अद्वैतशारदा

ब्रह्मसूत्रभाष्यम्

तृतीयोऽध्यायः (१)

व्याख्याः

प्रथमः पादः

द्वितीयेऽध्याये स्मृति­न्या­य­वि­रोधो वेदान्तविहिते ब्रह्मदर्शने परिहृतः, परपक्षाणां च अनपेक्षत्वं प्रपञ्चितम् , श्रुति­वि­प्र­ति­षे­धश्च परिहृतः । तत्र च जीव­व्य­ति­रि­क्तानि तत्त्वानि जीवोपकरणानि ब्रह्मणो जायन्त इत्युक्तम् । अथेदानीम् उपकरणोपहितस्य जीवस्य संसारगतिप्रकारः तदवस्थान्तराणि ब्रह्मसतत्त्वं विद्याभेदाभेदौ गुणो­प­सं­हा­रा­नु­प­सं­हारौ सम्य­ग्द­र्श­ना­त्पु­रु­षा­र्थ­सिद्धिः सम्य­ग्द­र्श­नो­पा­य­वि­धि­प्र­भेदः मुक्ति­फ­ला­नि­य­मश्च — इत्येतदर्थजातं तृतीये निरूपयिष्यते; प्रसङ्गागतं च किमप्यन्यत् । तत्र प्रथमे तावत्पादे पञ्चा­ग्नि­वि­द्या­मा­श्रित्य संसारगतिप्रभेदः प्रदर्श्यते वैराग्यहेतोः — ‘तस्मा­ज्जु­गु­प्सेत’ इति च अन्ते श्रवणात् । जीवो मुख्यप्राणसचिवः सेन्द्रियः सम­न­स्कोऽ­वि­द्या­क­र्म­पू­र्व­प्र­ज्ञा­प­रि­ग्रहः पूर्वदेहं विहाय देहान्तरं प्रतिपद्यत इत्येतदवगतम् — ‘अथैनमेते प्राणा अभिसमायन्ति’(बृ. उ. ४ । ४ । १) इत्येवमादेः ‘अन्यन्नवतरꣳ कल्याणतरं रूपं कुरुते’(बृ. उ. ४ । ४ । ४) इत्येवमन्तात् संसा­र­प्र­क­र­ण­स्था­च्छ­ब्दात् , धर्मा­ध­र्म­फ­लो­प­भो­ग­स­म्भ­वाच्च । स किं देह­बी­जै­र्भू­त­सू­क्ष्मै­र­स­म्प­रि­ष्वक्तो गच्छति, आहो­स्वि­त्स­म्प­रि­ष्वक्तः — इति चिन्त्यते ॥

किं तावत्प्राप्तम् ? असम्परिष्वक्त इति । कुतः ? कर­णो­पा­दा­न­व­द्भू­तो­पा­दा­नस्य अश्रुतत्वात् — ‘स एता­स्ते­जो­मात्राः समभ्याददानः’(बृ. उ. ४ । ४ । १) इति ह्यत्र तेजो­मा­त्रा­श­ब्देन करणानामुपादानं सङ्कीर्तयति, वाक्यशेषे चक्षु­रा­दि­स­ङ्की­र्त­नात् । नैवं भूत­मा­त्रो­पा­दा­न­स­ङ्की­र्त­न­मस्ति । सुलभाश्च सर्वत्र भूतमात्राः, यत्रैव देह आर­ब्ध­व्य­स्त­त्रैव सन्ति । ततश्च तासां नयनं निष्प्रयोजनम् । तस्मा­द­स­म्प­रि­ष्वक्तो याति — इत्येवं प्राप्ते, पठत्याचार्यः —

तद­न्त­र­प्र­ति­पत्तौ रंहति सम्परिष्वक्तः प्रश्न­नि­रू­प­णा­भ्याम् ॥ १ ॥

तद­न्त­र­प्र­ति­पत्तौ रंहति सम्परिष्वक्त इति । तद­न्त­र­प्र­ति­पत्तौ देहा­न्त­र­प्र­ति­पत्तौ, देह­बी­जै­र्भू­त­सूक्ष्मैः सम्परिष्वक्तः, रंहति गच्छति — इत्यवगन्तव्यम् । कुतः ? प्रश्न­नि­रू­प­णा­भ्याम्; तथा हि प्रश्नः — ‘वेत्थ यथा पञ्च­म्या­मा­हु­ता­वापः पुरुषवचसो भवन्ति’(छा. उ. ५ । ३ । ३) इति । निरूपणं च प्रतिवचनम् , द्युप­र्ज­न्य­पृ­थि­वी­पु­रु­ष­यो­षित्सु पञ्चस्वग्निषु श्रद्धा­सो­म­वृ­ष्ट्य­न्न­रे­तो­रूपाः पञ्च आहु­ती­र्द­र्श­यित्वा, — ‘इति तु पञ्च­म्या­मा­हु­ता­वापः पुरुषवचसो भवन्ति’(छा. उ. ५ । ९ । १) इति । तस्मादद्भिः परिवेष्टितो जीवो रंहति व्रजतीति गम्यते । नन्वन्या श्रुतिः जलू­का­व­त्पू­र्व­देहं न मुञ्चति यावन्न देहा­न्त­र­मा­क्र­म­तीति दर्शयति — ‘तद्यथा तृणजलायुका’(बृ. उ. ४ । ४ । ३) इति । तत्रा­प्य­प्प­रि­वे­ष्टि­त­स्यैव जीवस्य कर्मो­प­स्था­पि­त­प्र­ति­प­त्त­व्य­दे­ह­वि­ष­य­भा­व­ना­दी­र्घी­भा­व­मात्रं जलूकयोपमीयत इत्यविरोधः । एवं श्रुत्युक्ते देहा­न्त­र­प्र­ति­प­त्ति­प्र­कारे सति, याः पुरुषमतिप्रभवाः कल्पनाः — व्यापिनां करणानामात्मनश्च देहा­न्त­र­प्र­ति­पत्तौ कर्म­व­शा­द्वृ­त्ति­ला­भ­स्तत्र भवति, — केवलस्यैवात्मनो वृत्तिलाभस्तत्र भवति, इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थाने उत्पद्यन्ते, — मन एव वा केवलं भोग­स्था­न­म­भि­प्र­ति­ष्ठते, — जीव एव वा उत्प्लुत्य देहाद्देहान्तरं प्रतिपद्यते, शुक इव वृक्षा­द्वृ­क्षा­न्त­रम् — इत्येवमाद्याः, ताः सर्वा एव अनादर्तव्याः, श्रुतिविरोधात् ॥ १ ॥

ननु उदाहृताभ्यां प्रश्न­प्र­ति­व­च­नाभ्यां केवलाभिरद्भिः सम्परिष्वक्तो रंहतीति प्राप्नोति, अप्श­ब्द­श्र­व­ण­सा­म­र्थ्यात् । तत्र कथं सामान्येन प्रतिज्ञायते — सर्वैरेव भूतसूक्ष्मैः सम्परिष्वक्तो रंहतीति ? अत उत्तरं पठति —

त्र्यात्म­क­त्वात्तु भूयस्त्वात् ॥ २ ॥

तुशब्देन चोदि­ता­मा­श­ङ्का­मु­च्छि­नत्ति । त्र्यात्मिका हि आपः, त्रिवृ­त्क­र­ण­श्रुतेः । तास्वा­र­म्भि­का­स्व­भ्यु­प­ग­ता­स्वि­त­र­दपि भूत­द्व­य­म­व­श्य­म­भ्यु­प­ग­न्तव्यं भवति । त्र्यात्मकश्च देहः, त्रयाणामपि तेजोबन्नानां तस्मि­न्का­र्यो­प­लब्धेः । पुनश्च त्र्यात्मकः, त्रिधातुत्वात् — त्रिभि­र्वा­त­पि­त्त­श्ले­ष्मभिः । न स भूतान्तराणि प्रत्याख्याय केव­ला­भि­र­द्भि­रा­रब्धुं शक्यते । तस्मा­द्भू­य­स्त्वा­पे­क्षोऽ­यम् — ‘आपः पुरुषवचसः’ इति — प्रश्न­प्र­ति­व­च­न­यो­र­प्शब्दः, न कैवल्यापेक्षः । सर्वदेहेषु हि रस­लो­हि­ता­दि­द्र­व­द्र­व्य­भू­यस्त्वं दृश्यते । ननु पार्थिवो धातुर्भूयिष्ठो देहेषूपलक्ष्यते । नैष दोषः — इतरापेक्षया अपां बाहुल्यं भविष्यति । दृश्यते च शुक्र­शो­णि­त­ल­क्ष­णेऽपि देहबीजे द्रवबाहुल्यम् । कर्म च निमित्तकारणं देहान्तरारम्भे । कर्माणि च अग्निहोत्रादीनि सोमा­ज्य­प­यः­प्र­भृ­ति­द्र­व­द्र­व्य­व्य­पा­श्र­याणि । कर्म­स­म­वा­यि­न्यश्च आपः श्रद्धा­श­ब्दो­दिताः सह कर्म­भि­र्द्यु­लो­का­ख्येऽग्नौ हूयन्त इति वक्ष्यति । तस्मादप्यपां बाहु­ल्य­प्र­सिद्धिः । बाहुल्याच्च अप्शब्देन सर्वेषामेव देहबीजानां भूत­सू­क्ष्मा­णा­मु­पा­दा­न­मिति निरवद्यम् ॥ २ ॥

प्राणगतेश्च ॥ ३ ॥

प्राणानां च देहा­न्त­र­प्र­ति­पत्तौ गतिः श्राव्यते — ‘तमुत्क्रामन्तं प्राणोऽ­नू­त्क्रा­मति प्राण­म­नू­त्क्रा­मन्तꣳ सर्वे प्राणा अनूत्क्रामन्ति’(बृ. उ. ४ । ४ । २) इत्या­दि­श्रु­तिभिः । सा च प्राणानां गति­र्ना­श्र­य­म­न्त­रेण सम्भवतीत्यतः प्राण­ग­ति­प्र­युक्ता तदा­श्र­य­भू­ता­ना­म­पा­मपि भूता­न्त­रो­प­सृ­ष्टानां गतिरवगम्यते । न हि निराश्रयाः प्राणाः क्वचिद्गच्छन्ति तिष्ठन्ति वा, जीवतो दर्शनात् ॥ ३ ॥

अग्न्या­दि­ग­ति­श्रु­ते­रिति चेन्न भाक्तत्वात् ॥ ४ ॥

स्यादेतत् — नैव प्राणा देहा­न्त­र­प्र­ति­पत्तौ सह जीवेन गच्छन्ति, अग्न्या­दि­ग­ति­श्रुतेः । तथा हि श्रुतिः मरणकाले वागादयः प्राणा अग्न्या­दी­न्दे­वा­न्ग­च्छ­न्तीति दर्शयति — ‘यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणः’(बृ. उ. ३ । २ । १३) इत्यादिना इति चेत् , न, भाक्तत्वात् । वागा­दी­ना­म­ग्न्या­दि­ग­ति­श्रु­ति­र्गौणी, लोमसु केशेषु च अदर्शनात् — ‘ओषधीर्लोमानि वनस्पतीन्केशाः’(बृ. उ. ३ । २ । १३) इति हि तत्राम्नायते, न हि लोमानि केशा­श्चो­त्प्लुत्य ओष­धी­र्व­न­स्प­तींश्च गच्छन्तीति सम्भवति । न च जीवस्य प्राणो­पा­धि­प्र­त्या­ख्याने गमनमवकल्पते । नापि प्राणैर्विना देहान्तरे उपभोग उपपद्यते । विस्पष्टं च प्राणानां सह जीवेन गमनमन्यत्र श्रावितम् । अतो वागा­द्य­धि­ष्ठा­त्री­णा­म­ग्न्या­दि­दे­व­तानां वागा­द्यु­प­का­रि­णीनां मरणकाले उप­का­र­नि­वृ­त्ति­मा­त्र­म­पेक्ष्य वागा­द­योऽ­ग्न्या­दी­न्ग­च्छ­न्ती­त्यु­प­च­र्यते ॥ ४ ॥

प्रथ­मेऽ­श्र­व­णा­दिति चेन्न ता एव ह्युपपत्तेः ॥ ५ ॥

स्यादेतत् — कथं पुनः ‘पञ्च­म्या­मा­हु­ता­वापः पुरुषवचसो भवन्ति’(छा. उ. ५ । ३ । ३) इत्येतत् निर्धारयितुं पार्यते, यावता नैव प्रथमेऽग्नावपां श्रवणमस्ति ? इह हि द्युलोकप्रभृतयः पञ्चाग्नयः पञ्चा­ना­मा­हु­ती­ना­मा­धा­र­त्वे­ना­धीताः । तेषां च प्रमुखे ‘असौ वाव लोको गौतमाग्निः’(छा. उ. ५ । ४ । १) इत्युपन्यस्य ‘तस्मि­न्ने­त­स्मि­न्नग्नौ देवाः श्रद्धां जुह्वति’(छा. उ. ५ । ४ । २) इति श्रद्धा होम्य­द्र­व्य­त्वेन आवेदिता । न तत्र आपो होम्यद्रव्यतया श्रुताः । यदि नाम पर्ज­न्या­दि­षू­त्त­रेषु चतु­र्ष्व­ग्नि­ष्वपां होम्यद्रव्यता परिकल्प्येत, परिकल्प्यतां नाम, तेषु होत­व्य­त­यो­पा­त्तानां सोमा­दी­ना­म­ब्ब­हु­ल­त्वो­प­पत्तेः । प्रथमे त्वग्नौ श्रुतां श्रद्धां परित्यज्य अश्रुता आपः परिकल्प्यन्त इति साहसमेतत् । श्रद्धा च नाम प्रत्ययविशेषः, प्रसि­द्धि­सा­म­र्थ्यात् । तस्मादयुक्तः पञ्च­म्या­मा­हु­ता­वपां पुरुषभाव इति चेत् — नैष दोषः; हि यतः तत्रापि प्रथमेऽग्नौ ता एवापः श्रद्धा­श­ब्दे­ना­भि­प्रे­यन्ते । कुतः ? उपपत्तेः । एवं ह्यादि­म­ध्या­व­सा­न­सं­गा­नात् अना­कु­ल­मे­त­दे­क­वा­क्य­मु­प­प­द्यते । इतरथा पुनः, पञ्चम्यामाहुतौ अपां पुरु­ष­व­च­स्त्व­प्र­कारे पृष्टे, प्रतिवचनावसरे प्रथ­मा­हु­ति­स्थाने यद्यनपो होम्यद्रव्यं श्रद्धां नामावतारयेत् — ततः अन्यथा प्रश्नोऽन्यथा प्रति­व­च­न­मि­त्ये­क­वा­क्यता न स्यात् । ‘इति तु पञ्च­म्या­मा­हु­ता­वापः पुरुषवचसो भवन्ति’ इति च उपसंहरन् एतदेव दर्शयति । श्रद्धाकार्यं च सोमवृष्ट्यादि स्थूली­भ­व­द­ब्ब­हुलं लक्ष्यते । सा च श्रद्धाया अप्त्वे युक्तिः । कारणानुरूपं हि कार्यं भवति । न च श्रद्धाख्यः प्रत्ययः, मनसो जीवस्य वा धर्मः सन् धर्मिणो निष्कृष्य होमायोपादातुं शक्यते — पश्वादिभ्य इव हृदयादीनि इति, आप एव श्रद्धाशब्दा भवेयुः । श्रद्धा­श­ब्द­श्चा­प्सू­प­प­द्यते, वैदि­क­प्र­यो­ग­द­र्श­नात् — ‘श्रद्धा वा आपः’ इति । तनुत्वं श्रद्धासारूप्यं गच्छन्त्य आपो देहबीजभूता इत्यतः श्रद्धाशब्दाः स्युः — यथा सिंहपराक्रमो नरः सिंहशब्दो भवति । श्रद्धा­पू­र्व­क­क­र्म­स­म­वा­याच्च अप्सु श्रद्धाशब्द उपपद्यते, मञ्चशब्द इव पुरुषेषु । श्रद्धा­हे­तु­त्वाच्च श्रद्धा­श­ब्दो­प­पत्तिः, ‘आपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणे’ इति श्रुतेः ॥ ५ ॥

अश्रुतत्वादिति चेन्ने­ष्टा­दि­का­रिणां प्रतीतेः ॥ ६ ॥

अथापि स्यात् — प्रश्न­प्र­ति­व­च­नाभ्यां नाम आपः श्रद्धादिक्रमेण पञ्चम्यामाहुतौ पुरुषाकारं प्रतिपद्येरन्; न तु तत्स­म्प­रि­ष्वक्ता जीवा रंहेयुः, अश्रुतत्वात् — न ह्यत्र अपामिव जीवानां श्रावयिता कश्चि­च्छ­ब्दोऽस्ति । तस्मात् ‘रंहति सम्परिष्वक्तः’ इत्ययुक्तम् — इति चेत् , नैष दोषः । कुतः ? इष्टादिकारिणां प्रतीतेः — ‘अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूम­म­भि­स­म्भ­वन्ति’(छा. उ. ५ । १० । ३) इत्युपक्रम्य इष्टादिकारिणां धूमादिना पितृयाणेन पथा चन्द्रप्राप्तिं कथयति ‘आका­शा­च्च­न्द्र­म­स­मेष सोमो राजा’(छा. उ. ५ । १० । ४) इति । त एवेहापि प्रतीयन्ते, ‘तस्मि­न्ने­त­स्मि­न्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति’(छा. उ. ५ । ४ । २) इति श्रुति­सा­मा­न्यात् । तेषां च अग्नि­हो­त्र­द­र्श­पू­र्ण­मा­सा­दि­क­र्म­सा­ध­न­भूता दधिपयःप्रभृतयो द्रव­द्र­व्य­भू­य­स्त्वा­त्प्र­त्य­क्ष­मेव आपः सन्ति । ता आहवनीये हुताः सूक्ष्मा आहु­त्योऽ­पू­र्व­रूपाः सत्यः तानिष्टादिकारिण आश्रयन्ति — तेषां च शरीरं नैधनेन विधा­ने­ना­न्त्येऽ­ग्ना­वृ­त्विजो जुह्वति — ‘असौ स्वर्गाय लोकाय स्वाहा’ इति । ततस्ताः श्रद्धा­पू­र्व­क­क­र्म­स­म­वा­यिन्य आहुतिमय्य आपोऽपूर्वरूपाः सत्यः तानि­ष्टा­दि­का­रिणो जीवा­न्प­रि­वेष्ट्य अमुं लोकं फलदानाय नयन्तीति यत् , तदत्र जुहोतिना अभिधीयते — ‘श्रद्धां जुह्वतीति’(बृ. उ. ६ । २ । ९) । तथा च अग्निहोत्रे षट्‍प्र­श्नी­नि­र्व­च­न­रू­पेण वाक्यशेषेण ‘ते वा एते आहुती हुते उत्क्रामतः’ इत्येवमादिना अग्नि­हो­त्रा­हुत्योः फलारम्भाय लोका­न्त­र­प्रा­प्ति­र्द­र्शिता । तस्मा­दा­हु­ति­म­यी­भि­रद्भिः सम्परिष्वक्ता जीवा रंहन्ति स्वक­र्म­फ­लो­प­भो­गा­येति श्लिष्यते ॥ ६ ॥

कथं पुन­रि­द­मि­ष्टा­दि­का­रिणां स्वक­र्म­फ­लो­प­भो­गाय रंहणं प्रतिज्ञायते, यावता तेषां धूमप्रतीकेन वर्त्मना चन्द्र­म­स­म­धि­रू­ढा­ना­म­न्न­भावं दर्शयति — ‘एष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति’(छा. उ. ५ । १० । ४) इति ? ‘ते चन्द्रं प्राप्यान्नं भवन्ति ताꣳस्तत्र देवा यथा सोमꣳ राजा­न­मा­प्या­य­स्वा­प­क्षी­य­स्वे­त्ये­व­मे­नाꣳस्तत्र भक्षयन्ति’(बृ. उ. ६ । २ । १६) इति च समानविषयं श्रुत्यन्तरम् । न च व्याघ्रादिभिरिव देवै­र्भ­क्ष्य­मा­णा­ना­मु­प­भोगः सम्भवतीति । अत उत्तरं पठति —

भाक्तं वाना­त्म­वि­त्त्वा­त्त­थाहि दर्शयति ॥ ७ ॥

वाश­ब्द­श्चो­दि­त­दो­ष­व्या­व­र्त­नार्थः । भाक्त­मे­षा­म­न्न­त्वम् , न मुख्यम् । मुख्ये ह्यन्नत्वे ‘स्वर्गकामो यजेत’ इत्ये­वं­जा­ती­य­का­धि­का­र­श्रु­ति­रु­प­रु­ध्येत । चन्द्रमण्डले चेदि­ष्टा­दि­का­रि­णा­मु­प­भोगो न स्यात् , किमर्थमधिकारिण इष्टादि आयासबहुलं कर्म कुर्युः । अन्न­श­ब्द­श्चो­प­भो­ग­हे­तु­त्व­सा­मा­न्यात् अन­न्नेऽ­प्यु­प­च­र्य­माणो दृश्यते, यथा — विशोऽन्नं राज्ञां पशवोऽन्नं विशामिति । तस्मा­दि­ष्ट­स्त्री­पु­त्र­मि­त्र­भृ­त्या­दि­भि­रिव गुण­भा­वो­प­ग­तै­रि­ष्टा­दि­का­रि­भि­र्य­त्सु­ख­वि­ह­रणं देवानाम् , तदेवैषां भक्षणमभिप्रेतम् , न मोद­का­दि­व­च्च­र्वणं निगरणं वा । ‘न ह वै देवा अश्नन्ति न पिब­न्त्ये­त­दे­वा­मृतं दृष्ट्वा तृप्यन्ति’(छा. उ. ३ । ६ । १) इति च देवानां चर्व­णा­दि­व्या­पारं वारयति । तेषां च इष्टादिकारिणां देवान्प्रति गुण­भा­वो­प­ग­ता­ना­म­प्यु­प­भोग उपपद्यते, राजोपजीविनामिव परिजनानाम् । अना­त्म­वि­त्त्वाच्च इष्टादिकारिणां देवोपभोग्यभाव उपपद्यते । तथा हि श्रुति­र­ना­त्म­विदां देवोपभोग्यतां दर्शयति — ‘अथ योऽन्यां देव­ता­मु­पा­स्तेऽ­न्योऽ­सा­व­न्योऽ­ह­म­स्मीति न स वेद यथा पशुरेवꣳ स देवानाम्’(बृ. उ. १ । ४ । १०) इति । स चास्मिन्नपि लोके इष्टादिभिः कर्मभिः प्रीण­य­न्प­शु­व­द्दे­वा­ना­मु­प­क­रोति, अमुष्मिन्नपि लोके तदुपजीवी तदादिष्टं फलमुपभुञ्जानः पशुवदेव देवा­ना­मु­प­क­रो­तीति गम्यते ॥

अना­त्म­वि­त्त्वात् तथा हि दर्शयति इत्यस्य अपरा व्याख्या — अनात्मविदो ह्येते केवलकर्मिण इष्टादिकारिणः, न ज्ञान­क­र्म­स­मु­च्च­या­नु­ष्ठा­यिनः । पञ्चा­ग्नि­वि­द्या­मिह आत्म­वि­द्ये­त्यु­प­च­रन्ति, प्रकरणात् । पञ्चा­ग्नि­वि­द्या­वि­ही­न­त्वा­च्चे­द­मि­ष्टा­दि­का­रिणां गुण­वा­दे­ना­न्न­त्व­मु­द्भा­व्यते पञ्चा­ग्नि­वि­ज्ञा­न­प्र­शं­सायै । पञ्चाग्निविद्या हीह विधित्सिता, वाक्य­ता­त्प­र्या­व­ग­मात् । तथा हि श्रुत्यन्तरं चन्द्रमण्डले भोगसद्भावं दर्शयति — ‘स सोमलोके विभूतिमनुभूय पुनरावर्तते’(प्र. उ. ५ । ४) इति । तथा अन्यदपि श्रुत्यन्तरम् ‘अथ ये शतं पितॄणां जित­लो­का­ना­मा­नन्दाः … स एकः कर्म­दे­वा­ना­मा­नन्दो ये कर्मणा देव­त्व­म­भि­स­म्प­द्यन्ते’(बृ. उ. ४ । ३ । ३३) इति इष्टादिकारिणां देवैः सह संवसतां भोगप्राप्तिं दर्शयति । एवं भाक्त­त्वा­द­न्न­भा­व­व­च­नस्य, इष्टा­दि­का­रि­णोऽत्र जीवा रंहन्तीति प्रतीयते । तस्मात् ‘रंहति सम्परिष्वक्तः’ इति युक्तमेवोक्तम् ॥ ७ ॥

कृता­त्य­येऽ­नु­श­य­वा­न्दृ­ष्ट­स्मृ­तिभ्यां यथेतमनेवं च ॥ ८ ॥

इष्टादिकारिणां धूमादिना वर्त्मना चन्द्र­म­ण्ड­ल­म­धि­रू­ढानां भुक्तभोगानां ततः प्रत्यवरोह आम्नायते — ‘तस्मि­न्या­व­त्स­म्पा­त­मु­षि­त्वा­थै­त­मे­वा­ध्वानं पुनर्निवर्तन्ते यथेतम्’(छा. उ. ५ । १० । ५) इत्यारभ्य, — यावत् — रमणीयचरणा ब्राह्म­णा­दि­यो­नि­मा­प­द्यन्ते कपूयचरणाः श्वादियोनिमिति । तत्रेदं विचार्यते — किं निरनुशया भुक्त­कृ­त्स्न­क­र्मा­णोऽ­व­रो­हन्ति, आहो­स्वि­त्सा­नु­शया इति । किं तावत्प्राप्तम् ? निरनुशया इति । कुतः ? ‘यावत्सम्पातम्’ इति विशेषणात् — सम्पा­त­श­ब्दे­नात्र कर्माशय उच्यते, सम्पतन्ति अनेन अस्माल्लोकात् अमुं लोकं फलोपभोगायेति । ‘याव­त्स­म्पा­त­मु­षित्वा’ इति च कृत्स्नस्य तस्य कृतस्य तत्रैव भुक्ततां दर्शयति । ‘तेषां यदा तत्पर्यवैति’(बृ. उ. ६ । २ । १६) इति च श्रुत्यन्तरेणैष एवार्थः प्रदर्श्यते । स्यादेतत् — याव­द­मु­ष्मिँ­ल्लोके उपभोक्तव्यं कर्म तावदुपभुङ्क्त इति कल्पयिष्यामीति । नैवं कल्पयितुं शक्यते, ‘यत्किञ्च’ इत्यन्यत्र परामर्शात् — ‘प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्मा­ल्लो­का­त्पु­न­रै­त्यस्मै लोकाय कर्मणे’(बृ. उ. ४ । ४ । ६) इति हि अपरा श्रुतिः ‘यत्किञ्च’ इत्य­वि­शे­ष­प­रा­म­र्शेन कृत्स्नस्येह कृतस्य कर्मणः तत्र क्षयिततां दर्शयति । अपि च प्राय­ण­म­ना­र­ब्ध­फ­लस्य कर्म­णोऽ­भि­व्य­ञ्ज­कम्; प्राक्प्रायणात् आरब्धफलेन कर्मणा प्रति­ब­द्ध­स्या­भि­व्य­क्त्य­नु­प­पत्तेः । तच्च अवि­शे­षा­द्या­व­त्कि­ञ्चि­द­ना­र­ब्ध­फलं तस्य सर्व­स्या­भि­व्य­ञ्ज­कम् । न हि साधारणे निमित्ते नैमि­त्ति­क­म­सा­धा­रणं भवितुमर्हति । न ह्यविशिष्टे प्रदीपसन्निधौ, घटोऽभिव्यज्यते न पट इत्युपपद्यते । तस्मान्निरनुशया अवरोहन्तीत्येवं प्राप्ते ब्रूमः —

कृता­त्य­येऽ­नु­श­य­वा­निति । येन कर्मबृन्देन चन्द्रमसमारूढाः फलोपभोगाय, तस्मिन्नुपभोगेन क्षयिते, तेषां यदम्मयं शरीरं चन्द्र­म­स्यु­प­भो­गा­या­र­ब्धम् , तत् उप­भो­ग­क्ष­य­द­र्श­न­शो­का­ग्नि­स­म्प­र्का­त्प्र­वि­ली­यते — सवि­तृ­कि­र­ण­स­म्प­र्का­दिव हिमकरकाः, हुत­भु­ग­र्चिः­स­म्प­र्का­दिव च घृतकाठिन्यम् । ततः कृतात्यये कृतस्येष्टादेः कर्मणः फलो­प­भो­गे­नो­प­क्षये सति, सानुशया एवेममवरोहन्ति । केन हेतुना ? दृष्ट­स्मृ­ति­भ्या­मि­त्याह । तथा हि प्रत्यक्षा श्रुतिः सानुशयानामवरोहं दर्शयति — ‘तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनि­मा­प­द्ये­र­न्ब्रा­ह्म­ण­योनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनि­मा­प­द्ये­र­ञ्श्व­योनिं वा सूकरयोनिं वा चण्डालयोनिं वा’(छा. उ. ५ । १० । ७) इति । चर­ण­श­ब्दे­ना­त्रा­नु­शयः सूच्यत इति वर्णयिष्यति । दृष्टश्चायं जन्मनैव प्रति­प्रा­ण्यु­च्चा­व­च­रूप उपभोगः प्रविभज्यमान आक­स्मि­क­त्वा­स­म्भ­वा­द­नु­श­य­स­द्भावं सूचयति, अभ्यु­द­य­प्र­त्य­वा­ययोः सुकृ­त­दु­ष्कृ­त­हे­तु­त्वस्य सामान्यतः शास्त्रे­णा­व­ग­मि­त­त्वात् । स्मृतिरपि — ‘वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशि­ष्ट­दे­श­जा­ति­कु­ल­रू­पा­युः­श्रु­त­वृ­त्त­वि­त्त­सु­ख­मे­धसो जन्म प्रतिपद्यन्ते’(गौ. ध. सू. २ । २ । २९) इति सानु­श­या­ना­मे­वा­व­रोहं दर्शयति ॥

कः पुनरनुशयो नामेति ? केचित्तावदाहुः — स्वर्गार्थस्य कर्मणो भुक्त­फ­ल­स्या­व­शेषः कश्चिदनुशयो नाम, भाण्डा­नु­सा­रि­स्ने­ह­वत् — यथा हि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रिच्यते, भाण्डानुसार्येव कश्चि­त्स्ने­ह­शे­षोऽ­व­ति­ष्ठते, तथा अनुशयोऽपीति । ननु कार्य­वि­रो­धि­त्वा­द­दृ­ष्टस्य न भुक्त­फ­ल­स्या­व­शे­षा­व­स्थानं न्याय्यम्; नायं दोषः । न हि सर्वात्मना भुक्तफलत्वं कर्मणः प्रतिजानीमहे । ननु निर­व­शे­ष­क­र्म­फ­लो­प­भो­गाय चन्द्र­म­ण्ड­ल­मा­रूढाः; बाढम् — तथापि स्वल्प­क­र्मा­व­शे­ष­मा­त्रेण तत्रावस्थातुं न लभ्यते । यथा किल कश्चित्सेवकः सकलैः सेवोपकरणैः राज­कु­ल­मु­प­सृ­प्त­श्चि­र­प्र­वा­सा­त्प­रि­क्षी­ण­ब­हू­प­क­र­ण­श्छ­त्र­पा­दु­का­दि­मा­त्रा­व­शेषो न राज­कु­लेऽ­व­स्थातुं शक्नोति, एव­म­नु­श­य­मा­त्र­प­रि­ग्रहो न चन्द्र­म­ण्ड­लेऽ­व­स्थातुं शक्नोतीति ॥

न चैतद्युक्तमिव । न हि स्वर्गार्थस्य कर्मणो भुक्त­फ­ल­स्या­व­शे­षा­नु­वृ­त्ति­रु­प­प­द्यते, कार्य­वि­रो­धि­त्वात् — इत्युक्तम् । नन्वे­त­द­प्यु­क्तम् — न स्वर्गफलस्य कर्मणो निखिलस्य भुक्तफलत्वं भविष्यतीति; तदेतदपेशलम् — स्वर्गार्थं किल कर्म स्वर्गस्थस्यैव स्वर्गफलं निखिलं न जनयति, स्वर्ग­च्यु­त­स्यापि कञ्चित्फललेशं जनयतीति । न शब्द­प्र­मा­ण­का­ना­मी­दृशी कल्पना अवकल्पते । स्नेहभाण्डे तु स्नेह­ले­शा­नु­वृ­त्ति­र्दृ­ष्ट­त्वा­दु­प­प­द्यते । तथा सेव­क­स्यो­प­क­र­ण­ले­शा­नु­वृ­त्तिश्च दृश्यते । न त्विह तथा स्वर्गफलस्य कर्मणो लेशा­नु­वृ­त्ति­र्दृ­श्यते । नापि कल्पयितुं शक्यते, स्वर्ग­फ­ल­त्व­शा­स्त्र­वि­रो­धात् । अवश्यं चैतदेवं विज्ञेयम् — न स्वर्ग­फ­ल­स्ये­ष्टादेः कर्मणो भाण्डा­नु­सा­रि­स्ने­ह­व­दे­क­दे­शोऽ­नु­व­र्त­मा­नोऽ­नु­शय इति । यदि हि येन सुकृतेन कर्मणा इष्टादिना स्वर्गमन्वभूवन् , तस्यैव कश्चि­दे­क­दे­शोऽ­नु­शयः कल्प्येत, ततो रमणीय एवैकोऽनुशयः स्यात् , न विपरीतः । तत्रे­य­म­नु­श­य­वि­भा­ग­श्रु­ति­रु­प­रु­ध्येत — ‘तद्य इह रमणीयचरणाः … अथ य इह कपूयचरणाः’(छा. उ. ५ । १० । ७) इति । तस्मा­दा­मु­ष्मि­क­फले कर्मजाते उप­भु­क्तेऽ­व­शि­ष्ट­मै­हि­क­फलं कर्मा­न्त­र­जा­त­म­नु­शयः, तद्व­न्तोऽ­व­रो­ह­न्तीति ॥

