अद्वैतशारदा

ब्रह्मसूत्रभाष्यम्

द्वितीयोऽध्यायः

व्याख्याः

प्रथमः पादः

प्रथमेऽध्याये — सर्वज्ञः सर्वेश्वरो जगतः उत्पत्तिकारणम् , मृत्सुवर्णादय इव घटरुचकादीनाम् । उत्पन्नस्य जगतो नियन्तृत्वेन स्थितिकारणम् , मायावीव मायायाः । प्रसारितस्य जगतः पुनः स्वात्म­न्ये­वो­प­सं­हा­र­का­र­णम् , अवनिरिव चतुर्विधस्य भूतग्रामस्य । स एव च सर्वेषां न आत्मा — इत्ये­त­द्वे­दा­न्त­वा­क्य­स­म­न्व­य­प्र­ति­पा­द­नेन प्रतिपादितम् । प्रधा­ना­दि­का­र­ण­वा­दा­श्चा­श­ब्द­त्वेन निराकृताः । इदानीं स्वपक्षे स्मृति­न्या­य­वि­रो­ध­प­रि­हारः प्रधा­ना­दि­वा­दानां च न्याया­भा­सो­प­बृं­हि­तत्वं प्रतिवेदान्तं च सृष्ट्या­दि­प्र­क्रि­याया अवि­गी­त­त्व­मि­त्य­स्या­र्थ­जा­तस्य प्रतिपादनाय द्वितीयोऽध्याय आरभ्यते । तत्र प्रथमं ताव­त्स्मृ­ति­वि­रो­ध­मु­प­न्यस्य परिहरति —

स्मृत्य­न­व­का­श­दो­ष­प्र­सङ्ग इति चेन्ना­न्य­स्मृ­त्य­न­व­का­श­दो­ष­प्र­स­ङ्गात् ॥ १ ॥

यदुक्तं ब्रह्मैव सर्वज्ञं जगतः कारणम् इति, तदयुक्तम् । कुतः ? स्मृत्य­न­व­का­श­दो­ष­प्र­स­ङ्गात् — स्मृतिश्च तन्त्राख्या परमर्षिप्रणीता शिष्टपरिगृहीता अन्याश्च तदनुसारिण्यः स्मृतयः, ता एवं सत्यनवकाशाः प्रसज्येरन् । तासु ह्यचेतनं प्रधानं स्वतन्त्रं जगतः कारणमुपनिबध्यते । मन्वा­दि­स्मृ­त­य­स्ता­व­च्चो­द­ना­ल­क्ष­णे­ना­ग्नि­हो­त्रा­दिना धर्म­जा­ते­ना­पे­क्षि­त­मर्थं समर्पयन्त्यः सावकाशा भवन्ति — अस्य वर्ण­स्या­स्मि­न्का­लेऽ­नेन विधानेनोपनयनम् , ईदृशश्चाचारः, इत्थं वेदाध्ययनम् , इत्थं समावर्तनम् , इत्थं सह­ध­र्म­चा­रि­णी­सं­योग इति । तथा पुरुषार्थांश्च वर्णा­श्र­म­ध­र्मा­न्ना­ना­वि­धा­न्वि­द­धति । नैवं कपि­ला­दि­स्मृ­ती­ना­म­नु­ष्ठेये विषये अवकाशोऽस्ति । मोक्षसाधनमेव हि सम्य­ग्द­र्श­न­म­धि­कृत्य ताः प्रणीताः । यदि तत्राप्यनवकाशाः स्युः, आनर्थक्यमेवासां प्रसज्येत । तस्मा­त्त­द­वि­रो­धेन वेदान्ता व्याख्यातव्याः । कथं पुन­री­क्ष­त्या­दिभ्यो हेतुभ्यो ब्रह्मैव सर्वज्ञं जगतः कार­ण­मि­त्य­व­धा­रितः श्रुत्यर्थः स्मृत्य­न­व­का­श­दो­ष­प्र­स­ङ्गेन पुनराक्षिप्यते ? भवेदयमनाक्षेपः स्वत­न्त्र­प्र­ज्ञा­नाम्; पर­त­न्त्र­प्र­ज्ञास्तु प्रायेण जनाः स्वातन्त्र्येण श्रुत्य­र्थ­म­व­धा­र­यि­तु­म­श­क्नु­वन्तः प्रख्या­त­प्र­णे­तृ­कासु स्मृति­ष्व­व­ल­म्बे­रन्; तद्बलेन च श्रुत्यर्थं प्रतिपित्सेरन् । अस्मत्कृते च व्याख्याने न विश्वस्युः, बहु­मा­ना­त्स्मृ­तीनां प्रणेतृषु । कपिलप्रभृतीनां चार्षं ज्ञानमप्रतिहतं स्मर्यते । श्रुतिश्च भवति ‘ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत्’(श्वे. उ. ५ । २) इति । तस्मान्नैषां मतमयथार्थं शक्यं सम्भावयितुम् । तर्कावष्टम्भेन चैतेऽर्थं प्रतिष्ठापयन्ति । तस्मादपि स्मृतिबलेन वेदान्ता व्याख्येया इति पुनराक्षेपः ॥

तस्य समाधिः — ‘नान्य­स्मृ­त्य­न­व­का­श­दो­ष­प्र­स­ङ्गात्’ इति । यदि स्मृत्य­न­व­का­श­दो­ष­प्र­स­ङ्गे­ने­श्व­र­का­र­ण­वाद आक्षिप्येत, एवमप्यन्या ईश्व­र­का­र­ण­वा­दिन्यः स्मृतयोऽनवकाशाः प्रसज्येरन् । ता उदाहरिष्यामः — ‘यत्त­त्सू­क्ष्म­म­वि­ज्ञे­यम्’ इति परं ब्रह्म प्रकृत्य, ‘स ह्यन्तरात्मा भूतानां क्षेत्र­ज्ञ­श्चेति कथ्यते’ इति चोक्त्वा, ‘तस्मा­द­व्य­क्त­मु­त्पन्नं त्रिगुणं द्विजसत्तम’(म॰भा॰ १२-३३४-२९,३०,३१) इत्याह । तथान्यत्रापि ‘अव्यक्तं पुरुषे ब्रह्म­न्नि­र्गुणे सम्प्रलीयते’(म॰भा॰ १२-३३९-३१) इत्याह । ‘अतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणः । स सर्गकाले च करोति सर्वं संहारकाले च तदत्ति भूयः’(ब्र॰पु॰ १-१-१७४) इति पुराणे । भगवद्गीतासु च — ‘अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा’(भ. गी. ७ । ६) इति । परमात्मानमेव च प्रकृ­त्या­प­स्तम्बः पठति — ‘तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः’(आ. ध. सू. १ । ८ । २३ । २) इति । एवमनेकशः स्मृति­ष्व­पी­श्वरः कार­ण­त्वे­नो­पा­दा­न­त्वेन च प्रकाश्यते । स्मृतिबलेन प्रत्य­व­ति­ष्ठ­मा­नस्य स्मृति­ब­ले­नै­वो­त्तरं वक्ष्या­मी­त्य­तोऽ­य­म­न्य­स्मृ­त्य­न­व­का­श­दो­षो­प­न्यासः । दर्शितं तु श्रुती­ना­मी­श्व­र­का­र­ण­वादं प्रति तात्पर्यम् । विप्रतिपत्तौ च स्मृती­ना­म­व­श्य­क­र्त­व्येऽ­न्य­त­र­प­रि­ग्र­हेऽ­न्य­त­र­प­रि­त्यागे च श्रुत्य­नु­सा­रिण्यः स्मृतयः प्रमाणम् । अनपेक्ष्या इतराः । तदुक्तं प्रमाणलक्षणे — ‘विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्’(जै. सू. १ । ३ । ३) इति । न चाती­न्द्रि­या­न­र्थान् श्रुतिमन्तरेण कश्चिदुपलभत इति शक्यं सम्भावयितुम् , निमित्ताभावात् । शक्यं कपिलादीनां सिद्धा­ना­म­प्र­ति­ह­त­ज्ञा­न­त्वा­दिति चेत् , न । सिद्धेरपि सापेक्षत्वात् । धर्मा­नु­ष्ठा­ना­पेक्षा हि सिद्धिः, स च धर्म­श्चो­द­ना­ल­क्षणः । ततश्च पूर्व­सि­द्धा­या­श्चो­द­नाया अर्थो न पश्चि­म­सि­द्ध­पु­रु­ष­व­च­न­व­शे­ना­ति­श­ङ्कितुं शक्यते । सिद्ध­व्य­पा­श्र­य­क­ल्प­ना­या­मपि बहु­त्वा­त्सि­द्धानां प्रदर्शितेन प्रकारेण स्मृति­वि­प्र­ति­पत्तौ सत्यां न श्रुति­व्य­पा­श्र­या­द­न्य­न्नि­र्ण­य­का­र­ण­मस्ति । पर­त­न्त्र­प्र­ज्ञ­स्यापि नाक­स्मा­त्स्मृ­ति­वि­शे­ष­वि­षयः पक्षपातो युक्तः, कस्य­चि­त्क्व­चि­त्प­क्ष­पाते सति पुरु­ष­म­ति­वै­श्व­रू­प्येण तत्त्वा­व्य­व­स्था­न­प्र­स­ङ्गात् । तस्मात्तस्यापि स्मृति­वि­प्र­ति­प­त्त्यु­प­न्या­सेन श्रुत्य­नु­सा­रा­न­नु­सा­र­वि­ष­य­वि­वे­च­नेन च सन्मार्गे प्रज्ञा सङ्ग्रहणीया । या तु श्रुतिः कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती प्रदर्शिता न तया श्रुति­वि­रु­द्ध­मपि कापिलं मतं श्रद्धातुं शक्यम् , कपिलमिति श्रुति­सा­मा­न्य­मा­त्र­त्वात् , अन्यस्य च कपिलस्य सगरपुत्राणां प्रत­प्तु­र्वा­सु­दे­व­नाम्नः स्मरणात् , अन्या­र्थ­द­र्श­नस्य च प्राप्ति­र­हि­त­स्या­सा­ध­क­त्वात् । भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिः — ‘यद्वै किञ्च मनु­र­व­द­त्त­द्भे­ष­जम्’(तै. सं. २ । २ । १० । २) इति; मनुना च ‘सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । सम्प­श्य­न्ना­त्म­याजी वै स्वारा­ज्य­म­धि­ग­च्छति’(मनु. स्मृ. १२ । ९१) इति सर्वा­त्म­त्व­द­र्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यते । कपिलो हि न सर्वा­त्म­त्व­द­र्श­न­म­नु­म­न्यते, आत्म­भे­दा­भ्यु­प­ग­मात् । महाभारतेऽपि च — ‘बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु’(म॰भा॰ १२-३५०-१) इति विचार्य, ‘बहवः पुरुषा राज­न्सा­ङ्ख्य­यो­ग­वि­चा­रि­णाम्’ इति परपक्षमुपन्यस्य तद्व्युदासेन — ‘बहूनां पुरुषाणां हि यथैका योनिरुच्यते’,‘ तथा तं पुरुषं विश्व­मा­ख्या­स्यामि गुणाधिकम्’(म॰भा॰ १२-३५०-२६,२७) इत्युपक्रम्य ‘ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित् ॥’,‘विश्वमूर्धा विश्वभुजो विश्व­पा­दा­क्षि­ना­सिकः । एकश्चरति भूतेषु स्वैरचारी यथासुखम्’(म॰भा॰ १२-३५१-४,५) — इति सर्वात्मतैव निर्धारिता । श्रुतिश्च सर्वात्मतायां भवति — ‘यस्मिन्सर्वाणि भूता­न्या­त्मै­वा­भू­द्वि­जा­नतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः’(ई. उ. ७) इत्येवंविधा । अतश्च सिद्ध­मा­त्म­भे­द­क­ल्प­न­यापि कपिलस्य तन्त्रं वेदविरुद्धं वेदा­नु­सा­रि­म­नु­व­च­न­वि­रुद्धं च, न केवलं स्वत­न्त्र­प्र­कृ­ति­क­ल्प­न­यै­वेति । वेदस्य हि निरपेक्षं स्वार्थे प्रामाण्यम् , रवेरिव रूपविषये । पुरुषवचसां तु मूलान्तरापेक्षं वक्तृ­स्मृ­ति­व्य­व­हितं चेति विप्रकर्षः । तस्मा­द्वे­द­वि­रुद्धे विषये स्मृत्य­न­व­का­श­प्र­सङ्गो न दोषः ॥ १ ॥

कुतश्च स्मृत्य­न­व­का­श­प्र­सङ्गो न दोषः ? —

इतरेषां चानुपलब्धेः ॥ २ ॥

प्रधानादितराणि यानि प्रधा­न­प­रि­णा­म­त्वेन स्मृतौ कल्पितानि महदादीनि, न तानि वेदे लोके वोपलभ्यन्ते । भूतेन्द्रियाणि ताव­ल्लो­क­वे­द­प्र­सि­द्ध­त्वा­च्छ­क्यन्ते स्मर्तुम् । अलो­क­वे­द­प्र­सि­द्ध­त्वात्तु महदादीनां षष्ठ­स्ये­वे­न्द्रि­या­र्थस्य न स्मृतिरवकल्पते । यदपि क्वचित्तत्परमिव श्रवणमवभासते, तदप्यतत्परं व्याख्यातम् — ‘आनु­मा­नि­क­म­प्ये­के­षाम्’(ब्र. सू. १ । ४ । १) इत्यत्र । कार्य­स्मृ­ते­र­प्रा­मा­ण्या­त्का­र­ण­स्मृ­ते­र­प्य­प्रा­माण्यं युक्त­मि­त्य­भि­प्रायः । तस्मादपि न स्मृत्य­न­व­का­श­प्र­सङ्गो दोषः । तर्कावष्टम्भं तु ‘न विलक्षणत्वात्’(ब्र. सू. २ । १ । ४) इत्या­र­भ्यो­न्म­थि­ष्यति ॥ २ ॥

एतेन योगः प्रत्युक्तः ॥ ३ ॥

एतेन साङ्ख्य­स्मृ­ति­प्र­त्या­ख्या­नेन, योगस्मृतिरपि प्रत्याख्याता द्रष्ट­व्ये­त्य­ति­दि­शति । तत्रापि श्रुतिविरोधेन प्रधानं स्वतन्त्रमेव कारणम् , महदादीनि च कार्या­ण्य­लो­क­वे­द­प्र­सि­द्धानि कल्प्यन्ते । नन्वेवं सति समा­न­न्या­य­त्वा­त्पू­र्वे­णै­वै­त­द्ग­तम्; किमर्थं पुनरतिदिश्यते । अस्ति ह्यत्रा­भ्य­धि­का­शङ्का — सम्य­ग्द­र्श­ना­भ्यु­पायो हि योगो वेदे विहितः — ‘श्रोतव्यो मन्तव्यो निदि­ध्या­सि­तव्यः’(बृ. उ. २ । ४ । ५) इति; ‘त्रिरुन्नतं स्थाप्य समं शरीरम्’(श्वे. उ. २ । ८) इत्यादिना चास­ना­दि­क­ल्प­ना­पु­रः­सरं बहुप्रपञ्चं योगविधानं श्वेता­श्व­त­रो­प­नि­षदि दृश्यते । लिङ्गानि च वैदिकानि योगविषयाणि सहस्रश उपलभ्यन्ते — ‘तां योगमिति मन्यन्ते स्थिरा­मि­न्द्रि­य­धा­र­णाम्’(क. उ. २ । ३ । ११) इति, ‘विद्यामेतां योगविधिं च कृत्स्नम्’(क. उ. २ । ३ । १८) इति चैवमादीनि । योगशास्त्रेऽपि — ‘अथ तत्त्व­द­र्श­नो­पायो योगः’ इति सम्य­ग्द­र्श­ना­भ्यु­पा­य­त्वे­नैव योगोऽ­ङ्गी­क्रि­यते । अतः सम्प्र­ति­प­न्ना­र्थै­क­दे­श­त्वा­द­ष्ट­का­दि­स्मृ­ति­व­द्यो­ग­स्मृ­ति­र­प्य­न­प­व­द­नीया भविष्यतीति — इयमभ्यधिका शङ्कातिदेशेन निवर्त्यते, अर्थै­क­दे­श­स­म्प्र­ति­प­त्ता­व­प्य­र्थै­क­दे­श­वि­प्र­ति­पत्तेः पूर्वोक्ताया दर्शनात् । सती­ष्व­प्य­ध्या­त्म­वि­ष­यासु बह्वीषु स्मृतिषु साङ्ख्य­यो­ग­स्मृ­त्यो­रेव निराकरणे यत्नः कृतः । साङ्ख्ययोगौ हि पर­म­पु­रु­षा­र्थ­सा­ध­न­त्वेन लोके प्रख्यातौ, शिष्टैश्च परिगृहीतौ, लिङ्गेन च श्रौते­नो­प­बृं­हितौ — ‘तत्कारणं साङ्ख्य­यो­गा­भि­पन्नं ज्ञात्वा देवं मुच्यते सर्वपाशैः’(श्वे. उ. ६ । १३) इति । निराकरणं तु — न साङ्ख्यज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रे­य­स­म­धि­ग­म्यत इति । श्रुतिर्हि वैदि­का­दा­त्मै­क­त्व­वि­ज्ञा­ना­द­न्य­न्निः­श्रे­य­स­सा­धनं वारयति — ‘तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’(श्वे. उ. ३ । ८) इति । द्वैतिनो हि ते साङ्ख्या योगाश्च नात्मै­क­त्व­द­र्शिनः । यत्तु दर्शनमुक्तम् ‘तत्कारणं साङ्ख्य­यो­गा­भि­प­न्नम्’ इति, वैदिकमेव तत्र ज्ञानं ध्यानं च साङ्ख्य­यो­ग­श­ब्दा­भ्या­म­भि­ल­प्येते प्रत्या­स­त्ते­रि­त्य­व­ग­न्त­व्यम् । येन त्वंशेन न विरुध्येते, तेनेष्टमेव साङ्ख्य­यो­ग­स्मृत्योः सावकाशत्वम्; तद्यथा — ‘असङ्गो ह्ययं पुरुषः’(बृ. उ. ४ । ३ । १६) इत्ये­व­मा­दि­श्रु­ति­प्र­सि­द्ध­मेव पुरुषस्य विशुद्धत्वं निर्गु­ण­पु­रु­ष­नि­रू­प­णेन साङ्ख्यै­र­भ्यु­प­ग­म्यते । तथा यौगैरपि ‘अथ परि­व्रा­ड्वि­व­र्ण­वासा मुण्डोऽ­प­रि­ग्रहः’(जा. उ. ५) इत्येवमादि श्रुति­प्र­सि­द्ध­मेव निवृ­त्ति­नि­ष्ठत्वं प्रव्र­ज्या­द्यु­प­दे­शे­ना­नु­ग­म्यते । एतेन सर्वाणि तर्कस्मरणानि प्रतिवक्तव्यानि । तान्यपि तर्को­प­प­त्तिभ्यां तत्त्व­ज्ञा­ना­यो­प­कु­र्व­न्तीति चेत् , उपकुर्वन्तु नाम । तत्त्वज्ञानं तु वेदा­न्त­वा­क्येभ्य एव भवति — ‘नावेदविन्मनुते तं बृहन्तम्’(तै. ब्रा. ३ । १२ । ९ । ७) ‘तं त्वौपनिषदं पुरुषं पृच्छामि’(बृ. उ. ३ । ९ । २६) इत्ये­व­मा­दि­श्रु­तिभ्यः ॥ ३ ॥

न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४ ॥

ब्रह्मास्य जगतो निमित्तकारणं प्रकृ­ति­श्चे­त्यस्य पक्षस्याक्षेपः स्मृतिनिमित्तः परिहृतः; तर्कनिमित्त इदानीमाक्षेपः परिह्रियते । कुतः पुन­र­स्मि­न्न­व­धा­रिते आगमार्थे तर्क­नि­मि­त्त­स्या­क्षे­प­स्या­व­काशः ? ननु धर्म इव ब्रह्म­ण्य­प्य­न­पेक्ष आगमो भवितुमर्हति; — भवेदयमवष्टम्भो यदि प्रमा­णा­न्त­रा­न­व­गाह्य आग­म­मा­त्र­प्र­मे­योऽ­य­मर्थः स्यादनुष्ठेयरूप इव धर्मः । परिनिष्पन्नरूपं तु ब्रह्मावगम्यते । परिनिष्पन्ने च वस्तुनि प्रमा­णा­न्त­रा­णा­म­स्त्य­व­काशो यथा पृथिव्यादिषु । यथा च श्रुतीनां परस्परविरोधे सत्येकवशेनेतरा नीयन्ते, एवं प्रमा­णा­न्त­र­वि­रो­धेऽपि तद्वशेनैव श्रुतिर्नीयेत । दृष्टसाम्येन चादृष्टमर्थं समर्थयन्ती युक्तिरनुभवस्य सन्निकृष्यते, विप्रकृष्यते तु श्रुतिः ऐतिह्यमात्रेण स्वार्था­भि­धा­नात् । अनुभवावसानं च ब्रह्म­वि­ज्ञा­न­म­वि­द्याया निवर्तकं मोक्षसाधनं च दृष्टफलतयेष्यते । श्रुतिरपि — ‘श्रोतव्यो मन्तव्यः’ इति श्रवणव्यतिरेकेण मननं विदधती तर्क­म­प्य­त्रा­द­र्तव्यं दर्शयति । अत­स्त­र्क­नि­मित्तः पुनराक्षेपः क्रियते ‘न विल­क्ष­ण­त्वा­दस्य’ इति ॥

यदुक्तम् चेतनं ब्रह्म जगतः कारणं प्रकृतिः इति, तन्नोपपद्यते । कस्मात् ? विलक्षणत्वादस्य विकारस्य प्रकृत्याः — इदं हि ब्रह्म­का­र्य­त्वे­ना­भि­प्रे­य­माणं जग­द्ब्र­ह्म­वि­ल­क्ष­ण­म­चे­त­न­म­शुद्धं च दृश्यते । ब्रह्म च जगद्विलक्षणं चेतनं शुद्धं च श्रूयते । न च विलक्षणत्वे प्रकृ­ति­वि­का­र­भावो दृष्टः । न हि रुचकादयो विकारा मृत्प्रकृतिका भवन्ति, शरावादयो वा सुव­र्ण­प्र­कृ­तिकाः । मृदैव तु मृदन्विता विकाराः क्रियन्ते, सुवर्णेन च सुवर्णान्विताः । तथेदमपि जगदचेतनं सुख­दुः­ख­मो­हा­न्वितं सत् अचेतनस्यैव सुख­दुः­ख­मो­हा­त्म­कस्य कारणस्य कार्यं भवितुमर्हति, न विलक्षणस्य ब्रह्मणः । ब्रह्म­वि­ल­क्ष­णत्वं चास्य जग­तोऽ­शु­द्ध्य­चे­त­न­त्व­द­र्श­ना­द­व­ग­न्त­व्यम् । अशुद्धं हीदं जगत् , सुख­दुः­ख­मो­हा­त्म­क­तया प्रीति­प­रि­ता­प­वि­षा­दा­दि­हे­तु­त्वा­त्स्व­र्ग­न­र­का­द्यु­च्चा­व­च­प्र­प­ञ्च­त्वाच्च । अचेतनं चेदं जगत् , चेतनं प्रति कार्य­क­र­ण­भा­वे­नो­प­क­र­ण­भा­वो­प­ग­मात् । न हि साम्ये सत्यु­प­का­र्यो­प­का­र­क­भावो भवति । न हि प्रदीपौ पर­स्प­र­स्यो­प­कु­रुतः । ननु चेतनमपि कार्यकरणं स्वामि­भृ­त्य­न्या­येन भोक्तु­रु­प­क­रि­ष्यति । न, स्वामि­भृ­त्य­यो­र­प्य­चे­त­नां­श­स्यैव चेतनं प्रत्यु­प­का­र­क­त्वात् । यो ह्येकस्य चेतनस्य परिग्रहो बुद्ध्या­दि­र­चे­त­न­भागः स एवान्यस्य चेतनस्योपकरोति, न तु स्वयमेव चेत­न­श्चे­त­ना­न्त­र­स्यो­प­क­रो­त्य­प­क­रोति वा । निरतिशया ह्यक­र्ता­र­श्चे­तना इति साङ्ख्या मन्यन्ते । तस्मादचेतनं कार्यकरणम् । न च काष्ठ­लो­ष्टा­दीनां चेतनत्वे किञ्चि­त्प्र­मा­ण­मस्ति । प्रसिद्धश्चायं चेतनाचेतनविभागो लोके । तस्मा­द्ब्र­ह्म­वि­ल­क्ष­ण­त्वा­न्नेदं जग­त्त­त्प्र­कृ­ति­कम् । योऽपि कश्चिदाचक्षीत — श्रुत्वा जग­त­श्चे­त­न­प्र­कृ­ति­क­ताम् , तद्बलेनैव समस्तं जग­च्चे­त­न­म­व­ग­म­यि­ष्यामि, प्रकृतिरूपस्य विका­रेऽ­न्व­य­द­र्श­नात्; अविभावनं तु चैतन्यस्य परि­णा­म­वि­शे­षा­द्भ­वि­ष्यति । यथा स्पष्ट­चै­त­न्या­ना­म­प्या­त्मनां स्वाप­मू­र्छा­द्य­व­स्थासु चैतन्यं न विभाव्यते, एवं काष्ठ­लो­ष्टा­दी­ना­मपि चैतन्यं न विभावयिष्यते । एतस्मादेव च विभा­वि­त­त्वा­वि­भा­वि­त­त्व­कृ­ता­द्वि­शे­षा­द्रू­पा­दि­भा­वा­भा­वाभ्यां च कार्य­क­र­णा­ना­मा­त्मनां च चेत­न­त्वा­वि­शे­षेऽपि गुणप्रधानभावो न विरोत्स्यते । यथा च पार्थि­व­त्वा­वि­शे­षेऽपि मांस­सू­पौ­द­ना­दीनां प्रत्या­त्म­व­र्तिनो विशे­षा­त्प­र­स्प­रो­प­का­रित्वं भवति, एवमिहापि भविष्यति । प्रवि­भा­ग­प्र­सि­द्धि­र­प्यत एव न विरोत्स्यत इति — तेनापि कथ­ञ्चि­च्चे­त­ना­चे­त­न­त्व­ल­क्षणं विलक्षणत्वं परिह्रियेत; शुद्ध्य­शु­द्धि­त्व­ल­क्षणं तु विलक्षणत्वं नैव परिह्रियते । न चेतरदपि विलक्षणत्वं परिहर्तुं शक्यत इत्याह — तथात्वं च शब्दादिति । अनवगम्यमानमेव हीदं लोके समस्तस्य वस्तु­न­श्चे­त­नत्वं चेत­न­प्र­कृ­ति­क­त्व­श्र­व­णा­च्छ­ब्द­श­र­ण­तया केव­ल­यो­त्प्रे­क्ष्यते । तच्च शब्देनैव विरुध्यते, यतः शब्दादपि तथात्वमवगम्यते । तथात्वमिति प्रकृ­ति­वि­ल­क्ष­णत्वं कथयति । शब्द एव ‘विज्ञानं चाविज्ञानं च’(तै. उ. २ । ६ । १) इति कस्य­चि­द्वि­भा­ग­स्या­चे­त­नतां श्राव­यं­श्चे­त­ना­द्ब्र­ह्मणो विलक्षणमचेतनं जगच्छ्रावयति ॥ ४ ॥

ननु चेतनत्वमपि क्वचि­द­चे­त­न­त्वा­भि­म­तानां भूतेन्द्रियाणां श्रूयते — यथा ‘मृदब्रवीत्’ ‘आपोऽब्रुवन्’(श. ब्रा. ६ । १ । ३ । २ । ४) इति ‘तत्तेज ऐक्षत’(छा. उ. ६ । २ । ३) ,‘ता आप ऐक्षन्त’(छा. उ. ६ । २ । ४) इति चैवमाद्या भूतविषया चेतनत्वश्रुतिः । इन्द्रियविषयापि — ‘ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुः’(बृ. उ. ६ । १ । ७) इति, ‘ते ह वाचमूचुस्त्वं न उद्गायेति’(बृ. उ. १ । ३ । २) इत्ये­व­मा­द्ये­न्द्रि­य­वि­ष­येति । अत उत्तरं पठति —

अभि­मा­नि­व्य­प­दे­शस्तु विशे­षा­नु­ग­ति­भ्याम् ॥ ५ ॥

तुशब्द आशङ्कामपनुदति । न खलु ‘मृदब्रवीत्’ इत्येवंजातीयकया श्रुत्या भूतेन्द्रियाणां चेत­न­त्व­मा­श­ङ्क­नी­यम् , यतोऽ­भि­मा­नि­व्य­प­देश एषः; मृदा­द्य­भि­मा­निन्यो वागा­द्य­भि­मा­नि­न्यश्च चेतना देवता वदनसंवदनादिषु चेतनोचितेषु व्यवहारेषु व्यपदिश्यन्ते, न भूते­न्द्रि­य­मा­त्रम् । कस्मात् ? विशे­षा­नु­ग­ति­भ्याम् — विशेषो हि भोक्तॄणां भूतेन्द्रियाणां च चेत­ना­चे­त­न­प्र­वि­भा­ग­ल­क्षणः प्रागभिहितः । सर्वचेतनतायां चासौ नोपपद्येत । अपि च कौषीतकिनः प्राणसंवादे कर­ण­मा­त्रा­श­ङ्का­वि­नि­वृ­त्त­येऽ­धि­ष्ठा­तृ­चे­त­न­प­रि­ग्र­हाय देवताशब्देन विशिंषन्ति — ‘एता ह वै देवता अहंश्रेयसे विवदमानाः’ इति, ‘ता वा एताः सर्वा देवताः प्राणे निःश्रेयसं विदित्वा’(कौ. उ. २ । १२) इति च । अनुगताश्च सर्व­त्रा­भि­मा­नि­न्य­श्चे­तना देवता मन्त्रा­र्थ­वा­दे­ति­हा­स­पु­रा­णा­दि­भ्योऽ­व­ग­म्यन्ते — ‘अग्नि­र्वा­ग्भूत्वा मुखं प्राविशत्’(ऐ. आ. २ । ४ । २ । ४) इत्येवमादिका च श्रुतिः कर­णे­ष्व­नु­ग्रा­हिकां देवतामनुगतां दर्शयति । प्राण­सं­वा­द­वा­क्य­शेषे च — ‘ते ह प्राणाः प्रजापतिं पितरमेत्योचुः’(छा. उ. ५ । १ । ७) इति श्रेष्ठ­त्व­नि­र्धा­र­णाय प्रजापतिगमनम् , तद्व­च­ना­च्चै­कै­को­त्क्र­म­णे­ना­न्व­य­व्य­ति­रे­काभ्यां प्राण­श्रै­ष्ठ्य­प्र­ति­पत्तिः, तस्मै बलिहरणम् इति चैवं­जा­ती­य­कोऽ­स्म­दा­दि­ष्विव व्यव­हा­रोऽ­नु­ग­म्य­मा­नोऽ­भि­मा­नि­व्य­प­देशं द्रढयति । ‘तत्तेज ऐक्षत’ इत्यपि परस्या एव देवताया अधिष्ठात्र्याः स्ववि­का­रे­ष्व­नु­ग­ताया इयमीक्षा व्यपदिश्यत इति द्रष्टव्यम् । तस्मा­द्वि­ल­क्ष­ण­मे­वेदं ब्रह्मणो जगत्; विलक्षणत्वाच्च न ब्रह्म­प्र­कृ­ति­कम् ॥ ५ ॥

— इत्याक्षिप्ते, प्रतिविधत्ते —

दृश्यते तु ॥ ६ ॥

तुशब्दः पक्षं व्यावर्तयति । यदुक्तम् विल­क्ष­ण­त्वा­न्नेदं जग­द्ब्र­ह्म­प्र­कृ­ति­कम् इति, नायमेकान्तः; दृश्यते हि लोके — चेतनत्वेन प्रसिद्धेभ्यः पुरुषादिभ्यो विलक्षणानां केश­न­खा­दी­ना­मु­त्पत्तिः, अचेतनत्वेन च प्रसिद्धेभ्यो गोमयादिभ्यो वृश्चिकादीनाम् । नन्वचेतनान्येव पुरु­षा­दि­श­री­रा­ण्य­चे­त­नानां केशनखादीनां कारणानि, अचेतनान्येव च वृश्चि­का­दि­श­री­रा­ण्य­चे­त­नानां गोमयादीनां कार्याणीति । उच्यते — एवमपि किञ्चिदचेतनं चेत­न­स्या­य­त­न­भा­व­मु­प­ग­च्छति किञ्चि­न्ने­त्य­स्त्येव वैलक्षण्यम् । महांश्चायं पारिणामिकः स्वभा­व­वि­प्र­कर्षः पुरुषादीनां केशनखादीनां च स्वरूपादिभेदात् , तथा गोमयादीनां वृश्चिकादीनां च । अत्यन्तसारूप्ये च प्रकृतिविकारभाव एव प्रलीयेत । अथोच्येत — अस्ति कश्चि­त्पा­र्थि­व­त्वा­दि­स्व­भावः पुरुषादीनां केश­न­खा­दि­ष्व­नु­व­र्त­मानो गोमयादीनां च वृश्चि­का­दि­ष्विति । ब्रह्मणोऽपि तर्हि सत्तालक्षणः स्वभाव आका­शा­दि­ष्व­नु­व­र्त­मानो दृश्यते । विलक्षणत्वेन च कारणेन ब्रह्म­प्र­कृ­ति­कत्वं जगतो दूषयता किमशेषस्य ब्रह्म­स्व­भा­व­स्या­न­नु­व­र्तनं विल­क्ष­ण­त्व­म­भि­प्रे­यते, उत यस्य कस्यचित् , अथ चैतन्यस्येति वक्तव्यम् । प्रथमे विकल्पे सम­स्त­प्र­कृ­ति­वि­का­र­भा­वो­च्छे­द­प्र­सङ्गः । न ह्यसत्यतिशये प्रकृतिविकार इति भवति । द्वितीये चासिद्धत्वम् । दृश्यते हि सत्तालक्षणो ब्रह्मस्वभाव आका­शा­दि­ष्व­नु­व­र्त­मान इत्युक्तम् । तृतीये तु दृष्टान्ताभावः । किं हि यच्चै­त­न्ये­ना­न­न्वितं तद­ब्र­ह्म­प्र­कृ­तिकं दृष्टमिति ब्रह्म­का­र­ण­वा­दिनं प्रत्यु­दा­ह्रि­येत, समस्तस्य वस्तुजातस्य ब्रह्म­प्र­कृ­ति­क­त्वा­भ्यु­प­ग­मात् । आगमविरोधस्तु प्रसिद्ध एव, चेतनं ब्रह्म जगतः कारणं प्रकृ­ति­श्चे­त्या­ग­म­ता­त्प­र्यस्य प्रसाधितत्वात् । यत्तूक्तं परि­नि­ष्प­न्न­त्वा­द्ब्र­ह्मणि प्रमाणान्तराणि सम्भवेयुरिति, तदपि मनोरथमात्रम् । रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षस्य गोचरः । लिङ्गा­द्य­भा­वाच्च नानुमानादीनाम् । आग­म­मा­त्र­स­म­धि­गम्य एव त्वयमर्थो धर्मवत् । तथा च श्रुतिः — ‘नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ’(क. उ. १ । २ । ९) इति । ‘को अद्धा वेद क इह प्रवोचत्’ ‘इयं विसृष्टिर्यत आबभूव’(ऋ. सं. १० । १२९ । ७) इति चैते ऋचौ सिद्धा­ना­म­पी­श्व­राणां दुर्बोधतां जगत्कारणस्य दर्शयतः । स्मृतिरपि भवति — ‘अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्’ इति, ‘अव्य­क्तोऽ­य­म­चि­न्त्योऽ­य­म­वि­का­र्योऽ­य­मु­च्यते’(भ. गी. २ । २५) इति च, ‘न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः’(भ. गी. १० । २) इति चैवंजातीयका । यदपि श्रवणव्यतिरेकेण मननं विदधच्छब्द एव तर्क­म­प्या­द­र्तव्यं दर्श­य­ती­त्यु­क्तम् , नानेन मिषेण शुष्क­त­र्क­स्या­त्रा­त्म­लाभः सम्भवति । श्रुत्यनुगृहीत एव ह्यत्र तर्कोऽ­नु­भ­वा­ङ्ग­त्वे­ना­श्री­यते — स्वप्ना­न्त­बु­द्धा­न्त­यो­रु­भ­यो­रि­त­रे­त­र­व्य­भि­चा­रा­दा­त्म­नोऽ­न­न्वा­ग­त­त्वम् , सम्प्रसादे च प्रप­ञ्च­प­रि­त्या­गेन सदात्मना सम्प­त्ते­र्नि­ष्प्र­प­ञ्च­स­दा­त्म­त्वम् , प्रपञ्चस्य ब्रह्म­प्र­भ­व­त्वा­त्का­र्य­का­र­णा­न­न्य­त्व­न्या­येन ब्रह्मा­व्य­ति­रेकः — इत्येवंजातीयकः; ‘तर्का­प्र­ति­ष्ठा­नादि’(ब्र. सू. २ । १ । ११) ति च केवलस्य तर्कस्य विप्रलम्भकत्वं दर्शयिष्यति । योऽपि चेत­न­का­र­ण­श्र­व­ण­ब­ले­नैव समस्तस्य जग­त­श्चे­त­न­ता­मु­त्प्रे­क्षेत, तस्यापि ‘विज्ञानं चाविज्ञानं च’(तै. उ. २ । ६ । १) इति चेत­ना­चे­त­न­वि­भा­ग­श्र­वणं विभा­व­ना­वि­भा­व­नाभ्यां चैतन्यस्य शक्यत एव योजयितुम् । परस्यैव त्विदमपि विभागश्रवणं न युज्यते । कथम् ? परमकारणस्य ह्यत्र समस्तजगदात्मना समवस्थानं श्राव्यते — ‘विज्ञानं चाविज्ञानं चाभवत्’ इति । तत्र यथा चेत­न­स्या­चे­त­न­भावो नोपपद्यते विलक्षणत्वात् , एवमचेतनस्यापि चेतनभावो नोपपद्यते । प्रत्यु­क्त­त्वात्तु विलक्षणत्वस्य यथा श्रुत्येव चेतनं कारणं ग्रहीतव्यं भवति ॥ ६ ॥

असदिति चेन्न प्रति­षे­ध­मा­त्र­त्वात् ॥ ७ ॥

यदि चेतनं शुद्धं शब्दादिहीनं च ब्रह्म तद्वि­प­री­त­स्या­चे­त­न­स्या­शु­द्धस्य शब्दादिमतश्च कार्यस्य कारणमिष्येत, असत्तर्हि कार्यं प्रागु­त्प­त्ते­रिति प्रसज्येत । अनिष्टं चैत­त्स­त्का­र्य­वा­दि­न­स्त­वेति चेत् — नैष दोषः, प्रति­षे­ध­मा­त्र­त्वात् । प्रतिषेधमात्रं हीदम् । नास्य प्रतिषेधस्य प्रतिषेध्यमस्ति । न ह्ययं प्रतिषेधः प्रागुत्पत्तेः सत्त्वं कार्यस्य प्रतिषेद्धुं शक्नोति । कथम् ? यथैव हीदानीमपीदं कार्यं कारणात्मना सत् , एवं प्रागु­त्प­त्ते­र­पीति गम्यते । न हीदानीमपीदं कार्यं कार­णा­त्मा­न­म­न्त­रेण स्वत­न्त्र­मे­वास्ति — ‘सर्वं तं परा­दा­द्योऽ­न्य­त्रा­त्मनः सर्वं वेद’(बृ. उ. २ । ४ । ६) इत्यादिश्रवणात् । कारणात्मना तु सत्त्वं कार्यस्य प्रागु­त्प­त्ते­र­वि­शि­ष्टम् । ननु शब्दादिहीनं ब्रह्म जगतः कारणम् । बाढम् — न तु शब्दा­दि­म­त्कार्यं कारणात्मना हीनं प्रागु­त्प­त्ते­रि­दानीं वा अस्ति । तेन न शक्यते वक्तुं प्रागु­त्प­त्ते­र­स­त्का­र्य­मिति । विस्तरेण चैत­त्का­र्य­का­र­णा­न­न्य­त्व­वादे वक्ष्यामः ॥ ७ ॥

अपीतौ तद्व­त्प्र­स­ङ्गा­द­स­म­ञ्ज­सम् ॥ ८ ॥

अत्राह — यदि स्थौल्य­सा­व­य­व­त्त्वा­चे­त­न­त्व­प­रि­च्छि­न्न­त्वा­शु­द्ध्या­दि­ध­र्मकं कार्यं ब्रह्म­का­र­ण­क­म­भ्यु­प­ग­म्येत, तदापीतौ प्रलये प्रति­सं­सृ­ज्य­मानं कार्यं कार­णा­वि­भा­ग­मा­प­द्य­मानं कारणमात्मीयेन धर्मेण दूषयेदिति — अपीतौ कारणस्यापि ब्रह्मणः कार्य­स्ये­वा­शु­द्ध्या­दि­रू­प­प्र­स­ङ्गात् सर्वज्ञं ब्रह्म जग­त्का­र­ण­मि­त्य­स­म­ञ्ज­स­मि­द­मौ­प­नि­षदं दर्शनम् । अपि च समस्तस्य विभा­ग­स्या­वि­भा­ग­प्राप्तेः पुनरुत्पत्तौ निय­म­का­र­णा­भा­वा­द्भो­क्तृ­भो­ग्या­दि­वि­भा­गे­नो­त्प­त्तिर्न प्राप्नो­ती­त्य­स­म­ञ्ज­सम् । अपि च भोक्तॄणां परेण ब्रह्मणा अविभागं गतानां कर्मा­दि­नि­मि­त्त­प्र­ल­येऽपि पुन­रु­त्प­त्ता­व­भ्यु­प­ग­म्य­मा­नायां मुक्तानामपि पुन­रु­त्प­त्ति­प्र­स­ङ्गा­द­स­म­ञ्ज­सम् । अथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्म­णा­व­ति­ष्ठेत, एवमप्यपीतिश्च न सम्भवति कार­णा­व्य­ति­रिक्तं च कार्यं न सम्भ­व­ती­त्य­स­म­ञ्ज­स­मे­वेति ॥ ८ ॥

अत्रोच्यते —

न तु दृष्टान्तभावात् ॥ ९ ॥

नैवास्मदीये दर्शने किञ्चि­द­सा­म­ञ्ज­स्य­मस्ति । यत्तावदभिहितम् — कार­ण­म­पि­ग­च्छ­त्कार्यं कारणमात्मीयेन धर्मेण दूषयेदिति, तद्दूषणम् । कस्मात् ? दृष्टान्तभावात् — सन्ति हि दृष्टान्ताः, यथा कार­ण­म­पि­ग­च्छ­त्कार्यं कारणमात्मीयेन धर्मेण न दूषयति । तद्यथा — शरावादयो मृत्प्रकृतिका विकारा विभा­गा­व­स्था­या­मु­च्चा­व­च­म­ध्य­म­प्र­भेदाः सन्तः पुनः प्रकृ­ति­म­पि­ग­च्छन्तो न तामात्मीयेन धर्मेण संसृजन्ति । रुचकादयश्च सुवर्णविकारा अपीतौ न सुवर्णमात्मीयेन धर्मेण संसृजन्ति । पृथि­वी­वि­का­र­श्च­तु­र्विधो भूतग्रामो न पृथि­वी­म­पी­ता­वा­त्मी­येन धर्मेण संसृजति । त्वत्पक्षस्य तु न कश्चि­द्दृ­ष्टा­न्तोऽस्ति । अपीतिरेव हि न सम्भवेत् , यदि कारणे कार्यं स्वध­र्मे­णै­वा­व­ति­ष्ठेत । अनन्यत्वेऽपि कार्यकारणयोः, कार्यस्य कारणात्मत्वम् , न तु कारणस्य कार्यात्मत्वम् — ‘आर­म्भ­ण­श­ब्दा­दिभ्यः’(ब्र. सू. २ । १ । १४) इति वक्ष्यामः । अत्यल्पं चेदमुच्यते — कार्य­म­पी­ता­वा­त्मी­येन धर्मेण कारणं संसृजेदिति । स्थितावपि हि समानोऽयं प्रसङ्गः, कार्य­का­र­ण­यो­र­न­न्य­त्वा­भ्यु­प­ग­मात् । ‘इदꣳ सर्वं यदयमात्मा’(बृ. उ. २ । ४ । ६) ‘आत्मैवेदं सर्वम्’(छा. उ. ७ । २५ । २) ‘ब्रह्मै­वे­द­म­मृतं पुरस्तात्’(मु. उ. २ । २ । १२) ‘सर्वं खल्विदं ब्रह्म’(छा. उ. ३ । १४ । १) इत्ये­व­मा­द्या­भिर्हि श्रुति­भि­र­वि­शे­षेण त्रिष्वपि कालेषु कार्यस्य कारणादनन्यत्वं श्राव्यते । तत्र यः परिहारः कार्यस्य तद्धर्माणां चावि­द्या­ध्या­रो­पि­त­त्वान्न तैः कारणं संसृज्यत इति, अपीतावपि स समानः । अस्ति चायमपरो दृष्टान्तः — यथा स्वयं प्रसारितया मायया मायावी त्रिष्वपि कालेषु न संस्पृश्यते, अवस्तुत्वात् , एवं परमात्मापि संसारमायया न संस्पृश्यत इति । यथा च स्वप्नदृगेकः स्वप्न­द­र्श­न­मा­यया न संस्पृश्यते, प्रबो­ध­स­म्प्र­सा­द­यो­र­न­न्वा­ग­त­त्वात् , एव­म­व­स्था­त्र­य­सा­क्ष्ये­कोऽ­व्य­भि­चा­र्य­व­स्था­त्र­येण व्यभिचारिणा न संस्पृश्यते । मायामात्रं ह्येतत् , यत्प­र­मा­त्म­नोऽ­व­स्था­त्र­या­त्म­ना­व­भा­स­नम् , रज्ज्वा इव सर्पादिभावेनेति । अत्रोक्तं वेदा­न्ता­र्थ­स­म्प्र­दा­य­वि­द्भि­रा­चार्यैः — ‘अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अज­म­नि­द्र­म­स्व­प्न­म­द्वैतं बुध्यते तदा’(मा. का. १ । १६) इति । तत्र यदुक्तमपीतौ कारणस्यापि कार्यस्येव स्थौल्या­दि­दो­ष­प्र­सङ्ग इति, एतदयुक्तम् । यत्पु­न­रे­त­दु­क्तम् — समस्तस्य विभा­ग­स्या­वि­भा­ग­प्राप्तेः पुन­र्वि­भा­गे­नो­त्पत्तौ नियमकारणं नोपपद्यत इति, अयमप्यदोषः, दृष्टा­न्त­भा­वा­देव — यथा हि सुषु­प्ति­स­मा­ध्या­दा­वपि सत्यां स्वाभा­वि­क्या­म­वि­भा­ग­प्राप्तौ मिथ्या­ज्ञा­न­स्या­न­पो­दि­त­त्वा­त्पू­र्व­व­त्पुनः प्रबोधे विभागो भवति, एवमिहापि भविष्यति । श्रुतिश्चात्र भवति — ‘इमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामह इति,’(छा. उ. ६ । ९ । २) ‘त इह व्याघ्रो वा सिꣳहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दꣳशो वा मशको वा यद्यद्भवन्ति तदा भवन्ति’(छा. उ. ६ । ९ । ३) इति । यथा ह्यविभागेऽपि परमात्मनि मिथ्या­ज्ञा­न­प्र­ति­बद्धो विभागव्यवहारः स्वप्नवदव्याहतः स्थितौ दृश्यते, एवमपीतावपि मिथ्या­ज्ञा­न­प्र­ति­ब­द्धैव विभा­ग­श­क्ति­र­नु­मा­स्यते । एतेन मुक्तानां पुन­रु­त्प­त्ति­प्र­सङ्गः प्रत्युक्तः, सम्यग्ज्ञानेन मिथ्या­ज्ञा­न­स्या­पो­दि­त­त्वात् । यः पुनरयमन्तेऽपरो विकल्प उत्प्रेक्षितः — अथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्म­णा­व­ति­ष्ठे­तेति, सोऽप्य­न­भ्यु­प­ग­मा­देव प्रतिषिद्धः । तस्मा­त्स­म­ञ्ज­स­मि­द­मौ­प­नि­षदं दर्शनम् ॥ ९ ॥

स्वपक्षदोषाच्च ॥ १० ॥

१०

स्वपक्षे चैते प्रतिवादिनः साधारणा दोषाः प्रादुःष्युः । कथमित्युच्यते — यत्तावदभिहितम् , विल­क्ष­ण­त्वा­न्नेदं जग­द्ब्र­ह्म­प्र­कृ­ति­क­मिति प्रधा­न­प्र­कृ­ति­क­ता­या­मपि समानमेतत् , शब्दा­दि­ही­ना­त्प्र­धा­ना­च्छ­ब्दा­दि­मतो जगत उत्प­त्त्य­भ्यु­प­ग­मात् । अत एव च विल­क्ष­ण­का­र्यो­त्प­त्त्य­भ्यु­प­ग­मात् समानः प्रागु­त्प­त्ते­र­स­त्का­र्य­वा­द­प्र­सङ्गः । तथापीतौ कार्यस्य कार­णा­वि­भा­गा­भ्यु­प­ग­मा­त्त­द्व­त्प्र­स­ङ्गोऽपि समानः । तथा मृदि­त­स­र्व­वि­शे­षेषु विका­रे­ष्व­पी­ता­व­वि­भा­गा­त्मतां गतेषु , इदमस्य पुरु­ष­स्यो­पा­दा­न­मि­द­म­स्येति प्राक्प्र­ल­या­त्प्र­ति­पु­रुषं ये नियता भेदाः, न ते तथैव पुनरुत्पत्तौ नियन्तुं शक्यन्ते, कारणाभावात् । विनैव च कारणेन निय­मेऽ­भ्यु­प­ग­म्य­माने कार­णा­भा­व­सा­म्या­न्मु­क्ता­ना­मपि पुन­र्ब­न्ध­प्र­सङ्गः । अथ केचिद्भेदा अपी­ता­व­वि­भा­ग­मा­प­द्यन्ते केचिन्नेति चेत् — ये नापद्यन्ते, तेषां प्रधानकार्यत्वं न प्राप्नोति; इत्येवमेते दोषाः साधा­र­ण­त्वा­न्ना­न्य­त­र­स्मि­न्पक्षे चोदयितव्या भवन्तीति अदोषतामेवैषां द्रढयति — अव­श्या­श्र­यि­त­व्य­त्वात् ॥ १० ॥

तर्का­प्र­ति­ष्ठा­ना­द­प्य­न्य­था­नु­मे­य­मिति चेदे­व­म­प्य­वि­मो­क्ष­प्र­सङ्गः ॥ ११ ॥

११

इतश्च नागमगम्येऽर्थे केवलेन तर्केण प्रत्य­व­स्था­त­व्यम्; यस्मान्निरागमाः पुरु­षो­त्प्रे­क्षा­मा­त्र­नि­ब­न्ध­ना­स्तर्का अप्रतिष्ठिता भवन्ति, उत्प्रेक्षाया निरङ्कुशत्वात् । तथा हि — कैश्चि­द­भि­यु­क्तै­र्य­त्ने­नो­त्प्रे­क्षि­ता­स्तर्का अभि­यु­क्त­त­रै­र­न्यै­रा­भा­स्य­माना दृश्यन्ते । तैर­प्यु­त्प्रे­क्षिताः सन्त­स्त­तोऽ­न्यै­रा­भा­स्यन्त इति न प्रतिष्ठितत्वं तर्काणां शक्यमाश्रयितुम् , पुरु­ष­म­ति­वै­रू­प्यात् । अथ कस्य­चि­त्प्र­सि­द्ध­मा­हा­त्म्यस्य कपिलस्य अन्यस्य वा सम्मतस्तर्कः प्रतिष्ठित इत्याश्रीयेत — एव­म­प्य­प्र­ति­ष्ठि­त­त्व­मेव । प्रसि­द्ध­मा­हा­त्म्या­भि­म­ता­ना­मपि तीर्थकराणां कपि­ल­क­ण­भु­क्प्र­भृ­तीनां पर­स्प­र­वि­प्र­ति­प­त्ति­द­र्श­नात् । अथोच्येत — अन्यथा वयमनुमास्यामहे, यथा नाप्रतिष्ठादोषो भविष्यति । न हि प्रति­ष्ठि­त­स्तर्क एव नास्तीति शक्यते वक्तुम् । एतदपि हि तर्का­णा­म­प्र­ति­ष्ठि­तत्वं तर्केणैव प्रतिष्ठाप्यते, केषा­ञ्चि­त्त­र्का­णा­म­प्र­ति­ष्ठि­त­त्व­द­र्श­ने­ना­न्ये­षा­मपि तज्जातीयानां तर्का­णा­म­प्र­ति­ष्ठि­त­त्व­क­ल्प­नात् । सर्व­त­र्का­प्र­ति­ष्ठायां च लोक­व्य­व­हा­रो­च्छे­द­प्र­सङ्गः । अती­त­व­र्त­मा­ना­ध्व­सा­म्येन ह्यना­ग­तेऽ­प्य­ध्वनि सुख­दुः­ख­प्रा­प्ति­प­रि­हा­राय प्रवर्तमानो लोको दृश्यते । श्रुत्य­र्थ­वि­प्र­ति­पत्तौ चार्था­भा­स­नि­रा­क­र­णेन सम्य­ग­र्थ­नि­र्धा­रणं तर्केणैव वाक्य­वृ­त्ति­नि­रू­प­ण­रू­पेण क्रियते । मनुरपि चैवं मन्यते — ‘प्रत्य­क्ष­म­नु­मानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं धर्म­शु­द्धि­म­भी­प्सता’ इति ‘आर्षं धर्मोपदेशं च वेद­शा­स्त्रा­वि­रो­धिना । यस्त­र्के­णा­नु­स­न्धत्ते स धर्मं वेद नेतरः’(मनु. स्मृ. १२ । १०५,१०६) इति च ब्रुवन् । अयमेव च तर्कस्यालङ्कारः — यद­प्र­ति­ष्ठि­तत्वं नाम । एवं हि साव­द्य­त­र्क­प­रि­त्या­गेन निरवद्यस्तर्कः प्रतिपत्तव्यो भवति । न हि पूर्वजो मूढ आसी­दि­त्या­त्म­नापि मूढेन भवितव्यमिति किञ्चिदस्ति प्रमाणम् । तस्मान्न तर्का­प्र­ति­ष्ठानं दोष इति चेत् — एव­म­प्य­वि­मो­क्ष­प्र­सङ्गः । यद्यपि क्वचिद्विषये तर्कस्य प्रति­ष्ठि­त­त्व­मु­प­ल­क्ष्यते, तथापि प्रकृते तावद्विषये प्रसज्यत एवा­प्र­ति­ष्ठि­त­त्व­दो­षा­द­नि­र्मो­क्ष­स्त­र्कस्य । न हीदमतिगम्भीरं भावयाथात्म्यं मुक्ति­नि­ब­न्ध­न­मा­ग­म­म­न्त­रे­णो­त्प्रे­क्षि­तु­मपि शक्यम् । रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षस्य गोचरः, लिङ्गा­द्य­भा­वाच्च नानु­मा­ना­दी­ना­मिति चावोचाम । अपि च सम्य­ग्ज्ञा­ना­न्मोक्ष इति सर्वेषां मोक्ष­वा­दि­ना­म­भ्यु­प­गमः । तच्च सम्य­ग्ज्ञा­न­मे­क­रू­पम् , वस्तु­त­न्त्र­त्वात् । एकरूपेण ह्यवस्थितो योऽर्थः स परमार्थः । लोके तद्विषयं ज्ञानं सम्य­ग्ज्ञा­न­मि­त्यु­च्यते — यथाग्निरुष्ण इति । तत्रैवं सति सम्यग्ज्ञाने पुरुषाणां विप्र­ति­प­त्ति­र­नु­प­पन्ना । तर्कज्ञानानां त्वन्यो­न्य­वि­रो­धा­त्प्र­सिद्धा विप्रतिपत्तिः । यद्धि केन­चि­त्ता­र्कि­के­णे­द­मेव सम्यग्ज्ञानमिति प्रतिष्ठापितम् , तदपरेण व्युत्थाप्यते । तेनापि प्रतिष्ठापितं ततोऽपरेण व्युत्थाप्यत इति च प्रसिद्धं लोके । कथ­मे­क­रू­पा­न­व­स्थि­त­वि­षयं तर्कप्रभवं सम्यग्ज्ञानं भवेत् । न च प्रधानवादी तर्कविदामुत्तम इति सर्वै­स्ता­र्किकैः परिगृहीतः, येन तदीयं मतं सम्यग्ज्ञानमिति प्रतिपद्येमहि । न च शक्य­न्तेऽ­ती­ता­ना­ग­त­व­र्त­मा­ना­स्ता­र्किका एकस्मिन्देशे काले च समाहर्तुम् , येन तन्म­ति­रे­क­रू­पै­का­र्थ­वि­षया सम्यङ्मतिरिति स्यात् । वेदस्य तु नित्यत्वे विज्ञा­नो­त्प­त्ति­हे­तुत्वे च सति व्यव­स्थि­ता­र्थ­वि­ष­य­त्वो­प­पत्तेः, तज्जनितस्य ज्ञानस्य सम्य­क्त्व­म­ती­ता­ना­ग­त­व­र्त­मानैः सर्वैरपि तार्कि­कै­र­प­ह्नो­तु­म­श­क्यम् । अतः सिद्ध­म­स्यै­वौ­प­नि­ष­दस्य ज्ञानस्य सम्य­ग्ज्ञा­न­त्वम् । अतोऽन्यत्र सम्य­ग्ज्ञा­न­त्वा­नु­प­पत्तेः संसाराविमोक्ष एव प्रसज्येत । अत आगमवशेन आग­मा­नु­सा­रि­त­र्क­व­शेन च चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेति स्थितम् ॥ ११ ॥

एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥

१२

वैदिकस्य दर्शनस्य प्रत्या­स­न्न­त्वा­द्गु­रु­त­र­त­र्क­ब­लो­पे­त­त्वा­द्वे­दा­नु­सा­रि­भिश्च कैश्चिच्छिष्टैः केनचिदंशेन परि­गृ­ही­त­त्वा­त्प्र­धा­न­का­र­ण­वादं ताव­द्व्य­पा­श्रित्य यस्तर्कनिमित्त आक्षेपो वेदा­न्त­वा­क्ये­षू­द्भा­वितः, स परिहृतः । इदा­नी­म­ण्वा­दि­वा­द­व्य­पा­श्र­ये­णापि कैश्चि­न्म­न्द­म­ति­भि­र्वे­दा­न्त­वा­क्येषु पुन­स्त­र्क­नि­मित्त आक्षेप आशङ्क्येत इत्यतः प्रधा­न­म­ल्ल­नि­ब­र्ह­ण­न्या­ये­ना­ति­दि­शति — परिगृह्यन्त इति परिग्रहाः । न परिग्रहाः अपरिग्रहाः । शिष्टा­ना­म­प­रि­ग्रहाः शिष्टापरिग्रहाः । एतेन प्रकृतेन प्रधा­न­का­र­ण­वा­द­नि­रा­क­र­ण­का­र­णेन । शिष्टै­र्म­नु­व्या­स­प्र­भृ­तिभिः केन­चि­द­प्यं­शे­ना­प­रि­गृ­हीता येऽण्वा­दि­का­र­ण­वादाः, तेऽपि प्रतिषिद्धतया व्याख्याता निराकृता द्रष्टव्याः । तुल्य­त्वा­न्नि­रा­क­र­ण­का­र­णस्य नात्र पुनराशङ्कितव्यं किञ्चिदस्ति । तुल्यमत्रापि परमगम्भीरस्य जगत्कारणस्य तर्का­न­व­गा­ह्य­त्वम् , तर्कस्य चाप्र­ति­ष्ठि­त­त्वम् , अन्य­था­नु­मा­नेऽ­प्य­वि­मोक्षः, आगमविरोधश्च — इत्येवंजातीयकं निराकरणकारणम् ॥ १२ ॥

भोक्त्रा­प­त्ते­र­वि­भा­ग­श्चे­त्स्या­ल्लो­क­वत् ॥ १३ ॥

१३

अन्यथा पुन­र्ब्र­ह्म­का­र­ण­वा­द­स्त­र्क­ब­ले­नै­वा­क्षि­प्यते । यद्यपि श्रुतिः प्रमाणं स्वविषये भवति, तथापि प्रमाणान्तरेण विष­या­प­हा­रेऽ­न्य­परा भवितुमर्हति, यथा मन्त्रार्थवादौ । तर्कोऽपि स्ववि­ष­या­द­न्य­त्रा­प्र­ति­ष्ठितः स्यात् , यथा धर्माधर्मयोः । किमतो यद्येवम् ? अत इदमयुक्तम् , यत्प्र­मा­णा­न्त­र­प्र­सि­द्धा­र्थ­बा­धनं श्रुतेः । कथं पुनः प्रमा­णा­न्त­र­प्र­सि­द्धोऽर्थः श्रुत्या बाध्यत इति । अत्रोच्यते — प्रसिद्धो ह्ययं भोक्तृ­भो­ग्य­वि­भागो लोके — भोक्ता चेतनः शारीरः, भोग्याः शब्दादयो विषया इति । यथा भोक्ता देवदत्तः, भोज्य ओदन इति । तस्य च विभागस्याभावः प्रसज्येत, यदि भोक्ता भोग्य­भा­व­मा­प­द्येत भोग्यं वा भोक्तृ­भा­व­मा­प­द्येत । तयो­श्चे­त­रे­त­र­भा­वा­पत्तिः पर­म­का­र­णा­द्ब्र­ह्म­णोऽ­न­न्य­त्वा­त्प्र­स­ज्येत । न चास्य प्रसिद्धस्य विभागस्य बाधनं युक्तम् । यथा त्वद्यत्वे भोक्तृ­भो­ग्य­यो­र्वि­भागो दृष्टः, तथा­ती­ता­ना­ग­त­यो­रपि कल्पयितव्यः । तस्मा­त्प्र­सि­द्ध­स्यास्य भोक्तृ­भो­ग्य­वि­भा­ग­स्या­भा­व­प्र­स­ङ्गा­द­यु­क्त­मिदं ब्रह्म­का­र­ण­ता­व­धा­र­ण­मिति चेत्क­श्चि­च्चो­द­येत् , तं प्रति ब्रूयात् — स्याल्लोकवदिति । उपपद्यत एवा­य­म­स्म­त्प­क्षेऽपि विभागः, एवं लोके दृष्टत्वात् । तथा हि — समु­द्रा­दु­द­का­त्म­नोऽ­न­न्य­त्वेऽपि तद्विकाराणां फेन­वी­ची­त­र­ङ्ग­बु­द्बु­दा­दी­ना­मि­त­रे­त­र­वि­भाग इत­रे­त­र­सं­श्ले­षा­दि­ल­क्ष­णश्च व्यवहार उपलभ्यते । न च समु­द्रा­दु­द­का­त्म­नोऽ­न­न्य­त्वेऽपि तद्विकाराणां फेन­त­र­ङ्गा­दी­ना­मि­त­रे­त­र­भा­वा­प­त्ति­र्भ­वति । न च तेषा­मि­त­रे­त­र­भा­वा­ना­प­त्ता­वपि समु­द्रा­त्म­नोऽ­न्यत्वं भवति । एवमिहापि — न भोक्तृ­भो­ग्य­यो­रि­त­रे­त­र­भा­वा­पत्तिः, न च पर­स्मा­द्ब्र­ह्म­णोऽ­न्यत्वं भविष्यति । यद्यपि भोक्ता न ब्रह्मणो विकारः ‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्’(तै. उ. २ । ६ । १) इति स्रष्टु­रे­वा­वि­कृ­तस्य कार्या­नु­प्र­वे­शेन भोक्तृ­त्व­श्र­व­णात् , तथापि कार्य­म­नु­प्र­वि­ष्ट­स्या­स्त्यु­पा­धि­नि­मित्तो विभाग आकाशस्येव घटा­द्यु­पा­धि­नि­मित्तः — इत्यतः, पर­म­का­र­णा­द्ब्र­ह्म­णोऽ­न­न्य­त्वेऽ­प्यु­प­प­द्यते भोक्तृ­भो­ग्य­ल­क्षणो विभागः समु­द्र­त­र­ङ्गा­दि­न्या­ये­ने­त्यु­क्तम् ॥ १३ ॥

तद­न­न्य­त्व­मा­र­म्भ­ण­श­ब्दा­दिभ्यः ॥ १४ ॥

१४

अभ्युपगम्य चेमं व्यावहारिकं भोक्तृ­भो­ग्य­ल­क्षणं विभागम् ‘स्याल्लोकवत्’ इति परिहारोऽभिहितः । न त्वयं विभागः परमार्थतोऽस्ति, यस्मात्तयोः कार्य­का­र­ण­यो­र­न­न्य­त्व­म­व­ग­म्यते । कार्यमाकाशादिकं बहुप्रपञ्चं जगत् । कारणं परं ब्रह्म । तस्मा­त्का­र­णा­त्प­र­मा­र्थ­तोऽ­न­न्यत्वं व्यतिरेकेणाभावः कार्य­स्या­व­ग­म्यते । कुतः ? आर­म्भ­ण­श­ब्दा­दिभ्यः । आर­म्भ­ण­श­ब्द­स्ता­व­दे­क­वि­ज्ञा­नेन सर्वविज्ञानं प्रतिज्ञाय दृष्टा­न्ता­पे­क्षा­या­मु­च्यते — ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातꣳ स्याद्वा­चा­र­म्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’(छा. उ. ६ । १ । ४) इति । एतदुक्तं भवति — एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृन्मयं घट­श­रा­वो­द­ञ्च­ना­दिकं मृदा­त्म­क­त्वा­वि­शे­षा­द्वि­ज्ञातं भवेत् । यतो वाचारम्भणं विकारो नामधेयम् — वाचैव केव­ल­म­स्ती­त्या­र­भ्यते — विकारः घटः शराव उदञ्चनं चेति । न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति । नामधेयमात्रं ह्येतदनृतम् । मृत्तिकेत्येव सत्यम् — इति एष ब्रह्मणो दृष्टान्त आम्नातः । तत्र श्रुता­द्वा­चा­र­म्भ­ण­श­ब्दा­द्दा­र्ष्टा­न्ति­केऽपि ब्रह्म­व्य­ति­रे­केण कार्यजातस्याभाव इति गम्यते । पुनश्च तेजोबन्नानां ब्रह्म­का­र्य­ता­मुक्त्वा तेजो­ब­न्न­का­र्याणां तेजो­ब­न्न­व्य­ति­रे­के­णा­भावं ब्रवीति — ‘अपा­गा­द­ग्ने­र­ग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्’(छा. उ. ६ । ४ । १) इत्यादिना । आर­म्भ­ण­श­ब्दा­दिभ्य इत्यादिशब्दात् ‘ऐतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि’(छा. उ. ६ । ८ । ७) ‘इदꣳ सर्वं यदयमात्मा’(बृ. उ. २ । ४ । ६) ‘ब्रह्मैवेदं सर्वम्’ ‘आत्मैवेदꣳ सर्वम्’(छा. उ. ७ । २५ । २) ‘नेह नानास्ति किञ्चन’(बृ. उ. ४ । ४ । १९) इत्ये­व­मा­द्य­प्या­त्मै­क­त्व­प्र­ति­पा­द­न­परं वच­न­जा­त­मु­दा­ह­र्त­व्यम् । न चान्यथा एकविज्ञानेन सर्वविज्ञानं सम्पद्यते । तस्माद्यथा घट­क­र­का­द्या­का­शानां महा­का­शा­द­न­न्य­त्वम् , यथा च मृग­तृ­ष्णि­को­द­का­दी­ना­मू­ष­रा­दि­भ्योऽ­न­न्य­त्वम् , दृष्ट­न­ष्ट­स्व­रू­प­त्वात् स्वरू­पे­णा­नु­पा­ख्य­त्वात् । एवमस्य भोग्य­भो­क्त्रा­दि­प्र­प­ञ्च­जा­तस्य ब्रह्म­व्य­ति­रे­के­णा­भाव इति द्रष्टव्यम् ॥

