ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायः (१)
प्रथमः पादः
द्वितीयेऽध्याये स्मृतिन्यायविरोधो वेदान्तविहिते ब्रह्मदर्शने परिहृतः, परपक्षाणां च अनपेक्षत्वं प्रपञ्चितम् , श्रुतिविप्रतिषेधश्च परिहृतः । तत्र च जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानि ब्रह्मणो जायन्त इत्युक्तम् । अथेदानीम् उपकरणोपहितस्य जीवस्य संसारगतिप्रकारः तदवस्थान्तराणि ब्रह्मसतत्त्वं विद्याभेदाभेदौ गुणोपसंहारानुपसंहारौ सम्यग्दर्शनात्पुरुषार्थसिद्धिः सम्यग्दर्शनोपायविधिप्रभेदः मुक्तिफलानियमश्च — इत्येतदर्थजातं तृतीये निरूपयिष्यते; प्रसङ्गागतं च किमप्यन्यत् । तत्र प्रथमे तावत्पादे पञ्चाग्निविद्यामाश्रित्य संसारगतिप्रभेदः प्रदर्श्यते वैराग्यहेतोः — ‘तस्माज्जुगुप्सेत’ इति च अन्ते श्रवणात् । जीवो मुख्यप्राणसचिवः सेन्द्रियः समनस्कोऽविद्याकर्मपूर्वप्रज्ञापरिग्रहः पूर्वदेहं विहाय देहान्तरं प्रतिपद्यत इत्येतदवगतम् — ‘अथैनमेते प्राणा अभिसमायन्ति’(बृ. उ. ४ । ४ । १) इत्येवमादेः ‘अन्यन्नवतरꣳ कल्याणतरं रूपं कुरुते’(बृ. उ. ४ । ४ । ४) इत्येवमन्तात् संसारप्रकरणस्थाच्छब्दात् , धर्माधर्मफलोपभोगसम्भवाच्च । स किं देहबीजैर्भूतसूक्ष्मैरसम्परिष्वक्तो गच्छति, आहोस्वित्सम्परिष्वक्तः — इति चिन्त्यते ॥
किं तावत्प्राप्तम् ? असम्परिष्वक्त इति । कुतः ? करणोपादानवद्भूतोपादानस्य अश्रुतत्वात् — ‘स एतास्तेजोमात्राः समभ्याददानः’(बृ. उ. ४ । ४ । १) इति ह्यत्र तेजोमात्राशब्देन करणानामुपादानं सङ्कीर्तयति, वाक्यशेषे चक्षुरादिसङ्कीर्तनात् । नैवं भूतमात्रोपादानसङ्कीर्तनमस्ति । सुलभाश्च सर्वत्र भूतमात्राः, यत्रैव देह आरब्धव्यस्तत्रैव सन्ति । ततश्च तासां नयनं निष्प्रयोजनम् । तस्मादसम्परिष्वक्तो याति — इत्येवं प्राप्ते, पठत्याचार्यः —
तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ १ ॥
१तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्त इति । तदन्तरप्रतिपत्तौ देहान्तरप्रतिपत्तौ, देहबीजैर्भूतसूक्ष्मैः सम्परिष्वक्तः, रंहति गच्छति — इत्यवगन्तव्यम् । कुतः ? प्रश्ननिरूपणाभ्याम्; तथा हि प्रश्नः — ‘वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’(छा. उ. ५ । ३ । ३) इति । निरूपणं च प्रतिवचनम् , द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतोरूपाः पञ्च आहुतीर्दर्शयित्वा, — ‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’(छा. उ. ५ । ९ । १) इति । तस्मादद्भिः परिवेष्टितो जीवो रंहति व्रजतीति गम्यते । नन्वन्या श्रुतिः जलूकावत्पूर्वदेहं न मुञ्चति यावन्न देहान्तरमाक्रमतीति दर्शयति — ‘तद्यथा तृणजलायुका’(बृ. उ. ४ । ४ । ३) इति । तत्राप्यप्परिवेष्टितस्यैव जीवस्य कर्मोपस्थापितप्रतिपत्तव्यदेहविषयभावनादीर्घीभावमात्रं जलूकयोपमीयत इत्यविरोधः । एवं श्रुत्युक्ते देहान्तरप्रतिपत्तिप्रकारे सति, याः पुरुषमतिप्रभवाः कल्पनाः — व्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्मवशाद्वृत्तिलाभस्तत्र भवति, — केवलस्यैवात्मनो वृत्तिलाभस्तत्र भवति, इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थाने उत्पद्यन्ते, — मन एव वा केवलं भोगस्थानमभिप्रतिष्ठते, — जीव एव वा उत्प्लुत्य देहाद्देहान्तरं प्रतिपद्यते, शुक इव वृक्षाद्वृक्षान्तरम् — इत्येवमाद्याः, ताः सर्वा एव अनादर्तव्याः, श्रुतिविरोधात् ॥ १ ॥
ननु उदाहृताभ्यां प्रश्नप्रतिवचनाभ्यां केवलाभिरद्भिः सम्परिष्वक्तो रंहतीति प्राप्नोति, अप्शब्दश्रवणसामर्थ्यात् । तत्र कथं सामान्येन प्रतिज्ञायते — सर्वैरेव भूतसूक्ष्मैः सम्परिष्वक्तो रंहतीति ? अत उत्तरं पठति —
त्र्यात्मकत्वात्तु भूयस्त्वात् ॥ २ ॥
२तुशब्देन चोदितामाशङ्कामुच्छिनत्ति । त्र्यात्मिका हि आपः, त्रिवृत्करणश्रुतेः । तास्वारम्भिकास्वभ्युपगतास्वितरदपि भूतद्वयमवश्यमभ्युपगन्तव्यं भवति । त्र्यात्मकश्च देहः, त्रयाणामपि तेजोबन्नानां तस्मिन्कार्योपलब्धेः । पुनश्च त्र्यात्मकः, त्रिधातुत्वात् — त्रिभिर्वातपित्तश्लेष्मभिः । न स भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते । तस्माद्भूयस्त्वापेक्षोऽयम् — ‘आपः पुरुषवचसः’ इति — प्रश्नप्रतिवचनयोरप्शब्दः, न कैवल्यापेक्षः । सर्वदेहेषु हि रसलोहितादिद्रवद्रव्यभूयस्त्वं दृश्यते । ननु पार्थिवो धातुर्भूयिष्ठो देहेषूपलक्ष्यते । नैष दोषः — इतरापेक्षया अपां बाहुल्यं भविष्यति । दृश्यते च शुक्रशोणितलक्षणेऽपि देहबीजे द्रवबाहुल्यम् । कर्म च निमित्तकारणं देहान्तरारम्भे । कर्माणि च अग्निहोत्रादीनि सोमाज्यपयःप्रभृतिद्रवद्रव्यव्यपाश्रयाणि । कर्मसमवायिन्यश्च आपः श्रद्धाशब्दोदिताः सह कर्मभिर्द्युलोकाख्येऽग्नौ हूयन्त इति वक्ष्यति । तस्मादप्यपां बाहुल्यप्रसिद्धिः । बाहुल्याच्च अप्शब्देन सर्वेषामेव देहबीजानां भूतसूक्ष्माणामुपादानमिति निरवद्यम् ॥ २ ॥
प्राणगतेश्च ॥ ३ ॥
३प्राणानां च देहान्तरप्रतिपत्तौ गतिः श्राव्यते — ‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तꣳ सर्वे प्राणा अनूत्क्रामन्ति’(बृ. उ. ४ । ४ । २) इत्यादिश्रुतिभिः । सा च प्राणानां गतिर्नाश्रयमन्तरेण सम्भवतीत्यतः प्राणगतिप्रयुक्ता तदाश्रयभूतानामपामपि भूतान्तरोपसृष्टानां गतिरवगम्यते । न हि निराश्रयाः प्राणाः क्वचिद्गच्छन्ति तिष्ठन्ति वा, जीवतो दर्शनात् ॥ ३ ॥
अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ ४ ॥
४स्यादेतत् — नैव प्राणा देहान्तरप्रतिपत्तौ सह जीवेन गच्छन्ति, अग्न्यादिगतिश्रुतेः । तथा हि श्रुतिः मरणकाले वागादयः प्राणा अग्न्यादीन्देवान्गच्छन्तीति दर्शयति — ‘यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणः’(बृ. उ. ३ । २ । १३) इत्यादिना इति चेत् , न, भाक्तत्वात् । वागादीनामग्न्यादिगतिश्रुतिर्गौणी, लोमसु केशेषु च अदर्शनात् — ‘ओषधीर्लोमानि वनस्पतीन्केशाः’(बृ. उ. ३ । २ । १३) इति हि तत्राम्नायते, न हि लोमानि केशाश्चोत्प्लुत्य ओषधीर्वनस्पतींश्च गच्छन्तीति सम्भवति । न च जीवस्य प्राणोपाधिप्रत्याख्याने गमनमवकल्पते । नापि प्राणैर्विना देहान्तरे उपभोग उपपद्यते । विस्पष्टं च प्राणानां सह जीवेन गमनमन्यत्र श्रावितम् । अतो वागाद्यधिष्ठात्रीणामग्न्यादिदेवतानां वागाद्युपकारिणीनां मरणकाले उपकारनिवृत्तिमात्रमपेक्ष्य वागादयोऽग्न्यादीन्गच्छन्तीत्युपचर्यते ॥ ४ ॥
प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ ५ ॥
५स्यादेतत् — कथं पुनः ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’(छा. उ. ५ । ३ । ३) इत्येतत् निर्धारयितुं पार्यते, यावता नैव प्रथमेऽग्नावपां श्रवणमस्ति ? इह हि द्युलोकप्रभृतयः पञ्चाग्नयः पञ्चानामाहुतीनामाधारत्वेनाधीताः । तेषां च प्रमुखे ‘असौ वाव लोको गौतमाग्निः’(छा. उ. ५ । ४ । १) इत्युपन्यस्य ‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति’(छा. उ. ५ । ४ । २) इति श्रद्धा होम्यद्रव्यत्वेन आवेदिता । न तत्र आपो होम्यद्रव्यतया श्रुताः । यदि नाम पर्जन्यादिषूत्तरेषु चतुर्ष्वग्निष्वपां होम्यद्रव्यता परिकल्प्येत, परिकल्प्यतां नाम, तेषु होतव्यतयोपात्तानां सोमादीनामब्बहुलत्वोपपत्तेः । प्रथमे त्वग्नौ श्रुतां श्रद्धां परित्यज्य अश्रुता आपः परिकल्प्यन्त इति साहसमेतत् । श्रद्धा च नाम प्रत्ययविशेषः, प्रसिद्धिसामर्थ्यात् । तस्मादयुक्तः पञ्चम्यामाहुतावपां पुरुषभाव इति चेत् — नैष दोषः; हि यतः तत्रापि प्रथमेऽग्नौ ता एवापः श्रद्धाशब्देनाभिप्रेयन्ते । कुतः ? उपपत्तेः । एवं ह्यादिमध्यावसानसंगानात् अनाकुलमेतदेकवाक्यमुपपद्यते । इतरथा पुनः, पञ्चम्यामाहुतौ अपां पुरुषवचस्त्वप्रकारे पृष्टे, प्रतिवचनावसरे प्रथमाहुतिस्थाने यद्यनपो होम्यद्रव्यं श्रद्धां नामावतारयेत् — ततः अन्यथा प्रश्नोऽन्यथा प्रतिवचनमित्येकवाक्यता न स्यात् । ‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति च उपसंहरन् एतदेव दर्शयति । श्रद्धाकार्यं च सोमवृष्ट्यादि स्थूलीभवदब्बहुलं लक्ष्यते । सा च श्रद्धाया अप्त्वे युक्तिः । कारणानुरूपं हि कार्यं भवति । न च श्रद्धाख्यः प्रत्ययः, मनसो जीवस्य वा धर्मः सन् धर्मिणो निष्कृष्य होमायोपादातुं शक्यते — पश्वादिभ्य इव हृदयादीनि इति, आप एव श्रद्धाशब्दा भवेयुः । श्रद्धाशब्दश्चाप्सूपपद्यते, वैदिकप्रयोगदर्शनात् — ‘श्रद्धा वा आपः’ इति । तनुत्वं श्रद्धासारूप्यं गच्छन्त्य आपो देहबीजभूता इत्यतः श्रद्धाशब्दाः स्युः — यथा सिंहपराक्रमो नरः सिंहशब्दो भवति । श्रद्धापूर्वककर्मसमवायाच्च अप्सु श्रद्धाशब्द उपपद्यते, मञ्चशब्द इव पुरुषेषु । श्रद्धाहेतुत्वाच्च श्रद्धाशब्दोपपत्तिः, ‘आपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणे’ इति श्रुतेः ॥ ५ ॥
अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥ ६ ॥
६अथापि स्यात् — प्रश्नप्रतिवचनाभ्यां नाम आपः श्रद्धादिक्रमेण पञ्चम्यामाहुतौ पुरुषाकारं प्रतिपद्येरन्; न तु तत्सम्परिष्वक्ता जीवा रंहेयुः, अश्रुतत्वात् — न ह्यत्र अपामिव जीवानां श्रावयिता कश्चिच्छब्दोऽस्ति । तस्मात् ‘रंहति सम्परिष्वक्तः’ इत्ययुक्तम् — इति चेत् , नैष दोषः । कुतः ? इष्टादिकारिणां प्रतीतेः — ‘अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति’(छा. उ. ५ । १० । ३) इत्युपक्रम्य इष्टादिकारिणां धूमादिना पितृयाणेन पथा चन्द्रप्राप्तिं कथयति ‘आकाशाच्चन्द्रमसमेष सोमो राजा’(छा. उ. ५ । १० । ४) इति । त एवेहापि प्रतीयन्ते, ‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति’(छा. उ. ५ । ४ । २) इति श्रुतिसामान्यात् । तेषां च अग्निहोत्रदर्शपूर्णमासादिकर्मसाधनभूता दधिपयःप्रभृतयो द्रवद्रव्यभूयस्त्वात्प्रत्यक्षमेव आपः सन्ति । ता आहवनीये हुताः सूक्ष्मा आहुत्योऽपूर्वरूपाः सत्यः तानिष्टादिकारिण आश्रयन्ति — तेषां च शरीरं नैधनेन विधानेनान्त्येऽग्नावृत्विजो जुह्वति — ‘असौ स्वर्गाय लोकाय स्वाहा’ इति । ततस्ताः श्रद्धापूर्वककर्मसमवायिन्य आहुतिमय्य आपोऽपूर्वरूपाः सत्यः तानिष्टादिकारिणो जीवान्परिवेष्ट्य अमुं लोकं फलदानाय नयन्तीति यत् , तदत्र जुहोतिना अभिधीयते — ‘श्रद्धां जुह्वतीति’(बृ. उ. ६ । २ । ९) । तथा च अग्निहोत्रे षट्प्रश्नीनिर्वचनरूपेण वाक्यशेषेण ‘ते वा एते आहुती हुते उत्क्रामतः’ इत्येवमादिना अग्निहोत्राहुत्योः फलारम्भाय लोकान्तरप्राप्तिर्दर्शिता । तस्मादाहुतिमयीभिरद्भिः सम्परिष्वक्ता जीवा रंहन्ति स्वकर्मफलोपभोगायेति श्लिष्यते ॥ ६ ॥
कथं पुनरिदमिष्टादिकारिणां स्वकर्मफलोपभोगाय रंहणं प्रतिज्ञायते, यावता तेषां धूमप्रतीकेन वर्त्मना चन्द्रमसमधिरूढानामन्नभावं दर्शयति — ‘एष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति’(छा. उ. ५ । १० । ४) इति ? ‘ते चन्द्रं प्राप्यान्नं भवन्ति ताꣳस्तत्र देवा यथा सोमꣳ राजानमाप्यायस्वापक्षीयस्वेत्येवमेनाꣳस्तत्र भक्षयन्ति’(बृ. उ. ६ । २ । १६) इति च समानविषयं श्रुत्यन्तरम् । न च व्याघ्रादिभिरिव देवैर्भक्ष्यमाणानामुपभोगः सम्भवतीति । अत उत्तरं पठति —
भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ॥ ७ ॥
७वाशब्दश्चोदितदोषव्यावर्तनार्थः । भाक्तमेषामन्नत्वम् , न मुख्यम् । मुख्ये ह्यन्नत्वे ‘स्वर्गकामो यजेत’ इत्येवंजातीयकाधिकारश्रुतिरुपरुध्येत । चन्द्रमण्डले चेदिष्टादिकारिणामुपभोगो न स्यात् , किमर्थमधिकारिण इष्टादि आयासबहुलं कर्म कुर्युः । अन्नशब्दश्चोपभोगहेतुत्वसामान्यात् अनन्नेऽप्युपचर्यमाणो दृश्यते, यथा — विशोऽन्नं राज्ञां पशवोऽन्नं विशामिति । तस्मादिष्टस्त्रीपुत्रमित्रभृत्यादिभिरिव गुणभावोपगतैरिष्टादिकारिभिर्यत्सुखविहरणं देवानाम् , तदेवैषां भक्षणमभिप्रेतम् , न मोदकादिवच्चर्वणं निगरणं वा । ‘न ह वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति’(छा. उ. ३ । ६ । १) इति च देवानां चर्वणादिव्यापारं वारयति । तेषां च इष्टादिकारिणां देवान्प्रति गुणभावोपगतानामप्युपभोग उपपद्यते, राजोपजीविनामिव परिजनानाम् । अनात्मवित्त्वाच्च इष्टादिकारिणां देवोपभोग्यभाव उपपद्यते । तथा हि श्रुतिरनात्मविदां देवोपभोग्यतां दर्शयति — ‘अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवꣳ स देवानाम्’(बृ. उ. १ । ४ । १०) इति । स चास्मिन्नपि लोके इष्टादिभिः कर्मभिः प्रीणयन्पशुवद्देवानामुपकरोति, अमुष्मिन्नपि लोके तदुपजीवी तदादिष्टं फलमुपभुञ्जानः पशुवदेव देवानामुपकरोतीति गम्यते ॥
अनात्मवित्त्वात् तथा हि दर्शयति इत्यस्य अपरा व्याख्या — अनात्मविदो ह्येते केवलकर्मिण इष्टादिकारिणः, न ज्ञानकर्मसमुच्चयानुष्ठायिनः । पञ्चाग्निविद्यामिह आत्मविद्येत्युपचरन्ति, प्रकरणात् । पञ्चाग्निविद्याविहीनत्वाच्चेदमिष्टादिकारिणां गुणवादेनान्नत्वमुद्भाव्यते पञ्चाग्निविज्ञानप्रशंसायै । पञ्चाग्निविद्या हीह विधित्सिता, वाक्यतात्पर्यावगमात् । तथा हि श्रुत्यन्तरं चन्द्रमण्डले भोगसद्भावं दर्शयति — ‘स सोमलोके विभूतिमनुभूय पुनरावर्तते’(प्र. उ. ५ । ४) इति । तथा अन्यदपि श्रुत्यन्तरम् ‘अथ ये शतं पितॄणां जितलोकानामानन्दाः … स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्ते’(बृ. उ. ४ । ३ । ३३) इति इष्टादिकारिणां देवैः सह संवसतां भोगप्राप्तिं दर्शयति । एवं भाक्तत्वादन्नभाववचनस्य, इष्टादिकारिणोऽत्र जीवा रंहन्तीति प्रतीयते । तस्मात् ‘रंहति सम्परिष्वक्तः’ इति युक्तमेवोक्तम् ॥ ७ ॥
कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ ८ ॥
८इष्टादिकारिणां धूमादिना वर्त्मना चन्द्रमण्डलमधिरूढानां भुक्तभोगानां ततः प्रत्यवरोह आम्नायते — ‘तस्मिन्यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतम्’(छा. उ. ५ । १० । ५) इत्यारभ्य, — यावत् — रमणीयचरणा ब्राह्मणादियोनिमापद्यन्ते कपूयचरणाः श्वादियोनिमिति । तत्रेदं विचार्यते — किं निरनुशया भुक्तकृत्स्नकर्माणोऽवरोहन्ति, आहोस्वित्सानुशया इति । किं तावत्प्राप्तम् ? निरनुशया इति । कुतः ? ‘यावत्सम्पातम्’ इति विशेषणात् — सम्पातशब्देनात्र कर्माशय उच्यते, सम्पतन्ति अनेन अस्माल्लोकात् अमुं लोकं फलोपभोगायेति । ‘यावत्सम्पातमुषित्वा’ इति च कृत्स्नस्य तस्य कृतस्य तत्रैव भुक्ततां दर्शयति । ‘तेषां यदा तत्पर्यवैति’(बृ. उ. ६ । २ । १६) इति च श्रुत्यन्तरेणैष एवार्थः प्रदर्श्यते । स्यादेतत् — यावदमुष्मिँल्लोके उपभोक्तव्यं कर्म तावदुपभुङ्क्त इति कल्पयिष्यामीति । नैवं कल्पयितुं शक्यते, ‘यत्किञ्च’ इत्यन्यत्र परामर्शात् — ‘प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे’(बृ. उ. ४ । ४ । ६) इति हि अपरा श्रुतिः ‘यत्किञ्च’ इत्यविशेषपरामर्शेन कृत्स्नस्येह कृतस्य कर्मणः तत्र क्षयिततां दर्शयति । अपि च प्रायणमनारब्धफलस्य कर्मणोऽभिव्यञ्जकम्; प्राक्प्रायणात् आरब्धफलेन कर्मणा प्रतिबद्धस्याभिव्यक्त्यनुपपत्तेः । तच्च अविशेषाद्यावत्किञ्चिदनारब्धफलं तस्य सर्वस्याभिव्यञ्जकम् । न हि साधारणे निमित्ते नैमित्तिकमसाधारणं भवितुमर्हति । न ह्यविशिष्टे प्रदीपसन्निधौ, घटोऽभिव्यज्यते न पट इत्युपपद्यते । तस्मान्निरनुशया अवरोहन्तीत्येवं प्राप्ते ब्रूमः —
कृतात्ययेऽनुशयवानिति । येन कर्मबृन्देन चन्द्रमसमारूढाः फलोपभोगाय, तस्मिन्नुपभोगेन क्षयिते, तेषां यदम्मयं शरीरं चन्द्रमस्युपभोगायारब्धम् , तत् उपभोगक्षयदर्शनशोकाग्निसम्पर्कात्प्रविलीयते — सवितृकिरणसम्पर्कादिव हिमकरकाः, हुतभुगर्चिःसम्पर्कादिव च घृतकाठिन्यम् । ततः कृतात्यये कृतस्येष्टादेः कर्मणः फलोपभोगेनोपक्षये सति, सानुशया एवेममवरोहन्ति । केन हेतुना ? दृष्टस्मृतिभ्यामित्याह । तथा हि प्रत्यक्षा श्रुतिः सानुशयानामवरोहं दर्शयति — ‘तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा’(छा. उ. ५ । १० । ७) इति । चरणशब्देनात्रानुशयः सूच्यत इति वर्णयिष्यति । दृष्टश्चायं जन्मनैव प्रतिप्राण्युच्चावचरूप उपभोगः प्रविभज्यमान आकस्मिकत्वासम्भवादनुशयसद्भावं सूचयति, अभ्युदयप्रत्यवाययोः सुकृतदुष्कृतहेतुत्वस्य सामान्यतः शास्त्रेणावगमितत्वात् । स्मृतिरपि — ‘वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते’(गौ. ध. सू. २ । २ । २९) इति सानुशयानामेवावरोहं दर्शयति ॥
कः पुनरनुशयो नामेति ? केचित्तावदाहुः — स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषः कश्चिदनुशयो नाम, भाण्डानुसारिस्नेहवत् — यथा हि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रिच्यते, भाण्डानुसार्येव कश्चित्स्नेहशेषोऽवतिष्ठते, तथा अनुशयोऽपीति । ननु कार्यविरोधित्वाददृष्टस्य न भुक्तफलस्यावशेषावस्थानं न्याय्यम्; नायं दोषः । न हि सर्वात्मना भुक्तफलत्वं कर्मणः प्रतिजानीमहे । ननु निरवशेषकर्मफलोपभोगाय चन्द्रमण्डलमारूढाः; बाढम् — तथापि स्वल्पकर्मावशेषमात्रेण तत्रावस्थातुं न लभ्यते । यथा किल कश्चित्सेवकः सकलैः सेवोपकरणैः राजकुलमुपसृप्तश्चिरप्रवासात्परिक्षीणबहूपकरणश्छत्रपादुकादिमात्रावशेषो न राजकुलेऽवस्थातुं शक्नोति, एवमनुशयमात्रपरिग्रहो न चन्द्रमण्डलेऽवस्थातुं शक्नोतीति ॥
न चैतद्युक्तमिव । न हि स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषानुवृत्तिरुपपद्यते, कार्यविरोधित्वात् — इत्युक्तम् । नन्वेतदप्युक्तम् — न स्वर्गफलस्य कर्मणो निखिलस्य भुक्तफलत्वं भविष्यतीति; तदेतदपेशलम् — स्वर्गार्थं किल कर्म स्वर्गस्थस्यैव स्वर्गफलं निखिलं न जनयति, स्वर्गच्युतस्यापि कञ्चित्फललेशं जनयतीति । न शब्दप्रमाणकानामीदृशी कल्पना अवकल्पते । स्नेहभाण्डे तु स्नेहलेशानुवृत्तिर्दृष्टत्वादुपपद्यते । तथा सेवकस्योपकरणलेशानुवृत्तिश्च दृश्यते । न त्विह तथा स्वर्गफलस्य कर्मणो लेशानुवृत्तिर्दृश्यते । नापि कल्पयितुं शक्यते, स्वर्गफलत्वशास्त्रविरोधात् । अवश्यं चैतदेवं विज्ञेयम् — न स्वर्गफलस्येष्टादेः कर्मणो भाण्डानुसारिस्नेहवदेकदेशोऽनुवर्तमानोऽनुशय इति । यदि हि येन सुकृतेन कर्मणा इष्टादिना स्वर्गमन्वभूवन् , तस्यैव कश्चिदेकदेशोऽनुशयः कल्प्येत, ततो रमणीय एवैकोऽनुशयः स्यात् , न विपरीतः । तत्रेयमनुशयविभागश्रुतिरुपरुध्येत — ‘तद्य इह रमणीयचरणाः … अथ य इह कपूयचरणाः’(छा. उ. ५ । १० । ७) इति । तस्मादामुष्मिकफले कर्मजाते उपभुक्तेऽवशिष्टमैहिकफलं कर्मान्तरजातमनुशयः, तद्वन्तोऽवरोहन्तीति ॥