यदुक्तम् — ‘यत्किञ्च’ इत्य­वि­शे­ष­प­रा­म­र्शा­त्स­र्व­स्येह कृतस्य कर्मणः फलोपभोगेनान्तं प्राप्य निरनुशया अवरोहन्तीति, नैतदेवम् । अनु­श­य­स­द्भा­व­स्या­व­ग­मि­त­त्वात् , यत्किञ्चिदिह कृतमामुष्मिकफलं कर्म आरब्धभोगम् , तत्सर्वं फलोपभोगेन क्षपयित्वा — इति गम्यते । यदप्युक्तम् — प्रायणम् अवि­शे­षा­द­ना­र­ब्ध­फलं कृत्स्नमेव कर्माभिव्यनक्ति । तत्र केन­चि­त्क­र्म­णा­मु­ष्मिँ­ल्लोके फलमारभ्यते, केनचिदस्मिन् इत्ययं विभागो न सम्भवतीति — तद­प्य­नु­श­य­स­द्भा­व­प्र­ति­पा­द­ने­नैव प्रत्युक्तम् । अपि च केन हेतुना प्राय­ण­म­ना­र­ब्ध­फ­लस्य कर्म­णोऽ­भि­व्य­ञ्जकं प्रतिज्ञायत इति वक्तव्यम् । आरब्धफलेन कर्मणा प्रति­ब­द्ध­स्ये­त­रस्य वृत्त्यु­द्भ­वा­नु­प­पत्तेः, तदुपशमात् प्रायणकाले वृत्त्युद्भवो भवतीति यद्युच्येत — ततो वक्तव्यम् — यथैव तर्हि प्राक्प्रायणात् आरब्धफलेन कर्मणा प्रतिबद्धस्य इतरस्य वृत्त्यु­द्भ­वा­नु­प­पत्तिः, एवं प्रायणकालेऽपि विरु­द्ध­फ­ल­स्या­ने­कस्य कर्मणो युग­प­त्फ­ला­र­म्भा­स­म्भ­वात् बलवता प्रतिबद्धस्य दुर्बलस्य वृत्त्यु­द्भ­वा­नु­प­प­त्ति­रिति । न हि अना­र­ब्ध­फ­ल­त्व­सा­मा­न्येन जात्य­न्त­रो­प­भो­ग्य­फ­ल­म­प्य­नेकं कर्म एकस्मिन्प्रायणे युगपदभिव्यक्तं सत् एकां जातिमारभत इति शक्यं वक्तुम् , प्रति­नि­य­त­फ­ल­त्व­वि­रो­धात् । नापि कस्यचित्कर्मणः प्राय­णेऽ­भि­व्यक्तिः कस्यचिदुच्छेद इति शक्यते वक्तुम् , ऐका­न्ति­क­फ­ल­त्व­वि­रो­धात् । न हि प्राय­श्चि­त्ता­दि­भि­र्हे­तु­भि­र्विना कर्मणामुच्छेदः सम्भाव्यते । स्मृतिरपि विरुद्धफलेन कर्मणा प्रतिबद्धस्य कर्मान्तरस्य चिरमवस्थानं दर्शयति — ‘कदाचित्सुकृतं कर्म कूटस्थमिह तिष्ठति । मज्जमानस्य संसारे याव­द्दुः­खा­द्वि­मु­च्यते’(म. भा. १२ । २९० । १८) इत्येवंजातीयका । यदि च कृत्स्न­म­ना­र­ब्ध­फलं कर्म एक­स्मि­न्प्रा­य­णेऽ­भि­व्यक्तं सत् एकां जातिमारभेत, ततः स्वर्ग­न­र­क­ति­र्य­ग्यो­नि­ष्व­धि­का­रा­न­व­ग­मात् धर्मा­ध­र्मा­नु­त्पत्तौ निमित्ताभावात् नोत्तरा जातिरुपपद्येत, ब्रह्म­ह­त्या­दीनां च एकैकस्य कर्म­णोऽ­ने­क­ज­न्म­नि­मि­त्तत्वं स्मर्य­मा­ण­मु­प­रु­ध्येत । न च धर्माधर्मयोः स्वरू­प­फ­ल­सा­ध­ना­दि­स­म­धि­गमे शास्त्रा­द­ति­रिक्तं कारणं शक्यं सम्भावयितुम् । न च दृष्टफलस्य कर्मणः कारीर्यादेः प्राय­ण­म­भि­व्य­ञ्जकं सम्भवतीति, अव्यापिकापीयं प्राय­ण­स्या­भि­व्य­ञ्ज­क­त्व­क­ल्पना । प्रदी­पो­प­न्या­सोऽपि कर्म­ब­ला­ब­ल­प्र­द­र्श­ने­नैव प्रतिनीतः । स्थूल­सू­क्ष्म­रू­पा­भि­व्य­क्त्य­न­भि­व्य­क्ति­व­च्चेदं द्रष्टव्यम् — यथा हि प्रदीपः समानेऽपि सन्निधाने स्थूलं रूपमभिव्यनक्ति, न सूक्ष्मम् — एवं प्रायणं समा­नेऽ­प्य­ना­र­ब्ध­फ­लस्य कर्मजातस्य प्राप्तावसरत्वे बलवतः कर्मणो वृत्ति­मु­द्भा­व­यति, न दुर्बलस्येति । तस्मा­च्छ्रु­ति­स्मृ­ति­न्या­य­वि­रो­धा­द­श्लि­ष्टोऽ­य­म­शे­ष­क­र्मा­भि­व्य­क्त्य­भ्यु­प­गमः । शेष­क­र्म­स­द्भा­वेऽ­नि­र्मो­क्ष­प्र­सङ्ग इत्ययमप्यस्थाने सम्भ्रमः, सम्य­ग्द­र्श­ना­द­शे­ष­क­र्म­क्ष­य­श्रुतेः । तस्मात् स्थितमेतदेव — अनु­श­य­व­न्तोऽ­व­रो­ह­न्तीति । ते च अवरोहन्तो यथेतमनेवं च अवरोहन्ति । यथेतमिति यथागतमित्यर्थः । अनेवमिति तद्वि­प­र्य­ये­णे­त्यर्थः । धूमाकाशयोः पितृ­या­णेऽ­ध्व­न्यु­पा­त्त­यो­र­व­रोहे सङ्कीर्तनात् यथेतंशब्दाच्च यथागतमिति प्रतीयते । रात्र्या­द्य­स­ङ्की­र्त­ना­द­भ्रा­द्यु­प­सं­ख्या­नाच्च विपर्ययोऽपि प्रतीयते ॥ ८ ॥

चरणादिति चेन्नो­प­ल­क्ष­णा­र्थेति कार्ष्णाजिनिः ॥ ९ ॥

अथापि स्यात् — या श्रुति­र­नु­श­य­स­द्भा­व­प्र­ति­पा­द­ना­यो­दा­हृता — ‘तद्य इह रमणीयचरणाः’(छा. उ. ५ । १० । ७) इति, सा खलु चरणात् योन्यापत्तिं दर्शयति, नानुशयात् । अन्यच्चरणम् , अन्योऽनुशयः — चरणं चारित्रम् आचारः शील­मि­त्य­न­र्था­न्त­रम् , अनुशयस्तु भुक्त­फ­ला­त्क­र्म­णोऽ­ति­रिक्तं कर्म अभिप्रेतम् । श्रुतिश्च कर्मचरणे भेदेन व्यपदिशति — ‘यथाकारी यथाचारी तथा भवति’(बृ. उ. ४ । ४ । ५) इति, ‘यान्यनवद्यानि कर्माणि तानि सेवितव्यानि । नो इतराणि । यान्यस्माकꣳ सुचरितानि तानि त्वयोपास्यानि’(तै. उ. १ । ११ । २) इति च । तस्मात् चर­णा­द्यो­न्या­प­त्ति­श्रुतेः नानुशयसिद्धिः इति चेत् , नैष दोषः — यतोऽ­नु­श­यो­प­ल­क्ष­णा­र्थैव एषा चरणश्रुतिरिति कार्ष्णा­जि­नि­रा­चार्यो मन्यते ॥ ९ ॥

आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ १० ॥

१०

स्यादेतत् — कस्मा­त्पु­न­श्च­र­ण­श­ब्देन श्रौतं शीलं विहाय लाक्षणिकः अनुशयः प्रत्याय्यते ? ननु शीलस्यैव श्रौतस्य विहि­त­प्र­ति­षि­द्धस्य साध्वसाधुरूपस्य शुभा­शु­भ­यो­न्या­पत्तिः फलं भविष्यति; अवश्यं च शीलस्यापि किञ्चि­त्फ­ल­म­भ्यु­प­ग­न्त­व्यम् , अन्यथा ह्यानर्थक्यमेव शीलस्य प्रसज्येत — इति चेत् , नैष दोषः । कुतः ? तदपेक्षत्वात् । इष्टादि हि कर्मजातं चरणापेक्षम् । न हि सदाचारहीनः कश्चिदधिकृतः स्यात् — ‘आचारहीनं न पुनन्ति वेदाः’ इत्या­दि­स्मृ­तिभ्यः । पुरु­षा­र्थ­त्वेऽ­प्या­चा­रस्य न आनर्थक्यम् । इष्टादौ हि कर्मजाते फलमारभमाणे तदपेक्ष एवाचारस्तत्रैव कञ्चि­द­ति­श­य­मा­र­प्स्यते । कर्म च सर्वार्थकारि — इति श्रुति­स्मृ­ति­प्र­सिद्धिः । तस्मात्कर्मैव शीलो­प­ल­क्षि­त­म­नु­श­य­भूतं योन्यापत्तौ कारणमिति कार्ष्णा­जि­ने­र्म­तम् । न हि कर्मणि सम्भवति शीलात् योन्या­प­त्ति­र्युक्ता । न हि पद्भ्यां पलायितुं पारयमाणो जानुभ्यां रंहितुमर्हति — इति ॥ १० ॥

सुकृतदुष्कृते एवेति तु बादरिः ॥ ११ ॥

११

बाद­रि­स्त्वा­चार्यः सुकृतदुष्कृते एव चरणशब्देन प्रत्याय्येते इति मन्यते । चरणम् अनुष्ठानं कर्मे­त्य­न­र्था­न्त­रम् । तथा हि अविशेषेण कर्ममात्रे चरतिः प्रयुज्यमानो दृश्यते — यो हि इष्टादिलक्षणं पुण्यं कर्म करोति, तं लौकिका आचक्षते — धर्मं चरत्येष महात्मेति । आचारोऽपि च धर्मविशेष एव । भेदव्यपदेशस्तु कर्म­च­र­ण­यो­र्ब्रा­ह्म­ण­प­रि­व्रा­ज­क­न्या­ये­ना­प्यु­प­प­द्यते । तस्मात् रमणीयचरणाः प्रशस्तकर्माणः, कपूयचरणा निन्दितकर्माणः इति निर्णयः ॥ ११ ॥

अनि­ष्टा­दि­का­रि­णा­मपि च श्रुतम् ॥ १२ ॥

१२

इष्टा­दि­का­रि­ण­श्च­न्द्र­मसं गच्छ­न्ती­त्यु­क्तम् । ये त्वित­रेऽ­नि­ष्टा­दि­का­रिणः, तेऽपि किं चन्द्रमसं गच्छन्ति, उत न गच्छन्तीति चिन्त्यते । तत्र तावदाहुः — इष्टादिकारिण एव चन्द्रमसं गच्छन्तीत्येतत् न । कस्मात् ? यतोऽ­नि­ष्टा­दि­का­रि­णा­मपि चन्द्रमण्डलं गन्तव्यत्वेन श्रुतम् । तथा हि अविशेषेण कौषीतकिनः समामनन्ति — ‘ये वै के चास्मा­ल्लो­का­त्प्र­यन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति’(कौ. उ. १ । २) इति । देहारम्भोऽपि च पुनर्जायमानानां न अन्तरेण चन्द्र­प्रा­प्तिम् अवकल्पते, ‘पञ्च­म्या­मा­हुतौ’ इत्या­हु­ति­सं­ख्या­नि­य­मात् । तस्मात्सर्व एव चन्द्र­म­स­मा­सी­देयुः । इष्टा­दि­का­रि­णा­मि­त­रेषां च समानगतित्वं न युक्तमिति चेत् , न, इतरेषां चन्द्रमण्डले भोगाभावात् ॥ १२ ॥

संयमने त्वनु­भू­ये­त­रे­षा­मा­रो­हा­व­रोहौ तद्गतिदर्शनात् ॥ १३ ॥

१३

तुशब्दः पक्षं व्यावर्तयति । नैतदस्ति — सर्वे चन्द्रमसं गच्छन्तीति । कस्मात् ? भोगायैव हि चन्द्रारोहणम् , न निष्प्रयोजनम् । नापि प्रत्यवरोहायैव, — यथा कश्चि­द्वृ­क्ष­मा­रो­हति पुष्प­फ­लो­पा­दा­ना­यैव, न निष्प्रयोजनम् , नापि पतनायैव । भोगश्च अनि­ष्टा­दि­का­रिणां चन्द्रमसि नास्तीत्युक्तम् । तस्मा­दि­ष्टा­दि­का­रिण एव चन्द्र­म­स­मा­रो­हन्ति, नेतरे । ते तु संयमनं यमालयमवगाह्य स्वदु­ष्कृ­ता­नु­रूपा यामीर्यातना अनुभूय पुनरेव इमं लोकं प्रत्यवरोहन्ति । एवंभूतौ तेषामारोहावरोहौ भवतः । कुतः ? तद्गतिदर्शनात् । तथा हि यमवचनसरूपा श्रुतिः प्रयताम् अनि­ष्टा­दि­का­रिणां यमवश्यतां दर्शयति — ‘न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे’(क. उ. १ । २ । ६) इति । ‘वैवस्वतं सङ्गमनं जनानाम्’ इत्येवंजातीयकं च बह्वेव यम­व­श्य­ता­प्रा­प्ति­लिङ्गं भवति ॥ १३ ॥

स्मरन्ति च ॥ १४ ॥

१४

अपि च मनु­व्या­स­प्र­भृ­तयः शिष्टाः संयमने पुरे यमायत्तं कपूयकर्मविपाकं स्मरन्ति नाचि­के­तो­पा­ख्या­ना­दिषु ॥ १४ ॥

अपि च सप्त ॥ १५ ॥

१५

अपि च सप्त नरका रौरवप्रमुखा दुष्कृ­त­फ­लो­प­भो­ग­भू­मि­त्वेन स्मर्यन्ते पौराणिकैः । तान­नि­ष्टा­दि­का­रिणः प्राप्नुवन्ति । कुतस्ते चन्द्रं प्राप्नुयुः इत्यभिप्रायः ॥ १५ ॥

ननु विरुद्धमिदम् — यमायत्ता यातनाः पाप­क­र्मा­णोऽ­नु­भ­व­न्तीति, यावता तेषु रौरवादिषु अन्ये चित्रगुप्तादयो नानाधिष्ठातारः स्मर्यन्त इति; नेत्याह —

तत्रापि च तद्व्या­पा­रा­द­वि­रोधः ॥ १६ ॥

१६

तेष्वपि सप्तसु नरकेषु तस्यैव यम­स्या­धि­ष्ठा­तृ­त्व­व्या­पा­रा­भ्यु­प­ग­मा­द­वि­रोधः । यमप्रयुक्ता एव हि ते चित्र­गु­प्ता­द­योऽ­धि­ष्ठा­तारः स्मर्यन्ते ॥ १६ ॥

विद्या­क­र्म­णो­रिति तु प्रकृतत्वात् ॥ १७ ॥

१७

पञ्चा­ग्नि­वि­द्या­याम् ‘वेत्थ यथासौ लोको न सम्पूर्यते’(छा. उ. ५ । ३ । ३) इत्यस्य प्रश्नस्य प्रतिवचनावसरे श्रूयते — ‘अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्रा­ण्य­स­कृ­दा­व­र्तीनि भूतानि भवन्ति जायस्य म्रिय­स्त्वे­त्ये­त­त्तृ­तीयꣳ स्थानं तेनासौ लोको न सम्पूर्यते’(छा. उ. ५ । १० । ८) इति । तत्र एतयोः पथोरिति विद्या­क­र्म­णो­रि­त्ये­तत् । कस्मात् ? प्रकृतत्वात् । विद्याकर्मणी हि देव­या­न­पि­तृ­या­णयोः पथोः प्रतिपत्तौ प्रकृते — ‘तद्य इत्थं विदुः’(छा. उ. ५ । १० । १) इति विद्या, तया प्रतिपत्तव्यो देवयानः पन्थाः प्रकीर्तितः । ‘इष्टापूर्ते दत्तम्’(छा. उ. ५ । १० । ३) इति कर्म, तेन प्रतिपत्तव्यः पितृयाणः पन्थाः प्रकीर्तितः — तत्प्र­क्रि­या­याम् ‘अथैतयोः पथोर्न कतरेणचन’ इति श्रुतम् । एतदुक्तं भवति — ये न विद्यासाधनेन देवयाने पथ्यधिकृताः, नापि कर्मणा पितृयाणे, तेषामेष क्षुद्र­ज­न्तु­ल­क्ष­णोऽ­स­कृ­दा­वर्ती तृतीयः पन्था भवतीति । तस्मादपि न अनि­ष्टा­दि­का­रि­भि­श्च­न्द्रमाः प्राप्यते । स्यादेतत् — तेऽपि चन्द्र­बि­म्ब­मा­रुह्य ततोऽवरुह्य क्षुद्र­ज­न्तुत्वं प्रतिपत्स्यन्त इति । तदपि नास्ति, आरोहानर्थक्यात् । अपि च सर्वेषु प्रयत्सु चन्द्रलोकं प्राप्नुवत्सु असौ लोकः प्रयद्भिः सम्पूर्येत — इत्यतः प्रश्नविरुद्धं प्रतिवचनं प्रसज्येत; तथा हि प्रतिवचनं दातव्यम् , यथा असौ लोको न सम्पूर्यते । अव­रो­हा­भ्यु­प­ग­मा­द­स­म्पू­र­णो­प­प­त्ति­रिति चेत् , न, अश्रुतत्वात् । सत्यम् अव­रो­हा­द­प्य­स­म्पू­र­ण­मु­प­प­द्यते । श्रुतिस्तु तृती­य­स्था­न­स­ङ्की­र्त­नेन असम्पूरणं दर्शयति — ‘एतत्तृतीयं स्थानꣳ तेनासौ लोको न सम्पूर्यते’(छा. उ. ५ । १० । ८) इति । तेन अनारोहादेव असम्पूरणमिति युक्तम् । अव­रो­ह­स्ये­ष्टा­दि­का­रि­ष्व­प्य­वि­शि­ष्टत्वे सति तृती­य­स्था­नो­क्त्या­न­र्थ­क्य­प्र­स­ङ्गात् । तुशब्दस्तु शाखा­न्त­री­य­वा­क्य­प्र­भ­वा­म­शे­ष­ग­म­ना­श­ङ्का­मु­च्छि­नत्ति । एवं सति अधिकृतापेक्षः शाखान्तरीये वाक्ये सर्व­श­ब्दोऽ­व­ति­ष्ठते — ये वै केचिदधिकृता अस्मा­ल्लो­का­त्प्र­यन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति ॥ १७ ॥

यत्पुनरुक्तम् — देहलाभोपपत्तये सर्वे चन्द्रमसं गन्तुमर्हन्ति, ‘पञ्च­म्या­मा­हुतौ’ इत्या­हु­ति­सं­ख्या­नि­य­मा­दिति, तत्प्रत्युच्यते —

न तृतीये तथोपलब्धेः ॥ १८ ॥

१८

न तृतीये स्थाने देहलाभाय पञ्चसंख्यानियम आहु­ती­ना­मा­द­र्तव्यः । कुतः ? तथोपलब्धेः । तथा हि अन्त­रे­णै­वा­हु­ति­सं­ख्या­नि­यमं वर्णितेन प्रकारेण तृती­य­स्था­न­प्रा­प्ति­रु­प­ल­भ्यते — ‘जायस्व म्रिय­स्वे­त्ये­त­त्तृ­तीयꣳ स्थानम्’(छा. उ. ५ । १० । ८) इति । अपि च ‘पञ्च­म्या­मा­हु­ता­वापः पुरुषवचसो भवन्ति’(छा. उ. ५ । ३ । ३) इति मनु­ष्य­श­री­र­हे­तु­त्वेन आहुतिसंख्या सङ्कीर्त्यते, न कीट­प­त­ङ्गा­दि­श­री­र­हे­तु­त्वेन, पुरुषशब्दस्य मनु­ष्य­जा­ति­व­च­न­त्वात् । अपि च पञ्च­म्या­मा­हु­ता­वपां पुरु­ष­व­च­स्त्व­मु­प­दि­श्यते, न अपञ्चम्यामाहुतौ पुरुषवचस्त्वं प्रतिषिध्यते, वाक्यस्य द्व्यर्थ­ता­दो­षात् । तत्र येषामारोहावरोहौ सम्भवतः, तेषां पञ्चम्यामाहुतौ देह उद्भविष्यति । अन्येषां तु विनै­वा­हु­ति­सं­ख्यया भूता­न्त­रो­प­सृ­ष्टा­भि­र­द्भि­र्देह आरप्स्यते ॥ १८ ॥

स्मर्यतेऽपि च लोके ॥ १९ ॥

१९

अपि च स्मर्यते लोके, द्रोण­धृ­ष्ट­द्यु­म्न­प्र­भृ­तीनां सीता­द्रौ­प­दी­प्र­भृ­तीनां च अयोनिजत्वम् । तत्र द्रोणादीनां योषिद्विषया एका आहुतिर्नास्ति । धृष्ट­द्यु­म्ना­दीनां तु योषि­त्पु­रु­ष­वि­षये द्वे अप्याहुती न स्तः । यथा च तत्र आहु­ति­सं­ख्या­नि­य­मा­ना­दरो भवति, एवमन्यत्रापि भविष्यति । बलाकापि अन्तरेणैव रेतःसेकं गर्भं धत्त इति लोकरूढिः ॥ १९ ॥

दर्शनाच्च ॥ २० ॥

२०

अपि च चतुर्विधे भूतग्रामे जरा­यु­जा­ण्ड­ज­स्वे­द­जो­द्भि­ज्ज­ल­क्षणे स्वेद­जो­द्भि­ज्जयोः अन्तरेणैव ग्राम्यधर्मम् उत्प­त्ति­द­र्श­नात् आहु­ति­सं­ख्या­ना­दरो भवति । एवमन्यत्रापि भविष्यति ॥ २० ॥

ननु तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति ‘आण्डजं जीव­ज­मु­द्भि­ज्जम्’(छा. उ. ६ । ३ । १) इत्यत्र त्रिविध एव भूतग्रामः श्रूयते । कथं चतुर्विधत्वं भूतग्रामस्य प्रतिज्ञातमिति, अत्रोच्यते —

तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥

२१

‘आण्डजं जीव­ज­मु­द्भि­ज्जम्’(छा. उ. ६ । ३ । १) इत्यत्र तृती­ये­नो­द्भि­ज्ज­श­ब्दे­नैव स्वेद­जो­प­स­ङ्ग्रहः कृतः प्रत्येतव्यः, उभयोरपि स्वेद­जो­द्भि­ज्जयोः भूम्यु­द­को­द्भे­द­प्र­भ­व­त्वस्य तुल्यत्वात् । स्थाव­रो­द्भे­दात्तु विलक्षणो जङ्गमोद्भेद इत्यन्यत्र स्वेद­जो­द्भि­ज्ज­यो­र्भे­द­वाद इत्यविरोधः ॥ २१ ॥

साभा­व्या­प­त्ति­रु­प­पत्तेः ॥ २२ ॥

२२

इष्टा­दि­का­रि­ण­श्च­न्द्र­म­स­मा­रुह्य तस्मि­न्या­व­त्स­म्पा­त­मु­षित्वा ततः सानुशया अव­रो­ह­न्ती­त्यु­क्तम्; अथावरोहप्रकारः परीक्ष्यते । तत्रे­य­म­व­रो­ह­श्रु­ति­र्भ­वति — ‘अथैतमेवाध्वानं पुनर्निवर्तन्ते यथे­त­मा­का­श­मा­का­शा­द्वायुं वायुर्भूत्वा धूमो भवति धूमो’(छा. उ. ५ । १० । ५) ‘भूत्वाभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति’(छा. उ. ५ । १० । ६) इति । तत्र संशयः — किमा­का­शा­दि­स्व­रू­प­मे­वा­व­रो­हन्तः प्रतिपद्यन्ते, किं वा आका­शा­दि­सा­म्य­मिति । तत्र प्राप्तं तावत् — आका­शा­दि­स्व­रू­प­मेव प्रतिपद्यन्त इति । कुतः ? एवं हि श्रुतिर्भवति । इतरथा लक्षणा स्यात् । श्रुति­ल­क्ष­णा­वि­शये च श्रुति­र्न्याय्या, न लक्षणा । तथा च ‘वायुर्भूत्वा धूमो भवति’ इत्ये­व­मा­दी­न्य­क्ष­राणि तत्त­त्स्व­रू­पो­प­पत्तौ आञ्जस्येन अवकल्पन्ते । तस्मा­दा­का­शा­दि­स्व­रू­प­प्र­ति­प­त्ति­रिति । एवं प्राप्ते, ब्रूमः — आकाशादिसाम्यं प्रतिपद्यन्त इति । चन्द्रमण्डले यत् अम्मयं शरी­र­मु­प­भो­गा­र्थ­मा­र­ब्धम् , तत् उपभोगक्षये सति प्रविलीयमानं सूक्ष्ममाकाशसमं भवति । ततो वायोर्वशमेति । ततो धूमादिभिः सम्पृच्यत इति । तदेतदुच्यते — ‘यथे­त­मा­का­श­मा­का­शा­द्वा­युम्’(छा. उ. ५ । १० । ५) इत्येवमादिना । कुत एतत् ? उपपत्तेः । एवं हि एतदुपपद्यते । न हि अन्यस्यान्यभावो मुख्य उपपद्यते । आका­श­स्व­रू­प­प्र­ति­पत्तौ च वाय्वा­दि­क्र­मे­णा­व­रोहो नोपपद्यते । विभुत्वाच्च आकाशेन नित्य­स­म्ब­द्ध­त्वात् न तत्सा­दृ­श्या­प­त्ते­रन्यः तत्सम्बन्धो घटते । श्रुत्यसम्भवे च लक्षणाश्रयणं न्याय्यमेव । अत आका­शा­दि­तु­ल्य­ता­प­त्ति­रेव अत्र आकाशादिभाव इत्युपचर्यते ॥ २२ ॥

नातिचिरेण विशेषात् ॥ २३ ॥

२३

तत्र आका­शा­दि­प्र­ति­पत्तौ प्राग्व्री­ह्या­दि­प्र­ति­पत्तेः भवति विशयः — किं दीर्घं दीर्घं कालं पूर्व­पू­र्व­सा­दृ­श्ये­ना­व­स्था­यो­त्त­रो­त्त­र­सा­दृश्यं गच्छन्ति, उताल्पमल्पमिति । तत्रानियमः, नियमकारिणः शास्त्र­स्या­भा­वा­दि­त्येवं प्राप्ते, इदमाह — नातिचिरेणेति । अल्पमल्पं काल­मा­का­शा­दि­भा­वे­ना­व­स्थाय वर्षधाराभिः सह इमां भुवमापतन्ति । कुत एतत् ? विशेषदर्शनात्; तथा हि व्रीह्या­दि­भा­वा­प­त्ते­र­न­न्तरं विशिनष्टि — ‘अतो वै खलु दुर्नि­ष्प्र­प­त­रम्’(छा. उ. ५ । १० । ६) इति । तकार एकश्छान्दस्यां प्रक्रियायां लुप्तो मन्तव्यः । दुर्नि­ष्प्र­प­त­तरं दुर्नि­ष्क्र­म­त­रम् — दुःख­त­र­म­स्मा­द्व्री­ह्या­दि­भा­वा­न्निः­स­रणं भवतीत्यर्थः । तत् अत्र दुःखं निष्प्रपतनं प्रदर्शयन् पूर्वेषु सुखं निष्प्रपतनं दर्शयति । सुख­दुः­ख­ता­वि­शे­ष­श्चायं निष्प्रपतनस्य काला­ल्प­त्व­दी­र्घ­त्व­नि­मित्तः, तस्मिन्नवधौ शरी­रा­नि­ष्प­त्ते­रु­प­भो­गा­स­म्भ­वात् । तस्मा­द्व्री­ह्या­दि­भा­वा­पत्तेः प्राक् अल्पेनैव कालेनावरोहः स्यादिति ॥ २३ ॥

अन्याधिष्ठितेषु पूर्ववदभिलापात् ॥ २४ ॥

२४

तस्मि­न्ने­वा­व­रोहे प्रवर्षणानन्तरं पठ्यते — ‘त इह व्रीहियवा ओष­धि­व­न­स्प­त­य­स्ति­ल­माषा इति जायन्ते’(छा. उ. ५ । १० । ६) इति । तत्र संशयः — किमस्मिन्नवधौ स्थाव­र­जा­त्या­पन्नाः स्थाव­र­सु­ख­दुः­ख­भा­जोऽ­नु­श­यिनो भवन्ति, आहो­स्वि­त्क्षे­त्र­ज्ञा­न्त­रा­धि­ष्ठि­तेषु स्थावरशरीरेषु संश्लेषमात्रं गच्छन्तीति । किं तावत्प्राप्तम् ? स्थाव­र­जा­त्या­प­न्ना­स्त­त्सु­ख­दुः­ख­भा­जोऽ­नु­श­यिनो भवन्तीति । कुत एतत् ? जने­र्मु­ख्या­र्थ­त्वो­प­पत्तेः, स्थावरभावस्य च श्रुति­स्मृ­त्यो­रु­प­भो­ग­स्था­न­त्व­प्र­सिद्धेः, पशु­हिं­सा­दि­यो­गाच्च इष्टादेः कर्म­जा­त­स्या­नि­ष्ट­फ­ल­त्वो­प­पत्तेः । तस्मा­न्मु­ख्य­मे­वे­द­म­नु­श­यिनां व्रीह्यादिजन्म, श्वादिजन्मवत् — यथा ‘श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा’ इति मुख्य­मे­वा­नु­श­यिनां श्वादिजन्म तत्सु­ख­दुः­खा­न्वितं भवति, एवं व्रीह्या­दि­ज­न्मा­पीति । एवं प्राप्ते ब्रूमः —

अन्यै­र्जी­वै­र­धि­ष्ठि­तेषु व्रीह्यादिषु संस­र्ग­मा­त्र­म­नु­श­यिनः प्रतिपद्यन्ते, न तत्सुखदुःख भाजो भवन्ति, पूर्ववत् — यथा वायु­धू­मा­दि­भा­वोऽ­नु­श­यिनां तत्सं­श्ले­ष­मा­त्रम् , एवं व्रीह्या­दि­भा­वोऽपि जातिस्थावरैः संश्लेषमात्रम् । कुत एतत् ? तद्व­दे­वे­हा­प्य­भि­ला­पात् । कोऽभिलापस्य तद्वद्भावः ? कर्म­व्या­पा­र­म­न्त­रेण सङ्कीर्तनम् — यथा आकाशादिषु प्रवर्षणान्तेषु न कञ्चि­त्क­र्म­व्या­पारं परामृशति, एवं व्रीह्या­दि­ज­न्म­न्यपि । तस्मा­न्ना­स्त्यत्र सुख­दुः­ख­भा­क्त्व­म­नु­श­यि­नाम् । यत्र तु सुख­दुः­ख­भा­क्त्व­म­भि­प्रैति, परामृशति तत्र कर्मव्यापारम् — ‘रमणीयचरणाः’ ‘कपूयचरणाः’ इति । अपि च मुख्येऽनुशयिनां व्रीह्या­दि­ज­न्मनि, व्रीह्यादिषु लूयमानेषु कण्ड्यमानेषु पच्यमानेषु भक्ष्यमाणेषु च तद­भि­मा­नि­नोऽ­नु­श­यिनः प्रवसेयुः । यो हि जीवो यच्छ­री­र­म­भि­म­न्यते, स तस्मि­न्पी­ड्य­माने प्रवसति — इति प्रसिद्धम् । तत्र व्रीह्या­दि­भा­वा­द्रे­तः­सि­ग्भा­वोऽ­नु­श­यिनां नाभिलप्येत । अतः संस­र्ग­मा­त्र­म­नु­श­यि­ना­म­न्या­धि­ष्ठि­तेषु व्रीह्यादिषु भवति । एतेन जने­र्मु­ख्या­र्थत्वं प्रतिब्रूयात् , उपभोगस्थानत्वं च स्थावरभावस्य । न च वय­मु­प­भो­ग­स्था­नत्वं स्थाव­र­भा­व­स्या­व­जा­नी­महे । भवत्वन्येषां जन्तू­ना­म­पु­ण्य­सा­म­र्थ्येन स्थाव­र­भा­व­मु­प­ग­ता­नाम् एतत् उपभोगस्थानम् । चन्द्रमसस्तु अव­रो­ह­न्तोऽ­नु­श­यिनो न स्थाव­र­भा­व­मु­प­भु­ञ्जत इत्याचक्ष्महे ॥ २४ ॥

