­र्तव्या ॥ २५ ॥

शब्दा­दि­भ्योऽ­न्तः­प्र­ति­ष्ठा­नाच्च नेति चेन्न तथा­दृ­ष्ट्यु­प­दे­शा­द­स­म्भ­वा­त्पु­रु­ष­मपि चैनमधीयते ॥ २६॥

२६

अत्राह — न परमेश्वरो वैश्वानरो भवितुमर्हति । कुतः ? शब्दा­दि­भ्योऽ­न्तः­प्र­ति­ष्ठा­नाच्च । शब्दस्तावत् — वैश्वानरशब्दो न परमेश्वरे सम्भवति, अर्थान्तरे रूढत्वात् । तथाग्निशब्दः ‘स एषोऽ­ग्नि­र्वै­श्वा­नरः’ इति । आदिशब्दात् ‘हृदयं गार्हपत्यः’(छा. उ. ५ । १८ । २) इत्या­द्य­ग्नि­त्रे­ता­प्र­क­ल्प­नम्; ‘तद्यद्भक्तं प्रथ­म­मा­ग­च्छे­त्त­द्धो­मी­यम्’(छा. उ. ५ । १९ । १) इत्यादिना च प्राणा­हु­त्य­धि­क­र­ण­ता­स­ङ्की­र्त­नम् । एतेभ्यो हेतुभ्यो जाठरो वैश्वानरः प्रत्येतव्यः । तथा­न्तः­प्र­ति­ष्ठा­न­मपि श्रूयते — ‘पुरुषेऽन्तः प्रतिष्ठितं वेद’ इति । तच्च जाठरे सम्भवति । यदप्युक्तम् ‘मूर्धैव सुतेजाः’ इत्या­दे­र्वि­शे­षा­त्का­र­णा­त्प­र­मात्मा वैश्वानर इति, अत्र ब्रूमः — कुतो ह्येष निर्णयः, यदुभयथापि विशेषप्रतिभाने सति परमेश्वरविषय एव विशेष आश्रयणीयो न जाठरविषय इति । अथवा भूता­ग्ने­र­न्त­र्ब­हि­श्चा­व­ति­ष्ठ­मा­न­स्यैष निर्देशो भविष्यति । तस्यापि हि द्युलो­का­दि­स­म्बन्धो मन्त्र­व­र्णा­द­व­ग­म्यते — ‘यो भानुना पृथिवीं द्यामु­ते­मा­मा­त­तान रोदसी अन्तरिक्षम्’(ऋ. सं. १० । ८८ । ४) इत्यादौ । अथवा तच्छरीराया देवताया ऐश्वर्ययोगात् द्युलो­का­द्य­व­य­वत्वं भविष्यति । तस्मान्न परमेश्वरो वैश्वानर इति ॥

अत्रोच्यते — न तथा­दृ­ष्ट्यु­प­दे­शा­दिति । न शब्दादिभ्यः कारणेभ्यः परमेश्वरस्य प्रत्याख्यानं युक्तम् । कुतः ? तथा जाठ­रा­प­रि­त्या­गेन, दृष्ट्युपदेशात् । पर­मे­श्व­र­दृ­ष्टिर्हि जाठरे वैश्वानरे इहोपदिश्यते — ‘मनो ब्रह्मे­त्यु­पा­सीत’(छा. उ. ३ । १८ । १) इत्यादिवत् । अथवा जाठ­र­वै­श्वा­न­रो­पाधिः परमेश्वर इह द्रष्ट­व्य­त्वे­नो­प­दि­श्यते — ‘मनोमयः प्राणशरीरो भारूपः’(छा. उ. ३ । १४ । २) इत्यादिवत् । यदि चेह परमेश्वरो न विवक्ष्येत, केवल एव जाठ­रोऽ­ग्नि­र्वि­व­क्ष्येत, ततः ‘मूर्धैव सुतेजाः’ इत्या­दे­र्वि­शे­ष­स्या­स­म्भव एव स्यात् । यथा तु देव­ता­भू­ता­ग्नि­व्य­पा­श्र­ये­णा­प्ययं विशेष उपपादयितुं न शक्यते, तथोत्तरसूत्रे वक्ष्यामः । यदि च केवल एव जाठरो विवक्ष्येत, पुरु­षेऽ­न्तः­प्र­ति­ष्ठि­तत्वं केवलं तस्य स्यात् । न तु पुरुषत्वम् । पुरुषमपि चैनमधीयते वाजसनेयिनः — ‘स एषोऽ­ग्नि­र्वै­श्वा­नरो यत्पुरुषः स यो हैतमेवमग्निं वैश्वानरं पुरुषं पुरुषेऽन्तः प्रतिष्ठितं वेद’(श. ब्रा. १० । ६ । १ । ११) इति । परमेश्वरस्य तु सर्वा­त्म­त्वा­त्पु­रु­षत्वं पुरु­षेऽ­न्तः­प्र­ति­ष्ठि­तत्वं चोभयमुपपद्यते । ये तु ‘पुरुषविधमपि चैनमधीयते’ इति सूत्रावयवं पठन्ति, तेषामेषोऽर्थः — केव­ल­जा­ठ­र­प­रि­ग्रहे पुरु­षेऽ­न्तः­प्र­ति­ष्ठि­तत्वं केवलं स्यात् । न तु पुरुषविधत्वम् । पुरुषविधमपि चैनमधीयते वाजसनेयिनः — ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ इति । पुरुषविधत्वं च प्रकरणात् यदधिदैवतं द्युमूर्धत्वादि पृथि­वी­प्र­ति­ष्ठि­त­त्वा­न्तम् , यच्चाध्यात्मं प्रसिद्धं मूर्धत्वादि चुबु­क­प्र­ति­ष्ठि­त­त्वा­न्तम् , तत्परिगृह्यते ॥ २६ ॥

अत एव न देवता भूतं च ॥ २७ ॥

२७

यत्पुनरुक्तम् — भूताग्नेरपि मन्त्रवर्णे द्युलो­का­दि­स­म्ब­न्ध­द­र्श­नात् ‘मूर्धैव सुतेजाः’ इत्या­द्य­व­य­व­क­ल्पनं तस्यैव भविष्यतीति, तच्छरीराया देवताया वा ऐश्व­र्य­यो­गा­दिति; तत्परिहर्तव्यम् । अत्रोच्यते — अत एवोक्तेभ्यो हेतुभ्यो न देवता वैश्वानरः । तथा भूताग्निरपि न वैश्वानरः । न हि भूता­ग्ने­रौ­ष्ण्य­प्र­का­श­मा­त्रा­त्म­कस्य द्युमू­र्ध­त्वा­दि­क­ल्प­नो­प­प­द्यते, विकारस्य विका­रा­न्त­रा­त्म­त्वा­स­म्भ­वात् । तथा देवतायाः सत्य­प्यै­श्व­र्य­योगे न द्युमू­र्ध­त्वा­दि­क­ल्पना सम्भवति, अकारणत्वात् पर­मे­श्व­रा­धी­नै­श्व­र्य­त्वाच्च । आत्म­श­ब्दा­स­म्भ­वश्च सर्वेष्वेषु पक्षेषु स्थित एव ॥ २७ ॥

साक्षा­द­प्य­वि­रोधं जैमिनिः ॥ २८ ॥

२८

पूर्वं जाठ­रा­ग्नि­प्र­तीको जाठ­रा­ग्न्यु­पा­धिको वा परमेश्वर उपास्य इत्युक्तम् अन्तः­प्र­ति­ष्ठि­त­त्वा­द्य­नु­रो­धेन । इदानीं तु विनैव प्रती­को­पा­धि­क­ल्प­नाभ्यां साक्षादपि पर­मे­श्व­रो­पा­स­न­प­रि­ग्रहे न कश्चिद्विरोध इति जैमिनिराचार्यो मन्यते । ननु जाठ­रा­ग्न्य­प­रि­ग्र­हेऽ­न्तः­प्र­ति­ष्ठि­त­त्व­व­चनं शब्दादीनि च कारणानि विरुध्येरन्निति । अत्रोच्यते — अन्तः­प्र­ति­ष्ठि­त­त्व­व­चनं तावन्न विरुध्यते । न हीह ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ इति जाठ­रा­ग्न्य­भि­प्रा­ये­णे­द­मु­च्यते, तस्या­प्र­कृ­त­त्वा­द­सं­श­ब्दि­त­त्वाच्च । कथं तर्हि ? यत्प्रकृतं मूर्धा­दि­चु­बु­का­न्तेषु पुरुषावयवेषु पुरुषविधत्वं कल्पितम् , तद­भि­प्रा­ये­णे­द­मु­च्यते — ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ इति । यथा वृक्षे शाखां प्रतिष्ठितां पश्यतीति, तद्वत् । अथवा यः प्रकृतः परमात्मा अध्या­त्म­म­धि­दै­वतं च पुरु­ष­वि­ध­त्वो­पाधिः, तस्य यत्केवलं साक्षिरूपम् , तद­भि­प्रा­ये­णे­द­मु­च्यते — ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ इति । निश्चिते च पूर्वा­प­रा­लो­च­न­व­शेन पर­मा­त्म­प­रि­ग्रहे, तद्विषय एव वैश्वानरशब्दः केनचिद्योगेन वर्तिष्यते — विश्वश्चायं नरश्चेति, विश्वेषां वायं नरः, विश्वे वा नरा अस्येति विश्वानरः परमात्मा, सर्वात्मत्वात् , विश्वानर एव वैश्वानरः । तद्धि­तोऽ­न­न्यार्थः, राक्ष­स­वा­य­सा­दि­वत् । अग्नि­श­ब्दोऽ­प्य­ग्र­णी­त्वा­दि­यो­गा­श्र­य­णेन परमात्मविषय एव भविष्यति । गार्ह­प­त्या­दि­क­ल्पनं प्राणा­हु­त्य­धि­क­र­णत्वं च परमात्मनोऽपि सर्वा­त्म­त्वा­दु­प­प­द्यते ॥ २८ ॥

कथं पुनः पर­मे­श्व­र­प­रि­ग्रहे प्रादे­श­मा­त्र­श्रु­ति­रु­प­प­द्यत इति, तां व्याख्यातु मारभते —

अभि­व्य­क्ते­रि­त्या­श्म­रथ्यः ॥ २९ ॥

२९

अतिमात्रस्यापि परमेश्वरस्य प्रादे­श­मा­त्र­त्व­म­भि­व्य­क्ति­नि­मित्तं स्यात् । अभिव्यज्यते किल प्रादे­श­मा­त्र­प­रि­माणः परमेश्वर उपासकानां कृते । प्रदेशविशेषेषु वा हृद­या­दि­षू­प­ल­ब्धि­स्था­नेषु विशे­षे­णा­भि­व्य­ज्यते । अतः परमेश्वरेऽपि प्रादे­श­मा­त्र­श्रु­ति­र­भि­व्य­क्ते­रु­प­प­द्यत इत्याश्मरथ्य आचार्यो मन्यते ॥ २९ ॥

अनु­स्मृ­ते­र्बा­दरिः ॥ ३० ॥

३०

प्रादे­श­मा­त्र­हृ­द­य­प्र­ति­ष्ठेन वायं मनसानुस्मर्यते । तेन ‘प्रादेशमात्रः’ इत्युच्यते । यथा प्रस्थमिता यवाः प्रस्था इत्युच्यन्ते, तद्वत् । यद्यपि च यवेषु स्वगतमेव परिमाणं प्रस्थ­स­म्ब­न्धा­द्व्य­ज्यते, न चेह परमेश्वरगतं किञ्चि­त्प­रि­मा­ण­मस्ति, यद्धृ­द­य­स­म्ब­न्धा­द्व्य­ज्येत; तथापि प्रयुक्तायाः प्रादे­श­मा­त्र­श्रुतेः सम्भवति यथा­क­थ­ञ्चि­द­नु­स्म­र­ण­मा­ल­म्ब­न­मि­त्यु­च्यते । प्रादे­श­मा­त्र­त्वेन वाय­म­प्रा­दे­श­मा­त्रोऽ­प्य­नु­स्म­र­णीयः प्रादे­श­मा­त्र­श्रु­त्य­र्थ­व­त्तायै । एव­म­नु­स्मृ­ति­नि­मित्ता परमेश्वरे प्रादे­श­मा­त्र­श्रु­ति­रिति बादरिराचार्यो मन्यते ॥ ३० ॥

सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ३१ ॥

३१

सम्प­त्ति­नि­मित्ता वा स्यात्प्रा­दे­श­मा­त्र­श्रुतिः । कुतः ? तथाहि समानप्रकरणं वाज­स­ने­यि­ब्रा­ह्मणं द्युप्र­भृ­ती­न्पृ­थि­वी­प­र्य­न्तां­स्त्रै­लो­क्या­त्मनो वैश्वा­न­र­स्या­व­य­वा­न­ध्या­त्म­मू­र्ध­प्र­भृ­तिषु चुबुकपर्यन्तेषु देहावयवेषु सम्पा­द­य­त्प्रा­दे­श­मा­त्र­स­म्पत्तिं परमेश्वरस्य दर्शयति — ‘प्रादे­श­मा­त्र­मिव ह वै देवाः सुविदिता अभि­स­म्प­न्ना­स्तथा नु व एतान्वक्ष्यामि यथा प्रादे­श­मा­त्र­मे­वा­भि­स­म्पा­द­यि­ष्या­मीति । स होवाच मूर्धा­न­मु­प­दि­श­न्नु­वा­चैष वा अतिष्ठा वैश्वानर इति । चक्षुषी उपदिशन्नुवाचैष वै सुतेजा वैश्वानर इति । नासिके उपदिशन्नुवाचैष वै पृथ­ग्व­र्त्मात्मा वैश्वानर इति । मुख्य­मा­का­श­मु­प­दि­श­न्नु­वा­चैष वै बहुलो वैश्वानर इति । मुख्या अप उपदिशन्नुवाचैष वै रयिर्वैश्वानर इति । चुबु­क­मु­प­दि­श­न्नु­वा­चैष वै प्रतिष्ठा वैश्वानरः’ इति । चुबुकमित्यधरं मुखफलकमुच्यते । यद्यपि वाजसनेयके द्यौर­ति­ष्ठा­त्व­गुणा समाम्नायते, आदित्यश्च सुतेजस्त्वगुणः, छान्दोग्ये पुनः द्यौः सुतेजस्त्वगुणा समाम्नायते, आदित्यश्च विश्व­रू­प­त्व­गुणः; तथापि नैतावता विशेषेण किञ्चिद्धीयते, प्रादे­श­मा­त्र­श्रु­ते­र­वि­शे­षात् , सर्व­शा­खा­प्र­त्य­य­त्वाच्च । सम्प­त्ति­नि­मित्तां प्रादे­श­मा­त्र­श्रुतिं युक्ततरां जैमिनिराचार्यो मन्यते ॥ ३१ ॥

आमनन्ति चैनमस्मिन् ॥ ३२ ॥

३२

आमनन्ति चैनं पर­मे­श्व­र­म­स्मि­न्मू­र्ध­चु­बु­का­न्त­राले जाबालाः — ‘य एषोऽ­न­न्तोऽ­व्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मि­न्प्र­ति­ष्ठित इति । वरणायां नास्यां च मध्ये प्रतिष्ठित इति । का वै वरणा का च नासीति’ । तत्र चेमामेव नासिकाम् ‘सर्वा­णी­न्द्रि­य­कृ­तानि पापानि वारयतीति सा वरणा, सर्वा­णी­न्द्रि­य­कृ­तानि पापानि नाशयतीति सा नासी’ इति वरणानासीति निरुच्य, पुनरप्यामनन्ति — ‘कतमच्चास्य स्थानं भवतीति । भ्रुवो­र्घ्रा­णस्य च यः सन्धिः स एष द्युलोकस्य परस्य च सन्धिर्भवति’(जा. उ. २) इति । तस्मादुपपन्ना परमेश्वरे प्रादे­श­मा­त्र­श्रुतिः । अभिविमानश्रुतिः प्रत्य­गा­त्म­त्वा­भि­प्राया । प्रत्यगात्मतया सर्वैः प्राणि­भि­र­भि­वि­मी­यत इत्यभिविमानः । अभिगतो वायं प्रत्य­गा­त्म­त्वात् , विमानश्च मानवियोगात् इत्यभिविमानः । अभिविमिमीते वा सर्वं जगत् , कार­ण­त्वा­दि­त्य­भि­वि­मानः । तस्मा­त्प­र­मे­श्वरो वैश्वानर इति सिद्धम् ॥ ३२ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ शारी­र­क­मी­मां­सा­सू­त्र­भाष्ये प्रथमाध्यायस्य द्वितीयः पादः ॥

तृतीयः पादः

द्युभ्वा­द्या­य­तनं स्वशब्दात् ॥ १ ॥

इदं श्रूयते — ‘यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथ आत्मानमन्या वाचो विमु­ञ्च­था­मृ­त­स्यैष सेतुः’(मु. उ. २ । २ । ५) इति । अत्र यदे­त­द्द्यु­प्र­भृ­ती­ना­मो­त­त्व­व­च­ना­दा­य­तनं किञ्चिदवगम्यते, तत्किं परं ब्रह्म स्यात् , आहो­स्वि­द­र्था­न्त­र­मिति सन्दिह्यते । तत्रार्थान्तरं किमप्यायतनं स्यादिति प्राप्तम् । कस्मात् ? ‘अमृतस्यैष सेतुः’ इति श्रवणात् । पारवान्हि लोके सेतुः प्रख्यातः । न च परस्य ब्रह्मणः पारवत्त्वं शक्य­म­भ्यु­प­ग­न्तुम्, ‘अनन्तमपारम्’(बृ. उ. २ । ४ । १२) इति श्रवणात् । अर्थान्तरे चायतने परिगृह्यमाणे स्मृतिप्रसिद्धं प्रधानं परिग्रहीतव्यम् , तस्य कार­ण­त्वा­दा­य­त­न­त्वो­प­पत्तेः । श्रुतिप्रसिद्धो वा वायुः स्यात्; ‘वायुर्वाव गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति’(बृ. उ. ३ । ७ । २) इति वायोरपि विधा­र­ण­त्व­श्र­व­णात् । शारीरो वा स्यात्; — तस्यापि भोक्तृत्वात् , भोग्यं प्रपञ्चं प्रत्या­य­त­न­त्वो­प­पत्तेः इत्येवं प्राप्ते इदमाह —

द्युभ्वा­द्या­य­त­न­मिति । द्यौश्च भूश्च द्युभुवौ, द्युभुवौ आदी यस्य तदिदं द्युभ्वादि । यदे­त­द­स्मि­न्वाक्ये द्यौः पृथि­व्य­न्त­रिक्षं मनः प्राणा इत्येवमात्मकं जगत् ओतत्वेन निर्दिष्टम् , तस्यायतनं परं ब्रह्म भवितुमर्हति । कुतः ? स्वशब्दात् आत्म­श­ब्दा­दि­त्यर्थः । आत्मशब्दो हीह भवति — ‘तमेवैकं जानथ आत्मानम्’ इति । आत्मशब्दश्च परमात्मपरिग्रहे सम्यगवकल्पते, नार्था­न्त­र­प­रि­ग्रहे । क्वचिच्च स्वशब्देनैव ब्रह्मण आयतनत्वं श्रूयते — ‘सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः’(छा. उ. ६ । ८ । ४) इति । स्वशब्देनैव चेह पुर­स्ता­दु­प­रि­ष्टाच्च ब्रह्म सङ्कीर्त्यते — ‘पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्’ इति, ‘ब्रह्मै­वे­द­म­मृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षि­ण­त­श्चो­त्त­रेण’(मु. उ. २ । २ । १२) इति च । तत्र त्वाय­त­ना­य­त­न­व­द्भा­व­श्र­व­णात् सर्वं ब्रह्मेति च सामा­ना­धि­क­र­ण्यात् , यथानेकात्मको वृक्षः शाखा स्कन्धो मूलं चेति, एवं नानारसो विचित्र आत्मेत्याशङ्का सम्भवति । तां निवर्तयितुं सावधारणमाह — ‘तमेवैकं जानथ आत्मानम्’ इति । एतदुक्तं भवति — न कार्य­प्र­प­ञ्च­वि­शिष्टो विचित्र आत्मा विज्ञेयः । किं तर्हि ? अविद्याकृतं कार्यप्रपञ्चं विद्यया प्रविलापयन्तः तमे­वै­क­मा­य­त­न­भू­त­मा­त्मानं जानथ एकरसमिति । यथा ‘यस्मिन्नास्ते देवदत्तस्तदानय’ इत्युक्ते आसनमेवानयति, न देवदत्तम् । तद्व­दा­य­त­न­भू­त­स्यै­वै­क­र­स­स्या­त्मनो विज्ञे­य­त्व­मु­प­दि­श्यते । विका­रा­नृ­ता­भि­स­न्धस्य चापवादः श्रूयते — ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’(क. उ. २ । १ । १०) इति । ‘सर्वं ब्रह्म’ इति तु सामानाधिकरण्यं प्रप­ञ्च­प्र­वि­ला­प­ना­र्थम् , न अने­क­र­स­ता­प्र­ति­पा­द­ना­र्थम् , ‘स यथा सैन्ध­व­घ­नोऽ­न­न्त­रोऽ­बाह्यः कृत्स्नो रसघन एवैवं वा अरेऽ­य­मा­त्मा­न­न्त­रोऽ­बाह्यः कृत्स्नः प्रज्ञानघन एव’(बृ. उ. ४ । ५ । १३) इत्ये­क­र­स­ता­श्र­व­णात् । तस्मा­द्द्यु­भ्वा­द्या­य­तनं परं ब्रह्म । यत्तूक्तम् — सेतुश्रुतेः, सेतोश्च पार­व­त्त्वो­प­पत्तेः, ब्रह्म­णोऽ­र्था­न्त­रेण द्युभ्वा­द्या­य­त­नेन भवितव्यमिति, अत्रोच्यते — विधा­र­ण­त्व­मा­त्र­मत्र सेतुश्रुत्या विवक्ष्यते, न पारवत्त्वादि । न हि मृद्दारुमयो लोके सेतुर्दृष्ट इत्यत्रापि मृद्दारुमय एव सेतु­र­भ्यु­प­ग­म्यते । सेतु­श­ब्दा­र्थोऽपि विधा­र­ण­त्व­मा­त्र­मेव, न पारवत्त्वादि, षिञो बन्धनकर्मणः सेतु­श­ब्द­व्यु­त्पत्तेः । अपर आह — ‘तमेवैकं जानथ आत्मानम्’ इति यदे­त­त्स­ङ्की­र्ति­त­मा­त्म­ज्ञा­नम् , यच्चैतत् ‘अन्या वाचो विमुञ्चथ’ इति वाग्विमोचनम् , तत् अत्र अमृ­त­त्व­सा­ध­न­त्वात् , ‘अमृतस्यैष सेतुः’ इति सेतुश्रुत्या सङ्कीर्त्यते । न तु द्युभ्वा­द्या­य­त­नम् । तत्र यदुक्तम् — सेतु­श्रु­ते­र्ब्र­ह्म­णोऽ­र्था­न्त­रेण द्युभ्वा­द्या­य­त­नेन भाव्यमिति, एतदयुक्तम् ॥ १ ॥

मुक्तो­प­सृ­प्य­व्य­प­दे­शात् ॥ २ ॥

इतश्च परमेव ब्रह्म द्युभ्वा­द्या­य­त­नम्; यस्मा­न्मु­क्तो­प­सृ­प्य­तास्य व्यपदिश्यमाना दृश्यते । मुक्तैरुपसृप्यं मुक्तोपसृप्यम् । देहा­दि­ष्व­ना­त्मसु अह­म­स्मी­त्या­त्म­बु­द्धि­र­विद्या, ततस्तत्पूजनादौ रागः, तत्परिभवादौ द्वेषः, तदु­च्छे­द­द­र्श­ना­द्भयं मोहश्च — इत्ये­व­म­य­म­न­न्त­भे­दोऽ­न­र्थ­व्रातः सन्ततः सर्वेषां नः प्रत्यक्षः । तद्वि­प­र्य­ये­णा­वि­द्या­रा­ग­द्वे­षा­दि­दो­ष­मु­क्तै­रु­प­सृप्यं गम्यमेतदिति द्युभ्वा­द्या­य­तनं प्रकृत्य व्यपदेशो भवति । कथम् ? ‘भिद्यते हृद­य­ग्र­न्थि­श्छि­द्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’(मु. उ. २ । २ । ९) इत्युक्त्वा, ब्रवीति — ‘तथा विद्वा­न्ना­म­रू­पा­द्वि­मुक्तः परात्परं पुरुषमुपैति दिव्यम्’(मु. उ. ३ । २ । ८) इति । ब्रह्मणश्च मुक्तो­प­सृ­प्यत्वं प्रसिद्धं शास्त्रे — ‘यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते’(बृ. उ. ४ । ४ । ७) इत्येवमादौ । प्रधानादीनां तु न क्वचि­न्मु­क्तो­प­सृ­प्य­त्व­मस्ति प्रसिद्धम् । अपि च ‘तमेवैकं जानथ आत्मानमन्या वाचो विमु­ञ्च­था­मृ­त­स्यैष सेतुः’ इति वाग्वि­मो­क­पू­र्वकं विज्ञेयत्वमिह द्युभ्वा­द्या­य­त­न­स्यो­च्यते । तच्च श्रुत्यन्तरे ब्रह्मणो दृष्टम् — ‘तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानु­ध्या­या­द्ब­हू­ञ्श­ब्दा­न्वाचो विग्लापनं हि तत्’(बृ. उ. ४ । ४ । २१) इति । तस्मादपि द्युभ्वा­द्या­य­तनं परं ब्रह्म ॥ २ ॥

नानु­मा­न­म­त­च्छ­ब्दात् ॥ ३ ॥

यथा ब्रह्मणः प्रतिपादको वैशेषिको हेतुरुक्तः, नैवमर्थान्तरस्य वैशेषिको हेतुः प्रति­पा­द­कोऽ­स्ती­त्याह । नानुमानं साङ्ख्य­स्मृ­ति­प­रि­क­ल्पितं प्रधानम् इह द्युभ्वा­द्या­य­त­न­त्वेन प्रतिपत्तव्यम् । कस्मात् ? अतच्छब्दात् । तस्याचेतनस्य प्रधानस्य प्रतिपादकः शब्दः तच्छब्दः, न तच्छब्दः अतच्छब्दः । न ह्यत्राचेतनस्य प्रधानस्य प्रतिपादकः कश्चि­च्छ­ब्दोऽस्ति, येनाचेतनं प्रधानं कार­ण­त्वे­ना­य­त­न­त्वेन वावगम्येत । तद्विपरीतस्य चेतनस्य प्रति­पा­द­क­श­ब्दोऽ­त्रास्ति — ‘यः सर्वज्ञः सर्ववित्’(मु. उ. १ । १ । ९) इत्यादिः । अत एव न वायुरपीह द्युभ्वा­द्या­य­त­न­त्वे­ना­श्री­यते ॥ ३ ॥

प्राणभृच्च ॥ ४ ॥

यद्यपि प्राणभृतो विज्ञानात्मन आत्मत्वं चेतनत्वं च सम्भवति, तथा­प्यु­पा­धि­प­रि­च्छि­न्न­ज्ञा­नस्य सर्व­ज्ञ­त्वा­द्य­स­म्भवे सति अस्मा­दे­वा­त­च्छ­ब्दात् प्राणभृदपि न द्युभ्वा­द्या­य­त­न­त्वे­ना­श्र­यि­तव्यः । न चोपा­धि­प­रि­च्छि­न्न­स्या­विभोः प्राणभृतो द्युभ्वा­द्या­य­त­न­त्व­मपि सम्यक्संभवति । पृथ­ग्यो­ग­क­र­ण­मु­त्त­रा­र्थम् ॥ ४ ॥

कुतश्च न प्राणभृत् द्युभ्वा­द्या­य­त­न­त्वे­ना­श्र­यि­तव्यः ? —

भेदव्यपदेशात् ॥ ५ ॥

भेदव्यपदेशश्चेह भवति — ‘तमेवैकं जानथ आत्मानम्’ इति ज्ञेय­ज्ञा­तृ­भा­वेन । तत्र प्राणभृत् ताव­न्मु­मु­क्षु­त्वा­ज्ज्ञाता । परि­शे­षा­दा­त्म­श­ब्द­वाच्यं ब्रह्म ज्ञेयं द्युभ्वा­द्या­य­त­न­मिति गम्यते, न प्राणभृत् ॥ ५ ॥

कुतश्च न प्राणभृत् द्युभ्वा­द्या­य­त­न­त्वे­ना­श्र­यि­तव्यः ? —

प्रकरणात् ॥ ६ ॥

प्रकरणं चेदं परमात्मनः — ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’(मु. उ. १ । १ । ३) इत्येकविज्ञानेन सर्व­वि­ज्ञा­ना­पे­क्ष­णात् । परमात्मनि हि सर्वात्मके विज्ञाते सर्वमिदं विज्ञातं स्यात् , न केवले प्राणभृति ॥ ६ ॥

कुतश्च न प्राणभृत् द्युभ्वा­द्या­य­त­न­त्वे­ना­श्र­यि­तव्यः ? —

स्थित्यदनाभ्यां च ॥ ७ ॥

द्युभ्वा­द्या­य­तनं च प्रकृत्य, ‘द्वा सुपर्णा सयुजा सखाया’(मु. उ. ३ । १ । १) इत्यत्र स्थित्यदने निर्दिश्येते । ‘तयोरन्यः पिप्पलं स्वाद्वत्ति’ इति कर्मफलाशनम् । ‘अन­श्न­न्न­न्योऽ­भि­चा­क­शीति’ इत्यौ­दा­सी­न्ये­ना­व­स्था­नम् । ताभ्यां च स्थित्य­द­ना­भ्या­मी­श्व­र­क्षे­त्रज्ञौ तत्र गृह्येते । यदि च ईश्वरो द्युभ्वा­द्या­य­त­न­त्वेन विवक्षितः, ततस्तस्य प्रकृ­त­स्ये­श्व­रस्य क्षेत्र­ज्ञा­त्पृ­थ­ग्व­च­न­म­व­क­ल्पते । अन्यथा ह्यप्र­कृ­त­व­च­न­मा­क­स्मि­क­म­स­म्बद्धं स्यात् । ननु तवापि क्षेत्र­ज्ञ­स्ये­श्व­रा­त्पृ­थ­ग्व­च­न­मा­क­स्मि­क­मेव प्रसज्येत । न, तस्या­वि­व­क्षि­त­त्वात् । क्षेत्रज्ञो हि कर्तृत्वेन भोक्तृत्वेन च प्रतिशरीरं बुद्ध्या­द्यु­पा­धि­स­म्बद्धः, लोकत एव प्रसिद्धः, नासौ श्रुत्या तात्पर्येण विवक्ष्यते । ईश्वरस्तु लोक­तोऽ­प्र­सि­द्ध­त्वा­च्छ्रुत्या तात्पर्येण विवक्ष्यत इति न तस्याकस्मिकं वचनं युक्तम् । ‘गुहां प्रवि­ष्टा­वा­त्मानौ हि’ इत्य­त्रा­प्ये­त­द्द­र्शि­तम् — ‘द्वा सुपर्णा’ इत्यस्यामृचि ईश्व­र­क्षे­त्र­ज्ञा­वु­च्येते इति । यदापि पैङ्ग्यु­प­नि­ष­त्कृ­तेन व्याख्या­ने­ना­स्या­मृचि सत्त्व­क्षे­त्र­ज्ञा­वु­च्येते, तदापि न विरोधः कश्चित् । कथम् ? प्राणभृद्धीह घटादिच्छिद्रवत् सत्त्वा­द्यु­पा­ध्य­भि­मा­नि­त्वेन प्रतिशरीरं गृह्यमाणो द्युभ्वा­द्या­य­तनं न भवतीति निषिध्यते । यस्तु सर्व­श­री­रे­षू­पा­धि­भि­र्वि­नो­प­ल­क्ष्यते, पर एव स भवति । यथा घटादिच्छिद्राणि घटा­दि­भि­रु­पा­धि­भि­र्वि­नो­प­ल­क्ष्य­मा­णानि महाकाश एव भवन्ति, तद्वत् प्राणभृतः पर­स्मा­द­न्य­त्वा­नु­प­पत्तेः प्रतिषेधो नोपपद्यते । तस्मा­त्स­त्त्वा­द्यु­पा­ध्य­भि­मा­निन एव द्युभ्वा­द्या­य­त­न­त्व­प्र­ति­षेधः । तस्मात्परमेव ब्रह्म द्युभ्वा­द्या­य­त­नम् । तदेतत् ‘अदृ­श्य­त्वा­दि­गु­णको धर्मोक्तेः’ इत्यनेनैव सिद्धम् । तस्यैव हि भूतयोनिवाक्यस्य मध्ये इदं पठितम् — ‘यस्मिन्द्यौः पृथिवी चान्तरिक्षम्’ इति । प्रपञ्चार्थं तु पुनरुपन्यस्तम् ॥ ७ ॥

भूमा सम्प्र­सा­दा­द­ध्यु­प­दे­शात् ॥ ८ ॥

इदं समामनन्ति — ‘भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ।’(छा. उ. ७ । २३ । १) ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रा­न्य­त्प­श्य­त्य­न्य­च्छृ­णो­त्य­न्य­द्वि­जा­नाति तदल्पम्’(छा. उ. ७ । २४ । १) इत्यादि । तत्र संशयः — किं प्राणो भूमा स्यात् , आहो­स्वि­त्प­र­मा­त्मेति । कुतः संशयः ? भूमेति ताव­द्ब­हु­त्व­म­भि­धी­यते । ‘बहोर्लोपो भू च बहोः’(पा. सू. ६ । ४ । १५८) इति भूमशब्दस्य भाव­प्र­त्य­या­न्त­ता­स्म­र­णात् । किमात्मकं पुन­स्त­द्ब­हु­त्व­मिति विशे­षा­का­ङ्क्षा­याम् ‘प्राणो वा आशाया भूयान्’(छा. उ. ७ । १५ । १) इति सन्निधानात् प्राणो भूमेति प्रतिभाति । तथा ‘श्रुतं ह्येव मे भग­व­द्दृ­शे­भ्य­स्त­रति शोकमात्मविदिति । सोऽहं भगवः शोचामि तं मा भगवाञ्शोकस्य पारं तारयतु’(छा. उ. ७ । १ । ३) इति प्रक­र­णो­त्था­ना­त्प­र­मात्मा भूमेत्यपि प्रतिभाति । तत्र कस्योपादानं न्याय्यम् , कस्य वा हानमिति भवति संशयः । किं तावत्प्राप्तम् ? प्राणो भूमेति । कस्मात् ? भूयः प्रश्न­प्र­ति­व­च­न­प­र­म्प­राऽ­द­र्श­नात् । यथा हि ‘अस्ति भगवो नाम्नो भूयः’ इति, ‘वाग्वाव नाम्नो भूयसी’ इति; तथा ‘अस्ति भगवो वाचो भूयः’ इति, ‘मनो वाव वाचो भूयः’ इति च — नामादिभ्यो हि आ प्राणात् भूयः प्रश्न­प्र­ति­व­च­न­प्र­वाहः प्रवृत्तः नैवं प्राणात्परं भूयः प्रश्नप्रतिवचनं दृश्यते — ‘अस्ति भगवः प्राणाद्भूयः’ इति, ‘अदो वाव प्राणाद्भूयः’ इति । प्राणमेव तु नामादिभ्य आशान्तेभ्यो भूयांसम् — ‘प्राणो वा आशाया भूयान्’ इत्यादिना सप्र­प­ञ्च­मुक्त्वा, प्राण­द­र्शि­न­श्चा­ति­वा­दि­त्वम् ‘अति­वा­द्य­सी­त्य­ति­वा­द्य­स्मीति ब्रूया­न्ना­प­ह्नु­वीत’ इत्यभ्यनुज्ञाय, ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति प्राण­व्र­त­म­ति­वा­दि­त्व­म­नु­कृष्य, अपरित्यज्यैव प्राणं सत्यादिपरम्परया भूमानमवतारयन्, प्राणमेव भूमानं मन्यत इति गम्यते । कथं पुनः प्राणे भूमनि व्याख्यायमाने ‘यत्र नान्यत्पश्यति’ इत्येतद्भूम्नो लक्षणपरं वचनं व्याख्यायेतेति, उच्यते — सुषु­प्त्य­व­स्थायां प्राणग्रस्तेषु करणेषु दर्श­ना­दि­व्य­व­हा­र­नि­वृ­त्ति­द­र्श­ना­त्स­म्भ­वति प्राणस्यापि ‘यत्र नान्य­त्प­श्य­तीति’ एतल्लक्षणम् । तथा च श्रुतिः — ‘न शृणोति न पश्यति’ इत्यादिना सर्व­क­र­ण­व्या­पा­र­प्र­त्य­स्त­म­य­रूपां सुषु­प्त्य­व­स्था­मुक्त्वा, ‘प्राणाग्नय एवैतस्मिन्पुरे जाग्रति’(प्र. उ. ४ । ३) इति तस्या­मे­वा­व­स्थायां पञ्चवृत्तेः प्राणस्य जागरणं ब्रुवती, प्राणप्रधानां सुषुप्त्यवस्थां दर्शयति । यच्चैतद्भूम्नः सुखत्वं श्रुतम् — ‘यो वै भूमा तत्सुखम्’(छा. उ. ७ । २३ । १) इति, तदप्यविरुद्धम् । ‘अत्रैष देवः स्वप्नान्न पश्य­त्य­थै­त­स्मि­ञ्श­रीरे सुखं भवति’(प्र. उ. ४ । ६) इति सुषु­प्त्य­व­स्था­या­मेव सुखश्रवणात् । यच्च ‘यो वै भूमा तदमृतम्’(छा. उ. ७ । २४ । १) इति, तदपि प्राण­स्या­वि­रु­द्धम् । ‘प्राणो वा अमृतम्’(बृ. उ. १ । ६ । ३) इति श्रुतेः । कथं पुनः प्राणं भूमानं मन्यमानस्य ‘तरति शोकमात्मवित्’ इत्या­त्म­वि­वि­दि­षया प्रक­र­ण­स्यो­त्था­न­मु­प­प­द्यते ? प्राण एवेहात्मा विवक्षित इति ब्रूमः । तथाहि — ‘प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः’(छा. उ. ७ । १५ । १) इति प्राणमेव सर्वात्मानं करोति, ‘यथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वं समर्पितम्’ इति च सर्वा­त्म­त्वा­र­ना­भि­नि­द­र्श­नाभ्यां च सम्भवति वैपुल्यात्मिका भूमरूपता प्राणस्य । तस्मात्प्राणो भूमेत्येवं प्राप्तम् ॥

