ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायः (२)
एवं प्राप्ते, प्रतिविधत्ते —
न वा विशेषात् ॥ २१ ॥
२१न वा उभयोः उभयत्र प्राप्तिः । कस्मात् ? विशेषात् , उपासनस्थानविशेषोपनिबन्धादित्यर्थः । कथं स्थानविशेषोपनिबन्ध इति, उच्यते — ‘य एष एतस्मिन्मण्डले पुरुषः’(बृ. उ. ५ । ५ । ३) इति हि आधिदैविकं पुरुषं प्रकृत्य, ‘तस्योपनिषदहः’ इति श्रावयति । ‘योऽयं दक्षिणेऽक्षन्पुरुषः’(बृ. उ. ५ । ५ । ४) इति च आध्यात्मिकं पुरुषं प्रकृत्य, ‘तस्योपनिषदहम्’ इति । तस्येति च एतत् सन्निहितावलम्बनं सर्वनाम । तस्मात् आयतनविशेषव्यपाश्रयेणैव एते उपनिषदावुपदिश्येते । कुत उभयोरुभयत्र प्राप्तिः । ननु एक एवायम् अधिदैवतमध्यात्मं च पुरुषः, एकस्यैव सत्यस्य ब्रह्मण आयतनद्वयप्रतिपादनात् । सत्यमेवमेतत् । एकस्यापि तु अवस्थाविशेषोपादानेनैव उपनिषद्विशेषोपदेशात् तदवस्थस्यैव सा भवितुमर्हति । अस्ति चायं दृष्टान्तः — सत्यपि आचार्यस्वरूपानपाये, यत् आचार्यस्य आसीनस्य अनुवर्तनमुक्तम् , न तत् तिष्ठतो भवति । यच्च तिष्ठत उक्तम् , न तदासीनस्येति । ग्रामारण्ययोस्तु आचार्यस्वरूपानपायात् तत्स्वरूपानुबद्धस्य च धर्मस्य ग्रामारण्यकृतविशेषाभावात् उभयत्र तुल्यवद्भाव इति अदृष्टान्तः सः । तस्मात् व्यवस्था अनयोरुपनिषदोः ॥ २१ ॥
दर्शयति च ॥ २२ ॥
२२अपि च एवंजातीयकानां धर्माणां व्यवस्थेति लिङ्गदर्शनं भवति — ‘तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम’(छा. उ. १ । ७ । ५) इति । कथमस्य लिङ्गत्वमिति ? तदुच्यते — अक्ष्यादित्यस्थानभेदभिन्नान् धर्मान् अन्योन्यस्मिन्ननुपसंहार्यान् पश्यन् इह अतिदेशेन आदित्यपुरुषगतारूपादीन् अक्षिपुरुषे उपसंहरति — ‘तस्यैतस्य तदेव रूपम्’(छा. उ. १ । ७ । ५) इत्यादिना । तस्माद्व्यवस्थिते एव एते उपनिषदाविति निर्णयः ॥ २२ ॥
सम्भृतिद्युव्याप्त्यपि चातः ॥ २३ ॥
२३‘ब्रह्मज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान’ इत्येवं राणायनीयानां खिलेषु वीर्यसम्भृतिद्युनिवेशप्रभृतयो ब्रह्मणो विभूतयः पठ्यन्ते । तेषामेव च उपनिषदि शाण्डिल्यविद्याप्रभृतयो ब्रह्मविद्याः पठ्यन्ते । तासु ब्रह्मविद्यासु ता ब्रह्मविभूतय उपसंह्रियेरन् , न वेति विचारणायाम् , ब्रह्मसम्बन्धादुपसंहारप्राप्तौ एवं पठति । सम्भृतिद्युव्याप्तिप्रभृतयो विभूतयः शाण्डिल्यविद्याप्रभृतिषु नोपसंहर्तव्याः, अत एव च आयतनविशेषयोगात् । तथा हि शाण्डिल्यविद्यायां हृदयायतनत्वं ब्रह्मण उक्तम् — ‘एष म आत्मान्तर्हृदये’(छा. उ. ३ । १४ । ३) इति; तद्वदेव दहरविद्यायामपि — ‘दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः’(छा. उ. ८ । १ । २) इति । उपकोसलविद्यायां तु अक्ष्यायतनत्वम् — ‘य एषोऽक्षिणि पुरुषो दृश्यते’(छा. उ. ४ । १५ । १) इति । एवं तत्र तत्र तत्तत् आध्यात्मिकमायतनम् एतासु विद्यासु प्रतीयते । आधिदैविक्यस्तु एता विभूतयः सम्भृतिद्युव्याप्तिप्रभृतयः । तासां कुत एतासु प्राप्तिः । नन्वेतास्वपि आधिदैविक्यो विभूतयः श्रूयन्ते — ‘ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः’(छा. उ. ३ । १४ । ३) ‘एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति’(छा. उ. ४ । १५ । ४) ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते’(छा. उ. ८ । १ । ३) इत्येवमाद्याः । सन्ति च अन्या आयतनविशेषहीना अपि इह ब्रह्मविद्याः षोडशकलाद्याः — सत्यमेवमेतत्; तथाप्यत्र विद्यते विशेषः सम्भृत्याद्यनुपसंहारहेतुः — समानगुणाम्नानेन हि प्रत्युपस्थापितासु विप्रकृष्टदेशास्वपि विद्यासु विप्रकृष्टदेशा गुणा उपसंह्रियेरन्निति युक्तम् । सम्भृत्यादयस्तु शाण्डिल्यादिवाक्यगोचराश्च मनोमयत्वादयो गुणाः परस्परव्यावृत्तस्वरूपत्वात् न प्रदेशान्तरवर्तिविद्याप्रत्युपस्थापनक्षमाः । न च ब्रह्मसम्बन्धमात्रेण प्रदेशान्तरवर्तिविद्याप्रत्युपस्थापनमित्युचितम् , विद्याभेदेऽपि तदुपपत्तेः । एकमपि हि ब्रह्म विभूतिभेदैरनेकधा उपास्यत इति स्थितिः, परोवरीयस्त्वादिवद्भेददर्शनात् । तस्मात् वीर्यसम्भृत्यादीनां शाण्डिल्यविद्यादिषु अनुपसंहार इति ॥ २३ ॥
पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥ २४ ॥
२४अस्ति ताण्डिनां पैङ्गिनां च रहस्यब्राह्मणे पुरुषविद्या । तत्र पुरुषो यज्ञः कल्पितः । तदीयमायुः त्रेधा विभज्य सवनत्रयं कल्पितम् । अशिशिषादीनि च दीक्षादिभावेन कल्पितानि । अन्ये च धर्मास्तत्र समधिगता आशीर्मन्त्रप्रयोगादयः । तैत्तिरीयका अपि कञ्चित् पुरुषयज्ञं कल्पयन्ति — ‘तस्यैवंविदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी’(ना. उ. ८०) इत्येतेनानुवाकेन । तत्र संशयः — किमितरत्र उक्ताः पुरुषयज्ञस्य धर्माः ते तैत्तिरीयके प्युपसंहर्तव्याः, किं वा नोपसंहर्तव्या इति । पुरुषयज्ञत्वाविशेषात् उपसंहारप्राप्तौ, आचक्ष्महे — नोपसंहर्तव्या इति । कस्मात् ? तद्रूपप्रत्यभिज्ञानाभावात् । तदाहाचार्यः पुरुषविद्यायामिवेति — यथा एकेषां शाखिनां ताण्डिनां पैङ्गिनां च पुरुषविद्यायामाम्नानम् , नैवम् इतरेषां तैत्तिरीयाणामाम्नानमस्ति । तेषां हि इतरविलक्षणमेव यज्ञसम्पादनं दृश्यते, पत्नीयजमानवेदवेदिबर्हिर्यूपाज्यपश्वृत्विगाद्यनुक्रमणात् । यदपि सवनसम्पादनं तदपि इतरविलक्षणमेव — ‘यत्प्रातर्मध्यन्दिनं सायं च तानि’(ना. उ. ८०) इति । यदपि किञ्चित् मरणावभृथत्वादिसाम्यम् , तदपि अल्पीयस्त्वात् भूयसा वैलक्षण्येन अभिभूयमानं न प्रत्यभिज्ञापनक्षमम् । न च तैत्तिरीयके पुरुषस्य यज्ञत्वं श्रूयते । ‘विदुषः’ ‘यज्ञस्य’ इति हि न च एते समानाधिकरणे षष्ठ्यौ — विद्वानेव यो यज्ञस्तस्येति । न हि पुरुषस्य मुख्यं यज्ञत्वमस्ति । व्यधिकरणे तु एते षष्ठ्यौ — विदुषो यो यज्ञस्तस्येति । भवति हि पुरुषस्य मुख्यो यज्ञसम्बन्धः । सत्यां च गतौ, मुख्य एवार्थ आश्रयितव्यः, न भाक्तः । ‘आत्मा यजमानः’ इति च यजमानत्वं पुरुषस्य निर्ब्रुवन् वैयधिकरण्येनैव अस्य यज्ञसम्बन्धं दर्शयति । अपि च ‘तस्यैवं विदुषः’ इति सिद्धवदनुवादश्रुतौ सत्याम् , पुरुषस्य यज्ञभावम् आत्मादीनां च यजमानादिभावं प्रतिपित्समानस्य वाक्यभेदः स्यात् । अपि च ससंन्यासामात्मविद्यां पुरस्तादुपदिश्य अनन्तरम् ‘तस्यैवं विदुषः’ इत्याद्यनुक्रमणं पश्यन्तः — पूर्वशेष एव एष आम्नायः, न स्वतन्त्र इति प्रतीमः । तथा च एकमेव फलमुभयोरप्यनुवाकयोरुपलभामहे — ‘ब्रह्मणो महिमानमाप्नोति’(ना. उ. ८०) इति; इतरेषां तु अनन्यशेषः पुरुषविद्याम्नायः । आयुरभिवृद्धिफलो ह्यसौ, ‘प्र ह षोडशं वर्षशतं जीवति य एवं वेद’(छा. उ. ३ । १६ । ७) इति समभिव्याहारात् । तस्मात् शाखान्तराधीतानां पुरुषविद्याधर्माणामाशीर्मन्त्रादीनामप्राप्तिः तैत्तिरीयके ॥ २४ ॥
वेधाद्यर्थभेदात् ॥ २५ ॥
२५अस्त्याथर्वणिकानामुपनिषदारम्भे मन्त्रसमाम्नायः — ‘सर्वं प्रविध्य हृदयं प्रविध्य धमनीः प्रवृज्य शिरोऽभिप्रवृज्य त्रिधा विपृक्तः’ इत्यादिः । ताण्डिनाम् — ‘देव सवितः प्रसुव यज्ञम्’ इत्यादिः । शाट्यायनिनाम् — ‘श्वेताश्वो हरितनीलोऽसि’ इत्यादिः । कठानां तैत्तिरीयाणां च — ‘शं नो मित्रः शं वरुणः’(तै. उ. १ । १ । १) इत्यादिः । वाजसनेयिनां तु उपनिषदारम्भे प्रवर्ग्यब्राह्मणं पठ्यते — ‘देवा ह वै सत्रं निषेदुः’ इत्यादि । कौषीतकिनामपि अग्निष्टोमब्राह्मणम् — ‘ब्रह्म वा अग्निष्टोमो ब्रह्मैव तदहर्ब्रह्मणैव ते ब्रह्मोपयन्ति तेऽमृतत्वमाप्नुवन्ति य एतदहरुपयन्ति’ इति । किमिमे सर्वं प्रविध्येत्यादयो मन्त्राः प्रवर्ग्यादीनि च कर्माणि विद्यासु उपसंह्रियेरन् , किं वा न उपसंह्रियेरन् — इति मीमांसामहे । किं तावत् नः प्रतिभाति ? उपसंहार एव एषां विद्यास्विति । कुतः ? विद्याप्रधानानामुपनिषद्ग्रन्थानां समीपे पाठात् । ननु एषां विद्यार्थतया विधानं नोपलभामहे — बाढम् , अनुपलभमाना अपि तु अनुमास्यामहे, सन्निधिसामर्थ्यात् । न हि सन्निधेः अर्थवत्त्वे सम्भवति, अकस्मादसावनाश्रयितुं युक्तः । ननु नैषां मन्त्राणां विद्याविषयं किञ्चित्सामर्थ्यं पश्यामः । कथं च प्रवर्ग्यादीनि कर्माणि अन्यार्थत्वेनैव विनियुक्तानि सन्ति विद्यार्थत्वेनापि प्रतिपद्येमहीति । नैष दोषः । सामर्थ्यं तावत् मन्त्राणां विद्याविषयमपि किञ्चित् शक्यं कल्पयितुम् , हृदयादिसङ्कीर्तनात् । हृदयादीनि हि प्रायेण उपासनेषु आयतनादिभावेनोपदिष्टानि । तद्द्वारेण च ‘हृदयं प्रविध्य’ इत्येवंजातीयकानां मन्त्राणाम् उपपन्नमुपासनाङ्गत्वम्; दृष्टश्च उपासनेष्वपि मन्त्रविनियोगः — ‘भूः प्रपद्येऽमुनाऽमुनाऽमुना’(छा. उ. ३ । १५ । ३) इत्येवमादिः । तथा प्रवर्ग्यादीनां कर्मणाम् अन्यत्रापि विनियुक्तानां सताम् अविरुद्धो विद्यासु विनियोगः — वाजपेय इव बृहस्पतिसवस्य — इत्येवं प्राप्ते ब्रूमः —