नन्वनेकात्मकं ब्रह्म । यथा वृक्षोऽनेकशाखः, एव­म­ने­क­श­क्ति­प्र­वृ­त्ति­युक्तं ब्रह्म । अत एकत्वं नानात्वं चोभयमपि सत्यमेव — यथा वृक्ष इत्येकत्वं शाखा इति नानात्वम् । यथा च समु­द्रा­त्म­नै­कत्वं फेन­त­र­ङ्गा­द्या­त्मना नानात्वम् , यथा च मृदात्मनैकत्वं घट­श­रा­वा­द्या­त्मना नानात्वम् । तत्रैकत्वांशेन ज्ञाना­न्मो­क्ष­व्य­व­हारः सेत्स्यति । नानात्वांशेन तु कर्मकाण्डाश्रयौ लौकि­क­वै­दि­क­व्य­व­हारौ सेत्स्यत इति । एवं च मृदा­दि­दृ­ष्टान्ता अनुरूपा भविष्यन्तीति । नैवं स्यात् — ‘मृत्तिकेत्येव सत्यम्’ इति प्रकृतिमात्रस्य दृष्टान्ते सत्य­त्वा­व­धा­र­णात् , वाचारम्भणशब्देन च विका­र­जा­त­स्या­नृ­त­त्वा­भि­धा­नात् , दार्ष्टा­न्ति­केऽपि ‘ऐतदात्म्यमिदꣳ सर्वं तत्सत्यम्’ इति च पर­म­का­र­ण­स्यै­वै­कस्य सत्य­त्वा­व­धा­र­णात् , ‘स आत्मा तत्त्वमसि श्वेतकेतो’ इति च शारीरस्य ब्रह्म­भा­वो­प­दे­शात् । स्वयं प्रसिद्धं ह्येतच्छारीरस्य ब्रह्मा­त्म­त्व­मु­प­दि­श्यते, न यत्ना­न्त­र­प्र­सा­ध्यम् । अतश्चेदं शास्त्रीयं ब्रह्मा­त्म­त्व­म­व­ग­म्य­मानं स्वाभाविकस्य शारीरात्मत्वस्य बाधकं सम्पद्यते, रज्ज्वादिबुद्धय इव सर्पा­दि­बु­द्धी­नाम् । बाधिते च शारीरात्मत्वे तदाश्रयः समस्तः स्वाभाविको व्यवहारो बाधितो भवति, यत्प्रसिद्धये नानात्वांशोऽपरो ब्रह्मणः कल्प्येत । दर्शयति च — ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्येत्’(बृ. उ. ४ । ५ । १५)‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्येत्’(बृ. उ. ४ । ५ । १५) इत्यादिना ब्रह्मा­त्म­त्व­द­र्शिनं प्रति समस्तस्य क्रिया­का­र­क­फ­ल­ल­क्ष­णस्य व्यव­हा­र­स्या­भा­वम् । न चायं व्यव­हा­रा­भा­वोऽ­व­स्था­वि­शे­ष­नि­ब­न्ध­नोऽ­भि­धी­यते इति युक्तं वक्तुम् , ‘तत्त्वमसि’ इति ब्रह्मा­त्म­भा­व­स्या­न­व­स्था­वि­शे­ष­नि­ब­न्ध­न­त्वात् । तस्क­र­दृ­ष्टा­न्तेन चानृताभिसन्धस्य बन्धनं सत्याभिसन्धस्य च मोक्षं दर्शयन् एकत्वमेवैकं पारमार्थिकं दर्शयति, मिथ्या­ज्ञा­न­वि­जृ­म्भितं च नानात्वम् । उभयसत्यतायां हि कथं व्यवहारगोचरोऽपि जन्तु­र­नृ­ता­भि­सन्ध इत्युच्येत । ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’(बृ. उ. ४ । ४ । १९) इति च भेद­दृ­ष्टि­म­प­व­द­न्ने­त­देव दर्शयति । न चास्मिन्दर्शने ज्ञानान्मोक्ष इत्युपपद्यते, सम्य­ग्ज्ञा­ना­प­नो­द्यस्य कस्य­चि­न्मि­थ्या­ज्ञा­नस्य संसा­र­का­र­ण­त्वे­ना­न­भ्यु­प­ग­मात् । उभयसत्यतायां हि कथमेकत्वज्ञानेन नाना­त्व­ज्ञा­न­म­प­नु­द्यत इत्युच्यते । नन्वे­क­त्वै­का­न्ता­भ्यु­प­गमे नाना­त्वा­भा­वा­त्प्र­त्य­क्षा­दीनि लौकिकानि प्रमाणानि व्याहन्येरन् , निर्विषयत्वात् , स्थाण्वादिष्विव पुरु­षा­दि­ज्ञा­नानि । तथा विधि­प्र­ति­षे­ध­शा­स्त्र­मपि भेदा­पे­क्ष­त्वा­त्त­द­भावे व्याहन्येत । मोक्ष­शा­स्त्र­स्यापि शिष्यशासित्रादि भेदा­पे­क्ष­त्वा­त्त­द­भावे व्याघातः स्यात् । कथं चानृतेन मोक्षशास्त्रेण प्रति­पा­दि­त­स्या­त्मै­क­त्वस्य सत्य­त्व­मु­प­प­द्ये­तेति । अत्रोच्यते — नैष दोषः, सर्व­व्य­व­हा­रा­णा­मेव प्राग्ब्र­ह्मा­त्म­ता­वि­ज्ञा­ना­त्स­त्य­त्वो­प­पत्तेः, स्वप्न­व्य­व­हा­र­स्येव प्राक्प्रबोधात् । यावद्धि न सत्या­त्मै­क­त्व­प्र­ति­प­त्ति­स्ता­व­त्प्र­मा­ण­प्र­मे­य­फ­ल­ल­क्ष­णेषु विका­रे­ष्व­नृ­त­त्व­बु­द्धिर्न कस्य­चि­दु­त्प­द्यते । विकारानेव तु ‘अहम्’ ‘मम’ इत्यविद्यया आत्मात्मीयेन भावेन सर्वो जन्तुः प्रतिपद्यते स्वाभाविकीं ब्रह्मात्मतां हित्वा । तस्मा­त्प्रा­ग्ब्र­ह्मा­त्म­ता­प्र­ति­बो­धा­दु­प­पन्नः सर्वो लौकिको वैदिकश्च व्यवहारः — यथा सुप्तस्य प्राकृतस्य जनस्य स्वप्ने उच्चा­व­चा­न्भा­वा­न्प­श्यतो निश्चितमेव प्रत्यक्षाभिमतं विज्ञानं भवति प्राक्प्रबोधात् , न च प्रत्य­क्षा­भा­सा­भि­प्रा­य­स्त­त्काले भवति, तद्वत् । कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मा­त्म­त्वस्य प्रति­प­त्ति­रु­प­प­द्येत ? न हि रज्जुसर्पेण दष्टो म्रियते । नापि मृग­तृ­ष्णि­का­म्भसा पाना­व­गा­ह­ना­दि­प्र­यो­जनं क्रियत इति । नैष दोषः, शङ्का­वि­षा­दि­नि­मि­त्त­म­र­णा­दि­का­र्यो­प­लब्धेः, स्वप्न­द­र्श­ना­व­स्थस्य च सर्प­दं­श­नो­द­क­स्ना­ना­दि­का­र्य­द­र्श­नात् । तत्का­र्य­म­प्य­नृ­त­मे­वेति चेद्ब्रूयात् , अत्र ब्रूमः — यद्यपि स्वप्न­द­र्श­ना­व­स्थस्य सर्प­दं­श­नो­द­क­स्ना­ना­दि­का­र्य­म­नृ­तम् , तथापि तदवगतिः सत्यमेव फलम् , प्रति­बु­द्ध­स्या­प्य­बा­ध्य­मा­न­त्वात् । न हि स्वप्नादुत्थितः स्वप्नदृष्टं सर्प­दं­श­नो­द­क­स्ना­ना­दि­कार्यं मिथ्येति मन्य­मा­न­स्त­द­व­ग­ति­मपि मिथ्येति मन्यते कश्चित् । एतेन स्वप्न­दृ­शोऽ­व­ग­त्य­बा­ध­नेन देह­मा­त्रा­त्म­वादो दूषितो वेदितव्यः । तथा च श्रुतिः — ‘यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानी­या­त्त­स्मि­न्स्व­प्न­नि­द­र्शने’(छा. उ. ५ । २ । ८) इत्यसत्येन स्वप्नदर्शनेन सत्यायाः समृद्धेः प्रतिपत्तिं दर्शयति, तथा प्रत्य­क्ष­द­र्श­नेषु केषुचिदरिष्टेषु जातेषु ‘न चिरमिव जीविष्यतीति विद्यात्’ इत्युक्त्वा ‘अथ स्वप्नाः पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति’(ऐ॰आ॰ ३-२-४) इत्यादिना तेन तेनासत्येनैव स्वप्नदर्शनेन सत्यं मरणं सूच्यत इति दर्शयति । प्रसिद्धं चेदं लोकेऽ­न्व­य­व्य­ति­रे­क­कु­श­ला­ना­मी­दृ­शेन स्वप्नदर्शनेन साध्वागमः सूच्यते, ईदृशेनासाध्वागम इति । तथा अका­रा­दि­स­त्या­क्ष­र­प्र­ति­प­त्ति­र्दृष्टा रेखा­नृ­ता­क्ष­र­प्र­ति­पत्तेः । अपि चान्त्यमिदं प्रमा­ण­मा­त्मै­क­त्वस्य प्रतिपादकम् , नातःपरं किञ्चि­दा­का­ङ्क्ष्य­मस्ति । यथा हि लोके यजेतेत्युक्ते, किं केन कथम् इत्या­का­ङ्क्ष्यते । नैवं ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ इत्युक्ते, किञ्चि­द­न्य­दा­का­ङ्क्ष्य­मस्ति — सर्वा­त्मै­क­त्व­वि­ष­य­त्वा­व­गतेः । सति ह्यन्य­स्मि­न्न­व­शि­ष्य­मा­णेऽर्थे आकाङ्क्षा स्यात् । न त्वात्मै­क­त्व­व्य­ति­रे­के­णा­व­शि­ष्य­मा­णोऽ­न्योऽ­र्थोऽस्ति, य आकाङ्क्ष्येत । न चेय­म­व­ग­ति­र्नो­त्प­द्यत इति शक्यं वक्तुम् , ‘तद्धास्य विजज्ञौ’(छा. उ. ६ । १६ । ३) इत्या­दि­श्रु­तिभ्यः। अवगतिसाधनानां च श्रवणादीनां वेदानुवचनादीनां च विधानात् । न चेय­म­व­ग­ति­र­न­र्थिका भ्रान्तिर्वेति शक्यं वक्तुम् । अवि­द्या­नि­वृ­त्ति­फ­ल­द­र्श­नात् , बाध­क­ज्ञा­ना­न्त­रा­भा­वाच्च । प्राक्चा­त्मै­क­त्वा­व­ग­ते­र­व्या­हतः सर्वः सत्या­नृ­त­व्य­व­हारो लौकिको वैदि­क­श्चे­त्य­वो­चाम । तस्मादन्त्येन प्रमाणेन प्रतिपादिते आत्मैकत्वे समस्तस्य प्राचीनस्य भेदव्यवहारस्य बाधितत्वात् न अने­का­त्म­क­ब्र­ह्म­क­ल्प­ना­व­का­शोऽस्ति । ननु मृदा­दि­दृ­ष्टा­न्त­प्र­ण­य­ना­त्प­रि­णा­म­व­द्ब्रह्म शास्त्र­स्या­भि­म­त­मिति गम्यते । परिणामिनो हि मृदादयोऽर्था लोके समधिगता इति । नेत्युच्यते — ‘स वा एष महानज आत्मा­ज­रोऽ­म­रोऽ­मृ­तोऽ­भयो ब्रह्म’(बृ. उ. ४ । ४ । २५) ‘स एष नेति नेत्यात्मा’(बृ. उ. ३ । ९ । २६) ‘अस्थूलमनणु’(बृ. उ. ३ । ८ । ८) इत्याद्याभ्यः सर्व­वि­क्रि­या­प्र­ति­षे­ध­श्रु­तिभ्यः ब्रह्मणः कूट­स्थ­त्वा­व­ग­मात् । न ह्येकस्य ब्रह्मणः परिणामधर्मवत्वं तद्रहितत्वं च शक्यं प्रतिपत्तुम् । स्थिति­ग­ति­व­त्स्या­दिति चेत् , न; कूटस्थस्येति विशेषणात् । न हि कूटस्थस्य ब्रह्मणः स्थिति­ग­ति­व­द­ने­क­ध­र्मा­श्र­यत्वं सम्भवति । कूटस्थं च नित्यं ब्रह्म सर्व­वि­क्रि­या­प्र­ति­षे­धा­दि­त्य­वो­चाम । न च यथा ब्रह्मण आत्मैकत्वदर्शनं मोक्षसाधनम् , एवं जग­दा­का­र­प­रि­णा­मि­त्व­द­र्श­न­मपि स्वतन्त्रमेव कस्मै­चि­त्फ­ला­या­भि­प्रे­यते, प्रमाणाभावात् । कूट­स्थ­ब्र­ह्मा­त्म­त्व­वि­ज्ञा­ना­देव हि फलं दर्शयति शास्त्रम् — ‘स एष नेति नेत्यात्मा’ इत्युपक्रम्य ‘अभयं वै जनक प्राप्तोऽसि’(बृ. उ. ४ । २ । ४) इत्येवंजातीयकम् । तत्रैतत्सिद्धं भवति — ब्रह्मप्रकरणे सर्व­ध­र्म­वि­शे­ष­र­हि­त­ब्र­ह्म­द­र्श­ना­देव फलसिद्धौ सत्याम् , यत्तत्राफलं श्रूयते ब्रह्मणो जग­दा­का­र­प­रि­णा­मि­त्वादि, तद्ब्र­ह्म­द­र्श­नो­पा­य­त्वे­नैव विनियुज्यते, फल­व­त्स­न्नि­धा­व­फलं तदङ्गमितिवत् । न तु स्वतन्त्रं फलाय कल्प्यत इति । न हि परि­णा­म­व­त्त्व­वि­ज्ञा­ना­त्प­रि­णा­म­व­त्त्व­मा­त्मनः फलं स्यादिति वक्तुं युक्तम् , कूट­स्थ­नि­त्य­त्वा­न्मो­क्षस्य । ननु कूट­स्थ­ब्र­ह्मा­त्म­वा­दिन एक­त्वै­का­न्त्यात् ईशि­त्री­शि­त­व्या­भावे ईश्व­र­का­र­ण­प्र­ति­ज्ञा­वि­रोध इति चेत् , न; अवि­द्या­त्म­क­ना­म­रू­प­बी­ज­व्या­क­र­णा­पे­क्ष­त्वा­त्स­र्व­ज्ञ­त्वस्य । ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’(तै. उ. २ । १ । १) इत्या­दि­वा­क्येभ्यः नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­रू­पा­त्स­र्व­ज्ञा­त्स­र्व­श­क्ते­री­श्व­रा­ज्ज­ग­ज्ज­नि­स्थि­ति­प्र­लयाः, नाचे­त­ना­त्प्र­धा­ना­द­न्य­स्माद्वा — इत्येषोऽर्थः प्रतिज्ञातः — ‘जन्माद्यस्य यतः’(ब्र. सू. १ । १ । २) इति; सा प्रतिज्ञा तदवस्थैव, न तद्वि­रु­द्धोऽर्थः पुनरिहोच्यते । कथं नोच्यते, अत्यन्तमात्मन एक­त्व­म­द्वि­ती­यत्वं च ब्रुवता ? शृणु यथा नोच्यते — सर्व­ज्ञ­स्ये­श्व­र­स्या­त्म­भूते इवा­वि­द्या­क­ल्पिते नामरूपे तत्त्वा­न्य­त्वा­भ्या­म­नि­र्व­च­नीये संसा­र­प्र­प­ञ्च­बी­ज­भूते सर्व­ज्ञ­स्ये­श्व­रस्य मायाशक्तिः प्रकृतिरिति च श्रुति­स्मृ­त्यो­र­भि­ल­प्येते । ताभ्यामन्यः सर्वज्ञ ईश्वरः, ‘आकाशो वै नाम नाम­रू­प­यो­र्नि­र्व­हिता ते यदन्तरा तद्ब्रह्म’(छा. उ. ८ । १४ । १) इति श्रुतेः, ‘नामरूपे व्याकरवाणि’(छा. उ. ६ । ३ । २) ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वा­भि­व­द­न्य­दास्ते’(तै. आ. ३ । १२ । ७) ‘एकं बीजं बहुधा यः करोति’(श्वे. उ. ६ । १२) इत्या­दि­श्रु­ति­भ्यश्च; एव­म­वि­द्या­कृ­त­ना­म­रू­पो­पा­ध्य­नु­रो­धी­श्वरो भवति, व्योमेव घट­क­र­का­द्यु­पा­ध्य­नु­रोधि । स च स्वात्मभूतानेव घटा­का­श­स्था­नी­या­न­वि­द्या­प्र­त्यु­प­स्था­पि­त­ना­म­रू­प­कृ­त­का­र्य­क­र­ण­स­ङ्घा­ता­नु­रो­धिनो जीवा­ख्या­न्वि­ज्ञा­ना­त्मनः प्रतीष्टे व्यवहारविषये । तदे­व­म­वि­द्या­त्म­को­पा­धि­प­रि­च्छे­दा­पे­क्ष­मे­वे­श्व­र­स्ये­श्व­रत्वं सर्वज्ञत्वं सर्वशक्तित्वं च, न परमार्थतो विद्यया अपा­स्त­स­र्वो­पा­धि­स्व­रूपे आत्मनि ईशि­त्री­शि­त­व्य­स­र्व­ज्ञ­त्वा­दि­व्य­व­हार उपपद्यते । तथा चोक्तम् — ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’(छा. उ. ७ । २४ । १) इति; ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्येत्’ इत्यादि च । एवं पर­मा­र्था­व­स्थायां सर्व­व्य­व­हा­रा­भावं वदन्ति वेदान्ताः सर्वे । तथे­श्व­र­गी­ता­स्वपि — ‘न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते’(भ. गी. ५ । १४)‘नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः’(भ. गी. ५ । १५) इति पर­मा­र्था­व­स्था­या­मी­शि­त्री­शि­त­व्या­दि­व्य­व­हा­रा­भावः प्रदर्श्यते । व्यव­हा­रा­व­स्थायां तूक्तः श्रुता­व­पी­श्व­रा­दि­व्य­व­हारः — ‘एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोका­ना­म­स­म्भे­दाय’(बृ. उ. ४ । ४ । २२) इति । तथा चेश्वरगीतास्वपि — ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्राम­य­न्स­र्व­भू­तानि यन्त्रारूढानि मायया’(भ. गी. १८ । ६१) इति । सूत्रकारोऽपि पर­मा­र्था­भि­प्रा­येण ‘तदनन्यत्वम्’ इत्याह । व्यव­हा­रा­भि­प्रा­येण तु ‘स्याल्लोकवत्’ इति महा­स­मु­द्र­स्था­नी­यतां ब्रह्मणः कथयति, अप्रत्याख्यायैव कार्यप्रपञ्चं परि­णा­म­प्र­क्रियां चाश्रयति सगु­णे­षू­पा­स­ने­षू­प­यो­क्ष्यत इति ॥ १४ ॥

भावे चोपलब्धेः ॥ १५ ॥

१५

इतश्च कारणादनन्यत्वं कार्यस्य, यत्कारणं भाव एव कारणस्य कार्यमुपलभ्यते, नाभावे । तद्यथा — सत्यां मृदि घट उपलभ्यते, सत्सु च तन्तुषु पटः । न च निय­मे­ना­न्य­भा­वेऽ­न्य­स्यो­प­ल­ब्धि­र्दृष्टा । न ह्यश्वो गोरन्यः सन्गोर्भाव एवोपलभ्यते । न च कुलालभाव एव घट उपलभ्यते, सत्यपि निमि­त्त­नै­मि­त्ति­क­भा­वेऽ­न्य­त्वात् । नन्वन्यस्य भावेऽ­प्य­न्य­स्यो­प­ल­ब्धि­र्नि­यता दृश्यते, यथाग्निभावे धूमस्येति । नेत्युच्यते; उद्वा­पि­तेऽ­प्यग्नौ गोपा­ल­घु­टि­का­दि­धा­रि­तस्य धूमस्य दृश्यमानत्वात् । अथ धूमं कयाचिदवस्थया विशिंष्यात् — ईदृशो धूमो नासत्यग्नौ भवतीति, नैवमपि कश्चिद्दोषः । तद्भावानुरक्तां हि बुद्धिं कार्य­का­र­ण­यो­र­न­न्यत्वे हेतुं वयं वदामः । न चासा­व­ग्नि­धू­म­यो­र्वि­द्यते । भावाच्चोपलब्धेः — इति वा सूत्रम् । न केवलं शब्दादेव कार्य­का­र­ण­यो­र­न­न्य­त्वम् , प्रत्य­क्षो­प­ल­ब्धि­भा­वाच्च तयो­र­न­न्य­त्व­मि­त्यर्थः । भवति हि प्रत्य­क्षो­प­लब्धिः कार्य­का­र­ण­यो­र­न­न्यत्वे । तद्यथा — तन्तुसंस्थाने पटे तन्तुव्यतिरेकेण पटो नाम कार्यं नैवोपलभ्यते, केवलास्तु तन्तव आतानवितानवन्तः प्रत्य­क्ष­मु­प­ल­भ्यन्ते, तथा तन्तुष्वंशवः, अंशुषु तदवयवाः । अनया प्रत्य­क्षो­प­लब्ध्या लोहि­त­शु­क्ल­कृ­ष्णानि त्रीणि रूपाणि, ततो वायु­मा­त्र­मा­का­श­मात्रं चेत्यनुमेयम् , ततः परं ब्रह्मै­क­मे­वा­द्वि­ती­यम् । तत्र सर्वप्रमाणानां निष्ठामवोचाम ॥ १५ ॥

सत्त्वा­च्चा­व­रस्य ॥ १६ ॥

१६

इतश्च कार­णा­त्का­र्य­स्या­न­न्य­त्वम् , यत्कारणं प्रागुत्पत्तेः कारणात्मनैव कारणे सत्त्व­म­व­र­का­ली­नस्य कार्यस्य श्रूयते — ‘सदेव सोम्येदमग्र आसीत्’(छा. उ. ६ । २ । १) ‘आत्मा वा इदमेक एवाग्र आसीत्’(ऐ. आ. १ । १ । १) इत्या­दा­वि­दं­श­ब्द­गृ­ही­तस्य कार्यस्य कारणेन सामा­ना­धि­क­र­ण्यात् । यच्च यदात्मना यत्र न वर्तते, न तत्तत उत्पद्यते, यथा सिकताभ्यस्तैलम् । तस्मा­त्प्रा­गु­त्प­त्ते­र­न­न्य­त्वा­दु­त्प­न्न­म­प्य­न­न्य­देव कार­णा­त्का­र्य­मि­त्य­व­ग­म्यते । यथा च कारणं ब्रह्म त्रिषु कालेषु सत्त्वं न व्यभिचरति, एवं कार्यमपि जगत्त्रिषु कालेषु सत्त्वं न व्यभिचरति । एकं च पुनः सत्त्वम् । अतोऽप्यनन्यत्वं कारणात्कार्यस्य ॥ १६ ॥

अस­द्व्य­प­दे­शा­न्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥ १७ ॥

१७

ननु क्वचिदसत्त्वमपि प्रागुत्पत्तेः कार्यस्य व्यपदिशति श्रुतिः — ‘असदेवेदमग्र आसीत्’(छा. उ. ३ । १९ । १) इति, ‘असद्वा इदमग्र आसीत्’(तै. उ. २ । ७ । १)‘असद्वा इदमग्र आसीत्’(तै. उ. २ । ७ । १) इति च । तस्मा­द­स­द्व्य­प­दे­शान्न प्रागुत्पत्तेः कार्यस्य सत्त्वमिति चेत् — नेति ब्रूमः । न ह्यय­म­त्य­न्ता­स­त्त्वा­भि­प्रा­येण प्रागुत्पत्तेः कार्य­स्या­स­द्व्य­प­देशः; किं तर्हि ? — व्याकृ­त­ना­म­रू­प­त्वा­द्ध­र्मा­द­व्या­कृ­त­ना­म­रू­पत्वं धर्मान्तरम्; तेन धर्मा­न्त­रे­णा­य­म­स­द्व्य­प­देशः प्रागुत्पत्तेः सत एव कार्यस्य कार­ण­रू­पे­णा­न­न्यस्य । कथमेतदवगम्यते ? वाक्यशेषात् । यदुपक्रमे सन्दिग्धार्थं वाक्यं तच्छे­षा­न्नि­श्ची­यते । इह च तावत् ‘असदेवेदमग्र आसीत्’ इत्य­स­च्छ­ब्दे­नो­प­क्रमे निर्दिष्टं यत् , तदेव पुनस्तच्छब्देन परामृश्य, सदिति विशिनष्टि — ‘तत्सदासीत्’ इति — असतश्च पूर्वा­प­र­का­ला­स­म्ब­न्धात् आसी­च्छ­ब्दा­नु­प­प­त्तेश्च । ‘असद्वा इदमग्र आसीत्’ इत्यत्रापि ‘तदात्मानꣳ स्वयमकुरुत’(तै. उ. २ । ७ । १) इति वाक्यशेषे विशे­ष­णा­न्ना­त्य­न्ता­स­त्त्वम् । तस्मा­द्ध­र्मा­न्त­रे­णै­वा­य­म­स­द्व्य­प­देशः प्रागुत्पत्तेः कार्यस्य । नामरूपव्याकृतं हि वस्तु सच्छब्दार्हं लोके प्रसिद्धम् । अतः प्राङ्ना­म­रू­प­व्या­क­र­णा­द­स­दि­वा­सी­दि­त्यु­प­च­र्यते ॥ १७ ॥

युक्तेः शब्दान्तराच्च ॥ १८ ॥

१८

युक्तेश्च प्रागुत्पत्तेः कार्यस्य सत्त्वमनन्यत्वं च कारणादवगम्यते, शब्दान्तराच्च ॥

युक्ति­स्ता­व­द्व­र्ण्यते — दधि­घ­ट­रु­च­का­द्य­र्थिभिः प्रतिनियतानि कारणानि क्षीर­मृ­त्ति­का­सु­व­र्णा­दी­न्यु­पा­दी­य­मा­नानि लोके दृश्यन्ते । न हि दध्य­र्थि­भि­र्मृ­त्ति­को­पा­दी­यते, न घटार्थिभिः क्षीरम् । तदसत्कार्यवादे नोपपद्येत । अविशिष्टे हि प्रागुत्पत्तेः सर्वस्य सर्वत्रासत्त्वे कस्मा­त्क्षी­रा­देव दध्युत्पद्यते, न मृत्तिकायाः, मृत्तिकाया एव च घट उत्पद्यते, न क्षीरात् ? अथाविशिष्टेऽपि प्रागसत्त्वे क्षीर एव दध्नः कश्चिदतिशयो न मृत्तिकायाम् , मृत्तिकायामेव च घटस्य कश्चिदतिशयो न क्षीरे — इत्युच्येत — तर्ह्य­ति­श­य­व­त्त्वा­त्प्रा­ग­व­स्थाया अस­त्का­र्य­वा­द­हानिः, सत्का­र्य­वा­द­सि­द्धिश्च । शक्तिश्च कारणस्य कार्यनियमार्था कल्प्यमाना नान्या असती वा कार्यं नियच्छेत् , अस­त्त्वा­वि­शे­षा­द­न्य­त्वा­वि­शे­षाच्च । तस्मा­त्का­र­ण­स्या­त्म­भूता शक्तिः, शक्ते­श्चा­त्म­भूतं कार्यम् । अपि च कार्य­का­र­ण­यो­र्द्र­व्य­गु­णा­दीनां चाश्व­म­हि­ष­व­द्भे­द­बु­द्ध्य­भा­वा­त्ता­दा­त्म्य­म­भ्यु­प­ग­न्त­व्यम् । सम­वा­य­क­ल्प­ना­या­मपि, समवायस्य समवायिभिः सम्ब­न्धेऽ­भ्यु­प­ग­म्य­माने, तस्य तस्यान्योन्यः सम्बन्धः कल्पयितव्य इत्य­न­व­स्था­प्र­सङ्गः । अनभ्युपगम्यमाने च विच्छेदप्रसङ्गः । अथ समवायः स्वयं सम्ब­न्ध­रू­प­त्वा­द­न­पे­क्ष्यै­वा­परं सम्बन्धं सम्बध्येत, संयोगोऽपि तर्हि स्वयं सम्ब­न्ध­रू­प­त्वा­द­न­पे­क्ष्यैव समवायं सम्बध्येत । तादा­त्म्य­प्र­ती­तेश्च द्रव्यगुणादीनां सम­वा­य­क­ल्प­ना­न­र्थ­क्यम् । कथं च कार्य­म­व­य­वि­द्रव्यं कार­णे­ष्व­व­य­व­द्र­व्येषु वर्तमानं वर्तेत ? किं समस्तेष्ववयवेषु वर्तेत, उत प्रत्यवयवम् ? यदि तावत्समस्तेषु वर्तेत, ततोऽ­व­य­व्य­नु­प­लब्धिः प्रसज्येत, सम­स्ता­व­य­व­स­न्नि­क­र्ष­स्या­श­क्य­त्वात् । न हि बहुत्वं सम­स्ते­ष्वा­श्र­येषु वर्तमानं व्यस्ता­श्र­य­ग्र­ह­णेन गृह्यते । अथावयवशः समस्तेषु वर्तेत, तदा­प्या­र­म्भ­का­व­य­व­व्य­ति­रे­के­णा­व­य­वि­नोऽ­व­यवाः कल्प्येरन् , यैरा­र­म्भ­के­ष्व­व­य­वे­ष्व­व­य­व­शोऽ­व­यवी वर्तेत । कोशा­व­य­व­व्य­ति­रि­क्तै­र्ह्य­व­य­वै­रसिः कोशं व्याप्नोति । अनवस्था चैवं प्रसज्येत, तेषु तेष्ववयवेषु वर्त­यि­तु­म­न्ये­षा­म­न्ये­षा­म­व­य­वानां कल्पनीयत्वात् । अथ प्रत्यवयवं वर्तेत, तदैकत्र व्यापा­रेऽ­न्य­त्रा­व्या­पारः स्यात् । न हि देवदत्तः स्रुघ्ने सन्नि­धी­य­मा­न­स्त­द­ह­रेव पाटलिपुत्रेऽपि सन्निधीयते । युगपदनेकत्र वृत्ता­व­ने­क­त्व­प्र­सङ्गः स्यात् , देव­द­त्त­य­ज्ञ­द­त्त­यो­रिव स्रुघ्न­पा­ट­लि­पु­त्र­नि­वा­सिनोः । गोत्वा­दि­व­त्प्र­त्येकं परिसमाप्तेर्न दोष इति चेत् , न; तथा प्रतीत्यभावात् । यदि गोत्वा­दि­व­त्प्र­त्येकं परिसमाप्तोऽवयवी स्यात् , यथा गोत्वं प्रतिव्यक्ति प्रत्यक्षं गृह्यते, एवमवयव्यपि प्रत्यवयवं प्रत्यक्षं गृह्येत । न चैवं नियतं गृह्यते । प्रत्ये­क­प­रि­स­माप्तौ चावयविनः कार्ये­णा­धि­का­रात् , तस्य चैकत्वात् , शृङ्गेणापि स्तनकार्यं कुर्यात् , उरसा च पृष्ठकार्यम् । न चैवं दृश्यते । प्रागु­त्प­त्तेश्च कार्य­स्या­सत्त्वे, उत्प­त्ति­र­क­र्तृका निरात्मिका च स्यात् । उत्पत्तिश्च नाम क्रिया, सा सकर्तृकैव भवितुमर्हति, गत्यादिवत् । क्रिया च नाम स्यात् , अकर्तृका च — इति विप्रतिषिध्येत । घटस्य चोत्प­त्ति­रु­च्य­माना न घटकर्तृका — किं तर्हि ? अन्यकर्तृका — इति कल्प्या स्यात् । तथा कपा­ला­दी­ना­म­प्यु­त्प­त्ति­रु­च्य­मा­ना­न्य­क­र्तृ­कैव कल्प्येत । तथा च सति ‘घट उत्पद्यते’ इत्युक्ते, ‘कुलालादीनि कार­णा­न्यु­त्प­द्यन्ते’ इत्युक्तं स्यात् । न च लोके घटो­त्प­त्ति­रि­त्युक्ते कुला­ला­दी­ना­म­प्यु­त्प­द्य­मा­नता प्रतीयते, उत्प­न्न­ता­प्र­ती­तेश्च । अथ स्वका­र­ण­स­त्ता­स­म्बन्ध एवो­त्प­त्ति­रा­त्म­ला­भश्च कार्यस्येति चेत् — कथमलब्धात्मकं सम्बध्येतेति वक्तव्यम् । सतोर्हि द्वयोः सम्बन्धः सम्भवति, न सदसतोरसतोर्वा । अभावस्य च निरु­पा­ख्य­त्वा­त्प्रा­गु­त्प­त्ते­रिति मर्या­दा­क­र­ण­म­नु­प­प­न्नम् । सतां हि लोके क्षेत्र­गृ­हा­दीनां मर्यादा दृष्टा नाभावस्य । न हि वन्ध्यापुत्रो राजा बभूव प्राक्पू­र्ण­व­र्म­णोऽ­भि­षे­का­दि­त्ये­वं­जा­ती­य­केन मर्यादाकरणेन निरुपाख्यो वन्ध्यापुत्रः राजा बभूव भवति भविष्यतीति वा विशेष्यते । यदि च वन्ध्या­पु­त्रोऽपि कार­क­व्या­पा­रा­दू­र्ध्व­म­भ­वि­ष्यत् , तत इद­म­प्यु­पा­प­त्स्यत — कार्याभावोऽपि कार­क­व्या­पा­रा­दूर्ध्वं भविष्यतीति । वयं तु पश्यामः — वन्ध्यापुत्रस्य कार्याभावस्य चाभा­व­त्वा­वि­शे­षात् , यथा वन्ध्यापुत्रः कार­क­व्या­पा­रा­दूर्ध्वं न भविष्यति, एवं कार्याभावोऽपि कार­क­व्या­पा­रा­दूर्ध्वं न भविष्यतीति । नन्वेवं सति कार­क­व्या­पा­रोऽ­न­र्थकः प्रसज्येत । यथैव हि प्राक्सि­द्ध­त्वा­त्का­र­ण­स्व­रू­प­सि­द्धये न कश्चि­द्व्या­प्रि­यते, एवं प्राक्सि­द्ध­त्वा­त्त­द­न­न्य­त्वाच्च कार्यस्य स्वरू­प­सि­द्ध­येऽपि न कश्चि­द्व्या­प्रि­येत । व्याप्रियते च । अतः कार­क­व्या­पा­रा­र्थ­व­त्त्वाय मन्यामहे प्रागु­त्प­त्ते­र­भावः कार्यस्येति । नैष दोषः । यतः कार्याकारेण कारणं व्यवस्थापयतः कार­क­व्या­पा­र­स्या­र्थ­व­त्त्व­मु­प­प­द्यते । कार्याकारोऽपि कारणस्यात्मभूत एव, अना­त्म­भू­त­स्या­ना­र­भ्य­त्वात् — इत्यभाणि । न च विशे­ष­द­र्श­न­मा­त्रेण वस्त्वन्यत्वं भवति । न हि देवदत्तः सङ्को­चि­त­ह­स्त­पादः प्रसा­रि­त­ह­स्त­पा­दश्च विशेषेण दृश्यमानोऽपि वस्त्वन्यत्वं गच्छति, स एवेति प्रत्य­भि­ज्ञा­नात् । तथा प्रति­दि­न­म­ने­क­सं­स्था­ना­ना­मपि पित्रादीनां न वस्त्वन्यत्वं भवति, मम पिता मम भ्राता मम पुत्र इति प्रत्य­भि­ज्ञा­नात् । जन्मो­च्छे­दा­न­न्त­रि­त­त्वा­त्तत्र युक्तम् , नान्यत्रेति चेत् , न; क्षीरादीनामपि दध्या­द्या­का­र­सं­स्था­नस्य प्रत्यक्षत्वात् । अदृश्यमानानामपि वटधानादीनां समा­न­जा­ती­या­व­य­वा­न्त­रो­प­चि­ता­ना­म­ङ्कु­रा­दि­भा­वेन दर्श­न­गो­च­र­ता­पत्तौ जन्मसंज्ञा । तेषा­मे­वा­व­य­वा­ना­म­प­च­य­व­शा­द­द­र्श­ना­प­त्ता­वु­च्छे­द­संज्ञा । तत्रे­दृ­ग्ज­न्मो­च्छे­दा­न्त­रि­त­त्वा­च्चे­द­सतः सत्त्वापत्तिः, सत­श्चा­स­त्त्वा­पत्तिः, तथा सति गर्भवासिन उत्तानशायिनश्च भेदप्रसङ्गः । तथा बाल्य­यौ­व­न­स्था­वि­रे­ष्वपि भेदप्रसङ्गः, पित्रा­दि­व्य­व­हा­र­लो­प­प्र­स­ङ्गश्च । एतेन क्षणभङ्गवादः प्रतिवदितव्यः । यस्य पुनः प्रागु­त्प­त्ते­र­स­त्का­र्यम् , तस्य निर्विषयः कारकव्यापारः स्यात् , अभावस्य विष­य­त्वा­नु­प­पत्तेः — आका­श­ह­न­न­प्र­यो­ज­न­ख­ड्गा­द्य­ने­का­यु­ध­प्र­यु­क्ति­वत् । समवायिकारणविषयः कारकव्यापारः स्यादिति चेत् , न; अन्यविषयेण कार­क­व्या­पा­रे­णा­न्य­नि­ष्प­त्ते­र­ति­प्र­स­ङ्गात् । सम­वा­यि­का­र­ण­स्यै­वा­त्मा­ति­शयः कार्यमिति चेत् , न; सत्का­र्य­ता­पत्तेः । तस्मा­त्क्षी­रा­दी­न्येव द्रव्याणि दध्या­दि­भा­वे­ना­व­ति­ष्ठ­मा­नानि कार्याख्यां लभन्त इति न कार­णा­द­न्य­त्कार्यं वर्षशतेनापि शक्यं निश्चेतुम् । तथा मूलकारणमेव आ अन्त्या­त्का­र्यात् तेन तेन कार्याकारेण नट­व­त्स­र्व­व्य­व­हा­रा­स्प­दत्वं प्रतिपद्यते । एवं युक्तेः, कार्यस्य प्रागुत्पत्तेः सत्त्वम् , अनन्यत्वं च कारणात् , अवगम्यते ॥

शब्दा­न्त­रा­च्चै­त­द­व­ग­म्यते — पूर्व­सू­त्रेऽ­स­द्व्य­प­दे­शिनः शब्द­स्यो­दा­हृ­त­त्वा­त्त­तोऽन्यः सद्व्यपदेशी शब्दः शब्दान्तरम् — ‘सदेव सोम्येदमग्र आसी­दे­क­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) इत्यादि । ‘तद्धैक आहुरसदेवेदमग्र आसीत्’ इति चास­त्प­क्ष­मु­प­क्षिप्य, ‘कथमसतः सज्जायेत’ इत्याक्षिप्य, ‘सदेव सोम्येदमग्र आसीत्’ इत्यवधारयति । तत्रे­दं­श­ब्द­वा­च्यस्य कार्यस्य प्रागुत्पत्तेः सच्छब्दवाच्येन कारणेन सामा­ना­धि­क­र­ण्यस्य श्रूयमाणत्वात् , सत्त्वानन्यत्वे प्रसिध्यतः । यदि तु प्रागु­त्प­त्ते­र­स­त्कार्यं स्यात् , पश्चा­च्चो­त्प­द्य­मानं कारणे समवेयात् , तदा­न्य­त्का­र­णा­त्स्यात् , तत्र ‘येनाश्रुतꣳ श्रुतं भवति’(छा. उ. ६ । १ । ३) इतीयं प्रतिज्ञा पीड्येत । सत्त्वा­न­न्य­त्वा­व­ग­ते­स्त्वियं प्रतिज्ञा समर्थ्यते ॥ १८ ॥

पटवच्च ॥ १९ ॥

१९

यथा च संवेष्टितः पटो न व्यक्तं गृह्यते — किमयं पटः, किं वान्य­द्द्र­व्य­मिति । स एव प्रसारितः, यत्संवेष्टितं द्रव्यं तत्पट एवेति प्रसा­र­णे­ना­भि­व्यक्तो गृह्यते । यथा च संवेष्टनसमये पट इति गृह्यमाणोऽपि न विशि­ष्टा­या­म­वि­स्तारो गृह्यते । स एव प्रसारणसमये विशि­ष्टा­या­म­वि­स्तारो गृह्यते — न संवे­ष्टि­त­रू­पा­द­न्योऽयं भिन्नः पट इति, एवं तन्त्वा­दि­का­र­णा­वस्थं पटा­दि­का­र्य­म­स्पष्टं सत् , तुरी­वे­म­कु­वि­न्दा­दि­का­र­क­व्या­पा­रा­द­भि­व्यक्तं स्पष्टं गृह्यते । अतः संवे­ष्टि­त­प्र­सा­रि­त­प­ट­न्या­ये­नै­वा­न­न्य­त्का­र­णा­त्का­र्य­मि­त्यर्थः ॥ १९ ॥

यथा च प्राणादि ॥ २० ॥

२०

यथा च लोके प्राणापानादिषु प्राणभेदेषु प्राणायामेन निरुद्धेषु कारणमात्रेण रूपेण वर्तमानेषु जीवनमात्रं कार्यं निर्वर्त्यते, नाकु­ञ्च­न­प्र­सा­र­णा­दिकं कार्यान्तरम् । तेष्वेव प्राणभेदेषु पुनः प्रवृत्तेषु जीव­ना­द­धि­क­मा­कु­ञ्च­न­प्र­सा­र­णा­दि­क­मपि कार्यान्तरं निर्वर्त्यते । न च प्राणभेदानां प्रभेदवतः प्राणादन्यत्वम् , समी­र­ण­स्व­भा­वा­वि­शे­षात् — एवं कार्यस्य कारणादनन्यत्वम् । अतश्च कृत्स्नस्य जगतो ब्रह्म­का­र्य­त्वा­त्त­द­न­न्य­त्वाच्च सिद्धैषा श्रौती प्रतिज्ञा — ‘येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’(छा. उ. ६ । १ । ३) इति ॥ २० ॥

इत­र­व्य­प­दे­शा­द्धि­ता­क­र­णा­दि­दो­ष­प्र­सक्तिः ॥ २१ ॥

२१

अन्यथा पुन­श्चे­त­न­का­र­ण­वाद आक्षिप्यते — चेतनाद्धि जग­त्प्र­क्रि­या­या­मा­श्री­य­मा­णायां हिताकरणादयो दोषाः प्रसज्यन्ते । कुतः ? इतरव्यपदेशात् । इतरस्य शारीरस्य ब्रह्मात्मत्वं व्यपदिशति श्रुतिः — ‘स आत्मा तत्त्वमसि श्वेतकेतो’(छा. उ. ६ । ८ । ७) इति प्रतिबोधनात् । यद्वा — इतरस्य च ब्रह्मणः शारीरात्मत्वं व्यपदिशति — ‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्’(तै. उ. २ । ६ । १) इति स्रष्टु­रे­वा­वि­कृ­तस्य ब्रह्मणः कार्या­नु­प्र­वे­शेन शारी­रा­त्म­त्व­द­र्श­नात्; ‘अनेन जीवे­ना­त्म­ना­नु­प्र­विश्य नामरूपे व्याकरवाणि’(छा. उ. ६ । ३ । २) इति च परा देवता जीवमात्मशब्देन व्यपदिशन्ती, न ब्रह्मणो भिन्नः शारीर इति दर्शयति । तस्मा­द्य­द्ब्र­ह्मणः स्रष्टृत्वं तच्छा­री­र­स्यै­वेति । अतस्सः स्वतन्त्रः कर्ता सन् हितमेवात्मनः सौमनस्यकरं कुर्यात् , नाहितं जन्म­म­र­ण­ज­रा­रो­गा­द्य­ने­का­न­र्थ­जा­लम् । न हि कश्चिदपरतन्त्रो बन्ध­ना­गा­र­मा­त्मनः कृत्वा­नु­प्र­वि­शति । न च स्वय­म­त्य­न्त­नि­र्मलः सन् अत्यन्तमलिनं देह­मा­त्म­त्वे­नो­पे­यात् । कृतमपि कथ­ञ्चि­द्य­द्दुः­ख­करं तदिच्छया जह्यात् । सुखकरं चोपाददीत । स्मरेच्च — मयेदं जगद्बिम्बं विचित्रं विरचितमिति । सर्वो हि लोकः स्पष्टं कार्यं कृत्वा स्मरति — मयेदं कृतमिति । यथा च मायावी स्वयं प्रसारितां मायामिच्छया अना­या­से­नै­वो­प­सं­ह­रति, एवं शारीरोऽपीमां सृष्टि­मु­प­सं­ह­रेत् । स्वकीयमपि तावच्छरीरं शारीरो न शक्नो­त्य­ना­या­से­नो­प­सं­ह­र्तुम् । एवं हित­क्रि­या­द्य­द­र्श­ना­द­न्याय्या चेत­ना­ज्ज­ग­त्प्र­क्रि­येति गम्यते ॥ २१ ॥

अधिकं तु भेदनिर्देशात् ॥ २२ ॥

२२

तुशब्दः पक्षं व्यावर्तयति । यत्सर्वज्ञं सर्वशक्ति ब्रह्म नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावं शारी­रा­द­धि­क­म­न्यत् , तत् वयं जगतः स्रष्टृ ब्रूमः । न तस्मि­न्हि­ता­क­र­णा­दयो दोषाः प्रसज्यन्ते । न हि तस्य हितं किञ्चि­त्क­र्त­व्य­मस्ति, अहितं वा परिहर्तव्यम् , नित्य­मु­क्त­स्व­भा­व­त्वात् । न च तस्य ज्ञानप्रतिबन्धः शक्तिप्रतिबन्धो वा क्वचिदप्यस्ति, सर्व­ज्ञ­त्वा­त्स­र्व­श­क्ति­त्वाच्च । शारी­र­स्त्व­ने­वं­विधः । तस्मि­न्प्र­स­ज्यन्ते हिताकरणादयो दोषाः । न तु तं वयं जगतः स्रष्टारं ब्रूमः । कुत एतत् ? भेदनिर्देशात् — ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदि­ध्या­सि­तव्यः’(बृ. उ. २ । ४ । ५) ‘सोऽन्वेष्टव्यः स विजि­ज्ञा­सि­तव्यः’(छा. उ. ८ । ७ । १) ‘सता सोम्य तदा सम्पन्नो भवति’(छा. उ. ६ । ८ । १) ‘शारीर आत्मा प्राज्ञे­ना­त्म­ना­न्वा­रूढः’(बृ. उ. ४ । ३ । ३५) इत्येवंजातीयकः कर्तृ­क­र्मा­दि­भे­द­नि­र्देशो जीवादधिकं ब्रह्म दर्शयति । नन्व­भे­द­नि­र्दे­शोऽपि दर्शितः — ‘तत्त्वमसि’ इत्येवंजातीयकः । कथं भेदाभेदौ विरुद्धौ सम्भवेताम् ? नैष दोषः, आका­श­घ­टा­का­श­न्या­ये­नो­भ­य­स­म्भ­वस्य तत्र तत्र प्रति­ष्ठा­पि­त­त्वात् । अपि च यदा ‘तत्त्वमसि’ इत्ये­वं­जा­ती­य­के­ना­भे­द­नि­र्दे­शे­ना­भेदः प्रतिबोधितो भवति; अपगतं भवति तदा जीवस्य संसारित्वं ब्रह्मणश्च स्रष्टृत्वम्। समस्तस्य मिथ्या­ज्ञा­न­वि­जृ­म्भि­तस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात् । तत्र कुत एव सृष्टिः कुतो वा हिताकरणादयो दोषाः । अवि­द्या­प्र­त्यु­प­स्था­पि­त­ना­म­रू­प­कृ­त­का­र्य­क­र­ण­स­ङ्घा­तो­पा­ध्य­वि­वे­क­कृता हि भ्रान्ति­र्हि­ता­क­र­णा­दि­ल­क्षणः संसारः, न तु पर­मा­र्थ­तोऽ­स्ती­त्य­स­कृ­द­वो­चाम — जन्म­म­र­ण­च्छे­द­न­भे­द­ना­द्य­भि­मा­न­वत् । अबाधिते तु भेदव्यवहारे ‘सोऽन्वेष्टव्यः स विजि­ज्ञा­सि­तव्यः’ इत्येवंजातीयकेन भेद­नि­र्दे­शे­ना­व­ग­म्य­मानं ब्रह्म­णोऽ­धि­कत्वं हिता­क­र­णा­दि­दो­ष­प्र­सक्तिं निरुणद्धि ॥ २२ ॥

अश्मादिवच्च तदनुपपत्तिः ॥ २३ ॥

२३

यथा च लोके पृथि­वी­त्व­सा­मा­न्या­न्वि­ता­ना­म­प्य­श्मनां केचिन्महार्हा मणयो वज्र­वै­डू­र्या­दयः, अन्ये मध्यमवीर्याः सूर्यकान्तादयः, अन्ये प्रहीणाः श्ववा­य­स­प्र­क्षे­प­णार्हाः पाषाणाः — इत्यनेकविधं वैचित्र्यं दृश्यते । यथा चैक­पृ­थि­वी­व्य­पा­श्र­या­णा­मपि बीजानां बहुविधं पत्र­पु­ष्प­फ­ल­ग­न्ध­र­सा­दि­वै­चित्र्यं चन्द­न­किं­पा­का­दि­षू­प­ल­क्ष्यते । यथा चैक­स्या­प्य­न्न­र­सस्य लोहितादीनि केशलोमादीनि च विचित्राणि कार्याणि भवन्ति — एवमेकस्यापि ब्रह्मणो जीव­प्रा­ज्ञ­पृ­थक्त्वं कार्यवैचित्र्यं चोपपद्यत इत्यतः तदनुपपत्तिः, पर­प­रि­क­ल्पि­त­दो­षा­नु­प­प­त्ति­रि­त्यर्थः । श्रुतेश्च प्रामाण्यात् , विकारस्य च वाचा­र­म्भ­ण­मा­त्र­त्वात् स्वप्न­दृ­श्य­भा­व­वै­चि­त्र्य­वच्च — इत्यभ्युच्चयः ॥ २३ ॥

उप­सं­हा­र­द­र्श­ना­न्नेति चेन्न क्षीरवद्धि ॥ २४ ॥

२४

चेतनं ब्रह्मै­क­म­द्वि­तीयं जगतः कारणमिति यदुक्तम् , तन्नोपपद्यते । कस्मात् ? उपसंहारदर्शनात् । इह हि लोके कुलालादयो घटपटादीनां कर्तारो मृद्द­ण्ड­च­क्र­सू­त्र­स­लि­ला­द्य­ने­क­का­र­को­प­सं­हा­रेण सङ्गृहीतसाधनाः सन्त­स्त­त्त­त्कार्यं कुर्वाणा दृश्यन्ते । ब्रह्म चासहायं तवाभिप्रेतम् । तस्य साध­ना­न्त­रा­नु­प­स­ङ्ग्रहे सति कथं स्रष्टृ­त्व­मु­प­प­द्येत ? तस्मान्न ब्रह्म जगत्कारणमिति चेत् , नैष दोषः । यतः क्षीर­व­द्द्र­व्य­स्व­भा­व­वि­शे­षा­दु­प­प­द्यते — यथा हि लोके क्षीरं जलं वा स्वयमेव दधि­हि­म­क­र­का­दि­भा­वेन परि­ण­म­तेऽ­न­पेक्ष्य बाह्यं साधनम् , तथेहापि भविष्यति । ननु क्षीराद्यपि दध्यादिभावेन परिणममानमपेक्षत एव बाह्यं साध­न­मौ­ष्ण्या­दि­कम् । कथमुच्यते ‘क्षीरवद्धि’ इति ? नैष दोषः । स्वयमपि हि क्षीरं यां च यावतीं च परि­णा­म­मा­त्रा­म­नु­भ­व­त्येव । त्वार्यते त्वौष्ण्यादिना दधिभावाय । यदि च स्वयं दधिभावशीलता न स्यात् , नैवौ­ष्ण्या­दि­नापि बला­द्द­धि­भा­व­मा­प­द्येत । न हि वायुराकाशो वा औष्ण्यादिना बला­द्द­धि­भा­व­मा­प­द्यते । साधनसामग्र्या च तस्य पूर्णता सम्पाद्यते । परिपूर्णशक्तिकं तु ब्रह्म । न तस्यान्येन केनचित्पूर्णता सम्पादयितव्या । श्रुतिश्च भवति — ‘न तस्य कार्यं करणं च विद्यते न तत्स­म­श्चा­भ्य­धि­कश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’(श्वे. उ. ६ । ८) इति । तस्मादेकस्यापि ब्रह्मणो विचि­त्र­श­क्ति­यो­गात् क्षीरा­दि­व­द्वि­चि­त्र­प­रि­णाम उपपद्यते ॥ २४ ॥

देवादिवदपि लोके ॥ २५ ॥

२५

स्यादेतत् — उपपद्यते क्षीरा­दी­ना­म­चे­त­ना­ना­म­न­पे­क्ष्यापि बाह्यं साधनं दध्यादिभावः, दृष्टत्वात् । चेतनाः पुनः कुलालादयः साध­न­सा­म­ग्री­म­पे­क्ष्यैव तस्मै तस्मै कार्याय प्रवर्तमाना दृश्यन्ते । कथं ब्रह्म चेतनं सत् असहायं प्रवर्तेतेति — देवादिवदिति ब्रूमः — यथा लोके देवाः पितर ऋषय इत्येवमादयो महा­प्र­भा­वा­श्चे­तना अपि सन्तोऽ­न­पे­क्ष्यैव किञ्चिद्बाह्यं साध­न­मै­श्व­र्य­वि­शे­ष­यो­गा­द­भि­ध्या­न­मा­त्रेण स्वत एव बहूनि नानासंस्थानानि शरीराणि प्रासादादीनि रथादीनि च निर्मिमाणा उपलभ्यन्ते, मन्त्रा­र्थ­वा­दे­ति­हा­स­पु­रा­ण­प्रा­मा­ण्यात् । तन्तुनाभश्च स्वत एव तन्तून्सृजति । बलाका चान्तरेणैव शुक्रं गर्भं धत्ते । पद्मिनी चानपेक्ष्य किञ्चि­त्प्र­स्था­न­सा­धनं सरो­न्त­रा­त्स­रो­न्तरं प्रतिष्ठते । एवं चेतनमपि ब्रह्म अनपेक्ष्य बाह्यं साधनं स्वत एव जगत्स्रक्ष्यति । स यदि ब्रूयात् — य एते देवादयो ब्रह्मणो दृष्टान्ता उपात्तास्ते दार्ष्टान्तिकेन ब्रह्मणा न समाना भवन्ति । शरीरमेव ह्यचेतनं देवादीनां शरी­रा­न्त­रा­दि­वि­भू­त्यु­त्पा­दने उपादानम् । न तु चेतन आत्मा । तन्तुनाभस्य च क्षुद्र­त­र­ज­न्तु­भ­क्ष­णा­ल्लाला कठि­न­ता­मा­प­द्य­माना तन्तुर्भवति । बलाका च स्तन­यि­त्नु­र­व­श्र­व­णा­द्गर्भं धत्ते । पद्मिनी च चेतनप्रयुक्ता सती अचेतनेनैव शरीरेण सरो­न्त­रा­त्स­रो­न्त­र­मु­प­स­र्पति, वल्लीव वृक्षम् । न तु स्वयमेवाचेतना सरोन्तरोपसर्पणे व्याप्रियते । तस्मान्नैते ब्रह्मणो दृष्टान्ता इति — तं प्रति ब्रूयात् — नायं दोषः । कुला­ला­दि­दृ­ष्टा­न्त­वै­ल­क्ष­ण्य­मा­त्रस्य विव­क्षि­त­त्वा­दिति — यथा हि कुलालादीनां देवादीनां च समाने चेतनत्वे कुलालादयः कार्यारम्भे बाह्यं साधनमपेक्षन्ते, न देवादयः । तथा ब्रह्म चेतनमपि न बाह्यं साधनमपेक्षिष्यत इत्येतावद्वयं देवाद्युदाहरणेन विवक्षामः । तस्माद्यथैकस्य सामर्थ्यं दृष्टं तथा सर्वेषामेव भवितुमर्हतीति नास्त्येकान्त इत्यभिप्रायः ॥ २५ ॥

कृत्स्न­प्र­स­क्ति­र्नि­र­व­य­व­त्व­श­ब्द­कोपो वा ॥ २६ ॥

२६

चेत­न­मे­क­म­द्वि­तीयं ब्रह्म क्षीरा­दि­व­द्दे­वा­दि­व­च्चा­न­पेक्ष्य बाह्यं साधनं स्वयं परिणममानं जगतः कारणमिति स्थितम् । शास्त्रा­र्थ­प­रि­शु­द्धये तु पुनराक्षिपति । कृत्स्न­प्र­सक्तिः कृत्स्नस्य ब्रह्मणः कार्यरूपेण परिणामः प्राप्नोति, निरवयवत्वात् — यदि ब्रह्म पृथि­व्या­दि­व­त्सा­व­य­व­म­भ­वि­ष्यत् , ततोऽस्यैकदेशः पर्यणंस्यत् , एक­दे­श­श्चा­वा­स्था­स्यत । निरवयवं तु ब्रह्म श्रुति­भ्योऽ­व­ग­म्यते — ‘निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्’(श्वे. उ. ६ । १९) ‘दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः’(मु. उ. २ । १ । २) ‘इदं मह­द्भू­त­म­न­न्त­म­पारं विज्ञानघन एव’(बृ. उ. २ । ४ । १२) ‘स एष नेति नेत्यात्मा’(बृ. उ. ३ । ९ । २६) ‘अस्थूलमनणु’(बृ. उ. ३ । ८ । ८) इत्याद्याभ्यः सर्व­वि­शे­ष­प्र­ति­षे­धि­नीभ्यः । तत­श्चै­क­दे­श­प­रि­णा­मा­स­म्भ­वा­त्कृ­त्स्न­प­रि­णा­म­प्र­सक्तौ सत्यां मूलोच्छेदः प्रसज्येत । द्रष्ट­व्य­तो­प­दे­शा­न­र्थक्यं च आपद्येत, अय­त्न­दृ­ष्ट­त्वा­त्का­र्यस्य, तद्व्य­ति­रि­क्तस्य च ब्रह्म­णोऽ­स­म्भ­वात् । अज­त्वा­दि­श­ब्द­को­पश्च । अथै­त­द्दो­ष­प­रि­जि­ही­र्षया सावयवमेव ब्रह्मा­भ्यु­प­ग­म्येत, तथापि ये निरवयवत्वस्य प्रतिपादकाः शब्दा उदाहृतास्ते प्रकुप्येयुः । सावयवत्वे चानि­त्य­त्व­प्र­सङ्ग इति — सर्वथायं पक्षो न घटयितुं शक्यत इत्याक्षिपति ॥ २६ ॥

श्रुतेस्तु शब्दमूलत्वात् ॥ २७ ॥

२७

तुशब्देनाक्षेपं परिहरति । न खल्वस्मत्पक्षे कश्चिदपि दोषोऽस्ति । न ताव­त्कृ­त्स्न­प्र­स­क्ति­रस्ति । कुतः ? श्रुतेः — यथैव हि ब्रह्मणो जगदुत्पत्तिः श्रूयते, एवं विका­र­व्य­ति­रे­के­णापि ब्रह्म­णोऽ­व­स्थानं श्रूयते — प्रकृ­ति­वि­का­र­यो­र्भे­देन व्यपदेशात् ‘सेयं देवतैक्षत हन्ता­ह­मि­मा­स्तिस्रो देवता अनेन जीवे­ना­त्म­ना­नु­प्र­विश्य नामरूपे व्याकरवाणि’(छा. उ. ६ । ३ । २) इति, ‘तावानस्य महिमा ततो ज्यायाꣳश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’(छा. उ. ३ । १२ । ६) इति चैवंजातीयकात् । तथा हृद­या­य­त­न­त्व­व­च­नात्; सत्स­म्प­त्ति­व­च­नाच्च — यदि च कृत्स्नं ब्रह्म कार्य­भा­वे­नो­प­युक्तं स्यात् , ‘सता सोम्य तदा सम्पन्नो भवति’(छा. उ. ६ । ८ । १) इति सुषुप्तिगतं विशेषणमनुपपन्नं स्यात् , विकृतेन ब्रह्मणा नित्य­स­म्प­न्न­त्वा­द­वि­कृ­तस्य च ब्रह्मणोऽभावात् । तथे­न्द्रि­य­गो­च­र­त्व­प्र­ति­षे­धात् ब्रह्मणो, विकारस्य चेन्द्रि­य­गो­च­र­त्वो­प­पत्तेः । तस्मा­द­स्त्य­वि­कृतं ब्रह्म । न च निर­व­य­व­त्व­श­ब्द­को­पोऽस्ति, श्रूयमाणत्वादेव निर­व­य­व­त्व­स्या­प्य­भ्यु­प­ग­म्य­मा­न­त्वात् । शब्दमूलं च ब्रह्म शब्दप्रमाणकम् । नेन्द्रि­या­दि­प्र­मा­ण­कम् । तद्य­था­श­ब्द­म­भ्यु­प­ग­न्त­व्यम् । शब्दश्चोभयमपि ब्रह्मणः प्रतिपादयति — अकृ­त्स्न­प्र­सक्तिं निरवयवत्वं च । लौकिकानामपि मणि­म­न्त्रौ­ष­धि­प्र­भृ­तीनां देश­का­ल­नि­मि­त्त­वै­चि­त्र्य­व­शा­च्छ­क्तयो विरु­द्धा­ने­क­का­र्य­वि­षया दृश्यन्ते । ता अपि ताव­न्नो­प­दे­श­म­न्त­रेण केवलेन तर्केणावगन्तुं शक्यन्ते — अस्य वस्तुन एतावत्य एतत्सहाया एतद्विषया एतत्प्रयोजनाश्च शक्तय इति । किमु­ता­चि­न्त्य­स्व­भा­वस्य ब्रह्मणो रूपं विना शब्देन न निरूप्येत । तथा चाहुः पौराणिकाः — ‘अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् । प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम्’ इति । तस्माच्छब्दमूल एवा­ती­न्द्रि­या­र्थ­या­था­त्म्या­धि­गमः । ननु शब्देनापि न शक्यते विरुद्धोऽर्थः प्रत्याययितुम् — निरवयवं च ब्रह्म परिणमते न च कृत्स्नमिति । यदि निरवयवं ब्रह्म स्यात् , नैव परिणमेत, कृत्स्नमेव वा परिणमेत । अथ केनचिद्रूपेण परिणमेत केन­चि­च्चा­व­ति­ष्ठे­तेति, रूप­भे­द­क­ल्प­ना­त्सा­व­य­व­मेव प्रसज्येत । क्रियाविषये हि ‘अतिरात्रे षोडशिनं गृह्णाति’ ‘नातिरात्रे षोडशिनं गृह्णाति’ इत्ये­वं­जा­ती­य­कायां विरोधप्रतीतावपि विकल्पाश्रयणं विरो­ध­प­रि­हा­र­का­रणं भवति, पुरु­ष­त­न्त्र­त्वा­च्चा­नु­ष्ठा­नस्य । इह तु विक­ल्पा­श्र­य­णे­नापि न विरोधपरिहारः सम्भवति, अपु­रु­ष­त­न्त्र­त्वा­द्व­स्तुनः । तस्मा­द्दु­र्घ­ट­मे­त­दिति । नैष दोषः, अवि­द्या­क­ल्पि­त­रू­प­भे­दा­भ्यु­प­ग­मात् । न ह्यवि­द्या­क­ल्पि­तेन रूपभेदेन सावयवं वस्तु सम्पद्यते । न हि तिमि­रो­प­ह­त­न­य­ने­ना­नेक इव चन्द्रमा दृश्यमानोऽनेक एव भवति । अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृ­ता­व्या­कृ­ता­त्म­केन तत्त्वा­न्य­त्वा­भ्या­म­नि­र्व­च­नी­येन ब्रह्म परि­णा­मा­दि­स­र्व­व्य­व­हा­रा­स्प­दत्वं प्रतिपद्यते । पारमार्थिकेन च रूपेण सर्व­व्य­व­हा­रा­ती­त­म­प­रि­ण­त­म­व­ति­ष्ठते, वाचा­र­म्भ­ण­मा­त्र­त्वा­च्चा­वि­द्या­क­ल्पि­तस्य नामरूपभेदस्य — इति न निरवयवत्वं ब्रह्मणः कुप्यति । न चेयं परिणामश्रुतिः परि­णा­म­प्र­ति­पा­द­नार्था, तत्प्रतिपत्तौ फलानवगमात् । सर्व­व्य­व­हा­र­ही­न­ब्र­ह्मा­त्म­भा­व­प्र­ति­पा­द­नार्था त्वेषा, तत्प्रतिपत्तौ फलावगमात्; ‘स एष नेति नेत्यात्मा’ इत्युपक्रम्याह ‘अभयं वै जनक प्राप्तोऽसि’(बृ. उ. ४ । २ । ४) इति; तस्मा­द­स्म­त्पक्षे न कश्चिदपि दोष­प्र­स­ङ्गोऽस्ति ॥ २७ ॥

आत्मनि चैवं विचित्राश्च हि ॥ २८ ॥

२८

अपि च नैवात्र विवदितव्यम् — कथ­मे­क­स्मि­न्ब्र­ह्मणि स्वरू­पा­नु­प­म­र्दे­नै­वा­ने­का­कारा सृष्टिः स्यादिति । यत आत्म­न्य­प्ये­क­स्मि­न्स्व­प्न­दृशि स्वरू­पा­नु­प­म­र्दे­नै­वा­ने­का­कारा सृष्टिः पठ्यते — ‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथा­न्र­थ­यो­गा­न्पथः सृजते’(बृ. उ. ४ । ३ । १०) इत्यादिना । लोकेऽपि देवादिषु मायाव्यादिषु च स्वरू­पा­नु­प­म­र्दे­नैव विचित्रा हस्त्य­श्वा­दि­सृ­ष्टयो दृश्यन्ते । तथैकस्मिन्नपि ब्रह्मणि स्वरू­पा­नु­प­म­र्दे­नै­वा­ने­का­कारा सृष्टि­र्भ­वि­ष्य­तीति ॥ २८ ॥

स्वपक्षदोषाच्च ॥ २९ ॥

२९

परेषामप्येष समानः स्वपक्षे दोषः — प्रधानवादिनोऽपि हि निर­व­य­व­म­प­रि­च्छिन्नं शब्दादिहीनं प्रधानं सावयवस्य परिच्छिन्नस्य शब्दादिमतः कार्यस्य कारणमिति स्वपक्षः । तत्रापि कृत्स्न­प्र­स­क्ति­र्नि­र­व­य­व­त्वा­त्प्र­धा­नस्य प्राप्नोति, निर­व­य­व­त्वा­भ्यु­प­ग­म­कोपो वा । ननु नैव तैर्निरवयवं प्रधा­न­म­भ्यु­प­ग­म्यते । सत्त्व­र­ज­स्त­मांसि हि त्रयो गुणाः । तेषां साम्यावस्था प्रधानम् । तैरे­वा­व­य­वै­स्त­त्सा­व­य­व­मिति — नैवंजातीयकेन सावयवत्वेन प्रकृतो दोषः परिहर्तुं पार्यते, यतः सत्त्व­र­ज­स्त­म­सा­म­प्ये­कै­कस्य समानं निरवयवत्वम् एकैकमेव चेत­र­द्व­या­नु­गृ­हीतं सजातीयस्य प्रप­ञ्च­स्यो­पा­दा­न­मिति — समा­न­त्वा­त्स्व­प­क्ष­दो­ष­प्र­स­ङ्गस्य । तर्का­प्र­ति­ष्ठा­ना­त्सा­व­य­व­त्व­मे­वेति चेत् — एव­म­प्य­नि­त्य­त्वा­दि­दो­ष­प्र­सङ्गः । अथ शक्तय एव कार्य­वै­चि­त्र्य­सू­चिता अवयवा इत्यभिप्रायः, तास्तु ब्रह्म­वा­दि­नोऽ­प्य­वि­शिष्टाः । तथा अणु­वा­दि­नोऽ­प्य­णु­र­ण्व­न्त­रेण संयुज्यमानो निरवयवत्वाद्यदि कार्त्स्न्येन संयुज्येत, ततः प्रथि­मा­नु­प­प­त्ते­र­णु­मा­त्र­त्व­प्र­सङ्गः । अथैकदेशेन संयुज्येत, तथापि निर­व­य­व­त्वा­भ्यु­प­ग­म­कोप इति — स्वपक्षेऽपि समान एष दोषः । समानत्वाच्च नान्य­त­र­स्मि­न्नेव पक्षे उपक्षेप्तव्यो भवति । परिहृतस्तु ब्रह्मवादिना स्वपक्षे दोषः ॥ २९ ॥