तत इदमुच्यते — परमात्मैवेह भूमा भवितुमर्हति, न प्राणः । कस्मात् ? सम्प्र­सा­दा­द­ध्यु­प­दे­शात् । सम्प्रसाद इति सुषुप्तं स्थानमुच्यते; सम्य­क्प्र­सी­द­त्य­स्मि­न्निति निर्वचनात् । बृहदारण्यके च स्वप्न­जा­ग­रि­त­स्था­नाभ्यां सह पाठात् । तस्यां च सम्प्र­सा­दा­व­स्थायां प्राणो जागर्तीति प्राणोऽत्र सम्प्र­सा­दोऽ­भि­प्रे­यते । प्राणादूर्ध्वं भूम्न उप­दि­श्य­मा­न­त्वा­दि­त्यर्थः । प्राण एव चेद्भूमा स्यात् , स एव तस्मा­दू­र्ध्व­मु­प­दि­श्ये­ते­त्य­श्लि­ष्ट­मे­वै­त­त्स्यात् । न हि नामैव ‘नाम्नो भूयः’ इति नाम्न ऊर्ध्व­मु­प­दि­ष्टम् । किं तर्हि ? नाम्नोऽ­न्य­द­र्था­न्त­र­मु­प­दिष्टं वागाख्यम् ‘वाग्वाव नाम्नो भूयसी’ इति । तथा वागादिभ्योऽपि आ प्राणा­द­र्था­न्त­र­मेव तत्र तत्रो­र्ध्व­मु­प­दि­ष्टम् । तद्व­त्प्रा­णा­दू­र्ध्व­मु­प­दि­श्य­मानो भूमा प्राणा­द­र्था­न्त­र­भूतो भवितुमर्हति । नन्विह नास्ति प्रश्नः — ‘अस्ति भगवः प्राणाद्भूयः’ इति । नापि प्रतिवचनमस्ति ‘प्राणाद्वाव भूयोऽस्ति’ इति; कथं प्राणादधि भूमोपदिश्यत इत्युच्यते ? प्राणविषयमेव चाति­वा­दि­त्व­मु­त्त­र­त्रा­नु­कृ­ष्य­माणं पश्यामः — ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इति । तस्मान्नास्ति प्राणादध्युपदेश इति । अत्रोच्यते — न ताव­त्प्रा­ण­वि­ष­य­स्यै­वा­ति­वा­दि­त्व­स्यै­त­द­नु­क­र्ष­ण­मिति शक्यं वक्तुम् , विशेषवादात् ‘यः सत्येनातिवदति’ इति । ननु विशेषवादोऽप्ययं प्राणविषय एव भविष्यति । कथम् ? यथा ‘एषोऽ­ग्नि­होत्री, यः सत्यं वदति’ इत्युक्ते, न सत्य­व­द­ने­ना­ग्नि­हो­त्रि­त्वम् । केन तर्हि ? अग्निहोत्रेणैव; सत्यवदनं त्वग्निहोत्रिणो विशेष उच्यते । तथा ‘एष तु वा अतिवदति, यः सत्येनातिवदति’ इत्युक्ते, न सत्य­व­द­ने­ना­ति­वा­दि­त्वम् । केन तर्हि ? प्रकृतेन प्राण­वि­ज्ञा­ने­नैव । सत्यवदनं तु प्राणविदो विशेषो विवक्ष्यत इति । नेति ब्रूमः; श्रुत्य­र्थ­प­रि­त्या­ग­प्र­स­ङ्गात् । श्रुत्या ह्यत्र सत्य­व­द­ने­ना­ति­वा­दित्वं प्रतीयते — ‘यः सत्येनातिवदति सोऽतिवदति’ इति । नात्र प्राणविज्ञानस्य सङ्कीर्तनमस्ति । प्रकरणात्तु प्राणविज्ञानं सम्बध्येत । तत्र प्रकरणानुरोधेन श्रुतिः परित्यक्ता स्यात् । प्रकृ­त­व्या­वृ­त्त्य­र्थश्च तुशब्दो न सङ्गच्छेत — ‘एष तु वा अतिवदति’ इति । ‘सत्यं त्वेव विजि­ज्ञा­सि­त­व्यम्’(छा. उ. ७ । १६ । १) इति च प्रय­त्ना­न्त­र­क­र­ण­म­र्था­न्त­र­वि­वक्षां सूचयति । तस्मा­द्य­थै­क­वे­द­प्र­शं­सायां प्रकृतायाम् , ‘एष तु महाब्राह्मणः, यश्चतुरो वेदानधीते’ इत्ये­क­वे­दे­भ्योऽ­र्था­न्त­र­भू­त­श्च­तु­र्वेदः प्रशस्यते, तादृ­गे­त­द्द्र­ष्ट­व्यम् । न च प्रश्न­प्र­ति­व­च­न­रू­प­यै­वा­र्था­न्त­र­वि­व­क्षया भवितव्यमिति नियमोऽस्ति; प्रकृ­त­स­म्ब­न्धा­स­म्भ­व­का­रि­त­त्वा­द­र्था­न्त­र­वि­व­क्षायाः । तत्र प्राणा­न्त­म­नु­शा­सनं श्रुत्वा तूष्णींभूतं नारदं स्वयमेव सनत्कुमारो व्युत्पादयति — यत्प्रा­ण­वि­ज्ञा­नेन विका­रा­नृ­त­वि­ष­ये­णा­ति­वा­दि­त्व­म­न­ति­वा­दि­त्व­मेव तत् — ‘एष तु वा अतिवदति, यः सत्येनातिवदति’ इति । तत्र सत्यमिति परं ब्रह्मोच्यते, पर­मा­र्थ­रू­प­त्वात्; ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै. उ. २ । १ । १) इति च श्रुत्यन्तरात् । तथा व्युत्पादिताय नारदाय ‘सोऽहं भगवः सत्येनातिवदानि’ इत्येवं प्रवृत्ताय विज्ञा­ना­दि­सा­ध­न­प­र­म्प­रया भूमानमुपदिशति । तत्र यत्प्राणादधि सत्यं वक्तव्यं प्रतिज्ञातम् , तदेवेह भूमेत्युच्यत इति गम्यते । तस्मादस्ति प्राणादधि भूम्न उपदेश इति — अतः प्राणादन्यः परमात्मा भूमा भवितुमर्हति । एवं चेहा­त्म­वि­वि­दि­षया प्रक­र­ण­स्यो­त्था­न­मु­प­पन्नं भविष्यति । प्राण एवेहात्मा विवक्षित इत्येतदपि नोपपद्यते । न हि प्राणस्य मुख्यया वृत्त्या­त्म­त्व­मस्ति । न चान्यत्र पर­मा­त्म­ज्ञा­ना­च्छो­क­वि­नि­वृ­त्ति­रस्ति, ‘नान्यः पन्था विद्यतेऽयनाय’(श्वे. उ. ६ । १५) इति श्रुत्यन्तरात् । ‘तं मा भगवाञ्शोकस्य पारं तारयतु’(छा. उ. ७ । १ । ३) इति चोप­क्र­म्यो­प­सं­ह­रति — ‘तस्मै मृदितकषायाय तमसः पारं दर्शयति भग­वा­न्स­न­त्कु­मारः’(छा. उ. ७ । २६ । २) इति । तम इति शोका­दि­का­र­ण­म­वि­द्यो­च्यते । प्राणान्ते चानुशासने न प्राण­स्या­न्या­य­त्त­तो­च्येत । ‘आत्मतः प्राणः’(छा. उ. ७ । २६ । १) इति च ब्राह्मणम् । प्रकरणान्ते परमात्मविवक्षा भविष्यति; भूमा तु प्राण एवेति चेत् , न; ‘स भगवः कस्मि­न्प्र­ति­ष्ठित इति स्वे महिम्नि’(छा. उ. ७ । २४ । १) इत्यादिना भूम्न एव आ प्रक­र­ण­स­मा­प्ते­र­नु­क­र्ष­णात् । वैपुल्यात्मिका च भूमरूपता सर्व­का­र­ण­त्वा­त्प­र­मा­त्मनः सुतरामुपपद्यते ॥ ८ ॥

धर्मोपपत्तेश्च ॥ ९ ॥

अपि च ये भूम्नि श्रूयन्ते धर्माः, ते पर­मा­त्म­न्यु­प­प­द्यन्ते । ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’ इति दर्श­ना­दि­व्य­व­हा­रा­भावं भूमनि अवगमयति । परमात्मनि चायं दर्श­ना­दि­व्य­व­हा­रा­भा­वोऽ­व­गतः — ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्येत्’(बृ. उ. ४ । ५ । १५) इत्या­दि­श्रु­त्य­न्त­रात् । योऽप्यसौ सुषु­प्ता­व­स्थायां दर्श­ना­दि­व्य­व­हा­रा­भाव उक्तः, सोऽप्यात्मन एवा­स­ङ्ग­त्व­वि­व­क्ष­योक्तः, न प्राण­स्व­भा­व­वि­व­क्षया, पर­मा­त्म­प्र­क­र­णात् । यदपि तस्यामवस्थायां सुखमुक्तम् , तदप्यात्मन एव सुख­रू­प­त्व­वि­व­क्ष­यो­क्तम्; यत आह — ‘एषोऽस्य परम आनन्द एत­स्यै­वा­न­न्द­स्या­न्यानि भूतानि मात्रा­मु­प­जी­वन्ति’(बृ. उ. ४ । ३ । ३२) इति । इहापि ‘यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम्’ इति साम­य­सु­ख­नि­रा­क­र­णेन ब्रह्मैव सुखं भूमानं दर्शयति । ‘यो वै भूमा तदमृतम्’ इत्यमृतत्वमपीह श्रूयमाणं परमकारणं गमयति । विका­रा­णा­म­मृ­त­त्व­स्या­पे­क्षि­क­त्वात् , ‘अतोऽ­न्य­दा­र्तम्’(बृ. उ. ३ । ४ । २) इति च श्रुत्यन्तरात् । तथा च सत्यत्वं स्वम­हि­म­प्र­ति­ष्ठि­तत्वं सर्वगतत्वं सर्वात्मत्वमिति चैते धर्माः श्रूयमाणाः पर­मा­त्म­न्ये­वो­प­प­द्यन्ते, नान्यत्र । तस्माद्भूमा परमात्मेति सिद्धम् ॥ ९ ॥

अक्ष­र­म­म्ब­रा­न्त­धृतेः ॥ १० ॥

१०

‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ।’(बृ. उ. ३ । ८ । ७) ‘स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभि­व­द­न्त्य­स्थू­ल­म­नणु’(बृ. उ. ३ । ८ । ८) इत्यादि श्रूयते । तत्र संशयः — किमक्षरशब्देन वर्ण उच्यते, किं वा परमेश्वर इति । तत्रा­क्ष­र­स­मा­म्नाय इत्या­दा­व­क्ष­र­श­ब्दस्य वर्णे प्रसिद्धत्वात् , प्रसि­द्ध्य­ति­क्र­मस्य चायुक्तत्वात् , ‘ओंकार एवेदं सर्वम्’(छा. उ. २ । २३ । ३) इत्यादौ च श्रुत्यन्तरे वर्ण­स्या­प्यु­पा­स्य­त्वेन सर्वा­त्म­क­त्वा­व­धा­र­णात् , वर्ण एवाक्षरशब्द इत्येवं प्राप्ते, उच्यते — पर एवा­त्मा­क्ष­र­श­ब्द­वाच्यः । कस्मात् ? अम्बरान्तधृतेः; पृथि­व्या­दे­रा­का­शा­न्तस्य विकारजातस्य धारणात् । तत्र हि पृथिव्यादेः सम­स्त­वि­का­र­जा­तस्य काल­त्र­य­वि­भ­क्तस्य ‘आकाश एव तदोतं च प्रोतं च’ इत्याकाशे प्रति­ष्ठि­त­त्व­मुक्त्वा, ‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’(बृ. उ. ३ । ८ । ७) इत्यनेन प्रश्ने­ने­द­म­क्ष­र­म­व­ता­रि­तम् । तथा चोपसंहृतम् — ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’ इति । न चेय­म­म्ब­रा­न्त­धृ­ति­र्ब्र­ह्म­णोऽ­न्यत्र सम्भवति । यदपि ‘ओंकार एवेदं सर्वम्’ इति, तदपि ब्रह्म­प्र­ति­प­त्ति­सा­ध­न­त्वा­त्स्तु­त्यर्थं द्रष्टव्यम् । तस्मान्न क्षरति अश्नुते चेति नित्य­त्व­व्या­पि­त्वा­भ्या­म­क्षरं परमेव ब्रह्म ॥ १० ॥

स्यादेतत् — कार्यस्य चेत्का­र­णा­धी­न­त्व­म­म्ब­रा­न्त­धृ­ति­र­भ्यु­प­ग­म्यते, प्रधा­न­का­र­ण­वा­दि­नोऽ­पी­य­मु­प­प­द्यते । कथ­म­म्ब­रा­न्त­धृ­ते­र्ब्र­ह्म­त्व­प्र­ति­प­त्ति­रिति ? अत उत्तरं पठति —

सा च प्रशासनात् ॥ ११ ॥

११

सा च अम्बरान्तधृतिः परमेश्वरस्यैव कर्म । कस्मात् ? प्रशासनात् । प्रशासनं हीह श्रूयते — ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’(बृ. उ. ३ । ८ । ९) इत्यादि । प्रशासनं च पारमेश्वरं कर्म । न अचेतनस्य प्रशासनं सम्भवति । न ह्यचेतनानां घटादिकारणानां मृदादीनां घटादिविषयं प्रशासनमस्ति ॥ ११ ॥

अन्य­भा­व­व्या­वृ­त्तेश्च ॥ १२ ॥

१२

अन्य­भा­व­व्या­वृ­त्तेश्च कार­णा­द्ब्र­ह्मै­वा­क्ष­र­श­ब्द­वा­च्यम् , तस्यै­वा­म्ब­रा­न्त­धृतिः कर्म, नान्यस्य कस्यचित् । किमिदम् अन्य­भा­व­व्या­वृ­त्ते­रिति ? अन्यस्य भावोऽन्यभावः तस्मा­द्व्या­वृत्तिः अन्य­भा­व­व्या­वृ­त्ति­रिति । एतदुक्तं भवति — यद­न्य­द्ब्र­ह्म­णोऽ­क्ष­र­श­ब्द­वा­च्य­मि­हा­श­ङ्क्यते तद्भावात् इद­म­म्ब­रा­न्त­वि­धा­र­ण­म­क्षरं व्यावर्तयति श्रुतिः — ‘तद्वा एतदक्षरं गार्गि अदृष्टं द्रष्टृ अश्रुतं श्रोतृ अमतं मन्तृ अविज्ञातं विज्ञातृ’(बृ. उ. ३ । ८ । ११) इति । तत्रा­दृ­ष्ट­त्वा­दि­व्य­प­देशः प्रधानस्यापि सम्भवति । द्रष्टृ­त्वा­दि­व्य­प­दे­शस्तु न सम्भवति, अचेतनत्वात् । तथा ‘नान्यदतोऽस्ति द्रष्टृ, नान्यदतोऽस्ति श्रोतृ, नान्यदतोऽस्ति मन्तृ, नान्यदतोऽस्ति विज्ञातृ’ इत्या­त्म­भे­द­प्र­ति­षे­धात् , न शारी­र­स्या­प्यु­पा­धि­म­तोऽ­क्ष­र­श­ब्द­वा­च्य­त्वम्; ‘अच­क्षु­ष्क­म­श्रो­त्र­म­वा­ग­मनः’(बृ. उ. ३ । ८ । ८) इति चोपा­धि­म­त्ता­प्र­ति­षे­धात् । न हि निरुपाधिकः शारीरो नाम भवति । तस्मात्परमेव ब्रह्माक्षरमिति निश्चयः ॥ १२ ॥

ईक्ष­ति­क­र्म­व्य­प­दे­शात्सः ॥ १३ ॥

१३

‘एतद्वै सत्यकाम परं चापरं च ब्रह्म यदों­का­र­स्त­स्मा­द्वि­द्वा­ने­ते­नै­वा­य­त­ने­नै­क­त­र­म­न्वेति’(प्र. उ. ५ । २) इति प्रकृत्य श्रूयते — ‘यः पुनरेतं त्रिमा­त्रे­णो­मि­त्ये­ते­नै­वा­क्ष­रेण परं पुरु­ष­म­भि­ध्या­यीत’(प्र. उ. ५ । ५) इति । किमस्मिन्वाक्ये परं ब्रह्मा­भि­ध्या­त­व्य­मु­प­दि­श्यते, आहोस्विदपरमिति । एतेनैवायतनेन परमपरं वैकतरमन्वेतीति प्रकृ­त­त्वा­त्सं­शयः । तत्रापरमिदं ब्रह्मेति प्राप्तम् । कस्मात् ? ‘स तेजसि सूर्ये सम्पन्नः’ ‘स सामभिरुन्नीयते ब्रह्मलोकम्’ इति च तद्विदो देश­प­रि­च्छि­न्नस्य फल­स्यो­च्य­मा­न­त्वात् । न हि पर­ब्र­ह्म­वि­द्दे­श­प­रि­च्छिन्नं फलमश्नुवीतेति युक्तम्; सर्व­ग­त­त्वा­त्प­रस्य ब्रह्मणः । नन्व­प­र­ब्र­ह्म­प­रि­ग्रहे ‘परं पुरुषम्’ इति विशेषणं नोपपद्यते । नैष दोषः — पिण्डापेक्षया प्राणस्य परत्वोपपत्तेः; इत्येवं प्राप्ते, अभिधीयते —

परमेव ब्रह्म इह अभि­ध्या­त­व्य­मु­प­दि­श्यते । कस्मात् ? ईक्ष­ति­क­र्म­व्य­प­दे­शात् । ईक्ष­ति­र्द­र्श­नम्; दर्श­न­व्या­प्य­मी­क्ष­ति­कर्म । ईक्ष­ति­क­र्म­त्वे­ना­स्या­भि­ध्या­त­व्यस्य पुरुषस्य वाक्यशेषे व्यपदेशो भवति — ‘स एत­स्मा­ज्जी­व­घ­ना­त्प­रा­त्परं पुरिशयं पुरुषमीक्षते’ इति । तत्र अभि­ध्या­य­ते­र­त­था­भू­त­मपि वस्तु कर्म भवति, मनो­र­थ­क­ल्पि­त­स्या­प्य­भि­ध्या­य­ति­क­र्म­त्वात् । ईक्षतेस्तु तथाभूतमेव वस्तु लोके कर्म दृष्टम् , इत्यतः परमात्मैवायं सम्य­ग्द­र्श­न­वि­ष­य­भूत ईक्षतिकर्मत्वेन व्यपदिष्ट इति गम्यते । स एव चेह पर­पु­रु­ष­श­ब्दा­भ्या­म­भि­ध्या­तव्यः प्रत्यभिज्ञायते । नन्वभिध्याने परः पुरुष उक्तः, ईक्षणे तु परात्परः । कथमितर इतरत्र प्रत्यभिज्ञायत इति । अत्रोच्यते — परपुरुषशब्दौ तावदुभयत्र साधारणौ । न चात्र जीवघनशब्देन प्रकृ­तोऽ­भि­ध्या­तव्यः परः पुरुषः परामृश्यते; येन तस्मात् परा­त्प­रोऽ­य­मी­क्षि­तव्यः पुरुषोऽन्यः स्यात् । कस्तर्हि जीवघन इति, उच्यते — घनो मूर्तिः, जीवलक्षणो घनः जीवघनः । सैन्धवखिल्यवत् यः परमात्मनो जीवरूपः खिल्यभाव उपाधिकृतः, परश्च विष­ये­न्द्रि­येभ्यः, सोऽत्र जीवघन इति । अपर आह — ‘स सामभिरुन्नीयते ब्रह्मलोकम्’ इत्य­ती­ता­न­न्त­र­वा­क्य­नि­र्दिष्टो यो ब्रह्मलोकः परश्च लोकान्तरेभ्यः, सोऽत्र जीवघन इत्युच्यते । जीवानां हि सर्वेषां करणपरिवृतानां सर्वकरणात्मनि हिरण्यगर्भे ब्रह्म­लो­क­नि­वा­सिनि सङ्घा­तो­प­प­त्ते­र्भ­वति ब्रह्मलोको जीवघनः । तस्मात्परो यः परमात्मा ईक्षणकर्मभूतः, स एवाभिध्यानेऽपि कर्मभूत इति गम्यते । ‘परं पुरुषम्’ इति च विशेषणं परमात्मपरिग्रह एवावकल्पते । परो हि पुरुषः परमात्मैव भवति यस्मात्परं किञ्चि­द­न्य­न्नास्ति; ‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’ इति च श्रुत्यन्तरात् । ‘परं चापरं च ब्रह्म यदोंकारः’ इति च विभज्य, अनन्तरमोंकारेण परं पुरु­ष­म­भि­ध्या­तव्यं ब्रुवन् , परमेव ब्रह्म परं पुरुषं गमयति । ‘यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः’ इति पाप्म­वि­नि­र्मो­क­फ­ल­व­चनं पर­मा­त्मा­न­मि­हा­भि­ध्या­तव्यं सूचयति । अथ यदुक्तं पर­मा­त्मा­भि­ध्या­यिनो न देशपरिच्छिन्नं फलं युज्यत इति, अत्रोच्यते — त्रिमा­त्रे­णों­का­रे­णा­ल­म्ब­नेन पर­मा­त्मा­न­म­भि­ध्या­यतः फलं ब्रह्म­लो­क­प्राप्तिः, क्रमेण च सम्य­ग्द­र्श­नो­त्पत्तिः, — इति क्रम­मु­क्त्य­भि­प्रा­य­मे­त­द्भ­वि­ष्य­ती­त्य­दोषः ॥ १३ ॥

दहर उत्तरेभ्यः ॥ १४ ॥

१४

‘अथ यदि­द­म­स्मि­न्ब्र­ह्म­पुरे दहरं पुण्डरीकं वेश्म दह­रोऽ­स्मि­न्न­न्त­रा­का­श­स्त­स्मि­न्य­द­न्त­स्त­द­न्वे­ष्टव्यं तद्वाव विजि­ज्ञा­सि­त­व्यम्’(छा. उ. ८ । १ । १) इत्यादि वाक्यं समाम्नायते । तत्र योऽयं दहरे हृदयपुण्डरीके दहर आकाशः श्रुतः, स किं भूताकाशः, अथवा विज्ञानात्मा, अथवा परमात्मेति संशय्यते । कुतः संशयः ? आका­श­ब्र­ह्म­पु­र­श­ब्दा­भ्याम् । आकाशशब्दो ह्ययं भूताकाशे परस्मिंश्च प्रयुज्यमानो दृश्यते । तत्र किं भूताकाश एव दहरः स्यात् , किं वा पर इति संशयः । तथा ब्रह्मपुरमिति — किं जीवोऽत्र ब्रह्मनामा, तस्येदं पुरं शरीरं ब्रह्मपुरम् , अथवा परस्यैव ब्रह्मणः पुरं ब्रह्मपुरमिति । तत्र जीवस्य परस्य वान्यतरस्य पुरस्वामिनो दहराकाशत्वे संशयः । तत्राकाशशब्दस्य भूताकाशे रूढ­त्वा­द्भू­ता­काश एव दहरशब्द इति प्राप्तम् । तस्य च दहरायतनापेक्षया दहरत्वम् । ‘यावान्वा अय­मा­का­श­स्ता­वा­ने­षोऽ­न्त­र्हृ­दय आकाशः’ इति च बाह्या­भ्य­न्त­र­भा­व­कृ­त­भे­द­स्यो­प­मा­नो­प­मे­य­भावः । द्यावा­पृ­थि­व्यादि च तस्मि­न्न­न्तः­स­मा­हि­तम् , अव­का­शा­त्म­ना­का­श­स्यै­क­त्वात् । अथवा जीवो दहर इति प्राप्तम् , ब्रह्म­पु­र­श­ब्दात् । जीवस्य हीदं पुरं सत् शरीरं ब्रह्म­पु­र­मि­त्यु­च्यते, तस्य स्वक­र्म­णो­पा­र्जि­त­त्वात् । भक्त्या च तस्य ब्रह्म­श­ब्द­वा­च्य­त्वम् । न हि परस्य ब्रह्मणः शरीरेण स्वस्वामिभावः सम्बन्धोऽस्ति । तत्र पुरस्वामिनः पुरै­क­दे­शेऽ­व­स्थानं दृष्टम् , यथा राज्ञः । मनउपाधिकश्च जीवः । मनश्च प्रायेण हृदये प्रतिष्ठितम् — इत्यतो जीवस्यैवेदं हृद­येऽ­न्त­र­व­स्थानं स्यात् । दहरत्वमपि तस्यैव आरा­ग्रो­प­मि­त­त्वात् अवकल्पते । आकाशोपमितत्वादि च ब्रह्मा­भे­द­वि­व­क्षया भविष्यति । न चात्र दह­र­स्या­का­श­स्या­न्वे­ष्ट­व्यत्वं विजि­ज्ञा­सि­त­व्यत्वं च श्रूयते; ‘तस्मिन्यदन्तः’ इति पर­वि­शे­ष­ण­त्वे­नो­पा­दा­ना­दिति ॥

अत उत्तरं ब्रूमः — परमेश्वर एवात्र दहराकाशो भवितुमर्हति, न भूताकाशो जीवो वा । कस्मात् ? उत्तरेभ्यः वाक्यशेषगतेभ्यो हेतुभ्यः । तथाहि — अन्वे­ष्ट­व्य­त­या­भि­हि­तस्य दहरस्याकाशस्य ‘तं चेद्ब्रूयुः’ इत्युपक्रम्य ‘किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजि­ज्ञा­सि­त­व्यम्’ इत्ये­व­मा­क्षे­प­पू­र्वकं प्रतिसमाधानवचनं भवति — ‘स ब्रूया­द्या­वान्वा’(छा. उ. ८ । १ । २) ‘अय­मा­का­श­स्ता­वा­ने­षोऽ­न्त­र्हृ­दय आकाश उभे अस्मि­न्द्या­वा­पृ­थिवी अन्तरेव समाहिते’(छा. उ. ८ । १ । ३) इत्यादि । तत्र पुण्ड­री­क­द­ह­र­त्वेन प्राप्त­द­ह­र­त्व­स्या­का­शस्य प्रसि­द्धा­का­शौ­प­म्येन दहरत्वं निवर्तयन् भूताकाशत्वं दहरस्याकाशस्य निवर्तयतीति गम्यते । यद्य­प्या­का­श­शब्दो भूताकाशे रूढः, तथापि तेनैव तस्योपमा नोपपद्यत इति भूताकाशशङ्का निवर्तिता भवति । नन्वे­क­स्या­प्या­का­शस्य बाह्या­भ्य­न्त­र­त्व­क­ल्पि­तेन भेदे­नो­प­मा­नो­प­मे­य­भावः सम्भ­व­ती­त्यु­क्तम् । नैवं सम्भवति । अगतिका हीयं गतिः, यत्का­ल्प­नि­क­भे­दा­श्र­य­णम् । अपि च कल्पयित्वापि भेद­मु­प­मा­नो­प­मे­य­भावं वर्णयतः परि­च्छि­न्न­त्वा­द­भ्य­न्त­रा­का­शस्य न बाह्या­का­श­प­रि­मा­ण­त्व­मु­प­प­द्येत । ननु परमेश्वरस्यापि ‘ज्याया­ना­का­शात्’(श. ब्रा. १० । ६ । ३ । २) इति श्रुत्यन्तरात् नैवा­का­श­प­रि­मा­ण­त्व­मु­प­प­द्यते । नैष दोषः; पुण्ड­री­क­वे­ष्ट­न­प्रा­प्त­द­ह­र­त्व­नि­वृ­त्ति­प­र­त्वा­द्वा­क्यस्य न ताव­त्त्व­प्र­ति­पा­द­न­प­र­त्वम् । उभयप्रतिपादने हि वाक्यं भिद्येत । न च कल्पितभेदे पुण्डरीकवेष्टित आकाशैकदेशे द्यावा­पृ­थि­व्या­दी­ना­मन्तः समाधानमुपपद्यते । ‘एष आत्मापहतपाप्मा विजरो विमृ­त्यु­र्वि­शोको विजि­घ­त्सोऽ­पि­पासः सत्यकामः सत्यसङ्कल्पः’ इति चात्म­त्वा­प­ह­त­पा­प्म­त्वा­द­यश्च गुणा न भूताकाशे सम्भवन्ति । यद्य­प्या­त्म­शब्दो जीवे सम्भवति, तथापीतरेभ्यः कारणेभ्यो जीवाशङ्कापि निवर्तिता भवति । न ह्युपा­धि­प­रि­च्छि­न्न­स्या­रा­ग्रो­प­मि­तस्य जीवस्य पुण्ड­री­क­वे­ष्ट­न­कृतं दहरत्वं शक्यं निवर्तयितुम् । ब्रह्मा­भे­द­वि­व­क्षया जीवस्य सर्वगतत्वादि विवक्ष्येतेति चेत्; यदात्मतया जीवस्य सर्वगतत्वादि विवक्ष्येत, तस्यैव ब्रह्मणः साक्षा­त्स­र्व­ग­त­त्वादि विवक्ष्यतामिति युक्तम् । यदप्युक्तम् — ‘ब्रह्मपुरम्’ इति जीवेन पुर­स्यो­प­ल­क्षि­त­त्वा­द्राज्ञ इव जीवस्यैवेदं पुरस्वामिनः पुरै­क­दे­श­व­र्ति­त्व­म­स्त्विति । अत्र ब्रूमः — परस्यैवेदं ब्रह्मणः पुरं सत् शरीरं ब्रह्म­पु­र­मि­त्यु­च्यते, ब्रह्मशब्दस्य तस्मि­न्मु­ख्य­त्वात् । तस्याप्यस्ति पुरेणानेन सम्बन्धः, उप­ल­ब्ध्य­धि­ष्ठा­न­त्वात् — ‘स एत­स्मा­ज्जी­व­घ­ना­त्प­रा­त्परं पुरिशयं पुरुषमीक्षते’(प्र. उ. ५ । ५) ‘स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयः’(बृ. उ. २ । ५ । १८) इत्या­दि­श्रु­तिभ्यः । अथवा जीवपुर एवास्मिन् ब्रह्म सन्नि­हि­त­मु­प­ल­क्ष्यते, यथा सालग्रामे विष्णुः सन्निहित इति, तद्वत् । ‘तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’(छा. उ. ८ । १ । ६) इति च कर्म­णा­म­न्त­व­त्फ­ल­त्व­मुक्त्वा, ‘अथ य इहा­त्मा­न­म­नु­विद्य व्रज­न्त्ये­तांश्च सत्या­न्का­मां­स्तेषां सर्वेषु लोकेषु कामचारो भवति’ इति प्रकृ­त­द­ह­रा­का­श­वि­ज्ञा­न­स्या­न­न्त­फ­लत्वं वदन् , परमात्मत्वमस्य सूचयति । यदप्येतदुक्तम् — न दह­र­स्या­का­श­स्या­न्वे­ष्ट­व्यत्वं विजि­ज्ञा­सि­त­व्यत्वं च श्रुतं पर­वि­शे­ष­ण­त्वे­नो­पा­दा­ना­दिति; अत्र ब्रूमः — यद्याकाशो नान्वे­ष्ट­व्य­त्वे­नोक्तः स्यात् ‘यावान्वा अय­मा­का­श­स्ता­वा­ने­षोऽ­न्त­र्हृ­दय आकाशः’ इत्या­द्या­का­श­स्व­रू­प­प्र­द­र्शनं नोपपद्येत । नन्वे­त­द­प्य­न्त­र्व­र्ति­व­स्तु­स­द्भा­व­प्र­द­र्श­ना­यैव प्रदर्श्यते, ‘तं चेद्ब्रू­यु­र्य­दि­द­म­स्मि­न्ब्र­ह्म­पुरे दहरं पुण्डरीकं वेश्म दह­रोऽ­स्मि­न्न­न्त­रा­काशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजि­ज्ञा­सि­त­व्यम्’ इत्याक्षिप्य परिहारावसरे आका­शौ­प­म्यो­प­क्र­मेण द्यावा­पृ­थि­व्या­दी­ना­म­न्तः­स­मा­हि­त­त्व­द­र्श­नात् । नैतदेवम्; एवं हि सति यदन्तःसमाहितं द्यावा­पृ­थि­व्यादि, तदन्वेष्टव्यं विजिज्ञासितव्यं चोक्तं स्यात् । तत्र वाक्यशेषो नोपपद्येत । ‘अस्मिन्कामाः समाहिताः’ ‘एष आत्मापहतपाप्मा’ इति हि प्रकृतं द्यावा­पृ­थि­व्या­दि­स­मा­धा­ना­धा­र­मा­का­श­मा­कृष्य ‘अथ य इहा­त्मा­न­म­नु­विद्य व्रज­न्त्ये­तांश्च सत्यान्कामान्’ इति समुच्चयार्थेन चशब्देनात्मानं कामाधारम् आश्रितांश्च कामान् विज्ञेयान् वाक्यशेषो दर्शयति । तस्मा­द्वा­क्यो­प­क्र­मेऽपि दहर एवाकाशो हृद­य­पु­ण्ड­री­का­धि­ष्ठानः सहान्तःस्थैः समाहितैः पृथिव्यादिभिः सत्यैश्च कामैर्विज्ञेय उक्त इति गम्यते । स चोक्तेभ्यो हेतुभ्यः परमेश्वर इति ॥ १४ ॥

गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥ १५ ॥

१५

दहरः परमेश्वर उत्तरेभ्यो हेतुभ्य इत्युक्तम् । त एवोत्तरे हेतव इदानीं प्रपञ्च्यन्ते । इतश्च परमेश्वर एव दहरः; यस्मा­द्द­ह­र­वा­क्य­शेषे परमेश्वरस्यैव प्रतिपादकौ गतिशब्दौ भवतः — ‘इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’(छा. उ. ८ । ३ । २) इति । तत्र प्रकृतं दहरं ब्रह्म­लो­क­श­ब्दे­ना­भि­धाय तद्विषया गतिः प्रजा­श­ब्द­वा­च्यानां जीवा­ना­म­भि­धी­य­माना दहरस्य ब्रह्मतां गमयति । तथा ह्यहरहर्जीवानां सुषु­प्ता­व­स्थायां ब्रह्मविषयं गमनं दृष्टं श्रुत्यन्तरे — ‘सता सोम्य तदा सम्पन्नो भवति’(छा. उ. ६ । ८ । १) इत्येवमादौ । लोकेऽपि किल गाढं सुषुप्तमाचक्षते ‘ब्रह्मीभूतो ब्रह्मतां गतः’ इति । तथा ब्रह्म­लो­क­श­ब्दोऽपि प्रकृते दहरे प्रयुज्यमानो जीव­भू­ता­का­श­शङ्कां निव­र्त­य­न्ब्र­ह्म­ता­मस्य गमयति । ननु कमलासनलोकमपि ब्रह्मलोकशब्दो गमयेत् । गमयेद्यदि ब्रह्मणो लोक इति षष्ठी­स­मा­स­वृत्त्या व्युत्पाद्येत । सामा­ना­धि­क­र­ण्य­वृत्त्या तु व्युत्पाद्यमानो ब्रह्मैव लोको ब्रह्मलोक इति परमेव ब्रह्म गमयिष्यति । एतदेव चाह­र­ह­र्ब्र­ह्म­लो­क­ग­मनं दृष्टं ब्रह्म­लो­क­श­ब्दस्य सामा­ना­धि­क­र­ण्य­वृ­त्ति­प­रि­ग्रहे लिङ्गम् । न ह्यहरहरिमाः प्रजाः कार्यब्रह्मलोकं सत्यलोकाख्यं गच्छन्तीति शक्यं कल्पयितुम् ॥ १५ ॥

धृतेश्च महि­म्नोऽ­स्या­स्मि­न्नु­प­लब्धेः ॥ १६ ॥

१६

धृतेश्च हेतोः परमेश्वर एवायं दहरः । कथम् ? ‘दह­रोऽ­स्मि­न्न­न्त­रा­काशः’ इति हि प्रकृत्य आका­शौ­प­म्य­पू­र्वकं तस्मि­न्स­र्व­स­मा­धा­न­मुक्त्वा तस्मिन्नेव चात्मशब्दं प्रयु­ज्या­प­ह­त­पा­प्म­त्वा­दि­गु­ण­योगं चोपदिश्य तमे­वा­न­ति­वृ­त्त­प्र­क­रणं निर्दिशति — ‘अथ य आत्मा स सेतु­र्वि­धृ­ति­रेषां लोका­ना­म­स­म्भे­दाय’(छा. उ. ८ । ४ । १) इति । तत्र विधृ­ति­रि­त्या­त्म­श­ब्द­सा­मा­ना­धि­क­र­ण्या­द्वि­धा­र­यि­तो­च्यते; क्तिचः कर्तरि स्मरणात् । यथोदकसन्तानस्य विधारयिता लोके सेतुः क्षेत्र­स­म्प­दा­म­स­म्भे­दाय, एवमयमात्मा एषा­म­ध्या­त्मा­दि­भे­द­भि­न्नानां लोकानां वर्णाश्रमादीनां च विधारयिता सेतुः, असम्भेदाय असङ्करायेति । एवमिह प्रकृते दहरे विधारणलक्षणं महिमानं दर्शयति । अयं च महिमा परमेश्वर एव श्रुत्य­न्त­रा­दु­प­ल­भ्यते — ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ इत्यादेः । तथान्यत्रापि निश्चिते परमेश्वरवाक्ये श्रूयते — ‘एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोका­ना­म­स­म्भे­दाय’ इति । एवं धृतेश्च हेतोः परमेश्वर एवायं दहरः ॥ १६ ॥

प्रसिद्धेश्च ॥ १७ ॥

१७

इतश्च परमेश्वर एव ‘दह­रोऽ­स्मि­न्न­न्त­रा­काशः’ इत्युच्यते; यत्का­र­ण­मा­का­श­शब्दः परमेश्वरे प्रसिद्धः — ‘आकाशो वै नाम नाम­रू­प­यो­र्नि­र्व­हिता’(छा. उ. ८ । १४ । १) ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते’(छा. उ. १ । ९ । १) इत्या­दि­प्र­यो­ग­द­र्श­नात् । जीवे तु न क्वचिदाकाशशब्दः प्रयुज्यमानो दृश्यते । भूताकाशस्तु सत्या­म­प्या­का­श­श­ब्द­प्र­सिद्धौ उप­मा­नो­प­मे­य­भा­वा­द्य­स­म्भ­वान्न ग्रहीतव्य इत्युक्तम् ॥ १७ ॥

इतरपरामर्शात्स इति चेन्नासम्भवात् ॥ १८ ॥

१८

यदि वाक्यशेषबलेन दहर इति परमेश्वरः परिगृह्येत, अस्ति इतरस्यापि जीवस्य वाक्यशेषे परामर्शः — ‘अथ य एष सम्प्र­सा­दोऽ­स्मा­च्छ­री­रा­त्स­मु­त्थाय परं ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यत एष आत्मेति होवाच’(छा. उ. ८ । ३ । ४) इति । अत्र हि सम्प्रसादशब्दः श्रुत्यन्तरे सुषु­प्ता­व­स्थायां दृष्ट­त्वा­त्त­द­व­स्था­वन्तं जीवं शक्नो­त्यु­प­स्था­प­यि­तुम् , नार्थान्तरम् । तथा शरी­र­व्य­पा­श्र­य­स्यैव जीवस्य शरी­रा­त्स­मु­त्थानं सम्भवति, यथा­का­श­व्य­पा­श्र­याणां वाय्वा­दी­ना­मा­का­शा­त्स­मु­त्था­नम् , तद्वत् । यथा चादृष्टोऽपि लोके परमेश्वरविषय आकाशशब्दः पर­मे­श्व­र­ध­र्म­स­म­भि­व्या­हा­रात् ‘आकाशो वै नाम नाम­रू­प­यो­र्नि­र्व­हिता’(छा. उ. ८ । १४ । १) इत्येवमादौ पर­मे­श्व­र­वि­ष­योऽ­भ्यु­प­गतः, एवं जीवविषयोऽपि भविष्यति । तस्मा­दि­त­र­प­रा­म­र्शात् ‘दह­रोऽ­स्मि­न्न­न्त­रा­काशः’ इत्यत्र स एव जीव उच्यत इति चेत् — नैतदेवं स्यात् । कस्मात् ? असम्भवात् । न हि जीवो बुद्ध्या­द्यु­पा­धि­प­रि­च्छे­दा­भि­मानी सन् आकाशेनोपमीयेत । न चोपा­धि­ध­र्मा­न­भि­म­न्य­मा­न­स्या­प­ह­त­पा­प्म­त्वा­दयो धर्माः सम्भवन्ति । प्रपञ्चितं चैत­त्प्र­थ­म­सूत्रे । अति­रे­का­श­ङ्का­प­रि­हा­राय अत्र तु पुनरुपन्यस्तम् । पठिष्यति चोपरिष्टात् — ‘अन्यार्थश्च परामर्शः’(ब्र. सू. १ । ३ । २०) इति ॥ १‍८ ॥