नैषामुपसंहारो विद्यास्विति । कस्मात् ? वेधाद्यर्थभेदात् — ‘हृदयं प्रविध्य’ इत्येवंजातीयकानां हि मन्त्राणां येऽर्था हृदयवेधादयः, भिन्नाः अनभिसम्बद्धाः ते उपनिषदुदिताभिर्विद्याभिः । न तेषां ताभिः सङ्गन्तुं सामर्थ्यमस्ति । ननु हृदयस्य उपासनेष्वप्युपयोगात् तद्द्वारक उपासनासम्बन्ध उपन्यस्तः — नेत्युच्यते । हृदयमात्रसङ्कीर्तनस्य हि एवमुपयोगः कथञ्चिदुत्प्रेक्ष्येत । न च हृदयमात्रमत्र मन्त्रार्थः । ‘हृदयं प्रविध्य धमनीः प्रवृज्य’ इत्येवंजातीयको हि न सकलो मन्त्रार्थो विद्याभिरभिसम्बध्यते । अभिचारिकविषयो ह्येषोऽर्थः । तस्मादाभिचारिकेण कर्मणा ‘सर्वं प्रविध्य’ इत्येतस्य मन्त्रस्याभिसम्बन्धः । तथा ‘देव सवितः प्रसुव यज्ञम्’ इत्यस्य यज्ञप्रसवलिङ्गत्वात् यज्ञेन कर्मणा अभिसम्बन्धः । तद्विशेषसम्बन्धस्तु प्रमाणान्तरादनुसर्तव्यः । एवमन्येषामपि मन्त्राणाम् — केषाञ्चित् लिङ्गेन, केषाञ्चिद्वचनेन, केषाञ्चित्प्रमाणान्तरेणेत्येवम् — अर्थान्तरेषु विनियुक्तानाम् , रहस्यपठितानामपि सताम् , न सन्निधिमात्रेण विद्याशेषत्वोपपत्तिः । दुर्बलो हि सन्निधिः श्रुत्यादिभ्य इत्युक्तं प्रथमे तन्त्रे — ‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’(जै. सू. ३ । ३ । १४) इत्यत्र । तथा कर्मणामपि प्रवर्ग्यादीनामन्यत्र विनियुक्तानां न विद्याशेषत्वोपपत्तिः । न ह्येषां विद्याभिः सह ऐकार्थ्यं किञ्चिदस्ति । वाजपेये तु बृहस्पतिसवस्य स्पष्टं विनियोगान्तरम् — ‘वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत’ इति । अपि च एकोऽयं प्रवर्ग्यः सकृदुत्पन्नो बलीयसा प्रमाणेन अन्यत्र विनियुक्तः न दुर्बलेन प्रमाणेन अन्यत्रापि विनियोगमर्हति । अगृह्यमाणविशेषत्वे हि प्रमाणयोः एतदेवं स्यात् । न तु बलवदबलवतोः प्रमाणयोरगृह्यमाणविशेषता सम्भवति, बलवदबलवत्त्वविशेषादेव । तस्मात् एवंजातीयकानां मन्त्राणां कर्मणां वा न सन्निधिपाठमात्रेण विद्याशेषत्वमाशङ्कितव्यम् । अरण्यानुवचनादिधर्मसामान्यात्तु सन्निधिपाठ इति संतोष्टव्यम् ॥ २५ ॥
हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ॥ २६ ॥
२६अस्ति ताण्डिनां श्रुतिः — ‘अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामि’(छा. उ. ८ । १३ । १) इति । तथा आथर्वणिकानाम् — ‘तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’(मु. उ. ३ । १ । ३) इति । तथा शाट्यायनिनः पठन्ति — ‘तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्’ इति । तथैव कौषीतकिनः — ‘तत्सुकृतदुष्कृते विधूनुते तस्य प्रिया ज्ञातयः सुकृतमुपयन्त्यप्रिया दुष्कृतम्’(कौ॰उ॰ १-४) इति । तदिह क्वचित् सुकृतदुष्कृतयोर्हानं श्रूयते । क्वचित्तयोरेव विभागेन प्रियैरप्रियैश्चोपायनम् । क्वचित्तु उभयमपि हानमुपायनं च । तद्यत्रोभयं श्रूयते तत्र तावत् न किञ्चिद्वक्तव्यमस्ति । यत्राप्युपायनमेव श्रूयते, न हानम् , तत्राप्यर्थादेव हानं सन्निपतति, अन्यैरात्मीययोः सुकृतदुष्कृतयोरुपेयमानयोः आवश्यकत्वात्तद्धानस्य । यत्र तु हानमेव श्रूयते, नोपायनम् — तत्रोपायनं सन्निपतेद्वा, न वेति विचिकित्सायाम् — अश्रवणादसन्निपातः, विद्यान्तरगोचरत्वाच्च शाखान्तरीयस्य श्रवणस्य । अपि च आत्मकर्तृकं सुकृतदुष्कृतयोर्हानम् । परकर्तृकं तु उपायनम् । तयोरसत्यावश्यकभावे, कथं हानेनोपायनमाक्षिप्येत ? तस्मादसन्निपातो हानावुपायनस्येति ॥
अस्यां प्राप्तौ पठति — हानाविति । हानौ तु एतस्यां केवलायामपि श्रूयमाणायाम् उपायनं सन्निपतितुमर्हति । तच्छेषत्वात् — हानशब्दशेषो हि उपायनशब्दः समधिगतः कौषीतकिरहस्ये । तस्मादन्यत्र केवलहानशब्दश्रवणेऽप्युपायनानुवृत्तिः । यदुक्तम् — अश्रवणात् विद्यान्तरगोचरत्वात् अनावश्यकत्वाच्च असन्निपात इति, तदुच्यते — भवेदेषा व्यवस्थोक्तिः, यद्यनुष्ठेयं किञ्चिदन्यत्र श्रुतम् अन्यत्र निनीष्येत । न त्विह हानमुपायनं वा अनुष्ठेयत्वेन सङ्कीर्त्यते । विद्यास्तुत्यर्थं तु अनयोः सङ्कीर्तनम् — इत्थं महाभागा विद्या, यत्सामर्थ्यादस्य विदुषः सुकृतदुष्कृते संसारकारणभूते विधूयेते, ते च अस्य सुहृद्द्विषत्सु निविशेते इति । स्तुत्यर्थे च अस्मिन्संकीर्तने, हानानन्तरभावित्वेनोपायनस्य, क्वचिच्छ्रुतत्वात् अन्यत्रापि हानश्रुतावुपायनानुवृत्तिं मन्यते — स्तुतिप्रकर्षलाभाय । प्रसिद्धा च अर्थवादान्तरापेक्षा अर्थवादान्तरप्रवृत्तिः — ‘एकविंशो वा इतोऽसावादित्यः’(छा. उ. २ । १० । ५) इत्येवमादिषु । कथं हि इह एकविंशता आदित्यस्याभिधीयेत, अनपेक्ष्यमाणेऽर्थवादान्तरे — ‘द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः’(तै॰सं॰ ५-१-१०) इत्येतस्मिन् । तथा ‘त्रिष्टुभौ भवतः सेन्द्रियत्वाय’ इत्येवमादिवादेषु ‘इन्द्रियं वै त्रिष्टुप्’ इत्येवमाद्यर्थवादान्तरापेक्षा दृश्यते । विद्यास्तुत्यर्थत्वाच्च अस्योपायनवादस्य, कथमन्यदीये सुकृतदुष्कृते अन्यैरुपेयेते इति नातीवाभिनिवेष्टव्यम् । उपायनशब्दशेषत्वादिति च शब्दशब्दं समुच्चारयन् स्तुत्यर्थामेव हानावुपायनानुवृत्तिं सूचयति । गुणोपसंहारविवक्षायां हि उपायनार्थस्यैव हानावनुवृत्तिं ब्रूयात् । तस्मात् गुणोपसंहारविचारप्रसङ्गेन स्तुत्युपसंहारप्रदर्शनार्थमिदं सूत्रम् । कुशाच्छन्दस्तुत्युपगानवदिति उपमोपादानम् । तद्यथा — भाल्लविनाम् ‘कुशा वानस्पत्याः स्थ ता मा पात’ इत्येतस्मिन्निगमे कुशानामविशेषेण वनस्पतियोनित्वेन श्रवणे, शाट्यायनिनाम् ‘औदुम्बराः कुशा’ इति विशेषवचनात् औदुम्बर्यः कुशा आश्रीयन्ते । यथा च क्वचित् देवासुरच्छन्दसामविशेषेण पौर्वापर्यप्रसङ्गे, देवच्छन्दांसि पूर्वाणीति पैङ्ग्याम्नानात्प्रतीयते । यथा च षोडशिस्तोत्रे केषाञ्चित्कालाविशेषप्राप्तौ, ‘समयाध्युषिते सूर्ये’ इत्यार्चश्रुतेः कालविशेषप्रतिपत्तिः । यथैव च अविशेषेणोपगानं केचित्समामनन्ति विशेषेण भाल्लविनः — यथा एतेषु कुशादिषु श्रुत्यन्तरगतविशेषान्वयः, एवं हानावप्युपायनान्वय इत्यर्थः । श्रुत्यन्तरकृतं हि विशेषं श्रुत्यन्तरेऽनभ्युपगच्छतः सर्वत्रैव विकल्पः स्यात् । स च अन्याय्यः सत्यां गतौ । तदुक्तं द्वादशलक्षण्याम् — ‘अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात्’(जै॰सू॰ १०-८-१५) इति ॥