सर्वोपेता च तद्दर्शनात् ॥ ३० ॥

३०

एकस्यापि ब्रह्मणो विचि­त्र­श­क्ति­यो­गा­दु­प­प­द्यते विचित्रो विकारप्रपञ्च इत्युक्तम् । तत्पुनः कथमवगम्यते — विचि­त्र­श­क्ति­युक्तं परं ब्रह्मेति ? तदुच्यते — सर्वोपेता च तद्दर्शनात् । सर्वशक्तियुक्ता च परा देव­ते­त्य­भ्यु­प­ग­न्त­व्यम् । कुतः ? तद्दर्शनात् । तथा हि दर्शयति श्रुतिः सर्वशक्तियोगं परस्या देवतायाः — ‘सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्व­मि­द­म­भ्या­त्तोऽ­वा­क्य­ना­दरः’(छा. उ. ३ । १४ । ४) ‘सत्यकामः सत्यसङ्कल्पः’(छा. उ. ८ । ७ । १) ‘यः सर्वज्ञः सर्ववित्’(मु. उ. १ । १ । ९) ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’(बृ. उ. ३ । ८ । ९) इत्येवंजातीयका ॥ ३० ॥

विकरणत्वान्नेति चेत्तदुक्तम् ॥ ३१ ॥

३१

स्यादेतत् — विकरणां परां देवतां शास्ति शास्त्रम् — ‘अच­क्षु­ष्क­म­श्रो­त्र­म­वा­ग­मनाः’(बृ. उ. ३ । ८ । ८) इत्येवंजातीयकम् । कथं सा सर्व­श­क्ति­यु­क्तापि सती कार्याय प्रभवेत् ? देवादयो हि चेतनाः सर्वशक्तियुक्ता अपि सन्त आध्या­त्मि­क­का­र्य­क­र­ण­स­म्पन्ना एव तस्मै तस्मै कार्याय प्रभवन्तो विज्ञायन्ते । कथं च ‘नेति नेति’(बृ. उ. ३ । ९ । २६) इति प्रति­षि­द्ध­स­र्व­वि­शे­षाया देवतायाः सर्वशक्तियोगः सम्भवेत् , इति चेत् — यदत्र वक्तव्यं तत्पु­र­स्ता­दे­वो­क्तम् । श्रुत्य­व­गा­ह्य­मे­वे­द­म­ति­ग­म्भीरं ब्रह्म न तर्कावगाह्यम् । न च यथैकस्य सामर्थ्यं दृष्टं तथान्यस्यापि सामर्थ्येन भवितव्यमिति नियमोऽस्तीति । प्रति­षि­द्ध­स­र्व­वि­शे­ष­स्यापि ब्रह्मणः सर्वशक्तियोगः सम्भ­व­ती­त्ये­त­द­प्य­वि­द्या­क­ल्पि­त­रू­प­भे­दो­प­न्या­से­नो­क्त­मेव । तथा च शास्त्रम् — ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः’(श्वे. उ. ३ । १९) इत्यकरणस्यापि ब्रह्मणः सर्व­सा­म­र्थ्य­योगं दर्शयति ॥ ३१ ॥

न प्रयो­ज­न­व­त्त्वात् ॥ ३२ ॥

३२

अन्यथा पुन­श्चे­त­न­क­र्तृ­कत्वं जगत आक्षिपति — न खलु चेतनः परमात्मेदं जगद्बिम्बं विरचयितुमर्हति । कुतः ? प्रयो­ज­न­व­त्त्वा­त्प्र­वृ­त्ती­नाम् । चेतनो हि लोके बुद्धिपूर्वकारी पुरुषः प्रवर्तमानो न मन्दोपक्रमामपि ताव­त्प्र­वृ­त्ति­मा­त्म­प्र­यो­ज­ना­नु­प­यो­गि­नी­मा­र­भ­माणो दृष्टः, किमुत गुरुतरसंरम्भाम् । भवति च लोक­प्र­सि­द्ध्य­नु­वा­दिनी श्रुतिः — ‘न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति’(बृ. उ. २ । ४ । ५) इति । गुरुतरसंरम्भा चेयं प्रवृत्तिः — यदु­च्चा­व­च­प्र­पञ्चं जगद्बिम्बं विरचयितव्यम् । यदीयमपि प्रवृ­त्ति­श्चे­त­नस्य परमात्मन आत्म­प्र­यो­ज­नो­प­यो­गिनी परिकल्प्येत, परितृप्तत्वं परमात्मनः श्रूयमाणं बाध्येत । प्रयोजनाभावे वा प्रवृ­त्त्य­भा­वोऽपि स्यात् । अथ चेतनोऽपि सन् उन्मत्तो बुद्ध्य­प­रा­धा­द­न्त­रे­णै­वा­त्म­प्र­यो­जनं प्रवर्तमानो दृष्टः, तथा परमात्मापि प्रवर्तिष्यते इत्युच्येत — तथा सति सर्वज्ञत्वं परमात्मनः श्रूयमाणं बाध्येत । तस्मादश्लिष्टा चेत­ना­त्सृ­ष्टि­रिति ॥ ३२ ॥

लोकवत्तु लीलाकैवल्यम् ॥ ३३ ॥

३३

तुशब्देनाक्षेपं परिहरति । यथा लोके कस्य­चि­दा­प्तै­ष­णस्य राज्ञो राजामात्यस्य वा व्यतिरिक्तं किञ्चि­त्प्र­यो­ज­न­म­न­भि­स­न्धाय केवलं लीलारूपाः प्रवृत्तयः क्रीडाविहारेषु भवन्ति; यथा चोच्छ्वा­स­प्र­श्वा­सा­द­योऽ­न­भि­स­न्धाय बाह्यं किञ्चि­त्प्र­यो­जनं स्वभावादेव सम्भवन्ति; एव­मी­श्व­र­स्या­प्य­न­पेक्ष्य किञ्चि­त्प्र­यो­ज­ना­न्तरं स्वभावादेव केवलं लीलारूपा प्रवृ­त्ति­र्भ­वि­ष्यति । न हीश्वरस्य प्रयोजनान्तरं निरूप्यमाणं न्यायतः श्रुतितो वा सम्भवति । न च स्वभावः पर्यनुयोक्तुं शक्यते । यद्य­प्य­स्मा­क­मियं जगद्बिम्बविरचना गुरु­त­र­सं­र­म्भे­वा­भाति, तथापि परमेश्वरस्य लीलैव केवलेयम् , अप­रि­मि­त­श­क्ति­त्वात् । यदि नाम लोके लीलास्वपि किञ्चि­त्सूक्ष्मं प्रयो­ज­न­मु­त्प्रे­क्ष्येत, तथापि नैवात्र किञ्चि­त्प्र­यो­ज­न­मु­त्प्रे­क्षितुं शक्यते, आप्तकामश्रुतेः । नाप्य­प्र­वृ­त्ति­रु­न्म­त्त­प्र­वृ­त्तिर्वा, सृष्टिश्रुतेः, सर्व­ज्ञ­श्रु­तेश्च । न चेयं परमार्थविषया सृष्टिश्रुतिः । अवि­द्या­क­ल्पि­त­ना­म­रू­प­व्य­व­हा­र­गो­च­र­त्वात् , ब्रह्मा­त्म­भा­व­प्र­ति­पा­द­न­प­र­त्वाच्च — इत्येतदपि नैव विस्मर्तव्यम् ॥ ३३ ॥

वैष­म्य­नै­र्घृण्ये न सापे­क्ष­त्वा­त्त­थाहि दर्शयति ॥ ३४ ॥

३४

पुनश्च जग­ज्ज­न्मा­दि­हे­तु­त्व­मी­श्व­र­स्या­क्षि­प्यते, स्थूणा­नि­ख­न­न­न्या­येन प्रति­ज्ञा­त­स्या­र्थस्य दृढीकरणाय । नेश्वरो जगतः कारणमुपपद्यते । कुतः ? वैष­म्य­नै­र्घृ­ण्य­प्र­स­ङ्गात् — कांश्चि­द­त्य­न्त­सु­ख­भाजः करोति देवादीन् , कांश्चि­द­त्य­न्त­दुः­ख­भाजः पश्वादीन् , कांश्चि­न्म­ध्य­म­भो­ग­भाजो मनुष्यादीन् — इत्येवं विषमां सृष्टिं निर्मि­मा­ण­स्ये­श्व­रस्य पृथग्जनस्येव राग­द्वे­षो­प­पत्तेः, श्रुति­स्मृ­त्य­व­धा­रि­त­स्व­च्छ­त्वा­दी­श्व­र­स्व­भा­व­वि­लोपः प्रसज्येत । तथा खलजनैरपि जुगुप्सितं निर्घृ­ण­त्व­म­ति­क्रू­रत्वं दुःख­यो­ग­वि­धा­ना­त्स­र्व­प्र­जो­प­सं­हा­राच्च प्रसज्येत । तस्मा­द्वै­ष­म्य­नै­र्घृ­ण्य­प्र­स­ङ्गा­न्ने­श्वरः कारणमित्येवं प्राप्ते ब्रूमः —

वैष­म्य­नै­र्घृण्ये नेश्वरस्य प्रसज्येते । कस्मात् ? सापेक्षत्वात् । यदि हि निरपेक्षः केवल ईश्वरो विषमां सृष्टिं निर्मिमीते, स्यातामेतौ दोषौ — वैषम्यं नैर्घृण्यं च । न तु निरपेक्षस्य निर्मा­तृ­त्व­मस्ति । सापेक्षो हीश्वरो विषमां सृष्टिं निर्मिमीते । किमपेक्षत इति चेत् — धर्मा­ध­र्मा­व­पे­क्षत इति वदामः । अतः सृज्य­मा­न­प्रा­णि­ध­र्मा­ध­र्मा­पेक्षा विषमा सृष्टिरिति नाय­मी­श्व­र­स्या­प­राधः । ईश्वरस्तु पर्ज­न्य­व­द्द्र­ष्टव्यः — यथा हि पर्जन्यो व्रीहि­य­वा­दि­सृष्टौ साधारणं कारणं भवति, व्रीहि­य­वा­दि­वै­षम्ये तु तत्त­द्बी­ज­ग­ता­न्ये­वा­सा­धा­र­णानि सामर्थ्यानि कारणानि भवन्ति, एवमीश्वरो देव­म­नु­ष्या­दि­सृष्टौ साधारणं कारणं भवति, देव­म­नु­ष्या­दि­वै­षम्ये तु तत्त­ज्जी­व­ग­ता­न्ये­वा­सा­धा­र­णानि कर्माणि कारणानि भवन्ति । एवमीश्वरः सापेक्षत्वान्न वैष­म्य­नै­र्घृ­ण्याभ्यां दुष्यति । कथं पुनरवगम्यते सापेक्ष ईश्वरो नीचमध्यमोत्तमं संसारं निर्मिमीत इति ? तथा हि दर्शयति श्रुतिः — ‘एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवासाधु कर्म कारयति तं यमधो निनीषते’(कौ. उ. ३ । ८) इति, ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’(बृ. उ. ३ । २ । १३) इति च । स्मृतिरपि प्राणि­क­र्म­वि­शे­षा­पे­क्ष­मे­वे­श्व­र­स्या­नु­ग्र­ही­तृत्वं निग्रहीतृत्वं च दर्शयति — ‘ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्’(भ. गी. ४ । ११) इत्येवंजातीयका ॥ ३४ ॥

न कर्माविभागादिति चेन्ना­ना­दि­त्वात् ॥ ३५ ॥

३५

‘सदेव सोम्येदमग्र आसी­दे­क­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) इति प्राक्सृ­ष्टे­र­वि­भा­गा­व­धा­र­णा­न्नास्ति कर्म, यदपेक्ष्य विषमा सृष्टिः स्यात् । सृष्ट्यु­त्त­र­कालं हि शरी­रा­दि­वि­भा­गा­पेक्षं कर्म, कर्मापेक्षश्च शरीरादिविभागः — इती­त­रे­त­रा­श्र­यत्वं प्रसज्येत । अतो विभागादूर्ध्वं कर्मापेक्ष ईश्वरः प्रवर्ततां नाम । प्राग्वि­भा­गा­द्वै­चि­त्र्य­नि­मि­त्तस्य कर्म­णोऽ­भा­वा­त्तु­ल्यै­वाद्या सृष्टिः प्राप्नोतीति चेत् , नैष दोषः । अना­दि­त्वा­त्सं­सा­रस्य; भवेदेष दोषः, यद्यादिमान् संसारः स्यात् । अनादौ तु संसारे बीजा­ङ्कु­र­व­द्धे­तु­हे­तु­म­द्भा­वेन कर्मणः सर्गवैषम्यस्य च प्रवृत्तिर्न विरुध्यते ॥ ३५ ॥

कथं पुनरवगम्यते — अनादिरेष संसार इति ? अत उत्तरं पठति —

उपपद्यते चाप्युपलभ्यते च ॥ ३६ ॥

३६

उपपद्यते च संसा­र­स्या­ना­दि­त्वम् — आदिमत्त्वे हि संसा­र­स्या­क­स्मा­दु­द्भू­ते­र्मु­क्ता­ना­मपि पुनः संसा­रो­द्भू­ति­प्र­सङ्गः, अकृ­ता­भ्या­ग­म­प्र­स­ङ्गश्च, सुख­दुः­खा­दि­वै­ष­म्यस्य निर्नि­मि­त्त­त्वात्; न चेश्वरो वैष­म्य­हे­तु­रि­त्यु­क्तम् । न चाविद्या केवला वैषम्यस्य कारणम् , एकरूपत्वात् । रागा­दि­क्ले­श­वा­स­ना­क्षि­प्त­क­र्मा­पेक्षा त्वविद्या वैषम्यकरी स्यात् । न च कर्म अन्तरेण शरीरं सम्भवति, न च शरीरमन्तरेण कर्म सम्भवति — इती­त­रे­त­रा­श्र­य­त्व­प्र­सङ्गः । अनादित्वे तु बीजा­ङ्कु­र­न्या­ये­नो­प­प­त्तेर्न कश्चिद्दोषो भवति । उपलभ्यते च संसा­र­स्या­ना­दित्वं श्रुतिस्मृत्योः । श्रुतौ तावत् — ‘अनेन जीवेनात्मना’(छा. उ. ६ । ३ । २) इति सर्गप्रमुखे शारीरमात्मानं जीवशब्देन प्राण­धा­र­ण­नि­मि­त्ते­ना­भि­ल­प­न्न­नादिः संसार इति दर्शयति । आदिमत्त्वे तु प्राग­धा­रि­त­प्राणः सन् कथं प्राण­धा­र­ण­नि­मि­त्तेन जीवशब्देन सर्ग­प्र­मु­खेऽ­भि­ल­प्येत ? न च धार­यि­ष्य­ती­त्य­तोऽ­भि­ल­प्येत — अनागताद्धि सम्बन्धादतीतः सम्बन्धो बलवान्भवति, अभि­नि­ष्प­न्न­त्वात् । ‘सूर्या­च­न्द्र­मसौ धाता यथा­पू­र्व­म­क­ल्प­यत्’(ऋ. सं. १० । १९० । ३) इति च मन्त्रवर्णः पूर्व­क­ल्प­स­द्भावं दर्शयति । स्मृता­व­प्य­ना­दित्वं संसा­र­स्यो­प­ल­भ्यते — ‘न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा’(भ. गी. १५ । ३) इति । पुराणे चाती­ता­ना­म­ना­ग­तानां च कल्पानां न परिमाणमस्तीति स्थापितम् ॥ ३६ ॥

सर्व­ध­र्मो­प­प­त्तेश्च ॥ ३७ ॥

३७

चेतनं ब्रह्म जगतः कारणं प्रकृ­ति­श्चे­त्य­स्मि­न्न­व­धा­रिते वेदार्थे परै­रु­प­क्षि­प्ता­न्वि­ल­क्ष­ण­त्वा­दी­न्दो­षा­न्प­र्य­हा­र्षी­दा­चार्यः । इदानीं पर­प­क्ष­प्र­ति­षे­ध­प्र­धानं प्रकरणं प्रारिप्समाणः स्वप­क्ष­प­रि­ग्र­ह­प्र­धानं प्रकरणमुपसंहरति । यस्मा­द­स्मि­न्ब्र­ह्मणि कारणे परिगृह्यमाणे प्रदर्शितेन प्रकारेण सर्वे कारणधर्मा उपपद्यन्ते ‘सर्वज्ञं सर्वशक्ति महामायं च ब्रह्म’ इति, तस्मा­द­न­ति­श­ङ्क­नी­य­मि­द­मौ­प­नि­षदं दर्शनमिति ॥ ३७ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ शारी­र­क­मी­मां­सा­सू­त्र­भाष्ये द्विती­या­ध्या­यस्य प्रथमः पादः ॥

द्वितीयः पादः

यद्यपीदं वेदा­न्त­वा­क्या­ना­मै­दं­पर्यं निरूपयितुं शास्त्रं प्रवृत्तम् , न तर्क­शा­स्त्र­व­त्के­व­ला­भि­र्यु­क्तिभिः कञ्चि­त्सि­द्धान्तं साधयितुं दूषयितुं वा प्रवृत्तम् , तथापि वेदान्तवाक्यानि व्याचक्षाणैः सम्य­ग्द­र्श­न­प्र­ति­प­क्ष­भू­तानि साङ्ख्या­दि­द­र्श­नानि निराकरणीयानीति तदर्थः परः पादः प्रवर्तते । वेदा­न्ता­र्थ­नि­र्ण­यस्य च सम्य­ग्द­र्श­ना­र्थ­त्वा­त्त­न्नि­र्ण­येन स्वपक्षस्थापनं प्रथमं कृतम् — तद्ध्यभ्यर्हितं पर­प­क्ष­प्र­त्या­ख्या­ना­दिति । ननु मुमुक्षूणां मोक्षसाधनत्वेन सम्य­ग्द­र्श­न­नि­रू­प­णाय स्वप­क्ष­स्था­प­न­मेव केवलं कर्तुं युक्तम् । किं परपक्षनिराकरणेन परविद्वेषकरेण ? बाढमेवम् । तथापि महा­ज­न­प­रि­गृ­ही­तानि महान्ति साङ्ख्या­दि­त­न्त्राणि सम्य­ग्द­र्श­ना­प­दे­शेन प्रवृ­त्ता­न्यु­प­लभ्य भवे­त्के­षा­ञ्चि­न्म­न्द­म­ती­नाम् — एतान्यपि सम्य­ग्द­र्श­ना­यो­पा­दे­यानि — इत्यपेक्षा, तथा युक्ति­गा­ढ­त्व­स­म्भ­वेन सर्व­ज्ञ­भा­षि­त­त्वाच्च श्रद्धा च तेषु — इत्य­त­स्त­द­सा­र­तो­प­पा­द­नाय प्रयत्यते । ननु ‘ईक्ष­ते­र्ना­श­ब्दम्’(ब्र. सू. १ । १ । ५) ‘कामाच्च नानुमानापेक्षा’(ब्र. सू. १ । १ । १८) ‘एतेन सर्वे व्याख्याता व्याख्याताः’(ब्र. सू. १ । ४ । २८) इति च पूर्वत्रापि साङ्ख्या­दि­प­क्ष­प्र­ति­क्षेपः कृतः; किं पुनः कृतकरणेनेति । तदुच्यते — साङ्ख्यादयः स्वपक्षस्थापनाय वेदा­न्त­वा­क्या­न्य­प्यु­दा­हृत्य स्वप­क्षा­नु­गु­ण्ये­नैव योजयन्तो व्याचक्षते, तेषां यद्व्याख्यानं तद्व्या­ख्या­ना­भा­सम् , न सम्य­ग्व्या­ख्या­नम् — इत्ये­ता­व­त्पूर्वं कृतम्; इह तु वाक्यनिरपेक्षः स्वत­न्त्र­स्त­द्यु­क्ति­प्र­ति­षेधः क्रियत इत्येष विशेषः ॥

रचनानुपपत्तेश्च नानुमानम् ॥ १ ॥

तत्र साङ्ख्या मन्यन्ते — यथा घटशरावादयो भेदा मृदा­त्म­क­त­या­न्वी­य­माना मृदा­त्म­क­सा­मा­न्य­पू­र्वका लोके दृष्टाः, तथा सर्व एव बाह्या­ध्या­त्मिका भेदाः सुख­दुः­ख­मो­हा­त्म­क­त­या­न्वी­य­मानाः सुख­दुः­ख­मो­हा­त्म­क­सा­मा­न्य­पू­र्वका भवितुमर्हन्ति । यत्त­त्सु­ख­दुः­ख­मो­हा­त्मकं सामान्यं तत्त्रिगुणं प्रधानं मृद्वदचेतनं चेतनस्य पुरुषस्यार्थं साधयितुं स्वभावेनैव विचित्रेण विकारात्मना प्रवर्तत इति । तथा परिमाणादिभिरपि लिङ्गैस्तदेव प्रधानमनुमिमते ॥

तत्र वदामः — यदि दृष्टा­न्त­ब­ले­नै­वै­त­न्नि­रू­प्येत, नाचेतनं लोके चेतनानधिष्ठितं स्वतन्त्रं किञ्चि­द्वि­शि­ष्ट­पु­रु­षा­र्थ­नि­र्व­र्त­न­स­म­र्था­न्वि­का­रा­न्वि­र­च­य­द्दृ­ष्टम् । गेह­प्रा­सा­द­श­य­ना­स­न­वि­हा­र­भू­म्या­दयो हि लोके प्रज्ञावद्भिः शिल्पि­भि­र्य­था­कालं सुख­दुः­ख­प्रा­प्ति­प­रि­हा­र­योग्या रचिता दृश्यन्ते । तथेदं जगदखिलं पृथिव्यादि नाना­क­र्म­फ­लो­प­भो­ग­योग्यं बाह्य­मा­ध्या­त्मिकं च शरीरादि नानाजात्यन्वितं प्रति­नि­य­ता­व­य­व­वि­न्या­स­म­ने­क­क­र्म­फ­ला­नु­भ­वा­धि­ष्ठानं दृश्यमानं प्रज्ञावद्भिः सम्भाविततमैः शिल्पि­भि­र्म­न­सा­प्या­लो­च­यि­तु­म­शक्यं सत् कथमचेतनं प्रधानं रचयेत् ? लोष्ट­पा­षा­णा­दि­ष्व­दृ­ष्ट­त्वात् । मृदादिष्वपि कुम्भ­का­रा­द्य­धि­ष्ठि­तेषु विशिष्टाकारा रचना दृश्यते — तद्व­त्प्र­धा­न­स्यापि चेत­ना­न्त­रा­धि­ष्ठि­त­त्व­प्र­सङ्गः । न च मृदा­द्यु­पा­दा­न­स्व­रू­प­व्य­पा­श्र­ये­णैव धर्मेण मूल­का­र­ण­म­व­धा­र­णी­यम् , न बाह्य­कु­म्भ­का­रा­दि­व्य­पा­श्र­येण — इति किञ्चि­न्नि­या­म­क­मस्ति । न चैवं सति किञ्चि­द्वि­रु­ध्यते, प्रत्युत श्रुति­र­नु­गृ­ह्यते, चेत­न­का­र­ण­स­म­र्प­णात् । अतो रचनानुपपत्तेश्च हेतोर्नाचेतनं जग­त्का­र­ण­म­नु­मा­तव्यं भवति । अन्व­या­द्य­नु­प­प­त्ते­श्चेति चशब्देन हेतोरसिद्धिं समुच्चिनोति । न हि बाह्या­ध्या­त्मि­कानां भेदानां सुख­दुः­ख­मो­हा­त्म­क­त­या­न्वय उपपद्यते, सुखादीनां चान्त­र­त्व­प्र­तीतेः, शब्दादीनां चात­द्रू­प­त्व­प्र­तीतेः, तन्नि­मि­त्त­त्व­प्र­ती­तेश्च, शब्दा­द्य­वि­शे­षेऽपि च भाव­ना­वि­शे­षा­त्सु­खा­दि­वि­शे­षो­प­लब्धेः । तथा परिमितानां भेदानां मूलाङ्कुरादीनां संस­र्ग­पू­र्व­कत्वं दृष्ट्वा बाह्या­ध्या­त्मि­कानां भेदानां परि­मि­त­त्वा­त्सं­स­र्ग­पू­र्व­क­त्व­म­नु­मि­मा­नस्य सत्त्व­र­ज­स्त­म­सा­मपि संस­र्ग­पू­र्व­क­त्व­प्र­सङ्गः, परि­मि­त­त्वा­वि­शे­षात् । कार्य­का­र­ण­भा­वस्तु प्रेक्षा­पू­र्व­क­नि­र्मि­तानां शयनासनादीनां दृष्ट इति न कार्य­का­र­ण­भा­वा­द्बा­ह्या­ध्या­त्मि­कानां भेदा­ना­म­चे­त­न­पू­र्व­कत्वं शक्यं कल्पयितुम् ॥ १ ॥

प्रवृत्तेश्च ॥ २ ॥

आस्तां तावदियं रचना । तत्सिद्ध्यर्था या प्रवृत्तिः — साम्या­व­स्था­ना­त्प्र­च्युतिः, सत्त्व­र­ज­स्त­म­सा­म­ङ्गा­ङ्गि­भा­व­रू­पा­पत्तिः, विशि­ष्ट­का­र्या­भि­मु­ख­प्र­वृ­त्तिता — सापि नाचेतनस्य प्रधानस्य स्वत­न्त्र­स्यो­प­प­द्यते, मृदा­दि­ष्व­द­र्श­ना­द्र­था­दिषु च । न हि मृदादयो रथादयो वा स्वयमचेतनाः सन्तश्चेतनैः कुला­ला­दि­भि­र­श्वा­दि­भि­र्वा­न­धि­ष्ठिता विशि­ष्ट­का­र्या­भि­मु­ख­प्र­वृ­त्तयो दृश्यन्ते । दृष्टा­च्चा­दृ­ष्ट­सिद्धिः । अतः प्रवृ­त्त्य­नु­प­प­त्ते­रपि हेतोर्नाचेतनं जग­त्का­र­ण­म­नु­मा­तव्यं भवति । ननु चेतनस्यापि प्रवृत्तिः केवलस्य न दृष्टा — सत्यमेतत् — तथापि चेतनसंयुक्तस्य रथादेरचेतनस्य प्रवृ­त्ति­र्दृष्टा; न त्वचे­त­न­सं­यु­क्तस्य चेतनस्य प्रवृ­त्ति­र्दृष्टा । किं पुनरत्र युक्तम् — यस्मि­न्प्र­वृ­त्ति­र्दृष्टा तस्य सा, उत यत्स­म्प्र­यु­क्तस्य दृष्टा तस्य सेति ? ननु यस्मिन्दृश्यते प्रवृ­त्ति­स्त­स्यैव सेति युक्तम् , उभयोः प्रत्य­क्ष­त्वात्; न तु प्रवृ­त्त्या­श्र­य­त्वेन केवलश्चेतनो रथा­दि­व­त्प्र­त्यक्षः । प्रवृ­त्त्या­श्र­य­दे­हा­दि­सं­यु­क्त­स्यैव तु चेतनस्य सद्भावसिद्धिः — केव­ला­चे­त­न­र­था­दि­वै­ल­क्षण्यं जीवद्देहस्य दृष्टमिति । अत एव च प्रत्यक्षे देहे सति दर्शनादसति चाद­र्श­ना­द्दे­ह­स्यैव चैतन्यमपीति लोकायतिकाः प्रतिपन्नाः । तस्मादचेतनस्यैव प्रवृत्तिरिति । तदभिधीयते — न ब्रूमः यस्मिन्नचेतने प्रवृ­त्ति­र्दृ­श्यते न तस्य सेति । भवतु तस्यैव सा । सा तु चेतनाद्भवतीति ब्रूमः, तद्भावे भावात्तदभावे चाभावात् — यथा काष्ठा­दि­व्य­पा­श्र­यापि दाह­प्र­का­शा­दि­ल­क्षणा विक्रिया, अनुपलभ्यमानापि च केवले ज्वलने, ज्वलनादेव भवति, तत्संयोगे दर्श­ना­त्त­द्वि­योगे चादर्शनात् — तद्वत् । लोकायतिकानामपि चेतन एव देहोऽचेतनानां रथादीनां प्रवर्तको दृष्ट इत्य­वि­प्र­ति­षिद्धं चेतनस्य प्रवर्तकत्वम् । ननु तव देहा­दि­सं­यु­क्त­स्या­प्या­त्मनो विज्ञा­न­स्व­रू­प­मा­त्र­व्य­ति­रे­केण प्रवृ­त्त्य­नु­प­प­त्ते­र­नु­प­पन्नं प्रवर्तकत्वमिति चेत् , न । अय­स्का­न्त­व­द्रू­पा­दि­वच्च प्रवृ­त्ति­र­हि­त­स्यापि प्रव­र्त­क­त्वो­प­पत्तेः । यथायस्कान्तो मणिः स्वयं प्रवृ­त्ति­र­हि­तोऽ­प्य­यसः प्रवर्तको भवति, यथा वा रूपादयो विषयाः स्वयं प्रवृत्तिरहिता अपि चक्षुरादीनां प्रवर्तका भवन्ति, एवं प्रवृ­त्ति­र­हि­तोऽ­पी­श्वरः सर्वगतः सर्वात्मा सर्वज्ञः सर्वशक्तिश्च सन् सर्वं प्रव­र्त­ये­दि­त्यु­प­प­न्नम् । एक­त्वा­त्प्र­व­र्त्या­भावे प्रव­र्त­क­त्वा­नु­प­प­त्ति­रिति चेत् , न । अवि­द्या­प्र­त्यु­प­स्था­पि­त­ना­म­रू­प­मा­या­वे­श­व­शे­ना­स­कृ­त्प्र­त्यु­क्त­त्वात् । तस्मात्सम्भवति प्रवृत्तिः सर्व­ज्ञ­का­र­णत्वे, न त्वचेतनकारणत्वे ॥ २ ॥

पयो­म्बु­व­च्चे­त्त­त्रापि ॥ ३ ॥

स्यादेतत् — यथा क्षीरमचेतनं स्वभावेनैव वत्स­वि­वृ­द्ध्यर्थं प्रवर्तते, यथा च जलमचेतनं स्वभावेनैव लोकोपकाराय स्यन्दते, एवं प्रधानमचेतनं स्वभावेनैव पुरु­षा­र्थ­सि­द्धये प्रवर्तिष्यत इति । नैतत्साधूच्यते, यतस्तत्रापि पयो­म्बु­नो­श्चे­त­ना­धि­ष्ठि­त­यो­रेव प्रवृ­त्ति­रि­त्य­नु­मि­मी­महे, उभ­य­वा­दि­प्र­सिद्धे रथादावचेतने केवले प्रवृ­त्त्य­द­र्श­नात् । शास्त्रं च — ‘योऽप्सु तिष्ठन् … योऽपोऽन्तरो यमयति’(बृ. उ. ३ । ७ । ४) ‘एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते’(बृ. उ. ३ । ८ । ९) इत्येवंजातीयकं समस्तस्य लोक­प­रि­स्प­न्दि­त­स्ये­श्व­रा­धि­ष्ठि­ततां श्रावयति । तस्मा­त्सा­ध्य­प­क्ष­नि­क्षि­प्त­त्वा­त्प­यो­म्बु­व­दि­त्य­नु­प­न्यासः — चेतनायाश्च धेन्वाः स्नेहेच्छया पयसः प्रव­र्त­क­त्वो­प­पत्तेः, वत्सचोषणेन च पयस आकृष्यमाणत्वात् । न चाम्बु­नोऽ­प्य­त्य­न्त­म­न­पेक्षा, निम्न­भू­म्या­द्य­पे­क्ष­त्वा­त्स्य­न्द­नस्य; चेतनापेक्षत्वं तु सर्व­त्रो­प­द­र्शि­तम् । ‘उप­सं­हा­र­द­र्श­ना­न्नेति चेन्न क्षीरवद्धि’(ब्र. सू. २ । १ । २४) इत्यत्र तु बाह्य­नि­मि­त्त­नि­र­पे­क्ष­मपि स्वाश्रयं कार्यं भव­ती­त्ये­त­ल्लो­क­दृष्ट्या निदर्शितम् । शास्त्रदृष्ट्या पुनः सर्व­त्रै­वे­श्व­रा­पे­क्ष­त्व­मा­प­द्य­मानं न पराणुद्यते ॥ ३ ॥

व्यति­रे­का­न­व­स्थि­ते­श्चा­न­पे­क्ष­त्वात् ॥ ४ ॥

साङ्ख्यानां त्रयो गुणाः साम्ये­ना­व­ति­ष्ठ­मानाः प्रधानम्; न तु तद्व्यतिरेकेण प्रधानस्य प्रवर्तकं निवर्तकं वा किञ्चि­द्बा­ह्य­म­पे­क्ष्य­म­व­स्थि­त­मस्ति । पुरुषस्तूदासीनो न प्रवर्तको न निवर्तकः — इत्यतोऽनपेक्षं प्रधानम् । अनपेक्षत्वाच्च कदाचित्प्रधानं महदाद्याकारेण परिणमते, कदाचिन्न परिणमते, इत्येतदयुक्तम् । ईश्वरस्य तु सर्व­ज्ञ­त्वा­त्स­र्व­श­क्ति­त्वा­न्म­हा­मा­य­त्वाच्च प्रवृ­त्त्य­प्र­वृत्ती न विरुध्येते ॥ ४ ॥

अन्यत्राभावाच्च न तृणादिवत् ॥ ५ ॥

स्यादेतत् — यथा तृणपल्लवोदकादि निमि­त्ता­न्त­र­नि­र­पेक्षं स्वभावादेव क्षीराद्याकारेण परिणमते, एवं प्रधानमपि महदाद्याकारेण परिणंस्यत इति । कथं च निमि­त्ता­न्त­र­नि­र­पेक्षं तृणादीति गम्यते ? निमि­त्ता­न्त­रा­नु­प­ल­म्भात् । यदि हि किञ्चि­न्नि­मि­त्त­मु­प­ल­भे­महि, ततो यथाकामं तेन तेन तृणाद्युपादाय क्षीरं सम्पादयेमहि; न तु सम्पादयामहे । तस्मा­त्स्वा­भा­वि­क­स्तृ­णादेः परिणामः । तथा प्रधानस्यापि स्यादिति । अत्रोच्यते — भवे­त्तृ­णा­दि­व­त्स्वा­भा­विकः प्रधानस्यापि परिणामः, यदि तृणादेरपि स्वाभाविकः परि­णा­मोऽ­भ्यु­प­ग­म्येत; न त्वभ्युपगम्यते, निमि­त्ता­न्त­रो­प­लब्धेः । कथं निमि­त्ता­न्त­रो­प­लब्धिः ? अन्यत्राभावात् । धेन्वैव ह्युपभुक्तं तृणादि क्षीरीभवति, न प्रहीणम् अन­डु­दा­द्यु­प­भुक्तं वा । यदि हि निर्नि­मि­त्त­मे­त­त्स्यात् , धेनु­श­री­र­स­म्ब­न्धा­द­न्य­त्रापि तृणादि क्षीरीभवेत् । न च यथाकामं मानुषैर्न शक्यं सम्पा­द­यि­तु­मि­त्ये­ता­वता निर्निमित्तं भवति । भवति हि किञ्चित्कार्यं मानुषसम्पाद्यम् , किञ्चि­द्दै­व­स­म्पा­द्यम् । मनुष्या अपि शक्नु­व­न्त्ये­वो­चि­ते­नो­पा­येन तृणाद्युपादाय क्षीरं सम्पादयितुम् । प्रभूतं हि क्षीरं कामयमानाः प्रभूतं घासं धेनुं चारयन्ति; ततश्च प्रभूतं क्षीरं लभन्ते । तस्मान्न तृणा­दि­व­त्स्वा­भा­विकः प्रधानस्य परिणामः ॥ ५ ॥

अभ्यु­प­ग­मेऽ­प्य­र्था­भा­वात् ॥ ६ ॥

स्वाभाविकी प्रधानस्य प्रवृत्तिर्न भवतीति स्थापितम् । अथापि नाम भवतः श्रद्धा­म­नु­रु­ध्य­मानाः स्वाभाविकीमेव प्रधानस्य प्रवृ­त्ति­म­भ्यु­प­ग­च्छेम, तथापि दोषोऽनुषज्येतैव । कुतः ? अर्थाभावात् । यदि तावत्स्वाभाविकी प्रधानस्य प्रवृत्तिर्न किञ्चि­द­न्य­दि­हा­पे­क्षत इत्युच्यते, ततो यथैव सहकारि किञ्चि­न्ना­पे­क्षते एवं प्रयोजनमपि किञ्चि­न्ना­पे­क्षि­ष्यते — इत्यतः प्रधानं पुरुषस्यार्थं साधयितुं प्रवर्तत इतीयं प्रतिज्ञा हीयेत । स यदि ब्रूयात् — सहकार्येव केवलं नापेक्षते, न प्रयोजनमपीति । तथापि प्रधा­न­प्र­वृत्तेः प्रयोजनं विवेक्तव्यम् — भोगो वा स्यात् , अपवर्गो वा, उभयं वेति । भोगश्चेत् — कीदृ­शोऽ­ना­धे­या­ति­श­यस्य पुरुषस्य भोगो भवेत् ? अनि­र्मो­क्ष­प्र­स­ङ्गश्च । अपवर्गश्चेत् — प्रागपि प्रवृ­त्ते­र­प­व­र्गस्य सिद्ध­त्वा­त्प्र­वृ­त्ति­र­न­र्थिका स्यात् , शब्दा­द्य­नु­प­ल­ब्धि­प्र­स­ङ्गश्च । उभ­या­र्थ­ता­भ्यु­प­ग­मेऽपि भोक्तव्यानां प्रधा­न­मा­त्रा­णा­मा­न­न्त्या­द­नि­र्मो­क्ष­प्र­सङ्ग एव । न चौत्सु­क्य­नि­वृ­त्त्यर्था प्रवृत्तिः । न हि प्रधा­न­स्या­चे­त­न­स्यौ­त्सुक्यं सम्भवति । न च पुरुषस्य निर्मलस्य निष्क­ल­स्यौ­त्सु­क्यम् । दृक्श­क्ति­स­र्ग­श­क्ति­वै­य­र्थ्य­भ­या­च्चे­त्प्र­वृत्तिः, तर्हि दृक्श­क्त्य­नु­च्छे­द­व­त्स­र्ग­श­क्त्य­नु­च्छे­दा­त्सं­सा­रा­नु­च्छे­दा­द­नि­र्मो­क्ष­प्र­सङ्ग एव । तस्मा­त्प्र­धा­नस्य पुरुषार्था प्रवृ­त्ति­रि­त्ये­त­द­यु­क्तम् ॥ ६ ॥

पुरुषाश्मवदिति चेत्तथापि ॥ ७ ॥

स्यादेतत् — यथा कश्चित्पुरुषो दृक्श­क्ति­स­म्पन्नः प्रवृ­त्ति­श­क्ति­वि­हीनः पङ्गुः अपरं पुरुषं प्रवृ­त्ति­श­क्ति­स­म्पन्नं दृक्श­क्ति­वि­ही­न­म­न्ध­म­धि­ष्ठाय प्रवर्तयति, यथा वा अयस्कान्तोऽश्मा स्वय­म­प्र­व­र्त­मा­नोऽ­प्ययः प्रवर्तयति, एवं पुरुषः प्रधानं प्रवर्तयिष्यति — इति दृष्टा­न्त­प्र­त्य­येन पुनः प्रत्यवस्थानम् । अत्रोच्यते — तथापि नैव दोषा­न्नि­र्मो­क्षोऽस्ति । अभ्युपेतहानं तावद्दोष आपतति, प्रधानस्य स्वतन्त्रस्य प्रवृ­त्त्य­भ्यु­प­ग­मात् , पुरुषस्य च प्रव­र्त­क­त्वा­न­भ्यु­प­ग­मात् । कथं चोदासीनः पुरुषः प्रधानं प्रवर्तयेत् ? पङ्गुरपि ह्यन्धं पुरुषं वागादिभिः प्रवर्तयति । नैवं पुरुषस्य कश्चिदपि प्रव­र्त­न­व्या­पा­रोऽस्ति, निष्क्रि­य­त्वा­न्नि­र्गु­ण­त्वाच्च । नाप्य­य­स्का­न्त­व­त्स­न्नि­धि­मा­त्रेण प्रवर्तयेत् , सन्नि­धि­नि­त्य­त्वेन प्रवृ­त्ति­नि­त्य­त्व­प्र­स­ङ्गात् । अयस्कान्तस्य त्वनि­त्य­स­न्नि­धे­रस्ति स्वव्यापारः सन्निधिः, परि­मा­र्ज­ना­द्य­पेक्षा चास्यास्ति — इत्यनुपन्यासः पुरुषाश्मवदिति । तथा प्रधा­न­स्या­चै­त­न्या­त्पु­रु­षस्य चौदा­सी­न्या­त्तृ­ती­यस्य च तयोः सम्ब­न्ध­यि­तु­र­भा­वा­त्स­म्ब­न्धा­नु­प­पत्तिः । योग्यतानिमित्ते च सम्बन्धे योग्य­ता­नु­च्छे­दा­द­नि­र्मो­क्ष­प्र­सङ्गः । पूर्व­व­च्चे­हा­प्य­र्था­भावो विकल्पयितव्यः; परमात्मनस्तु स्वरू­प­व्य­पा­श्र­य­मौ­दा­सी­न्यम् , मायाव्यपाश्रयं च प्रवर्तकत्वम् — इत्यस्त्यतिशयः ॥ ७ ॥

अङ्गि­त्वा­नु­प­प­त्तेश्च ॥ ८ ॥

इतश्च न प्रधानस्य प्रवृ­त्ति­र­व­क­ल्पते — यद्धि सत्त्व­र­ज­स्त­म­सा­म­न्यो­न्य­गु­ण­प्र­धा­न­भा­व­मु­त्सृज्य साम्येन स्वरू­प­मा­त्रे­णा­व­स्था­नम् , सा प्रधानावस्था । तस्या­म­व­स्था­या­म­न­पे­क्ष­स्व­रू­पाणां स्वरू­प­प्र­णा­श­भ­या­त्प­र­स्परं प्रत्य­ङ्गा­ङ्गि­भा­वा­नु­प­पत्तेः, बाह्यस्य च कस्य­चि­त्क्षो­भ­यि­तु­र­भा­वात् , गुण­वै­ष­म्य­नि­मित्तो महदाद्युत्पादो न स्यात् ॥ ८ ॥

अन्यथानुमितौ च ज्ञश­क्ति­वि­यो­गात् ॥ ९ ॥

अथापि स्यात् — अन्यथा वयमनुमिमीमहे — यथा नायमनन्तरो दोषः प्रसज्येत । न ह्यन­पे­क्ष­स्व­भावाः कूट­स्था­श्चा­स्मा­भि­र्गुणा अभ्युपगम्यन्ते, प्रमाणाभावात् । कार्यवशेन तु गुणानां स्वभा­वोऽ­भ्यु­प­ग­म्यते । यथा यथा कार्योत्पाद उपपद्यते, तथा तथैतेषां स्वभा­वोऽ­भ्यु­प­ग­म्यते; चलं गुणवृत्तमिति चास्त्यभ्युपगमः । तस्मा­त्सा­म्या­व­स्था­या­मपि वैष­म्यो­प­ग­म­योग्या एव गुणा अवतिष्ठन्त इति । एवमपि प्रधानस्य ज्ञश­क्ति­वि­यो­गा­द्र­च­ना­नु­प­प­त्त्या­दयः पूर्वोक्ता दोषास्तदवस्था एव । ज्ञशक्तिमपि त्वनुमिमानः प्रति­वा­दि­त्वा­न्नि­व­र्तेत, चेत­न­मे­क­म­ने­क­प्र­प­ञ्चस्य जगत उपादानमिति ब्रह्म­वा­द­प्र­स­ङ्गात् । वैष­म्यो­प­ग­म­योग्या अपि गुणाः साम्यावस्थायां निमि­त्ता­भा­वा­न्नैव वैषम्यं भजेरन् , भजमाना वा निमि­त्ता­भा­वा­वि­शे­षा­त्स­र्व­दैव वैषम्यं भजेरन् — इति प्रसज्यत एवायमनन्तरोऽपि दोषः ॥ ९ ॥

विप्र­ति­षे­धा­च्चा­स­म­ञ्ज­सम् ॥ १० ॥

१०

पर­स्प­र­वि­रु­द्ध­श्चायं साङ्ख्या­ना­म­भ्यु­प­गमः — क्वचि­त्स­प्ते­न्द्रि­या­ण्य­नु­क्रा­मन्ति, क्वचिदेकादश; तथा क्वचि­न्म­ह­त­स्त­न्मा­त्र­स­र्ग­मु­प­दि­शन्ति, क्वचिदहंकारात्; तथा क्वचि­त्त्री­ण्य­न्तः­क­र­णानि वर्णयन्ति, क्वचिदेकमिति । प्रसिद्ध एव तु श्रुत्ये­श्व­र­का­र­ण­वा­दिन्या विरो­ध­स्त­द­नु­व­र्तिन्या च स्मृत्या । तस्मा­द­प्य­स­म­ञ्जसं साङ्ख्यानां दर्शनमिति ॥

अत्राह — नन्वौ­प­नि­ष­दा­ना­म­प्य­स­म­ञ्ज­स­मेव दर्शनम् , तप्य­ता­प­क­यो­र्जा­त्य­न्त­र­भा­वा­न­भ्यु­प­ग­मात् । एकं हि ब्रह्म सर्वात्मकं सर्वस्य प्रपञ्चस्य कार­ण­म­भ्यु­प­ग­च्छ­ताम् — एकस्यैवात्मनो विशेषौ तप्यतापकौ, न जात्यन्तरभूतौ — इत्य­भ्यु­प­ग­न्तव्यं स्यात् । यदि चैतौ तप्य­ता­प­का­वे­क­स्या­त्मनो विशेषौ स्याताम् , स ताभ्यां तप्यतापकाभ्यां न निर्मुच्येत — इति तापोपशान्तये सम्य­ग्द­र्श­न­मु­प­दि­श­च्छा­स्त्र­म­न­र्थकं स्यात् । न ह्यौष्ण्य­प्र­का­श­ध­र्म­कस्य प्रदीपस्य तदवस्थस्यैव ताभ्यां निर्मोक्ष उपपद्यते । योऽपि जल­त­र­ङ्ग­वी­ची­फे­ना­द्यु­प­न्यासः, तत्रापि जलात्मन एकस्य वीच्यादयो विशेषा आवि­र्भा­व­ति­रो­भा­व­रू­पेण नित्या एव इति, समानो जलात्मनो वीच्या­दि­भि­र­नि­र्मोक्षः । प्रसिद्धश्चायं तप्य­ता­प­क­यो­र्जा­त्य­न्त­र­भावो लोके । तथा हि — अर्थी चार्थ­श्चा­न्यो­न्य­भिन्नौ लक्ष्येते । यद्यर्थिनः स्वतोऽन्योऽर्थो न स्यात् , यस्यार्थिनो यद्वि­ष­य­म­र्थित्वं स तस्यार्थो नित्यसिद्ध एवेति, न तस्य तद्वि­ष­य­म­र्थित्वं स्यात् — यथा प्रकाशात्मनः प्रदीपस्य प्रका­शा­ख्योऽर्थो नित्यसिद्ध एवेति, न तस्य तद्वि­ष­य­म­र्थित्वं भवति — अप्राप्ते ह्यर्थेऽ­र्थि­नोऽ­र्थित्वं स्यादिति । तथा­र्थ­स्या­प्य­र्थत्वं न स्यात् । यदि स्यात् स्वार्थत्वमेव स्यात् । न चैतदस्ति । सम्बन्धिशब्दौ ह्येतावर्थी चार्थश्चेति । द्वयोश्च सम्बन्धिनोः सम्बन्धः स्यात् , नैकस्यैव । तस्मा­द्भि­न्ना­वे­ता­व­र्था­र्थिनौ । तथा­न­र्था­न­र्थि­ना­वपि; अर्थिनोऽनुकूलः अर्थः, प्रतिकूलः अनर्थः । ताभ्यामेकः पर्या­ये­णो­भाभ्यां सम्बध्यते । तत्रा­र्थ­स्या­ल्पी­य­स्त्वात् , भूय­स्त्वा­च्चा­न­र्थस्य उभा­व­प्य­र्था­नर्थौ अनर्थ एवेति , तापकः स उच्यते । तप्यस्तु पुरुषः , य एकः पर्या­ये­णो­भाभ्यां सम्बध्यते इति तयो­स्त­प्य­ता­प­क­यो­रे­का­त्म­तायां मोक्षानुपपत्तिः । जात्यन्तरभावे तु तत्सं­यो­ग­हे­तु­प­रि­हा­रा­त्स्या­दपि कदा­चि­न्मो­क्षो­प­प­त्ति­रिति ॥

अत्रोच्यते — न, एकत्वादेव तप्य­ता­प­क­भा­वा­नु­प­पत्तेः — भवेदेष दोषः, यद्येकात्मतायां तप्य­ता­प­का­व­न्यो­न्यस्य विषयविषयिभावं प्रति­प­द्ये­या­ताम् । न त्वेतदस्ति, एकत्वादेव; न ह्यग्निरेकः सन्स्वमात्मानं दहति, प्रकाशयति वा, सत्य­प्यौ­ष्ण्य­प्र­का­शा­दि­ध­र्म­भेदे परिणामित्वे च । किमु कूटस्थे ब्रह्म­ण्ये­क­स्मिं­स्त­प्य­ता­प­क­भावः सम्भवेत् । क्व पुनरयं तप्यतापकभावः स्यादिति ? उच्यते — किं न पश्यसि — कर्मभूतो जीव­द्दे­ह­स्तप्यः, तापकः सवितेति ? ननु तप्तिर्नाम दुःखम्; सा चेतयितुः; नाचेतनस्य देहस्य । यदि हि देहस्यैव तप्तिः स्यात् , सा देहनाशे स्वयमेव नश्यतीति तन्नाशाय साधनं नैषितव्यं स्यादिति । उच्यते — देहाभावे हि केवलस्य चेतनस्य तप्तिर्न दृष्टा । न च त्वयापि तप्तिर्नाम विक्रिया चेतयितुः केवलस्येष्यते । नापि देहचेतनयोः संहतत्वम् , अशु­द्ध्या­दि­दो­ष­प्र­स­ङ्गात् । न च तप्तेरेव तप्ति­म­भ्यु­प­ग­च्छसि । कथं तवापि तप्यतापकभावः ? सत्त्वं तप्यम् , तापकं रजः — इति चेत् , न । ताभ्यां चेतनस्य संह­त­त्वा­नु­प­पत्तेः । सत्त्वा­नु­रो­धि­त्वा­च्चे­त­नोऽपि तप्यत इवेति चेत्; परमार्थतस्तर्हि नैव तप्यत इत्यापतति इवशब्दप्रयोगात् । न चेत्तप्यते नेवशब्दो दोषाय । न हि — डुण्डुभः सर्प इव इत्येतावता सविषो भवति, सर्पो वा डुण्डुभ इव इत्येतावता निर्विषो भवति । अत­श्चा­वि­द्या­कृ­तोऽयं तप्यतापकभावः, न पारमार्थिकः — इत्य­भ्यु­प­ग­न्त­व्य­मिति; नैवं सति ममापि किञ्चिद्दुष्यति । अथ पारमार्थिकमेव चेतनस्य तप्य­त्व­म­भ्यु­प­ग­च्छसि, तवैव सुत­रा­म­नि­र्मोक्षः प्रसज्येत, नित्य­त्वा­भ्यु­प­ग­माच्च तापकस्य । तप्य­ता­प­क­श­क्त्यो­र्नि­त्य­त्वेऽपि सनि­मि­त्त­सं­यो­गा­पे­क्ष­त्वा­त्तप्तेः, संयो­ग­नि­मि­त्ता­द­र्श­न­नि­वृत्तौ आत्यन्तिकः संयोगोपरमः, ततश्चात्यन्तिको मोक्ष उपपन्नः — इति चेत् , न । अदर्शनस्य तमसो नित्य­त्वा­भ्यु­प­ग­मात् । गुणानां चोद्भ­वा­भि­भ­व­यो­र­नि­य­त­त्वा­द­नि­यतः संयो­ग­नि­मि­त्तो­प­रम इति वियो­ग­स्या­प्य­नि­य­त­त्वा­त्सा­ङ्ख्य­स्यै­वा­नि­र्मो­क्षोऽ­प­रि­हार्यः स्यात् । औपनिषदस्य तु आत्मै­क­त्वा­भ्यु­प­ग­मात् , एकस्य च विष­य­वि­ष­यि­भा­वा­नु­प­पत्तेः, विकारभेदस्य च वाचा­र­म्भ­ण­मा­त्र­त्व­श्र­व­णात् , अनिर्मोक्षशङ्का स्वप्नेऽपि नोपजायते । व्यवहारे तु — यत्र यथा दृष्ट­स्त­प्य­ता­प­क­भा­व­स्तत्र तथैव सः — इति न चोदयितव्यः परिहर्तव्यो वा भवति ॥१०॥

प्रधानकारणवादो निराकृतः, परमाणुकारणवाद इदानीं निराकर्तव्यः । तत्रादौ तावत् — योऽणुवादिना ब्रह्मवादिनि दोष उत्प्रेक्ष्यते, स प्रतिसमाधीयते । तत्रायं वैशे­षि­का­णा­म­भ्यु­प­गमः कार­ण­द्र­व्य­स­म­वा­यिनो गुणाः कार्यद्रव्ये समानजातीयं गुणा­न्त­र­मा­र­भन्ते, शुक्ले­भ्य­स्त­न्तुभ्यः शुक्लस्य पटस्य प्रसवदर्शनात् , तद्वि­प­र्य­या­द­र्श­नाच्च । तस्माच्चेतनस्य ब्रह्मणो जग­त्का­र­ण­त्वेऽ­भ्यु­प­ग­म्य­माने, कार्येऽपि जगति चैतन्यं समवेयात् । तददर्शनात्तु न चेतनं ब्रह्म जगत्कारणं भवितुमर्हतीति । इममभ्युपगमं तदीययैव प्रक्रियया व्यभिचारयति —

महद्दीर्घवद्वा ह्रस्व­प­रि­म­ण्ड­ला­भ्याम् ॥ ११ ॥

११

एषा तेषां प्रक्रिया — परमाणवः किल कञ्चि­त्का­ल­म­ना­र­ब्ध­कार्या यथायोगं रूपादिमन्तः पारि­मा­ण्ड­ल्य­प­रि­मा­णाश्च तिष्ठन्ति । ते च पश्चा­द­दृ­ष्टा­दि­पु­रः­सराः संयोगसचिवाश्च सन्तो द्व्यणु­का­दि­क्र­मेण कृत्स्नं कार्य­जा­त­मा­र­भन्ते, कारणगुणाश्च कार्ये गुणान्तरम् । यदा द्वौ परमाणू द्व्यणु­क­मा­र­भेते, तदा परमाणुगता रूपा­दि­गु­ण­वि­शेषाः शुक्लादयो द्व्यणुके शुक्ला­दी­न­प­रा­ना­र­भन्ते । पर­मा­णु­गु­ण­वि­शे­षस्तु पारिमाण्डल्यं न द्व्यणुके पारि­मा­ण्ड­ल्य­म­प­र­मा­र­भते, द्व्यणुकस्य परि­मा­णा­न्त­र­यो­गा­भ्यु­प­ग­मात् । अणु­त्व­ह्र­स्वत्वे हि द्व्यणुकवर्तिनी परिमाणे वर्णयन्ति । यदापि द्वे द्व्यणुके चतुरणुकमारभेते, तदापि समानं द्व्यणु­क­स­म­वा­यिनां शुक्ला­दी­ना­मा­र­म्भ­क­त्वम् । अणु­त्व­ह्र­स्वत्वे तु द्व्यणु­क­स­म­वा­यिनी अपि नैवारभेते, चतुरणुकस्य मह­त्त्व­दी­र्घ­त्व­प­रि­मा­ण­यो­गा­भ्यु­प­ग­मात् । यदापि बहवः परमाणवः, बहूनि वा द्व्यणुकानि, द्व्यणुकसहितो वा परमाणुः कार्यमारभते, तदापि समानैषा योजना । तदेवं यथा परमाणोः परि­म­ण्ड­ला­त्स­तोऽणु ह्रस्वं च द्व्यणुकं जायते, महद्दीर्घं च त्र्यणुकादि, न परिमण्डलम्; यथा वा द्व्यणु­का­द­णो­र्ह्र­स्वाच्च सतो महद्दीर्घं च त्र्यणुकं जायते, नाणु, नो ह्रस्वम्; एवं चेत­ना­द्ब्र­ह्म­णोऽ­चे­तनं जगज्जनिष्यते — इत्यभ्युपगमे किं तव च्छिन्नम् ॥

अथ मन्यसे — विरोधिना परि­मा­णा­न्त­रे­णा­क्रान्तं कार्यद्रव्यं द्व्यणुकादि इत्यतो नारम्भकाणि कारणगतानि पारि­मा­ण्ड­ल्या­दीनि — इत्य­भ्यु­प­ग­च्छामि; न तु चेतनाविरोधिना गुणान्तरेण जगत आक्रा­न्त­त्व­मस्ति, येन कारणगता चेतना कार्ये चेतनान्तरं नारभेत; न ह्यचेतना नाम चेतनाविरोधी कश्चि­द्गु­णोऽस्ति, चेत­ना­प्र­ति­षे­ध­मा­त्र­त्वात् । तस्मा­त्पा­रि­मा­ण्ड­ल्या­दि­वै­ष­म्या­त्प्रा­प्नोति चेतनाया आरम्भकत्वमिति । मैवं मंस्थाः — यथा कारणे विद्यमानानामपि पारि­मा­ण्ड­ल्या­दी­ना­म­ना­र­म्भ­क­त्वम् , एवं चैतन्यस्यापि — इत्यस्यांशस्य समानत्वात् । न च परि­मा­णा­न्त­रा­क्रा­न्तत्वं पारि­मा­ण्ड­ल्या­दी­ना­म­ना­र­म्भ­कत्वे कारणम् , प्राक्प­रि­मा­णा­न्त­रा­र­म्भा­त्पा­रि­मा­ण्ड­ल्या­दी­ना­मा­र­म्भ­क­त्वो­प­पत्तेः; आरब्धमपि कार्यद्रव्यं प्राग्गु­णा­र­म्भा­त्क्ष­ण­मा­त्र­म­गुणं तिष्ठ­ती­त्य­भ्यु­प­ग­मात् । न च परि­मा­णा­न्त­रा­रम्भे व्यग्राणि पारि­मा­ण्ड­ल्या­दी­नी­त्यतः स्वसमानजातीयं परिमाणान्तरं नारभन्ते, परि­मा­णा­न्त­र­स्या­न्य­हे­तु­क­त्वा­भ्यु­प­ग­मात्; ‘कार­ण­ब­हु­त्वा­त्का­र­ण­म­ह­त्त्वा­त्प्र­च­य­वि­शे­षाच्च महत्’(वै. सू. ७ । १ । ९) ‘तद्विपरीतमणु’(वै. सू. ७ । १ । १०) ‘एतेन दीर्घ­त्व­ह्र­स्वत्वे व्याख्याते’(वै. सू. ७ । १ । १७) इति हि काणभुजानि सूत्राणि । न च — सन्नि­धा­न­वि­शे­षा­त्कु­त­श्चि­त्का­र­ण­ब­हु­त्वा­दी­न्ये­वा­र­भन्ते, न पारि­मा­ण्ड­ल्या­दी­नीति — उच्येत, द्रव्यान्तरे गुणान्तरे वा आरभ्यमाणे सर्वेषामेव कारणगुणानां स्वाश्र­य­स­म­वा­या­वि­शे­षात् । तस्मा­त्स्व­भा­वा­देव पारि­मा­ण्ड­ल्या­दी­ना­म­ना­र­म्भ­क­त्वम् , तथा चेतनाया अपीति द्रष्टव्यम् ॥

संयोगाच्च द्रव्यादीनां विल­क्ष­णा­ना­मु­त्प­त्ति­द­र्श­ना­त्स­मा­न­जा­ती­यो­त्प­त्ति­व्य­भि­चारः । द्रव्ये प्रकृते गुणो­दा­ह­र­ण­म­यु­क्त­मिति चेत् , न; दृष्टान्तेन विल­क्ष­णा­र­म्भ­मा­त्रस्य विवक्षितत्वात् । न च द्रव्यस्य द्रव्य­मे­वो­दा­ह­र्त­व्यम् , गुणस्य वा गुण एवेति कश्चिन्नियमे हेतुरस्ति; सूत्रकारोऽपि भवतां द्रव्यस्य गुणमुदाजहार — ‘प्रत्य­क्षा­प्र­त्य­क्षा­णा­म­प्र­त्य­क्ष­त्वा­त्सं­यो­गस्य पञ्चात्मकं न विद्यते’(वै. सू. ४ । २ । २) इति — यथा प्रत्य­क्षा­प्र­त्य­क्ष­यो­र्भू­म्या­का­शयोः सम­व­य­न्सं­यो­गोऽ­प्र­त्यक्षः, एवं प्रत्य­क्षा­प्र­त्य­क्षेषु पञ्चसु भूतेषु सम­व­य­च्छ­री­र­म­प्र­त्यक्षं स्यात्; प्रत्यक्षं हि शरीरम् , तस्मान्न पाञ्चभौतिकमिति — एतदुक्तं भवति — गुणश्च संयोगो द्रव्यं शरीरम् । ‘दृश्यते तु’(ब्र. सू. २ । १ । ६) इति चात्रापि विल­क्ष­णो­त्पत्तिः प्रपञ्चिता । नन्वेवं सति तेनैवैतद्गतम्; नेति ब्रूमः; तत्साङ्ख्यं प्रत्यु­क्त­मे­तत्तु वैशेषिकं प्रति । नन्वतिदेशोऽपि समानन्यायतया कृतः — ‘एतेन शिष्टापरिग्रहा अपि व्याख्याताः’(ब्र. सू. २ । १ । १२) इति; सत्यमेतत्; तस्यैव त्वयं वैशे­षि­क­प­री­क्षा­रम्भे तत्प्र­क्रि­या­नु­ग­तेन निदर्शनेन प्रपञ्चः कृतः ॥ ११ ॥

उभयथापि न कर्मातस्तदभावः ॥ १२ ॥

१२

इदानीं परमाणुकारणवादं निराकरोति । स च वाद इत्थं समुत्तिष्ठते — पटादीनि हि लोके सावयवानि द्रव्याणि स्वानुगतैरेव संयो­ग­स­चि­वै­स्त­न्त्वा­दि­भि­र्द्र­व्यै­रा­र­भ्य­मा­णानि दृष्टानि । तत्सामान्येन याव­त्कि­ञ्चि­त्सा­व­य­वम् , तत्सर्वं स्वानुगतैरेव संयो­ग­स­चि­वै­स्तै­स्तै­र्द्र­व्यै­रा­र­ब्ध­मिति गम्यते । स चाय­म­व­य­वा­व­य­वि­वि­भागो यतो निवर्तते, सोऽप­क­र्ष­प­र्य­न्त­गतः परमाणुः । सर्वं चेदं गिरिसमुद्रादिकं जगत्सावयवम्; साव­य­त्वा­च्चा­द्य­न्त­वत् । न चाकारणेन कार्येण भवितव्यम् — इत्यतः परमाणवो जगतः कारणम् — इति कणभुगभिप्रायः । तानीमानि चत्वारि भूतानि भूम्यु­द­क­ते­जः­प­व­ना­ख्यानि सावयवान्युपलभ्य चतुर्विधाः परमाणवः परिकल्प्यन्ते । तेषां चाप­क­र्ष­प­र्य­न्त­ग­त­त्वेन परतो विभा­गा­स­म्भ­वा­द्वि­न­श्यतां पृथिव्यादीनां परमाणुपर्यन्तो विभागो भवति; स प्रलयकालः । ततः सर्गकाले च वाय­वी­ये­ष्व­णु­ष्व­दृ­ष्टा­पेक्षं कर्मोत्पद्यते । तत्कर्म स्वाश्र­य­म­णु­म­ण्व­न्त­रेण संयुनक्ति । ततो द्व्यणु­का­दि­क्र­मेण वायुरुत्पद्यते; एवमग्निः; एवमापः; एवं पृथिवी; एवमेव शरीरं सेन्द्रियम् — इत्येवं सर्वमिदं जगत् अणुभ्यः सम्भवति । अणुगतेभ्यश्च रूपादिभ्यो द्व्यणु­का­दि­ग­तानि रूपादीनि सम्भवन्ति, तन्तुपटन्यायेन — इति काणादा मन्यन्ते ॥

तत्रेदमभिधीयते — विभागावस्थानां तावदणूनां संयोगः कर्मा­पे­क्षोऽ­भ्यु­प­ग­न्तव्यः, कर्मवतां तन्त्वादीनां संयोगदर्शनात् । कर्मणश्च कार्य­त्वा­न्नि­मित्तं किम­प्य­भ्यु­प­ग­न्त­व्यम् । अनभ्युपगमे निमि­त्ता­भा­वा­न्ना­णु­ष्वाद्यं कर्म स्यात् । अभ्युपगमेऽपि — यदि प्रय­त्नोऽ­भि­घा­ता­दिर्वा यथादृष्टं किमपि कर्मणो निमि­त्त­म­भ्यु­प­ग­म्येत, तस्या­स­म्भ­वा­न्नै­वा­णु­ष्वाद्यं कर्म स्यात् । न हि तस्या­म­व­स्था­या­मा­त्म­गुणः प्रयत्नः सम्भवति, शरीराभावात् । शरीरप्रतिष्ठे हि मनस्यात्मनः संयोगे सति आत्मगुणः प्रयत्नो जायते । एते­ना­भि­घा­ता­द्यपि दृष्टं निमित्तं प्रत्या­ख्या­त­व्यम् । सर्गोत्तरकालं हि तत्सर्वं नाद्यस्य कर्मणो निमित्तं सम्भवति । अथा­दृ­ष्ट­मा­द्यस्य कर्मणो निमि­त्त­मि­त्यु­च्येत — तत्पु­न­रा­त्म­स­म­वायि वा स्यात् अणुसमवायि वा । उभयथापि नादृ­ष्ट­नि­मि­त्त­म­णुषु कर्मावकल्पेत, अदृ­ष्ट­स्या­चे­त­न­त्वात् । न ह्यचेतनं चेत­ने­ना­न­धि­ष्ठितं स्वतन्त्रं प्रवर्तते प्रवर्तयति वेति साङ्ख्य­प्र­क्रि­या­या­म­भि­हि­तम् । आत्म­न­श्चा­नु­त्प­न्न­चै­त­न्यस्य तस्या­म­व­स्था­या­म­चे­त­न­त्वात् । आत्म­स­म­वा­यि­त्वा­भ्यु­प­ग­माच्च नादृष्टमणुषु कर्मणो निमित्तं स्यात् , असम्बन्धात् । अदृष्टवता पुरु­षे­णा­स्त्य­णूनां सम्बन्ध इति चेत् — सम्ब­न्ध­सा­त­त्या­त्प्र­वृ­त्ति­सा­त­त्य­प्र­सङ्गः, निया­म­का­न्त­रा­भा­वात् । तदेवं नियतस्य कस्य­चि­त्क­र्म­नि­मि­त्त­स्या­भा­वा­न्ना­णु­ष्वाद्यं कर्म स्यात्; कर्मा­भा­वा­त्त­न्नि­ब­न्धनः संयोगो न स्यात्; संयोगाभावाच्च तन्निबन्धनं द्व्यणुकादि कार्यजातं न स्यात् । संयो­ग­श्चा­णो­र­ण्व­न्त­रेण सर्वात्मना वा स्यात् एकदेशेन वा ? सर्वात्मना चेत् , उप­च­या­नु­प­प­त्ते­र­णु­मा­त्र­त्व­प्र­सङ्गः, दृष्ट­वि­प­र्य­य­प्र­स­ङ्गश्च, प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगस्य दृष्टत्वात् । एकदेशेन चेत् , साव­य­व­त्व­प्र­सङ्गः । परमाणूनां कल्पिताः प्रदेशाः स्युरिति चेत् , कल्पि­ता­ना­म­व­स्तु­त्वा­द­व­स्त्वेव संयोग इति वस्तुनः कार्य­स्या­स­म­वा­यि­का­रणं न स्यात्; असति चासमवायिकारणे द्व्यणु­का­दि­का­र्य­द्रव्यं नोत्पद्येत । यथा चादिसर्गे निमि­त्ता­भा­वा­त्सं­यो­गो­त्प­त्त्यर्थं कर्म नाणूनां सम्भवति, एवं महाप्रलयेऽपि विभा­गो­त्प­त्त्यर्थं कर्म नैवाणूनां सम्भवेत् । न हि तत्रापि किञ्चिन्नियतं तन्निमित्तं दृष्टमस्ति । अदृष्टमपि भोग­प्र­सि­द्ध्य­र्थम् , न प्रल­य­प्र­सि­द्ध्य­र्थम् — इत्यतो निमित्ताभावान्न स्यादणूनां संयो­गो­त्प­त्त्यर्थं विभा­गो­त्प­त्त्यर्थं वा कर्म । अतश्च संयो­ग­वि­भा­गा­भा­वा­त्त­दा­य­त्तयोः सर्ग­प्र­ल­य­यो­र­भावः प्रसज्येत । तस्मा­द­नु­प­प­न्नोऽयं परमाणुकारणवादः ॥ १२ ॥