उत्त­रा­च्चे­दा­वि­र्भू­त­स्व­रू­पस्तु ॥ १९ ॥

१९

इतरपरामर्शाद्या जीवाशङ्का जाता, सा अस­म्भ­वा­न्नि­रा­कृता । अथेदानीं मृत­स्ये­वा­मृ­त­से­कात् पुनः समुत्थानं जीवाशङ्कायाः क्रियते — उत्त­र­स्मा­त्प्रा­जा­प­त्या­द्वा­क्यात् । तत्र हि ‘य आत्मापहतपाप्मा’ इत्य­प­ह­त­पा­प्म­त्वा­दि­गु­ण­क­मा­त्मा­न­म­न्वे­ष्टव्यं विजिज्ञासितव्यं च प्रतिज्ञाय, ‘य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मा’(छा. उ. ८ । ७ । ४) इति ब्रुवन् अक्षिस्थं द्रष्टारं जीवमात्मानं निर्दिशति । ‘एतं त्वेव ते भूयोऽ­नु­व्या­ख्या­स्यामि’(छा. उ. ८ । ९ । ३) इति च तमेव पुनः पुनः परामृश्य, ‘य एष स्वप्ने मही­य­मा­न­श्च­र­त्येष आत्मा’(छा. उ. ८ । १० । १) इति ‘तद्य­त्रै­त­त्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्येष आत्मा’(छा. उ. ८ । ११ । १) इति च जीव­मे­वा­व­स्था­न्त­र­गतं व्याचष्टे । तस्यैव चाप­ह­त­पा­प्म­त्वादि दर्शयति — ‘एत­द­मृ­त­म­भ­य­मे­त­द्ब्रह्म’ इति । ‘नाह खल्वयमेवं सम्प्र­त्या­त्मानं जाना­त्य­य­म­ह­म­स्मीति नो एवेमानि भूतानि’(छा. उ. ८ । ११ । २) इति च सुषु­प्ता­व­स्थायां दोषमुपलभ्य, ‘एतं त्वेव ते भूयोऽ­नु­व्या­ख्या­स्यामि नो एवा­न्य­त्रै­त­स्मात्’ इति चोपक्रम्य, शरी­र­स­म्ब­न्ध­नि­न्दा­पू­र्व­कम् ‘एष सम्प्र­सा­दोऽ­स्मा­च्छ­री­रा­त्स­मु­त्थाय परं ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यते स उत्तमः पुरुषः’ इति जीवमेव शरी­रा­त्स­मु­त्थि­त­मु­त्तमं पुरुषं दर्शयति । तस्मादस्ति सम्भवो जीवे पारमेश्वराणां धर्माणाम् । अतः ‘दह­रोऽ­स्मि­न्न­न्त­रा­काशः’ इति जीव एवोक्त इति चेत्क­श्चि­द्ब्रू­यात्; तं प्रति ब्रूयात् — ‘आवि­र्भू­त­स्व­रू­पस्तु’ इति । तुशब्दः पूर्व­प­क्ष­व्या­वृ­त्त्यर्थः । नोत्तरस्मादपि वाक्यादिह जीवस्याशङ्का सम्भवतीत्यर्थः । कस्मात् ? यत­स्त­त्रा­प्या­वि­र्भू­त­स्व­रूपो जीवो विवक्ष्यते । आविर्भूतं स्वरू­प­म­स्ये­त्या­वि­र्भू­त­स्व­रूपः; भूतपूर्वगत्या जीववचनम् । एतदुक्तं भवति — ‘य एषोऽक्षिणि’ इत्यक्षिलक्षितं द्रष्टारं निर्दिश्य, उद­श­रा­व­ब्रा­ह्म­णेन एनं शरीरात्मताया व्युत्थाप्य, ‘एतं त्वेव ते’ इति पुनः पुनस्तमेव व्याख्ये­य­त्वे­ना­कृष्य, स्वप्न­सु­षु­प्तो­प­न्या­स­क्र­मेण ‘परं ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यते’ इति यदस्य पारमार्थिकं स्वरूपं परं ब्रह्म, तद्रूपतयैनं जीवं व्याचष्टे; न जैवेन रूपेण । यत् परं ज्योति­रु­प­स­म्प­त्तव्यं श्रुतम् , तत्परं ब्रह्म । तच्चा­प­ह­त­पा­प्म­त्वा­दि­ध­र्म­कम् । तदेव च जीवस्य पारमार्थिकं स्वरूपम् — ‘तत्त्वमसि’ इत्या­दि­शा­स्त्रेभ्यः, नेत­र­दु­पा­धि­क­ल्पि­तम् । यावदेव हि स्थाणाविव पुरुषबुद्धिं द्वैत­ल­क्ष­णा­म­विद्यां निव­र्त­य­न्कू­ट­स्थ­नि­त्य­दृ­क्स्व­रू­प­मा­त्मा­नम् ‘अहं ब्रह्मास्मि’ इति न प्रतिपद्यते, तावज्जीवस्य जीवत्वम् । यदा तु देहे­न्द्रि­य­म­नो­बु­द्धि­स­ङ्घा­ता­द्व्यु­त्थाप्य श्रुत्या प्रतिबोध्यते नासि त्वं देहे­न्द्रि­य­म­नो­बु­द्धि­स­ङ्घातः, नासि संसारी; किं तर्हि ? — तद्यत्सत्यं स आत्मा चैत­न्य­मा­त्र­स्व­रू­प­स्त­त्त्व­म­सीति । तदा कूट­स्थ­नि­त्य­दृ­क्स्व­रू­प­मा­त्मानं प्रतिबुध्य अस्मा­च्छ­री­रा­द्य­भि­मा­ना­त्स­मु­त्ति­ष्ठन् स एव कूट­स्थ­नि­त्य­दृ­क्स्व­रूप आत्मा भवति — ‘स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’(मु. उ. ३ । २ । ९) इत्या­दि­श्रु­तिभ्यः । तदेव चास्य पारमार्थिकं स्वरूपम् , येन शरीरात्समुत्थाय स्वेन रूपे­णा­भि­नि­ष्प­द्यते । कथं पुनः स्वं च रूपं स्वेनैव च निष्पद्यत इति सम्भवति कूटस्थनित्यस्य ? सुवर्णादीनां तु द्रव्या­न्त­र­स­म्प­र्का­द­भि­भू­त­स्व­रू­पा­णा­म­न­भि­व्य­क्ता­सा­धा­र­ण­वि­शे­षाणां क्षार­प्र­क्षे­पा­दिभिः शोध्यमानानां स्वरू­पे­णा­भि­नि­ष्पत्तिः स्यात् । तथा नक्ष­त्रा­दी­ना­म­ह­न्य­भि­भू­त­प्र­का­शा­ना­म­भि­भा­व­क­वि­योगे रात्रौ स्वरू­पे­णा­भि­नि­ष्पत्तिः स्यात् । न तु तथा­त्म­चै­त­न्य­ज्यो­तिषो नित्यस्य केनचिदभिभवः सम्भवति असंसर्गित्वात् व्योम्न इव । दृष्टविरोधाच्च । दृष्टि­श्रु­ति­म­ति­वि­ज्ञा­तयो हि जीवस्य स्वरूपम् । तच्च शरी­रा­द­स­मु­त्थि­त­स्यापि जीवस्य सदा निष्पन्नमेव दृश्यते । सर्वो हि जीवः पश्यन् शृण्वन् मन्वानो विजा­न­न्व्य­व­ह­रति, अन्यथा व्यव­हा­रा­नु­प­पत्तेः । तच्चेत् शरी­रा­त्स­मु­त्थि­तस्य निष्पद्येत, प्राक्स­मु­त्था­ना­द्दृष्टो व्यवहारो विरुध्येत । अतः किमात्मकमिदं शरी­रा­त्स­मु­त्था­नम् , किमात्मिका वा स्वरू­पे­णा­भि­नि­ष्प­त्ति­रिति । अत्रोच्यते — प्राग्वि­वे­क­वि­ज्ञा­नो­त्पत्तेः शरी­रे­न्द्रि­य­म­नो­बु­द्धि­वि­ष­य­वे­द­नो­पा­धि­भि­र­वि­वि­क्त­मिव जीवस्य दृष्ट्या­दि­ज्यो­तिः­स्व­रूपं भवति । यथा शुद्धस्य स्फटिकस्य स्वाच्छ्यं शौक्ल्यं च स्वरूपं प्राग्वि­वे­क­ग्र­ह­णा­द्र­क्त­नी­ला­द्यु­पा­धि­भि­र­वि­वि­क्त­मिव भवति; प्रमा­ण­ज­नि­त­वि­वे­क­ग्र­ह­णात्तु पराचीनः स्फटिकः स्वाच्छ्येन शौक्ल्येन च स्वेन रूपे­णा­भि­नि­ष्प­द्यत इत्युच्यते प्रागपि तथैव सन्; तथा देहा­द्यु­पा­ध्य­वि­वि­क्त­स्यैव सतो जीवस्य श्रुतिकृतं विवेकविज्ञानं शरी­रा­त्स­मु­त्था­नम् , विवेकविज्ञानफलं स्वरू­पे­णा­भि­नि­ष्पत्तिः केव­ला­त्म­स्व­रू­पा­व­गतिः । तथा विवे­का­वि­वे­क­मा­त्रे­णै­वा­त्म­नोऽ­श­री­रत्वं सशरीरत्वं च मन्त्रवर्णात् ‘अशरीरं शरीरेषु’(क. उ. १ । २ । २२) इति, ‘शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते’(भ. गी. १३ । ३१) इति च सश­री­र­त्वा­श­री­र­त्व­वि­शे­षा­भा­व­स्म­र­णात् । तस्मा­द्वि­वे­क­वि­ज्ञा­ना­भा­वा­द­ना­वि­र्भू­त­स्व­रूपः सन् विवे­क­वि­ज्ञा­ना­दा­वि­र्भू­त­स्व­रूप इत्युच्यते । न त्वन्यादृशौ आवि­र्भा­वा­ना­वि­र्भावौ स्वरूपस्य सम्भवतः, स्वरूपत्वादेव । एवं मिथ्याज्ञानकृत एव जीव­प­र­मे­श्व­र­यो­र्भेदः, न वस्तुकृतः; व्योम­व­द­स­ङ्ग­त्वा­वि­शे­षात् । कुतश्चैतदेवं प्रतिपत्तव्यम् ? यतः ‘य एषोऽक्षिणि पुरुषो दृश्यते’ इत्युपदिश्य ‘एत­द­मृ­त­म­भ­य­मे­त­द्ब्रह्म’ इत्युपदिशति । योऽक्षिणि प्रसिद्धो द्रष्टा द्रष्टृत्वेन विभाव्यते, सोऽमृ­ता­भ­य­ल­क्ष­णा­द्ब्र­ह्म­णोऽ­न्य­श्चे­त्स्यात् , ततोऽ­मृ­ता­भ­य­ब्र­ह्म­सा­मा­ना­धि­क­रण्यं न स्यात् । नापि प्रति­च्छा­या­त्मा­य­म­क्षि­ल­क्षितो निर्दिश्यते, प्रजा­प­ते­र्मृ­षा­वा­दि­त्व­प्र­स­ङ्गात् । तथा द्वितीयेऽपि पर्याये ‘य एष स्वप्ने महीयमानश्चरति’ इति न प्रथ­म­प­र्या­य­नि­र्दि­ष्टा­द­क्षि­पु­रु­षा­द्द्र­ष्टु­रन्यो निर्दिष्टः, ‘एतं त्वेव ते भूयोऽ­नु­व्या­ख्या­स्यामि’ इत्युपक्रमात् । किञ्च ‘अहमद्य स्वप्ने हस्ति­न­म­द्रा­क्षम् , नेदानीं तं पश्यामि’ इति दृष्टमेव प्रतिबुद्धः प्रत्याचष्टे । द्रष्टारं तु तमेव प्रत्यभिजानाति — ‘य एवाहं स्वप्न­म­द्रा­क्षम् , स एवाहं जागरितं पश्यामि’ इति । तथा तृतीयेऽपि पर्याये — ‘नाह खल्वयमेवं सम्प्र­त्या­त्मानं जाना­त्य­य­म­ह­म­स्मीति नो एवेमानि भूतानि’ इति सुषु­प्ता­व­स्थायां विशे­ष­वि­ज्ञा­ना­भा­व­मेव दर्शयति, न विज्ञातारं प्रतिषेधति । यत्तु तत्र ‘विनाशमेवापीतो भवति’ इति, तदपि विशे­ष­वि­ज्ञा­न­वि­ना­शा­भि­प्रा­य­मेव, न विज्ञा­तृ­वि­ना­शा­भि­प्रा­यम्; ‘न हि विज्ञा­तु­र्वि­ज्ञा­ते­र्वि­प­रि­लोपो विद्य­तेऽ­वि­ना­शि­त्वात्’(बृ. उ. ४ । ३ । ३०) इति श्रुत्यन्तरात् । तथा चतुर्थेऽपि पर्याये ‘एतं त्वेव ते भूयोऽ­नु­व्या­ख्या­स्यामि नो एवा­न्य­त्रै­त­स्मात्’ इत्युपक्रम्य ‘मघवन् मर्त्यं वा इदं शरीरम्’ इत्यादिना प्रपञ्चेन शरी­रा­द्यु­पा­धि­स­म्ब­न्ध­प्र­त्या­ख्या­नेन सम्प्र­सा­द­श­ब्दो­दितं जीवम् ‘स्वेन रूपे­णा­भि­नि­ष्प­द्यते’ इति ब्रह्म­स्व­रू­पा­पन्नं दर्शयन् , न पर­स्मा­द्ब्र­ह्म­णोऽ­मृ­ता­भ­य­स्व­रू­पा­दन्यं जीवं दर्शयति । केचित्तु पर­मा­त्म­वि­व­क्षा­याम् ‘एतं त्वेव ते’ इति जीवा­क­र्ष­ण­म­न्याय्यं मन्यमाना एतमेव वाक्यो­प­क्र­म­सू­चि­त­म­प­ह­त­पा­प्म­त्वा­दि­गु­ण­क­मा­त्मानं ते भूयोऽ­नु­व्या­ख्या­स्या­मीति कल्पयन्ति । तेषाम् ‘एतम्’ इति सन्नि­हि­ता­व­ल­म्बिनी सर्व­ना­म­श्रु­ति­र्वि­प्र­कृ­ष्येत । भूयः­श्रु­ति­श्चो­प­रु­ध्येत । पर्या­या­न्त­रा­भि­हि­तस्य पर्या­या­न्त­रेऽ­न­भि­धी­य­मा­न­त्वात् । ‘एतं त्वेव ते’ इति च प्रतिज्ञाय प्राक्च­तु­र्था­त्प­र्या­या­द­न्य­मन्यं व्याचक्षाणस्य प्रजापतेः प्रतारकत्वं प्रसज्येत । तस्मात् यद­वि­द्या­प्र­त्यु­प­स्था­पि­त­म­पा­र­मा­र्थिकं जैवं रूपं कर्तृ­त्व­भो­क्तृ­त्व­रा­ग­द्वे­षा­दि­दो­ष­क­लु­षि­त­म­ने­का­न­र्थ­योगि, तद्विलयनेन तद्वि­प­री­त­म­प­ह­त­पा­प्म­त्वा­दि­गु­णकं पारमेश्वरं स्वरूपं विद्यया प्रतिपद्यते, सर्पा­दि­वि­ल­य­ने­नेव रज्ज्वादीन् । अपरे तु वादिनः पारमार्थिकमेव जैवं रूपमिति मन्य­न्तेऽ­स्म­दी­याश्च केचित् । तेषां सर्वे­षा­मा­त्मै­क­त्व­स­म्य­ग्द­र्श­न­प्र­ति­प­क्ष­भू­तानां प्रतिषेधायेदं शारीरकमारब्धम् — एक एव परमेश्वरः कूटस्थनित्यो विज्ञा­न­धा­तु­र­वि­द्यया, मायया मायाविवत् , अनेकधा विभाव्यते, नान्यो विज्ञा­न­धा­तु­र­स्तीति । यत्त्विदं परमेश्वरवाक्ये जीवमाशङ्क्य प्रतिषेधति सूत्रकारः — ‘नासम्भवात्’(ब्र. सू. १ । ३ । १८) इत्यादिना, तत्रायमभिप्रायः — नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावे कूटस्थनित्ये एकस्मिन्नसङ्गे परमात्मनि तद्विपरीतं जैवं रूपं व्योम्नीव तलमलादि परिकल्पितम्; तत् आत्मै­क­त्व­प्र­ति­पा­द­न­प­रै­र्वा­क्यै­र्न्या­यो­पे­तै­र्द्वै­त­वा­द­प्र­ति­षे­धै­श्चा­प­ने­ष्या­मीति — परमात्मनो जीवादन्यत्वं द्रढयति । जीवस्य तु न परस्मादन्यत्वं प्रतिपिपादयिषति । किं त्वनु­व­द­त्ये­वा­वि­द्या­क­ल्पितं लोकप्रसिद्धं जीवभेदम् । एवं हि स्वाभा­वि­क­क­र्तृ­त्व­भो­क्तृ­त्वा­नु­वा­देन प्रवृत्ताः कर्मविधयो न विरुध्यन्त इति मन्यते । प्रतिपाद्यं तु शास्त्रा­र्थ­मा­त्मै­क­त्व­मेव दर्शयति — ‘शास्त्र­दृष्ट्या तूपदेशो वामदेववत्’(ब्र. सू. १ । १ । ३०) इत्यादिना । वर्णि­त­श्चा­स्माभिः विद्व­द­वि­द्व­द्भे­देन कर्म­वि­धि­वि­रो­ध­प­रि­हारः ॥ १९ ॥

अन्यार्थश्च परामर्शः ॥ २० ॥

२०

अथ यो दहरवाक्यशेषे जीवपरामर्शो दर्शितः — ‘अथ य एष सम्प्रसादः’(छा. उ. ८ । ३ । ४) इत्यादिः, स दहरे परमेश्वरे व्याख्यायमाने, न जीवोपासनोपदेशः, नापि प्रकृ­त­वि­शे­षो­प­दे­शः,इ­त्य­न­र्थ­कत्वं प्राप्नोतीत्यत आह — अन्यार्थोऽयं जीवपरामर्शो न जीव­स्व­रू­प­प­र्य­व­सायी, किं तर्हि ? — पर­मे­श्व­र­स्व­रू­प­प­र्य­व­सायी । कथम् ? सम्प्र­सा­द­श­ब्दो­दितो जीवो जागरितव्यवहारे देहे­न्द्रि­य­प­ञ्ज­रा­ध्यक्षो भूत्वा, तद्वा­स­ना­नि­र्मि­तांश्च स्वप्ना­न्ना­डी­च­रोऽ­नु­भूय, श्रान्तः शरणं प्रेप्सु­रु­भ­य­रू­पा­दपि शरी­रा­भि­मा­ना­त्स­मु­त्थाय, सुषु­प्ता­व­स्थायां परं ज्योति­रा­का­श­श­ब्दितं परं ब्रह्मो­प­स­म्पद्य, विशे­ष­वि­ज्ञा­न­वत्त्वं च परित्यज्य, स्वेन रूपे­णा­भि­नि­ष्प­द्यते । यद­स्यो­प­स­म्प­त्तव्यं परं ज्योतिः, येन स्वेन रूपे­णा­य­म­भि­नि­ष्प­द्यते, स एष आत्मा­प­ह­त­पा­प्म­त्वा­दि­गुण उपास्यः — इत्येवमर्थोऽयं जीवपरामर्शः पर­मे­श्व­र­वा­दि­नोऽ­प्यु­प­प­द्यते ॥ २० ॥

अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥

२१

यदप्युक्तम् — ‘दह­रोऽ­स्मि­न्न­न्त­रा­काशः’ इत्या­का­श­स्या­ल्पत्वं श्रूयमाणं परमेश्वरे नोपपद्यते, जीवस्य तु आरा­ग्रो­प­मि­त­स्या­ल्प­त्व­म­व­क­ल्पत इति; तस्य परिहारो वक्तव्यः । उक्तो ह्यस्य परिहारः — पर­मे­श्व­र­स्या­प्या­पे­क्षि­क­म­ल्प­त्व­म­व­क­ल्पत इति, ‘अर्भ­कौ­क­स्त्वा­त्त­द्व्य­प­दे­शाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च’(ब्र. सू. १ । २ । ७) इत्यत्र; स एवेह परि­हा­रोऽ­नु­स­न्धा­तव्य इति सूचयति । श्रुत्यैव च इदमल्पत्वं प्रत्युक्तं प्रसि­द्धे­ना­का­शे­नो­प­मि­मा­नया ‘यावान्वा अय­मा­का­श­स्ता­वा­ने­षोऽ­न्त­र्हृ­दय आकाशः’ इति ॥ २१ ॥

अनुकृतेस्तस्य च ॥ २२ ॥

२२

‘न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’(मु. उ. २ । २ । ११) इति समामनन्ति । तत्र यं भान्तमनुभाति सर्वं यस्य च भासा सर्वमिदं विभाति, स किं तेजोधातुः कश्चित् , उत प्राज्ञ आत्मेति विचिकित्सायां तेजोधातुरिति तावत्प्राप्तम् । कुतः ? तेजोधातूनामेव सूर्यादीनां भानप्रतिषेधात् । तेजःस्वभावकं हि चन्द्रतारकादि तेजःस्वभावक एव सूर्ये भासमाने अहनि न भासत इति प्रसिद्धम् । तथा सह सूर्येण सर्वमिदं चन्द्रतारकादि यस्मिन्न भासते, सोऽपि तेजःस्वभाव एव कश्चि­दि­त्य­व­ग­म्यते । अनुभानमपि तेजःस्वभावक एवोपपद्यते, समा­न­स्व­भा­व­के­ष्व­नु­का­र­द­र्श­नात्; ‘गच्छ­न्त­म­नु­ग­च्छति’ इतिवत् । तस्मा­त्ते­जो­धातुः कश्चिदित्येवं प्राप्ते ब्रूमः —

प्राज्ञ एवायमात्मा भवितुमर्हति । कस्मात् ? अनुकृतेः; अनुकरणमनुकृतिः । यदेतत् ‘तमेव भान्तमनुभाति सर्वम्’ इत्यनुभानम् , तत्प्रा­ज्ञ­प­रि­ग्र­हेऽ­व­क­ल्पते । ‘भारूपः सत्यसङ्कल्पः’(छा. उ. ३ । १४ । २) इति हि प्राज्ञ­मा­त्मा­न­मा­म­नन्ति । न तु तेजोधातुं कञ्चि­त्सू­र्या­द­योऽ­नु­भा­न्तीति प्रसिद्धम् । समत्वाच्च तेजोधातूनां सूर्यादीनां न तेजोधातुमन्यं प्रत्य­पे­क्षास्ति, यं भान्तमनुभायुः । न हि प्रदीपः प्रदी­पा­न्त­र­म­नु­भाति । यदप्युक्तं समा­न­स्व­भा­व­के­ष्व­नु­कारो दृश्यत इति — नायमेकान्तो नियमः । भिन्न­स्व­भा­व­के­ष्वपि ह्यनुकारो दृश्यते; यथा सुत­प्तोऽ­यः­पि­ण्डोऽ­ग्न्य­नु­कृ­ति­रग्निं दहन्तमनुदहति, भौमं वा रजो वायुं वहन्तमनुवहतीति । ‘अनुकृतेः’ इत्य­नु­भा­न­म­सु­सू­चत् । ‘तस्य च’ इति चतुर्थं पादमस्य श्लोकस्य सूचयति । ‘तस्य भासा सर्वमिदं विभाति’ इति तद्धेतुकं भानं सूर्या­दे­रु­च्य­मानं प्राज्ञमात्मानं गमयति । ‘तद्देवा ज्योतिषां ज्योति­रा­यु­र्हो­पा­स­तेऽ­मृ­तम्’(बृ. उ. ४ । ४ । १६) इति हि प्राज्ञ­मा­त्मा­न­मा­म­नन्ति । तेजोन्तरेण सूर्यादितेजो विभा­ती­त्य­प्र­सि­द्धम् , विरुद्धं च । तेजोन्तरेण तेजोन्तरस्य प्रतिघातात् । अथवा न सूर्यादीनामेव श्लोक­प­रि­प­ठि­ता­ना­मिदं तद्धेतुकं विभानमुच्यते । किं तर्हि ? ‘सर्वमिदम्’ इत्य­वि­शे­ष­श्रुतेः सर्वस्यैवास्य नाम­रू­प­क्रि­या­का­र­क­फ­ल­जा­तस्य या अभिव्यक्तिः, सा ब्रह्म­ज्यो­तिः­स­त्ता­नि­मित्ता; यथा सूर्या­दि­ज्यो­तिः­स­त्ता­नि­मित्ता सर्वस्य रूप­जा­त­स्या­भि­व्यक्तिः, तद्वत् । ‘न तत्र सूर्यो भाति’ इति च तत्र­श­ब्द­मा­ह­र­न्प्र­कृ­त­ग्र­हणं दर्शयति । प्रकृतं च ब्रह्म ‘यस्मिन्द्यौः पृथिवी चान्त­रि­क्ष­मो­तम्’(मु. उ. २ । २ । ५) इत्यादिना; अनन्तरं च ‘हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योति­स्त­द्य­दा­त्म­विदो विदुः’ इति । कथं तज्ज्योतिषां ज्योतिरित्यत इदमुत्थितम् — ‘न तत्र सूर्यो भाति’ इति । यदप्युक्तम् सूर्यादीनां तेजसां भान­प्र­ति­षे­ध­स्ते­जो­धा­ता­वे­वा­न्य­स्मि­न्न­व­क­ल्पते, सूर्य इवेतरेषामिति; तत्र तु स एव तेजोधातुरन्यो न सम्भ­व­ती­त्यु­प­पा­दि­तम् । ब्रह्मण्यपि चैषां भान­प्र­ति­षे­धोऽ­व­क­ल्पते । यतः — यदुपलभ्यते तत्सर्वं ब्रह्मणैव ज्योतिषोपलभ्यते । ब्रह्म तु नान्येन ज्योति­षो­प­ल­भ्यते, स्वयं­ज्यो­तिः­स्व­रू­प­त्वात् , येन सूर्या­द­य­स्त­स्मि­न्भायुः । ब्रह्म हि अन्यद्व्यनक्ति, न तु ब्रह्मान्येन व्यज्यते, ‘आत्मनैवायं ज्योतिषास्ते’(बृ. उ. ४ । ३ । ६) ‘अगृह्यो न हि गृह्यते’(बृ. उ. ४ । २ । ४) इत्या­दि­श्रु­तिभ्यः ॥ २२ ॥

अपि च स्मर्यते ॥ २३ ॥

२३

अपि चेदृग्रूपत्वं प्राज्ञ­स्यै­वा­त्मनः स्मर्यते भगवद्गीतासु — ‘न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम’(भ. गी. १५ । ६) इति । ‘यदादित्यगतं तेजो जग­द्भा­स­य­तेऽ­खि­लम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्’(भ. गी. १५ । १२) इति च ॥ २३ ॥

शब्दादेव प्रमितः ॥ २४ ॥

२४

‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति’ इति श्रूयते; तथा ‘अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत्’(क. उ. २ । १ । १३) इति च । तत्र योऽय­म­ङ्गु­ष्ठ­मात्रः पुरुषः श्रूयते, स किं विज्ञानात्मा, किं वा परमात्मेति संशयः । तत्र परि­मा­णो­प­दे­शा­त्ता­व­द्वि­ज्ञा­ना­त्मेति प्राप्तम् । न ह्यन­न्ता­या­म­वि­स्ता­रस्य पर­मा­त्म­नोऽ­ङ्गु­ष्ठ­प­रि­मा­ण­मु­प­प­द्यते । विज्ञा­ना­त्म­न­स्तू­पा­धि­म­त्त्वा­त्स­म्भ­वति कया­चि­त्क­ल्प­न­या­ङ्गु­ष्ठ­मा­त्र­त्वम् । स्मृतेश्च — ‘अथ सत्यवतः कायात्पाशबद्धं वशं गतम् । अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्’(म. भा. ३ । २९७ । १७) इति । न हि परमेश्वरो बलात् यमेन निष्क्रष्टुं शक्यः । तेन तत्र संसारी अङ्गुष्ठमात्रो निश्चितः । स एवेहापीत्येवं प्राप्ते ब्रूमः —

पर­मा­त्मै­वा­य­म­ङ्गु­ष्ठ­मा­त्र­प­रि­मितः पुरुषो भवितुमर्हति । कस्मात् ? शब्दात् — ‘ईशानो भूतभव्यस्य’ इति । न ह्यन्यः पर­मे­श्व­रा­द्भू­त­भ­व्यस्य निरङ्कुशमीशिता । ‘एतद्वै तत्’ इति च प्रकृतं पृष्ट­मि­हा­नु­स­न्द­धाति । एतद्वै तत् , यत्पृष्टं ब्रह्मेत्यर्थः । पृष्टं चेह ब्रह्म — ‘अन्यत्र धर्मा­द­न्य­त्रा­ध­र्मा­द­न्य­त्रा­स्मा­त्कृ­ता­कृ­तात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’(क. उ. १ । २ । १४) इति । शब्दादेवेति — अभिधानश्रुतेरेव — ईशान इति परमेश्वरोऽयं गम्यत इत्यर्थः ॥ २४ ॥

कथं पुनः सर्वगतस्य परमात्मनः परिमाणोपदेश इत्यत्र ब्रूमः —

हृद्यपेक्षया तु मनु­ष्या­धि­का­र­त्वात् ॥ २५ ॥

२५

सर्वगतस्यापि परमात्मनो हृद­येऽ­व­स्था­न­म­पे­क्ष्या­ङ्गु­ष्ठ­मा­त्र­त्व­मि­द­मु­च्यते; आकाशस्येव वंश­प­र्वा­पे­क्ष­म­र­त्नि­मा­त्र­त्वम् । न ह्यञ्जसा अतिमात्रस्य पर­मा­त्म­नोऽ­ङ्गु­ष्ठ­मा­त्र­त्व­मु­प­प­द्यते । न चान्यः परमात्मन इह ग्रहणमर्हति ईशानशब्दादिभ्य इत्युक्तम् । ननु प्रतिप्राणिभेदं हृद­या­ना­म­न­व­स्थि­त­त्वा­त्त­द­पे­क्ष­म­प्य­ङ्गु­ष्ठ­मा­त्रत्वं नोपपद्यत इत्यत उत्तरमुच्यते — मनु­ष्या­धि­का­र­त्वा­दिति । ‘शास्त्रं ह्यवि­शे­ष­प्र­वृ­त्त­मपि मनु­ष्या­ने­वा­धि­क­रोति; शक्तत्वात् , अर्थित्वात् , अप­र्यु­द­स्त­त्वात् उप­न­य­ना­दि­शा­स्त्राच्च — इति वर्णि­त­मे­त­द­धि­का­र­ल­क्षणे’(जै. सू. ६ । १) । मनुष्याणां च नियतपरिमाणः कायः; औचित्येन नियतपरिमाणमेव चैषा­म­ङ्गु­ष्ठ­मात्रं हृदयम् । अतो मनु­ष्या­धि­का­र­त्वा­च्छा­स्त्रस्य मनु­ष्य­हृ­द­या­व­स्था­ना­पे­क्ष­म­ङ्गु­ष्ठ­मा­त्र­त्व­मु­प­पन्नं परमात्मनः । यदप्युक्तम् — परिमाणोपदेशात् स्मृतेश्च संसा­र्ये­वा­य­म­ङ्गु­ष्ठ­मात्रः प्रत्येतव्य इति; तत्प्रत्युच्यते — ‘स आत्मा तत्त्वमसि’ इत्यादिवत् संसारिण एव सतोऽ­ङ्गु­ष्ठ­मा­त्रस्य ब्रह्म­त्व­मि­द­मु­प­दि­श्यत इति । द्विरूपा हि वेदा­न्त­वा­क्यानां प्रवृत्तिः — क्वचि­त्प­र­मा­त्म­स्व­रू­प­नि­रू­प­ण­परा; क्वचि­द्वि­ज्ञा­ना­त्मनः पर­मा­त्मै­क­त्वो­प­दे­श­परा । तदत्र विज्ञानात्मनः पर­मा­त्म­नै­क­त्व­मु­प­दि­श्यते; नाङ्गु­ष्ठ­मा­त्रत्वं कस्यचित् । एतमेवार्थं परेण स्फुटीकरिष्यति — ‘अङ्गुष्ठमात्रः पुरु­षोऽ­न्त­रात्मा सदा जनानां हृदये सन्निविष्टः । तं स्वाच्छ­री­रा­त्प्र­वृ­हे­न्मु­ञ्जा­दि­वे­षीकां धैर्येण । तं विद्या­च्छु­क्र­म­मृ­तम्’(क. उ. २ । ३ । १७) इति ॥ २५ ॥

तदुपर्यपि बादरायणः सम्भवात् ॥ २६ ॥

२६

अङ्गु­ष्ठ­मा­त्र­श्रु­ति­र्म­नु­ष्य­हृ­द­या­पे­क्षया मनु­ष्या­धि­का­र­त्वा­च्छा­स्त्र­स्ये­त्यु­क्तम्; तत्प्र­स­ङ्गे­ने­द­मु­च्यते । बाढम् , मनुष्यानधिकरोति शास्त्रम् । न तु मनुष्यानेवेति इह ब्रह्मज्ञाने नियमोऽस्ति । तेषां मनुष्याणाम् उपरिष्टाद्ये देवादयः, तानप्यधिकरोति शास्त्रमिति बादरायण आचार्यो मन्यते । कस्मात् ? सम्भवात् । सम्भवति हि तेषा­म­प्य­र्थि­त्वा­द्य­धि­का­र­का­र­णम् । तत्रार्थित्वं तावन्मोक्षविषयं देवादीनामपि सम्भवति विका­र­वि­ष­य­वि­भू­त्य­नि­त्य­त्वा­लो­च­ना­दि­नि­मि­त्तम् । तथा सामर्थ्यमपि तेषां सम्भवति, मन्त्रा­र्थ­वा­दे­ति­हा­स­पु­रा­ण­लो­केभ्यो विग्र­ह­व­त्त्वा­द्य­व­ग­मात् । न च तेषां कश्चि­त्प्र­ति­षे­धोऽस्ति । न चोप­न­य­न­शा­स्त्रे­णै­षा­म­धि­कारो निवर्त्येत, उपनयनस्य वेदा­ध्य­य­ना­र्थ­त्वात् , तेषां च स्वयं­प्र­ति­भा­त­वे­द­त्वात् । अपि चैषां विद्या­ग्र­ह­णार्थं ब्रह्मचर्यादि दर्शयति — ‘एकशतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्म­च­र्य­मु­वास’(छा. उ. ८ । ११ । ३) ‘भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्म’(तै. उ. ३ । १ । १) इत्यादि । यदपि कर्म­स्व­न­धि­का­र­का­र­ण­मु­क्तम् — ‘न देवानां देव­ता­न्त­रा­भा­वात्’ इति, ‘न ऋषीणाम् , आर्षे­या­न्त­रा­भा­वात्’(जै. सू. ६ । १ । ६,७) इति; न तद्विद्यासु अस्ति । न हीन्द्रादीनां विद्या­स्व­धि­क्रि­य­मा­णा­ना­मि­न्द्रा­द्यु­द्दे­शेन किञ्चि­त्कृ­त्य­मस्ति । न च भृग्वादीनां भृग्वा­दि­स­गो­त्र­तया । तस्मा­द्दे­वा­दी­ना­मपि विद्यास्वधिकारः केन वार्यते ? देवा­द्य­धि­का­रेऽ­प्य­ङ्गु­ष्ठ­मा­त्र­श्रुतिः स्वाङ्गु­ष्ठा­पे­क्षया न विरुध्यते ॥ २६ ॥

विरोधः कर्मणीति चेन्ना­ने­क­प्र­ति­प­त्ते­र्द­र्श­नात् ॥ २७ ॥

२७

स्यादेतत् — यदि विग्र­ह­व­त्त्वा­द्य­भ्यु­प­ग­मेन देवादीनां विद्यास्वधिकारो वर्ण्येत, विग्रहवत्त्वात् ऋत्वि­गा­दि­व­दि­न्द्रा­दी­ना­मपि स्वरू­प­स­न्नि­धा­नेन कर्मा­ङ्ग­भा­वोऽ­भ्यु­प­ग­म्येत; तदा च विरोधः कर्मणि स्यात्; न हीन्द्रादीनां स्वरू­प­स­न्नि­धा­नेन यागेऽङ्गभावो दृश्यते । न च सम्भवति। बहुषु यागेषु युग­प­दे­क­स्ये­न्द्रस्य स्वरू­प­स­न्नि­धा­ना­नु­प­प­त्ते­रिति चेत् , नायमस्ति विरोधः । कस्मात् ? अनेकप्रतिपत्तेः । एकस्यापि देवतात्मनो युग­प­द­ने­क­स्व­रू­प­प्र­ति­पत्तिः सम्भवति । कथमेतदवगम्यते ? दर्शनात् । तथाहि — ‘कति देवाः’(बृ. उ. ३ । ९ । १) इत्युपक्रम्य ‘त्रयश्च त्री च शता त्रयश्च त्री च सहस्रा’(बृ. उ. ३ । ९ । १) इति निरुच्य ‘कतमे ते’(बृ. उ. ३ । ९ । १) इत्यस्यां पृच्छायाम् ‘महिमान एवैषामेते त्रय­स्त्रिं­श­त्त्वेव देवाः’(बृ. उ. ३ । ९ । २) इति निर्ब्रुवती श्रुतिः एकैकस्य देवतात्मनो युगपदनेकरूपतां दर्शयति । तथा त्रय­स्त्रिं­श­तोऽपि षडा­द्य­न्त­र्भा­व­क्र­मेण ‘कतम एको देव इति प्राणः’ इति प्राणैकरूपतां देवानां दर्शयन्ती तस्यैव एकस्य प्राणस्य युगपदनेकरूपतां दर्शयति । तथा स्मृतिरपि — ‘आत्मनो वै शरीराणि बहूनि भरतर्षभ । योगी कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत् ॥ प्राप्नु­या­द्वि­ष­या­न्कै­श्चि­त्कै­श्चि­दुग्रं तपश्चरेत् । संक्षिपेच्च पुनस्तानि सूर्यो रश्मिगणानिव’ इत्येवंजातीयका प्राप्ता­णि­मा­द्यै­श्व­र्याणां योगिनामपि युग­प­द­ने­क­श­री­र­योगं दर्शयति । किमु वक्त­व्य­मा­जा­न­सि­द्धानां देवानाम् ? अने­क­रू­प­प्र­ति­प­त्ति­स­म्भ­वाच्च एकैका देवता बहुभी रूपैरात्मानं प्रविभज्य बहुषु यागेषु युगपदङ्गभावं गच्छति परैश्च न दृश्यते, अन्त­र्धा­ना­दि­क्रि­या­यो­गात् — इत्युपपद्यते । ‘अने­क­प्र­ति­प­त्ते­र्द­र्श­नात्’ इत्यस्यापरा व्याख्या — विग्रहवतामपि कर्मा­ङ्ग­भा­व­चो­द­नासु अनेका प्रति­प­त्ति­र्दृ­श्यते; क्वचिदेकोऽपि विग्रहवाननेकत्र युगपदङ्गभावं न गच्छति, यथा बहु­भि­र्भो­ज­य­द्भि­र्नैको ब्राह्मणो युगपद्भोज्यते । क्वचिच्चैकोऽपि विग्रहवाननेकत्र युगपदङ्गभावं गच्छति, यथा बहु­भि­र्न­म­स्कु­र्वा­णै­रेको ब्राह्मणो युग­प­न्न­म­स्क्रि­यते । तद्व­दि­हो­द्दे­श­प­रि­त्या­गा­त्म­क­त्वात् यागस्य विग्र­ह­व­ती­म­प्येकां देवतामुद्दिश्य बहवः स्वं स्वं द्रव्यं युग­प­त्प­रि­त्य­क्ष्य­न्तीति विग्र­ह­व­त्त्वेऽपि देवानां न किञ्चित्कर्मणि विरुध्यते ॥ २७ ॥