अथवा एतास्वेव विधूननश्रुतिषु एतेन सूत्रेण एतच्चिन्तयितव्यम् — किमनेन विधूननवचनेन सुकृतदुष्कृतयोर्हानमभिधीयते, किं वा अर्थान्तरमिति । तत्र च एवं प्रापयितव्यम् — न हानं विधूननमभिधीयते, ‘धूञ् कम्पने’ इति स्मरणात् , ‘दोधूयन्ते ध्वजाग्राणि’ इति च वायुना चाल्यमानेषु ध्वजाग्रेषु प्रयोगदर्शनात् । तस्मात् चालनं विधूननमभिधीयते । चालनं तु सुकृतदुष्कृतयोः कञ्चित्कालं फलप्रतिबन्धनात् — इत्येवं प्रापय्य, प्रतिवक्तव्यम् — हानावेव एष विधूननशब्दो वर्तितुमर्हति, उपायनशब्दशेषत्वात् । न हि परपरिग्रहभूतयोः सुकृतदुष्कृतयोः अप्रहीणयोः परैरुपायनं सम्भवति । यद्यपि इदं परकीययोः सुकृतदुष्कृतयोः परैरुपायनं न आञ्जसं सम्भाव्यते, तथापि तत्सङ्कीर्तनात्तावत् तदानुगुण्येन हानमेव विधूननं नामेति निर्णेतुं शक्यते । क्वचिदपि च इदं विधूननसन्निधावुपायनं श्रूयमाणं कुशाच्छन्दस्तुत्युपगानवत् विधूननश्रुत्या सर्वत्रापेक्ष्यमाणं सार्वत्रिकं निर्णयकारणं सम्पद्यते । न च चालनं ध्वजाग्रवत् सुकृतदुष्कृतयोर्मुख्यं सम्भवति, अद्रव्यत्वात् । अश्वश्च रोमाणि विधून्वानः त्यजन् रजः सहैव तेन रोमाण्यपि जीर्णानि शातयति — ‘अश्व इव रोमाणि विधूय पापम्’(छा. उ. ८ । १३ । १) इति च ब्राह्मणम् । अनेकार्थत्वाभ्युपगमाच्च धातूनां न स्मरणविरोधः । तदुक्तमिति व्याख्यातम् ॥ २६ ॥
साम्पराये तर्तव्याभावात्तथा ह्यन्ये ॥ २७ ॥
२७देवयानेन पथा पर्यङ्कस्थं ब्रह्म अभिप्रस्थितस्य व्यध्वनि सुकृतदुष्कृतयोर्वियोगं कौषीतकिनः पर्यङ्कविद्यायामामनन्ति — ‘स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति’(कौ. उ. १ । ३) इत्युपक्रम्य, ‘स आगच्छति विरजां नदीं तां मनसैवात्येति तत्सुकृतदुष्कृते विधूनुते’(कौ. उ. १ । ४) इति । तत् किं यथाश्रुतं व्यध्वन्येव वियोगवचनं प्रतिपत्तव्यम् , आहोस्वित् आदावेव देहादपसर्पणे — इति विचारणायाम् , श्रुतिप्रामाण्यात् यथाश्रुति प्रतिपत्तिप्रसक्तौ, पठति — साम्पराय इति । साम्पराये गमन एव देहादपसर्पणे, इदं विद्यासामर्थ्यात्सुकृतदुष्कृतहानं भवति — इति प्रतिजानीते । हेतुं च आचष्टे — तर्तव्याभावादिति । न हि विदुषः सम्परेतस्य विद्यया ब्रह्म संप्रेप्सतः अन्तराले सुकृतदुष्कृताभ्यां किञ्चित्प्राप्तव्यमस्ति, यदर्थं कतिचित्क्षणानक्षीणे ते कल्प्येयाताम् । विद्याविरुद्धफलत्वात्तु विद्यासामर्थ्येन तयोः क्षयः । स च यदैव विद्या फलाभिमुखी तदैव भवितुमर्हति । तस्मात् प्रागेव सन् अयं सुकृतदुष्कृतक्षयः पश्चात्पठ्यते । तथा हि अन्येऽपि शाखिनः ताण्डिनः शाट्यायनिनश्च प्रागवस्थायामेव सुकृतदुष्कृतहानमामनन्ति — ‘अश्व इव रोमाणि विधूय पापम्’(छा. उ. ८ । १३ । १) इति, ‘तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्’ इति च ॥ २७ ॥
छन्दत उभयाविरोधात् ॥ २८ ॥
२८यदि च देहादपसृप्तस्य देवयानेन पथा प्रस्थितस्य अर्धपथे सुकृतदुष्कृतक्षयोऽभ्युपगम्येत, ततः पतिते देहे यमनियमविद्याभ्यासात्मकस्य सुकृतदुष्कृतक्षयहेतोः पुरुषयत्नस्य इच्छातोऽनुष्ठानानुपपत्तेः अनुपपत्तिरेव तद्धेतुकस्य सुकृतदुष्कृतक्षयस्य स्यात् । तस्मात् पूर्वमेव साधकावस्थायां छन्दतोऽनुष्ठानं तस्य स्यात् , तत्पूर्वकं च सुकृतदुष्कृतहानम् — इति द्रष्टव्यम् । एवं निमित्तनैमित्तिकयोरुपपत्तिः ताण्डिशाट्यायनिश्रुत्योश्च सङ्गतिरिति ॥ २८ ॥
गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥ २९ ॥
२९क्वचित् पुण्यपापापहानसन्निधौ देवयानः पन्थाः श्रूयते, क्वचिन्न । तत्र संशयः — किं हानावविशेषेणैव देवयानः पन्थाः सन्निपतेत् , उत विभागेन क्वचित्सन्निपतेत् क्वचिन्नेति । यथा तावत् हानावविशेषेणैव उपायनानुवृत्तिरुक्ता एवं देवयानानुवृत्तिरपि भवितुमर्हतीत्यस्यां प्राप्तौ, आचक्ष्महे — गतेः देवयानस्य पथः, अर्थवत्त्वम् , उभयथा विभागेन भवितुमर्हति — क्वचिदर्थवती गतिः क्वचिन्नेति; न अविशेषेण । अन्यथा हि अविशेषेणैव एतस्यां गतावङ्गीक्रियमाणायां विरोधः स्यात् — ‘पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’(मु. उ. ३ । १ । ३) इत्यस्यां श्रुतौ देशान्तरप्रापणी गतिर्विरुध्येत । कथं हि निरञ्जनोऽगन्ता देशान्तरं गच्छेत् । गन्तव्यं च परमं साम्यं न देशान्तरप्राप्त्यायत्तम् — इत्यानर्थक्यमेवात्र गतेर्मन्यामहे ॥ २९ ॥
उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥ ३० ॥
३०उपपन्नश्चायम् उभयथाभावः — क्वचिदर्थवती गतिः क्वचिन्नेति । तल्लक्षणार्थोपलब्धेः — गतिकारणभूतोऽर्थः पर्यङ्कविद्यादिषु सगुणेषु उपासनेषु उपलभ्यते । तत्र हि पर्यङ्कारोहणम् , पर्यङ्कस्थेन ब्रह्मणा संवदनम् , विशिष्टगन्धादिप्राप्तिश्च — इत्येवमादि बहु देशान्तरप्राप्त्यायत्तं फलं श्रूयते । तत्र अर्थवती गतिः । न हि सम्यग्दर्शने तल्लक्षणार्थोपलब्धिरस्ति । न हि आत्मैकत्वदर्शिनामाप्तकामानाम् इहैव दग्धाशेषक्लेशबीजानाम् आरब्धभोगकर्माशयक्षपणव्यतिरेकेण अपेक्षितव्यं किञ्चिदस्ति । तत्र अनर्थिका गतिः । लोकवच्च एष विभागो द्रष्टव्यः — यथा लोके ग्रामप्राप्तौ देशान्तरप्रापणः पन्था अपेक्ष्यते, न आरोग्यप्राप्तौ, एवमिहापीति । भूयश्च एनं विभागं चतुर्थाध्याये निपुणतरमुपपादयिष्यामः ॥ ३० ॥
अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥ ३१ ॥
३१सगुणासु विद्यासु गतिरर्थवती, न निर्गुणायां परमात्मविद्यायाम् — इत्युक्तम् । सगुणास्वपि विद्यासु कासुचिद्गतिः श्रूयते — यथा पर्यङ्कविद्यायाम् उपकोसलविद्यायां पञ्चाग्निविद्यायां दहरविद्यायामिति । न अन्यासु — यथा मधुविद्यायां शाण्डिल्यविद्यायां षोडशकलविद्यायां वैश्वानरविद्यायामिति । तत्र संशयः — किं यास्वेवैषा गतिः श्रूयते, तास्वेव नियम्येत; उत अनियमेन सर्वाभिरेव एवंजातीयकाभिर्विद्याभिरभिसम्बध्येतेति । किं तावत्प्राप्तम् ? नियम इति । यत्रैव श्रूयते, तत्रैव भवितुमर्हति, प्रकरणस्य नियामकत्वात् । यद्यन्यत्र श्रूयमाणापि गतिः विद्यान्तरं गच्छेत् , श्रुत्यादीनां प्रामाण्यं हीयेत, सर्वस्य सर्वार्थत्वप्रसङ्गात् । अपि च अर्चिरादिका एकैव गतिः उपकोसलविद्यायां पञ्चाग्निविद्यायां च तुल्यवत्पठ्यते । तत् सर्वार्थत्वेऽनर्थकं पुनर्वचनं स्यात् । तस्मान्नियम इत्येवं प्राप्ते पठति —
अनियम इति । सर्वासामेव अभ्युदयप्राप्तिफलानां सगुणानां विद्यानाम् अविशेषेण एषा देवयानाख्या गतिर्भवितुमर्हति । ननु अनियमाभ्युपगमे प्रकरणविरोध उक्तः — नैषोऽस्ति विरोधः । शब्दानुमानाभ्यां श्रुतिस्मृतिभ्यामित्यर्थः । तथा हि श्रुतिः — ‘तद्य इत्थं विदुः’(छा. उ. ५ । १० । १) इति पञ्चाग्निविद्यावतां देवयानं पन्थानमवतारयन्ती ‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’(छा. उ. ५ । १० । १) इति विद्यान्तरशीलिनामपि पञ्चाग्निविद्याविद्भिः समानमार्गतां गमयति । कथं पुनरवगम्यते — विद्यान्तरशीलिनामियं गतिरिति ? ननु श्रद्धातपःपरायणानामेव स्यात् , तन्मात्रश्रवणात् — नैष दोषः । न हि केवलाभ्यां श्रद्धातपोभ्याम् अन्तरेण विद्याबलम् एषा गतिर्लभ्यते — ‘विद्यया तदारोहन्ति यत्र कामाः परागताः । न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः(श.ब्रा. १०.५.४.६)’ इति श्रुत्यन्तरात् । तस्मात् इह श्रद्धातपोभ्यां विद्यान्तरोपलक्षणम् । वाजसनेयिनस्तु पञ्चाग्निविद्याधिकारेऽधीयते — ‘य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धाꣳ सत्यमुपासते’(बृ. उ. ६ । २ । १५) इति । तत्र श्रद्धालवो ये सत्यं ब्रह्मोपासते इति व्याख्येयम् , सत्यशब्दस्य ब्रह्मणि असकृत्प्रयुक्तत्वात् । पञ्चाग्निविद्याविदां च इत्थंवित्तयैव उपात्तत्वात् , विद्यान्तरपरायणानामेव एतदुपादानं न्याय्यम् । ‘अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम्’(बृ. उ. ६ । २ । १६) इति च मार्गद्वयभ्रष्टानां कष्टामधोगतिं गमयन्ती श्रुतिः देवयानपितृयाणयोरेव एनान् अन्तर्भावयति । तत्रापि विद्याविशेषादेषां देवयानप्रतिपत्तिः । स्मृतिरपि — ‘शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुनः’(भ. गी. ८ । २६) इति । यत्पुनः देवयानस्य पथो द्विराम्नानम् उपकोसलविद्यायां पञ्चाग्निविद्यायां च, तत् उभयत्रापि अनुचिन्तनार्थम् । तस्मादनियमः ॥ ३१ ॥
यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३२ ॥