सम­वा­या­भ्यु­प­ग­माच्च साम्या­द­न­व­स्थितेः ॥ १३ ॥

१३

सम­वा­या­भ्यु­प­ग­माच्च — तदभाव इति — प्रकृ­ते­ना­णु­वा­द­नि­रा­क­र­णेन सम्बध्यते । द्वाभ्यां चाणुभ्यां द्व्यणु­क­मु­त्प­द्य­मा­न­म­त्य­न्त­भि­न्न­म­णु­भ्या­मण्वोः सम­वै­ती­त्य­भ्यु­प­ग­म्यते भवता । न चैवमभ्युपगच्छता शक्यतेऽणुकारणता समर्थयितुम् । कुतः ? साम्या­द­न­व­स्थितेः — यथैव ह्यणु­भ्या­म­त्य­न्त­भिन्नं सत् द्व्यणुकं समवायलक्षणेन सम्बन्धेन ताभ्यां सम्बध्यते, एवं समवायोऽपि सम­वा­यि­भ्योऽ­त्य­न्त­भिन्नः सन् सम­वा­य­ल­क्ष­णे­ना­न्ये­नैव सम्बन्धेन समवायिभिः सम्बध्येत, अत्य­न्त­भे­द­सा­म्यात् । ततश्च तस्य तस्यान्योऽन्यः सम्बन्धः कल्पयितव्य इत्यनवस्थैव प्रसज्येत । ननु इह­प्र­त्य­य­ग्राह्यः समवायो नित्यसम्बद्ध एव सम­वा­यि­भि­र्गृ­ह्यते, नासम्बद्धः, सम्ब­न्धा­न्त­रा­पेक्षो वा । ततश्च न तस्यान्यः सम्बन्धः कल्पयितव्यः येनानवस्था प्रसज्येतेति । नेत्युच्यते; संयोगोऽप्येवं सति संयो­गि­भि­र्नि­त्य­स­म्बद्ध एवेति समवायवन्नान्यं सम्बन्धमपेक्षेत । अथा­र्था­न्त­र­त्वा­त्सं­योगः सम्ब­न्धा­न्त­र­म­पे­क्षेत, समवायोऽपि तर्ह्य­र्था­न्त­र­त्वा­त्स­म्ब­न्धा­न्त­र­म­पे­क्षेत । न च — गुणत्वात्संयोगः सम्ब­न्धा­न्त­र­म­पे­क्षते, न समवायः अगुणत्वादिति युज्यते वक्तुम्; अपेक्षाकारणस्य तुल्यत्वात् , गुण­प­रि­भा­षा­या­श्चा­त­न्त्र­त्वात् । तस्मादर्थान्तरं सम­वा­य­म­भ्यु­प­ग­च्छतः प्रस­ज्ये­तै­वा­न­वस्था । प्रसज्यमानायां चान­व­स्था­या­मे­का­सिद्धौ सर्वा­सि­द्धे­र्द्वा­भ्या­म­णुभ्यां द्व्यणुकं नैवोत्पद्येत । तस्मा­द­प्य­नु­प­पन्नः परमाणुकारणवादः ॥ १३ ॥

नित्यमेव च भावात् ॥ १४ ॥

१४

अपि चाणवः प्रवृ­त्ति­स्व­भावा वा, निवृत्तिस्वभावा वा, उभयस्वभावा वा, अनुभयस्वभावा वा अभ्युपगम्यन्ते — गत्यन्तराभावात् । चतुर्धापि नोपपद्यते — प्रवृ­त्ति­स्व­भा­वत्वे नित्यमेव प्रवृ­त्ते­र्भा­वा­त्प्र­ल­या­भा­व­प्र­सङ्गः । निवृ­त्ति­स्व­भा­व­त्वेऽपि नित्यमेव निवृ­त्ते­र्भा­वा­त्स­र्गा­भा­व­प्र­सङ्गः । उभयस्वभावत्वं च विरोधादसमञ्जसम् । अनुभयस्वभावत्वे तु निमि­त्त­व­शा­त्प्र­वृ­त्ति­नि­वृ­त्त्यो­र­भ्यु­प­ग­म्य­मा­न­यो­र­दृ­ष्टा­दे­र्नि­मि­त्तस्य नित्य­स­न्नि­धा­ना­न्नि­त्य­प्र­वृ­त्ति­प्र­सङ्गः, अत­न्त्र­त्वेऽ­प्य­दृ­ष्टा­दे­र्नि­त्या­प्र­वृ­त्ति­प्र­सङ्गः । तस्मा­द­प्य­नु­प­पन्नः परमाणुकारणवादः ॥ १४ ॥

रूपा­दि­म­त्त्वाच्च विपर्ययो दर्शनात् ॥ १५ ॥

१५

सावयवानां द्रव्याणामवयवशो विभज्यमानानां यतः परो विभागो न सम्भवति ते चतुर्विधा रूपादिमन्तः पर­मा­ण­व­श्च­तु­र्वि­धस्य रूपादिमतो भूत­भौ­ति­क­स्या­र­म्भका नित्याश्चेति यद्वैशेषिका अभ्युपगच्छन्ति, स तेषामभ्युपगमो निरालम्बन एव; यतो रूपा­दि­म­त्त्वा­त्प­र­मा­णू­ना­म­णु­त्व­नि­त्य­त्व­वि­प­र्ययः प्रसज्येत । परमकारणापेक्षया स्थूल­त्व­म­नि­त्यत्वं च तेषा­म­भि­प्रे­त­वि­प­री­त­मा­प­द्ये­ते­त्यर्थः । कुतः ? एवं लोके दृष्टत्वात् — यद्धि लोके रूपादिमद्वस्तु तत् स्वकारणापेक्षया स्थूलमनित्यं च दृष्टम्; तद्यथा — पट­स्त­न्तू­न­पेक्ष्य स्थूलोऽनित्यश्च भवति; तन्त­व­श्चां­शू­न­पेक्ष्य स्थूला अनित्याश्च भवन्ति — तथा चामी परमाणवो रूपा­दि­म­न्त­स्तै­र­भ्यु­प­ग­म्यन्ते । तस्मात्तेऽपि कार­ण­व­न्त­स्त­द­पे­क्षया स्थूला अनित्याश्च प्राप्नुवन्ति । यच्च नित्यत्वे कारणं तैरुक्तम् — ‘सद­का­र­ण­व­न्नि­त्यम्’(वै. सू. ४ । १ । १) इति, तदप्येवं सति अणुषु न सम्भवति, उक्तेन प्रका­रे­णा­णू­ना­मपि कार­ण­व­त्त्वो­प­पत्तेः । यदपि नित्यत्वे द्वितीयं कारणमुक्तम् — ‘अनित्यमिति च विशेषतः प्रतिषेधाभावः’(वै. सू. ४ । १ । ४) इति, तदपि नावश्यं परमाणूनां नित्यत्वं साधयति । असति हि यस्मि­न्क­स्मिं­श्चि­न्नित्ये वस्तुनि नित्यशब्देन नञः समासो नोपपद्यते । न पुनः पर­मा­णु­नि­त्य­त्व­मे­वा­पे­क्ष्यते । तच्चास्त्येव नित्यं परमकारणं ब्रह्म । न च शब्दा­र्थ­व्य­व­हा­र­मा­त्रेण कस्यचिदर्थस्य प्रसि­द्धि­र्भ­वति, प्रमा­णा­न्त­र­सि­द्धयोः शब्दा­र्थ­यो­र्व्य­व­हा­रा­व­ता­रात् । यदपि नित्यत्वे तृतीयं कारणमुक्तम् — ‘अविद्या च’(वै. सू. ४ । १ । ५) इति — तद्यद्येवं विव्रीयते — सतां परि­दृ­श्य­मा­न­का­र्याणां कारणानां प्रत्य­क्षे­णा­ग्र­ह­ण­म­वि­द्येति, ततो द्व्यणु­क­नि­त्य­ता­प्या­प­द्येत । अथाद्रव्यत्वे सतीति विशेष्येत, तथा­प्य­का­र­ण­व­त्त्व­मेव नित्य­ता­नि­मि­त्त­मा­प­द्येत, तस्य च प्रागे­वो­क्त­त्वात् ‘अविद्या च’ इति पुनरुक्तं स्यात् । अथापि कार­ण­वि­भा­गा­त्का­र­ण­वि­ना­शा­च्चा­न्यस्य तृतीयस्य विना­श­हे­तो­र­स­म्भ­वोऽ­विद्या, सा परमाणूनां नित्यत्वं ख्यापयति — इति व्याख्यायेत — नावश्यं विनश्यद्वस्तु द्वाभ्यामेव हेतुभ्यां विनं­ष्टु­म­र्ह­तीति नियमोऽस्ति । संयोगसचिवे ह्यनेकस्मिंश्च द्रव्ये द्रव्या­न्त­र­स्या­र­म्भ­केऽ­भ्यु­प­ग­म्य­मान एतदेवं स्यात् । यदा त्वपास्तविशेषं सामान्यात्मकं कारणं विशे­ष­व­द­व­स्था­न्त­र­मा­प­द्य­मा­न­मा­र­म्भ­क­म­भ्यु­प­ग­म्यते, तदा घृत­का­ठि­न्य­वि­ल­य­न­व­न्मू­र्त्य­व­स्था­वि­ल­य­ने­नापि विनाश उपपद्यते । तस्मा­द्रू­पा­दि­म­त्त्वा­त्स्या­द­भि­प्रे­त­वि­प­र्ययः परमाणूनाम् । तस्मा­द­प्य­नु­प­पन्नः परमाणुकारणवादः ॥ १५ ॥

उभयथा च दोषात् ॥ १६ ॥

१६

गन्ध­र­स­रू­प­स्प­र्श­गुणा स्थूला पृथिवी, रूप­र­स­स्प­र्श­गुणाः सूक्ष्मा आपः, रूपस्पर्शगुणं सूक्ष्मतरं तेजः, स्पर्शगुणः सूक्ष्मतमो वायुः — इत्येवमेतानि चत्वारि भूता­न्यु­प­चि­ता­प­चि­त­गु­णानि स्थूल­सू­क्ष्म­सू­क्ष्म­त­र­सू­क्ष्म­त­म­ता­र­त­म्यो­पे­तानि च लोके लक्ष्यन्ते । तद्व­त्प­र­मा­ण­वोऽ­प्यु­प­चि­ता­प­चि­त­गुणाः कल्प्येरन् न वा ? उभयथापि च दोषा­नु­ष­ङ्गोऽ­प­रि­हार्य एव स्यात् । कल्प्यमाने ताव­दु­प­चि­ता­प­चि­त­गु­णत्वे, उपचितगुणानां मूर्त्यु­प­च­या­द­प­र­मा­णु­त्व­प्र­सङ्गः । न चान्तरेणापि मूर्त्युपचयं गुणोपचयो भवतीत्युच्येत, कार्येषु भूतेषु गुणोपचये मूर्त्यु­प­च­य­द­र्श­नात् । अकल्प्यमाने तूप­चि­ता­प­चि­त­गु­णत्वे — पर­मा­णु­त्व­सा­म्य­प्र­सि­द्धये यदि तावत्सर्व एकैकगुणा एव कल्प्येरन् , ततस्तेजसि स्पर्श­स्यो­प­ल­ब्धिर्न स्यात् , अप्सु रूपस्पर्शयोः, पृथिव्यां च रस­रू­प­स्प­र्शा­नाम् , कार­ण­गु­ण­पू­र्व­क­त्वा­त्का­र्य­गु­णा­नाम् । अथ सर्वे चतुर्गुणा एव कल्प्येरन् , ततोऽप्स्वपि गन्धस्योपलब्धिः स्यात् , तेजसि गन्धरसयोः, वायौ गन्धरूपरसानाम् । न चैवं दृश्यते । तस्मा­द­प्य­नु­प­पन्नः परमाणुकारणवादः ॥ १६ ॥

अप­रि­ग्र­हा­च्चा­त्य­न्त­म­न­पेक्षा ॥ १७ ॥

१७

प्रधानकारणवादो वेदविद्भिरपि कैश्चि­न्म­न्वा­दिभिः सत्का­र्य­त्वा­द्यं­शो­प­जी­व­ना­भि­प्रा­ये­णो­प­नि­बद्धः । अयं तु परमाणुकारणवादो न कैश्चिदपि शिष्टैः केनचिदप्यंशेन परिगृहीत इत्य­त्य­न्त­मे­वा­ना­द­र­णीयो वेदवादिभिः । अपि च वैशे­षि­का­स्त­न्त्रा­र्थ­भू­तान् षट्पदार्थान् द्रव्य­गु­ण­क­र्म­सा­मा­न्य­वि­शे­ष­स­म­वा­या­ख्यान् अत्यन्तभिन्नान् भिन्नलक्षणान् अभ्युपगच्छन्ति — यथा मनुष्योऽश्वः शश इति । तथात्वं चाभ्युपगम्य तद्विरुद्धं द्रव्याधीनत्वं शेषा­णा­म­भ्यु­प­ग­च्छन्ति; तन्नोपपद्यते । कथम् ? यथा हि लोके शश­कु­श­प­ला­श­प्र­भृ­ती­ना­म­त्य­न्त­भि­न्नानां सतां नेतरेतराधीनत्वं भवति, एवं द्रव्या­दी­ना­म­प्य­त्य­न्त­भि­न्न­त्वात् , नैव द्रव्याधीनत्वं गुणादीनां भवितुमर्हति । अथ भवति द्रव्याधीनत्वं गुणादीनाम् , ततो द्रव्यभावे भावा­द्द्र­व्या­भावे चाभा­वा­द्द्र­व्य­मेव संस्था­ना­दि­भे­दा­द­ने­क­श­ब्द­प्र­त्य­य­भा­ग्भ­वति — यथा देवदत्त एक एव सन् अव­स्था­न्त­र­यो­गा­द­ने­क­श­ब्द­प्र­त्य­य­भा­ग्भ­वति, तद्वत् । तथा सति साङ्ख्य­सि­द्धा­न्त­प्र­सङ्गः स्वसि­द्धा­न्त­वि­रो­ध­श्चा­प­द्ये­या­ताम् । नन्व­ग्ने­र­न्य­स्यापि सतो धूम­स्या­ग्न्य­धी­नत्वं दृश्यते; सत्यं दृश्यते; भेदप्रतीतेस्तु तत्रा­ग्नि­धू­म­यो­र­न्यत्वं निश्चीयते । इह तु — शुक्लः कम्बलः, रोहिणी धेनुः, नीलमुत्पलम् — इति द्रव्यस्यैव तस्य तस्य तेन तेन विशेषणेन प्रतीयमानत्वात् नैव द्रव्य­गु­ण­यो­र­ग्नि­धू­म­यो­रिव भेदप्रतीतिरस्ति । तस्मा­द्द्र­व्या­त्म­कता गुणस्य । एतेन कर्म­सा­मा­न्य­वि­शे­ष­स­म­वा­यानां द्रव्यात्मकता व्याख्याता ॥

गुणानां द्रव्याधीनत्वं द्रव्य­गु­ण­यो­र­यु­त­सि­द्ध­त्वा­दिति यदुच्यते, तत्पु­न­र­यु­त­सि­द्ध­त्व­म­पृ­थ­ग्दे­शत्वं वा स्यात् , अपृथक्कालत्वं वा, अपृ­थ­क्स्व­भा­वत्वं वा ? सर्वथापि नोपपद्यते — अपृथग्देशत्वे ताव­त्स्वा­भ्यु­प­गमो विरुध्येत । कथम् ? तन्त्वारब्धो हि पट­स्त­न्तु­दे­शोऽ­भ्यु­प­ग­म्यते, न पटदेशः । पटस्य तु गुणाः शुक्लत्वादयः पटदेशा अभ्युपगम्यन्ते, न तन्तुदेशाः । तथा चाहुः — ‘द्रव्याणि द्रव्या­न्त­र­मा­र­भन्ते गुणाश्च गुणान्तरम्’(वै. सू. १ । १ । १०) इति; तन्तवो हि कारणद्रव्याणि कार्यद्रव्यं पटमारभन्ते, तन्तुगताश्च गुणाः शुक्लादयः कार्यद्रव्ये पटे शुक्ला­दि­गु­णा­न्त­र­मा­र­भन्ते — इति हि तेऽभ्यु­प­ग­च्छन्ति । सोऽभ्युपगमो द्रव्य­गु­ण­यो­र­पृ­थ­ग्दे­श­त्वेऽ­भ्यु­प­ग­म्य­माने बाध्येत । अथ अपृ­थ­क्का­ल­त्व­म­यु­त­सि­द्ध­त्व­मु­च्येत, सव्यदक्षिणयोरपि गोवि­षा­ण­यो­र­यु­त­सि­द्धत्वं प्रसज्येत । तथा अपृ­थ­क्स्व­भा­वत्वे त्वयु­त­सि­द्धत्वे, न द्रव्य­गु­ण­यो­रा­त्म­भेदः सम्भवति, तस्य तादात्म्येनैव प्रतीयमानत्वात् ॥

युतसिद्धयोः सम्बन्धः संयोगः, अयुतसिद्धयोस्तु समवायः — इत्ययमभ्युपगमो मृषैव तेषाम् , प्राक्सिद्धस्य कार्या­त्का­र­ण­स्या­यु­त­सि­द्ध­त्वा­नु­प­पत्तेः । अथान्यतरापेक्ष एवायमभ्युपगमः स्यात् — अयुतसिद्धस्य कार्यस्य कारणेन सम्बन्धः समवाय इति, एवमपि प्राग­सि­द्ध­स्या­ल­ब्धा­त्म­कस्य कार्यस्य कारणेन सम्बन्धो नोपपद्यते, द्वया­य­त्त­त्वा­त्स­म्ब­न्धस्य । सिद्धं भूत्वा सम्बध्यत इति चेत् , प्राक्का­र­ण­स­म्ब­न्धा­त्का­र्यस्य सिद्धा­व­भ्यु­प­ग­म्य­मा­ना­या­म­यु­त­सि­द्ध्य­भा­वात् , कार्यकारणयोः संयोगविभागौ न विद्येते इतीदं दुरुक्तं स्यात् । यथा चोत्प­न्न­मा­त्र­स्या­क्रि­यस्य कार्यद्रव्यस्य विभु­भि­रा­का­शा­दि­भि­र्द्र­व्या­न्तरैः सम्बन्धः संयोग एवाभ्युपगम्यते, न समवायः, एवं कारणद्रव्येणापि सम्बन्धः संयोग एव स्यात् , न समवायः । नापि संयोगस्य समवायस्य वा सम्बन्धस्य सम्ब­न्धि­व्य­ति­रे­के­णा­स्तित्वे किञ्चि­त्प्र­मा­ण­मस्ति । सम्ब­न्धि­श­ब्द­प्र­त्य­य­व्य­ति­रे­केण संयो­ग­स­म­वा­य­श­ब्द­प्र­त्य­य­द­र्श­ना­त्त­यो­र­स्ति­त्व­मिति चेत् , न; एकत्वेऽपि स्वरू­प­बा­ह्य­रू­पा­पे­क्षया अने­क­श­ब्द­प्र­त्य­य­द­र्श­नात् । यथैकोऽपि सन् देवदत्तो लोके स्वरूपं सम्बन्धिरूपं चापेक्ष्य अने­क­श­ब्द­प्र­त्य­य­भा­ग्भ­वति — मनुष्यो ब्राह्मणः श्रोत्रियो वदान्यो बालो युवा स्थविरः पिता पुत्रः पौत्रो भ्राता जामातेति, यथा चैकापि सती रेखा स्थानान्यत्वेन निविशमाना एक­द­श­श­त­स­ह­स्रा­दि­श­ब्द­प्र­त्य­य­भे­द­म­नु­भ­वति, तथा सम्बन्धिनोरेव सम्ब­न्धि­श­ब्द­प्र­त्य­य­व्य­ति­रे­केण संयो­ग­स­म­वा­य­श­ब्द­प्र­त्य­या­र्ह­त्वम् , न व्यति­रि­क्त­व­स्त्व­स्ति­त्वेन — इत्यु­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्त­स्या­नु­प­लब्धेः अभावः वस्त्वन्तरस्य; नापि सम्ब­न्धि­वि­ष­यत्वे सम्ब­न्ध­श­ब्द­प्र­त्य­ययोः सन्त­त­भा­व­प्र­सङ्गः; स्वरू­प­बा­ह्य­रू­पा­पे­क्ष­येति — उक्तोत्तरत्वात् । तथा­ण्वा­त्म­म­न­सा­म­प्र­दे­श­त्वान्न संयोगः सम्भवति, प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगदर्शनात् । कल्पिताः प्रदेशा अण्वात्ममनसां भविष्यन्तीति चेत् , न; अवि­द्य­मा­ना­र्थ­क­ल्प­नायां सर्वा­र्थ­सि­द्धि­प्र­स­ङ्गात् , इया­ने­वा­वि­द्य­मानो विरु­द्धोऽ­वि­रुद्धो वा अर्थः कल्पनीयः, नातोऽधिकः — इति नियमहेत्वभावात् , कल्पनायाश्च स्वाय­त्त­त्वा­त्प्र­भू­त­त्व­स­म्भ­वाच्च — न च वैशेषिकैः कल्पितेभ्यः षड्भ्यः पदा­र्थे­भ्योऽ­न्येऽ­धिकाः शतं सहस्रं वा अर्था न कल्पयितव्या इति निवारको हेतुरस्ति । तस्माद्यस्मै यस्मै यद्यद्रोचते तत्तत्सिध्येत् । कश्चित्कृपालुः प्राणिनां दुःखबहुलः संसार एव मा भूदिति कल्पयेत्; अन्यो वा व्यसनी मुक्तानामपि पुनरुत्पत्तिं कल्पयेत्; कस्तयोर्निवारकः स्यात् । किञ्चान्यत् — द्वाभ्यां परमाणुभ्यां निरवयवाभ्यां सावयवस्य द्व्यणु­क­स्या­का­शे­नेव संश्ले­षा­नु­प­पत्तिः । न ह्याकाशस्य पृथिव्यादीनां च जतु­का­ष्ठ­व­त्सं­श्ले­षोऽस्ति । कार्य­का­र­ण­द्र­व्य­यो­रा­श्रि­ता­श्र­य­भा­वोऽ­न्यथा नोपपद्यत इत्यवश्यं कल्प्यः समवाय इति चेत् , न; इत­रे­त­रा­श्र­य­त्वात् — कार्यकारणयोर्हि भेद­सि­द्धा­वा­श्रि­ता­श्र­य­भा­व­सिद्धिः आश्रि­ता­श्र­य­भा­व­सिद्धौ च तयोर्भेदसिद्धिः — कुण्डबदरवत् — इतीतरेतराश्रयता स्यात् । न हि कार्य­का­र­ण­यो­र्भेद आश्रिताश्रयभावो वा वेदा­न्त­वा­दि­भि­र­भ्यु­प­ग­म्यते, कारणस्यैव संस्थानमात्रं कार्य­मि­त्य­भ्यु­प­ग­मात् ॥

किञ्चान्यत् — परमाणूनां परि­च्छि­न्न­त्वात् , यावत्यो दिशः — षट् अष्टौ दश वा — तावद्भिरवयवैः सावयवास्ते स्युः, साव­य­व­त्वा­द­नि­त्याश्च — इति नित्य­त्व­नि­र­व­य­व­त्वा­भ्यु­प­गमो बाध्येत । यांस्त्वं दिग्भे­द­भे­दि­नोऽ­व­य­वा­न्क­ल्प­यसि, त एव मम परमाणव इति चेत् , न; स्थूल­सू­क्ष्म­ता­र­त­म्य­क्र­मेण आ पर­म­का­र­णा­द्वि­ना­शो­प­पत्तेः — यथा पृथिवी द्व्यणु­का­द्य­पे­क्षया स्थूलतमा वस्तुभूतापि विनश्यति, ततः सूक्ष्मं सूक्ष्मतरं च पृथि­व्ये­क­जा­ती­यकं विनश्यति, ततो द्व्यणुकम् , तथा परमाणवोऽपि पृथि­व्ये­क­जा­ती­य­क­त्वा­द्वि­न­श्येयुः । विन­श्य­न्तोऽ­प्य­व­य­व­वि­भा­गे­नैव विनश्यन्तीति चेत् , नायं दोषः; यतो घृत­का­ठि­न्य­वि­ल­य­न­व­दपि विना­शो­प­प­त्ति­म­वो­चाम — यथा हि घृत­सु­व­र्णा­दी­ना­म­वि­भ­ज्य­मा­ना­व­य­वा­ना­म­प्य­ग्नि­सं­यो­गात् द्रवभावापत्त्या काठिन्यविनाशो भवति, एवं परमाणूनामपि पर­म­का­र­ण­भा­वा­पत्त्या मूर्त्या­दि­वि­नाशो भविष्यति । तथा कार्यारम्भोऽपि नावयवसंयोगेनैव केवलेन भवति, क्षीर­ज­ला­दी­ना­म­न्त­रे­णा­प्य­व­य­व­सं­यो­गा­न्तरं दधि­हि­मा­दि­का­र्या­र­म्भ­द­र्श­नात् । तदे­व­म­सा­र­त­र­त­र्क­स­न्दृ­ब्ध­त्वा­दी­श्व­र­का­र­ण­श्रु­ति­वि­रु­द्ध­त्वा­च्छ्रु­ति­प्र­व­णैश्च शिष्टै­र्म­न्वा­दि­भि­र­प­रि­गृ­ही­त­त्वा­द­त्य­न्त­मे­वा­न­पेक्षा अस्मि­न्प­र­मा­णु­का­र­ण­वादे कार्या श्रेयो­र्थि­भि­रिति वाक्यशेषः ॥ १७ ॥

समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ १८ ॥

१८

वैशे­षि­क­रा­द्धान्तो दुर्यु­क्ति­यो­गा­द्वे­द­वि­रो­धा­च्छि­ष्टा­प­रि­ग्र­हाच्च नापेक्षितव्य इत्युक्तम् । सोऽर्धवैनाशिक इति वैना­शि­क­त्व­सा­म्या­त्स­र्व­वै­ना­शि­क­रा­द्धान्तो नतरामपेक्षितव्य इती­द­मि­दा­नी­मु­प­पा­द­यामः । स च बहुप्रकारः, प्रति­प­त्ति­भे­दा­द्वि­ने­य­भे­दाद्वा । तत्रैते त्रयो वादिनो भवन्ति — केचि­त्स­र्वा­स्ति­त्व­वा­दिनः; केचि­द्वि­ज्ञा­ना­स्ति­त्व­मा­त्र­वा­दिनः; अन्ये पुनः सर्व­शू­न्य­त्व­वा­दिन इति । तत्र ये सर्वा­स्ति­त्व­वा­दिनो बाह्यमान्तरं च वस्त्व­भ्यु­प­ग­च्छन्ति, भूतं भौतिकं च, चित्तं चैत्तं च, तांस्ता­व­त्प्र­ति­ब्रूमः । तत्र भूतं पृथि­वी­धा­त्वा­दयः, भौतिकं रूपा­द­य­श्च­क्षु­रा­द­यश्च, चतुष्टये च पृथि­व्या­दि­प­र­मा­णवः खर­स्ने­हो­ष्णे­र­ण­स्व­भावाः, ते पृथिव्यादिभावेन संहन्यन्ते — इति मन्यन्ते । तथा रूप­वि­ज्ञा­न­वे­द­ना­सं­ज्ञा­सं­स्का­र­सं­ज्ञकाः पञ्चस्कन्धाः, तेऽप्यध्यात्मं सर्व­व्य­व­हा­रा­स्प­द­भा­वेन संहन्यन्ते — इति मन्यन्ते ॥

तत्रेदमभिधीयते — योऽयमुभयहेतुक उभयप्रकारः समुदायः परेषामभिप्रेतः — अणुहेतुकश्च भूत­भौ­ति­क­सं­ह­ति­रूपः, स्कन्धहेतुकश्च पञ्चस्कन्धीरूपः — तस्मि­न्नु­भ­य­हे­तु­केऽपि समु­दा­येऽ­भि­प्रे­य­माणे, तदप्राप्तिः स्यात् — समु­दा­या­प्राप्तिः समु­दा­य­भा­वा­नु­प­प­त्ति­रि­त्यर्थः । कुतः ? समु­दा­यि­ना­म­चे­त­न­त्वात् । चित्ता­भि­ज्व­ल­नस्य च समु­दा­य­सि­द्ध्य­धी­न­त्वात् । अन्यस्य च कस्यचिच्चेतनस्य भोक्तुः प्रशासितुर्वा स्थिरस्य संह­न्तु­र­न­भ्यु­प­ग­मात् । निर­पे­क्ष­प्र­वृ­त्त्य­भ्यु­प­गमे च प्रवृ­त्त्य­नु­प­र­म­प्र­स­ङ्गात् । आश­य­स्या­प्य­न्य­त्वा­न­न्य­त्वा­भ्या­म­नि­रू­प्य­त्वात् । क्षणि­क­त्वा­भ्यु­प­ग­माच्च निर्व्या­पा­र­त्वा­त्प्र­वृ­त्त्य­नु­प­पत्तेः । तस्मा­त्स­मु­दा­या­नु­प­पत्तिः; समुदायानुपपत्तौ च तदाश्रया लोकयात्रा लुप्येत ॥ १८ ॥

इत­रे­त­र­प्र­त्य­य­त्वा­दिति चेन्नो­त्प­त्ति­मा­त्र­नि­मि­त्त­त्वात् ॥ १९ ॥

१९

यद्यपि भोक्ता प्रशासिता वा कश्चिच्चेतनः संहन्ता स्थिरो नाभ्युपगम्यते, तथा­प्य­वि­द्या­दी­ना­मि­त­रे­त­र­का­र­ण­त्वा­दु­प­प­द्यते लोकयात्रा । तस्यां चोपपद्यमानायां न किञ्चि­द­प­र­म­पे­क्षि­त­व्य­मस्ति । ते चाविद्यादयः — अविद्या संस्कारः विज्ञानं नाम रूपं षडायतनं स्पर्शः वेदना तृष्णा उपादानं भवः जातिः जरा मरणं शोकः परिदेवना दुःखं दुर्मनस्ता — इत्येवंजातीयका इतरेतरहेतुकाः सौगते समये क्वचि­त्सं­क्षिप्ता निर्दिष्टाः, क्वचि­त्प्र­प­ञ्चिताः । सर्वे­षा­म­प्य­य­म­वि­द्या­दि­क­ला­पोऽ­प्र­त्या­ख्येयः । तदे­व­म­वि­द्या­दि­क­लापे पर­स्प­र­नि­मि­त्त­नै­मि­त्ति­क­भा­वेन घटी­य­न्त्र­व­द­नि­श­मा­व­र्त­मा­नेऽ­र्था­क्षिप्त उपपन्नः सङ्घात इति चेत् , तन्न । कस्मात् ? उत्प­त्ति­मा­त्र­नि­मि­त्त­त्वात् — भवेदुपपन्नः सङ्घातः, यदि सङ्घातस्य किञ्चि­न्नि­मि­त्त­म­व­ग­म्येत; न त्ववगम्यते; यत इत­रे­त­र­प्र­त्य­य­त्वेऽ­प्य­वि­द्या­दीनां पूर्वपूर्वम् उत्त­रो­त्त­र­स्यो­त्प­त्ति­मा­त्र­नि­मित्तं भवत् भवेत् , न तु सङ्घातोत्पत्तेः किञ्चि­न्नि­मित्तं सम्भवति । नन्व­वि­द्या­दि­भि­र­र्था­दा­क्षि­प्यते सङ्घात इत्युक्तम्; अत्रोच्यते — यदि तावदयमभिप्रायः — अविद्यादयः सङ्घा­त­म­न्त­रे­णा­त्मा­न­म­ल­भ­माना अपेक्षन्ते सङ्घातमिति, ततस्तस्य सङ्घातस्य किञ्चि­न्नि­मित्तं वक्तव्यम् । तच्च नित्ये­ष्व­प्य­णु­ष्व­भ्यु­ग­म्य­मा­ने­ष्वा­श्र­या­श्र­यि­भू­तेषु च भोक्तृषु सत्सु न सम्भवतीत्युक्तं वैशे­षि­क­प­री­क्षा­याम्; किमङ्ग पुनः क्षणिकेष्वणुषु भोक्तृ­र­हि­ते­ष्वा­श्र­या­श्र­यि­शू­न्येषु वाभ्यु­प­ग­म्य­मा­नेषु सम्भवेत् । अथायमभिप्रायः — अविद्यादय एव सङ्घातस्य निमित्तमिति, कथं तमे­वा­श्रि­त्या­त्मानं लभमानास्तस्यैव निमित्तं स्युः । अथ मन्यसे — सङ्घाता एवानादौ संसारे सन्त­त्या­नु­व­र्तन्ते, तदा­श्र­या­श्चा­वि­द्या­दय इति, तदपि सङ्घा­ता­त्सं­घा­ता­न्त­र­मु­त्प­द्य­मानं नियमेन वा सदृ­श­मे­वो­त्प­द्येत, अनियमेन वा सदृशं विसदृशं वोत्पद्येत । नियमाभ्युपगमे मनुष्यपुद्गलस्य देव­ति­र्य­ग्यो­नि­ना­र­क­प्रा­प्त्य­भावः प्राप्नुयात् । अनि­य­मा­भ्यु­प­ग­मेऽपि मनुष्यपुद्गलः कदाचित्क्षणेन हस्ती भूत्वा देवो वा पुनर्मनुष्यो वा भवेदिति प्राप्नुयात् । उभ­य­म­प्य­भ्यु­प­ग­म­वि­रु­द्धम् । अपि च यद्भोगार्थः सङ्घातः स्यात् , स जीवो नास्ति स्थिरो भोक्ता इति तवाभ्युपगमः । ततश्च भोगो भोगार्थ एव, स नान्येन प्रार्थनीयः । तथा मोक्षो मोक्षार्थ एवेति मुमुक्षुणा नान्येन भवितव्यम् । अन्येन चेत्प्रा­र्थ्ये­तो­भ­यम् , भोग­मो­क्ष­का­ला­व­स्था­यिना तेन भवितव्यम् । अवस्थायित्वे क्षणि­क­त्वा­भ्यु­प­ग­म­वि­रोधः । तस्मा­दि­त­रे­त­रो­त्प­त्ति­मा­त्र­नि­मि­त्त­त्व­म­वि­द्या­दीनां यदि भवेत् , भवतु नाम; न तु सङ्घातः सिध्येत् , भोक्त्रभावात् — इत्यभिप्रायः ॥ १९ ॥

उत्तरोत्पादे च पूर्वनिरोधात् ॥ २० ॥

२०

उक्तमेतत् — अवि­द्या­दी­ना­मु­त्प­त्ति­मा­त्र­नि­मि­त्त­त्वान्न सङ्घा­त­सि­द्धि­र­स्तीति; तदपि तु उत्प­त्ति­मा­त्र­नि­मि­त्तत्वं न सम्भ­व­ती­ती­द­मि­दा­नी­मु­प­पा­द्यते । क्षण­भ­ङ्ग­वा­दि­नोऽ­य­म­भ्यु­प­गमः — उत्त­र­स्मि­न्क्षणे उत्पद्यमाने पूर्वः क्षणो निरुध्यत इति । न चैवमभ्युपगच्छता पूर्वोत्तरयोः क्षण­यो­र्हे­तु­फ­ल­भावः शक्यते सम्पादयितुम् , निरुध्यमानस्य निरुद्धस्य वा पूर्व­क्ष­ण­स्या­भा­व­ग्र­स्त­त्वा­दु­त्त­र­क्ष­ण­हे­तु­त्वा­नु­प­पत्तेः । अथ भावभूतः परि­नि­ष्प­न्ना­वस्थः पूर्वक्षण उत्तरक्षणस्य हेतु­रि­त्य­भि­प्रायः, तथापि नोपपद्यते, भावभूतस्य पुन­र्व्या­पा­र­क­ल्प­नायां क्षणा­न्त­र­स­म्ब­न्ध­प्र­स­ङ्गात् । अथ भाव एवास्य व्यापार इत्यभिप्रायः, तथापि नैवोपपद्यते, हेतु­स्व­भा­वा­नु­प­र­क्तस्य फल­स्यो­त्प­त्त्य­स­म्भ­वात् । स्वभा­वो­प­रा­गा­भ्यु­प­गमे च, हेतुस्वभावस्य फल­का­ला­व­स्था­यित्वे सति, क्षण­भ­ङ्गा­भ्यु­प­ग­म­त्या­ग­प्र­सङ्गः । विनैव वा स्वभावोपरागेण हेतु­फ­ल­भा­व­म­भ्यु­प­ग­च्छतः सर्वत्र तत्प्रा­प्ते­र­ति­प्र­सङ्गः । अपि चोत्पादनिरोधौ नाम वस्तुनः स्वरूपमेव वा स्याताम् , अवस्थान्तरं वा, वस्त्वन्तरमेव वा — सर्वथापि नोपपद्यते । यदि तावद्वस्तुनः स्वरू­प­मे­वो­त्पा­द­नि­रोधौ स्याताम् , ततो वस्तुशब्द उत्पा­द­नि­रो­ध­शब्दौ च पर्यायाः प्राप्नुयुः । अथास्ति कश्चिद्विशेष इति मन्येत — उत्पा­द­नि­रो­ध­श­ब्दाभ्यां मध्यवर्तिनो वस्तुन आद्यन्ताख्ये अवस्थे अभिलप्येते इति, एव­म­प्या­द्य­न्त­म­ध्य­क्ष­ण­त्र­य­स­म्ब­न्धि­त्वा­द्व­स्तुनः क्षणि­क­त्वा­भ्यु­प­ग­म­हानिः । अथा­त्य­न्त­व्य­ति­रि­क्ता­वे­वो­त्पा­द­नि­रोधौ वस्तुनः स्याताम् — अश्वमहिषवत् , ततो वस्तु उत्पा­द­नि­रो­धा­भ्या­म­सं­सृ­ष्ट­मिति वस्तुनः शाश्व­त­त्व­प्र­सङ्गः । यदि च दर्शनादर्शने वस्तुन उत्पादनिरोधौ स्याताम् , एवमपि द्रष्टृधर्मौ तौ न वस्तुधर्माविति वस्तुनः शाश्व­त­त्व­प्र­सङ्ग एव । तस्मादप्यसङ्गतं सौगतं मतम् ॥ २० ॥

असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ २१ ॥

२१

क्षणभङ्गवादे पूर्वक्षणो निरो­ध­ग्र­स्त­त्वा­न्नो­त्त­रस्य क्षणस्य हेतु­र्भ­व­ती­त्यु­क्तम् । अथासत्येव हेतौ फलोत्पत्तिं ब्रूयात् , ततः प्रतिज्ञोपरोधः स्यात् — चतु­र्वि­धा­न्हे­तू­न्प्र­तीत्य चित्तचैत्ता उत्पद्यन्त इतीयं प्रतिज्ञा हीयेत । निर्हेतुकायां चोत्प­त्ता­व­प्र­ति­ब­न्धा­त्सर्वं सर्व­त्रो­त्प­द्येत । अथो­त्त­र­क्ष­णो­त्प­त्ति­र्या­व­त्ता­व­द­व­ति­ष्ठते पूर्वक्षण इति ब्रूयात् , ततो यौगपद्यं हेतुफलयोः स्यात्; तथापि प्रतिज्ञोपरोध एव स्यात् — क्षणिकाः सर्वे संस्कारा इतीयं प्रति­ज्ञो­प­रु­ध्येत ॥ २१ ॥

प्रति­सं­ख्याऽ­प्र­ति­सं­ख्या­नि­रो­धा­प्रा­प्ति­र­वि­च्छे­दात् ॥ २२ ॥

२२

अपि च वैनाशिकाः कल्पयन्ति — बुद्धिबोध्यं त्रया­द­न्य­त्सं­स्कृतं क्षणिकं चेति । तदपि च त्रयम् — प्रति­सं­ख्या­प्र­ति­सं­ख्या­नि­रोधौ आकाशं चेत्याचक्षते । त्रयमपि चैतत् अवस्तु अभावमात्रं निरुपाख्यमिति मन्यन्ते । बुद्धिपूर्वकः किल विनाशो भावानां प्रति­सं­ख्या­नि­रोधो नाम भाष्यते । तद्वि­प­री­तोऽ­प्र­ति­सं­ख्या­नि­रोधः । आव­र­णा­भा­व­मा­त्र­मा­का­श­मिति । तेषामाकाशं पर­स्ता­त्प्र­त्या­ख्या­स्यति । निरो­ध­द्व­य­मि­दानीं प्रत्याचष्टे — प्रति­सं­ख्या­प्र­ति­सं­ख्या­नि­रो­धयोः अप्राप्तिरसम्भव इत्यर्थः । कस्मात् ? अविच्छेदात् — एतौ हि प्रति­सं­ख्या­प्र­ति­सं­ख्या­नि­रोधौ सन्तानगोचरौ वा स्याताम् , भावगोचरौ वा ? न ताव­त्स­न्ता­न­गो­चरौ सम्भवतः, सर्वेष्वपि सन्तानेषु सन्ता­नि­ना­म­वि­च्छि­न्नेन हेतुफलभावेन सन्ता­न­वि­च्छे­द­स्या­स­म्भ­वात् । नापि भावगोचरौ सम्भवतः — न हि भावानां निरन्वयो निरुपाख्यो विनाशः सम्भवति, सर्वा­स्व­प्य­व­स्थासु प्रत्य­भि­ज्ञा­न­ब­ले­ना­न्व­य्य­वि­च्छे­द­द­र्श­नात् , अस्प­ष्ट­प्र­त्य­भि­ज्ञा­ना­स्व­प्य­व­स्थासु क्वचि­द्दृ­ष्टे­ना­न्व­य्य­वि­च्छे­दे­ना­न्य­त्रापि तदनुमानात् । तस्मा­त्प­र­प­रि­क­ल्पि­तस्य निरो­ध­द्व­य­स्या­नु­प­पत्तिः ॥ २२ ॥

उभयथा च दोषात् ॥ २३ ॥

२३

योऽय­म­वि­द्या­दि­नि­रोधः प्रति­सं­ख्या­नि­रो­धा­न्तः­पाती परपरिकल्पितः, स सम्य­ग्ज्ञा­नाद्वा सप­रि­क­रा­त्स्यात्; स्वयमेव वा ? पूर्व­स्मि­न्वि­कल्पे निर्हे­तु­क­वि­ना­शा­भ्यु­प­ग­म­हा­नि­प्र­सङ्गः; उत्तरस्मिंस्तु मार्गो­प­दे­शा­न­र्थ­क्य­प्र­सङ्गः । एवमुभयथापि दोष­प्र­स­ङ्गा­द­स­म­ञ्ज­स­मिदं दर्शनम् ॥ २३ ॥

आकाशे चाविशेषात् ॥ २४ ॥

२४

यच्च तेषा­मे­वा­भि­प्रेतं निरोधद्वयमाकाशं च निरुपाख्यमिति — तत्र निरोधद्वयस्य निरुपाख्यत्वं पुर­स्ता­न्नि­रा­कृ­तम् । आकाशस्येदानीं निराक्रियते । आकाशे चायुक्तो निरु­पा­ख्य­त्वा­भ्यु­प­गमः, प्रति­सं­ख्या­प्र­ति­सं­ख्या­नि­रो­ध­यो­रिव वस्तु­त्व­प्र­ति­प­त्ते­र­वि­शे­षात् । आग­म­प्रा­मा­ण्या­त्ता­वत् ‘आत्मन आकाशः सम्भूतः’(तै. उ. २ । १ । १) इत्या­दि­श्रु­तिभ्य आकाशस्य च वस्तु­त्व­प्र­सिद्धिः । विप्र­ति­प­न्ना­न्प्रति तु शब्द­गु­णा­नु­मे­यत्वं वक्तव्यम् — गन्धादीनां गुणानां पृथि­व्या­दि­व­स्त्वा­श्र­य­त्व­द­र्श­नात् । अपि च आव­र­णा­भा­व­मा­त्र­मा­का­श­मि­च्छ­ताम् , एकस्मिन्सुपर्णे पतत्यावरणस्य विद्य­मा­न­त्वा­त्सु­प­र्णा­न्त­र­स्यो­त्पि­त्स­तोऽ­न­व­का­श­त्व­प्र­सङ्गः । यत्रा­व­र­णा­भा­व­स्तत्र पतिष्यतीति चेत् — येनावरणाभावो विशेष्यते, तत्तर्हि वस्तु­भू­त­मे­वा­काशं स्यात् , न आवरणाभावमात्रम् । अपि च आव­र­णा­भा­व­मा­त्र­मा­काशं मन्यमानस्य सौगतस्य स्वाभ्यु­प­ग­म­वि­रोधः प्रसज्येत । सौगते हि समये ‘पृथिवी भगवः किंसन्निश्रया’ इत्य­स्मि­न्प्र­श्न­प्र­ति­व­च­न­प्र­वाहे पृथि­व्या­दी­ना­मन्ते ‘वायुः किंसन्निश्रयः’ इत्यस्य प्रश्नस्य प्रतिवचनं भवति — ‘वायु­रा­का­श­स­न्नि­श्रयः’ इति । तदा­का­श­स्या­व­स्तुत्वे न समञ्जसं स्यात् । तस्मा­द­प्य­यु­क्त­मा­का­श­स्या­व­स्तु­त्वम् । अपि च निरोधद्वयमाकाशं च त्रय­म­प्ये­त­न्नि­रु­पा­ख्य­म­वस्तु नित्यं चेति विप्रतिषिद्धम् । न ह्यवस्तुनो नित्य­त्व­म­नि­त्यत्वं वा सम्भवति, वस्त्वा­श्र­य­त्वा­द्ध­र्म­ध­र्मि­व्य­व­हा­रस्य । धर्मधर्मिभावे हि घटा­दि­व­द्व­स्तु­त्व­मेव स्यात् , न निरुपाख्यत्वम् ॥ २४ ॥

अनुस्मृतेश्च ॥ २५ ॥

२५

अपि च वैनाशिकः सर्वस्य वस्तुनः क्षणि­क­ता­म­भ्यु­प­यन् उपलब्धुरपि क्षणि­क­ता­म­भ्यु­पे­यात् । न च सा सम्भवति; अनुस्मृतेः — अनुभवम् उप­ल­ब्धि­म­नू­त्प­द्य­मानं स्मरणमेव अनुस्मृतिः । सा चोप­ल­ब्ध्ये­क­क­र्तृका सती सम्भवति, पुरु­षा­न्त­रो­प­ल­ब्धि­वि­षये पुरुषान्तरस्य स्मृत्यदर्शनात् । कथं हि ‘अह­म­दोऽ­द्रा­क्षम् — इदं पश्यामि’ इति च पूर्वो­त्त­र­द­र्शि­न्ये­क­स्मि­न्न­सति प्रत्ययः स्यात् । अपि च दर्शनस्मरणयोः कर्त­र्ये­क­स्मि­न्प्र­त्यक्षः प्रत्य­भि­ज्ञा­प्र­त्ययः सर्वस्य लोकस्य प्रसिद्धः — ‘अह­म­दोऽ­द्रा­क्षम् — इदं पश्यामि’ इति । यदि हि तयोर्भिन्नः कर्ता स्यात् , ततः ‘अहं स्मरामि — अद्राक्षीदन्यः’ इति प्रतीयात्; न त्वेवं प्रत्येति कश्चित् । यत्रैवं प्रत्ययस्तत्र दर्श­न­स्म­र­ण­यो­र्भि­न्न­मेव कर्तारं सर्व­लो­कोऽ­व­ग­च्छति — ‘स्मराम्यहम् — असा­व­दोऽ­द्रा­क्षीत्’ इति । इह तु ‘अह­म­दोऽ­द्रा­क्षम्’ इति दर्श­न­स्म­र­ण­यो­र्वै­ना­शि­कोऽ­प्या­त्मा­न­मे­वैकं कर्तारमवगच्छति; न ‘नाहम्’ इत्यात्मनो दर्शनं निर्वृत्तं निह्नुते — यथा अग्नि­र­नु­ष्णोऽ­प्र­काश इति वा । तत्रैवं सत्येकस्य दर्श­न­स्म­र­ण­ल­क्ष­ण­क्ष­ण­द्व­य­स­म्बन्धे क्षणि­क­त्वा­भ्यु­प­ग­म­हा­नि­र­प­रि­हार्या वैनाशिकस्य स्यात् । तथा अन­न्त­रा­म­न­न्त­रा­मा­त्मन एव प्रतिपत्तिं प्रत्य­भि­जा­न­न्ने­क­क­र्तृ­काम् आ उत्त­मा­दु­च्छ्वा­सात् , अतीताश्च प्रतिपत्तीः आ जन्मन आत्मैककर्तृकाः प्रतिसन्दधानः, कथं क्षणभङ्गवादी वैनाशिको नापत्रपेत ? स यदि ब्रूयात् सादृ­श्या­दे­त­त्स­म्प­त्स्यत इति, तं प्रतिब्रूयात् — तेनेदं सदृशमिति द्वया­य­त्त­त्वा­त्सा­दृ­श्यस्य, क्षणभङ्गवादिनः सदृ­श­यो­र्द्व­यो­र्व­स्तु­नो­र्ग्र­ही­तु­रे­क­स्या­भा­वात् , सादृश्यनिमित्तं प्रतिसन्धानमिति मिथ्याप्रलाप एव स्यात् । स्याच्चे­त्पू­र्वो­त्त­रयोः क्षणयोः सादृश्यस्य ग्रहीतैकः, तथा सत्येकस्य क्षण­द्व­या­व­स्था­ना­त्क्ष­णि­क­त्व­प्र­तिज्ञा पीड्येत । ‘तेनेदं सदृशम्’ इति प्रत्य­या­न्त­र­मे­वे­दम् , न पूर्वो­त्त­र­क्ष­ण­द्व­य­ग्र­ह­ण­नि­मि­त्त­मिति चेत् , न; तेन इदम् इति भिन्न­प­दा­र्थो­पा­दा­नात् । प्रत्ययान्तरमेव चेत्सा­दृ­श्य­वि­षयं स्यात् , ‘तेनेदं सदृशम्’ इति वाक्य­प्र­यो­गोऽ­न­र्थकः स्यात् , सादृश्यम् इत्येव प्रयोगः प्राप्नुयात् । यदा हि लोकप्रसिद्धः पदार्थः परीक्षकैर्न परिगृह्यते, तदा स्वपक्षसिद्धिः परपक्षदोषो वा उभयमप्युच्यमानं परी­क्ष­का­णा­मा­त्म­नश्च यथार्थत्वेन न बुद्धि­स­न्ता­न­मा­रो­हति । एवमेवैषोऽर्थः इति निश्चितं यत् , तदेव वक्तव्यम् । ततोऽ­न्य­दु­च्य­मानं बहु­प्र­ला­पि­त्व­मा­त्मनः केवलं प्रख्यापयेत् । न चायं सादृ­श्या­त्सं­व्य­व­हारो युक्तः; तद्भावावगमात् , तत्स­दृ­श­भा­वा­न­व­ग­माच्च । भवेदपि कदा­चि­द्बा­ह्य­व­स्तुनि विप्र­ल­म्भ­स­म्भ­वात् ‘तदेवेदं स्यात् , तत्सदृशं वा’ इति सन्देहः । उपलब्धरि तु सन्देहोऽपि न कदाचिद्भवति — ‘स एवाहं स्यां तत्सदृशो वा’ इति, ‘य एवाहं पूर्वे­द्यु­र­द्राक्षं स एवाहमद्य स्मरामि’ इति निश्चि­त­त­द्भा­वो­प­ल­म्भात् । तस्मा­द­प्य­नु­प­पन्नो वैनाशिकसमयः ॥ २५ ॥

नास­तोऽ­दृ­ष्ट­त्वात् ॥ २६ ॥

२६

इतश्चानुपपन्नो वैनाशिकसमयः, यतः स्थिर­म­नु­या­यि­का­र­ण­म­न­भ्यु­प­ग­च्छ­ताम् अभा­वा­द्भा­वो­त्प­त्ति­रि­त्ये­त­दा­प­द्येत । दर्शयन्ति चाभा­वा­द्भा­वो­त्प­त्तिम् — ‘नानुपमृद्य प्रादुर्भावात्’ इति । विनष्टाद्धि किल बीजादङ्कुर उत्पद्यते, तथा विन­ष्टा­त्क्षी­रा­द्दधि, मृत्पिण्डाच्च घटः । कूट­स्था­च्चे­त्का­र­णा­त्का­र्य­मु­त्प­द्येत, अविशेषात्सर्वं सर्वत उत्पद्येत । तस्मा­द­भा­व­ग्र­स्तेभ्यो बीजा­दि­भ्योऽ­ङ्कु­रा­दी­ना­मु­त्प­द्य­मा­न­त्वा­द­भा­वा­द्भा­वो­त्पत्तिः — इति मन्यन्ते । तत्रेदमुच्यते — ‘नास­तोऽ­दृ­ष्ट­त्वात्’ इति । नाभावाद्भाव उत्पद्यते । यद्यभावाद्भाव उत्पद्येत, अभा­व­त्वा­वि­शे­षा­त्का­र­ण­वि­शे­षा­भ्यु­प­ग­मोऽ­न­र्थकः स्यात् । न हि, बीजा­दी­ना­मु­प­मृ­दि­तानां योऽभा­व­स्त­स्या­भा­वस्य शशविषाणादीनां च, निःस्व­भा­व­त्वा­वि­शे­षा­द­भा­वत्वे कश्चि­द्वि­शे­षोऽस्ति; येन, बीजादेवाङ्कुरो जायते क्षीरादेव दधि — इत्येवंजातीयकः कार­ण­वि­शे­षा­भ्यु­प­ग­मोऽ­र्थ­वा­न्स्यात् । निर्विशेषस्य त्वभावस्य कार­ण­त्वा­भ्यु­प­गमे शश­वि­षा­णा­दि­भ्योऽ­प्य­ङ्कु­रा­दयो जायेरन्; न चैवं दृश्यते । यदि पुनरभावस्यापि विशे­षोऽ­भ्यु­प­ग­म्येत — उत्पलादीनामिव नीलत्वादिः, ततो विशे­ष­व­त्त्वा­दे­वा­भा­वस्य भाव­त्व­मु­त्प­ला­दि­व­त्प्र­स­ज्येत । नाप्यभावः कस्य­चि­दु­त्प­त्ति­हेतुः स्यात् , अभावत्वादेव, शशविषाणादिवत् । अभावाच्च भावो­त्प­त्ता­व­भा­वा­न्वि­त­मेव सर्वं कार्यं स्यात्; न चैवं दृश्यते, सर्वस्य च वस्तुनः स्वेन स्वेन रूपेण भावा­त्म­नै­वो­प­ल­भ्य­मा­न­त्वात् । न च मृदन्विताः शरावादयो भावा­स्त­न्त्वा­दि­वि­काराः केन­चि­द­भ्यु­प­ग­म्यन्ते । मृद्विकारानेव तु मृद­न्वि­ता­न्भा­वान् लोकः प्रत्येति । यत्तूक्तम् — स्वरू­पो­प­म­र्द­म­न्त­रेण कस्य­चि­त्कू­ट­स्थस्य वस्तुनः कार­ण­त्वा­नु­प­प­त्ते­र­भा­वा­द्भा­वो­त्प­त्ति­र्भ­वि­तु­म­र्ह­तीति, तद्दुरुक्तम् , स्थिर­स्व­भा­वा­ना­मेव सुवर्णादीनां प्रत्य­भि­ज्ञा­य­मा­नानां रुच­का­दि­का­र्य­का­र­ण­भा­व­द­र्श­नात् । येष्वपि बीजादिषु स्वरूपोपमर्दो लक्ष्यते, तेष्वपि नासा­वु­प­मृ­द्य­माना पूर्वावस्था उत्तरावस्थायाः कार­ण­म­भ्यु­प­ग­म्यते, अनु­प­मृ­द्य­मा­ना­ना­मे­वा­नु­या­यिनां बीजा­द्य­व­य­वा­ना­म­ङ्कु­रा­दि­का­र­ण­भा­वा­भ्यु­प­ग­मात् । तस्मादसद्भ्यः शशविषाणादिभ्यः सदु­त्प­त्त्य­द­र्श­नात् , सद्भ्यश्च सुवर्णादिभ्यः सदु­त्प­त्ति­द­र्श­नात् , अनु­प­प­न्नोऽ­य­म­भा­वा­द्भा­वो­त्प­त्त्य­भ्यु­प­गमः । अपि च चतु­र्भि­श्चि­त्त­चैत्ता उत्पद्यन्ते परमाणुभ्यश्च भूतभौतिकलक्षणः समुदाय उत्पद्यते — इत्यभ्युपगम्य, पुन­र­भा­वा­द्भा­वो­त्पत्तिं कल्प­य­द्भि­र­भ्यु­प­ग­त­म­प­ह्नु­वा­नै­र्वै­ना­शिकैः सर्वो लोक आकुलीक्रियते ॥ २६ ॥

उदासीनानामपि चैवं सिद्धिः ॥ २७ ॥

२७

यदि चाभा­वा­द्भा­वो­त्प­त्ति­र­भ्यु­प­ग­म्येत, एवं सत्यु­दा­सी­ना­ना­म­नी­ह­मा­ना­ना­मपि जना­ना­म­भि­म­त­सिद्धिः स्यात् , अभावस्य सुलभत्वात् । कृषीवलस्य क्षेत्र­क­र्म­ण्य­प्र­य­त­मा­न­स्यापि सस्यनिष्पत्तिः स्यात् । कुलालस्य च मृत्सं­स्क्रि­या­या­म­प्र­य­त­मा­न­स्यापि अमत्रोत्पत्तिः । तन्तुवायस्यापि तन्तू­न­त­न्वा­न­स्यापि तन्वानस्येव वस्त्रलाभः । स्वर्गा­प­व­र्ग­योश्च न कश्चि­त्क­थ­ञ्चि­त्स­मी­हेत । न चैतद्युज्यते अभ्युपगम्यते वा केनचित् । तस्मा­द­प्य­नु­प­प­न्नोऽ­य­म­भा­वा­द्भा­वो­त्प­त्त्य­भ्यु­प­गमः ॥ २७ ॥

नाभाव उपलब्धेः ॥ २८ ॥

२८

एवं बाह्या­र्थ­वा­द­मा­श्रित्य समु­दा­या­प्रा­प्त्या­दिषु दूष­णे­षू­द्भा­वि­तेषु विज्ञानवादी बौद्ध इदानीं प्रत्यवतिष्ठते — केषाञ्चित्किल विनेयानां बाह्ये वस्तु­न्य­भि­नि­वे­श­मा­लक्ष्य तदनुरोधेन बाह्या­र्थ­वा­द­प्र­क्रि­येयं विरचिता । नासौ सुगताभिप्रायः । तस्य तु विज्ञा­नै­क­स्क­न्ध­वाद एवाभिप्रेतः । तस्मिंश्च विज्ञानवादे बुद्ध्यारूढेन रूपेणान्तस्थ एव प्रमा­ण­प्र­मे­य­फ­ल­व्य­व­हारः सर्व उपपद्यते, सत्यपि बाह्येऽर्थे बुद्ध्या­रो­ह­म­न्त­रेण प्रमा­णा­दि­व्य­व­हा­रा­न­व­ता­रात् । कथं पुनरवगम्यते — अन्तस्थ एवायं सर्वव्यवहारः, न विज्ञा­न­व्य­ति­रिक्तो बाह्योऽ­र्थोऽ­स्तीति ? तदसम्भवादित्याह — स हि बाह्योऽ­र्थोऽ­भ्यु­प­ग­म्य­मानः परमाणवो वा स्युः, तत्समूहा वा स्तम्भादयः स्युः । तत्र न तावत्परमाणवः स्तम्भा­दि­प्र­त्य­य­प­रि­च्छेद्या भवितुमर्हन्ति, पर­मा­ण्वा­भा­स­ज्ञा­ना­नु­प­पत्तेः । नापि तत्समूहाः स्तम्भादयः, तेषां पर­मा­णु­भ्योऽ­न्य­त्वा­न­न्य­त्वाभ्यां निरू­प­यि­तु­म­श­क्य­त्वात् । एवं जात्यादीनपि प्रत्याचक्षीत । अपि च अनुभवमात्रेण साधारणात्मनो ज्ञानस्य जायमानस्य योऽयं प्रतिविषयं पक्षपातः — स्तम्भज्ञानं कुड्यज्ञानं घटज्ञानं पटज्ञानमिति, नासौ ज्ञान­ग­त­वि­शे­ष­म­न्त­रे­णो­प­प­द्यत इत्यवश्यं विषयसारूप्यं ज्ञान­स्या­ङ्गी­क­र्त­व्यम् । अङ्गीकृते च तस्मि­न्वि­ष­या­का­रस्य ज्ञाने­नै­वा­व­रु­द्ध­त्वा­द­पा­र्थिका बाह्या­र्थ­स­द्भा­व­क­ल्पना । अपि च सहो­प­ल­म्भ­नि­य­मा­द­भेदो विष­य­वि­ज्ञा­न­यो­रा­प­तति । न ह्यन­यो­रे­क­स्या­नु­प­ल­म्भेऽ­न्य­स्यो­प­ल­म्भोऽस्ति । न चैत­त्स्व­भा­व­वि­वेके युक्तम् , प्रति­ब­न्ध­का­र­णा­भा­वात् । तस्मा­द­प्य­र्था­भावः । स्वप्ना­दि­व­च्चेदं द्रष्टव्यम् — यथा हि स्वप्न­मा­या­म­री­च्यु­द­क­ग­न्ध­र्व­न­ग­रा­दि­प्र­त्यया विनैव बाह्येनार्थेन ग्राह्य­ग्रा­ह­का­कारा भवन्ति । एवं जागरितगोचरा अपि स्तम्भा­दि­प्र­त्यया भवि­तु­म­र्ह­न्ती­त्य­व­ग­म्यते, प्रत्य­य­त्वा­वि­शे­षात् । कथं पुनरसति बाह्यार्थे प्रत्य­य­वै­चि­त्र्य­मु­प­प­द्यते ? वास­ना­वै­चि­त्र्या­दि­त्याह — अनादौ हि संसारे बीजा­ङ्कु­र­व­द्वि­ज्ञा­नानां वासनानां चान्यो­न्य­नि­मि­त्त­नै­मि­त्ति­क­भा­वेन वैचित्र्यं न विप्रतिषिध्यते । अपि च अन्व­य­व्य­ति­रे­काभ्यां वासनानिमित्तमेव ज्ञान­वै­चि­त्र्य­मि­त्य­व­ग­म्यते, स्वप्ना­दि­ष्व­न्त­रे­णा­प्यर्थं वासनानिमित्तस्य ज्ञान­वै­चि­त्र्यस्य उभा­भ्या­म­प्या­वा­भ्या­म­भ्यु­प­ग­म्य­मा­न­त्वात् , अन्तरेण तु वास­ना­म­र्थ­नि­मि­त्तस्य ज्ञान­वै­चि­त्र्यस्य मया अन­भ्यु­प­ग­म्य­मा­न­त्वात् । तस्मादप्यभावो बाह्यार्थस्येति । एवं प्राप्ते ब्रूमः —

‘नाभाव उपलब्धेरि’ ति । न खल्वभावो बाह्य­स्या­र्थ­स्या­ध्य­व­सातुं शक्यते । कस्मात् ? उपलब्धेः — उपलभ्यते हि प्रतिप्रत्ययं बाह्योऽर्थः — स्तम्भः कुड्यं घटः पट इति । न चोप­ल­भ्य­मा­न­स्यै­वा­भावो भवितुमर्हति । यथा हि कश्चिद्भुञ्जानो भुजिसाध्यायां तृप्तौ स्वय­म­नु­भू­य­मा­ना­या­मेवं ब्रूयात् — ‘नाहं भुञ्जे न वा तृप्यामि’ इति — तद्व­दि­न्द्रि­य­स­न्नि­क­र्षेण स्वयमुपलभमान एव बाह्यमर्थम् , ‘नाहमुपलभे न च सोऽस्ति’ इति ब्रुवन् , कथमुपादेयवचनः स्यात् । ननु नाहमेवं ब्रवीमि — ‘न कञ्चि­द­र्थ­मु­प­लभे’ इति । किं तु ‘उप­ल­ब्धि­व्य­ति­रिक्तं नोपलभे’ इति ब्रवीमि । बाढमेवं ब्रवीषि निर­ङ्कु­श­त्वात्ते तुण्डस्य, न तु युक्त्युपेतं ब्रवीषि, यत उप­ल­ब्धि­व्य­ति­रे­कोऽपि बला­द­र्थ­स्या­भ्यु­प­ग­न्तव्यः, उपलब्धेरेव । न हि कश्चि­दु­प­ल­ब्धि­मेव स्तम्भः कुड्यं चेत्युपलभते । उप­ल­ब्धि­वि­ष­य­त्वे­नैव तु स्तम्भ­कु­ड्या­दी­न्सर्वे लौकिका उपलभन्ते । अतश्च एवमेव सर्वे लौकिका उपलभन्ते, यत् प्रत्याचक्षाणा अपि बाह्यमर्थम् एवमाचक्षते — ‘यद­न्त­र्ज्ञे­य­रूपं तद्ब­हि­र्व­द­व­भा­सते’ इति — तेऽपि हि सर्व­लो­क­प्र­सिद्धां बहिरवभासमानां संविदं प्रतिलभमानाः, प्रत्या­ख्या­तु­का­माश्च बाह्यमर्थम् , ‘बहिर्वत्’ इति वत्कारं कुर्वन्ति । इतरथा हि कस्मात् ‘बहिर्वत्’ इति ब्रूयुः । न हि ‘विष्णुमित्रो वन्ध्या­पु­त्र­व­द­व­भा­सते’ इति कश्चिदाचक्षीत । तस्मात् यथानुभवं तत्त्वम् अभ्युपगच्छद्भिः बहिरेवावभासते इति युक्तम् अभ्युपगन्तुम् , न तु बहिर्वत् अवभासत इति । ननु बाह्य­स्या­र्थ­स्या­स­म्भ­वात् बहिर्वदवभासते इत्यध्यवसितम् । नायं साधुरध्यवसायः, यतः प्रमा­ण­प्र­वृ­त्त्य­प्र­वृ­त्ति­पू­र्वकौ सम्भ­वा­स­म्भ­वा­व­व­धा­र्येते, न पुनः सम्भ­वा­स­म्भ­व­पू­र्विके प्रमा­ण­प्र­वृ­त्त्य­प्र­वृत्ती । यद्धि प्रत्य­क्षा­दी­ना­म­न्य­त­मे­नापि प्रमा­णे­नो­प­ल­भ्यते, तत्सम्भवति । यत्तु न केनचिदपि प्रमा­णे­नो­प­ल­भ्यते, तन्न सम्भवति । इह तु यथास्वं सर्वैरेव प्रमा­णै­र्बा­ह्योऽर्थ उपलभ्यमानः कथं व्यति­रे­का­व्य­ति­रे­का­दि­वि­क­ल्पैर्न सम्भ­व­ती­त्यु­च्येत — उपलब्धेरेव । न च ज्ञानस्य विष­य­सा­रू­प्या­द्वि­ष­य­नाशो भवति, असति विषये विष­य­सा­रू­प्या­नु­प­पत्तेः, बहिरुपलब्धेश्च विषयस्य । अत एव सहो­प­ल­म्भ­नि­य­मोऽपि प्रत्य­य­वि­ष­य­यो­रु­पा­यो­पे­य­भा­व­हे­तुकः, न अभेदहेतुकः — इत्य­भ्यु­प­ग­न्त­व्यम् । अपि च घटज्ञानं पटज्ञानमिति विशेषणयोरेव घटपटयोर्भेदः, न विशेष्यस्य ज्ञानस्य — यथा शुक्लो गौः कृष्णो गौरिति शौक्ल्य­का­र्ष्ण्य­यो­रेव भेदः, न गोत्वस्य । द्वाभ्यां च भेद एकस्य सिद्धो भवति, एकस्माच्च द्वयोः । तस्मा­द­र्थ­ज्ञा­न­यो­र्भेदः । तथा घटदर्शनं घट­स्म­र­ण­मि­त्य­त्रापि प्रतिपत्तव्यम् । अत्रापि हि विशेष्ययोरेव दर्श­न­स्म­र­ण­यो­र्भेदः, न विशेषणस्य घटस्य — यथा क्षीरगन्धः क्षीररस इति विशेष्ययोरेव गन्धरसयोर्भेदः, न विशेषणस्य क्षीरस्य, तद्वत् । अपि च द्वयो­र्वि­ज्ञा­नयोः पूर्वो­त्त­र­का­लयोः स्वसंवेदनेनैव उपक्षीणयोः इत­रे­त­र­ग्रा­ह्य­ग्रा­ह­क­त्वा­नु­प­पत्तिः । ततश्च — विज्ञा­न­भे­द­प्र­तिज्ञा क्षणि­क­त्वा­दि­ध­र्म­प्र­तिज्ञा स्वल­क्ष­ण­सा­मा­न्य­ल­क्ष­ण­वा­स्य­वा­स­क­त्वा­वि­द्यो­प­प्ल­व­स­द­स­द्ध­र्म­ब­न्ध­मो­क्षा­दि­प्र­ति­ज्ञाश्च स्वशास्त्रगताः — ता हीयेरन् । किञ्चान्यत् — विज्ञानं विज्ञा­न­मि­त्य­भ्यु­प­ग­च्छता बाह्योऽर्थः स्तम्भः कुड्य­मि­त्ये­वं­जा­ती­यकः कस्मा­न्ना­भ्यु­प­ग­म्यत इति वक्तव्यम् । विज्ञानमनुभूयत इति चेत् , बाह्योऽ­प्य­र्थोऽ­नु­भू­यत एवेति युक्त­म­भ्यु­प­ग­न्तुम् । अथ विज्ञानं प्रका­शा­त्म­क­त्वा­त्प्र­दी­प­व­त्स्व­य­मे­वा­नु­भू­यते, न तथा बाह्योऽप्यर्थ इति चेत् — अत्य­न्त­वि­रुद्धां स्वात्मनि क्रिया­म­भ्यु­प­ग­च्छसि — अग्निरात्मानं दहतीतिवत् । अविरुद्धं तु लोकप्रसिद्धम् — स्वात्म­व्य­ति­रि­क्तेन विज्ञानेन बाह्योऽ­र्थोऽ­नु­भू­यत इति नेच्छसि; अहो पाण्डित्यं महद्दर्शितम् । न चार्था­व्य­ति­रि­क्त­मपि विज्ञानं स्वय­मे­वा­नु­भू­यते, स्वात्मनि क्रियाविरोधादेव । ननु विज्ञानस्य स्वरू­प­व्य­ति­रि­क्त­ग्रा­ह्यत्वे, तदप्यन्येन ग्राह्यं तदप्यन्येन — इत्यनवस्था प्राप्नोति । अपि च प्रदी­प­व­द­व­भा­सा­त्म­क­त्वा­ज्ज्ञा­नस्य ज्ञानान्तरं कल्पयतः सम­त्वा­द­व­भा­स्या­व­भा­स­क­भा­वा­नु­प­पत्तेः कल्प­ना­न­र्थ­क्य­मिति तदुभयमप्यसत् । विज्ञा­न­ग्र­ह­ण­मात्र एव विज्ञानसाक्षिणो ग्रह­णा­का­ङ्क्षा­नु­त्पा­दा­द­न­व­स्था­श­ङ्का­नु­प­पत्तेः, साक्षि­प्र­त्य­य­योश्च स्वभा­व­वै­ष­म्या­दु­प­ल­ब्ध्रु­प­ल­भ्य­भा­वो­प­पत्तेः, स्वयंसिद्धस्य च साक्षि­णोऽ­प्र­त्या­ख्ये­य­त्वात् । किञ्चान्यत् — प्रदी­प­व­द्वि­ज्ञा­न­म­व­भा­स­का­न्त­र­नि­र­पेक्षं स्वयमेव प्रथते इति ब्रुवता अप्रमाणगम्यं विज्ञा­न­म­न­व­ग­न्तृ­क­मि­त्युक्तं स्यात् — शिला­घ­न­म­ध्य­स्थ­प्र­दी­प­स­ह­स्र­प्र­थ­न­वत् । बाढमेवम् — अनु­भ­व­रू­प­त्वात्तु विज्ञानस्येष्टो नः पक्षस्त्वया अनुज्ञायत इति चेत् , न; अन्य­स्या­व­ग­न्तु­श्च­क्षुः­सा­ध­नस्य प्रदी­पा­दि­प्र­थ­न­द­र्श­नात् । अतो विज्ञा­न­स्या­प्य­व­भा­स्य­त्वा­वि­शे­षा­त्स­त्ये­वा­न्य­स्मि­न्न­व­ग­न्तरि प्रथनं प्रदी­प­व­दि­त्य­व­ग­म्यते । साक्षि­णोऽ­व­गन्तुः स्वयं­सि­द्ध­ता­मु­प­क्षि­पता स्वयं प्रथते विज्ञानम् इत्येष एव मम पक्षस्त्वया वाचो­यु­क्त्य­न्त­रे­णा­श्रित इति चेत् , न; विज्ञा­न­स्यो­त्प­त्ति­प्र­ध्वं­सा­ने­क­त्वा­दि­वि­शे­ष­व­त्त्वा­भ्यु­प­ग­मात् । अतः प्रदी­प­व­द्वि­ज्ञा­न­स्यापि व्यति­रि­क्ता­व­ग­म्य­त्व­म­स्माभिः प्रसाधितम् ॥ २८ ॥