शब्द इति चेन्नातः प्रभ­वा­त्प्र­त्य­क्षा­नु­मा­ना­भ्याम् ॥ २८ ॥

२८

मा नाम विग्रहवत्त्वे देवा­दी­ना­म­भ्यु­प­ग­म्य­माने कर्मणि कश्चिद्विरोधः प्रसञ्जि । शब्दे तु विरोधः प्रसज्येत । कथम् ? औत्पत्तिकं हि शब्दस्यार्थेन सम्ब­न्ध­मा­श्रित्य ‘अनपेक्षत्वात्’ इति वेदस्य प्रामाण्यं स्थापितम् । इदानीं तु विग्रहवती देव­ता­भ्यु­प­ग­म्य­माना यद्य­प्यै­श्व­र्य­यो­गा­द्यु­ग­प­द­ने­क­क­र्म­स­म्ब­न्धीनि हवींषि भुञ्जीत, तथापि विग्र­ह­यो­गा­द­स्म­दा­दि­व­ज्ज­न­न­म­र­ण­वती सेति, नित्यस्य शब्दस्य नित्येनार्थेन नित्ये सम्बन्धे प्रतीयमाने यद्वैदिके शब्दे प्रामाण्यं स्थितम् , तस्य विरोधः स्यादिति चेत् , नायमप्यस्ति विरोधः । कस्मात् ? अतः प्रभवात् । अत एव हि वैदि­का­च्छ­ब्दा­द्दे­वा­दिकं जगत्प्रभवति ॥

ननु ‘जन्माद्यस्य यतः’(ब्र. सू. १ । १ । २) इत्यत्र ब्रह्मप्रभवत्वं जगतोऽवधारितम् , कथमिह शब्द­प्र­भ­व­त्व­मु­च्यते ? अपि च यदि नाम वैदि­का­च्छ­ब्दा­दस्य प्रभ­वोऽ­भ्यु­प­गतः, कथमेतावता विरोधः शब्दे परिहृतः ? यावता वसवो रुद्रा आदित्या विश्वेदेवा मरुत इत्येतेऽर्था अनित्या एव, उत्प­त्ति­म­त्त्वात् । तदनित्यत्वे च तद्वाचिनां वैदिकानां वस्वा­दि­श­ब्दा­ना­म­नि­त्यत्वं केन निवार्यते ? प्रसिद्धं हि लोके देवदत्तस्य पुत्र उत्पन्ने यज्ञदत्त इति तस्य नाम क्रियत इति । तस्माद्विरोध एव शब्द इति चेत् , न । गवा­दि­श­ब्दा­र्थ­स­म्ब­न्ध­नि­त्य­त्व­द­र्श­नात् । न हि गवा­दि­व्य­क्ती­ना­मु­त्प­त्ति­मत्त्वे तदा­कृ­ती­ना­म­प्यु­त्प­त्ति­मत्त्वं स्यात् । द्रव्य­गु­ण­क­र्मणां हि व्यक्तय एवोत्पद्यन्ते, नाकृतयः । आकृतिभिश्च शब्दानां सम्बन्धः, न व्यक्तिभिः । व्यक्ती­ना­मा­न­न्त्या­त्स­म्ब­न्ध­ग्र­ह­णा­नु­प­पत्तेः । व्यक्ति­षू­त्प­द्य­मा­ना­स्व­प्या­कृ­तीनां नित्यत्वात् न गवादिशब्देषु कश्चिद्विरोधो दृश्यते । तथा देवा­दि­व्य­क्ति­प्र­भ­वा­भ्यु­प­ग­मेऽ­प्या­कृ­ति­नि­त्य­त्वात् न कश्चि­द्व­स्वा­दि­श­ब्देषु विरोध इति द्रष्टव्यम् । आकृतिविशेषस्तु देवादीनां मन्त्रा­र्थ­वा­दा­दिभ्यो विग्र­ह­व­त्त्वा­द्य­व­ग­मा­द­व­ग­न्तव्यः । स्थान­वि­शे­ष­स­म्ब­न्ध­नि­मि­त्ताश्च इन्द्रादिशब्दाः सेना­प­त्या­दि­श­ब्द­वत् । ततश्च यो यस्त­त्त­त्स्था­न­म­धि­रो­हति, स स इन्द्रा­दि­श­ब्दै­र­भि­धी­यत इति न दोषो भवति । न चेदं शब्दप्रभवत्वं ब्रह्म­प्र­भ­व­त्व­व­दु­पा­दा­न­का­र­ण­त्वा­भि­प्रा­ये­णो­च्यते । कथं तर्हि ? स्थिते वाचकात्मना नित्ये शब्दे नित्या­र्थ­स­म्ब­न्धिनि शब्द­व्य­व­हा­र­यो­ग्या­र्थ­व्य­क्ति­नि­ष्पत्तिः ‘अतः प्रभवः’ इत्युच्यते । कथं पुनरवगम्यते शब्दात्प्रभवति जगदिति ? प्रत्य­क्षा­नु­मा­ना­भ्याम्; प्रत्यक्षं श्रुतिः, प्रामाण्यं प्रत्य­न­पे­क्ष­त्वात् । अनुमानं स्मृतिः, प्रामाण्यं प्रति सापेक्षत्वात् । ते हि शब्दपूर्वां सृष्टिं दर्शयतः । ‘एत इति वै प्रजा­प­ति­र्दे­वा­न­सृ­ज­ता­सृ­ग्र­मिति मनुष्यानिन्दव इति पितॄं­स्ति­रः­प­वि­त्र­मिति ग्रहानाशव इति स्तोत्रं विश्वानीति शस्त्र­म­भि­सौ­भ­गे­त्यन्याः प्रजाः’ इति श्रुतिः । तथान्यत्रापि ‘स मनसा वाचं मिथुनं समभवत्’(बृ. उ. १ । २ । ४) इत्यादिना तत्र तत्र शब्दपूर्विका सृष्टिः श्राव्यते; स्मृतिरपि — ‘अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा ।’(म॰भा॰ १२-२३२-२४), ‘आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः’(कू॰पु॰ २-२७) इति; उत्सर्गोऽप्ययं वाचः सम्प्र­दा­य­प्र­व­र्त­ना­त्मको द्रष्टव्यः, अनादिनिधनाया अन्या­दृ­श­स्यो­त्स­र्ग­स्या­स­म्भ­वात्; तथा ‘नाम रूपं च भूतानां कर्मणां च प्रवर्तनम् ।’, ‘वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः’(म॰भा॰ १२-२३२-२६),(वि॰पु॰ १-५-६३) इति; ‘सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे’(म॰स्मृ॰ १-२१) इति च । अपि च चिकी­र्षि­त­म­र्थ­म­नु­ति­ष्ठन् तस्य वाचकं शब्दं पूर्वं स्मृत्वा पश्चा­त्त­म­र्थ­म­नु­ति­ष्ठ­तीति सर्वेषां नः प्रत्यक्षमेतत् । तथा प्रजापतेरपि स्रष्टुः सृष्टेः पूर्वं वैदिकाः शब्दा मनसि प्रादुर्बभूवुः, पश्चा­त्त­द­नु­ग­ता­न­र्था­न्स­स­र्जेति गम्यते । तथा च श्रुतिः ‘स भूरिति व्याहरत् स भूमिमसृजत’(तै. ब्रा. २ । २ । ४ । २) इत्येवमादिका भूरादिशब्देभ्य एव मनसि प्रादु­र्भू­तेभ्यो भूरा­दि­लो­का­न्सृ­ष्टा­न्द­र्श­यति ॥

किमात्मकं पुनः शब्द­म­भि­प्रे­त्येदं शब्द­प्र­भ­व­त्व­मु­च्यते ? स्फोटम् इत्याह । वर्णपक्षे हि तेषा­मु­त्प­न्न­प्र­ध्वं­सि­त्वा­न्नि­त्येभ्यः शब्देभ्यो देवा­दि­व्य­क्तीनां प्रभव इत्यनुपपन्नं स्यात्। उत्प­न्न­प्र­ध्वं­सि­नश्च वर्णाः, प्रत्यु­च्चा­र­ण­म­न्यथा चान्यथा च प्रतीयमानत्वात् । तथा ह्यदृश्यमानोऽपि पुरु­ष­वि­शे­षोऽ­ध्य­य­न­ध्व­नि­श्र­व­णा­देव विशेषतो निर्धार्यते — ‘देव­द­त्तोऽ­य­म­धीते, यज्ञ­द­त्तोऽ­य­म­धीते’ इति । न चायं वर्ण­वि­ष­योऽ­न्य­था­त्व­प्र­त्ययो मिथ्याज्ञानम् , बाध­क­प्र­त्य­या­भा­वात् । न च वर्णे­भ्योऽ­र्था­व­ग­ति­र्युक्ता । न ह्येकैको वर्णोऽर्थं प्रत्याययेत् , व्यभिचारात् । न च वर्ण­स­मु­दा­य­प्र­त्य­योऽस्ति, क्रम­व­त्वा­द्व­र्णा­नाम् । पूर्व­पू­र्व­व­र्णा­नु­भ­व­ज­नि­त­सं­स्का­र­स­हि­तोऽन्त्यो वर्णोऽर्थं प्रत्या­य­यि­ष्य­तीति यद्युच्येत, तन्न । सम्ब­न्ध­ग्र­ह­णा­पेक्षो हि शब्दः स्वयं प्रतीयमानोऽर्थं प्रत्याययेत् , धूमादिवत् । न च पूर्व­पू­र्व­व­र्णा­नु­भ­व­ज­नि­त­सं­स्का­र­स­हि­त­स्या­न्त्य­व­र्णस्य प्रतीतिरस्ति, अप्र­त्य­क्ष­त्वा­त्सं­स्का­रा­णाम् । कार्य­प्र­त्या­यितैः संस्कारैः सहितोऽन्त्यो वर्णोऽर्थं प्रत्या­य­यि­ष्य­तीति चेत् , न । संस्का­र­का­र्य­स्यापि स्मरणस्य क्रमवर्तित्वात् । तस्मात्स्फोट एव शब्दः । स चैकै­क­व­र्ण­प्र­त्य­या­हि­त­सं­स्का­र­बी­जेऽ­न्त्य­व­र्ण­प्र­त्य­य­ज­नि­त­प­रि­पाके प्रत्य­यि­न्ये­क­प्र­त्य­य­वि­ष­य­तया झटिति प्रत्यवभासते । न चायमेकप्रत्ययो वर्णविषया स्मृतिः। वर्णा­ना­म­ने­क­त्वा­दे­क­प्र­त्य­य­वि­ष­य­त्वा­नु­प­पत्तेः । तस्य च प्रत्युच्चारणं प्रत्य­भि­ज्ञा­य­मा­न­त्वा­न्नि­त्य­त्वम् , भेदप्रत्ययस्य वर्णविषयत्वात् । तस्मा­न्नि­त्या­च्छ­ब्दा­त्स्फो­ट­रू­पा­द­भि­धा­य­का­त्क्रि­या­का­र­क­फ­ल­ल­क्षणं जगदभिधेयभूतं प्रभवतीति ॥

‘वर्णा एव तु शब्दः’ इति भगवानुपवर्षः । ननू­त्प­न्न­प्र­ध्वं­सित्वं वर्णानामुक्तम्; तन्न । त एवेति प्रत्य­भि­ज्ञा­नात् । सादृ­श्या­त्प्र­त्य­भि­ज्ञानं केशादिष्विवेति चेत् , न । प्रत्य­भि­ज्ञा­नस्य प्रमाणान्तरेण बाधानुपपत्तेः । प्रत्य­भि­ज्ञा­न­मा­कृ­ति­नि­मि­त्त­मिति चेत् , न । व्यक्ति­प्र­त्य­भि­ज्ञा­नात् । यदि हि प्रत्युच्चारणं गवा­दि­व्य­क्ति­व­दन्या अन्या वर्णव्यक्तयः प्रतीयेरन् , तत आकृतिनिमित्तं प्रत्यभिज्ञानं स्यात् । न त्वेतदस्ति । वर्णव्यक्तय एव हि प्रत्युच्चारणं प्रत्य­भि­ज्ञा­यन्ते । द्विर्गोशब्द उच्चारितः — इति हि प्रतिपत्तिः; न तु द्वौ गोशब्दाविति । ननु वर्णा अप्यु­च्चा­र­ण­भे­देन भिन्नाः प्रतीयन्ते, देव­द­त्त­य­ज्ञ­द­त्त­यो­र­ध्य­य­न­ध्व­नि­श्र­व­णा­देव भेद­प्र­ती­ते­रि­त्यु­क्तम् । अत्राभिधीयते — सति वर्णविषये निश्चिते प्रत्यभिज्ञाने, संयो­ग­वि­भा­गा­भि­व्य­ङ्ग्य­त्वा­द्व­र्णा­नाम् , अभि­व्य­ञ्ज­क­वै­चि­त्र्य­नि­मि­त्तोऽयं वर्णविषयो विचित्रः प्रत्ययः, न स्वरूपनिमित्तः । अपि च वर्ण­व्य­क्ति­भे­द­वा­दि­नापि प्रत्य­भि­ज्ञा­न­सि­द्धये वर्णाकृतयः कल्पयितव्याः । तासु च परोपाधिको भेदप्रत्यय इत्य­भ्यु­प­ग­न्त­व्यम् । तद्वरं वर्ण­व्य­क्ति­ष्वेव परोपाधिको भेदप्रत्ययः, स्वरूपनिमित्तं च प्रत्यभिज्ञानम् — इति कल्पनालाघवम् । एष एव च वर्णविषयस्य भेदप्रत्ययस्य बाधकः प्रत्ययः, यत्प्र­त्य­भि­ज्ञा­नम् । कथं ह्येकस्मिन्काले बहू­ना­मु­च्चा­र­य­ता­मेक एव सन् गकारो युगपदनेकरूपः स्यात् — उदा­त्त­श्चा­नु­दा­त्तश्च स्वरितश्च सानुनासिकश्च निर­नु­ना­सि­क­श्चेति । अथवा ध्वनिकृतोऽयं प्रत्ययभेदो न वर्णकृत इत्यदोषः । कः पुनरयं ध्वनिर्नाम ? यो दूरादाकर्णयतो वर्ण­वि­वे­क­म­प्र­ति­प­द्य­मा­नस्य कर्णपथमवतरति; प्रत्यासीदतश्च पटु­मृ­दु­त्वा­दि­भेदं वर्णे­ष्वा­स­ञ्ज­यति । तन्नि­ब­न्ध­ना­श्चो­दा­त्ता­दयो विशेषाः, न वर्ण­स्व­रू­प­नि­ब­न्धनाः, वर्णानां प्रत्युच्चारणं प्रत्य­भि­ज्ञा­य­मा­न­त्वात् । एवं च सति सालम्बना उदा­त्ता­दि­प्र­त्यया भविष्यन्ति । इतरथा हि वर्णानां प्रत्य­भि­ज्ञा­य­मा­नानां निर्भे­द­त्वा­त्सं­यो­ग­वि­भा­ग­कृता उदा­त्ता­दि­वि­शेषाः कल्प्येरन् । संयोगविभागानां चाप्र­त्य­क्ष­त्वान्न तदाश्रया विशेषाः वर्णे­ष्व­ध्य­व­सातुं शक्यन्त इत्यतो निरालम्बना एव एते उदा­त्ता­दि­प्र­त्ययाः स्युः । अपि च नैवै­त­द­भि­नि­वे­ष्ट­व्यम् — उदात्तादिभेदेन वर्णानां प्रत्य­भि­ज्ञा­य­मा­नानां भेदो भवेदिति । न ह्यन्यस्य भेदे­ना­न्य­स्या­भि­द्य­मा­नस्य भेदो भवितुमर्हति । न हि व्यक्तिभेदेन जातिं भिन्नां मन्यन्ते । वर्णे­भ्य­श्चा­र्थ­प्र­तीतेः सम्भवात् स्फोट­क­ल्प­ना­न­र्थिका । न कल्पयाम्यहं स्फोटम् , प्रत्यक्षमेव त्वेनमवगच्छामि, एकै­क­व­र्ण­ग्र­ह­णा­हि­त­सं­स्का­रायां बुद्धौ झटिति प्रत्य­व­भा­स­ना­दिति चेत् , न । अस्या अपि बुद्धे­र्व­र्ण­वि­ष­य­त्वात् । एकै­क­व­र्ण­ग्र­ह­णो­त्त­र­काला हीयमेका बुद्धिर्गौरिति समस्तवर्णविषया, नार्थान्तरविषया । कथमेतदवगम्यते ? यतोऽस्यामपि बुद्धौ गकारादयो वर्णा अनुवर्तन्ते, न तु दकारादयः । यदि ह्यस्या बुद्धे­र्ग­का­रा­दि­भ्योऽ­र्था­न्तरं स्फोटो विषयः स्यात् , ततो दकारादय इव गका­रा­द­योऽ­प्यस्या बुद्धे­र्व्या­व­र्ते­रन् । न तु तथास्ति । तस्मा­दि­य­मे­क­बु­द्धि­र्व­र्ण­वि­ष­यैव स्मृतिः । नन्व­ने­क­त्वा­द्व­र्णानां नैक­बु­द्धि­वि­ष­य­तो­प­प­द्यत इत्युक्तम् , तत्प्रति ब्रूमः — सम्भ­व­त्य­ने­क­स्या­प्ये­क­बु­द्धि­वि­ष­य­त्वम् , पङ्क्तिः वनं सेना दश शतं सह­स्र­मि­त्या­दि­द­र्श­नात् । या तु गौरित्येकोऽयं शब्द इति बुद्धिः, सा बहुष्वेव वर्णे­ष्वे­का­र्था­व­च्छे­द­नि­ब­न्धना औपचारिकी वन­से­ना­दि­बु­द्धि­व­देव । अत्राह — यदि वर्णा एव सामस्त्येन एक­बु­द्धि­वि­ष­य­ता­मा­प­द्य­मानाः पदं स्युः, ततो जारा राजा कपिः पिक इत्यादिषु पद­वि­शे­ष­प्र­ति­प­त्तिर्न स्यात्; त एव हि वर्णा इतरत्र चेतरत्र च प्रत्यवभासन्त इति । अत्र वदामः — सत्यपि सम­स्त­व­र्ण­प्र­त्य­व­मर्शे यथा क्रमानुरोधिन्य एव पिपीलिकाः पङ्क्ति­बु­द्धि­मा­रो­हन्ति, एवं क्रमानुरोधिन एव हि वर्णाः पद­बु­द्धि­मा­रो­क्ष्यन्ति । तत्र वर्णा­ना­म­वि­शे­षेऽपि क्रमविशेषकृता पद­वि­शे­ष­प्र­ति­प­त्तिर्न विरुध्यते । वृद्धव्यवहारे चेमे वर्णाः क्रमा­द्य­नु­गृ­हीता गृही­ता­र्थ­वि­शे­ष­स­म्बन्धाः सन्तः स्वव्य­व­हा­रेऽ­प्ये­कै­क­व­र्ण­ग्र­ह­णा­न­न्तरं सम­स्त­प्र­त्य­व­म­र्शिन्यां बुद्धौ तादृशा एव प्रत्य­व­भा­स­मा­नास्तं तम­र्थ­म­व्य­भि­चा­रेण प्रत्या­य­यि­ष्य­न्तीति वर्णवादिनो लघीयसी कल्पना । स्फोटवादिनस्तु दृष्टहानिः, अदृष्टकल्पना च । वर्णाश्चेमे क्रमेण गृह्यमाणाः स्फोटं व्यञ्जयन्ति स स्फोटोऽर्थं व्यनक्तीति गरीयसी कल्पना स्यात् ॥

अथापि नाम प्रत्यु­च्चा­र­ण­म­न्येऽन्ये वर्णाः स्युः, तथापि प्रत्य­भि­ज्ञा­ल­म्ब­न­भा­वेन वर्ण­सा­मा­न्या­ना­म­व­श्या­भ्यु­प­ग­न्त­व्य­त्वात् , या वर्णे­ष्व­र्थ­प्र­ति­पा­द­न­प्र­क्रिया रचिता सा सामान्येषु सञ्चारयितव्या । ततश्च नित्येभ्यः शब्देभ्यो देवा­दि­व्य­क्तीनां प्रभव इत्यविरुद्धम् ॥ २८ ॥

अत एव च नित्यत्वम् ॥ २९ ॥

२९

स्वतन्त्रस्य कर्तु­र­स्म­र­णा­दिभिः स्थिते वेदस्य नित्यत्वे देवा­दि­व्य­क्ति­प्र­भ­वा­भ्यु­प­ग­मेन तस्य विरोधमाशङ्क्य ‘अतः प्रभवात्’ इति परिहृत्य इदानीं तदेव वेदनित्यत्वं स्थितं द्रढयति — अत एव च नित्यत्वमिति । अत एव निय­ता­कृ­ते­र्दे­वा­दे­र्ज­गतो वेद­श­ब्द­प्र­भ­व­त्वात् वेद­श­ब्द­नि­त्य­त्व­मपि प्रत्येतव्यम् । तथा च मन्त्रवर्णः — ‘यज्ञेन वाचः पदवीयमायन् ताम­न्व­वि­न्द­न्नृ­षिषु प्रविष्टाम्’(ऋ. सं. १० । ७ । ३) इति स्थितामेव वाचमनुविन्नां दर्शयति । वेद­व्या­स­श्चै­व­मेव स्मरति — ‘युगा­न्तेऽ­न्त­र्हि­ता­न्वे­दा­न्से­ति­हा­सा­न्म­ह­र्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा’ इति ॥ २९ ॥

समा­न­ना­म­रू­प­त्वा­च्चा­वृ­त्ता­व­प्य­वि­रोधो दर्श­ना­त्स्मृ­तेश्च ॥ ३० ॥

३०

अथापि स्यात् — यदि पश्वा­दि­व्य­क्ति­व­द्दे­वा­दि­व्य­क्त­योऽपि सन्त­त्यै­वो­त्प­द्ये­रन् निरुध्येरंश्च, ततोऽ­भि­धा­ना­भि­धे­या­भि­धा­तृ­व्य­व­हा­रा­वि­च्छे­दा­त्स­म्ब­न्ध­नि­त्य­त्वेन विरोधः शब्दे परिह्रियेत । यदा तु खलु सकलं त्रैलोक्यं परि­त्य­क्त­ना­म­रूपं निर्लेपं प्रलीयते, प्रभवति चाभिनवमिति श्रुति­स्मृ­ति­वादा वदन्ति, तदा कथमविरोध इति । तत्रेदमभिधीयते समा­न­ना­म­रू­प­त्वा­दिति । तदापि संसा­र­स्या­ना­दित्वं ताव­द­भ्यु­प­ग­न्त­व्यम् । प्रतिपादयिष्यति चाचार्यः संसा­र­स्या­ना­दि­त्वम् — ‘उपपद्यते चाप्युपलभ्यते च’(ब्र. सू. २ । १ । ३६) इति । अनादौ च संसारे यथा स्वापप्रबोधयोः प्रल­य­प्र­भ­व­श्र­व­णेऽपि पूर्व­प्र­बो­ध­व­दु­त्त­र­प्र­बो­धेऽपि व्यवहारान्न कश्चिद्विरोधः, एवं कल्पा­न्त­र­प्र­भ­व­प्र­ल­य­यो­र­पीति द्रष्टव्यम् । स्वाप­प्र­बो­ध­योश्च प्रलयप्रभवौ श्रूयेते — ‘यदा सुप्तः स्वप्नं न कञ्चन पश्य­त्य­था­स्मि­न्प्राण एवैकधा भवति तदैनं वाक्स­र्वै­र्ना­मभिः सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः सर्वैर्ध्यानैः सहाप्येति स यदा प्रतिबुध्यते यथाग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्र­ति­ष्ठे­र­न्ने­व­मे­वै­त­स्मा­दा­त्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः’(कौ. उ. ३ । ३) इति । स्यादेतत् — स्वापे पुरु­षा­न्त­र­व्य­व­हा­रा­वि­च्छे­दा­त्स्वयं च सुप्त­प्र­बु­द्धस्य पूर्व­प्र­बो­ध­व्य­व­हा­रा­नु­स­न्धा­न­स­म्भ­वा­द­वि­रु­द्धम् । महाप्रलये तु सर्व­व्य­व­हा­रो­च्छे­दा­ज्ज­न्मा­न्त­र­व्य­व­हा­र­वच्च कल्पा­न्त­र­व्य­व­हा­र­स्या­नु­स­न्धा­तु­म­श­क्य­त्वा­द्वै­ष­म्य­मिति । नैष दोषः, सत्यपि सर्व­व्य­व­हा­रो­च्छे­दिनि महाप्रलये पर­मे­श्व­रा­नु­ग्र­हा­दी­श्व­राणां हिर­ण्य­ग­र्भा­दीनां कल्पा­न्त­र­व्य­व­हा­रा­नु­स­न्धा­नो­प­पत्तेः । यद्यपि प्राकृताः प्राणिनो न जन्मा­न्त­र­व्य­व­हा­र­म­नु­स­न्द­धाना दृश्यन्त इति, तथापि न प्राकृ­त­व­दी­श्व­राणां भवितव्यम् । यथा हि प्राणि­त्वा­वि­शे­षेऽपि मनु­ष्या­दि­स्त­म्ब­प­र्य­न्तेषु ज्ञानै­श्व­र्या­दि­प्र­ति­बन्धः परेण परेण भूयान् भवन् दृश्यते । तथा मनुष्यादिष्वेव हिर­ण्य­ग­र्भ­प­र्य­न्तेषु ज्ञानै­श्व­र्या­द्य­भि­व्य­क्ति­रपि परेण परेण भूयसी भव­ती­त्ये­त­च्छ्रु­ति­स्मृ­ति­वा­दे­ष्व­स­कृ­द­नु­श्रू­य­माणं न शक्यं नास्तीति वदितुम् । तत­श्चा­ती­त­क­ल्पा­नु­ष्ठि­त­प्र­कृ­ष्ट­ज्ञा­न­क­र्म­णा­मी­श्व­राणां हिर­ण्य­ग­र्भा­दीनां वर्तमानकल्पादौ प्रादुर्भवतां पर­मे­श्व­रा­नु­गृ­ही­तानां सुप्त­प्र­ति­बु­द्ध­व­त्क­ल्पा­न्त­र­व्य­व­हा­रा­नु­स­न्धा­नो­प­पत्तिः । तथा च श्रुतिः — ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तꣳ ह देव­मा­त्म­बु­द्धि­प्र­काशं मुमुक्षुर्वै शरणमहं प्रपद्ये’(श्वे. उ. ६ । १८) इति । स्मरन्ति च शौनकादयः — ‘मधु­च्छ­न्दः­प्र­भृ­ति­भि­ऋषि­भि­र्दा­श­तय्यो दृष्टाः’(शौ॰ऋ॰अनु॰ ४) इति । प्रतिवेदं चैवमेव काण्डर्ष्यादयः स्मर्यन्ते । श्रुतिरपि ऋषि­ज्ञा­न­पू­र्व­क­मेव मन्त्रे­णा­नु­ष्ठानं दर्शयति — ‘यो ह वा अवि­दि­ता­र्षे­य­च्छ­न्दो­दै­व­त­ब्रा­ह्म­णेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुं वर्च्छति गर्तं वा प्रतिपद्यते’ इत्युपक्रम्य ‘तस्मादेतानि मन्त्रे मन्त्रे विद्यात्’(सा॰आ॰ब्रा॰ १-१-६) इति । प्राणिनां च सुखप्राप्तये धर्मो विधीयते । दुःखपरिहाराय चाधर्मः प्रतिषिध्यते । दृष्टा­नु­श्र­वि­क­सु­ख­दुः­ख­वि­षयौ च रागद्वेषौ भवतः, न विलक्षणविषयौ — इत्यतो धर्मा­ध­र्म­फ­ल­भू­तो­त्तरा सृष्टि­र्नि­ष्प­द्य­माना पूर्व­सृ­ष्टि­स­दृ­श्येव निष्पद्यते । स्मृतिश्च भवति — ‘तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे । तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः ॥’, ‘हिंस्राहिंस्रे मृदुक्रूरे धर्मा­ध­र्मा­वृ­ता­नृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते’(वि॰पु॰ १-५-६०,६१) इति । प्रलीयमानमपि चेदं जग­च्छ­क्त्य­व­शे­ष­मेव प्रलीयते । शक्तिमूलमेव च प्रभवति । इतरथा आक­स्मि­क­त्व­प्र­स­ङ्गात् । न चानेकाकाराः शक्तयः शक्याः कल्पयितुम् । ततश्च विच्छिद्य विच्छि­द्या­प्यु­द्भ­वतां भूरा­दि­लो­क­प्र­वा­हा­णाम् , देव­ति­र्य­ङ्म­नु­ष्य­ल­क्ष­णानां च प्राणि­नि­का­य­प्र­वा­हा­णाम् , वर्णा­श्र­म­ध­र्म­फ­ल­व्य­व­स्थानां चानादौ संसारे निय­त­त्व­मि­न्द्रि­य­वि­ष­य­स­म्ब­न्ध­नि­य­त­त्व­व­त्प्र­त्ये­त­व्यम् । न हीन्द्रि­य­वि­ष­य­स­म्ब­न्धा­दे­र्व्य­व­हा­रस्य प्रति­स­र्ग­म­न्य­थात्वं षष्ठे­न्द्रि­य­वि­ष­य­कल्पं शक्य­मु­त्प्रे­क्षि­तुम् । अतश्च सर्वकल्पानां तुल्य­व्य­व­हा­र­त्वात् कल्पा­न्त­र­व्य­व­हा­रा­नु­स­न्धा­न­क्ष­म­त्वा­च्चे­श्व­राणां समाननामरूपा एव प्रतिसर्गं विशेषाः प्रादुर्भवन्ति । समा­न­ना­म­रू­प­त्वा­च्चा­वृ­त्ता­वपि महा­स­र्ग­म­हा­प्र­ल­य­ल­क्ष­णायां जग­तोऽ­भ्यु­प­ग­म्य­मा­नायां न कश्चि­च्छ­ब्द­प्रा­मा­ण्या­दि­वि­रोधः । समाननामरूपतां च श्रुतिस्मृती दर्शयतः — ‘सूर्या­च­न्द्र­मसौ धाता यथा­पू­र्व­म­क­ल्प­यत् । दिवं च पृथिवीं चान्तरिक्षमथो सुवः’(ऋ. सं. १० । १९० । ३) इति । यथा पूर्व­स्मि­न्कल्पे सूर्या­च­न्द्र­मः­प्र­भृति जगत् कॢप्तम् , तथास्मिन्नपि कल्पे पर­मे­श्व­रोऽ­क­ल्प­य­दि­त्यर्थः । तथा — ‘अग्निर्वा अकामयत । अन्नादो देवानाꣳ स्यामिति । स एतमग्नये कृत्तिकाभ्यः पुरो­डा­श­म­ष्टा­क­पालं निरवपत्’(तै. ब्रा. ३ । १ । ४ । १) इति नक्ष­त्रे­ष्टि­विधौ योऽग्नि­र्नि­र­व­पत् यस्मै वाग्नये निरवपत् , तयोः समाननामरूपतां दर्शयति — इत्येवंजातीयका श्रुति­रि­हो­दा­ह­र्तव्या । स्मृतिरपि ‘ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः ।’, ‘शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः ॥(लि॰पु॰ ७०-२५८,२५९), ‘यथ­र्तु­ष्वृ­तु­लि­ङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥’(वि॰पु॰ १-५-६६),‘यथा­भि­मा­नि­नोऽ­ती­ता­स्तु­ल्यास्ते साम्प्रतैरिह । देवा देवैरतीतैर्हि रूपैर्नामभिरेव च’(वा॰पु॰ ५०-६६) इत्येवंजातीयका द्रष्टव्या ॥ ३० ॥

मध्वा­दि­ष्व­स­म्भ­वा­द­न­धि­कारं जैमिनिः ॥ ३१ ॥

३१

इह देवादीनामपि ब्रह्म­वि­द्या­या­म­स्त्य­धि­कार इति यत्प्रतिज्ञातं तत्प­र्या­व­र्त्यते — देवा­दी­ना­म­न­धि­कारं जैमिनिराचार्यो मन्यते । कस्मात् ? मध्वा­दि­ष्व­स­म्भ­वात् । ब्रह्म­वि­द्या­या­म­धि­का­रा­भ्यु­प­गमे हि विद्या­त्वा­वि­शे­षात् मध्वा­दि­वि­द्या­स्व­प्य­धि­का­रोऽ­भ्यु­प­ग­म्येत; न चैवं सम्भवति । कथम् ? ‘असौ वा आदित्यो देवमधु’(छा. उ. ३ । १ । १) इत्यत्र मनुष्या आदित्यं मध्व­ध्या­से­नो­पा­सी­रन् । देवादिषु ह्युपा­स­के­ष्व­भ्यु­प­ग­म्य­मा­ने­ष्वा­दित्यः कम­न्य­मा­दि­त्य­मु­पा­सीत ? पुन­श्चा­दि­त्य­व्य­पा­श्र­याणि पञ्च रोहि­ता­दी­न्य­मृ­ता­न्य­नु­क्रम्य, वसवो रुद्रा आदित्या मरुतः साध्याश्च पञ्च देवगणाः क्रमेण तत्त­द­मृ­त­मु­प­जी­व­न्ती­त्यु­प­दिश्य, ‘स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति’(छा. उ. ३ । ६ । ३) इत्यादिना वस्वा­द्यु­प­जी­व्या­न्य­मृ­तानि विजानतां वस्वा­दि­म­हि­म­प्राप्तिं दर्शयति । वस्वादयस्तु कान् अन्यान् वस्वा­दी­न­मृ­तो­प­जी­विनो विजानीयुः ? कं वान्यं वस्वादिमहिमानं प्रेप्सेयुः ? तथा — ‘अग्निः पादो वायुः पाद आदित्यः पादो दिशः पादः’ ‘वायुर्वाव संवर्गः’(छा. उ. ४ । ३ । १) ‘आदित्यो ब्रह्मे­त्या­देशः’(छा. उ. ३ । १९ । १) इत्यादिषु देव­ता­त्मो­पा­स­नेषु न तेषामेव देव­ता­त्म­ना­म­धि­कारः सम्भवति । तथा ‘इमावेव गोत­म­भ­र­द्वा­जा­व­य­मेव गोतमोऽयं भरद्वाजः’(बृ. उ. २ । २ । ४) इत्यादिष्वपि ऋषि­स­म्ब­न्धे­षू­पा­स­नेषु न तेषामेव ऋषीणामधिकारः सम्भवति ॥ ३१ ॥

कुतश्च देवा­दी­ना­म­न­धि­कारः —

ज्योतिषि भावाच्च ॥ ३२ ॥

३२

यदिदं ज्योतिर्मण्डलं द्युस्था­न­म­हो­रा­त्राभ्यां बम्भ्र­म­ज्ज­ग­द­व­भा­स­यति, तस्मि­न्ना­दि­त्या­दयो देवतावचनाः शब्दाः प्रयुज्यन्ते; लोक­प्र­सि­द्धे­र्वा­क्य­शे­ष­प्र­सि­द्धेश्च । न च ज्योति­र्म­ण्ड­लस्य हृदयादिना विग्रहेण चेतनतया अर्थित्वादिना वा योगोऽवगन्तुं शक्यते, मृदा­दि­व­द­चे­त­न­त्वा­व­ग­मात् । एतेनाग्न्यादयो व्याख्याताः ॥

स्यादेतत् — मन्त्रा­र्थ­वा­दे­ति­हा­स­पु­रा­ण­लो­केभ्यो देवादीनां विग्र­ह­व­त्त्वा­द्य­व­ग­मा­द­य­म­दोष इति चेत् , नेत्युच्यते । न तावल्लोको नाम किञ्चि­त्स्व­तन्त्रं प्रमाणमस्ति । प्रत्यक्षादिभ्य एव ह्यवि­चा­रि­त­वि­शे­षेभ्यः प्रमाणेभ्यः प्रसि­द्धन्नर्थो लोकात्प्रसिद्ध इत्युच्यते । न चात्र प्रत्य­क्षा­दी­ना­म­न्य­तमं प्रमाणमस्ति; इतिहासपुराणमपि पौरु­षे­य­त्वा­त्प्र­मा­णा­न्त­र­मू­ल­मा­का­ङ्क्षति । अर्थवादा अपि विधि­नै­क­वा­क्य­त्वात् स्तुत्यर्थाः सन्तो न पार्थगर्थ्येन देवादीनां विग्र­हा­दि­स­द्भावे कारणभावं प्रतिपद्यन्ते । मन्त्रा अपि श्रुत्या­दि­वि­नि­युक्ताः प्रयो­ग­स­म­वा­यि­नोऽ­भि­धा­नार्था न कस्यचिदर्थस्य प्रमा­ण­मि­त्या­च­क्षते । तस्मादभावो देवा­दी­ना­म­धि­का­रस्य ॥ ३२ ॥

भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥

३३

तुशब्दः पूर्वपक्षं व्यावर्तयति । बाद­रा­य­ण­स्त्वा­चार्यो भावमधिकारस्य देवादीनामपि मन्यते । यद्यपि मध्वादिविद्यासु देव­ता­दि­व्या­मि­श्रा­स्व­स­म्भ­वोऽ­धि­का­रस्य, तथाप्यस्ति हि शुद्धायां ब्रह्मविद्यायां सम्भवः । अर्थि­त्व­सा­म­र्थ्या­प्र­ति­षे­धा­द्य­पे­क्ष­त्वा­द­धि­का­रस्य । न च क्वचिदसम्भव इत्येतावता यत्र सम्भ­व­स्त­त्रा­प्य­धि­का­रोऽ­पो­द्येत । मनुष्याणामपि न सर्वेषां ब्राह्मणादीनां सर्वेषु राज­सू­या­दि­ष्व­धि­कारः सम्भवति । तत्र यो न्यायः सोऽत्रापि भविष्यति । ब्रह्मविद्यां च प्रकृत्य भवति दर्शनं श्रौतं देवाद्यधिकारस्य सूचकम् — ‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम्’(बृ. उ. १ । ४ । १०) इति, ‘ते होचुर्हन्त तमा­त्मा­न­म­न्वि­च्छामो यमा­त्मा­न­म­न्विष्य सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामानिति, इन्द्रो ह वै देवा­ना­म­भि­प्र­व­व्राज विरो­च­नोऽ­सु­रा­णाम्’(छा. उ. ८ । ७ । २) इत्यादि च । स्मार्तमपि गन्ध­र्व­या­ज्ञ­व­ल्क्य­सं­वा­दादि ॥