यदुक्तम् — ‘यत्किञ्च’ इत्यविशेषपरामर्शात्सर्वस्येह कृतस्य कर्मणः फलोपभोगेनान्तं प्राप्य निरनुशया अवरोहन्तीति, नैतदेवम् । अनुशयसद्भावस्यावगमितत्वात् , यत्किञ्चिदिह कृतमामुष्मिकफलं कर्म आरब्धभोगम् , तत्सर्वं फलोपभोगेन क्षपयित्वा — इति गम्यते । यदप्युक्तम् — प्रायणम् अविशेषादनारब्धफलं कृत्स्नमेव कर्माभिव्यनक्ति । तत्र केनचित्कर्मणामुष्मिँल्लोके फलमारभ्यते, केनचिदस्मिन् इत्ययं विभागो न सम्भवतीति — तदप्यनुशयसद्भावप्रतिपादनेनैव प्रत्युक्तम् । अपि च केन हेतुना प्रायणमनारब्धफलस्य कर्मणोऽभिव्यञ्जकं प्रतिज्ञायत इति वक्तव्यम् । आरब्धफलेन कर्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तेः, तदुपशमात् प्रायणकाले वृत्त्युद्भवो भवतीति यद्युच्येत — ततो वक्तव्यम् — यथैव तर्हि प्राक्प्रायणात् आरब्धफलेन कर्मणा प्रतिबद्धस्य इतरस्य वृत्त्युद्भवानुपपत्तिः, एवं प्रायणकालेऽपि विरुद्धफलस्यानेकस्य कर्मणो युगपत्फलारम्भासम्भवात् बलवता प्रतिबद्धस्य दुर्बलस्य वृत्त्युद्भवानुपपत्तिरिति । न हि अनारब्धफलत्वसामान्येन जात्यन्तरोपभोग्यफलमप्यनेकं कर्म एकस्मिन्प्रायणे युगपदभिव्यक्तं सत् एकां जातिमारभत इति शक्यं वक्तुम् , प्रतिनियतफलत्वविरोधात् । नापि कस्यचित्कर्मणः प्रायणेऽभिव्यक्तिः कस्यचिदुच्छेद इति शक्यते वक्तुम् , ऐकान्तिकफलत्वविरोधात् । न हि प्रायश्चित्तादिभिर्हेतुभिर्विना कर्मणामुच्छेदः सम्भाव्यते । स्मृतिरपि विरुद्धफलेन कर्मणा प्रतिबद्धस्य कर्मान्तरस्य चिरमवस्थानं दर्शयति — ‘कदाचित्सुकृतं कर्म कूटस्थमिह तिष्ठति । मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते’(म. भा. १२ । २९० । १८) इत्येवंजातीयका । यदि च कृत्स्नमनारब्धफलं कर्म एकस्मिन्प्रायणेऽभिव्यक्तं सत् एकां जातिमारभेत, ततः स्वर्गनरकतिर्यग्योनिष्वधिकारानवगमात् धर्माधर्मानुत्पत्तौ निमित्ताभावात् नोत्तरा जातिरुपपद्येत, ब्रह्महत्यादीनां च एकैकस्य कर्मणोऽनेकजन्मनिमित्तत्वं स्मर्यमाणमुपरुध्येत । न च धर्माधर्मयोः स्वरूपफलसाधनादिसमधिगमे शास्त्रादतिरिक्तं कारणं शक्यं सम्भावयितुम् । न च दृष्टफलस्य कर्मणः कारीर्यादेः प्रायणमभिव्यञ्जकं सम्भवतीति, अव्यापिकापीयं प्रायणस्याभिव्यञ्जकत्वकल्पना । प्रदीपोपन्यासोऽपि कर्मबलाबलप्रदर्शनेनैव प्रतिनीतः । स्थूलसूक्ष्मरूपाभिव्यक्त्यनभिव्यक्तिवच्चेदं द्रष्टव्यम् — यथा हि प्रदीपः समानेऽपि सन्निधाने स्थूलं रूपमभिव्यनक्ति, न सूक्ष्मम् — एवं प्रायणं समानेऽप्यनारब्धफलस्य कर्मजातस्य प्राप्तावसरत्वे बलवतः कर्मणो वृत्तिमुद्भावयति, न दुर्बलस्येति । तस्माच्छ्रुतिस्मृतिन्यायविरोधादश्लिष्टोऽयमशेषकर्माभिव्यक्त्यभ्युपगमः । शेषकर्मसद्भावेऽनिर्मोक्षप्रसङ्ग इत्ययमप्यस्थाने सम्भ्रमः, सम्यग्दर्शनादशेषकर्मक्षयश्रुतेः । तस्मात् स्थितमेतदेव — अनुशयवन्तोऽवरोहन्तीति । ते च अवरोहन्तो यथेतमनेवं च अवरोहन्ति । यथेतमिति यथागतमित्यर्थः । अनेवमिति तद्विपर्ययेणेत्यर्थः । धूमाकाशयोः पितृयाणेऽध्वन्युपात्तयोरवरोहे सङ्कीर्तनात् यथेतंशब्दाच्च यथागतमिति प्रतीयते । रात्र्याद्यसङ्कीर्तनादभ्राद्युपसंख्यानाच्च विपर्ययोऽपि प्रतीयते ॥ ८ ॥
चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः ॥ ९ ॥
९अथापि स्यात् — या श्रुतिरनुशयसद्भावप्रतिपादनायोदाहृता — ‘तद्य इह रमणीयचरणाः’(छा. उ. ५ । १० । ७) इति, सा खलु चरणात् योन्यापत्तिं दर्शयति, नानुशयात् । अन्यच्चरणम् , अन्योऽनुशयः — चरणं चारित्रम् आचारः शीलमित्यनर्थान्तरम् , अनुशयस्तु भुक्तफलात्कर्मणोऽतिरिक्तं कर्म अभिप्रेतम् । श्रुतिश्च कर्मचरणे भेदेन व्यपदिशति — ‘यथाकारी यथाचारी तथा भवति’(बृ. उ. ४ । ४ । ५) इति, ‘यान्यनवद्यानि कर्माणि तानि सेवितव्यानि । नो इतराणि । यान्यस्माकꣳ सुचरितानि तानि त्वयोपास्यानि’(तै. उ. १ । ११ । २) इति च । तस्मात् चरणाद्योन्यापत्तिश्रुतेः नानुशयसिद्धिः इति चेत् , नैष दोषः — यतोऽनुशयोपलक्षणार्थैव एषा चरणश्रुतिरिति कार्ष्णाजिनिराचार्यो मन्यते ॥ ९ ॥
आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ १० ॥
१०स्यादेतत् — कस्मात्पुनश्चरणशब्देन श्रौतं शीलं विहाय लाक्षणिकः अनुशयः प्रत्याय्यते ? ननु शीलस्यैव श्रौतस्य विहितप्रतिषिद्धस्य साध्वसाधुरूपस्य शुभाशुभयोन्यापत्तिः फलं भविष्यति; अवश्यं च शीलस्यापि किञ्चित्फलमभ्युपगन्तव्यम् , अन्यथा ह्यानर्थक्यमेव शीलस्य प्रसज्येत — इति चेत् , नैष दोषः । कुतः ? तदपेक्षत्वात् । इष्टादि हि कर्मजातं चरणापेक्षम् । न हि सदाचारहीनः कश्चिदधिकृतः स्यात् — ‘आचारहीनं न पुनन्ति वेदाः’ इत्यादिस्मृतिभ्यः । पुरुषार्थत्वेऽप्याचारस्य न आनर्थक्यम् । इष्टादौ हि कर्मजाते फलमारभमाणे तदपेक्ष एवाचारस्तत्रैव कञ्चिदतिशयमारप्स्यते । कर्म च सर्वार्थकारि — इति श्रुतिस्मृतिप्रसिद्धिः । तस्मात्कर्मैव शीलोपलक्षितमनुशयभूतं योन्यापत्तौ कारणमिति कार्ष्णाजिनेर्मतम् । न हि कर्मणि सम्भवति शीलात् योन्यापत्तिर्युक्ता । न हि पद्भ्यां पलायितुं पारयमाणो जानुभ्यां रंहितुमर्हति — इति ॥ १० ॥
सुकृतदुष्कृते एवेति तु बादरिः ॥ ११ ॥
११बादरिस्त्वाचार्यः सुकृतदुष्कृते एव चरणशब्देन प्रत्याय्येते इति मन्यते । चरणम् अनुष्ठानं कर्मेत्यनर्थान्तरम् । तथा हि अविशेषेण कर्ममात्रे चरतिः प्रयुज्यमानो दृश्यते — यो हि इष्टादिलक्षणं पुण्यं कर्म करोति, तं लौकिका आचक्षते — धर्मं चरत्येष महात्मेति । आचारोऽपि च धर्मविशेष एव । भेदव्यपदेशस्तु कर्मचरणयोर्ब्राह्मणपरिव्राजकन्यायेनाप्युपपद्यते । तस्मात् रमणीयचरणाः प्रशस्तकर्माणः, कपूयचरणा निन्दितकर्माणः इति निर्णयः ॥ ११ ॥
अनिष्टादिकारिणामपि च श्रुतम् ॥ १२ ॥
१२इष्टादिकारिणश्चन्द्रमसं गच्छन्तीत्युक्तम् । ये त्वितरेऽनिष्टादिकारिणः, तेऽपि किं चन्द्रमसं गच्छन्ति, उत न गच्छन्तीति चिन्त्यते । तत्र तावदाहुः — इष्टादिकारिण एव चन्द्रमसं गच्छन्तीत्येतत् न । कस्मात् ? यतोऽनिष्टादिकारिणामपि चन्द्रमण्डलं गन्तव्यत्वेन श्रुतम् । तथा हि अविशेषेण कौषीतकिनः समामनन्ति — ‘ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति’(कौ. उ. १ । २) इति । देहारम्भोऽपि च पुनर्जायमानानां न अन्तरेण चन्द्रप्राप्तिम् अवकल्पते, ‘पञ्चम्यामाहुतौ’ इत्याहुतिसंख्यानियमात् । तस्मात्सर्व एव चन्द्रमसमासीदेयुः । इष्टादिकारिणामितरेषां च समानगतित्वं न युक्तमिति चेत् , न, इतरेषां चन्द्रमण्डले भोगाभावात् ॥ १२ ॥
संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ १३ ॥
१३तुशब्दः पक्षं व्यावर्तयति । नैतदस्ति — सर्वे चन्द्रमसं गच्छन्तीति । कस्मात् ? भोगायैव हि चन्द्रारोहणम् , न निष्प्रयोजनम् । नापि प्रत्यवरोहायैव, — यथा कश्चिद्वृक्षमारोहति पुष्पफलोपादानायैव, न निष्प्रयोजनम् , नापि पतनायैव । भोगश्च अनिष्टादिकारिणां चन्द्रमसि नास्तीत्युक्तम् । तस्मादिष्टादिकारिण एव चन्द्रमसमारोहन्ति, नेतरे । ते तु संयमनं यमालयमवगाह्य स्वदुष्कृतानुरूपा यामीर्यातना अनुभूय पुनरेव इमं लोकं प्रत्यवरोहन्ति । एवंभूतौ तेषामारोहावरोहौ भवतः । कुतः ? तद्गतिदर्शनात् । तथा हि यमवचनसरूपा श्रुतिः प्रयताम् अनिष्टादिकारिणां यमवश्यतां दर्शयति — ‘न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे’(क. उ. १ । २ । ६) इति । ‘वैवस्वतं सङ्गमनं जनानाम्’ इत्येवंजातीयकं च बह्वेव यमवश्यताप्राप्तिलिङ्गं भवति ॥ १३ ॥
स्मरन्ति च ॥ १४ ॥
१४अपि च मनुव्यासप्रभृतयः शिष्टाः संयमने पुरे यमायत्तं कपूयकर्मविपाकं स्मरन्ति नाचिकेतोपाख्यानादिषु ॥ १४ ॥
अपि च सप्त ॥ १५ ॥
१५अपि च सप्त नरका रौरवप्रमुखा दुष्कृतफलोपभोगभूमित्वेन स्मर्यन्ते पौराणिकैः । ताननिष्टादिकारिणः प्राप्नुवन्ति । कुतस्ते चन्द्रं प्राप्नुयुः इत्यभिप्रायः ॥ १५ ॥
ननु विरुद्धमिदम् — यमायत्ता यातनाः पापकर्माणोऽनुभवन्तीति, यावता तेषु रौरवादिषु अन्ये चित्रगुप्तादयो नानाधिष्ठातारः स्मर्यन्त इति; नेत्याह —
तत्रापि च तद्व्यापारादविरोधः ॥ १६ ॥
१६तेष्वपि सप्तसु नरकेषु तस्यैव यमस्याधिष्ठातृत्वव्यापाराभ्युपगमादविरोधः । यमप्रयुक्ता एव हि ते चित्रगुप्तादयोऽधिष्ठातारः स्मर्यन्ते ॥ १६ ॥
विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ १७ ॥
१७पञ्चाग्निविद्यायाम् ‘वेत्थ यथासौ लोको न सम्पूर्यते’(छा. उ. ५ । ३ । ३) इत्यस्य प्रश्नस्य प्रतिवचनावसरे श्रूयते — ‘अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्य म्रियस्त्वेत्येतत्तृतीयꣳ स्थानं तेनासौ लोको न सम्पूर्यते’(छा. उ. ५ । १० । ८) इति । तत्र एतयोः पथोरिति विद्याकर्मणोरित्येतत् । कस्मात् ? प्रकृतत्वात् । विद्याकर्मणी हि देवयानपितृयाणयोः पथोः प्रतिपत्तौ प्रकृते — ‘तद्य इत्थं विदुः’(छा. उ. ५ । १० । १) इति विद्या, तया प्रतिपत्तव्यो देवयानः पन्थाः प्रकीर्तितः । ‘इष्टापूर्ते दत्तम्’(छा. उ. ५ । १० । ३) इति कर्म, तेन प्रतिपत्तव्यः पितृयाणः पन्थाः प्रकीर्तितः — तत्प्रक्रियायाम् ‘अथैतयोः पथोर्न कतरेणचन’ इति श्रुतम् । एतदुक्तं भवति — ये न विद्यासाधनेन देवयाने पथ्यधिकृताः, नापि कर्मणा पितृयाणे, तेषामेष क्षुद्रजन्तुलक्षणोऽसकृदावर्ती तृतीयः पन्था भवतीति । तस्मादपि न अनिष्टादिकारिभिश्चन्द्रमाः प्राप्यते । स्यादेतत् — तेऽपि चन्द्रबिम्बमारुह्य ततोऽवरुह्य क्षुद्रजन्तुत्वं प्रतिपत्स्यन्त इति । तदपि नास्ति, आरोहानर्थक्यात् । अपि च सर्वेषु प्रयत्सु चन्द्रलोकं प्राप्नुवत्सु असौ लोकः प्रयद्भिः सम्पूर्येत — इत्यतः प्रश्नविरुद्धं प्रतिवचनं प्रसज्येत; तथा हि प्रतिवचनं दातव्यम् , यथा असौ लोको न सम्पूर्यते । अवरोहाभ्युपगमादसम्पूरणोपपत्तिरिति चेत् , न, अश्रुतत्वात् । सत्यम् अवरोहादप्यसम्पूरणमुपपद्यते । श्रुतिस्तु तृतीयस्थानसङ्कीर्तनेन असम्पूरणं दर्शयति — ‘एतत्तृतीयं स्थानꣳ तेनासौ लोको न सम्पूर्यते’(छा. उ. ५ । १० । ८) इति । तेन अनारोहादेव असम्पूरणमिति युक्तम् । अवरोहस्येष्टादिकारिष्वप्यविशिष्टत्वे सति तृतीयस्थानोक्त्यानर्थक्यप्रसङ्गात् । तुशब्दस्तु शाखान्तरीयवाक्यप्रभवामशेषगमनाशङ्कामुच्छिनत्ति । एवं सति अधिकृतापेक्षः शाखान्तरीये वाक्ये सर्वशब्दोऽवतिष्ठते — ये वै केचिदधिकृता अस्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति ॥ १७ ॥
यत्पुनरुक्तम् — देहलाभोपपत्तये सर्वे चन्द्रमसं गन्तुमर्हन्ति, ‘पञ्चम्यामाहुतौ’ इत्याहुतिसंख्यानियमादिति, तत्प्रत्युच्यते —
न तृतीये तथोपलब्धेः ॥ १८ ॥
१८न तृतीये स्थाने देहलाभाय पञ्चसंख्यानियम आहुतीनामादर्तव्यः । कुतः ? तथोपलब्धेः । तथा हि अन्तरेणैवाहुतिसंख्यानियमं वर्णितेन प्रकारेण तृतीयस्थानप्राप्तिरुपलभ्यते — ‘जायस्व म्रियस्वेत्येतत्तृतीयꣳ स्थानम्’(छा. उ. ५ । १० । ८) इति । अपि च ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’(छा. उ. ५ । ३ । ३) इति मनुष्यशरीरहेतुत्वेन आहुतिसंख्या सङ्कीर्त्यते, न कीटपतङ्गादिशरीरहेतुत्वेन, पुरुषशब्दस्य मनुष्यजातिवचनत्वात् । अपि च पञ्चम्यामाहुतावपां पुरुषवचस्त्वमुपदिश्यते, न अपञ्चम्यामाहुतौ पुरुषवचस्त्वं प्रतिषिध्यते, वाक्यस्य द्व्यर्थतादोषात् । तत्र येषामारोहावरोहौ सम्भवतः, तेषां पञ्चम्यामाहुतौ देह उद्भविष्यति । अन्येषां तु विनैवाहुतिसंख्यया भूतान्तरोपसृष्टाभिरद्भिर्देह आरप्स्यते ॥ १८ ॥
स्मर्यतेऽपि च लोके ॥ १९ ॥
१९अपि च स्मर्यते लोके, द्रोणधृष्टद्युम्नप्रभृतीनां सीताद्रौपदीप्रभृतीनां च अयोनिजत्वम् । तत्र द्रोणादीनां योषिद्विषया एका आहुतिर्नास्ति । धृष्टद्युम्नादीनां तु योषित्पुरुषविषये द्वे अप्याहुती न स्तः । यथा च तत्र आहुतिसंख्यानियमानादरो भवति, एवमन्यत्रापि भविष्यति । बलाकापि अन्तरेणैव रेतःसेकं गर्भं धत्त इति लोकरूढिः ॥ १९ ॥
दर्शनाच्च ॥ २० ॥
२०अपि च चतुर्विधे भूतग्रामे जरायुजाण्डजस्वेदजोद्भिज्जलक्षणे स्वेदजोद्भिज्जयोः अन्तरेणैव ग्राम्यधर्मम् उत्पत्तिदर्शनात् आहुतिसंख्यानादरो भवति । एवमन्यत्रापि भविष्यति ॥ २० ॥
ननु तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति ‘आण्डजं जीवजमुद्भिज्जम्’(छा. उ. ६ । ३ । १) इत्यत्र त्रिविध एव भूतग्रामः श्रूयते । कथं चतुर्विधत्वं भूतग्रामस्य प्रतिज्ञातमिति, अत्रोच्यते —
तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥
२१‘आण्डजं जीवजमुद्भिज्जम्’(छा. उ. ६ । ३ । १) इत्यत्र तृतीयेनोद्भिज्जशब्देनैव स्वेदजोपसङ्ग्रहः कृतः प्रत्येतव्यः, उभयोरपि स्वेदजोद्भिज्जयोः भूम्युदकोद्भेदप्रभवत्वस्य तुल्यत्वात् । स्थावरोद्भेदात्तु विलक्षणो जङ्गमोद्भेद इत्यन्यत्र स्वेदजोद्भिज्जयोर्भेदवाद इत्यविरोधः ॥ २१ ॥
साभाव्यापत्तिरुपपत्तेः ॥ २२ ॥
२२इष्टादिकारिणश्चन्द्रमसमारुह्य तस्मिन्यावत्सम्पातमुषित्वा ततः सानुशया अवरोहन्तीत्युक्तम्; अथावरोहप्रकारः परीक्ष्यते । तत्रेयमवरोहश्रुतिर्भवति — ‘अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो’(छा. उ. ५ । १० । ५) ‘भूत्वाभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति’(छा. उ. ५ । १० । ६) इति । तत्र संशयः — किमाकाशादिस्वरूपमेवावरोहन्तः प्रतिपद्यन्ते, किं वा आकाशादिसाम्यमिति । तत्र प्राप्तं तावत् — आकाशादिस्वरूपमेव प्रतिपद्यन्त इति । कुतः ? एवं हि श्रुतिर्भवति । इतरथा लक्षणा स्यात् । श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या, न लक्षणा । तथा च ‘वायुर्भूत्वा धूमो भवति’ इत्येवमादीन्यक्षराणि तत्तत्स्वरूपोपपत्तौ आञ्जस्येन अवकल्पन्ते । तस्मादाकाशादिस्वरूपप्रतिपत्तिरिति । एवं प्राप्ते, ब्रूमः — आकाशादिसाम्यं प्रतिपद्यन्त इति । चन्द्रमण्डले यत् अम्मयं शरीरमुपभोगार्थमारब्धम् , तत् उपभोगक्षये सति प्रविलीयमानं सूक्ष्ममाकाशसमं भवति । ततो वायोर्वशमेति । ततो धूमादिभिः सम्पृच्यत इति । तदेतदुच्यते — ‘यथेतमाकाशमाकाशाद्वायुम्’(छा. उ. ५ । १० । ५) इत्येवमादिना । कुत एतत् ? उपपत्तेः । एवं हि एतदुपपद्यते । न हि अन्यस्यान्यभावो मुख्य उपपद्यते । आकाशस्वरूपप्रतिपत्तौ च वाय्वादिक्रमेणावरोहो नोपपद्यते । विभुत्वाच्च आकाशेन नित्यसम्बद्धत्वात् न तत्सादृश्यापत्तेरन्यः तत्सम्बन्धो घटते । श्रुत्यसम्भवे च लक्षणाश्रयणं न्याय्यमेव । अत आकाशादितुल्यतापत्तिरेव अत्र आकाशादिभाव इत्युपचर्यते ॥ २२ ॥
नातिचिरेण विशेषात् ॥ २३ ॥
२३तत्र आकाशादिप्रतिपत्तौ प्राग्व्रीह्यादिप्रतिपत्तेः भवति विशयः — किं दीर्घं दीर्घं कालं पूर्वपूर्वसादृश्येनावस्थायोत्तरोत्तरसादृश्यं गच्छन्ति, उताल्पमल्पमिति । तत्रानियमः, नियमकारिणः शास्त्रस्याभावादित्येवं प्राप्ते, इदमाह — नातिचिरेणेति । अल्पमल्पं कालमाकाशादिभावेनावस्थाय वर्षधाराभिः सह इमां भुवमापतन्ति । कुत एतत् ? विशेषदर्शनात्; तथा हि व्रीह्यादिभावापत्तेरनन्तरं विशिनष्टि — ‘अतो वै खलु दुर्निष्प्रपतरम्’(छा. उ. ५ । १० । ६) इति । तकार एकश्छान्दस्यां प्रक्रियायां लुप्तो मन्तव्यः । दुर्निष्प्रपततरं दुर्निष्क्रमतरम् — दुःखतरमस्माद्व्रीह्यादिभावान्निःसरणं भवतीत्यर्थः । तत् अत्र दुःखं निष्प्रपतनं प्रदर्शयन् पूर्वेषु सुखं निष्प्रपतनं दर्शयति । सुखदुःखताविशेषश्चायं निष्प्रपतनस्य कालाल्पत्वदीर्घत्वनिमित्तः, तस्मिन्नवधौ शरीरानिष्पत्तेरुपभोगासम्भवात् । तस्माद्व्रीह्यादिभावापत्तेः प्राक् अल्पेनैव कालेनावरोहः स्यादिति ॥ २३ ॥
अन्याधिष्ठितेषु पूर्ववदभिलापात् ॥ २४ ॥
२४तस्मिन्नेवावरोहे प्रवर्षणानन्तरं पठ्यते — ‘त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते’(छा. उ. ५ । १० । ६) इति । तत्र संशयः — किमस्मिन्नवधौ स्थावरजात्यापन्नाः स्थावरसुखदुःखभाजोऽनुशयिनो भवन्ति, आहोस्वित्क्षेत्रज्ञान्तराधिष्ठितेषु स्थावरशरीरेषु संश्लेषमात्रं गच्छन्तीति । किं तावत्प्राप्तम् ? स्थावरजात्यापन्नास्तत्सुखदुःखभाजोऽनुशयिनो भवन्तीति । कुत एतत् ? जनेर्मुख्यार्थत्वोपपत्तेः, स्थावरभावस्य च श्रुतिस्मृत्योरुपभोगस्थानत्वप्रसिद्धेः, पशुहिंसादियोगाच्च इष्टादेः कर्मजातस्यानिष्टफलत्वोपपत्तेः । तस्मान्मुख्यमेवेदमनुशयिनां व्रीह्यादिजन्म, श्वादिजन्मवत् — यथा ‘श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा’ इति मुख्यमेवानुशयिनां श्वादिजन्म तत्सुखदुःखान्वितं भवति, एवं व्रीह्यादिजन्मापीति । एवं प्राप्ते ब्रूमः —
अन्यैर्जीवैरधिष्ठितेषु व्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते, न तत्सुखदुःख भाजो भवन्ति, पूर्ववत् — यथा वायुधूमादिभावोऽनुशयिनां तत्संश्लेषमात्रम् , एवं व्रीह्यादिभावोऽपि जातिस्थावरैः संश्लेषमात्रम् । कुत एतत् ? तद्वदेवेहाप्यभिलापात् । कोऽभिलापस्य तद्वद्भावः ? कर्मव्यापारमन्तरेण सङ्कीर्तनम् — यथा आकाशादिषु प्रवर्षणान्तेषु न कञ्चित्कर्मव्यापारं परामृशति, एवं व्रीह्यादिजन्मन्यपि । तस्मान्नास्त्यत्र सुखदुःखभाक्त्वमनुशयिनाम् । यत्र तु सुखदुःखभाक्त्वमभिप्रैति, परामृशति तत्र कर्मव्यापारम् — ‘रमणीयचरणाः’ ‘कपूयचरणाः’ इति । अपि च मुख्येऽनुशयिनां व्रीह्यादिजन्मनि, व्रीह्यादिषु लूयमानेषु कण्ड्यमानेषु पच्यमानेषु भक्ष्यमाणेषु च तदभिमानिनोऽनुशयिनः प्रवसेयुः । यो हि जीवो यच्छरीरमभिमन्यते, स तस्मिन्पीड्यमाने प्रवसति — इति प्रसिद्धम् । तत्र व्रीह्यादिभावाद्रेतःसिग्भावोऽनुशयिनां नाभिलप्येत । अतः संसर्गमात्रमनुशयिनामन्याधिष्ठितेषु व्रीह्यादिषु भवति । एतेन जनेर्मुख्यार्थत्वं प्रतिब्रूयात् , उपभोगस्थानत्वं च स्थावरभावस्य । न च वयमुपभोगस्थानत्वं स्थावरभावस्यावजानीमहे । भवत्वन्येषां जन्तूनामपुण्यसामर्थ्येन स्थावरभावमुपगतानाम् एतत् उपभोगस्थानम् । चन्द्रमसस्तु अवरोहन्तोऽनुशयिनो न स्थावरभावमुपभुञ्जत इत्याचक्ष्महे ॥ २४ ॥
अशुद्धमिति चेन्न शब्दात् ॥ २५ ॥
२५यत्पुनरुक्तम् — पशुहिंसादियोगादशुद्धमाध्वरिकं कर्म, तस्यानिष्टमपि फलमवकल्पत इत्यतो मुख्यमेवानुशयिनां व्रीह्यादिजन्म अस्तु । तत्र गौणी कल्पना अनर्थिकेति — तत्परिह्रियते — न, शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य । अयं धर्मः अयमधर्म इति शास्त्रमेव विज्ञाने कारणम् , अतीन्द्रियत्वात्तयोः । अनियतदेशकालनिमित्तत्वाच्च — यस्मिन्देशे काले निमित्ते च यो धर्मोऽनुष्ठीयते, स एव देशकालनिमित्तान्तरेष्वधर्मो भवति । तेन न शास्त्रादृते धर्माधर्मविषयं विज्ञानं कस्यचिदस्ति । शास्त्राच्च हिंसानुग्रहाद्यात्मको ज्योतिष्टोमो धर्म इत्यवधारितः, स कथमशुद्ध इति शक्यते वक्तुम् । ननु ‘न हिंस्यात्सर्वा भूतानि’ इति शास्त्रमेव भूतविषयां हिंसाम् अधर्म इत्यवगमयति । बाढम् — उत्सर्गस्तु सः । अपवादः ‘अग्नीषोमीयं पशुमालभेत’ इति । उत्सर्गापवादयोश्च व्यवस्थितविषयत्वम् । तस्माद्विशुद्धं कर्म वैदिकम्; शिष्टैरनुष्ठीयमानत्वात् अनिन्द्यमानत्वाच्च । तेन न तस्य प्रतिरूपं फलम् जातिस्थावरत्वम् । न च श्वादिजन्मवदपि व्रीह्यादिजन्म भवितुमर्हति । तद्धि कपूयचरणानधिकृत्य उच्यते । नैवमिह वैशेषिकः कश्चिदधिकारोऽस्ति । अतश्चन्द्रमण्डलस्खलितानामनुशयिनां व्रीह्यादिसंश्लेषमात्रं तद्भाव इत्युपचर्यते ॥ २५ ॥