वैधर्म्याच्च न स्वप्नादिवत् ॥ २९ ॥

२९

यदुक्तं बाह्या­र्था­प­ला­पिना — स्वप्ना­दि­प्र­त्य­य­व­ज्जा­ग­रि­त­गो­चरा अपि स्तम्भा­दि­प्र­त्यया विनैव बाह्येनार्थेन भवेयुः, प्रत्य­य­त्वा­वि­शे­षा­दिति, तत्प्र­ति­व­क्त­व्यम् । अत्रोच्यते — न स्वप्ना­दि­प्र­त्य­य­व­ज्जा­ग्र­त्प्र­त्यया भवितुमर्हन्ति । कस्मात् ? वैधर्म्यात् — वैधर्म्यं हि भवति स्वप्नजागरितयोः । किं पुनर्वैधर्म्यम् ? बाधाबाधाविति ब्रूमः — बाध्यते हि स्वप्नोपलब्धं वस्तु प्रतिबुद्धस्य — मिथ्या मयोपलब्धो महाजनसमागम इति, न ह्यस्ति मम महाजनसमागमः, निद्राग्लानं तु मे मनो बभूव, तेनैषा भ्रान्ति­रु­द्ब­भू­वेति । एवं मायादिष्वपि भवति यथायथं बाधः । नैवं जागरितोपलब्धं वस्तु स्तम्भादिकं कस्या­ञ्चि­द­प्य­व­स्थायां बाध्यते । अपि च स्मृतिरेषा, यत्स्व­प्न­द­र्श­नम् । उपलब्धिस्तु जागरितदर्शनम् । स्मृत्यु­प­ल­ब्ध्योश्च प्रत्यक्षमन्तरं स्वयमनुभूयते अर्थ­वि­प्र­यो­ग­स­म्प्र­यो­गा­त्म­कम् — इष्टं पुत्रं स्मरामि, नोपलभे, उप­ल­ब्धु­मि­च्छा­मीति । तत्रैवं सति न शक्यते वक्तुम् — मिथ्या जागरितोपलब्धिः, उपलब्धित्वात् , स्वप्नो­प­ल­ब्धि­व­दिति — उभयोरन्तरं स्वयमनुभवता । न च स्वानुभवापलापः प्राज्ञ­मा­नि­भि­र्युक्तः कर्तुम् । अपि च अनु­भ­व­वि­रो­ध­प्र­स­ङ्गा­ज्जा­ग­रि­त­प्र­त्य­यानां स्वतो निरालम्बनतां वक्तुमशक्नुवता स्वप्न­प्र­त्य­य­सा­ध­र्म्या­द्व­क्तु­मि­ष्यते । न च यो यस्य स्वतो धर्मो न सम्भवति सोऽन्यस्य साधर्म्यात्तस्य सम्भविष्यति । न ह्यग्नि­रु­ष्णोऽ­नु­भू­य­मान उद­क­सा­ध­र्म्या­च्छीतो भविष्यति । दर्शितं तु वैधर्म्यं स्वप्नजागरितयोः ॥ २९ ॥

न भावोऽनुपलब्धेः ॥ ३० ॥

३०

यदप्युक्तम् — विनाप्यर्थेन ज्ञानवैचित्र्यं वास­ना­वै­चि­त्र्या­दे­वा­व­क­ल्पत इति, तत्प्र­ति­व­क्त­व्यम् । अत्रोच्यते — न भावो वास­ना­ना­मु­प­प­द्यते, त्वत्प­क्षेऽ­नु­प­ल­ब्धे­र्बा­ह्या­ना­म­र्था­नाम् । अर्थो­प­ल­ब्धि­नि­मित्ता हि प्रत्यर्थं नानारूपा वासना भवन्ति । अनुपलभ्यमानेषु त्वर्थेषु किंनिमित्ता विचित्रा वासना भवेयुः ? अना­दि­त्वेऽ­प्य­न्ध­प­र­म्प­रा­न्या­ये­ना­प्र­ति­ष्ठै­वा­न­वस्था व्यवहारविलोपिनी स्यात् , नाभि­प्रा­य­सिद्धिः । याव­प्य­न्व­य­व्य­ति­रे­का­व­र्था­प­ला­पि­नो­प­न्यस्तौ — वास­ना­नि­मि­त्त­मे­वेदं ज्ञानजातं नार्थ­नि­मि­त्त­मिति, तावप्येवं सति प्रत्युक्तौ द्रष्टव्यौ; विना अर्थोपलब्ध्या वासनानुपपत्तेः । अपि च विनापि वास­ना­भि­र­र्थो­प­ल­ब्ध्यु­प­ग­मात् , विना त्वर्थोपलब्ध्या वास­नो­त्प­त्त्य­न­भ्यु­प­ग­मात् अर्थ­स­द्भा­व­मे­वा­न्व­य­व्य­ति­रे­का­वपि प्रतिष्ठापयतः । अपि च वासना नाम संस्कारविशेषाः । संस्काराश्च नाश्र­य­म­न्त­रे­णा­व­क­ल्पन्ते; एवं लोके दृष्टत्वात् । न च तव वासनाश्रयः कश्चिदस्ति, प्रमा­ण­तोऽ­नु­प­लब्धेः ॥ ३० ॥

क्षणिकत्वाच्च ॥ ३१ ॥

३१

यद­प्या­ल­य­वि­ज्ञानं नाम वासनाश्रयत्वेन परिकल्पितम् , तदपि क्षणि­क­त्वा­भ्यु­प­ग­मा­द­न­व­स्थि­त­स्व­रूपं सत् प्रवृ­त्ति­वि­ज्ञा­न­वन्न वासनानामधिकरणं भवितुमर्हति । न हि काल­त्र­य­स­म्ब­न्धि­न्ये­क­स्मि­न्न­न्व­यि­न्य­सति कूटस्थे वा सर्वार्थदर्शिनि देश­का­ल­नि­मि­त्ता­पे­क्ष­वा­स­ना­धा­न­स्मृ­ति­प्र­ति­स­न्धा­ना­दि­व्य­व­हारः सम्भवति । स्थिरस्वरूपत्वे त्वाल­य­वि­ज्ञा­नस्य सिद्धान्तहानिः । अपि च विज्ञानवादेऽपि क्षणि­क­त्वा­भ्यु­प­ग­मस्य समानत्वात् , यानि बाह्यार्थवादे क्षणि­क­त्व­नि­ब­न्ध­नानि दूष­णा­न्यु­द्भा­वि­तानि — ‘उत्तरोत्पादे च पूर्वनिरोधात्’ इत्येवमादीनि, तानी­हा­प्य­नु­स­न्धा­त­व्यानि । एवमेतौ द्वावपि वैनाशिकपक्षौ निराकृतौ — बाह्या­र्थ­वा­दि­पक्षो विज्ञा­न­वा­दि­प­क्षश्च । शून्य­वा­दि­प­क्षस्तु सर्व­प्र­मा­ण­वि­प्र­ति­षिद्ध इति तन्निराकरणाय नादरः क्रियते । न ह्ययं सर्व­प्र­मा­ण­सिद्धो लोक­व्य­व­हा­रोऽ­न्य­त्त­त्त्व­म­न­धि­गम्य शक्य­तेऽ­प­ह्नो­तुम् , अपवादाभावे उत्स­र्ग­प्र­सिद्धेः ॥ ३१ ॥

सर्व­था­नु­प­प­त्तेश्च ॥ ३२ ॥

३२

किं बहुना ? सर्वप्रकारेण — यथा यथायं वैनाशिकसमय उपपत्तिमत्त्वाय परीक्ष्यते तथा तथा — सिक­ता­कू­प­व­द्वि­दी­र्यत एव । न काञ्चि­द­प्य­त्रो­प­पत्तिं पश्यामः । अतश्चानुपपन्नो वैना­शि­क­त­न्त्र­व्य­व­हारः । अपि च बाह्या­र्थ­वि­ज्ञा­न­शू­न्य­वा­द­त्र­य­मि­त­रे­त­र­वि­रु­द्ध­मु­प­दि­शता सुगतेन स्पष्टी­कृ­त­मा­त्म­नोऽ­स­म्ब­द्ध­प्र­ला­पि­त्वम् । प्रद्वेषो वा प्रजासु — विरु­द्धा­र्थ­प्र­ति­पत्त्या विमुह्येयुरिमाः प्रजा इति । सर्व­था­प्य­ना­द­र­णी­योऽयं सुगतसमयः श्रेय­स्का­मै­रि­त्य­भि­प्रायः ॥ ३२ ॥

नैक­स्मि­न्न­स­म्भ­वात् ॥ ३३ ॥

३३

निरस्तः सुगतसमयः । विवसनसमय इदानीं निरस्यते । सप्त चैषां पदार्थाः सम्मताः — जीवा­जी­वा­स्र­व­सं­व­र­नि­र्ज­र­ब­न्ध­मोक्षा नाम । संक्षेपतस्तु द्वावेव पदार्थौ जीवाजीवाख्यौ, यथायोगं तयो­रे­वे­त­रा­न्त­र्भा­वात् — इति मन्यन्ते । तयोरिममपरं प्रप­ञ्च­मा­च­क्षते, पञ्चास्तिकाया नाम — जीवास्तिकायः पुद्गलास्तिकायो धर्मा­स्ति­का­योऽ­ध­र्मा­स्ति­काय आका­शा­स्ति­का­य­श्चेति । सर्वे­षा­म­प्ये­षा­म­वा­न्त­र­भे­दा­न्ब­हु­वि­धा­न्स्व­स­म­य­प­रि­क­ल्पि­ता­न्व­र्ण­यन्ति । सर्वत्र चेमं सप्तभङ्गीनयं नाम न्यायमवतारयन्ति — स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्चेति । एव­मे­वै­क­त्व­नि­त्य­त्वा­दि­ष्व­पीमं सप्तभङ्गीनयं योजयन्ति ॥

अत्राचक्ष्महे — नायमभ्युपगमो युक्त इति । कुतः ? एक­स्मि­न्न­स­म्भ­वात् । न ह्येक­स्मि­न्ध­र्मिणि युग­प­त्स­द­स­त्त्वा­दि­वि­रु­द्ध­ध­र्म­स­मा­वेशः सम्भवति, शीतोष्णवत् । य एते सप्तपदार्था निर्धारिता एतावन्त एवंरूपाश्चेति, ते तथैव वा स्युः, नैव वा तथा स्युः । इतरथा हि, तथा वा स्युरतथा वेत्य­नि­र्धा­रि­त­रूपं ज्ञानं संश­य­ज्ञा­न­व­द­प्र­मा­ण­मेव स्यात् । नन्वनेकात्मकं वस्त्विति निर्धारितरूपमेव ज्ञान­मु­त्प­द्य­मानं संश­य­ज्ञा­न­व­न्ना­प्र­माणं भवितुमर्हति । नेति ब्रूमः — निरङ्कुशं ह्यनेकान्तत्वं सर्ववस्तुषु प्रतिजानानस्य निर्धारणस्यापि वस्तु­त्वा­वि­शे­षात् ‘स्यादस्ति स्यान्नास्ति’ इत्या­दि­वि­क­ल्पो­प­नि­पा­ता­द­नि­र्धा­र­णा­त्म­क­तैव स्यात् । एवं निर्धा­र­यि­तु­र्नि­र्धा­र­ण­फ­लस्य च स्यात्प­क्षेऽ­स्तिता, स्याच्च पक्षे नास्तितेति । एवं सति कथं प्रमाणभूतः सन् तीर्थकरः प्रमा­ण­प्र­मे­य­प्र­मा­तृ­प्र­मि­ति­ष्व­नि­र्धा­रि­तासु उपदेष्टुं शक्नुयात् ? कथं वा तद­भि­प्रा­या­नु­सा­रि­ण­स्त­दु­प­दि­ष्टेऽ­र्थेऽ­नि­र्धा­रि­त­रूपे प्रवर्तेरन् ? ऐका­न्ति­क­फ­ल­त्व­नि­र्धा­रणे हि सति तत्सा­ध­ना­नु­ष्ठा­नाय सर्वो लोकोऽनाकुलः प्रवर्तते, नान्यथा । अत­श्चा­नि­र्धा­रि­तार्थं शास्त्रं प्रणयन् मत्तो­न्म­त्त­व­द­नु­पा­दे­य­व­चनः स्यात् । तथा पञ्चा­ना­म­स्ति­का­यानां पञ्चत्वसंख्या ‘अस्ति वा नास्ति वा’ इति विकल्प्यमाना, स्यात्ता­व­दे­क­स्मि­न्पक्षे, पक्षान्तरे तु न स्यात् — इत्यतो न्यून­सं­ख्या­त्व­म­धि­क­सं­ख्यात्वं वा प्राप्नुयात् । न चैषां पदा­र्था­ना­म­व­क्त­व्यत्वं सम्भवति । अव­क्त­व्या­श्चे­न्नो­च्ये­रन् । उच्यन्ते चाव­क्त­व्या­श्चेति विप्रतिषिद्धम् । उच्यमानाश्च तथैवावधार्यन्ते नावधार्यन्त इति च । तथा तदवधारणफलं सम्य­ग्द­र्श­न­मस्ति वा नास्ति वा — एवं तद्वि­प­री­त­म­स­म्य­ग्द­र्श­न­म­प्यस्ति वा नास्ति वा — इति प्रलपन् मत्तो­न्म­त्त­प­क्ष­स्यैव स्यात् , न प्रत्य­यि­त­व्य­प­क्षस्य । स्वर्गा­प­व­र्ग­योश्च पक्षे भावः पक्षे चाभावः, तथा पक्षे नित्यता पक्षे चानित्यता — इत्यनवधारणायां प्रवृ­त्त्य­नु­प­पत्तिः । अना­दि­सि­द्ध­जी­व­प्र­भृ­तीनां च स्वशा­स्त्रा­व­धृ­त­स्व­भा­वा­ना­म­य­था­व­धृ­त­स्व­भा­व­त्व­प्र­सङ्गः । एवं जीवादिषु पदा­र्थे­ष्वे­क­स्मि­न्ध­र्मिणि सत्त्वा­स­त्त्व­यो­र्वि­रु­द्ध­यो­र्ध­र्म­यो­र­स­म्भ­वात् , सत्त्वे चैक­स्मि­न्ध­र्मेऽ­स­त्त्वस्य धर्मा­न्त­र­स्या­स­म्भ­वात् , असत्त्वे चैवं सत्त्व­स्या­स­म्भ­वात् , अस­ङ्ग­त­मि­द­मा­र्हतं मतम् । एते­नै­का­ने­क­नि­त्या­नि­त्य­व्य­ति­रि­क्ता­व्य­ति­रि­क्ता­द्य­ने­का­न्ता­भ्यु­प­गमा निराकृता मन्तव्याः । यत्तु पुद्ग­ल­सं­ज्ञ­के­भ्योऽ­णुभ्यः सङ्घाताः सम्भवन्तीति कल्पयन्ति, तत्पू­र्वे­णै­वा­णु­वा­द­नि­रा­क­र­णेन निराकृतं भवतीत्यतो न पृथ­क्त­न्नि­रा­क­र­णाय प्रयत्यते ॥ ३३ ॥

एवं चात्मा­का­र्त्स्न्यम् ॥ ३४ ॥

३४

यथै­क­स्मि­न्ध­र्मिणि विरु­द्ध­ध­र्मा­स­म्भवो दोषः स्याद्वादे प्रसक्तः, एवमात्मनोऽपि जीवस्य अका­र्त्स्न्य­म­परो दोषः प्रसज्येत । कथम् ? शरीरपरिमाणो हि जीव इत्यार्हता मन्यन्ते । शरीरपरिमाणतायां च सत्याम् अकृ­त्स्नोऽ­स­र्व­गतः परिच्छिन्न आत्मेत्यतो घटा­दि­व­द­नि­त्य­त्व­मा­त्मनः प्रसज्येत । शरीराणां चान­व­स्थि­त­प­रि­मा­ण­त्वात् मनुष्यजीवो मनु­ष्य­श­री­र­प­रि­माणो भूत्वा पुनः केन­चि­त्क­र्म­वि­पा­केन हस्तिजन्म प्राप्नुवन् न कृत्स्नं हस्तिशरीरं व्याप्नुयात् । पुत्तिकाजन्म च प्राप्नुवन् न कृत्स्नः पुत्तिकाशरीरे संमीयेत । समान एष एकस्मिन्नपि जन्मनि कौमा­र­यौ­व­न­स्था­वि­रेषु दोषः । स्यादेतत् — अनन्तावयवो जीवः। तस्य त एवावयवा अल्पे शरीरे सङ्कुचेयुः , महति च विकसेयुरिति । तेषां पुनरनन्तानां जीवावयवानां समानदेशत्वं प्रतिहन्यते वा, न वेति वक्तव्यम् । प्रतिघाते तावत् नानन्तावयवाः परिच्छिन्ने देशे संमीयेरन् । अप्र­ति­घा­तेऽ­प्ये­का­व­य­व­दे­श­त्वो­प­पत्तेः सर्वेषामवयवानां प्रथि­मा­नु­प­प­त्ते­र्जी­व­स्या­णु­मा­त्र­त्व­प्र­सङ्गः स्यात् । अपि च शरी­र­मा­त्र­प­रि­च्छि­न्नानां जीवा­व­य­वा­ना­मा­नन्त्यं नोत्प्रे­क्षि­तु­मपि शक्यम् ॥ ३४ ॥

अथ पर्यायेण बृह­च्छ­री­र­प्र­ति­पत्तौ केचिज्जीवावयवा उपगच्छन्ति, तनु­श­री­र­प्र­ति­पत्तौ च केचि­द­प­ग­च्छ­न्ती­त्यु­च्येत; तत्राप्युच्यते —

न च पर्या­या­द­प्य­वि­रोधो विकारादिभ्यः ॥ ३५ ॥

३५

न च पर्या­ये­णा­प्य­व­य­वो­प­ग­मा­प­ग­मा­भ्या­मे­त­द्दे­ह­प­रि­मा­णत्वं जीव­स्या­वि­रो­धे­नो­प­पा­द­यितुं शक्यते । कुतः ? विका­रा­दि­दो­ष­प्र­स­ङ्गात् — अव­य­वो­प­ग­मा­प­ग­माभ्यां ह्यनि­श­मा­पू­र्य­मा­ण­स्या­प­क्षी­य­मा­णस्य च जीवस्य विक्रियावत्त्वं तावदपरिहार्यम् । विक्रियावत्त्वे च चर्मा­दि­व­द­नि­त्यत्वं प्रसज्येत । ततश्च बन्ध­मो­क्षा­भ्यु­प­गमो बाध्येत — कर्मा­ष्ट­क­प­रि­वे­ष्टि­तस्य जीवस्य अला­बू­व­त्सं­सा­र­सा­गरे निमग्नस्य बन्ध­नो­च्छे­दा­दू­र्ध्व­गा­मित्वं भवतीति । किञ्चान्यत् — आग­च्छ­ता­म­प­ग­च्छतां च अव­य­वा­ना­मा­ग­मा­पा­य­ध­र्म­व­त्त्वा­देव अनात्मत्वं शरीरादिवत् । ततश्चावस्थितः कश्चिदवयव आत्मेति स्यात् । न च स निरूपयितुं शक्यते — अयमसाविति । किञ्चान्यत् — आगच्छन्तश्चैते जीवावयवाः कुतः प्रादुर्भवन्ति, अपगच्छन्तश्च क्व वा लीयन्त इति वक्तव्यम् । न हि भूतेभ्यः प्रादुर्भवेयुः, भूतेषु च निलीयेरन् , अभौ­ति­क­त्वा­ज्जी­वस्य । नापि कश्चिदन्यः साधारणोऽसाधारणो वा जीवानामवयवाधारो निरूप्यते, प्रमाणाभावात् । किञ्चान्यत् — अन­व­धृ­त­स्व­रू­प­श्चैवं सति आत्मा स्यात् , आग­च्छ­ता­म­प­ग­च्छतां च अव­य­वा­ना­म­नि­य­त­प­रि­मा­ण­त्वात् । अत एव­मा­दि­दो­ष­प्र­स­ङ्गात् न पर्या­ये­णा­प्य­व­य­वो­प­ग­मा­प­ग­मा­वा­त्मन आश्रयितुं शक्येते । अथवा पूर्वेण सूत्रेण शरी­र­प­रि­मा­ण­स्या­त्मन उप­चि­ता­प­चि­त­श­री­रा­न्त­र­प्र­ति­प­त्ता­व­का­र्त्स्न्य­प्र­स­ञ्ज­न­द्वा­रे­णा­नि­त्य­तायां चोदितायाम् , पुनः पर्यायेण परि­मा­णा­न­व­स्था­नेऽपि स्रोतः­स­न्ता­न­नि­त्य­ता­न्या­येन आत्मनो नित्यता स्यात् — यथा रक्तपटानां विज्ञा­ना­न­व­स्था­नेऽपि तत्स­न्ता­न­नि­त्यता, तद्वद्विसिचामपि — इत्याशङ्क्य, अनेन सूत्रे­णो­त्त­र­मु­च्यते — सन्तानस्य तावदवस्तुत्वे नैरा­त्म्य­वा­द­प्र­सङ्गः, वस्तु­त्वेऽ­प्या­त्मनो विका­रा­दि­दो­ष­प्र­स­ङ्गा­दस्य पक्ष­स्या­नु­प­प­त्ति­रिति ॥ ३५ ॥

अन्त्या­व­स्थि­ते­श्चो­भ­य­नि­त्य­त्वा­द­वि­शेषः ॥ ३६ ॥

३६

अपि च अन्त्यस्य मोक्षा­व­स्था­भा­विनो जीवपरिमाणस्य नित्यत्वमिष्यते जैनैः । तद्व­त्पू­र्व­यो­र­प्या­द्य­म­ध्य­म­यो­र्जी­व­प­रि­मा­ण­यो­र्नि­त्य­त्व­प्र­स­ङ्गा­द­वि­शे­ष­प्र­सङ्गः स्यात् । एकशरीरपरिमाणतैव स्यात् , न उप­चि­ता­प­चि­त­श­री­रा­न्त­र­प्राप्तिः । अथवा अन्त्यस्य जीवपरिमाणस्य अवस्थितत्वात् पूर्व­यो­र­प्य­व­स्थ­यो­र­व­स्थि­त­प­रि­माण एव जीवः स्यात् । ततश्चाविशेषेण सर्वदैव अणुर्महान्वा जीवोऽ­भ्यु­प­ग­न्तव्यः, न शरीरपरिमाणः । अतश्च सौगतवदार्हतमपि मत­म­स­ङ्ग­त­मि­त्यु­पे­क्षि­त­व्यम् ॥ ३६ ॥

पत्यु­र­सा­म­ञ्ज­स्यात् ॥ ३७ ॥

३७

इदानीं केव­ला­धि­ष्ठा­त्री­श्व­र­का­र­ण­वादः प्रतिषिध्यते । तत्कथमवगम्यते ? ‘प्रकृतिश्च प्रति­ज्ञा­दृ­ष्टा­न्ता­नु­प­रो­धात्’(ब्र. सू. १ । ४ । २३) ‘अभि­ध्यो­प­दे­शाच्च’(ब्र. सू. १ । ४ । २४) इत्यत्र प्रकृतिभावेन अधिष्ठातृभावेन च उभ­य­स्व­भा­व­स्ये­श्व­रस्य स्वयमेव आचार्येण प्रति­ष्ठा­पि­त­त्वात् । यदि पुन­र­वि­शे­षे­णे­श्व­र­का­र­ण­वा­द­मा­त्र­मिह प्रतिषिध्येत, पूर्वो­त्त­र­वि­रो­धा­द्व्या­ह­ता­भि­व्या­हारः सूत्रकार इत्येतदापद्येत । तस्मा­द­प्र­कृ­ति­र­धि­ष्ठाता केवलं निमि­त्त­का­र­ण­मी­श्वरः — इत्येष पक्षो वेदा­न्त­वि­हि­त­ब्र­ह्मै­क­त्व­प्र­ति­प­क्ष­त्वात् यत्नेनात्र प्रतिषिध्यते । सा चेयं वेद­बा­ह्ये­श्व­र­क­ल्पना अनेकप्रकारा — केचि­त्ता­व­त्सा­ङ्ख्य­यो­ग­व्य­पा­श्रयाः कल्पयन्ति — प्रधा­न­पु­रु­ष­यो­र­धि­ष्ठाता केवलं निमि­त्त­का­र­ण­मी­श्वरः; इतरेतरविलक्षणाः प्रधा­न­पु­रु­षे­श्वरा इति । माहेश्वरास्तु मन्यन्ते — कार्य­का­र­ण­यो­ग­वि­धि­दुः­खान्ताः पञ्च पदार्थाः पशुपतिनेश्वरेण पशु­पा­श­वि­मो­क्ष­णा­यो­प­दिष्टाः; पशुपतिरीश्वरो निमित्तकारणमिति । तथा वैशेषिकादयोऽपि केचि­त्क­थ­ञ्चि­त्स्व­प्र­क्रि­या­नु­सा­रेण निमि­त्त­का­र­ण­मी­श्वरः — इति वर्णयन्ति ॥

अत उत्तरमुच्यते — पत्यु­र­सा­म­ञ्ज­स्या­दिति । पत्युरीश्वरस्य प्रधा­न­पु­रु­ष­यो­र­धि­ष्ठा­तृ­त्वेन जगत्कारणत्वं नोपपद्यते । कस्मात् ? असामञ्जस्यात् । किं पुनरसामञ्जस्यम् ? हीन­म­ध्य­मो­त्त­म­भा­वेन हि प्राणि­भे­दा­न्वि­द­धत ईश्वरस्य राग­द्वे­षा­दि­दो­ष­प्र­सक्तेः अस्म­दा­दि­व­द­नी­श्व­रत्वं प्रसज्येत । प्राणि­क­र्मा­पे­क्षि­त्वा­द­दोष इति चेत् , न; कर्मेश्वरयोः प्रव­र्त्य­प्र­व­र्त­यि­तृत्वे इत­रे­त­रा­श्र­य­दो­ष­प्र­स­ङ्गात् । न, अनादित्वात् , इति चेत् , न; वर्त­मा­न­का­ल­व­द­ती­ते­ष्वपि काले­ष्वि­त­रे­त­रा­श्र­य­दो­षा­वि­शे­षा­द­न्ध­प­र­म्प­रा­न्या­या­पत्तेः । अपि च ‘प्रव­र्त­ना­ल­क्षणा दोषाः’(न्या॰सू॰ १-१-१८) इति न्यायवित्समयः । न हि कश्चि­द­दो­ष­प्र­युक्तः स्वार्थे परार्थे वा प्रवर्तमानो दृश्यते । स्वार्थप्रयुक्त एव च सर्वो जनः परार्थेऽपि प्रवर्तत इत्ये­व­म­प्य­सा­म­ञ्ज­स्यम् , स्वार्थ­व­त्त्वा­दी­श्व­र­स्या­नी­श्व­र­त्व­प्र­स­ङ्गात् । पुरु­ष­वि­शे­ष­त्वा­भ्यु­प­ग­मा­च्चे­श्व­रस्य, पुरुषस्य चौदा­सी­न्या­भ्यु­प­ग­मा­द­सा­म­ञ्ज­स्यम् ॥ ३७ ॥

सम्ब­न्धा­नु­प­प­त्तेश्च ॥ ३८ ॥

३८

पुन­र­प्य­सा­म­ञ्ज­स्य­मेव — न हि प्रधा­न­पु­रु­ष­व्य­ति­रिक्त ईश्वरोऽन्तरेण सम्बन्धं प्रधा­न­पु­रु­ष­यो­री­शिता । न ताव­त्सं­यो­ग­ल­क्षणः सम्बन्धः सम्भवति, प्रधा­न­पु­रु­षे­श्व­राणां सर्व­ग­त­त्वा­न्नि­र­व­य­व­त्वाच्च । नापि समवायलक्षणः सम्बन्धः, आश्र­या­श्र­यि­भा­वा­नि­रू­प­णात् । नाप्यन्यः कश्चि­त्का­र्य­गम्यः सम्बन्धः शक्यते कल्पयितुम् , कार्य­का­र­ण­भा­व­स्यै­वा­द्या­प्य­सि­द्ध­त्वात् । ब्रह्मवादिनः कथमिति चेत् , न; तस्य तादा­त्म्य­ल­क्ष­ण­स­म्ब­न्धो­प­पत्तेः । अपि च आगमबलेन ब्रह्मवादी कारणादिस्वरूपं निरूपयतीति नावश्यं तस्य यथादृष्टमेव सर्व­म­भ्यु­प­ग­न्त­व्य­मिति नियमोऽस्ति । परस्य तु दृष्टान्तबलेन कारणादिस्वरूपं निरूपयतः यथादृष्टमेव सर्व­म­भ्यु­प­ग­न्त­व्य­मि­त्य­य­म­स्त्य­ति­शयः । परस्यापि सर्व­ज्ञ­प्र­णी­ता­ग­म­स­द्भा­वात् समानमागमबलमिति चेत् , न; इत­रे­त­रा­श्र­य­प्र­स­ङ्गात् — आग­म­प्र­त्य­या­त्स­र्व­ज्ञ­त्व­सिद्धिः सर्व­ज्ञ­त्व­प्र­त्य­या­च्चा­ग­म­सि­द्धि­रिति । तस्मादनुपपन्ना साङ्ख्य­यो­ग­वा­दि­ना­मी­श्व­र­क­ल्पना । एवमन्यास्वपि वेद­बा­ह्या­स्वी­श्व­र­क­ल्प­नासु यथा­स­म्भ­व­म­सा­म­ञ्जस्यं योजयितव्यम् ॥ ३८ ॥

अधि­ष्ठा­ना­नु­प­प­त्तेश्च ॥ ३९ ॥

३९

इत­श्चा­नु­प­प­त्ति­स्ता­र्कि­क­प­रि­क­ल्पि­त­स्ये­श्व­रस्य; स हि परिकल्प्यमानः, कुम्भकार इव मृदादीनि, प्रधा­ना­दी­न्य­धि­ष्ठाय प्रवर्तयेत्; न चैवमुपपद्यते । न ह्यप्रत्यक्षं रूपादिहीनं च प्रधा­न­मी­श्व­र­स्या­धि­ष्ठेयं सम्भवति, मृदा­दि­वै­ल­क्ष­ण्यात् ॥ ३९ ॥

करणवच्चेन्न भोगादिभ्यः ॥ ४० ॥

४०

स्यादेतत् — यथा करणग्रामं चक्षु­रा­दि­क­म­प्र­त्यक्षं रूपादिहीनं च पुरु­षोऽ­धि­ति­ष्ठति, एवं प्रधा­न­म­पी­श्व­रोऽ­धि­ष्ठा­स्य­तीति । तथापि नोपपद्यते । भोगा­दि­द­र्श­नाद्धि करणग्रामस्य अधिष्ठितत्वं गम्यते । न चात्र भोगादयो दृश्यन्ते । करणग्रामसाम्ये च अभ्युपगम्यमाने संसारिणामिव ईश्वरस्यापि भोगादयः प्रसज्येरन् ॥

अन्यथा वा सूत्रद्वयं व्याख्यायते — ‘अधि­ष्ठा­ना­नु­प­प­त्तेश्च’ — इत­श्चा­नु­प­प­त्ति­स्ता­र्कि­क­प­रि­क­ल्पि­त­स्ये­श्व­रस्य; साधिष्ठानो हि लोके सशरीरो राजा राष्ट्र­स्ये­श्वरो दृश्यते, न निरधिष्ठानः; अतश्च तद्दृ­ष्टा­न्त­व­शे­ना­दृ­ष्ट­मी­श्वरं कल्पयितुमिच्छतः ईश्वरस्यापि किञ्चिच्छरीरं करणायतनं वर्णयितव्यं स्यात्; न च तद्वर्णयितुं शक्यते, सृष्ट्यु­त्त­र­का­ल­भा­वि­त्वा­च्छ­री­रस्य, प्राक्सृ­ष्टे­स्त­द­नु­प­पत्तेः; निरधिष्ठानत्वे चेश्वरस्य प्रव­र्त­क­त्वा­नु­प­पत्तिः, एवं लोके दृष्टत्वात् । ‘करणवच्चेन्न भोगादिभ्यः’ — अथ लोक­द­र्श­ना­नु­सा­रेण ईश्वरस्यापि किञ्चि­त्क­र­णा­ना­मा­य­तनं शरीरं कामेन कल्प्येत — एवमपि नोपपद्यते; सशरीरत्वे हि सति संसा­रि­व­द्भो­गा­दि­प्र­स­ङ्गात् ईश्व­र­स्या­प्य­नी­श्व­रत्वं प्रसज्येत ॥ ४० ॥

अन्त­व­त्त्व­म­स­र्व­ज्ञता वा ॥ ४१ ॥

४१

इत­श्चा­नु­प­प­त्ति­स्ता­र्कि­क­प­रि­क­ल्पि­त­स्ये­श्व­रस्य — स हि सर्व­ज्ञ­स्तै­र­भ्यु­प­ग­म्य­तेऽ­न­न्तश्च; अनन्तं च प्रधानम् , अनन्ताश्च पुरुषा मिथो भिन्ना अभ्युपगम्यन्ते । तत्र सर्व­ज्ञे­ने­श्व­रेण प्रधानस्य पुरु­षा­णा­मा­त्म­न­श्चे­यत्ता परिच्छिद्येत वा, न वा परिच्छिद्येत ? उभयथापि दोषोऽनुषक्त एव । कथम् ? पूर्व­स्मिं­स्ता­व­द्वि­कल्पे, इय­त्ता­प­रि­च्छि­न्न­त्वा­त्प्र­धा­न­पु­रु­षे­श्व­रा­णा­म­न्त­व­त्त्व­म­व­श्यं­भावि, एवं लोके दृष्टत्वात्; यद्धि लोके इय­त्ता­प­रि­च्छिन्नं वस्तु घटादि, तदन्तवद्दृष्टम् — तथा प्रधा­न­पु­रु­षे­श्व­र­त्र­य­म­पी­य­त्ता­प­रि­च्छि­न्न­त्वा­द­न्त­व­त्स्यात् । संख्यापरिमाणं ताव­त्प्र­धा­न­पु­रु­षे­श्व­र­त्र­य­रू­पेण परिच्छिन्नम् । स्वरूपपरिमाणमपि तद्गतमीश्वरेण परि­च्छि­द्येे­तेत। पुरुषगता च महासंख्या । तत­श्चे­य­त्ता­प­रि­च्छि­न्नानां मध्ये ये संसा­रा­न्मु­च्यन्ते, तेषां संसारोऽन्तवान् , संसारित्वं च तेषामन्तवत् । एवमितरेष्वपि क्रमेण मुच्यमानेषु संसारस्य संसारिणां च अन्तवत्त्वं स्यात्; प्रधानं च सविकारं पुरु­षा­र्थ­मी­श्व­रस्य अधिष्ठेयं संसा­रि­त्वे­ना­भि­म­तम् । तच्छून्यतायाम् ईश्वरः किमधितिष्ठेत् ? किंविषये वा सर्वज्ञतेश्वरते स्याताम् ? प्रधा­न­पु­रु­षे­श्व­रा­णाम् चैवमन्तवत्त्वे सति आदि­म­त्त्व­प्र­सङ्गः; आद्यन्तवत्त्वे च शून्य­वा­द­प्र­सङ्गः । अथ मा भूदेष दोष इत्युत्तरो विक­ल्पोऽ­भ्यु­प­ग­म्येत — न प्रधानस्य पुरु­षा­णा­मा­त्म­नश्च इयत्ता ईश्वरेण परिच्छिद्यत इति । तत ईश्वरस्य सर्व­ज्ञ­त्वा­भ्यु­प­ग­म­हा­नि­र­परो दोषः प्रसज्येत । तस्मा­द­प्य­स­ङ्ग­त­स्ता­र्कि­क­प­रि­गृ­हीत ईश्वरकारणवादः ॥ ४१ ॥

उत्प­त्त्य­स­म्भ­वात् ॥ ४२ ॥

४२

येषा­म­प्र­कृ­ति­र­धि­ष्ठाता केव­ल­नि­मि­त्त­का­र­ण­मी­श्व­रोऽ­भि­मतः, तेषां पक्षः प्रत्याख्यातः । येषां पुनः प्रकृ­ति­श्चा­धि­ष्ठाता च उभयात्मकं कार­ण­मी­श्व­रोऽ­भि­मतः, तेषां पक्षः प्रत्याख्यायते । ननु श्रुति­स­मा­श्र­य­णे­ना­प्ये­वं­रूप एवेश्वरः प्राङ्नि­र्धा­रितः — प्रकृ­ति­श्चा­धि­ष्ठाता चेति । श्रुत्यनुसारिणी च स्मृतिः प्रमाणमिति स्थितिः । तत्कस्य हेतोरेष पक्षः प्रत्या­चि­ख्या­सित इति — उच्यते — यद्य­प्ये­वं­जा­ती­य­कोंऽशः समानत्वान्न विसंवादगोचरो भवति, अस्ति त्वंशान्तरं विसं­वा­द­स्था­न­मि­त्य­त­स्त­त्प्र­त्या­ख्या­ना­या­रम्भः ॥

तत्र भागवता मन्यते — भगवानेवैको वासुदेवो निर­ञ्ज­न­ज्ञा­न­स्व­रूपः परमार्थतत्त्वम् । स चतुर्धात्मानं प्रविभज्य प्रतिष्ठितः — वासु­दे­व­व्यू­ह­रू­पेण, सङ्क­र्ष­ण­व्यू­ह­रू­पेण, प्रद्यु­म्न­व्यू­ह­रू­पेण, अनि­रु­द्ध­व्यू­ह­रू­पेण च । वासुदेवो नाम परमात्मा उच्यते; सङ्कर्षणो नाम जीवः; प्रद्युम्नो नाम मनः; अनिरुद्धो नाम अहंकारः । तेषां वासुदेवः परा प्रकृतिः, इतरे सङ्कर्षणादयः कार्यम् । तमित्थंभूतं परमेश्वरं भग­व­न्त­म­भि­ग­म­नो­पा­दा­ने­ज्या­स्वा­ध्या­य­यो­गै­र्व­र्ष­श­त­मिष्ट्वा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यत इति । तत्र यत्तावदुच्यते — योऽसौ नारायणः परोऽ­व्य­क्ता­त्प्र­सिद्धः परमात्मा सर्वात्मा, स आत्म­ना­त्मा­न­म­ने­कधा व्यूह्यावस्थित इति — तन्न निराक्रियते, ‘स एकधा भवति त्रिधा भवति’(छा. उ. ७ । २६ । २) इत्या­दि­श्रु­तिभ्यः पर­मा­त्म­नोऽ­ने­क­धा­भा­व­स्या­धि­ग­त­त्वात् । यदपि तस्य भग­व­तोऽ­भि­ग­म­ना­दि­ल­क्ष­ण­मा­रा­ध­न­म­ज­स्र­म­न­न्य­चि­त्त­त­या­भि­प्रे­यते, तदपि न प्रतिषिध्यते, श्रुति­स्मृ­त्यो­री­श्व­र­प्र­णि­धा­नस्य प्रसिद्धत्वात् । यत्पु­न­रि­द­मु­च्यते — वासु­दे­वा­त्स­ङ्क­र्षण उत्पद्यते, सङ्कर्षणाच्च प्रद्युम्नः, प्रद्यु­म्ना­च्चा­नि­रुद्ध इति, अत्र ब्रूमः — न वासु­दे­व­सं­ज्ञ­का­त्प­र­मा­त्मनः सङ्क­र्ष­ण­सं­ज्ञ­कस्य जीवस्योत्पत्तिः सम्भवति, अनि­त्य­त्वा­दि­दो­ष­प्र­स­ङ्गात् । उत्पत्तिमत्त्वे हि जीवस्य अनित्यत्वादयो दोषाः प्रसज्येरन् । ततश्च नैवास्य भग­व­त्प्रा­प्ति­र्मोक्षः स्यात् , कारणप्राप्तौ कार्यस्य प्रवि­ल­य­प्र­स­ङ्गात् । प्रतिषेधिष्यति च आचार्यो जीव­स्यो­त्प­त्तिम् — ‘नात्माऽ­श्रु­ते­र्नि­त्य­त्वाच्च ताभ्यः’(ब्र. सू. २ । ३ । १७) इति । तस्मादसङ्गतैषा कल्पना ॥ ४२ ॥

न च कर्तुः करणम् ॥ ४३ ॥

४३

इतश्चासङ्गतैषा कल्पना — यस्मान्न हि लोके कर्तु­र्दे­व­द­त्तादेः करणं पर­श्वा­द्यु­त्प­द्य­मानं दृश्यते । वर्णयन्ति च भागवताः कर्तु­र्जी­वा­त्स­ङ्क­र्ष­ण­सं­ज्ञ­का­त्क­रणं मनः प्रद्यु­म्न­सं­ज्ञ­क­मु­त्प­द्यते, कर्तृजाच्च तस्मा­द­नि­रु­द्ध­सं­ज्ञ­कोऽ­हं­कार उत्पद्यत इति । न चैत­द्दृ­ष्टा­न्त­म­न्त­रे­णा­ध्य­व­सातुं शक्नुमः । न चैवंभूतां श्रुतिमुपलभामहे ॥ ४३ ॥

विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४४ ॥

४४

अथापि स्यात् — न चैते सङ्कर्षणादयो जीवा­दि­भा­वे­ना­भि­प्रे­यन्ते , किं तर्हि ? ईश्वरा एवैते सर्वे ज्ञानै­श्व­र्य­श­क्ति­ब­ल­वी­र्य­ते­जो­भि­रै­श्व­रै­र्ध­र्मै­र­न्विता अभ्युपगम्यन्ते — वासुदेवा एवैते सर्वे निर्दोषा निरधिष्ठाना निरवद्याश्चेति । तस्मान्नायं यथावर्णित उत्पत्त्यसम्भवो दोषः प्राप्नोतीति । अत्रोच्यते — एवमपि, तदप्रतिषेधः उत्प­त्त्य­स­म्भ­व­स्या­प्र­ति­षेधः, प्राप्नो­त्ये­वा­य­मु­त्प­त्त्य­स­म्भवो दोषः प्रका­रा­न्त­रे­णे­त्य­भि­प्रायः । कथम् ? यदि तावदयमभिप्रायः — परस्परभिन्ना एवैते वासु­दे­वा­द­य­श्च­त्वार ईश्व­रा­स्तु­ल्य­ध­र्माणः, नैषा­मे­का­त्म­क­त्व­म­स्तीति; ततोऽ­ने­के­श्व­र­क­ल्प­ना­न­र्थ­क्यम् , एके­नै­वे­श्व­रे­णे­श्व­र­का­र्य­सिद्धेः । सिद्धा­न्त­हा­निश्च, भगवानेवैको वासुदेवः पर­मा­र्थ­त­त्त्व­मि­त्य­भ्यु­प­ग­मात् । अथायमभिप्रायः — एकस्यैव भगवत एते चत्वारो व्यूहा­स्तु­ल्य­ध­र्माण इति, तथापि तदवस्थ एवो­त्प­त्त्य­स­म्भवः । न हि वासु­दे­वा­त्स­ङ्क­र्ष­ण­स्यो­त्पत्तिः सम्भवति, सङ्कर्षणाच्च प्रद्युम्नस्य, प्रद्यु­म्ना­च्चा­नि­रु­द्धस्य, अतिशयाभावात् । भवितव्यं हि कार्य­का­र­ण­यो­र­ति­श­येन, यथा मृद्घटयोः । न ह्यसत्यतिशये, कार्यं कार­ण­मि­त्य­व­क­ल्पते । न च पञ्च­रा­त्र­सि­द्धा­न्ति­भि­र्वा­सु­दे­वा­दिषु एकस्मिन्सर्वेषु वा ज्ञानै­श्व­र्या­दि­ता­र­त­म्य­कृतः कश्चि­द्भे­दोऽ­भ्यु­प­ग­म्यते । वासुदेवा एव हि सर्वे व्यूहा निर्विशेषा इष्यन्ते । न चैते भग­व­द्व्यू­हा­श्च­तुः­सं­ख्या­या­मे­वा­व­ति­ष्ठे­रन् , ब्रह्मा­दि­स्त­म्ब­प­र्य­न्तस्य समस्तस्यैव जगतो भग­व­द्व्यू­ह­त्वा­व­ग­मात् ॥ ४४ ॥

विप्रतिषेधाच्च ॥ ४५ ॥

४५

विप्रतिषेधश्च अस्मिन् शास्त्रे बहुविध उपलभ्यते — गुण­गु­णि­त्व­क­ल्प­नादि लक्षणः । ज्ञानै­श्व­र्य­श­क्ति­ब­ल­वी­र्य­ते­जांसि गुणाः, आत्मान एवैते भगवन्तो वासुदेवा इत्यादिदर्शनात् । वेद­वि­प्र­ति­षे­धश्च भवति — चतुर्षु वेदेषु परं श्रेयोऽलब्ध्वा शाण्डिल्य इदं शास्त्र­म­धि­ग­त­वा­नि­त्या­दि­वे­द­नि­न्दा­द­र्श­नात् । तस्मात् असङ्गतैषा कल्पनेति सिद्धम् ॥ ४५ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ शारी­र­क­मी­मां­सा­सू­त्र­भाष्ये द्विती­या­ध्या­यस्य द्वितीयः पादः ॥

तृतीयः पादः

वेदान्तेषु तत्र तत्र भिन्नप्रस्थाना उत्पत्तिश्रुतय उपलभ्यन्ते । केचि­दा­का­श­स्यो­त्प­त्ति­मा­म­नन्ति, केचिन्न । तथा केचि­द्वा­यो­रु­त्प­त्ति­मा­म­नन्ति, केचिन्न । एवं जीवस्य प्राणानां च । एवमेव क्रमा­दि­द्वा­र­कोऽपि विप्रतिषेधः श्रुत्य­न्त­रे­षू­प­ल­क्ष्यते । विप्रतिषेधाच्च पर­प­क्षा­णा­म­न­पे­क्षि­तत्वं स्थापितम् । तद्व­त्स्व­प­क्ष­स्यापि विप्र­ति­षे­धा­दे­वा­न­पे­क्षि­त­त्व­मा­श­ङ्क्येत — इत्यतः सर्व­वे­दा­न्त­ग­त­सृ­ष्टि­श्रु­त्य­र्थ­नि­र्म­ल­त्वाय परः प्रपञ्च आरभ्यते । तदर्थनिर्मलत्वे च फलं यथो­क्ता­श­ङ्का­नि­वृ­त्ति­रेव । तत्र प्रथमं ताव­दा­का­श­मा­श्रित्य चिन्त्यते —

न वियदश्रुतेः ॥ १ ॥

किम­स्या­का­श­स्यो­त्प­त्ति­रस्ति, उत नास्तीति । तत्र ताव­त्प्र­ति­पा­द्यते — ‘न विय­द­श्रु­ते’रिति; न खल्वा­का­श­मु­त्प­द्यते । कस्मात् ? अश्रुतेः — न ह्यस्यो­त्प­त्ति­प्र­क­रणे श्रवणमस्ति । छान्दोग्ये हि ‘सदेव सोम्येदमग्र आसी­दे­क­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) इति सच्छब्दवाच्यं ब्रह्म प्रकृत्य, ‘तदैक्षत’ ‘तत्तेजोऽसृजत’(छा. उ. ६ । २ । ३) इति च पञ्चानां महाभूतानां मध्यमं तेज आदि कृत्वा त्रयाणां तेजो­ब­न्ना­ना­मु­त्पत्तिः श्राव्यते । श्रुतिश्च नः प्रमा­ण­म­ती­न्द्रि­या­र्थ­वि­ज्ञा­नो­त्पत्तौ । न च अत्र श्रुति­र­स्त्या­का­श­स्यो­त्प­त्ति­प्र­ति­पा­दिनी । तस्मा­न्ना­का­श­स्यो­त्प­त्ति­रिति ॥ १ ॥

अस्ति तु ॥ २ ॥

तुशब्दः पक्षा­न्त­र­प­रि­ग्रहे । मा नामाकाशस्य छान्दोग्ये भूदुत्पत्तिः । श्रुत्यन्तरे त्वस्ति । तैत्तिरीयका हि समामनन्ति — ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै. उ. २ । १ । १) इति प्रकृत्य, ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’(तै. उ. २ । १ । १)‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’(तै. उ. २ । १ । १) इति । ततश्च श्रुत्यो­र्वि­प्र­ति­षेधः — क्वचि­त्ते­जः­प्र­मुखा सृष्टिः, क्वचि­दा­का­श­प्र­मु­खेति । नन्वेकवाक्यता अनयोः श्रुत्यो­र्युक्ता । सत्यं सा युक्ता, न तु सा अवगन्तुं शक्यते । कुतः ? ‘तत्तेजोऽसृजत’(छा. उ. ६ । २ । ३) इति सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयेन सम्ब­न्धा­नु­प­पत्तेः — ‘तत्तेजोऽसृजत’ ‘तदाकाशमसृजत’ इति । ननु सकृ­च्छ्रु­त­स्यापि कर्तुः कर्तव्यद्वयेन सम्बन्धो दृश्यते — यथा सूपं पक्त्वा ओदनं पचतीति, एवं तदाकाशं सृष्ट्वा तत्तेजोऽसृजत इति योजयिष्यामि । नैवं युज्यते; प्रथमजत्वं हि छान्दोग्ये तेजसोऽवगम्यते; तैत्तिरीयके च आकाशस्य । न च उभयोः प्रथमजत्वं सम्भवति । एतेन इत­र­श्रु­त्य­क्ष­र­वि­रो­धोऽपि व्याख्यातः — ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ इत्यत्रापि — तस्मादाकाशः सम्भूतः, तस्मात्तेजः सम्भूतम् — इति सकृ­च्छ्रु­त­स्या­पा­दा­नस्य सम्भवनस्य च वियत्तेजोभ्यां युग­प­त्स­म्ब­न्धा­नु­प­पत्तेः, ‘वायोरग्निः’(तै. उ. २ । १ । १) इति च पृथगाम्नानात् ॥ २ ॥

अस्मि­न्वि­प्र­ति­षेधे कश्चिदाह —

गौण्यसम्भवात् ॥ ३ ॥

नास्ति वियत उत्पत्तिः, अश्रुतेरेव । या त्वितरा विय­दु­त्प­त्ति­वा­दिनी श्रुतिरुदाहृता, सा गौणी भवितुमर्हति । कस्मात् ? असम्भवात् । न ह्याका­श­स्यो­त्पत्तिः सम्भावयितुं शक्या, श्रीम­त्क­ण­भु­ग­भि­प्रा­या­नु­सा­रिषु जीवत्सु । ते हि कार­ण­सा­म­ग्र्य­स­म्भ­वा­दा­का­श­स्यो­त्पत्तिं वारयन्ति । सम­वा­य्य­स­म­वा­यि­नि­मि­त्त­का­र­णेभ्यो हि किल सर्व­मु­त्प­द्य­मानं समुत्पद्यते । द्रव्यस्य चैकजातीयकमनेकं च द्रव्यं समवायिकारणं भवति । न चाका­श­स्यै­क­जा­ती­य­क­म­नेकं च द्रव्य­मा­र­म्भ­क­मस्ति; यस्मि­न्स­म­वा­यि­का­रणे सति, असमवायिकारणे च तत्संयोगे, आकाश उत्पद्येत । तदभावात्तु तद­नु­ग्र­ह­प्र­वृत्तं निमित्तकारणं दूरापेतमेव आकाशस्य भवति । उत्पत्तिमतां च तेजःप्रभृतीनां पूर्वो­त्त­र­का­ल­यो­र्वि­शेषः सम्भाव्यते — प्रागुत्पत्तेः प्रकाशादिकार्यं न बभूव, पश्चाच्च भवतीति । आकाशस्य पुनर्न पूर्वो­त्त­र­का­ल­यो­र्वि­शेषः सम्भावयितुं शक्यते । किं हि प्रागु­त्प­त्ते­र­न­व­का­श­म­सु­षि­र­म­च्छिद्रं बभूवेति शक्य­तेऽ­ध्य­व­सा­तुम् ? पृथि­व्या­दि­वै­ध­र्म्याच्च विभु­त्वा­दि­ल­क्ष­णात् आकाशस्य अजत्वसिद्धिः । तस्माद्यथा लोके — आकाशं कुरु, आकाशो जातः — इत्येवंजातीयको गौणः प्रयोगो भवति, यथा च — घटाकाशः करकाकाशः गृहाकाशः — इत्ये­क­स्या­प्या­का­शस्य एवंजातीयको भेदव्यपदेशो गौणो भवति — वेदेऽपि ‘आर­ण्या­ना­का­शे­ष्वा­ल­भे­रन्’ इति । एव­मु­त्प­त्ति­श्रु­ति­रपि गौणी द्रष्टव्या ॥ ३ ॥

शब्दाच्च ॥ ४ ॥

शब्दः खल्वाकाशस्य अजत्वं ख्यापयति, यत आह — ‘वायु­श्चा­न्त­रिक्षं चैतदमृतम्’(बृ. उ. २ । ३ । ३) इति; न ह्यमृ­त­स्यो­त्प­त्ति­रु­प­प­द्यते । ‘आका­श­व­त्स­र्व­ग­तश्च नित्यः’(शत. ब्रा. १० । ६ । ३ । २) इति च आकाशेन ब्रह्म सर्व­ग­त­त्व­नि­त्य­त्वाभ्यां धर्मा­भ्या­मु­प­मि­मानः आकाशस्यापि तौ धर्मौ सूचयति । न च तादृ­श­स्यो­त्प­त्ति­रु­प­प­द्यते । ‘स यथानन्तोऽयमाकाश एवमनन्त आत्मा वेदितव्यः’ इति च उदाहरणम् — ‘आकाशशरीरं ब्रह्म’(तै. उ. १ । ६ । २) ‘आकाश आत्मा’(तै. उ. १ । ७ । १) इति च । न ह्याका­श­स्यो­त्प­त्ति­मत्त्वे ब्रह्मणस्तेन विशेषणं सम्भवति — नीलेनेवोत्पलस्य । तस्मा­न्नि­त्य­मे­वा­का­शेन साधारणं ब्रह्मेति गम्यते ॥ ४ ॥

स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ५ ॥

इदं पदोत्तरं सूत्रम् । स्यादेतत् । कथं पुनरेकस्य सम्भूतशब्दस्य ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’(तै. उ. २ । १ । १) इत्य­स्मि­न्न­धि­कारे परेषु तेजः­प्र­भृ­ति­ष्व­नु­व­र्त­मा­नस्य मुख्यत्वं सम्भवति, आकाशे च गौणत्वमिति । अत उत्तरमुच्यते — स्याच्चैकस्यापि सम्भूतशब्दस्य विष­य­वि­शे­ष­व­शा­द्गौणो मुख्यश्च प्रयोगः — ब्रह्मशब्दवत्; यथैकस्यापि ब्रह्मशब्दस्य ‘तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्म’(तै. उ. ३ । २ । १) इत्य­स्मि­न्न­धि­का­रेऽ­न्ना­दिषु गौणः प्रयोगः, आनन्दे च मुख्यः । यथा च तपसि ब्रह्म­वि­ज्ञा­न­सा­धने ब्रह्मशब्दो भक्त्या प्रयुज्यते, अञ्जसा तु विज्ञेये ब्रह्मणि — तद्वत् । कथं पुनरनुत्पत्तौ नभसः ‘एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) इतीयं प्रतिज्ञा समर्थ्यते ? ननु नभसा द्वितीयेन सद्वितीयं ब्रह्म प्राप्नोति । कथं च ब्रह्मणि विदिते सर्वं विदितं स्यादिति, तदुच्यते — ‘एकमेव’ इति ताव­त्स्व­का­र्या­पे­क्ष­यो­प­प­द्यते । यथा लोके कश्चि­त्कु­म्भ­का­र­कुले पूर्वे­द्यु­र्मृ­द्द­ण्ड­च­क्रा­दीनि उपलभ्य अपरेद्युश्च नाना­वि­धा­न्य­म­त्राणि प्रसा­रि­ता­न्यु­प­लभ्य ब्रूयात् — ‘मृदेवैकाकिनी पूर्वे­द्यु­रा­सीत्’ इति, स च तयावधारणया मृत्कार्यजातमेव पूर्वे­द्यु­र्ना­सी­दि­त्य­भि­प्रे­यात् , न दण्डचक्रादि — तद्व­द­द्वि­ती­य­श्रु­ति­र­धि­ष्ठा­त्र­न्तरं वारयति — यथा मृदोऽ­म­त्र­प्र­कृतेः कुम्भ­का­रोऽ­धि­ष्ठाता दृश्यते, नैवं ब्रह्मणो जग­त्प्र­कृ­ते­र­न्योऽ­धि­ष्ठाता अस्तीति । न च नभसापि द्वितीयेन सद्वितीयं ब्रह्म प्रसज्यते । लक्ष­णा­न्य­त्व­नि­मित्तं हि नानात्वम् । न च प्रागु­त्प­त्ते­र्ब्र­ह्म­न­भ­सो­र्ल­क्ष­णा­न्य­त्व­मस्ति, क्षीरोदकयोरिव संसृष्टयोः , व्यापि­त्वा­मू­र्त­त्वा­दि­ध­र्म­सा­मा­न्यात् । सर्गकाले तु ब्रह्म जगदुत्पादयितुं यतते, स्तिमि­त­मि­त­र­त्ति­ष्ठति, तेना­न्य­त्व­म­व­सी­यते । तथा च ‘आकाशशरीरं ब्रह्म’(तै. उ. १ । ६ । २) इत्या­दि­श्रु­ति­भ्योऽपि ब्रह्मा­का­श­यो­र­भे­दो­प­चा­र­सिद्धिः । अत एव च ब्रह्मविज्ञानेन सर्व­वि­ज्ञा­न­सिद्धिः । अपि च सर्वं कार्य­मु­त्प­द्य­मा­न­मा­का­शे­ना­व्य­ति­रि­क्त­दे­श­का­ल­मे­वो­त्प­द्यते, ब्रह्मणा च अव्य­ति­रि­क्त­दे­श­का­ल­मे­वा­काशं भवतीत्यतो ब्रह्मणा तत्कार्येण च विज्ञातेन सह विज्ञातमेवाकाशं भवति — यथा क्षीरपूर्णे घटे कतिचिदब्बिन्दवः प्रक्षिप्ताः सन्तः क्षीरग्रहणेनैव गृहीता भवन्ति; न हि क्षीर­ग्र­ह­णा­द­ब्बि­न्दु­ग्र­हणं परिशिष्यते; एवं ब्रह्मणा तत्का­र्यै­श्चा­व्य­ति­रि­क्त­दे­श­का­ल­त्वात् गृहीतमेव ब्रह्मग्रहणेन नभो भवति । तस्माद्भाक्तं नभसः सम्भवश्रवणमिति ॥ ५ ॥

एवं प्राप्ते, इदमाह —

प्रति­ज्ञाऽ­हा­नि­र­व्य­ति­रे­का­च्छ­ब्देभ्यः ॥ ६ ॥

‘येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’(छा. उ. ६ । १ । ३) इति, ‘आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदꣳ सर्वं विदितम्’(बृ. उ. ४ । ५ । ६) इति, ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’(मु. उ. १ । १ । ३) इति, ‘न काचन मद्बहिर्धा विद्यास्ति’ इति चैवंरूपा प्रतिवेदान्तं प्रतिज्ञा विज्ञायते । तस्याः प्रतिज्ञाया एवमहानिरनुपरोधः स्यात् , यद्यव्यतिरेकः कृत्स्नस्य वस्तुजातस्य विज्ञे­या­द्ब्र­ह्मणः स्यात् । व्यतिरेके हि सति एकविज्ञानेन सर्वं विज्ञायत इतीयं प्रतिज्ञा हीयेत । स चाव्यतिरेक एवमुपपद्यते, यदि कृत्स्नं वस्तु­जा­त­मे­क­स्मा­द्ब्र­ह्मण उत्पद्येत । शब्देभ्यश्च प्रकृ­ति­वि­का­रा­व्य­ति­रे­क­न्या­ये­नैव प्रति­ज्ञा­सि­द्धि­र­व­ग­म्यते । तथा हि — ‘येनाश्रुतं श्रुतꣳ भवति’ इति प्रतिज्ञाय, मृदा­दि­दृ­ष्टान्तैः कार्य­का­र­णा­भे­द­प्र­ति­पा­द­न­परैः प्रतिज्ञैषा समर्थ्यते । तत्साधनायैव चोत्तरे शब्दाः — ‘सदेव सोम्येदमग्र आसी­दे­क­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) ‘तदैक्षत’ ‘तत्तेजोऽसृजत’(छा. उ. ६ । २ । ३) इत्येवं कार्यजातं ब्रह्मणः प्रदर्श्य, अव्यतिरेकं प्रदर्शयन्ति — ‘ऐतदात्म्यमिदꣳ सर्वम्’(छा. उ. ६ । ८ । ७) इत्यारभ्य आ प्रपा­ठ­क­प­रि­स­माप्तेः । तद्यद्याकाशं न ब्रह्मकार्यं स्यात् , न ब्रह्मणि विज्ञाते आकाशं विज्ञायेत । ततश्च प्रतिज्ञाहानिः स्यात् । न च प्रतिज्ञाहान्या वेद­स्या­प्रा­माण्यं युक्तं कर्तुम् । तथा हि प्रतिवेदान्तं ते ते शब्दास्तेन तेन दृष्टान्तेन तामेव प्रतिज्ञां ज्ञापयन्ति — ‘इदꣳ सर्वं यदयमात्मा’(छा. उ. २ । ४ । ६) ‘ब्रह्मै­वे­द­म­मृतं पुरस्तात्’(मु. उ. २ । २ । १२) इत्येवमादयः । तस्मा­ज्ज्व­ल­ना­दि­व­देव गग­न­म­प्यु­त्प­द्यते ॥