यदप्युक्तम् ‘ज्योतिषि भावाच्च’ इति, अत्र ब्रूमः — ज्योतिरादिविषया अपि आदित्यादयो देवतावचनाः शब्दा­श्चे­त­ना­व­न्त­मै­श्व­र्या­द्यु­पेतं तं तं देवतात्मानं समर्पयन्ति, मन्त्रा­र्थ­वा­दा­दिषु तथा व्यवहारात् । अस्ति ह्यैश्व­र्य­यो­गा­द्दे­व­तानां ज्योति­रा­द्या­त्म­भि­श्चा­व­स्थातुं यथेष्टं च तं तं विग्रहं ग्रहीतुं सामर्थ्यम् । तथा हि श्रूयते सुब्र­ह्म­ण्या­र्थ­वादे — ‘मेधा­ति­थे­र्मे­षेति — मेधातिथिं ह काण्वा­य­न­मिन्द्रो मेषो भूत्वा जहार’(षड्विंश. ब्रा. १ । १) इति । स्मर्यते च — ‘आदित्यः पुरुषो भूत्वा कुन्तीमुपजगाम ह’ इति । मृदादिष्वपि चेतना अधि­ष्ठा­ता­रोऽ­भ्यु­प­ग­म्यन्ते; ‘मृदब्रवीत्’ ‘आपोऽब्रुवन्’ इत्यादिदर्शनात् । ज्योतिरादेस्तु भूत­धा­तो­रा­दि­त्या­दि­ष्व­चे­त­न­त्व­म­भ्यु­प­ग­म्यते । चेत­ना­स्त्व­धि­ष्ठा­तारो देवतात्मानो मन्त्रा­र्थ­वा­दा­दिषु व्यव­हा­रा­दि­त्यु­क्तम् ॥

यदप्युक्तम् — मन्त्रा­र्थ­वा­द­यो­र­न्या­र्थ­त्वान्न देव­ता­वि­ग्र­हा­दि­प्र­का­श­न­सा­म­र्थ्य­मिति, अत्र ब्रूमः — प्रत्य­या­प्र­त्ययौ हि सद्भा­वा­स­द्भा­वयोः कारणम्; नान्या­र्थ­त्व­म­न­न्या­र्थत्वं वा । तथा ह्यन्यार्थमपि प्रस्थितः पथि पतितं तृण­प­र्णा­द्य­स्ती­त्येव प्रतिपद्यते । अत्राह — विषम उपन्यासः । तत्र हि तृणपर्णादिविषयं प्रत्यक्षं प्रवृत्तमस्ति, येन तदस्तित्वं प्रतिपद्यते । अत्र पुन­र्वि­ध्यु­द्दे­शै­क­वा­क्य­भा­वेन स्तुत्य­र्थेऽ­र्थ­वादे न पार्थगर्थ्येन वृत्तान्तविषया प्रवृत्तिः शक्याध्यवसातुम् । न हि महा­वा­क्येऽ­र्थ­प्र­त्या­य­केऽ­वा­न्त­र­वा­क्यस्य पृथ­क्प्र­त्या­य­क­त्व­मस्ति । यथा ‘न सुरां पिबेत्’ इति नञ्वति वाक्ये पद­त्र­य­स­म्ब­न्धा­त्सु­रा­पा­न­प्र­ति­षेध एवै­कोऽ­र्थोऽ­व­ग­म्यते । न पुनः सुरां पिबेदिति पद­द्व­य­स­म्ब­न्धा­त्सु­रा­पा­न­वि­धि­र­पीति । अत्रोच्यते — विषम उपन्यासः । युक्तं यत्सु­रा­पा­न­प्र­ति­षेधे पदा­न्व­य­स्यै­क­त्वा­द­वा­न्त­र­वा­क्या­र्थ­स्या­ग्र­ह­णम् । विध्यु­द्दे­शा­र्थ­वा­द­यो­स्त्व­र्थ­वा­द­स्थानि पदानि पृथगन्वयं वृत्तान्तविषयं प्रतिपद्य, अनन्तरं कैमर्थ्यवशेन कामं विधेः स्तावकत्वं प्रतिपद्यन्ते । यथा हि ‘वायव्यं श्वेतमालभेत भूतिकामः’ इत्यत्र विध्यु­द्दे­श­व­र्तिनां वायव्यादिपदानां विधिना सम्बन्धः, नैवम् ‘वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति’ इत्ये­षा­म­र्थ­वा­द­ग­तानां पदानाम् । न हि भवति, ‘वायुर्वा आलभेत’ इति ‘क्षेपिष्ठा देवता वा आलभेत’ इत्यादि । वायु­स्व­भा­व­स­ङ्की­र्त­नेन तु अवान्तरमन्वयं प्रतिपद्य, एवं विशि­ष्ट­दै­व­त्य­मिदं कर्मेति विधिं स्तुवन्ति । तद्यत्र सोऽवा­न्त­र­वा­क्यार्थः प्रमा­णा­न्त­र­गो­चरो भवति, तत्र तद­नु­वा­दे­ना­र्थ­वादः प्रवर्तते । यत्र प्रमा­णा­न्त­र­वि­रुद्धः, तत्र गुणवादेन । यत्र तु तदुभयं नास्ति, तत्र किं प्रमा­णा­न्त­रा­भा­वा­द्गु­ण­वादः स्यात् , आहो­स्त्वि­त्प्र­मा­णा­न्त­रा­वि­रो­धा­द्वि­द्य­मा­न­वाद इति — प्रती­ति­श­र­णै­र्वि­द्य­मा­न­वाद आश्रयणीयः, न गुणवादः । एतेन मन्त्रो व्याख्यातः । अपि च विधि­भि­रे­वे­न्द्रा­दि­दै­व­त्यानि हवींषि चोद­य­द्भि­र­पे­क्षि­त­मि­न्द्रा­दीनां स्वरूपम् । न हि स्वरूपरहिता इन्द्रा­द­य­श्चे­त­स्या­रो­प­यितुं शक्यन्ते । न च चेतस्यनारूढायै तस्यै तस्यै देवतायै हविः प्रदातुं शक्यते । श्रावयति च — ‘यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्याये­द्व­ष­ट्क­रि­ष्यन्’(ऐ. ब्रा. ३ । ८ । १) इति; न च शब्द­मा­त्र­म­र्थ­स्व­रूपं सम्भवति, शब्दा­र्थ­यो­र्भे­दात् । तत्र यादृशं मन्त्रा­र्थ­वा­द­यो­रि­न्द्रा­दीनां स्वरूपमवगतं न तत्तादृशं शब्दप्रमाणकेन प्रत्याख्यातुं युक्तम् । इतिहासपुराणमपि व्याख्यातेन मार्गेण सम्भ­व­न्म­न्त्रा­र्थ­वा­द­मू­ल­क­त्वात् प्रभवति देवताविग्रहादि साधयितुम् । प्रत्य­क्षा­दि­मू­ल­मपि सम्भवति । भवति ह्यस्मा­क­म­प्र­त्य­क्ष­मपि चिरंतनानां प्रत्यक्षम् । तथा च व्यासादयो देवादिभिः प्रत्यक्षं व्यवहरन्तीति स्मर्यते । यस्तु ब्रूयात् — इदानींतनानामिव पूर्वेषामपि नास्ति देवा­दि­भि­र्व्य­व­हर्तुं सामर्थ्यमिति, स जगद्वैचित्र्यं प्रतिषेधेत् । इदानीमिव च नान्यदापि सार्वभौमः क्षत्रि­योऽ­स्तीति ब्रूयात् । ततश्च राजसूयादिचोदना उपरुन्ध्यात् । इदानीमिव च काला­न्त­रेऽ­प्य­व्य­व­स्थि­त­प्रा­या­न्व­र्णा­श्र­म­ध­र्मा­न्प्र­ति­जा­नीत, ततश्च व्यवस्थाविधायि शास्त्रमनर्थकं कुर्यात् । तस्मा­द्ध­र्मो­त्क­र्ष­व­शा­च्चि­रं­तना देवादिभिः प्रत्यक्षं व्यवजह्रुरिति श्लिष्यते । अपि च स्मरन्ति — ‘स्वाध्या­या­दि­ष्ट­दे­व­ता­स­म्प्र­योगः’(यो. सू. २ । ४४) इत्यादि । योगोऽ­प्य­णि­मा­द्यै­श्व­र्य­प्रा­प्ति­फ­लकः स्मर्यमाणो न शक्यते साहसमात्रेण प्रत्याख्यातुम् । श्रुतिश्च योगमाहात्म्यं प्रख्यापयति — ‘पृथि­व्य­प्ते­जोऽ­नि­लखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते । न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्’(श्वे. उ. २ । १२) इति । ऋषीणामपि मन्त्र­ब्रा­ह्म­ण­द­र्शिनां सामर्थ्यं नास्मदीयेन साम­र्थ्ये­नो­प­मातुं युक्तम् । तस्मा­त्स­मू­ल­मि­ति­हा­स­पु­रा­णम् । लोकप्रसिद्धिरपि न सति सम्भवे निरा­ल­म्ब­ना­ध्य­व­सातुं युक्ता । तस्मादुपपन्नो मन्त्रादिभ्यो देवादीनां विग्र­ह­व­त्त्वा­द्य­व­गमः । तत­श्चा­र्थि­त्वा­दि­स­म्भ­वा­दु­प­पन्नो देवादीनामपि ब्रह्म­वि­द्या­या­म­धि­कारः । क्रम­मु­क्ति­द­र्श­ना­न्य­प्ये­व­मे­वो­प­प­द्यन्ते ॥ ३३ ॥

शुगस्य तद­ना­द­र­श्र­व­णा­त्त­दा­द्र­व­णा­त्सू­च्यते हि ॥ ३४ ॥

३४

यथा मनु­ष्या­धि­का­र­नि­य­म­म­पोद्य देवादीनामपि विद्यास्वधिकार उक्तः, तथैव द्विजा­त्य­धि­का­र­नि­य­मा­प­वा­देन शूद्र­स्या­प्य­धि­कारः स्यादि­त्ये­ता­मा­शङ्कां निव­र्त­यि­तु­मि­द­म­धि­क­र­ण­मा­र­भ्यते । तत्र शूद्र­स्या­प्य­धि­कारः स्यादिति तावत्प्राप्तम्; अर्थि­त्व­सा­म­र्थ्ययोः सम्भवात् , ‘तस्माच्छूद्रो यज्ञेऽनवकॢप्तः’(तै. सं. ७ । १ । १ । ६) इतिवत् ‘शूद्रो विद्या­या­म­न­व­कॢप्त’ इति निषेधाश्रवणात् । यच्च कर्म­स्व­न­धि­का­र­का­रणं शूद्र­स्या­न­ग्नि­त्वम् , न तद्वि­द्या­स्व­धि­का­र­स्या­प­वा­दकं लिङ्गम् । न ह्याह­व­नी­या­दि­र­हि­तेन विद्या वेदितुं न शक्यते । भवति च श्रौतं लिङ्गं शूद्रा­धि­का­र­स्यो­पो­द्ब­ल­कम् । संवर्गविद्यायां हि जानश्रुतिं पौत्रायणं शुश्रूषुं शूद्रशब्देन परामृशति — ‘अह हारे त्वा शूद्र तवैव सह गोभिरस्तु’(छा. उ. ४ । २ । ३) इति । विदुरप्रभृतयश्च शूद्रयोनिप्रभवा अपि विशि­ष्ट­वि­ज्ञा­न­स­म्पन्नाः स्मर्यन्ते । तस्मादधिक्रियते शूद्रो विद्या­स्वि­त्येवं प्राप्ते ब्रूमः —

न शूद्र­स्या­धि­कारः, वेदा­ध्य­य­ना­भा­वात् । अधीतवेदो हि विदितवेदार्थो वेदा­र्थे­ष्व­धि­क्रि­यते । न च शूद्रस्य वेदाध्ययनमस्ति । उप­न­य­न­पू­र्व­क­त्वा­द्वे­दा­ध्य­य­नस्य, उपनयनस्य च वर्ण­त्र­य­वि­ष­य­त्वात् । यत्तु अर्थित्वम् , न तदसति साम­र्थ्येऽ­धि­का­र­का­रणं भवति । सामर्थ्यमपि न लौकिकं केवलमधिकारकारणं भवति; शास्त्रीयेऽर्थे शास्त्रीयस्य साम­र्थ्य­स्या­पे­क्षि­त­त्वात् । शास्त्रीयस्य च साम­र्थ्य­स्या­ध्य­य­न­नि­रा­क­र­णेन निराकृतत्वात् । यच्चेदम् ‘शूद्रो यज्ञेऽनवकॢप्तः’ इति, तत् न्याय­पू­र्व­क­त्वा­द्वि­द्या­या­म­प्य­न­व­कॢ­प्तत्वं द्योतयति; न्यायस्य साधारणत्वात् । यत्पुनः संवर्गविद्यायां शूद्रशब्दश्रवणं लिङ्गं मन्यसे, न तल्लिङ्गम्; न्यायाभावात् । न्यायोक्ते हि लिङ्गदर्शनं द्योतकं भवति । न चात्र न्यायोऽस्ति । कामं चायं शूद्रशब्दः संव­र्ग­वि­द्या­या­मे­वै­कस्यां शूद्र­म­धि­कु­र्यात् , तद्विषयत्वात् । न सर्वासु विद्यासु । अर्थ­वा­द­स्थ­त्वात्तु न क्वचिदप्ययं शूद्र­म­धि­क­र्तु­मु­त्स­हते । शक्यते चायं शूद्र­श­ब्दोऽ­धि­कृ­त­वि­षयो योजयितुम् । कथमित्युच्यते — ‘कम्वर एनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थ’(छा. उ. ४ । १ । ३) इत्य­स्मा­द्धं­स­वा­क्या­दा­त्म­नोऽ­ना­दरं श्रुतवतो जानश्रुतेः पौत्रायणस्य शुक् उत्पेदे । तामृषी रैक्वः शूद्रशब्देनानेन सूचयांबभूव आत्मनः परो­क्ष­ज्ञ­ता­ख्या­प­ना­येति गम्यते । जाति­शू­द्र­स्या­न­धि­का­रात् । कथं पुनः शूद्रशब्देन शुगुत्पन्ना सूच्यत इति, उच्यते — तदाद्रवणात्; शुचमभिदुद्राव, शुचा वा अभिदुद्रुवे, शुचा वा रैक्वमभिदुद्राव — इति शूद्रः; अव­य­वा­र्थ­स­म्भ­वात् , रूढ्यर्थस्य चासम्भवात् । दृश्यते चाय­म­र्थोऽ­स्या­मा­ख्या­यि­का­याम् ॥ ३४ ॥

क्षत्रि­य­त्व­ग­ते­श्चो­त्त­रत्र चैत्ररथेन लिङ्गात् ॥ ३५ ॥

३५

इतश्च न जातिशूद्रो जानश्रुतिः; यत्कारणं प्रकरणनिरूपणेन क्षत्रि­य­त्व­म­स्यो­त्त­रत्र चैत्र­र­थे­ना­भि­प्र­ता­रिणा क्षत्रियेण सम­भि­व्या­हा­रा­ल्लि­ङ्गा­द्ग­म्यते । उत्तरत्र हि संव­र्ग­वि­द्या­वा­क्य­शेषे चैत्र­र­थि­र­भि­प्र­तारी क्षत्रियः सङ्कीर्त्यते — ‘अथ ह शौनकं च कापे­य­म­भि­प्र­ता­रिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे’(छा. उ. ४ । ३ । ५) इति । चैत्ररथित्वं चाभिप्रतारिणः कापे­य­यो­गा­द­व­ग­न्त­व्यम् । कापेययोगो हि चित्ररथस्यावगतः ‘एतेन वै चित्ररथं कापेया अयाजयन्’(ताण्ड्य. ब्रा. २० । १२ । ५) इति । समा­ना­न्व­य­या­जिनां च प्रायेण समानान्वया याजका भवन्ति । ‘तस्मा­च्चै­त्र­र­थि­र्ना­मैकः क्षत्रपतिरजायत’ इति च क्षत्र­प­ति­त्वा­व­ग­मा­त्क्ष­त्रि­य­त्व­म­स्या­व­ग­न्त­व्यम् । तेन क्षत्रि­ये­णा­भि­प्र­ता­रिणा सह समानायां विद्यायां सङ्कीर्तनं जानश्रुतेरपि क्षत्रियत्वं सूचयति । समानानामेव हि प्रायेण समभिव्याहारा भवन्ति । क्षत्तृ­प्रे­ष­णा­द्यै­श्व­र्य­यो­गाच्च जानश्रुतेः क्षत्रि­य­त्वा­व­गतिः । अतो न शूद्रस्याधिकारः ॥ ३५ ॥

संस्का­र­प­रा­म­र्शा­त्त­द­भा­वा­भि­ला­पाच्च ॥ ३६ ॥

३६

इतश्च न शूद्र­स्या­धि­कारः, यद्वि­द्या­प्र­दे­शे­षू­प­न­य­ना­दयः संस्काराः परामृश्यन्ते — ‘तं होपनिन्ये’(श. ब्रा. ११ । ५ । ३ । १३) ‘अधीहि भगव इति होपससाद’(छा. उ. ७ । १ । १) ‘ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मा­न्वे­ष­माणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्प­ला­द­मु­प­सन्नाः’(प्र. उ. १ । १) इति च । ‘तान्हा­नु­प­नी­यैव’(छा. उ. ५ । ११ । ७) इत्यपि प्रद­र्शि­तै­वो­प­न­य­न­प्रा­प्ति­र्भ­वति । शूद्रस्य च संस्का­रा­भा­वोऽ­भि­ल­प्यते ‘शूद्रश्चतुर्थो वर्ण एकजातिः’(मनु. स्मृ. १० । ४) इत्ये­क­जा­ति­त्व­स्म­र­णात् । ‘न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हति’(मनु. स्मृ. १० । १२ । ६) इत्यादिभिश्च ॥ ३६ ॥

तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७ ॥

३७

इतश्च न शूद्र­स्या­धि­कारः; यत्सत्यवचनेन शूद्रत्वाभावे निर्धारिते जाबालं गौतम उप­ने­तु­म­नु­शा­सितुं च प्रववृते — ‘नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहरोप त्वा नेष्ये न सत्यादगाः’(छा. उ. ४ । ४ । ५) इति श्रुतिलिङ्गात् ॥ ३७ ॥

श्रव­णा­ध्य­य­ना­र्थ­प्र­ति­षे­धा­त्स्मृ­तेश्च ॥ ३८ ॥

३८

इतश्च न शूद्र­स्या­धि­कारः; यदस्य स्मृतेः श्रव­णा­ध्य­य­ना­र्थ­प्र­ति­षेधो भवति । वेद­श्र­व­ण­प्र­ति­षेधः, वेदा­ध्य­य­न­प्र­ति­षेधः, तद­र्थ­ज्ञा­ना­नु­ष्ठा­न­योश्च प्रतिषेधः शूद्रस्य स्मर्यते । श्रव­ण­प्र­ति­षे­ध­स्ता­वत् — ‘अथ हास्य वेद­मु­प­शृ­ण्व­त­स्त्र­पु­ज­तुभ्यां श्रोत्र­प्र­ति­पू­र­णम्’ इति; ‘पद्यु ह वा एतच्छ्मशानं यच्छू­द्र­स्त­स्मा­च्छू­द्र­स­मीपे नाध्येतव्यम्’ इति च । अत एवा­ध्य­य­न­प्र­ति­षेधः । यस्य हि समीपेऽपि नाध्येतव्यं भवति, स कथमश्रुतमधीयीत । भवति च ‘वेदोच्चारणे जिह्वाच्छेदः, धारणे शरीरभेद’(गौ॰ध॰सू॰ २-३-४) इति । अत एव चार्था­द­र्थ­ज्ञा­ना­नु­ष्ठा­नयोः प्रतिषेधो भवति — ‘न शूद्राय मतिं दद्यात्’(म॰स्मृ॰ ४-८०) इति, ‘द्विजा­ती­ना­म­ध्य­य­न­मिज्या दानम्’(गौ॰ध॰सू॰ २-१-१) इति च । येषां पुनः पूर्व­कृ­त­सं­स्का­र­व­शा­द्वि­दु­र­ध­र्म­व्या­ध­प्र­भृ­तीनां ज्ञानोत्पत्तिः, तेषां न शक्यते फलप्राप्तिः प्रतिषेद्धुम् , ज्ञान­स्यै­का­न्ति­क­फ­ल­त्वात् । ‘श्रावयेच्चतुरो वर्णान्’(म॰भा॰ १२-३२७-४९) इति चेति­हा­स­पु­रा­णा­धि­गमे चातु­र्व­र्ण्य­स्या­धि­का­र­स्म­र­णात् । वेदपूर्वकस्तु नास्त्यधिकारः शूद्राणामिति स्थितम् ॥ ३८ ॥

कम्पनात् ॥ ३९ ॥

३९

अवसितः प्रास­ङ्गि­कोऽ­धि­का­र­वि­चारः । प्रकृ­ता­मे­वे­दानीं वाक्या­र्थ­वि­चा­रणां प्रवर्तयिष्यामः । ‘यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम् । महद्भयं वज्रमुद्यतं य एत­द्वि­दु­र­मृ­तास्ते भवन्ति’(क. उ. २ । ३ । २) इति एतद्वाक्यम् ‘एजृ कम्पने’ इति धात्व­र्था­नु­ग­मा­ल्ल­क्षि­तम् । अस्मिन्वाक्ये सर्वमिदं जगत् प्राणाश्रयं स्पन्दते, महच्च किञ्चिद्भयकारणं वज्र­श­ब्दि­त­मु­द्य­तम् , तद्वि­ज्ञा­ना­च्चा­मृ­त­त्व­प्रा­प्ति­रिति श्रूयते । तत्र, कोऽसौ प्राणः, किं तद्भयानकं वज्रम् , इत्य­प्र­ति­प­त्ते­र्वि­चारे क्रियमाणे, प्राप्तं तावत् — प्रसिद्धेः पञ्च­वृ­त्ति­र्वायुः प्राण इति । प्रसिद्धेरेव चाशनिर्वज्रं स्यात् । वायोश्चेदं माहात्म्यं सङ्कीर्त्यते । कथम् ? सर्वमिदं जगत् पञ्चवृत्तौ वायौ प्राणशब्दिते प्रतिष्ठाय एजति । वायुनिमित्तमेव च महद्भयानकं वज्रमुद्यम्यते । वायौ हि पर्जन्यभावेन विवर्तमाने विद्यु­त्स्त­न­यि­त्नु­वृ­ष्ट्य­श­नयो विवर्तन्त इत्याचक्षते । वायुविज्ञानादेव चेदममृतत्वम् । तथा हि श्रुत्यन्तरम् — ‘वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं वेद’ इति । तस्मा­द्वा­यु­र­य­मिह प्रतिपत्तव्यः इत्येवं प्राप्ते ब्रूमः —

ब्रह्मैवेदमिह प्रतिपत्तव्यम् । कुतः ? पूर्वो­त्त­रा­लो­च­नात् । पूर्वो­त्त­र­योर्हि ग्रन्थ­भा­ग­यो­र्ब्र­ह्मैव निर्दि­श्य­मा­न­मु­प­ल­भा­महे । इहैव कथ­म­क­स्मा­द­न्त­राले वायुं निर्दिश्यमानं प्रतिपद्येमहि ? पूर्वत्र तावत् ‘तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन’(क. उ. २ । ३ । १) इति ब्रह्म निर्दिष्टम् । तदेव इहापि, सन्निधानात् , ‘जगत्सर्वं प्राण एजति’ इति च लोका­श्र­य­त्व­प्र­त्य­भि­ज्ञा­नात् निर्दिष्टमिति गम्यते । प्राण­श­ब्दोऽ­प्ययं परमात्मन्येव प्रयुक्तः — ‘प्राणस्य प्राणम्’(बृ. उ. ४ । ४ । १८) इति दर्शनात् । एजयितृत्वमपीदं परमात्मन एवोपपद्यते, न वायुमात्रस्य । तथा चोक्तम् — ‘न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मि­न्ने­ता­वु­पा­श्रितौ’(क. उ. २ । २ । ५) इति । उत्तरत्रापि ‘भया­द­स्या­ग्नि­स्त­पति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः’(क. उ. २ । ३ । ३) इति ब्रह्मैव निर्देक्ष्यते, न वायुः, सवायुकस्य जगतो भय­हे­तु­त्वा­भि­धा­नात् । तदेव इहापि सन्निधानात् ‘महद्भयं वज्रमुद्यतम्’ इति च भय­हे­तु­त्व­प्र­त्य­भि­ज्ञा­ना­न्नि­र्दि­ष्ट­मिति गम्यते । वज्रशब्दोऽप्ययं भय­हे­तु­त्व­सा­मा­न्या­त्प्र­युक्तः । यथा हि ‘वज्रमुद्यतं ममैव शिरसि निपतेत् , यद्यहमस्य शासनं न कुर्याम्’ इत्यनेन भयेन जनो नियमेन राजादिशासने प्रवर्तते, एव­मि­द­म­ग्नि­वा­यु­सू­र्या­दिकं जगत् अस्मादेव ब्रह्मणो बिभ्यत् नियमेन स्वव्यापारे प्रवर्तत इति — भयानकं वज्रोपमितं ब्रह्म । तथा च ब्रह्मविषयं श्रुत्यन्तरम् — ‘भीषास्माद्वातः पवते । भीषोदेति सूर्यः । भीषा­स्मा­द­ग्नि­श्चे­न्द्रश्च । मृत्युर्धावति पञ्चमः’(तै. उ. २ । ८ । १) इति । अमृ­त­त्व­फ­ल­श्र­व­णा­दपि ब्रह्मैवेदमिति गम्यते । ब्रह्म­ज्ञा­ना­द्ध्य­मृ­त­त्व­प्राप्तिः, ‘तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’(श्वे. उ. ६ । १५) इति मन्त्रवर्णात् । यत्तु वायु­वि­ज्ञा­ना­त्क्व­चि­द­मृ­त­त्व­म­भि­हि­तम् , तदापेक्षिकम् । तत्रैव प्रक­र­णा­न्त­र­क­र­णेन परमात्मानमभिधाय ‘अतोऽ­न्य­दा­र्तम्’(बृ. उ. ३ । ४ । २) इति वाय्वा­दे­रा­र्त­त्वा­भि­धा­नात् । प्रकरणादप्यत्र परमात्मनिश्चयः । ‘अन्यत्र धर्मा­द­न्य­त्रा­ध­र्मा­द­न्य­त्रा­स्मा­त्कृ­ता­कृ­तात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’(क. उ. १ । २ । १४) इति परमात्मनः पृष्टत्वात् ॥ ३९ ॥

ज्योति­र्द­र्श­नात् ॥ ४० ॥

४०

‘एष सम्प्र­सा­दोऽ­स्मा­च्छ­री­रा­त्स­मु­त्थाय परं ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यते’(छा. उ. ८ । १२ । ३) इति श्रूयते । तत्र संशय्यते — किं ज्योतिःशब्दं चक्षु­र्वि­ष­य­त­मो­पहं तेजः, किं वा परं ब्रह्मेति । किं तावत्प्राप्तम् ? प्रसिद्धमेव तेजो ज्योतिःशब्दमिति । कुतः ? तत्र ज्योतिःशब्दस्य रूढत्वात् । ‘ज्योति­श्च­र­णा­भि­धा­नात्’(ब्र. सू. १ । १ । २४) इत्यत्र हि प्रक­र­णा­ज्ज्यो­तिः­शब्दः स्वार्थं परित्यज्य ब्रह्मणि वर्तते । न चेह तद्व­त्कि­ञ्चि­त्स्वा­र्थ­प­रि­त्यागे कारणं दृश्यते । तथा च नाडीखण्डे — ‘अथ यत्रै­त­द­स्मा­च्छ­री­रा­दु­त्क्रा­म­त्य­थै­तै­रेव रश्मि­भि­रू­र्ध्व­मा­क्र­मते’(छा. उ. ८ । ६ । ५) इति मुमु­क्षो­रा­दि­त्य­प्रा­प्ति­र­भि­हिता । तस्मा­त्प्र­सि­द्ध­मेव तेजो ज्योतिः­श­ब्द­मिति, एवं प्राप्ते ब्रूमः —

परमेव ब्रह्म ज्योतिःशब्दम् । कस्मात् ? दर्शनात् । तस्य हीह प्रकरणे वक्त­व्य­त्वे­ना­नु­वृ­त्ति­र्दृ­श्यते; ‘य आत्मापहतपाप्मा’(छा. उ. ८ । ७ । १) इत्य­प­ह­त­पा­प्म­त्वा­दि­गु­ण­क­स्या­त्मनः प्रक­र­णा­दा­व­न्वे­ष्ट­व्य­त्वेन विजि­ज्ञा­सि­त­व्य­त्वेन च प्रतिज्ञानात् । ‘एतं त्वेव ते भूयोऽ­नु­व्या­ख्या­स्यामि’(छा. उ. ८ । ९ । ३) इति चानुसन्धानात् । ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’(छा. उ. ८ । १२ । १) इति चाशरीरतायै ज्योतिः­स­म्प­त्ते­र­स्या­भि­धा­नात् । ब्रह्म­भा­वा­च्चा­न्य­त्रा­श­री­र­ता­नु­प­पत्तेः । ‘परं ज्योतिः’ ‘स उत्तमः पुरुषः’(छा. उ. ८ । १२ । ३) इति च विशेषणात् । यत्तूक्तं मुमु­क्षो­रा­दि­त्य­प्रा­प्ति­र­भि­हि­तेति, नासावात्यन्तिको मोक्षः, गत्यु­त्क्रा­न्ति­स­म्ब­न्धात् । न ह्यात्यन्तिके मोक्षे गत्युत्क्रान्ती स्त इति वक्ष्यामः ॥ ४० ॥

आका­शोऽ­र्था­न्त­र­त्वा­दि­व्य­प­दे­शात् ॥ ४१ ॥

४१

‘आकाशो वै नाम नाम­रू­प­यो­र्नि­र्व­हिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा’(छा. उ. ८ । १४ । १) इति श्रूयते । तत्किमाकाशशब्दं परं ब्रह्म, किं वा प्रसिद्धमेव भूताकाशमिति विचारे — भूतपरिग्रहो युक्तः; आकाशशब्दस्य तस्मिन् रूढत्वात् । नाम­रू­प­नि­र्व­ह­णस्य चाव­का­श­दा­न­द्वा­रेण तस्मिन्योजयितुं शक्यत्वात् । स्रष्टृ­त्वा­देश्च स्पष्टस्य ब्रह्म­लि­ङ्ग­स्या­श्र­व­णा­दि­त्येवं प्राप्ते इदमुच्यते —

परमेव ब्रह्म इहाकाशशब्दं भवितुमर्हति । कस्मात् ? अर्थान्तरत्वादि व्यपदेशात् । ‘ते यदन्तरा तद्ब्रह्म’ इति हि नाम­रू­पा­भ्या­म­र्था­न्त­र­भू­त­मा­काशं व्यपदिशति । न च ब्रह्म­णोऽ­न्य­न्ना­म­रू­पा­भ्या­म­र्था­न्तरं सम्भवति, सर्वस्य विकारजातस्य नामरूपाभ्यामेव व्याकृतत्वात् । नामरूपयोरपि निर्वहणं निरङ्कुशं न ब्रह्मणोऽन्यत्र सम्भवति, ‘अनेन जीवे­ना­त्म­ना­नु­प्र­विश्य नामरूपे व्याकरवाणि’(छा. उ. ६ । ३ । २) इति ब्रह्म­क­र्तृ­क­त्व­श्र­व­णात् । ननु जीवस्यापि प्रत्यक्षं नामरूपविषयं निर्वो­ढृ­त्व­मस्ति । बाढमस्ति । अभेदस्त्विह विवक्षितः । नाम­रू­प­नि­र्व­ह­णा­भि­धा­ना­देव च स्रष्टृत्वादि ब्रह्म­लि­ङ्ग­म­भि­हितं भवति । ‘तद्ब्रह्म तदमृतं स आत्मा’(छा. उ. ८ । १४ । १) इति च ब्रह्मवादस्य लिङ्गानि । ‘आका­श­स्त­ल्लि­ङ्गात्’(ब्र. सू. १ । १ । २२) इत्यस्यैवायं प्रपञ्चः ॥ ४१ ॥

सुषु­प्त्यु­त्क्रा­न्त्यो­र्भे­देन ॥ ४२ ॥

४२

व्यप­दे­शा­दि­त्य­नु­व­र्तते । बृहदारण्यके षष्ठे प्रपाठके ‘कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्य­न्त­र्ज्योतिः पुरुषः’(बृ. उ. ४ । ३ । ७) इत्युपक्रम्य भूयानात्मविषयः प्रपञ्चः कृतः । तत्किं संसा­रि­स्व­रू­प­मा­त्रा­न्वा­ख्या­न­परं वाक्यम् , उता­सं­सा­रि­स्व­रू­प­प्र­ति­पा­द­न­प­र­मिति संशयः । किं तावत्प्राप्तम् ? संसा­रि­स्व­रू­प­मा­त्र­वि­ष­य­मे­वेति । कुतः ? उप­क्र­मो­प­सं­हा­रा­भ्याम् । उपक्रमे ‘योऽयं विज्ञानमयः प्राणेषु’ इति शारीरलिङ्गात् । उपसंहारे च ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु’(बृ. उ. ४ । ४ । २२) इति तदपरित्यागात् । मध्येऽपि बुद्धा­न्ता­द्य­व­स्थो­प­न्या­सेन तस्यैव प्रप­ञ्च­ना­दि­त्येवं प्राप्ते ब्रूमः —

पर­मे­श्व­रो­प­दे­श­प­र­मे­वेदं वाक्यम् , न शारी­र­मा­त्रा­न्वा­ख्या­न­प­रम् । कस्मात् ? सुषु­प्ता­वु­त्क्रान्तौ च शारीराद्भेदेन परमेश्वरस्य व्यपदेशात् । सुषुप्तौ तावत् ‘अयं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’(बृ. उ. ४ । ३ । २१) इति शारीराद्भेदेन परमेश्वरं व्यपदिशति । तत्र पुरुषः शारीरः स्यात् , तस्य वेदितृत्वात् । बाह्या­भ्य­न्त­र­वे­द­न­प्र­सङ्गे सति तत्प्र­ति­षे­ध­स­म्भ­वात् । प्राज्ञः परमेश्वरः, सर्व­ज्ञ­त्व­ल­क्ष­णया प्रज्ञया नित्यमवियोगात् । तथो­त्क्रा­न्ता­वपि ‘अयं शारीर आत्मा प्राज्ञे­ना­त्म­ना­न्वा­रूढ उत्सर्जन्याति’(बृ. उ. ४ । ३ । ३५) इति जीवाद्भेदेन परमेश्वरं व्यपदिशति । तत्रापि शारीरो जीवः स्यात् , शरी­र­स्वा­मि­त्वात् । प्राज्ञस्तु स एव परमेश्वरः । तस्मा­त्सु­षु­प्त्यु­त्क्रा­न्त्यो­र्भे­देन व्यप­दे­शा­त्प­र­मे­श्वर एवात्र विवक्षित इति गम्यते । यदु­क्त­मा­द्य­न्त­म­ध्येषु शारीरलिङ्गात् तत्परत्वमस्य वाक्यस्येति, अत्र ब्रूमः — उपक्रमे तावत् ‘योऽयं विज्ञानमयः प्राणेषु’ इति न संसारिस्वरूपं विवक्षितम् — किं तर्हि ? — अनूद्य संसारिस्वरूपं परेण ब्रह्म­णा­स्यै­कतां विवक्षति । यतः ‘ध्यायतीव लेलायतीव’ इत्ये­व­मा­द्यु­त्त­र­ग्र­न्थ­प्र­वृत्तिः संसा­रि­ध­र्म­नि­रा­क­र­ण­परा लक्ष्यते । तथोपसंहारेऽपि यथो­प­क्र­म­मे­वो­प­सं­ह­रति — ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु’ इति । योऽयं विज्ञानमयः प्राणेषु संसारी लक्ष्यते, स वा एष महानज आत्मा परमेश्वर एवास्माभिः प्रतिपादित इत्यर्थः । यस्तु मध्ये बुद्धा­न्ता­द्य­व­स्थो­प­न्या­सा­त्सं­सा­रि­स्व­रू­प­वि­वक्षां मन्यते, स प्राचीमपि दिशं प्रस्थापितः प्रतीचीमपि दिशं प्रतिष्ठेत । यतो न बुद्धा­न्ता­द्य­व­स्थो­प­न्या­से­ना­व­स्था­वत्त्वं संसारित्वं वा विवक्षितं — किं तर्हि ? — अव­स्था­र­हि­त­त्व­म­सं­सा­रित्वं च । कथमेतदवगम्यते ? यत् ‘अत ऊर्ध्वं विमोक्षायैव ब्रूहि’(बृ. उ. ४ । ३ । १४) इति पदे पदे पृच्छति । यच्च ‘अनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः’(बृ. उ. ४ । ३ । १५) इति पदे पदे प्रतिवक्ति । ‘अनन्वागतं पुण्ये­ना­न­न्वा­गतं पापेन तीर्णो हि तदा सर्वा­ञ्शो­का­न्हृ­द­यस्य भवति’(बृ. उ. ४ । ३ । २२) इति च । तस्मा­द­सं­सा­रि­स्व­रू­प­प्र­ति­पा­द­न­प­र­मे­वै­त­द्वा­क्य­मि­त्य­व­ग­न्त­व्यम् ॥ ४२ ॥

पत्या­दि­श­ब्देभ्यः ॥ ४३ ॥

४३

इत­श्चा­सं­सा­रि­स्व­रू­प­प्र­ति­पा­द­न­प­र­मे­वै­त­द्वा­क्य­मि­त्य­व­ग­न्त­व्यम्; यदस्मिन्वाक्ये पत्यादयः शब्दा असं­सा­रि­स्व­रू­प­प्र­ति­पा­द­न­पराः संसा­रि­स्व­भा­व­प्र­ति­षे­ध­नाश्च भवन्ति — ‘सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः’ इत्येवंजातीयका असं­सा­रि­स्व­भा­व­प्र­ति­पा­द­न­पराः । ‘स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्’ इत्येवंजातीयकाः संसा­रि­स्व­भा­व­प्र­ति­षे­धनाः । तस्मादसंसारी परमेश्वर इहोक्त इत्यवगम्यते ॥ ४३ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ शारी­र­क­मी­मां­सा­सू­त्र­भाष्ये प्रथमाध्यायस्य तृतीयः पादः ॥

चतुर्थः पादः

ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम् — ‘जन्माद्यस्य यतः’(ब्र. सू. १ । १ । २) इति । तल्लक्षणं प्रधानस्यापि समा­न­मि­त्या­शङ्क्य तदशब्दत्वेन निराकृतम् — ‘ईक्ष­ते­र्ना­श­ब्दम्’(ब्र. सू. १ । १ । ५) इति । गतिसामान्यं च वेदा­न्त­वा­क्यानां ब्रह्मकारणवादं प्रति विद्यते, न प्रधानकारणवादं प्रतीति प्रपञ्चितं गतेन ग्रन्थेन । इदं त्विदा­नी­म­व­शि­ष्ट­मा­श­ङ्क्यते — यदुक्तं प्रधा­न­स्या­श­ब्द­त्वम् , तदसिद्धम् , कासुचिच्छाखासु प्रधा­न­स­म­र्प­णा­भा­सानां शब्दानां श्रूयमाणत्वात् । अतः प्रधानस्य कारणत्वं वेदसिद्धमेव महद्भिः परमर्षिभिः कपिलप्रभृतिभिः परिगृहीतमिति प्रसज्यते । तद्यावत्तेषां शब्दा­ना­म­न्य­प­रत्वं न प्रतिपाद्यते, तावत्सर्वज्ञं ब्रह्म जगतः कारणमिति प्रति­पा­दि­त­म­प्या­कु­ली­भ­वेत् । अत­स्ते­षा­म­न्य­प­रत्वं दर्शयितुं परः सन्दर्भः प्रवर्तते ॥