रेतःसिग्योगोऽथ ॥ २६ ॥
२६इतश्च व्रीह्यादिसंश्लेषमात्रं तद्भावः, यत्कारणं व्रीह्यादिभावस्यानन्तरमनुशयिनां रेतःसिग्भाव आम्नायते — ‘यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति’(छा. उ. ५ । १० । ६) इति । न चात्र मुख्यो रेतःसिग्भावः सम्भवति । चिरजातो हि प्राप्तयौवनो रेतःसिग्भवति । कथमिव अनुपचरितं तद्भावम् अद्यमानान्नानुगतोऽनुशयी प्रतिपद्येत ? तत्र तावदवश्यं रेतःसिग्योग एव रेतःसिग्भावोऽभ्युपगन्तव्यः । तद्वत् व्रीह्यादिभावोऽपि व्रीह्यादियोग एवेत्यविरोधः ॥ २६ ॥
योनेः शरीरम् ॥ २७ ॥
२७अथ रेतःसिग्भावस्यानन्तरं योनौ निषिक्ते रेतसि, योनेरधि शरीरम् अनुशयिनाम् अनुशयफलोपभोगाय जायत इत्याह शास्त्रम् — ‘तद्य इह रमणीयचरणाः’(छा. उ. ५ । १० । ७) इत्यादि । तस्मादप्यवगम्यते — नावरोहे व्रीह्यादिभावावसरे तच्छरीरमेव सुखदुःखान्वितं भवतीति । तस्मात् व्रीह्यादिसंश्लेषमात्रमनुशयिनां तज्जन्मेति सिद्धम् ॥ २७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
तृतीयाध्यायस्य प्रथमः पादः ॥
द्वितीयः पादः
अतिक्रान्ते पादे पञ्चाग्निविद्यामुदाहृत्य जीवस्य संसारगतिप्रभेदः प्रपञ्चितः । इदानीं तस्यैवावस्थाभेदः प्रपञ्च्यते । इदमामनन्ति — ‘स यत्र प्रस्वपिति’(बृ. उ. ४ । ३ । ९) इत्युपक्रम्य ‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजते’ इत्यादि । तत्र संशयः — किं प्रबोधे इव स्वप्नेऽपि पारमार्थिकी सृष्टिः, आहोस्विन्मायामयीति । तत्र तावत्प्रतिपाद्यते —
सन्ध्ये सृष्टिराह हि ॥ १ ॥
१सन्ध्ये तथ्यरूपा सृष्टिरिति । सन्ध्यमिति स्वप्नस्थानमाचष्टे, वेदे प्रयोगदर्शनात् — ‘सन्ध्यं तृतीयꣳ स्वप्नस्थानम्’ इति; द्वयोर्लोकस्थानयोः प्रबोधसम्प्रसादस्थानयोर्वा सन्धौ भवतीति सन्ध्यम् । तस्मिन्सन्ध्ये स्थाने तथ्यरूपैव सृष्टिर्भवितुमर्हति — कुतः ? यतः प्रमाणभूता श्रुतिरेवमाह — ‘अथ रथान्रथयोगान्पथः सृजते’(बृ. उ. ४ । ३ । १०) इत्यादि । ‘स हि कर्ता’ इति च उपसंहारात् एवमेवावगम्यते ॥ १ ॥
निर्मातारं चैके पुत्रादयश्च ॥ २ ॥
२अपि च एके शाखिनः अस्मिन्नेव सन्ध्ये स्थाने कामानां निर्मातारमात्मानमामनन्ति — ‘य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः’(क. उ. २ । २ । ८) इति; पुत्रादयश्च तत्र कामा अभिप्रेयन्ते — काम्यन्त इति । ननु कामशब्देनेच्छाविशेषा एवोच्येरन् । न, ‘शतायुषः पुत्रपौत्रान्वृणीष्व’(क. उ. १ । १ । २३) इति प्रकृत्य अन्ते ‘कामानां त्वा कामभाजं करोमि’(क. उ. १ । १ । २४) इति प्रकृतेषु तत्र पुत्रादिषु कामशब्दस्य प्रयुक्तत्वात् । प्राज्ञं चैनं निर्मातारं प्रकरणवाक्यशेषाभ्यां प्रतीमः । प्राज्ञस्य हीदं प्रकरणम् — ‘अन्यत्र धर्मादन्यत्राधर्मात्’(क. उ. १ । २ । १४) इत्यादि । तद्विषय एव च वाक्यशेषोऽपि — ‘तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन’(क. उ. २ । २ । ८) इति । प्राज्ञकर्तृका च सृष्टिस्तथ्यरूपा समधिगता जागरिताश्रया। तथा स्वप्नाश्रयापि सृष्टिर्भवितुमर्हति । तथा च श्रुतिः — ‘अथो खल्वाहुर्जागरितदेश एवास्यैष इति यानि ह्येव जाग्रत्पश्यति तानि सुप्तः’(बृ. उ. ४ । ३ । १४) इति स्वप्नजागरितयोः समानन्यायतां श्रावयति । तस्मात्तथ्यरूपैव सन्ध्ये सृष्टिरिति ॥ २ ॥
एवं प्राप्ते, प्रत्याह —
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥
३तुशब्दः पक्षं व्यावर्तयति । नैतदस्ति — यदुक्तं सन्ध्ये सृष्टिः पारमार्थिकीति । मायैव सन्ध्ये सृष्टिः, न परमार्थगन्धोऽप्यस्ति । कुतः ? कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् — न हि कार्त्स्न्येन परमार्थवस्तुधर्मेण अभिव्यक्तस्वरूपः स्वप्नः । किं पुनरत्र कार्त्स्न्यमभिप्रेतम् ? देशकालनिमित्तसम्पत्तिः अबाधश्च । न हि परमार्थवस्तुविषयाणि देशकालनिमित्तानि अबाधश्च स्वप्ने सम्भाव्यन्ते । न तावत्स्वप्ने रथादीनामुचितो देशः सम्भवति । न हि संवृते देहदेशे रथादयोऽवकाशं लभेरन् । स्यादेतत् — बहिर्देहात् स्वप्नं द्रक्ष्यति, देशान्तरितद्रव्यग्रहणात् । दर्शयति च श्रुतिः बहिर्देहात्स्वप्नम् — ‘बहिष्कुलायादमृतश्चरित्वा । स ईयतेऽमृतो यत्र कामम्’(बृ. उ. ४ । ३ । १२) इति । स्थितिगतिप्रत्ययभेदश्च न अनिष्क्रान्ते जन्तौ सामञ्जस्यमश्नुवीत — इति । नेत्युच्यते — न हि सुप्तस्य जन्तोः क्षणमात्रेण योजनशतान्तरितं देशं पर्येतुं विपर्येतुं च ततः सामर्थ्यं सम्भाव्यते । क्वचिच्च प्रत्यागमनवर्जितं स्वप्नं श्रावयति — कुरुष्वहमद्य शयानो निद्रयाभिप्लुतः, स्वप्ने पञ्चालानभिगतश्च अस्मिन्प्रतिबुद्धश्च — इति । देहाच्चेदपेयात् , पञ्चालेष्वेव प्रतिबुध्येत , तानसावभिगत इति । कुरुष्वेव तु प्रतिबुध्यते । येन च अयं देहेन देशान्तरमश्नुवानो मन्यते, तमन्ये पार्श्वस्थाः शयनदेश एव पश्यन्ति । यथाभूतानि च अयं देशान्तराणि स्वप्ने पश्यति, न तानि तथाभूतान्येव भवन्ति । परिधावंश्चेत्पश्येत् , जाग्रद्वत् वस्तुभूतमर्थमाकलयेत् । दर्शयति च श्रुतिरन्तरेव देहे स्वप्नम् — ‘स यत्रैतत्स्वप्न्यया चरति’ इत्युपक्रम्य ‘स्वे शरीरे यथाकामं परिवर्तते’(बृ. उ. २ । १ । १८) इति । अतश्च श्रुत्युपपत्तिविरोधाद्बहिष्कुलायश्रुतिः गौणी व्याख्यातव्या — बहिरिव कुलायात् अमृतश्चरित्वेति; यो हि वसन्नपि शरीरे न तेन प्रयोजनं करोति, स बहिरिव शरीराद्भवति — इति । स्थितिगतिप्रत्ययभेदोऽप्येवं सति विप्रलम्भ एवाभ्युपगन्तव्यः ॥
कालविसंवादोऽपि च स्वप्ने भवति — रजन्यां सुप्तो वासरं भारते वर्षे मन्यते; तथा मुहूर्तमात्रवर्तिनि स्वप्ने कदाचित् बहून् वर्षपूगान् अतिवाहयति । निमित्तान्यपि च स्वप्ने न बुद्धये कर्मणे वा उचितानि विद्यन्ते । करणोपसंहाराद्धि नास्य रथादिग्रहणाय चक्षुरादीनि सन्ति । रथादिनिर्वर्तनेऽपि कुतोऽस्य निमेषमात्रेण सामर्थ्यं दारूणि वा । बाध्यन्ते चैते रथादयः स्वप्नदृष्टाः प्रबोधे । स्वप्न एव च एते सुलभबाधा भवन्ति, आद्यन्तयोर्व्यभिचारदर्शनात् — रथोऽयमिति हि कदाचित्स्वप्ने निर्धारितः क्षणेन मनुष्यः सम्पद्यते, मनुष्योऽयमिति निर्धारितः क्षणेन वृक्षः । स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रम् — ‘न तत्र रथा न रथयोगा न पन्थानो भवन्ति’(बृ. उ. ४ । ३ । १०) इत्यादि । तस्मान्मायामात्रं स्वप्नदर्शनम् ॥ ३ ॥
सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ ४ ॥
४मायामात्रत्वात्तर्हि न कश्चित्स्वप्ने परमार्थगन्धोऽस्तीति — नेत्युच्यते — सूचकश्च हि स्वप्नो भवति भविष्यतोः साध्वसाधुनोः । तथा हि श्रूयते — ‘यदा कर्मसु काम्येषु स्त्रियꣳ स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने’(छा. उ. ५ । २ । ८) इति । तथा ‘पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति’ इत्येवमादिभिः स्वप्नैरचिरजीवित्वमावेद्यत इति श्रावयति । आचक्षते च स्वप्नाध्यायविदः — कुञ्जरारोहणादीनि स्वप्ने धन्यानि, खरयानादीन्यधन्यानि’ इति । मन्त्रदेवताद्रव्यविशेषनिमित्ताश्च केचित्स्वप्नाः सत्यार्थगन्धिनो भवन्तीति मन्यन्ते । तत्रापि भवतु नाम सूच्यमानस्य वस्तुनः सत्यत्वम् । सूचकस्य तु स्त्रीदर्शनादेर्भवत्येव वैतथ्यम् , बाध्यमानत्वादित्यभिप्रायः । तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् ॥
यदुक्तम् — ‘आह हि’ इति तदेवं सति भाक्तं व्याख्यातव्यम् — यथा ‘लाङ्गलं गवादीनुद्वहति’ इति निमित्तमात्रत्वादेवमुच्यते, न तु प्रत्यक्षमेव लाङ्गलं गवादीनुद्वहति । एवं निमित्तमात्रत्वात् — सुप्तो रथादीन्सृजते, ‘स हि कर्ता’ — इति च उच्यते । न तु प्रत्यक्षमेव सुप्तो रथादीन्सृजति । निमित्तत्वं तु अस्य रथादिप्रतिभाननिमित्तमोदत्रासादिदर्शनात्तन्निमित्तभूतयोः सुकृतदुष्कृतयोः कर्तृत्वेनेति वक्तव्यम् । अपि च जागरिते विषयेन्द्रियसंयोगात् आदित्यादिज्योतिर्व्यतिकराच्च आत्मनः स्वयंज्योतिष्ट्वं दुर्विवेचनमिति तद्विवेचनाय स्वप्न उपन्यस्तः । तत्र यदि रथादिसृष्टिवचनं श्रुत्या नीयेत, ततः स्वयंज्योतिष्ट्वं न निर्णीतं स्यात् । तस्माद्रथाद्यभाववचनं श्रुत्या, रथादिसृष्टिवचनं तु भक्त्येति व्याख्येयम् । एतेन निर्माणश्रवणं व्याख्यातम् । यदप्युक्तम् — ‘प्राज्ञमेनं निर्मातारमामनन्ति’ इति, तदप्यसत् , श्रुत्यन्तरे ‘स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति’(बृ. उ. ४ । ३ । ९) इति जीवव्यापारश्रवणात् । इहापि ‘य एष सुप्तेषु जागर्ति’(क. उ. २ । २ । ८) इति प्रसिद्धानुवादाज्जीव एवायं कामानां निर्माता सङ्कीर्त्यते । तस्य तु वाक्यशेषेण ‘तदेव शुक्रं तद्ब्रह्म’ इति जीवभावं व्यावर्त्य ब्रह्मभाव उपदिश्यते — ‘तत्त्वमसि’(छा. उ. ६ । ९ । ४) इत्यादिवत् — इति न ब्रह्मप्रकरणं विरुध्यते । न चास्माभिः स्वप्नेऽपि प्राज्ञव्यापारः प्रतिषिध्यते, तस्य सर्वेश्वरत्वात् सर्वास्वप्यवस्थास्वधिष्ठातृत्वोपपत्तेः । पारमार्थिकस्तु नायं सन्ध्याश्रयः सर्गः वियदादिसर्गवत् — इत्येतावत्प्रतिपाद्यते । न च वियदादिसर्गस्याप्यात्यन्तिकं सत्यत्वमस्ति । प्रतिपादितं हि ‘तदनन्यत्वमारम्भणशब्दादिभ्यः’(ब्र. सू. २ । १ । १४) इत्यत्र समस्तस्य प्रपञ्चस्य मायामात्रत्वम् । प्राक् तु ब्रह्मात्मत्वदर्शनात् वियदादिप्रपञ्चो व्यवस्थितरूपो भवति । सन्ध्याश्रयस्तु प्रपञ्चः प्रतिदिनं बाध्यते — इत्यतो वैशेषिकमिदं सन्ध्यस्य मायामात्रत्वमुदितम् ॥ ४ ॥
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ५ ॥
५अथापि स्यात् — परस्यैव तावदात्मनोंऽशः जीवः — अग्नेरिव विस्फुलिङ्गः । तत्रैवं सति यथा अग्निविस्फुलिङ्गयोः समाने दहनप्रकाशनशक्ती भवतः, एवं जीवेश्वरयोरपि ज्ञानैश्वर्यशक्ती । ततश्च जीवस्य ज्ञानैश्वर्यवशात् साङ्कल्पिकी स्वप्ने रथादिसृष्टिर्भविष्यतीति । अत्रोच्यते — सत्यपि जीवेश्वरयोरंशांशिभावे प्रत्यक्षमेव जीवस्येश्वरविपरीतधर्मत्वम् । किं पुनर्जीवस्य ईश्वरसमानधर्मत्वं नास्त्येव ? न नास्त्येव । विद्यमानमपि तत् तिरोहितम् अविद्यादिव्यवधानात् । तत्पुनस्तिरोहितं सत् परमेश्वरमभिध्यायतो यतमानस्य जन्तोर्विधूतध्वान्तस्य — तिमिरतिरस्कृतेव दृक्शक्तिः औषधवीर्यात् — ईश्वरप्रसादात् संसिद्धस्य कस्यचिदेवाविर्भवति, न स्वभावत एव, सर्वेषां जन्तूनाम् । कुतः ? ततो हि ईश्वराद्धेतोः, अस्य जीवस्य, बन्धमोक्षौ भवतः — ईश्वरस्वरूपापरिज्ञानात् बन्धः, तत्स्वरूपपरिज्ञानात्तु मोक्षः । तथा च श्रुतिः — ‘ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः । तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः’(श्वे. उ. १ । ११) इत्येवमाद्या ॥ ५ ॥
देहयोगाद्वा सोऽपि ॥ ६ ॥
६कस्मात्पुनर्जीवः परमात्मांश एव सन् तिरस्कृतज्ञानैश्वर्यो भवति ? युक्तं तु ज्ञानैश्वर्ययोरतिरस्कृतत्वम् , विस्फुलिङ्गस्येव दहनप्रकाशनयोः — इति । उच्यते — सत्यमेवैतत् । सोऽपि तु जीवस्य ज्ञानैश्वर्यतिरोभावः, देहयोगात् देहेन्द्रियमनोबुद्धिविषयवेदनादियोगात् भवति । अस्ति च अत्रोपमा — यथा अग्नेर्दहनप्रकाशनसम्पन्नस्याप्यरणिगतस्य दहनप्रकाशने तिरोहिते भवतः, यथा वा भस्मच्छन्नस्य — एवमविद्याप्रत्युपस्थापितनामरूपकृतदेहाद्युपाधियोगात् तदविवेकभ्रमकृतो जीवस्य ज्ञानैश्वर्यतिरोभावः । वाशब्दो जीवस्य ईश्वरात् अन्यत्वशङ्काव्यावृत्त्यर्थः । नन्वन्य एव जीवः ईश्वरादस्तु, तिरस्कृतज्ञानैश्वर्यत्वात् । किं देहयोगकल्पनया ? नेत्युच्यते — न हि अन्यत्वं जीवस्य ईश्वरादुपपद्यते — ‘सेयं देवतैक्षत’(छा. उ. ६ । ३ । २) इत्युपक्रम्य ‘अनेन जीवेनात्मनानुप्रविश्य’(छा. उ. ६ । ३ । २) इत्यात्मशब्देन जीवस्य परामर्शात्; ‘तत्सत्यꣳ स आत्मा तत्त्वमसि श्वेतकेतो’(छा. उ. ६ । ८ । ७) इति च जीवाय उपदिशति ईश्वरात्मत्वम् । अतः अनन्य एव ईश्वराज्जीवः सन् देहयोगात्तिरोहितज्ञानैश्वर्यो भवति । अतश्च न साङ्कल्पिकी जीवस्य स्वप्ने रथादिसृष्टिर्घटते । यदि च साङ्कल्पिकी स्वप्ने रथादिसृष्टिः स्यात् , नैवानिष्टं कश्चित्स्वप्नं पश्येत् , न हि कश्चिदनिष्टं सङ्कल्पयते । यत्पुनरुक्तम् — जागरितदेशश्रुतिः स्वप्नस्य सत्यत्वं ख्यापयतीति, न तत्साम्यवचनं सत्यत्वाभिप्रायम् , स्वयंज्योतिष्ट्वविरोधात् , श्रुत्यैव च स्वप्ने रथाद्यभावस्य दर्शितत्वात् । जागरितप्रभववासनानिर्मितत्वात्तु स्वप्नस्य तत्तुल्यनिर्भासत्वाभिप्रायं तत् । तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् ॥ ६ ॥
तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ ७ ॥
७स्वप्नावस्था परीक्षिता । सुषुप्तावस्थेदानीं परीक्ष्यते । तत्रैताः सुषुप्तविषयाः श्रुतयो भवन्ति । क्वचिच्छ्रूयते — ‘तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति’(छा. उ. ८ । ६ । ३) इति । अन्यत्र तु नाडीरेवानुक्रम्य श्रूयते — ‘ताभिः प्रत्यवसृप्य पुरीतति शेते’(बृ. उ. २ । १ । १९) इति । तथान्यत्र नाडीरेवानुक्रम्य — ‘तासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति’(कौ. उ. ४ । १९) इति; तथान्यत्र — ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते’(बृ. उ. २ । १ । १७) इति; तथान्यत्र — ‘सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति’(छा. उ. ६ । ८ । १) इति । तथा — ‘प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’(बृ. उ. ४ । ३ । २१) इति च ॥
तत्र संशयः — किमेतानि नाड्यादीनि परस्परनिरपेक्षाणि भिन्नानि सुषुप्तिस्थानानि, आहोस्वित्परस्परापेक्षया एकं सुषुप्तिस्थानमिति । किं तावत्प्राप्तम् ? भिन्नानीति । कुतः ? एकार्थत्वात् — न हि एकार्थानां क्वचित्परस्परापेक्षत्वं दृश्यते व्रीहियवादीनाम् । नाड्यादीनां च एकार्थता सुषुप्तौ दृश्यते, ‘नाडीषु सृप्तो भवति’(छा. उ. ८ । ६ । ३) ‘पुरीतति शेते’(बृ. उ. २ । १ । १९) इति च तत्र तत्र सप्तमीनिर्देशस्य तुल्यत्वात् । ननु नैवं सति सप्तमीनिर्देशो दृश्यते — ‘सता सोम्य तदा सम्पन्नो भवति’(छा. उ. ६ । ८ । १) इति । नैष दोषः, तत्रापि सप्तम्यर्थस्य गम्यमानत्वात् — वाक्यशेषो हि तत्र आयतनैषी जीवः सत् उपसर्पतीत्याह — ‘अन्यत्रायतनमलब्ध्वा प्राणमेवाश्रयते’(छा. उ. ६ । ८ । २) इति; प्राणशब्देन तत्र प्रकृतस्य सत उपादानात् । आयतनं च सप्तम्यर्थः, सप्तमीनिर्देशोऽपि तत्र वाक्यशेषे दृश्यते — ‘सति सम्पद्य न विदुः सति सम्पद्यामहे’(छा. उ. ६ । ९ । २) इति । सर्वत्र च विशेषविज्ञानोपरमलक्षणं सुषुप्तं न विशिष्यते । तस्मादेकार्थत्वात् नाड्यादीनां विकल्पेन कदाचित् किञ्चित्स्थानं स्वापायोपसर्पति — इति ॥
एवं प्राप्ते, प्रतिपाद्यते — तदभावो नाडीष्वात्मनि चेति । तदभाव इति, तस्य प्रकृतस्य स्वप्नदर्शनस्य अभावः सुषुप्तमित्यर्थः । नाडीष्वात्मनि चेति समुच्चयेन एतानि नाड्यादीनि स्वापायोपसर्पति, न विकल्पेन — इत्यर्थः । कुतः ? तच्छ्रुतेः । तथा हि सर्वेषामेव नाड्यादीनां तत्र तत्र सुषुप्तिस्थानत्वं श्रूयते । तच्च समुच्चये सङ्गृहीतं भवति । विकल्पे ह्येषाम् , पक्षे बाधः स्यात् । ननु एकार्थत्वाद्विकल्पो नाड्यादीनां व्रीहियवादिवत् — इत्युक्तम्; नेत्युच्यते — न हि एकविभक्तिनिर्देशमात्रेण एकार्थत्वं विकल्पश्च आपतति, नानार्थत्वसमुच्चययोरप्येकविभक्तिनिर्देशदर्शनात् — प्रासादे शेते पर्यङ्के शेते इत्येवमादिषु, तथा इहापि नाडीषु पुरीतति ब्रह्मणि च स्वपितीति उपपद्यते समुच्चयः । तथा च श्रुतिः — ‘तासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति’(कौ. उ. ४ । १९) इति समुच्चयं नाडीनां प्राणस्य च सुषुप्तौ श्रावयति, एकवाक्योपादानात् । प्राणस्य च ब्रह्मत्वं समधिगतं — ‘प्राणस्तथानुगमात्’(ब्र. सू. १ । १ । २८) इत्यत्र । यत्रापि निरपेक्षा इव नाडीः सुप्तिस्थानत्वेन श्रावयति — ‘आसु तदा नाडीषु सृप्तो भवति’(छा. उ. ८ । ६ । ३) इति, तत्रापि प्रदेशान्तरप्रसिद्धस्य ब्रह्मणोऽप्रतिषेधात् नाडीद्वारेण ब्रह्मण्येवावतिष्ठत इति प्रतीयते । न चैवमपि नाडीषु सप्तमी विरुध्यते, नाडीद्वारापि ब्रह्मोपसर्पन् सृप्त एव नाडीषु भवति — यो हि गङ्गया सागरं गच्छति, गत एव स गङ्गायां भवति । भवति च अत्र रश्मिनाडीद्वारात्मकस्य ब्रह्मलोकमार्गस्य विवक्षितत्वात् नाडीस्तुत्यर्थं सृप्तिसङ्कीर्तनम् — ‘नाडीषु सृप्तो भवति’(छा. उ. ८ । ६ । ३) इत्युक्त्वा ‘तं न कश्चन पाप्मा स्पृशति’(छा. उ. ८ । ६ । ३) इति ब्रुवन् नाडीः प्रशंसति । ब्रवीति च पाप्मस्पर्शाभावे हेतुम् ‘तेजसा हि तदा सम्पन्नो भवति’(छा. उ. ८ । ६ । ३) इति — तेजसा नाडीगतेन पित्ताख्येन अभिव्याप्तकरणो न बाह्यान् विषयानीक्षत इत्यर्थः । अथवा तेजसेति ब्रह्मण एवायं निर्देशः, श्रुत्यन्तरे । ‘ब्रह्मैव तेज एव’(बृ. उ. ४ । ४ । ७) इति तेजःशब्दस्य ब्रह्मणि प्रयुक्तत्वात् । ब्रह्मणा हि तदा सम्पन्नो भवति नाडीद्वारेण, अतस्तं न कश्चन पाप्मा स्पृशतीत्यर्थः — ब्रह्मसम्पत्तिश्च पाप्मस्पर्शाभावे हेतुः समधिगतः ‘सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः’(छा. उ. ८ । ४ । १) इत्यादिश्रुतिभ्यः । एवं च सति प्रदेशान्तरप्रसिद्धेन ब्रह्मणा सुषुप्तिस्थानेनानुगतो नाडीनां समुच्चयः समधिगतो भवति । तथा पुरीततोऽपि ब्रह्मप्रक्रियायां सङ्कीर्तनात् तदनुगुणमेव सुषुप्तिस्थानत्वं विज्ञायते — ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते’(बृ. उ. २ । १ । १७) इति हृदयाकाशे सुषुप्तिस्थाने प्रकृते इदमुच्यते — ‘पुरीतति शेते’(बृ. उ. २ । १ । १९) इति । पुरीतदिति हृदयपरिवेष्टनमुच्यते । तदन्तर्वर्तिन्यपि हृदयाकाशे शयानः शक्यते ‘पुरीतति शेते’ इति वक्तुम् — प्राकारपरिक्षिप्तेऽपि हि पुरे वर्तमानः प्राकारे वर्तत इत्युच्यते । हृदयाकाशस्य च ब्रह्मत्वं समधिगतम् ‘दहर उत्तरेभ्यः’(ब्र. सू. १ । ३ । १४) इत्यत्र । तथा नाडीपुरीतत्समुच्चयोऽपि ‘ताभिः प्रत्यवसृप्य पुरीतति शेते’(बृ. उ. २ । १ । १९) इत्येकवाक्योपादानात् अवगम्यते । सत्प्राज्ञयोश्च प्रसिद्धमेव ब्रह्मत्वम् । एवमेतासु श्रुतिषु त्रीण्येव सुषुप्तिस्थानानि सङ्कीर्तितानि — नाड्यः पुरीतत् ब्रह्म चेति । तत्रापि द्वारमात्रं नाड्यः पुरीतच्च, ब्रह्मैव तु एकम् अनपायि सुषुप्तिस्थानम् । अपि च नाड्यः पुरीतद्वा जीवस्योपाध्याधार एव भवति — तत्रास्य करणानि वर्तन्त इति । न हि उपाधिसम्बन्धमन्तरेण स्वत एव जीवस्याधारः कश्चित्सम्भवति, ब्रह्माव्यतिरेकेण स्वमहिमप्रतिष्ठितत्वात् । ब्रह्माधारत्वमप्यस्य सुषुप्ते नैव आधाराधेयभेदाभिप्रायेण उच्यते । कथं तर्हि ? तादात्म्याभिप्रायेण; यत आह — ‘सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति’(छा. उ. ६ । ८ । १) इति; स्वशब्देन आत्मा अभिलप्यते, स्वरूपमापन्नः सुप्तो भवतीत्यर्थः । अपि च न कदाचिज्जीवस्य ब्रह्मणा सम्पत्तिर्नास्ति, स्वरूपस्यानपायित्वात् । स्वप्नजागरितयोस्तूपाधिसम्पर्कवशात् पररूपापत्तिमिवापेक्ष्य तदुपशमात्सुषुप्ते स्वरूपापत्तिर्विवक्ष्यते — ‘स्वमपीतो भवति’ इति । अतश्च सुषुप्तावस्थायां कदाचित्सता सम्पद्यते, कदाचिन्न सम्पद्यते — इत्ययुक्तम् । अपि च स्थानविकल्पाभ्युपगमेऽपि विशेषविज्ञानोपशमलक्षणं तावत्सुषुप्तं न क्वचिद्विशिष्यते । तत्र सति सम्पन्नस्तावत् एकत्वात् न विजानातीति युक्तम् , ‘तत्केन कं विजानीयात्’(छा. उ. २ । ४ । १४) इति श्रुतेः । नाडीषु पुरीतति च शयानस्य न किञ्चित् अविज्ञाने कारणं शक्यं विज्ञातुम् , भेदविषयत्वात् , ‘यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्’(बृ. उ. ४ । ३ । ३१) इति श्रुतेः । ननु भेदविषयस्याप्यतिदूरादिकारणमविज्ञाने स्यात्; बाढमेवं स्यात् , यदि जीवः स्वतः परिच्छिन्नोऽभ्युपगम्येत — यथा विष्णुमित्रः प्रवासी स्वगृहं न पश्यतीति । न तु जीवस्योपाधिव्यतिरेकेण परिच्छेदो विद्यते । उपाधिगतमेवातिदूरादिकारणम् अविज्ञाने इति यद्युच्येत, तथाप्युपाधेरुपशान्तत्वात् सत्येव सम्पन्नः न विजानातीति युक्तम् । न च वयमिह तुल्यवत् नाड्यादिसमुच्चयं प्रतिपादयामः । न हि नाड्यः सुप्तिस्थानं पुरीतच्च इत्यनेन विज्ञानेन किञ्चित्प्रयोजनमस्ति । न ह्येतद्विज्ञानप्रतिबद्धं किञ्चित्फलं श्रूयते । नाप्येतद्विज्ञानं फलवतः कस्यचिदङ्गमुपदिश्यते । ब्रह्म तु अनपायि सुप्तिस्थानम् — इत्येतत्प्रतिपादयामः । तेन तु विज्ञानेन प्रयोजनमस्ति जीवस्य ब्रह्मात्मत्वावधारणं स्वप्नजागरितव्यवहारविमुक्तत्वावधारणं च । तस्मादात्मैव सुप्तिस्थानम् ॥ ७ ॥