अशुद्धमिति चेन्न शब्दात् ॥ २५ ॥

२५

यत्पुनरुक्तम् — पशु­हिं­सा­दि­यो­गा­द­शु­द्ध­मा­ध्व­रिकं कर्म, तस्यानिष्टमपि फलमवकल्पत इत्यतो मुख्य­मे­वा­नु­श­यिनां व्रीह्यादिजन्म अस्तु । तत्र गौणी कल्पना अनर्थिकेति — तत्परिह्रियते — न, शास्त्र­हे­तु­त्वा­द्ध­र्मा­ध­र्म­वि­ज्ञा­नस्य । अयं धर्मः अयमधर्म इति शास्त्रमेव विज्ञाने कारणम् , अती­न्द्रि­य­त्वा­त्तयोः । अनि­य­त­दे­श­का­ल­नि­मि­त्त­त्वाच्च — यस्मिन्देशे काले निमित्ते च यो धर्मोऽ­नु­ष्ठी­यते, स एव देश­का­ल­नि­मि­त्ता­न्त­रे­ष्व­धर्मो भवति । तेन न शास्त्रादृते धर्माधर्मविषयं विज्ञानं कस्यचिदस्ति । शास्त्राच्च हिंसा­नु­ग्र­हा­द्या­त्मको ज्योतिष्टोमो धर्म इत्यवधारितः, स कथमशुद्ध इति शक्यते वक्तुम् । ननु ‘न हिंस्यात्सर्वा भूतानि’ इति शास्त्रमेव भूतविषयां हिंसाम् अधर्म इत्यवगमयति । बाढम् — उत्सर्गस्तु सः । अपवादः ‘अग्नीषोमीयं पशुमालभेत’ इति । उत्स­र्गा­प­वा­द­योश्च व्यव­स्थि­त­वि­ष­य­त्वम् । तस्माद्विशुद्धं कर्म वैदिकम्; शिष्टै­र­नु­ष्ठी­य­मा­न­त्वात् अनि­न्द्य­मा­न­त्वाच्च । तेन न तस्य प्रतिरूपं फलम् जातिस्थावरत्वम् । न च श्वादिजन्मवदपि व्रीह्यादिजन्म भवितुमर्हति । तद्धि कपू­य­च­र­णा­न­धि­कृत्य उच्यते । नैवमिह वैशेषिकः कश्चि­द­धि­का­रोऽस्ति । अत­श्च­न्द्र­म­ण्ड­ल­स्ख­लि­ता­ना­म­नु­श­यिनां व्रीह्या­दि­सं­श्ले­ष­मात्रं तद्भाव इत्युपचर्यते ॥ २५ ॥

रेतःसिग्योगोऽथ ॥ २६ ॥

२६

इतश्च व्रीह्या­दि­सं­श्ले­ष­मात्रं तद्भावः, यत्कारणं व्रीह्या­दि­भा­व­स्या­न­न्त­र­म­नु­श­यिनां रेतःसिग्भाव आम्नायते — ‘यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति’(छा. उ. ५ । १० । ६) इति । न चात्र मुख्यो रेतःसिग्भावः सम्भवति । चिरजातो हि प्राप्तयौवनो रेतःसिग्भवति । कथमिव अनुपचरितं तद्भावम् अद्य­मा­ना­न्ना­नु­ग­तोऽ­नु­शयी प्रतिपद्येत ? तत्र तावदवश्यं रेतःसिग्योग एव रेतः­सि­ग्भा­वोऽ­भ्यु­प­ग­न्तव्यः । तद्वत् व्रीह्या­दि­भा­वोऽपि व्रीह्यादियोग एवेत्यविरोधः ॥ २६ ॥

योनेः शरीरम् ॥ २७ ॥

२७

अथ रेतः­सि­ग्भा­व­स्या­न­न्तरं योनौ निषिक्ते रेतसि, योनेरधि शरीरम् अनुशयिनाम् अनुशयफलोपभोगाय जायत इत्याह शास्त्रम् — ‘तद्य इह रमणीयचरणाः’(छा. उ. ५ । १० । ७) इत्यादि । तस्मा­द­प्य­व­ग­म्यते — नावरोहे व्रीह्या­दि­भा­वा­व­सरे तच्छरीरमेव सुखदुःखान्वितं भवतीति । तस्मात् व्रीह्या­दि­सं­श्ले­ष­मा­त्र­म­नु­श­यिनां तज्जन्मेति सिद्धम् ॥ २७ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य
श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ शारी­र­क­मी­मां­सा­सू­त्र­भाष्ये
तृतीयाध्यायस्य प्रथमः पादः ॥

द्वितीयः पादः

अतिक्रान्ते पादे पञ्चा­ग्नि­वि­द्या­मु­दा­हृत्य जीवस्य संसारगतिप्रभेदः प्रपञ्चितः । इदानीं तस्यै­वा­व­स्था­भेदः प्रपञ्च्यते । इदमामनन्ति — ‘स यत्र प्रस्वपिति’(बृ. उ. ४ । ३ । ९) इत्युपक्रम्य ‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथा­न्र­थ­यो­गा­न्पथः सृजते’ इत्यादि । तत्र संशयः — किं प्रबोधे इव स्वप्नेऽपि पारमार्थिकी सृष्टिः, आहो­स्वि­न्मा­या­म­यीति । तत्र ताव­त्प्र­ति­पा­द्यते —

सन्ध्ये सृष्टिराह हि ॥ १ ॥

सन्ध्ये तथ्यरूपा सृष्टिरिति । सन्ध्यमिति स्वप्न­स्था­न­मा­चष्टे, वेदे प्रयोगदर्शनात् — ‘सन्ध्यं तृतीयꣳ स्वप्नस्थानम्’ इति; द्वयो­र्लो­क­स्था­नयोः प्रबो­ध­स­म्प्र­सा­द­स्था­न­योर्वा सन्धौ भवतीति सन्ध्यम् । तस्मिन्सन्ध्ये स्थाने तथ्यरूपैव सृष्टि­र्भ­वि­तु­म­र्हति — कुतः ? यतः प्रमाणभूता श्रुतिरेवमाह — ‘अथ रथा­न्र­थ­यो­गा­न्पथः सृजते’(बृ. उ. ४ । ३ । १०) इत्यादि । ‘स हि कर्ता’ इति च उपसंहारात् एवमेवावगम्यते ॥ १ ॥

निर्मातारं चैके पुत्रादयश्च ॥ २ ॥

अपि च एके शाखिनः अस्मिन्नेव सन्ध्ये स्थाने कामानां निर्मा­ता­र­मा­त्मा­न­मा­म­नन्ति — ‘य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः’(क. उ. २ । २ । ८) इति; पुत्रादयश्च तत्र कामा अभिप्रेयन्ते — काम्यन्त इति । ननु काम­श­ब्दे­ने­च्छा­वि­शेषा एवोच्येरन् । न, ‘शतायुषः पुत्र­पौ­त्रा­न्वृ­णीष्व’(क. उ. १ । १ । २३) इति प्रकृत्य अन्ते ‘कामानां त्वा कामभाजं करोमि’(क. उ. १ । १ । २४) इति प्रकृतेषु तत्र पुत्रादिषु कामशब्दस्य प्रयुक्तत्वात् । प्राज्ञं चैनं निर्मातारं प्रक­र­ण­वा­क्य­शे­षाभ्यां प्रतीमः । प्राज्ञस्य हीदं प्रकरणम् — ‘अन्यत्र धर्मा­द­न्य­त्रा­ध­र्मात्’(क. उ. १ । २ । १४) इत्यादि । तद्विषय एव च वाक्यशेषोऽपि — ‘तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन’(क. उ. २ । २ । ८) इति । प्राज्ञकर्तृका च सृष्टि­स्त­थ्य­रूपा समधिगता जागरिताश्रया। तथा स्वप्नाश्रयापि सृष्टि­र्भ­वि­तु­म­र्हति । तथा च श्रुतिः — ‘अथो खल्वा­हु­र्जा­ग­रि­त­देश एवास्यैष इति यानि ह्येव जाग्रत्पश्यति तानि सुप्तः’(बृ. उ. ४ । ३ । १४) इति स्वप्नजागरितयोः समानन्यायतां श्रावयति । तस्मा­त्त­थ्य­रू­पैव सन्ध्ये सृष्टिरिति ॥ २ ॥

एवं प्राप्ते, प्रत्याह —

मायामात्रं तु कार्त्स्न्ये­ना­न­भि­व्य­क्त­स्व­रू­प­त्वात् ॥ ३ ॥

तुशब्दः पक्षं व्यावर्तयति । नैतदस्ति — यदुक्तं सन्ध्ये सृष्टिः पारमार्थिकीति । मायैव सन्ध्ये सृष्टिः, न पर­मा­र्थ­ग­न्धोऽ­प्यस्ति । कुतः ? कार्त्स्न्ये­ना­न­भि­व्य­क्त­स्व­रू­प­त्वात् — न हि कार्त्स्न्येन पर­मा­र्थ­व­स्तु­ध­र्मेण अभि­व्य­क्त­स्व­रूपः स्वप्नः । किं पुनरत्र कार्त्स्न्य­म­भि­प्रे­तम् ? देश­का­ल­नि­मि­त्त­स­म्पत्तिः अबाधश्च । न हि पर­मा­र्थ­व­स्तु­वि­ष­याणि देश­का­ल­नि­मि­त्तानि अबाधश्च स्वप्ने सम्भाव्यन्ते । न तावत्स्वप्ने रथादीनामुचितो देशः सम्भवति । न हि संवृते देहदेशे रथादयोऽवकाशं लभेरन् । स्यादेतत् — बहिर्देहात् स्वप्नं द्रक्ष्यति, देशा­न्त­रि­त­द्र­व्य­ग्र­ह­णात् । दर्शयति च श्रुतिः बहि­र्दे­हा­त्स्व­प्नम् — ‘बहि­ष्कु­ला­या­द­मृ­त­श्च­रित्वा । स ईयतेऽमृतो यत्र कामम्’(बृ. उ. ४ । ३ । १२) इति । स्थिति­ग­ति­प्र­त्य­य­भे­दश्च न अनिष्क्रान्ते जन्तौ साम­ञ्ज­स्य­म­श्नु­वीत — इति । नेत्युच्यते — न हि सुप्तस्य जन्तोः क्षणमात्रेण योजनशतान्तरितं देशं पर्येतुं विपर्येतुं च ततः सामर्थ्यं सम्भाव्यते । क्वचिच्च प्रत्या­ग­म­न­व­र्जितं स्वप्नं श्रावयति — कुरुष्वहमद्य शयानो निद्र­या­भि­प्लुतः, स्वप्ने पञ्चालानभिगतश्च अस्मि­न्प्र­ति­बु­द्धश्च — इति । देहाच्चेदपेयात् , पञ्चालेष्वेव प्रतिबुध्येत , तानसावभिगत इति । कुरुष्वेव तु प्रतिबुध्यते । येन च अयं देहेन देशा­न्त­र­म­श्नु­वानो मन्यते, तमन्ये पार्श्वस्थाः शयनदेश एव पश्यन्ति । यथाभूतानि च अयं देशान्तराणि स्वप्ने पश्यति, न तानि तथाभूतान्येव भवन्ति । परि­धा­वं­श्चे­त्प­श्येत् , जाग्रद्वत् वस्तु­भू­त­म­र्थ­मा­क­ल­येत् । दर्शयति च श्रुतिरन्तरेव देहे स्वप्नम् — ‘स यत्रै­त­त्स्व­प्न्यया चरति’ इत्युपक्रम्य ‘स्वे शरीरे यथाकामं परिवर्तते’(बृ. उ. २ । १ । १८) इति । अतश्च श्रुत्यु­प­प­त्ति­वि­रो­धा­द्ब­हि­ष्कु­ला­य­श्रुतिः गौणी व्याख्यातव्या — बहिरिव कुलायात् अमृ­त­श्च­रि­त्वेति; यो हि वसन्नपि शरीरे न तेन प्रयोजनं करोति, स बहिरिव शरीराद्भवति — इति । स्थिति­ग­ति­प्र­त्य­य­भे­दोऽ­प्येवं सति विप्रलम्भ एवा­भ्यु­प­ग­न्तव्यः ॥

कालविसंवादोऽपि च स्वप्ने भवति — रजन्यां सुप्तो वासरं भारते वर्षे मन्यते; तथा मुहू­र्त­मा­त्र­व­र्तिनि स्वप्ने कदाचित् बहून् वर्षपूगान् अतिवाहयति । निमित्तान्यपि च स्वप्ने न बुद्धये कर्मणे वा उचितानि विद्यन्ते । करणोपसंहाराद्धि नास्य रथादिग्रहणाय चक्षुरादीनि सन्ति । रथा­दि­नि­र्व­र्त­नेऽपि कुतोऽस्य निमेषमात्रेण सामर्थ्यं दारूणि वा । बाध्यन्ते चैते रथादयः स्वप्नदृष्टाः प्रबोधे । स्वप्न एव च एते सुलभबाधा भवन्ति, आद्य­न्त­यो­र्व्य­भि­चा­र­द­र्श­नात् — रथोऽयमिति हि कदाचित्स्वप्ने निर्धारितः क्षणेन मनुष्यः सम्पद्यते, मनुष्योऽयमिति निर्धारितः क्षणेन वृक्षः । स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रम् — ‘न तत्र रथा न रथयोगा न पन्थानो भवन्ति’(बृ. उ. ४ । ३ । १०) इत्यादि । तस्मा­न्मा­या­मात्रं स्वप्नदर्शनम् ॥ ३ ॥

सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ ४ ॥

माया­मा­त्र­त्वा­त्तर्हि न कश्चित्स्वप्ने पर­मा­र्थ­ग­न्धोऽ­स्तीति — नेत्युच्यते — सूचकश्च हि स्वप्नो भवति भविष्यतोः साध्वसाधुनोः । तथा हि श्रूयते — ‘यदा कर्मसु काम्येषु स्त्रियꣳ स्वप्नेषु पश्यति । समृद्धिं तत्र जानी­या­त्त­स्मि­न्स्व­प्न­नि­द­र्शने’(छा. उ. ५ । २ । ८) इति । तथा ‘पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति’ इत्येवमादिभिः स्वप्नै­र­चि­र­जी­वि­त्व­मा­वे­द्यत इति श्रावयति । आचक्षते च स्वप्ना­ध्या­य­विदः — कुञ्ज­रा­रो­ह­णा­दीनि स्वप्ने धन्यानि, खर­या­ना­दी­न्य­ध­न्यानि’ इति । मन्त्र­दे­व­ता­द्र­व्य­वि­शे­ष­नि­मि­त्ताश्च केचित्स्वप्नाः सत्यार्थगन्धिनो भवन्तीति मन्यन्ते । तत्रापि भवतु नाम सूच्यमानस्य वस्तुनः सत्यत्वम् । सूचकस्य तु स्त्रीद­र्श­ना­दे­र्भ­व­त्येव वैतथ्यम् , बाध्य­मा­न­त्वा­दि­त्य­भि­प्रायः । तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् ॥

यदुक्तम् — ‘आह हि’ इति तदेवं सति भाक्तं व्याख्यातव्यम् — यथा ‘लाङ्गलं गवादीनुद्वहति’ इति निमि­त्त­मा­त्र­त्वा­दे­व­मु­च्यते, न तु प्रत्यक्षमेव लाङ्गलं गवादीनुद्वहति । एवं निमि­त्त­मा­त्र­त्वात् — सुप्तो रथादीन्सृजते, ‘स हि कर्ता’ — इति च उच्यते । न तु प्रत्यक्षमेव सुप्तो रथादीन्सृजति । निमित्तत्वं तु अस्य रथा­दि­प्र­ति­भा­न­नि­मि­त्त­मो­द­त्रा­सा­दि­द­र्श­ना­त्त­न्नि­मि­त्त­भू­तयोः सुकृतदुष्कृतयोः कर्तृत्वेनेति वक्तव्यम् । अपि च जागरिते विष­ये­न्द्रि­य­सं­यो­गात् आदि­त्या­दि­ज्यो­ति­र्व्य­ति­क­राच्च आत्मनः स्वयं­ज्यो­तिष्ट्वं दुर्विवेचनमिति तद्विवेचनाय स्वप्न उपन्यस्तः । तत्र यदि रथादिसृष्टिवचनं श्रुत्या नीयेत, ततः स्वयं­ज्यो­तिष्ट्वं न निर्णीतं स्यात् । तस्मा­द्र­था­द्य­भा­व­व­चनं श्रुत्या, रथादिसृष्टिवचनं तु भक्त्येति व्याख्येयम् । एतेन निर्माणश्रवणं व्याख्यातम् । यदप्युक्तम् — ‘प्राज्ञमेनं निर्मा­ता­र­मा­म­नन्ति’ इति, तदप्यसत् , श्रुत्यन्तरे ‘स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति’(बृ. उ. ४ । ३ । ९) इति जीव­व्या­पा­र­श्र­व­णात् । इहापि ‘य एष सुप्तेषु जागर्ति’(क. उ. २ । २ । ८) इति प्रसि­द्धा­नु­वा­दा­ज्जीव एवायं कामानां निर्माता सङ्कीर्त्यते । तस्य तु वाक्यशेषेण ‘तदेव शुक्रं तद्ब्रह्म’ इति जीवभावं व्यावर्त्य ब्रह्मभाव उपदिश्यते — ‘तत्त्वमसि’(छा. उ. ६ । ९ । ४) इत्यादिवत् — इति न ब्रह्मप्रकरणं विरुध्यते । न चास्माभिः स्वप्नेऽपि प्राज्ञव्यापारः प्रतिषिध्यते, तस्य सर्वेश्वरत्वात् सर्वा­स्व­प्य­व­स्था­स्व­धि­ष्ठा­तृ­त्वो­प­पत्तेः । पारमार्थिकस्तु नायं सन्ध्याश्रयः सर्गः वियदादिसर्गवत् — इत्ये­ता­व­त्प्र­ति­पा­द्यते । न च विय­दा­दि­स­र्ग­स्या­प्या­त्य­न्तिकं सत्यत्वमस्ति । प्रतिपादितं हि ‘तद­न­न्य­त्व­मा­र­म्भ­ण­श­ब्दा­दिभ्यः’(ब्र. सू. २ । १ । १४) इत्यत्र समस्तस्य प्रपञ्चस्य मायामात्रत्वम् । प्राक् तु ब्रह्मा­त्म­त्व­द­र्श­नात् वियदादिप्रपञ्चो व्यवस्थितरूपो भवति । सन्ध्याश्रयस्तु प्रपञ्चः प्रतिदिनं बाध्यते — इत्यतो वैशेषिकमिदं सन्ध्यस्य माया­मा­त्र­त्व­मु­दि­तम् ॥ ४ ॥

पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ५ ॥

अथापि स्यात् — परस्यैव तावदात्मनोंऽशः जीवः — अग्नेरिव विस्फुलिङ्गः । तत्रैवं सति यथा अग्नि­वि­स्फु­लि­ङ्गयोः समाने दहनप्रकाशनशक्ती भवतः, एवं जीवेश्वरयोरपि ज्ञानै­श्व­र्य­शक्ती । ततश्च जीवस्य ज्ञानै­श्व­र्य­व­शात् साङ्कल्पिकी स्वप्ने रथा­दि­सृ­ष्टि­र्भ­वि­ष्य­तीति । अत्रोच्यते — सत्यपि जीवे­श्व­र­यो­रं­शां­शि­भावे प्रत्यक्षमेव जीव­स्ये­श्व­र­वि­प­री­त­ध­र्म­त्वम् । किं पुनर्जीवस्य ईश्व­र­स­मा­न­ध­र्मत्वं नास्त्येव ? न नास्त्येव । विद्यमानमपि तत् तिरोहितम् अवि­द्या­दि­व्य­व­धा­नात् । तत्पु­न­स्ति­रो­हितं सत् पर­मे­श्व­र­म­भि­ध्या­यतो यतमानस्य जन्तो­र्वि­धू­त­ध्वा­न्तस्य — तिमिरतिरस्कृतेव दृक्शक्तिः औषधवीर्यात् — ईश्वरप्रसादात् संसिद्धस्य कस्य­चि­दे­वा­वि­र्भ­वति, न स्वभावत एव, सर्वेषां जन्तूनाम् । कुतः ? ततो हि ईश्वराद्धेतोः, अस्य जीवस्य, बन्धमोक्षौ भवतः — ईश्व­र­स्व­रू­पा­प­रि­ज्ञा­नात् बन्धः, तत्स्व­रू­प­प­रि­ज्ञा­नात्तु मोक्षः । तथा च श्रुतिः — ‘ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशै­र्ज­न्म­मृ­त्यु­प्र­हाणिः । तस्या­भि­ध्या­ना­त्तृ­तीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः’(श्वे. उ. १ । ११) इत्येवमाद्या ॥ ५ ॥

देहयोगाद्वा सोऽपि ॥ ६ ॥

कस्मा­त्पु­न­र्जीवः परमात्मांश एव सन् तिर­स्कृ­त­ज्ञा­नै­श्वर्यो भवति ? युक्तं तु ज्ञानै­श्व­र्य­यो­र­ति­र­स्कृ­त­त्वम् , विस्फु­लि­ङ्ग­स्येव दहनप्रकाशनयोः — इति । उच्यते — सत्यमेवैतत् । सोऽपि तु जीवस्य ज्ञानै­श्व­र्य­ति­रो­भावः, देहयोगात् देहे­न्द्रि­य­म­नो­बु­द्धि­वि­ष­य­वे­द­ना­दि­यो­गात् भवति । अस्ति च अत्रोपमा — यथा अग्ने­र्द­ह­न­प्र­का­श­न­स­म्प­न्न­स्या­प्य­र­णि­ग­तस्य दहनप्रकाशने तिरोहिते भवतः, यथा वा भस्मच्छन्नस्य — एव­म­वि­द्या­प्र­त्यु­प­स्था­पि­त­ना­म­रू­प­कृ­त­दे­हा­द्यु­पा­धि­यो­गात् तदविवेकभ्रमकृतो जीवस्य ज्ञानै­श्व­र्य­ति­रो­भावः । वाशब्दो जीवस्य ईश्वरात् अन्य­त्व­श­ङ्का­व्या­वृ­त्त्यर्थः । नन्वन्य एव जीवः ईश्वरादस्तु, तिर­स्कृ­त­ज्ञा­नै­श्व­र्य­त्वात् । किं देहयोगकल्पनया ? नेत्युच्यते — न हि अन्यत्वं जीवस्य ईश्वरादुपपद्यते — ‘सेयं देवतैक्षत’(छा. उ. ६ । ३ । २) इत्युपक्रम्य ‘अनेन जीवे­ना­त्म­ना­नु­प्र­विश्य’(छा. उ. ६ । ३ । २) इत्यात्मशब्देन जीवस्य परामर्शात्; ‘तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो’(छा. उ. ६ । ८ । ७) इति च जीवाय उपदिशति ईश्वरात्मत्वम् । अतः अनन्य एव ईश्वराज्जीवः सन् देह­यो­गा­त्ति­रो­हि­त­ज्ञा­नै­श्वर्यो भवति । अतश्च न साङ्कल्पिकी जीवस्य स्वप्ने रथा­दि­सृ­ष्टि­र्घ­टते । यदि च साङ्कल्पिकी स्वप्ने रथादिसृष्टिः स्यात् , नैवानिष्टं कश्चित्स्वप्नं पश्येत् , न हि कश्चिदनिष्टं सङ्कल्पयते । यत्पुनरुक्तम् — जाग­रि­त­दे­श­श्रुतिः स्वप्नस्य सत्यत्वं ख्यापयतीति, न तत्साम्यवचनं सत्य­त्वा­भि­प्रा­यम् , स्वयं­ज्यो­ति­ष्ट्व­वि­रो­धात् , श्रुत्यैव च स्वप्ने रथाद्यभावस्य दर्शितत्वात् । जाग­रि­त­प्र­भ­व­वा­स­ना­नि­र्मि­त­त्वात्तु स्वप्नस्य तत्तु­ल्य­नि­र्भा­स­त्वा­भि­प्रायं तत् । तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् ॥ ६ ॥

तदभावो नाडीषु तच्छ्रु­ते­रा­त्मनि च ॥ ७ ॥

स्वप्नावस्था परीक्षिता । सुषु­प्ता­व­स्थे­दानीं परीक्ष्यते । तत्रैताः सुषुप्तविषयाः श्रुतयो भवन्ति । क्वचिच्छ्रूयते — ‘तद्य­त्रै­त­त्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति’(छा. उ. ८ । ६ । ३) इति । अन्यत्र तु नाडी­रे­वा­नु­क्रम्य श्रूयते — ‘ताभिः प्रत्यवसृप्य पुरीतति शेते’(बृ. उ. २ । १ । १९) इति । तथान्यत्र नाडी­रे­वा­नु­क्रम्य — ‘तासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्य­त्य­था­स्मि­न्प्राण एवैकधा भवति’(कौ. उ. ४ । १९) इति; तथान्यत्र — ‘य एषोऽन्तर्हृदय आका­श­स्त­स्मि­ञ्शेते’(बृ. उ. २ । १ । १७) इति; तथान्यत्र — ‘सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति’(छा. उ. ६ । ८ । १) इति । तथा — ‘प्राज्ञे­ना­त्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’(बृ. उ. ४ । ३ । २१) इति च ॥

तत्र संशयः — किमेतानि नाड्यादीनि पर­स्प­र­नि­र­पे­क्षाणि भिन्नानि सुषु­प्ति­स्था­नानि, आहो­स्वि­त्प­र­स्प­रा­पे­क्षया एकं सुषु­प्ति­स्था­न­मिति । किं तावत्प्राप्तम् ? भिन्नानीति । कुतः ? एकार्थत्वात् — न हि एकार्थानां क्वचि­त्प­र­स्प­रा­पे­क्षत्वं दृश्यते व्रीहियवादीनाम् । नाड्यादीनां च एकार्थता सुषुप्तौ दृश्यते, ‘नाडीषु सृप्तो भवति’(छा. उ. ८ । ६ । ३) ‘पुरीतति शेते’(बृ. उ. २ । १ । १९) इति च तत्र तत्र सप्त­मी­नि­र्दे­शस्य तुल्यत्वात् । ननु नैवं सति सप्तमीनिर्देशो दृश्यते — ‘सता सोम्य तदा सम्पन्नो भवति’(छा. उ. ६ । ८ । १) इति । नैष दोषः, तत्रापि सप्तम्यर्थस्य गम्यमानत्वात् — वाक्यशेषो हि तत्र आयतनैषी जीवः सत् उपसर्पतीत्याह — ‘अन्य­त्रा­य­त­न­म­लब्ध्वा प्राण­मे­वा­श्र­यते’(छा. उ. ६ । ८ । २) इति; प्राणशब्देन तत्र प्रकृतस्य सत उपादानात् । आयतनं च सप्तम्यर्थः, सप्त­मी­नि­र्दे­शोऽपि तत्र वाक्यशेषे दृश्यते — ‘सति सम्पद्य न विदुः सति सम्पद्यामहे’(छा. उ. ६ । ९ । २) इति । सर्वत्र च विशे­ष­वि­ज्ञा­नो­प­र­म­ल­क्षणं सुषुप्तं न विशिष्यते । तस्मा­दे­का­र्थ­त्वात् नाड्यादीनां विकल्पेन कदाचित् किञ्चित्स्थानं स्वापायोपसर्पति — इति ॥

एवं प्राप्ते, प्रतिपाद्यते — तदभावो नाडीष्वात्मनि चेति । तदभाव इति, तस्य प्रकृतस्य स्वप्नदर्शनस्य अभावः सुषु­प्त­मि­त्यर्थः । नाडीष्वात्मनि चेति समुच्चयेन एतानि नाड्यादीनि स्वापा­यो­प­स­र्पति, न विकल्पेन — इत्यर्थः । कुतः ? तच्छ्रुतेः । तथा हि सर्वेषामेव नाड्यादीनां तत्र तत्र सुषु­प्ति­स्था­नत्वं श्रूयते । तच्च समुच्चये सङ्गृहीतं भवति । विकल्पे ह्येषाम् , पक्षे बाधः स्यात् । ननु एका­र्थ­त्वा­द्वि­कल्पो नाड्यादीनां व्रीहियवादिवत् — इत्युक्तम्; नेत्युच्यते — न हि एक­वि­भ­क्ति­नि­र्दे­श­मा­त्रेण एकार्थत्वं विकल्पश्च आपतति, नाना­र्थ­त्व­स­मु­च्च­य­यो­र­प्ये­क­वि­भ­क्ति­नि­र्दे­श­द­र्श­नात् — प्रासादे शेते पर्यङ्के शेते इत्येवमादिषु, तथा इहापि नाडीषु पुरीतति ब्रह्मणि च स्वपितीति उपपद्यते समुच्चयः । तथा च श्रुतिः — ‘तासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्य­त्य­था­स्मि­न्प्राण एवैकधा भवति’(कौ. उ. ४ । १९) इति समुच्चयं नाडीनां प्राणस्य च सुषुप्तौ श्रावयति, एक­वा­क्यो­पा­दा­नात् । प्राणस्य च ब्रह्मत्वं समधिगतं — ‘प्राण­स्त­था­नु­ग­मात्’(ब्र. सू. १ । १ । २८) इत्यत्र । यत्रापि निरपेक्षा इव नाडीः सुप्ति­स्था­न­त्वेन श्रावयति — ‘आसु तदा नाडीषु सृप्तो भवति’(छा. उ. ८ । ६ । ३) इति, तत्रापि प्रदे­शा­न्त­र­प्र­सि­द्धस्य ब्रह्म­णोऽ­प्र­ति­षे­धात् नाडीद्वारेण ब्रह्म­ण्ये­वा­व­ति­ष्ठत इति प्रतीयते । न चैवमपि नाडीषु सप्तमी विरुध्यते, नाडीद्वारापि ब्रह्मोपसर्पन् सृप्त एव नाडीषु भवति — यो हि गङ्गया सागरं गच्छति, गत एव स गङ्गायां भवति । भवति च अत्र रश्मि­ना­डी­द्वा­रा­त्म­कस्य ब्रह्म­लो­क­मा­र्गस्य विवक्षितत्वात् नाडीस्तुत्यर्थं सृप्ति­स­ङ्की­र्त­नम् — ‘नाडीषु सृप्तो भवति’(छा. उ. ८ । ६ । ३) इत्युक्त्वा ‘तं न कश्चन पाप्मा स्पृशति’(छा. उ. ८ । ६ । ३) इति ब्रुवन् नाडीः प्रशंसति । ब्रवीति च पाप्म­स्प­र्शा­भावे हेतुम् ‘तेजसा हि तदा सम्पन्नो भवति’(छा. उ. ८ । ६ । ३) इति — तेजसा नाडीगतेन पित्ताख्येन अभिव्याप्तकरणो न बाह्यान् विषयानीक्षत इत्यर्थः । अथवा तेजसेति ब्रह्मण एवायं निर्देशः, श्रुत्यन्तरे । ‘ब्रह्मैव तेज एव’(बृ. उ. ४ । ४ । ७) इति तेजःशब्दस्य ब्रह्मणि प्रयुक्तत्वात् । ब्रह्मणा हि तदा सम्पन्नो भवति नाडीद्वारेण, अतस्तं न कश्चन पाप्मा स्पृशतीत्यर्थः — ब्रह्म­स­म्प­त्तिश्च पाप्म­स्प­र्शा­भावे हेतुः समधिगतः ‘सर्वे पाप्मानोऽतो निव­र्त­न्तेऽ­प­ह­त­पाप्मा ह्येष ब्रह्मलोकः’(छा. उ. ८ । ४ । १) इत्या­दि­श्रु­तिभ्यः । एवं च सति प्रदे­शा­न्त­र­प्र­सि­द्धेन ब्रह्मणा सुषु­प्ति­स्था­ने­ना­नु­गतो नाडीनां समुच्चयः समधिगतो भवति । तथा पुरीततोऽपि ब्रह्म­प्र­क्रि­यायां सङ्कीर्तनात् तदनुगुणमेव सुषु­प्ति­स्था­नत्वं विज्ञायते — ‘य एषोऽन्तर्हृदय आका­श­स्त­स्मि­ञ्शेते’(बृ. उ. २ । १ । १७) इति हृदयाकाशे सुषुप्तिस्थाने प्रकृते इदमुच्यते — ‘पुरीतति शेते’(बृ. उ. २ । १ । १९) इति । पुरीतदिति हृद­य­प­रि­वे­ष्ट­न­मु­च्यते । तद­न्त­र्व­र्ति­न्यपि हृदयाकाशे शयानः शक्यते ‘पुरीतति शेते’ इति वक्तुम् — प्राका­र­प­रि­क्षि­प्तेऽपि हि पुरे वर्तमानः प्राकारे वर्तत इत्युच्यते । हृदयाकाशस्य च ब्रह्मत्वं समधिगतम् ‘दहर उत्तरेभ्यः’(ब्र. सू. १ । ३ । १४) इत्यत्र । तथा नाडी­पु­री­त­त्स­मु­च्च­योऽपि ‘ताभिः प्रत्यवसृप्य पुरीतति शेते’(बृ. उ. २ । १ । १९) इत्ये­क­वा­क्यो­पा­दा­नात् अवगम्यते । सत्प्राज्ञयोश्च प्रसिद्धमेव ब्रह्मत्वम् । एवमेतासु श्रुतिषु त्रीण्येव सुषु­प्ति­स्था­नानि सङ्कीर्तितानि — नाड्यः पुरीतत् ब्रह्म चेति । तत्रापि द्वारमात्रं नाड्यः पुरीतच्च, ब्रह्मैव तु एकम् अनपायि सुषुप्तिस्थानम् । अपि च नाड्यः पुरीतद्वा जीव­स्यो­पा­ध्या­धार एव भवति — तत्रास्य करणानि वर्तन्त इति । न हि उपा­धि­स­म्ब­न्ध­म­न्त­रेण स्वत एव जीवस्याधारः कश्चित्सम्भवति, ब्रह्मा­व्य­ति­रे­केण स्वम­हि­म­प्र­ति­ष्ठि­त­त्वात् । ब्रह्मा­धा­र­त्व­म­प्यस्य सुषुप्ते नैव आधा­रा­धे­य­भे­दा­भि­प्रा­येण उच्यते । कथं तर्हि ? तादा­त्म्या­भि­प्रा­येण; यत आह — ‘सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति’(छा. उ. ६ । ८ । १) इति; स्वशब्देन आत्मा अभिलप्यते, स्वरूपमापन्नः सुप्तो भवतीत्यर्थः । अपि च न कदाचिज्जीवस्य ब्रह्मणा सम्प­त्ति­र्नास्ति, स्वरू­प­स्या­न­पा­यि­त्वात् । स्वप्न­जा­ग­रि­त­यो­स्तू­पा­धि­स­म्प­र्क­व­शात् पर­रू­पा­प­त्ति­मि­वा­पेक्ष्य तदु­प­श­मा­त्सु­षुप्ते स्वरू­पा­प­त्ति­र्वि­व­क्ष्यते — ‘स्वमपीतो भवति’ इति । अतश्च सुषु­प्ता­व­स्थायां कदाचित्सता सम्पद्यते, कदाचिन्न सम्पद्यते — इत्ययुक्तम् । अपि च स्थान­वि­क­ल्पा­भ्यु­प­ग­मेऽपि विशे­ष­वि­ज्ञा­नो­प­श­म­ल­क्षणं तावत्सुषुप्तं न क्वचि­द्वि­शि­ष्यते । तत्र सति सम्पन्नस्तावत् एकत्वात् न विजानातीति युक्तम् , ‘तत्केन कं विजानीयात्’(छा. उ. २ । ४ । १४) इति श्रुतेः । नाडीषु पुरीतति च शयानस्य न किञ्चित् अविज्ञाने कारणं शक्यं विज्ञातुम् , भेदविषयत्वात् , ‘यत्र वा अन्यदिव स्यात्त­त्रा­न्योऽ­न्य­त्प­श्येत्’(बृ. उ. ४ । ३ । ३१) इति श्रुतेः । ननु भेद­वि­ष­य­स्या­प्य­ति­दू­रा­दि­का­र­ण­म­वि­ज्ञाने स्यात्; बाढमेवं स्यात् , यदि जीवः स्वतः परि­च्छि­न्नोऽ­भ्यु­प­ग­म्येत — यथा विष्णुमित्रः प्रवासी स्वगृहं न पश्यतीति । न तु जीव­स्यो­पा­धि­व्य­ति­रे­केण परिच्छेदो विद्यते । उपा­धि­ग­त­मे­वा­ति­दू­रा­दि­का­र­णम् अविज्ञाने इति यद्युच्येत, तथा­प्यु­पा­धे­रु­प­शा­न्त­त्वात् सत्येव सम्पन्नः न विजानातीति युक्तम् । न च वयमिह तुल्यवत् नाड्या­दि­स­मु­च्चयं प्रतिपादयामः । न हि नाड्यः सुप्तिस्थानं पुरीतच्च इत्यनेन विज्ञानेन किञ्चि­त्प्र­यो­ज­न­मस्ति । न ह्येत­द्वि­ज्ञा­न­प्र­ति­बद्धं किञ्चित्फलं श्रूयते । नाप्ये­त­द्वि­ज्ञानं फलवतः कस्य­चि­द­ङ्ग­मु­प­दि­श्यते । ब्रह्म तु अनपायि सुप्तिस्थानम् — इत्ये­त­त्प्र­ति­पा­द­यामः । तेन तु विज्ञानेन प्रयोजनमस्ति जीवस्य ब्रह्मा­त्म­त्वा­व­धा­रणं स्वप्न­जा­ग­रि­त­व्य­व­हा­र­वि­मु­क्त­त्वा­व­धा­रणं च । तस्मादात्मैव सुप्तिस्थानम् ॥ ७ ॥