आनु­मा­नि­क­म­प्ये­के­षा­मिति चेन्न शरी­र­रू­प­क­वि­न्य­स्त­गृ­ही­ते­र्द­र्श­यति च ॥ १ ॥

आनुमानिकमपि अनु­मा­न­नि­रू­पि­त­मपि प्रधानम् , एकेषां शाखिनां शब्दवदुपलभ्यते; काठके हि पठ्यते — ‘महतः पर­म­व्य­क्त­म­व्य­क्ता­त्पु­रुषः परः’(क. उ. १ । ३ । ११) इति; तत्र य एव यन्नामानो यत्क्रमाश्च मह­द­व्य­क्त­पु­रुषाः स्मृति­प्र­सिद्धाः, त एवेह प्रत्य­भि­ज्ञा­यन्ते । तत्राव्यक्तमिति स्मृति­प्र­सिद्धेः, शब्दा­दि­ही­न­त्वाच्च न व्यक्त­म­व्य­क्त­मिति व्युत्प­त्ति­स­म्भ­वात् , स्मृतिप्रसिद्धं प्रधानमभिधीयते । अतस्तस्य शब्द­व­त्त्वा­द­श­ब्द­त्व­म­नु­प­प­न्नम् । तदेव च जगतः कारणं श्रुति­स्मृ­ति­न्या­य­प्र­सि­द्धिभ्य इति चेत् , नैतदेवम् — न ह्येत­त्का­ठ­क­वाक्यं स्मृति­प्र­सि­द्ध­यो­र्म­ह­द­व्य­क्त­यो­र­स्ति­त्व­प­रम् । न ह्यत्र यादृशं स्मृतिप्रसिद्धं स्वतन्त्रं कारणं त्रिगुणं प्रधानम् , तादृशं प्रत्यभिज्ञायते । शब्दमात्रं ह्यत्रा­व्य­क्त­मिति प्रत्यभिज्ञायते । स च शब्दः — न व्यक्त­म­व्य­क्त­मिति — यौगिकत्वात् अन्यस्मिन्नपि सूक्ष्मे सुदुर्लक्ष्ये च प्रयुज्यते । न चायं कस्मिं­श्चि­द्रूढः । या तु प्रधानवादिनां रूढिः, सा तेषामेव पारिभाषिकी सती न वेदार्थनिरूपणे कारणभावं प्रतिपद्यते । न च क्रम­मा­त्र­सा­मा­न्या­त्स­मा­ना­र्थ­प्र­ति­प­त्ति­र्भ­वति, असति तद्रू­प­प्र­त्य­भि­ज्ञाने । न ह्यश्वस्थाने गां पश्य­न्न­श्वोऽ­य­मि­त्य­मू­ढोऽ­ध्य­व­स्यति । प्रक­र­ण­नि­रू­प­णायां चात्र न परपरिकल्पितं प्रधानं प्रतीयते, शरी­र­रू­प­क­वि­न्य­स्त­गृ­हीतेः । शरीरं ह्यत्र रथ­रू­प­क­वि­न्य­स्त­म­व्य­क्त­श­ब्देन परिगृह्यते । कुतः ? प्रकरणात् परिशेषाच्च । तथा ह्यनन्तरातीतो ग्रन्थ आत्मशरीरादीनां रथि­र­था­दि­रू­प­क­कॢप्तिं दर्शयति — ‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥’(क. उ. १ । ३ । ३) ‘इन्द्रियाणि हया­ना­हु­र्वि­ष­यां­स्तेषु गोचरान् । आत्मे­न्द्रि­य­म­नो­युक्तं भोक्ते­त्या­हु­र्म­नी­षिणः’(क. उ. १ । ३ । ४) इति । तैश्चे­न्द्रि­या­दि­भि­र­सं­यतैः संसारमधिगच्छति, संयतैस्त्वध्वनः पारं तद्विष्णोः परमं पदमाप्नोति इति दर्शयित्वा, किं तदध्वनः पारं विष्णोः परमं पद­मि­त्य­स्या­मा­का­ङ्क्षा­याम् , तेभ्य एव प्रकृतेभ्यः इन्द्रियादिभ्यः परत्वेन परमात्मानमध्वनः पारं विष्णोः परमं पदं दर्शयति — ‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धि­र्बु­द्धे­रात्मा महान्परः ॥’(क. उ. १ । ३ । १०) ‘महतः पर­म­व्य­क्त­म­व्य­क्ता­त्पु­रुषः परः । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’(क. उ. १ । ३ । ११) इति; तत्र य एवेन्द्रियादयः पूर्वस्यां रथ­रू­प­क­क­ल्प­ना­या­म­श्वा­दि­भा­वेन प्रकृताः, त एवेह परिगृह्यन्ते, प्रकृ­त­हा­ना­प्र­कृ­त­प्र­क्रि­या­प­रि­हा­राय । तत्र इन्द्रि­य­म­नो­बु­द्ध­य­स्ता­व­त्पू­र्वत्र इह च समानशब्दा एव । अर्थास्तु ये शब्दादयो विषया इन्द्रि­य­ह­य­गो­च­र­त्वेन निर्दिष्टाः, तेषां चेन्द्रियेभ्यः परत्वम् , इन्द्रियाणां ग्रहत्वं विष­या­णा­म­ति­ग्र­ह­त्वम् इति श्रुति­प्र­सिद्धेः । विषयेभ्यश्च मनसः परत्वम् , मनो­मू­ल­त्वा­द्वि­ष­ये­न्द्रि­य­व्य­व­हा­रस्य । मनसस्तु परा बुद्धिः — बुद्धिं ह्यारुह्य भोग्यजातं भोक्ता­र­मु­प­स­र्पति । बुद्धेरात्मा महान्परः — यः, सः ‘आत्मानं रथिनं विद्धि’ इति रथि­त्वे­नो­प­क्षिप्तः । कुतः ? आत्मशब्दात् , भोक्तुश्च भोगो­प­क­र­णा­त्प­र­त्वो­प­पत्तेः । महत्त्वं चास्य स्वामि­त्वा­दु­प­प­न्नम् । अथवा — ‘मनो महा­न्म­ति­र्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः । प्रज्ञा संविच्चितिश्चैव स्मृतिश्च परिपठ्यते’ इति स्मृतेः, ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’(श्वे. उ. ६ । १८) इति च श्रुतेः , या प्रथमजस्य हिरण्यगर्भस्य बुद्धिः, सा सर्वासां बुद्धीनां परमा प्रतिष्ठा; सेह महा­ना­त्मे­त्यु­च्यते । सा च पूर्वत्र बुद्धिग्रहणेनैव गृहीता सती हिरु­गि­हो­प­दि­श्यते, तस्या अप्यस्मदीयाभ्यो बुद्धिभ्यः परत्वोपपत्तेः । एतस्मिंस्तु पक्षे परमात्मविषयेणैव परेण पुरुषग्रहणेन रथिन आत्मनो ग्रहणं द्रष्टव्यम्, परमार्थतः पर­मा­त्म­वि­ज्ञा­ना­त्म­नो­र्भे­दा­भा­वात् । तदेवं शरीरमेवैकं परिशिष्यते तेषु । इत­रा­णी­न्द्रि­या­दीनि प्रकृतान्येव पर­म­प­द­दि­द­र्श­यि­षया सम­नु­क्रा­म­न्प­रि­शि­ष्य­मा­णे­ने­हा­न्त्ये­ना­व्य­क्त­श­ब्देन परिशिष्यमाणं प्रकृतं शरीरं दर्शयतीति गम्यते । शरी­रे­न्द्रि­य­म­नो­बु­द्धि­वि­ष­य­वे­द­ना­सं­यु­क्तस्य ह्यविद्यावतो भोक्तुः शरीरादीनां रथा­दि­रू­प­क­क­ल्प­नया संसा­र­मो­क्ष­ग­ति­नि­रू­प­णेन प्रत्य­गा­त्म­ब्र­ह्मा­व­ग­ति­रिह विवक्षिता । तथा च ‘एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्म­द­र्शिभिः’(क. उ. १ । ३ । १२) इति वैष्णवस्य परमपदस्य दुर­व­ग­म­त्व­मुक्त्वा तदवगमार्थं योगं दर्शयति — ‘यच्छे­द्वा­ङ्म­नसी प्राज्ञ­स्त­द्य­च्छे­ज्ज्ञान आत्मनि । ज्ञानमात्मनि महति निय­च्छे­त्त­द्य­च्छे­च्छान्त आत्मनि’(क. उ. १ । ३ । १३) इति । एतदुक्तं भवति — वाचं मनसि संयच्छेत् वागा­दि­बा­ह्ये­न्द्रि­य­व्या­पा­र­मु­त्सृज्य मनो­मा­त्रे­णा­व­ति­ष्ठेत । मनोऽपि विष­य­वि­क­ल्पा­भि­मुखं विक­ल्प­दो­ष­द­र्श­नेन ज्ञान­श­ब्दो­दि­तायां बुद्धा­व­ध्य­व­सा­य­स्व­भा­वायां धारयेत् तामपि बुद्धिं महत्यात्मनि भोक्तरि अग्र्यायां वा बुद्धौ सूक्ष्मतापादनेन नियच्छेत् महान्तं त्वात्मानं शान्त आत्मनि प्रकरणवति परस्मिन्पुरुषे परस्यां काष्ठायां प्रति­ष्ठा­प­ये­दिति । तदेवं पूर्वा­प­रा­लो­च­नायां नास्त्यत्र परपरिकल्पितस्य प्रधानस्यावकाशः ॥ १ ॥

सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥

उक्तमेतत् — प्रक­र­ण­प­रि­शे­षाभ्यां शरी­र­म­व्य­क्त­श­ब्दम् , न प्रधानमिति । इद­मि­दा­नी­मा­श­ङ्क्यते — कथ­म­व्य­क्त­श­ब्दा­र्हत्वं शरीरस्य, यावता स्थूल­त्वा­त्स्प­ष्ट­त­र­मिदं शरीरं व्यक्त­श­ब्दा­र्हम् , अस्प­ष्ट­व­च­न­स्त्व­व्य­क्त­शब्द इति । अत उत्तरमुच्यते — सूक्ष्मं तु इह कारणात्मना शरीरं विवक्ष्यते, सूक्ष्म­स्या­व्य­क्त­श­ब्दा­र्ह­त्वात् । यद्यपि स्थूलमिदं शरीरं न स्वय­म­व्य­क्त­श­ब्द­म­र्हति, तथापि तस्य त्वारम्भकं भूत­सू­क्ष्म­म­व्य­क्त­श­ब्द­म­र्हति । प्रकृतिशब्दश्च विकारे दृष्टः — यथा ‘गोभिः श्रीणीत मत्सरम्’(ऋ. सं. ९ । ४६ । ४) इति । श्रुतिश्च — ‘तद्धेदं तर्ह्य­व्या­कृ­त­मा­सीत्’(बृ. उ. १ । ४ । ७) इतीदमेव व्याकृ­त­ना­म­रू­प­वि­भिन्नं जग­त्प्रा­ग­व­स्थायां परि­त्य­क्त­व्या­कृ­त­ना­म­रूपं बीज­श­क्त्य­व­स्थ­म­व्य­क्त­श­ब्द­योग्यं दर्शयति ॥ २ ॥

तद­धी­न­त्वा­द­र्थ­वत् ॥ ३ ॥

अत्राह — यदि जग­दि­द­म­न­भि­व्य­क्त­ना­म­रूपं बीजात्मकं प्राग­व­स्थ­म­व्य­क्त­श­ब्दा­र्ह­म­भ्यु­प­ग­म्येत, तदात्मना च शरी­र­स्या­प्य­व्य­क्त­श­ब्दा­र्हत्वं प्रतिज्ञायेत, स एव तर्हि प्रधानकारणवाद एवं सत्यापद्येत; अस्यैव जगतः प्रागवस्थायाः प्रधा­न­त्वे­ना­भ्यु­प­ग­मा­दिति । अत्रोच्यते — यदि वयं स्वतन्त्रां काञ्चि­त्प्रा­ग­वस्थां जगतः कार­ण­त्वे­ना­भ्यु­प­ग­च्छेम, प्रसञ्जयेम तदा प्रधानकारणवादम् । परमेश्वराधीना त्वियमस्माभिः प्रागवस्था जग­तोऽ­भ्यु­प­ग­म्यते, न स्वतन्त्रा । सा चाव­श्या­भ्यु­प­ग­न्तव्या । अर्थवती हि सा । न हि तया विना परमेश्वरस्य स्रष्टृत्वं सिध्यति । शक्तिरहितस्य तस्य प्रवृ­त्त्य­नु­प­पत्तेः । मुक्तानां च पुनरनुत्पत्तिः । कुतः ? विद्यया तस्या बीज­श­क्ते­र्दा­हात् । अविद्यात्मिका हि बीज­श­क्ति­र­व्य­क्त­श­ब्द­नि­र्देश्या परमेश्वराश्रया मायामयी महासुषुप्तिः, यस्यां स्वरू­प­प्र­ति­बो­ध­र­हिताः शेरते संसारिणो जीवाः । तदेतदव्यक्तं क्वचि­दा­का­श­श­ब्द­नि­र्दि­ष्टम् — ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’(बृ. उ. ३ । ८ । ११) इति श्रुतेः; क्वचि­द­क्ष­र­श­ब्दो­दि­तम् — ‘अक्षरात्परतः परः’(मु. उ. २ । १ । २) इति श्रुतेः; क्वचिन्मायेति सूचितम् — ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’(श्वे. उ. ४ । १०) इति मन्त्रवर्णात् । अव्यक्ता हि सा माया, तत्त्वा­न्य­त्व­नि­रू­प­ण­स्या­श­क्य­त्वात् । तदिदं ‘महतः परमव्यक्तम्’ इत्युक्तम् — अव्य­क्त­प्र­भ­व­त्वा­न्म­हतः, यदा हैरण्यगर्भी बुद्धिर्महान् । यदा तु जीवो महान् तदा­प्य­व्य­क्ता­धी­न­त्वा­ज्जी­व­भा­वस्य महतः पर­म­व्य­क्त­मि­त्यु­क्तम् । अविद्या ह्यव्यक्तम्; अवि­द्या­व­त्त्वे­नैव जीवस्य सर्वः संव्यवहारः सन्ततो वर्तते । तच्च अव्यक्तगतं महतः पर­त्व­म­भे­दो­प­चा­रा­त्त­द्वि­कारे शरीरे परिकल्प्यते । सत्यपि शरी­र­व­दि­न्द्रि­या­दीनां तद्वि­का­र­त्वा­वि­शेषे शरी­र­स्यै­वा­भे­दो­प­चा­रा­द­व्य­क्त­श­ब्देन ग्रहणम् , इन्द्रियादीनां स्वशब्दैरेव गृहीतत्वात् , परिशिष्टत्वाच्च शरीरस्य ॥

अन्ये तु वर्णयन्ति — द्विविधं हि शरीरं स्थूलं सूक्ष्मं च; स्थूलम् , यदिदमुपलभ्यते; सूक्ष्मम् , यदुत्तरत्र वक्ष्यते — ‘तद­न्त­र­प्र­ति­पत्तौ रंहति सम्परिष्वक्तः प्रश्न­नि­रू­प­णा­भ्याम्’(ब्र. सू. ३ । १ । १) इति । तच्चोभयमपि शरी­र­म­वि­शे­षा­त्पू­र्वत्र रथत्वेन सङ्कीर्तितम्; इह तु सूक्ष्म­म­व्य­क्त­श­ब्देन परिगृह्यते, सूक्ष्म­स्या­व्य­क्त­श­ब्दा­र्ह­त्वात्; तदधीनत्वाच्च बन्ध­मो­क्ष­व्य­व­हा­रस्य जीवात्तस्य परत्वम् । यथा­र्था­धी­न­त्वा­दि­न्द्रि­य­व्या­पा­र­स्ये­न्द्रि­येभ्यः पर­त्व­म­र्था­ना­मिति । तैस्त्वे­त­द्व­क्त­व्यम् — अविशेषेण शरीरद्वयस्य पूर्वत्र रथत्वेन सङ्की­र्ति­त­त्वात् , समानयोः प्रकृ­त­त्व­प­रि­शि­ष्ट­त्वयोः, कथं सूक्ष्ममेव शरीरमिह गृह्यते, न पुनः स्थूलमपीति । आम्नातस्यार्थं प्रतिपत्तुं प्रभवामः, नाम्नातं पर्यनुयोक्तुम् , आम्नातं चाव्यक्तपदं सूक्ष्ममेव प्रतिपादयितुं शक्नोति, नेतरत् , व्यक्त­त्वा­त्त­स्येति चेत् , न । एक­वा­क्य­ता­धी­न­त्वा­द­र्थ­प्र­ति­पत्तेः । न हीमे पूर्वोत्तरे आम्नाते एक­वा­क्य­ता­म­ना­पद्य कञ्चिदर्थं प्रतिपादयतः; प्रकृ­त­हा­ना­प्र­कृ­त­प्र­क्रि­या­प्र­स­ङ्गात् । न चाका­ङ्क्षा­म­न्त­रे­णै­क­वा­क्य­ता­प्र­ति­प­त्ति­रस्ति । तत्रा­वि­शि­ष्टायां शरीरद्वयस्य ग्राह्य­त्वा­का­ङ्क्षायां यथाकाङ्क्षं सम्ब­न्धेऽ­न­भ्यु­प­ग­म्य­माने एकवाक्यतैव बाधिता भवति, कुत आम्ना­त­स्या­र्थस्य प्रतिपत्तिः ? न चैवं मन्तव्यम् — दुःशो­ध­त्वा­त्सू­क्ष्म­स्यैव शरीरस्येह ग्रहणम् , स्थूलस्य तु दृष्टबीभत्सतया सुशो­ध­त्वा­द­ग्र­ह­ण­मिति । यतो नैवेह शोधनं कस्य­चि­द्वि­व­क्ष्यते । न ह्यत्र शोधनविधायि किञ्चि­दा­ख्या­त­मस्ति । अन­न्त­र­नि­र्दि­ष्ट­त्वात्तु किं तद्विष्णोः परमं पदमितीदमिह विवक्ष्यते । तथा­ही­द­म­स्मा­त्प­र­मि­द­म­स्मा­त्प­र­मि­त्युक्त्वा, ‘पुरुषान्न परं किञ्चित्’ इत्याह । सर्वथापि त्वानु­मा­नि­क­नि­रा­क­र­णो­प­पत्तेः, तथा नामास्तु; न नः किञ्चिच्छिद्यते ॥ ३ ॥

ज्ञेय­त्वा­व­च­नाच्च ॥ ४ ॥

ज्ञेयत्वेन च साङ्ख्यैः प्रधानं स्मर्यते, गुण­पु­रु­षा­न्त­र­ज्ञा­ना­त्कै­व­ल्य­मिति वदद्भिः — न हि गुण­स्व­रू­प­म­ज्ञात्वा गुणेभ्यः पुरुषस्यान्तरं शक्यं ज्ञातुमिति । क्वचिच्च विभू­ति­वि­शे­ष­प्रा­प्तये प्रधानं ज्ञेयमिति स्मरन्ति । न चेदमिहाव्यक्तं ज्ञेय­त्वे­नो­च्यते । पदमात्रं ह्यव्यक्तशब्दः, नेहाव्यक्तं ज्ञात­व्य­मु­पा­सि­तव्यं चेति वाक्यमस्ति । न चानुपदिष्टं पदार्थज्ञानं पुरुषार्थमिति शक्यं प्रतिपत्तुम् । तस्मादपि नाव्यक्तशब्देन प्रधानमभिधीयते । अस्माकं तु रथ­रू­प­क­कॢ­प्त­श­री­रा­द्य­नु­स­र­णेन विष्णोरेव परमं पदं दर्श­यि­तु­म­य­मु­प­न्यास इत्यनवद्यम् ॥ ४ ॥

वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥

अत्राह साङ्ख्यः — ज्ञेयत्वावचनात् , इत्यसिद्धम् । कथम् ? श्रूयते ह्युत्त­र­त्रा­व्य­क्त­श­ब्दो­दि­तस्य प्रधानस्य ज्ञेयत्ववचनम् — ‘अश­ब्द­म­स्प­र्श­म­रू­प­म­व्ययं तथारसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्यु­मु­खा­त्प्र­मु­च्यते’(क. उ. १ । ३ । १५) इति । अत्र हि यादृशं शब्दादिहीनं प्रधानं महतः परं स्मृतौ निरूपितम् , तादृशमेव निचाय्यत्वेन निर्दिष्टम् । तस्मा­त्प्र­धा­न­मे­वे­दम् । तदेव चाव्य­क्त­श­ब्द­नि­र्दि­ष्ट­मिति । अत्र ब्रूमः — नेह प्रधानं निचाय्यत्वेन निर्दिष्टम् । प्राज्ञो हीह परमात्मा निचाय्यत्वेन निर्दिष्ट इति गम्यते । कुतः ? प्रकरणात् । प्राज्ञस्य हि प्रकरणं विततं वर्तते — ‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’ इत्या­दि­नि­र्दे­शात् , ‘एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते’ इति च दुर्ज्ञा­न­त्व­व­च­नेन तस्यैव ज्ञेय­त्वा­का­ङ्क्ष­णात् , ‘यच्छो­द्वा­ङ्म­नसी प्राज्ञः’ इति च तज्ज्ञानायैव वागादिसंयमस्य विहितत्वात् । मृत्यु­मु­ख­प्र­मो­क्ष­ण­फ­ल­त्वाच्च । न हि प्रधानमात्रं निचाय्य मृत्यु­मु­खा­त्प्र­मु­च्यत इति साङ्ख्यैरिष्यते । चेत­ना­त्म­वि­ज्ञा­नाद्धि मृत्यु­मु­खा­त्प्र­मु­च्यत इति तेषामभ्युपगमः । सर्वेषु वेदान्तेषु प्राज्ञ­स्यै­वा­त्म­नोऽ­श­ब्दा­दि­ध­र्म­त्व­म­भि­ल­प्यते । तस्मान्न प्रधानस्यात्र ज्ञेय­त्व­म­व्य­क्त­श­ब्द­नि­र्दि­ष्टत्वं वा ॥ ५ ॥

त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥

इतश्च न प्रधा­न­स्या­व्य­क्त­श­ब्द­वा­च्यत्वं ज्ञेयत्वं वा; यस्मा­त्त्र­या­णा­मेव पदा­र्था­ना­म­ग्नि­जी­व­प­र­मा­त्म­ना­म­स्मि­न्ग्रन्थे कठवल्लीषु वर­प्र­दा­न­सा­म­र्थ्या­द्व­क्त­व्य­त­यो­प­न्यासो दृश्यते । तद्विषय एव च प्रश्नः । नातोऽन्यस्य प्रश्न उपन्यासो वास्ति । तत्र तावत् ‘स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम्’(क. उ. १ । १ । १३) इत्यग्निविषयः प्रश्नः । ‘येयं प्रेते विचिकित्सा मनु­ष्येऽ­स्ती­त्येके नायमस्तीति चैके । एत­द्वि­द्या­म­नु­शि­ष्ट­स्त्व­याहं वराणामेष वरस्तृतीयः’(क. उ. १ । १ । २०) इति जीवविषयः प्रश्नः । ‘अन्यत्र धर्मा­द­न्य­त्रा­ध­र्मा­द­न्य­त्रा­स्मा­त्कृ­ता­कृ­तात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’(क. उ. १ । २ । १४) इति परमात्मविषयः । प्रतिवचनमपि — ‘लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा’(क. उ. १ । १ । १५) इत्यग्निविषयम् । ‘हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । यथा च मरणं प्राप्य आत्मा भवति गौतम ।’(क. उ. २ । २ । ६) ‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणु­म­न्येऽ­नु­सं­यन्ति यथाकर्म यथाश्रुतम्’(क. उ. २ । २ । ७) इति व्यवहितं जीवविषयम् । ‘न जायते म्रियते वा विपश्चित्’(क. उ. १ । २ । १८) इत्या­दि­ब­हु­प्र­पञ्चं परमात्मविषयम् । नैवं प्रधानविषयः प्रश्नोऽस्ति । अपृ­ष्ट­त्वा­च्चा­नु­प­न्य­स­नी­यत्वं तस्येति ॥

अत्राह — योऽयमात्मविषयः प्रश्नः — ‘येयं प्रेते विचिकित्सा मनुष्येऽस्ति’ इति, किं स एवायम् ‘अन्यत्र धर्मा­द­न्य­त्रा­ध­र्मात्’ इति पुनरनुकृष्यते, किं वा ततोऽ­न्योऽ­य­म­पूर्वः प्रश्न उत्थाप्यत इति । किं चातः ? स एवायं प्रश्नः पुनरनुकृष्यत इति यद्युच्येत, तदा द्वयो­रा­त्म­वि­ष­ययोः प्रश्न­यो­रे­क­ता­प­त्ते­र­ग्नि­वि­षय आत्मविषयश्च द्वावेव प्रश्नावित्यतो न वक्तव्यं त्रयाणां प्रश्नो­प­न्या­सा­विति । अथा­न्योऽ­य­म­पूर्वः प्रश्न उत्थाप्यत इत्युच्येत, ततो यथैव वर­प्र­दा­न­व्य­ति­रे­केण प्रश्न­क­ल्प­ना­या­म­दोषः; एवं प्रश्न­व्य­ति­रे­के­णापि प्रधा­नो­प­न्या­स­क­ल्प­ना­या­म­दोषः स्यादिति ॥

अत्रोच्यते — नैव वयमिह वर­प्र­दा­न­व्य­ति­रे­केण प्रश्नं कञ्चि­त्क­ल्प­यामः, वाक्यो­प­क्र­म­सा­म­र्थ्यात् । वरप्रदानोपक्रमा हि मृत्यु­न­चि­के­तः­सं­वा­द­रूपा वाक्यप्रवृत्तिः आ समाप्तेः कठवल्लीनां लक्ष्यते । मृत्युः किल नचिकेतसे पित्रा प्रहिताय त्रीन्व­रा­न्प्र­ददौ । नचिकेताः किल तेषां प्रथमेन वरेण पितुः सौमनस्यं वव्रे, द्विती­ये­ना­ग्नि­वि­द्याम् , तृती­ये­ना­त्म­वि­द्याम् — ‘येयं प्रेते’ इति ‘वराणामेष वरस्तृतीयः’(क. उ. १ । १ । २०) इति लिङ्गात् । तत्र यदि ‘अन्यत्र धर्मात्’ इत्य­न्योऽ­य­म­पूर्वः प्रश्न उत्थाप्येत, ततो वर­प्र­दा­न­व्य­ति­रे­के­णापि प्रश्न­क­ल्प­ना­द्वाक्यं बाध्येत । ननु प्रष्ट­व्य­भे­दा­द­पू­र्वोऽयं प्रश्नो भवितुमर्हति । पूर्वो हि प्रश्नो जीवविषयः, येयं प्रेते विचिकित्सा मनुष्येऽस्ति नास्तीति विचि­कि­त्सा­भि­धा­नात् । जीवश्च धर्मा­दि­गो­च­र­त्वात् न ‘अन्यत्र धर्मात्’ इति प्रश्नमर्हति । प्राज्ञस्तु धर्मा­द्य­ती­त­त्वात् ‘अन्यत्र धर्मात्’ इति प्रश्नमर्हति । प्रश्नच्छाया च न समाना लक्ष्यते । पूर्व­स्या­स्ति­त्व­ना­स्ति­त्व­वि­ष­य­त्वात् , उत्तरस्य धर्मा­द्य­ती­त­व­स्तु­वि­ष­य­त्वात् । तस्मा­त्प्र­त्य­भि­ज्ञा­ना­भा­वा­त्प्र­श्न­भेदः; न पूर्व­स्यै­वो­त्त­र­त्रा­नु­क­र्ष­ण­मिति चेत् । न; जीव­प्रा­ज्ञ­यो­रे­क­त्वा­भ्यु­प­ग­मात् । भवे­त्प्र­ष्ट­व्य­भे­दा­त्प्र­श्न­भेदो यद्यन्यो जीवः प्राज्ञा­त्स्यात् । न त्वन्यत्वमस्ति, ‘तत्त्वमसि’ इत्या­दि­श्रु­त्य­न्त­रेभ्यः । इह च ‘अन्यत्र धर्मात्’ इत्यस्य प्रश्नस्य प्रतिवचनम् ‘न जायते म्रियते वा विपश्चित्’(क. उ. १ । २ । १८) इति जन्म­म­र­ण­प्र­ति­षे­धेन प्रतिपाद्यमानं शारी­र­प­र­मे­श्व­र­यो­र­भेदं दर्शयति । सति हि प्रसङ्गे प्रतिषेधो भागी भवति । प्रसङ्गश्च जन्ममरणयोः शरी­र­सं­स्प­र्शा­च्छा­री­रस्य भवति, न परमेश्वरस्य । तथा — ‘स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति । महान्तं विभुमात्मानं मत्वा धीरो न शोचति’(क. उ. २ । १ । ४) इति स्वप्न­जा­ग­रि­त­दृशो जीवस्यैव मह­त्त्व­वि­भु­त्व­वि­शे­ष­णस्य मननेन शोकविच्छेदं दर्शयन्न प्राज्ञादन्यो जीव इति दर्शयति । प्राज्ञ­वि­ज्ञा­नाद्धि शोकविच्छेद इति वेदा­न्त­सि­द्धान्तः । तथाग्रे — ‘यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’(क. उ. २ । ४ । १०) इति जीव­प्रा­ज्ञ­भे­द­दृ­ष्टि­म­प­व­दति । तथा जीव­वि­ष­य­स्या­स्ति­त्व­ना­स्ति­त्व­प्र­श्न­स्या­न­न्त­रम् ‘अन्यं वरं नचिकेतो वृणीष्व’ इत्यारभ्य मृत्युना तैस्तैः कामैः प्रलोभ्यमानोऽपि नचिकेता यदा न चचाल, तदैनं मृत्यु­र­भ्यु­द­य­निः­श्रे­य­स­वि­भा­ग­प्र­द­र्श­नेन विद्या­वि­द्या­वि­भा­ग­प्र­द­र्श­नेन च ‘विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त’(क. उ. १ । २ । ४) इति प्रशस्य प्रश्नमपि तदीयं प्रशंसन्यदुवाच — ‘तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्या­त्म­यो­गा­धि­ग­मेन देवं मत्वा धीरो हर्षशोकौ जहाति’(क. उ. १ । २ । १२) इति, तेनापि जीव­प्रा­ज्ञ­यो­र­भेद एवेह विवक्षित इति गम्यते । यत्प्र­श्न­नि­मित्तां च प्रशंसां महतीं मृत्योः प्रत्यपद्यत नचिकेताः, यदि तं विहाय प्रशं­सा­न­न्त­र­म­न्य­मेव प्रश्न­मु­प­क्षि­पेत् , अस्थान एव सा सर्वा प्रशंसा प्रसारिता स्यात् । तस्मात् ‘येयं प्रेते’ इत्यस्यैव प्रश्न­स्यै­त­द­नु­क­र्ष­णम् ‘अन्यत्र धर्मात्’ इति । यत्तु प्रश्न­च्छा­या­वै­ल­क्ष­ण्य­मु­क्तम् , तददूषणम् । तदीयस्यैव विशेषस्य पुनः पृच्छ्य­मा­न­त्वात् । पूर्वत्र हि देहा­दि­व्य­ति­रि­क्त­स्या­त्म­नोऽ­स्तित्वं पृष्टम् , उत्तरत्र तु तस्यै­वा­सं­सा­रित्वं पृच्छ्यत इति । यावद्ध्यविद्या न निवर्तते, ताव­द्ध­र्मा­दि­गो­च­रत्वं जीवस्य जीवत्वं च न निवर्तते । तन्निवृत्तौ तु प्राज्ञ एव ‘तत्त्वमसि’ इति श्रुत्या प्रत्याय्यते । न चाविद्यावत्त्वे तदपगमे च वस्तुनः कश्चि­द्वि­शे­षोऽस्ति । यथा कश्चित्संतमसे पतितां काञ्चि­द्र­ज्जु­महिं मन्यमानो भीतो वेपमानः पलायते, तं चापरो ब्रूयात् ‘मा भैषीः नायमहिः रज्जुरेव’ इति । स च तदु­प­श्रु­त्या­हि­कृतं भय­मु­त्सृ­जे­द्वे­पथुं पलायनं च । न त्वहिबुद्धिकाले तदपगमकाले च वस्तुनः कश्चिद्विशेषः स्यात् — तथैवैतदपि द्रष्टव्यम् । ततश्च ‘न जायते म्रियते वा’ इत्येवमाद्यपि भव­त्य­स्ति­त्व­ना­स्ति­त्व­प्र­श्नस्य प्रतिवचनम् । सूत्रं त्ववि­द्या­क­ल्पि­त­जी­व­प्रा­ज्ञ­भे­दा­पे­क्षया योजयितव्यम् — एकत्वेऽपि ह्यात्मविषयस्य प्रश्नस्य प्रायणावस्थायां देह­व्य­ति­रि­क्ता­स्ति­त्व­मा­त्र­वि­चि­कि­त्स­ना­त्क­र्तृ­त्वा­दि­सं­सा­र­स्व­भा­वा­न­पो­ह­नाच्च पूर्वस्य पर्यायस्य जीव­वि­ष­य­त्व­मु­त्प्रे­क्ष्यते, उत्तरस्य तु धर्मा­द्य­त्य­य­स­ङ्की­र्त­ना­त्प्रा­ज्ञ­वि­ष­य­त्व­मिति । ततश्च युक्ता अग्नि­जी­व­प­र­मा­त्म­क­ल्पना । प्रधानकल्पनायां तु न वरप्रदानं न प्रश्नो न प्रतिवचनमिति वैषम्यम् ॥ ६ ॥

महद्वच्च ॥ ७ ॥

यथा महच्छब्दः साङ्ख्यैः सत्तामात्रेऽपि प्रथमजे प्रयुक्तः, न तमेव वैदिकेऽपि प्रयो­गेऽ­भि­धत्ते, ‘बुद्धेरात्मा महान्परः’(क. उ. १ । ३ । १०) ‘महान्तं विभुमात्मानम्’(क. उ. १ । २ । २२) ‘वेदाहमेतं पुरुषं महान्तम्’(श्वे. उ. ३ । ८) इत्ये­व­मा­दा­वा­त्म­श­ब्द­प्र­यो­गा­दिभ्यो हेतुभ्यः । तथा­व्य­क्त­श­ब्दोऽपि न वैदिके प्रयोगे प्रधा­न­म­भि­धा­तु­म­र्हति । अतश्च नास्त्या­नु­मा­नि­कस्य शब्दवत्त्वम् ॥ ७ ॥

चमसवदविशेषात् ॥ ८ ॥

पुनरपि प्रधानवादी अशब्दत्वं प्रधा­न­स्या­सि­द्ध­मि­त्याह । कस्मात् ? मन्त्रवर्णात् — ‘अजामेकां लोहि­त­शु­क्ल­कृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्त­भो­गा­म­जोऽन्यः’(श्वे. उ. ४ । ५) इति । अत्र हि मन्त्रे लोहि­त­शु­क्ल­कृ­ष्ण­शब्दैः रजः­स­त्त्व­त­मां­स्य­भि­धी­यन्ते । लोहितं रजः, रञ्ज­ना­त्म­क­त्वात् । शुक्लं सत्त्वम् , प्रका­शा­त्म­क­त्वात् । कृष्णं तमः, आवरणात्मकत्वात् । तेषां साम्यावस्था अव­य­व­ध­र्मै­र्व्य­प­दि­श्यते — लोहि­त­शु­क्ल­कृ­ष्णेति । न जायत इति च अजा स्यात् , ‘मूल­प्र­कृ­ति­र­वि­कृतिः’ इत्यभ्युपगमात् । नन्व­जा­श­ब्द­श्छा­गायां रूढः । बाढम् । सा तु रूढिरिह नाश्रयितुं शक्या, विद्याप्रकरणात् । सा च बह्वीः प्रजा­स्त्रै­गु­ण्या­न्विता जनयति । तां प्रकृतिमज एकः पुरुषो जुषमाणः प्रीयमाणः सेवमानो वा अनुशेते — तामेवाविद्यया आत्मत्वेनोपगम्य सुखी दुःखी मूढोऽ­ह­मि­त्य­वि­वे­कि­तया संसरति । अन्यः पुनरजः पुरुष उत्प­न्न­वि­वे­क­ज्ञानो विरक्तो जहात्येनं प्रकृतिं भुक्तभोगां कृतभोगापवर्गां परित्यजति — मुच्यत इत्यर्थः । तस्मा­च्छ्रु­ति­मू­लैव प्रधानादिकल्पना कापि­ला­ना­मि­त्येवं प्राप्ते ब्रूमः —

नानेन मन्त्रेण श्रुतिमत्त्वं साङ्ख्यवादस्य शक्यमाश्रयितुम् । न ह्ययं मन्त्रः स्वातन्त्र्येण कञ्चिदपि वादं सम­र्थ­यि­तु­मु­त्स­हते। सर्वत्रापि यया कयाचित्कल्पनया अजा­त्वा­दि­स­म्पा­द­नो­प­पत्तेः, साङ्ख्यवाद एवेहाभिप्रेत इति विशे­षा­व­धा­र­ण­का­र­णा­भा­वात् । चमसवत् — यथा हि ‘अर्वा­ग्बि­ल­श्च­मस ऊर्ध्वबुध्नः’(बृ. उ. २ । २ । ३) इत्य­स्मि­न्मन्त्रे स्वात­न्त्र्ये­णायं नामासौ चमसोऽभिप्रेत इति न शक्यते नियन्तुम् , सर्वत्रापि यथा­क­थ­ञ्चि­द­र्वा­ग्बि­ल­त्वा­दि­क­ल्प­नो­प­पत्तेः, एवमिहाप्यविशेषः ‘अजामेकाम्’ इत्यस्य मन्त्रस्य । नास्मिन्मन्त्रे प्रधा­न­मे­वा­जा­भि­प्रे­तेति शक्यते नियन्तुम् ॥ ८ ॥

तत्र तु ‘इदं तच्छिर एष ह्यर्वा­ग्बि­ल­श्च­मस ऊर्ध्वबुध्नः’ इति वाक्य­शे­षा­च्च­म­स­वि­शे­ष­प्र­ति­प­त्ति­र्भ­वति । इह पुनः केयमजा प्रति­प­त्त­व्ये­त्यत्र ब्रूमः —

ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥ ९ ॥

पर­मे­श्व­रा­दु­त्पन्ना ज्योतिःप्रमुखा तेजोबन्नलक्षणा चतुर्विधस्य भूतग्रामस्य प्रकृतिभूतेयमजा प्रतिपत्तव्या । तुश­ब्दोऽ­व­धा­र­णार्थः — भूत­त्र­य­ल­क्ष­णै­वे­य­मजा विज्ञेया, न गुणत्रयलक्षणा । कस्मात् ? तथा ह्येके शाखि­न­स्ते­जो­ब­न्नानां पर­मे­श्व­रा­दु­त्प­त्ति­मा­म्नाय तेषामेव रोहि­ता­दि­रू­प­ता­मा­म­नन्ति — ‘यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य’ इति । तान्येवेह तेजोबन्नानि प्रत्य­भि­ज्ञा­यन्ते, रोहि­ता­दि­श­ब्द­सा­मा­न्यात् , रोहितादीनां च शब्दानां रूपविशेषेषु मुख्य­त्वा­द्भा­क्त­त्वाच्च गुणविषयत्वस्य । असन्दिग्धेन च सन्दिग्धस्य निगमनं न्याय्यं मन्यन्ते । तथेहापि ‘ब्रह्मवादिनो वदन्ति । किङ्कारणं ब्रह्म’(श्वे. उ. १ । १) इत्युपक्रम्य ‘ते ध्यानयोगानुगता अप­श्य­न्दे­वा­त्म­शक्तिं स्वगु­णै­र्नि­गू­ढाम्’(श्वे. उ. १ । ३) इति पारमेश्वर्याः शक्तेः सम­स्त­ज­ग­द्वि­धा­यिन्या वाक्यो­प­क्र­मेऽ­व­ग­मात् । वाक्यशेषेऽपि ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ इति ‘यो योनिं योनि­म­धि­ति­ष्ठ­त्येकः’(श्वे. उ. ४ । ११) इति च तस्या एवावगमान्न स्वतन्त्रा काचित्प्रकृतिः प्रधानं नामा­जा­म­न्त्रे­णा­म्ना­यत इति शक्यते वक्तुम् । प्रकरणात्तु सैव दैवी शक्ति­र­व्या­कृ­त­ना­म­रूपा नामरूपयोः प्रागवस्था अनेनापि मन्त्रेणाम्नायत इत्युच्यते । तस्याश्च स्वविकारविषयेण त्रैरूप्येण त्रैरू­प्य­मु­क्तम् ॥ ९ ॥

कथं पुन­स्ते­जो­ब­न्नानां त्रैरूप्येण त्रिरूपा अजा प्रतिपत्तुं शक्यते, यावता न ताव­त्ते­जो­ब­न्ने­ष्व­जा­कृ­ति­रस्ति, न च तेजोबन्नानां जाति­श्र­व­णा­द­जा­ति­नि­मि­त्तोऽ­प्य­जा­शब्दः सम्भवतीति; अत उत्तरं पठति —

कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ १० ॥

१०

नाय­म­जा­कृ­ति­नि­मि­त्तोऽ­जा­शब्दः । नापि यौगिकः । किं तर्हि ? कल्पनोपदेशोऽयम् — अजा­रू­प­क­कॢ­प्ति­स्ते­जो­ब­न्न­ल­क्ष­णा­या­श्च­रा­च­र­यो­ने­रु­प­दि­श्यते । यथा हि लोके यदृच्छया काचिदजा रोहि­त­शु­क्ल­कृ­ष्ण­वर्णा स्याद्बहुबर्करा सरूपबर्करा च, तां च कश्चिदजो जुषमाणोऽनुशयीत, कश्चिच्चैनां भुक्तभोगां जह्यात् — एवमियमपि तेजोबन्नलक्षणा भूत­प्र­कृ­ति­स्त्रि­वर्णा बहु सरूपं चराचरलक्षणं विकारजातं जनयति, अविदुषा च क्षेत्र­ज्ञे­नो­प­भु­ज्यते, विदुषा च परित्यज्यत इति । न चेद­मा­श­ङ्कि­त­व्यम् — एकः क्षेत्र­ज्ञोऽ­नु­शेते अन्यो जहातीत्यतः क्षेत्रज्ञभेदः पारमार्थिकः परेषामिष्टः प्राप्नोतीति । न हीयं क्षेत्र­ज्ञ­भे­द­प्र­ति­पि­पा­द­यिषा । किन्तु बन्ध­मो­क्ष­व्य­व­स्था­प्र­ति­पि­पा­द­यिषा त्वेषा । प्रसिद्धं तु भेदमनूद्य बन्ध­मो­क्ष­व्य­वस्था प्रतिपाद्यते । भेद­स्तू­पा­धि­नि­मित्तो मिथ्या­ज्ञा­न­क­ल्पितः; न पारमार्थिकः। ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्व­भू­ता­न्त­रात्मा’(श्वे. उ. ६ । ११) इत्या­दि­श्रु­तिभ्यः । मध्वादिवत् — यथा आदित्यस्यामधुनो मधुत्वम्, वाच­श्चा­धे­नो­र्धे­नु­त्वम् , द्युलोकादीनां चान­ग्नी­ना­म­ग्नि­त्वम् — इत्येवंजातीयकं कल्प्यते, एवमिदमनजाया अजात्वं कल्प्यत इत्यर्थः । तस्मा­द­वि­रो­ध­स्ते­जो­ब­न्ने­ष्व­जा­श­ब्द­प्र­यो­गस्य ॥ १० ॥

न संख्यो­प­स­ङ्ग्र­हा­दपि नाना­भा­वा­द­ति­रे­काच्च ॥ ११ ॥

११

एवं परि­हृ­तेऽ­प्य­जा­मन्त्रे पुन­र­न्य­स्मा­न्म­न्त्रा­त्साङ्ख्यः प्रत्यवतिष्ठते — ‘यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वा­न्ब्र­ह्मा­मृ­तोऽ­मृ­तम्’(बृ. उ. ४ । ४ । १७) इति । अस्मिन्मन्त्रे पञ्च पञ्चजना इति पञ्चसंख्याविषया अपरा पञ्चसंख्या श्रूयते, पञ्च­श­ब्द­द्व­य­द­र्श­नात् । त एते पञ्च पञ्चकाः पञ्चविंशतिः सम्पद्यन्ते । तया च पञ्च­विं­श­ति­सं­ख्यया यावन्तः संख्येया आकाङ्क्ष्यन्ते तावन्त्येव च तत्त्वानि साङ्ख्यैः संख्यायन्ते — ‘मूल­प्र­कृ­ति­र­वि­कृ­ति­र्म­ह­दाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः’ इति । तया श्रुति­प्र­सि­द्धया पञ्च­विं­श­ति­सं­ख्यया तेषां स्मृति­प्र­सि­द्धानां पञ्च­विं­श­ति­त­त्त्वा­ना­मु­प­स­ङ्ग्र­हा­त्प्राप्तं पुनः श्रुतिमत्त्वमेव प्रधानादीनाम् ॥

ततो ब्रूमः — न संख्यो­प­स­ङ्ग्र­हा­दपि प्रधानादीनां श्रुतिमत्त्वं प्रत्याशा कर्तव्या । कस्मात् ? नानाभावात् । नाना ह्येतानि पञ्च­विं­श­ति­स्त­त्त्वानि । नैषां पञ्चशः पञ्चशः साधारणो धर्मोऽस्ति, येन पञ्च­विं­श­ते­र­न्त­राले पराः पञ्च पञ्च संख्या निविशेरन् । न ह्येक­नि­ब­न्ध­न­म­न्त­रेण नानाभूतेषु द्वित्वादिकाः संख्या निविशन्ते । अथोच्येत — पञ्च­विं­श­ति­सं­ख्यै­वे­य­म­व­य­व­द्वा­रेण लक्ष्यते, यथा ‘पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुः’ इति द्वाद­श­वा­र्षि­की­म­ना­वृष्टिं कथयन्ति, तद्वदिति; तदपि नोपपद्यते । अय­मे­वा­स्मि­न्पक्षे दोषः, यल्ल­क्ष­णा­श्र­य­णीया स्यात् । परश्चात्र पञ्चशब्दो जनशब्देन समस्तः पञ्चजनाः इति, भाषिकेण स्वरे­णै­क­प­द­त्व­नि­श्च­यात् । प्रयोगान्तरे च ‘पञ्चानां त्वा पञ्चजनानाम्’(तै. सं. १ । ६ । २ । २) इत्यै­क­प­द्यै­क­स्व­र्यै­क­वि­भ­क्ति­क­त्वा­व­ग­मात् । समस्तत्वाच्च न वीप्सा ‘पञ्च पञ्च’ इति । तेन न पञ्चकद्वयग्रहणं पञ्च पञ्चेति । न च पञ्चसंख्याया एकस्याः पञ्चसंख्यया परया विशेषणम् ‘पञ्च पञ्चकाः’ इति, उपसर्जनस्य विशे­ष­णे­ना­सं­यो­गात् । नन्वा­प­न्न­प­ञ्च­सं­ख्याका जना एव पुनः पञ्चसंख्यया विशेष्यमाणाः पञ्चविंशतिः प्रत्येष्यन्ते, यथा पञ्च पञ्चपूल्य इति पञ्चविंशतिः पूलाः प्रतीयन्ते, तद्वत् । नेति ब्रूमः । युक्तं यत्प­ञ्च­पू­ली­श­ब्दस्य समा­हा­रा­भि­प्रा­य­त्वात् कतीति सत्यां भेदाकाङ्क्षायां पञ्च पञ्चपूल्य इति विशेषणम् । इह तु पञ्च जना इत्यादित एव भेदो­पा­दा­ना­त्क­ती­त्य­सत्यां भेदाकाङ्क्षायां न पञ्च पञ्चजना इति विशेषणं भवेत् । भवदपीदं विशेषणं पञ्चसंख्याया एव भवेत्; तत्र चोक्तो दोषः । तस्मात्पञ्च पञ्चजना इति न पञ्च­विं­श­ति­त­त्त्वा­भि­प्रा­यम् । अतिरेकाच्च न पञ्च­विं­श­ति­त­त्त्वा­भि­प्रा­यम् । अतिरेको हि भव­त्या­त्मा­का­शाभ्यां पञ्च­विं­श­ति­सं­ख्यायाः । आत्मा तावदिह प्रतिष्ठां प्रत्याधारत्वेन निर्दिष्टः, ‘यस्मिन्’ इति सप्तमीसूचितस्य ‘तमेव मन्य आत्मानम्’ इत्या­त्म­त्वे­ना­नु­क­र्ष­णात् । आत्मा च चेतनः पुरुषः; स च पञ्च­विं­श­ता­व­न्त­र्गत एवेति न तस्यै­वा­धा­र­त्व­मा­धे­यत्वं च युज्यते । अर्था­न्त­र­प­रि­ग्रहे च तत्त्व­सं­ख्या­ति­रेकः सिद्धा­न्त­वि­रुद्धः प्रसज्येत । तथा ‘आकाशश्च प्रतिष्ठितः’ इत्याकाशस्यापि पञ्च­विं­श­ता­व­न्त­र्ग­तस्य न पृथगुपादानं न्याय्यम्; अर्था­न्त­र­प­रि­ग्रहे चोक्तं दूषणम् । कथं च संख्या­मा­त्र­श्र­वणे सत्यश्रुतानां पञ्च­विं­श­ति­त­त्त्वा­ना­मु­प­स­ङ्ग्रहः प्रतीयेत ? जनशब्दस्य तत्त्वे­ष्व­रू­ढ­त्वात् , अर्था­न्त­रो­प­स­ङ्ग्र­हेऽपि संख्योपपत्तेः । कथं तर्हि पञ्च पञ्चजना इति ? उच्यते — ‘दिक्संख्ये संज्ञायाम्’(पा. सू. २ । १ । ५०) इति विशे­ष­स्म­र­णा­त्सं­ज्ञा­या­मेव पञ्चशब्दस्य जनशब्देन समासः । ततश्च रूढ­त्वा­भि­प्रा­ये­णैव केचित्पञ्चजना नाम विवक्ष्यन्ते, न साङ्ख्य­त­त्त्वा­भि­प्रा­येण । ते कती­त्य­स्या­मा­का­ङ्क्षायां पुनः पञ्चेति प्रयुज्यते । पञ्चजना नाम ये केचित् , ते च पञ्चैवेत्यर्थः, सप्तर्षयः सप्तेति यथा ॥ ११ ॥

के पुनस्ते पञ्चजना नामेति, तदुच्यते —

प्राणादयो वाक्यशेषात् ॥ १२ ॥

१२

‘यस्मिन्पञ्च पञ्चजनाः’ इत्यत उत्त­र­स्मि­न्मन्त्रे ब्रह्म­स्व­रू­प­नि­रू­प­णाय प्राणादयः पञ्च निर्दिष्टाः — ‘प्राणस्य प्राणमुत चक्षु­ष­श्च­क्षु­रुत श्रोत्रस्य श्रोत्र­म­न्न­स्यान्नं मनसो ये मनो विदुः’ इति । तेऽत्र वाक्यशेषगताः सन्नि­धा­ना­त्प­ञ्च­जना विवक्ष्यन्ते । कथं पुनः प्राणादिषु जनशब्दप्रयोगः ? तत्त्वेषु वा कथं जनशब्दप्रयोगः ? समाने तु प्रसि­द्ध्य­ति­क्रमे वाक्य­शे­ष­व­शा­त्प्रा­णा­दय एव ग्रहीतव्या भवन्ति । जनसम्बन्धाच्च प्राणादयो जनशब्दभाजो भवन्ति । जनवचनश्च पुरुषशब्दः प्राणेषु प्रयुक्तः — ‘ते वा एते पञ्च ब्रह्मपुरुषाः’(छा. उ. ३ । १३ । ६) इत्यत्र । ‘प्राणो पिता प्राणो ह माता’(छा. उ. ७ । १५ । १) इत्यादि च ब्राह्मणम् । समासबलाच्च समुदायस्य रूढ­त्व­म­वि­रु­द्धम् । कथं पुनरसति प्रथमप्रयोगे रूढिः शक्याश्रयितुम् ? शक्या उद्भि­दा­दि­व­दि­त्याह — प्रसि­द्धा­र्थ­स­न्नि­धाने ह्यप्र­सि­द्धार्थः शब्दः प्रयुज्यमानः सम­भि­व्या­हा­रा­त्त­द्वि­षयो नियम्यते; यथा ‘उद्भिदा यजेत’ ‘यूपं छिनत्ति’ ‘वेदिं करोति’ इति । तथा अयमपि पञ्चजनशब्दः समा­सा­न्वा­ख्या­ना­द­व­ग­त­सं­ज्ञा­भावः संज्ञ्या­काङ्क्षी वाक्य­शे­ष­स­म­भि­व्या­हृ­तेषु प्राणादिषु वर्तिष्यते । कैश्चित्तु देवाः पितरो गन्धर्वा असुरा रक्षांसि च पञ्च पञ्चजना व्याख्याताः । अन्यैश्च चत्वारो वर्णा निषादपञ्चमाः परिगृहीताः । क्वचिच्च ‘यत्पाञ्चजन्यया विशा’(ऋ. सं. ८ । ६३ । ७) इति प्रजापरः प्रयोगः पञ्चजनशब्दस्य दृश्यते । तत्परिग्रहेऽपीह न कश्चिद्विरोधः । आचार्यस्तु न पञ्च­विं­श­ते­स्त­त्त्वा­ना­मिह प्रती­ति­र­स्ती­त्ये­वं­प­र­तया ‘प्राणादयो वाक्यशेषात्’ इति जगाद ॥ १२ ॥

भवे­यु­स्ता­व­त्प्रा­णा­दयः पञ्चजना माध्यन्दिनानाम् , येऽन्नं प्राणा­दि­ष्वा­म­नन्ति । काण्वानां तु कथं प्राणादयः पञ्चजना भवेयुः, येऽन्नं प्राणादिषु नामनन्तीति — अत उत्तरं पठति —

ज्योति­षै­के­षा­म­स­त्यन्ने ॥ १३ ॥

१३

असत्यपि काण्वानामन्ने ज्योतिषा तेषां पञ्चसंख्या पूर्येत । तेऽपि हि ‘यस्मिन्पञ्च पञ्चजनाः’ इत्यतः पूर्व­स्मि­न्मन्त्रे ब्रह्म­स्व­रू­प­नि­रू­प­णा­यैव ज्योतिरधीयते ‘तद्देवा ज्योतिषां ज्योतिः’ इति । कथं पुनरुभयेषामपि तुल्यवदिदं ज्योतिः पठ्यमानं समानमन्त्रगतया पञ्चसंख्यया केषा­ञ्चि­द्गृ­ह्यते केषाञ्चिन्नेति — अपे­क्षा­भे­दा­दि­त्याह — माध्यन्दिनानां हि समा­न­म­न्त्र­प­ठि­त­प्रा­णा­दि­प­ञ्च­ज­न­ला­भा­न्ना­स्मि­न्म­न्त्रा­न्त­र­प­ठिते ज्योतिष्यपेक्षा भवति । तदलाभात्तु काण्वानां भवत्यपेक्षा । अपेक्षाभेदाच्च समानेऽपि मन्त्रे ज्योतिषो ग्रहणाग्रहणे । यथा समा­नेऽ­प्य­ति­रात्रे वच­न­भे­दा­त्षो­ड­शिनो ग्रहणाग्रहणे, तद्वत् । तदेवं न ताव­च्छ्रु­ति­प्र­सिद्धिः काचि­त्प्र­धा­न­वि­ष­यास्ति । स्मृति­न्या­य­प्र­सिद्धी तु परिहरिष्येते ॥ १३ ॥

कारणत्वेन चाकाशादिषु यथा­व्य­प­दि­ष्टोक्तेः ॥ १४ ॥

१४

प्रतिपादितं ब्रह्मणो लक्षणम् । प्रतिपादितं ब्रह्मविषयं गतिसामान्यं वेदा­न्त­वा­क्या­नाम् । प्रतिपादितं च प्रधा­न­स्या­श­ब्द­त्वम् । तत्रे­द­म­प­र­मा­श­ङ्क्यते — न जन्मादिकारणत्वं ब्रह्मणो ब्रह्मविषयं वा गतिसामान्यं वेदा­न्त­वा­क्यानां प्रतिपादयितुं शक्यम् । कस्मात् ? विगानदर्शनात् । प्रतिवेदान्तं ह्यन्यान्या सृष्टि­रु­प­ल­भ्यते, क्रमा­दि­वै­चि­त्र्यात् । तथा हि — क्वचित् ‘आत्मन आकाशः सम्भूतः’(तै. उ. २ । १ । १) इत्याकाशादिका सृष्टिराम्नायते । क्वचित्तेजआदिका ‘तत्तेजोऽसृजत’(छा. उ. ६ । २ । ३) इति । क्वचि­त्प्रा­णा­दिका ‘स प्राणमसृजत प्राणा­च्छ्र­द्धाम्’(प्र. उ. ६ । ४) इति । क्वचिदक्रमेणैव लोका­ना­मु­त्प­त्ति­रा­म्ना­यते — ‘स इमाँल्लोकानसृजत । अम्भो मरीचीर्मरमापः’(ऐ. उ. १ । १ । २) इति । तथा क्वचि­द­स­त्पू­र्विका सृष्टिः पठ्यते — ‘असद्वा इदमग्र आसीत् । ततो वै सदजायत’(तै. उ. २ । ७ । १) इति, ‘असदेवेदमग्र आसी­त्त­त्स­दा­सी­त्त­त्स­म­भ­वत्’(छा. उ. ३ । १९ । १) इति च । क्वचि­द­स­द्वा­द­नि­रा­क­र­णेन सत्पूर्विका प्रक्रिया प्रतिज्ञायते — ‘तद्धैक आहुरसदेवेदमग्र आसीत्’(छा. उ. ६ । २ । १) इत्युपक्रम्य, ‘कुतस्तु खलु सोम्यैवꣳ स्यादिति होवाच कथमसतः सज्जायेतेति । सत्त्वेव सोम्येदमग्र आसीत्’(छा. उ. ६ । २ । २) इति । क्वचि­त्स्व­यं­क­र्तृ­कैव व्याक्रिया जगतो निगद्यते — ‘तद्धेदं तर्ह्य­व्या­कृ­त­मा­सी­त्त­न्ना­म­रू­पा­भ्या­मेव व्याक्रियत’(बृ. उ. १ । ४ । ७) इति । एवमनेकधा विप्र­ति­प­त्ते­र्व­स्तुनि च विक­ल्प­स्या­नु­प­प­त्तेर्न वेदा­न्त­वा­क्यानां जग­त्का­र­णा­व­धा­र­ण­प­रता न्याय्या । स्मृति­न्या­य­प्र­सि­द्धिभ्यां तु कार­णा­न्त­र­प­रि­ग्रहो न्याय्य इत्येवं प्राप्ते ब्रूमः —

सत्यपि प्रतिवेदान्तं सृज्य­मा­ने­ष्वा­का­शा­दिषु क्रमादिद्वारके विगाने, न स्रष्टरि किञ्चि­द्वि­गा­न­मस्ति । कुतः ? यथा­व्य­प­दि­ष्टोक्तेः — यथाभूतो ह्येक­स्मि­न्वे­दान्ते सर्वज्ञः सर्वेश्वरः सर्वा­त्मै­कोऽ­द्वि­तीयः कारणत्वेन व्यपदिष्टः, तथाभूत एव वेदा­न्ता­न्त­रे­ष्वपि व्यपदिश्यते । तद्यथा — ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै. उ. २ । १ । १) इति । अत्र ताव­ज्ज्ञा­न­श­ब्देन परेण च तद्विषयेण कामयितृत्ववचनेन चेतनं ब्रह्म न्यरूपयत् । अप­र­प्र­यो­ज्य­त्वे­ने­श्वरं कारणमब्रवीत् । तद्विषयेणैव परेणात्मशब्देन शरी­रा­दि­को­श­प­र­म्प­रया चान्त­र­नु­प्र­वे­श­नेन सर्वेषामन्तः प्रत्यगात्मानं निरधारयत् । ‘बहु स्यां प्रजायेय’(तै. उ. २ । ६ । १) इति चात्मविषयेण बहुभवनानुशंसनेन सृज्यमानानां विकाराणां स्रष्टु­र­भे­द­म­भा­षत । तथा ‘इदं सर्वमसृजत । यदिदं किं च’(तै. उ. २ । ६ । १) इति सम­स्त­ज­ग­त्सृ­ष्टि­नि­र्दे­शेन प्राक्सृ­ष्टे­र­द्वि­तीयं स्रष्टारमाचष्टे । तदत्र यल्लक्षणं ब्रह्म कारणत्वेन विज्ञातम् , तल्ल­क्ष­ण­मे­वा­न्य­त्रापि विज्ञायते — ‘सदेव सोम्येदमग्र आसी­दे­क­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) ‘तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत’(छा. उ. ६ । २ । ३) इति । तथा ‘आत्मा वा इदमेक एवाग्र आसी­न्ना­न्य­त्कि­ञ्चन मिषत् । स ईक्षत लोकान्नु सृजै’(ऐ. उ. १ । १ । १) इति च — एवंजातीयकस्य कार­ण­स्व­रू­प­नि­रू­प­ण­प­रस्य वाक्यजातस्य प्रति­वे­दा­न्त­म­वि­गी­ता­र्थ­त्वात् । कार्यविषयं तु विगानं दृश्यते — क्वचिदाकाशादिका सृष्टिः क्वचि­त्ते­ज­आ­दि­के­त्ये­वं­जा­ती­य­कम् । न च कार्यविषयेण विगानेन कारणमपि ब्रह्म सर्व­वे­दा­न्ते­ष्व­वि­गी­त­म­धि­ग­म्य­मा­न­म­वि­व­क्षितं भवितुमर्हतीति शक्यते वक्तुम् , अतिप्रसङ्गात् । समाधास्यति चाचार्यः कार्यविषयमपि विगानम् ‘न वियदश्रुतेः’(ब्र. सू. २ । ३ । १) इत्यारभ्य । भवेदपि कार्यस्य विगी­त­त्व­म­प्र­ति­पा­द्य­त्वात् । न ह्ययं सृष्ट्या­दि­प्र­पञ्चः प्रति­पि­पा­द­यि­षितः । न हि तत्प्रतिबद्धः कश्चि­त्पु­रु­षार्थो दृश्यते श्रूयते वा । न च कल्पयितुं शक्यते, उप­क्र­मो­प­सं­हा­राभ्यां तत्र तत्र ब्रह्म­वि­ष­यै­र्वाक्यैः साकमेकवाक्यताया गम्यमानत्वात् । दर्शयति च सृष्ट्या­दि­प्र­प­ञ्चस्य ब्रह्म­प्र­ति­प­त्त्य­र्थ­ताम् — ‘अन्नेन सोम्य शुङ्गेनापो मूल­म­न्वि­च्छाद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ’(छा. उ. ६ । ८ । ४) इति । मृदा­दि­दृ­ष्टा­न्तैश्च कार्यस्य कारणेनाभेदं वदितुं सृष्ट्या­दि­प्र­पञ्चः श्राव्यत इति गम्यते । तथा च सम्प्रदायविदो वदन्ति — ‘मृल्लो­ह­वि­स्फु­लि­ङ्गाद्यैः सृष्टिर्या चोदितान्यथा । उपायः सोऽवताराय नास्ति भेदः कथञ्चन’(मा. का. ३ । १५) इति । ब्रह्म­प्र­ति­प­त्ति­प्र­ति­बद्धं तु फलं श्रूयते — ‘ब्रह्म­वि­दा­प्नोति परम्’(तै. उ. २ । १ । १) ‘तरति शोकमात्मवित्’(छा. उ. ७ । १ । ३) ‘तमेव विदित्वाति मृत्युमेति’(श्वे. उ. ३ । ८) इति । प्रत्यक्षावगमं चेदं फलम् , ‘तत्त्वमसि’ इत्य­सं­सा­र्या­त्म­त्व­प्र­ति­पत्तौ सत्यां संसा­र्या­त्म­त्व­व्या­वृत्तेः ॥ १४ ॥

यत्पुनः कारणविषयं विगानं दर्शितम् ‘असद्वा इदमग्र आसीत्’(तै. उ. २ । ७ । १) इत्यादि, तत्प­रि­ह­र्त­व्यम्; अत्रोच्यते —

समाकर्षात् ॥ १५ ॥

१५

‘असद्वा इदमग्र आसीत्’(तै. उ. २ । ७ । १)‘असद्वा इदमग्र आसीत्’(तै. उ. २ । ७ । १) इति नात्रा­स­न्नि­रा­त्मकं कारणत्वेन श्राव्यते । यतः ‘असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुः’(तै. उ. २ । ६ । १) इत्य­स­द्वा­दा­प­वा­दे­ना­स्ति­त्व­ल­क्षणं ब्रह्मा­न्न­म­या­दि­को­श­प­र­म्प­रया प्रत्यगात्मानं निर्धार्य, ‘सोऽकामयत’ इति तमेव प्रकृतं समाकृष्य, सप्रपञ्चां सृष्टिं तस्मा­च्छ्रा­व­यित्वा, ‘तत्स­त्य­मि­त्या­च­क्षते’ इति चोपसंहृत्य, ‘तदप्येष श्लोको भवति’ इति तस्मिन्नेव प्रकृतेऽर्थे श्लोक­मि­म­मु­दा­ह­रति — ‘असद्वा इदमग्र आसीत्’ इति । यदि त्वस­न्नि­रा­त्म­क­म­स्मि­ञ्श्लो­केऽ­भि­प्रे­येत, ततोऽ­न्य­स­मा­क­र्ष­णेऽ­न्य­स्यो­दा­ह­र­णा­द­स­म्बद्धं वाक्यमापद्येत । तस्मा­न्ना­म­रू­प­व्या­कृ­त­व­स्तु­वि­षयः प्रायेण सच्छब्दः प्रसिद्ध इति तद्व्या­क­र­णा­भा­वा­पे­क्षया प्रागुत्पत्तेः सदेव ब्रह्मा­स­दि­वा­सी­दि­त्यु­प­च­र्यते । एषैव ‘असदेवेदमग्र आसीत्’(छा. उ. ३ । १९ । १) इत्यत्रापि योजना, ‘तत्सदासीत्’ इति समाकर्षणात्; अत्य­न्ता­भा­वा­भ्यु­प­गमे हि ‘तत्सदासीत्’ इति किं समाकृष्येत ? ‘तद्धैक आहुरसदेवेदमग्र आसीत्’(छा. उ. ६ । २ । १) इत्यत्रापि न श्रुत्य­न्त­रा­भि­प्रा­ये­णा­य­मे­की­य­म­तो­प­न्यासः, क्रियायामिव वस्तुनि विक­ल्प­स्या­स­म्भ­वात् । तस्मा­च्छ्रु­ति­प­रि­गृ­ही­त­स­त्प­क्ष­दा­र्ढ्या­यै­वायं मन्द­म­ति­प­रि­क­ल्पि­त­स्या­स­त्प­क्ष­स्यो­प­न्यस्य निरास इति द्रष्टव्यम् । ‘तद्धेदं तर्ह्य­व्या­कृ­त­मा­सीत्’(बृ. उ. १ । ४ । ७) इत्यत्रापि न निरध्यक्षस्य जगतो व्याकरणं कथ्यते, ‘स एष इह प्रविष्ट आ नखाग्रेभ्यः’ इत्यध्यक्षस्य व्याकृ­त­का­र्या­नु­प्र­वे­शि­त्वेन समाकर्षात् । निरध्यक्षे व्याक­र­णा­भ्यु­प­गमे ह्यनन्तरेण प्रकृतावलम्बिना स इत्यनेन सर्वनाम्ना कः कार्या­नु­प्र­वे­शि­त्वेन समाकृष्येत ? चेतनस्य चायमात्मनः शरीरेऽनुप्रवेशः श्रूयते, अनुप्रविष्टस्य चेतनत्वश्रवणात् — ‘पश्यꣳश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनः’ इति । अपि च यादृ­श­मि­द­म­द्यत्वे नामरूपाभ्यां व्याक्रियमाणं जगत्साध्यक्षं व्याक्रियते, एव­मा­दि­स­र्गेऽ­पीति गम्यते, दृष्ट­वि­प­री­त­क­ल्प­ना­नु­प­पत्तेः । श्रुत्यन्तरमपि ‘अनेन जीवे­ना­त्म­ना­नु­प्र­विश्य नामरूपे व्याकरवाणि’(छा. उ. ६ । ३ । २) इति साध्यक्षामेव जगतो व्याक्रियां दर्शयति । ‘व्याक्रियत’ इत्यपि कर्मकर्तरि लकारः सत्येव परमेश्वरे व्याकर्तरि सौकर्यमपेक्ष्य द्रष्टव्यः — यथा लूयते केदारः स्वयमेवेति सत्येव पूर्णके लवितरि । यद्वा कर्मण्येवैष लका­रोऽ­र्था­क्षिप्तं कर्तारमपेक्ष्य द्रष्टव्यः — यथा गम्यते ग्राम इति ॥ १५ ॥

जगद्वाचित्वात् ॥ १६ ॥

१६

कौषी­त­कि­ब्रा­ह्मणे बाला­क्य­जा­त­श­त्रु­सं­वादे श्रूयते — ‘यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्यः’(कौ. ब्रा. ४ । १८) इति । तत्र किं जीवो वेदि­त­व्य­त्वे­नो­प­दि­श्यते, उत मुख्यः प्राणः, उत परमात्मेति विशयः । किं तावत्प्राप्तम् ? प्राण इति । कुतः ? ‘यस्य वैतत्कर्म’ इति श्रवणात् । परि­स्प­न्द­ल­क्ष­णस्य च कर्मणः प्राणा­श्र­य­त्वात् । वाक्यशेषे च ‘अथास्मिन्प्राण एवैकधा भवति’ इति प्राण­श­ब्द­द­र्श­नात् । प्राणशब्दस्य च मुख्ये प्राणे प्रसिद्धत्वात् । ये चैते पुर­स्ता­द्बा­ला­किना ‘आदित्ये पुरु­ष­श्च­न्द्र­मसि पुरुषः’ इत्येवमादयः पुरुषा निर्दिष्टाः, तेषामपि भवति प्राणः कर्ता, प्राणा­व­स्था­वि­शे­ष­त्वा­दा­दि­त्या­दि­दे­व­ता­त्म­नाम् — ‘कतम एको देव इति प्राण इति स ब्रह्म त्यदि­त्या­च­क्षते’(बृ. उ. ३ । ९ । ९) इति श्रुत्य­न्त­र­प्र­सिद्धेः । जीवो वायमिह वेदि­त­व्य­त­यो­प­दि­श्यते । तस्यापि धर्माधर्मलक्षणं कर्म शक्यते श्रावयितुम् — ‘यस्य वैतत्कर्म’ इति । सोऽपि भोक्तृ­त्वा­द्भो­गो­प­क­र­ण­भू­ता­ना­मे­तेषां पुरुषाणां कर्तोपपद्यते । वाक्यशेषे च जीव­लि­ङ्ग­म­व­ग­म्यते — यत्कारणं वेदि­त­व्य­त­यो­प­न्य­स्तस्य पुरुषाणां कर्तु­र्वे­द­ना­यो­पेतं बालाकिं प्रति बुबो­ध­यि­षु­र­जा­त­शत्रुः सुप्तं पुरुषमामन्त्र्य आम­न्त्र­ण­श­ब्दा­श्र­व­णा­त्प्रा­णा­दी­ना­म­भो­क्तृत्वं प्रतिबोध्य यष्टि­घा­तो­त्था­प­ना­त्प्रा­णा­दि­व्य­ति­रिक्तं जीवं भोक्तारं प्रतिबोधयति । तथा परस्तादपि जीव­लि­ङ्ग­म­व­ग­म्यते — ‘तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं भुञ्ज­न्त्ये­व­मे­वैष प्रज्ञा­त्मै­तै­रा­त्म­भि­र्भुङ्क्ते एवमेवैत आत्मान एतमात्मानं भुञ्जन्ति’(कौ. ब्रा. ४ । २०) इति । प्राण­भृ­त्त्वाच्च जीवस्योपपन्नं प्राणशब्दत्वम् । तस्मा­ज्जी­व­मु­ख्य­प्रा­ण­यो­र­न्य­तर इह ग्रहणीयः, न परमेश्वरः, तल्लि­ङ्गा­न­व­ग­मा­दि­त्येवं प्राप्ते ब्रूमः —

परमेश्वर एवायमेतेषां पुरुषाणां कर्ता स्यात् । कस्मात् ? उप­क्र­म­सा­म­र्थ्यात् । इह हि बाला­कि­र­जा­त­श­त्रुणा सह ‘ब्रह्म ते ब्रवाणि’ इति संव­दि­तु­मु­प­च­क्रमे । स च कति­चि­दा­दि­त्या­द्य­धि­क­र­णा­न्पु­रु­षा­न­मु­ख्य­ब्र­ह्म­दृ­ष्टि­भाज उक्त्वा तूष्णीं बभूव । तमजातशत्रुः ‘मृषा वै खलु मा संवदिष्ठा ब्रह्म ते ब्रवाणि’ इत्य­मु­ख्य­ब्र­ह्म­वा­दि­त­या­पोद्य, तत्कर्तारमन्यं वेदि­त­व्य­त­यो­प­चि­क्षेप । यदि सोऽप्य­मु­ख्य­ब्र­ह्म­दृ­ष्टि­भा­क्स्यात् , उपक्रमो बाध्येत । तस्मात्परमेश्वर एवायं भवितुमर्हति । कर्तृत्वं चैतेषां पुरुषाणां न पर­मे­श्व­रा­द­न्यस्य स्वात­न्त्र्ये­णा­व­क­ल्पते । ‘यस्य वैतत्कर्म’ इत्यपि नायं परि­स्प­न्द­ल­क्ष­णस्य धर्मा­ध­र्म­ल­क्ष­णस्य वा कर्मणो निर्देशः, तयो­र­न्य­त­र­स्या­प्य­प्र­कृ­त­त्वात् , असं­श­ब्दि­त­त्वाच्च । नापि पुरुषाणामयं निर्देशः, ‘एतेषां पुरुषाणां कर्ता’ इत्येव तेषां निर्दिष्टत्वात् , लिङ्ग­व­च­न­वि­गा­नाच्च । नापि पुरुषविषयस्य करोत्यर्थस्य क्रियाफलस्य वायं निर्देशः, कर्तृशब्देनैव तयो­रु­पा­त्त­त्वात् । पारि­शे­ष्या­त्प्र­त्य­क्ष­स­न्नि­हितं जग­त्स­र्व­ना­म्नै­त­च्छ­ब्देन निर्दिश्यते । क्रियत इति च तदेव जगत्कर्म । ननु जग­द­प्य­प्र­कृ­त­म­सं­श­ब्दितं च । सत्यमेतत् । तथाप्यसति विशेषोपादाने साधारणेनार्थेन सन्निधानेन सन्नि­हि­त­व­स्तु­मा­त्र­स्यायं निर्देश इति गम्यते, न विशिष्टस्य कस्यचित् , विशे­ष­स­न्नि­धा­ना­भा­वात् । पूर्वत्र च जगदेकदेशभूतानां पुरुषाणां विशे­षो­पा­दा­ना­द­वि­शे­षितं जगदेवेहोपादीयत इति गम्यते । एतदुक्तं भवति — य एतेषां पुरुषाणां जगदेकदेशभूतानां कर्ता — किमनेन विशेषेण ? — यस्य कृत्स्नमेव जगदविशेषितं कर्मेति वाशब्द एक­दे­शा­व­च्छि­न्न­क­र्तृ­त्व­व्या­वृ­त्त्यर्थः । ये बालाकिना ब्रह्म­त्वा­भि­मताः पुरुषाः कीर्तिताः, तेषा­म­ब्र­ह्म­त्व­ख्या­प­नाय विशेषोपादानम् । एवं ब्राह्म­ण­प­रि­व्रा­ज­क­न्या­येन सामा­न्य­वि­शे­षाभ्यां जगतः कर्ता वेदि­त­व्य­त­यो­प­दि­श्यते । परमेश्वरश्च सर्वजगतः कर्ता सर्व­वे­दा­न्ते­ष्व­व­धा­रितः ॥ १६ ॥

जीव­मु­ख्य­प्रा­ण­लि­ङ्गा­न्नेति चेत्त­द्व्या­ख्या­तम् ॥ १७ ॥

१७

अथ यदुक्तं वाक्य­शे­ष­ग­ता­ज्जी­व­लि­ङ्गा­न्मु­ख्य­प्रा­ण­लि­ङ्गाच्च तयो­रे­वा­न्य­त­र­स्येह ग्रहणं न्याय्यं न परमेश्वरस्येति, तत्परिहर्तव्यम् । अत्रोच्यते — परिहृतं चैतत् ‘नोपा­सा­त्रै­वि­ध्या­दा­श्रि­त­त्वा­दिह तद्योगात्’(ब्र. सू. १ । १ । ३१) इत्यत्र । त्रिविधं ह्यत्रोपासनमेवं सति प्रसज्येत — जीवोपासनं मुख्य­प्रा­णो­पा­सनं ब्रह्मोपासनं चेति । न चैतन्न्याय्यम् । उप­क्र­मो­प­सं­हा­राभ्यां हि ब्रह्म­वि­ष­य­त्व­मस्य वाक्य­स्या­व­ग­म्यते । तत्रोपक्रमस्य ताव­द्ब्र­ह्म­वि­ष­यत्वं दर्शितम् । उपसंहारस्यापि निर­ति­श­य­फ­ल­श्र­व­णा­द्ब्र­ह्म­वि­ष­यत्वं दृश्यते — ‘सर्वा­न्पा­प्म­नोऽ­प­हत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वारा­ज्य­मा­धि­पत्यं पर्येति य एवं वेद’ इति । नन्वेवं सति प्रत­र्द­न­वा­क्य­नि­र्ण­ये­नै­वे­द­मपि वाक्यं निर्णीयेत । न निर्णीयते, ‘यस्य वैतत्कर्म’ इत्यस्य ब्रह्मविषयत्वेन तत्र अनि­र्धा­रि­त­त्वात् । तस्मादत्र जीव­मु­ख्य­प्रा­ण­शङ्का पुनरुत्पद्यमाना निवर्त्यते । प्राणशब्दोऽपि ब्रह्मविषयो दृष्टः ‘प्राणबन्धनं हि सोम्य मनः’(छा. उ. ६ । ८ । २) इत्यत्र । जीव­लि­ङ्ग­म­प्यु­प­क्र­मो­प­सं­हा­र­यो­र्ब्र­ह्म­वि­ष­य­त्वा­द­भे­दा­भि­प्रा­येण योजयितव्यम् ॥ १७ ॥