अतः प्रबोधोऽस्मात् ॥ ८ ॥
८यस्माच्च आत्मैव सुप्तिस्थानम् , अत एव च कारणात् नित्यवदेव अस्मादात्मनः प्रबोधः स्वापाधिकारे शिष्यते, ‘कुत एतदागात्’(बृ. उ. २ । १ । १६) इत्यस्य प्रश्नस्य प्रतिवचनावसरे — ‘यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः’(बृ. उ. २ । १ । २०) इत्यादिना, ‘सत आगम्य न विदुः सत आगच्छामहे’(छा. उ. ६ । १० । २) इति च । विकल्प्यमानेषु तु सुषुप्तिस्थानेषु, कदाचिन्नाडीभ्यः प्रतिबुध्यते कदाचित्पुरीततः कदाचिदात्मनः — इत्यशासिष्यत् । तस्मादप्यात्मैव सुप्तिस्थानमिति ॥ ८ ॥
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥
९तस्याः पुनः सत्सम्पत्तेः प्रतिबुध्यमानः किं य एव सत्सम्पन्नः स एव प्रतिबुध्यते, उत स वा अन्यो वा इति चिन्त्यते । तत्र प्राप्तं तावत् — अनियम इति । कुतः ? यदा हि जलराशौ कश्चिज्जलबिन्दुः प्रक्षिप्यते, जलराशिरेव स तदा भवति, पुनरुद्धरणे च स एव जलबिन्दुर्भवति इति दुःसम्पादम् — तद्वत् सुप्तः परेणैकत्वमापन्नः सम्प्रसीदतीति न स एव पुनरुत्थातुमर्हति; तस्मात् स एव ईश्वरो वा अन्यो वा जीवः प्रतिबुध्यते इति ॥
एवं प्राप्ते, इदमाह — स एव तु जीवः सुप्तः स्वास्थ्यं गतः पुनरुत्तिष्ठति, नान्यः । कस्मात् ? कर्मानुस्मृतिशब्दविधिभ्यः । विभज्य हेतुं दर्शयिष्यामि । कर्मशेषानुष्ठानदर्शनात्तावत्स एवोत्थातुमर्हति नान्यः । तथा हि — पूर्वेद्युरनुष्ठितस्य कर्मणः अपरेद्युः शेषमनुतिष्ठन्दृश्यते । न चान्येन सामिकृतस्य कर्मणः अन्यः शेषक्रियायां प्रवर्तितुमुत्सहते, अतिप्रसङ्गात् । तस्मादेक एव पूर्वेद्युरपरेद्युश्च एकस्य कर्मणः कर्तेति गम्यते । इतश्च स एवोत्तिष्ठति, यत्कारणम् अतीतेऽहनि अहमदोऽद्राक्षमिति पूर्वानुभूतस्य पश्चात्स्मरणम् अन्यस्योत्थाने नोपपद्यते । न ह्यन्यदृष्टम् अन्योऽनुस्मर्तुमर्हति । सोऽहमस्मीति च आत्मानुस्मरणमात्मान्तरोत्थाने नावकल्पते । शब्देभ्यश्च तस्यैवोत्थानमवगम्यते । तथा हि — ‘पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव’(बृ. उ. ४ । ३ । १६) ‘इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’(छा. उ. ८ । ३ । २) ‘त इह व्याघ्रो वा सिꣳहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दꣳशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति’(छा. उ. ६ । ९ । ३) इत्येवमादयः शब्दाः स्वापप्रबोधाधिकारपठिता न आत्मान्तरोत्थाने सामञ्जस्यम् ईयुः । कर्मविद्याविधिभ्यश्चैवमेवावगम्यते । अन्यथा हि कर्मविद्याविधयोऽनर्थकाः स्युः । अन्योत्थानपक्षे हि सुप्तमात्रो मुच्यत इत्यापद्येत । एवं चेत्स्यात् , वद किं कालान्तरफलेन कर्मणा विद्यया वा कृतं स्यात् ? अपि च अन्योत्थानपक्षे यदि तावच्छरीरान्तरे व्यवहरमाणो जीव उत्तिष्ठेत् , तत्रत्यव्यवहारलोपप्रसङ्गः स्यात् । अथ तत्र सुप्त उत्तिष्ठेत् , कल्पनानर्थक्यं स्यात् । यो हि यस्मिन् शरीरे सुप्तः सः तस्मिन् नोत्तिष्ठति, अन्यस्मिन् शरीरे सुप्तः अन्यस्मिन्नुत्तिष्ठतीति कोऽस्याम् कल्पनायां लाभः स्यात् ? अथ मुक्त उत्तिष्ठेत् , अन्तवान्मोक्ष आपद्येत । निवृत्ताविद्यस्य च पुनरुत्थानमनुपपन्नम् । एतेन ईश्वरस्योत्थानं प्रत्युक्तम् , नित्यनिवृत्ताविद्यत्वात् । अकृताभ्यागमकृतविप्रणाशौ च दुर्निवारावन्योत्थानपक्षे स्याताम् । तस्मात्स एवोत्तिष्ठति, नान्य इति । यत्पुनरुक्तम् — यथा जलराशौ प्रक्षिप्तो जलबिन्दुर्नोद्धर्तुं शक्यते, एवं सति सम्पन्नो जीवो नोत्पतितुमर्हतीति, तत्परिह्रियते — युक्तं तत्र विवेककारणाभावात् जलबिन्दोरनुद्धरणम् , इह तु विद्यते विवेककारणम् — कर्म च अविद्या च, इति वैषम्यम् । दृश्यते च दुर्विवेचनयोरप्यस्मज्जातीयैः क्षीरोदकयोः संसृष्टयोः हंसेन विवेचनम् । अपि च न जीवो नाम कश्चित्परस्मादन्यो विद्यते, यो जलबिन्दुरिव जलराशेः सतो विविच्येत । सदेव तु उपाधिसम्पर्काज्जीव इत्युपचर्यते इत्यसकृत्प्रपञ्चितम् । एवं सति यावदेकोपाधिगता बन्धानुवृत्तिः, तावदेकजीवव्यवहारः । उपाध्यन्तरगतायां तु बन्धानुवृत्तौ जीवान्तरव्यवहारः । स एवायमुपाधिः स्वापप्रबोधयोः बीजाङ्कुरन्यायेन — इत्यतः स एव जीवः प्रतिबुध्यत इति युक्तम् ॥ ९ ॥
मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥
१०अस्ति मुग्धो नाम, यं मूर्छित इति लौकिकाः कथयन्ति । स तु किमवस्थ इति परीक्षायाम् , उच्यते — तिस्रस्तावदवस्थाः शरीरस्थस्य जीवस्य प्रसिद्धाः — जागरितं स्वप्नः सुषुप्तमिति । चतुर्थी शरीरादपसृप्तिः । न तु पञ्चमी काचिदवस्था जीवस्य श्रुतौ स्मृतौ वा प्रसिद्धा अस्ति । तस्माच्चतसृणामेवावस्थानामन्यतमावस्था मूर्छा — इति ॥
एवं प्राप्ते, ब्रूमः — न तावन्मुग्धो जागरितावस्थो भवितुमर्हति । न ह्ययमिन्द्रियैर्विषयानीक्षते । स्यादेतत् — इषुकारन्यायेन मुग्धो भविष्यति — यथा इषुकारो जाग्रदपि इष्वासक्तमनस्तया नान्यान्विषयानीक्षते, एवं मुग्धो मुसलसम्पातादिजनितदुःखानुभवव्यग्रमनस्तया जाग्रदपि नान्यान्विषयानीक्षत इति; न, अचेतयमानत्वात् । इषुकारो हि व्यापृतमना ब्रवीति — इषुमेवाहमेतावन्तं कालमुपलभमानोऽभूवमिति, मुग्धस्तु लब्धसंज्ञो ब्रवीति — अन्धे तमस्यहमेतावन्तं कालं प्रक्षिप्तोऽभूवम् , न किञ्चिन्मया चेतितमिति । जाग्रतश्चैकविषयविषक्तचेतसोऽपि देहो विध्रियते । मुग्धस्य तु देहो धरण्यां पतति । तस्मात् न जागर्ति । नापि स्वप्नान्पश्यति, निःसंज्ञत्वात् । नापि मृतः, प्राणोष्मणोर्भावात् — मुग्धे हि जन्तौ मृतोऽयं स्यान्न वा मृत इति संशयानाः, ऊष्मास्ति नास्तीति हृदयदेशमालभन्ते निश्चयार्थम् , प्राणोऽस्ति नास्तीति च नासिकादेशम् । यदि प्राणोष्मणोरस्तित्वं नावगच्छन्ति, ततो मृतोऽयमित्यध्यवसाय दहनायारण्यं नयन्ति । अथ तु प्राणमूष्माणं वा प्रतिपद्यन्ते, ततो नायं मृत इत्यध्यवसाय संज्ञालाभाय भिषज्यन्ति । पुनरुत्थानाच्च न दिष्टं गतः । न हि यमराष्ट्रात्प्रत्यागच्छति । अस्तु तर्हि सुषुप्तः, निःसंज्ञत्वात् , अमृतत्वाच्च; न, वैलक्षण्यात् — मुग्धः कदाचिच्चिरमपि नोच्छ्वसिति, सवेपथुरस्य देहो भवति, भयानकं च वदनम् , विस्फारिते नेत्रे । सुषुप्तस्तु प्रसन्नवदनस्तुल्यकालं पुनः पुनरुच्छ्वसिति, निमीलिते अस्य नेत्रे भवतः, न चास्य देहो वेपते । पाणिपेषणमात्रेण च सुषुप्तमुत्थापयन्ति, न तु मुग्धं मुद्गरघातेनापि । निमित्तभेदश्च भवति मोहस्वापयोः — मुसलसम्पातादिनिमित्तत्वान्मोहस्य, श्रमादिनिमित्तत्वाच्च स्वापस्य । न च लोकेऽस्ति प्रसिद्धिः — मुग्धः सुप्तः इति । परिशेषादर्धसम्पत्तिर्मुग्धतेत्यवगच्छामः — निःसंज्ञत्वात् सम्पन्नः, इतरस्माच्च वैलक्षण्यादसम्पन्नः इति ॥
कथं पुनरर्धसम्पत्तिर्मुग्धतेति शक्यते वक्तुम् ? यावता सुषुप्तं प्रति तावदुक्तं श्रुत्या — ‘सता सोम्य तदा सम्पन्नो भवति’(छा. उ. ६ । ८ । १) इति, ‘अत्र स्तेनोऽस्तेनो भवति’(बृ. उ. ४ । ३ । २२) ‘नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम्’(छा. उ. ८ । ४ । १) इत्यादि । जीवे हि सुकृतदुष्कृतयोः प्राप्तिः सुखित्वदुःखित्वप्रत्ययोत्पादनेन भवति । न च सुखित्वप्रत्ययो दुःखित्वप्रत्ययो वा सुषुप्ते विद्यते । मुग्धेऽपि तौ प्रत्ययौ नैव विद्येते । तस्मात् उपाध्युपशमात् सुषुप्तवन्मुग्धेऽपि कृत्स्नसम्पत्तिरेव भवितुमर्हति, नार्धसम्पत्तिरिति । अत्रोच्यते — न ब्रूमः — मुग्धेऽर्धसम्पत्तिर्जीवस्य ब्रह्मणा भवतीति । किं तर्हि ? अर्धेन सुषुप्तपक्षस्य भवति मुग्धत्वम् , अर्धेनावस्थान्तरपक्षस्य — इति ब्रूमः । दर्शिते च मोहस्य स्वापेन साम्यवैषम्ये । द्वारं चैतत् मरणस्य । यदास्य सावशेषं कर्म भवति, तदा वाङ्मनसे प्रत्यागच्छतः । यदा तु निरवशेषं कर्म भवति, तदा प्राणोष्माणावपगच्छतः । तस्मादर्धसम्पत्तिं ब्रह्मविद इच्छन्ति । यत्तूक्तम् — न पञ्चमी काचिदवस्था प्रसिद्धास्तीति, नैष दोषः; कादाचित्कीयमवस्थेति न प्रसिद्धा स्यात् । प्रसिद्धा चैषा लोकायुर्वेदयोः । अर्धसम्पत्त्यभ्युपगमाच्च न पञ्चमी गण्यत इत्यनवद्यम् ॥ १० ॥
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥
११येन ब्रह्मणा सुषुप्त्यादिषु जीव उपाध्युपशमात्सम्पद्यते, तस्येदानीं स्वरूपं श्रुतिवशेन निर्धार्यते । सन्त्युभयलिङ्गाः श्रुतयो ब्रह्मविषयाः — ‘सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः’(छा. उ. ३ । १४ । २) इत्येवमाद्याः सविशेषलिङ्गाः; ‘अस्थूलमनण्वह्रस्वमदीर्घम्’(बृ. उ. ३ । ८ । ८) इत्येवमाद्याश्च निर्विशेषलिङ्गाः । किमासु श्रुतिषु उभयलिङ्गं ब्रह्म प्रतिपत्तव्यम् , उतान्यतरलिङ्गम् । यदाप्यन्यतरलिङ्गम् , तदापि सविशेषम् , उत निर्विशेषम् — इति मीमांस्यते । तत्र उभयलिङ्गश्रुत्यनुग्रहात् उभयलिङ्गमेव ब्रह्म इत्येवं प्राप्ते ब्रूमः — न तावत्स्वत एव परस्य ब्रह्मण उभयलिङ्गत्वमुपपद्यते । न हि एकं वस्तु स्वत एव रूपादिविशेषोपेतं तद्विपरीतं च इत्यवधारयितुं शक्यम् , विरोधात् । अस्तु तर्हि स्थानतः, पृथिव्याद्युपाधियोगादिति । तदपि नोपपद्यते — न हि उपाधियोगादप्यन्यादृशस्य वस्तुनोऽन्यादृशः स्वभावः सम्भवति । न हि स्वच्छः सन् स्फटिकः अलक्तकाद्युपाधियोगादस्वच्छो भवति, भ्रममात्रत्वादस्वच्छताभिनिवेशस्य । उपाधीनां च अविद्याप्रत्युपस्थापितत्वात् । अतश्च अन्यतरलिङ्गपरिग्रहेऽपि समस्तविशेषरहितं निर्विकल्पकमेव ब्रह्म प्रतिपत्तव्यम् , न तद्विपरीतम् । सर्वत्र हि ब्रह्मस्वरूपप्रतिपादनपरेषु वाक्येषु ‘अशब्दमस्पर्शमरूपमव्ययम्’(क. उ. १ । ३ । १५) , इत्येवमादिषु अपास्तसमस्तविशेषमेव ब्रह्म उपदिश्यते ॥ ११ ॥
न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ १२ ॥
१२अथापि स्यात् — यदुक्तम् , निर्विकल्पमेकलिङ्गमेव ब्रह्म नास्य स्वतः स्थानतो वा उभयलिङ्गत्वमस्तीति, तन्नोपपद्यते । कस्मात् ? भेदात् । भिन्ना हि प्रतिविद्यं ब्रह्मण आकारा उपदिश्यन्ते, चतुष्पात् ब्रह्म, षोडशकलं ब्रह्म, वामनीत्वादिलक्षणं ब्रह्म, त्रैलोक्यशरीरवैश्वानरशब्दोदितं ब्रह्म, इत्येवंजातीयकाः । तस्मात् सविशेषत्वमपि ब्रह्मणोऽभ्युपगन्तव्यम् । ननु उक्तं नोभयलिङ्गत्वं ब्रह्मणः सम्भवतीति; अयमप्यविरोधः, उपाधिकृतत्वादाकारभेदस्य । अन्यथा हि निर्विषयमेव भेदशास्त्रं प्रसज्येत — इति चेत् , नेति ब्रूमः । कस्मात् ? प्रत्येकमतद्वचनात् । प्रत्युपाधिभेदं हि अभेदमेव ब्रह्मणः श्रावयति शास्त्रम् — ‘यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मꣳ शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा’(बृ. उ. २ । ५ । १) इत्यादि । अतश्च न भिन्नाकारयोगो ब्रह्मणः शास्त्रीय इति शक्यते वक्तुम् , भेदस्य उपासनार्थत्वात् , अभेदे तात्पर्यात् ॥ १२ ॥
अपि चैवमेके ॥ १३ ॥
१३अपि चैवं भेददर्शननिन्दापूर्वकम् अभेददर्शनमेव एके शाखिनः समामनन्ति — ‘मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन ।’(क. उ. २ । १ । ११) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’(क. उ. २ । १ । १०) इति । तथान्येऽपि — ‘भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म मे तत्’(श्वे. उ. १ । १२) इति समस्तस्य भोग्यभोक्तृनियन्तृलक्षणस्य प्रपञ्चस्य ब्रह्मैकस्वभावतामधीयते ॥ १३ ॥
कथं पुनः आकारवदुपदेशिनीषु अनाकारोपदेशिनीषु च ब्रह्मविषयासु श्रुतिषु सतीषु, अनाकारमेव ब्रह्म अवधार्यते, न पुनर्विपरीतम् इत्यत उत्तरं पठति —
अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥
१४रूपाद्याकाररहितमेव ब्रह्म अवधारयितव्यम् , न रूपादिमत् । कस्मात् ? तत्प्रधानत्वात्; ‘अस्थूलमनण्वह्रस्वमदीर्घम्’(बृ. उ. ३ । ८ । ८) ‘अशब्दमस्पर्शमरूपमव्ययम्’(क. उ. १ । ३ । १५) , , ‘आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’(छा. उ. ८ । १४ । १) ‘दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः’(मु. उ. २ । १ । २) ‘तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूः’(बृ. उ. २ । ५ । १९) इत्येवमादीनि वाक्यानि, निष्प्रपञ्चब्रह्मात्मतत्त्वप्रधानानि, न अर्थान्तरप्रधानानि — इत्येतत्प्रतिष्ठापितम् ‘तत्तु समन्वयात्’(ब्र. सू. १ । १ । ४) इत्यत्र । तस्मादेवंजातीयकेषु वाक्येषु यथाश्रुतं निराकारमेव ब्रह्म अवधारयितव्यम् । इतराणि तु आकारवद्ब्रह्मविषयाणि वाक्यानि न तत्प्रधानानि । उपासनाविधिप्रधानानि हि तानि । तेष्वसति विरोधे यथाश्रुतमाश्रयितव्यम् । सति तु विरोधे तत्प्रधानानि अतत्प्रधानेभ्यो बलीयांसि भवन्ति — इत्येष विनिगमनायां हेतुः, येन उभयीष्वपि श्रुतिषु सतीषु अनाकारमेव ब्रह्म अवधार्यते, न पुनर्विपरीतमिति ॥ १४ ॥
का तर्ह्याकारवद्विषयाणां श्रुतीनां गतिः इत्यत आह —
प्रकाशवच्चावैयर्थ्यात् ॥ १५ ॥
१५यथा प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्य अवतिष्ठमानः अङ्गुल्याद्युपाधिसम्बन्धात् तेषु ऋजुवक्रादिभावं प्रतिपद्यमानेषु तद्भावमिव प्रतिपद्यते, एवं ब्रह्मापि पृथिव्याद्युपाधिसम्बन्धात् तदाकारतामिव प्रतिपद्यते । तदालम्बनो ब्रह्मण आकारविशेषोपदेश उपासनार्थो न विरुध्यते । एवम् अवैयर्थ्यम् आकारवद्ब्रह्मविषयाणामपि वाक्यानां भविष्यति । न हि वेदवाक्यानां कस्यचिदर्थवत्त्वम् कस्यचिदनर्थवत्त्वमिति युक्तं प्रतिपत्तुम् , प्रमाणत्वाविशेषात् । नन्वेवमपि यत्पुरस्तात्प्रतिज्ञातम् — नोपाधियोगादप्युभयलिङ्गत्वं ब्रह्मणोऽस्तीति, तद्विरुध्यते; नेति ब्रूमः — उपाधिनिमित्तस्य वस्तुधर्मत्वानुपपत्तेः । उपाधीनां च अविद्याप्रत्युपस्थापितत्वात् । सत्यामेव च नैसर्गिक्यामविद्यायां लोकवेदव्यवहारावतार इति तत्र तत्र अवोचाम ॥ १५ ॥
आह च तन्मात्रम् ॥ १६ ॥
१६आह च श्रुतिः चैतन्यमात्रं विलक्षणरूपान्तररहितं निर्विशेषं ब्रह्म — ‘स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव’(बृ. उ. ४ । ५ । १३) इति । एतदुक्तं भवति — नास्य आत्मनोऽन्तर्बहिर्वा चैतन्यादन्यद्रूपमस्ति, चैतन्यमेव तु निरन्तरमस्य स्वरूपम् — यथा सैन्धवघनस्यान्तर्बहिश्च लवणरस एव निरन्तरो भवति, न रसान्तरम् , तथैवेति ॥ १६ ॥
दर्शयति चाथो अपि स्मर्यते ॥ १७ ॥
१७दर्शयति च श्रुतिः पररूपप्रतिषेधेनैव ब्रह्म — निर्विशेषत्वात् — ‘अथात आदेशो नेति नेति’(बृ. उ. २ । ३ । ६) ‘अन्यदेव तद्विदितादथो अविदितादधि’(के. उ. १ । ४) ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’(तै. उ. २ । ४ । १) इत्येवमाद्या । बाष्कलिना च बाध्वः पृष्टः सन् अवचनेनैव ब्रह्म प्रोवाचेति श्रूयते — ‘स होवाचाधीहि भो इति स तूष्णीं बभूव तं ह द्वितीये तृतीये वा वचन उवाच ब्रूमः खलु त्वं तु न विजानासि । उपशान्तोऽयमात्मा’ इति । तथा स्मृतिष्वपि परप्रतिषेधेनैवोपदिश्यते — ‘ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते’(भ. गी. १३ । १२) इत्येवमाद्यासु । तथा विश्वरूपधरो नारायणो नारदमुवाचेति स्मर्यते — ‘माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।’(म. भा. १२ । ३३९ । ४५) ‘सर्वभूतगुणैर्युक्तं नैवं मां ज्ञातुमर्हसि’(म. भा. १२ । ३३९ । ४६) इति ॥ १७ ॥
अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥
१८यत एव च अयमात्मा चैतन्यरूपो निर्विशेषो वाङ्मनसातीतः परप्रतिषेधोपदेश्यः, अत एव च अस्योपाधिनिमित्तामपारमार्थिकीं विशेषवत्तामभिप्रेत्य जलसूर्यकादिवदित्युपमा उपादीयते मोक्षशास्त्रेषु — ‘यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा’ इति, ‘एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्’(ब्र. बिं. १२) इति चैवमादिषु ॥ १८ ॥
अत्र प्रत्यवस्थीयते —
अम्बुवदग्रहणात्तु न तथात्वम् ॥ १९ ॥
१९न जलसूर्यकादितुल्यत्वमिहोपपद्यते, तद्वदग्रहणात् । सूर्यादिभ्यो हि मूर्तेभ्यः पृथग्भूतं विप्रकृष्टदेशं मूर्तं जलं गृह्यते । तत्र युक्तः सूर्यादिप्रतिबिम्बोदयः । न तु आत्मा मूर्तः, न चास्मात्पृथग्भूता विप्रकृष्टदेशाश्चोपाधयः, सर्वगतत्वात् सर्वानन्यत्वाच्च । तस्मादयुक्तोऽयं दृष्टान्त इति ॥ १९ ॥
अत्र प्रतिविधीयते —
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॥ २० ॥
२०युक्त एव तु अयं दृष्टान्तः, विवक्षितांशसम्भवात् । न हि दृष्टान्तदार्ष्टान्तिकयोः क्वचित् कञ्चित् विवक्षितमंशं मुक्त्वा सर्वसारूप्यं केनचित् दर्शयितुं शक्यते । सर्वसारूप्ये हि दृष्टान्तदार्ष्टान्तिकभावोच्छेद एव स्यात् । न चेदं स्वमनीषया जलसूर्यकादिदृष्टान्तप्रणयनम् । शास्त्रप्रणीतस्य तु अस्य प्रयोजनमात्रमुपन्यस्यते । किं पुनरत्र विवक्षितं सारूप्यमिति, तदुच्यते — वृद्धिह्रासभाक्त्वमिति । जलगतं हि सूर्यप्रतिबिम्बं जलवृद्धौ वर्धते, जलह्रासे ह्रसति, जलचलने चलति, जलभेदे भिद्यते — इत्येवं जलधर्मानुविधायि भवति, न तु परमार्थतः सूर्यस्य तथात्वमस्ति । एवं परमार्थतोऽविकृतमेकरूपमपि सत् ब्रह्म देहाद्युपाध्यन्तर्भावात् भजत इवोपाधिधर्मान्वृद्धिह्रासादीन् । एवमुभयोर्दृष्टान्तदार्ष्टान्तिकयोः सामञ्जस्यादविरोधः ॥ २० ॥