यदुक्तम् — अश्रुतेर्न वियदुत्पद्यत इति, तदयुक्तम् , विय­दु­त्प­त्ति­वि­ष­य­श्रु­त्य­न्त­रस्य दर्शितत्वात् — ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’(तै. उ. २ । १ । १) इति । सत्यं दर्शितम् , विरुद्धं तु ‘तत्तेजोऽसृजत’ इत्यनेन श्रुत्यन्तरेण । न, एक­वा­क्य­त्वा­त्स­र्व­श्रु­ती­नाम् । भव­त्वे­क­वा­क्य­त्व­म­वि­रु­द्धा­नाम् । इह तु विरोध उक्तः — सकृच्छ्रुतस्य स्रष्टुः स्रष्ट­व्य­द्व­य­स­म्ब­न्धा­स­म्भ­वा­द्द्व­योश्च प्रथ­म­ज­त्वा­स­म्भ­वा­द्वि­क­ल्पा­स­म्भ­वा­च्चेति — नैष दोषः। तेजःसर्गस्य तैत्तिरीयके तृती­य­त्व­श्र­व­णात् — ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः, आकाशाद्वायुः, वायोरग्निः’(तै. उ. २ । १ । १) इति । अशक्या हीयं श्रुतिरन्यथा परिणेतुम् । शक्या तु परिणेतुं छान्दो­ग्य­श्रुतिः — तदाकाशं वायुं च सृष्ट्वा ‘तत्तेजोऽसृजत’ इति । न हीयं श्रुति­स्ते­जो­ज­नि­प्र­धाना सती श्रुत्य­न्त­र­प्र­सि­द्धा­मा­का­श­स्यो­त्पत्तिं वारयितुं शक्नोति, एकस्य वाक्यस्य व्यापा­र­द्व­या­स­म्भ­वात् । स्रष्टा त्वेकोऽपि क्रमेणानेकं स्रष्टव्यं सृजेत् — इत्ये­क­वा­क्य­त्व­क­ल्प­नायां सम्भवन्त्यां न विरु­द्धा­र्थ­त्वेन श्रुतिर्हातव्या । न चास्माभिः सकृच्छ्रुतस्य स्रष्टुः स्रष्ट­व्य­द्व­य­स­म्ब­न्धोऽ­भि­प्रे­यते, श्रुत्यन्तरवशेन स्रष्ट­व्या­न्त­रो­प­स­ङ्ग्र­हात् । यथा च ‘सर्वं खल्विदं ब्रह्म तज्जलान्’(छा॰उ॰ ३-१४-१) इत्यत्र साक्षादेव सर्वस्य वस्तुजातस्य ब्रह्मजत्वं श्रूयमाणं न प्रदे­शा­न्त­र­वि­हितं तेजः­प्र­मु­ख­मु­त्प­त्ति­क्रमं वारयति, एवं तेजसोऽपि ब्रह्मजत्वं श्रूयमाणं न श्रुत्य­न्त­र­वि­हितं नभः­प्र­मु­ख­मु­त्प­त्ति­क्रमं वारयितुमर्हति । ननु शम­वि­धा­ना­र्थ­मे­त­द्वा­क्यम् — ‘तज्जलानिति शान्त उपासीत’ इति श्रुतेः । नैत­त्सृ­ष्टि­वा­क्यम् । तस्मादेतन्न प्रदे­शा­न्त­र­प्र­सिद्धं क्रम­मु­प­रो­द्धु­म­र्हति । ‘तत्तेजोऽसृजत’ इत्ये­त­त्सृ­ष्टि­वा­क्यम् । तस्मादत्र यथाश्रुति क्रमो ग्रहीतव्य इति । नेत्युच्यते । न हि तेजः­प्रा­थ­म्या­नु­रो­धेन श्रुत्य­न्त­र­प्र­सिद्धो वियत्पदार्थः परित्यक्तव्यो भवति, पदा­र्थ­ध­र्म­त्वा­त्क्र­मस्य । अपि च ‘तत्तेजोऽसृजत’ इति नात्र क्रमस्य वाचकः कश्चि­च्छ­ब्दोऽस्ति । अर्थात्तु क्रमोऽवगम्यते । स च ‘वायोरग्निः’(तै. उ. २ । १ । १) इत्यनेन श्रुत्य­न्त­र­प्र­सि­द्धेन क्रमेण निवार्यते । विकल्पसमुच्चयौ तु वियत्तेजसोः प्रथ­म­ज­त्व­वि­ष­या­व­स­म्भ­वा­न­भ्यु­प­ग­माभ्यां निवारितौ । तस्मान्नास्ति श्रुत्यो­र्वि­प्र­ति­षेधः । अपि च छान्दोग्ये ‘येनाश्रुतꣳ श्रुतं भवति’ इत्येतां प्रतिज्ञां वाक्योपक्रमे श्रुतां सम­र्थ­यि­तु­म­स­मा­म्ना­त­मपि वियत् उत्प­त्ता­वु­प­सं­ख्या­त­व्यम्; किमङ्ग पुन­स्तै­त्ति­री­यके समाम्नातं नभो न सङ्गृह्यते । यच्चोक्तम् — आकाशस्य सर्वे­णा­न­न्य­दे­श­का­ल­त्वा­द्ब्र­ह्मणा तत्कार्यैश्च सह विदितमेव तद्भवति । अतो न प्रतिज्ञा हीयते । न च ‘एक­मे­वा­द्वि­ती­यम्’ इति श्रुतिकोपो भवति, क्षीरो­द­क­व­द्ब्र­ह्म­न­भ­सो­र­व्य­ति­रे­को­प­प­त्ते­रिति । अत्रोच्यते — न क्षीरो­द­क­न्या­ये­ने­द­मे­क­वि­ज्ञा­नेन सर्वविज्ञानं नेतव्यम् । मृदा­दि­दृ­ष्टा­न्त­प्र­ण­य­नाद्धि प्रकृ­ति­वि­का­र­न्या­ये­नै­वेदं सर्वविज्ञानं नेतव्यमिति गम्यते । क्षीरोदकन्यायेन च सर्वविज्ञानं कल्प्यमानं न सम्यग्विज्ञानं स्यात् । न हि क्षीर­ज्ञा­न­गृ­ही­त­स्यो­द­कस्य सम्य­ग्वि­ज्ञा­न­गृ­ही­त­त्व­मस्ति । न च वेदस्य पुरुषाणामिव माया­ली­क­व­ञ्च­ना­दि­भि­र­र्था­व­धा­र­ण­मु­प­प­द्यते । सावधारणा चेयम् ‘एक­मे­वा­द्वि­ती­यम्’ इति श्रुतिः क्षीरोदकन्यायेन नीयमाना पीड्येत । न च स्वका­र्या­पे­क्ष­येदं वस्त्वे­क­दे­श­वि­षयं सर्व­वि­ज्ञा­न­मे­क­मे­वा­द्वि­ती­य­ता­व­धा­रणं चेति न्याय्यम् , मृदादिष्वपि हि तत्सम्भवात् न तद­पू­र्व­व­दु­प­न्य­सि­तव्यं भवति — ‘श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमा­दे­श­म­प्राक्ष्यो येनाश्रुतꣳ श्रुतं भवति’(छा. उ. ६ । १ । ३) इत्यादिना । तस्मा­द­शे­ष­व­स्तु­वि­ष­य­मे­वेदं सर्वविज्ञानं सर्वस्य ब्रह्म­का­र्य­ता­पे­क्ष­यो­प­न्य­स्यत इति द्रष्टव्यम् ॥ ६ ॥

यत्पु­न­रे­त­दु­क्तम् — असम्भवाद्गौणी गग­न­स्यो­त्प­त्ति­श्रु­ति­रिति, अत्र ब्रूमः —

यावद्विकारं तु विभागो लोकवत् ॥ ७ ॥

तुश­ब्दोऽ­स­म्भ­वा­श­ङ्का­व्या­वृ­त्त्यर्थः । न खल्वा­का­शो­त्प­त्ता­व­स­म्भ­वा­शङ्का कर्तव्या; यतो याव­त्कि­ञ्चि­द्वि­का­र­जातं दृश्यते घटघटिकोदञ्चनादि वा, कट­क­के­यू­र­कु­ण्ड­लादि वा, सूची­ना­रा­च­नि­स्त्रिं­शादि वा, तावानेव विभागो लोके लक्ष्यते । नत्वविकृतं किञ्चि­त्कु­त­श्चि­द्वि­भ­क्त­मु­प­ल­भ्यते । विभागश्चाकाशस्य पृथि­व्या­दि­भ्योऽ­व­ग­म्यते । तस्मात्सोऽपि विकारो भवितुमर्हति । एतेन दिक्का­ल­म­नः­प­र­मा­ण्वा­दीनां कार्यत्वं व्याख्यातम् । नन्वा­त्मा­प्या­का­शा­दिभ्यो विभक्त इति तस्यापि कार्यत्वं घटा­दि­व­त्प्रा­प्नोति; न, ‘आत्मन आकाशः सम्भूतः’(तै. उ. २ । १ । १) इति श्रुतेः । यदि ह्यात्मापि विकारः स्यात् , तस्मा­त्प­र­म­न्यन्न श्रुत­मि­त्या­का­शादि सर्वं कार्यं निरात्मकमात्मनः कार्यत्वे स्यात् । तथा च शून्यवादः प्रसज्येत । आत्म­त्वा­च्चा­त्मनो निरा­क­र­ण­श­ङ्का­नु­प­पत्तिः । न ह्यात्मागन्तुकः कस्यचित् , स्वयं­सि­द्ध­त्वात् । न ह्यात्मा आत्मनः प्रमाणमपेक्ष्य सिध्यति । तस्य हि प्रत्यक्षादीनि प्रमा­णा­न्य­सि­द्ध­प्र­मे­य­सि­द्धये उपादीयन्ते । न ह्याकाशादयः पदार्थाः प्रमा­ण­नि­र­पेक्षाः स्वयं सिद्धाः केन­चि­द­भ्यु­प­ग­म्यन्ते । आत्मा तु प्रमा­णा­दि­व्य­व­हा­रा­श्र­य­त्वा­त्प्रा­गेव प्रमा­णा­दि­व्य­व­हा­रा­त्सि­ध्यति । न चेदृशस्य निराकरणं सम्भवति । आगन्तुकं हि वस्तु निराक्रियते, न स्वरूपम् । य एव हि निराकर्ता तदेव तस्य स्वरूपम् । न ह्यग्ने­रौ­ष्ण्य­म­ग्निना निराक्रियते । तथा अहमेवेदानीं जानामि वर्तमानं वस्तु, अह­मे­वा­ती­त­म­ती­त­तरं चाज्ञासिषम् , अह­मे­वा­ना­ग­त­म­ना­ग­त­तरं च ज्ञास्यामि, इत्य­ती­ता­ना­ग­त­व­र्त­मा­न­भा­वे­ना­न्य­था­भ­व­त्यपि ज्ञातव्ये न ज्ञातु­र­न्य­था­भा­वोऽस्ति, सर्वदा वर्त­मा­न­स्व­भा­व­त्वात् । तथा भस्मीभवत्यपि देहे नात्मन उच्छेदः वर्त­मा­न­स्व­भा­वा­द­न्य­था­स्व­भा­वत्वं वा सम्भावयितुं शक्यम् । एव­म­प्र­त्या­ख्ये­य­स्व­भा­व­त्वा­दे­वा­का­र्य­त्व­मा­त्मानः, कार्यत्वं च आकाशस्य ॥

यत्तूक्तं समानजातीयमनेकं कारणद्रव्यं व्योम्नो नास्तीति, तत्प्रत्युच्यते — न ताव­त्स­मा­न­जा­ती­य­मे­वा­र­भते, न भिन्नजातीयमिति नियमोऽस्ति । न हि तन्तूनां तत्संयोगानां च समा­न­जा­ती­य­त्व­मस्ति, द्रव्य­गु­ण­त्वा­भ्यु­प­ग­मात् । न च निमि­त्त­का­र­णा­ना­मपि तुरीवेमादीनां समा­न­जा­ती­य­त्व­नि­य­मोऽस्ति । स्यादेतत् — समवायिकारणविषय एव समा­न­जा­ती­य­त्वा­भ्यु­प­गमः, न कारणान्तरविषय इति; तद­प्य­नै­का­न्ति­कम् । सूत्र­गो­वा­लै­र्ह्य­ने­क­जा­ती­यै­रेका रज्जुः सृज्यमाना दृश्यते । तथा सूत्रै­रू­र्णा­दि­भिश्च विचि­त्रा­न्क­म्ब­ला­न्वि­त­न्वते । सत्त्व­द्र­व्य­त्वा­द्य­पे­क्षया वा समानजातीयत्वे कल्प्यमाने नियमानर्थक्यम् , सर्वस्य सर्वेण समानजातीयत्वात् । नाप्य­ने­क­मे­वा­र­भते, नैकम् — इति नियमोऽस्ति । अणु­म­न­सो­रा­द्य­क­र्मा­र­म्भा­भ्यु­प­ग­मात् । एकैको हि पर­मा­णु­र्म­न­श्चाद्यं कर्मारभते, न द्रव्यान्तरैः संहत्य — इत्यभ्युपगम्यते । द्रव्यारम्भ एवा­ने­का­र­म्भ­क­त्व­नि­यम इति चेत् , न । परि­णा­मा­भ्यु­प­ग­मात् । भवेदेष नियमः — यदि संयोगसचिवं द्रव्यं द्रव्या­न्त­र­स्या­र­म्भ­क­म­भ्यु­प­ग­म्येत । तदेव तु द्रव्यं विशे­ष­व­द­व­स्था­न्त­र­मा­प­द्य­मानं कार्यं नामाभ्युपगम्यते । तच्च क्वचिदनेकं परिणमते मृद्बीजादि अङ्कुरादिभावेन । क्वचिदेकं परिणमते क्षीरादि दध्यादिभावेन । नेश्वरशासनमस्ति — अनेकमेव कारणं कार्यं जनयतीति । अतः श्रुति­प्रा­मा­ण्या­दे­क­स्मा­द्ब्र­ह्मण आका­शा­दि­म­हा­भू­तो­त्प­त्ति­क्र­मेण जगज्जातमिति निश्चीयते । तथा चोक्तम् — ‘उप­सं­हा­र­द­र्श­ना­न्नेति चेन्न क्षीरवद्धि’(ब्र. सू. २ । १ । २४) इति ॥

यच्चोक्तम् आकाशस्योत्पत्तौ न पूर्वो­त्त­र­का­ल­यो­र्वि­शेषः सम्भावयितुं शक्यत इति, तदयुक्तम् । येनैव विशेषेण पृथिव्यादिभ्यो व्यतिरिच्यमानं नभः स्वरू­प­व­दि­दा­नी­म­ध्य­व­सी­यते, स एव विशेषः प्रागु­त्प­त्ते­र्ना­सी­दिति गम्यते । यथा च ब्रह्म न स्थूलादिभिः पृथि­व्या­दि­स्व­भावैः स्वभाववत् — ‘अस्थूलमनणु’(बृ. उ. ३ । ८ । ८) इत्या­दि­श्रु­तिभ्यः, एव­मा­का­श­स्व­भा­वे­नापि न स्वभा­व­व­द­ना­का­श­मिति श्रुतेरवगम्यते । तस्मा­त्प्रा­गु­त्प­त्ते­र­ना­का­श­मिति स्थितम् । यदप्युक्तं पृथि­व्या­दि­वै­ध­र्म्या­दा­का­श­स्या­ज­त्व­मिति, तदप्यसत् , श्रुतिविरोधे सत्यु­त्प­त्त्य­स­म्भ­वा­नु­मा­न­स्या­भा­स­त्वो­प­पत्तेः । उत्प­त्त्य­नु­मा­नस्य च दर्शितत्वात् । अनित्यमाकाशम् , अनि­त्य­गु­णा­श्र­य­त्वात् , घटा­दि­व­दि­त्या­दि­प्र­यो­ग­स­म्भ­वाच्च । आत्म­न्य­नै­का­न्ति­क­मिति चेत् , न । तस्यौपनिषदं प्रत्य­नि­त्य­गु­णा­श्र­य­त्वा­सिद्धेः । विभुत्वादीनां च आका­श­स्यो­त्प­त्ति­वा­दिनं प्रत्य­सि­द्ध­त्वात् । यच्चोक्तमेतत् — शब्दाच्चेति — तत्रा­मृ­त­त्व­श्रु­ति­स्ता­व­द्वि­यति ‘अमृता दिवौकसः’ इति­व­द्द्र­ष्टव्या , उत्प­त्ति­प्र­ल­य­यो­रु­प­पा­दि­त­त्वात् । ‘आका­श­व­त्स­र्व­ग­तश्च नित्यः’(शत. ब्रा. १० । ६ । ३ । २) इत्यपि प्रसि­द्ध­म­ह­त्त्वे­ना­का­शे­नो­प­मानं क्रियते निर­ति­श­य­म­ह­त्त्वाय, न आकाशसमत्वाय — यथा ‘इषुरिव सविता धावति’ इति क्षिप्र­ग­ति­त्वा­यो­च्यते, न इषु­तु­ल्य­ग­ति­त्वाय — तद्वत्; एते­ना­न­न्त­त्वो­प­मा­न­श्रु­ति­र्व्या­ख्याता; ‘ज्याया­ना­का­शात्’ इत्या­दि­श्रु­ति­भ्यश्च ब्रह्मणः सका­शा­दा­का­श­स्यो­न­प­रि­मा­ण­त्व­सिद्धिः । ‘न तस्य प्रतिमास्ति’(श्वे. उ. ४ । १९) इति च ब्रह्म­णोऽ­नु­प­मा­नत्वं दर्शयति । ‘अतोऽ­न्य­दा­र्तम्’(बृ. उ. ३ । ४ । २) इति च ब्रह्म­णोऽ­न्ये­षा­मा­का­शा­दी­ना­मा­र्तत्वं दर्शयति । तपसि ब्रह्म­श­ब्द­व­दा­का­शस्य जन्म­श्रु­ते­र्गौ­ण­त्व­मि­त्ये­त­दा­का­श­स­म्भ­व­श्रु­त्य­नु­मा­नाभ्यां परिहृतम् । तस्मा­द्ब्र­ह्म­कार्यं वियदिति सिद्धम् ॥ ७ ॥

एतेन मातरिश्वा व्याख्यातः ॥ ८ ॥

अतिदेशोऽयम् । एतेन विय­द्व्या­ख्या­नेन मातरिश्वापि वियदाश्रयो वायु­र्व्या­ख्यातः । तत्राप्येते यथायोगं पक्षा रचयितव्याः — न वायुरुत्पद्यते, छन्दो­गा­ना­मु­त्प­त्ति­प्र­क­र­णेऽ­ना­म्ना­ना­दि­त्येकः पक्षः, अस्ति तु तैत्ति­री­या­णा­मु­त्प­त्ति­प्र­क­रणे आम्नानम् ‘आकाशाद्वायुः’(तै. उ. २ । १ । १) — इति पक्षान्तरम् । ततश्च श्रुत्यो­र्वि­प्र­ति­षेधे सति गौणी वायो­रु­त्प­त्ति­श्रुतिः, असम्भवात् इत्य­प­रोऽ­भि­प्रायः । असम्भवश्च ‘सैषानस्तमिता देवता यद्वायुः’(बृ. उ. १ । ५ । २२) इत्य­स्त­म­य­प्र­ति­षे­धात् अमृ­त­त्वा­दि­श्र­व­णाच्च । प्रति­ज्ञा­नु­प­रो­धा­द्या­व­द्वि­कारं च विभा­गा­भ्यु­प­ग­मा­दु­त्प­द्यते वायुरिति सिद्धान्तः । अस्त­म­य­प्र­ति­षे­धोऽ­प­र­वि­द्या­वि­षय आपेक्षिकः, अग्न्यादीनामिव वायो­र­स्त­म­या­भा­वात् । कृतप्रतिविधानं च अमृ­त­त्वा­दि­श्र­व­णम् । ननु वायोराकाशस्य च तुल्य­यो­रु­त्प­त्ति­प्र­क­रणे श्रव­णा­श्र­व­ण­यो­रे­क­मे­वा­धि­क­र­ण­मु­भ­य­वि­ष­य­मस्तु किमतिदेशेनासति विशेष इति, उच्यते — सत्यमेवमेतत् । तथापि मन्दधियां शब्द­मा­त्र­कृ­ता­श­ङ्का­नि­वृ­त्त्य­र्थोऽ­य­म­ति­देशः क्रियते — संव­र्ग­वि­द्या­दिषु ह्युपास्यतया वायो­र्म­हा­भा­ग­त्व­श्र­व­णात् अस्त­म­य­प्र­ति­षे­धा­दि­भ्यश्च भवति नित्यत्वाशङ्का कस्यचिदिति ॥ ८ ॥

असम्भवस्तु सतोऽनुपपत्तेः ॥ ९ ॥

विय­त्प­व­न­यो­र­स­म्भा­व्य­मा­न­ज­न्म­नो­र­प्यु­त्प­त्ति­मु­प­श्रुत्य, ब्रह्मणोऽपि भवे­त्कु­त­श्चि­दु­त्प­त्ति­रिति स्यात्क­स्य­चि­न्मतिः । तथा विकारेभ्य एवाकाशादिभ्य उत्तरेषां विका­रा­णा­मु­त्प­त्ति­मु­प­श्रुत्य, आकाशस्यापि विकारादेव ब्रह्मण उत्पत्तिरिति कश्चिन्मन्येत । तामा­श­ङ्का­म­प­ने­तु­मिदं सूत्रम् —

‘अस­म्भ­वस्त्वि’ति । न खलु ब्रह्मणः सदात्मकस्य कुतश्चिदन्यतः सम्भव उत्प­त्ति­रा­श­ङ्कि­तव्या । कस्मात् ? अनुपपत्तेः । सन्मात्रं हि ब्रह्म । न तस्य सन्मा­त्रा­दे­वो­त्पत्तिः सम्भवति, असत्यतिशये प्रकृ­ति­वि­का­र­भा­वा­नु­प­पत्तेः । नापि सद्विशेषात् , दृष्टविपर्ययात् — सामान्याद्धि विशेषा उत्पद्यमाना दृश्यन्ते; मृदादेर्घटादयः। न तु विशेषेभ्यः सामान्यम् । नाप्यसतः, निरात्मकत्वात् । ‘कथमसतः सज्जायेत’(छा. उ. ६ । २ । २) इति च आक्षेपश्रवणात् । ‘स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः’(श्वे. उ. ६ । ९) इति च ब्रह्मणो जनयितारं वारयति । वियत्पवनयोः पुनरुत्पत्तिः प्रदर्शिता, न तु ब्रह्मणः सा अस्तीति वैषम्यम् । न च विकारेभ्यो विका­रा­न्त­रो­त्प­त्ति­द­र्श­ना­द्ब्र­ह्म­णोऽपि विकारत्वं भवितुमर्हति, मूल­प्र­कृ­त्य­न­भ्यु­प­ग­मेऽ­न­व­स्था­प्र­स­ङ्गात् । या मूल­प्र­कृ­ति­र­भ्यु­प­ग­म्यते, तदेव च नो ब्रह्मे­त्य­वि­रोधः ॥ ९ ॥

तेजोऽ­त­स्त­था­ह्याह ॥ १० ॥

१०

छान्दोग्ये सन्मूलत्वं तेजसः श्रावितम् , तैत्तिरीयके तु वायुमूलत्वम् । तत्र तेजोयोनिं प्रति श्रुति­वि­प्र­ति­पत्तौ सत्याम् , प्राप्तं ताव­द्ब्र­ह्म­यो­निकं तेज इति । कुतः ? ‘सदेव’ इत्युपक्रम्य ‘तत्तेजोऽसृजत’ इत्युपदेशात् । सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­याश्च ब्रह्मप्रभवत्वे सर्वस्य सम्भवात्; ‘तज्जलान्’(छा. उ. ३ । १४ । १) इति च अविशेषश्रुतेः । ‘एतस्माज्जायते प्राणः’(मु. उ. २ । १ । ३) इति च उपक्रम्य श्रुत्यन्तरे सर्वस्याविशेषेण ब्रह्म­ज­त्वो­प­दे­शात्; तैत्तिरीयके च ‘स तपस्तप्त्वा । इदꣳ सर्वमसृजत । यदिदं किञ्च’(तै. उ. २ । ६ । १) इत्य­वि­शे­ष­श्र­व­णात् । तस्मात् — ‘वायोरग्निः’(तै. उ. २ । १ । १) इति क्रमोपदेशो द्रष्टव्यः — वायो­र­न­न्त­र­मग्निः सम्भूत इति ॥

एवं प्राप्ते, उच्यते — तेजः अतः मातरिश्वनः जायत इति । कस्मात् ? तथा ह्याह — ‘वायोरग्निः’ इति । अव्यवहिते हि तेजसो ब्रह्मजत्वे सति, असति वायुजत्वे ‘वायोरग्निः’ इतीयं श्रुतिः कदर्थिता स्यात् । ननु क्रमार्थैषा भवि­ष्य­ती­त्यु­क्तम्; नेति ब्रूमः — ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’(तै. उ. २ । १ । १) इति पुरस्तात् सम्भ­व­त्य­पा­दा­नस्य आत्मनः पञ्च­मी­नि­र्दे­शात् , तस्यैव च सम्भ­व­ते­रि­हा­धि­का­रात् , परस्तादपि तदधिकारे ‘पृथिव्या ओषधयः’(तै. उ. २ । १ । १) इत्य­पा­दा­न­प­ञ्च­मी­द­र्श­नात् ‘वायोरग्निः’ इत्य­पा­दा­न­प­ञ्च­म्ये­वै­षेति गम्यते । अपि च, वायो­रू­र्ध्व­मग्निः सम्भूतः — इति कल्प्यः उपपदार्थयोगः, कॢप्तस्तु कारकार्थयोगः — वायोरग्निः सम्भूतः इति । तस्मादेषा श्रुति­र्वा­यु­यो­नित्वं तेजसोऽवगमयति । नन्वितरापि श्रुति­र्ब्र­ह्म­यो­नित्वं तेजसोऽवगमयति — ‘तत्तेजोऽसृजत’ इति; न; तस्याः पार­म्प­र्य­ज­त्वेऽ­प्य­वि­रो­धात् । यदापि ह्याकाशं वायुं च सृष्ट्वा वायुभावापन्नं ब्रह्म तेजोऽसृजतेति कल्प्यते, तदापि ब्रह्मजत्वं तेजसो न विरुध्यते, यथा — तस्याः शृतम् , तस्या दधि, तस्या आमिक्षेत्यादि । दर्शयति च ब्रह्मणो विका­रा­त्म­ना­व­स्था­नम् — ‘तदात्मानꣳ स्वयमकुरुत’(तै. उ. २ । ७ । १) इति । तथा च ईश्वरस्मरणं भवति — ‘बुद्धि­र्ज्ञा­न­म­सं­मोहः’(भ. गी. १० । ४) इत्या­द्य­नु­क्रम्य ‘भवन्ति भावा भूतानां मत्त एव पृथग्विधाः’(भ. गी. १० । ५) इति । यद्यपि बुद्ध्यादयः स्वकारणेभ्यः प्रत्यक्षं भवन्तो दृश्यन्ते, तथापि सर्वस्य भावजातस्य साक्षा­त्प्र­णाड्या वा ईश्व­र­वं­श्य­त्वात् । एते­ना­क्र­म­सृ­ष्टि­वा­दिन्यः श्रुतयो व्याख्याताः; तासां सर्वथोपपत्तेः, क्रम­व­त्सृ­ष्टि­वा­दि­नीनां त्वन्य­था­नु­प­पत्तेः । प्रतिज्ञापि सद्वं­श्य­त्व­मा­त्र­म­पे­क्षते, न अव्य­व­हि­त­ज­न्य­त्वम् — इत्यविरोधः ॥ १० ॥

आपः ॥ ११ ॥

११

‘अतस्तथा ह्याह’ इत्यनुवर्तते । आपः, अतः तेजसः, जायन्ते । कस्मात् ? तथा ह्याह — ‘तदपोऽसृजत’ इति, ‘अग्नेरापः’ इति च । सति वचने नास्ति संशयः । तेजसस्तु सृष्टिं व्याख्याय पृथिव्या व्याख्यास्यन् , अपोऽन्तरयामिति ‘आपः’ इति सूत्रयांबभूव ॥ ११ ॥

पृथि­व्य­धि­का­र­रू­प­श­ब्दा­न्त­रेभ्यः ॥ १२ ॥

१२

‘ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नमसृजन्त’(छा. उ. ६ । २ । ४) इति श्रूयते । तत्र संशयः — किम­ने­ना­न्न­श­ब्देन व्रीहि­य­वा­द्य­भ्य­व­हार्यं वा ओदनाद्युच्यते, किं वा पृथिवीति । तत्र प्राप्तं तावत् — व्रीहियवादि ओदनादि वा परि­ग्र­ही­त­व्य­मिति । तत्र ह्यन्नशब्दः प्रसिद्धो लोके । वाक्य­शे­षोऽ­प्ये­त­म­र्थ­मु­पो­द्ब­ल­यति — ‘तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवति’ इति व्रीहियवाद्येव हि सति वर्षणे बहु भवति, न पृथिवीति ॥

एवं प्राप्ते, ब्रूमः — पृथि­व्ये­वे­य­म­न्न­श­ब्दे­नाद्भ्यो जायमाना विवक्ष्यत इति । कस्मात् ? अधिकारात् , रूपात् , शब्दान्तराच्च । अधिकारस्तावत् — ‘तत्तेजोऽसृजत’ ‘तदपोऽसृजत’ इति महाभूतविषयो वर्तते । तत्र क्रमप्राप्तां पृथिवीं महाभूतं विलङ्घ्य नाक­स्मा­द्व्री­ह्या­दि­प­रि­ग्रहो न्याय्यः । तथा रूपमपि वाक्यशेषे पृथिव्यनुगुणं दृश्यते — ‘यत्कृष्णं तदन्नस्य’ इति । न ह्योद­ना­दे­र­भ्य­व­हा­र्यस्य कृष्ण­त्व­नि­य­मोऽस्ति, नापि व्रीह्यादीनाम् । ननु पृथिव्या अपि नैव कृष्ण­त्व­नि­य­मोऽस्ति, पयः­पा­ण्डु­र­स्या­ङ्गा­र­रो­हि­तस्य च क्षेत्रस्य दर्शनात्; नायं दोषः — बाहु­ल्या­पे­क्ष­त्वात् । भूयिष्ठं हि पृथिव्याः कृष्णं रूपम् , न तथा श्वेतरोहिते । पौराणिका अपि पृथिवीच्छायां शर्व­री­मु­प­दि­शन्ति, सा च कृष्णाभासा — इत्यतः कृष्णं रूपं पृथिव्या इति श्लिष्यते । श्रुत्यन्तरमपि समानाधिकारम् — ‘अद्भ्यः पृथिवी’ इति भवति, ‘तद्यदपां शर आसीत्तत्समहन्यत सा पृथिव्यभवत्’(बृ. उ. १ । २ । २) इति च । पृथिव्यास्तु व्रीह्या­दे­रु­त्पत्तिं दर्शयति — ‘पृथिव्या ओषधय ओषधीभ्योऽन्नम्’ इति च । एवमधिकारादिषु पृथिव्याः प्रतिपादकेषु सत्सु कुतो व्रीह्या­दि­प्र­ति­पत्तिः ? प्रसि­द्धि­र­प्य­धि­का­रा­दि­भि­रेव बाध्यते । वाक्यशेषोऽपि पार्थि­व­त्वा­द­न्ना­द्यस्य तद्द्वारेण पृथिव्या एवाद्भ्यः प्रभवत्वं सूचयतीति द्रष्टव्यम् । तस्मा­त्पृ­थि­वी­य­म­न्न­श­ब्देति ॥ १२ ॥

तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ १३ ॥

१३

किमिमानि वियदादीनि भूतानि स्वयमेव स्ववि­का­रा­न्सृ­जन्ति, आहो­स्वि­त्प­र­मे­श्वर एव तेन तेन आत्म­ना­व­ति­ष्ठ­मा­नोऽ­भि­ध्या­यन् तं तं विकारं सृजतीति सन्देहे सति, प्राप्तं तावत् — स्वयमेव सृजन्तीति । कुतः ? ‘आका­शा­द्वा­यु­र्वा­यो­रग्निः’(तै. उ. २ । १ । १) इत्या­दि­स्वा­त­न्त्र्य­श्र­व­णात् । ननु अचेतनानां स्वतन्त्राणां प्रवृत्तिः प्रतिषिद्धा; नैष दोषः — ‘तत्तेज ऐक्षत’(छा. उ. ६ । २ । ३) ‘ता आप ऐक्षन्त’(छा. उ. ६ । २ । ४) इति च भूतानामपि चेत­न­त्व­श्र­व­णा­दिति ॥

एवं प्राप्ते, अभिधीयते — स एव परमेश्वरस्तेन तेन आत्मना अव­ति­ष्ठ­मा­नोऽ­भि­ध्या­यन् तं तं विकारं सृजतीति । कुतः ? तल्लिङ्गात् । तथा हि शास्त्रम् — ‘यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति’(बृ. उ. ३ । ७ । ३) इत्येवंजातीयकम् — साध्यक्षाणामेव भूतानां प्रवृत्तिं दर्शयति । तथा ‘सोऽकामयत बहु स्यां प्रजायेयेति’(तै. उ. २ । ६ । १) इति प्रस्तुत्य, ‘सच्च त्यच्चाभवत्’(तै. उ. २ । ६ । १) , ‘तदात्मानꣳ स्वयमकुरुत’(तै. उ. २ । ७ । १) इति च तस्यैव च सर्वात्मभावं दर्शयति । यत्तु ईक्ष­ण­श्र­व­ण­म­प्ते­जसोः, तत्प­र­मे­श्व­रा­वे­श­व­शा­देव द्रष्टव्यम् — ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. उ. ३ । ७ । २३) इती­क्षि­त्र­न्त­र­प्र­ति­षे­धात् , प्रकृतत्वाच्च सत ईक्षितुः ‘तदैक्षत बहु स्यां प्रजायेयेति’(तै. उ. २ । ६ । १) इत्यत्र ॥ १३ ॥

विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ १४ ॥

१४

भूता­ना­मु­त्प­त्ति­क्र­म­श्चि­न्तितः । अथेदानीम् अप्य­य­क्र­म­श्चि­न्त्यते — किमनियतेन क्रमेणाप्ययः, उत उत्पत्तिक्रमेण, अथवा तद्विपरीतेनेति । त्रयोऽपि च उत्प­त्ति­स्थि­ति­प्र­लया भूतानां ब्रह्मायत्ताः श्रूयन्ते — ‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्र­य­न्त्य­भि­सं­वि­शन्ति’(तै. उ. ३ । १ । १) इति । तत्रा­नि­य­मोऽ­वि­शे­षा­दिति प्राप्तम् । अथवा उत्पत्तेः क्रमस्य श्रुत­त्वा­त्प्र­ल­य­स्यापि क्रमाकाङ्क्षिणः स एव क्रमः स्यादिति ॥

एवं प्राप्तं ततो ब्रूमः — विपर्ययेण तु प्रलयक्रमः, अतः उत्पत्तिक्रमात् , भवितुमर्हति । तथा हि लोके दृश्यते — येन क्रमेण सोपानमारूढः, ततो विपरीतेन क्रमेणावरोहतीति । अपि च दृश्यते — मृदो जातं घटशरावादि अप्ययकाले मृद्भावमप्येति, अद्भ्यश्च जातं हिमकरकादि अब्भावमप्येतीति । अतश्चोपपद्यत एतत् — यत्पृथिवी अद्भ्यो जाता सती स्थिति­का­ल­व्य­ति­क्रान्तौ अपः अपीयात् । आपश्च तेजसो जाताः सत्यः तेजः अपीयुः । एवं क्रमेण सूक्ष्मं सूक्ष्मतरं च अनन्तरमनन्तरं कारणमपीत्य सर्वं कार्यजातं परमकारणं परमसूक्ष्मं च ब्रह्माप्येतीति वेदितव्यम् । न हि स्वका­र­ण­व्य­ति­क्र­मेण कारणकारणे कार्याप्ययो न्याय्यः । स्मृता­व­प्यु­त्प­त्ति­क्र­म­वि­प­र्य­ये­णै­वा­प्य­य­क्र­म­स्तत्र तत्र दर्शितः — ‘जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते’ इत्येवमादौ । उत्प­त्ति­क्र­मस्तु उत्पत्तावेव श्रुत­त्वा­न्ना­प्यये भवितुमर्हति; न च असौ अयो­ग्य­त्वा­द­प्य­ये­ना­का­ङ्क्ष्यते । न हि कार्ये ध्रियमाणे कारणस्याप्ययो युक्तः, कारणाप्यये कार्य­स्या­व­स्था­ना­नु­प­पत्तेः । कार्याप्यये तु कारणस्यावस्थानं युक्तम् — मृदादिष्वेवं दृष्टत्वात् ॥ १४ ॥

अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॥ १५ ॥

१५

भूता­ना­मु­त्प­त्ति­प्र­ल­या­व­नु­लो­म­प्र­ति­लो­म­क्र­माभ्यां भवत इत्युक्तम्; आत्मा­दि­रु­त्पत्तिः प्रल­य­श्चा­त्मान्तः — इत्यप्युक्तम् । सेन्द्रियस्य तु मनसो बुद्धेश्च सद्भावः प्रसिद्धः श्रुतिस्मृत्योः — ‘बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ।’(क. उ. १ । ३ । ३) ‘इन्द्रियाणि हयानाहुः’(क. उ. १ । ३ । ४) इत्या­दि­लि­ङ्गेभ्यः । तयोरपि कस्मिं­श्चि­द­न्त­राले क्रमे­णो­त्प­त्ति­प्र­ल­या­वु­प­स­ङ्ग्राह्यौ, सर्वस्य वस्तुजातस्य ब्रह्म­ज­त्वा­भ्यु­प­ग­मात् । अपि च आथर्वणे उत्पत्तिप्रकरणे भूता­ना­मा­त्म­न­श्चा­न्त­राले कर­णा­न्य­नु­क्र­म्यन्ते — ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायु­र्ज्यो­ति­रापः पृथिवी विश्वस्य धारिणी’(मु. उ. २ । १ । ३) इति । तस्मा­त्पू­र्वो­क्तो­त्प­त्ति­प्र­ल­य­क्र­म­भ­ङ्ग­प्र­सङ्गो भूतानामिति चेत् , न; अविशेषात् — यदि तावद्भौतिकानि करणानि, ततो भूतो­त्प­त्ति­प्र­ल­या­भ्या­मे­वै­षा­मु­त्प­त्ति­प्र­लयौ भवत इति नैतयोः क्रमान्तरं मृग्यम् । भवति च भौतिकत्वे लिङ्गं करणानाम् — ‘अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्’(छा. उ. ६ । ५ । ४) इत्येवंजातीयकम् । व्यपदेशोऽपि क्वचिद्भूतानां करणानां च ब्राह्म­ण­प­रि­व्रा­ज­क­न्या­येन नेतव्यः । अथ त्वभौतिकानि करणानि, तथापि भूतो­त्प­त्ति­क्रमो न करणैर्विशेष्यते — प्रथमं कर­णा­न्यु­त्प­द्यन्ते चरमं भूतानि, प्रथमं वा भूता­न्यु­त्प­द्यन्ते चरमं करणानीति । आथर्वणे तु समा­म्ना­य­क्र­म­मात्रं करणानां भूतानां च, न तत्रो­त्प­त्ति­क्रम उच्यते । तथा अन्यत्रापि पृथगेव भूत­क्र­मा­त्क­र­ण­क्रम आम्नायते — ‘प्रजापतिर्वा इदमग्र आसीत्स आत्मानमैक्षत स मनोऽसृजत तन्मन एवा­सी­त्त­दा­त्मा­न­मै­क्षत तद्वाचमसृजत’ इत्यादिना । तस्मान्नास्ति भूतो­त्प­त्ति­क्र­मस्य भङ्गः ॥ १५ ॥

चरा­च­र­व्य­पा­श्र­यस्तु स्यात्त­द्व्य­प­देशो भाक्त­स्त­द्भा­व­भा­वि­त्वात् ॥ १६ ॥

१६

स्तो जीव­स्या­प्यु­त्प­त्ति­प्र­लयौ, जातो देवदत्तो मृतो देवदत्त इत्ये­वं­जा­ती­य­का­ल्लौ­कि­क­व्य­प­दे­शात् जात­क­र्मा­दि­सं­स्का­र­वि­धा­नाच्च — इति स्यात्क­स्य­चि­द्भ्रान्तिः । तामपनुदामः । न जीव­स्यो­त्प­त्ति­प्र­लयौ स्तः, शास्त्र­फ­ल­स­म्ब­न्धो­प­पत्तेः । शरीरानुविनाशिनि हि जीवे शरी­रा­न्त­र­ग­ते­ष्टा­नि­ष्ट­प्रा­प्ति­प­रि­हा­रार्थौ विधि­प्र­ति­षे­धा­व­न­र्थकौ स्याताम् । श्रूयते च — ‘जीवापेतं वाव किलेदं म्रियते न जीवो म्रियते’(छा. उ. ६ । ११ । ३) इति । ननु लौकिको जन्ममरणव्यपदेशो जीवस्य दर्शितः । सत्यं दर्शितः । भाक्तस्त्वेष जीवस्य जन्ममरणव्यपदेशः । किमाश्रयः पुनरयं मुख्यः, यदपेक्षया भाक्त इति ? उच्यते — चराचरव्यपाश्रयः । स्थाव­र­ज­ङ्ग­म­श­री­र­वि­षयौ जन्ममरणशब्दौ । स्थावरजङ्गमानि हि भूतानि जायन्ते च म्रियन्ते च । अतस्तद्विषयौ जन्ममरणशब्दौ मुख्यौ सन्तौ तत्स्थे जीवा­त्म­न्यु­प­च­र्येते, तद्भा­व­भा­वि­त्वात् — शरी­र­प्रा­दु­र्भा­व­ति­रो­भा­व­योर्हि सतो­र्ज­न्म­म­र­ण­शब्दौ भवतः, नासतोः । न हि शरी­र­स­म्ब­न्धा­द­न्यत्र जीवो जातो मृतो वा केनचिल्लक्ष्यते । ‘स वा अयं पुरुषो जायमानः शरी­र­म­भि­स­म्प­द्य­मानः स उत्क्रामन् म्रियमाणः’(बृ. उ. ४ । ३ । ८) इति च शरी­र­सं­यो­ग­वि­यो­ग­नि­मि­त्ता­वेव जन्ममरणशब्दौ दर्शयति । जात­क­र्मा­दि­वि­धा­न­मपि देह­प्रा­दु­र्भा­वा­पे­क्ष­मेव द्रष्टव्यम् , अभा­वा­ज्जी­व­प्रा­दु­र्भा­वस्य । जीवस्य परस्मादात्मन उत्प­त्ति­र्वि­य­दा­दी­ना­मि­वास्ति नास्ति वेत्येतदुत्तरेण सूत्रेण वक्ष्यति । देहाश्रयौ तावज्जीवस्य स्थूला­वु­त्प­त्ति­प्र­लयौ न स्तः इत्येतदनेन सूत्रेणावोचत् ॥ १६ ॥

नात्माऽ­श्रु­ते­र्नि­त्य­त्वाच्च ताभ्यः ॥ १७ ॥

१७

अस्त्यात्मा जीवाख्यः शरी­रे­न्द्रि­य­प­ञ्ज­रा­ध्यक्षः कर्मफलसम्बन्धी । स किं व्योमा­दि­व­दु­त्प­द्यते ब्रह्मणः, आहो­स्वि­द्ब्र­ह्म­व­देव नोत्पद्यते, इति श्रुति­वि­प्र­ति­प­त्ते­र्वि­शयः । कासु­चि­च्छ्रु­तिषु अग्नि­वि­स्फु­लि­ङ्गा­दि­नि­द­र्श­नै­र्जी­वा­त्मनः परस्माद्ब्रह्मण उत्प­त्ति­रा­म्ना­यते; कासुचित्तु अविकृतस्यैव परस्य ब्रह्मणः कार्यप्रवेशेन जीवभावो विज्ञायते, न च उत्प­त्ति­रा­म्ना­यत इति । तत्र प्राप्तं तावत् — उत्पद्यते जीव इति । कुतः ? प्रति­ज्ञा­नु­प­रो­धा­देव । ‘एकस्मिन्विदिते सर्वमिदं विदितम्’ इतीयं प्रतिज्ञा सर्वस्य वस्तुजातस्य ब्रह्मप्रभवत्वे सति नोपरुध्येत, तत्त्वान्तरत्वे तु जीवस्य प्रति­ज्ञे­य­मु­प­रु­ध्येत । न च अविकृतः परमात्मैव जीव इति शक्यते विज्ञातुम् , लक्षणभेदात् — अप­ह­त­पा­प्म­त्वा­दि­ध­र्मको हि परमात्मा, तद्विपरीतो हि जीवः । विभागाच्चास्य विकारत्वसिद्धिः — यावान् हि आकाशादिः प्रविभक्तः, स सर्वो विकारः । तस्य च आका­शा­दे­रु­त्पत्तिः समधिगता; जीवात्मापि पुण्या­पु­ण्य­कर्मा सुखदुःखयुक् प्रतिशरीरं प्रविभक्त इति, तस्यापि प्रप­ञ्चो­त्प­त्त्य­व­सरे उत्प­त्ति­र्भ­वि­तु­म­र्हति । अपि च ‘यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्च­र­न्त्ये­व­मे­वा­स्मा­दा­त्मनः सर्वे प्राणाः’(बृ. उ. २ । १ । २०) इति प्राणा­दे­र्भो­ग्य­जा­तस्य सृष्टिं शिष्ट्वा ‘सर्व एत आत्मानो व्युच्चरन्ति’ इति भोक्तॄ­णा­मा­त्मनां पृथक्सृष्टिं शास्ति । ‘यथा सुदी­प्ता­त्पा­व­का­द्वि­स्फु­लिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथा­क्ष­रा­द्वि­विधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति’(मु. उ. २ । १ । १) इति च जीवा­त्म­ना­मु­त्प­त्ति­प्र­ल­या­वु­च्येते, सरूपवचनात् — जीवात्मानो हि परमात्मना सरूपा भवन्ति, चैतन्ययोगात्; न च क्वचि­द­श्र­व­ण­म­न्यत्र श्रुतं वारयितुमर्हति, श्रुत्य­न्त­र­ग­त­स्या­प्य­वि­रु­द्ध­स्या­धि­क­स्या­र्थस्य सर्व­त्रो­प­सं­ह­र्त­व्य­त्वात् । प्रवे­श­श्रु­ति­र­प्येवं सति विका­र­भा­वा­प­त्त्यैव व्याख्यातव्या — ‘तदात्मानꣳ स्वयमकुरुत’(तै. उ. २ । ७ । १) इत्यादिवत् । तस्मादुत्पद्यते जीव इति ॥

एवं प्राप्ते, ब्रूमः — नात्मा जीव उत्पद्यत इति । कस्मात् ? अश्रुतेः; न ह्यस्यो­त्प­त्ति­प्र­क­रणे श्रवणमस्ति भूयःसु प्रदेशेषु । ननु क्वचि­द­श्र­व­ण­म­न्यत्र श्रुतं न वार­य­ती­त्यु­क्तम्; सत्यमुक्तम्; उत्पत्तिरेव त्वस्य न सम्भवतीति वदामः । कस्मात् ? नित्यत्वाच्च ताभ्यः — चश­ब्दा­द­ज­त्वा­दि­भ्यश्च — नित्यत्वं ह्यस्य श्रुति­भ्योऽ­व­ग­म्यते, तथा अजत्वम् अविकारित्वम् अविकृतस्यैव ब्रह्मणो जीवा­त्म­ना­व­स्थानं ब्रह्मात्मना चेति । न चैवं­रू­प­स्यो­त्प­त्ति­रु­प­प­द्यते । ताः काः श्रुतयः ? ‘न जीवो म्रियते’(छा. उ. ६ । ११ । ३) ‘स वा एष महानज आत्माऽ­ज­रोऽ­म­रोऽ­मृ­तोऽ­भयो ब्रह्म’(बृ. उ. ४ । ४ । २५) ‘न जायते म्रियते वा विपश्चित्’(क. उ. १ । २ । १८) ‘अजो नित्यः शाश्वतोऽयं पुराणः’(क. उ. १ । २ । १८) ‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्’(तै. उ. २ । ६ । १) ‘अनेन जीवे­ना­त्म­ना­नु­प्र­विश्य नामरूपे व्याकरवाणि’(छा. उ. ६ । ३ । २) ‘स एष इह प्रविष्ट आ नखाग्रेभ्यः’(बृ. उ. १ । ४ । ७) ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) ‘अहं ब्रह्मास्मि’(बृ. उ. १ । ४ । १०) ‘अयमात्मा ब्रह्म सर्वानुभूः’(बृ. उ. २ । ५ । १९) इत्येवमाद्या नित्य­त्व­वा­दिन्यः सत्यः जीवस्योत्पत्तिं प्रतिबध्नन्ति । ननु प्रवि­भ­क्त­त्वा­द्वि­कारः, विका­र­त्वा­च्चो­त्प­द्यते — इत्युक्तम्; अत्रोच्यते — नास्य प्रविभागः स्वतोऽस्ति, ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्व­भू­ता­न्त­रात्मा’(श्वे. उ. ६ । ११) इति श्रुतेः । बुद्ध्या­द्यु­पा­धि­नि­मित्तं तु अस्य प्रवि­भा­ग­प्र­ति­भा­नम् , आकाशस्येव घटा­दि­स­म्ब­न्ध­नि­मि­त्तम् । तथा च शास्त्रम् — ‘स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राण­म­य­श्च­क्षु­र्मयः श्रोत्रमयः’(बृ. उ. ४ । ४ । ५) इत्येवमादि ब्रह्मण एवाविकृतस्य सतोऽ­स्यै­क­स्या­ने­क­बु­द्ध्या­दि­म­यत्वं दर्शयति । तन्मयत्वं च अस्य तद्वि­वि­क्त­स्व­रू­पा­न­भि­व्यक्त्या तदु­प­र­क्त­स्व­रू­प­त्वम् — स्त्रीमयो जाल्म इत्यादिवत् — द्रष्टव्यम् । यदपि क्वचि­द­स्यो­त्प­त्ति­प्र­ल­य­श्र­व­णम् , तदप्यत एवो­पा­धि­स­म्ब­न्धा­न्ने­त­व्यम् — उपा­ध्यु­त्पत्त्या अस्योत्पत्तिः, तत्प्रलयेन च प्रलय इति । तथा च दर्शयति — ‘प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्ति’(बृ. उ. ४ । ५ । १३) इति; तथोपाधिप्रलय एवायम् , नात्मविलयः — इत्येतदपि — ‘अत्रैव मा भग­वा­न्मो­हा­न्त­मा­पी­प­दन्न वा अहमिमं विजानामि न प्रेत्य संज्ञास्ति’ — इति प्रश्नपूर्वकं प्रतिपादयति — ‘न वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽ­य­मा­त्मा­नु­च्छि­त्ति­धर्मा मात्राऽ­सं­स­र्ग­स्त्वस्य भवति’(बृ. उ. ४ । ५ । १४) — इति । प्रति­ज्ञा­नु­प­रो­धोऽ­प्य­वि­कृ­त­स्यैव ब्रह्मणो जीव­भा­वा­भ्यु­प­ग­मात्; लक्ष­ण­भे­दोऽ­प्य­न­यो­रु­पा­धि­नि­मित्त एव, ‘अत ऊर्ध्वं विमोक्षायैव ब्रूहि’(बृ. उ. ४ । ३ । १५) इति च प्रकृतस्यैव विज्ञा­न­म­य­स्या­त्मनः सर्व­सं­सा­र­ध­र्म­प्र­त्या­ख्या­नेन पर­मा­त्म­भा­व­प्र­ति­पा­द­नात् । तस्मात् नैवा­त्मो­त्प­द्यते प्रविलीयते वेति ॥ १७ ॥

ज्ञोऽत एव ॥ १८ ॥

१८

स किं काण­भु­जा­ना­मि­वा­ग­न्तु­क­चै­तन्यः, स्वतोऽचेतनः, आहो­स्वि­त्सा­ङ्ख्या­ना­मिव नित्य­चै­त­न्य­स्व­रूप एव, इति वादि­वि­प्र­ति­पत्तेः संशयः । किं तावत्प्राप्तम् ? आग­न्तु­क­मा­त्म­न­श्चै­त­न्य­मा­त्म­म­नः­सं­यो­ग­जम् , अग्नि­घ­ट­सं­यो­ग­ज­रो­हि­ता­दि­गु­ण­व­दिति प्राप्तम् । नित्यचैतन्यत्वे हि सुप्त­मू­र्छि­त­ग्र­हा­वि­ष्टा­ना­मपि चैतन्यं स्यात् । ते पृष्टाः सन्तः ‘न किञ्चि­द्व­य­म­चे­त­या­महि’ इति जल्पन्ति; स्वस्थाश्च चेतयमाना दृश्यन्ते । अतः कादा­चि­त्क­चै­त­न्य­त्वा­दा­ग­न्तु­क­चै­तन्य आत्मेति ॥

एवं प्राप्ते, अभिधीयते — ज्ञः नित्य­चै­त­न्योऽ­य­मात्मा — अत एव — यस्मादेव नोत्पद्यते, परमेव ब्रह्म अवि­कृ­त­मु­पा­धि­स­म्प­र्का­ज्जी­व­भा­वे­ना­व­ति­ष्ठते । परस्य हि ब्रह्म­ण­श्चै­त­न्य­स्व­रू­प­त्व­मा­म्ना­तम् — ‘विज्ञानमानन्दं ब्रह्म’(बृ. उ. ३ । ९ । २८) ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै. उ. २ । १ । १) ‘अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव’(बृ. उ. ४ । ५ । १३) इत्यादिषु श्रुतिषु । तदेव चेत्परं ब्रह्म जीवः, तस्मा­ज्जी­व­स्यापि नित्य­चै­त­न्य­स्व­रू­प­त्व­म­ग्न्यौ­ष्ण्य­प्र­का­श­व­दिति गम्यते । विज्ञा­न­म­य­प्र­क्रि­यायां च श्रुतयो भवन्ति — ‘असुप्तः सुप्ता­न­भि­चा­क­शीति’(बृ. उ. ४ । ३ । ११) ‘अत्रायं पुरुषः स्वयं­ज्यो­ति­र्भ­वति’(बृ. उ. ४ । ३ । ९) इति, ‘न हि विज्ञा­तु­र्वि­ज्ञा­ते­र्वि­प­रि­लोपो विद्यते’(बृ. उ. ४ । ३ । ३०) इत्येवंरूपाः । ‘अथ यो वेदेदं जिघ्राणीति स आत्मा’(छा. उ. ८ । १२ । ४) इति च — सर्वैः करणद्वारैः ‘इदं वेद, इदं वेद’ इति विज्ञा­ने­ना­नु­स­न्धा­नात् तद्रू­प­त्व­सिद्धिः । नित्य­चै­त­न्य­स्व­रू­पत्वे घ्राणा­द्या­न­र्थ­क्य­मिति चेत् , न, गन्धा­दि­वि­ष­य­वि­शे­ष­प­रि­च्छे­दा­र्थ­त्वात् । तथा हि दर्शयति — ‘गन्धाय घ्राणम्’ इत्यादि । यत्तु सुप्तादयो न चेतयन्त इति, तस्य श्रुत्यैव परिहारोऽभिहितः , सुषुप्तं प्रकृत्य — ‘यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति; न हि द्रष्टु­र्दृ­ष्टे­र्वि­प­रि­लोपो विद्य­तेऽ­वि­ना­शि­त्वात्; न तु तद्द्वितीयमस्ति ततोऽ­न्य­द्वि­भक्तं यत्पश्येत्’(बृ. उ. ४ । ३ । २३) इत्यादिना । एतदुक्तं भवति — विष­या­भा­वा­दि­य­म­चे­त­य­मा­नता, न चैतन्याभावादिति — यथा वियदाश्रयस्य प्रकाशस्य प्रका­श्या­भा­वा­द­न­भि­व्यक्तिः, न स्वरूपाभावात् — तद्वत् । वैशे­षि­का­दि­त­र्कश्च श्रुतिविरोध आभासीभवति । तस्मा­न्नि­त्य­चै­त­न्य­स्व­रूप एव आत्मेति निश्चिनुमः ॥ १८ ॥

उत्क्रा­न्ति­ग­त्या­ग­ती­नाम् ॥ १९ ॥

१९

इदानीं तु किंपरिमाणो जीव इति चिन्त्यते — किमणुपरिमाणः, उत मध्यमपरिमाणः, आहोस्वित् महापरिमाण इति । ननु नात्मोत्पद्यते नित्य­चै­त­न्य­श्चा­य­मि­त्यु­क्तम् । अतश्च पर एव आत्मा जीव इत्यापतति । परस्य च आत्म­नोऽ­न­न्त­त्व­मा­म्ना­तम् । तत्र कुतो जीवस्य परि­मा­ण­चि­न्ता­व­तार इति । उच्यते — सत्यमेतत्; उत्क्रा­न्ति­ग­त्या­ग­ति­श्र­व­णानि तु जीवस्य परिच्छेदं प्रापयन्ति । स्वशब्देन च अस्य क्वचि­द­णु­प­रि­मा­ण­त्व­मा­म्ना­यते । तस्य सर्व­स्या­ना­कु­ल­त्वो­प­पा­द­ना­या­य­मा­रम्भः । तत्र प्राप्तं तावत् — उत्क्रा­न्ति­ग­त्या­ग­तीनां श्रव­णा­त्प­रि­च्छि­न्नोऽ­णु­प­रि­माणो जीव इति । उत्क्रा­न्ति­स्ता­वत् — ‘स यदा­स्मा­च्छ­री­रा­दु­त्क्रा­मति सहैवैतैः सर्वै­रु­त्क्रा­मति’(कौ. उ. ३ । ४) इति; गतिरपि — ‘ये वै के चास्मा­ल्लो­का­त्प्र­यन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति’(कौ. उ. १ । २) इति; आगतिरपि — ‘तस्मा­ल्लो­का­त्पु­न­रै­त्यस्मै लोकाय कर्मणे’(बृ. उ. ४ । ४ । ६) इति; आसा­मु­त्क्रा­न्ति­ग­त्या­ग­तीनां श्रव­णा­त्प­रि­च्छि­न्न­स्ता­व­ज्जीव इति प्राप्नोति — न हि विभो­श्च­ल­न­म­व­क­ल्पत इति । सति परिच्छेदे, शरी­र­प­रि­मा­ण­त्व­स्या­र्ह­त­प­री­क्षायां निरस्तत्वात् अणुरात्मेति गम्यते ॥ १९ ॥

स्वात्मना चोत्तरयोः ॥ २० ॥

२०

उत्क्रान्तिः कदाचिदचलतोऽपि ग्राम­स्वा­म्य­नि­वृ­त्ति­व­द्दे­ह­स्वा­म्य­नि­वृत्त्या कर्म­क्ष­ये­णा­व­क­ल्पेत । उत्तरे तु गत्यागती नाचलतः सम्भवतः । स्वात्मना हि तयोः सम्बन्धो भवति, गमेः कर्तृ­स्थ­क्रि­या­त्वात् । अमध्यमपरिमाणस्य च गत्यागती अणुत्वे एव सम्भवतः । सत्योश्च गत्या­ग­त्यो­रु­त्क्रा­न्ति­र­प्य­प­सृ­प्ति­रेव देहादिति प्रतीयते । न हि अनपसृप्तस्य देहाद्गत्यागती स्याताम् — देहप्रदेशानां च उत्क्रा­न्ता­व­पा­दा­न­त्व­व­च­नात् — ‘चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः’(बृ. उ. ४ । ४ । २) इति । ‘स एता­स्ते­जो­मात्राः समभ्याददानो हृद­य­मे­वा­न्व­व­क्रा­मति’(बृ. उ. ४ । ४ । १) ‘शुक्रमादाय पुनरैति स्थानम्’(बृ. उ. ४ । ३ । ११) इति चान्तरेऽपि शरीरे शारीरस्य गत्यागती भवतः । तस्मा­द­प्य­स्या­णु­त्व­सिद्धिः ॥ २० ॥

नाणु­र­त­च्छ्रु­ते­रिति चेन्ने­त­रा­धि­का­रात् ॥ २१ ॥

२१

अथापि स्यात् — नाणुरयमात्मा । कस्मात् ? अतच्छ्रुतेः; अणु­त्व­वि­प­री­त­प­रि­मा­ण­श्र­व­णा­दि­त्यर्थः । ‘स वा एष महानज आत्मा, योऽयं विज्ञानमयः प्राणेषु’(बृ. उ. ४ । ४ । २२) ‘आका­श­व­त्स­र्व­ग­तश्च नित्यः’(शत. ब्रा. १० । ६ । ३ । २) ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै. उ. २ । १ । १) इत्येवंजातीयका हि श्रुति­रा­त्म­नोऽ­णुत्वे विप्र­ति­षि­ध्ये­तेति चेत् , नैष दोषः । कस्मात् ? इतराधिकारात् — परस्य हि आत्मनः प्रक्रियायामेषा परि­मा­णा­न्त­र­श्रुतिः, परस्यैवात्मनः प्राधान्येन वेदान्तेषु वेदितव्यत्वेन प्रकृतत्वात् , ‘विरजः पर आकाशात्’ इत्येवंविधाच्च पर­स्यै­वा­त्म­न­स्तत्र तत्र विशेषाधिकारात् । ननु ‘योऽयं विज्ञानमयः प्राणेषु’(बृ. उ. ४ । ४ । २२) इति शारीर एव मह­त्त्व­स­म्ब­न्धि­त्वेन प्रति­नि­र्दि­श्यते — शास्त्रदृष्ट्या तु एष निर्देशो वाम­दे­व­व­द्द्र­ष्टव्यः । तस्मा­त्प्रा­ज्ञ­वि­ष­य­त्वा­त्प­रि­मा­णा­न्त­र­श्र­व­णस्य न जीवस्याणुत्वं विरुध्यते ॥ २१ ॥

स्वश­ब्दो­न्मा­नाभ्यां च ॥ २२ ॥

२२

इतश्चाणुरात्मा, यतः साक्षा­दे­वा­स्या­णु­त्व­वाची शब्दः श्रूयते — ‘एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश’(मु. उ. ३ । १ । ९) इति । प्राण­स­म्ब­न्धाच्च जीव एवायमणुरभिहित इति गम्यते । तथोन्मानमपि जीवस्याणिमानं गमयति — ‘बाला­ग्र­श­त­भा­गस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः’(श्वे. उ. ५ । ९) इति; ‘आराग्रमात्रो ह्यवरोऽपि दृष्टः’(श्वे. उ. ५ । ८) इति च उन्मानान्तरम् ॥ २२ ॥

नन्वणुत्वे सति एकदेशस्थस्य सक­ल­दे­ह­ग­तो­प­ल­ब्धि­र्वि­रु­ध्यते । दृश्यते च जाह्न­वी­ह्र­द­नि­म­ग्नानां सर्वा­ङ्ग­शै­त्यो­प­लब्धिः, निदाघसमये च सक­ल­श­री­र­प­रि­ता­पो­प­ल­ब्धि­रिति — अत उत्तरं पठति —

अवि­रो­ध­श्च­न्द­न­वत् ॥ २३ ॥

२३

यथा हि हरिचन्दनबिन्दुः शरी­रै­क­दे­श­स­म्ब­द्धोऽपि सन् सक­ल­दे­ह­व्या­पि­न­मा­ह्लादं करोति, एवमात्मापि देहैकदेशस्थः सक­ल­दे­ह­व्या­पि­नी­मु­प­लब्धिं करिष्यति । त्वक्स­म्ब­न्धा­च्चास्य सकलशरीरगता वेदना न विरुध्यते । त्वगात्मनोर्हि सम्बन्धः कृत्स्नायां त्वचि वर्तते । त्वक्च कृत्स्न­श­री­र­व्या­पि­नीति ॥ २३ ॥

अव­स्थि­ति­वै­शे­ष्या­दिति चेन्ना­भ्यु­प­ग­मा­द्धृदि हि ॥ २४ ॥

२४

अत्राह — यदु­क्त­म­वि­रो­ध­श्च­न्द­न­व­दिति, तदयुक्तम् , दृष्टा­न्त­दा­र्ष्टा­न्ति­क­यो­र­तु­ल्य­त्वात् । सिद्धे हि आत्मनो देहैकदेशस्थत्वे चन्दनदृष्टान्तो भवति, प्रत्यक्षं तु चन्द­न­स्या­व­स्थि­ति­वै­शे­ष्य­मे­क­दे­श­स्थत्वं सकलदेहाह्लादनं च । आत्मनः पुनः सक­ल­दे­हो­प­ल­ब्धि­मात्रं प्रत्यक्षम् , नैक­दे­श­व­र्ति­त्वम् । अनुमेयं तु तदिति यदप्युच्येत — न च अत्रानुमानं सम्भवति — किमात्मनः सकलशरीरगता वेदना त्वगि­न्द्रि­य­स्येव सकलदेहव्यापिनः सतः, किं वा विभोर्नभस इव, आहो­स्वि­च्च­न्द­न­बि­न्दो­रि­वा­णो­रे­क­दे­श­स्थस्य इति संश­या­न­ति­वृ­त्ते­रिति । अत्रोच्यते — नायं दोषः । कस्मात् ? अभ्युपगमात् । अभ्युपगम्यते हि आत्मनोऽपि चन्दनस्येव देहै­क­दे­श­वृ­त्ति­त्व­म­व­स्थि­ति­वै­शे­ष्यम् । कथमिति, उच्यते — हृदि ह्येष आत्मा पठ्यते वेदान्तेषु, ‘हृदि ह्येष आत्मा’(प्र. उ. ३ । ६) ‘स वा एष आत्मा हृदि’(छा. उ. ८ । ३ । ३) ‘कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्य­न्त­र्ज्योतिः पुरुषः’(बृ. उ. ४ । ३ । ७) इत्या­द्यु­प­दे­शेभ्यः । तस्मा­द्दृ­ष्टा­न्त­दा­र्ष्टा­न्ति­क­यो­र­वै­ष­म्यात् युक्तमेवैतत् — ‘अवि­रो­ध­श्च­न्द­न­वत्’ इति ॥ २४ ॥

गुणाद्वा लोकवत् ॥ २५ ॥

२५

चैत­न्य­गु­ण­व्या­प्तेर्वा अणोरपि सतो जीवस्य सकलदेहव्यापि कार्यं न विरुध्यते — यथा लोके मणि­प्र­दी­प­प्र­भृ­ती­ना­म­प­व­र­कै­क­दे­श­व­र्ति­ना­मपि प्रभा अपवरकव्यापिनी सती कृत्स्नेऽपवरके कार्यं करोति — तद्वत् । स्यात् कदाचिच्चन्दनस्य साव­य­व­त्वा­त्सू­क्ष्मा­व­य­व­वि­स­र्प­णे­नापि सकलदेह आह्लादयितृत्वम् । न त्वणो­र्जी­व­स्या­व­यवाः सन्ति, यैरयं सकलदेहं विप्रसर्पेत् — इत्याशङ्क्य ‘गुणाद्वा लोकवत्’ इत्युक्तम् ॥ २५ ॥

कथं पुनर्गुणो गुणि­व्य­ति­रे­के­णा­न्यत्र वर्तेत ? न हि पटस्य शुक्लो गुणः पट­व्य­ति­रे­के­णा­न्यत्र वर्तमानो दृश्यते । प्रदी­प­प्र­भा­व­द्भ­वे­दिति चेत् , न; तस्या अपि द्रव्य­त्वा­भ्यु­प­ग­मात् — निबिडावयवं हि तेजोद्रव्यं प्रदीपः, प्रविरलावयवं तु तेजोद्रव्यमेव प्रभा इति, अत उत्तरं पठति —

व्यतिरेको गन्धवत् ॥ २६ ॥

२६

यथा गुणस्यापि सतो गन्धस्य गन्ध­व­द्द्र­व्य­व्य­ति­रे­केण वृत्तिर्भवति, अप्राप्तेष्वपि कुसुमादिषु गन्धवत्सु कुसु­म­ग­न्धो­प­लब्धेः । एवमणोरपि सतो जीवस्य चैत­न्य­गु­ण­व्य­ति­रेको भविष्यति । अत­श्चा­नै­का­न्ति­क­मे­तत् — गुण­त्वा­द्रू­पा­दि­व­दा­श्र­य­वि­श्ले­षा­नु­प­प­त्ति­रिति । गुणस्यैव सतो गन्धस्य आश्र­य­वि­श्ले­ष­द­र्श­नात् । गन्धस्यापि सहैवाश्रयेण विश्लेष इति चेत् , न; यस्मा­न्मू­ल­द्र­व्या­द्वि­श्लेषः तस्य क्षयप्रसङ्गात् । अक्षीयमाणमपि तत्पू­र्वा­व­स्थातो गम्यते । अन्यथा तत्पू­र्वा­व­स्थै­र्गु­रु­त्वा­दि­भि­र्ही­येत । स्यादेतत् — गन्धाश्रयाणां विश्लि­ष्टा­ना­म­व­य­वा­ना­म­ल्प­त्वात् सन्नपि विशेषो नोपलक्ष्यते । सूक्ष्मा हि गन्धपरमाणवः सर्वतो विप्रसृता गन्ध­बु­द्धि­मु­त्पा­द­यन्ति नासि­का­पु­ट­म­नु­प्र­वि­शन्त इति चेत् , न; अती­न्द्रि­य­त्वा­त्प­र­मा­णू­नाम् , स्फुट­ग­न्धो­प­ल­ब्धेश्च नागकेसरादिषु । न च लोके प्रतीतिः — गन्ध­व­द्द्र­व्य­मा­घ्रा­त­मिति; गन्ध एव आघ्रात इति तु लौकिकाः प्रतियन्ति । रूपा­दि­ष्वा­श्र­य­व्य­ति­रे­का­नु­प­ल­ब्धे­र्ग­न्ध­स्या­प्य­युक्त आश्रयव्यतिरेक इति चेत् , न; प्रत्य­क्ष­त्वा­द­नु­मा­ना­प्र­वृत्तेः । तस्मात् यत् यथा लोके दृष्टम् , तत् तथैव अनुमन्तव्यं निरूपकैः, नान्यथा । न हि रसो गुणो जिह्वयोपलभ्यत इत्यतो रूपादयोऽपि गुणा जिह्व­यै­वो­प­ल­भ्ये­र­न्निति नियन्तुं शक्यते ॥ २६ ॥

तथा च दर्शयति ॥ २७ ॥

२७

हृद­या­य­त­न­त्व­म­णु­प­रि­मा­णत्वं च आत्मनः अभिधाय तस्यैव ‘आ लोमभ्य आ नखाग्रेभ्यः’(छा. उ. ८ । ८ । १) इति चैतन्येन गुणेन सम­स्त­श­री­र­व्या­पित्वं दर्शयति ॥ २७ ॥

पृथगुपदेशात् ॥ २८ ॥

२८

‘प्रज्ञया शरीरं समारुह्य’(कौ. उ. ३ । ६) इति च आत्मप्रज्ञयोः कर्तृकरणभावेन पृथगुपदेशात् चैतन्यगुणेनैव अस्य शरीरव्यापिता गम्यते । ‘तदेषां प्राणानां विज्ञानेन विज्ञानमादाय’(बृ. उ. २ । १ । १७) इति च कर्तुः शारी­रा­त्पृ­थ­ग्वि­ज्ञा­न­स्यो­प­देशः एत­मे­वा­भि­प्रा­य­मु­पो­द्ब­ल­यति । तस्मा­द­णु­रा­त्मेति ॥ २८ ॥