३२विदुषो वर्तमानदेहपातानन्तरं देहान्तरमुत्पद्यते, न वा — इति चिन्त्यते । ननु विद्यायाः साधनभूतायाः सम्पत्तौ कैवल्यनिर्वृत्तिः स्यात् न वेति नेयं चिन्ता उपपद्यते । न हि पाकसाधनसम्पत्तौ, ओदनो भवेत् न वेति चिन्ता सम्भवति । नापि भुञ्जानः तृप्येत् न वेति चिन्त्यते — उपपन्ना तु इयं चिन्ता, ब्रह्मविदामपि केषाञ्चित् इतिहासपुराणयोर्देहान्तरोत्पत्तिदर्शनात् । तथा हि — अपान्तरतमा नाम वेदाचार्यः पुराणर्षिः विष्णुनियोगात् कलिद्वापरयोः सन्धौ कृष्णद्वैपायनः सम्बभूवेति स्मरन्ति । वसिष्ठश्च ब्रह्मणो मानसः पुत्रः सन् निमिशापादपगतपूर्वदेहः पुनर्ब्रह्मादेशान्मित्रावरुणाभ्यां सम्बभूवेति । भृग्वादीनामपि ब्रह्मण एव मानसपुत्राणां वारुणे यज्ञे पुनरुत्पत्तिः श्रूयते । सनत्कुमारोऽपि ब्रह्मण एव मानसः पुत्रः स्वयं रुद्राय वरप्रदानात् स्कन्दत्वेन प्रादुर्बभूव । एवमेव दक्षनारदप्रभृतीनां भूयसी देहान्तरोत्पत्तिः कथ्यते तेन तेन निमित्तेन स्मृतौ । श्रुतावपि मन्त्रार्थवादयोः प्रायेणोपलभ्यते । ते च केचित् पतिते पूर्वदेहे देहान्तरमाददते, केचित्तु स्थित एव तस्मिन् योगैश्वर्यवशात् अनेकदेहादानन्यायेन । सर्वे च एते समधिगतसकलवेदार्थाः स्मर्यन्ते । तत् एतेषां देहान्तरोत्पत्तिदर्शनात् प्राप्तं ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वम् , अहेतुत्वं वेति ॥
अत उत्तरमुच्यते — न, तेषाम् अपान्तरतमःप्रभृतीनां वेदप्रवर्तनादिषु लोकस्थितिहेतुष्वधिकारेषु नियुक्तानाम् अधिकारतन्त्रत्वात्स्थितेः । यथासौ भगवान्सविता सहस्रयुगपर्यन्तं जगतोऽधिकारं चरित्वा तदवसाने उदयास्तमयवर्जितं कैवल्यमनुभवति — ‘अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता’(छा. उ. ३ । ११ । १) इति श्रुतेः । यथा च वर्तमाना ब्रह्मविदः आरब्धभोगक्षये कैवल्यमनुभवन्ति — ‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’(छा. उ. ६ । १४ । २) इति श्रुतेः — एवम् अपान्तरतमःप्रभृतयोऽपीश्वराः परमेश्वरेण तेषु तेष्वधिकारेषु नियुक्ताः सन्तः सत्यपि सम्यग्दर्शने कैवल्यहेतौ अक्षीणकर्माणो यावदधिकारमवतिष्ठन्ते, तदवसाने च अपवृज्यन्त इत्यविरुद्धम् । सकृत्प्रवृत्तमेव हि ते फलदानाय कर्माशयमतिवाहयन्तः, स्वातन्त्र्येणैव गृहादिव गृहान्तरम् अन्यमन्यं देहं सञ्चरन्तः स्वाधिकारनिर्वर्तनाय, अपरिमुषितस्मृतय एव देहेन्द्रियप्रकृतिवशित्वात् निर्माय देहान् युगपत् क्रमेण वा अधितिष्ठन्ति । न च एते जातिस्मरा इत्युच्यन्ते — त एवैते इति स्मृतिप्रसिद्धेः । यथा हि सुलभा नाम ब्रह्मवादिनी जनकेन विवदितुकामा व्युदस्य स्वं देहम् , जानकं देहमाविश्य, व्युद्य तेन, पश्चात् स्वमेव देहमाविवेश — इति स्मर्यते । यदि हि उपयुक्ते सकृत्प्रवृत्ते कर्मणि कर्मान्तरं देहान्तरारम्भकारणमाविर्भवेत् , ततः अन्यदप्यदग्धबीजं कर्मान्तरं तद्वदेव प्रसज्येतेति ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वम् अहेतुत्वं वा आशङ्क्येत । न तु इयमाशङ्का युक्ता, ज्ञानात्कर्मबीजदाहस्य श्रुतिस्मृतिप्रसिद्धत्वात् । तथा हि श्रुतिः — ‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’(मु. उ. २ । २ । ९) इति, ‘स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः’(छा. उ. ७ । २६ । २) इति चैवमाद्या । स्मृतिरपि — ‘यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा’(भ. गी. ४ । ३७) इति, ‘बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः’(म॰भा॰१२-२११-१७) इति चैवमाद्या । न च अविद्यादिक्लेशदाहे सति क्लेशबीजस्य कर्माशयस्य एकदेशदाहः एकदेशप्ररोहश्च इत्युपपद्यते । न हि अग्निदग्धस्य शालिबीजस्य एकदेशप्ररोहो दृश्यते । प्रवृत्तफलस्य तु कर्माशयस्य मुक्तेषोरिव वेगक्षयात् निवृत्तिः, ‘तस्य तावदेव चिरम्’(छा. उ. ६ । १४ । २) इति शरीरपातावधिक्षेपकरणात् । तस्मादुपपन्ना यावदधिकारम् आधिकारिकाणामवस्थितिः । न च ज्ञानफलस्य अनैकान्तिकता । तथा च श्रुतिः अविशेषेणैव सर्वेषां ज्ञानान्मोक्षं दर्शयति — ‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम्’(बृ. उ. १ । ४ । १०) इति । ज्ञानान्तरेषु च ऐश्वर्यादिफलेष्वासक्ताः स्युर्महर्षयः । ते पश्चादैश्वर्यक्षयदर्शनेन निर्विण्णाः परमात्मज्ञाने परिनिष्ठाः कैवल्यं प्रापुरित्युपपद्यते — ‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्’ इति स्मरणात् । प्रत्यक्षफलत्वाच्च ज्ञानस्य फलविरहाशङ्कानुपपत्तिः । कर्मफले हि स्वर्गादावनुभवानारूढे स्यादाशङ्का भवेद्वा न वेति । अनुभवारूढं तु ज्ञानफलम् — ‘यत्साक्षादपरोक्षाद्ब्रह्म’(बृ. उ. ३ । ४ । १) इति श्रुतेः, ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) इति सिद्धवदुपदेशात् । न हि ‘तत्त्वमसि’ इत्यस्य वाक्यस्य अर्थः — तत् त्वं मृतो भविष्यसीति — एवं परिणेतुं शक्यः । ‘तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवꣳ सूर्यश्च’(बृ. उ. १ । ४ । १०) इति च सम्यग्दर्शनकालमेव तत्फलं सर्वात्मत्वं दर्शयति । तस्मात् ऐकान्तिकी विदुषः कैवल्यसिद्धिः ॥ ३२ ॥
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥ ३३ ॥
३३वाजसनेयके श्रूयते — ‘एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहम्’(बृ. उ. ३ । ८ । ८) इत्यादि । तथा आथर्वणे श्रूयते — ‘अथ परा यया तदक्षरमधिगम्यते’(मु. उ. १ । १ । ५) ‘यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णम्’(मु. उ. १ । १ । ६) इत्यादि । तथैव अन्यत्रापि विशेषनिराकरणद्वारेण अक्षरं परं ब्रह्म श्राव्यते । तत्र च क्वचित् केचित् अतिरिक्ता विशेषाः प्रतिषिध्यन्ते । तासां विशेषप्रतिषेधबुद्धीनां किं सर्वासां सर्वत्र प्राप्तिः, उत व्यवस्थेति संशये, श्रुतिविभागात् व्यवस्थाप्राप्तौ, उच्यते — अक्षरविषयास्तु विशेषप्रतिषेधबुद्धयः सर्वाः सर्वत्रावरोद्धव्याः, सामान्यतद्भावाभ्याम् — समानो हि सर्वत्र विशेषनिराकरणरूपो ब्रह्मप्रतिपादनप्रकारः । तदेव च सर्वत्र प्रतिपाद्यं ब्रह्म अभिन्नं प्रत्यभिज्ञायते । तत्र किमिति अन्यत्र कृता बुद्धयः अन्यत्र न स्युः । तथा च ‘आनन्दादयः प्रधानस्य’(ब्र. सू. ३ । ३ । ११) इत्यत्र व्याख्यातम् । तत्र विधिरूपाणि विशेषणानि चिन्तितानि, इह प्रतिषेधरूपाणीति विशेषः । प्रपञ्चार्थश्चायं चिन्ताभेदः । औपसदवदिति निदर्शनम् । यथा जामदग्न्येऽहीने पुरोडाशिनीषूपसत्सु चोदितासु , पुरोडाशप्रदानमन्त्राणाम् ‘अग्ने वेर्होत्रं वेरध्वरम्’ इत्येवमादीनाम् उद्गातृवेदोत्पन्नानामपि अध्वर्युभिरभिसम्बन्धो भवति, अध्वर्युकर्तृकत्वात्पुरोडाशप्रदानस्य, प्रधानतन्त्रत्वाच्चाङ्गानाम् — एवमिहापि अक्षरतन्त्रत्वात् तद्विशेषणानां यत्र क्वचिदप्युत्पन्नानाम् अक्षरेण सर्वत्राभिसम्बन्ध इत्यर्थः । तदुक्तं प्रथमे काण्डे — ‘गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः’(जै. सू. ३ । ३ । ९) इत्यत्र ॥ ३३ ॥
इयदामननात् ॥ ३४ ॥
३४‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’(मु. उ. ३ । १ । १) — इत्यध्यात्माधिकारे मन्त्रमाथर्वणिकाः श्वेताश्वतराश्च पठन्ति । तथा कठाः — ‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्ध्ये । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः’(क. उ. १ । ३ । १) इति । किमत्र विद्यैकत्वम् , उत विद्यानानात्वमिति संशयः । किं तावत्प्राप्तम् ? विद्यानानात्वमिति । कुतः ? विशेषदर्शनात् — ‘द्वा सुपर्णा’ इत्यत्र हि एकस्य भोक्तृत्वं दृश्यते, एकस्य च अभोक्तृत्वं दृश्यते । ‘ऋतं पिबन्तौ’ इत्यत्र उभयोरपि भोक्तृत्वमेव दृश्यते । तत् वेद्यरूपं भिद्यमानं विद्यां भिन्द्यादित्येवं प्राप्ते ब्रवीति —