दर्शनाच्च ॥ २१ ॥
२१दर्शयति च श्रुतिः परस्यैव ब्रह्मणो देहादिषूपाधिष्वन्तरनुप्रवेशम् — ‘पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशत्’(बृ. उ. २ । ५ । १८) इति; ‘अनेन जीवेनात्मनानुप्रविश्य’(छा. उ. ६ । ३ । २) इति च । तस्माद्युक्तमेतत् ‘अत एव चोपमा सूर्यकादिवत्’(ब्र. सू. ३ । २ । १८) इति । तस्मात् निर्विकल्पकैकलिङ्गमेव ब्रह्म, न उभयलिङ्गं विपरीतलिङ्गं वा इति सिद्धम् ॥
अत्र केचित् द्वे अधिकरणे कल्पयन्ति — प्रथमं तावत् किं प्रत्यस्तमिताशेषप्रपञ्चमेकाकारं ब्रह्म, उत प्रपञ्चवदनेकाकारोपेतमिति । द्वितीयं तु स्थिते प्रत्यस्तमितप्रपञ्चत्वे किं सल्लक्षणं ब्रह्म, उत बोधलक्षणम् , उत उभयलक्षणमिति । अत्र वयं वदामः — सर्वथाप्यानर्थक्यमधिकरणान्तरारम्भस्येति । यदि तावदनेकलिङ्गत्वं परस्य ब्रह्मणो निराकर्तव्यमित्ययं प्रयासः, तत् पूर्वेणैव ‘न स्थानतोऽपि’ इत्यनेनाधिकरणेन निराकृतमिति, उत्तरमधिकरणम् ‘प्रकाशवच्च’ इत्येतद्व्यर्थमेव भवेत् । न च सल्लक्षणमेव ब्रह्म न बोधलक्षणम् — इति शक्यं वक्तुम् , ‘विज्ञानघन एव’ इत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् । कथं वा निरस्तचैतन्यं ब्रह्म चेतनस्य जीवस्यात्मत्वेनोपदिश्येत । नापि बोधलक्षणमेव ब्रह्म न सल्लक्षणम् — इति शक्यं वक्तुम् , ‘अस्तीत्येवोपलब्धव्यः’(क. उ. २ । ३ । १३) इत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् । कथं वा निरस्तसत्ताको बोधोऽभ्युपगम्येत । नाप्युभयलक्षणमेव ब्रह्म — इति शक्यं वक्तुम् , पूर्वाभ्युपगमविरोधप्रसङ्गात् । सत्ताव्यावृत्तेन च बोधेन बोधव्यावृत्तया च सत्तया उपेतं ब्रह्म प्रतिजानानस्य तदेव पूर्वाधिकरणप्रतिषिद्धं सप्रपञ्चत्वं प्रसज्येत । श्रुतत्वाददोष इति चेत् , न, एकस्य अनेकस्वभावत्वानुपपत्तेः । अथ सत्तैव बोधः, बोध एव च सत्ता, नानयोः परस्परव्यावृत्तिरस्तीति यद्युच्येत, तथापि किं सल्लक्षणं ब्रह्म, उत बोधलक्षणम् , उतोभयलक्षणम् — इत्ययं विकल्पो निरालम्बन एव स्यात् । सूत्राणि त्वेकाधिकरणत्वेनैवास्माभिर्नीतानि । अपि च ब्रह्मविषयासु श्रुतिषु आकारवदनाकारप्रतिपादनेन विप्रतिपन्नासु, अनाकारे ब्रह्मणि परिगृहीते, अवश्यं वक्तव्या इतरासां श्रुतीनां गतिः । तादर्थ्येन ‘प्रकाशवच्च’ इत्यादीनि सूत्राण्यर्थवत्तराणि सम्पद्यन्ते ॥
यदप्याहुः — आकारवादिन्योऽपि श्रुतयः प्रपञ्चप्रविलयमुखेन अनाकारप्रतिपत्त्यर्था एव, न पृथगर्था इति, तदपि न समीचीनमिव लक्ष्यते । कथम् ? ये हि परविद्याधिकारे केचित्प्रपञ्चा उच्यन्ते, यथा — ‘युक्ता ह्यस्य हरयः शता दशेति । अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च’(बृ. उ. २ । ५ । १९) इत्येवमादयः — ते भवन्ति प्रविलयार्थाः; ‘तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्’(बृ. उ. २ । ५ । १९) इत्युपसंहारात् । ये पुनरुपासनाधिकारे प्रपञ्चा उच्यन्ते, यथा — ‘मनोमयः प्राणशरीरो भारूपः’(छा. उ. ३ । १४ । २) इत्येवमादयः — न तेषां प्रविलयार्थत्वं न्याय्यम्; ‘स क्रतुं कुर्वीत’(छा. उ. ३ । १४ । १) इत्येवंजातीयकेन प्रकृतेनैव उपासनविधिना तेषां सम्बन्धात् । श्रुत्या च एवंजातीयकानां गुणानामुपासनार्थत्वेऽवकल्पमाने न लक्षणया प्रविलयार्थत्वमवकल्पते । सर्वेषां च साधारणे प्रविलयार्थत्वे सति ‘अरूपवदेव हि तत्प्रधानत्वात्’(ब्र. सू. ३ । २ । १४) इति विनिगमनकारणवचनम् अनवकाशं स्यात् । फलमप्येषां यथोपदेशं क्वचिद्दुरितक्षयः, क्वचिदैश्वर्यप्राप्तिः, क्वचित्क्रममुक्तिरित्यवगम्यत एव — इत्यतः पार्थगर्थ्यमेव उपासनावाक्यानां ब्रह्मवाक्यानां च न्याय्यम् , न एकवाक्यत्वम् ॥
कथं च एषामेकवाक्यतोत्प्रेक्ष्यत इति वक्तव्यम् । एकनियोगप्रतीतेः, प्रयाजदर्शपूर्णमासवाक्यवदिति चेत् , न, ब्रह्मवाक्येषु नियोगाभावात् — वस्तुमात्रपर्यवसायीनि हि ब्रह्मवाक्यानि, न नियोगोपदेशीनि इत्येतद्विस्तरेण प्रतिष्ठापितम् ‘तत्तु समन्वयात्’(ब्र. सू. १ । १ । ४) इत्यत्र । किंविषयश्चात्र नियोगोऽभिप्रेयत इति वक्तव्यम् । पुरुषो हि नियुज्यमानः ‘कुरु’ इति स्वव्यापारे कस्मिंश्चिन्नियुज्यते । ननु द्वैतप्रपञ्चप्रविलयो नियोगविषयो भविष्यति — अप्रविलापिते हि द्वैतप्रपञ्चे ब्रह्मतत्त्वावबोधो न भवत्यतो ब्रह्मतत्त्वावबोधप्रत्यनीकभूतो द्वैतप्रपञ्चः प्रविलाप्यः — यथा स्वर्गकामस्य यागोऽनुष्ठातव्य उपदिश्यते, एवमपवर्गकामस्य प्रपञ्चप्रविलयः; यथा च तमसि व्यवस्थितं घटादितत्त्वमवबुभुत्समानेन तत्प्रत्यनीकभूतं तमः प्रविलाप्यते, एवं ब्रह्मतत्त्वमवबुभुत्समानेन तत्प्रत्यनीकभूतः प्रपञ्चः प्रविलापयितव्यः — ब्रह्मस्वभावो हि प्रपञ्चः, न प्रपञ्चस्वभावं ब्रह्म; तेन नामरूपप्रपञ्चप्रविलापनेन ब्रह्मतत्त्वावबोधो भवति — इति । अत्र वयं पृच्छामः — कोऽयं प्रपञ्चप्रविलयो नाम ? किमग्निप्रतापसम्पर्कात् घृतकाठिन्यप्रविलय इव प्रपञ्चप्रविलयः कर्तव्यः, आहोस्विदेकस्मिंश्चन्द्रे तिमिरकृतानेकचन्द्रप्रपञ्चवत् अविद्याकृतो ब्रह्मणि नामरूपप्रपञ्चो विद्यया प्रविलापयितव्यः — इति । तत्र यदि तावद्विद्यमानोऽयं प्रपञ्चः देहादिलक्षण आध्यात्मिकः बाह्यश्च पृथिव्यादिलक्षणः प्रविलापयितव्य इत्युच्यते, स पुरुषमात्रेणाशक्यः प्रविलापयितुमिति तत्प्रविलयोपदेशोऽशक्यविषय एव स्यात् । एकेन च आदिमुक्तेन पृथिव्यादिप्रविलयः कृत इति इदानीं पृथिव्यादिशून्यं जगदभविष्यत् । अथ अविद्याध्यस्तो ब्रह्मण्येकस्मिन् अयं प्रपञ्चो विद्यया प्रविलाप्यत इति ब्रूयात् , ततो ब्रह्मैव अविद्याध्यस्तप्रपञ्चप्रत्याख्यानेन आवेदयितव्यम् — ‘एकमेवाद्वितीयं ब्रह्म’ ‘तत्सत्यꣳ स आत्मा तत्त्वमसि’(छा. उ. ६ । ८ । ७) इति — तस्मिन्नावेदिते, विद्या स्वयमेवोत्पद्यते, तया च अविद्या बाध्यते, ततश्च अविद्याध्यस्तः सकलोऽयं नामरूपप्रपञ्चः स्वप्नप्रपञ्चवत् प्रविलीयते — अनावेदिते तु ब्रह्मणि ‘ब्रह्मविज्ञानं कुरु प्रपञ्चप्रविलयं च’ इति शतकृत्वोऽप्युक्ते न ब्रह्मविज्ञानं प्रपञ्चप्रविलयो वा जायते । नन्वावेदिते ब्रह्मणि तद्विज्ञानविषयः प्रपञ्चविलयविषयो वा नियोगः स्यात्; न, निष्प्रपञ्चब्रह्मात्मत्वावेदनेनैव उभयसिद्धेः — रज्जुस्वरूपप्रकाशनेनैव हि तत्स्वरूपविज्ञानम् अविद्याध्यस्तसर्पादिप्रपञ्चप्रविलयश्च भवति । न च कृतमेव पुनः क्रियते ॥
नियोज्योऽपि च प्रपञ्चावस्थायां योऽवगम्यते जीवो नाम, स प्रपञ्चपक्षस्यैव वा स्यात् , ब्रह्मपक्षस्यैव वा । प्रथमे विकल्पे निष्प्रपञ्चब्रह्मतत्त्वप्रतिपादनेन पृथिव्यादिवत् जीवस्यापि प्रविलापितत्वात् कस्य प्रपञ्चप्रविलये नियोग उच्येत कस्य वा नियोगनिष्ठतया मोक्षोऽवाप्तव्य उच्येत ? द्वितीयेऽपि ब्रह्मैव अनियोज्यस्वभावं जीवस्य स्वरूपम् , जीवत्वं तु अविद्याकृतमेव — इति प्रतिपादिते ब्रह्मणि नियोज्याभावात् नियोगाभाव एव । द्रष्टव्यादिशब्दा अपि परविद्याधिकारपठिताः तत्त्वाभिमुखीकरणप्रधानाः, न तत्त्वावबोधविधिप्रधाना भवन्ति । लोकेऽपि — इदं पश्य, इदमाकर्णयेति च एवंजातीयकेषु निर्देशेषु प्रणिधानमात्रं कुर्वित्युच्यते, न साक्षाज्ज्ञानमेव कुर्विति । ज्ञेयाभिमुखस्यापि ज्ञानं कदाचिज्जायते, कदाचिन्न जायते । तस्मात् तं प्रति ज्ञानविषय एव दर्शयितव्यो ज्ञापयितुकामेन । तस्मिन्दर्शिते स्वयमेव यथाविषयं यथाप्रमाणं च ज्ञानमुत्पद्यते । न च प्रमाणान्तरेण अन्यथाप्रसिद्धेऽर्थे अन्यथाज्ञानं नियुक्तस्याप्युपपद्यते । यदि पुनर्नियुक्तोऽहमिति अन्यथा ज्ञानं कुर्यात् , न तु तत् ज्ञानम् — किं तर्हि ? — मानसी सा क्रिया । स्वयमेव चेदन्यथोत्पद्येत, भ्रान्तिरेव स्यात् । ज्ञानं तु प्रमाणजन्यं यथाभूतविषयं च । न तत् नियोगशतेनापि कारयितुं शक्यते, न च प्रतिषेधशतेनापि वारयितुं शक्यते । न हि तत् पुरुषतन्त्रम् , वस्तुतन्त्रमेव हि तत् । अतोऽपि नियोगाभावः । किञ्चान्यत् — नियोगनिष्ठतयैव पर्यवस्यत्याम्नाये, यदभ्युपगतम् अनियोज्यब्रह्मात्मत्वं जीवस्य, तत् अप्रमाणकमेव स्यात् । अथ शास्त्रमेव अनियोज्यब्रह्मात्मत्वमप्याचक्षीत, तदवबोधे च पुरुषं नियुञ्जीत, ततो ब्रह्मशास्त्रस्यैकस्य द्व्यर्थपरता विरुद्धार्थपरता च प्रसज्येयाताम् । नियोगपरतायां च, श्रुतहानिः अश्रुतकल्पना कर्मफलवन्मोक्षस्यादृष्टफलत्वम् अनित्यत्वं च — इत्येवमादयो दोषा न केनचित्परिहर्तुं शक्याः । तस्मादवगतिनिष्ठान्येव ब्रह्मवाक्यानि, न नियोगनिष्ठानि । अतश्च एकनियोगप्रतीतेरेकवाक्यतेत्ययुक्तम् ॥
अभ्युपगम्यमानेऽपि च ब्रह्मवाक्येषु नियोगसद्भावे, तदेकत्वं निष्प्रपञ्चोपदेशेषु सप्रपञ्चोपदेशेषु च असिद्धम् । न हि शब्दान्तरादिभिः प्रमाणैर्नियोगभेदेऽवगम्यमाने, सर्वत्र एको नियोग इति शक्यमाश्रयितुम् । प्रयाजदर्शपूर्णमासवाक्येषु तु अधिकारांशेनाभेदात् युक्तमेकत्वम् । न त्विह सगुणनिर्गुणचोदनासु कश्चिदेकत्वाधिकारांशोऽस्ति । न हि भारूपत्वादयो गुणाः प्रपञ्चप्रविलयोपकारिणः, नापि प्रपञ्चप्रविलयो भारूपत्वादिगुणोपकारी, परस्परविरोधित्वात् । न हि कृत्स्नप्रपञ्चप्रविलापनं प्रपञ्चैकदेशापेक्षणं च एकस्मिन्धर्मिणि युक्तं समावेशयितुम् । तस्मात् अस्मदुक्त एव विभागः आकारवदनाकारोपदेशानां युक्ततर इति ॥ २१ ॥
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥
२२‘द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च’(बृ. उ. २ । ३ । १) इत्युपक्रम्य, पञ्चमहाभूतानि द्वैराश्येन प्रविभज्य, अमूर्तरसस्य च पुरुषशब्दोदितस्य माहारजनादीनि रूपाणि दर्शयित्वा, पुनः पठ्यते — ‘अथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्ति’(बृ. उ. २ । ३ । ६) इति । तत्र कोऽस्य प्रतिषेधस्य विषय इति जिज्ञासामहे । न ह्यत्र इदं तदिति विशेषितं किञ्चित्प्रतिषेध्यमुपलभ्यते । इतिशब्देन तु अत्र प्रतिषेध्यं किमपि समर्प्यते, ‘नेति नेति’ इति इतिपरत्वात् नञ्प्रयोगस्य । इतिशब्दश्चायं सन्निहितालम्बनः एवंशब्दसमानवृत्तिः प्रयुज्यमानो दृश्यते — ‘इति ह स्मोपाध्यायः कथयति’ इत्येवमादिषु । सन्निहितं चात्र प्रकरणसामर्थ्याद्रूपद्वयं सप्रपञ्चं ब्रह्मणः, तच्च ब्रह्म, यस्य ते द्वे रूपे । तत्र नः संशय उपजायते — किमयं प्रतिषेधो रूपे रूपवच्च उभयमपि प्रतिषेधति, आहोस्विदेकतरम् । यदाप्येकतरम् , तदापि किं ब्रह्म प्रतिषेधति, रूपे परिशिनष्टि, आहोस्विद्रूपे प्रतिषेधति, ब्रह्म परिशिनष्टि — इति ॥
तत्र प्रकृतत्वाविशेषादुभयमपि प्रतिषेधतीत्याशङ्कामहे — द्वौ चैतौ प्रतिषेधौ, द्विः नेतिशब्दप्रयोगात् । तयोरेकेन सप्रपञ्चं ब्रह्मणो रूपं प्रतिषिध्यते, अपरेण रूपवद्ब्रह्म — इति भवति मतिः । अथवा ब्रह्मैव रूपवत् प्रतिषिध्यते । तद्धि वाङ्मनसातीतत्वादसम्भाव्यमानसद्भावं प्रतिषेधार्हम् । न तु रूपप्रपञ्चः प्रत्यक्षादिगोचरत्वात् प्रतिषेधार्हः । अभ्यासस्त्वादरार्थः इत्येवं प्राप्ते ब्रूमः —
न तावदुभयप्रतिषेध उपपद्यते, शून्यवादप्रसङ्गात् — कञ्चिद्धि परमार्थमालम्ब्य अपरमार्थः प्रतिषिध्यते, यथा रज्ज्वादिषु सर्पादयः । तच्च परिशिष्यमाणे कस्मिंश्चिद्भावे अवकल्पते । कृत्स्नप्रतिषेधे तु कोऽन्यो भावः परिशिष्येत ? अपरिशिष्यमाणे चान्यस्मिन् , य इतरः प्रतिषेद्धुमारभ्यते प्रतिषेद्धुमशक्यत्वात् तस्यैव परमार्थत्वापत्तेः प्रतिषेधानुपपत्तिः । नापि ब्रह्मप्रतिषेध उपपद्यते — ‘ब्रह्म ते ब्रवाणि’(बृ. उ. २ । १ । १) इत्याद्युपक्रमविरोधात् , ‘असन्नेव स भवति । असद्ब्रह्मेति वेद चेत्’(तै. उ. २ । ६ । १) इत्यादिनिन्दाविरोधात् , ‘अस्तीत्येवोपलब्धव्यः’(क. उ. २ । ३ । १३) इत्याद्यवधारणविरोधात् , सर्ववेदान्तव्याकोपप्रसङ्गाच्च । वाङ्मनसातीतत्वमपि ब्रह्मणो न अभावाभिप्रायेणाभिधीयते । न हि महता परिकरबन्धेन ‘ब्रह्मविदाप्नोति परम्’(तै. उ. २ । १ । १) ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै. उ. २ । १ । १) इत्येवमादिना वेदान्तेषु ब्रह्म प्रतिपाद्य तस्यैव पुनः अभावोऽभिलप्येत; ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’ इति हि न्यायः । प्रतिपादनप्रक्रिया तु एषा — ‘यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह’(तै. उ. २ । ४ । १) इति । एतदुक्तं भवति — वाङ्मनसातीतमविषयान्तःपाति प्रत्यगात्मभूतं नित्यशुद्धमुक्तस्वभावं ब्रह्मेति । तस्माद्ब्रह्मणो रूपप्रपञ्चं प्रतिषेधति, परिशिनष्टि ब्रह्म — इत्यभ्युपगन्तव्यम् ॥
तदेतदुच्यते — प्रकृतैतावत्त्वं हि प्रतिषेधतीति । प्रकृतं यदेतावत् इयत्तापरिच्छिन्नं मूर्तामूर्तलक्षणं ब्रह्मणो रूपं तदेष शब्दः प्रतिषेधति । तद्धि प्रकृतं प्रपञ्चितं च पूर्वस्मिन्ग्रन्थे अधिदैवतमध्यात्मं च । तज्जनितमेव च वासनालक्षणमपरं रूपम् अमूर्तरसभूतं पुरुषशब्दोदितं लिङ्गात्मव्यपाश्रयं माहारजनाद्युपमाभिर्दर्शितम् — अमूर्तरसस्य पुरुषस्य चक्षुर्ग्राह्यरूपयोगित्वानुपपत्तेः । तदेतत् सप्रपञ्चं ब्रह्मणो रूपं सन्निहितालम्बनेन इतिकरणेन प्रतिषेधकं नञं प्रति उपनीयत इति गम्यते । ब्रह्म तु रूपविशेषणत्वेन षष्ठ्या निर्दिष्टं पूर्वस्मिन्ग्रन्थे, न स्वप्रधानत्वेन । प्रपञ्चिते च तदीये रूपद्वये रूपवतः स्वरूपजिज्ञासायाम् इदमुपक्रान्तम् — ‘अथात आदेशो नेति नेति’(बृ. उ. २ । ३ । ६) इति । तत्र कल्पितरूपप्रत्याख्यानेन ब्रह्मणः स्वरूपावेदनमिदमिति निर्णीयते । तदास्पदं हि इदं समस्तं कार्यम् ‘नेति नेति’(बृ. उ. २ । ३ । ६) इति प्रतिषिद्धम् । युक्तं च कार्यस्य वाचारम्भणशब्दादिभ्योऽसत्त्वमिति नेति नेतीति प्रतिषेधनम् । न तु ब्रह्मणः, सर्वकल्पनामूलत्वात् । न च अत्र इयमाशङ्का कर्तव्या — कथं हि शास्त्रं स्वयमेव ब्रह्मणो रूपद्वयं दर्शयित्वा, स्वयमेव पुनः प्रतिषेधति — ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’ इति — यतः नेदं शास्त्रं प्रतिपाद्यत्वेन ब्रह्मणो रूपद्वयं निर्दिशति, लोकप्रसिद्धं तु इदं रूपद्वयं ब्रह्मणि कल्पितं परामृशति प्रतिषेध्यत्वाय शुद्धब्रह्मस्वरूपप्रतिपादनाय च — इति निरवद्यम् । द्वौ च एतौ प्रतिषेधौ यथासंख्यन्यायेन द्वे अपि मूर्तामूर्ते प्रतिषेधतः । यद्वा पूर्वः प्रतिषेधो भूतराशिं प्रतिषेधति, उत्तरो वासनाराशिम् । अथवा ‘नेति नेति’ इति वीप्सा इयम् — ‘इति’ इति यावत्किञ्चित् उत्प्रेक्ष्यते, तत्सर्वं न भवतीत्यर्थः — परिगणितप्रतिषेधे हि क्रियमाणे, यदि नैतद्ब्रह्म, किमन्यद्ब्रह्म भवेदिति जिज्ञासा स्यात् । वीप्सायां तु सत्यां समस्तस्य विषयजातस्य प्रतिषेधात् अविषयः प्रत्यगात्मा ब्रह्मेति, जिज्ञासा निवर्तते । तस्मात् प्रपञ्चमेव ब्रह्मणि कल्पितं प्रतिषेधति, परिशिनष्टि ब्रह्म — इति निर्णयः ॥
इतश्च एष एव निर्णयः, यतः — ततः प्रतिषेधात् , भूयो ब्रह्म ब्रवीति — ‘अन्यत्परमस्ति’(बृ. उ. २ । ३ । ६) इति । अभावावसाने हि प्रतिषेधे क्रियमाणे किमन्यत्परमस्तीति ब्रूयात् । तत्रैषा अक्षरयोजना — ‘नेति नेति’ इति ब्रह्म आदिश्य, तमेव आदेशं पुनर्निर्वक्ति । ‘नेति नेति’ इत्यस्य कोऽर्थः ? न हि एतस्माद्ब्रह्मणो व्यतिरिक्तमस्तीत्यतः ‘नेति नेति’ इत्युच्यते, न पुनः स्वयमेव नास्ति — इत्यर्थः । तच्च दर्शयति — अन्यत्परम् अप्रतिषिद्धं ब्रह्म अस्तीति । यदा पुनरेवमक्षराणि योज्यन्ते — न हि, एतस्मात् ‘इति न’ ‘इति न’ इति प्रपञ्चप्रतिषेधरूपात् आदेशनात् , अन्यत्परमादेशनं ब्रह्मणः अस्तीति — तदा, ‘ततो ब्रवीति च भूयः’ इत्येतत् नामधेयविषयं योजयितव्यम् — ‘अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्’(बृ. उ. २ । १ । २०) इति हि ब्रवीति — इति । तच्च ब्रह्मावसाने प्रतिषेधे समञ्जसं भवति । अभावावसाने तु प्रतिषेधे, किम् ‘सत्यस्य सत्यम्’ इत्युच्येत ? तस्माद्ब्रह्मावसानः अयं प्रतिषेधः, नाभावावसानः — इत्यध्यवस्यामः ॥ २२ ॥
तदव्यक्तमाह हि ॥ २३ ॥
२३यत्तत् प्रतिषिद्धात्प्रपञ्चजातादन्यत् परं ब्रह्म, तदस्ति चेत् , कस्मान्न गृह्यत इति, उच्यते — तत् अव्यक्तमनिन्द्रियग्राह्यम् , सर्वदृश्यसाक्षित्वात् । आह हि एवं श्रुतिः — ‘न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा’(मु. उ. ३ । १ । ८) ‘स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यते’(बृ. उ. ३ । ९ । २६) ‘यत्तदद्रेश्यमग्राह्यम्’(मु. उ. १ । १ । ६) ‘यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने’(तै. उ. २ । ७ । १) इत्याद्या । स्मृतिरपि — ‘अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते’(भ. गी. २ । २५) इत्याद्या ॥ २३ ॥
अपि च संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥
२४अपि च एनमात्मानं निरस्तसमस्तप्रपञ्चमव्यक्तं संराधनकाले पश्यन्ति योगिनः । संराधनं च भक्तिध्यानप्रणिधानाद्यनुष्ठानम् । कथं पुनरवगम्यते — संराधनकाले पश्यन्तीति ? प्रत्यक्षानुमानाभ्याम् , श्रुतिस्मृतिभ्यामित्यर्थः । तथा हि श्रुतिः — ‘पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ् पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्’(क. उ. २ । १ । १) इति, ‘ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः’(मु. उ. ३ । १ । ८) इति चैवमाद्या । स्मृतिरपि — ‘यं विनिद्रा जितश्वासाः सन्तुष्टाः संयतेन्द्रियाः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः॥’(म. भा. १२ । ४७ । ५४) ‘योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्’(म. भा. ५ । ४६ । १) इति चैवमाद्या ॥ २४ ॥
ननु संराध्यसंराधकभावाभ्युपगमात्परेतरात्मनोरन्यत्वं स्यादिति; नेत्युच्यते —
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥
२५यथा प्रकाशाकाशसवितृप्रभृतयः अङ्गुलिकरकोदकप्रभृतिषु कर्मसु उपाधिभूतेषु सविशेषा इवावभासन्ते, न च स्वाभाविकीमविशेषात्मतां जहति; एवमुपाधिनिमित्त एवायमात्मभेदः, स्वतस्तु ऐकात्म्यमेव । तथा हि वेदान्तेषु अभ्यासेन असकृत् जीवप्राज्ञयोरभेदः प्रतिपाद्यते ॥ २५ ॥
अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥
२६अतश्च स्वाभाविकत्वादभेदस्य, अविद्याकृतत्वाच्च भेदस्य, विद्यया अविद्यां विधूय जीवः परेण अनन्तेन प्राज्ञेन आत्मना एकतां गच्छति । तथा हि लिङ्गम् — ‘स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’(मु. उ. ३ । २ । ९) ‘ब्रह्मैव सन्ब्रह्माप्येति’(बृ. उ. ४ । ४ । ६) इत्यादि ॥ २६ ॥
उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ २७ ॥