अतः प्रबोधोऽस्मात् ॥ ८ ॥

यस्माच्च आत्मैव सुप्तिस्थानम् , अत एव च कारणात् नित्यवदेव अस्मादात्मनः प्रबोधः स्वापाधिकारे शिष्यते, ‘कुत एतदागात्’(बृ. उ. २ । १ । १६) इत्यस्य प्रश्नस्य प्रतिवचनावसरे — ‘यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्च­र­न्त्ये­व­मे­वा­स्मा­दा­त्मनः सर्वे प्राणाः’(बृ. उ. २ । १ । २०) इत्यादिना, ‘सत आगम्य न विदुः सत आगच्छामहे’(छा. उ. ६ । १० । २) इति च । विकल्प्यमानेषु तु सुषु­प्ति­स्था­नेषु, कदाचिन्नाडीभ्यः प्रतिबुध्यते कदाचित्पुरीततः कदाचिदात्मनः — इत्यशासिष्यत् । तस्मादप्यात्मैव सुप्तिस्थानमिति ॥ ८ ॥

स एव तु कर्मा­नु­स्मृ­ति­श­ब्द­वि­धिभ्यः ॥ ९ ॥

तस्याः पुनः सत्सम्पत्तेः प्रतिबुध्यमानः किं य एव सत्सम्पन्नः स एव प्रतिबुध्यते, उत स वा अन्यो वा इति चिन्त्यते । तत्र प्राप्तं तावत् — अनियम इति । कुतः ? यदा हि जलराशौ कश्चि­ज्ज­ल­बिन्दुः प्रक्षिप्यते, जलराशिरेव स तदा भवति, पुनरुद्धरणे च स एव जलबिन्दुर्भवति इति दुःसम्पादम् — तद्वत् सुप्तः परे­णै­क­त्व­मा­पन्नः सम्प्रसीदतीति न स एव पुन­रु­त्था­तु­म­र्हति; तस्मात् स एव ईश्वरो वा अन्यो वा जीवः प्रतिबुध्यते इति ॥

एवं प्राप्ते, इदमाह — स एव तु जीवः सुप्तः स्वास्थ्यं गतः पुनरुत्तिष्ठति, नान्यः । कस्मात् ? कर्मा­नु­स्मृ­ति­श­ब्द­वि­धिभ्यः । विभज्य हेतुं दर्शयिष्यामि । कर्म­शे­षा­नु­ष्ठा­न­द­र्श­ना­त्ता­वत्स एवोत्थातुमर्हति नान्यः । तथा हि — पूर्वे­द्यु­र­नु­ष्ठि­तस्य कर्मणः अपरेद्युः शेष­म­नु­ति­ष्ठ­न्दृ­श्यते । न चान्येन सामिकृतस्य कर्मणः अन्यः शेषक्रियायां प्रव­र्ति­तु­मु­त्स­हते, अतिप्रसङ्गात् । तस्मादेक एव पूर्वे­द्यु­र­प­रे­द्युश्च एकस्य कर्मणः कर्तेति गम्यते । इतश्च स एवोत्तिष्ठति, यत्कारणम् अतीतेऽहनि अह­म­दोऽ­द्रा­क्ष­मिति पूर्वानुभूतस्य पश्चात्स्मरणम् अन्यस्योत्थाने नोपपद्यते । न ह्यन्यदृष्टम् अन्योऽ­नु­स्म­र्तु­म­र्हति । सोऽहमस्मीति च आत्मा­नु­स्म­र­ण­मा­त्मा­न्त­रो­त्थाने नावकल्पते । शब्देभ्यश्च तस्यै­वो­त्था­न­म­व­ग­म्यते । तथा हि — ‘पुनः प्रतिन्यायं प्रति­यो­न्या­द्र­वति बुद्धान्तायैव’(बृ. उ. ४ । ३ । १६) ‘इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’(छा. उ. ८ । ३ । २) ‘त इह व्याघ्रो वा सिꣳहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दꣳशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति’(छा. उ. ६ । ९ । ३) इत्येवमादयः शब्दाः स्वाप­प्र­बो­धा­धि­का­र­प­ठिता न आत्मा­न्त­रो­त्थाने सामञ्जस्यम् ईयुः । कर्म­वि­द्या­वि­धि­भ्य­श्चै­व­मे­वा­व­ग­म्यते । अन्यथा हि कर्म­वि­द्या­वि­ध­योऽ­न­र्थकाः स्युः । अन्योत्थानपक्षे हि सुप्तमात्रो मुच्यत इत्यापद्येत । एवं चेत्स्यात् , वद किं कालान्तरफलेन कर्मणा विद्यया वा कृतं स्यात् ? अपि च अन्योत्थानपक्षे यदि तावच्छरीरान्तरे व्यवहरमाणो जीव उत्तिष्ठेत् , तत्र­त्य­व्य­व­हा­र­लो­प­प्र­सङ्गः स्यात् । अथ तत्र सुप्त उत्तिष्ठेत् , कल्पनानर्थक्यं स्यात् । यो हि यस्मिन् शरीरे सुप्तः सः तस्मिन् नोत्तिष्ठति, अन्यस्मिन् शरीरे सुप्तः अन्य­स्मि­न्नु­त्ति­ष्ठ­तीति कोऽस्याम् कल्पनायां लाभः स्यात् ? अथ मुक्त उत्तिष्ठेत् , अन्तवान्मोक्ष आपद्येत । निवृ­त्ता­वि­द्यस्य च पुन­रु­त्था­न­म­नु­प­प­न्नम् । एतेन ईश्वरस्योत्थानं प्रत्युक्तम् , नित्य­नि­वृ­त्ता­वि­द्य­त्वात् । अकृ­ता­भ्या­ग­म­कृ­त­वि­प्र­णाशौ च दुर्नि­वा­रा­व­न्यो­त्था­न­पक्षे स्याताम् । तस्मात्स एवोत्तिष्ठति, नान्य इति । यत्पुनरुक्तम् — यथा जलराशौ प्रक्षिप्तो जल­बि­न्दु­र्नो­द्धर्तुं शक्यते, एवं सति सम्पन्नो जीवो नोत्प­ति­तु­म­र्ह­तीति, तत्परिह्रियते — युक्तं तत्र विवे­क­का­र­णा­भा­वात् जल­बि­न्दो­र­नु­द्ध­र­णम् , इह तु विद्यते विवेककारणम् — कर्म च अविद्या च, इति वैषम्यम् । दृश्यते च दुर्वि­वे­च­न­यो­र­प्य­स्म­ज्जा­तीयैः क्षीरोदकयोः संसृष्टयोः हंसेन विवेचनम् । अपि च न जीवो नाम कश्चि­त्प­र­स्मा­दन्यो विद्यते, यो जलबिन्दुरिव जलराशेः सतो विविच्येत । सदेव तु उपा­धि­स­म्प­र्का­ज्जीव इत्युपचर्यते इत्य­स­कृ­त्प्र­प­ञ्चि­तम् । एवं सति यावदेकोपाधिगता बन्धानुवृत्तिः, ताव­दे­क­जी­व­व्य­व­हारः । उपा­ध्य­न्त­र­ग­तायां तु बन्धानुवृत्तौ जीवा­न्त­र­व्य­व­हारः । स एवायमुपाधिः स्वापप्रबोधयोः बीजा­ङ्कु­र­न्या­येन — इत्यतः स एव जीवः प्रतिबुध्यत इति युक्तम् ॥ ९ ॥

मुग्धेऽ­र्ध­स­म्पत्तिः परिशेषात् ॥ १० ॥

१०

अस्ति मुग्धो नाम, यं मूर्छित इति लौकिकाः कथयन्ति । स तु किमवस्थ इति परीक्षायाम् , उच्यते — तिस्र­स्ता­व­द­वस्थाः शरीरस्थस्य जीवस्य प्रसिद्धाः — जागरितं स्वप्नः सुषुप्तमिति । चतुर्थी शरीरादपसृप्तिः । न तु पञ्चमी काचिदवस्था जीवस्य श्रुतौ स्मृतौ वा प्रसिद्धा अस्ति । तस्मा­च्च­त­सृ­णा­मे­वा­व­स्था­ना­म­न्य­त­मा­वस्था मूर्छा — इति ॥

एवं प्राप्ते, ब्रूमः — न तावन्मुग्धो जागरितावस्थो भवितुमर्हति । न ह्यय­मि­न्द्रि­यै­र्वि­ष­या­नी­क्षते । स्यादेतत् — इषुकारन्यायेन मुग्धो भविष्यति — यथा इषुकारो जाग्रदपि इष्वा­स­क्त­म­न­स्तया नान्या­न्वि­ष­या­नी­क्षते, एवं मुग्धो मुस­ल­स­म्पा­ता­दि­ज­नि­त­दुः­खा­नु­भ­व­व्य­ग्र­म­न­स्तया जाग्रदपि नान्या­न्वि­ष­या­नी­क्षत इति; न, अचेतयमानत्वात् । इषुकारो हि व्यापृतमना ब्रवीति — इषु­मे­वा­ह­मे­ता­वन्तं काल­मु­प­ल­भ­मा­नोऽ­भू­व­मिति, मुग्धस्तु लब्धसंज्ञो ब्रवीति — अन्धे तमस्यहमेतावन्तं कालं प्रक्षि­प्तोऽ­भू­वम् , न किञ्चिन्मया चेतितमिति । जाग्र­त­श्चै­क­वि­ष­य­वि­ष­क्त­चे­त­सोऽपि देहो विध्रियते । मुग्धस्य तु देहो धरण्यां पतति । तस्मात् न जागर्ति । नापि स्वप्ना­न्प­श्यति, निःसंज्ञत्वात् । नापि मृतः, प्राणो­ष्म­णो­र्भा­वात् — मुग्धे हि जन्तौ मृतोऽयं स्यान्न वा मृत इति संशयानाः, ऊष्मास्ति नास्तीति हृदयदेशमालभन्ते निश्चयार्थम् , प्राणोऽस्ति नास्तीति च नासिकादेशम् । यदि प्राणो­ष्म­णो­र­स्तित्वं नावगच्छन्ति, ततो मृतोऽ­य­मि­त्य­ध्य­व­साय दहनायारण्यं नयन्ति । अथ तु प्राणमूष्माणं वा प्रतिपद्यन्ते, ततो नायं मृत इत्यध्यवसाय संज्ञालाभाय भिषज्यन्ति । पुनरुत्थानाच्च न दिष्टं गतः । न हि यम­रा­ष्ट्रा­त्प्र­त्या­ग­च्छति । अस्तु तर्हि सुषुप्तः, निःसंज्ञत्वात् , अमृतत्वाच्च; न, वैलक्षण्यात् — मुग्धः कदाचिच्चिरमपि नोच्छ्वसिति, सवेपथुरस्य देहो भवति, भयानकं च वदनम् , विस्फारिते नेत्रे । सुषुप्तस्तु प्रस­न्न­व­द­न­स्तु­ल्य­कालं पुनः पुनरुच्छ्वसिति, निमीलिते अस्य नेत्रे भवतः, न चास्य देहो वेपते । पाणिपेषणमात्रेण च सुषु­प्त­मु­त्था­प­यन्ति, न तु मुग्धं मुद्गरघातेनापि । निमित्तभेदश्च भवति मोहस्वापयोः — मुस­ल­स­म्पा­ता­दि­नि­मि­त्त­त्वा­न्मो­हस्य, श्रमा­दि­नि­मि­त्त­त्वाच्च स्वापस्य । न च लोकेऽस्ति प्रसिद्धिः — मुग्धः सुप्तः इति । परि­शे­षा­द­र्ध­स­म्प­त्ति­र्मु­ग्ध­ते­त्य­व­ग­च्छामः — निःसंज्ञत्वात् सम्पन्नः, इतरस्माच्च वैल­क्ष­ण्या­द­स­म्पन्नः इति ॥

कथं पुन­र­र्ध­स­म्प­त्ति­र्मु­ग्ध­तेति शक्यते वक्तुम् ? यावता सुषुप्तं प्रति तावदुक्तं श्रुत्या — ‘सता सोम्य तदा सम्पन्नो भवति’(छा. उ. ६ । ८ । १) इति, ‘अत्र स्तेनोऽस्तेनो भवति’(बृ. उ. ४ । ३ । २२) ‘नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम्’(छा. उ. ८ । ४ । १) इत्यादि । जीवे हि सुकृतदुष्कृतयोः प्राप्तिः सुखि­त्व­दुः­खि­त्व­प्र­त्य­यो­त्पा­द­नेन भवति । न च सुखित्वप्रत्ययो दुःखि­त्व­प्र­त्ययो वा सुषुप्ते विद्यते । मुग्धेऽपि तौ प्रत्ययौ नैव विद्येते । तस्मात् उपाध्युपशमात् सुषु­प्त­व­न्मु­ग्धेऽपि कृत्स्न­स­म्प­त्ति­रेव भवितुमर्हति, नार्ध­स­म्प­त्ति­रिति । अत्रोच्यते — न ब्रूमः — मुग्धेऽ­र्ध­स­म्प­त्ति­र्जी­वस्य ब्रह्मणा भवतीति । किं तर्हि ? अर्धेन सुषुप्तपक्षस्य भवति मुग्धत्वम् , अर्धे­ना­व­स्था­न्त­र­प­क्षस्य — इति ब्रूमः । दर्शिते च मोहस्य स्वापेन साम्यवैषम्ये । द्वारं चैतत् मरणस्य । यदास्य सावशेषं कर्म भवति, तदा वाङ्मनसे प्रत्यागच्छतः । यदा तु निरवशेषं कर्म भवति, तदा प्राणो­ष्मा­णा­व­प­ग­च्छतः । तस्मा­द­र्ध­स­म्पत्तिं ब्रह्मविद इच्छन्ति । यत्तूक्तम् — न पञ्चमी काचिदवस्था प्रसि­द्धा­स्तीति, नैष दोषः; कादा­चि­त्की­य­म­व­स्थेति न प्रसिद्धा स्यात् । प्रसिद्धा चैषा लोकायुर्वेदयोः । अर्ध­स­म्प­त्त्य­भ्यु­प­ग­माच्च न पञ्चमी गण्यत इत्यनवद्यम् ॥ १० ॥

न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥

११

येन ब्रह्मणा सुषुप्त्यादिषु जीव उपा­ध्यु­प­श­मा­त्स­म्प­द्यते, तस्येदानीं स्वरूपं श्रुतिवशेन निर्धार्यते । सन्त्यु­भ­य­लिङ्गाः श्रुतयो ब्रह्मविषयाः — ‘सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः’(छा. उ. ३ । १४ । २) इत्येवमाद्याः सविशेषलिङ्गाः; ‘अस्थू­ल­म­न­ण्व­ह्र­स्व­म­दी­र्घम्’(बृ. उ. ३ । ८ । ८) इत्येवमाद्याश्च निर्वि­शे­ष­लिङ्गाः । किमासु श्रुतिषु उभयलिङ्गं ब्रह्म प्रतिपत्तव्यम् , उतान्यतरलिङ्गम् । यदा­प्य­न्य­त­र­लि­ङ्गम् , तदापि सविशेषम् , उत निर्विशेषम् — इति मीमांस्यते । तत्र उभ­य­लि­ङ्ग­श्रु­त्य­नु­ग्र­हात् उभयलिङ्गमेव ब्रह्म इत्येवं प्राप्ते ब्रूमः — न तावत्स्वत एव परस्य ब्रह्मण उभ­य­लि­ङ्ग­त्व­मु­प­प­द्यते । न हि एकं वस्तु स्वत एव रूपा­दि­वि­शे­षो­पेतं तद्विपरीतं च इत्यवधारयितुं शक्यम् , विरोधात् । अस्तु तर्हि स्थानतः, पृथि­व्या­द्यु­पा­धि­यो­गा­दिति । तदपि नोपपद्यते — न हि उपा­धि­यो­गा­द­प्य­न्या­दृ­शस्य वस्तु­नोऽ­न्या­दृशः स्वभावः सम्भवति । न हि स्वच्छः सन् स्फटिकः अल­क्त­का­द्यु­पा­धि­यो­गा­द­स्वच्छो भवति, भ्रम­मा­त्र­त्वा­द­स्व­च्छ­ता­भि­नि­वे­शस्य । उपाधीनां च अवि­द्या­प्र­त्यु­प­स्था­पि­त­त्वात् । अतश्च अन्य­त­र­लि­ङ्ग­प­रि­ग्र­हेऽपि समस्तविशेषरहितं निर्विकल्पकमेव ब्रह्म प्रतिपत्तव्यम् , न तद्विपरीतम् । सर्वत्र हि ब्रह्म­स्व­रू­प­प्र­ति­पा­द­न­प­रेषु वाक्येषु ‘अश­ब्द­म­स्प­र्श­म­रू­प­म­व्य­यम्’(क. उ. १ । ३ । १५) , इत्येवमादिषु अपा­स्त­स­म­स्त­वि­शे­ष­मेव ब्रह्म उपदिश्यते ॥ ११ ॥

न भेदादिति चेन्न प्रत्ये­क­म­त­द्व­च­नात् ॥ १२ ॥

१२

अथापि स्यात् — यदुक्तम् , निर्वि­क­ल्प­मे­क­लि­ङ्ग­मेव ब्रह्म नास्य स्वतः स्थानतो वा उभ­य­लि­ङ्ग­त्व­म­स्तीति, तन्नोपपद्यते । कस्मात् ? भेदात् । भिन्ना हि प्रतिविद्यं ब्रह्मण आकारा उपदिश्यन्ते, चतुष्पात् ब्रह्म, षोडशकलं ब्रह्म, वाम­नी­त्वा­दि­ल­क्षणं ब्रह्म, त्रैलो­क्य­श­री­र­वै­श्वा­न­र­श­ब्दो­दितं ब्रह्म, इत्येवंजातीयकाः । तस्मात् सविशेषत्वमपि ब्रह्म­णोऽ­भ्यु­प­ग­न्त­व्यम् । ननु उक्तं नोभयलिङ्गत्वं ब्रह्मणः सम्भवतीति; अयमप्यविरोधः, उपा­धि­कृ­त­त्वा­दा­का­र­भे­दस्य । अन्यथा हि निर्विषयमेव भेदशास्त्रं प्रसज्येत — इति चेत् , नेति ब्रूमः । कस्मात् ? प्रत्ये­क­म­त­द्व­च­नात् । प्रत्युपाधिभेदं हि अभेदमेव ब्रह्मणः श्रावयति शास्त्रम् — ‘यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मꣳ शारी­र­स्ते­जो­म­योऽ­मृ­त­मयः पुरुषोऽयमेव स योऽयमात्मा’(बृ. उ. २ । ५ । १) इत्यादि । अतश्च न भिन्नाकारयोगो ब्रह्मणः शास्त्रीय इति शक्यते वक्तुम् , भेदस्य उपासनार्थत्वात् , अभेदे तात्पर्यात् ॥ १२ ॥

अपि चैवमेके ॥ १३ ॥

१३

अपि चैवं भेद­द­र्श­न­नि­न्दा­पू­र्व­कम् अभेददर्शनमेव एके शाखिनः समामनन्ति — ‘मन­सै­वे­द­मा­प्तव्यं नेह नानास्ति किञ्चन ।’(क. उ. २ । १ । ११) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’(क. उ. २ । १ । १०) इति । तथान्येऽपि — ‘भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म मे तत्’(श्वे. उ. १ । १२) इति समस्तस्य भोग्य­भो­क्तृ­नि­य­न्तृ­ल­क्ष­णस्य प्रपञ्चस्य ब्रह्मै­क­स्व­भा­व­ता­म­धी­यते ॥ १३ ॥

कथं पुनः आका­र­व­दु­प­दे­शि­नीषु अना­का­रो­प­दे­शि­नीषु च ब्रह्मविषयासु श्रुतिषु सतीषु, अनाकारमेव ब्रह्म अवधार्यते, न पुनर्विपरीतम् इत्यत उत्तरं पठति —

अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥

१४

रूपा­द्या­का­र­र­हि­त­मेव ब्रह्म अवधारयितव्यम् , न रूपादिमत् । कस्मात् ? तत्प्र­धा­न­त्वात्; ‘अस्थू­ल­म­न­ण्व­ह्र­स्व­म­दी­र्घम्’(बृ. उ. ३ । ८ । ८) ‘अश­ब्द­म­स्प­र्श­म­रू­प­म­व्य­यम्’(क. उ. १ । ३ । १५) , , ‘आकाशो वै नाम नाम­रू­प­यो­र्नि­र्व­हिता ते यदन्तरा तद्ब्रह्म’(छा. उ. ८ । १४ । १) ‘दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः’(मु. उ. २ । १ । २) ‘तदे­त­द्ब्र­ह्मा­पू­र्व­म­न­प­र­म­न­न्त­र­म­बा­ह्य­म­य­मात्मा ब्रह्म सर्वानुभूः’(बृ. उ. २ । ५ । १९) इत्येवमादीनि वाक्यानि, निष्प्र­प­ञ्च­ब्र­ह्मा­त्म­त­त्त्व­प्र­धा­नानि, न अर्था­न्त­र­प्र­धा­नानि — इत्ये­त­त्प्र­ति­ष्ठा­पि­तम् ‘तत्तु समन्वयात्’(ब्र. सू. १ । १ । ४) इत्यत्र । तस्मा­दे­वं­जा­ती­य­केषु वाक्येषु यथाश्रुतं निराकारमेव ब्रह्म अवधारयितव्यम् । इतराणि तु आका­र­व­द्ब्र­ह्म­वि­ष­याणि वाक्यानि न तत्प्रधानानि । उपा­स­ना­वि­धि­प्र­धा­नानि हि तानि । तेष्वसति विरोधे यथा­श्रु­त­मा­श्र­यि­त­व्यम् । सति तु विरोधे तत्प्रधानानि अतत्प्रधानेभ्यो बलीयांसि भवन्ति — इत्येष विनिगमनायां हेतुः, येन उभयीष्वपि श्रुतिषु सतीषु अनाकारमेव ब्रह्म अवधार्यते, न पुनर्विपरीतमिति ॥ १४ ॥

का तर्ह्या­का­र­व­द्वि­ष­याणां श्रुतीनां गतिः इत्यत आह —

प्रका­श­व­च्चा­वै­य­र्थ्यात् ॥ १५ ॥

१५

यथा प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्य अवतिष्ठमानः अङ्गु­ल्या­द्यु­पा­धि­स­म्ब­न्धात् तेषु ऋजुवक्रादिभावं प्रतिपद्यमानेषु तद्भावमिव प्रतिपद्यते, एवं ब्रह्मापि पृथि­व्या­द्यु­पा­धि­स­म्ब­न्धात् तदाकारतामिव प्रतिपद्यते । तदालम्बनो ब्रह्मण आकारविशेषोपदेश उपासनार्थो न विरुध्यते । एवम् अवैयर्थ्यम् आका­र­व­द्ब्र­ह्म­वि­ष­या­णा­मपि वाक्यानां भविष्यति । न हि वेदवाक्यानां कस्य­चि­द­र्थ­व­त्त्वम् कस्य­चि­द­न­र्थ­व­त्त्व­मिति युक्तं प्रतिपत्तुम् , प्रमा­ण­त्वा­वि­शे­षात् । नन्वेवमपि यत्पु­र­स्ता­त्प्र­ति­ज्ञा­तम् — नोपा­धि­यो­गा­द­प्यु­भ­य­लि­ङ्गत्वं ब्रह्म­णोऽ­स्तीति, तद्विरुध्यते; नेति ब्रूमः — उपाधिनिमित्तस्य वस्तु­ध­र्म­त्वा­नु­प­पत्तेः । उपाधीनां च अवि­द्या­प्र­त्यु­प­स्था­पि­त­त्वात् । सत्यामेव च नैस­र्गि­क्या­म­वि­द्यायां लोक­वे­द­व्य­व­हा­रा­व­तार इति तत्र तत्र अवोचाम ॥ १५ ॥

आह च तन्मात्रम् ॥ १६ ॥

१६

आह च श्रुतिः चैतन्यमात्रं विल­क्ष­ण­रू­पा­न्त­र­र­हितं निर्विशेषं ब्रह्म — ‘स यथा सैन्ध­व­घ­नोऽ­न­न्त­रोऽ­बाह्यः कृत्स्नो रसघन एवैवं वा अरेऽ­य­मा­त्मा­न­न्त­रोऽ­बाह्यः कृत्स्नः प्रज्ञानघन एव’(बृ. उ. ४ । ५ । १३) इति । एतदुक्तं भवति — नास्य आत्म­नोऽ­न्त­र्ब­हिर्वा चैत­न्या­द­न्य­द्रू­प­मस्ति, चैतन्यमेव तु निरन्तरमस्य स्वरूपम् — यथा सैन्ध­व­घ­न­स्या­न्त­र्ब­हिश्च लवणरस एव निरन्तरो भवति, न रसान्तरम् , तथैवेति ॥ १६ ॥

दर्शयति चाथो अपि स्मर्यते ॥ १७ ॥

१७

दर्शयति च श्रुतिः पर­रू­प­प्र­ति­षे­धे­नैव ब्रह्म — निर्विशेषत्वात् — ‘अथात आदेशो नेति नेति’(बृ. उ. २ । ३ । ६) ‘अन्यदेव तद्विदितादथो अविदितादधि’(के. उ. १ । ४) ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’(तै. उ. २ । ४ । १) इत्येवमाद्या । बाष्कलिना च बाध्वः पृष्टः सन् अवचनेनैव ब्रह्म प्रोवाचेति श्रूयते — ‘स होवाचाधीहि भो इति स तूष्णीं बभूव तं ह द्वितीये तृतीये वा वचन उवाच ब्रूमः खलु त्वं तु न विजानासि । उप­शा­न्तोऽ­य­मात्मा’ इति । तथा स्मृतिष्वपि पर­प्र­ति­षे­धे­नै­वो­प­दि­श्यते — ‘ज्ञेयं यत्त­त्प्र­व­क्ष्यामि यज्ज्ञा­त्वा­मृ­त­म­श्नुते । अनादिमत्परं ब्रह्म न सत्त­न्ना­स­दु­च्यते’(भ. गी. १३ । १२) इत्येवमाद्यासु । तथा विश्वरूपधरो नारायणो नारदमुवाचेति स्मर्यते — ‘माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।’(म. भा. १२ । ३३९ । ४५) ‘सर्व­भू­त­गु­णै­र्युक्तं नैवं मां ज्ञातुमर्हसि’(म. भा. १२ । ३३९ । ४६) इति ॥ १७ ॥

अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥

१८

यत एव च अयमात्मा चैतन्यरूपो निर्विशेषो वाङ्मनसातीतः पर­प्र­ति­षे­धो­प­देश्यः, अत एव च अस्यो­पा­धि­नि­मि­त्ता­म­पा­र­मा­र्थिकीं विशे­ष­व­त्ता­म­भि­प्रेत्य जल­सू­र्य­का­दि­व­दि­त्यु­पमा उपादीयते मोक्षशास्त्रेषु — ‘यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहु­धै­कोऽ­नु­ग­च्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रे­ष्वे­व­म­जोऽ­य­मात्मा’ इति, ‘एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्’(ब्र. बिं. १२) इति चैवमादिषु ॥ १८ ॥

अत्र प्रत्यवस्थीयते —

अम्बु­व­द­ग्र­ह­णात्तु न तथात्वम् ॥ १९ ॥

१९

न जल­सू­र्य­का­दि­तु­ल्य­त्व­मि­हो­प­प­द्यते, तद्वदग्रहणात् । सूर्यादिभ्यो हि मूर्तेभ्यः पृथग्भूतं विप्रकृष्टदेशं मूर्तं जलं गृह्यते । तत्र युक्तः सूर्या­दि­प्र­ति­बि­म्बो­दयः । न तु आत्मा मूर्तः, न चास्मा­त्पृ­थ­ग्भूता विप्र­कृ­ष्ट­दे­शा­श्चो­पा­धयः, सर्वगतत्वात् सर्वा­न­न्य­त्वाच्च । तस्मादयुक्तोऽयं दृष्टान्त इति ॥ १९ ॥