विद्यैकत्वमिति । कुतः ? यतः उभयोरप्यनयोर्मन्त्रयोः इयत्तापरिच्छिन्नं द्वित्वोपेतं वेद्यं रूपम् अभिन्नम् आमनन्ति । ननु दर्शितो रूपभेदः — नेत्युच्यते; उभावप्येतौ मन्त्रौ जीवद्वितीयमीश्वरं प्रतिपादयतः, नार्थान्तरम् । ‘द्वा सुपर्णा’ इत्यत्र तावत् — ‘अनश्नन्नन्यो अभिचाकशीति’ इत्यशनायाद्यतीतः परमात्मा प्रतिपाद्यते । वाक्यशेषेऽपि च स एव प्रतिपाद्यमानो दृश्यते ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानम्’(श्वे. उ. ४ । ७) इति । ‘ऋतं पिबन्तौ’ इत्यत्र तु जीवे पिबति, अशनायाद्यतीतः परमात्मापि साहचर्यात् छत्रिन्यायेन पिबतीत्युपचर्यते । परमात्मप्रकरणं हि एतत् — ‘अन्यत्र धर्मादन्यत्राधर्मात्’(क. उ. १ । २ । १४) इत्युपक्रमात् । तद्विषय एव च अत्रापि वाक्यशेषो भवति — ‘यः सेतुरीजानानामक्षरं ब्रह्म यत्परम्’(क. उ. १ । ३ । २) इति । ‘गुहां प्रविष्टावात्मानौ हि’(ब्र. सू. १ । २ । ११) इत्यत्र च एतत्प्रपञ्चितम् । तस्मान्नास्ति वेद्यभेदः । तस्माच्च विद्यैकत्वम् । अपि च त्रिष्वप्येतेषु वेदान्तेषु पौर्वापर्यालोचने परमात्मविद्यैव अवगम्यते । तादात्म्यविवक्षयैव जीवोपादानम् , नार्थान्तरविवक्षया । न च परमात्मविद्यायां भेदाभेदविचारावतारोऽस्तीत्युक्तम् । तस्मात्प्रपञ्चार्थ एव एष योगः । तस्माच्चाधिकधर्मोपसंहार इति ॥ ३४ ॥
अन्तरा भूतग्रामवत्स्वात्मनः ॥ ३५ ॥
३५‘यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः’(बृ. उ. ३ । ४ । १) इत्येवं द्विः उषस्तकहोलप्रश्नयोः नैरन्तर्येण वाजसनेयिनः समामनन्ति । तत्र संशयः — विद्यैकत्वं वा स्यात् , विद्यानानात्वं वेति । विद्यानानात्वमिति तावत्प्राप्तम् , अभ्याससामर्थ्यात् । अन्यथा हि अन्यूनानतिरिक्तार्थे द्विराम्नानम् अनर्थकमेव स्यात् । तस्मात् यथा अभ्यासात्कर्मभेदः, एवमभ्यासाद्विद्याभेद इत्येवं प्राप्ते, प्रत्याह — अन्तरा आम्नानाविशेषात् स्वात्मनः विद्यैकत्वमिति । सर्वान्तरो हि स्वात्मा उभयत्राप्यविशिष्टः पृच्छ्यते च, प्रत्युच्यते च । न हि द्वावात्मानौ एकस्मिन्देहे सर्वान्तरौ सम्भवतः । तदा हि एकस्य आञ्जसं सर्वान्तरत्वमवकल्पेत, एकस्य तु भूतग्रामवत् नैव सर्वान्तरत्वं स्यात् । यथा च पञ्चभूतसमूहे देहे — पृथिव्या आपोऽन्तराः, अद्भ्यस्तेजोऽन्तरमिति — सत्यप्यापेक्षिकेऽन्तरत्वे, नैव मुख्यं सर्वान्तरत्वं भवति, तथेहापीत्यर्थः । अथवा भूतग्रामवदिति श्रुत्यन्तरं निदर्शयति । यथा — ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’(श्वे. उ. ६ । ११) इत्यस्मिन्मन्त्रे समस्तेषु भूतग्रामेष्वेक एव सर्वान्तर आत्मा आम्नायते — एवमनयोरपि ब्राह्मणयोरित्यर्थः । तस्मात् वेद्यैक्यात् विद्यैकत्वमिति ॥ ३५ ॥
अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् ॥ ३६ ॥
३६अथ यदुक्तम् — अनभ्युपगम्यमाने विद्याभेदे आम्नानभेदानुपपत्तिरिति, तत्परिहर्तव्यम्; अत्रोच्यते — नायं दोषः । उपदेशान्तरवदुपपत्तेः । यथा ताण्डिनामुपनिषदि षष्ठे प्रपाठके — ‘स आत्मा तत्त्वमसि श्वेतकेतो’(छा. उ. ६ । ८ । ७) इति नवकृत्वोऽप्युपदेशे न विद्याभेदो भवति, एवमिहापि भविष्यति । कथं च नवकृत्वोऽप्युपदेशे विद्याभेदो न भवति ? उपक्रमोपसंहाराभ्यामेकार्थतावगमात् — ‘भूय एव मा भगवान्विज्ञापयतु’(छा. उ. ६ । ५ । ४) इति च एकस्यैवार्थस्य पुनः पुनः प्रतिपिपादयिषितत्वेन उपक्षेपात् आशङ्कान्तरनिराकरणेन च असकृदुपदेशोपपत्तेः । एवमिहापि प्रश्नरूपाभेदात् , ‘अतोऽन्यदार्तम्’(बृ. उ. ३ । ४ । २) इति च परिसमाप्त्यविशेषात् उपक्रमोपसंहारौ तावदेकार्थविषयौ दृश्येते । ‘यदेव साक्षादपरोक्षाद्ब्रह्म’(बृ. उ. ३ । ५ । १) इति द्वितीये प्रश्ने एवकारं प्रयुञ्जानः पूर्वप्रश्नगतमेवार्थम् उत्तरत्रानुकृष्यमाणं दर्शयति । पूर्वस्मिंश्च ब्राह्मणे कार्यकरणव्यतिरिक्तस्य आत्मनः सद्भावः कथ्यते । उत्तरस्मिंस्तु तस्यैव अशनायादिसंसारधर्मातीतत्वं कथ्यते — इत्येकार्थतोपपत्तिः । तस्मात् एका विद्येति ॥ ३६ ॥
व्यतिहारो विशिंषन्ति हीतरवत् ॥ ३७ ॥
३७यथा — ‘तद्योऽहं सोऽसौ योऽसौ सोऽहम्’(ऐ॰आ॰ २-२-४-६) इत्यादित्यपुरुषं प्रकृत्यैतरेयिणः समामनन्ति, तथा जाबालाः — ‘त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि’ इति । तत्र संशयः — किमिह व्यतिहारेण उभयरूपा मतिः कर्तव्या, उत एकरूपैवेति । एकरूपैवेति तावदाह । न हि अत्र आत्मन ईश्वरेणैकत्वं मुक्त्वा अन्यत्किञ्चिच्चिन्तयितव्यमस्ति । यदि चैवं चिन्तयितव्यो विशेषः परिकल्प्येत, संसारिणश्च ईश्वरात्मत्वम् , ईश्वरस्य संसार्यात्मत्वमिति — तत्र संसारिणस्तावदीश्वरात्मत्वे उत्कर्षो भवेत् । ईश्वरस्य तु संसार्यात्मत्वे निकर्षः कृतः स्यात् । तस्मात् ऐकरूप्यमेव मतेः । व्यतिहाराम्नायस्तु एकत्वदृढीकारार्थ इत्येवं प्राप्ते, प्रत्याह — व्यतिहारोऽयम् आध्यानायाम्नायते । इतरवत् — यथा इतरे गुणाः सर्वात्मत्वप्रभृतयः आध्यानाय आम्नायन्ते, तद्वत् । तथा हि विशिंषन्ति समाम्नातारः उभयोच्चारणेन — ‘त्वमहमस्म्यहं च त्वमसि’ इति । तच्च उभयरूपायां मतौ कर्तव्यायाम् अर्थवद्भवति । अन्यथा हि इदं विशेषेणोभयाम्नानम् अनर्थकं स्यात् , एकेनैव कृतत्वात् । ननु उभयाम्नानस्य अर्थविशेषे परिकल्प्यमाने देवतायाः संसार्यात्मत्वापत्तेः निकर्षः प्रसज्येतेत्युक्तम् — नैष दोषः; ऐकात्म्यस्यैव अनेन प्रकारेणानुचिन्त्यमानत्वात् । ननु एवं सति स एव एकत्वदृढीकार आपद्येत — न वयमेकत्वदृढीकारं वारयामः — किं तर्हि ? — व्यतिहारेण इह द्विरूपा मतिः कर्तव्या वचनप्रामाण्यात् , नैकरूपेत्येतावत् उपपादयामः । फलतस्तु एकत्वमपि दृढीभवति । यथा आध्यानार्थेऽपि सत्यकामादिगुणोपदेशे तद्गुण ईश्वरः प्रसिध्यति, तद्वत् । तस्मादयमाध्यातव्यो व्यतिहारः समाने च विषये उपसंहर्तव्यो भवतीति ॥ ३७ ॥
सैव हि सत्यादयः ॥ ३८ ॥
३८‘स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्म’(बृ. उ. ५ । ४ । १) इत्यादिना वाजसनेयके सत्यविद्यां सनामाक्षरोपासनां विधाय, अनन्तरमाम्नायते — ‘तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः’(बृ. उ. ५ । ५ । २) इत्यादि । तत्र संशयः — किं द्वे एते सत्यविद्ये, किं वा एकैवेति । द्वे इति तावत्प्राप्तम् । भेदेन हि फलसंयोगो भवति — ‘जयतीमाँल्लोकान्’(बृ. उ. ५ । ४ । १) इति पुरस्तात् , ‘हन्ति पाप्मानं जहाति च’(बृ. उ. ५ । ५ । ४) इत्युपरिष्टात् । प्रकृताकर्षणं तु उपास्यैकत्वादित्येवं प्राप्ते ब्रूमः —
एकैवेयं सत्यविद्येति । कुतः ? ‘तद्यत्तत्सत्यम्’(बृ. उ. ५ । ५ । २) इति प्रकृताकर्षणात् । ननु विद्याभेदेऽपि प्रकृताकर्षणम् उपास्यैकत्वादुपपद्यत इत्युक्तम् — नैतदेवम्; यत्र हि विस्पष्टात् कारणान्तरात् विद्याभेदः प्रतीयते, तत्र एतदेवं स्यात् । अत्र तु उभयथा सम्भवे ‘तद्यत्तत्सत्यम्’ इति प्रकृताकर्षणात् पूर्वविद्यासम्बद्धमेव सत्यम् उत्तरत्र आकृष्यत इति एकविद्यात्वनिश्चयः । यत्पुनरुक्तम् — फलान्तरश्रवणाद्विद्यान्तरमिति, अत्रोच्यते — ‘तस्योपनिषदहः … अहम्’ इति च अङ्गान्तरोपदेशस्य स्तावकमिदं फलान्तरश्रवणमित्यदोषः । अपि च अर्थवादादेव फले कल्पयितव्ये, सति विद्यैकत्वे च अवयवेषु श्रूयमाणानि बहून्यपि फलानि अवयविन्यामेव विद्यायाम् उपसंहर्तव्यानि भवन्ति । तस्मात्सैवेयम् एका सत्यविद्या तेन तेन विशेषेणोपेता आम्नाता — इत्यतः सर्व एव सत्यादयो गुणा एकस्मिन्नेवप्रयोगे उपसंहर्तव्याः ॥
केचित्पुनरस्मिन्सूत्रे इदं वाजसनेयकमक्ष्यादित्यपुरुषविषयं वाक्यम् , छान्दोग्ये च ‘अथ य एषोऽन्तरादित्ये हिरण्यमः पुरुषो दृश्यते’(छा. उ. १ । ६ । ६) अथ‘य एषोऽक्षिणि पुरुषो दृश्यते’(छा. उ. ४ । १५ । १) इति — उदाहृत्य, सैवेयम् अक्ष्यादित्यपुरुषविषया विद्या उभयत्र एकैवेति कृत्वा, सत्यादीन्गुणान् वाजसनेयिभ्यश्छन्दोगानामुपसंहार्यान् मन्यन्ते । तन्न साधु लक्ष्यते । छान्दोग्ये हि ज्योतिष्टोमकर्मसम्बन्धिनी इयं उद्गीथव्यपाश्रया विद्या विज्ञायते । तत्र हि आदिमध्यावसानेषु कर्मसम्बन्धिचिह्नानि भवन्ति — ‘इयमेवर्गग्निः साम’(छा. उ. १ । ६ । १) इत्युपक्रमे, ‘तस्यर्क्च साम च गेष्णौ तस्मादुद्गीथः’(छा. उ. १ । ६ । ८) इति मध्ये, ‘य एवं विद्वान्साम गायति’(छा. उ. १ । ७ । ९) इत्युपसंहारे । नैवं वाजसनेयके किञ्चित् कर्मसम्बन्धि चिह्नम् अस्ति । तत्र प्रक्रमभेदात् विद्याभेदे सति गुणव्यवस्थैव युक्तेति ॥ ३८ ॥
कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥
३९‘अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः’(छा. उ. ८ । १ । १) इति प्रस्तुत्य, छन्दोगा अधीयते — ‘एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः’(छा. उ. ८ । १ । ५) इत्यादि । तथा वाजसनेयिनः — ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते सर्वस्य वशी’(बृ. उ. ४ । ४ । २२) इत्यादि । तत्र विद्यैकत्वं परस्परगुणयोगश्च, किं वा नेति संशयःविद्यैकत्वमिति । तत्रेदमुच्यते — कामादीति, सत्यकामादीत्यर्थः — यथा देवदत्तो दत्तः, सत्यभामा भामेति । यदेतत् छान्दोग्ये हृदयाकाशस्य सत्यकामत्वादिगुणजातमुपलभ्यते, तदितरत्र वाजसनेयके ‘स वा एष महानज आत्मा’ इत्यत्र सम्बध्येत । यच्च वाजसनेयके वशित्वादि उपलभ्यते, तदपि इतरत्र छान्दोग्ये ‘एष आत्माऽपहतपाप्मा’(छा. उ. ८ । १ । ५) इत्यत्र सम्बध्येत । कुतः ? आयतनादिसामान्यात् । समानं हि उभयत्रापि हृदयमायतनम् , समानश्च वेद्य ईश्वरः, समानं च तस्य सेतुत्वं लोकासम्भेदप्रयोजनम् — इत्येवमादि बहु सामान्यं दृश्यते । ननु विशेषोऽपि दृश्यते — छान्दोग्ये हृदयाकाशस्य गुणयोगः, वाजसनेयके तु आकाशाश्रयस्य ब्रह्मण इति — न, ‘दहर उत्तरेभ्यः’(ब्र. सू. १ । ३ । १४) इत्यत्र च्छान्दोग्येऽपि आकाशशब्दं ब्रह्मैवेति प्रतिष्ठापितत्वात् । अयं तु अत्र विद्यते विशेषः — सगुणा हि ब्रह्मविद्या छान्दोग्ये उपदिश्यते — ‘अथ य इहात्मानमनुविद्य व्रजन्त्येताꣳश्च सत्यान्कामान्’(छा. उ. ८ । १ । ६) इत्यात्मवत् कामानामपि वेद्यत्वश्रवणात् , वाजसनेयके तु निर्गुणमेव परम्ब्रह्म उपदिश्यमानं दृश्यते — ‘अत ऊर्ध्वं विमोक्षाय ब्रूहि’(बृ. उ. ४ । ३ । १४) ‘असङ्गो ह्ययं पुरुषः’(बृ. उ. ४ । ३ । १५) इत्यादिप्रश्नप्रतिवचनसमन्वयात् । वशित्वादि तु तत्स्तुत्यर्थमेव गुणजातं वाजसनेयके सङ्कीर्त्यते । तथा च उपरिष्टात् ‘स एष नेति नेत्यात्मा’(बृ. उ. ३ । ९ । २६) इत्यादिना निर्गुणमेव ब्रह्म उपसंहरति । गुणवतस्तु ब्रह्मण एकत्वात् विभूतिप्रदर्शनाय अयं गुणोपसंहारः सूत्रितः, नोपासनाय — इति द्रष्टव्यम् ॥ ३९ ॥
आदरादलोपः ॥ ४० ॥
४०छान्दोग्ये वैश्वानरविद्यां प्रकृत्य श्रूयते — ‘तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयꣳ स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहा’(छा. उ. ५ । १९ । १) इत्यादि । तत्र पञ्च प्राणाहुतयो विहिताः । तासु च परस्तादग्निहोत्रशब्दः प्रयुक्तः ‘य एतदेवं विद्वानग्निहोत्रं जुहोति’(छा. उ. ५ । २४ । २) इति, ‘यथेह क्षुधिता बाला मातरं पर्युपासते एवꣳ सर्वाणि भूतान्यग्निहोत्रमुपासते’(छा. उ. ५ । २४ । ५) इति च । तत्रेदं विचार्यते — किं भोजनलोपे लोपः प्राणाग्निहोत्रस्य, उत अलोप इति । ‘तद्यद्भक्तम्’ इति भक्तागमनसंयोगश्रवणात् , भक्तागमनस्य च भोजनार्थत्वात् , भोजनलोपे लोपः प्राणाग्निहोत्रस्येत्येवं प्राप्ते, न लुप्येतेति तावदाह । कस्मात् ? आदरात् । तथा हि वैश्वानरविद्यायामेव जाबालानां श्रुतिः — ‘पूर्वोऽतिथिभ्योऽश्नीयात् । यथा ह वै स्वयमहुत्वाग्निहोत्रं परस्य जुहुयादेवं तत्’ इति अतिथिभोजनस्य प्राथम्यं निन्दित्वा, स्वामिभोजनं प्रथमं प्रापयन्ती प्राणाग्निहोत्रे आदरं करोति । या हि न प्राथम्यलोपं सहते, नतरां सा प्राथम्यवतोऽग्निहोत्रस्य लोपं सहेतेति मन्यते । ननु भोजनार्थभक्तागमनसंयोगाद्भोजनलोपे लोपः प्रापितः — न, तस्य द्रव्यविशेषविधानार्थत्वात् । प्राकृते हि अग्निहोत्रे पयःप्रभृतीनां द्रव्याणां नियतत्वात् इहापि अग्निहोत्रशब्दात् कौण्डपायिनामयनवत् तद्धर्मप्राप्तौ सत्याम् , भक्तद्रव्यकतागुणविशेषविधानार्थम् इदं वाक्यम् ‘तद्यद्भक्तम्’ इति । अतो गुणलोपे न मुख्यस्येत्येवं प्राप्तम् । भोजनलोपेऽपि अद्भिर्वा अन्येन वा द्रव्येणाविरुद्धेन प्रतिनिधिन्यायेन प्राणाग्निहोत्रस्यानुष्ठानमिति ॥ ४० ॥
अत उत्तरं पठति —
उपस्थितेऽतस्तद्वचनात् ॥ ४१ ॥
४१उपस्थिते भोजने अतः तस्मादेव भोजनद्रव्यात् प्रथमोपनिपतितात् प्राणाग्निहोत्रं निर्वर्तयितव्यम् । कस्मात् ? तद्वचनात् । तथा हि — ‘तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’(छा. उ. ५ । १९ । १) इति सिद्धवद्भक्तोपनिपातपरामर्शेन परार्थद्रव्यसाध्यतां प्राणाहुतीनां विदधाति । ताः अप्रयोजकलक्षणापन्नाः सत्यः, कथं भोजनलोपे द्रव्यान्तरं प्रतिनिधापयेयुः । न च अत्र प्राकृताग्निहोत्रधर्मप्राप्तिरस्ति । कुण्डपायिनामयने हि ‘मासमग्निहोत्रं जुहोति’ इति विध्युद्देशगतोऽग्निहोत्रशब्दः तद्वद्भावं विधापयेदिति युक्ता तद्धर्मप्राप्तिः । इह पुनः अर्थवादगतोऽग्निहोत्रशब्दः न तद्वद्भावं विधापयितुमर्हति । तद्धर्मप्राप्तौ च अभ्युपगम्यमानायाम् , अग्न्युद्धरणादयोऽपि प्राप्येरन् । न च अस्ति सम्भवः । अग्न्युद्धरणं तावत् होमाधिकरणभावाय । न च अयम् अग्नौ होमः, भोजनार्थताव्याघातप्रसङ्गात् । भोजनोपनीतद्रव्यसम्बन्धाच्च आस्य एव एष होमः । तथा च जाबालश्रुतिः ‘पूर्वोऽतिथिभ्योऽश्नीयात्’ इति आस्याधारामेव इमां होमनिर्वृत्तिं दर्शयति । अत एव च इहापि साम्पादिकान्येवाग्निहोत्राङ्गानि दर्शयति — ‘उर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः’(छा. उ. ५ । १८ । २) इति । वेदिश्रुतिश्चात्र स्थण्डिलमात्रोपलक्षणार्था द्रष्टव्या, मुख्याग्निहोत्रे वेद्यभावात् , तदङ्गानां च इह सम्पिपादयिषितत्वात् । भोजनेनैव च कृतकालेन संयोगात् न अग्निहोत्रकालावरोधसम्भवः । एवमन्येऽपि उपस्थानादयो धर्माः केचित्कथञ्चित् विरुध्यन्ते । तस्माद्भोजनपक्ष एव एते मन्त्रद्रव्यदेवतासंयोगात् पञ्च होमा निर्वर्तयितव्याः । यत्तु आदरदर्शनवचनम् , तत् भोजनपक्षे प्राथम्यविधानार्थम् । न ह्यस्ति वचनस्य अतिभारः । न तु अनेन अस्य नित्यता शक्यते दर्शयितुम् । तस्मात् भोजनलोपे लोप एव प्राणाग्निहोत्रस्येति ॥ ४१ ॥
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् ॥ ४२ ॥
४२सन्ति कर्माङ्गव्यपाश्रयाणि विज्ञानानि — ‘ओमित्येतदक्षरमुद्गीथमुपासीत’(छा. उ. १ । १ । १) इत्येवमादीनि । किं तानि नित्यान्येव स्युः कर्मसु , पर्णमयीत्वादिवत्; उत अनित्यानि, गोदोहनादिवदिति विचारयामः । किं तावत्प्राप्तम् ? नित्यानीति । कुतः ? प्रयोगवचनपरिग्रहात् — अनारभ्याधीतान्यपि हि एतानि उद्गीथादिद्वारेण क्रतुसम्बन्धात् क्रतुप्रयोगवचनेनैव अङ्गान्तरवत् संस्पृश्यन्ते । यत्तु एषां स्ववाक्येषु फलश्रवणम् — ‘आपयिता ह वै कामानां भवति’(छा. उ. १ । १ । ७) इत्यादि, तद्वर्तमानापदेशरूपत्वादर्थवादमात्रमेव, अपापश्लोकश्रवणादिवत् , न फलप्रधानम् । तस्मात् यथा ‘यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति’ इत्येवमादीनाम् अप्रकरणपठितानामपि जुह्वादिद्वारेण क्रतुप्रवेशात् प्रकरणपठितवत् नित्यता, एवमुद्गीथाद्युपासनानामपीत्येवं प्राप्ते ब्रूमः —