२७तस्मिन्नेव संराध्यसंराधकभावे मतान्तरमुपन्यस्यति, स्वमतविशुद्धये । क्वचित् जीवप्राज्ञयोर्भेदो व्यपदिश्यते — ‘ततस्तु तं पश्यते निष्कलं ध्यायमानः’(मु. उ. ३ । १ । ८) इति ध्यातृध्यातव्यत्वेन द्रष्टृद्रष्टव्यत्वेन च । ‘परात्परं पुरुषमुपैति दिव्यम्’(मु. उ. ३ । २ । ८) इति गन्तृगन्तव्यत्वेन । ‘यः सर्वाणि भूतान्यन्तरो यमयति’ इति नियन्तृनियन्तव्यत्वेन च । क्वचित्तु तयोरेवाभेदो व्यपदिश्यते — ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) ‘अहं ब्रह्मास्मि’(बृ. उ. १ । ४ । १०) ‘एष त आत्मा सर्वान्तरः’(बृ. उ. ३ । ४ । १) ‘एष त आत्मान्तर्याम्यमृतः’(बृ. उ. ३ । ७ । ३) इति । तत्रैवमुभयव्यपदेशे सति, यद्यभेद एव एकान्ततो गृह्येत, भेदव्यपदेशो निरालम्बन एव स्यात् । अत उभयव्यपदेशदर्शनात् अहिकुण्डलवदत्र तत्त्वं भवितुमर्हति — यथा अहिरित्यभेदः, कुण्डलाभोगप्रांशुत्वादीनीति च भेदः, एवमिहापीति ॥ २७ ॥
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥
२८अथवा प्रकाशाश्रयवदेतत्प्रतिपत्तव्यम् — यथा प्रकाशः सावित्रः तदाश्रयश्च सविता नात्यन्तभिन्नौ, उभयोरपि तेजस्त्वाविशेषात्; अथ च भेदव्यपदेशभाजौ भवतः — एवमिहापीति ॥ २८ ॥
पूर्ववद्वा ॥ २९ ॥
२९यथा वा पूर्वमुपन्यस्तम् — ‘प्रकाशादिवच्चावैशेष्यम्’ इति, तथैव एतद्भवितुमर्हति । तथा हि अविद्याकृतत्वाद्बन्धस्य विद्यया मोक्ष उपपद्यते । यदि पुनः परमार्थत एव बद्धः कश्चिदात्मा अहिकुण्डलन्यायेन परस्य आत्मनः संस्थानभूतः, प्रकाशाश्रयन्यायेन च एकदेशभूतोऽभ्युपगम्येत । ततः पारमार्थिकस्य बन्धस्य तिरस्कर्तुमशक्यत्वात् मोक्षशास्त्रवैयर्थ्यं प्रसज्येत । न चात्र उभावपि भेदाभेदौ श्रुतिः तुल्यवद्व्यपदिशति । अभेदमेव हि प्रतिपाद्यत्वेन निर्दिशति, भेदं तु पूर्वप्रसिद्धमेवानुवदति अर्थान्तरविवक्षया । तस्मात्प्रकाशादिवच्चावैशेष्यमित्येष एव सिद्धान्तः ॥ २९ ॥
प्रतिषेधाच्च ॥ ३० ॥
३०इतश्च एष एव सिद्धान्तः, यत्कारणं परस्मादात्मनोऽन्यं चेतनं प्रतिषेधति शास्त्रम् — ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. उ. ३ । ७ । २३) इत्येवमादि । ‘अथात आदेशो नेति नेति’(बृ. उ. २ । ३ । ६) ‘तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्’(बृ. उ. २ । ५ । १९) इति च ब्रह्मव्यतिरिक्तप्रपञ्चनिराकरणात् ब्रह्ममात्रपरिशेषाच्च एष एव सिद्धान्त इति गम्यते ॥ ३० ॥
यदेतत् निरस्तसमस्तप्रपञ्चं ब्रह्म निर्धारितम् , अस्मात्परम् अन्यत्तत्त्वमस्ति नास्तीति श्रुतिविप्रतिपत्तेः संशयः । कानिचिद्धि वाक्यानि आपातेनैव प्रतिभासमानानि ब्रह्मणोऽपि परम् अन्यत्तत्त्वं प्रतिपादयन्तीव । तेषां हि परिहारमभिधातुमयमुपक्रमः क्रियते —
परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥ ३१ ॥
३१परम् अतो ब्रह्मणः अन्यत्तत्त्वं भवितुमर्हति । कुतः ? सेतुव्यपदेशात् उन्मानव्यपदेशात् सम्बन्धव्यपदेशात् भेदव्यपदेशाच्च । सेतुव्यपदेशस्तावत् — ‘अथ य आत्मा स सेतुर्विधृतिः’(छा. उ. ८ । ४ । १) इत्यात्मशब्दाभिहितस्य ब्रह्मणः सेतुत्वं सङ्कीर्तयति । सेतुशब्दश्च हि लोके जलसन्तानविच्छेदकरे मृद्दार्वादिप्रचये प्रसिद्धः । इह तु सेतुशब्दः आत्मनि प्रयुक्त इति लौकिकसेतोरिव आत्मसेतोरन्यस्य वस्तुनोऽस्तित्वं गमयति । ‘सेतुं तीर्त्वा’(छा. उ. ८ । ४ । २) इति च तरतिशब्दप्रयोगात् — यथा लौकिकं सेतुं तीर्त्वा जाङ्गलमसेतुं प्राप्नोति, एवमात्मानं सेतुं तीर्त्वा अनात्मानमसेतुं प्राप्नोतीति गम्यते । उन्मानव्यपदेशश्च भवति — तदेतद्ब्रह्म चतुष्पात् अष्टाशफं षोडशकलमिति । यच्च लोके उन्मितम् एतावदिदमिति परिच्छिन्नं कार्षापणादि, ततोऽन्यद्वस्त्वस्तीति प्रसिद्धम् । तथा ब्रह्मणोऽप्युन्मानात् ततोऽन्येन वस्तुना भवितव्यमिति गम्यते । तथा सम्बन्धव्यपदेशोऽपि भवति — ‘सता सोम्य तदा सम्पन्नो भवति’(छा. उ. ६ । ८ । १) इति, ‘शारीर आत्मा’(तै. उ. २ । ३ । १) ‘प्राज्ञेनात्मना सम्परिष्वक्तः’(बृ. उ. ४ । ३ । २१) इति च । मितानां च मितेन सम्बन्धो दृष्टः, यथा नराणां नगरेण । जीवानां च ब्रह्मणा सम्बन्धं व्यपदिशति सुषुप्तौ । अतः ततः परमन्यदमितमस्तीति गम्यते । भेदव्यपदेशश्च एतमेवार्थं गमयति । तथा हि — ‘अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते’(छा. उ. १ । ६ । ६) इत्यादित्याधारमीश्वरं व्यपदिश्य, ततो भेदेन अक्ष्याधारमीश्वरं व्यपदिशति — ‘अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते’(छा. उ. १ । ७ । ५) इति । अतिदेशं च अस्य अमुना रूपादिषु करोति — ‘तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम’(छा. उ. १ । ७ । ५) इति । सावधिकं च ईश्वरत्वमुभयोर्व्यपदिशति — ‘ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च’(छा. उ. १ । ६ । ८) इत्येकस्य, ‘ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां च’(छा. उ. १ । ७ । ६) इत्येकस्य, यथा इदं मागधस्य राज्यम् , इदं वैदेहस्येति । एवमेतेभ्यः सेत्वादिव्यपदेशेभ्यो ब्रह्मणः परमस्तीति ॥ ३१ ॥
एवं प्राप्ते, प्रतिपाद्यते —
सामान्यात्तु ॥ ३२ ॥
३२तुशब्देन प्रदर्शितां प्राप्तिं निरुणद्धि । न ब्रह्मणोऽन्यत् किञ्चिद्भवितुमर्हति, प्रमाणाभावात् — न ह्यन्यस्यास्तित्वे किञ्चित्प्रमाणमुपलभामहे । सर्वस्य हि जनिमतो वस्तुजातस्य जन्मादि ब्रह्मणो भवतीति निर्धारितम् , अनन्यत्वं च कारणात् कार्यस्य । न च ब्रह्मव्यतिरिक्तं किञ्चित् अजं सम्भवति, ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’(छा. उ. ६ । २ । १) इत्यवधारणात् । एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानात् न ब्रह्मव्यतिरिक्तवस्त्वस्तित्वमवकल्पते । ननु सेत्वादिव्यपदेशाः ब्रह्मव्यतिरिक्तं तत्त्वं सूचयन्तीत्युक्तम्; नेत्युच्यते — सेतुव्यपदेशस्तावत् न ब्रह्मणो बाह्यस्य सद्भावं प्रतिपादयितुं क्षमते । सेतुरात्मेति हि आह, न ततः परमस्तीति । तत्र परस्मिन् असति सेतुत्वं नावकल्पत इति परं किमपि कल्प्येत । न चैतत् न्याय्यम् । हठो हि अप्रसिद्धकल्पना । अपि च सेतुव्यपदेशादात्मनो लौकिकसेतुनिदर्शनेन सेतुबाह्यवस्तुतां प्रसञ्जयता मृद्दारुमयतापि प्रासङ्क्ष्यत । न चैतन्न्याय्यम् , अजत्वादिश्रुतिविरोधात् । सेतुसामान्यात्तु सेतुशब्द आत्मनि प्रयुक्त इति श्लिष्यते । जगतस्तन्मर्यादानां च विधारकत्वं सेतुसामान्यमात्मनः । अतः सेतुरिव सेतुः — इति प्रकृत आत्मा स्तूयते । ‘सेतुं तीर्त्वा’ इत्यपि तरतिः अतिक्रमासम्भवात् प्राप्नोत्यर्थ एव वर्तते — यथा व्याकरणं तीर्ण इति प्राप्तः उच्यते, न अतिक्रान्तः, तद्वत् ॥ ३२ ॥
बुद्ध्यर्थः पादवत् ॥ ३३ ॥
३३यदप्युक्तम् — उन्मानव्यपदेशादस्ति परमिति, तत्राभिधीयते — उन्मानव्यपदेशोऽपि न ब्रह्मव्यतिरिक्तवस्त्वस्तित्वप्रतिपत्त्यर्थः । किमर्थस्तर्हि ? बुद्ध्यर्थः, उपासनार्थ इति यावत् । चतुष्पादष्टाशफं षोडशकलमित्येवंरूपा — बुद्धिः कथं नु नाम ब्रह्मणि स्थिरा स्यादिति — विकारद्वारेण ब्रह्मण उन्मानकल्पनैव क्रियते । न हि अविकारेऽनन्ते ब्रह्मणि सर्वैः पुम्भिः शक्या बुद्धिः स्थापयितुम् , मन्दमध्यमोत्तमबुद्धित्वात् पुंसामिति । पादवत् — यथा मनआकाशयोरध्यात्ममधिदैवतं च ब्रह्मप्रतीकयोराम्नातयोः, चत्वारो वागादयो मनःसम्बन्धिनः पादाः कल्प्यन्ते, चत्वारश्च अग्न्यादय आकाशसम्बन्धिनः — आध्यानाय — तद्वत् । अथवा पादवदिति — यथा कार्षापणे पादविभागो व्यवहारप्राचुर्याय कल्प्यते — न हि सकलेनैव कार्षापणेन सर्वदा सर्वे जना व्यवहर्तुमीशते, क्रयविक्रये परिमाणानियमात् — तद्वदित्यर्थः ॥ ३३ ॥
स्थानविशेषात्प्रकाशादिवत् ॥ ३४ ॥
३४इह सूत्रे द्वयोरपि सम्बन्धभेदव्यपदेशयोः परिहारोऽभिधीयते । यदप्युक्तम् — सम्बन्धव्यपदेशात् भेदव्यपदेशाच्च परमतः स्यादिति, तदप्यसत्; यत एकस्यापि स्थानविशेषापेक्षया एतौ व्यपदेशावुपपद्येते । सम्बन्धव्यपदेशे तावदयमर्थः — बुद्ध्याद्युपाधिस्थानविशेषयोगादुद्भूतस्य विशेषविज्ञानस्य उपाध्युपशमे य उपशमः, स परमात्मना सम्बन्धः — इत्युपाध्यपेक्षया उपचर्यते, न परिमितत्वापेक्षया । तथा भेदव्यपदेशोऽपि ब्रह्मण उपाधिभेदापेक्षयैव उपचर्यते, न स्वरूपभेदापेक्षया । प्रकाशादिवदिति उपमोपादानम् — यथा एकस्य प्रकाशस्य सौर्यस्य चान्द्रमसस्य वा उपाधियोगादुपजातविशेषस्य उपाध्युपशमात्सम्बन्धव्यपदेशो भवति, उपाधिभेदाच्च भेदव्यपदेशः । यथा वा सूचीपाशाकाशादिषूपाध्यपेक्षयैवैतौ सम्बन्धभेदव्यपदेशौ भवतः — तद्वत् ॥ ३४ ॥
उपपत्तेश्च ॥ ३५ ॥
३५उपपद्यते च अत्र ईदृश एव सम्बन्धः, नान्यादृशः — ‘स्वमपीतो भवति’(छा. उ. ६ । ८ । १)‘स्वमपीतो भवति’(छा. उ. ६ । ८ । १) इति हि स्वरूपसम्बन्धमेनमामनन्ति; स्वरूपस्य च अनपायित्वात् न नरनगरन्यायेन सम्बन्धो घटते । उपाधिकृतस्वरूपतिरोभावात्तु ‘स्वमपीतो भवति’ इत्युपपद्यते । तथा भेदोऽपि नान्यादृशः सम्भवति, बहुतरश्रुतिप्रसिद्धैकेश्वरत्वविरोधात् । तथा च श्रुतिरेकस्याप्याकाशस्य स्थानकृतं भेदव्यपदेशमुपपादयति — ‘योऽयं बहिर्धा पुरुषादाकाशः’(छा. उ. ३ । १२ । ७) ‘योऽयमन्तः पुरुष आकाशः’(छा. उ. ३ । १२ । ८) ‘योऽयमन्तर्हृदय आकाशः’(छा. उ. ३ । १२ । ९) इति ॥ ३५ ॥
तथाऽन्यप्रतिषेधात् ॥ ३६ ॥
३६एवं सेत्वादिव्यपदेशान् परपक्षहेतूनुन्मथ्य सम्प्रति स्वपक्षं हेत्वन्तरेणोपसंहरति । तथाऽन्यप्रतिषेधादपि न ब्रह्मणः परं वस्त्वन्तरमस्तीति गम्यते । तथा हि — ‘स एवाधस्तात्’(छा. उ. ७ । २५ । १) ‘अहमेवाधस्तात्’(छा. उ. ७ । २५ । १) ‘आत्मैवाधस्तात्’(छा. उ. ७ । २५ । २) ‘सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद’(बृ. उ. २ । ४ । ६) ‘ब्रह्मैवेदं सर्वम्’ ‘आत्मैवेदꣳ सर्वम्’(छा. उ. ७ । २५ । २) ‘नेह नानास्ति किञ्चन’(बृ. उ. ४ । ४ । १९) ‘यस्मात्परं नापरमस्ति किञ्चित्’(श्वे. उ. ३ । ९) ‘तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्’(बृ. उ. २ । ५ । १९) इत्येवमादीनि वाक्यानि स्वप्रकरणस्थानि अन्यार्थत्वेन परिणेतुमशक्यानि ब्रह्मव्यतिरिक्तं वस्त्वन्तरं वारयन्ति । सर्वान्तरश्रुतेश्च न परमात्मनोऽन्यः अन्तरात्मा अस्तीत्यवधार्यते ॥ ३६ ॥
अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३७ ॥
३७अनेन सेत्वादिव्यपदेशनिराकरणेन अन्यप्रतिषेधसमाश्रयणेन च सर्वगतत्वमप्यात्मनः सिद्धं भवति । अन्यथा हि तन्न सिध्येत् । सेत्वादिव्यपदेशेषु हि मुख्येष्वङ्गीक्रियमाणेषु परिच्छेद आत्मनः प्रसज्येत, सेत्वादीनामेवमात्मकत्वात् । तथा अन्यप्रतिषेधेऽप्यसति, वस्तु वस्त्वन्तराद्व्यावर्तत इति परिच्छेद एव आत्मनः प्रसज्येत । सर्वगतत्वं च अस्य आयामशब्दादिभ्यो विज्ञायते । आयामशब्दः व्याप्तिवचनः शब्दः । ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः’(छा. उ. ८ । १ । ३) ‘आकाशवत्सर्वगतश्च नित्यः’ ‘ज्यायान्दिवः’(छा. उ. ३ । १४ । ३) ‘ज्यायानाकाशात्’(श. ब्रा. १० । ६ । ३ । २) ‘नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः’(भ. गी. २ । २४) इत्येवमादयो हि श्रुतिस्मृतिन्यायाः सर्वगतत्वमात्मनोऽवबोधयन्ति ॥ ३७ ॥
फलमत उपपत्तेः ॥ ३८ ॥
३८तस्यैव ब्रह्मणो व्यावहारिक्याम् ईशित्रीशितव्यविभागावस्थायाम् , अयमन्यः स्वभावो वर्ण्यते । यदेतत् इष्टानिष्टव्यामिश्रलक्षणं कर्मफलं संसारगोचरं त्रिविधं प्रसिद्धं जन्तूनाम् , किमेतत् कर्मणो भवति, आहोस्विदीश्वरादिति भवति विचारणा । तत्र तावत्प्रतिपाद्यते — फलम् अतः ईश्वरात् भवितुमर्हति । कुतः ? उपपत्तेः । स हि सर्वाध्यक्षः सृष्टिस्थितिसंहारान् विचित्रान् विदधत् देशकालविशेषाभिज्ञत्वात् कर्मिणां कर्मानुरूपं फलं सम्पादयतीत्युपपद्यते । कर्मणस्तु अनुक्षणविनाशिनः कालान्तरभावि फलं भवतीत्यनुपपन्नम् , अभावाद्भावानुत्पत्तेः । स्यादेतत् — कर्म विनश्यत् स्वकालमेव स्वानुरूपं फलं जनयित्वा विनश्यति, तत्फलं कालान्तरितं कर्त्रा भोक्ष्यत इति; तदपि न परिशुध्यति, प्राग्भोक्तृसम्बन्धात् फलत्वानुपपत्तेः — यत्कालं हि यत् सुखं दुःखं वा आत्मना भुज्यते, तस्यैव लोके फलत्वं प्रसिद्धम् । न हि असम्बद्धस्यात्मना सुखस्य दुःखस्य वा फलत्वं प्रतियन्ति लौकिकाः । अथोच्येत — मा भूत्कर्मानन्तरं फलोत्पादः, कर्मकार्यादपूर्वात्फलमुत्पत्स्यत इति, तदपि नोपपद्यते, अपूर्वस्याचेतनस्य काष्ठलोष्टसमस्य चेतनेनाप्रवर्तितस्य प्रवृत्त्यनुपपत्तेः, तदस्तित्वे च प्रमाणाभावात् । अर्थापत्तिः प्रमाणमिति चेत् , न, ईश्वरसिद्धेरर्थापत्तिक्षयात् ॥ ३८ ॥
श्रुतत्वाच्च ॥ ३९ ॥
३९न केवलम् उपपत्तेरेव ईश्वरं फलहेतुं कल्पयामः — किं तर्हि ? — श्रुतत्वादपि ईश्वरमेव फलहेतुं मन्यामहे, तथा च श्रुतिर्भवति — ‘स वा एष महानज आत्मान्नादो वसुदानः’(बृ. उ. ४ । ४ । २४) इत्येवंजातीयका ॥ ३९ ॥
धर्मं जैमिनिरत एव ॥ ४० ॥
४०जैमिनिस्त्वाचार्यो धर्मं फलस्य दातारं मन्यते, अत एव हेतोः — श्रुतेः उपपत्तेश्च । श्रूयते तावदयमर्थः ‘स्वर्गकामो यजेत’ इत्येवमादिषु वाक्येषु । तत्र च विधिश्रुतेर्विषयभावोपगमात् यागः स्वर्गस्योत्पादक इति गम्यते । अन्यथा हि अननुष्ठातृको याग आपद्येत । तत्र अस्य उपदेशवैयर्थ्यं स्यात् । ननु अनुक्षणविनाशिनः कर्मणः फलं नोपपद्यत इति, परित्यक्तोऽयं पक्षः; नैष दोषः, श्रुतिप्रामाण्यात् — श्रुतिश्चेत् प्रमाणम् , यथायं कर्मफलसम्बन्धः श्रुत उपपद्यते, तथा कल्पयितव्यः । न च अनुत्पाद्य किमप्यपूर्वं कर्म विनश्यत् कालान्तरितं फलं दातुं शक्नोति । अतः कर्मणो वा सूक्ष्मा काचिदुत्तरावस्था फलस्य वा पूर्वावस्था अपूर्वं नाम अस्तीति तर्क्यते । उपपद्यते च अयमर्थ उक्तेन प्रकारेण । ईश्वरस्तु फलं ददातीत्यनुपपन्नम् , अविचित्रस्य कारणस्य विचित्रकार्यानुपपत्तेः वैषम्यनैर्घृण्यप्रसङ्गात् , अनुष्ठानवैयर्थ्यापत्तेश्च । तस्मात् धर्मादेव फलमिति ॥ ४० ॥
पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ४१ ॥
४१बादरायणस्त्वाचार्यः पूर्वोक्तमेव ईश्वरं फलहेतुं मन्यते । केवलात्कर्मणः अपूर्वाद्वा केवलात् फलमित्ययं पक्षः तुशब्देन व्यावर्त्यते । कर्मापेक्षात् अपूर्वापेक्षाद्वा यथा तथास्तु ईश्वरात्फलमिति सिद्धान्तः । कुतः ? हेतुव्यपदेशात् । धर्माधर्मयोरपि हि कारयितृत्वेन ईश्वरो हेतुः व्यपदिश्यते, फलस्य च दातृत्वेन — ‘एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष उ एवासाधु कर्म कारयति तं यमधो निनीषते’ इति । स्मर्यते च अयमर्थो भगवद्गीतासु — ‘यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥’(भ. गी. ७ । २१) ‘स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान् मयैव विहितान्हितान्’(भ. गी. ७ । २२) इति । सर्ववेदान्तेषु च ईश्वरहेतुका एव सृष्टयो व्यपदिश्यन्ते । तदेव च ईश्वरस्य फलहेतुत्वम् , यत् स्वकर्मानुरूपाः प्रजाः सृजतीति । विचित्रकार्यानुपपत्त्यादयोऽपि दोषाः कृतप्रयत्नापेक्षत्वादीश्वरस्य न प्रसज्यन्ते ॥ ४१ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
तृतीयाध्यायस्य द्वितीयः पादः ॥
तृतीयः पादः
व्याख्यातं विज्ञेयस्य ब्रह्मणः तत्त्वम् । इदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते, न वेति विचार्यते । ननु विज्ञेयं ब्रह्म पूर्वापरादिभेदरहितम् एकरसं सैन्धवघनवत् अवधारितम् । तत्र कुतो विज्ञानभेदाभेदचिन्तावसरः ? न हि कर्मबहुत्ववत् ब्रह्मबहुत्वमपि वेदान्तेषु प्रतिपिपादयिषितमिति शक्यं वक्तुम् , ब्रह्मण एकत्वात् एकरूपत्वाच्च । न च एकरूपे ब्रह्मणि अनेकरूपाणि विज्ञानानि सम्भवन्ति । न हि अन्यथा अर्थः अन्यथा ज्ञानम् — इत्यभ्रान्तं भवति । यदि पुनः एकस्मिन्ब्रह्मणि बहूनि विज्ञानानि वेदान्तेषु प्रतिपिपादयिषितानि, तेषाम् एकमभ्रान्तम् , भ्रान्तानि इतराणीति अनाश्वासप्रसङ्गो वेदान्तेषु । तस्मान्न तावत्प्रतिवेदान्तं ब्रह्मविज्ञानभेद आशङ्कितुं शक्यते । नाप्यस्य चोदनाद्यविशेषादभेद उच्येत, ब्रह्मविज्ञानस्य अचोदनालक्षणत्वात् । अविधिप्रधानैर्हि वस्तुपर्यवसायिभिः ब्रह्मवाक्यैः ब्रह्मविज्ञानं जन्यत इत्यवोचदाचार्यः ‘तत्तु समन्वयात्’(ब्र. सू. १ । १ । ४) इत्यत्र । तत्कथमिमां भेदाभेदचिन्तामारभत इति ॥
तदुच्यते — सगुणब्रह्मविषया प्राणादिविषया च इयं विज्ञानभेदाभेदचिन्तेत्यदोषः । अत्र हि कर्मवत् उपासनानां भेदाभेदौ सम्भवतः । कर्मवदेव च उपासनानि दृष्टफलानि अदृष्टफलानि च उच्यन्ते, क्रममुक्तिफलानि च कानिचित् सम्यग्ज्ञानोत्पत्तिद्वारेण । तेषु एषा चिन्ता सम्भवति — किं प्रतिवेदान्तं विज्ञानभेदः, आहोस्वित् नेति ॥
तत्र पूर्वपक्षहेतवस्तावदुपन्यस्यन्ते — नाम्नस्तावत् भेदप्रतिपत्तिहेतुत्वं प्रसिद्धं ज्योतिरादिषु । अस्ति च अत्र वेदान्तान्तरविहितेषु विज्ञानेषु अन्यदन्यत् नाम — तैत्तिरीयकं वाजसनेयकं कौथुमकं कौषीतकं शाट्यायनकमित्येवमादि । तथा रूपभेदोऽपि कर्मभेदस्य प्रतिपादकः प्रसिद्धः — ‘वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्’ इत्येवमादिषु । अस्ति च अत्र रूपभेदः । तद्यथा — केचिच्छाखिनः पञ्चाग्निविद्यायां षष्ठमपरमग्निमामनन्ति, अपरे पुनः पञ्चैव पठन्ति । तथा प्राणसंवादादिषु केचित् ऊनान्वागादीनामनन्ति, केचिदधिकान् । तथा धर्मविशेषोऽपि कर्मभेदस्य प्रतिपादक आशङ्कितः कारीर्यादिषु । अस्ति च अत्र धर्मविशेषः; यथा आथर्वणिकानां शिरोव्रतमिति । एवं पुनरुक्त्यादयोऽपि भेदहेतवः यथासम्भवं वेदान्तान्तरेषु योजयितव्याः । तस्मात् प्रतिवेदान्तं विज्ञानभेद इत्येवं प्राप्ते, ब्रूमः —
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ १ ॥
१सर्ववेदान्तप्रत्ययानि विज्ञानानि तस्मिन् तस्मिन् वेदान्ते तानि तान्येव भवितुमर्हन्ति । कुतः ? चोदनाद्यविशेषात् । आदिग्रहणेन शाखान्तराधिकरणसिद्धान्तसूत्रोदिता अभेदहेतव इहाकृष्यन्ते — संयोगरूपचोदनाख्याऽविशेषादित्यर्थः । यथा एकस्मिन्नग्निहोत्रे शाखाभेदेऽपि पुरुषप्रयत्नस्तादृश एव चोद्यते — जुहुयादिति, एवम् ‘यो ह वै ज्येष्ठं च श्रेष्ठं च वेद’(छा. उ. ५ । १ । १) इति वाजसनेयिनां छन्दोगानां च तादृश्येव चोदना । प्रयोजनसंयोगोऽप्यविशिष्ट एव — ‘ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति’(बृ. उ. ६ । १ । १) इति । रूपमप्युभयत्र तदेव विज्ञानस्य, यदुत ज्येष्ठश्रेष्ठादिगुणविशेषणान्वितं प्राणतत्त्वम् — यथा च द्रव्यदेवते यागस्य रूपम् , एवं विज्ञेयं रूपं विज्ञानस्य । तेन हि तत् रूप्यते । समाख्यापि सैव — प्राणविद्येति । तस्मात् सर्ववेदान्तप्रत्ययत्वं विज्ञानानाम् । एवं पञ्चाग्निविद्या वैश्वानरविद्या शाण्डिल्यविद्येत्येवमादिषु योजयितव्यम् । ये तु नामरूपादयो भेदहेत्वाभासाः, ते प्रथम एव काण्डे ‘न नाम्ना स्यादचोदनाभिधानत्वात्’(जै॰सू॰२-४-१०) इत्यारभ्य परिहृताः ॥ १ ॥
इहापि कञ्चिद्विशेषमाशङ्क्य परिहरति —
भेदान्नेति चेन्नैकस्यामपि ॥ २ ॥