अत्र प्रतिविधीयते —

वृद्धि­ह्रा­स­भा­क्त्व­म­न्त­र्भा­वा­दु­भ­य­सा­म­ञ्ज­स्या­दे­वम् ॥ २० ॥

२०

युक्त एव तु अयं दृष्टान्तः, विव­क्षि­तां­श­स­म्भ­वात् । न हि दृष्टा­न्त­दा­र्ष्टा­न्ति­कयोः क्वचित् कञ्चित् विवक्षितमंशं मुक्त्वा सर्वसारूप्यं केनचित् दर्शयितुं शक्यते । सर्वसारूप्ये हि दृष्टा­न्त­दा­र्ष्टा­न्ति­क­भा­वो­च्छेद एव स्यात् । न चेदं स्वमनीषया जल­सू­र्य­का­दि­दृ­ष्टा­न्त­प्र­ण­य­नम् । शास्त्र­प्र­णी­तस्य तु अस्य प्रयो­ज­न­मा­त्र­मु­प­न्य­स्यते । किं पुनरत्र विवक्षितं सारूप्यमिति, तदुच्यते — वृद्धि­ह्रा­स­भा­क्त्व­मिति । जलगतं हि सूर्य­प्र­ति­बिम्बं जलवृद्धौ वर्धते, जलह्रासे ह्रसति, जलचलने चलति, जलभेदे भिद्यते — इत्येवं जलधर्मानुविधायि भवति, न तु परमार्थतः सूर्यस्य तथात्वमस्ति । एवं पर­मा­र्थ­तोऽ­वि­कृ­त­मे­क­रू­प­मपि सत् ब्रह्म देहा­द्यु­पा­ध्य­न्त­र्भा­वात् भजत इवो­पा­धि­ध­र्मा­न्वृ­द्धि­ह्रा­सा­दीन् । एव­मु­भ­यो­र्दृ­ष्टा­न्त­दा­र्ष्टा­न्ति­कयोः साम­ञ्ज­स्या­द­वि­रोधः ॥ २० ॥

दर्शनाच्च ॥ २१ ॥

२१

दर्शयति च श्रुतिः परस्यैव ब्रह्मणो देहा­दि­षू­पा­धि­ष्व­न्त­र­नु­प्र­वे­शम् — ‘पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशत्’(बृ. उ. २ । ५ । १८) इति; ‘अनेन जीवे­ना­त्म­ना­नु­प्र­विश्य’(छा. उ. ६ । ३ । २) इति च । तस्मा­द्यु­क्त­मे­तत् ‘अत एव चोपमा सूर्यकादिवत्’(ब्र. सू. ३ । २ । १८) इति । तस्मात् निर्वि­क­ल्प­कै­क­लि­ङ्ग­मेव ब्रह्म, न उभयलिङ्गं विपरीतलिङ्गं वा इति सिद्धम् ॥

अत्र केचित् द्वे अधिकरणे कल्पयन्ति — प्रथमं तावत् किं प्रत्य­स्त­मि­ता­शे­ष­प्र­प­ञ्च­मे­का­कारं ब्रह्म, उत प्रप­ञ्च­व­द­ने­का­का­रो­पे­त­मिति । द्वितीयं तु स्थिते प्रत्य­स्त­मि­त­प्र­प­ञ्चत्वे किं सल्लक्षणं ब्रह्म, उत बोधलक्षणम् , उत उभयलक्षणमिति । अत्र वयं वदामः — सर्व­था­प्या­न­र्थ­क्य­म­धि­क­र­णा­न्त­रा­र­म्भ­स्येति । यदि ताव­द­ने­क­लि­ङ्गत्वं परस्य ब्रह्मणो निरा­क­र्त­व्य­मि­त्ययं प्रयासः, तत् पूर्वेणैव ‘न स्थानतोऽपि’ इत्यनेनाधिकरणेन निराकृतमिति, उत्तरमधिकरणम् ‘प्रकाशवच्च’ इत्ये­त­द्व्य­र्थ­मेव भवेत् । न च सल्लक्षणमेव ब्रह्म न बोधलक्षणम् — इति शक्यं वक्तुम् , ‘विज्ञानघन एव’ इत्या­दि­श्रु­ति­वै­य­र्थ्य­प्र­स­ङ्गात् । कथं वा निरस्तचैतन्यं ब्रह्म चेतनस्य जीव­स्या­त्म­त्वे­नो­प­दि­श्येत । नापि बोधलक्षणमेव ब्रह्म न सल्लक्षणम् — इति शक्यं वक्तुम् , ‘अस्ती­त्ये­वो­प­ल­ब्धव्यः’(क. उ. २ । ३ । १३) इत्या­दि­श्रु­ति­वै­य­र्थ्य­प्र­स­ङ्गात् । कथं वा निरस्तसत्ताको बोधोऽ­भ्यु­प­ग­म्येत । नाप्यु­भ­य­ल­क्ष­ण­मेव ब्रह्म — इति शक्यं वक्तुम् , पूर्वा­भ्यु­प­ग­म­वि­रो­ध­प्र­स­ङ्गात् । सत्ता­व्या­वृ­त्तेन च बोधेन बोधव्यावृत्तया च सत्तया उपेतं ब्रह्म प्रतिजानानस्य तदेव पूर्वा­धि­क­र­ण­प्र­ति­षिद्धं सप्रपञ्चत्वं प्रसज्येत । श्रुतत्वाददोष इति चेत् , न, एकस्य अने­क­स्व­भा­व­त्वा­नु­प­पत्तेः । अथ सत्तैव बोधः, बोध एव च सत्ता, नानयोः पर­स्प­र­व्या­वृ­त्ति­र­स्तीति यद्युच्येत, तथापि किं सल्लक्षणं ब्रह्म, उत बोधलक्षणम् , उतोभयलक्षणम् — इत्ययं विकल्पो निरालम्बन एव स्यात् । सूत्राणि त्वेका­धि­क­र­ण­त्वे­नै­वा­स्मा­भि­र्नी­तानि । अपि च ब्रह्मविषयासु श्रुतिषु आका­र­व­द­ना­का­र­प्र­ति­पा­द­नेन विप्रतिपन्नासु, अनाकारे ब्रह्मणि परिगृहीते, अवश्यं वक्तव्या इतरासां श्रुतीनां गतिः । तादर्थ्येन ‘प्रकाशवच्च’ इत्यादीनि सूत्रा­ण्य­र्थ­व­त्त­राणि सम्पद्यन्ते ॥

यदप्याहुः — आकारवादिन्योऽपि श्रुतयः प्रप­ञ्च­प्र­वि­ल­य­मु­खेन अना­का­र­प्र­ति­प­त्त्यर्था एव, न पृथगर्था इति, तदपि न समीचीनमिव लक्ष्यते । कथम् ? ये हि परविद्याधिकारे केचित्प्रपञ्चा उच्यन्ते, यथा — ‘युक्ता ह्यस्य हरयः शता दशेति । अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च’(बृ. उ. २ । ५ । १९) इत्येवमादयः — ते भवन्ति प्रविलयार्थाः; ‘तदे­त­द्ब्र­ह्मा­पू­र्व­म­न­प­र­म­न­न्त­र­म­बा­ह्यम्’(बृ. उ. २ । ५ । १९) इत्युपसंहारात् । ये पुन­रु­पा­स­ना­धि­कारे प्रपञ्चा उच्यन्ते, यथा — ‘मनोमयः प्राणशरीरो भारूपः’(छा. उ. ३ । १४ । २) इत्येवमादयः — न तेषां प्रविलयार्थत्वं न्याय्यम्; ‘स क्रतुं कुर्वीत’(छा. उ. ३ । १४ । १) इत्येवंजातीयकेन प्रकृतेनैव उपासनविधिना तेषां सम्बन्धात् । श्रुत्या च एवंजातीयकानां गुणा­ना­मु­पा­स­ना­र्थ­त्वेऽ­व­क­ल्प­माने न लक्षणया प्रवि­ल­या­र्थ­त्व­म­व­क­ल्पते । सर्वेषां च साधारणे प्रविलयार्थत्वे सति ‘अरूपवदेव हि तत्प्र­धा­न­त्वात्’(ब्र. सू. ३ । २ । १४) इति विनि­ग­म­न­का­र­ण­व­च­नम् अनवकाशं स्यात् । फलमप्येषां यथोपदेशं क्वचि­द्दु­रि­त­क्षयः, क्वचि­दै­श्व­र्य­प्राप्तिः, क्वचि­त्क्र­म­मु­क्ति­रि­त्य­व­ग­म्यत एव — इत्यतः पार्थगर्थ्यमेव उपासनावाक्यानां ब्रह्मवाक्यानां च न्याय्यम् , न एकवाक्यत्वम् ॥

कथं च एषा­मे­क­वा­क्य­तो­त्प्रे­क्ष्यत इति वक्तव्यम् । एक­नि­यो­ग­प्र­तीतेः, प्रया­ज­द­र्श­पू­र्ण­मा­स­वा­क्य­व­दिति चेत् , न, ब्रह्मवाक्येषु नियोगाभावात् — वस्तु­मा­त्र­प­र्य­व­सा­यीनि हि ब्रह्मवाक्यानि, न नियोगोपदेशीनि इत्ये­त­द्वि­स्त­रेण प्रतिष्ठापितम् ‘तत्तु समन्वयात्’(ब्र. सू. १ । १ । ४) इत्यत्र । किंविषयश्चात्र नियोगोऽभिप्रेयत इति वक्तव्यम् । पुरुषो हि नियुज्यमानः ‘कुरु’ इति स्वव्यापारे कस्मिं­श्चि­न्नि­यु­ज्यते । ननु द्वैत­प्र­प­ञ्च­प्र­वि­लयो नियोगविषयो भविष्यति — अप्रविलापिते हि द्वैतप्रपञ्चे ब्रह्म­त­त्त्वा­व­बोधो न भवत्यतो ब्रह्म­त­त्त्वा­व­बो­ध­प्र­त्य­नी­क­भूतो द्वैतप्रपञ्चः प्रविलाप्यः — यथा स्वर्गकामस्य यागोऽनुष्ठातव्य उपदिश्यते, एवमपवर्गकामस्य प्रप­ञ्च­प्र­वि­लयः; यथा च तमसि व्यवस्थितं घटा­दि­त­त्त्व­म­व­बु­भु­त्स­मा­नेन तत्प्र­त्य­नी­क­भूतं तमः प्रविलाप्यते, एवं ब्रह्म­त­त्त्व­म­व­बु­भु­त्स­मा­नेन तत्प्र­त्य­नी­क­भूतः प्रपञ्चः प्रविलापयितव्यः — ब्रह्मस्वभावो हि प्रपञ्चः, न प्रपञ्चस्वभावं ब्रह्म; तेन नाम­रू­प­प्र­प­ञ्च­प्र­वि­ला­प­नेन ब्रह्म­त­त्त्वा­व­बोधो भवति — इति । अत्र वयं पृच्छामः — कोऽयं प्रपञ्चप्रविलयो नाम ? किम­ग्नि­प्र­ता­प­स­म्प­र्कात् घृत­का­ठि­न्य­प्र­वि­लय इव प्रपञ्चप्रविलयः कर्तव्यः, आहो­स्वि­दे­क­स्मिं­श्चन्द्रे तिमि­र­कृ­ता­ने­क­च­न्द्र­प्र­प­ञ्च­वत् अविद्याकृतो ब्रह्मणि नामरूपप्रपञ्चो विद्यया प्रविलापयितव्यः — इति । तत्र यदि ताव­द्वि­द्य­मा­नोऽयं प्रपञ्चः देहादिलक्षण आध्यात्मिकः बाह्यश्च पृथि­व्या­दि­ल­क्षणः प्रविलापयितव्य इत्युच्यते, स पुरु­ष­मा­त्रे­णा­शक्यः प्रवि­ला­प­यि­तु­मिति तत्प्र­वि­ल­यो­प­दे­शोऽ­श­क्य­वि­षय एव स्यात् । एकेन च आदिमुक्तेन पृथि­व्या­दि­प्र­वि­लयः कृत इति इदानीं पृथि­व्या­दि­शून्यं जगदभविष्यत् । अथ अविद्याध्यस्तो ब्रह्म­ण्ये­क­स्मिन् अयं प्रपञ्चो विद्यया प्रविलाप्यत इति ब्रूयात् , ततो ब्रह्मैव अवि­द्या­ध्य­स्त­प्र­प­ञ्च­प्र­त्या­ख्या­नेन आवेदयितव्यम् — ‘एकमेवाद्वितीयं ब्रह्म’ ‘तत्सत्यꣳ स आत्मा तत्त्वमसि’(छा. उ. ६ । ८ । ७) इति — तस्मि­न्ना­वे­दिते, विद्या स्वय­मे­वो­त्प­द्यते, तया च अविद्या बाध्यते, ततश्च अविद्याध्यस्तः सकलोऽयं नामरूपप्रपञ्चः स्वप्न­प्र­प­ञ्च­वत् प्रविलीयते — अनावेदिते तु ब्रह्मणि ‘ब्रह्मविज्ञानं कुरु प्रपञ्चप्रविलयं च’ इति शत­कृ­त्वोऽ­प्युक्ते न ब्रह्मविज्ञानं प्रपञ्चप्रविलयो वा जायते । नन्वावेदिते ब्रह्मणि तद्विज्ञानविषयः प्रप­ञ्च­वि­ल­य­वि­षयो वा नियोगः स्यात्; न, निष्प्र­प­ञ्च­ब्र­ह्मा­त्म­त्वा­वे­द­ने­नैव उभयसिद्धेः — रज्जु­स्व­रू­प­प्र­का­श­ने­नैव हि तत्स्व­रू­प­वि­ज्ञा­नम् अवि­द्या­ध्य­स्त­स­र्पा­दि­प्र­प­ञ्च­प्र­वि­ल­यश्च भवति । न च कृतमेव पुनः क्रियते ॥

नियोज्योऽपि च प्रप­ञ्चा­व­स्थायां योऽवगम्यते जीवो नाम, स प्रप­ञ्च­प­क्ष­स्यैव वा स्यात् , ब्रह्मपक्षस्यैव वा । प्रथमे विकल्पे निष्प्र­प­ञ्च­ब्र­ह्म­त­त्त्व­प्र­ति­पा­द­नेन पृथिव्यादिवत् जीवस्यापि प्रवि­ला­पि­त­त्वात् कस्य प्रपञ्चप्रविलये नियोग उच्येत कस्य वा नियोगनिष्ठतया मोक्षोऽवाप्तव्य उच्येत ? द्वितीयेऽपि ब्रह्मैव अनियोज्यस्वभावं जीवस्य स्वरूपम् , जीवत्वं तु अविद्याकृतमेव — इति प्रतिपादिते ब्रह्मणि नियोज्याभावात् नियोगाभाव एव । द्रष्ट­व्या­दि­शब्दा अपि पर­वि­द्या­धि­का­र­प­ठिताः तत्त्वा­भि­मु­खी­क­र­ण­प्र­धानाः, न तत्त्वा­व­बो­ध­वि­धि­प्र­धाना भवन्ति । लोकेऽपि — इदं पश्य, इदमाकर्णयेति च एवंजातीयकेषु निर्देशेषु प्रणिधानमात्रं कुर्वि­त्यु­च्यते, न साक्षा­ज्ज्ञा­न­मेव कुर्विति । ज्ञेया­भि­मु­ख­स्यापि ज्ञानं कदाचिज्जायते, कदाचिन्न जायते । तस्मात् तं प्रति ज्ञानविषय एव दर्शयितव्यो ज्ञापयितुकामेन । तस्मिन्दर्शिते स्वयमेव यथाविषयं यथाप्रमाणं च ज्ञानमुत्पद्यते । न च प्रमाणान्तरेण अन्य­था­प्र­सि­द्धेऽर्थे अन्यथाज्ञानं नियु­क्त­स्या­प्यु­प­प­द्यते । यदि पुन­र्नि­यु­क्तोऽ­ह­मिति अन्यथा ज्ञानं कुर्यात् , न तु तत् ज्ञानम् — किं तर्हि ? — मानसी सा क्रिया । स्वयमेव चेद­न्य­थो­त्प­द्येत, भ्रान्तिरेव स्यात् । ज्ञानं तु प्रमाणजन्यं यथाभूतविषयं च । न तत् नियोगशतेनापि कारयितुं शक्यते, न च प्रतिषेधशतेनापि वारयितुं शक्यते । न हि तत् पुरुषतन्त्रम् , वस्तुतन्त्रमेव हि तत् । अतोऽपि नियोगाभावः । किञ्चान्यत् — नियोगनिष्ठतयैव पर्य­व­स्य­त्या­म्नाये, यदभ्युपगतम् अनि­यो­ज्य­ब्र­ह्मा­त्मत्वं जीवस्य, तत् अप्रमाणकमेव स्यात् । अथ शास्त्रमेव अनि­यो­ज्य­ब्र­ह्मा­त्म­त्व­म­प्या­च­क्षीत, तदवबोधे च पुरुषं नियुञ्जीत, ततो ब्रह्म­शा­स्त्र­स्यै­कस्य द्व्यर्थपरता विरुद्धार्थपरता च प्रसज्येयाताम् । नियोगपरतायां च, श्रुतहानिः अश्रुतकल्पना कर्म­फ­ल­व­न्मो­क्ष­स्या­दृ­ष्ट­फ­ल­त्वम् अनित्यत्वं च — इत्येवमादयो दोषा न केन­चि­त्प­रि­हर्तुं शक्याः । तस्मा­द­व­ग­ति­नि­ष्ठा­न्येव ब्रह्मवाक्यानि, न नियोगनिष्ठानि । अतश्च एक­नि­यो­ग­प्र­ती­ते­रे­क­वा­क्य­ते­त्य­यु­क्तम् ॥

अभ्यु­प­ग­म्य­मा­नेऽपि च ब्रह्मवाक्येषु नियोगसद्भावे, तदेकत्वं निष्प्र­प­ञ्चो­प­दे­शेषु सप्र­प­ञ्चो­प­दे­शेषु च असिद्धम् । न हि शब्दान्तरादिभिः प्रमा­णै­र्नि­यो­ग­भे­देऽ­व­ग­म्य­माने, सर्वत्र एको नियोग इति शक्यमाश्रयितुम् । प्रया­ज­द­र्श­पू­र्ण­मा­स­वा­क्येषु तु अधि­का­रां­शे­ना­भे­दात् युक्तमेकत्वम् । न त्विह सगु­ण­नि­र्गु­ण­चो­द­नासु कश्चि­दे­क­त्वा­धि­का­रां­शोऽस्ति । न हि भारूपत्वादयो गुणाः प्रप­ञ्च­प्र­वि­ल­यो­प­का­रिणः, नापि प्रपञ्चप्रविलयो भारू­प­त्वा­दि­गु­णो­प­कारी, पर­स्प­र­वि­रो­धि­त्वात् । न हि कृत्स्न­प्र­प­ञ्च­प्र­वि­ला­पनं प्रप­ञ्चै­क­दे­शा­पे­क्षणं च एकस्मिन्धर्मिणि युक्तं समावेशयितुम् । तस्मात् अस्मदुक्त एव विभागः आका­र­व­द­ना­का­रो­प­दे­शानां युक्ततर इति ॥ २१ ॥

प्रकृ­तै­ता­वत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥

२२

‘द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च’(बृ. उ. २ । ३ । १) इत्युपक्रम्य, पञ्चमहाभूतानि द्वैराश्येन प्रविभज्य, अमूर्तरसस्य च पुरु­ष­श­ब्दो­दि­तस्य माहारजनादीनि रूपाणि दर्शयित्वा, पुनः पठ्यते — ‘अथात आदेशो नेति नेति न ह्येतस्मादिति नेत्य­न्य­त्प­र­मस्ति’(बृ. उ. २ । ३ । ६) इति । तत्र कोऽस्य प्रतिषेधस्य विषय इति जिज्ञासामहे । न ह्यत्र इदं तदिति विशेषितं किञ्चि­त्प्र­ति­षे­ध्य­मु­प­ल­भ्यते । इतिशब्देन तु अत्र प्रतिषेध्यं किमपि समर्प्यते, ‘नेति नेति’ इति इतिपरत्वात् नञ्प्रयोगस्य । इतिशब्दश्चायं सन्निहितालम्बनः एवं­श­ब्द­स­मा­न­वृत्तिः प्रयुज्यमानो दृश्यते — ‘इति ह स्मोपाध्यायः कथयति’ इत्येवमादिषु । सन्निहितं चात्र प्रक­र­ण­सा­म­र्थ्या­द्रू­प­द्वयं सप्रपञ्चं ब्रह्मणः, तच्च ब्रह्म, यस्य ते द्वे रूपे । तत्र नः संशय उपजायते — किमयं प्रतिषेधो रूपे रूपवच्च उभयमपि प्रतिषेधति, आहोस्विदेकतरम् । यदाप्येकतरम् , तदापि किं ब्रह्म प्रतिषेधति, रूपे परिशिनष्टि, आहोस्विद्रूपे प्रतिषेधति, ब्रह्म परिशिनष्टि — इति ॥

तत्र प्रकृ­त­त्वा­वि­शे­षा­दु­भ­य­मपि प्रति­षे­ध­ती­त्या­श­ङ्का­महे — द्वौ चैतौ प्रतिषेधौ, द्विः नेति­श­ब्द­प्र­यो­गात् । तयोरेकेन सप्रपञ्चं ब्रह्मणो रूपं प्रतिषिध्यते, अपरेण रूपवद्ब्रह्म — इति भवति मतिः । अथवा ब्रह्मैव रूपवत् प्रतिषिध्यते । तद्धि वाङ्म­न­सा­ती­त­त्वा­द­स­म्भा­व्य­मा­न­स­द्भावं प्रतिषेधार्हम् । न तु रूपप्रपञ्चः प्रत्य­क्षा­दि­गो­च­र­त्वात् प्रतिषेधार्हः । अभ्या­स­स्त्वा­द­रार्थः इत्येवं प्राप्ते ब्रूमः —

न तावदुभयप्रतिषेध उपपद्यते, शून्य­वा­द­प्र­स­ङ्गात् — कञ्चिद्धि परमार्थमालम्ब्य अपरमार्थः प्रतिषिध्यते, यथा रज्ज्वादिषु सर्पादयः । तच्च परिशिष्यमाणे कस्मिं­श्चि­द्भावे अवकल्पते । कृत्स्न­प्र­ति­षेधे तु कोऽन्यो भावः परिशिष्येत ? अपरिशिष्यमाणे चान्यस्मिन् , य इतरः प्रति­षे­द्धु­मा­र­भ्यते प्रति­षे­द्धु­म­श­क्य­त्वात् तस्यैव पर­मा­र्थ­त्वा­पत्तेः प्रति­षे­धा­नु­प­पत्तिः । नापि ब्रह्मप्रतिषेध उपपद्यते — ‘ब्रह्म ते ब्रवाणि’(बृ. उ. २ । १ । १) इत्या­द्यु­प­क्र­म­वि­रो­धात् , ‘असन्नेव स भवति । असद्ब्रह्मेति वेद चेत्’(तै. उ. २ । ६ । १) इत्या­दि­नि­न्दा­वि­रो­धात् , ‘अस्ती­त्ये­वो­प­ल­ब्धव्यः’(क. उ. २ । ३ । १३) इत्या­द्य­व­धा­र­ण­वि­रो­धात् , सर्व­वे­दा­न्त­व्या­को­प­प्र­स­ङ्गाच्च । वाङ्म­न­सा­ती­त­त्व­मपि ब्रह्मणो न अभा­वा­भि­प्रा­ये­णा­भि­धी­यते । न हि महता परिकरबन्धेन ‘ब्रह्म­वि­दा­प्नोति परम्’(तै. उ. २ । १ । १) ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै. उ. २ । १ । १) इत्येवमादिना वेदान्तेषु ब्रह्म प्रतिपाद्य तस्यैव पुनः अभावोऽभिलप्येत; ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’ इति हि न्यायः । प्रति­पा­द­न­प्र­क्रिया तु एषा — ‘यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह’(तै. उ. २ । ४ । १) इति । एतदुक्तं भवति — वाङ्म­न­सा­ती­त­म­वि­ष­या­न्तः­पाति प्रत्यगात्मभूतं नित्य­शु­द्ध­मु­क्त­स्व­भावं ब्रह्मेति । तस्माद्ब्रह्मणो रूपप्रपञ्चं प्रतिषेधति, परिशिनष्टि ब्रह्म — इत्य­भ्यु­प­ग­न्त­व्यम् ॥

तदेतदुच्यते — प्रकृ­तै­ता­वत्त्वं हि प्रतिषेधतीति । प्रकृतं यदेतावत् इय­त्ता­प­रि­च्छिन्नं मूर्ता­मू­र्त­ल­क्षणं ब्रह्मणो रूपं तदेष शब्दः प्रतिषेधति । तद्धि प्रकृतं प्रपञ्चितं च पूर्व­स्मि­न्ग्रन्थे अधि­दै­व­त­म­ध्यात्मं च । तज्जनितमेव च वासनालक्षणमपरं रूपम् अमूर्तरसभूतं पुरुषशब्दोदितं लिङ्गा­त्म­व्य­पा­श्रयं माहा­र­ज­ना­द्यु­प­मा­भि­र्द­र्शि­तम् — अमूर्तरसस्य पुरुषस्य चक्षु­र्ग्रा­ह्य­रू­प­यो­गि­त्वा­नु­प­पत्तेः । तदेतत् सप्रपञ्चं ब्रह्मणो रूपं सन्नि­हि­ता­ल­म्ब­नेन इतिकरणेन प्रतिषेधकं नञं प्रति उपनीयत इति गम्यते । ब्रह्म तु रूपविशेषणत्वेन षष्ठ्या निर्दिष्टं पूर्व­स्मि­न्ग्रन्थे, न स्वप्रधानत्वेन । प्रपञ्चिते च तदीये रूपद्वये रूपवतः स्वरू­प­जि­ज्ञा­सा­याम् इदमुपक्रान्तम् — ‘अथात आदेशो नेति नेति’(बृ. उ. २ । ३ । ६) इति । तत्र कल्पि­त­रू­प­प्र­त्या­ख्या­नेन ब्रह्मणः स्वरू­पा­वे­द­न­मि­द­मिति निर्णीयते । तदास्पदं हि इदं समस्तं कार्यम् ‘नेति नेति’(बृ. उ. २ । ३ । ६) इति प्रतिषिद्धम् । युक्तं च कार्यस्य वाचा­र­म्भ­ण­श­ब्दा­दि­भ्योऽ­स­त्त्व­मिति नेति नेतीति प्रतिषेधनम् । न तु ब्रह्मणः, सर्व­क­ल्प­ना­मू­ल­त्वात् । न च अत्र इयमाशङ्का कर्तव्या — कथं हि शास्त्रं स्वयमेव ब्रह्मणो रूपद्वयं दर्शयित्वा, स्वयमेव पुनः प्रतिषेधति — ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’ इति — यतः नेदं शास्त्रं प्रतिपाद्यत्वेन ब्रह्मणो रूपद्वयं निर्दिशति, लोकप्रसिद्धं तु इदं रूपद्वयं ब्रह्मणि कल्पितं परामृशति प्रतिषेध्यत्वाय शुद्ध­ब्र­ह्म­स्व­रू­प­प्र­ति­पा­द­नाय च — इति निरवद्यम् । द्वौ च एतौ प्रतिषेधौ यथासंख्यन्यायेन द्वे अपि मूर्तामूर्ते प्रतिषेधतः । यद्वा पूर्वः प्रतिषेधो भूतराशिं प्रतिषेधति, उत्तरो वासनाराशिम् । अथवा ‘नेति नेति’ इति वीप्सा इयम् — ‘इति’ इति यावत्किञ्चित् उत्प्रेक्ष्यते, तत्सर्वं न भवतीत्यर्थः — परि­ग­णि­त­प्र­ति­षेधे हि क्रियमाणे, यदि नैतद्ब्रह्म, किमन्यद्ब्रह्म भवेदिति जिज्ञासा स्यात् । वीप्सायां तु सत्यां समस्तस्य विषयजातस्य प्रतिषेधात् अविषयः प्रत्यगात्मा ब्रह्मेति, जिज्ञासा निवर्तते । तस्मात् प्रपञ्चमेव ब्रह्मणि कल्पितं प्रतिषेधति, परिशिनष्टि ब्रह्म — इति निर्णयः ॥

इतश्च एष एव निर्णयः, यतः — ततः प्रतिषेधात् , भूयो ब्रह्म ब्रवीति — ‘अन्यत्परमस्ति’(बृ. उ. २ । ३ । ६) इति । अभावावसाने हि प्रतिषेधे क्रियमाणे किम­न्य­त्प­र­म­स्तीति ब्रूयात् । तत्रैषा अक्षरयोजना — ‘नेति नेति’ इति ब्रह्म आदिश्य, तमेव आदेशं पुनर्निर्वक्ति । ‘नेति नेति’ इत्यस्य कोऽर्थः ? न हि एत­स्मा­द्ब्र­ह्मणो व्यति­रि­क्त­म­स्ती­त्यतः ‘नेति नेति’ इत्युच्यते, न पुनः स्वयमेव नास्ति — इत्यर्थः । तच्च दर्शयति — अन्यत्परम् अप्रतिषिद्धं ब्रह्म अस्तीति । यदा पुनरेवमक्षराणि योज्यन्ते — न हि, एतस्मात् ‘इति न’ ‘इति न’ इति प्रप­ञ्च­प्र­ति­षे­ध­रू­पात् आदेशनात् , अन्यत्परमादेशनं ब्रह्मणः अस्तीति — तदा, ‘ततो ब्रवीति च भूयः’ इत्येतत् नामधेयविषयं योजयितव्यम् — ‘अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्’(बृ. उ. २ । १ । २०) इति हि ब्रवीति — इति । तच्च ब्रह्मावसाने प्रतिषेधे समञ्जसं भवति । अभावावसाने तु प्रतिषेधे, किम् ‘सत्यस्य सत्यम्’ इत्युच्येत ? तस्मा­द्ब्र­ह्मा­व­सानः अयं प्रतिषेधः, नाभावावसानः — इत्यध्यवस्यामः ॥ २२ ॥

तदव्यक्तमाह हि ॥ २३ ॥

२३

यत्तत् प्रति­षि­द्धा­त्प्र­प­ञ्च­जा­ता­द­न्यत् परं ब्रह्म, तदस्ति चेत् , कस्मान्न गृह्यत इति, उच्यते — तत् अव्य­क्त­म­नि­न्द्रि­य­ग्रा­ह्यम् , सर्व­दृ­श्य­सा­क्षि­त्वात् । आह हि एवं श्रुतिः — ‘न चक्षुषा गृह्यते नापि वाचा नान्यै­र्दे­वै­स्त­पसा कर्मणा वा’(मु. उ. ३ । १ । ८) ‘स एष नेति नेत्या­त्माऽ­गृह्यो न हि गृह्यते’(बृ. उ. ३ । ९ । २६) ‘यत्त­द­द्रे­श्य­म­ग्रा­ह्यम्’(मु. उ. १ । १ । ६) ‘यदा ह्येवैष एत­स्मि­न्न­दृ­श्येऽ­ना­त्म्येऽ­नि­रु­क्तेऽ­नि­ल­यने’(तै. उ. २ । ७ । १) इत्याद्या । स्मृतिरपि — ‘अव्य­क्तोऽ­य­म­चि­न्त्योऽ­य­म­वि­का­र्योऽ­य­मु­च्यते’(भ. गी. २ । २५) इत्याद्या ॥ २३ ॥

अपि च संराधने प्रत्य­क्षा­नु­मा­ना­भ्याम् ॥ २४ ॥

२४

अपि च एनमात्मानं निर­स्त­स­म­स्त­प्र­प­ञ्च­म­व्यक्तं संराधनकाले पश्यन्ति योगिनः । संराधनं च भक्ति­ध्या­न­प्र­णि­धा­ना­द्य­नु­ष्ठा­नम् । कथं पुनरवगम्यते — संराधनकाले पश्यन्तीति ? प्रत्य­क्षा­नु­मा­ना­भ्याम् , श्रुति­स्मृ­ति­भ्या­मि­त्यर्थः । तथा हि श्रुतिः — ‘पराञ्चि खानि व्यतृ­ण­त्स्व­यं­भू­स्त­स्मा­त्प­राङ् पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्य­गा­त्मा­न­मै­क्ष­दा­वृ­त्त­च­क्षु­र­मृ­त­त्व­मि­च्छन्’(क. उ. २ । १ । १) इति, ‘ज्ञानप्रसादेन विशु­द्ध­स­त्त्व­स्त­तस्तु तं पश्यते निष्कलं ध्यायमानः’(मु. उ. ३ । १ । ८) इति चैवमाद्या । स्मृतिरपि — ‘यं विनिद्रा जितश्वासाः सन्तुष्टाः संयतेन्द्रियाः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः॥’(म. भा. १२ । ४७ । ५४) ‘योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्’(म. भा. ५ । ४६ । १) इति चैवमाद्या ॥ २४ ॥

ननु संरा­ध्य­सं­रा­ध­क­भा­वा­भ्यु­प­ग­मा­त्प­रे­त­रा­त्म­नो­र­न्यत्वं स्यादिति; नेत्युच्यते —

प्रका­शा­दि­व­च्चा­वै­शेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥

२५

यथा प्रका­शा­का­श­स­वि­तृ­प्र­भृ­तयः अङ्गु­लि­क­र­को­द­क­प्र­भृ­तिषु कर्मसु उपाधिभूतेषु सविशेषा इवावभासन्ते, न च स्वाभा­वि­की­म­वि­शे­षा­त्मतां जहति; एवमुपाधिनिमित्त एवायमात्मभेदः, स्वतस्तु ऐकात्म्यमेव । तथा हि वेदान्तेषु अभ्यासेन असकृत् जीव­प्रा­ज्ञ­यो­र­भेदः प्रतिपाद्यते ॥ २५ ॥

अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥

२६

अतश्च स्वाभा­वि­क­त्वा­द­भे­दस्य, अवि­द्या­कृ­त­त्वाच्च भेदस्य, विद्यया अविद्यां विधूय जीवः परेण अनन्तेन प्राज्ञेन आत्मना एकतां गच्छति । तथा हि लिङ्गम् — ‘स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’(मु. उ. ३ । २ । ९) ‘ब्रह्मैव सन्ब्र­ह्मा­प्येति’(बृ. उ. ४ । ४ । ६) इत्यादि ॥ २६ ॥

उभ­य­व्य­प­दे­शा­त्त्व­हि­कु­ण्ड­ल­वत् ॥ २७ ॥

२७

तस्मिन्नेव संरा­ध्य­सं­रा­ध­क­भावे मता­न्त­र­मु­प­न्य­स्यति, स्वमतविशुद्धये । क्वचित् जीव­प्रा­ज्ञ­यो­र्भेदो व्यपदिश्यते — ‘ततस्तु तं पश्यते निष्कलं ध्यायमानः’(मु. उ. ३ । १ । ८) इति ध्यातृ­ध्या­त­व्य­त्वेन द्रष्टृ­द्र­ष्ट­व्य­त्वेन च । ‘परात्परं पुरुषमुपैति दिव्यम्’(मु. उ. ३ । २ । ८) इति गन्तृ­ग­न्त­व्य­त्वेन । ‘यः सर्वाणि भूतान्यन्तरो यमयति’ इति निय­न्तृ­नि­य­न्त­व्य­त्वेन च । क्वचित्तु तयोरेवाभेदो व्यपदिश्यते — ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) ‘अहं ब्रह्मास्मि’(बृ. उ. १ । ४ । १०) ‘एष त आत्मा सर्वान्तरः’(बृ. उ. ३ । ४ । १) ‘एष त आत्मा­न्त­र्या­म्य­मृतः’(बृ. उ. ३ । ७ । ३) इति । तत्रै­व­मु­भ­य­व्य­प­देशे सति, यद्यभेद एव एकान्ततो गृह्येत, भेदव्यपदेशो निरालम्बन एव स्यात् । अत उभ­य­व्य­प­दे­श­द­र्श­नात् अहिकुण्डलवदत्र तत्त्वं भवितुमर्हति — यथा अहिरित्यभेदः, कुण्ड­ला­भो­ग­प्रां­शु­त्वा­दी­नीति च भेदः, एवमिहापीति ॥ २७ ॥

प्रका­शा­श्र­य­वद्वा तेजस्त्वात् ॥ २८ ॥

२८

अथवा प्रका­शा­श्र­य­व­दे­त­त्प्र­ति­प­त्त­व्यम् — यथा प्रकाशः सावित्रः तदाश्रयश्च सविता नात्यन्तभिन्नौ, उभयोरपि तेज­स्त्वा­वि­शे­षात्; अथ च भेदव्यपदेशभाजौ भवतः — एवमिहापीति ॥ २८ ॥

पूर्ववद्वा ॥ २९ ॥

२९

यथा वा पूर्व­मु­प­न्य­स्तम् — ‘प्रका­शा­दि­व­च्चा­वै­शे­ष्यम्’ इति, तथैव एतद्भवितुमर्हति । तथा हि अवि­द्या­कृ­त­त्वा­द्ब­न्धस्य विद्यया मोक्ष उपपद्यते । यदि पुनः परमार्थत एव बद्धः कश्चिदात्मा अहि­कु­ण्ड­ल­न्या­येन परस्य आत्मनः संस्थानभूतः, प्रका­शा­श्र­य­न्या­येन च एक­दे­श­भू­तोऽ­भ्यु­प­ग­म्येत । ततः पारमार्थिकस्य बन्धस्य तिर­स्क­र्तु­म­श­क्य­त्वात् मोक्ष­शा­स्त्र­वै­यर्थ्यं प्रसज्येत । न चात्र उभावपि भेदाभेदौ श्रुतिः तुल्य­व­द्व्य­प­दि­शति । अभेदमेव हि प्रतिपाद्यत्वेन निर्दिशति, भेदं तु पूर्व­प्र­सि­द्ध­मे­वा­नु­व­दति अर्था­न्त­र­वि­व­क्षया । तस्मा­त्प्र­का­शा­दि­व­च्चा­वै­शे­ष्य­मि­त्येष एव सिद्धान्तः ॥ २९ ॥

प्रतिषेधाच्च ॥ ३० ॥

३०

इतश्च एष एव सिद्धान्तः, यत्कारणं पर­स्मा­दा­त्म­नोऽन्यं चेतनं प्रतिषेधति शास्त्रम् — ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. उ. ३ । ७ । २३) इत्येवमादि । ‘अथात आदेशो नेति नेति’(बृ. उ. २ । ३ । ६) ‘तदे­त­द्ब्र­ह्मा­पू­र्व­म­न­प­र­म­न­न्त­र­म­बा­ह्यम्’(बृ. उ. २ । ५ । १९) इति च ब्रह्म­व्य­ति­रि­क्त­प्र­प­ञ्च­नि­रा­क­र­णात् ब्रह्म­मा­त्र­प­रि­शे­षाच्च एष एव सिद्धान्त इति गम्यते ॥ ३० ॥

यदेतत् निर­स्त­स­म­स्त­प्र­पञ्चं ब्रह्म निर्धारितम् , अस्मात्परम् अन्य­त्त­त्त्व­मस्ति नास्तीति श्रुति­वि­प्र­ति­पत्तेः संशयः । कानिचिद्धि वाक्यानि आपातेनैव प्रतिभासमानानि ब्रह्मणोऽपि परम् अन्यत्तत्त्वं प्रतिपादयन्तीव । तेषां हि परि­हा­र­म­भि­धा­तु­म­य­मु­प­क्रमः क्रियते —

परमतः सेतू­न्मा­न­स­म्ब­न्ध­भे­द­व्य­प­दे­शेभ्यः ॥ ३१ ॥

३१

परम् अतो ब्रह्मणः अन्यत्तत्त्वं भवितुमर्हति । कुतः ? सेतुव्यपदेशात् उन्मा­न­व्य­प­दे­शात् सम्ब­न्ध­व्य­प­दे­शात् भेदव्यपदेशाच्च । सेतु­व्य­प­दे­श­स्ता­वत् — ‘अथ य आत्मा स सेतुर्विधृतिः’(छा. उ. ८ । ४ । १) इत्या­त्म­श­ब्दा­भि­हि­तस्य ब्रह्मणः सेतुत्वं सङ्कीर्तयति । सेतुशब्दश्च हि लोके जल­स­न्ता­न­वि­च्छे­द­करे मृद्दा­र्वा­दि­प्र­चये प्रसिद्धः । इह तु सेतुशब्दः आत्मनि प्रयुक्त इति लौकिकसेतोरिव आत्मसेतोरन्यस्य वस्तु­नोऽ­स्तित्वं गमयति । ‘सेतुं तीर्त्वा’(छा. उ. ८ । ४ । २) इति च तर­ति­श­ब्द­प्र­यो­गात् — यथा लौकिकं सेतुं तीर्त्वा जाङ्गलमसेतुं प्राप्नोति, एवमात्मानं सेतुं तीर्त्वा अनात्मानमसेतुं प्राप्नोतीति गम्यते । उन्मा­न­व्य­प­दे­शश्च भवति — तदेतद्ब्रह्म चतुष्पात् अष्टाशफं षोडशकलमिति । यच्च लोके उन्मितम् एतावदिदमिति परिच्छिन्नं कार्षापणादि, ततोऽ­न्य­द्व­स्त्व­स्तीति प्रसिद्धम् । तथा ब्रह्म­णोऽ­प्यु­न्मा­नात् ततोऽन्येन वस्तुना भवितव्यमिति गम्यते । तथा सम्ब­न्ध­व्य­प­दे­शोऽपि भवति — ‘सता सोम्य तदा सम्पन्नो भवति’(छा. उ. ६ । ८ । १) इति, ‘शारीर आत्मा’(तै. उ. २ । ३ । १) ‘प्राज्ञे­ना­त्मना सम्परिष्वक्तः’(बृ. उ. ४ । ३ । २१) इति च । मितानां च मितेन सम्बन्धो दृष्टः, यथा नराणां नगरेण । जीवानां च ब्रह्मणा सम्बन्धं व्यपदिशति सुषुप्तौ । अतः ततः पर­म­न्य­द­मि­त­म­स्तीति गम्यते । भेदव्यपदेशश्च एतमेवार्थं गमयति । तथा हि — ‘अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते’(छा. उ. १ । ६ । ६) इत्या­दि­त्या­धा­र­मी­श्वरं व्यपदिश्य, ततो भेदेन अक्ष्या­धा­र­मी­श्वरं व्यपदिशति — ‘अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते’(छा. उ. १ । ७ । ५) इति । अतिदेशं च अस्य अमुना रूपादिषु करोति — ‘तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम’(छा. उ. १ । ७ । ५) इति । सावधिकं च ईश्व­र­त्व­मु­भ­यो­र्व्य­प­दि­शति — ‘ये चामु­ष्मा­त्प­राञ्चो लोकास्तेषां चेष्टे देवकामानां च’(छा. उ. १ । ६ । ८) इत्येकस्य, ‘ये चैत­स्मा­द­र्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां च’(छा. उ. १ । ७ । ६) इत्येकस्य, यथा इदं मागधस्य राज्यम् , इदं वैदेहस्येति । एवमेतेभ्यः सेत्वा­दि­व्य­प­दे­शेभ्यो ब्रह्मणः परमस्तीति ॥ ३१ ॥

एवं प्राप्ते, प्रतिपाद्यते —

सामान्यात्तु ॥ ३२ ॥

३२

तुशब्देन प्रदर्शितां प्राप्तिं निरुणद्धि । न ब्रह्मणोऽन्यत् किञ्चि­द्भ­वि­तु­म­र्हति, प्रमाणाभावात् — न ह्यन्य­स्या­स्तित्वे किञ्चि­त्प्र­मा­ण­मु­प­ल­भा­महे । सर्वस्य हि जनिमतो वस्तुजातस्य जन्मादि ब्रह्मणो भवतीति निर्धारितम् , अनन्यत्वं च कारणात् कार्यस्य । न च ब्रह्म­व्य­ति­रिक्तं किञ्चित् अजं सम्भवति, ‘सदेव सोम्येदमग्र आसी­दे­क­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) इत्यवधारणात् । एकविज्ञानेन च सर्व­वि­ज्ञा­न­प्र­ति­ज्ञा­नात् न ब्रह्म­व्य­ति­रि­क्त­व­स्त्व­स्ति­त्व­म­व­क­ल्पते । ननु सेत्वा­दि­व्य­प­देशाः ब्रह्म­व्य­ति­रिक्तं तत्त्वं सूच­य­न्ती­त्यु­क्तम्; नेत्युच्यते — सेतु­व्य­प­दे­श­स्ता­वत् न ब्रह्मणो बाह्यस्य सद्भावं प्रतिपादयितुं क्षमते । सेतुरात्मेति हि आह, न ततः परमस्तीति । तत्र परस्मिन् असति सेतुत्वं नावकल्पत इति परं किमपि कल्प्येत । न चैतत् न्याय्यम् । हठो हि अप्रसिद्धकल्पना । अपि च सेतु­व्य­प­दे­शा­दा­त्मनो लौकि­क­से­तु­नि­द­र्श­नेन सेतु­बा­ह्य­व­स्तुतां प्रसञ्जयता मृद्दारुमयतापि प्रासङ्क्ष्यत । न चैतन्न्याय्यम् , अज­त्वा­दि­श्रु­ति­वि­रो­धात् । सेतु­सा­मा­न्यात्तु सेतुशब्द आत्मनि प्रयुक्त इति श्लिष्यते । जग­त­स्त­न्म­र्या­दानां च विधारकत्वं सेतु­सा­मा­न्य­मा­त्मनः । अतः सेतुरिव सेतुः — इति प्रकृत आत्मा स्तूयते । ‘सेतुं तीर्त्वा’ इत्यपि तरतिः अति­क्र­मा­स­म्भ­वात् प्राप्नोत्यर्थ एव वर्तते — यथा व्याकरणं तीर्ण इति प्राप्तः उच्यते, न अतिक्रान्तः, तद्वत् ॥ ३२ ॥

बुद्ध्यर्थः पादवत् ॥ ३३ ॥

३३

यदप्युक्तम् — उन्मा­न­व्य­प­दे­शा­दस्ति परमिति, तत्राभिधीयते — उन्मा­न­व्य­प­दे­शोऽपि न ब्रह्म­व्य­ति­रि­क्त­व­स्त्व­स्ति­त्व­प्र­ति­प­त्त्यर्थः । किमर्थस्तर्हि ? बुद्ध्यर्थः, उपासनार्थ इति यावत् । चतुष्पादष्टाशफं षोड­श­क­ल­मि­त्ये­वं­रूपा — बुद्धिः कथं नु नाम ब्रह्मणि स्थिरा स्यादिति — विकारद्वारेण ब्रह्मण उन्मानकल्पनैव क्रियते । न हि अविकारेऽनन्ते ब्रह्मणि सर्वैः पुम्भिः शक्या बुद्धिः स्थापयितुम् , मन्द­म­ध्य­मो­त्त­म­बु­द्धि­त्वात् पुंसामिति । पादवत् — यथा मन­आ­का­श­यो­र­ध्या­त्म­म­धि­दै­वतं च ब्रह्म­प्र­ती­क­यो­रा­म्ना­तयोः, चत्वारो वागादयो मनःसम्बन्धिनः पादाः कल्प्यन्ते, चत्वारश्च अग्न्यादय आकाशसम्बन्धिनः — आध्यानाय — तद्वत् । अथवा पादवदिति — यथा कार्षापणे पादविभागो व्यव­हा­र­प्रा­चु­र्याय कल्प्यते — न हि सकलेनैव कार्षापणेन सर्वदा सर्वे जना व्यवहर्तुमीशते, क्रयविक्रये परिमाणानियमात् — तद्वदित्यर्थः ॥ ३३ ॥

स्थान­वि­शे­षा­त्प्र­का­शा­दि­वत् ॥ ३४ ॥

३४

इह सूत्रे द्वयोरपि सम्ब­न्ध­भे­द­व्य­प­दे­शयोः परिहारोऽभिधीयते । यदप्युक्तम् — सम्ब­न्ध­व्य­प­दे­शात् भेदव्यपदेशाच्च परमतः स्यादिति, तदप्यसत्; यत एकस्यापि स्थान­वि­शे­षा­पे­क्षया एतौ व्यप­दे­शा­वु­प­प­द्येते । सम्बन्धव्यपदेशे तावदयमर्थः — बुद्ध्या­द्यु­पा­धि­स्था­न­वि­शे­ष­यो­गा­दु­द्भू­तस्य विशेषविज्ञानस्य उपाध्युपशमे य उपशमः, स परमात्मना सम्बन्धः — इत्यु­पा­ध्य­पे­क्षया उपचर्यते, न परि­मि­त­त्वा­पे­क्षया । तथा भेदव्यपदेशोऽपि ब्रह्मण उपा­धि­भे­दा­पे­क्ष­यैव उपचर्यते, न स्वरू­प­भे­दा­पे­क्षया । प्रकाशादिवदिति उपमोपादानम् — यथा एकस्य प्रकाशस्य सौर्यस्य चान्द्रमसस्य वा उपा­धि­यो­गा­दु­प­जा­त­वि­शे­षस्य उपा­ध्यु­प­श­मा­त्स­म्ब­न्ध­व्य­प­देशो भवति, उपाधिभेदाच्च भेदव्यपदेशः । यथा वा सूची­पा­शा­का­शा­दि­षू­पा­ध्य­पे­क्ष­यै­वैतौ सम्ब­न्ध­भे­द­व्य­प­देशौ भवतः — तद्वत् ॥ ३४ ॥

उपपत्तेश्च ॥ ३५ ॥

३५

उपपद्यते च अत्र ईदृश एव सम्बन्धः, नान्यादृशः — ‘स्वमपीतो भवति’(छा. उ. ६ । ८ । १)‘स्वमपीतो भवति’(छा. उ. ६ । ८ । १) इति हि स्वरू­प­स­म्ब­न्ध­मे­न­मा­म­नन्ति; स्वरूपस्य च अनपायित्वात् न नरनगरन्यायेन सम्बन्धो घटते । उपा­धि­कृ­त­स्व­रू­प­ति­रो­भा­वात्तु ‘स्वमपीतो भवति’ इत्युपपद्यते । तथा भेदोऽपि नान्यादृशः सम्भवति, बहु­त­र­श्रु­ति­प्र­सि­द्धै­के­श्व­र­त्व­वि­रो­धात् । तथा च श्रुति­रे­क­स्या­प्या­का­शस्य स्थानकृतं भेद­व्य­प­दे­श­मु­प­पा­द­यति — ‘योऽयं बहिर्धा पुरुषादाकाशः’(छा. उ. ३ । १२ । ७) ‘योऽयमन्तः पुरुष आकाशः’(छा. उ. ३ । १२ । ८) ‘योऽयमन्तर्हृदय आकाशः’(छा. उ. ३ । १२ । ९) इति ॥ ३५ ॥

तथाऽ­न्य­प्र­ति­षे­धात् ॥ ३६ ॥

३६

एवं सेत्वा­दि­व्य­प­दे­शान् पर­प­क्ष­हे­तू­नु­न्मथ्य सम्प्रति स्वपक्षं हेत्व­न्त­रे­णो­प­सं­ह­रति । तथाऽ­न्य­प्र­ति­षे­धा­दपि न ब्रह्मणः परं वस्त्व­न्त­र­म­स्तीति गम्यते । तथा हि — ‘स एवाधस्तात्’(छा. उ. ७ । २५ । १) ‘अहमेवाधस्तात्’(छा. उ. ७ । २५ । १) ‘आत्मै­वा­ध­स्तात्’(छा. उ. ७ । २५ । २) ‘सर्वं तं परा­दा­द्योऽ­न्य­त्रा­त्मनः सर्वं वेद’(बृ. उ. २ । ४ । ६) ‘ब्रह्मैवेदं सर्वम्’ ‘आत्मैवेदꣳ सर्वम्’(छा. उ. ७ । २५ । २) ‘नेह नानास्ति किञ्चन’(बृ. उ. ४ । ४ । १९) ‘यस्मात्परं नापरमस्ति किञ्चित्’(श्वे. उ. ३ । ९) ‘तदे­त­द्ब्र­ह्मा­पू­र्व­म­न­प­र­म­न­न्त­र­म­बा­ह्यम्’(बृ. उ. २ । ५ । १९) इत्येवमादीनि वाक्यानि स्वप्रकरणस्थानि अन्यार्थत्वेन परिणेतुमशक्यानि ब्रह्म­व्य­ति­रिक्तं वस्त्वन्तरं वारयन्ति । सर्वा­न्त­र­श्रु­तेश्च न परमात्मनोऽन्यः अन्तरात्मा अस्ती­त्य­व­धा­र्यते ॥ ३६ ॥

अनेन सर्व­ग­त­त्व­मा­या­म­श­ब्दा­दिभ्यः ॥ ३७ ॥

३७

अनेन सेत्वा­दि­व्य­प­दे­श­नि­रा­क­र­णेन अन्य­प्र­ति­षे­ध­स­मा­श्र­य­णेन च सर्व­ग­त­त्व­म­प्या­त्मनः सिद्धं भवति । अन्यथा हि तन्न सिध्येत् । सेत्वा­दि­व्य­प­दे­शेषु हि मुख्ये­ष्व­ङ्गी­क्रि­य­मा­णेषु परिच्छेद आत्मनः प्रसज्येत, सेत्वा­दी­ना­मे­व­मा­त्म­क­त्वात् । तथा अन्य­प्र­ति­षे­धेऽ­प्य­सति, वस्तु वस्त्व­न्त­रा­द्व्या­व­र्तत इति परिच्छेद एव आत्मनः प्रसज्येत । सर्वगतत्वं च अस्य आयामशब्दादिभ्यो विज्ञायते । आयामशब्दः व्याप्तिवचनः शब्दः । ‘यावान्वा अय­मा­का­श­स्ता­वा­ने­षोऽ­न्त­र्हृ­दय आकाशः’(छा. उ. ८ । १ । ३) ‘आका­श­व­त्स­र्व­ग­तश्च नित्यः’ ‘ज्यायान्दिवः’(छा. उ. ३ । १४ । ३) ‘ज्याया­ना­का­शात्’(श. ब्रा. १० । ६ । ३ । २) ‘नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः’(भ. गी. २ । २४) इत्येवमादयो हि श्रुति­स्मृ­ति­न्यायाः सर्व­ग­त­त्व­मा­त्म­नोऽ­व­बो­ध­यन्ति ॥ ३७ ॥

फलमत उपपत्तेः ॥ ३८ ॥

३८

तस्यैव ब्रह्मणो व्यावहारिक्याम् ईशि­त्री­शि­त­व्य­वि­भा­गा­व­स्था­याम् , अयमन्यः स्वभावो वर्ण्यते । यदेतत् इष्टा­नि­ष्ट­व्या­मि­श्र­ल­क्षणं कर्मफलं संसारगोचरं त्रिविधं प्रसिद्धं जन्तूनाम् , किमेतत् कर्मणो भवति, आहो­स्वि­दी­श्व­रा­दिति भवति विचारणा । तत्र ताव­त्प्र­ति­पा­द्यते — फलम् अतः ईश्वरात् भवितुमर्हति । कुतः ? उपपत्तेः । स हि सर्वाध्यक्षः सृष्टि­स्थि­ति­सं­हा­रान् विचित्रान् विदधत् देश­का­ल­वि­शे­षा­भि­ज्ञ­त्वात् कर्मिणां कर्मानुरूपं फलं सम्पा­द­य­ती­त्यु­प­प­द्यते । कर्मणस्तु अनुक्षणविनाशिनः कालान्तरभावि फलं भव­ती­त्य­नु­प­प­न्नम् , अभा­वा­द्भा­वा­नु­त्पत्तेः । स्यादेतत् — कर्म विनश्यत् स्वकालमेव स्वानुरूपं फलं जनयित्वा विनश्यति, तत्फलं कालान्तरितं कर्त्रा भोक्ष्यत इति; तदपि न परिशुध्यति, प्राग्भो­क्तृ­स­म्ब­न्धात् फलत्वानुपपत्तेः — यत्कालं हि यत् सुखं दुःखं वा आत्मना भुज्यते, तस्यैव लोके फलत्वं प्रसिद्धम् । न हि अस­म्ब­द्ध­स्या­त्मना सुखस्य दुःखस्य वा फलत्वं प्रतियन्ति लौकिकाः । अथोच्येत — मा भूत्कर्मानन्तरं फलोत्पादः, कर्म­का­र्या­द­पू­र्वा­त्फ­ल­मु­त्प­त्स्यत इति, तदपि नोपपद्यते, अपू­र्व­स्या­चे­त­नस्य काष्ठलोष्टसमस्य चेत­ने­ना­प्र­व­र्ति­तस्य प्रवृ­त्त्य­नु­प­पत्तेः, तदस्तित्वे च प्रमाणाभावात् । अर्थापत्तिः प्रमाणमिति चेत् , न, ईश्व­र­सि­द्धे­र­र्था­प­त्ति­क्ष­यात् ॥ ३८ ॥

श्रुतत्वाच्च ॥ ३९ ॥

३९

न केवलम् उपपत्तेरेव ईश्वरं फलहेतुं कल्पयामः — किं तर्हि ? — श्रुतत्वादपि ईश्वरमेव फलहेतुं मन्यामहे, तथा च श्रुतिर्भवति — ‘स वा एष महानज आत्मान्नादो वसुदानः’(बृ. उ. ४ । ४ । २४) इत्येवंजातीयका ॥ ३९ ॥

धर्मं जैमिनिरत एव ॥ ४० ॥

४०

जैमि­नि­स्त्वा­चार्यो धर्मं फलस्य दातारं मन्यते, अत एव हेतोः — श्रुतेः उपपत्तेश्च । श्रूयते तावदयमर्थः ‘स्वर्गकामो यजेत’ इत्येवमादिषु वाक्येषु । तत्र च विधि­श्रु­ते­र्वि­ष­य­भा­वो­प­ग­मात् यागः स्वर्ग­स्यो­त्पा­दक इति गम्यते । अन्यथा हि अननुष्ठातृको याग आपद्येत । तत्र अस्य उपदेशवैयर्थ्यं स्यात् । ननु अनुक्षणविनाशिनः कर्मणः फलं नोपपद्यत इति, परित्यक्तोऽयं पक्षः; नैष दोषः, श्रुति­प्रा­मा­ण्यात् — श्रुतिश्चेत् प्रमाणम् , यथायं कर्मफलसम्बन्धः श्रुत उपपद्यते, तथा कल्पयितव्यः । न च अनुत्पाद्य किमप्यपूर्वं कर्म विनश्यत् कालान्तरितं फलं दातुं शक्नोति । अतः कर्मणो वा सूक्ष्मा काचि­दु­त्त­रा­वस्था फलस्य वा पूर्वावस्था अपूर्वं नाम अस्तीति तर्क्यते । उपपद्यते च अयमर्थ उक्तेन प्रकारेण । ईश्वरस्तु फलं ददा­ती­त्य­नु­प­प­न्नम् , अविचित्रस्य कारणस्य विचि­त्र­का­र्या­नु­प­पत्तेः वैष­म्य­नै­र्घृ­ण्य­प्र­स­ङ्गात् , अनु­ष्ठा­न­वै­य­र्थ्या­प­त्तेश्च । तस्मात् धर्मादेव फलमिति ॥ ४० ॥

पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ४१ ॥

४१

बाद­रा­य­ण­स्त्वा­चार्यः पूर्वोक्तमेव ईश्वरं फलहेतुं मन्यते । केवलात्कर्मणः अपूर्वाद्वा केवलात् फलमित्ययं पक्षः तुशब्देन व्यावर्त्यते । कर्मापेक्षात् अपू­र्वा­पे­क्षाद्वा यथा तथास्तु ईश्वरात्फलमिति सिद्धान्तः । कुतः ? हेतुव्यपदेशात् । धर्माधर्मयोरपि हि कारयितृत्वेन ईश्वरो हेतुः व्यपदिश्यते, फलस्य च दातृत्वेन — ‘एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष उ एवासाधु कर्म कारयति तं यमधो निनीषते’ इति । स्मर्यते च अयमर्थो भगवद्गीतासु — ‘यो यो यां यां तनुं भक्तः श्रद्ध­या­र्चि­तु­मि­च्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥’(भ. गी. ७ । २१) ‘स तया श्रद्धया युक्त­स्त­स्या­रा­ध­न­मी­हते । लभते च ततः कामान् मयैव विहितान्हितान्’(भ. गी. ७ । २२) इति । सर्ववेदान्तेषु च ईश्वरहेतुका एव सृष्टयो व्यपदिश्यन्ते । तदेव च ईश्वरस्य फलहेतुत्वम् , यत् स्वकर्मानुरूपाः प्रजाः सृजतीति । विचि­त्र­का­र्या­नु­प­प­त्त्या­द­योऽपि दोषाः कृत­प्र­य­त्ना­पे­क्ष­त्वा­दी­श्व­रस्य न प्रसज्यन्ते ॥ ४१ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य
श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ शारी­र­क­मी­मां­सा­सू­त्र­भाष्ये
तृतीयाध्यायस्य द्वितीयः पादः ॥

तृतीयः पादः

व्याख्यातं विज्ञेयस्य ब्रह्मणः तत्त्वम् । इदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते, न वेति विचार्यते । ननु विज्ञेयं ब्रह्म पूर्वा­प­रा­दि­भे­द­र­हि­तम् एकरसं सैन्धवघनवत् अवधारितम् । तत्र कुतो विज्ञा­न­भे­दा­भे­द­चि­न्ता­व­सरः ? न हि कर्मबहुत्ववत् ब्रह्मबहुत्वमपि वेदान्तेषु प्रति­पि­पा­द­यि­षि­त­मिति शक्यं वक्तुम् , ब्रह्मण एकत्वात् एकरूपत्वाच्च । न च एकरूपे ब्रह्मणि अनेकरूपाणि विज्ञानानि सम्भवन्ति । न हि अन्यथा अर्थः अन्यथा ज्ञानम् — इत्यभ्रान्तं भवति । यदि पुनः एक­स्मि­न्ब्र­ह्मणि बहूनि विज्ञानानि वेदान्तेषु प्रति­पि­पा­द­यि­षि­तानि, तेषाम् एकमभ्रान्तम् , भ्रान्तानि इतराणीति अना­श्वा­स­प्र­सङ्गो वेदान्तेषु । तस्मान्न ताव­त्प्र­ति­वे­दान्तं ब्रह्म­वि­ज्ञा­न­भेद आशङ्कितुं शक्यते । नाप्यस्य चोद­ना­द्य­वि­शे­षा­द­भेद उच्येत, ब्रह्म­वि­ज्ञा­नस्य अचो­द­ना­ल­क्ष­ण­त्वात् । अवि­धि­प्र­धा­नैर्हि वस्तु­प­र्य­व­सा­यिभिः ब्रह्मवाक्यैः ब्रह्मविज्ञानं जन्यत इत्यवोचदाचार्यः ‘तत्तु समन्वयात्’(ब्र. सू. १ । १ । ४) इत्यत्र । तत्कथमिमां भेदा­भे­द­चि­न्ता­मा­र­भत इति ॥

तदुच्यते — सगुणब्रह्मविषया प्राणादिविषया च इयं विज्ञा­न­भे­दा­भे­द­चि­न्ते­त्य­दोषः । अत्र हि कर्मवत् उपासनानां भेदाभेदौ सम्भवतः । कर्मवदेव च उपासनानि दृष्टफलानि अदृष्टफलानि च उच्यन्ते, क्रममुक्तिफलानि च कानिचित् सम्य­ग्ज्ञा­नो­त्प­त्ति­द्वा­रेण । तेषु एषा चिन्ता सम्भवति — किं प्रतिवेदान्तं विज्ञानभेदः, आहोस्वित् नेति ॥

तत्र पूर्व­प­क्ष­हे­त­व­स्ता­व­दु­प­न्य­स्यन्ते — नाम्नस्तावत् भेद­प्र­ति­प­त्ति­हे­तुत्वं प्रसिद्धं ज्योतिरादिषु । अस्ति च अत्र वेदा­न्ता­न्त­र­वि­हि­तेषु विज्ञानेषु अन्यदन्यत् नाम — तैत्तिरीयकं वाजसनेयकं कौथुमकं कौषीतकं शाट्या­य­न­क­मि­त्ये­व­मादि । तथा रूपभेदोऽपि कर्मभेदस्य प्रतिपादकः प्रसिद्धः — ‘वैश्व­दे­व्या­मिक्षा वाजिभ्यो वाजिनम्’ इत्येवमादिषु । अस्ति च अत्र रूपभेदः । तद्यथा — केचिच्छाखिनः पञ्चा­ग्नि­वि­द्यायां षष्ठ­म­प­र­म­ग्नि­मा­म­नन्ति, अपरे पुनः पञ्चैव पठन्ति । तथा प्राणसंवादादिषु केचित् ऊना­न्वा­गा­दी­ना­म­नन्ति, केचिदधिकान् । तथा धर्मविशेषोऽपि कर्मभेदस्य प्रतिपादक आशङ्कितः कारीर्यादिषु । अस्ति च अत्र धर्मविशेषः; यथा आथर्वणिकानां शिरोव्रतमिति । एवं पुन­रु­क्त्या­द­योऽपि भेदहेतवः यथासम्भवं वेदान्तान्तरेषु योजयितव्याः । तस्मात् प्रतिवेदान्तं विज्ञानभेद इत्येवं प्राप्ते, ब्रूमः —

सर्व­वे­दा­न्त­प्र­त्ययं चोद­ना­द्य­वि­शे­षात् ॥ १ ॥

सर्व­वे­दा­न्त­प्र­त्य­यानि विज्ञानानि तस्मिन् तस्मिन् वेदान्ते तानि तान्येव भवितुमर्हन्ति । कुतः ? चोद­ना­द्य­वि­शे­षात् । आदिग्रहणेन शाखा­न्त­रा­धि­क­र­ण­सि­द्धा­न्त­सू­त्रो­दिता अभेदहेतव इहाकृष्यन्ते — संयो­ग­रू­प­चो­द­ना­ख्याऽ­वि­शे­षा­दि­त्यर्थः । यथा एक­स्मि­न्न­ग्नि­होत्रे शाखाभेदेऽपि पुरु­ष­प्र­य­त्न­स्ता­दृश एव चोद्यते — जुहुयादिति, एवम् ‘यो ह वै ज्येष्ठं च श्रेष्ठं च वेद’(छा. उ. ५ । १ । १) इति वाजसनेयिनां छन्दोगानां च तादृश्येव चोदना । प्रयो­ज­न­सं­यो­गोऽ­प्य­वि­शिष्ट एव — ‘ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति’(बृ. उ. ६ । १ । १) इति । रूपमप्युभयत्र तदेव विज्ञानस्य, यदुत ज्येष्ठ­श्रे­ष्ठा­दि­गु­ण­वि­शे­ष­णा­न्वितं प्राणतत्त्वम् — यथा च द्रव्यदेवते यागस्य रूपम् , एवं विज्ञेयं रूपं विज्ञानस्य । तेन हि तत् रूप्यते । समाख्यापि सैव — प्राणविद्येति । तस्मात् सर्व­वे­दा­न्त­प्र­त्य­यत्वं विज्ञानानाम् । एवं पञ्चाग्निविद्या वैश्वानरविद्या शाण्डि­ल्य­वि­द्ये­त्ये­व­मा­दिषु योजयितव्यम् । ये तु नामरूपादयो भेदहेत्वाभासाः, ते प्रथम एव काण्डे ‘न नाम्ना स्याद­चो­द­ना­भि­धा­न­त्वात्’(जै॰सू॰२-४-१०) इत्यारभ्य परिहृताः ॥ १ ॥