तन्निर्धारणानियम इति । यान्येतानि उद्गीथादिकर्मगुणयाथात्म्यनिर्धारणानि — रसतमः, आप्तिः, समृद्धिः, मुख्यप्राणः, आदित्यः — इत्येवमादीनि, नैतानि नित्यवत् कर्मसु नियम्येरन् । कुतः ? तद्दृष्टेः । तथा हि अनियतत्वमेवंजातीयकानां दर्शयति श्रुतिः — ‘तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद’(छा. उ. १ । १ । १०) इत्यविदुषोऽपि क्रियाभ्यनुज्ञानात् । प्रस्तावादिदेवताविज्ञानविहीनानामपि प्रस्तोत्रादीनां याजनाध्यवसानदर्शनात् — ‘प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि’(छा. उ. १ । १० । ९) ‘तां चेदविद्वानुद्गास्यसि’(छा. उ. १ । १० । १०) ‘तां चेदविद्वान्प्रतिहरिष्यसि’(छा. उ. १ । १० । ११) इति च । अपि च एवंजातीयकस्य कर्माङ्गव्यपाश्रयस्य विज्ञानस्य पृथगेव कर्मणः फलम् उपलभ्यते — कर्मफलसिद्ध्यप्रतिबन्धः तत्समृद्धिः अतिशयविशेषः कश्चित् — ‘तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद । नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’(छा. उ. १ । १ । १०) इति । तत्र ‘नाना तु’ इति विद्वदविद्वत्प्रयोगयोः पृथक्करणात् , ‘वीर्यवत्तरम्’ इति च तरप्प्रत्ययप्रयोगात् विद्याविहीनमपि कर्म वीर्यवदिति गम्यते । तच्च अनित्यत्वे विद्याया उपपद्यते । नित्यत्वे तु कथं तद्विहीनं कर्म वीर्यवदित्यनुज्ञायेत । सर्वाङ्गोपसंहारे हि वीर्यवत्कर्मेति स्थितिः । तथा लोकसामादिषु प्रतिनियतानि प्रत्युपासनं फलानि शिष्यन्ते — ‘कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च’(छा. उ. २ । २ । ३) इत्येवमादीनि । न चेदं फलश्रवणम् अर्थवादमात्रं युक्तं प्रतिपत्तुम् । तथा हि गुणवाद आपद्येत । फलोपदेशे तु मुख्यवादोपपत्तिः । प्रयाजादिषु तु इतिकर्तव्यताकाङ्क्षस्य क्रतोः प्रकृतत्वात् तादर्थ्ये सति युक्तं फलश्रुतेरर्थवादत्वम् । तथा अनारभ्याधीतेष्वपि पर्णमयीत्वादिषु — न हि पर्णमयीत्वादीनामक्रियात्मकानाम् आश्रयमन्तरेण फलसम्बन्धोऽवकल्पते । गोदोहनादीनां हि प्रकृताप्प्रणयनाद्याश्रयलाभादुपपन्नः फलविधिः । तथा बैल्वादीनामपि प्रकृतयूपाद्याश्रयलाभादुपपन्नः फलविधिः । न तु पर्णमयीत्वादिषु एवंविधः कश्चिदाश्रयः प्रकृतोऽस्ति; वाक्येनैव तु जुह्वाद्याश्रयतां विवक्षित्वा फलेऽपि विधिं विवक्षतो वाक्यभेदः स्यात् । उपासनानां तु क्रियात्मकत्वात् विशिष्टविधानोपपत्तेः उद्गीथाद्याश्रयाणां फले विधानं न विरुध्यते । तस्मात् यथा क्रत्वाश्रयाण्यपि गोदोहनादीनि फलसंयोगादनित्यानि, एवमुद्गीथाद्युपासनान्यपि इति द्रष्टव्यम् । अत एव च कल्पसूत्रकारा नैवंजातीयकान्युपासनानि क्रतुषु कल्पयांचक्रुः ॥ ४२ ॥
प्रदानवदेव तदुक्तम् ॥ ४३ ॥
४३वाजसनेयके ‘वदिष्याम्येवाहमिति वाग्दध्रे’(बृ. उ. १ । ५ । २१) इत्यत्र अध्यात्मं वागादीनां प्राणः श्रेष्ठोऽवधारितः, अधिदैवतमग्न्यादीनां वायुः । तथा छान्दोग्ये ‘वायुर्वाव संवर्गः’(छा. उ. ४ । ३ । १) इत्यत्र अधिदैवतम् अग्न्यादीनां वायुः संवर्गोऽवधारितः, ‘प्राणो वाव संवर्गः’(छा. उ. ४ । ३ । ३) इत्यत्र अध्यात्मं वागादीनां प्राणः । तत्र संशयः — किं पृथगेवेमौ वायुप्राणावुपगन्तव्यौ स्याताम् , अपृथग्वेति । अपृथगेवेति तावत्प्राप्तम् , तत्त्वाभेदात् । न हि अभिन्ने तत्त्वे पृथगनुचिन्तनं न्याय्यम् । दर्शयति च श्रुतिः अध्यात्ममधिदैवतं च तत्त्वाभेदम् — ‘अग्निर्वाग्भूत्वा मुखं प्राविशत्’(ऐ. उ. १ । २ । ४) इत्यारभ्य; तथा ‘त एते सर्व एव समाः सर्वेऽनन्ताः’(बृ. उ. १ । ५ । १३) इति आध्यात्मिकानां प्राणानाम् आधिदैविकीं विभूतिमात्मभूतां दर्शयति । तथा अन्यत्रापि तत्र तत्र अध्यात्ममधिदैवतं च बहुधा तत्त्वाभेददर्शनं भवति । क्वचिच्च ‘यः प्राणः स वायुः’ इति स्पष्टमेव वायुं प्राणं च एकं करोति । तथा उदाहृतेऽपि वाजसनेयिब्राह्मणे ‘यतश्चोदेति सूर्यः’(बृ. उ. १ । ५ । २३) इत्यस्मिन् उपसंहारश्लोके, ‘प्राणाद्वा एष उदेति प्राणेऽस्तमेति’(बृ. उ. १ । ५ । २३) इति प्राणेनैव उपसंहरन् एकत्वं दर्शयति । ‘तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च’(बृ. उ. १ । ५ । २३) इति च प्राणव्रतेन एकेनोपसंहरन् एतदेव द्रढयति । तथा छान्दोग्येऽपि परस्तात् ‘महात्मनश्चतुरो देव एकः कः स जगार भुवनस्य गोपाः’(छा. उ. ४ । ३ । ६) इत्येकमेव संवर्गं गमयति; न ब्रवीति — एक एकेषां चतुर्णां संवर्गः, अपरोऽपरेषामिति । तस्मादपृथक्त्वमुपगमनस्येत्येवं प्राप्ते ब्रूमः —
पृथगेव वायुप्राणावुपगन्तव्याविति । कस्मात् ? पृथगुपदेशात् । आध्यानार्थो हि अयम् अध्यात्माधिदैवविभागोपदेशः । सः असत्याध्यानपृथक्त्वे अनर्थक एव स्यात् । ननु उक्तम् , न पृथगनुचिन्तनं तत्त्वाभेदादिति — नैष दोषः । तत्त्वाभेदेऽप्यवस्थाभेदात् उपदेशभेदवशेन अनुचिन्तनभेदोपपत्तेः, श्लोकोपन्यासस्य च तत्त्वाभेदाभिप्रायेणापि उपपद्यमानस्य पूर्वोदितध्येयभेदनिराकरणसामर्थ्याभावात् , ‘स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुः’(बृ. उ. १ । ५ । २२) इति च उपमानोपमेयकरणात् । एतेन व्रतोपदेशो व्याख्यातः । ‘एकमेव व्रतम्’(बृ. उ. १ । ५ । २३) इति च एवकारः वागादिव्रतनिवर्तनेन प्राणव्रतप्रतिपत्त्यर्थः । भग्नव्रतानि हि वागादीन्युक्तानि, ‘तानि मृत्युः श्रमो भूत्वोपयेमे’(बृ. उ. १ । ५ । २१) इति श्रुतेः । न वायुव्रतनिवृत्त्यर्थः, ‘अथातो व्रतमीमाꣳसा’(बृ. उ. १ । ५ । २१) इति प्रस्तुत्य तुल्यवत् वायुप्राणयोरभग्नव्रतत्वस्य निर्धारितत्वात् । ‘एकमेव व्रतं चरेत्’(बृ. उ. १ । ५ । २३) इति च उक्त्वा, ‘तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति’(बृ. उ. १ । ५ । २३) इति वायुप्राप्तिं फलं ब्रुवन् वायुव्रतमनिवर्तितं दर्शयति । देवता ह्यत्र वायुः स्यात् , अपरिच्छिन्नात्मकत्वस्य प्रेप्सितत्वात् , पुरस्तात्प्रयोगाच्च — ‘सैषाऽनस्तमिता देवता यद्वायुः’(बृ. उ. १ । ५ । २२) इति । तथा ‘तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु’(छा. उ. ४ । ३ । ४) इति भेदेन व्यपदिशति । ‘ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्’(बृ. उ. ४ । ३ । ८) इति च भेदेनैव उपसंहरति । तस्मात्पृथगेव उपगमनम् । प्रदानवत् — यथा ‘इन्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्रायाधिराजायेन्द्राय स्वराज्ञे’ इत्यस्यां त्रिपुरोडाशिन्यामिष्टौ, ‘सर्वेषामभिगमयन्नवद्यत्यछम्बट्कारम्’ इत्यतो वचनात् , इन्द्राभेदाच्च, सह प्रदानाशङ्कायाम् — राजादिगुणभेदात् याज्यानुवाक्याव्यत्यासविधानाच्च यथान्यासमेव देवतापृथक्त्वात्प्रदानपृथक्त्वं भवति । एवं तत्त्वाभेदेऽपि आध्येयांशपृथक्त्वात् आध्यानपृथक्त्वमित्यर्थः । तदुक्तं सङ्कर्षे — ‘नाना वा देवता पृथग्ज्ञानात्’ इति । तत्र तु द्रव्यदेवताभेदात् यागभेदो विद्यते । नैवमिह विद्याभेदोऽस्ति, उपक्रमोपसंहाराभ्याम् अध्यात्माधिदैवोपदेशेषु एकविद्याविधानप्रतीतेः । विद्यैक्येऽपि तु अध्यात्माधिदैवभेदात् प्रवृत्तिभेदो भवति — अग्निहोत्र इव सायंप्रातःकालभेदात् — इत्येतावदभिप्रेत्य प्रदानवदित्युक्तम् ॥ ४३ ॥
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥ ४४ ॥
४४वाजसनेयिनोऽग्निरहस्ये ‘नैव वा इदमग्रे सदासीत्’ इत्येतस्मिन्ब्राह्मणे मनोऽधिकृत्य अधीयते — ‘तत्षट्त्रिंशत्सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयान्मनश्चितः’ इत्यादि । तथैव ‘वाक्चितः प्राणचितश्चक्षुश्चितः श्रोत्रचितः कर्मचितोऽग्निचितः’ इति पृथगग्नीन् आमनन्ति साम्पादिकान् । तेषु संशयः — किमेते मनश्चिदादयः क्रियानुप्रवेशिनः तच्छेषभूताः, उत स्वतन्त्राः केवलविद्यात्मका इति । तत्र प्रकरणात् क्रियानुप्रवेशे प्राप्ते, स्वातन्त्र्यं तावत्प्रतिजानीते — लिङ्गभूयस्त्वादिति । भूयांसि हि लिङ्गानि अस्मिन्ब्राह्मणे केवलविद्यात्मकत्वमेषामुपोद्बलयन्ति दृश्यन्ते — ‘तद्यत्किञ्चेमानि भूतानि मनसा सङ्कल्पयन्ति तेषामेव सा कृतिः’ इति, ‘तान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते’ इति च एवंजातीयकानि । तद्धि लिङ्गं प्रकरणाद्बलीयः । तदप्युक्तं पूर्वस्मिन्काण्डे — ‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’(जै. सू. ३ । ३ । १४) इति ॥ ४४ ॥
पूर्वविकल्पः प्रकरणात्स्यात्क्रिया मानसवत् ॥ ४५ ॥