२स्यादेतत् — सर्ववेदान्तप्रत्ययत्वं विज्ञानानां गुणभेदात् नोपपद्यते । तथा हि — वाजसनेयिनः पञ्चाग्निविद्यां प्रस्तुत्य षष्ठमपरमग्निमामनन्ति — ‘तस्याग्निरेवाग्निर्भवति’(बृ. उ. ६ । २ । १४) इत्यादिना । छन्दोगास्तु तं न आमनन्ति, पञ्चसंख्ययैव च ते उपसंहरन्ति — ‘अथ ह य एतानेवं पंचाग्नीन्वेद’(छा. उ. ५ । १० । १०) इति । येषां च स गुणोऽस्ति, येषां च नास्ति, कथमुभयेषामेका विद्योपपद्येत ? न च अत्र गुणोपसंहारः शक्यते प्रत्येतुम् , पञ्चसंख्याविरोधात् । तथा प्राणसंवादे श्रेष्ठात् अन्यान् चतुरः प्राणान् वाक्चक्षुःश्रोत्रमनांसि छन्दोगा आमनन्ति । वाजसनेयिनस्तु पञ्चममप्यामनन्ति — ‘रेतो वै प्रजातिः प्रजायते ह प्रजया पशुभिर्य एवं वेद’(बृ. उ. ६ । १ । ६) इति । आवापोद्वापभेदाच्च वेद्यभेदो भवति, वेद्यभेदाच्च विद्याभेदः, द्रव्यदेवताभेदादिव यागस्येति चेत् — नैष दोषः; यत एकस्यामपि विद्यायामेवंजातीयको गुणभेद उपपद्यते । यद्यपि षष्ठस्याग्नेरुपसंहारो न सम्भवति, तथापि द्युप्रभृतीनां पञ्चानामग्नीनाम् उभयत्र प्रत्यभिज्ञायमानत्वात् न विद्याभेदो भवितुमर्हति । न हि षोडशिग्रहणाग्रहणयोरतिरात्रो भिद्यते । पठ्यतेऽपि च षष्ठोऽग्निः छन्दोगैः — ‘तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति’(छा. उ. ५ । ९ । २) इति । वाजसनेयिनस्तु साम्पादिकेषु पञ्चस्वग्निषु अनुवृत्तायाः समिद्धूमादिकल्पनाया निवृत्तये ‘तस्याग्निरेवाग्निर्भवति समित्समित्’(बृ. उ. ६ । २ । १४) इत्यादि समामनन्ति । स नित्यानुवादः । अथाप्युपासनार्थ एष वादः, तथापि स गुणः शक्यते छन्दोगैरप्युपसंहर्तुम् । न च अत्र पञ्चसंख्याविरोध आशङ्क्यः । साम्पादिकाग्न्यभिप्राया हि एषा पञ्चसंख्या नित्यानुवादभूता, न विधिसमवायिनी — इत्यदोषः । एवं प्राणसंवादादिष्वपि अधिकस्य गुणस्य इतरत्रोपसंहारो न विरुध्यते । न च आवापोद्वापभेदाद्वेद्यभेदो विद्याभेदश्च आशङ्क्यः, कस्यचिद्वेद्यांशस्य आवापोद्वापयोरपि भूयसो वेद्यराशेरभेदावगमात् । तस्मादैकविद्यमेव ॥ २ ॥
स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियमः ॥ ३ ॥
३यदप्युक्तम् — आथर्वणिकानां विद्यां प्रति शिरोव्रताद्यपेक्षणात् अन्येषां च तदनपेक्षणात् विद्याभेद इति, तत्प्रत्युच्यते । स्वाध्यायस्य एष धर्मः, न विद्यायाः । कथमिदमवगम्यते ? यतः, तथात्वेन स्वाध्यायधर्मत्वेन, समाचारे वेदव्रतोपदेशपरे ग्रन्थे, आथर्वणिकाः ‘इदमपि वेदव्रतत्वेन व्याख्यातम्’ इति समामनन्ति । ‘नैतदचीर्णव्रतोऽधीते’(मु. उ. ३ । २ । ११) इति च अधिकृतविषयादेतच्छब्दात् अध्ययनशब्दाच्च स्वोपनिषदध्ययनधर्म एव एष इति निर्धार्यते । ननु ‘तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम्’(मु. उ. ३ । २ । १०) इति ब्रह्मविद्यासंयोगश्रवणात् , एकैव सर्वत्र ब्रह्मविद्येति, सङ्कीर्येत एष धर्मः — न ; तत्रापि एतामिति प्रकृतप्रत्यवमर्शात् । प्रकृतत्वं च ब्रह्मविद्यायाः ग्रन्थविशेषापेक्षम् — इति ग्रन्थविशेषसंयोग्येव एष धर्मः । सववच्च तन्नियम इति निदर्शननिर्देशः — यथा च सवाः सप्त सौर्यादयः शतौदनपर्यन्ताः वेदान्तरोदितत्रेताग्न्यनभिसम्बन्धात् आथर्वणोदितैकाग्न्यभिसम्बन्धाच्च आथर्वणिकानामेव नियम्यन्ते, तथैव अयमपि धर्मः स्वाध्यायविशेषसम्बन्धात् तत्रैव नियम्यते । तस्मादप्यनवद्यं विद्यैकत्वम् ॥ ३ ॥
दर्शयति च ॥ ४ ॥
४दर्शयति च वेदोऽपि विद्यैकत्वं सर्ववेदान्तेषु वेद्यैकत्वोपदेशात् — ‘सर्वे वेदा यत्पदमामनन्ति’(क. उ. १ । २ । १५) इति, तथा ‘एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते छन्दोगाः’ इति च । तथा ‘महद्भयं वज्रमुद्यतम्’(क. उ. २ । ३ । २) इति काठके उक्तस्य ईश्वरगुणस्य भयहेतुत्वस्य तैत्तिरीयके भेददर्शननिन्दायै परामर्शो दृश्यते — ‘यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमन्वानस्य’(तै. उ. २ । ७ । १) इति । तथा वाजसनेयके प्रादेशमात्रसम्पादितस्य वैश्वानरस्य च्छान्दोग्ये सिद्धवदुपादानम् — ‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते’(छा. उ. ५ । १८ । १) इति । तथा सर्ववेदान्तप्रत्ययत्वेन अन्यत्र विहितानामुक्थादीनामन्यत्रोपासनविधानाय उपादानात् प्रायदर्शनन्यायेन उपासनानामपि सर्ववेदान्तप्रत्ययत्वसिद्धिः ॥ ४ ॥
उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥ ५ ॥
५इदं प्रयोजनसूत्रम् । स्थिते चैवं सर्ववेदान्तप्रत्ययत्वे सर्वविज्ञानानाम् , अन्यत्रोदितानां विज्ञानगुणानाम् , अन्यत्रापि समाने विज्ञाने उपसंहारो भवति । अर्थाभेदात् — य एव हि तेषां गुणानामेकत्र अर्थो विशिष्टविज्ञानोपकारः, स एव अन्यत्रापि । उभयत्रापि हि तदेवैकं विज्ञानम् । तस्मादुपसंहारः । विधिशेषवत् — यथा विधिशेषाणामग्निहोत्रादिधर्माणाम् , तदेव एकमग्निहोत्रादि कर्म सर्वत्रेति, अर्थाभेदात् उपसंहारः; एवमिहापि । यदि हि विज्ञानभेदो भवेत् , ततो विज्ञानान्तरनिबद्धत्वाद्गुणानाम् , प्रकृतिविकृतिभावाभावाच्च न स्यादुपसंहारः । विज्ञानैकत्वे तु नैवमिति । अस्यैव तु प्रयोजनसूत्रस्य प्रपञ्चः ‘सर्वाभेदात्’ इत्यारभ्य भविष्यति ॥ ५ ॥
अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥ ६ ॥
६वाजसनेयके ‘ते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेनात्ययामेति’(बृ. उ. १ । ३ । १) ‘ते ह वाचमूचुस्त्वं न उद्गाय’(बृ. उ. १ । ३ । २) इति प्रक्रम्य, वागादीन्प्राणान् असुरपाप्मविद्धत्वेन निन्दित्वा, मुख्यप्राणपरिग्रहः पठ्यते — ‘अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्’(बृ. उ. १ । ३ । ७) इति । तथा छान्दोग्येऽपि ‘तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिभविष्यामः’(छा. उ. १ । २ । १) इति प्रक्रम्य, इतरान्प्राणान् असुरपाप्मविद्धत्वेन निन्दित्वा, तथैव मुख्यप्राणपरिग्रहः पठ्यते — ‘अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे’(छा. उ. १ । २ । ७) इति । उभयत्रापि च प्राणप्रशंसया प्राणविद्याविधिरध्यवसीयते । तत्र संशयः — किमत्र विद्याभेदः स्यात् , आहोस्वित् विद्यैकत्वमिति । किं तावत्प्राप्तम् ? पूर्वेण न्यायेन विद्यैकत्वमिति । ननु न युक्तं विद्यैकत्वम् , प्रक्रमभेदात् । अन्यथा हि प्रक्रमन्ते वाजसनेयिनः, अन्यथा छन्दोगाः — ‘त्वं न उद्गाय’(बृ. उ. १ । ३ । २) इति वाजसनेयिन उद्गीथस्य कर्तृत्वेन प्राणमामनन्ति, छन्दोगास्तु उद्गीथत्वेन ‘तमुद्गीथमुपासाञ्चक्रिरे’(छा. उ. १ । २ । ७) इति, तत्कथं विद्यैकत्वं स्यादिति चेत् — नैष दोषः; न हि एतावता विशेषेण विद्यैकत्वम् अपगच्छति, अविशेषस्यापि बहुतरस्य प्रतीयमानत्वात् । तथा हि — देवासुरसङ्ग्रामोपक्रमत्वम् , असुरात्ययाभिप्रायः, उद्गीथोपन्यासः, वागादिसङ्कीर्तनम् , तन्निन्दया मुख्यप्राणव्यपाश्रयः, तद्वीर्याच्च असुरविध्वंसनम् अश्मलोष्टनिदर्शनेन — इत्येवं बहवोऽर्था उभयत्राप्यविशिष्टाः प्रतीयन्ते । वाजसनेयकेऽपि च उद्गीथसामानाधिकरण्यं प्राणस्य श्रुतम् — ‘एष उ वा उद्गीथः’(बृ. उ. १ । ३ । २३) इति । तस्माच्छान्दोग्येऽपि कर्तृत्वं लक्षयितव्यम् । तस्माच्च विद्यैकत्वमिति ॥ ६ ॥
न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥ ७ ॥
७न वा विद्यैकत्वमत्र न्याय्यम् । विद्याभेद एव अत्र न्याय्यः । कस्मात् ? प्रकरणभेदात् , प्रक्रमभेदादित्यर्थः । तथा हि इह प्रक्रमभेदो दृश्यते — छान्दोग्ये तावत् — ‘ओमित्येतदक्षरमुद्गीथमुपासीत’(छा. उ. १ । १ । १) इत्येवमुद्गीथावयवस्य ओंकारस्य उपास्यत्वं प्रस्तुत्य, रसतमादिगुणोपव्याख्यानं तत्र कृत्वा, ‘खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति’(छा. उ. १ । १ । १०) इति पुनरपि तमेव उद्गीथावयवमोंकारमनुवर्त्य, देवासुराख्यायिकाद्वारेण तम् ‘प्राणमुद्गीथमुपासाञ्चक्रिरे’(छा. उ. १ । २ । २) इत्याह । तत्र यदि उद्गीथशब्देन सकला भक्तिरभिप्रेयेत, तस्याश्च कर्ता उद्गाता ऋत्विक्, तत उपक्रमश्चोपरुध्येत, लक्षणा च प्रसज्येत । उपक्रमतन्त्रेण च एकस्मिन्वाक्ये उपसंहारेण भवितव्यम् । तस्मात् अत्र तावत् उद्गीथावयवे ओंकारे प्राणदृष्टिरुपदिश्यते — वाजसनेयके तु उद्गीथशब्देन अवयवग्रहणे कारणाभावात् सकलैव भक्तिरावेद्यते । ‘त्वं न उद्गाय’(बृ. उ. १ । ३ । २) इत्यपि तस्याः कर्ता उद्गाता ऋत्विक् प्राणत्वेन निरूप्यत इति — प्रस्थानान्तरम् । यदपि तत्र उद्गीथसामानाधिकरण्यं प्राणस्य, तदपि उद्गातृत्वेनैव दिदर्शयिषितस्य प्राणस्य सर्वात्मत्वप्रतिपादनार्थमिति न विद्यैकत्वमावहति । सकलभक्तिविषय एव च तत्रापि उद्गीथशब्द इति वैषम्यम् । न च प्राणस्योद्गातृत्वम् असम्भवेन हेतुना परित्यज्येत, उद्गीथभाववत् उद्गातृभावस्यापि उपासनार्थत्वेन उपदिश्यमानत्वात् । प्राणवीर्येणैव च उद्गाता औद्गात्रं करोतीति नास्त्यसम्भवः । तथा च तत्रैव श्रावितम् — ‘वाचा च ह्येव स प्राणेन चोदगायत्’(बृ. उ. १ । ३ । २४) इति । न च विवक्षितार्थभेदेऽवगम्यमाने वाक्यच्छायानुकारमात्रेण समानार्थत्वमध्यवसातुं युक्तम् । तथा हि — अभ्युदयवाक्ये पशुकामवाक्ये च ‘त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्यात्’ इत्यादिनिर्देशसाम्येऽपि, उपक्रमभेदात् अभ्युदयवाक्ये देवतापनयोऽध्यवसितः, पशुकामवाक्ये तु यागविधिः — तथा इहापि उपक्रमभेदात् विद्याभेदः । परोवरीयस्त्वादिवत् — यथा परमात्मदृष्ट्यध्याससाम्येऽपि, ‘आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्’(छा. उ. १ । ९ । १) ‘स एष परोवरीयानुद्गीथः स एषोऽनन्तः’(छा. उ. १ । ९ । २) इति परोवरीयस्त्वादिगुणविशिष्टम् उद्गीथोपासनम् अक्ष्यादित्यगतहिरण्यश्मश्रुत्वादिगुणविशिष्टोद्गीथोपासनात् भिन्नम् । न च इतरेतरगुणोपसंहार एकस्यामपि शाखायाम् — तद्वत् शाखान्तरस्थेष्वपि एवंजातीयकेषु उपासनेष्विति ॥ ७ ॥
संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ८ ॥
८अथोच्येत — संज्ञैकत्वात् विद्यैकत्वमत्र न्याय्यम् , उद्गीथविद्येति ह्युभयत्रापि एका संज्ञेति, तदपि नोपपद्यते । उक्तं ह्येतत् — ‘न वा प्रकरणभेदात्परोवरीयस्त्वादिवत्’(ब्र. सू. ३ । ३ । ७) इति । तदेव च अत्र न्याय्यतरम् । श्रुत्यक्षरानुगतं हि तत् । संज्ञैकत्वं तु श्रुत्यक्षरबाह्यम् उद्गीथशब्दमात्रप्रयोगात् लौकिकैर्व्यवहर्तृभिरुपचर्यते । अस्ति च एतत्संज्ञैकत्वं प्रसिद्धभेदेष्वपि परोवरीयस्त्वाद्युपासनेषु — उद्गीथविद्येति । तथा प्रसिद्धभेदानामपि अग्निहोत्रदर्शपूर्णमासादीनां काठकैकग्रन्थपरिपठितानां काठकसंज्ञैकत्वं दृश्यते, तथेहापि भविष्यति । यत्र तु नास्ति कश्चित् एवंजातीयको भेदहेतुः, तत्र भवतु संज्ञैकत्वात् विद्यैकत्वम् — यथा संवर्गविद्यादिषु ॥ ८ ॥
व्याप्तेश्च समञ्जसम् ॥ ९ ॥
९‘ओमित्येतदक्षरमुद्गीथमुपासीत’(छा. उ. १ । १ । १) इत्यत्र अक्षरोद्गीथशब्दयोः सामानाधिकरण्ये श्रूयमाणे अध्यासापवादैकत्वविशेषणपक्षाणां प्रतिभासनात् कतमोऽत्र पक्षो न्याय्यः स्यादिति विचारः । तत्र अध्यासो नाम — द्वयोर्वस्तुनोः अनिवर्तितायामेव अन्यतरबुद्धौ अन्यतरबुद्धिरध्यस्यते । यस्मिन् इतरबुद्धिरध्यस्यते, अनुवर्तत एव तस्मिन् तद्बुद्धिः, अध्यस्तेतरबुद्धावपि । यथा नाम्नि ब्रह्मबुद्धावध्यस्यमानायामपि अनुवर्तत एव नामबुद्धिः, न ब्रह्मबुद्ध्या निवर्तते — यथा वा प्रतिमादिषु विष्ण्वादिबुद्ध्यध्यासः — एवमिहापि अक्षरे उद्गीथबुद्धिरध्यस्यते, उद्गीथे वा अक्षरबुद्धिरिति । अपवादो नाम — यत्र कस्मिंश्चिद्वस्तुनि पूर्वनिविष्टायां मिथ्याबुद्धौ निश्चितायाम् , पश्चादुपजायमाना यथार्था बुद्धिः पूर्वनिविष्टाया मिथ्याबुद्धेः निवर्तिका भवति — यथा देहेन्द्रियसङ्घाते आत्मबुद्धिः, आत्मन्येव आत्मबुद्ध्या पश्चाद्भाविन्या ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) इत्यनया यथार्थबुद्ध्या निवर्त्यते — यथा वा दिग्भ्रान्तिबुद्धिः दिग्याथात्म्यबुद्ध्या निवर्त्यते — एवमिहापि अक्षरबुद्ध्या उद्गीथबुद्धिर्निवर्त्येत, उद्गीथबुद्ध्या वा अक्षरबुद्धिरिति । एकत्वं तु अक्षरोद्गीथशब्दयोरनतिरिक्तार्थवृत्तित्वम् — यथा द्विजोत्तमो ब्राह्मणो भूमिदेव इति । विशेषणं पुनः सर्ववेदव्यापिन ओमित्येतस्याक्षरस्य ग्रहणप्रसङ्गे औद्गात्रविशेषस्य समर्पणम् — यथा नीलं यदुत्पलम् तदानयेति, एवमिहापि उद्गीथो य ओंकारः तमुपासीतेति । एवमेतस्मिन्सामानाधिकरण्यवाक्ये विमृश्यमाने, एते पक्षाः प्रतिभान्ति । तत्रान्यतमनिर्धारणकारणाभावात् अनिर्धारणप्राप्तौ इदमुच्यते —
व्याप्तेश्च समञ्जसमिति । चशब्दोऽयं तुशब्दस्थाननिवेशी पक्षत्रयव्यावर्तनप्रयोजनः । तदिह त्रयः पक्षाः सावद्या इति पर्युदस्यन्ते । विशेषणपक्ष एवैको निरवद्य इत्युपादीयते । तत्राध्यासे तावत् — या बुद्धिः इतरत्र अध्यस्यते, तच्छब्दस्य लक्षणावृत्तित्वं प्रसज्येत, तत्फलं च कल्प्येत । श्रूयत एव फलम् ‘आपयिता ह वै कामानां भवति’(छा. उ. १ । १ । ७) इत्यादि, इति चेत् — न ; तस्य अन्यफलत्वात् । आप्त्यादिदृष्टिफलं हि तत् , नोद्गीथाध्यासफलम् । अपवादेऽपि समानः फलाभावः । मिथ्याज्ञाननिवृत्तिः फलमिति चेत् , न; पुरुषार्थोपयोगानवगमात्; न च कदाचिदपि ओंकारात् ओंकारबुद्धिर्निवर्तते, उद्गीथाद्वा उद्गीथबुद्धिः । न चेदं वाक्यं वस्तुतत्त्वप्रतिपादनपरम् , उपासनाविधिपरत्वात् । नापि एकत्वपक्षः सङ्गच्छते । निष्प्रयोजनं हि तदा शब्दद्वयोच्चारणं स्यात् , एकेनैव विवक्षितार्थसमर्पणात् । न च हौत्रविषये आध्वर्यवविषये वा अक्षरे ओंकारशब्दवाच्ये उद्गीथशब्दप्रसिद्धिरस्ति, नापि सकलायाम् साम्नो द्वितीयायां भक्तौ उद्गीथशब्दवाच्यायाम् ओंकारशब्दप्रसिद्धिः, येनानतिरिक्तार्थता स्यात् । परिशेषाद्विशेषणपक्षः परिगृह्यते, व्याप्तेः सर्ववेदसाधारण्यात् । सर्वव्याप्यक्षरमिह मा प्रसञ्जि — इत्यत उद्गीथशब्देन अक्षरं विशेष्यते — कथं नाम उद्गीथावयवभूत ओंकारो गृह्येतेति । नन्वस्मिन्नपि पक्षे समाना लक्षणा, उद्गीथशब्दस्य अवयवलक्षणार्थत्वात्; सत्यमेवमेतत्; लक्षणायामपि तु सन्निकर्षविप्रकर्षौ भवत एव । अध्यासपक्षे हि अर्थान्तरबुद्धिरर्थान्तरे निक्षिप्यत इति विप्रकृष्टा लक्षणा, विशेषणपक्षे तु अवयविवचनेन शब्देन अवयवः समर्प्यत इति सन्निकृष्टा । समुदायेषु हि प्रवृत्ताः शब्दा अवयवेष्वपि प्रवर्तमाना दृष्टाः पटग्रामादिषु । अतश्च व्याप्तेर्हेतोः ‘ओमित्येतदक्षरम्’ इत्येतस्य ‘उद्गीथम्’ इत्येतद्विशेषणमिति समञ्जसमेतत् , निरवद्यमित्यर्थः ॥ ९ ॥
सर्वाभेदादन्यत्रेमे ॥ १० ॥
१०वाजिनां छन्दोगानां च प्राणसंवादे श्रैष्ठ्यगुणान्वितस्य प्राणस्य उपास्यत्वमुक्तम् । वागादयोऽपि हि तत्र वसिष्ठत्वादिगुणान्विता उक्ताः । ते च गुणाः प्राणे पुनः प्रत्यर्पिताः — ‘यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसि’(बृ. उ. ६ । १ । १४) इत्यादिना । अन्येषामपि तु शाखिनां कौषीतकिप्रभृतीनां प्राणसंवादेषु ‘अथातो निःश्रेयसादानमेता ह वै देवता अहंश्रेयसे विवदमानाः’(कौ. उ. २ । १४) इत्येवंजातीयकेषु प्राणस्य श्रैष्ठ्यमुक्तम् , न त्विमे वसिष्ठत्वादयोऽपि गुणा उक्ताः । तत्र संशयः — किमिमे वसिष्ठत्वादयो गुणाः क्वचिदुक्ता अन्यत्रापि अस्येरन् , उत नास्येरन्निति । तत्र प्राप्तं तावत् — नास्येरन्निति । कुतः ? एवंशब्दसंयोगात् । ‘अथो य एवं विद्वान्प्राणे निःश्रेयसं विदित्वा’ इति तत्र तत्र एवंशब्देन वेद्यं वस्तु निवेद्यते । एवंशब्दश्च सन्निहितावलम्बनः न शाखान्तरपरिपठितम् एवंजातीयकं गुणजातं शक्नोति निवेदयितुम् । तस्मात् स्वप्रकरणस्थैरेव गुणैर्निराकाङ्क्षत्वमित्येवं प्राप्ते प्रत्याह —
अस्येरन् इमे गुणाः क्वचिदुक्ता वसिष्ठत्वादयः अन्यत्रापि । कुतः ? सर्वाभेदात् — सर्वत्रैव हि तदेव एकं प्राणविज्ञानमभिन्नं प्रत्यभिज्ञायते, प्राणसंवादादिसारूप्यात् । अभेदे च विज्ञानस्य कथम् इमे गुणाः क्वचिदुक्ता अन्यत्र न अस्येरन् । ननु एवंशब्दः तत्र तत्र भेदेन एवंजातीयकं गुणजातं वेद्यत्वाय समर्पयतीत्युक्तम्; अत्रोच्यते — यद्यपि कौषीतकिब्राह्मणगतेन एवंशब्देन वाजसनेयिब्राह्मणगतं गुणजातम् असंशब्दितम् असन्निहितत्वात् , तथापि तस्मिन्नेव विज्ञाने वाजसनेयिब्राह्मणगतेन एवंशब्देन तत् संशब्दितमिति — न परशाखागतमपि अभिन्नविज्ञानावबद्धं गुणजातं स्वशाखागताद्विशिष्यते । न चैवं सति श्रुतहानिः अश्रुतकल्पना वा भवति । एकस्यामपि हि शाखायां श्रुता गुणाः श्रुता एव सर्वत्र भवन्ति, गुणवतो भेदाभावात् । न हि देवदत्तः शौर्यादिगुणत्वेन स्वदेशे प्रसिद्धः देशान्तरं गतः तद्देश्यैरविभावितशौर्यादिगुणोऽपि अतद्गुणो भवति । यथा च तत्र परिचयविशेषात् देशान्तरेऽपि देवदत्तगुणा विभाव्यन्ते, एवम् अभियोगविशेषात् शाखान्तरेऽप्युपास्या गुणाः शाखान्तरेऽप्यस्येरन् । तस्मादेकप्रधानसम्बद्धा धर्मा एकत्राप्युच्यमानाः सर्वत्रैव उपसंहर्तव्या इति ॥ १० ॥
आनन्दादयः प्रधानस्य ॥ ११ ॥
११ब्रह्मस्वरूपप्रतिपादनपरासु श्रुतिषु आनन्दरूपत्वं विज्ञानघनत्वं सर्वगतत्वं सर्वात्मत्वमित्येवंजातीयका ब्रह्मणो धर्माः क्वचित् केचित् श्रूयन्ते । तेषु संशयः — किमानन्दादयो ब्रह्मधर्माः यत्र यावन्तः श्रूयन्ते तावन्त एव तत्र प्रतिपत्तव्याः, किं वा सर्वे सर्वत्रेति । तत्र यथाश्रुतिविभागं धर्मप्रतिपत्तौ प्राप्तायाम् , इदमुच्यते — आनन्दादयः प्रधानस्य ब्रह्मणो धर्माः सर्वे सर्वत्र प्रतिपत्तव्याः । कस्मात् ? सर्वाभेदादेव — सर्वत्र हि तदेव एकं प्रधानं विशेष्यं ब्रह्म न भिद्यते । तस्मात् सार्वत्रिकत्वं ब्रह्मधर्माणाम् — तेनैव पूर्वाधिकरणोदितेन देवदत्तशौर्यादिनिदर्शनेन ॥ ११ ॥
ननु एवं सति प्रियशिरस्त्वादयोऽपि धर्माः सर्वे सर्वत्र सङ्कीर्येरन् । तथा हि तैत्तिरीयके आनन्दमयमात्मानं प्रक्रम्य आम्नायते — ‘तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा’(तै. उ. २ । ५ । १) इति । अत उत्तरं पठति —
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ १२ ॥
१२प्रियशिरस्त्वादीनां धर्माणां तैत्तिरीयके आम्नातानां नास्ति अन्यत्र प्राप्तिः, यत्कारणम् — प्रियं मोदः प्रमोद आनन्द इत्येते — परस्परापेक्षया भोक्त्रन्तरापेक्षया च उपचितापचितरूपा उपलभ्यन्ते । उपचयापचयौ च सति भेदे सम्भवतः । निर्भेदं तु ब्रह्म ‘एकमेवाद्वितीयम्’(छा. उ. ६ । २ । १) इत्यादिश्रुतिभ्यः । न च एते प्रियशिरस्त्वादयो ब्रह्मधर्माः । कोशधर्मास्तु एते इत्युपदिष्टमस्माभिः ‘आनन्दमयोऽभ्यासात्’(ब्र. सू. १ । १ । १२) इत्यत्र । अपि च परस्मिन् ब्रह्मणि चित्तावतारोपायमात्रत्वेन एते परिकल्प्यन्ते, न द्रष्टव्यत्वेन । एवमपि सुतरामन्यत्राप्राप्तिः प्रियशिरस्त्वादीनाम् । ब्रह्मधर्मांस्तु एतान्कृत्वा न्यायमात्रमिदम् आचार्येण प्रदर्शितम् — प्रियशिरस्त्वाद्यप्राप्तिरिति । स च न्यायः अन्येषु निश्चितेषु ब्रह्मधर्मेषु उपासनायोपदिश्यमानेषु नेतव्यः — संयद्वामत्वादिषु सत्यकामत्वादिषु च । तेषु हि सत्यपि उपास्यस्य ब्रह्मण एकत्वे, प्रक्रमभेदादुपासनाभेदे सति, न अन्योन्यधर्माणाम् अन्योन्यत्र प्राप्तिः । यथा च द्वे नार्यौ एकं नृपतिमुपासाते — छत्रेण अन्या चामरेण अन्या — तत्रोपास्यैकत्वेऽपि उपासनभेदो धर्मव्यवस्था च भवति — एवमिहापीति । उपचितापचितगुणत्वं हि सति भेदव्यवहारे सगुणे ब्रह्मण्युपपद्यते, न निर्गुणे परस्मिन्ब्रह्मणि । अतो न सत्यकामत्वादीनां धर्माणां क्वचिच्छ्रुतानां सर्वत्र प्राप्तिरित्यर्थः ॥ १२ ॥