अन्यार्थं तु जैमिनिः प्रश्न­व्या­ख्या­ना­भ्या­मपि चैवमेके ॥ १८ ॥

१८

अपि च नैवात्र विवदितव्यम् — जीवप्रधानं वेदं वाक्यं स्यात् ब्रह्मप्रधानं वेति । यतोऽन्यार्थं जीवपरामर्शं ब्रह्म­प्र­ति­प­त्त्य­र्थ­म­स्मि­न्वाक्ये जैमिनिराचार्यो मन्यते । कस्मात् ? प्रश्न­व्या­ख्या­ना­भ्याम् । प्रश्न­स्ता­व­त्सु­प्त­पु­रु­ष­प्र­ति­बो­ध­नेन प्राणा­दि­व्य­ति­रिक्ते जीवे प्रतिबोधिते पुन­र्जी­व­व्य­ति­रि­क्त­वि­षयो दृश्यते — ‘क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्व वा एतदभूत्कुत एतदागात्’(कौ. ब्रा. ४ । १९) इति । प्रतिवचनमपि — ‘यदा सुप्तः स्वप्नं न कञ्चन पश्य­त्य­था­स्मि­न्प्राण एवैकधा भवति’(कौ. ब्रा. ४ । २०) इत्यादि, ‘एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः’ इति च । सुषुप्तिकाले च परेण ब्रह्मणा जीव एकतां गच्छति; परस्माच्च ब्रह्मणः प्राणादिकं जगज्जायत इति वेदान्तमर्यादा । तस्माद्यत्रास्य जीवस्य निःस­म्बो­ध­ता­स्व­च्छ­ता­रूपः स्वापः — उपा­धि­ज­नि­त­वि­शे­ष­वि­ज्ञा­न­र­हितं स्वरूपम् , यत­स्त­द्भ्रं­श­रू­प­मा­ग­म­नम् , सोऽत्र परमात्मा वेदितव्यतया श्रावित इति गम्यते । अपि चैवमेके शाखिनो वाज­स­ने­यि­नोऽ­स्मि­न्नेव बाला­क्य­जा­त­श­त्रु­सं­वादे स्पष्टं विज्ञानमयशब्देन जीवमाम्नाय तद्व्यतिरिक्तं पर­मा­त्मा­न­मा­म­नन्ति ‘य एष विज्ञानमयः पुरुषः क्वैष तदाभूत्कुत एतदागात्’(बृ. उ. २ । १ । १६) इति प्रश्ने । प्रतिवचनेऽपि ‘य एषोऽन्तर्हृदय आका­श­स्त­स्मि­ञ्शेते’(बृ. उ. २ । १ । १७) इति । आकाशशब्दश्च परमात्मनि प्रयुक्तः ‘दह­रोऽ­स्मि­न्न­न्त­रा­काशः’(छा. उ. ८ । १ । २) इत्यत्र । ‘सर्व एत आत्मानो व्युच्चरन्ति’ इति चोपा­धि­म­ता­मा­त्म­ना­म­न्यतो व्युच्च­र­ण­मा­म­नन्तः परमात्मानमेव कार­ण­त्वे­ना­म­न­न्तीति गम्यते । प्राण­नि­रा­क­र­ण­स्यापि सुषु­प्त­पु­रु­षो­त्था­प­नेन प्राणा­दि­व्य­ति­रि­क्तो­प­दे­शोऽ­भ्यु­च्चयः ॥ १८ ॥

वाक्यान्वयात् ॥ १९ ॥

१९

बृहदारण्यके मैत्रे­यी­ब्रा­ह्म­णेऽ­धी­यते — ‘न वा अरे पत्युः कामाय’ इत्युपक्रम्य ‘न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदꣳ सर्वं विदितम्’(बृ. उ. ४ । ५। ६) इति । तत्रै­त­द्वि­चि­कि­त्स्यते — किं विज्ञा­ना­त्मै­वायं द्रष्ट­व्य­श्रो­त­व्य­त्वा­दि­रू­पे­णो­प­दि­श्यते, आहो­स्वि­त्प­र­मा­त्मेति । कुतः पुनरेषा विचिकित्सा ? प्रिय­सं­सू­चि­ते­ना­त्मना भोक्त्रो­प­क्र­मा­द्वि­ज्ञा­ना­त्मो­प­देश इति प्रतिभाति । तथा आत्मविज्ञानेन सर्व­वि­ज्ञा­नो­प­दे­शा­त्प­र­मा­त्मो­प­देश इति । किं तावत्प्राप्तम् ? विज्ञा­ना­त्मो­प­देश इति । कस्मात् ? उप­क्र­म­सा­म­र्थ्यात् । पति­जा­या­पु­त्र­वि­त्ता­दिकं हि भोग्यभूतं सर्वं जगत् आत्मार्थतया प्रियं भवतीति प्रियसंसूचितं भोक्ता­र­मा­त्मा­न­मु­प­क्र­म्या­न­न्त­र­मि­द­मा­त्मनो दर्श­ना­द्यु­प­दि­श्य­मानं कस्या­न्य­स्या­त्मनः स्यात् । मध्येऽपि ‘इदं मह­द्भू­त­म­न­न्त­म­पारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्ये­वा­नु­वि­न­श्यति न प्रेत्य संज्ञास्ति’(बृ. उ. २। ४ । १२) इति प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञा­ना­त्म­भा­वेन ब्रुव­न्वि­ज्ञा­ना­त्मन एवेदं द्रष्टव्यत्वं दर्शयति । तथा ‘विज्ञातारमरे केन विजानीयात्’(बृ. उ. २। ४ । १४) इति कर्तृवचनेन शब्दे­नो­प­सं­ह­र­न्वि­ज्ञा­ना­त्मा­न­मे­वे­हो­प­दिष्टं दर्शयति । तस्मा­दा­त्म­वि­ज्ञा­नेन सर्वविज्ञानवचनं भोक्त्र­र्थ­त्वा­द्भो­ग्य­जा­त­स्यौ­प­चा­रिकं द्रष्ट­व्य­मि­त्येवं प्राप्ते ब्रूमः —

परमात्मोपदेश एवायम् । कस्मात् ? वाक्यान्वयात् । वाक्यं हीदं पौर्वा­प­र्ये­णा­वे­क्ष्य­माणं परमात्मानं प्रत्य­न्वि­ता­व­यवं लक्ष्यते । कथमिति? तदुपपाद्यते — ‘अमृतत्वस्य तु नाशास्ति वित्तेन’ इति याज्ञ­व­ल्क्या­दु­प­श्रुत्य ‘येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहि’ इत्य­मृ­त­त्व­मा­शा­सा­नायै मैत्रेय्यै याज्ञवल्क्य आत्म­वि­ज्ञा­न­मि­द­मु­प­दि­शति । न चान्यत्र पर­मा­त्म­वि­ज्ञा­ना­द­मृ­त­त्व­म­स्तीति श्रुति­स्मृ­ति­वादा वदन्ति । तथा चात्मविज्ञानेन सर्व­वि­ज्ञा­न­मु­च्य­मानं नान्यत्र पर­म­का­र­ण­वि­ज्ञा­ना­न्मु­ख्य­म­व­क­ल्पते । न चैत­दौ­प­चा­रि­क­मा­श्र­यितुं शक्यम् , यत्का­र­ण­मा­त्म­वि­ज्ञा­नेन सर्वविज्ञानं प्रति­ज्ञा­या­न­न्त­रेण ग्रन्थेन तदेवोपपादयति — ‘ब्रह्म तं परा­दा­द्योऽ­न्य­त्रा­त्मनो ब्रह्म वेद’ इत्यादिना । यो हि ब्रह्म­क्ष­त्रा­दिकं जग­दा­त्म­नोऽ­न्यत्र स्वातन्त्र्येण लब्धसद्भावं पश्यति, तं मिथ्यादर्शिनं तदेव मिथ्यादृष्टं ब्रह्म­क्ष­त्रा­दिकं जगत्पराकरोतीति भेद­दृ­ष्टि­म­पोद्य, ‘इदꣳ सर्वं यदयमात्मा’ इति सर्वस्य वस्तु­जा­त­स्या­त्मा­व्य­ति­रे­क­म­व­ता­र­यति । ‘दुन्दु­भ्या­दि­दृ­ष्टा­न्तैश्च’(बृ. उ. ४ । ५ । ८) तमेवाव्यतिरेकं द्रढयति । ‘अस्य महतो भूतस्य निःश्व­सि­त­मे­त­द्य­दृ­ग्वेदः’(बृ. उ. ४ । ५ । ११) इत्यादिना च प्रकृतस्यात्मनो नाम­रू­प­क­र्म­प्र­प­ञ्च­का­र­णतां व्याचक्षाणः परमात्मानमेनं गमयति । तथै­वै­का­य­न­प्र­क्रि­या­या­मपि सविषयस्य सेन्द्रियस्य सान्तःकरणस्य प्रप­ञ्च­स्यै­का­य­न­म­न­न्त­र­म­बाह्यं कृत्स्नं प्रज्ञानघनं व्याचक्षाणः परमात्मानमेनं गमयति । तस्मात्परमात्मन एवायं दर्शनाद्युपदेश इति गम्यते ॥ १९ ॥

यत्पुनरुक्तं प्रिय­सं­सू­चि­तो­प­क्र­मा­द्वि­ज्ञा­ना­त्मन एवायं दर्शनाद्युपदेश इति, अत्र ब्रूमः —

प्रति­ज्ञा­सि­द्धे­र्लि­ङ्ग­मा­श्म­रथ्यः ॥ २० ॥

२०

अस्त्यत्र प्रतिज्ञा — ‘आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति’ ‘इदꣳ सर्वं यदयमात्मा’ इति च । तस्याः प्रतिज्ञायाः सिद्धिं सूच­य­त्ये­त­ल्लि­ङ्गम् , यत्प्रि­य­सं­सू­चि­त­स्या­त्मनो द्रष्ट­व्य­त्वा­दि­स­ङ्की­र्त­नम् । यदि हि विज्ञानात्मा परमात्मनोऽन्यः स्यात् , ततः पर­मा­त्म­वि­ज्ञा­नेऽपि विज्ञानात्मा न विज्ञात इत्येकविज्ञानेन सर्वविज्ञानं यत्प्रतिज्ञातम् , तद्धीयेत । तस्मा­त्प्र­ति­ज्ञा­सि­द्ध्यर्थं विज्ञा­ना­त्म­प­र­मा­त्म­नो­र­भे­दां­शे­नो­प­क्र­म­ण­मि­त्या­श्म­रथ्य आचार्यो मन्यते ॥ २० ॥

उत्क्रमिष्यत एवं­भा­वा­दि­त्यौ­डु­लोमिः ॥ २१ ॥

२१

विज्ञानात्मन एव देहे­न्द्रि­य­म­नो­बु­द्धि­स­ङ्घा­तो­पा­धि­स­म्प­र्का­त्क­लु­षी­भू­तस्य ज्ञान­ध्या­ना­दि­सा­ध­ना­नु­ष्ठा­ना­त्स­म्प्र­स­न्नस्य देहा­दि­स­ङ्घा­ता­दु­त्क्र­मि­ष्यतः पर­मा­त्म­नै­क्यो­प­प­त्ते­रि­द­म­भे­दे­नो­प­क्र­म­ण­मि­त्यौ­डु­लो­मि­रा­चार्यो मन्यते । श्रुतिश्चैवं भवति — ‘एष सम्प्र­सा­दोऽ­स्मा­च्छ­री­रा­त्स­मु­त्थाय परं ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यते’(छा. उ. ८ । १२ । ३) इति । क्वचिच्च जीवाश्रयमपि नामरूपं नदीनिदर्शनेन ज्ञापयति — ‘यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वा­न्ना­म­रू­पा­द्वि­मुक्तः परात्परं पुरुषमुपैति दिव्यम्’(मु. उ. ३ । २ । ८) इति । यथा लोके नद्यः स्वाश्रयमेव नामरूपं विहाय समुद्रमुपयन्ति, एवं जीवोऽपि स्वाश्रयमेव नामरूपं विहाय परं पुरुषमुपैतीति हि तत्रार्थः प्रतीयते — दृष्टा­न्त­दा­र्ष्टा­न्ति­क­यो­स्तु­ल्य­तायै ॥ २१ ॥

अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥

२२

अस्यैव पर­मा­त्म­नोऽ­ने­नापि विज्ञा­ना­त्म­भा­वे­ना­व­स्था­ना­दु­प­प­न्न­मि­द­म­भे­दे­नो­प­क्र­म­ण­मिति काशकृत्स्न आचार्यो मन्यते । तथा च ब्राह्मणम् — ‘अनेन जीवे­ना­त्म­ना­नु­प्र­विश्य नामरूपे व्याकरवाणि’(छा. उ. ६ । ३ । २) इत्येवंजातीयकं परस्यैवात्मनो जीव­भा­वे­ना­व­स्थानं दर्शयति । मन्त्रवर्णश्च — ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वा­भि­व­द­न्य­दास्ते’(तै. आ. ३ । १२ । ७) इत्येवंजातीयकः । न च तेजःप्रभृतीनां सृष्टौ जीवस्य पृथक्सृष्टिः श्रुता, येन पर­स्मा­दा­त्म­नोऽ­न्य­स्त­द्वि­कारो जीवः स्यात् । काश­कृ­त्स्न­स्या­चा­र्य­स्या­वि­कृतः परमेश्वरो जीवः, नान्य इति मतम् । आश्मरथ्यस्य तु यद्यपि जीवस्य पर­स्मा­द­न­न्य­त्व­म­भि­प्रे­तम् , तथापि ‘प्रति­ज्ञा­सिद्धेः’ इति सापे­क्ष­त्वा­भि­धा­ना­त्का­र्य­का­र­ण­भावः कियानप्यभिप्रेत इति गम्यते । औडुलोमिपक्षे पुनः स्पष्ट­मे­वा­व­स्था­न्त­रा­पेक्षौ भेदाभेदौ गम्येते । तत्र काशकृत्स्नीयं मतं श्रुत्यनुसारीति गम्यते, प्रति­पि­पा­द­यि­षि­ता­र्था­नु­सा­रात् ‘तत्त्वमसि’ इत्या­दि­श्रु­तिभ्यः । एवं च सति तज्ज्ञा­ना­द­मृ­त­त्व­म­व­क­ल्पते । विकारात्मकत्वे हि जीव­स्या­भ्यु­प­ग­म्य­माने विकारस्य प्रकृतिसम्बन्धे प्रल­य­प्र­स­ङ्गान्न तज्ज्ञा­ना­द­मृ­त­त्व­म­व­क­ल्पेत । अतश्च स्वाश्रयस्य नाम­रू­प­स्या­स­म्भ­वा­दु­पा­ध्या­श्रयं नामरूपं जीवे उपचर्यते । अत एवोत्पत्तिरपि जीवस्य क्वचि­द­ग्नि­वि­स्फु­लि­ङ्गो­दा­ह­र­णेन श्राव्यमाणा उपाध्याश्रयैव वेदितव्या ॥

यदप्युक्तं प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञा­ना­त्म­भा­वेन दर्श­य­न्वि­ज्ञा­ना­त्मन एवेदं द्रष्टव्यत्वं दर्शयतीति, तत्रापीयमेव त्रिसूत्री योजयितव्या । ‘प्रति­ज्ञा­सि­द्धे­र्लि­ङ्ग­मा­श्म­रथ्यः’ — इदमत्र प्रतिज्ञातम् — ‘आत्मनि विदिते सर्वमिदं विदितं भवति’ ‘इदꣳ सर्वं यदयमात्मा’(बृ. उ. २ । ४ । ६)‘इदꣳ सर्वं यदयमात्मा’(बृ. उ. २ । ४ । ६) इति च; उपपादितं च सर्वस्य नाम­रू­प­क­र्म­प्र­प­ञ्च­स्यै­क­प्र­स­व­त्वा­दे­क­प्र­ल­य­त्वाच्च दुन्दु­भ्या­दि­दृ­ष्टा­न्तैश्च कार्य­का­र­ण­यो­र­व्य­ति­रे­क­प्र­ति­पा­द­नात्; तस्या एव प्रतिज्ञायाः सिद्धिं सूच­य­त्ये­त­ल्लि­ङ्गम् , यन्महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञा­ना­त्म­भा­वेन कथितम् इत्याश्मरथ्य आचार्यो मन्यते — अभेदे हि सत्येकविज्ञानेन सर्वविज्ञानं प्रति­ज्ञा­त­म­व­क­ल्पत इति । ‘उत्क्रमिष्यत एवं­भा­वा­दि­त्यौ­डु­लोमिः’ — उत्क्रमिष्यतो विज्ञानात्मनो ज्ञान­ध्या­ना­दि­सा­म­र्थ्या­त्स­म्प्र­स­न्नस्य परे­णा­त्म­नै­क्य­स­म्भ­वा­दि­द­म­भे­दा­भि­धा­न­मि­त्यौ­डु­लो­मि­रा­चार्यो मन्यते । ‘अवस्थितेरिति काशकृत्स्नः’ — अस्यैव पर­मा­त्म­नोऽ­ने­नापि विज्ञा­ना­त्म­भा­वे­ना­व­स्था­ना­दु­प­प­न्न­मि­द­म­भे­दा­भि­धा­न­मिति काशकृत्स्न आचार्यो मन्यते । ननू­च्छे­दा­भि­धा­न­मे­तत् — ‘एतेभ्यो भूतेभ्यः समुत्थाय तान्ये­वा­नु­वि­न­श्यति न प्रेत्य संज्ञास्ति’(बृ. उ. २ । ४ । १२) इति । कथ­मे­त­द­भे­दा­भि­धा­नम् ? नैष दोषः । विशे­ष­वि­ज्ञा­न­वि­ना­शा­भि­प्रा­य­मे­त­द्वि­ना­शा­भि­धा­नम् , नात्मो­च्छे­दा­भि­प्रा­यम् । ‘अत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्ति’ इति पर्यनुयुज्य, स्वयमेव श्रुत्या अर्थान्तरस्य दर्शितत्वात् — ‘न वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽ­य­मा­त्मा­नु­च्छि­त्ति­धर्मा मात्राऽ­सं­स­र्ग­स्त्वस्य भवति’ इति । एतदुक्तं भवति — कूटस्थनित्य एवायं विज्ञानघन आत्मा; नास्यो­च्छे­द­प्र­स­ङ्गोऽस्ति । मात्रा­भि­स्त्वस्य भूते­न्द्रि­य­ल­क्ष­णा­भि­र­वि­द्या­कृ­ता­भि­र­सं­सर्गो विद्यया भवति । संसर्गाभावे च तत्कृतस्य विशे­ष­वि­ज्ञा­न­स्या­भा­वात् ‘न प्रेत्य संज्ञास्ति’ इत्युक्तमिति । यदप्युक्तम् — ‘विज्ञातारमरे केन विजानीयात्’ इति कर्तृवचनेन शब्दे­नो­प­सं­हा­रा­द्वि­ज्ञा­ना­त्मन एवेदं द्रष्ट­व्य­त्व­मिति, तदपि काश­कृ­त्स्नी­ये­नैव दर्शनेन परिहरणीयम् । अपि च ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’(बृ. उ. २ । ४ । १५) इत्या­र­भ्या­वि­द्या­वि­षये तस्यैव दर्शनादिलक्षणं विशेषविज्ञानं प्रपञ्च्य, ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्येत्’ इत्यादिना विद्याविषये तस्यैव दर्श­ना­दि­ल­क्ष­णस्य विशे­ष­वि­ज्ञा­न­स्या­भा­व­म­भि­द­धाति । पुनश्च विष­या­भा­वेऽ­प्या­त्मानं विजा­नी­या­दि­त्या­शङ्क्य, ‘विज्ञातारमरे केन विजानीयात्’ इत्याह । ततश्च विशे­ष­वि­ज्ञा­ना­भा­वो­प­पा­द­न­प­र­त्वा­द्वा­क्यस्य विज्ञानधातुरेव केवलः सन्भू­त­पू­र्व­गत्या कर्तृवचनेन तृचा निर्दिष्ट इति गम्यते । दर्शितं तु पुर­स्ता­त्का­श­कृ­त्स्नी­यस्य पक्षस्य श्रुतिमत्त्वम् । अतश्च विज्ञा­ना­त्म­प­र­मा­त्म­नो­र­वि­द्या­प्र­त्यु­प­स्था­पि­त­ना­म­रू­प­र­चि­त­दे­हा­द्यु­पा­धि­नि­मित्तो भेदः, न पारमार्थिक इत्येषोऽर्थः सर्वै­र्वे­दा­न्त­वा­दि­भि­र­भ्यु­प­ग­न्तव्यः — ‘सदेव सोम्येदमग्र आसी­दे­क­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) ‘आत्मैवेदं सर्वम्’(छा. उ. ७ । २५ । २) ‘ब्रह्मैवेदं सर्वम्’ ‘इदꣳ सर्वं यदयमात्मा’ ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. उ. ३ । ७ । २३) ‘नान्यदतोऽस्ति द्रष्टृ’(बृ. उ. ३ । ८ । ११) इत्येवंरूपाभ्यः श्रुतिभ्यः । स्मृतिभ्यश्च — ‘वासुदेवः सर्वमिति’(भ. गी. ७ । १९) ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’(भ. गी. १३ । २) ‘समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्’(भ. गी. १३ । २७) इत्येवंरूपाभ्यः । भेद­द­र्श­ना­प­वा­दाच्च — ‘अन्योऽ­सा­व­न्योऽ­ह­म­स्मीति न स वेद यथा पशुः’(बृ. उ. १ । ४ । १०) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’(बृ. उ. ४ । ४ । १९) इत्ये­वं­जा­ती­य­कात् । ‘स वा एष महानज आत्मा­ज­रोऽ­म­रोऽ­मृ­तोऽ­भयो ब्रह्म’(बृ. उ. ४ । ४ । २५) इति च आत्मनि सर्व­वि­क्रि­या­प्र­ति­षे­धात् । अन्यथा च मुमुक्षूणां निर­प­वा­द­वि­ज्ञा­ना­नु­प­पत्तेः, सुनि­श्चि­ता­र्थ­त्वा­नु­प­प­त्तेश्च । निरपवादं हि विज्ञानं सर्वा­का­ङ्क्षा­नि­व­र्त­क­मा­त्म­वि­ष­य­मि­ष्यते — ‘वेदा­न्त­वि­ज्ञा­न­सु­नि­श्चि­तार्थाः’(मु. उ. ३ । २ । ६) इति च श्रुतेः । ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’(ई. उ. ७) इति च । स्थित­प्र­ज्ञ­ल­क्ष­ण­स्मृ­तेश्च । स्थिते च क्षेत्र­ज्ञ­प­र­मा­त्मै­क­त्व­वि­षये सम्यग्दर्शने क्षेत्रज्ञः परमात्मेति नाम­मा­त्र­भे­दा­त्क्षे­त्र­ज्ञोऽयं परमात्मनो भिन्नः परमात्मायं क्षेत्र­ज्ञा­द्भिन्न इत्येवंजातीयक आत्मभेदविषयो निर्बन्धो निरर्थकः — एको ह्ययमात्मा नाममात्रभेदेन बहुधाभिधीयत इति । न हि ‘सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायाम्’(तै. उ. २ । १ । १) इति काञ्चिदेवैकां गुहा­म­धि­कृ­त्यै­त­दु­क्तम् । न च ब्रह्मणोऽन्यो गुहायां निहितोऽस्ति, ‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्’(तै. उ. २ । ६ । १) इति स्रष्टुरेव प्रवेशश्रवणात् । ये तु निर्बन्धं कुर्वन्ति, ते वेदान्तार्थं बाधमानाः श्रेयोद्वारं सम्यग्दर्शनमेव बाधन्ते । कृतकमनित्यं च मोक्षं कल्पयन्ति । न्यायेन च न सङ्गच्छन्त इति ॥ २२ ॥

प्रकृतिश्च प्रति­ज्ञा­दृ­ष्टा­न्ता­नु­प­रो­धात् ॥ २३ ॥

२३

यथा­भ्यु­द­य­हे­तु­त्वा­द्धर्मो जिज्ञास्यः, एवं निःश्रे­य­स­हे­तु­त्वा­द्ब्रह्म जिज्ञा­स्य­मि­त्यु­क्तम् । ब्रह्म च ‘जन्माद्यस्य यतः’(ब्र. सू. १ । १ । २) इति लक्षितम् । तच्च लक्षणं घटरुचकादीनां मृत्सु­व­र्णा­दि­व­त्प्र­कृ­तित्वे कुला­ल­सु­व­र्ण­का­रा­दि­व­न्नि­मि­त्तत्वे च समानमित्यतो भवति विमर्शः — किमात्मकं पुनर्ब्रह्मणः कारणत्वं स्यादिति । तत्र निमित्तकारणमेव तावत्केवलं स्यादिति प्रतिभाति । कस्मात् ? ईक्षा­पू­र्व­क­क­र्तृ­त्व­श्र­व­णात् — ईक्षापूर्वकं हि ब्रह्मणः कर्तृ­त्व­म­व­ग­म्यते — ‘स ईक्षाञ्चक्रे’(प्र. उ. ६ । ३) ‘स प्राणमसृजत’(प्र. उ. ६ । ४) इत्या­दि­श्रु­तिभ्यः । ईक्षापूर्वकं च कर्तृत्वं निमि­त्त­का­र­णे­ष्वेव कुलालादिषु दृष्टम् । अने­क­का­र­क­पू­र्विका च क्रिया­फ­ल­सि­द्धि­र्लोके दृष्टा । स च न्याय आदिकर्तर्यपि युक्तः सङ्क्रमयितुम् । ईश्व­र­त्व­प्र­सि­द्धेश्च — ईश्वराणां हि राज­वै­व­स्व­ता­दीनां निमि­त्त­का­र­ण­त्व­मेव केवलं प्रतीयते । तद्व­त्प­र­मे­श्व­र­स्यापि निमि­त्त­का­र­ण­त्व­मेव युक्तं प्रतिपत्तुम् । कार्यं चेदं जग­त्सा­व­य­व­म­चे­त­न­म­शुद्धं च दृश्यते । कारणेनापि तस्य तादृशेनैव भवितव्यम् , कार्यकारणयोः सारूप्यदर्शनात् । ब्रह्म च नैवं­ल­क्ष­ण­म­व­ग­म्यते — ‘निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्’(श्वे. उ. ६ । १९) इत्या­दि­श्रु­तिभ्यः । पारि­शे­ष्या­द्ब्र­ह्म­णोऽ­न्य­दु­पा­दा­न­का­र­ण­म­शु­द्ध्या­दि­गु­णकं स्मृति­प्र­सि­द्ध­म­भ्यु­प­ग­न्त­व्यम् , ब्रह्म­का­र­ण­त्व­श्रु­ते­र्नि­मि­त्त­त्व­मात्रे पर्य­व­सा­ना­दि­त्येवं प्राप्ते ब्रूमः —

प्रकृ­ति­श्चो­पा­दा­न­का­रणं च ब्रह्मा­भ्यु­प­ग­न्त­व्यम् , निमित्तकारणं च । न केवलं निमित्तकारणमेव । कस्मात् ? प्रति­ज्ञा­दृ­ष्टा­न्ता­नु­प­रो­धात् । एवं हि प्रति­ज्ञा­दृ­ष्टान्तौ श्रौतौ नोपुरुध्येते । प्रतिज्ञा तावत् — ‘उत तमा­दे­श­म­प्राक्ष्यो येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’(छा. उ. ६ । १ । ३) इति । तत्र चैकेन विज्ञातेन सर्व­म­न्य­द­वि­ज्ञा­त­मपि विज्ञातं भवतीति प्रतीयते । तच्चो­पा­दा­न­का­र­ण­वि­ज्ञाने सर्वविज्ञानं सम्भवति, उपा­दा­न­का­र­णा­व्य­ति­रे­का­त्का­र्यस्य । निमि­त्त­का­र­णा­व्य­ति­रे­कस्तु कार्यस्य नास्ति, लोके तक्ष्णः प्रासा­द­व्य­ति­रे­क­द­र्श­नात् । दृष्टान्तोऽपि ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातꣳ स्याद्वा­चा­र­म्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’(छा. उ. ६ । १ । ४) इत्यु­पा­दा­न­का­र­ण­गो­चर एवाम्नायते । तथा ‘एकेन लोहमणिना सर्वं लोहमयं विज्ञातꣳ स्यात्’(छा. उ. ६ । १ । ५) ‘एकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातꣳ स्यात्’(छा. उ. ६ । १ । ६) इति च । तथान्यत्रापि ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’(मु. उ. १ । १ । ३) इति प्रतिज्ञा; ‘यथा पृथिव्यामोषधयः सम्भवन्ति’(मु. उ. १ । १ । ७) इति दृष्टान्तः । तथा ‘आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदꣳ सर्वं विदितम्’(बृ. उ. ४ । ५ । ६) इति प्रतिज्ञा; ‘स यथा दुन्दु­भे­र्ह­न्य­मा­नस्य न बाह्या­ञ्श­ब्दा­ञ्श­क्नु­या­द्ग्र­ह­णाय दुन्दुभेस्तु ग्रहणेन दुन्दु­भ्या­घा­तस्य वा शब्दो गृहीतः’(बृ. उ. ४ । ५ । ८) इति दृष्टान्तः । एवं यथासम्भवं प्रतिवेदान्तं प्रति­ज्ञा­दृ­ष्टान्तौ प्रकृतित्वसाधनौ प्रत्येतव्यौ । यत इतीयं पञ्चमी — ‘यतो वा इमानि भूतानि जायन्ते’(तै. उ. ३ । १ । १) इत्यत्र ‘जनिकर्तुः प्रकृतिः’(पा. सू. १ । ४ । ३०) इति विशे­ष­स्म­र­णा­त्प्र­कृ­ति­ल­क्षण एवापादाने द्रष्टव्या । निमित्तत्वं त्वधि­ष्ठा­त्र­न्त­रा­भा­वा­द­धि­ग­न्त­व्यम् । यथा हि लोके मृत्सु­व­र्णा­दि­क­मु­पा­दा­न­का­रणं कुला­ल­सु­व­र्ण­का­रा­दी­न­धि­ष्ठा­तॄ­न­पेक्ष्य प्रवर्तते, नैवं ब्रह्मण उपादानकारणस्य सतोऽ­न्योऽ­धि­ष्ठा­ता­पे­क्ष्योऽस्ति, प्रागुत्पत्तेः ‘एक­मे­वा­द्वि­ती­यम्’ इत्यवधारणात् । अधि­ष्ठा­त्र­न्त­रा­भा­वोऽपि प्रति­ज्ञा­दृ­ष्टा­न्ता­नु­प­रो­धा­दे­वो­दितो वेदितव्यः — अधिष्ठातरि ह्युपा­दा­ना­द­न्य­स्मि­न्न­भ्यु­प­ग­म्य­माने पुन­र­प्ये­क­वि­ज्ञा­नेन सर्व­वि­ज्ञा­न­स्या­स­म्भ­वा­त्प्र­ति­ज्ञा­दृ­ष्टा­न्तो­प­रोध एव स्यात् । तस्मा­द­धि­ष्ठा­त्र­न्त­रा­भा­वा­दा­त्मनः कर्तृ­त्व­मु­पा­दा­ना­न्त­रा­भा­वाच्च प्रकृतित्वम् ॥ २३ ॥

कुतश्चात्मनः कर्तृ­त्व­प्र­कृ­तित्वे ? —

अभिध्योपदेशाच्च ॥ २४ ॥

२४

अभि­ध्यो­प­दे­श­श्चा­त्मनः कर्तृ­त्व­प्र­कृ­तित्वे गमयति —‘सोऽकामयत बहु स्यां प्रजायेय’(तै. उ. २ । ६ । १) इति, ‘तदैक्षत बहु स्यां प्रजायेय’(छा. उ. ६ । २ । ३) इति च । तत्रा­भि­ध्या­न­पू­र्वि­कायाः स्वात­न्त्र्य­प्र­वृत्तेः कर्तेति गम्यते । बहु स्यामिति प्रत्य­गा­त्म­वि­ष­य­त्वा­द्ब­हु­भ­व­ना­भि­ध्या­नस्य प्रकृतिरित्यपि गम्यते ॥ २४ ॥

साक्षा­च्चो­भ­या­म्ना­नात् ॥ २५ ॥

२५

प्रकृ­ति­त्व­स्या­य­म­भ्यु­च्चयः । इतश्च प्रकृ­ति­र्ब्रह्म, यत्कारणं साक्षा­द्ब्र­ह्मैव कारणमुपादाय उभौ प्रभ­व­प्र­ल­या­वा­म्ना­येते — ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्ति’(छा. उ. १ । ९ । १) इति । यद्धि यस्मात्प्रभवति, यस्मिंश्च प्रलीयते तत्तस्योपादानं प्रसिद्धम् , यथा व्रीहियवादीनां पृथिवी । ‘साक्षात्’ इति च — उपा­दा­ना­न्त­रा­नु­पा­दानं दर्शयति ‘आकाशादेव’ इति । प्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः ॥ २५ ॥

आत्मकृतेः परिणामात् ॥ २६ ॥

२६

इतश्च प्रकृ­ति­र्ब्रह्म, यत्कारणं ब्रह्म­प्र­क्रि­या­याम् ‘तदात्मानं स्वयमकुरुत’(तै. उ. २ । ७ । १) इत्यात्मनः कर्मत्वं कर्तृत्वं च दर्शयति; आत्मानमिति कर्मत्वम् , स्वयमकुरुतेति कर्तृत्वम् । कथं पुनः पूर्वसिद्धस्य सतः कर्तृत्वेन व्यवस्थितस्य क्रियमाणत्वं शक्यं सम्पादयितुम् ? परिणामादिति ब्रूमः — पूर्वसिद्धोऽपि हि सन्नात्मा विशेषेण विकारात्मना परि­ण­म­या­मा­सा­त्मा­न­मिति । विकारात्मना च परिणामो मृदाद्यासु प्रकृतिषूपलब्धः । स्वयमिति च विशे­ष­णा­न्नि­मि­त्ता­न्त­रा­न­पे­क्ष­त्व­मपि प्रतीयते । ‘परिणामात्’ इति वा पृथक्सूत्रम् । तस्यैषोऽर्थः — इतश्च प्रकृ­ति­र्ब्रह्म, यत्कारणं ब्रह्मण एव विकारात्मना परिणामः सामा­ना­धि­क­र­ण्ये­ना­म्ना­यते ‘सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च’(तै. उ. २ । ६ । १) इत्यादिनेति ॥ २६ ॥

योनिश्च हि गीयते ॥ २७ ॥

२७

इतश्च प्रकृ­ति­र्ब्रह्म, यत्कारणं ब्रह्म योनिरित्यपि पठ्यते वेदान्तेषु — ‘कर्तारमीशं पुरुषं ब्रह्मयोनिम्’(मु. उ. ३ । १ । ३) इति ‘यद्भूतयोनिं परिपश्यन्ति धीराः’(मु. उ. १ । १ । ६) इति च । योनिशब्दश्च प्रकृतिवचनः समधिगतो लोके — ‘पृथिवी योनि­रो­ष­धि­व­न­स्प­ती­नाम्’ इति । स्त्रीयो­ने­र­प्य­स्त्ये­वा­व­य­व­द्वा­रेण गर्भं प्रत्यु­पा­दा­न­का­र­ण­त्वम् । क्वचि­त्स्था­न­व­च­नोऽपि योनिशब्दो दृष्टः ‘योनिष्ट इन्द्र निषदे अकारि’(ऋ. सं. १ । १०४ । १) इति । वाक्य­शे­षा­त्त्वत्र प्रकृतिवचनता परिगृह्यते — ‘यथोर्णनाभिः सृजते गृह्णते च’(मु. उ. १ । १ । ७) इत्ये­वं­जा­ती­य­कात् । तदेवं प्रकृतित्वं ब्रह्मणः प्रसिद्धम् । यत्पु­न­रि­द­मु­क्तम् , ईक्षापूर्वकं कर्तृत्वं निमि­त्त­का­र­णे­ष्वेव कुलालादिषु लोके दृष्टम् , नोपा­दा­ने­ष्वि­त्यादि; तत्प्रत्युच्यते — न लोकवदिह भवितव्यम् । न ह्यय­म­नु­मा­न­ग­म्योऽर्थः । शब्द­ग­म्य­त्वा­त्त्व­स्या­र्थस्य यथाशब्दमिह भवितव्यम् । शब्द­श्चे­क्षि­तु­री­श्व­रस्य प्रकृतित्वं प्रति­पा­द­य­ती­त्य­वो­चाम । पुनश्चैतत्सर्वं विस्तरेण प्रतिवक्ष्यामः ॥ २७ ॥

एतेन सर्वे व्याख्याता व्याख्याताः ॥ २८ ॥

२८

‘ईक्ष­ते­र्ना­श­ब्दम्’(ब्र. सू. १ । १ । ५) इत्यारभ्य प्रधानकारणवादः सूत्रैरेव पुनः पुनराशङ्क्य निराकृतः — तस्य हि पक्ष­स्यो­पो­द्ब­ल­कानि कानि­चि­ल्लि­ङ्गा­भा­सानि वेदा­न्ते­ष्वा­पा­तेन मन्दमतीन्प्रति भान्तीति । स च कार्य­का­र­णा­न­न्य­त्वा­भ्यु­प­ग­मा­त्प्र­त्या­सन्नो वेदान्तवादस्य देव­ल­प्र­भृ­ति­भिश्च कैश्चि­द्ध­र्म­सू­त्र­कारैः स्वग्र­न्थे­ष्वा­श्रितः । तेन तत्प्रतिषेधे यत्नोऽतीव कृतः, नाण्वा­दि­का­र­ण­वा­द­प्र­ति­षेधे । तेऽपि तु ब्रह्म­का­र­ण­वा­द­प­क्षस्य प्रति­प­क्ष­त्वा­त्प्र­ति­षे­द्धव्याः । तेषा­म­प्यु­पो­द्ब­लकं वैदिकं किञ्चि­ल्लि­ङ्ग­मा­पा­तेन मन्दमतीन्प्रति भायादिति । अतः प्रधा­न­म­ल्ल­नि­ब­र्ह­ण­न्या­ये­ना­ति­दि­शति — एतेन प्रधा­न­का­र­ण­वा­द­प्र­ति­षे­ध­न्या­य­क­ला­पेन सर्वेऽ­ण्वा­दि­का­र­ण­वादा अपि प्रतिषिद्धतया व्याख्याता वेदितव्याः । तेषामपि प्रधा­न­व­द­श­ब्द­त्वा­च्छ­ब्द­वि­रो­धि­त्वा­च्चेति । व्याख्याता व्याख्याता इति पदा­भ्या­सोऽ­ध्या­य­प­रि­स­माप्तिं द्योतयति ॥ २८ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ शारी­र­क­मी­मां­सा­सू­त्र­भाष्ये प्रथमाध्यायस्य चतुर्थः पादः ॥ इति प्रथमोऽध्यायः ॥