इहापि कञ्चि­द्वि­शे­ष­मा­शङ्क्य परिहरति —

भेदान्नेति चेन्नैकस्यामपि ॥ २ ॥

स्यादेतत् — सर्व­वे­दा­न्त­प्र­त्य­यत्वं विज्ञानानां गुणभेदात् नोपपद्यते । तथा हि — वाजसनेयिनः पञ्चा­ग्नि­विद्यां प्रस्तुत्य षष्ठ­म­प­र­म­ग्नि­मा­म­नन्ति — ‘तस्या­ग्नि­रे­वा­ग्नि­र्भ­वति’(बृ. उ. ६ । २ । १४) इत्यादिना । छन्दोगास्तु तं न आमनन्ति, पञ्चसंख्ययैव च ते उपसंहरन्ति — ‘अथ ह य एतानेवं पंचाग्नीन्वेद’(छा. उ. ५ । १० । १०) इति । येषां च स गुणोऽस्ति, येषां च नास्ति, कथमुभयेषामेका विद्योपपद्येत ? न च अत्र गुणोपसंहारः शक्यते प्रत्येतुम् , पञ्च­सं­ख्या­वि­रो­धात् । तथा प्राणसंवादे श्रेष्ठात् अन्यान् चतुरः प्राणान् वाक्च­क्षुः­श्रो­त्र­म­नांसि छन्दोगा आमनन्ति । वाजसनेयिनस्तु पञ्च­म­म­प्या­म­नन्ति — ‘रेतो वै प्रजातिः प्रजायते ह प्रजया पशुभिर्य एवं वेद’(बृ. उ. ६ । १ । ६) इति । आवा­पो­द्वा­प­भे­दाच्च वेद्यभेदो भवति, वेद्यभेदाच्च विद्याभेदः, द्रव्य­दे­व­ता­भे­दा­दिव यागस्येति चेत् — नैष दोषः; यत एकस्यामपि विद्या­या­मे­वं­जा­ती­यको गुणभेद उपपद्यते । यद्यपि षष्ठ­स्या­ग्ने­रु­प­सं­हारो न सम्भवति, तथापि द्युप्रभृतीनां पञ्चा­ना­म­ग्नी­नाम् उभयत्र प्रत्य­भि­ज्ञा­य­मा­न­त्वात् न विद्याभेदो भवितुमर्हति । न हि षोड­शि­ग्र­ह­णा­ग्र­ह­ण­यो­र­ति­रात्रो भिद्यते । पठ्यतेऽपि च षष्ठोऽग्निः छन्दोगैः — ‘तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति’(छा. उ. ५ । ९ । २) इति । वाजसनेयिनस्तु साम्पादिकेषु पञ्चस्वग्निषु अनुवृत्तायाः समि­द्धू­मा­दि­क­ल्प­नाया निवृत्तये ‘तस्या­ग्नि­रे­वा­ग्नि­र्भ­वति समित्समित्’(बृ. उ. ६ । २ । १४) इत्यादि समामनन्ति । स नित्यानुवादः । अथाप्युपासनार्थ एष वादः, तथापि स गुणः शक्यते छन्दो­गै­र­प्यु­प­सं­ह­र्तुम् । न च अत्र पञ्चसंख्याविरोध आशङ्क्यः । साम्पा­दि­का­ग्न्य­भि­प्राया हि एषा पञ्चसंख्या नित्या­नु­वा­द­भूता, न विधिसमवायिनी — इत्यदोषः । एवं प्राण­सं­वा­दा­दि­ष्वपि अधिकस्य गुणस्य इतरत्रोपसंहारो न विरुध्यते । न च आवा­पो­द्वा­प­भे­दा­द्वे­द्य­भेदो विद्याभेदश्च आशङ्क्यः, कस्य­चि­द्वे­द्यां­शस्य आवापोद्वापयोरपि भूयसो वेद्य­रा­शे­र­भे­दा­व­ग­मात् । तस्मा­दै­क­वि­द्य­मेव ॥ २ ॥

स्वाध्यायस्य तथात्वेन हि समा­चा­रेऽ­धि­का­राच्च सववच्च तन्नियमः ॥ ३ ॥

यदप्युक्तम् — आथर्वणिकानां विद्यां प्रति शिरो­व्र­ता­द्य­पे­क्ष­णात् अन्येषां च तदनपेक्षणात् विद्याभेद इति, तत्प्रत्युच्यते । स्वाध्यायस्य एष धर्मः, न विद्यायाः । कथमिदमवगम्यते ? यतः, तथात्वेन स्वाध्या­य­ध­र्म­त्वेन, समाचारे वेदव्रतोपदेशपरे ग्रन्थे, आथर्वणिकाः ‘इदमपि वेदव्रतत्वेन व्याख्यातम्’ इति समामनन्ति । ‘नैत­द­ची­र्ण­व्र­तोऽ­धीते’(मु. उ. ३ । २ । ११) इति च अधि­कृ­त­वि­ष­या­दे­त­च्छ­ब्दात् अध्ययनशब्दाच्च स्वोप­नि­ष­द­ध्य­य­न­धर्म एव एष इति निर्धार्यते । ननु ‘तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम्’(मु. उ. ३ । २ । १०) इति ब्रह्म­वि­द्या­सं­यो­ग­श्र­व­णात् , एकैव सर्वत्र ब्रह्मविद्येति, सङ्कीर्येत एष धर्मः — न ; तत्रापि एतामिति प्रकृ­त­प्र­त्य­व­म­र्शात् । प्रकृतत्वं च ब्रह्मविद्यायाः ग्रन्थ­वि­शे­षा­पे­क्षम् — इति ग्रन्थ­वि­शे­ष­सं­यो­ग्येव एष धर्मः । सववच्च तन्नियम इति निदर्शननिर्देशः — यथा च सवाः सप्त सौर्यादयः शतौदनपर्यन्ताः वेदा­न्त­रो­दि­त­त्रे­ता­ग्न्य­न­भि­स­म्ब­न्धात् आथ­र्व­णो­दि­तै­का­ग्न्य­भि­स­म्ब­न्धाच्च आथर्वणिकानामेव नियम्यन्ते, तथैव अयमपि धर्मः स्वाध्या­य­वि­शे­ष­स­म्ब­न्धात् तत्रैव नियम्यते । तस्मादप्यनवद्यं विद्यैकत्वम् ॥ ३ ॥

दर्शयति च ॥ ४ ॥

दर्शयति च वेदोऽपि विद्यैकत्वं सर्ववेदान्तेषु वेद्यै­क­त्वो­प­दे­शात् — ‘सर्वे वेदा यत्पदमामनन्ति’(क. उ. १ । २ । १५) इति, तथा ‘एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते छन्दोगाः’ इति च । तथा ‘महद्भयं वज्रमुद्यतम्’(क. उ. २ । ३ । २) इति काठके उक्तस्य ईश्वरगुणस्य भयहेतुत्वस्य तैत्तिरीयके भेद­द­र्श­न­नि­न्दायै परामर्शो दृश्यते — ‘यदा ह्येवैष एत­स्मि­न्नु­द­र­म­न्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदु­षोऽ­म­न्वा­नस्य’(तै. उ. २ । ७ । १) इति । तथा वाजसनेयके प्रादे­श­मा­त्र­स­म्पा­दि­तस्य वैश्वानरस्य च्छान्दोग्ये सिद्धवदुपादानम् — ‘यस्त्वेतमेवं प्रादे­श­मा­त्र­म­भि­वि­मा­न­मा­त्मानं वैश्वा­न­र­मु­पास्ते’(छा. उ. ५ । १८ । १) इति । तथा सर्व­वे­दा­न्त­प्र­त्य­य­त्वेन अन्यत्र विहि­ता­ना­मु­क्था­दी­ना­म­न्य­त्रो­पा­स­न­वि­धा­नाय उपादानात् प्राय­द­र्श­न­न्या­येन उपासनानामपि सर्व­वे­दा­न्त­प्र­त्य­य­त्व­सिद्धिः ॥ ४ ॥

उप­सं­हा­रोऽ­र्था­भे­दा­द्वि­धि­शे­ष­व­त्स­माने च ॥ ५ ॥

इदं प्रयोजनसूत्रम् । स्थिते चैवं सर्व­वे­दा­न्त­प्र­त्य­यत्वे सर्व­वि­ज्ञा­ना­नाम् , अन्यत्रोदितानां विज्ञानगुणानाम् , अन्यत्रापि समाने विज्ञाने उपसंहारो भवति । अर्थाभेदात् — य एव हि तेषां गुणानामेकत्र अर्थो विशि­ष्ट­वि­ज्ञा­नो­प­कारः, स एव अन्यत्रापि । उभयत्रापि हि तदेवैकं विज्ञानम् । तस्मादुपसंहारः । विधिशेषवत् — यथा विधि­शे­षा­णा­म­ग्नि­हो­त्रा­दि­ध­र्मा­णाम् , तदेव एकमग्निहोत्रादि कर्म सर्वत्रेति, अर्थाभेदात् उपसंहारः; एवमिहापि । यदि हि विज्ञानभेदो भवेत् , ततो विज्ञा­ना­न्त­र­नि­ब­द्ध­त्वा­द्गु­णा­नाम् , प्रकृ­ति­वि­कृ­ति­भा­वा­भा­वाच्च न स्यादुपसंहारः । विज्ञानैकत्वे तु नैवमिति । अस्यैव तु प्रयोजनसूत्रस्य प्रपञ्चः ‘सर्वाभेदात्’ इत्यारभ्य भविष्यति ॥ ५ ॥

अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥ ६ ॥

वाजसनेयके ‘ते ह देवा ऊचु­र्ह­न्ता­सु­रा­न्यज्ञ उद्गी­थे­ना­त्य­या­मेति’(बृ. उ. १ । ३ । १) ‘ते ह वाचमूचुस्त्वं न उद्गाय’(बृ. उ. १ । ३ । २) इति प्रक्रम्य, वागा­दी­न्प्रा­णान् असु­र­पा­प्म­वि­द्ध­त्वेन निन्दित्वा, मुख्य­प्रा­ण­प­रि­ग्रहः पठ्यते — ‘अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्’(बृ. उ. १ । ३ । ७) इति । तथा छान्दोग्येऽपि ‘तद्ध देवा उद्गी­थ­मा­ज­ह्रु­र­ने­नै­ना­न­भि­भ­वि­ष्यामः’(छा. उ. १ । २ । १) इति प्रक्रम्य, इतरान्प्राणान् असु­र­पा­प्म­वि­द्ध­त्वेन निन्दित्वा, तथैव मुख्य­प्रा­ण­प­रि­ग्रहः पठ्यते — ‘अथ ह य एवायं मुख्यः प्राण­स्त­मु­द्गी­थ­मु­पा­सा­ञ्च­क्रिरे’(छा. उ. १ । २ । ७) इति । उभयत्रापि च प्राणप्रशंसया प्राण­वि­द्या­वि­धि­र­ध्य­व­सी­यते । तत्र संशयः — किमत्र विद्याभेदः स्यात् , आहोस्वित् विद्यैकत्वमिति । किं तावत्प्राप्तम् ? पूर्वेण न्यायेन विद्यैकत्वमिति । ननु न युक्तं विद्यैकत्वम् , प्रक्रमभेदात् । अन्यथा हि प्रक्रमन्ते वाजसनेयिनः, अन्यथा छन्दोगाः — ‘त्वं न उद्गाय’(बृ. उ. १ । ३ । २) इति वाजसनेयिन उद्गीथस्य कर्तृत्वेन प्राणमामनन्ति, छन्दोगास्तु उद्गीथत्वेन ‘तमु­द्गी­थ­मु­पा­सा­ञ्च­क्रिरे’(छा. उ. १ । २ । ७) इति, तत्कथं विद्यैकत्वं स्यादिति चेत् — नैष दोषः; न हि एतावता विशेषेण विद्यैकत्वम् अपगच्छति, अविशेषस्यापि बहुतरस्य प्रतीयमानत्वात् । तथा हि — देवा­सु­र­स­ङ्ग्रा­मो­प­क्र­म­त्वम् , असु­रा­त्य­या­भि­प्रायः, उद्गीथोपन्यासः, वागा­दि­स­ङ्की­र्त­नम् , तन्निन्दया मुख्य­प्रा­ण­व्य­पा­श्रयः, तद्वीर्याच्च असुरविध्वंसनम् अश्म­लो­ष्ट­नि­द­र्श­नेन — इत्येवं बहवोऽर्था उभ­य­त्रा­प्य­वि­शिष्टाः प्रतीयन्ते । वाजसनेयकेऽपि च उद्गी­थ­सा­मा­ना­धि­क­रण्यं प्राणस्य श्रुतम् — ‘एष उ वा उद्गीथः’(बृ. उ. १ । ३ । २३) इति । तस्मा­च्छा­न्दो­ग्येऽपि कर्तृत्वं लक्षयितव्यम् । तस्माच्च विद्यैकत्वमिति ॥ ६ ॥

न वा प्रक­र­ण­भे­दा­त्प­रो­व­री­य­स्त्वा­दि­वत् ॥ ७ ॥

न वा विद्यैकत्वमत्र न्याय्यम् । विद्याभेद एव अत्र न्याय्यः । कस्मात् ? प्रकरणभेदात् , प्रक्र­म­भे­दा­दि­त्यर्थः । तथा हि इह प्रक्रमभेदो दृश्यते — छान्दोग्ये तावत् — ‘ओमि­त्ये­त­द­क्ष­र­मु­द्गी­थ­मु­पा­सीत’(छा. उ. १ । १ । १) इत्ये­व­मु­द्गी­था­व­य­वस्य ओंकारस्य उपास्यत्वं प्रस्तुत्य, रस­त­मा­दि­गु­णो­प­व्या­ख्यानं तत्र कृत्वा, ‘खल्वे­त­स्यै­वा­क्ष­र­स्यो­प­व्या­ख्यानं भवति’(छा. उ. १ । १ । १०) इति पुनरपि तमेव उद्गी­था­व­य­व­मों­का­र­म­नु­वर्त्य, देवा­सु­रा­ख्या­यि­का­द्वा­रेण तम् ‘प्राण­मु­द्गी­थ­मु­पा­सा­ञ्च­क्रिरे’(छा. उ. १ । २ । २) इत्याह । तत्र यदि उद्गीथशब्देन सकला भक्ति­र­भि­प्रे­येत, तस्याश्च कर्ता उद्गाता ऋत्विक्, तत उप­क्र­म­श्चो­प­रु­ध्येत, लक्षणा च प्रसज्येत । उपक्रमतन्त्रेण च एकस्मिन्वाक्ये उपसंहारेण भवितव्यम् । तस्मात् अत्र तावत् उद्गीथावयवे ओंकारे प्राण­दृ­ष्टि­रु­प­दि­श्यते — वाजसनेयके तु उद्गीथशब्देन अवयवग्रहणे कारणाभावात् सकलैव भक्तिरावेद्यते । ‘त्वं न उद्गाय’(बृ. उ. १ । ३ । २) इत्यपि तस्याः कर्ता उद्गाता ऋत्विक् प्राणत्वेन निरूप्यत इति — प्रस्थानान्तरम् । यदपि तत्र उद्गी­थ­सा­मा­ना­धि­क­रण्यं प्राणस्य, तदपि उद्गातृत्वेनैव दिदर्शयिषितस्य प्राणस्य सर्वा­त्म­त्व­प्र­ति­पा­द­ना­र्थ­मिति न विद्यै­क­त्व­मा­व­हति । सकलभक्तिविषय एव च तत्रापि उद्गीथशब्द इति वैषम्यम् । न च प्राण­स्यो­द्गा­तृ­त्वम् असम्भवेन हेतुना परित्यज्येत, उद्गीथभाववत् उद्गा­तृ­भा­व­स्यापि उपासनार्थत्वेन उप­दि­श्य­मा­न­त्वात् । प्राणवीर्येणैव च उद्गाता औद्गात्रं करोतीति नास्त्यसम्भवः । तथा च तत्रैव श्रावितम् — ‘वाचा च ह्येव स प्राणेन चोदगायत्’(बृ. उ. १ । ३ । २४) इति । न च विव­क्षि­ता­र्थ­भे­देऽ­व­ग­म्य­माने वाक्य­च्छा­या­नु­का­र­मा­त्रेण समा­ना­र्थ­त्व­म­ध्य­व­सातुं युक्तम् । तथा हि — अभ्युदयवाक्ये पशुकामवाक्ये च ‘त्रेधा तण्डु­ला­न्वि­भ­जेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरो­डा­श­म­ष्टा­क­पालं कुर्यात्’ इत्या­दि­नि­र्दे­श­सा­म्येऽपि, उपक्रमभेदात् अभ्युदयवाक्ये देव­ता­प­न­योऽ­ध्य­व­सितः, पशुकामवाक्ये तु यागविधिः — तथा इहापि उपक्रमभेदात् विद्याभेदः । परो­व­री­य­स्त्वा­दि­वत् — यथा पर­मा­त्म­दृ­ष्ट्य­ध्या­स­सा­म्येऽपि, ‘आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्’(छा. उ. १ । ९ । १) ‘स एष परो­व­री­या­नु­द्गीथः स एषोऽनन्तः’(छा. उ. १ । ९ । २) इति परो­व­री­य­स्त्वा­दि­गु­ण­वि­शि­ष्टम् उद्गीथोपासनम् अक्ष्या­दि­त्य­ग­त­हि­र­ण्य­श्म­श्रु­त्वा­दि­गु­ण­वि­शि­ष्टो­द्गी­थो­पा­स­नात् भिन्नम् । न च इत­रे­त­र­गु­णो­प­सं­हार एकस्यामपि शाखायाम् — तद्वत् शाखा­न्त­र­स्थे­ष्वपि एवंजातीयकेषु उपासनेष्विति ॥ ७ ॥

संज्ञा­त­श्चे­त्त­दु­क्त­मस्ति तु तदपि ॥ ८ ॥

अथोच्येत — संज्ञैकत्वात् विद्यैकत्वमत्र न्याय्यम् , उद्गीथविद्येति ह्युभयत्रापि एका संज्ञेति, तदपि नोपपद्यते । उक्तं ह्येतत् — ‘न वा प्रक­र­ण­भे­दा­त्प­रो­व­री­य­स्त्वा­दि­वत्’(ब्र. सू. ३ । ३ । ७) इति । तदेव च अत्र न्याय्यतरम् । श्रुत्य­क्ष­रा­नु­गतं हि तत् । संज्ञैकत्वं तु श्रुत्य­क्ष­र­बा­ह्यम् उद्गी­थ­श­ब्द­मा­त्र­प्र­यो­गात् लौकि­कै­र्व्य­व­ह­र्तृ­भि­रु­प­च­र्यते । अस्ति च एतत्संज्ञैकत्वं प्रसि­द्ध­भे­दे­ष्वपि परो­व­री­य­स्त्वा­द्यु­पा­स­नेषु — उद्गीथविद्येति । तथा प्रसि­द्ध­भे­दा­ना­मपि अग्नि­हो­त्र­द­र्श­पू­र्ण­मा­सा­दीनां काठ­कै­क­ग्र­न्थ­प­रि­प­ठि­तानां काठकसंज्ञैकत्वं दृश्यते, तथेहापि भविष्यति । यत्र तु नास्ति कश्चित् एवंजातीयको भेदहेतुः, तत्र भवतु संज्ञैकत्वात् विद्यैकत्वम् — यथा संव­र्ग­वि­द्या­दिषु ॥ ८ ॥

व्याप्तेश्च समञ्जसम् ॥ ९ ॥

‘ओमि­त्ये­त­द­क्ष­र­मु­द्गी­थ­मु­पा­सीत’(छा. उ. १ । १ । १) इत्यत्र अक्ष­रो­द्गी­थ­श­ब्दयोः सामानाधिकरण्ये श्रूयमाणे अध्या­सा­प­वा­दै­क­त्व­वि­शे­ष­ण­प­क्षाणां प्रतिभासनात् कतमोऽत्र पक्षो न्याय्यः स्यादिति विचारः । तत्र अध्यासो नाम — द्वयोर्वस्तुनोः अनिवर्तितायामेव अन्यतरबुद्धौ अन्य­त­र­बु­द्धि­र­ध्य­स्यते । यस्मिन् इत­र­बु­द्धि­र­ध्य­स्यते, अनुवर्तत एव तस्मिन् तद्बुद्धिः, अध्य­स्ते­त­र­बु­द्धा­वपि । यथा नाम्नि ब्रह्म­बु­द्धा­व­ध्य­स्य­मा­ना­या­मपि अनुवर्तत एव नामबुद्धिः, न ब्रह्मबुद्ध्या निवर्तते — यथा वा प्रतिमादिषु विष्ण्वा­दि­बु­द्ध्य­ध्यासः — एवमिहापि अक्षरे उद्गी­थ­बु­द्धि­र­ध्य­स्यते, उद्गीथे वा अक्षरबुद्धिरिति । अपवादो नाम — यत्र कस्मिं­श्चि­द्व­स्तुनि पूर्व­नि­वि­ष्टायां मिथ्याबुद्धौ निश्चितायाम् , पश्चादुपजायमाना यथार्था बुद्धिः पूर्वनिविष्टाया मिथ्याबुद्धेः निवर्तिका भवति — यथा देहे­न्द्रि­य­स­ङ्घाते आत्मबुद्धिः, आत्मन्येव आत्मबुद्ध्या पश्चाद्भाविन्या ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) इत्यनया यथार्थबुद्ध्या निवर्त्यते — यथा वा दिग्भ्रा­न्ति­बुद्धिः दिग्या­था­त्म्य­बुद्ध्या निवर्त्यते — एवमिहापि अक्षरबुद्ध्या उद्गी­थ­बु­द्धि­र्नि­व­र्त्येत, उद्गीथबुद्ध्या वा अक्षरबुद्धिरिति । एकत्वं तु अक्ष­रो­द्गी­थ­श­ब्द­यो­र­न­ति­रि­क्ता­र्थ­वृ­त्ति­त्वम् — यथा द्विजोत्तमो ब्राह्मणो भूमिदेव इति । विशेषणं पुनः सर्ववेदव्यापिन ओमि­त्ये­त­स्या­क्ष­रस्य ग्रहणप्रसङ्गे औद्गा­त्र­वि­शे­षस्य समर्पणम् — यथा नीलं यदुत्पलम् तदानयेति, एवमिहापि उद्गीथो य ओंकारः तमुपासीतेति । एव­मे­त­स्मि­न्सा­मा­ना­धि­क­र­ण्य­वाक्ये विमृश्यमाने, एते पक्षाः प्रतिभान्ति । तत्रा­न्य­त­म­नि­र्धा­र­ण­का­र­णा­भा­वात् अनि­र्धा­र­ण­प्राप्तौ इदमुच्यते —

व्याप्तेश्च समञ्जसमिति । चशब्दोऽयं तुश­ब्द­स्था­न­नि­वेशी पक्ष­त्र­य­व्या­व­र्त­न­प्र­यो­जनः । तदिह त्रयः पक्षाः सावद्या इति पर्युदस्यन्ते । विशेषणपक्ष एवैको निरवद्य इत्युपादीयते । तत्राध्यासे तावत् — या बुद्धिः इतरत्र अध्यस्यते, तच्छब्दस्य लक्ष­णा­वृ­त्तित्वं प्रसज्येत, तत्फलं च कल्प्येत । श्रूयत एव फलम् ‘आपयिता ह वै कामानां भवति’(छा. उ. १ । १ । ७) इत्यादि, इति चेत् — न ; तस्य अन्यफलत्वात् । आप्त्या­दि­दृ­ष्टि­फलं हि तत् , नोद्गी­था­ध्या­स­फ­लम् । अपवादेऽपि समानः फलाभावः । मिथ्या­ज्ञा­न­नि­वृत्तिः फलमिति चेत् , न; पुरु­षा­र्थो­प­यो­गा­न­व­ग­मात्; न च कदाचिदपि ओंकारात् ओंका­र­बु­द्धि­र्नि­व­र्तते, उद्गीथाद्वा उद्गीथबुद्धिः । न चेदं वाक्यं वस्तु­त­त्त्व­प्र­ति­पा­द­न­प­रम् , उपा­स­ना­वि­धि­प­र­त्वात् । नापि एकत्वपक्षः सङ्गच्छते । निष्प्रयोजनं हि तदा शब्द­द्व­यो­च्चा­रणं स्यात् , एकेनैव विव­क्षि­ता­र्थ­स­म­र्प­णात् । न च हौत्रविषये आध्वर्यवविषये वा अक्षरे ओंकारशब्दवाच्ये उद्गी­थ­श­ब्द­प्र­सि­द्धि­रस्ति, नापि सकलायाम् साम्नो द्वितीयायां भक्तौ उद्गी­थ­श­ब्द­वा­च्या­याम् ओंका­र­श­ब्द­प्र­सिद्धिः, येना­न­ति­रि­क्ता­र्थता स्यात् । परि­शे­षा­द्वि­शे­ष­ण­पक्षः परिगृह्यते, व्याप्तेः सर्व­वे­द­सा­धा­र­ण्यात् । सर्व­व्या­प्य­क्ष­र­मिह मा प्रसञ्जि — इत्यत उद्गीथशब्देन अक्षरं विशेष्यते — कथं नाम उद्गीथावयवभूत ओंकारो गृह्येतेति । नन्वस्मिन्नपि पक्षे समाना लक्षणा, उद्गीथशब्दस्य अव­य­व­ल­क्ष­णा­र्थ­त्वात्; सत्यमेवमेतत्; लक्षणायामपि तु सन्नि­क­र्ष­वि­प्र­कर्षौ भवत एव । अध्यासपक्षे हि अर्था­न्त­र­बु­द्धि­र­र्था­न्तरे निक्षिप्यत इति विप्रकृष्टा लक्षणा, विशेषणपक्षे तु अवयविवचनेन शब्देन अवयवः समर्प्यत इति सन्निकृष्टा । समुदायेषु हि प्रवृत्ताः शब्दा अवयवेष्वपि प्रवर्तमाना दृष्टाः पटग्रामादिषु । अतश्च व्याप्तेर्हेतोः ‘ओमि­त्ये­त­द­क्ष­रम्’ इत्येतस्य ‘उद्गीथम्’ इत्ये­त­द्वि­शे­ष­ण­मिति समञ्जसमेतत् , निर­व­द्य­मि­त्यर्थः ॥ ९ ॥

सर्वा­भे­दा­द­न्य­त्रेमे ॥ १० ॥

१०

वाजिनां छन्दोगानां च प्राणसंवादे श्रैष्ठ्य­गु­णा­न्वि­तस्य प्राणस्य उपा­स्य­त्व­मु­क्तम् । वागादयोऽपि हि तत्र वसि­ष्ठ­त्वा­दि­गु­णा­न्विता उक्ताः । ते च गुणाः प्राणे पुनः प्रत्यर्पिताः — ‘यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसि’(बृ. उ. ६ । १ । १४) इत्यादिना । अन्येषामपि तु शाखिनां कौषी­त­कि­प्र­भृ­तीनां प्राणसंवादेषु ‘अथातो निःश्रे­य­सा­दा­न­मेता ह वै देवता अहंश्रेयसे विवदमानाः’(कौ. उ. २ । १४) इत्ये­वं­जा­ती­य­केषु प्राणस्य श्रैष्ठ्य­मु­क्तम् , न त्विमे वसि­ष्ठ­त्वा­द­योऽपि गुणा उक्ताः । तत्र संशयः — किमिमे वसिष्ठत्वादयो गुणाः क्वचिदुक्ता अन्यत्रापि अस्येरन् , उत नास्येरन्निति । तत्र प्राप्तं तावत् — नास्येरन्निति । कुतः ? एवंशब्दसंयोगात् । ‘अथो य एवं विद्वान्प्राणे निःश्रेयसं विदित्वा’ इति तत्र तत्र एवंशब्देन वेद्यं वस्तु निवेद्यते । एवंशब्दश्च सन्नि­हि­ता­व­ल­म्बनः न शाखा­न्त­र­प­रि­प­ठि­तम् एवंजातीयकं गुणजातं शक्नोति निवेदयितुम् । तस्मात् स्वप्र­क­र­ण­स्थै­रेव गुणै­र्नि­रा­का­ङ्क्ष­त्व­मि­त्येवं प्राप्ते प्रत्याह —

अस्येरन् इमे गुणाः क्वचिदुक्ता वसिष्ठत्वादयः अन्यत्रापि । कुतः ? सर्वाभेदात् — सर्वत्रैव हि तदेव एकं प्राण­वि­ज्ञा­न­म­भिन्नं प्रत्य­भि­ज्ञा­यते, प्राण­सं­वा­दा­दि­सा­रू­प्यात् । अभेदे च विज्ञानस्य कथम् इमे गुणाः क्वचिदुक्ता अन्यत्र न अस्येरन् । ननु एवंशब्दः तत्र तत्र भेदेन एवंजातीयकं गुणजातं वेद्यत्वाय सम­र्प­य­ती­त्यु­क्तम्; अत्रोच्यते — यद्यपि कौषी­त­कि­ब्रा­ह्म­ण­ग­तेन एवंशब्देन वाज­स­ने­यि­ब्रा­ह्म­ण­गतं गुणजातम् असंशब्दितम् असन्निहितत्वात् , तथापि तस्मिन्नेव विज्ञाने वाज­स­ने­यि­ब्रा­ह्म­ण­ग­तेन एवंशब्देन तत् संशब्दितमिति — न परशाखागतमपि अभि­न्न­वि­ज्ञा­ना­व­बद्धं गुणजातं स्वशा­खा­ग­ता­द्वि­शि­ष्यते । न चैवं सति श्रुतहानिः अश्रुतकल्पना वा भवति । एकस्यामपि हि शाखायां श्रुता गुणाः श्रुता एव सर्वत्र भवन्ति, गुणवतो भेदाभावात् । न हि देवदत्तः शौर्या­दि­गु­ण­त्वेन स्वदेशे प्रसिद्धः देशान्तरं गतः तद्दे­श्यै­र­वि­भा­वि­त­शौ­र्या­दि­गु­णोऽपि अतद्गुणो भवति । यथा च तत्र परिचयविशेषात् देशान्तरेऽपि देवदत्तगुणा विभाव्यन्ते, एवम् अभियोगविशेषात् शाखा­न्त­रेऽ­प्यु­पास्या गुणाः शाखा­न्त­रेऽ­प्य­स्ये­रन् । तस्मा­दे­क­प्र­धा­न­स­म्बद्धा धर्मा एक­त्रा­प्यु­च्य­मानाः सर्वत्रैव उपसंहर्तव्या इति ॥ १० ॥

आनन्दादयः प्रधानस्य ॥ ११ ॥

११

ब्रह्म­स्व­रू­प­प्र­ति­पा­द­न­प­रासु श्रुतिषु आनन्दरूपत्वं विज्ञानघनत्वं सर्वगतत्वं सर्वा­त्म­त्व­मि­त्ये­वं­जा­ती­यका ब्रह्मणो धर्माः क्वचित् केचित् श्रूयन्ते । तेषु संशयः — किमानन्दादयो ब्रह्मधर्माः यत्र यावन्तः श्रूयन्ते तावन्त एव तत्र प्रतिपत्तव्याः, किं वा सर्वे सर्वत्रेति । तत्र यथाश्रुतिविभागं धर्मप्रतिपत्तौ प्राप्तायाम् , इदमुच्यते — आनन्दादयः प्रधानस्य ब्रह्मणो धर्माः सर्वे सर्वत्र प्रतिपत्तव्याः । कस्मात् ? सर्वाभेदादेव — सर्वत्र हि तदेव एकं प्रधानं विशेष्यं ब्रह्म न भिद्यते । तस्मात् सार्वत्रिकत्वं ब्रह्मधर्माणाम् — तेनैव पूर्वा­धि­क­र­णो­दि­तेन देव­द­त्त­शौ­र्या­दि­नि­द­र्श­नेन ॥ ११ ॥

ननु एवं सति प्रिय­शि­र­स्त्वा­द­योऽपि धर्माः सर्वे सर्वत्र सङ्कीर्येरन् । तथा हि तैत्तिरीयके आनन्दमयमात्मानं प्रक्रम्य आम्नायते — ‘तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा’(तै. उ. २ । ५ । १) इति । अत उत्तरं पठति —