इतरे त्वर्थसामान्यात् ॥ १३ ॥
१३इतरे तु आनन्दादयो धर्मा ब्रह्मस्वरूपप्रतिपादनायैव उच्यमानाः, अर्थसामान्यात् प्रतिपाद्यस्य ब्रह्मणो धर्मिण एकत्वात् , सर्वे सर्वत्र प्रतीयेरन्निति वैषम्यम् — प्रतिपत्तिमात्रप्रयोजना हि ते इति ॥ १३ ॥
आध्यानाय प्रयोजनाभावात् ॥ १४ ॥
१४काठके पठ्यते — ‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिः’(क. उ. १ । ३ । १०) इत्यारभ्य ‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’(क. उ. १ । ३ । ११) इति । तत्र संशयः — किमिमे सर्वे एव अर्थादयः ततस्ततः परत्वेन प्रतिपाद्यन्ते, उत पुरुष एव एभ्यः सर्वेभ्यः परः प्रतिपाद्यत इति । तत्र तावत् सर्वेषामेवैषां परत्वेन प्रतिपादनमिति भवति मतिः । तथा हि श्रूयते — इदमस्मात्परम् , इदमस्मात्परमिति । ननु बहुष्वर्थेषु परत्वेन प्रतिपिपादयिषितेषु वाक्यभेदः स्यात् । नैष दोषः, वाक्यबहुत्वोपपत्तेः । बहून्येव हि एतानि वाक्यानि प्रभवन्ति बहूनर्थान् परत्वोपेतान् प्रतिपादयितुम् । तस्मात् प्रत्येकमेषां परत्वप्रतिपादनमित्येवं प्राप्ते ब्रूमः —
पुरुष एव हि एभ्यः सर्वेभ्यः परः प्रतिपाद्यत इति युक्तम् , न प्रत्येकमेषां परत्वप्रतिपादनम् । कस्मात् ? प्रयोजनाभावात् । न हि इतरेषु परत्वेन प्रतिपन्नेषु किञ्चित्प्रयोजनं दृश्यते, श्रूयते वा । पुरुषे तु इन्द्रियादिभ्यः परस्मिन् सर्वानर्थव्रातातीते प्रतिपन्ने दृश्यते प्रयोजनम् , मोक्षसिद्धिः । तथा च श्रुतिः — ‘निचाय्य तं मृत्युमुखात्प्रमुच्यते’(क. उ. १ । ३ । १५) इति । अपि च परप्रतिषेधेन काष्ठाशब्देन च पुरुषविषयमादरं दर्शयन् पुरुषप्रतिपत्त्यर्थैव पूर्वापरप्रवाहोक्तिरिति दर्शयति । आध्यानायेति — आध्यानपूर्वकाय सम्यग्दर्शनायेत्यर्थः । सम्यग्दर्शनार्थमेव हि इह आध्यानमुपदिश्यते, न तु आध्यानमेव स्वप्रधानम् ॥ १४ ॥
आत्मशब्दाच्च ॥ १५ ॥
१५इतश्च पुरुषप्रतिपत्त्यर्थैव इयमिन्द्रियादिप्रवाहोक्तिः, यत्कारणम् ‘एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः’(क. उ. १ । ३ । १२) इति प्रकृतं पुरुषम् आत्मेत्याह । अतश्च अनात्मत्वमितरेषां विवक्षितमिति गम्यते । तस्यैव च दुर्विज्ञानतां संस्कृतमतिगम्यतां च दर्शयति । तद्विज्ञानायैव च — ‘यच्छेद्वाङ्मनसी प्राज्ञः’(क. उ. १ । ३ । १३) इति आध्यानं विदधाति । तत् व्याख्यातम् ‘आनुमानिकमप्येकेषाम्’(ब्र. सू. १ । ४ । १) इत्यत्र । एवम् अनेकप्रकार आशयातिशयः श्रुतेः पुरुषे लक्ष्यते, नेतरेषु । अपि च ‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’(क. उ. १ । ३ । ९) इत्युक्ते, किं तत् अध्वनः पारं विष्णोः परमं पदमित्यस्यामाकाङ्क्षायाम् इन्द्रियाद्यनुक्रमणात् परमपदप्रतिपत्त्यर्थ एवायम् आयास इत्यवसीयते ॥ १५ ॥
आत्मगृहीतिरितरवदुत्तरात् ॥ १६ ॥
१६ऐतरेयके श्रूयते — ‘आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत्स ईक्षत लोकान्नु सृजा इति’(ऐ. उ. १ । १ । १) ‘स इमाँल्लोकानसृजताम्भो मरीचीर्मरमापः’(ऐ. उ. १ । १ । २) इत्यादि । तत्र संशयः — किं पर एवात्मा इह आत्मशब्देनाभिलप्यते, उत अन्यः कश्चिदिति । किं तावत्प्राप्तम् ? न परमात्मा इह आत्मशब्दाभिलप्यो भवितुमर्हतीति । कस्मात् ? वाक्यान्वयदर्शनात् । ननु वाक्यान्वयः सुतरां परमात्मविषयो दृश्यते, प्रागुत्पत्तेः आत्मैकत्वावधारणात् , ईक्षणपूर्वकस्रष्टृत्ववचनाच्च; नेत्युच्यते, लोकसृष्टिवचनात् — परमात्मनि हि स्रष्टरि परिगृह्यमाणे, महाभूतसृष्टिः आदौ वक्तव्या । लोकसृष्टिस्तु इह आदावुच्यते । लोकाश्च महाभूतसन्निवेशविशेषाः । तथा च अम्भःप्रभृतीन् लोकत्वेनैव निर्ब्रवीति — ‘अदोऽम्भः परेण दिवम्’(ऐ. उ. १ । १ । २) इत्यादिना । लोकसृष्टिश्च परमेश्वराधिष्ठितेन अपरेण केनचिदीश्वरेण क्रियत इति श्रुतिस्मृत्योरुपलभ्यते । तथा हि श्रुतिर्भवति — ‘आत्मैवेदमग्र आसीत्पुरुषविधः’(बृ. उ. १ । ४ । १)‘आत्मैवेदमग्र आसीत्पुरुषविधः’(बृ. उ. १ । ४ । १) इत्याद्या । स्मृतिरपि — ‘स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत’(मा॰पु॰ ४५-६४) इति । ऐतरेयिणोऽपि ‘अथातो रेतसः सृष्टिः प्रजापते रेतो देवाः’ इत्यत्र पूर्वस्मिन्प्रकरणे प्रजापतिकर्तृकां विचित्रां सृष्टिमामनन्ति । आत्मशब्दोऽपि तस्मिन्प्रयुज्यमानो दृश्यते — ‘आत्मैवेदमग्र आसीत्पुरुषविधः’ इत्यत्र । एकत्वावधारणमपि प्रागुत्पत्तेः स्वविकारापेक्षमुपपद्यते । ईक्षणमपि तस्य चेतनत्वाभ्युपगमादुपपन्नम् । अपि च ‘ताभ्यो गामानयत्’ ‘ताभ्योऽश्वमानयत्’ ‘ताभ्यः पुरुषमानयत्’ ‘ता अब्रुवन्’ इत्येवंजातीयको भूयान् व्यापारविशेषः लौकिकेषु विशेषवत्सु आत्मसु प्रसिद्धः इहानुगम्यते । तस्मात् विशेषवानेव कश्चिदिह आत्मा स्यादित्येवं प्राप्ते ब्रूमः —
पर एव आत्मा इह आत्मशब्देन गृह्यते । इतरवत् — यथा इतरेषु सृष्टिश्रवणेषु ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’(तै. उ. २ । १ । १) इत्येवमादिषु परस्यात्मनो ग्रहणम् , यथा च इतरस्मिन् लौकिकात्मशब्दप्रयोगे प्रत्यगात्मैव मुख्य आत्मशब्देन गृह्यते — तथा इहापि भवितुमर्हति । यत्र तु ‘आत्मैवेदमग्र आसीत्’(बृ. उ. १ । ४ । १) इत्येवमादौ ‘पुरुषविधः’(बृ. उ. १ । ४ । १) इत्येवमादि विशेषणान्तरं श्रूयते, भवेत् तत्र विशेषवत आत्मनो ग्रहणम् । अत्र पुनः परमात्मग्रहणानुगुणमेव विशेषणमपि उत्तरम् उपलभ्यते — ‘स ईक्षत लोकान्नु सृजा इति’(ऐ. उ. १ । १ । १) ‘स इमाँल्लोकानसृजत’(ऐ. उ. १ । १ । २) इत्येवमादि । तस्मात् तस्यैव ग्रहणमिति न्याय्यम् ॥ १६ ॥
अन्वयादिति चेत्स्यादवधारणात् ॥ १७ ॥
१७वाक्यान्वयदर्शनात् न परमात्मग्रहणमिति पुनः यदुक्तम् , तत्परिहर्तव्यमिति — अत्रोच्यते — स्यादवधारणादिति । भवेदुपपन्नं परमात्मनो ग्रहणम् । कस्मात् ? अवधारणात् । परमात्मग्रहणे हि प्रागुत्पत्तेरात्मैकत्वावधारणमाञ्जसमवकल्पते । अन्यथा हि अनाञ्जसं तत्परिकल्प्येत । लोकसृष्टिवचनं तु श्रुत्यन्तरप्रसिद्धमहाभूतसृष्ट्यनन्तरमिति योजयिष्यामि; यथा ‘तत्तेजोऽसृजत’(छा. उ. ६ । २ । ३) इत्येतत् श्रुत्यन्तरप्रसिद्धवियद्वायुसृष्ट्यनन्तरमिति अयूयुजम् , एवमिहापि । श्रुत्यन्तरप्रसिद्धो हि समानविषयो विशेषः श्रुत्यन्तरेषु उपसंहर्तव्यो भवति । योऽपि अयं व्यापारविशेषानुगमः ‘ताभ्यो गामानयत्’ इत्येवमादिः, सोऽपि विवक्षितार्थावधारणानुगुण्येनैव ग्रहीतव्यः । न ह्ययं सकलः कथाप्रबन्धो विवक्षित इति शक्यते वक्तुम् , तत्प्रतिपत्तौ पुरुषार्थाभावात् । ब्रह्मात्मत्वं तु इह विवक्षितम् । तथा हि — अम्भःप्रभृतीनां लोकानां लोकपालानां चाग्न्यादीनां सृष्टिं शिष्ट्वा, करणानि करणायतनं च शरीरमुपदिश्य, स एव स्रष्टा ‘कथं न्विदं मदृते स्यात्’(ऐ. उ. १ । ३ । ११) इति वीक्ष्य, इदं शरीरं प्रविवेशेति दर्शयति — ‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’(ऐ. उ. १ । ३ । १२) इति । पुनश्च ‘यदि वाचाभिव्याहृतं यदि प्राणेनाभिप्राणितम्’(ऐ. उ. १ । ३ । ११) इत्येवमादिना करणव्यापारविवेचनपूर्वकम् ‘अथ कोऽहम्’(ऐ. उ. १ । ३ । ११) इति वीक्ष्य, ‘स एतमेव पुरुषं ब्रह्म ततममपश्यत्’(ऐ. उ. १ । ३ । १३) इति ब्रह्मात्मत्वदर्शनमवधारयति । तथोपरिष्टात् — ‘एष ब्रह्मैष इन्द्रः’(ऐ. उ. ३ । १ । ३) इत्यादिना समस्तं भेदजातं सह महाभूतैरनुक्रम्य, ‘सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म’(ऐ. उ. ३ । १ । ३) इति ब्रह्मात्मत्वदर्शनमेव अवधारयति । तस्मात् इह आत्मगृहीतिरित्यनपवादम् ॥
अपरा योजना — आत्मगृहीतिरितरवदुत्तरात् । वाजसनेयके ‘कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’(बृ. उ. ४ । ३ । ७) इत्यात्मशब्देनोपक्रम्य, तस्यैव सर्वसङ्गविनिर्मुक्तत्वप्रतिपादनेन ब्रह्मात्मतामवधारयति । तथा हि उपसंहरति — ‘स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म’(बृ. उ. ४ । ४ । २५) इति । छान्दोग्ये तु ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’(छा. उ. ६ । २ । १) इति अन्तरेणैवात्मशब्दम् उपक्रम्य उदर्के ‘स आत्मा तत्त्वमसि’(छा. उ. ६ । ८ । ७) इति तादात्म्यमुपदिशति । तत्र संशयः — तुल्यार्थत्वं किमनयोराम्नानयोः स्यात् , अतुल्यार्थत्वं वेति । अतुल्यार्थत्वमिति तावत् प्राप्तम् , अतुल्यत्वादाम्नानयोः । न हि आम्नानवैषम्ये सति अर्थसाम्यं युक्तं प्रतिपत्तुम् , आम्नानतन्त्रत्वादर्थपरिग्रहस्य । वाजसनेयके च आत्मशब्दोपक्रमात् आत्मतत्त्वोपदेश इति गम्यते । छान्दोग्ये तु उपक्रमविपर्ययात् उपदेशविपर्ययः । ननु छन्दोगानामपि अस्त्युदर्के तादात्म्योपदेश इत्युक्तम्; सत्यमुक्तम् , उपक्रमतन्त्रत्वादुपसंहारस्य, तादात्म्यसम्पत्तिः सा — इति मन्यते । तथा प्राप्ते, अभिधीयते — आत्मगृहीतिः ‘सदेव सोम्येदमग्र आसीत्’(छा. उ. ६ । २ । १) इत्यत्र च्छन्दोगानामपि भवितुमर्हति । इतरवत् — यथा ‘कतम आत्मा’(बृ. उ. ४ । ३ । ७) इत्यत्र वाजसनेयिनामात्मगृहीतिः, तथैव । कस्मात् ? उत्तरात् तादात्म्योपदेशात् । अन्वयादिति चेत्स्यादवधारणात् — यदुक्तम् , उपक्रमान्वयात् उपक्रमे च आत्मशब्दश्रवणाभावात् न आत्मगृहीतिरिति, तस्य कः परिहार इति चेत् , सोऽभिधीयते — स्यादवधारणादिति । भवेदुपपन्ना इह आत्मगृहीतिः, अवधारणात् । तथा हि — ‘येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’(छा. उ. ६ । १ । ३) इत्येकविज्ञानेन सर्वविज्ञानमवधार्य, तत्सम्पिपादयिषया ‘सदेव’ इत्याह; तच्च आत्मगृहीतौ सत्यां सम्पद्यते । अन्यथा हि, योऽयं मुख्य आत्मा स न विज्ञात इति, नैव सर्वविज्ञानं सम्पद्येत । तथा प्रागुत्पत्तेः एकत्वावधारणम् , जीवस्य च आत्मशब्देन परामर्शः, स्वापावस्थायां च तत्स्वभावसम्पत्तिकथनम् , परिचोदनापूर्वकं च पुनः पुनः ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) इत्यवधारणम् — इति च सर्वमेतत् तादात्म्यप्रतिपादनायामेव अवकल्पते, न तादात्म्यसम्पादनायाम् । न च अत्र उपक्रमतन्त्रत्वोपन्यासो न्याय्यः । न हि उपक्रमे आत्मत्वसङ्कीर्तनम् अनात्मत्वसङ्कीर्तनं वा अस्ति । सामान्योपक्रमश्च न वाक्यशेषगतेन विशेषेण विरुध्यते, विशेषाकाङ्क्षित्वात्सामान्यस्य । सच्छब्दार्थोऽपि च पर्यालोच्यमानः न मुख्यादात्मनोऽन्यः सम्भवति, अतोऽन्यस्य वस्तुजातस्य आरम्भणशब्दादिभ्योऽनृतत्वोपपत्तेः । आम्नानवैषम्यमपि नावश्यमर्थवैषम्यमावहति, ‘आहर पात्रम्’ ‘पात्रमाहर’ इत्येवमादिषु अर्थसाम्येऽपि तद्दर्शनात् । तस्मात् एवंजातीयकेषु वाक्येषु प्रतिपादनप्रकारभेदेऽपि प्रतिपाद्यार्थाभेद इति सिद्धम् ॥ १७ ॥
कार्याख्यानादपूर्वम् ॥ १८ ॥
१८छन्दोगा वाजसनेयिनश्च प्राणसंवादे श्वादिमर्यादं प्राणस्य अन्नमाम्नाय, तस्यैव आपो वास आमनन्ति । अनन्तरं च च्छन्दोगा आमनन्ति — ‘तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति’(छा. उ. ५ । २ । २) इति । वाजसनेयिनस्त्वामनन्ति — ‘तद्विद्वाꣳसः श्रोत्रियाः अशिष्यन्त आचामन्त्यशित्वा चामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते’(बृ. उ. ६ । १ । १४) ‘तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नं कुरुते’ इति । तत्र च आचमनम् अनग्नताचिन्तनं च प्राणस्य प्रतीयते । तत्किमुभयमपि विधीयते, उत आचमनमेव, उत अनग्नताचिन्तनमेवेति विचार्यते । किं तावत्प्राप्तम् ? उभयमपि विधीयत इति । कुतः ? उभयस्याप्यवगम्यमानत्वात् । उभयमपि च एतत् अपूर्वत्वात् विध्यर्हम् । अथवा आचमनमेव विधीयते । विस्पष्टा हि तस्मिन्विधिविभक्तिः — ‘तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेत्’ इति । तस्यैव स्तुत्यर्थम् अनग्नतासङ्कीर्तनमित्येवं प्राप्ते ब्रूमः —
न आचमनस्य विधेयत्वमुपपद्यते, कार्याख्यानात् — प्राप्तमेव हि इदं कार्यत्वेन आचमनं प्रायत्यार्थं स्मृतिप्रसिद्धम् अन्वाख्यायते । ननु इयं श्रुतिः तस्याः स्मृतेर्मूलं स्यात्; नेत्युच्यते, विषयनानात्वात् । सामान्यविषया हि स्मृतिः पुरुषमात्रसम्बद्धं प्रायत्यार्थमाचमनं प्रापयति । श्रुतिस्तु प्राणविद्याप्रकरणपठिता तद्विषयमेव आचमनं विदधती विदध्यात् । न च भिन्नविषययोः श्रुतिस्मृत्योः मूलमूलिभावोऽवकल्पते । न च इयं श्रुतिः प्राणविद्यासंयोगि अपूर्वमाचमनं विधास्यतीति शक्यमाश्रयितुम् , पूर्वस्यैव पुरुषमात्रसंयोगिन आचमनस्य इह प्रत्यभिज्ञायमानत्वात् । अत एव च नोभयविधानम् । उभयविधाने च वाक्यं भिद्येत । तस्मात् प्राप्तमेव अशिशिषतामशितवतां च उभयत आचमनम् अनूद्य, ‘एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते’(बृ. उ. ६ । १ । १४) इति प्राणस्य अनग्नताकरणसङ्कल्पः अनेन वाक्येन आचमनीयास्वप्सु प्राणविद्यासम्बन्धित्वेन अपूर्व उपदिश्यते । न च अयमनग्नतावादः आचमनस्तुत्यर्थ इति न्याय्यम् , आचमनस्याविधेयत्वात् । स्वयं च अनग्नतासङ्कल्पस्य विधेयत्वप्रतीतेः । न च एवं सति एकस्य आचमनस्य उभयार्थता अभ्युपगता भवति — प्रायत्यार्थता परिधानार्थता चेति । क्रियान्तरत्वाभ्युपगमात् — क्रियान्तरमेव हि आचमनं नाम प्रायत्यार्थं पुरुषस्य अभ्युपगम्यते । तदीयासु तु अप्सु वासःसङ्कल्पनं नाम क्रियान्तरमेव परिधानार्थं प्राणस्य अभ्युपगम्यत इत्यनवद्यम् । अपि च ‘यदिदं किञ्चा श्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नम्’(बृ. उ. ६ । १ । १४) इत्यत्र तावत् न सर्वान्नाभ्यवहारश्चोद्यत इति शक्यं वक्तुम् , अशब्दत्वादशक्यत्वाच्च । सर्वं तु प्राणस्यान्नमिति इयमन्नदृष्टिश्चोद्यते । तत्साहचर्याच्च ‘आपो वासः’ इत्यत्रापि न अपामाचमनं चोद्यते । प्रसिद्धास्वेव तु आचमनीयास्वप्सु परिधानदृष्टिश्चोद्यत इति युक्तम् । न हि अर्धवैशसं सम्भवति । अपि च आचामन्तीति वर्तमानापदेशित्वात् नायं शब्दो विधिक्षमः । ननु मन्यन्त इत्यपि समानं वर्तमानापदेशित्वम्; सत्यमेवमेतत्; अवश्यविधेये तु अन्यतरस्मिन् वासःकार्याख्यानात् अपां वासःसङ्कल्पनमेव अपूर्वं विधीयते । न आचमनम् । पूर्ववद्धि तत् — इत्युपपादितम् । यदप्युक्तम् — विस्पष्टा च आचमने विधिविभक्तिरिति, तदपि पूर्ववत्त्वेनैव आचमनस्य प्रत्युक्तम् । अत एव आचमनस्याविधित्सितत्वात् ‘एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते’ इत्यत्रैव काण्वाः पर्यवस्यन्ति, न आमनन्ति ‘तस्मादेवंवित्’ इत्यादि तस्मात् माध्यन्दिनानामपि पाठे आचमनानुवादेन एवंवित्त्वमेव प्रकृतप्राणवासोवित्त्वं विधीयत इति प्रतिपत्तव्यम् । योऽप्ययमभ्युपगमः — क्वचिदाचमनं विधीयताम् , क्वचिद्वासोविज्ञानमिति — सोऽपि न साधुः, ‘आपो वासः’ इत्यादिकाया वाक्यप्रवृत्तेः सर्वत्रैकरूप्यात् । तस्मात् वासोविज्ञानमेव इह विधीयते, न आचमनमिति न्याय्यम् ॥ १८ ॥
समान एवं चाभेदात् ॥ १९ ॥
१९वाजसनेयिशाखायाम् अग्निरहस्ये शाण्डिल्यनामाङ्किता विद्या विज्ञाता । तत्र च गुणाः श्रूयन्ते — ‘स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपम्’ इत्येवमादयः । तस्यामेव शाखायां बृहदारण्यके पुनः पठ्यते — ‘मनोमयोऽयं पुरुषो भाःसत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च’(बृ. उ. ५ । ६ । १) इति । तत्र संशयः — किमियम् एका विद्या अग्निरहस्यबृहदारण्यकयोः गुणोपसंहारश्च, उत द्वे इमे विद्ये गुणानुपसंहारश्चेति । किं तावत्प्राप्तम् ? विद्याभेदः गुणव्यवस्था चेति । कुतः ? पौनरुक्त्यप्रसङ्गात् — भिन्नासु हि शाखासु अध्येतृवेदितृभेदात् पौनरुक्त्यपरिहारमालोच्य विद्यैकत्वमध्यवसाय एकत्रातिरिक्ता गुणा इतरत्रोपसंह्रियन्ते प्राणसंवादादिषु — इत्युक्तम् । एकस्यां पुनः शाखायाम् अध्येतृवेदितृभेदाभावात् अशक्यपरिहारे पौनरुक्त्ये न विप्रकृष्टदेशस्था एका विद्या भवितुमर्हति । न च अत्र एकमाम्नानं विद्याविधानार्थम् , अपरं गुणविधानार्थम् — इति विभागः सम्भवति । तदा हि अतिरिक्ता एव गुणा इतरत्रेतरत्र च आम्नायेरन् , न समानाः । समाना अपि तु उभयत्राम्नायन्ते मनोमयत्वादयः । तस्मात् नान्योन्यगुणोपसंहार इत्येवं प्राप्ते ब्रूमहे —
यथा भिन्नासु शाखासु विद्यैकत्वं गुणोपसंहारश्च भवति एवमेकस्यामपि शाखायां भवितुमर्हति, उपास्याभेदात् । तदेव हि ब्रह्म मनोमयत्वादिगुणकम् उभयत्रापि उपास्यम् अभिन्नं प्रत्यभिजानीमहे । उपास्यं च रूपं विद्यायाः । न च विद्यमाने रूपाभेदे विद्याभेदमध्यवसातुं शक्नुमः । नापि विद्याऽभेदे गुणव्यवस्थानम् । ननु पौनरुक्त्यप्रसङ्गात् विद्याभेदोऽध्यवसितः; नेत्युच्यते, अर्थविभागोपपत्तेः — एकं हि आम्नानं विद्याविधानार्थम् , अपरं गुणविधानार्थम् — इति न किञ्चिन्नोपपद्यते । ननु एवं सति यदपठितमग्निरहस्ये, तदेव बृहदारण्यके पठितव्यम् — ‘स एष सर्वस्येशानः’ इत्यादि । यत्तु पठितमेव ‘मनोमयः’ इत्यादि, तन्न पठितव्यम् — नैष दोषः, तद्बलेनैव प्रदेशान्तरपठितविद्याप्रत्यभिज्ञानात् । समानगुणाम्नानेन हि विप्रकृष्टदेशां शाण्डिल्यविद्यां प्रत्यभिज्ञाप्य तस्याम् ईशानत्वादि उपदिश्यते । अन्यथा हि कथं तस्याम् अयं गुणविधिरभिधीयते । अपि च अप्राप्तांशोपदेशेन अर्थवति वाक्ये सञ्जाते, प्राप्तांशपरामर्शस्य नित्यानुवादतयापि उपपद्यमानत्वात् न तद्बलेन प्रत्यभिज्ञा उपेक्षितुं शक्यते । तस्मादत्र समानायामपि शाखायां विद्यैकत्वं गुणोपसंहारश्चेत्युपपन्नम् ॥ १९ ॥
सम्बन्धादेवमन्यत्रापि ॥ २० ॥
२०बृहदारण्यके ‘सत्यं ब्रह्म’(बृ. उ. ५ । ५ । १) इत्युपक्रम्य, ‘तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः’(बृ. उ. ५ । ५ । २) इति तस्यैव सत्यस्य ब्रह्मणः अधिदैवतमध्यात्मं च आयतनविशेषमुपदिश्य, व्याहृतिशरीरत्वं च सम्पाद्य, द्वे उपनिषदावुपदिश्येते — ‘तस्योपनिषदहः’ इति — अधिदैवतम् , ‘तस्योपनिषदहम्’ इति — अध्यात्मम् । तत्र संशयः — किमविभागेनैव उभे अपि उपनिषदावुभयत्रानुसन्धातव्ये, उत विभागेन — एका अधिदैवतम् , एका अध्यात्ममिति । तत्र सूत्रेणैवोपक्रमते — यथा शाण्डिल्यविद्यायां विभागेनाप्यधीतायां गुणोपसंहार उक्तः, एवमन्यत्रापि एवंजातीयके विषये भवितुमर्हति, एकविद्याभिसम्बन्धात् — एका हि इयं सत्यविद्या अधिदैवतम् अध्यात्मं च अधीता, उपक्रमाभेदात् व्यतिषक्तपाठाच्च । कथं तस्यामुदितो धर्मः तस्यामेव न स्यात् । यो ह्याचार्ये कश्चिदनुगमनादिराचारश्चोदितः, स ग्रामगतेऽरण्यगते च तुल्यवदेव भवति । तस्मात् उभयोरप्युपनिषदोः उभयत्र प्राप्तिरिति ॥ २० ॥