एवं प्राप्ते, ब्रूमः —

तद्गु­ण­सा­र­त्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥ २९ ॥

२९

तुशब्दः पक्षं व्यावर्तयति । नैतदस्ति — अणुरात्मेति । उत्प­त्त्य­श्र­व­णात् परस्यैव तु ब्रह्मणः प्रवेशश्रवणात् तादा­त्म्यो­प­दे­शाच्च परमेव ब्रह्म जीव इत्युक्तम् । परमेव चेद्ब्रह्म जीवः, तस्माद्यावत्परं ब्रह्म तावानेव जीवो भवितुमर्हति । परस्य च ब्रह्मणो विभु­त्व­मा­म्ना­तम् । तस्मा­द्वि­भु­र्जीवः । तथा च ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु’(बृ. उ. ४ । ४ । २२) इत्येवंजातीयका जीवविषया विभुत्ववादाः श्रौताः स्मार्ताश्च समर्थिता भवन्ति । न च अणोर्जीवस्य सकलशरीरगता वेदनोपपद्यते । त्वक्स­म्ब­न्धा­त्स्या­दिति चेत् , न; कण्टकतोदनेऽपि सकलशरीरगतैव वेदना प्रसज्येत — त्वक्क­ण्ट­क­योर्हि संयोगः कृत्स्नायां त्वचि वर्तते — त्वक्च कृत्स्न­श­री­र­व्या­पि­नीति । पादतल एव तु कण्टकनुन्ना वेदनां प्रतिलभन्ते । न च अणो­र्गु­ण­व्या­प्ति­रु­प­प­द्यते, गुणस्य गुणिदेशत्वात् । गुणत्वमेव हि गुणिनमनाश्रित्य गुणस्य हीयेत । प्रदी­प­प्र­भा­याश्च द्रव्यान्तरत्वं व्याख्यातम् । गन्धोऽपि गुण­त्वा­भ्यु­प­ग­मा­त्सा­श्रय एव सञ्चरितुमर्हति, अन्यथा गुण­त्व­हा­नि­प्र­स­ङ्गात्; तथा चोक्तं द्वैपायनेन — ‘उपलभ्याप्सु चेद्गन्धं केचि­द्ब्रू­यु­र­नै­पुणाः । पृथिव्यामेव तं विद्यादपो वायुं च संश्रितम्’ इति । यदि च चैतन्यं जीवस्य समस्तं शरीरं व्याप्नुयात् , नाणुर्जीवः स्यात्; चैतन्यमेव हि अस्य स्वरूपम् , अग्ने­रि­वौ­ष्ण्य­प्र­काशौ — नात्र गुणगुणिविभागो विद्यत इति । शरीरपरिमाणत्वं च प्रत्याख्यातम् । परि­शे­षा­द्वि­भु­र्जीवः ॥

कथं तर्हि अणु­त्वा­दि­व्य­प­देश इत्यत आह — तद्गु­ण­सा­र­त्वात्तु तद्व्यपदेश इति । तस्या बुद्धेः गुणास्तद्गुणाः — इच्छा द्वेषः सुखं दुःख­मि­त्ये­व­मा­दयः — तद्गुणाः सारः प्रधानं यस्यात्मनः संसारित्वे सम्भवति, स तद्गुणसारः, तस्य भाव­स्त­द्गु­ण­सा­र­त्वम् । न हि बुद्धे­र्गु­णै­र्विना केवलस्य आत्मनः संसारित्वमस्ति । बुद्ध्यु­पा­धि­ध­र्मा­ध्या­स­नि­मित्तं हि कर्तृ­त्व­भो­क्तृ­त्वा­दि­ल­क्षणं संसारित्वम् अक­र्तु­र­भो­क्तु­श्चा­सं­सा­रिणो नित्यमुक्तस्य सत आत्मनः । तस्मा­त्त­द्गु­ण­सा­र­त्वा­द्बु­द्धि­प­रि­मा­णे­नास्य परिमाणव्यपदेशः, तदु­त्क्रा­न्त्या­दि­भिश्च अस्यो­त्क्रा­न्त्या­दि­व्य­प­देशः, न स्वतः । तथा च — ‘वाला­ग्र­श­त­भा­गस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते’(श्वे. उ. ५ । ९) इत्यणुत्वं जीवस्योक्त्वा तस्यैव पुनरानन्त्यमाह । तच्चैवमेव समञ्जसं स्यात् — यद्यौ­प­चा­रि­क­म­णुत्वं जीवस्य भवेत् , पारमार्थिकं च आनन्त्यम् । न हि उभयं मुख्यमवकल्पेत । न च आन­न्त्य­मौ­प­चा­रि­क­मिति शक्यं विज्ञातुम् , सर्वोपनिषत्सु ब्रह्मा­त्म­भा­वस्य प्रति­पि­पा­द­यि­षि­त­त्वात् । तथे­त­र­स्मि­न्न­प्यु­न्माने ‘बुद्धे­र्गु­णे­ना­त्म­गु­णेन चैव आराग्रमात्रो ह्यवरोऽपि दृष्टः’(श्वे. उ. ५ । ८) इति च बुद्धि­गु­ण­स­म्ब­न्धे­नैव आराग्रमात्रतां शास्ति, न स्वेनैवात्मना । ‘एषोऽणुरात्मा चेतसा वेदितव्यः’(मु. उ. ३ । १ । ९) इत्यत्रापि न जीवस्य अणुपरिमाणत्वं शिष्यते, पर­स्यै­वा­त्म­न­श्च­क्षु­रा­द्य­न­व­ग्रा­ह्य­त्वेन ज्ञान­प्र­सा­द­ग­म्य­त्वेन च प्रकृतत्वात् , जीवस्यापि च मुख्या­णु­प­रि­मा­ण­त्वा­नु­प­पत्तेः । तस्मा­द्दु­र्ज्ञा­न­त्वा­भि­प्रा­य­मि­द­म­णु­त्व­व­च­नम् , उपाध्यभिप्रायं वा द्रष्टव्यम् । तथा ‘प्रज्ञया शरीरं समारुह्य’(कौ. उ. ३ । ६) इत्ये­वं­जा­ती­य­के­ष्वपि भेदोपदेशेषु — बुद्ध्यै­वो­पा­धि­भू­तया जीवः शरीरं समारुह्य — इत्येवं योजयितव्यम् , व्यपदेशमात्रं वा — शिलापुत्रकस्य शरीरमित्यादिवत् । न ह्यत्र गुण­गु­णि­वि­भा­गोऽपि विद्यत इत्युक्तम् । हृद­या­य­त­न­त्व­व­च­न­मपि बुद्धेरेव तदायतनत्वात् । तथा उत्क्रा­न्त्या­दी­ना­म­प्यु­पा­ध्या­य­त्ततां दर्शयति — ‘कस्मि­न्न्व­ह­मु­त्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रति­ष्ठा­स्या­मीति’(प्र. उ. ६ । ३)‘स प्राणमसृजत’(प्र. उ. ६ । ४) इति; उत्क्रा­न्त्य­भावे हि गत्या­ग­त्यो­र­प्य­भावो विज्ञायते । न हि अनपसृप्तस्य देहाद्गत्यागती स्याताम् । एव­मु­पा­धि­गु­ण­सा­र­त्वा­ज्जी­व­स्या­णु­त्वा­दि­व्य­प­देशः, प्राज्ञवत् । यथा प्राज्ञस्य परमात्मनः सगुणेषूपासनेषु उपा­धि­गु­ण­सा­र­त्वा­द­णी­य­स्त्वा­दि­व्य­प­देशः — ‘अणी­या­न्व्री­हेर्वा यवाद्वा’(छा. उ. ३ । १४ । ३) ‘मनोमयः प्राणशरीरः ... सर्वगन्धः सर्वरसः’ ‘सत्यकामः सत्यसङ्कल्पः’(छा. उ. ८ । ७ । १) इत्येवंप्रकारः — तद्वत् ॥ २९ ॥

स्यादेतत् — यदि बुद्धि­गु­ण­सा­र­त्वा­दा­त्मनः संसारित्वं कल्प्येत, ततो बुद्ध्या­त्म­नो­र्भि­न्नयोः संयो­गा­व­सा­न­म­व­श्यं­भा­वी­त्यतो बुद्धिवियोगे सति आत्मनो विभ­क्त­स्या­ना­ल­क्ष्य­त्वा­द­स­त्त्व­म­सं­सा­रित्वं वा प्रसज्येतेति — अत उत्तरं पठति —

याव­दा­त्म­भा­वि­त्वाच्च न दोष­स्त­द्द­र्श­नात् ॥ ३० ॥

३०

नेय­म­न­न्त­र­नि­र्दि­ष्ट­दो­ष­प्रा­प्ति­रा­श­ङ्क­नीया । कस्मात् ? याव­दा­त्म­भा­वि­त्वा­द्बु­द्धि­सं­यो­गस्य — यावदयमात्मा संसारी भवति, यावदस्य सम्यग्दर्शनेन संसारित्वं न निवर्तते, तावदस्य बुद्ध्या संयोगो न शाम्यति । यावदेव चायं बुद्ध्यु­पा­धि­स­म्बन्धः, तावदेवास्य जीवत्वं संसारित्वं च । परमार्थतस्तु न जीवो नाम बुद्ध्यु­पा­धि­प­रि­क­ल्पि­त­स्व­रू­प­व्य­ति­रे­के­णास्ति । न हि नित्य­मु­क्त­स्व­रू­पा­त्स­र्व­ज्ञा­दी­श्व­रा­द­न्य­श्चे­तनो धातुर्द्वितीयो वेदा­न्ता­र्थ­नि­रू­प­णा­या­मु­प­ल­भ्यते — ‘नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता’(बृ. उ. ३ । ७ । २३) ‘नान्यदतोऽस्ति द्रष्टृ श्रोतृ मन्तृ विज्ञातृ’(छा. उ. ३ । ८ । ११) ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) ‘अहं ब्रह्मास्मि’(बृ. उ. १ । ४ । १०) इत्या­दि­श्रु­ति­श­तेभ्यः । कथं पुनरवगम्यते यावदात्मभावी बुद्धिसंयोग इति ? तद्द­र्श­ना­दि­त्याह । तथा हि शास्त्रं दर्शयति — ‘योऽयं विज्ञानमयः प्राणेषु हृद्य­न्त­र्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) इत्यादि । तत्र विज्ञानमय इति बुद्धिमय इत्येतदुक्तं भवति, प्रदेशान्तरे ‘विज्ञानमयो मनोमयः प्राण­म­य­श्च­क्षु­र्मयः श्रोत्रमयः’ इति विज्ञानमयस्य मनआदिभिः सह पाठात् । बुद्धिमयत्वं च तद्गु­ण­सा­र­त्व­मे­वा­भि­प्रे­यते — यथा लोके स्त्रीमयो देवदत्त इति स्त्रीरा­गा­दि­प्र­धा­नोऽ­भि­धी­यते, तद्वत् । ‘स समानः सन्नुभौ लोकावनुसञ्चरति’ इति च लोका­न्त­र­ग­म­नेऽ­प्य­वि­योगं बुद्ध्या दर्शयति — केन समानः ? — तयैव बुद्ध्येति गम्यते, सन्निधानात् । तच्च दर्शयति — ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) इति । एतदुक्तं भवति — नायं स्वतो ध्यायति, नापि चलति, ध्यायन्त्यां बुद्धौ ध्यायतीव, चलन्त्यां बुद्धौ चलतीवेति । अपि च मिथ्या­ज्ञा­न­पु­रः­स­रोऽ­य­मा­त्मनो बुद्ध्यु­पा­धि­स­म्बन्धः । न च मिथ्याज्ञानस्य सम्य­ग्ज्ञा­ना­द­न्यत्र निवृ­त्ति­र­स्ती­त्यतो याव­द्ब्र­ह्मा­त्म­ता­न­व­बोधः, तावदयं बुद्ध्यु­पा­धि­स­म्बन्धो न शाम्यति । दर्शयति च — ‘वेदाहमेतं पुरुषं महा­न्त­मा­दि­त्य­वर्णं तमसः परस्तात् । तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’(श्वे. उ. ३ । ८) इति ॥ ३० ॥

ननु सुषु­प्त­प्र­ल­य­योर्न शक्यते बुद्धिसम्बन्ध आत्म­नोऽ­भ्यु­प­ग­न्तुम् , ‘सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति’(छा. उ. ६ । ८ । १) इति वचनात् , कृत्स्न­वि­का­र­प्र­ल­या­भ्यु­प­ग­माच्च । तत्कथं याव­दा­त्म­भा­वित्वं बुद्धि­स­म्ब­न्ध­स्येति, अत्रोच्यते —

पुंस्त्वा­दि­व­त्त्वस्य सतोऽ­भि­व्य­क्ति­यो­गात् ॥ ३१ ॥

३१

यथा लोके पुंस्त्वादीनि बीजात्मना विद्यमानान्येव बाल्या­दि­ष्व­नु­प­ल­भ्य­मा­ना­न्य­वि­द्य­मा­न­व­द­भि­प्रे­य­मा­णानि यौव­ना­दि­ष्वा­वि­र्भ­वन्ति । न अवि­द्य­मा­ना­न्यु­त्प­द्यन्ते, षण्डादीनामपि तदु­त्प­त्ति­प्र­स­ङ्गात् — एवमयमपि बुद्धिसम्बन्धः शक्त्यात्मना विद्यमान एव सुषुप्तप्रलययोः पुनः प्रबो­ध­प्र­स­व­यो­रा­वि­र्भ­वति । एवं हि एतद्युज्यते । न हि आकस्मिकी कस्य­चि­दु­त्पत्तिः सम्भवति, अतिप्रसङ्गात् । दर्शयति च सुषु­प्ता­दु­त्था­न­म­वि­द्या­त्म­क­बी­ज­स­द्भा­व­का­रि­तम् — ‘सति सम्पद्य न विदुः सति सम्पद्यामह इति ।’(छा. उ. ६ । ९ । २) ‘त इह व्याघ्रो वा सिꣳहो वा’(छा. उ. ६ । ९ । ३) इत्यादिना । तस्मा­त्सि­द्ध­मे­तत् — यावदात्मभावी बुद्ध्या­द्यु­पा­धि­स­म्बन्ध इति ॥ ३१ ॥

नित्यो­प­ल­ब्ध्य­नु­प­ल­ब्धि­प्र­स­ङ्गोऽ­न्य­त­र­नि­यमो वान्यथा ॥ ३२ ॥

३२

तच्चात्मन उपाधिभूतम् — अन्तःकरणं मनो बुद्धि­र्वि­ज्ञानं चित्तमिति च अनेकधा तत्र तत्राभिलप्यते । क्वचिच्च वृत्तिविभागेन — संशयादिवृत्तिकं मन इत्युच्यते, निश्च­या­दि­वृ­त्तिकं बुद्धिरिति । तच्चै­वं­भू­त­म­न्तः­क­र­ण­म­व­श्य­म­स्ती­त्य­भ्यु­प­ग­न्त­व्यम् , अन्यथा ह्यन­भ्यु­प­ग­म्य­माने तस्मि­न्नि­त्यो­प­ल­ब्ध्य­नु­प­ल­ब्धि­प्र­सङ्गः स्यात् — आत्मे­न्द्रि­य­वि­ष­या­णा­मु­प­ल­ब्धि­सा­ध­नानां सन्निधाने सति नित्य­मे­वो­प­लब्धिः प्रसज्येत । अथ सत्यपि हेतुसमवधाने फलाभावः, ततो नित्य­मे­वा­नु­प­लब्धिः प्रसज्येत । न चैवं दृश्यते । अथवा अन्यतरस्यात्मन इन्द्रियस्य वा शक्ति­प्र­ति­ब­न्धोऽ­भ्यु­प­ग­न्तव्यः । न च आत्मनः शक्तिप्रतिबन्धः सम्भवति, अविक्रियत्वात् । नापि इन्द्रियस्य । न हि तस्य पूर्वोत्तरयोः क्षण­यो­र­प्र­ति­ब­द्ध­श­क्ति­कस्य सतोऽ­क­स्मा­च्छक्तिः प्रतिबध्येत । तस्मात् यस्या­व­धा­ना­न­व­धा­ना­भ्या­मु­प­ल­ब्ध्य­नु­प­लब्धी भवतः, तन्मनः । तथा च श्रुतिः — ‘अन्यत्रमना अभूवं नाद­र्श­म­न्य­त्र­मना अभूवं नाश्रौषम्’(बृ. उ. १ । ५ । ३) इति, ‘मनसा ह्येव पश्यति मनसा शृणोति’(बृ. उ. १ । ५ । ३) इति च; कामादयश्चास्य वृत्तय इति दर्शयति — ‘कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृति­र­धृ­ति­र्ह्री­र्धी­र्भी­रि­त्ये­त­त्सर्वं मन एव’(बृ. उ. १ । ५ । ३) इति । तस्मा­द्यु­क्त­मे­तत् — तद्गु­ण­सा­र­त्वा­त्त­द्व्य­प­देश इति ॥ ३२ ॥

कर्ता शास्त्रा­र्थ­व­त्त्वात् ॥ ३३ ॥

३३

तद्गु­ण­सा­र­त्वा­धि­का­रे­णै­वा­प­रोऽपि जीवधर्मः प्रपञ्च्यते । कर्ता च अयं जीवः स्यात् । कस्मात् ? शास्त्रा­र्थ­व­त्त्वात् — एवं च ‘यजेत’ ‘जुहुयात्’ ‘दद्यात्’ इत्येवंविधं विधि­शा­स्त्र­म­र्थ­व­द्भ­वति । अन्यथा तदनर्थकं स्यात् । तद्धि कर्तुः सतः कर्त­व्य­वि­शे­ष­मु­प­दि­शति । न च असति कर्तृत्वे तदुपपद्येत । तथेदमपि शास्त्र­म­र्थ­व­द्भ­वति — ‘एष हि द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः’(प्र. उ. ४ । ९) इति ॥ ३३ ॥

विहारोपदेशात् ॥ ३४ ॥

३४

इतश्च जीवस्य कर्तृत्वम् , यज्जी­व­प्र­क्रि­यायां सन्ध्ये स्थाने विहारमुपदिशति — ‘स ईयतेऽमृतो यत्र कामम्’(बृ. उ. ४ । ३ । १२) इति, ‘स्वे शरीरे यथाकामं परिवर्तते’(बृ. उ. २ । १ । १८) इति च ॥ ३४ ॥

उपादानात् ॥ ३५ ॥

३५

इतश्चास्य कर्तृत्वम् , यज्जी­व­प्र­क्रि­या­या­मेव करणानामुपादानं सङ्कीर्तयति — ‘तदेषां प्राणानां विज्ञानेन विज्ञानमादाय’(बृ. उ. २ । १ । १७) इति, ‘प्राणा­न्गृ­हीत्वा’(बृ. उ. २ । १ । १८) इति च ॥ ३५ ॥

व्यपदेशाच्च क्रियायां न चेन्नि­र्दे­श­वि­प­र्ययः ॥ ३६ ॥

३६

इतश्च जीवस्य कर्तृत्वम् , यदस्य लौकिकीषु वैदिकीषु च क्रियासु कर्तृत्वं व्यपदिशति शास्त्रम् — ‘विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च’(तै. उ. २ । ५ । १) इति । ननु विज्ञानशब्दो बुद्धौ समधिगतः, कथमनेन जीवस्य कर्तृत्वं सूच्यत इति, नेत्युच्यते — जीवस्यैवैष निर्देशः, न बुद्धेः । न चेज्जीवस्य स्यात् , निर्देशविपर्ययः स्यात् — विज्ञा­ने­ने­त्येवं निरदेक्ष्यत् । तथा हि अन्यत्र बुद्धि­वि­व­क्षायां विज्ञानशब्दस्य कर­ण­वि­भ­क्ति­नि­र्देशो दृश्यते — ‘तदेषां प्राणानां विज्ञानेन विज्ञानमादाय’(बृ. उ. २ । १ । १७) इति । इह तु ‘विज्ञानं यज्ञं तनुते’(तै. उ. २ । ५ । १) इति कर्तृ­सा­मा­ना­धि­क­र­ण्य­नि­र्दे­शा­द्बु­द्धि­व्य­ति­रि­क्त­स्यै­वा­त्मनः कर्तृत्वं सूच्यत इत्यदोषः ॥ ३६ ॥

अत्राह — यदि बुद्धि­व्य­ति­रिक्तो जीवः कर्ता स्यात् , स स्वतन्त्रः सन् प्रियं हितं चैव आत्मनो नियमेन सम्पादयेत् , न विपरीतम् । विपरीतमपि तु सम्पा­द­य­न्नु­प­ल­भ्यते । न च स्वत­न्त्र­स्या­त्मनः ईदृशी प्रवृ­त्ति­र­नि­य­मे­नो­प­प­द्यत इति, अत उत्तरं पठति —

उपलब्धिवदनियमः ॥ ३७ ॥

३७

यथा­य­मा­त्मो­प­लब्धिं प्रति स्वतन्त्रोऽपि अनि­य­मे­ने­ष्ट­म­निष्टं च उपलभते, एव­म­नि­य­मे­नै­वे­ष्ट­म­निष्टं च सम्पादयिष्यति । उप­ल­ब्धा­व­प्य­स्वा­त­न्त्र्यम् , उप­ल­ब्धि­हे­तू­पा­दा­नो­प­ल­म्भा­दिति चेत् , न । विष­य­प्र­क­ल्प­ना­मा­त्र­प्र­यो­ज­न­त्वा­दु­प­ल­ब्धि­हे­तू­नाम् । उपलब्धौ तु अन­न्या­पे­क्ष­त्व­मा­त्मनः, चैतन्ययोगात् । अपि च अर्थक्रियायामपि नात्यन्तमात्मनः स्वात­न्त्र्य­मस्ति, देश­का­ल­नि­मि­त्त­वि­शे­षा­पे­क्ष­त्वात् । न च सहायापेक्षस्य कर्तुः कर्तृत्वं निवर्तते । भवति ह्येधो­द­का­द्य­पे­क्ष­स्यापि पक्तुः पक्तृत्वम् । सह­का­रि­वै­चि­त्र्याच्च इष्टा­नि­ष्टा­र्थ­क्रि­या­या­म­नि­य­मेन प्रवृ­त्ति­रा­त्मनो न विरुध्यते ॥ ३७ ॥

शक्तिविपर्ययात् ॥ ३८ ॥

३८

इतश्च विज्ञा­न­व्य­ति­रिक्तो जीवः कर्ता भवितुमर्हति । यदि पुन­र्वि­ज्ञा­न­श­ब्द­वाच्या बुद्धिरेव कर्त्री स्यात् , ततः शक्तिविपर्ययः स्यात् — कर­ण­श­क्ति­र्बु­द्धे­र्ही­येत, कर्तृ­श­क्ति­श्चा­प­द्येत । सत्यां च बुद्धेः कर्तृशक्तौ, तस्या एव अहं­प्र­त्य­य­वि­ष­य­त्व­म­भ्यु­प­ग­न्त­व्यम् , अहं­का­र­पू­र्वि­काया एव प्रवृत्तेः सर्वत्र दर्शनात् — ‘अहं गच्छामि, अहमागच्छामि, अहं भुञ्जे, अहं पिबामि’ इति च । तस्याश्च कर्तृ­श­क्ति­यु­क्तायाः सर्वार्थकारि कर­ण­म­न्य­त्क­ल्प­यि­त­व्यम् । शक्तोऽपि हि सन् कर्ता करणमुपादाय क्रियासु प्रवर्तमानो दृश्यत इति । ततश्च संज्ञामात्रे विवादः स्यात् , न वस्तुभेदः कश्चित् , कर­ण­व्य­ति­रि­क्तस्य कर्तृ­त्वा­भ्यु­प­ग­मात् ॥ ३८ ॥

समाध्यभावाच्च ॥ ३९ ॥

३९

योऽप्य­य­मौ­प­नि­ष­दा­त्म­प्र­ति­प­त्ति­प्र­यो­जनः समाधिरुपदिष्टो वेदान्तेषु — ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदि­ध्या­सि­तव्यः’(बृ. उ. २ । ४ । ५) ‘सोऽन्वेष्टव्यः स विजि­ज्ञा­सि­तव्यः’ ‘ओमित्येवं ध्यायथ आत्मानम्’(मु. उ. २ । २ । ६) इत्येवंलक्षणः, सोऽप्य­स­त्या­त्मनः कर्तृत्वे नोपपद्येत । तस्मादप्यस्य कर्तृत्वसिद्धिः ॥ ३९ ॥

यथा च तक्षोभयथा ॥ ४० ॥

४०

एवं ताव­च्छा­स्त्रा­र्थ­व­त्त्वा­दि­भि­र्हे­तुभिः कर्तृत्वं शारीरस्य प्रदर्शितम् । तत्पुनः स्वाभाविकं वा स्यात् , उपाधिनिमित्तं वेति चिन्त्यते । तत्रैतैरेव शास्त्रा­र्थ­व­त्त्वा­दि­भि­र्हे­तुभिः स्वाभाविकं कर्तृत्वम् , अप­वा­द­हे­त्व­भा­वा­दिति । एवं प्राप्ते, ब्रूमः — न स्वाभाविकं कर्तृत्वमात्मनः सम्भवति, अनि­र्मो­क्ष­प्र­स­ङ्गात् । कर्तृ­त्व­स्व­भा­वत्वे ह्यात्मनो न कर्तृ­त्वा­न्नि­र्मोक्षः सम्भवति — अग्ने­रि­वौ­ष्ण्यात् । न च कर्तृ­त्वा­द­नि­र्मु­क्त­स्यास्ति पुरु­षा­र्थ­सिद्धिः कर्तृत्वस्य दुःखरूपत्वात् । ननु स्थितायामपि कर्तृत्वशक्तौ कर्तृ­त्व­का­र्य­प­रि­हा­रा­त्पु­रु­षार्थः सेत्स्यति । तत्परिहारश्च निमि­त्त­प­रि­हा­रात् — यथा­ग्ने­र्द­ह­न­श­क्ति­यु­क्त­स्यापि काष्ठ­वि­यो­गा­द्द­ह­न­का­र्या­भावः — तद्वत् — न; निमित्तानामपि शक्तिलक्षणेन सम्बन्धेन सम्ब­द्धा­ना­म­त्य­न्त­प­रि­हा­रा­स­म्भ­वात् । ननु मोक्ष­सा­ध­न­वि­धा­ना­न्मोक्षः सेत्स्यति — न; साधनायत्तस्य अनित्यत्वात् । अपि च नित्य­शु­द्ध­मु­क्ता­त्म­प्र­ति­पा­द­नात् मोक्ष­सि­द्धि­र­भि­मता । तादृ­गा­त्म­प्र­ति­पा­दनं च न स्वाभाविके कर्तृ­त्वेऽ­व­क­ल्पेत । तस्मात् उपा­धि­ध­र्मा­ध्या­से­नै­वा­त्मनः कर्तृत्वम् , न स्वाभाविकम् । तथा च श्रुतिः — ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) इति ‘आत्मे­न्द्रि­य­म­नो­युक्तं भोक्ते­त्या­हु­र्म­नी­षिणः’(क. उ. १ । ३ । ४) इति च — उपा­धि­स­म्पृ­क्त­स्यै­वा­त्मनो भोक्तृ­त्वा­दि­वि­शे­ष­लाभं दर्शयति । न हि विवेकिनां परस्मादन्यो जीवो नाम कर्ता भोक्ता वा विद्यते, ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. उ. ४ । ३ । २३) इत्यादिश्रवणात् । पर एव तर्हि संसारी कर्ता भोक्ता च प्रसज्येत । पर­स्मा­द­न्य­श्चे­च्चि­ति­मा­ञ्जीवः कर्ता, बुद्ध्या­दि­स­ङ्घा­त­व्य­ति­रिक्तो न स्यात् — न, अवि­द्या­प्र­त्यु­प­स्था­पि­त­त्वा­त्क­र्तृ­त्व­भो­क्तृ­त्वयोः । तथा च शास्त्रम् — ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’(बृ. उ. २ । ४ । १४) इत्य­वि­द्या­व­स्थायां कर्तृ­त्व­भो­क्तृत्वे दर्शयित्वा, विद्यावस्थायां ते एव कर्तृ­त्व­भो­क्तृत्वे निवारयति — ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्येत्’(बृ. उ. २ । ४ । १४) इति । तथा स्वप्न­जा­ग­रि­त­यो­रा­त्मन उपा­धि­स­म्प­र्क­कृतं श्रमं श्येनस्येवाकाशे विपरिपततः श्रावयित्वा, तदभावं सुषुप्तौ प्राज्ञेनात्मना सम्परिष्वक्तस्य श्रावयति — ‘तद्वा अस्यै­त­दा­प्त­का­म­मा­त्म­का­म­म­कामं रूपं शोकान्तरम्’(बृ. उ. ४ । ३ । २१) इत्यारभ्य ‘एषास्य परमा गतिरेषास्य परमा सम्पदेषोऽस्य परमो लोक एषोऽस्य परम आनन्दः’(बृ. उ. ४ । ३ । ३२) इत्युपसंहारात् ॥

तदेतदाहाचार्यः — ‘यथा च तक्षोभयथा’ इति । त्वर्थे च अयं चः पठितः । नैवं मन्तव्यम् — स्वाभा­वि­क­मे­वा­त्मनः कर्तृत्वम् , अग्ने­रि­वौ­ष्ण्य­मिति । यथा तु तक्षा लोके वास्या­दि­क­र­ण­हस्तः कर्ता दुःखी भवति, स एव स्वगृहं प्राप्तो विमु­क्त­वा­स्या­दि­क­रणः स्वस्थो निर्वृतो निर्व्यापारः सुखी भवति — एव­म­वि­द्या­प्र­त्यु­प­स्था­पि­त­द्वै­त­स­म्पृक्त आत्मा स्वप्न­जा­ग­रि­ता­व­स्थयोः कर्ता दुःखी भवति, सः तच्छ्र­मा­प­नु­त्तये स्वमात्मानं परं ब्रह्म प्रविश्य विमु­क्त­का­र्य­क­र­ण­स­ङ्घा­तोऽ­कर्ता सुखी भवति सम्प्र­सा­दा­व­स्था­याम् — तथा मुक्त्य­व­स्था­या­म­प्य­वि­द्या­ध्वान्तं विद्याप्रदीपेन विधूय आत्मैव केवलो निर्वृतः सुखी भवति । तक्ष­दृ­ष्टा­न्त­श्चै­ता­व­तां­शेन द्रष्टव्यः — तक्षा हि विशिष्टेषु तक्ष­णा­दि­व्या­पा­रे­ष्व­पे­क्ष्यैव प्रतिनियतानि करणानि वास्यादीनि कर्ता भवति, स्वशरीरेण तु अकर्तैव । एवमयमात्मा सर्व­व्या­पा­रे­ष्व­पे­क्ष्यैव मनआदीनि करणानि कर्ता भवति, स्वात्मना तु अकर्तैवेति । न तु आत्मनस्तक्ष्ण इवावयवाः सन्ति, यैः हस्तादिभिरिव वास्यादीनि तक्षा, मनआदीनि कर­णा­न्या­त्मो­पा­द­दीत न्यस्येद्वा ॥

यत्तूक्तम् , शास्त्रा­र्थ­व­त्त्वा­दि­भि­र्हे­तुभिः स्वाभा­वि­क­मा­त्मनः कर्तृत्वमिति, तन्न — विधिशास्त्रं ताव­द्य­था­प्राप्तं कर्तृत्वमुपादाय कर्त­व्य­वि­शे­ष­मु­प­दि­शति, न कर्तृत्वमात्मनः प्रतिपादयति । न च स्वाभाविकमस्य कर्तृत्वमस्ति, ब्रह्मा­त्म­त्वो­प­दे­शात् — इत्यवोचाम । तस्मा­द­वि­द्या­कृतं कर्तृत्वमुपादाय विधिशास्त्रं प्रवर्तिष्यते । कर्ता विज्ञानात्मा पुरुषः — इत्ये­वं­जा­ती­य­क­मपि शास्त्र­म­नु­वा­द­रू­प­त्वा­द्य­था­प्रा­प्त­मे­वा­वि­द्या­कृतं कर्तृ­त्व­म­नु­व­दि­ष्यति । एतेन विहारोपादाने परिहृते, तयो­र­प्य­नु­वा­द­रू­प­त्वात् । ननु सन्ध्ये स्थाने प्रसुप्तेषु करणेषु स्वे शरीरे यथाकामं परिवर्तते — इति विहार उपदिश्यमानः केवलस्यात्मनः कर्तृत्वमावहति । तथोपादानेऽपि ‘तदेषां प्राणानां विज्ञानेन विज्ञानमादाय’(बृ. उ. २ । १ । १७) इति करणेषु कर्मकरणविभक्ती श्रूयमाणे केवलस्यात्मनः कर्तृत्वं गमयत इति । अत्रोच्यते — न तावत्सन्ध्ये स्थानेऽ­त्य­न्त­मा­त्मनः करणविरमणमस्ति, ‘सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति’(बृ. उ. ४ । ३ । ७) इति तत्रापि धीस­म्ब­न्ध­श्र­व­णात् । तथा च स्मरन्ति — ‘इन्द्रि­या­णा­मु­प­रमे मनोऽनुपरतं यदि । सेवते विषयानेव तद्वि­द्या­त्स्व­प्न­द­र्श­नम्’ इति । कामादयश्च मनसो वृत्तयः इति श्रुतिः । ताश्च स्वप्ने दृश्यन्ते । तस्मात्समना एव स्वप्ने विहरति । विहारोऽपि च तत्रत्यो वासनामय एव, न तु पार­मा­र्थि­कोऽस्ति । तथा च श्रुतिः इवकारानुबद्धमेव स्वप्नव्यापारं वर्णयति — ‘उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन्’(बृ. उ. ४ । ३ । १३) इति । लौकिका अपि तथैव स्वप्नं कथयन्ति — आरुक्षमिव गिरिशृङ्गम् , अद्राक्षमिव वनराजिमिति । तथोपादानेऽपि यद्यपि करणेषु कर्म­क­र­ण­वि­भ­क्ति­नि­र्देशः, तथापि तत्सं­पृ­क्त­स्यै­वा­त्मनः कर्तृत्वं द्रष्टव्यम् , केवले कर्तृ­त्वा­स­म्भ­वस्य दर्शितत्वात् । भवति च लोकेऽनेकप्रकारा विवक्षा — योधा युध्यन्ते, योधै राजा युध्यत इति । अपि च अस्मिन्नुपादाने कर­ण­व्या­पा­रो­प­र­म­मात्रं विवक्ष्यते, न स्वातन्त्र्यं कस्यचित् , अबु­द्धि­पू­र्व­क­स्यापि स्वापे कर­ण­व्या­पा­रो­प­र­मस्य दृष्टत्वात् । यस्त्वयं व्यपदेशो दर्शितः, ‘विज्ञानं यज्ञं तनुते’ इति, स बुद्धेरेव कर्तृत्वं प्रापयति — विज्ञानशब्दस्य तत्र प्रसिद्धत्वात् , मनोऽनन्तरं पाठाच्च, ‘तस्य श्रद्धैव शिरः’(तै. उ. २ । ४ । १) इति च विज्ञा­न­म­य­स्या­त्मनः श्रद्धा­द्य­व­य­व­त्व­स­ङ्की­र्त­नात् — श्रद्धादीनां च बुद्धि­ध­र्म­त्व­प्र­सिद्धेः, ‘विज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासते’(तै. उ. २ । ५ । १) इति च वाक्यशेषात् — ज्येष्ठत्वस्य च प्रथमजत्वस्य बुद्धौ प्रसिद्धत्वात् , ‘स एष वाच­श्चि­त्त­स्यो­त्त­रो­त्त­र­क्रमो यद्यज्ञः’ इति च श्रुत्यन्तरे यज्ञस्य वाग्बु­द्धि­सा­ध्य­त्वा­व­धा­र­णात् । न च बुद्धेः शक्तिविपर्ययः करणानां कर्तृ­त्वा­भ्यु­प­गमे भवति, सर्वकारकाणामेव स्वस्व­व्या­पा­रेषु कर्तृ­त्व­स्या­व­श्यं­भा­वि­त्वात् । उपलब्ध्यपेक्षं त्वेषां करणानां करणत्वम् । सा चात्मनः । न च तस्यामप्यस्य कर्तृत्वमस्ति, नित्यो­प­ल­ब्धि­स्व­रू­प­त्वात् । अहंकारपूर्वकमपि कर्तृत्वं नोप­ल­ब्धु­र्भ­वि­तु­म­र्हति, अहं­का­र­स्या­प्यु­प­ल­भ्य­मा­न­त्वात् । न चैवं सति कर­णा­न्त­र­क­ल्प­ना­प्र­सङ्गः, बुद्धेः कर­ण­त्वा­भ्यु­प­ग­मात् । समाध्यभावस्तु शास्त्रा­र्थ­व­त्त्वे­नैव परिहृतः, यथाप्राप्तमेव कर्तृत्वमुपादाय समाधिविधानात् । तस्मा­त्क­र्तृ­त्व­म­प्या­त्मन उपा­धि­नि­मि­त्त­मे­वेति स्थितम् ॥ ४० ॥

परात्तु तच्छ्रुतेः ॥ ४१ ॥

४१

यदि­द­म­वि­द्या­व­स्था­या­मु­पा­धि­नि­ब­न्धनं कर्तृत्वं जीवस्याभिहितम् , तत्कि­म­न­पे­क्ष्ये­श्वरं भवति, आहो­स्वि­दी­श्व­रा­पे­क्ष­मिति भवति विचारणा । तत्र प्राप्तं तावत् — नेश्वरमपेक्षते जीवः कर्तृत्व इति । कस्मात् ? अपे­क्षा­प्र­यो­ज­ना­भा­वात् । अयं हि जीवः स्वयमेव राग­द्वे­षा­दि­दो­ष­प्र­युक्तः कार­का­न्त­र­सा­म­ग्री­स­म्पन्नः कर्तृ­त्व­म­नु­भ­वितुं शक्नोति । तस्य किमीश्वरः करिष्यति । न च लोके प्रसिद्धिरस्ति — कृष्यादिकासु क्रिया­स्व­न­डु­दा­दि­वत् ईश्व­रोऽ­पे­क्षि­तव्य इति । क्लेशात्मकेन च कर्तृत्वेन जन्तून्संसृजत ईश्वरस्य नैर्घृण्यं प्रसज्येत । विषमफलं च एषां कर्तृत्वं विदधतो वैषम्यम् । ननु ‘वैष­म्य­नै­र्घृण्ये न सापेक्षत्वात्’(ब्र. सू. २ । १ । ३४) इत्युक्तम् — सत्यमुक्तम् , सति तु ईश्वरस्य सापे­क्ष­त्व­स­म्भवे; सापेक्षत्वं च ईश्वरस्य सम्भवति सतोर्जन्तूनां धर्माधर्मयोः । तयोश्च सद्भावः सति जीवस्य कर्तृत्वे । तदेव चेत्क­र्तृ­त्व­मी­श्व­रा­पेक्षं स्यात् , किंवि­ष­य­मी­श्व­रस्य सापे­क्ष­त्व­मु­च्यते । अकृ­ता­भ्या­ग­म­श्चैवं जीवस्य प्रसज्येत । तस्मात्स्वत एवास्य कर्तृत्वमिति — एतां प्राप्तिं तुशब्देन व्यावर्त्य प्रतिजानीते — परादिति । अविद्यावस्थायां कार्य­क­र­ण­स­ङ्घा­ता­वि­वे­क­द­र्शिनो जीव­स्या­वि­द्या­ति­मि­रा­न्धस्य सतः परस्मादात्मनः कर्मा­ध्य­क्षा­त्स­र्व­भू­ता­धि­वा­सा­त्सा­क्षि­ण­श्चे­त­यि­तु­री­श्व­रा­त्त­द­नु­ज्ञया कर्तृ­त्व­भो­क्तृ­त्व­ल­क्ष­णस्य संसारस्य सिद्धिः । तद­नु­ग्र­ह­हे­तु­के­नैव च विज्ञानेन मोक्ष­सि­द्धि­र्भ­वि­तु­म­र्हति । कुतः ? तच्छ्रुतेः । यद्यपि दोषप्रयुक्तः साम­ग्री­स­म्प­न्नश्च जीवः, यद्यपि च लोके कृष्यादिषु कर्मसु नेश्वरकारणत्वं प्रसिद्धम् , तथापि सर्वास्वेव प्रवृ­त्ति­ष्वी­श्वरो हेतुकर्तेति श्रुतेरवसीयते । तथा हि श्रुतिर्भवति — ‘एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष ह्येवासाधु कर्म कारयति तं यमधो निनीषते’(कौ. उ. ३ । ७) इति, ‘य आत्मनि तिष्ठ­न्ना­त्मा­न­म­न्तरो यमयति’ इति च एवंजातीयका ॥ ४१ ॥

ननु एवमीश्वरस्य कारयितृत्वे सति वैष­म्य­नै­र्घृण्ये स्याताम् , अकृताभ्यागमश्च जीवस्येति । नेत्युच्यते —

कृत­प्र­य­त्ना­पे­क्षस्तु विहि­त­प्र­ति­षि­द्धा­वै­य­र्थ्या­दिभ्यः ॥ ४२ ॥

४२

तुश­ब्द­श्चो­दि­त­दो­ष­व्या­व­र्त­नार्थः । कृतो यः प्रयत्नो जीवस्य धर्मा­ध­र्म­ल­क्षणः, तदपेक्ष एवैनमीश्वरः कारयति । ततश्चैते चोदिता दोषा न प्रसज्यन्ते — जीव­कृ­त­ध­र्मा­ध­र्म­वै­ष­म्या­पेक्ष एव तत्तत्फलानि विषमं विभजते पर्जन्यवत् ईश्वरो निमि­त्त­त्व­मा­त्रेण — यथा लोके नानाविधानां गुच्छ­गु­ल्मा­दीनां व्रीहियवादीनां च असाधारणेभ्यः स्वस्वबीजेभ्यो जायमानानां साधारणं निमित्तं भवति पर्जन्यः — न हि असति पर्जन्ये रस­पु­ष्प­फ­ल­प­ला­शा­दि­वै­षम्यं तेषां जायते, नाप्यसत्सु स्वस्वबीजेषु — एवं जीव­कृ­त­प्र­य­त्ना­पेक्ष ईश्वरः तेषां शुभाशुभं विदध्यादिति श्लिष्यते । ननु कृत­प्र­य­त्ना­पे­क्ष­त्व­मेव जीवस्य परायत्ते कर्तृत्वे नोपपद्यते — नैष दोषः; परायत्तेऽपि हि कर्तृत्वे, करोत्येव जीवः, कुर्वन्तं हि तमीश्वरः कारयति । अपि च पूर्व­प्र­य­त्न­म­पेक्ष्य इदानीं कारयति, पूर्वतरं च प्रयत्नमपेक्ष्य पूर्वमकारयदिति — अना­दि­त्वा­त्सं­सा­र­स्येति — अनवद्यम् । कथं पुनरवगम्यते — कृत­प्र­य­त्ना­पेक्ष ईश्वर इति ? विहि­त­प्र­ति­षि­द्धा­वै­य­र्थ्या­दिभ्यः इत्याह । एवं हि ‘स्वर्गकामो यजेत’ ‘ब्राह्मणो न हन्तव्यः’ इत्ये­वं­जा­ती­य­कस्य विहितस्य प्रतिषिद्धस्य च अवैयर्थ्यं भवति । अन्यथा तदनर्थकं स्यात् । ईश्वर एव विधि­प्र­ति­षे­ध­यो­र्नि­यु­ज्येत, अत्य­न्त­प­र­त­न्त्र­त्वा­ज्जी­वस्य । तथा विहि­त­का­रि­ण­म­प्य­न­र्थेन संसृजेत् , प्रति­षि­द्ध­का­रि­ण­म­प्य­र्थेन । ततश्च प्रामाण्यं वेद­स्या­स्त­मि­यात् । ईश्वरस्य च अत्य­न्ता­न­पे­क्षत्वे लौकिकस्यापि पुरुषकारस्य वैयर्थ्यम् , तथा देश­का­ल­नि­मि­त्ता­नाम् । पूर्वो­क्त­दो­ष­प्र­स­ङ्गश्च — इत्येवंजातीयकं दोष­जा­त­मा­दि­ग्र­ह­णेन दर्शयति ॥ ४२ ॥

अंशो नाना­व्य­प­दे­शा­द­न्यथा चापि दाश­कि­त­वा­दि­त्व­म­धी­यत एके ॥ ४३ ॥

४३

जीवे­श्व­र­यो­रु­प­का­र्यो­प­का­र­क­भाव उक्तः । स च सम्बद्धयोरेव लोके दृष्टः — यथा स्वामिभृत्ययोः, यथा वा अग्नि­वि­स्फु­लि­ङ्गयोः । ततश्च जीवे­श्व­र­यो­र­प्यु­प­का­र्यो­प­का­र­क­भा­वा­भ्यु­प­ग­मात् किं स्वामि­भृ­त्य­व­त्स­म्बन्धः, आहो­स्वि­द­ग्नि­वि­स्फु­लि­ङ्ग­वत् इत्यस्यां विचिकित्सायाम् अनियमो वा प्राप्नोति, अथवा स्वामि­भृ­त्य­प्र­का­रे­ष्वेव ईशि­त्री­शि­त­व्य­भा­वस्य प्रसि­द्ध­त्वा­त्त­द्विध एव सम्बन्ध इति प्राप्नोति ॥

अतो ब्रवीति अंश इति । जीव ईश्वरस्यांशो भवितुमर्हति, यथा­ग्ने­र्वि­स्फु­लिङ्गः । अंश इवांशः । न हि निरवयवस्य मुख्योंऽशः सम्भवति । कस्मात्पुनः निरवयवत्वात् स एव न भवति ? नानाव्यपदेशात् । ‘सोऽन्वेष्टव्यः स विजि­ज्ञा­सि­तव्यः’ ‘एतमेव विदित्वा मुनिर्भवति’ ‘य आत्मनि तिष्ठ­न्ना­त्मा­न­म­न्तरो यमयति’ इति च एवंजातीयको भेदनिर्देशो नासति भेदे युज्यते । ननु च अयं नानाव्यपदेशः सुतरां स्वामि­भृ­त्य­सा­रूप्ये युज्यत इति, अत आह — अन्यथा चापीति । न च नानाव्यपदेशादेव केव­ला­दं­श­त्व­प्र­ति­पत्तिः । किं तर्हि ? अन्यथा चापि व्यपदेशो भवत्यनानात्वस्य प्रतिपादकः । तथा ह्येके शाखिनो दाशकितवादिभावं ब्रह्मण आम­न­न्त्या­थ­र्व­णिका ब्रह्मसूक्ते — ‘ब्रह्म दाशा ब्रह्म दासा ब्रह्मैवेमे कितवाः’ इत्यादिना । दाशा य एते कैवर्ताः प्रसिद्धाः, ये च अमी दासाः स्वामि­ष्वा­त्मा­न­मु­प­क्ष­प­यन्ति, ये च अन्ये कितवा द्यूतकृतः, ते सर्वे ब्रह्मैव — इति हीनजन्तूदाहरणेन सर्वेषामेव नाम­रू­प­कृ­त­का­र्य­क­र­ण­स­ङ्घा­त­प्र­वि­ष्टानां जीवानां ब्रह्मत्वमाह । तथा अन्यत्रापि ब्रह्म­प्र­क्रि­या­या­मे­वा­य­मर्थः प्रपञ्च्यते — ‘त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः’(श्वे. उ. ४ । ३) इति, ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वा­भि­व­द­न्य­दास्ते’ इति च । ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. उ. ३ । ७ । २३) इत्या­दि­श्रु­ति­भ्यश्च अस्यार्थस्य सिद्धिः । चैतन्यं च अविशिष्टं जीवेश्वरयोः, यथा­ग्नि­वि­स्फु­लि­ङ्ग­यो­रौ­ष्ण्यम् । अतो भेदा­भे­दा­व­ग­मा­भ्या­मं­श­त्वा­व­गमः ॥ ४३ ॥

कुतश्च अंशत्वावगमः ? —

मन्त्रवर्णाच्च ॥ ४४ ॥

४४

मन्त्र­व­र्ण­श्चै­त­म­र्थ­म­व­ग­म­यति — ‘तावानस्य महिमा ततो ज्यायाꣳश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’(छा. उ. ३ । १२ । ६) इति । अत्र भूतशब्देन जीवप्रधानानि स्थावरजङ्गमानि निर्दिशति, ‘अहिं­स­न्स­र्व­भू­ता­न्य­न्यत्र तीर्थेभ्यः’ इति प्रयोगात्; अंशः पादो भाग इत्य­न­र्था­न्त­रम्; तस्मा­द­प्यं­श­त्वा­व­गमः ॥ ४४ ॥

कुतश्च अंशत्वावगमः ? —

अपि च स्मर्यते ॥ ४५ ॥

४५

ईश्वरगीतास्वपि च ईश्वरांशत्वं जीवस्य स्मर्यते — ‘ममैवांशो जीवलोके जीवभूतः सनातनः’(भ. गी. १५ । ७) इति । तस्मा­द­प्यं­श­त्वा­व­गमः । यत्तूक्तम् , स्वामि­भृ­त्या­दि­ष्वेव ईशि­त्री­शि­त­व्य­भावो लोके प्रसिद्ध इति — यद्यप्येषा लोके प्रसिद्धिः, तथापि शास्त्रात्तु अत्र अंशां­शि­त्व­मी­शि­त्री­शि­त­व्य­भा­वश्च निश्चीयते । निर­ति­श­यो­पा­धि­स­म्प­न्न­श्चे­श्वरो निही­नो­पा­धि­स­म्प­न्ना­ञ्जी­वान् प्रशास्तीति न किञ्चि­द्वि­प्र­ति­षि­ध्यते ॥ ४५ ॥

अत्राह — ननु जीव­स्ये­श्व­रां­श­त्वा­भ्यु­प­गमे तदीयेन संसा­र­दुः­खो­प­भो­गे­नां­शिन ईश्वरस्यापि दुःखित्वं स्यात् — यथा लोके हस्त­पा­दा­द्य­न्य­त­मा­ङ्ग­ग­तेन दुःखेन अङ्गिनो देवदत्तस्य दुःखित्वम् , तद्वत् । ततश्च तत्प्राप्तानां महत्तरं दुःखं प्राप्नुयात् । अतो वरं पूर्वावस्थः संसार एवास्तु — इति सम्य­ग्द­र्श­ना­न­र्थ­क्य­प्र­सङ्गः स्यात् — इति । अत्रोच्यते —

प्रका­शा­दि­व­न्नैवं परः ॥ ४६ ॥

४६

यथा जीवः संसा­र­दुः­ख­म­नु­भ­वति, नैवं पर ईश्वरोऽनुभवतीति प्रतिजानीमहे । जीवो हि अविद्यावेशवशात् देहा­द्या­त्म­भा­व­मिव गत्वा, तत्कृतेन दुःखेन दुःखी अहम् इति अविद्यया कृतं दुःखोपभोगम् अभिमन्यते । नैवं परमेश्वरस्य देहाद्यात्मभावो दुःखाभिमानो वा अस्ति । जीव­स्या­प्य­वि­द्या­कृ­त­ना­म­रू­प­नि­र्वृ­त्त­दे­हे­न्द्रि­या­द्यु­पा­ध्य­वि­वे­क­भ्र­म­नि­मित्त एव दुःखाभिमानः, न तु पार­मा­र्थि­कोऽस्ति । यथा च स्वदे­ह­ग­त­दा­ह­च्छे­दा­दि­नि­मित्तं दुःखं तद­भि­मा­न­भ्रा­न्त्या­नु­भ­वति, तथा पुत्र­मि­त्रा­दि­गो­च­र­मपि दुःखं तद­भि­मा­न­भ्रा­न्त्यै­वा­नु­भ­वति — अहमेव पुत्रः, अहमेव मित्रम् इत्येवं स्नेहवशेन पुत्र­मि­त्रा­दि­ष्व­भि­नि­वि­श­मानः । ततश्च निश्चि­त­मे­त­द­व­ग­म्यते — मिथ्या­भि­मा­न­भ्र­म­नि­मित्त एव दुःखानुभव इति । व्यति­रे­क­द­र्श­नाच्च एवमवगम्यते । तथा हि — पुत्र­मि­त्रा­दि­मत्सु बहुषूपविष्टेषु तत्स­म्ब­न्धा­भि­मा­नि­ष्वि­त­रेषु च, पुत्रो मृतो मित्रं मृत­मि­त्ये­व­मा­द्यु­द्घो­षिते, येषामेव पुत्र­मि­त्रा­दि­म­त्त्वा­भि­मा­न­स्ते­षा­मेव तन्निमित्तं दुःखमुत्पद्यते, न अभिमानहीनानां परि­व्रा­ज­का­दी­नाम् । अतश्च लौकिकस्यापि पुंसः सम्य­ग्द­र्श­ना­र्थ­वत्त्वं दृष्टम् , किमुत विष­य­शू­न्या­दा­त्म­नोऽ­न्य­द्व­स्त्व­न्त­र­म­प­श्यतो नित्य­चै­त­न्य­मा­त्र­स्व­रू­प­स्येति । तस्मान्नास्ति सम्य­ग्द­र्श­ना­न­र्थ­क्य­प्र­सङ्गः । प्रकाशादिवदिति निदर्शनोपन्यासः — यथा प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्य अवतिष्ठमानः अङ्गु­ल्या­द्यु­पा­धि­स­म्ब­न्धात् तेषु ऋजुवक्रादिभावं प्रतिपद्यमानेषु तत्तद्भावमिव प्रति­प­द्य­मा­नोऽपि न पर­मा­र्थ­त­स्त­द्भावं प्रतिपद्यते, यथा च आकाशो घटादिषु गच्छत्सु गच्छन्निव विभाव्यमानोऽपि न परमार्थतो गच्छति, यथा च उद­श­रा­वा­दि­क­म्प­ना­त्त­द्गते सूर्य­प्र­ति­बिम्बे कम्पमानेऽपि न तद्वान्सूर्यः कम्पते — एव­म­वि­द्या­प्र­त्यु­प­स्था­पिते बुद्ध्या­द्यु­प­हिते जीवाख्ये अंशे दुःखायमानेऽपि न तद्वानीश्वरो दुःखायते । जीवस्यापि दुःख­प्रा­प्ति­र­वि­द्या­नि­मि­त्तै­वे­त्यु­क्तम् । तथा च अवि­द्या­नि­मि­त्त­जी­व­भा­व­व्यु­दा­सेन ब्रह्मभावमेव जीवस्य प्रतिपादयन्ति वेदान्ताः — ‘तत्त्वमसि’ इत्येवमादयः । तस्मान्नास्ति जैवेन दुःखेन परमात्मनो दुःखि­त्व­प्र­सङ्गः ॥ ४६ ॥

स्मरन्ति च ॥ ४७ ॥

४७

स्मरन्ति च व्यासादयः — यथा जैवेन दुःखेन न परमात्मा दुःखायत इति; ‘तत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः ।’,‘ न लिप्यते फलैश्चापि पद्म­प­त्र­मि­वा­म्भसा । कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते ॥’,‘ स सप्तदशकेनापि राशिना युज्यते पुनः’ इति । चशब्दात् समामनन्ति च — इति वाक्यशेषः — ‘तयोरन्यः पिप्पलं स्वाद्व­त्त्य­न­श्न­न्नन्यो अभिचाकशीति’(श्वे. उ. ४ । ६) इति, ‘एकस्तथा सर्व­भू­ता­न्त­रात्मा न लिप्यते लोकदुःखेन बाह्यः’(क. उ. २ । २ । ११) इति च ॥ ४७ ॥

अत्राह — यदि तर्ह्येक एव सर्वेषां भूता­ना­म­न्त­रात्मा स्यात् , कथ­म­नु­ज्ञा­प­रि­हारौ स्यातां लौकिकौ वैदिकौ चेति । ननु च अंशो जीव ईश्वरस्य इत्युक्तम् । तद्भे­दा­च्चा­नु­ज्ञा­प­रि­हारौ तदा­श्र­या­व­व्य­ति­की­र्णा­वु­प­प­द्येते । किमत्र चोद्यत इति, उच्यते — नैतदेवम् । अनंशत्वमपि हि जीव­स्या­भे­द­वा­दिन्यः श्रुतयः प्रतिपादयन्ति — ‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्’(तै. उ. २ । ६ । १) ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. उ. ३ । ७ । २३) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’(बृ. उ. ४ । ४ । १९) ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) ‘अहं ब्रह्मास्मि’(बृ. उ. १ । ४ । १०) इत्येवंजातीयकाः । ननु भेदा­भे­दा­व­ग­मा­भ्या­मं­शत्वं सिध्य­ती­त्यु­क्तम् — स्यादेतदेवम् , यद्युभावपि भेदाभेदौ प्रति­पि­पा­द­यि­षितौ स्याताम् । अभेद एव त्वत्र प्रति­पि­पा­द­यि­षितः, ब्रह्मा­त्म­त्व­प्र­ति­पत्तौ पुरु­षा­र्थ­सिद्धेः । स्वभा­व­प्रा­प्तस्तु भेदोऽनूद्यते । न च निरवयवस्य ब्रह्मणो मुख्योंऽशो जीवः सम्भ­व­ती­त्यु­क्तम् । तस्मात्पर एवैकः सर्वेषां भूता­ना­म­न्त­रात्मा जीवभावेनावस्थित इत्यतो वक्तव्या अनु­ज्ञा­प­रि­हा­रो­प­पत्तिः । तां ब्रूमः —

अनुज्ञापरिहारौ देह­स­म्ब­न्धा­ज्ज्यो­ति­रा­दि­वत् ॥ ४८ ॥

४८

‘ऋतौ भार्यामुपेयात्’ इत्यनुज्ञा, ‘गुर्वङ्गनां नोपगच्छेत्’ इति परिहारः । तथा ‘अग्नीषोमीयं पशुं संज्ञपयेत्’ इत्यनुज्ञा, ‘न हिंस्यात्सर्वा भूतानि’ इति परिहारः । एवं लोकेऽपि मित्र­मु­प­से­वि­त­व्य­मि­त्य­नुज्ञा, शत्रुः परिहर्तव्य इति परिहारः — एवं­प्र­का­रा­व­नु­ज्ञा­प­रि­हारौ एक­त्वेऽ­प्या­त्मनः देहसम्बन्धात् स्याताम् । देहैः सम्बन्धो देहसम्बन्धः । कः पुन­र्दे­ह­स­म्बन्धः ? देहादिरयं सङ्घातोऽहमेव — इत्यात्मनि विप­री­त­प्र­त्य­यो­त्पत्तिः । दृष्टा च सा सर्वप्राणिनाम् — अहं गच्छामि अहमागच्छामि, अहमन्धः अहमनन्धः, अहं मूढः अहममूढः इत्येवमात्मिका । न हि अस्याः सम्य­ग्द­र्श­ना­द­न्य­न्नि­वा­र­क­मस्ति । प्राक्तु सम्य­ग्द­र्श­ना­त्प्र­त­तैषा भ्रान्तिः सर्वजन्तुषु । तदे­व­म­वि­द्या­नि­मि­त्त­दे­हा­द्यु­पा­धि­स­म्ब­न्ध­कृ­ता­द्वि­शे­षा­दै­का­त्म्या­भ्यु­प­ग­मेऽ­प्य­नु­ज्ञा­प­रि­हा­रा­व­व­क­ल्पेते । सम्य­ग्द­र्शि­न­स्त­र्ह्य­नु­ज्ञा­प­रि­हा­रा­न­र्थक्यं प्राप्तम् — न, तस्य कृता­र्थ­त्वा­न्नि­यो­ज्य­त्वा­नु­प­पत्तेः — हेयोपादेययोर्हि नियोज्यो नियोक्तव्यः स्यात् । आत्म­न­स्त्व­ति­रिक्तं हेयमुपादेयं वा वस्त्वपश्यन् कथं नियुज्येत । न च आत्मा आत्मन्येव नियोज्यः स्यात् । शरी­र­व्य­ति­रे­क­द­र्शिन एव नियोज्यत्वमिति चेत् , न; तत्सं­ह­त­त्वा­भि­मा­नात् — सत्यं व्यतिरेकदर्शिनो नियोज्यत्वम् । तथापि व्योमा­दि­व­द्दे­हा­द्य­सं­ह­त­त्व­म­प­श्यत एव आत्मनो नियो­ज्य­त्वा­भि­मानः । न हि देहा­द्य­सं­ह­त­त्व­द­र्शिनः कस्यचिदपि नियोगो दृष्टः, किमु­तै­का­त्म्य­द­र्शिनः । न च नियोगाभावात् सम्यग्दर्शिनो यथे­ष्ट­चे­ष्टा­प्र­सङ्गः, सर्व­त्रा­भि­मा­न­स्यैव प्रवर्तकत्वात् , अभिमानाभावाच्च सम्यग्दर्शिनः । तस्मा­द्दे­ह­स­म्ब­न्धा­दे­वा­नु­ज्ञा­प­रि­हारौ — ज्योतिरादिवत् — यथा ज्योतिष एकत्वेऽप्यग्निः क्रव्या­त्प­रि­ह्रि­यते, नेतरः । यथा च प्रकाश एकस्यापि सवि­तु­र­मे­ध्य­दे­श­स­म्बद्धः परिह्रियते, नेतरः शुचिभूमिष्ठः । यथा भौमाः प्रदेशा वज्रवैडूर्यादय उपादीयन्ते, भौमा अपि सन्तो नरकलेबरादयः परिह्रियन्ते । यथा मूत्रपुरीषं गवां पवित्रतया परिगृह्यते, तदेव जात्यन्तरे परिवर्ज्यते — तद्वत् ॥ ४८ ॥

अस­न्त­ते­श्चा­व्य­ति­करः ॥ ४९ ॥

४९

स्यातां नाम अनु­ज्ञा­प­रि­हा­रा­वे­क­स्या­प्या­त्मनो देहविशेषयोगात् । यस्त्वयं कर्मफलसम्बन्धः, स च ऐका­त्म्या­भ्यु­प­गमे व्यतिकीर्येत, स्वाम्ये­क­त्वा­दिति चेत् , नैतदेवम् , असन्ततेः । न हि कर्तु­र्भो­क्तु­श्चा­त्मनः सन्ततः सर्वैः शरीरैः सम्बन्धोऽस्ति । उपाधितन्त्रो हि जीव इत्युक्तम् । उपा­ध्य­स­न्ता­नाच्च नास्ति जीवसन्तानः — ततश्च कर्मव्यतिकरः फलव्यतिकरो वा न भविष्यति ॥ ४९ ॥

आभास एव च ॥ ५० ॥

५०

आभास एव च एष जीवः परस्यात्मनो जल­सू­र्य­का­दि­व­त्प्र­ति­प­त्तव्यः, न स एव साक्षात् , नापि वस्त्वन्तरम् । अतश्च यथा नैक­स्मि­ञ्ज­ल­सू­र्यके कम्पमाने जलसूर्यकान्तरं कम्पते, एवं नैकस्मिञ्जीवे कर्म­फ­ल­स­म्ब­न्धिनि जीवान्तरस्य तत्सम्बन्धः । एवमप्यव्यतिकर एव कर्मफलयोः । आभासस्य च अवि­द्या­कृ­त­त्वा­त्त­दा­श्र­यस्य संसा­र­स्या­वि­द्या­कृ­त­त्वो­प­प­त्ति­रिति, तद्व्युदासेन च पारमार्थिकस्य ब्रह्मा­त्म­भा­व­स्यो­प­दे­शो­प­पत्तिः । येषां तु बहव आत्मानः, ते च सर्वे सर्वगताः, तेषामेवैष व्यतिकरः प्राप्नोति । कथम् ? बहवो विभ­व­श्चा­त्मा­न­श्चै­त­न्य­मा­त्र­स्व­रूपा निर्गुणा निरतिशयाश्च । तदर्थं साधारणं प्रधानम् । तन्निमित्तैषां भोगा­प­व­र्ग­सि­द्धि­रिति साङ्ख्याः । सति बहुत्वे विभुत्वे च घटकुड्यादिसमाना द्रव्य­मा­त्र­स्व­रूपाः स्वतोऽचेतना आत्मानः, तदुपकरणानि च अणूनि मनांस्यचेतनानि, तत्र आत्मद्रव्याणां मनोद्रव्याणां च संयोगात् नव इच्छादयो वैशेषिका आत्मगुणा उत्पद्यन्ते, ते च अव्यतिकरेण प्रत्येकमात्मसु समवयन्ति, स संसारः । तेषां नवा­ना­मा­त्म­गु­णा­ना­म­त्य­न्ता­नु­त्पादो मोक्ष इति काणादाः । तत्र साङ्ख्यानां ताव­च्चै­त­न्य­स्व­रू­प­त्वा­त्स­र्वा­त्मनां सन्नि­धा­ना­द्य­वि­शे­षाच्च एकस्य सुखदुःखसम्बन्धे सर्वेषां सुखदुःखसम्बन्धः प्राप्नोति । स्यादेतत् — प्रधा­न­प्र­वृत्तेः पुरु­ष­कै­व­ल्या­र्थ­त्वा­द्व्य­वस्था भविष्यति । अन्यथा हि स्ववि­भू­ति­ख्या­प­नार्था प्रधा­न­प्र­वृत्तिः स्यात् । तथा च अनिर्मोक्षः प्रसज्येतेति — नैतत्सारम् — न हि अभि­ल­षि­त­सि­द्धि­नि­ब­न्धना व्यवस्था शक्या विज्ञातुम् । उपपत्त्या तु कया­चि­द्व्य­व­स्थो­च्येत । असत्यां पुनरुपपत्तौ कामं मा भूदभिलषितं पुरुषकैवल्यम् । प्राप्नोति तु व्यव­स्था­हे­त्व­भा­वा­द्व्य­ति­करः । काणादानामपि — यदा एकेनात्मना मनः संयुज्यते, तदा आत्मान्तरैरपि नान्तरीयकः संयोगः स्यात् , सन्नि­धा­ना­द्य­वि­शे­षात् । ततश्च हेत्व­वि­शे­षा­त्फ­ला­वि­शेष इत्येकस्यात्मनः सुखदुःखयोगे सर्वात्मनामपि समानं सुखदुःखित्वं प्रसज्येत ॥ ५० ॥

स्यादेतत् — अदृष्टनिमित्तो नियमो भविष्यतीति । नेत्याह —

अदृष्टानियमात् ॥ ५१ ॥

५१

बहु­ष्वा­त्म­स्वा­का­श­व­त्स­र्व­ग­तेषु प्रतिशरीरं बाह्या­भ्य­न्त­रा­वि­शे­षेण सन्निहितेषु मनो­वा­क्का­यै­र्ध­र्मा­ध­र्म­ल­क्ष­ण­म­दृ­ष्ट­मु­पा­र्ज्यते । साङ्ख्यानां तावत् तदनात्मसमवायि प्रधानवर्ति । प्रधा­न­सा­धा­र­ण्यान्न प्रत्यात्मं सुखदुःखोपभोगस्य नियामकमुपपद्यते । काणादानामपि पूर्व­व­त्सा­धा­र­णे­ना­त्म­म­नः­सं­यो­गेन निर्व­र्ति­त­स्या­दृ­ष्ट­स्यापि अस्यैवात्मन इदमदृष्टमिति नियमे हेत्वभावादेष एव दोषः ॥ ५१ ॥

स्यादेतत् — अहमिदं फलं प्राप्नवानि, इदं परिहराणि, इत्थं प्रयतै, इत्थं करवाणि — इत्येवंविधा अभिसन्ध्यादयः प्रत्यात्मं प्रवर्तमाना अदृ­ष्ट­स्या­त्मनां च स्वस्वामिभावं नियंस्यन्तीति; नेत्याह —

अभि­स­न्ध्या­दि­ष्वपि चैवम् ॥ ५२ ॥

५२

अभि­स­न्ध्या­दी­ना­मपि साधा­र­णे­नै­वा­त्म­म­नः­सं­यो­गेन सर्वात्मसन्निधौ क्रियमाणानां निय­म­हे­तु­त्वा­नु­प­प­त्ते­रु­क्त­दो­षा­नु­षङ्ग एव ॥ ५२ ॥