प्रिय­शि­र­स्त्वा­द्य­प्रा­प्ति­रु­प­च­या­प­चयौ हि भेदे ॥ १२ ॥

१२

प्रिय­शि­र­स्त्वा­दीनां धर्माणां तैत्तिरीयके आम्नातानां नास्ति अन्यत्र प्राप्तिः, यत्कारणम् — प्रियं मोदः प्रमोद आनन्द इत्येते — परस्परापेक्षया भोक्त्र­न्त­रा­पे­क्षया च उपचितापचितरूपा उपलभ्यन्ते । उपचयापचयौ च सति भेदे सम्भवतः । निर्भेदं तु ब्रह्म ‘एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) इत्या­दि­श्रु­तिभ्यः । न च एते प्रिय­शि­र­स्त्वा­दयो ब्रह्मधर्माः । कोशधर्मास्तु एते इत्यु­प­दि­ष्ट­म­स्माभिः ‘आन­न्द­म­योऽ­भ्या­सात्’(ब्र. सू. १ । १ । १२) इत्यत्र । अपि च परस्मिन् ब्रह्मणि चित्ता­व­ता­रो­पा­य­मा­त्र­त्वेन एते परिकल्प्यन्ते, न द्रष्टव्यत्वेन । एवमपि सुत­रा­म­न्य­त्रा­प्राप्तिः प्रिय­शि­र­स्त्वा­दी­नाम् । ब्रह्म­ध­र्मांस्तु एतान्कृत्वा न्यायमात्रमिदम् आचार्येण प्रदर्शितम् — प्रिय­शि­र­स्त्वा­द्य­प्रा­प्ति­रिति । स च न्यायः अन्येषु निश्चितेषु ब्रह्मधर्मेषु उपा­स­ना­यो­प­दि­श्य­मा­नेषु नेतव्यः — संय­द्वा­म­त्वा­दिषु सत्यकामत्वादिषु च । तेषु हि सत्यपि उपास्यस्य ब्रह्मण एकत्वे, प्रक्र­म­भे­दा­दु­पा­स­ना­भेदे सति, न अन्यो­न्य­ध­र्मा­णाम् अन्योन्यत्र प्राप्तिः । यथा च द्वे नार्यौ एकं नृपतिमुपासाते — छत्रेण अन्या चामरेण अन्या — तत्रो­पा­स्यै­क­त्वेऽपि उपासनभेदो धर्मव्यवस्था च भवति — एवमिहापीति । उप­चि­ता­प­चि­त­गु­णत्वं हि सति भेदव्यवहारे सगुणे ब्रह्म­ण्यु­प­प­द्यते, न निर्गुणे पर­स्मि­न्ब्र­ह्मणि । अतो न सत्य­का­म­त्वा­दीनां धर्माणां क्वचि­च्छ्रु­तानां सर्वत्र प्राप्ति­रि­त्यर्थः ॥ १२ ॥

इतरे त्वर्थ­सा­मा­न्यात् ॥ १३ ॥

१३

इतरे तु आनन्दादयो धर्मा ब्रह्म­स्व­रू­प­प्र­ति­पा­द­ना­यैव उच्यमानाः, अर्थसामान्यात् प्रतिपाद्यस्य ब्रह्मणो धर्मिण एकत्वात् , सर्वे सर्वत्र प्रतीयेरन्निति वैषम्यम् — प्रति­प­त्ति­मा­त्र­प्र­यो­जना हि ते इति ॥ १३ ॥

आध्यानाय प्रयोजनाभावात् ॥ १४ ॥

१४

काठके पठ्यते — ‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिः’(क. उ. १ । ३ । १०) इत्यारभ्य ‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’(क. उ. १ । ३ । ११) इति । तत्र संशयः — किमिमे सर्वे एव अर्थादयः ततस्ततः परत्वेन प्रतिपाद्यन्ते, उत पुरुष एव एभ्यः सर्वेभ्यः परः प्रतिपाद्यत इति । तत्र तावत् सर्वेषामेवैषां परत्वेन प्रतिपादनमिति भवति मतिः । तथा हि श्रूयते — इदमस्मात्परम् , इदमस्मात्परमिति । ननु बहुष्वर्थेषु परत्वेन प्रति­पि­पा­द­यि­षि­तेषु वाक्यभेदः स्यात् । नैष दोषः, वाक्य­ब­हु­त्वो­प­पत्तेः । बहून्येव हि एतानि वाक्यानि प्रभवन्ति बहूनर्थान् परत्वोपेतान् प्रतिपादयितुम् । तस्मात् प्रत्येकमेषां पर­त्व­प्र­ति­पा­द­न­मि­त्येवं प्राप्ते ब्रूमः —

पुरुष एव हि एभ्यः सर्वेभ्यः परः प्रतिपाद्यत इति युक्तम् , न प्रत्येकमेषां पर­त्व­प्र­ति­पा­द­नम् । कस्मात् ? प्रयोजनाभावात् । न हि इतरेषु परत्वेन प्रतिपन्नेषु किञ्चि­त्प्र­यो­जनं दृश्यते, श्रूयते वा । पुरुषे तु इन्द्रियादिभ्यः परस्मिन् सर्वा­न­र्थ­व्रा­ता­तीते प्रतिपन्ने दृश्यते प्रयोजनम् , मोक्षसिद्धिः । तथा च श्रुतिः — ‘निचाय्य तं मृत्यु­मु­खा­त्प्र­मु­च्यते’(क. उ. १ । ३ । १५) इति । अपि च परप्रतिषेधेन काष्ठाशब्देन च पुरुषविषयमादरं दर्शयन् पुरु­ष­प्र­ति­प­त्त्य­र्थैव पूर्वा­प­र­प्र­वा­हो­क्ति­रिति दर्शयति । आध्यानायेति — आध्यानपूर्वकाय सम्य­ग्द­र्श­ना­ये­त्यर्थः । सम्य­ग्द­र्श­ना­र्थ­मेव हि इह आध्या­न­मु­प­दि­श्यते, न तु आध्यानमेव स्वप्रधानम् ॥ १४ ॥

आत्मशब्दाच्च ॥ १५ ॥

१५

इतश्च पुरु­ष­प्र­ति­प­त्त्य­र्थैव इय­मि­न्द्रि­या­दि­प्र­वा­होक्तिः, यत्कारणम् ‘एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्म­द­र्शिभिः’(क. उ. १ । ३ । १२) इति प्रकृतं पुरुषम् आत्मेत्याह । अतश्च अना­त्म­त्व­मि­त­रेषां विवक्षितमिति गम्यते । तस्यैव च दुर्विज्ञानतां संस्कृ­त­म­ति­ग­म्यतां च दर्शयति । तद्विज्ञानायैव च — ‘यच्छे­द्वा­ङ्म­नसी प्राज्ञः’(क. उ. १ । ३ । १३) इति आध्यानं विदधाति । तत् व्याख्यातम् ‘आनु­मा­नि­क­म­प्ये­के­षाम्’(ब्र. सू. १ । ४ । १) इत्यत्र । एवम् अनेकप्रकार आशयातिशयः श्रुतेः पुरुषे लक्ष्यते, नेतरेषु । अपि च ‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’(क. उ. १ । ३ । ९) इत्युक्ते, किं तत् अध्वनः पारं विष्णोः परमं पद­मि­त्य­स्या­मा­का­ङ्क्षा­याम् इन्द्रि­या­द्य­नु­क्र­म­णात् पर­म­प­द­प्र­ति­प­त्त्यर्थ एवायम् आयास इत्यवसीयते ॥ १५ ॥

आत्म­गृ­ही­ति­रि­त­र­व­दु­त्त­रात् ॥ १६ ॥

१६

ऐतरेयके श्रूयते — ‘आत्मा वा इदमेक एवाग्र आसी­न्ना­न्य­त्कि­ञ्चन मिषत्स ईक्षत लोकान्नु सृजा इति’(ऐ. उ. १ । १ । १) ‘स इमाँ­ल्लो­का­न­सृ­ज­ताम्भो मरीचीर्मरमापः’(ऐ. उ. १ । १ । २) इत्यादि । तत्र संशयः — किं पर एवात्मा इह आत्म­श­ब्दे­ना­भि­ल­प्यते, उत अन्यः कश्चिदिति । किं तावत्प्राप्तम् ? न परमात्मा इह आत्म­श­ब्दा­भि­लप्यो भवितुमर्हतीति । कस्मात् ? वाक्या­न्व­य­द­र्श­नात् । ननु वाक्यान्वयः सुतरां परमात्मविषयो दृश्यते, प्रागुत्पत्तेः आत्मै­क­त्वा­व­धा­र­णात् , ईक्ष­ण­पू­र्व­क­स्र­ष्टृ­त्व­व­च­नाच्च; नेत्युच्यते, लोकसृष्टिवचनात् — परमात्मनि हि स्रष्टरि परिगृह्यमाणे, महाभूतसृष्टिः आदौ वक्तव्या । लोकसृष्टिस्तु इह आदावुच्यते । लोकाश्च महा­भू­त­स­न्नि­वे­श­वि­शेषाः । तथा च अम्भःप्रभृतीन् लोकत्वेनैव निर्ब्रवीति — ‘अदोऽम्भः परेण दिवम्’(ऐ. उ. १ । १ । २) इत्यादिना । लोकसृष्टिश्च पर­मे­श्व­रा­धि­ष्ठि­तेन अपरेण केनचिदीश्वरेण क्रियत इति श्रुति­स्मृ­त्यो­रु­प­ल­भ्यते । तथा हि श्रुतिर्भवति — ‘आत्मैवेदमग्र आसीत्पुरुषविधः’(बृ. उ. १ । ४ । १)‘आत्मैवेदमग्र आसीत्पुरुषविधः’(बृ. उ. १ । ४ । १) इत्याद्या । स्मृतिरपि — ‘स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत’(मा॰पु॰ ४५-६४) इति । ऐतरेयिणोऽपि ‘अथातो रेतसः सृष्टिः प्रजापते रेतो देवाः’ इत्यत्र पूर्व­स्मि­न्प्र­क­रणे प्रजा­प­ति­क­र्तृकां विचित्रां सृष्टिमामनन्ति । आत्मशब्दोऽपि तस्मि­न्प्र­यु­ज्य­मानो दृश्यते — ‘आत्मैवेदमग्र आसीत्पुरुषविधः’ इत्यत्र । एकत्वावधारणमपि प्रागुत्पत्तेः स्ववि­का­रा­पे­क्ष­मु­प­प­द्यते । ईक्षणमपि तस्य चेत­न­त्वा­भ्यु­प­ग­मा­दु­प­प­न्नम् । अपि च ‘ताभ्यो गामानयत्’ ‘ताभ्योऽ­श्व­मा­न­यत्’ ‘ताभ्यः पुरुषमानयत्’ ‘ता अब्रुवन्’ इत्येवंजातीयको भूयान् व्यापारविशेषः लौकिकेषु विशेषवत्सु आत्मसु प्रसिद्धः इहानुगम्यते । तस्मात् विशेषवानेव कश्चिदिह आत्मा स्यादित्येवं प्राप्ते ब्रूमः —

पर एव आत्मा इह आत्मशब्देन गृह्यते । इतरवत् — यथा इतरेषु सृष्टिश्रवणेषु ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’(तै. उ. २ । १ । १) इत्येवमादिषु परस्यात्मनो ग्रहणम् , यथा च इतरस्मिन् लौकि­का­त्म­श­ब्द­प्र­योगे प्रत्यगात्मैव मुख्य आत्मशब्देन गृह्यते — तथा इहापि भवितुमर्हति । यत्र तु ‘आत्मैवेदमग्र आसीत्’(बृ. उ. १ । ४ । १) इत्येवमादौ ‘पुरुषविधः’(बृ. उ. १ । ४ । १) इत्येवमादि विशेषणान्तरं श्रूयते, भवेत् तत्र विशेषवत आत्मनो ग्रहणम् । अत्र पुनः पर­मा­त्म­ग्र­ह­णा­नु­गु­ण­मेव विशेषणमपि उत्तरम् उपलभ्यते — ‘स ईक्षत लोकान्नु सृजा इति’(ऐ. उ. १ । १ । १) ‘स इमाँ­ल्लो­का­न­सृ­जत’(ऐ. उ. १ । १ । २) इत्येवमादि । तस्मात् तस्यैव ग्रहणमिति न्याय्यम् ॥ १६ ॥

अन्वयादिति चेत्स्या­द­व­धा­र­णात् ॥ १७ ॥

१७

वाक्या­न्व­य­द­र्श­नात् न पर­मा­त्म­ग्र­ह­ण­मिति पुनः यदुक्तम् , तत्प­रि­ह­र्त­व्य­मिति — अत्रोच्यते — स्यादवधारणादिति । भवेदुपपन्नं परमात्मनो ग्रहणम् । कस्मात् ? अवधारणात् । परमात्मग्रहणे हि प्रागु­त्प­त्ते­रा­त्मै­क­त्वा­व­धा­र­ण­मा­ञ्ज­स­म­व­क­ल्पते । अन्यथा हि अनाञ्जसं तत्परिकल्प्येत । लोकसृष्टिवचनं तु श्रुत्य­न्त­र­प्र­सि­द्ध­म­हा­भू­त­सृ­ष्ट्य­न­न्त­र­मिति योजयिष्यामि; यथा ‘तत्तेजोऽसृजत’(छा. उ. ६ । २ । ३) इत्येतत् श्रुत्य­न्त­र­प्र­सि­द्ध­वि­य­द्वा­यु­सृ­ष्ट्य­न­न्त­र­मिति अयूयुजम् , एवमिहापि । श्रुत्य­न्त­र­प्र­सिद्धो हि समानविषयो विशेषः श्रुत्यन्तरेषु उपसंहर्तव्यो भवति । योऽपि अयं व्यापा­र­वि­शे­षा­नु­गमः ‘ताभ्यो गामानयत्’ इत्येवमादिः, सोऽपि विव­क्षि­ता­र्था­व­धा­र­णा­नु­गु­ण्ये­नैव ग्रहीतव्यः । न ह्ययं सकलः कथाप्रबन्धो विवक्षित इति शक्यते वक्तुम् , तत्प्रतिपत्तौ पुरु­षा­र्था­भा­वात् । ब्रह्मात्मत्वं तु इह विवक्षितम् । तथा हि — अम्भःप्रभृतीनां लोकानां लोकपालानां चाग्न्यादीनां सृष्टिं शिष्ट्वा, करणानि करणायतनं च शरीरमुपदिश्य, स एव स्रष्टा ‘कथं न्विदं मदृते स्यात्’(ऐ. उ. १ । ३ । ११) इति वीक्ष्य, इदं शरीरं प्रविवेशेति दर्शयति — ‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’(ऐ. उ. १ । ३ । १२) इति । पुनश्च ‘यदि वाचाभिव्याहृतं यदि प्राणे­ना­भि­प्रा­णि­तम्’(ऐ. उ. १ । ३ । ११) इत्येवमादिना कर­ण­व्या­पा­र­वि­वे­च­न­पू­र्व­कम् ‘अथ कोऽहम्’(ऐ. उ. १ । ३ । ११) इति वीक्ष्य, ‘स एतमेव पुरुषं ब्रह्म ततममपश्यत्’(ऐ. उ. १ । ३ । १३) इति ब्रह्मा­त्म­त्व­द­र्श­न­म­व­धा­र­यति । तथोपरिष्टात् — ‘एष ब्रह्मैष इन्द्रः’(ऐ. उ. ३ । १ । ३) इत्यादिना समस्तं भेदजातं सह महा­भू­तै­र­नु­क्रम्य, ‘सर्वं तत्प्र­ज्ञा­नेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म’(ऐ. उ. ३ । १ । ३) इति ब्रह्मा­त्म­त्व­द­र्श­न­मेव अवधारयति । तस्मात् इह आत्म­गृ­ही­ति­रि­त्य­न­प­वा­दम् ॥

अपरा योजना — आत्म­गृ­ही­ति­रि­त­र­व­दु­त्त­रात् । वाजसनेयके ‘कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्य­न्त­र्ज्योतिः पुरुषः’(बृ. उ. ४ । ३ । ७) इत्या­त्म­श­ब्दे­नो­प­क्रम्य, तस्यैव सर्व­स­ङ्ग­वि­नि­र्मु­क्त­त्व­प्र­ति­पा­द­नेन ब्रह्मा­त्म­ता­म­व­धा­र­यति । तथा हि उपसंहरति — ‘स वा एष महानज आत्माऽ­ज­रोऽ­म­रोऽ­मृ­तोऽ­भयो ब्रह्म’(बृ. उ. ४ । ४ । २५) इति । छान्दोग्ये तु ‘सदेव सोम्येदमग्र आसी­दे­क­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) इति अन्त­रे­णै­वा­त्म­श­ब्दम् उपक्रम्य उदर्के ‘स आत्मा तत्त्वमसि’(छा. उ. ६ । ८ । ७) इति तादा­त्म्य­मु­प­दि­शति । तत्र संशयः — तुल्यार्थत्वं किम­न­यो­रा­म्ना­नयोः स्यात् , अतुल्यार्थत्वं वेति । अतु­ल्या­र्थ­त्व­मिति तावत् प्राप्तम् , अतु­ल्य­त्वा­दा­म्ना­नयोः । न हि आम्नानवैषम्ये सति अर्थसाम्यं युक्तं प्रतिपत्तुम् , आम्ना­न­त­न्त्र­त्वा­द­र्थ­प­रि­ग्र­हस्य । वाजसनेयके च आत्म­श­ब्दो­प­क्र­मात् आत्मतत्त्वोपदेश इति गम्यते । छान्दोग्ये तु उप­क्र­म­वि­प­र्य­यात् उपदेशविपर्ययः । ननु छन्दोगानामपि अस्त्युदर्के तादात्म्योपदेश इत्युक्तम्; सत्यमुक्तम् , उप­क्र­म­त­न्त्र­त्वा­दु­प­सं­हा­रस्य, तादा­त्म्य­स­म्पत्तिः सा — इति मन्यते । तथा प्राप्ते, अभिधीयते — आत्मगृहीतिः ‘सदेव सोम्येदमग्र आसीत्’(छा. उ. ६ । २ । १) इत्यत्र च्छन्दोगानामपि भवितुमर्हति । इतरवत् — यथा ‘कतम आत्मा’(बृ. उ. ४ । ३ । ७) इत्यत्र वाज­स­ने­यि­ना­मा­त्म­गृ­हीतिः, तथैव । कस्मात् ? उत्तरात् तादा­त्म्यो­प­दे­शात् । अन्वयादिति चेत्स्या­द­व­धा­र­णात् — यदुक्तम् , उपक्रमान्वयात् उपक्रमे च आत्म­श­ब्द­श्र­व­णा­भा­वात् न आत्मगृहीतिरिति, तस्य कः परिहार इति चेत् , सोऽभिधीयते — स्यादवधारणादिति । भवेदुपपन्ना इह आत्मगृहीतिः, अवधारणात् । तथा हि — ‘येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’(छा. उ. ६ । १ । ३) इत्येकविज्ञानेन सर्व­वि­ज्ञा­न­म­व­धार्य, तत्स­म्पि­पा­द­यि­षया ‘सदेव’ इत्याह; तच्च आत्मगृहीतौ सत्यां सम्पद्यते । अन्यथा हि, योऽयं मुख्य आत्मा स न विज्ञात इति, नैव सर्वविज्ञानं सम्पद्येत । तथा प्रागुत्पत्तेः एकत्वावधारणम् , जीवस्य च आत्मशब्देन परामर्शः, स्वापावस्थायां च तत्स्व­भा­व­स­म्प­त्ति­क­थ­नम् , परिचोदनापूर्वकं च पुनः पुनः ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) इत्यवधारणम् — इति च सर्वमेतत् तादा­त्म्य­प्र­ति­पा­द­ना­या­मेव अवकल्पते, न तादा­त्म्य­स­म्पा­द­ना­याम् । न च अत्र उप­क्र­म­त­न्त्र­त्वो­प­न्यासो न्याय्यः । न हि उपक्रमे आत्म­त्व­स­ङ्की­र्त­नम् अना­त्म­त्व­स­ङ्की­र्तनं वा अस्ति । सामा­न्यो­प­क्र­मश्च न वाक्यशेषगतेन विशेषेण विरुध्यते, विशे­षा­का­ङ्क्षि­त्वा­त्सा­मा­न्यस्य । सच्छब्दार्थोऽपि च पर्यालोच्यमानः न मुख्या­दा­त्म­नोऽन्यः सम्भवति, अतोऽन्यस्य वस्तुजातस्य आर­म्भ­ण­श­ब्दा­दि­भ्योऽ­नृ­त­त्वो­प­पत्तेः । आम्नानवैषम्यमपि नाव­श्य­म­र्थ­वै­ष­म्य­मा­व­हति, ‘आहर पात्रम्’ ‘पात्रमाहर’ इत्येवमादिषु अर्थसाम्येऽपि तद्दर्शनात् । तस्मात् एवंजातीयकेषु वाक्येषु प्रति­पा­द­न­प्र­का­र­भे­देऽपि प्रति­पा­द्या­र्था­भेद इति सिद्धम् ॥ १७ ॥

कार्या­ख्या­ना­द­पू­र्वम् ॥ १८ ॥

१८

छन्दोगा वाजसनेयिनश्च प्राणसंवादे श्वादिमर्यादं प्राणस्य अन्नमाम्नाय, तस्यैव आपो वास आमनन्ति । अनन्तरं च च्छन्दोगा आमनन्ति — ‘तस्माद्वा एतदशिष्यन्तः पुर­स्ता­च्चो­प­रि­ष्टा­च्चाद्भिः परिदधति’(छा. उ. ५ । २ । २) इति । वाज­स­ने­यि­न­स्त्वा­म­नन्ति — ‘तद्विद्वाꣳसः श्रोत्रियाः अशिष्यन्त आचामन्त्यशित्वा चामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते’(बृ. उ. ६ । १ । १४) ‘तस्मा­दे­वं­वि­द­शि­ष्य­न्ना­चा­मे­द­शित्वा चाचामेदेतमेव तदनमनग्नं कुरुते’ इति । तत्र च आचमनम् अनग्नताचिन्तनं च प्राणस्य प्रतीयते । तत्किमुभयमपि विधीयते, उत आचमनमेव, उत अन­ग्न­ता­चि­न्त­न­मे­वेति विचार्यते । किं तावत्प्राप्तम् ? उभयमपि विधीयत इति । कुतः ? उभ­य­स्या­प्य­व­ग­म्य­मा­न­त्वात् । उभयमपि च एतत् अपूर्वत्वात् विध्यर्हम् । अथवा आचमनमेव विधीयते । विस्पष्टा हि तस्मि­न्वि­धि­वि­भक्तिः — ‘तस्मा­दे­वं­वि­द­शि­ष्य­न्ना­चा­मे­द­शित्वा चाचामेत्’ इति । तस्यैव स्तुत्यर्थम् अन­ग्न­ता­स­ङ्की­र्त­न­मि­त्येवं प्राप्ते ब्रूमः —

न आचमनस्य विधे­य­त्व­मु­प­प­द्यते, कार्याख्यानात् — प्राप्तमेव हि इदं कार्यत्वेन आचमनं प्रायत्यार्थं स्मृति­प्र­सि­द्धम् अन्वाख्यायते । ननु इयं श्रुतिः तस्याः स्मृतेर्मूलं स्यात्; नेत्युच्यते, विषयनानात्वात् । सामान्यविषया हि स्मृतिः पुरु­ष­मा­त्र­स­म्बद्धं प्राय­त्या­र्थ­मा­च­मनं प्रापयति । श्रुतिस्तु प्राण­वि­द्या­प्र­क­र­ण­प­ठिता तद्विषयमेव आचमनं विदधती विदध्यात् । न च भिन्नविषययोः श्रुतिस्मृत्योः मूल­मू­लि­भा­वोऽ­व­क­ल्पते । न च इयं श्रुतिः प्राण­वि­द्या­सं­योगि अपूर्वमाचमनं विधास्यतीति शक्यमाश्रयितुम् , पूर्वस्यैव पुरु­ष­मा­त्र­सं­यो­गिन आचमनस्य इह प्रत्य­भि­ज्ञा­य­मा­न­त्वात् । अत एव च नोभयविधानम् । उभयविधाने च वाक्यं भिद्येत । तस्मात् प्राप्तमेव अशि­शि­ष­ता­म­शि­त­वतां च उभयत आचमनम् अनूद्य, ‘एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते’(बृ. उ. ६ । १ । १४) इति प्राणस्य अन­ग्न­ता­क­र­ण­स­ङ्कल्पः अनेन वाक्येन आचमनीयास्वप्सु प्राण­वि­द्या­स­म्ब­न्धि­त्वेन अपूर्व उपदिश्यते । न च अयमनग्नतावादः आचमनस्तुत्यर्थ इति न्याय्यम् , आच­म­न­स्या­वि­धे­य­त्वात् । स्वयं च अन­ग्न­ता­स­ङ्क­ल्पस्य विधे­य­त्व­प्र­तीतेः । न च एवं सति एकस्य आचमनस्य उभयार्थता अभ्युपगता भवति — प्रायत्यार्थता परिधानार्थता चेति । क्रिया­न्त­र­त्वा­भ्यु­प­ग­मात् — क्रियान्तरमेव हि आचमनं नाम प्रायत्यार्थं पुरुषस्य अभ्युपगम्यते । तदीयासु तु अप्सु वासःसङ्कल्पनं नाम क्रियान्तरमेव परिधानार्थं प्राणस्य अभ्युपगम्यत इत्यनवद्यम् । अपि च ‘यदिदं किञ्चा श्वभ्य आ कृमिभ्य आ कीट­प­त­ङ्गे­भ्य­स्त­त्तेऽ­न्नम्’(बृ. उ. ६ । १ । १४) इत्यत्र तावत् न सर्वा­न्ना­भ्य­व­हा­र­श्चो­द्यत इति शक्यं वक्तुम् , अश­ब्द­त्वा­द­श­क्य­त्वाच्च । सर्वं तु प्राण­स्या­न्न­मिति इय­म­न्न­दृ­ष्टि­श्चो­द्यते । तत्साहचर्याच्च ‘आपो वासः’ इत्यत्रापि न अपामाचमनं चोद्यते । प्रसिद्धास्वेव तु आचमनीयास्वप्सु परि­धा­न­दृ­ष्टि­श्चो­द्यत इति युक्तम् । न हि अर्धवैशसं सम्भवति । अपि च आचामन्तीति वर्त­मा­ना­प­दे­शि­त्वात् नायं शब्दो विधिक्षमः । ननु मन्यन्त इत्यपि समानं वर्त­मा­ना­प­दे­शि­त्वम्; सत्यमेवमेतत्; अवश्यविधेये तु अन्यतरस्मिन् वासः­का­र्या­ख्या­नात् अपां वासःसङ्कल्पनमेव अपूर्वं विधीयते । न आचमनम् । पूर्ववद्धि तत् — इत्युपपादितम् । यदप्युक्तम् — विस्पष्टा च आचमने विधि­वि­भ­क्ति­रिति, तदपि पूर्ववत्त्वेनैव आचमनस्य प्रत्युक्तम् । अत एव आच­म­न­स्या­वि­धि­त्सि­त­त्वात् ‘एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते’ इत्यत्रैव काण्वाः पर्यवस्यन्ति, न आमनन्ति ‘तस्मादेवंवित्’ इत्यादि तस्मात् माध्य­न्दि­ना­ना­मपि पाठे आचमनानुवादेन एवंवित्त्वमेव प्रकृ­त­प्रा­ण­वा­सो­वित्त्वं विधीयत इति प्रतिपत्तव्यम् । योऽप्य­य­म­भ्यु­प­गमः — क्वचिदाचमनं विधीयताम् , क्वचि­द्वा­सो­वि­ज्ञा­न­मिति — सोऽपि न साधुः, ‘आपो वासः’ इत्यादिकाया वाक्यप्रवृत्तेः सर्व­त्रै­क­रू­प्यात् । तस्मात् वासोविज्ञानमेव इह विधीयते, न आचमनमिति न्याय्यम् ॥ १८ ॥

समान एवं चाभेदात् ॥ १९ ॥

१९

वाज­स­ने­यि­शा­खा­याम् अग्निरहस्ये शाण्डि­ल्य­ना­मा­ङ्किता विद्या विज्ञाता । तत्र च गुणाः श्रूयन्ते — ‘स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपम्’ इत्येवमादयः । तस्यामेव शाखायां बृहदारण्यके पुनः पठ्यते — ‘मनोमयोऽयं पुरुषो भाःस­त्य­स्त­स्मि­न्न­न्त­र्हृ­दये यथा व्रीहिर्वा यवो वा स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च’(बृ. उ. ५ । ६ । १) इति । तत्र संशयः — किमियम् एका विद्या अग्नि­र­ह­स्य­बृ­ह­दा­र­ण्य­कयोः गुणोपसंहारश्च, उत द्वे इमे विद्ये गुणा­नु­प­सं­हा­र­श्चेति । किं तावत्प्राप्तम् ? विद्याभेदः गुणव्यवस्था चेति । कुतः ? पौन­रु­क्त्य­प्र­स­ङ्गात् — भिन्नासु हि शाखासु अध्ये­तृ­वे­दि­तृ­भे­दात् पौन­रु­क्त्य­प­रि­हा­र­मा­लोच्य विद्यै­क­त्व­म­ध्य­व­साय एकत्रातिरिक्ता गुणा इत­र­त्रो­प­सं­ह्रि­यन्ते प्राणसंवादादिषु — इत्युक्तम् । एकस्यां पुनः शाखायाम् अध्ये­तृ­वे­दि­तृ­भे­दा­भा­वात् अशक्यपरिहारे पौनरुक्त्ये न विप्र­कृ­ष्ट­दे­शस्था एका विद्या भवितुमर्हति । न च अत्र एकमाम्नानं विद्या­वि­धा­ना­र्थम् , अपरं गुणविधानार्थम् — इति विभागः सम्भवति । तदा हि अतिरिक्ता एव गुणा इतरत्रेतरत्र च आम्नायेरन् , न समानाः । समाना अपि तु उभ­य­त्रा­म्ना­यन्ते मनोमयत्वादयः । तस्मात् नान्यो­न्य­गु­णो­प­सं­हार इत्येवं प्राप्ते ब्रूमहे —

यथा भिन्नासु शाखासु विद्यैकत्वं गुणोपसंहारश्च भवति एवमेकस्यामपि शाखायां भवितुमर्हति, उपास्याभेदात् । तदेव हि ब्रह्म मनो­म­य­त्वा­दि­गु­ण­कम् उभयत्रापि उपास्यम् अभिन्नं प्रत्यभिजानीमहे । उपास्यं च रूपं विद्यायाः । न च विद्यमाने रूपाभेदे विद्या­भे­द­म­ध्य­व­सातुं शक्नुमः । नापि विद्याऽभेदे गुणव्यवस्थानम् । ननु पौन­रु­क्त्य­प्र­स­ङ्गात् विद्या­भे­दोऽ­ध्य­व­सितः; नेत्युच्यते, अर्थ­वि­भा­गो­प­पत्तेः — एकं हि आम्नानं विद्या­वि­धा­ना­र्थम् , अपरं गुणविधानार्थम् — इति न किञ्चि­न्नो­प­प­द्यते । ननु एवं सति यद­प­ठि­त­म­ग्नि­र­हस्ये, तदेव बृहदारण्यके पठितव्यम् — ‘स एष सर्वस्येशानः’ इत्यादि । यत्तु पठितमेव ‘मनोमयः’ इत्यादि, तन्न पठितव्यम् — नैष दोषः, तद्बलेनैव प्रदे­शा­न्त­र­प­ठि­त­वि­द्या­प्र­त्य­भि­ज्ञा­नात् । समानगुणाम्नानेन हि विप्रकृष्टदेशां शाण्डि­ल्य­विद्यां प्रत्यभिज्ञाप्य तस्याम् ईशानत्वादि उपदिश्यते । अन्यथा हि कथं तस्याम् अयं गुणविधिरभिधीयते । अपि च अप्रा­प्तां­शो­प­दे­शेन अर्थवति वाक्ये सञ्जाते, प्राप्तां­श­प­रा­म­र्शस्य नित्या­नु­वा­द­त­यापि उपपद्यमानत्वात् न तद्बलेन प्रत्यभिज्ञा उपेक्षितुं शक्यते । तस्मादत्र समानायामपि शाखायां विद्यैकत्वं गुणो­प­सं­हा­र­श्चे­त्यु­प­प­न्नम् ॥ १९ ॥

सम्ब­न्धा­दे­व­म­न्य­त्रापि ॥ २० ॥

२०

बृहदारण्यके ‘सत्यं ब्रह्म’(बृ. उ. ५ । ५ । १) इत्युपक्रम्य, ‘तद्य­त्त­त्स­त्य­मसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षि­णेऽ­क्ष­न्पु­रुषः’(बृ. उ. ५ । ५ । २) इति तस्यैव सत्यस्य ब्रह्मणः अधि­दै­व­त­म­ध्यात्मं च आय­त­न­वि­शे­ष­मु­प­दिश्य, व्याहृ­ति­श­री­रत्वं च सम्पाद्य, द्वे उप­नि­ष­दा­वु­प­दि­श्येते — ‘तस्योपनिषदहः’ इति — अधिदैवतम् , ‘तस्योपनिषदहम्’ इति — अध्यात्मम् । तत्र संशयः — किमविभागेनैव उभे अपि उप­नि­ष­दा­वु­भ­य­त्रा­नु­स­न्धा­तव्ये, उत विभागेन — एका अधिदैवतम् , एका अध्यात्ममिति । तत्र सूत्रे­णै­वो­प­क्र­मते — यथा शाण्डि­ल्य­वि­द्यायां विभा­गे­ना­प्य­धी­तायां गुणोपसंहार उक्तः, एवमन्यत्रापि एवंजातीयके विषये भवितुमर्हति, एक­वि­द्या­भि­स­म्ब­न्धात् — एका हि इयं सत्यविद्या अधिदैवतम् अध्यात्मं च अधीता, उपक्रमाभेदात् व्यति­ष­क्त­पा­ठाच्च । कथं तस्यामुदितो धर्मः तस्यामेव न स्यात् । यो ह्याचार्ये कश्चि­द­नु­ग­म­ना­दि­रा­चा­र­श्चो­दितः, स ग्राम­ग­तेऽ­र­ण्य­गते च तुल्यवदेव भवति । तस्मात् उभ­यो­र­प्यु­प­नि­षदोः उभयत्र प्राप्तिरिति ॥ २० ॥