प्रदेशादिति चेन्ना­न्त­र्भा­वात् ॥ ५३ ॥

५३

अथोच्येत — विभु­त्वेऽ­प्या­त्मनः शरीरप्रतिष्ठेन मनसा संयोगः शरीरावच्छिन्न एव आत्मप्रदेशे भविष्यति; अतः प्रदेशकृता व्यवस्था अभि­स­न्ध्या­दी­ना­म­दृ­ष्टस्य सुखदुःखयोश्च भविष्यतीति । तदपि नोपपद्यते । कस्मात् ? अन्तर्भावात् । विभु­त्वा­वि­शे­षाद्धि सर्व एवात्मानः सर्व­श­री­रे­ष्व­न्त­र्भ­वन्ति । तत्र न वैशेषिकैः शरी­रा­व­च्छि­न्नोऽ­प्या­त्मनः प्रदेशः कल्पयितुं शक्यः । कल्प्य­मा­नोऽ­प्ययं निष्प्र­दे­श­स्या­त्मनः प्रदेशः काल्पनिकत्वादेव न पारमार्थिकं कार्यं नियन्तुं शक्नोति । शरीरमपि सर्वा­त्म­स­न्नि­धा­वु­त्प­द्य­मा­नम् — अस्यैव आत्मनः, नेतरेषाम् — इति न नियन्तुं शक्यम् । प्रदे­श­वि­शे­षा­भ्यु­प­ग­मेऽपि च द्वयोरात्मनोः समा­न­सु­ख­दुः­ख­भाजोः कदाचिदेकेनैव ताव­च्छ­री­रे­णो­प­भो­ग­सिद्धिः स्यात् , समा­न­प्र­दे­श­स्यापि द्वयो­रा­त्म­नो­र­दृ­ष्टस्य सम्भवात् । तथा हि — देवदत्तो यस्मिन्प्रदेशे सुखदुःखमन्वभूत् , तस्मा­त्प्र­दे­शा­द­प­क्रान्ते तच्छरीरे, यज्ञदत्तशरीरे च तं प्रदे­श­म­नु­प्राप्ते, तस्यापि इतरेण समानः सुखदुःखानुभवो दृश्यते । स न स्यात् , यदि देव­द­त्त­य­ज्ञ­द­त्तयोः समा­न­प्र­दे­श­म­दृष्टं न स्यात् । स्वर्गा­द्य­नु­प­भो­ग­प्र­स­ङ्गश्च प्रदेशवादिनः स्यात् , ब्राह्म­णा­दि­श­री­र­प्र­दे­शे­ष्व­दृ­ष्ट­नि­ष्पत्तेः प्रदे­शा­न्त­र­व­र्ति­त्वाच्च स्वर्गा­द्यु­प­भो­गस्य । सर्व­ग­त­त्वा­नु­प­प­त्तिश्च बहूनामात्मनाम् , दृष्टा­न्ता­भा­वात् । वद तावत् त्वम् — के बहवः समा­न­प्र­दे­शा­श्चेति । रूपादय इति चेत् , न; तेषामपि धर्म्यं­शे­ना­भे­दात् , लक्षणभेदाच्च — न तु बहूनामात्मनां लक्षणभेदोऽस्ति । अन्त्य­वि­शे­ष­व­शा­द्भे­दो­प­प­त्ति­रिति चेत् , न; भेदकल्पनाया अन्त्य­वि­शे­ष­क­ल्प­ना­याश्च इत­रे­त­रा­श्र­य­त्वात् । आकाशादीनामपि विभुत्वं ब्रह्म­वा­दि­नोऽ­सि­द्धम् , कार्य­त्वा­भ्यु­प­ग­मात् । तस्मा­दा­त्मै­क­त्व­पक्ष एव सर्वदोषाभाव इति सिद्धम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ शारी­र­क­मी­मां­सा­सू­त्र­भाष्ये द्विती­या­ध्या­यस्य तृतीयः पादः ॥

चतुर्थः पादः

वियदादिविषयः श्रुति­वि­प्र­ति­षे­ध­स्तृ­ती­येन पादेन परिहृतः । चतुर्थेन इदानीं प्राणविषयः परिह्रियते । तत्र तावत् — ‘तत्तेजोऽसृजत’(छा. उ. ६ । २ । ३) इति, ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’(तै. उ. २ । १ । १) इति च एवमादिषु उत्प­त्ति­प्र­क­र­णेषु प्राणा­ना­मु­त्प­त्तिर्न आम्नायते । क्वचि­च्चा­नु­त्प­त्ति­रेव एषामाम्नायते, ‘असद्वा इदमग्र आसीत्’(तै. उ. २ । ७ । १) । तदाहुः किं तद­स­दा­सी­दि­त्यृ­षयो वाव तेऽग्रेऽसदासीत् । तदाहुः के ते ऋषय इति । प्राणा वाव ऋषयः’ — इत्यत्र प्रागुत्पत्तेः प्राणानां सद्भावश्रवणात् । अन्यत्र तु प्राणा­ना­म­प्यु­त्पत्तिः पठ्यते — ‘यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्च­र­न्त्ये­व­मे­वा­स्मा­दा­त्मनः सर्वे प्राणाः’ इति, ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’(मु. उ. २ । १ । ३) इति, ‘सप्त प्राणाः प्रभवन्ति तस्मात्’(मु. उ. २ । १ । ८) इति, ‘स प्राणमसृजत प्राणा­च्छ्रद्धां खं वायु­र्ज्यो­ति­रापः पृथिवीन्द्रियं मनोऽन्नम्’(प्र. उ. ६ । ४) इति च एवमादिप्रदेशेषु । तत्र श्रुति­वि­प्र­ति­षे­धा­द­न्य­त­र­नि­र्धा­र­ण­का­र­णा­नि­रू­प­णाच्च अप्रतिपत्तिः प्राप्नोति । अथवा प्रागुत्पत्तेः सद्भा­व­श्र­व­णा­द्गौणी प्राणा­ना­मु­त्प­त्ति­श्रु­ति­रिति प्राप्नोति । अत उत्तरमिदम् पठति —

तथा प्राणाः ॥ १ ॥

तथा प्राणा इति । कथं पुनरत्र तथा इत्य­क्ष­रा­नु­लो­म्यम् , प्रकृ­तो­प­मा­ना­भा­वात् — सर्व­ग­ता­त्म­ब­हु­त्व­वा­दि­दू­ष­णम् अती­ता­न­न्त­र­पा­दान्ते प्रकृतम् । तत्तावन्नोपमानं सम्भवति, सादृश्याभावात् । सादृश्ये हि सति उपमानं स्यात् — यथा सिंहस्तथा बलवर्मेति । अदृ­ष्ट­सा­म्य­प्र­ति­पा­द­ना­र्थ­मिति यद्युच्येत — यथा अदृष्टस्य सर्वा­त्म­स­न्नि­धा­वु­त्प­द्य­मा­न­स्या­नि­य­त­त्वम् , एवं प्राणानामपि सर्वात्मनः प्रत्य­नि­य­त­त्व­मिति — तदपि देहा­नि­य­मे­नै­वो­क्त­त्वा­त्पु­न­रुक्तं भवेत् । न च जीवेन प्राणा उपमीयेरन् , सिद्धा­न्त­वि­रो­धात् — जीवस्य हि अनु­त्प­त्ति­रा­ख्याता, प्राणानां तु उत्प­त्ति­रा­चि­ख्या­सिता । तस्मात्तथा इत्यसम्बद्धमिव प्रतिभाति — न । उदा­ह­र­णो­पा­त्ते­ना­प्यु­प­मा­नेन सम्बन्धोपपत्तेः । अत्र प्राणो­त्प­त्ति­वा­दि­वा­क्य­जा­त­मु­दा­ह­र­णम् — ‘अस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति’(बृ. उ. २ । १ । २०) इत्येवंजातीयकम् । तत्र यथा लोकादयः परस्माद्ब्रह्मण उत्पद्यन्ते, तथा प्राणा अपीत्यर्थः । तथा — ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायु­र्ज्यो­ति­रापः पृथिवी विश्वस्य धारिणी’(मु. उ. २ । १ । ३) इत्येवमादिष्वपि खादि­व­त्प्रा­णा­ना­मु­त्प­त्ति­रिति द्रष्टव्यम् । अथवा ‘पानव्यापच्च तद्वत्’(जै. सू. ३ । ४ । १५) इत्येवमादिषु व्यव­हि­तो­प­मा­न­स­म्ब­न्ध­स्या­प्या­श्रि­त­त्वात् — यथा अती­ता­न­न्त­र­पा­दा­दा­वुक्ता वियदादयः परस्य ब्रह्मणो विकाराः समधिगताः, तथा प्राणा अपि परस्य ब्रह्मणो विकारा इति योजयितव्यम् । कः पुनः प्राणानां विकारत्वे हेतुः ? श्रुतत्वमेव । ननु केषु­चि­त्प्र­दे­शेषु न प्राणा­ना­मु­त्पत्तिः श्रूयत इत्युक्तम् — तदयुक्तम् , प्रदेशान्तरेषु श्रवणात् । न हि क्वचि­द­श्र­व­ण­म­न्यत्र श्रुतं निवा­र­यि­तु­मु­त्स­हते । तस्मा­च्छ्रु­त­त्वा­वि­शे­षा­दा­का­शा­दि­व­त्प्राणा अप्युत्पद्यन्त इति सूक्तम् ॥ १ ॥

गौण्यसम्भवात् ॥ २ ॥

यत्पुनरुक्तं प्रागुत्पत्तेः सद्भा­व­श्र­व­णा­द्गौणी प्राणा­ना­मु­त्प­त्ति­श्रु­ति­रिति, तत्प्रत्याह — गौण्यसम्भवादिति । गौण्या असम्भवो गौण्यसम्भवः — न हि प्राणा­ना­मु­त्प­त्ति­श्रु­ति­र्गौणी सम्भवति, प्रति­ज्ञा­हा­नि­प्र­स­ङ्गात् — ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’(मु. उ. १ । १ । ३) इति हि एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तत्सा­ध­ना­ये­द­मा­म्ना­यते ‘एतस्माज्जायते प्राणः’(मु. उ. २ । १ । ३) इत्यादि । सा च प्रतिज्ञा प्राणादेः समस्तस्य जगतो ब्रह्मविकारत्वे सति प्रकृ­ति­व्य­ति­रे­केण विका­रा­भा­वा­त्सि­ध्यति । गौण्यां तु प्राणा­ना­मु­त्प­त्ति­श्रुतौ प्रतिज्ञा इयं हीयेत । तथा च प्रति­ज्ञा­ता­र्थ­मु­प­सं­ह­रति — ‘पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्’(मु. उ. २ । १ । १०) इति, ‘ब्रह्मैवेदं विश्वमिदं वरिष्ठम्’(मु. उ. २ । २ । १२) इति च । तथा ‘आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदꣳ सर्वं विदितम्’ इत्ये­वं­जा­ती­य­कासु श्रुतिषु एषैव प्रतिज्ञा योजयितव्या । कथं पुनः प्रागुत्पत्तेः प्राणानां सद्भावश्रवणम् ? नैत­न्मू­ल­प्र­कृ­ति­वि­ष­यम् , ‘अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः’(मु. उ. २ । १ । २) इति मूलप्रकृतेः प्राणा­दि­स­म­स्त­वि­शे­ष­र­हि­त­त्वा­व­धा­र­णात् । अवा­न्त­र­प्र­कृ­ति­वि­षयं त्वेतत् स्वविकारापेक्षं प्रागुत्पत्तेः प्राणानां सद्भा­वा­व­धा­र­ण­मिति द्रष्टव्यम् , व्याकृ­त­वि­ष­या­णा­मपि भूय­सी­ना­म­व­स्थानां श्रुतिस्मृत्योः प्रकृ­ति­वि­का­र­भा­व­प्र­सिद्धेः । वियदधिकरणे हि ‘गौण्यसम्भवात्’ इति पूर्व­प­क्ष­सू­त्र­त्वात् — गौणी जन्मश्रुतिः, असम्भवात् — इति व्याख्यातम् । प्रतिज्ञाहान्या च तत्र सिद्धा­न्तोऽ­भि­हितः । इह तु सिद्धा­न्त­सू­त्र­त्वात् — गौण्या जन्म­श्रु­ते­र­स­म्भ­वात् — इति व्याख्यातम् । तदनुरोधेन तु इहापि — गौणी जन्मश्रुतिः, असम्भवात् — इति व्याचक्षाणैः प्रति­ज्ञा­हा­नि­रु­पे­क्षिता स्यात् ॥ २ ॥

तत्प्रा­क्श्रु­तेश्च ॥ ३ ॥

इतश्च आकाशादीनामिव प्राणानामपि मुख्यैव जन्मश्रुतिः — यत् ‘जायते’ इत्येकं जन्मवाचिपदं प्राणेषु प्राक्श्रुतं सत् उत्त­रे­ष्व­प्या­का­शा­दि­ष्व­नु­व­र्तते ‘एतस्माज्जायते प्राणः’(मु. उ. २ । १ । ३) इत्यत्र आकाशादिषु मुख्यं जन्मेति प्रतिष्ठापितम् । तत्सा­मा­न्या­त्प्रा­णे­ष्वपि मुख्यमेव जन्म भवितुमर्हति । न हि एकस्मिन्प्रकरणे एकस्मिंश्च वाक्ये एकः शब्दः सकृदुच्चरितो बहुभिः सम्बध्यमानः क्वचिन्मुख्यः क्वचिद्गौण इत्यध्यवसातुं शक्यम् , वैरू­प्य­प्र­स­ङ्गात् । तथा ‘स प्राणमसृजत प्राणा­च्छ्र­द्धाम्’(प्र. उ. ६ । ४) इत्यत्रापि प्राणेषु श्रुतः सृजतिः परे­ष्व­प्यु­त्प­त्ति­मत्सु श्रद्धा­दि­ष्व­नु­ष­ज्यते । यत्रापि पश्चाच्छ्रुत उत्पत्तिवचनः शब्दः पूर्वैः सम्बध्यते, तत्राप्येष एव न्यायः — यथा ‘सर्वाणि भूतानि व्युच्चरन्ति’ इत्ययमन्ते पठितो व्युच्च­र­न्ति­शब्दः पूर्वैरपि प्राणादिभिः सम्बध्यते ॥ ३ ॥

तत्पू­र्व­क­त्वा­द्वाचः ॥ ४ ॥

यद्यपि ‘तत्तेजोऽसृजत’(छा. उ. ६ । २ । ३) इत्ये­त­स्मि­न्प्र­क­रणे प्राणा­ना­मु­त्प­त्तिर्न पठ्यते, तेजोबन्नानामेव त्रयाणां भूता­ना­मु­त्प­त्ति­श्र­व­णात् । तथापि ब्रह्म­प्र­कृ­ति­क­ते­जो­ब­न्न­पू­र्व­क­त्वा­भि­धा­ना­द्वा­क्प्रा­ण­म­न­साम् , तत्सामान्याच्च सर्वेषामेव प्राणानां ब्रह्मप्रभवत्वं सिद्धं भवति । तथा हि — अस्मिन्नेव प्रकरणे तेजो­ब­न्न­पू­र्व­कत्वं वाक्प्रा­ण­म­न­सा­मा­म्ना­यते — ‘अन्नमयꣳ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्’(छा. उ. ६ । ५ । ४) इति । तत्र यदि ताव­न्मु­ख्य­मे­वै­षा­म­न्ना­दि­म­य­त्वम् , ततो वर्तत एव ब्रह्म­प्र­भ­व­त्वम् । अथ भाक्तम् , तथापि ब्रह्म­क­र्तृ­कायां नाम­रू­प­व्या­क्रि­यायां श्रवणात् , ‘येनाश्रुतꣳ श्रुतं भवति’(छा. उ. ६ । १ । ३) इति चोपक्रमात् ‘ऐतदात्म्यमिदꣳ सर्वम्’(छा. उ. ६ । ८ । ७) इति चोपसंहारात् , श्रुत्य­न्त­र­प्र­सि­द्धेश्च ब्रह्म­का­र्य­त्व­प्र­प­ञ्च­ना­र्थ­मेव मन­आ­दी­ना­म­न्ना­दि­म­य­त्व­व­च­न­मिति गम्यते । तस्मादपि प्राणानां ब्रह्म­वि­का­र­त्व­सिद्धिः ॥ ४ ॥

सप्त गते­र्वि­शे­षि­त­त्वाच्च ॥ ५ ॥

उत्पत्तिविषयः श्रुति­वि­प्र­ति­षेधः प्राणानां परिहृतः । संख्याविषय इदानीं परिह्रियते । तत्र मुख्यं प्राण­मु­प­रि­ष्टा­द्व­क्ष्यति । सम्प्रति तु कति इतरे प्राणा इति सम्प्रधारयति । श्रुति­वि­प्र­ति­प­त्ते­श्चात्र विशयः — क्वचित्सप्त प्राणाः सङ्कीर्त्यन्ते — ‘सप्त प्राणाः प्रभवन्ति तस्मात्’(मु. उ. २ । १ । ८)‘सप्त प्राणाः प्रभवन्ति तस्मात्’(मु. उ. २ । १ । ८) इति; क्वचिदष्टौ प्राणा ग्रहत्वेन गुणेन सङ्कीर्त्यन्ते — ‘अष्टो ग्रहा अष्टावतिग्रहाः’(बृ. उ. ३ । २ । १) इति; क्वचिन्नव — ‘सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौ’(तै. सं. ५ । १ । ७ । १) इति; क्वचिद्दश — ‘नव वै पुरुषे प्राणा नाभिर्दशमी’ इति; क्वचिदेकादश — ‘दशेमे पुरुषे प्राणा आत्मैकादशः’(बृ. उ. ३ । ९ । ४) इति; क्वचिद्द्वादश — ‘सर्वेषाꣳ स्पर्शानां त्वगेकायनम्’(बृ. उ. २ । ४ । ११) इत्यत्र; क्वचित्त्रयोदश — ‘चक्षुश्च द्रष्टव्यं च’(प्र. उ. ४ । ८) इत्यत्र — एवं हि विप्रतिपन्नाः प्राणेयत्तां प्रति श्रुतयः । किं तावत्प्राप्तम् ? सप्तैव प्राणा इति । कुतः ? गतेः; यत­स्ता­व­न्तोऽ­व­ग­म्यन्ते ‘सप्त प्राणाः प्रभवन्ति तस्मात्’ इत्येवंविधासु श्रुतिषु, विशेषिताश्चैते ‘सप्त वै शीर्षण्याः प्राणाः’ इत्यत्र । ननु ‘प्राणा गुहाशया निहिताः सप्त सप्त’ इति वीप्सा श्रूयते; सा सप्त­भ्योऽ­ति­रि­क्ता­न्प्रा­णा­न्ग­म­य­तीति — नैष दोषः । पुरु­ष­भे­दा­भि­प्रा­येयं वीप्सा — प्रतिपुरुषं सप्त सप्त प्राणा इति; न तत्त्व­भे­दा­भि­प्राया — सप्त सप्त अन्येऽन्ये प्राणा इति । नन्व­ष्ट­त्वा­दि­कापि संख्या प्राणेषु उदाहृता; कथं सप्तैव स्युः ? सत्यमुदाहृता; विरो­धा­त्त्व­न्य­तमा संख्या अध्यवसातव्या । तत्र स्तोक­क­ल्प­ना­नु­रो­धा­त्स­प्त­सं­ख्या­ध्य­व­सा­नम् । वृत्ति­भे­दा­पेक्षं च संख्या­न्त­र­श्र­व­ण­मिति मन्यते ॥ ५ ॥

अत्रोच्यते —

हस्तादयस्तु स्थितेऽतो नैवम् ॥ ६ ॥

हस्तादयस्त्वपरे सप्त­भ्योऽ­ति­रिक्ताः प्राणाः श्रूयन्ते — ‘हस्तौ वै ग्रहः स कर्मणातिग्राहेण गृहीतो हस्ताभ्यां हि कर्म करोति’(बृ. उ. ३ । २ । ८) इत्येवमाद्यासु श्रुतिषु । स्थिते च सप्तत्वातिरेके सप्त­त्व­म­न्त­र्भा­वा­च्छ­क्यते सम्भावयितुम् । हीना­धि­क­सं­ख्या­वि­प्र­ति­पत्तौ हि अधिका संख्या सङ्ग्राह्या भवति । तस्यां हीना अन्तर्भवति, न तु हीनायामधिका । अतश्च नैवं मन्तव्यम् — स्तोक­क­ल्प­ना­नु­रो­धा­त्स­प्तैव प्राणाः स्युरिति । उत्त­र­सं­ख्या­नु­रो­धात्तु एकादशैव ते प्राणाः स्युः । तथा च उदाहृता श्रुतिः — ‘दशेमे पुरुषे प्राणा आत्मैकादशः’(बृ. उ. ३ । ९ । ४) इति; आत्मशब्देन च अत्र अन्तःकरणं परिगृह्यते, करणाधिकारात् । नन्वे­का­द­श­त्वा­द­प्य­धिके द्वाद­श­त्र­यो­द­शत्वे उदाहृते — सत्यमुदाहृते । न त्वेकादशभ्यः कार्य­जा­ते­भ्योऽ­धिकं कार्यजातमस्ति, यदर्थमधिकं करणं कल्प्येत । शब्द­स्प­र्श­रू­प­र­स­ग­न्ध­वि­षयाः पञ्च बुद्धिभेदाः, तदर्थानि पञ्च बुद्धी­न्द्रि­याणि । वच­ना­दा­न­वि­ह­र­णो­त्स­र्गा­नन्दाः पञ्च कर्मभेदाः, तदर्थानि च पञ्च कर्मेन्द्रियाणि । सर्वार्थविषयं त्रैकाल्यवृत्ति मनस्तु एकम् अनेकवृत्तिकम् । तदेव वृत्तिभेदात् क्वचि­द्भि­न्न­व­द्व्य­प­दि­श्यते — ‘मनो बुद्धि­र­हं­का­र­श्चित्तं च’ इति । तथा च श्रुतिः कामाद्या नानाविधा वृत्ती­र­नु­क्र­म्याह — ‘एतत्सर्वं मन एव’(बृ. उ. १ । ५ । ३) इति । अपि च सप्तैव शीर्ष­ण्या­न्प्रा­णा­न­भि­म­न्य­मा­नस्य चत्वार एव प्राणा अभिमताः स्युः । स्थान­भे­दा­द्ध्येते चत्वारः सन्तः सप्त गण्यन्ते — ‘द्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके एका वाक्’ इति । न च तावतामेव वृत्तिभेदा इतरे प्राणा इति शक्यते वक्तुम् , हस्ता­दि­वृ­त्ती­ना­म­त्य­न्त­वि­जा­ती­य­त्वात् । तथा ‘नव वै पुरुषे प्राणा नाभिर्दशमी’ इत्यत्रापि देह­च्छि­द्र­भे­दा­भि­प्रा­ये­णैव दश प्राणा उच्यन्ते, न प्राण­त­त्त्व­भे­दा­भि­प्रा­येण, ‘नाभिर्दशमी’ इति वचनात् । न हि नाभिर्नाम कश्चित्प्राणः प्रसिद्धोऽस्ति । मुख्यस्य तु प्राणस्य भवति नाभिरप्येकं विशेषायतनमिति — अतो ‘नाभिर्दशमी’ इत्युच्यते । क्वचि­दु­पा­स­नार्थं कतिचित्प्राणा गण्यन्ते, क्वचि­त्प्र­द­र्श­ना­र्थम् । तदेवं विचित्रे प्राणे­य­त्ता­म्नाने सति, क्व किंपरम् आम्नानमिति विवेक्तव्यम् । कार्य­जा­त­व­शा­त्त्वे­का­द­श­त्वा­म्नानं प्राणविषयं प्रमाणमिति स्थितम् ॥

इयमपरा सूत्रद्वययोजना — सप्तैव प्राणाः स्युः, यतः सप्तानामेव गतिः श्रूयते — ‘तमुत्क्रामन्तं प्राणोऽ­नू­त्क्रा­मति प्राण­म­नू­त्क्रा­मन्तं सर्वे प्राणा अनूत्क्रामन्ति’(बृ. उ. ४ । ४ । २) इत्यत्र । ननु सर्वशब्दोऽत्र पठ्यते, तत्कथं सप्तानामेव गतिः प्रतिज्ञायत इति ? विशे­षि­त­त्वा­दि­त्याह — सप्तैव हि प्राणा­श्च­क्षु­रा­द­य­स्त्व­क्प­र्यन्ता विशेषिता इह प्रकृताः ‘स यत्रैष चाक्षुषः पुरुषः परा­ङ्प­र्या­व­र्त­तेऽ­था­रू­पज्ञो भवति’(बृ. उ. ४ । ४ । १) ‘एकीभवति न पश्यतीत्याहुः’(बृ. उ. ४ । ४ । २) इत्येवमादिना अनुक्रमणेन । प्रकृतगामी च सर्वशब्दो भवति; यथा सर्वे ब्राह्मणा भोजयितव्या इति ये निमन्त्रिताः प्रकृता ब्राह्मणास्त एव सर्व­श­ब्दे­नो­च्यन्ते, नान्ये — एवमिहापि ये प्रकृताः सप्त प्राणास्त एव सर्व­श­ब्दे­नो­च्यन्ते, नान्य इति । नन्वत्र विज्ञा­न­म­ष्ट­म­म­नु­क्रा­न्तम्; कथं सप्ता­ना­मे­वा­नु­क्र­म­णम् ? नैष दोषः । मनो­वि­ज्ञा­न­यो­स्त­त्त्वा­भे­दा­द्वृ­त्ति­भे­देऽपि सप्तत्वोपपत्तेः । तस्मात्सप्तैव प्राणा इति । एवं प्राप्ते, ब्रूमः — हस्तादयस्त्वपरे सप्त­भ्योऽ­ति­रिक्ताः प्राणाः प्रतीयन्ते ‘हस्तो वै ग्रहः’(बृ. उ. ३ । २ । ८) इत्यादिश्रुतिषु । ग्रहत्वं च बन्धनभावः, गृह्यते बध्यते क्षेत्रज्ञः अनेन ग्रहसंज्ञकेन बन्धनेनेति । स च क्षेत्रज्ञो नैकस्मिन्नेव शरीरे बध्यते, शरीरान्तरेष्वपि तुल्य­त्वा­द्ब­न्ध­नस्य । तस्मा­च्छ­री­रा­न्त­र­स­ञ्चारि इदं ग्रहसंज्ञकं बन्धनम् इत्यर्थादुक्तं भवति । तथा च स्मृतिः — ‘पुर्यष्टकेन लिङ्गेन प्राणाद्येन स युज्यते । तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च’ इति प्राङ्मोक्षात् ग्रहसंज्ञकेन बन्धनेन अवियोगं दर्शयति । आथर्वणे च विष­ये­न्द्रि­या­नु­क्र­मणे ‘चक्षुश्च द्रष्टव्यं च’(प्र. उ. ४ । ८) इत्यत्र तुल्य­व­द्ध­स्ता­दी­नी­न्द्रि­याणि सवि­ष­या­ण्य­नु­क्रा­मति — ‘हस्तौ चादातव्यं चोप­स्थ­श्चा­न­न्द­यि­तव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च’(प्र. उ. ४ । ८) इति । तथा ‘दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदा­स्मा­च्छ­री­रा­न्म­र्त्या­दु­त्क्रा­म­न्त्यथ रोदयन्ति’(बृ. उ. ३ । ९ । ४) इत्येकादशानां प्राणा­ना­मु­त्क्रान्तिं दर्शयति । सर्वशब्दोऽपि च प्राणशब्देन सम्ब­ध्य­मा­नोऽ­शे­षा­न्प्रा­णा­न­भि­द­धानो न प्रकरणवशेन सप्त­स्वे­वा­व­स्था­प­यितुं शक्यते, प्रक­र­णा­च्छ­ब्दस्य बलीयस्त्वात् । सर्वे ब्राह्मणा भोजयितव्याः इत्यत्रापि सर्वेषामेव अवनिवर्तिनां ब्राह्मणानां ग्रहणं न्याय्यम् , सर्व­श­ब्द­सा­म­र्थ्यात् । सर्व­भो­ज­ना­स­म्भ­वात्तु तत्र निम­न्त्रि­त­मा­त्र­वि­षया सर्वशब्दस्य वृत्तिराश्रिता । इह तु न किञ्चि­त्स­र्व­श­ब्दा­र्थ­स­ङ्को­चने कारणमस्ति । तस्मा­त्स­र्व­श­ब्देन अत्र अशेषाणां प्राणानां परिग्रहः । प्रदर्शनार्थं च सप्ता­ना­म­नु­क्र­म­ण­मि­त्य­न­व­द्यम् । तस्मादेकादशैव प्राणाः — शब्दतः कार्यतश्चेति सिद्धम् ॥ ६ ॥

अणवश्च ॥ ७ ॥

अधुना प्राणानामेव स्वभा­वा­न्त­र­म­भ्यु­च्चि­नोति । अणवश्चैते प्रकृताः प्राणाः प्रतिपत्तव्याः । अणुत्वं चैषां सौक्ष्म्य­प­रि­च्छेदौ, न पर­मा­णु­तु­ल्य­त्वम् , कृत्स्न­दे­ह­व्या­पि­का­र्या­नु­प­प­त्ति­प्र­स­ङ्गात् — सूक्ष्मा एते प्राणाः, स्थूला­श्चेत्स्युः — मरणकाले शरी­रा­न्नि­र्ग­च्छन्तः, बिलादहिरिव, उपलभ्येरन् म्रियमाणस्य पार्श्वस्थैः । परि­च्छि­न्ना­श्चैते प्राणाः, सर्व­ग­ता­श्चेत्स्युः — उत्क्रा­न्ति­ग­त्या­ग­ति­श्रु­ति­व्या­कोपः स्यात् , तद्गुणसारत्वं च जीवस्य न सिध्येत् । सर्वगतानामपि वृत्तिलाभः शरीरदेशे स्यादिति चेत् , न, वृत्तिमात्रस्य करणत्वोपपत्तेः । यदेव हि उपलब्धिसाधनम् — वृत्तिः अन्यद्वा — तस्यैव नः करणत्वम् , संज्ञामात्रे विवादः इति करणानां व्यापित्वकल्पना निरर्थिका । तस्मा­त्सूक्ष्माः परिच्छिन्नाश्च प्राणा इत्यध्यवस्यामः ॥ ७ ॥

श्रेष्ठश्च ॥ ८ ॥

मुख्यश्च प्राण इत­र­प्रा­ण­व­द्ब्र­ह्म­वि­कारः — इत्यतिदिशति । तच्च अविशेषेणैव सर्वप्राणानां ब्रह्म­वि­का­र­त्व­मा­ख्या­तम् — ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’(मु. उ. २ । १ । ३) इति सेन्द्रि­य­म­नो­व्य­ति­रे­केण प्राण­स्यो­त्प­त्ति­श्र­व­णात् , ‘स प्राणमसृजत’(प्र. उ. ६ । ४) इत्या­दि­श्र­व­णे­भ्यश्च । किमर्थः पुनरतिदेशः ? अधि­का­श­ङ्का­पा­क­र­णार्थः — नासदासीये हि ब्रह्मप्रधाने सूक्ते मन्त्रवर्णो भवति — ‘न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः । आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनास’(ऋ. सं. ८ । ७ । १७) इति । ‘आनीत्’ इति प्राण­क­र्मो­पा­दा­नात् प्रागुत्पत्तेः सन्तमिव प्राणं सूचयति । तस्मादजः प्राण इति जायते कस्यचिन्मतिः; ताम­ति­दे­शे­ना­प­नु­दति । आनीच्छब्दोऽपि न प्रागुत्पत्तेः प्राणसद्भावं सूचयति, ‘अवातम्’ इति विशेषणात् , ‘अप्राणो ह्यमनाः शुभ्रः’ इति च मूलप्रकृतेः प्राणा­दि­स­म­स्त­वि­शे­ष­र­हि­त­त्वस्य दर्शितत्वात् । तस्मा­त्का­र­ण­स­द्भा­व­प्र­द­र्श­नार्थ एवायम् आनीच्छब्द इति । ‘श्रेष्ठः’ इति च मुख्यं प्राणमभिदधाति, ‘प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च’(छा. उ. ५ । १ । १) इति श्रुति­नि­र्दे­शात् । ज्येष्ठश्च प्राणः, शुक्र­नि­षे­क­का­ला­दा­रभ्य तस्य वृत्तिलाभात् — न चेत्तस्य तदानीं वृत्तिलाभः स्यात् , योनौ निषिक्तं शुक्रं पूयेत, न सम्भवेद्वा । श्रोत्रादीनां तु कर्ण­श­ष्कु­ल्या­दि­स्था­न­वि­भा­ग­नि­ष्पत्तौ वृत्तिलाभान्न ज्येष्ठत्वम् । श्रेष्ठश्च प्राणः, गुणाधिक्यात् — ‘न वै शक्ष्या­म­स्त्व­दृते जीवितुम्’(बृ. उ. ६ । १ । १३) इति श्रुतेः ॥ ८ ॥

न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥

स पुनर्मुख्यः प्राणः किंस्वरूप इति इदानीं जिज्ञास्यते । तत्र प्राप्तं तावत् — श्रुतेः वायुः प्राण इति । एवं हि श्रूयते — ‘यः प्राणः स वायुः स एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समानः’ इति । अथवा तन्त्रा­न्त­री­या­भि­प्रा­यात् समस्तकरणवृत्तिः प्राण इति प्राप्तम्; एवं हि तन्त्रान्तरीया आचक्षते — ‘सामान्या करणवृत्तिः प्राणाद्या वायवः पञ्च’ इति ॥

अत्रोच्यते — न वायुः प्राणः, नापि करणव्यापारः । कुतः ? पृथगुपदेशात् । वायोस्तावत् प्राणस्य पृथगुपदेशो भवति — ‘प्राण एव ब्रह्म­ण­श्च­तुर्थः पादः स वायुना ज्योतिषा भाति च तपति च’(छा. उ. ३ । १८ । ४) इति । न हि वायुरेव सन् वायोः पृथगुपदिश्येत । तथा करणवृत्तेरपि पृथगुपदेशो भवति, वागादीनि करणान्यनुक्रम्य तत्र तत्र पृथ­क्प्रा­ण­स्या­नु­क्र­म­णात् , वृत्ति­वृ­त्ति­म­तो­श्चा­भे­दात् । न हि करणव्यापार एव सन् करणेभ्यः पृथगुपदिश्येत । तथा ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुः’(मु. उ. २ । १ । ३) इत्येवमादयोऽपि वायोः करणेभ्यश्च प्राणस्य पृथगुपदेशा अनुसर्तव्याः । न च समस्तानां करणानामेका वृत्तिः सम्भवति, प्रत्ये­क­मे­कै­क­वृ­त्ति­त्वात् , समुदायस्य च अकारकत्वात् । ननु पञ्ज­र­चा­ल­न­न्या­येन एतद्भविष्यति — यथा एकपञ्जरवर्तिन एकादशपक्षिणः प्रत्येकं प्रति­नि­य­त­व्या­पाराः सन्तः सम्भूय एकं पञ्जरं चालयन्ति, एवमेकशरीरवर्तिन एकादशप्राणाः प्रत्येकं प्रति­नि­य­त­वृ­त्तयः सन्तः सम्भूय एकां प्राणाख्यां वृत्तिं प्रतिलप्स्यन्त इति । नेत्युच्यते — युक्तं तत्र प्रत्ये­क­वृ­त्ति­भि­र­वा­न्त­र­व्या­पारैः पञ्ज­र­चा­ल­ना­नु­रू­पै­रे­वो­पेताः पक्षिणः सम्भूय एकं पञ्जरं चालयेयुरिति, तथा दृष्टत्वात् । इह तु श्रव­णा­द्य­वा­न्त­र­व्या­पा­रो­पेताः प्राणा न सम्भूय प्राण्युरिति युक्तम् , प्रमाणाभावात् , अत्य­न्त­वि­जा­ती­य­त्वाच्च श्रवणादिभ्यः प्राणनस्य । तथा प्राणस्य श्रेष्ठ­त्वा­द्यु­द्घो­ष­णम् , गुणभावोपगमश्च तं प्रति वागादीनाम् , न करणवृत्तिमात्रे प्राणेऽवकल्पते । तस्मादन्यो वायुक्रियाभ्यां प्राणः । कथं तर्हीयं श्रुतिः — ‘यः प्राणः स वायुः’ इति ? उच्यते — वायुरेवायम् अध्यात्ममापन्नः पञ्चव्यूहो विशे­षा­त्म­ना­व­ति­ष्ठ­मानः प्राणो नाम भण्यते, न तत्त्वान्तरम् , नापि वायुमात्रम् । अतश्चोभे अपि भेदाभेदश्रुती न विरुध्येते ॥ ९ ॥

स्यादेतत् — प्राणोऽपि तर्हि जीववत् अस्मिन् शरीरे स्वातन्त्र्यं प्राप्नोति, श्रेष्ठत्वात् , गुणभावोपगमाच्च तं प्रति वागा­दी­ना­मि­न्द्रि­या­णाम् । तथा हि अनेकविधा विभूतिः प्राणस्य श्राव्यते — सुप्तेषु वागादिषु प्राण एवैको जागर्ति, प्राण एवैको मृत्युना अनाप्तः, प्राणः संवर्गो वागादीन् संवृङ्क्ते, प्राण इत­रा­न्प्रा­णार­क्षति मातेव पुत्रान् — इति । तस्मा­त्प्रा­ण­स्यापि जीववत् स्वात­न्त्र्य­प्र­सङ्गः; तं परिहरति —

चक्षुरादिवत्तु तत्स­ह­शि­ष्ट्या­दिभ्यः ॥ १० ॥

१०

तुशब्दः प्राणस्य जीववत् स्वातन्त्र्यं व्यावर्तयति । यथा चक्षुरादीनि, राजप्रकृतिवत् , जीवस्य कर्तृत्वं भोक्तृत्वं च प्रति उपकरणानि, न स्वतन्त्राणि; तथा मुख्योऽपि प्राणः, राजमन्त्रिवत् , जीवस्य सर्वार्थकरत्वेन उपकरणभूतः, न स्वतन्त्रः । कुतः ? तत्स­ह­शि­ष्ट्या­दिभ्यः; तैश्च­क्षु­रा­दिभिः सहैव प्राणः शिष्यते प्राण­सं­वा­दा­दिषु; समानधर्मणां च सह शासनं युक्तं बृह­द्र­थं­त­रा­दि­वत् । आदिशब्देन संह­त­त्वा­चे­त­न­त्वा­दीन् प्राणस्य स्वात­न्त्र्य­नि­रा­क­र­ण­हे­तून् दर्शयति ॥ १० ॥

स्यादेतत् — यदि चक्षुरादिवत् प्राणस्य जीवं प्रति कर­ण­भा­वोऽ­भ्यु­प­ग­म्येत, विषयान्तरं रूपादिवत् प्रसज्येत, रूपा­लो­च­ना­दि­भि­र्वृ­त्ति­भि­र्य­थास्वं चक्षुरादीनां जीवं प्रति करणभावो भवति । अपि च एकादशैव कार्यजातानि रूपालोचनादीनि परिगणितानि, यदर्थमेकादश प्राणाः सङ्गृहीताः । न तु द्वादशमपरं कार्य­जा­त­म­व­ग­म्यते, यदर्थमयं द्वादशः प्राणः प्रतिज्ञायत इति । अत उत्तरं पठति —

अकरणत्वाच्च न दोषस्तथाहि दर्शयति ॥ ११ ॥

११

न ताव­द्वि­ष­या­न्त­र­प्र­सङ्गो दोषः, अक­र­ण­त्वा­त्प्रा­णस्य । न हि चक्षुरादिवत् प्राणस्य विषयपरिच्छेदेन कर­ण­त्व­म­भ्यु­प­ग­म्यते । न च अस्य एतावता कार्याभाव एव । कस्मात् ? तथा हि श्रुतिः प्राणा­न्त­रे­ष्व­स­म्भा­व्य­मानं मुख्यप्राणस्य वैशेषिकं कार्यं दर्शयति प्राणसंवादादिषु — ‘अथ ह प्राणा अहꣳ श्रेयसि व्यूदिरे’(छा. उ. ५ । १ । ६) इत्युपक्रम्य, ‘यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत स वः श्रेष्ठः’(छा. उ. ५ । १ । ७) इति च उपन्यस्य, प्रत्येकं वागा­द्यु­त्क्र­म­णेन तद्वृ­त्ति­मा­त्र­हीनं यथापूर्वं जीवनं दर्शयित्वा, प्राणो­च्चि­क्र­मि­षायां वागा­दि­शै­थि­ल्या­पत्तिं शरीरपातप्रसङ्गं च दर्शयन्ती श्रुतिः प्राणनिमित्तां शरी­रे­न्द्रि­य­स्थितिं दर्शयति; ‘तान्वरिष्ठः प्राण उवाच मा मोह­मा­प­द्य­था­ह­मे­वै­त­त्प­ञ्च­धा­त्मानं प्रवि­भ­ज्यै­त­द्बा­ण­म­व­ष्टभ्य विधारयामि’ इति च एतमेवार्थं श्रुतिराह । ‘प्राणेन रक्षन्नवरं कुलायम्’(बृ. उ. ४ । ३ । १२) इति च सुप्तेषु चक्षुरादिषु प्राणनिमित्तां शरीररक्षां दर्शयति; ‘यस्मा­त्क­स्मा­च्चा­ङ्गा­त्प्राण उत्क्रामति तदेव तच्छुष्यति’(बृ. उ. १ । ३ । १९) , इति ‘तेन यदश्नाति यत्पिबति तेने­त­रा­न्प्रा­णा­न­वति’ इति च प्राणनिमित्तां शरी­रे­न्द्रि­य­पुष्टिं दर्शयति; ‘कस्मि­न्न्व­ह­मु­त्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रति­ष्ठा­स्या­मीति । स प्राणमसृजत’ इति च प्राणनिमित्ते जीव­स्यो­त्क्रा­न्ति­प्र­तिष्ठे दर्शयति ॥ ११ ॥

पञ्च­वृ­त्ति­र्म­नो­व­द्व्य­प­दि­श्यते ॥ १२ ॥

१२

इतश्चास्ति मुख्यस्य प्राणस्य वैशेषिकं कार्यम् , यत्कारणं पञ्चवृत्तिरयं व्यपदिश्यते श्रुतिषु — ‘प्राणोऽपानो व्यान उदानः समानः’(बृ. उ. १ । ५ । ३) इति । वृत्तिभेदश्चायं कार्यभेदापेक्षः — प्राणः प्राग्वृत्तिः उच्छ्वा­सा­दि­कर्मा, अपानः अर्वा­ग्वृ­त्ति­र्नि­श्वा­सा­दि­कर्मा, व्यानः तयोः सन्धौ वर्तमानो वीर्य­व­त्क­र्म­हेतुः, उदानः ऊर्ध्व­वृ­त्ति­रु­त्क्रा­न्त्या­दि­हेतुः, समानः समं सर्वेष्वङ्गेषु योऽन्नरसान्नयति — इत्येवं पञ्चवृत्तिः प्राणः, मनोवत् — यथा मनसः पञ्च वृत्तयः, एवं प्राण­स्या­पी­त्यर्थः । श्रोत्रा­दि­नि­मित्ताः शब्दादिविषया मनसः पञ्च वृत्तयः प्रसिद्धाः । न तु ‘कामः सङ्कल्पः’ इत्याद्याः परिपठिता गृह्येरन् , पञ्च­सं­ख्या­ति­रे­कात् । नन्वत्रापि श्रोत्रा­दि­नि­र­पेक्षा भूत­भ­वि­ष्य­दा­दि­वि­षया अपरा मनसो वृत्तिरस्तीति समानः पञ्च­सं­ख्या­ति­रेकः; एवं तर्हि ‘पर­म­त­म­प्र­ति­षि­द्ध­म­नु­मतं भवति’ इति न्यायात् इहापि योग­शा­स्त्र­प्र­सिद्धा मनसः पञ्च वृत्तयः परिगृह्यन्ते — ‘प्रमा­ण­वि­प­र्य­य­वि­क­ल्प­नि­द्रा­स्मृ­तयः’(पा. यो. सू. १ । १ । ६) नाम । बहु­वृ­त्ति­त्व­मा­त्रेण वा मनः प्राणस्य निदर्शनमिति द्रष्टव्यम् । जीवोपकरणत्वमपि प्राणस्य पञ्च­वृ­त्ति­त्वात् , मनोवत् — इति वा योजयितव्यम् ॥ १२ ॥

अणुश्च ॥ १३ ॥

१३

अणुश्चायं मुख्यः प्राणः प्रत्येतव्यः, इतरप्राणवत् । अणुत्वं च इहापि सौक्ष्म्य­प­रि­च्छेदौ, न पर­मा­णु­तु­ल्य­त्वम् , पञ्च­भि­र्वृ­त्तिभिः कृत्स्न­श­री­र­व्या­पि­त्वात् । सूक्ष्मः प्राणः, उत्क्रान्तौ पार्श्वस्थेन अनु­प­ल­भ्य­मा­न­त्वात्; परिच्छिन्नश्च, उत्क्रा­न्ति­ग­त्या­ग­ति­श्रु­तिभ्यः । ननु विभुत्वमपि प्राणस्य समाम्नायते — ‘समः प्लुषिणा समो मशकेन समो नागेन सम एभि­स्त्रि­भि­र्लोकैः समोऽनेन सर्वेण’(बृ. उ. १ । ३ । २२) इत्येवमादिषु प्रदेशेषु । तदुच्यते — आधिदैविकेन सम­ष्टि­व्य­ष्टि­रू­पेण हैरण्यगर्भेन प्राणात्मनैव एत­द्वि­भु­त्व­मा­म्ना­यते, न आध्यात्मिकेन । अपि च ‘समः प्लुषिणा’ इत्यादिना साम्यवचनेन प्रति­प्रा­णि­व­र्तिनः प्राणस्य परिच्छेद एव प्रदर्श्यते । तस्माददोषः ॥ १३ ॥

ज्योति­रा­द्य­धि­ष्ठानं तु तदामननात् ॥ १४ ॥

१४

ते पुनः प्रकृताः प्राणाः किं स्वमहिम्नैव स्वस्मै स्वस्मै कार्याय प्रभवन्ति, आहो­स्वि­द्दे­व­ता­धि­ष्ठिताः प्रभवन्ति इति विचार्यते । तत्र प्राप्तं तावत् — यथास्वं कार्य­श­क्ति­यो­गात् स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति । अपि च देव­ता­धि­ष्ठि­तानां प्राणानां प्रवृ­त्ता­व­भ्यु­प­ग­म्य­मा­नायां तासा­मे­वा­धि­ष्ठा­त्रीणां देवतानां भोक्तृ­त्व­प्र­स­ङ्गात् शारीरस्य भोक्तृत्वं प्रलीयेत । अतः स्वमहिम्नैव एषां प्रवृत्तिरिति । एवं प्राप्ते, इदमुच्यते — ज्योति­रा­द्य­धि­ष्ठानं तु — इति । तुशब्देन पूर्वपक्षो व्यावर्त्यते । ज्योति­रा­दि­भि­र­ग्न्या­द्य­भि­मा­नि­नी­भि­र्दे­व­ता­भि­र­धि­ष्ठितं वागादिकरणजातं स्वकार्येषु प्रवर्तत इति प्रतिजानीते । हेतुं व्याचष्टे — तदामननादिति । तथा हि आमनन्ति — ‘अग्नि­र्वा­ग्भूत्वा मुखं प्राविशत्’(ऐ. उ. १ । २ । ४) इत्यादि । अग्नेश्चायं वाग्भावो मुखप्रवेशश्च देवतात्मना अधि­ष्ठा­तृ­त्व­म­ङ्गी­कृत्य उच्यते । न हि देवतासम्बन्धं प्रत्याख्याय अग्नेः वाचि मुखे वा कश्चि­द्वि­शे­ष­स­म्बन्धो दृश्यते । तथा ‘वायुः प्राणो भूत्वा नासिके प्राविशत्’(ऐ. उ. १ । २ । ४) इत्येवमाद्यपि योजयितव्यम् । तथा अन्यत्रापि ‘वागेव ब्रह्म­ण­श्च­तुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च’(छा. उ. ३ । १८ । ३) इत्येवमादिना वागादीनां अग्न्या­दि­ज्यो­ति­ष्ट्वा­दि­व­च­नेन एतमेवार्थं द्रढयति । ‘स वै वाचमेव प्रथ­मा­म­त्य­व­हत्सा यदा मृत्यु­म­त्य­मु­च्यत सोऽग्निरभवत्’(बृ. उ. १ । ३ । १२) इति च एवमादिना वागा­दी­ना­म­ग्न्या­दि­भा­वा­प­त्ति­व­च­नेन एतमेवार्थं द्योतयति । सर्वत्र च अध्या­त्मा­धि­दै­व­त­वि­भा­गेन वागा­द्य­ग्न्या­द्य­नु­क्र­म­णम् अनयैव प्रत्यासत्त्या भवति । स्मृतावपि — ‘वागध्यात्ममिति प्राहु­र्ब्रा­ह्म­णा­स्त­त्त्व­द­र्शिनः । वक्तव्यमधिभूतं तु वह्नि­स्त­त्रा­धि­दै­व­तम्’ इत्यादिना वागा­दी­ना­म­ग्न्या­दि­दे­व­ता­धि­ष्ठि­तत्वं सप्रपञ्चं प्रदर्शितम् । यदुक्तम् — स्वका­र्य­श­क्ति­यो­गा­त्स्व­म­हि­म्नैव प्राणाः प्रव­र्ते­र­न्निति, तदयुक्तम् , शक्तानामपि शक­टा­दी­ना­म­न­डु­दा­द्य­धि­ष्ठि­तानां प्रवृ­त्ति­द­र्श­नात् । उभयथोपपत्तौ च आगमात् वागादीनां देव­ता­धि­ष्ठि­त­त्व­मेव निश्चीयते ॥ १४ ॥

यदप्युक्तम् — देव­ता­ना­मे­वा­धि­ष्ठा­त्रीणां भोक्तृ­त्व­प्र­सङ्गः, न शारीरस्येति, तत्परिह्रियते —

प्राणवता शब्दात् ॥ १५ ॥

१५

सतीष्वपि प्राणा­ना­म­धि­ष्ठा­त्रीषु देवतासु प्राणवता कार्य­क­र­ण­स­ङ्घा­त­स्वा­मिना शारीरेणैव एषां प्राणानां सम्बन्धः श्रुतेरवगम्यते । तथा हि श्रुतिः — ‘अथ यत्रै­त­दा­का­श­म­नु­वि­षण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम्’(छा. उ. ८ । १२ । ४) इत्येवंजातीयका शारीरेणैव प्राणानां सम्बन्धं श्रावयति । अपि च अने­क­त्वा­त्प्र­ति­क­र­ण­म­धि­ष्ठा­त्रीणां देवतानां न भोक्तृत्वम् अस्मिन् शरीरेऽवकल्पते । एको ह्ययमस्मिन् शरीरे शारीरो भोक्ता प्रति­स­न्धा­ना­दि­स­म्भ­वा­द­व­ग­म्यते ॥ १५ ॥

तस्य च नित्यत्वात् ॥ १६ ॥

१६

तस्य च शारीरस्यास्मिन् शरीरे भोक्तृत्वेन नित्यत्वम् — पुण्य­पा­पो­प­ले­प­स­म्भ­वात् सुख­दुः­खो­प­भो­ग­स­म्भ­वाच्च, न देवतानाम् । ता हि परस्मिन्नैश्वरे पदेऽवतिष्ठमाना न हीनेऽस्मिन् शरीरे भोक्तृत्वं प्रति­ल­ब्धु­म­र्हन्ति । श्रुतिश्च भवति — ‘पुण्यमेवामुं गच्छति न ह वै देवान्पापं गच्छति’(बृ. उ. १ । ५ । २०) इति । शारीरेणैव च नित्यः प्राणानां सम्बन्धः, उत्क्रा­न्त्या­दिषु तद­नु­वृ­त्ति­द­र्श­नात् — ‘तमुत्क्रामन्तं प्राणोऽ­नू­त्क्रा­मति प्राण­म­नू­त्क्रा­मन्तं सर्वे प्राणा अनूत्क्रामन्ति’(बृ. उ. ४ । ४ । २) इत्या­दि­श्रु­तिभ्यः । तस्मात् सतीष्वपि करणानां नियन्त्रीषु देवतासु न शारीरस्य भोक्तृ­त्व­म­प­ग­च्छति । करणपक्षस्यैव हि देवता, न भोक्तृ­प­क्ष­स्येति ॥ १६ ॥

त इन्द्रियाणि तद्व्य­प­दे­शा­द­न्यत्र श्रेष्ठात् ॥ १७ ॥

१७

मुख्यश्चैकः इतरे चैकादश प्राणा अनुक्रान्ताः; तत्रेदमपरं सन्दिह्यते — किं मुख्यस्यैव प्राणस्य वृत्तिभेदा इतरे प्राणाः, आहोस्वित् तत्त्वा­न्त­रा­णीति । किं तावत्प्राप्तम् ? मुख्यस्यैवेतरे वृत्तिभेदा इति । कुतः ? श्रुतेः; तथा हि श्रुतिः मुख्यमितरांश्च प्राणा­न्सं­नि­धाप्य, मुख्या­त्म­ता­मि­त­रेषां ख्यापयति — ‘हन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूपमभवन्’(बृ. उ. १ । ५ । २१) इति । प्राणै­क­श­ब्द­त्वाच्च एकत्वाध्यवसायः । इतरथा ह्यन्या­य्य­म­ने­का­र्थत्वं प्राणशब्दस्य प्रसज्येत, एकत्र वा मुख्यत्वमितरत्र लाक्ष­णि­क­त्व­मा­प­द्येत । तस्मा­द्य­थै­क­स्यैव प्राणस्य प्राणाद्याः पञ्च वृत्तयः, एवं वागाद्या अप्येकादशेति । एवं प्राप्ते, ब्रूमः — तत्त्वा­न्त­रा­ण्येव प्राणा­द्वा­गा­दी­नीति । कुतः ? व्यपदेशभेदात् । कोऽयं व्यपदेशभेदः ? ते प्रकृताः प्राणाः, श्रेष्ठं वर्जयित्वा अवशिष्टा एका­द­शे­न्द्रि­या­णी­त्यु­च्यन्ते, श्रुतावेवं व्यपदेशदर्शनात् — ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’(मु. उ. २ । १ । ३) इति ह्येवंजातीयकेषु प्रदेशेषु पृथक् प्राणो व्यपदिश्यते, पृथक्च इन्द्रियाणि । ननु मनसोऽप्येवं सति वर्जनम् इन्द्रियत्वेन, प्राणवत् , स्यात् — ‘मनः सर्वेन्द्रियाणि च’ इति पृथ­ग्व्य­प­दे­श­द­र्श­नात् । सत्यमेतत् — स्मृतौ तु एका­द­शे­न्द्रि­या­णीति मनोऽपि इन्द्रियत्वेन श्रोत्रादिवत् सङ्गृह्यते । प्राणस्य तु इन्द्रियत्वं न श्रुतौ स्मृतौ वा प्रसिद्धमस्ति । व्यप­दे­श­भे­द­श्चायं तत्त्वभेदपक्षे उपपद्यते । तत्त्वैकत्वे तु, स एवैकः सन् प्राण इन्द्रि­य­व्य­प­देशं लभते न लभते च — इति विप्रतिषिद्धम् । तस्मा­त्त­त्त्वा­न्त­र­भूता मुख्यादितरे ॥ १७ ॥

कुतश्च तत्त्वा­न्त­र­भूताः ? —

भेदश्रुतेः ॥ १८ ॥

१८

भेदेन वागादिभ्यः प्राणः सर्वत्र श्रूयते — ‘ते ह वाचमूचुः’(बृ. उ. १ । ३ । २) इत्युपक्रम्य, वागा­दी­न­सु­र­पा­प्म­वि­ध्व­स्ता­नु­प­न्यस्य, उपसंहृत्य वागादिप्रकरणम् , ‘अथ हेममासन्यं प्राणमूचुः’ इत्य­सु­र­वि­ध्वं­सिनो मुख्यस्य प्राणस्य पृथगुपक्रमणात् । तथा ‘मनो वाचं प्राणं तान्या­त्म­नेऽ­कु­रुत’ इत्येवमाद्या अपि भेदश्रुतय उदाहर्तव्याः । तस्मादपि तत्त्वान्तरभूता मुख्यादितरे ॥ १८ ॥

कुतश्च तत्त्वा­न्त­र­भूताः ? —

वैलक्षण्याच्च ॥ १९ ॥

१९

वैलक्षण्यं च भवति, मुख्यस्य इतरेषां च — सुप्तेषु वागादिषु मुख्य एको जागर्ति । स एव च एको मृत्युना अनाप्तः, आप्तास्त्वितरे, तस्यैव च स्थित्यु­त्क्रा­न्तिभ्यां देह­धा­र­ण­प­त­न­हे­तु­त्वम् , न इन्द्रियाणाम् । विष­या­लो­च­न­हे­तुत्वं च इन्द्रियाणाम् , न प्राणस्य — इत्येवंजातीयको भूयाँ­ल्ल­क्ष­ण­भेदः प्राणे­न्द्रि­या­णाम् । तस्मादप्येषां तत्त्वा­न्त­र­भा­व­सिद्धिः । यदुक्तम् — ‘त एतस्यैव सर्वे रूपमभवन्’(बृ. उ. १ । ५ । २१) इति श्रुतेः प्राण एवे­न्द्रि­या­णीति, तदयुक्तम् , तत्रापि पौर्वा­प­र्या­लो­च­ना­द्भे­द­प्र­तीतेः । तथा हि — ‘वदि­ष्या­म्ये­वा­ह­मिति वाग्दध्रे’(बृ. उ. १ । ५ । २१) इति वागा­दी­नी­न्द्रि­या­ण्य­नु­क्रम्य, ‘तानि मृत्युः श्रमो भूत्वोपयेमे ... तस्मा­च्छ्रा­म्य­त्येव वाक्’ इति च श्रमरूपेण मृत्युना ग्रस्तत्वं वागादीनामभिधाय, ‘अथेममेव नाप्नोद्योऽयं मध्यमः प्राणः’(बृ. उ. १ । ५ । २१) इति पृथक् प्राणं मृत्युना अनभिभूतं तमनुक्रामति । ‘अयं वै नः श्रेष्ठः’(बृ. उ. १ । ५ । २१) इति च श्रेष्ठ­ता­म­स्या­व­धा­र­यति, तस्मात् तदविरोधेन, वागादिषु परिस्पन्दलाभस्य प्राणायत्तत्वम् तद्रूपभवनं वागादीनाम् — इति मन्तव्यम् , न तु तादात्म्यम् । अत एव च प्राण­श­ब्द­स्ये­न्द्रि­येषु लाक्ष­णि­क­त्व­सिद्धिः । तथा च श्रुतिः — ‘त एतस्यैव सर्वे रूप­म­भ­वꣳस्त­स्मा­देत एतेनाख्यायन्ते प्राणाः’(बृ. उ. १ । ५ । २१) इति मुख्य­प्रा­ण­वि­ष­य­स्यैव प्राण­श­ब्द­स्ये­न्द्रि­येषु लाक्षणिकीं वृत्तिं दर्शयति । तस्मा­त्त­त्त्वा­न्त­राणि प्राणात् वागादीनि इन्द्रियाणीति ॥ १९ ॥

संज्ञा­मू­र्ति­कॢ­प्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २० ॥

२०

सत्प्रक्रियायां तेजोबन्नानां सृष्टि­म­भि­धा­यो­प­दि­श्यते — ‘सेयं देवतैक्षत हन्ता­ह­मि­मा­स्तिस्रो देवता अनेन जीवे­ना­त्म­ना­नु­प्र­विश्य नामरूपे व्याकरवाणीति ।’(छा. उ. ६ । ३ । २) ‘तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति’(छा. उ. ६ । ३ । ३) । तत्र संशयः — किं जीवकर्तृकमिदं नामरूपव्याकरणम् , आहो­स्वि­त्प­र­मे­श्व­र­क­र्तृ­क­मिति । तत्र प्राप्तं तावत् — जीवकर्तृकमेवेदं नाम­रू­प­व्या­क­र­ण­मिति । कुतः ? ‘अनेन जीवेनात्मना’ इति विशेषणात् — यथा लोके ‘चारेणाहं पर­सै­न्य­म­नु­प्र­विश्य सङ्कलयानि’ इत्येवंजातीयके प्रयोगे, चारकर्तृकमेव सत् सैन्यसङ्कलनं हेतुकर्तृत्वात् राजा आत्म­न्य­ध्या­रो­प­यति सङ्क­ल­या­नी­त्यु­त्त­म­पु­रु­ष­प्र­यो­गेण; एवं जीवकर्तृकमेव सत् नामरूपव्याकरणं हेतुकर्तृत्वात् देवता आत्म­न्य­ध्या­रो­प­यति व्याक­र­वा­णी­त्यु­त्त­म­पु­रु­ष­प्र­यो­गेण । अपि च डित्थ­ड­वि­त्था­दिषु नामसु घटशरावादिषु च रूपेषु जीवस्यैव व्याकर्तृत्वं दृष्टम् । तस्मा­ज्जी­व­क­र्तृ­क­मे­वेदं नाम­रू­प­व्या­क­र­ण­मि­त्येवं प्राप्ते अभिधत्ते — संज्ञा­मू­र्ति­कॢ­प्ति­स्त्विति । तुशब्देन पक्षं व्यावर्तयति । संज्ञा­मू­र्ति­कॢ­प्ति­रिति — नाम­रू­प­व्या­क्रि­ये­त्ये­तत् । त्रिवृत्कुर्वत इति परमेश्वरं लक्षयति, त्रिवृत्करणे तस्य निर­प­वा­द­क­र्तृ­त्व­नि­र्दे­शात् — येयं संज्ञाकॢप्तिः मूर्ति­कॢ­प्तिश्च, अग्निः आदित्यः चन्द्रमाः विद्युदिति, तथा कुशकाशपलाशादिषु पशु­मृ­ग­म­नु­ष्या­दिषु च, प्रत्याकृति प्रतिव्यक्ति च अनेकप्रकारा, सा खलु परमेश्वरस्यैव तेजोबन्नानां निर्मातुः कृति­र्भ­वि­तु­म­र्हति । कुतः ? उपदेशात्; तथा हि — ‘सेयं देवतैक्षत’ इत्युपक्रम्य ‘व्याकरवाणि’ इत्यु­त्त­म­पु­रु­ष­प्र­यो­गेण परस्यैव ब्रह्मणो व्याक­र्तृ­त्व­मि­हो­प­दि­श्यते । ननु ‘जीवेन’ इति विशेषणात् जीवकर्तृकत्वं व्याक­र­ण­स्या­ध्य­व­सि­तम् — नैतदेवम्; ‘जीवेन’ इत्येतत् ‘अनुप्रविश्य’ इत्यनेन सम्बध्यते, आनन्तर्यात् । न ‘व्याकरवाणि’ इत्यनेन — तेन हि सम्बन्धे ‘व्याकरवाणि’ इत्ययं देवताविषय उत्तमपुरुष औपचारिकः कल्प्येत । न च गिरि­न­दी­स­मु­द्रा­दिषु नानाविधेषु नामरूपेषु अनीश्वरस्य जीवस्य व्याक­र­ण­सा­म­र्थ्य­मस्ति । येष्वपि च अस्ति सामर्थ्यम् , तेष्वपि पर­मे­श्व­रा­य­त्त­मेव तत् । न च जीवो नाम पर­मे­श्व­रा­द­त्य­न्त­भिन्नः — चार इव राज्ञः, ‘आत्मना’ इति विशेषणात् , उपा­धि­मा­त्र­नि­ब­न्ध­न­त्वाच्च जीवभावस्य । तेन तत्कृतमपि नामरूपव्याकरणं परमेश्वरकृतमेव भवति । परमेश्वर एव च नाम­रू­प­यो­र्व्या­क­र्तेति सर्वो­प­नि­ष­त्सि­द्धान्तः, ‘आकाशो वै नाम नाम­रू­प­यो­र्नि­र्व­हिता’(छा. उ. ८ । १४ । १) इत्या­दि­श्रु­तिभ्यः । तस्मात् परमेश्वरस्यैव त्रिवृत्कुर्वतः कर्म नाम­रू­प­यो­र्व्या­क­र­णम् । त्रिवृ­त्क­र­ण­पू­र्व­क­मे­वे­दम् इह नामरूपव्याकरणं विवक्ष्यते, प्रत्येकं नाम­रू­प­व्या­क­र­णस्य तेजो­ब­न्नो­त्प­त्ति­व­च­ने­नै­वो­क्त­त्वात् । तच्च त्रिवृ­त्क­र­ण­म­ग्न्या­दि­त्य­च­न्द्र­वि­द्युत्सु श्रुतिर्दर्शयति — ‘यदग्ने रोहितꣳ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य’(छा. उ. ६ । ४ । १) इत्यादिना । तत्राग्निरिति इदं रूपं व्याक्रियते, सति च रूपव्याकरणे विष­य­प्र­ति­ल­म्भा­द­ग्नि­रिति इदं नाम व्याक्रियते । एव­मे­वा­दि­त्य­च­न्द्र­वि­द्यु­त्स्वपि द्रष्टव्यम् । अनेन च अग्न्या­द्यु­दा­ह­र­णेन भौमाम्भसतैजसेषु त्रिष्वपि द्रव्ये­ष्व­वि­शे­षेण त्रिवृ­त्क­र­ण­मुक्तं भवति, उप­क्र­मो­प­सं­हा­रयोः साधारणत्वात् । तथा हि — अविशेषेणैव उपक्रमः — ‘इमास्तिस्रो देव­ता­स्त्रि­वृ­त्त्रि­वृ­दे­कैका भवति’(छा. उ. ६ । ३ । ४) इति, अविशेषेणैव च उपसंहारः — ‘यदु रोहितमिवाभूदिति तेजसस्तद्रूपम्’(छा. उ. ६ । ४ । ६) इत्येवमादिः, ‘यद्व­वि­ज्ञा­त­मि­वा­भू­दि­त्ये­ता­सा­मेव देवतानाꣳ समासः’(छा. उ. ६ । ४ । ७) इत्येवमन्तः ॥ २० ॥

तासां तिसृणां देवतानाम् , बहि­स्त्रि­वृ­त्कृ­तानां सतीनाम् , अध्यात्ममपरं त्रिवृ­त्क­र­ण­मु­क्तम् — ‘इमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृ­त्त्रि­वृ­दे­कैका भवति’(छा. उ. ६ । ४ । ७) इति । तदिदानीम् आचार्यो यथा­श्रु­त्ये­वो­प­द­र्श­यति, आशङ्कितं कञ्चिद्दोषं परिहरिष्यन् —

मांसादि भौमं यथा­श­ब्द­मि­त­र­योश्च ॥ २१ ॥

२१

भूमे­स्त्रि­वृ­त्कृ­तायाः पुरु­षे­णो­प­भु­ज्य­मा­नाया मांसादिकार्यं यथाशब्दं निष्पद्यते । तथा हि श्रुतिः — ‘अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्माꣳसं योऽणि­ष्ठ­स्त­न्मनः’(छा. उ. ६ । ५ । १) इति । त्रिवृत्कृता भूमिरेवैषा व्रीहि­य­वा­द्य­न्न­रू­पेण अद्यत इत्यभिप्रायः । तस्याश्च स्थविष्ठं रूपं पुरीषभावेन बहि­र्नि­र्ग­च्छति; मध्यममध्यात्मं मांसं वर्धयति; अणिष्ठं तु मनः । एव­मि­त­र­यो­र­प्ते­ज­सो­र्य­था­शब्दं कार्य­म­व­ग­न्त­व्यम् — मूत्रं लोहितं प्राणश्च अपां कार्यम् , अस्थि मज्जा वाक् तेजसः — इति ॥ २१ ॥

अत्राह यदि सर्वमेव त्रिवृत्कृतं भूतभौतिकम् , अविशेषश्रुतेः — ‘तासां त्रिवृतं त्रिवृ­त­मे­कै­का­म­क­रोत्’ इति, किंकृ­त­स्त­र्ह्ययं विशेषव्यपदेशः — इदं तेजः, इमा आपः, इदमन्नम् इति, तथा अध्यात्मम् — इद­म­न्न­स्या­शि­तस्य कार्यं मांसादि, इदमपां पीतानां कार्यं लोहितादि, इदं तेजसोऽशितस्य कार्यमस्थ्यादि इति ? अत्रोच्यते —

वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२ ॥

२२

तुशब्देन चोदितं दोषमपनुदति; विशेषस्य भावो वैशेष्यम् , भूयस्त्वमिति यावत् । सत्यपि त्रिवृत्करणे क्वचि­त्क­स्य­चि­द्भू­त­धा­तो­र्भू­य­स्त्व­मु­प­ल­भ्यते — अग्ने­स्ते­जो­भू­य­स्त्वम् , उद­क­स्या­ब्भू­य­स्त्वम् , पृथिव्या अन्नभूयस्त्वम् इति । व्यव­हा­र­प्र­सि­द्ध्यर्थं चेदं त्रिवृत्करणम् । व्यवहारश्च त्रिवृ­त्कृ­त­र­ज्जु­व­दे­क­त्वा­पत्तौ सत्याम् , न भेदेन भूतत्रयगोचरो लोकस्य प्रसिध्येत् । तस्मात्सत्यपि त्रिवृत्करणे वैशेष्यादेव तेजो­ब­न्न­वि­शे­ष­वादो भूतभौतिकविषय उपपद्यते । ‘तद्वा­द­स्त­द्वादः’ इति पदाभ्यासः अध्या­य­प­रि­स­माप्तिं द्योतयति ॥ २२ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ शारी­र­क­मी­मां­सा­सू­त्र­भाष्ये द्वितीयोऽध्यायः ॥