४५नैतद्युक्तम् — स्वतन्त्रा एतेऽग्नयः अनन्यशेषभूता इति । पूर्वस्य क्रियामयस्य अग्नेः प्रकरणात् तद्विषय एव अयं विकल्पविशेषोपदेशः स्यात् , न स्वतन्त्रः । ननु प्रकरणाल्लिङ्गं बलीयः — सत्यमेवमेतत् । लिङ्गमपि तु एवंजातीयकं न प्रकरणाद्बलीयो भवति । अन्यार्थदर्शनं हि एतत् , साम्पादिकाग्निप्रशंसारूपत्वात् । अन्यार्थदर्शनं च असत्यामन्यस्यां प्राप्तौ गुणवादेनाप्युपपद्यमानं न प्रकरणं बाधितुमुत्सहते । तस्मात् साम्पादिका अप्येतेऽग्नयः प्रकरणात्क्रियानुप्रवेशिन एव स्युः । मानसवत् — यथा दशरात्रस्य दशमेऽहनि अविवाक्ये पृथिव्या पात्रेण समुद्रस्य सोमस्य प्रजापतये देवतायै गृह्यमाणस्य ग्रहणासादनहवनाहरणोपह्वानभक्षणानि मानसान्येव आम्नायन्ते, स च मानसोऽपि ग्रहकल्पः क्रियाप्रकरणात् क्रियाशेष एव भवति — एवमयमप्यग्नि कल्प इत्यर्थः ॥ ४५ ॥
अतिदेशाच्च ॥ ४६ ॥
४६अतिदेशश्च एषामग्नीनां क्रियानुप्रवेशमुपोद्बलयति — ‘षट्त्रिंशत्सहस्राण्यग्नयोऽर्कास्तेषामेकैक एव तावान्यावानसौ पूर्वः’ इति । सति हि सामान्ये अतिदेशः प्रवर्तते । ततश्च पूर्वेण इष्टकाचितेन क्रियानुप्रवेशिना अग्निना साम्पादिकानग्नीनतिदिशन् क्रियानुप्रवेशमेव एषां द्योतयति ॥ ४६ ॥
विद्यैव तु निर्धारणात् ॥ ४७ ॥
४७तुशब्दः पक्षं व्यावर्तयति । विद्यात्मका एव एते स्वतन्त्रा मनश्चिदादयोऽग्नयः स्युः, न क्रियाशेषभूताः । तथा हि निर्धारयति — ‘ते हैते विद्याचित एव’ इति, ‘विद्यया हैवैत एवंविदश्चिता भवन्ति’ इति च ॥ ४७ ॥
दर्शनाच्च ॥ ४८ ॥
४८दृश्यते च एतेषां स्वातन्त्र्ये लिङ्गम् । तत्पुरस्ताद्दर्शितम् — ‘लिङ्गभूयस्त्वात्’(ब्र. सू. ३ । ३ । ४४) इत्यत्र ॥ ४८ ॥
ननु लिङ्गमपि असत्यामन्यस्यां प्राप्तौ असाधकं कस्यचिदर्थस्येति, अपास्य तत् , प्रकरणसामर्थ्यात् क्रियाशेषत्वमध्यवसितम् — इत्यत उत्तरं पठति —
श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥ ४९ ॥
४९नैवं प्रकरणसामर्थ्यात्क्रियाशेषत्वमध्यवसाय स्वातन्त्र्यपक्षो बाधितव्यः, श्रुत्यादेर्बलीयस्त्वात् । बलीयांसि हि प्रकरणात् श्रुतिलिङ्गवाक्यानीति स्थितं श्रुतिलिङ्गसूत्रे । तानि च इह स्वातन्त्र्यपक्षं साधयन्ति दृश्यन्ते । कथम् ? श्रुतिस्तावत् — ‘ते हैते विद्याचित एव’ इति । तथा लिङ्गम् — ‘सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते’ इति । तथा वाक्यमपि — ‘विद्यया हैवैत एवंविदश्चिता भवन्ति’ इति । ‘विद्याचित एव’ इति हि सावधारणा इयं श्रुतिः क्रियानुप्रवेशेऽमीषामभ्युपगम्यमाने पीडिता स्यात् । ननु अबाह्यसाधनत्वाभिप्रायमिदमवधारणं भविष्यति — नेत्युच्यते; तदभिप्रायतायां हि ‘विद्याचितः’ इति इयता स्वरूपसङ्कीर्तनेनैव कृतत्वात् , अनर्थकमवधारणं भवेत् — स्वरूपमेव हि एषाम् अबाह्यसाधनत्वमिति । अबाह्यसाधनत्वेऽपि तु मानसग्रहवत् क्रियानुप्रवेशशङ्कायां तन्निवृत्तिफलम् अवधारणम् अर्थवद्भविष्यति । तथा ‘स्वपते जाग्रते चैवंविदे सर्वदा सर्वाणि भूतान्येतानग्नींश्चिन्वन्ति’ इति सातत्यदर्शनम् एषां स्वातन्त्र्येऽवकल्पते — यथा साम्पादिके वाक्प्राणमयेऽग्निहोत्रे ‘प्राणं तदा वाचि जुहोति … वाचं तदा प्राणे जुहोति’(कौ. उ. २ । ५) इति च उक्त्वा उच्यते — ‘एते अनन्ते अमृते आहुती जाग्रच्च स्वपंश्च सततं जुहोति’ इति — तद्वत् । क्रियानुप्रवेशे तु क्रियाप्रयोगस्य अल्पकालत्वेन न सातत्येन एषां प्रयोगः कल्पेत । न च इदमर्थवादमात्रमिति न्याय्यम् । यत्र हि विस्पष्टो विधायको लिङादिः उपलभ्यते, युक्तं तत्र सङ्कीर्तनमात्रस्यार्थवादत्वम् । इह तु विस्पष्टविध्यन्तरानुपलब्धेः सङ्कीर्तनादेव एषां विज्ञानविधानं कल्पनीयम् । तच्च यथासङ्कीर्तनमेव कल्पयितुं शक्यत इति, सातत्यदर्शनात् तथाभूतमेव कल्प्यते । ततश्च सामर्थ्यादेषां स्वातन्त्र्यसिद्धिः । एतेन ‘तद्यत्किञ्चेमानि भूतानि मनसा सङ्कल्पयन्ति तेषामेव सा कृतिः’(श॰ब्रा॰ १०-५-३-३) इत्यादि व्याख्यातम् । तथा वाक्यमपि ‘एवंविदे’ इति पुरुषविशेषसम्बन्धमेव एषामाचक्षाणं न क्रतुसम्बन्धं मृष्यते । तस्मात् स्वातन्त्र्यपक्ष एव ज्यायानिति ॥ ४९ ॥
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् ॥ ५० ॥
५०इतश्च प्रकरणमुपमृद्य स्वातन्त्र्यं मनश्चिदादीनां प्रतिपत्तव्यम् , यत् क्रियावयवान् मनआदिव्यापारेष्वनुबध्नाति — ‘ते मनसैवाधीयन्त मनसाचीयन्त मनसैव ग्रहा अगृह्यन्त मनसास्तुवन्मनसाशंसन्यत्किञ्च यज्ञे कर्म क्रियते यत्किञ्च यज्ञियं कर्म मनसैव तेषु तन्मनोमयेषु मनश्चित्सु मनोमयमेव क्रियते’(श॰ब्रा॰ १०-५-३-३) इत्यादिना । सम्पत्फलो हि अयमनुबन्धः । न च प्रत्यक्षाः क्रियावयवाः सन्तः सम्पदा लिप्सितव्याः । न च अत्र उद्गीथाद्युपासनवत् क्रियाङ्गसम्बन्धात् तदनुप्रवेशित्वमाशङ्कितव्यम् , श्रुतिवैरूप्यात् । न हि अत्र क्रियाङ्गं किञ्चिदादाय तस्मिन् अदो नामाध्यवसितव्यमिति वदति । षट्त्रिंशत्सहस्राणि तु मनोवृत्तिभेदान् आदाय तेष्वग्नित्वं ग्रहादींश्च कल्पयति, पुरुषयज्ञादिवत् । संख्या च इयं पुरुषायुषस्याहःसु दृष्टा सती तत्सम्बन्धिनीषु मनोवृत्तिष्वारोप्यत इति द्रष्टव्यम् । एवमनुबन्धात्स्वातन्त्र्यं मनश्चिदादीनाम् । आदिशब्दात् अतिदेशाद्यपि यथासम्भवं योजयितव्यम् । तथा हि — ‘तेषामेकैक एव तावान्यावानसौ पूर्वः’(श॰ब्रा॰ १०-५-३-३) इति क्रियामयस्याग्नेर्माहात्म्यं ज्ञानमयानामेकैकस्य अतिदिशन् क्रियायामनादरं दर्शयति । न च सत्येव क्रियासम्बन्धे विकल्पः पूर्वेणोत्तरेषामिति शक्यं वक्तुम् । न हि, येन व्यापारेण आहवनीयधारणादिना पूर्वः क्रियायामुपकरोति, तेन उत्तरे उपकर्तुं शक्नुवन्ति । यत्तु पूर्वपक्षेऽप्यतिदेश उपोद्बलक इत्युक्तम् — सति हि सामान्येऽतिदेशः प्रवर्तत इति, तत् अस्मत्पक्षेऽप्यग्नित्वसामान्येनातिदेशसम्भवात्प्रत्युक्तम् — अस्ति हि साम्पादिकानामप्यग्नीनामग्नित्वमिति । श्रुत्यादीनि च कारणानि दर्शितानि । एवमनुबन्धादिभ्यः कारणेभ्यः स्वातन्त्र्यं मनश्चिदादीनाम् । प्रज्ञान्तरपृथक्त्ववत् — यथा प्रज्ञान्तराणि शाण्डिल्यविद्याप्रभृतीनि स्वेन स्वेन अनुबन्धेन अनुबध्यमानानि पृथगेव कर्मभ्यः प्रज्ञान्तरेभ्यश्च स्वतन्त्राणि भवन्ति, एवमिति । दृष्टश्च अवेष्टेः राजसूयप्रकरणपठितायाः प्रकरणादुत्कर्षः — वर्णत्रयानुबन्धात् । राजयज्ञत्वाच्च राजसूयस्य । तदुक्तं प्रथमे काण्डे — ‘क्रत्वर्थायामिति चेन्न वर्णत्रयसंयोगात्’(जै. सू. ११ । ४ । ९) इति ॥ ५० ॥
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॥ ५१ ॥
५१यदुक्तं मानसवदिति, तत्प्रत्युच्यते । न मानसग्रहसामान्यादपि मनश्चिदादीनां क्रियाशेषत्वं कल्प्यम् , पूर्वोक्तेभ्यः श्रुत्यादिहेतुभ्यः केवलपुरुषार्थत्वोपलब्धेः । न हि किञ्चित् कस्यचित् केनचित् सामान्यं न सम्भवति । न च तावता यथास्वं वैषम्यं निवर्तते; मृत्युवत् — यथा ‘स वा एष एव मृत्युर्य एष एतस्मिन्मण्डले पुरुषः’ इति, ‘अग्निर्वै मृत्युः’(बृ. उ. ३ । २ । १०) इति च अग्न्यादित्यपुरुषयोः समानेऽपि मृत्युशब्दप्रयोगे, न अत्यन्तसाम्यापत्तिः । यथा च ‘असौ वाव लोको गौतमाग्निस्तस्यादित्य एव समित्’(छा. उ. ५ । ४ । १) इत्यत्र न समिदादिसामान्यात् लोकस्याग्निभावापत्तिः — तद्वत् ॥ ५१ ॥
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥ ५२ ॥
५२परस्तादपि ‘अयं वाव लोक एषोऽग्निश्चितः’ इत्यस्मिन् अनन्तरे ब्राह्मणे, ताद्विध्यं केवलविद्याविधित्वम् शब्दस्य प्रयोजनं लक्ष्यते, न शुद्धकर्माङ्गविधित्वम्; तत्र हि — ‘विद्यया तदारोहन्ति यत्र कामाः परागताः । न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः’(श॰ब्रा॰ १०-५-४-१६) इत्यनेन श्लोकेन केवलं कर्म निन्दन् विद्यां च प्रशंसन् इदं गमयति । तथा पुरस्तादपि ‘यदेतन्मण्डलं तपति’ इत्यस्मिन्ब्राह्मणे विद्याप्रधानत्वमेव लक्ष्यते — ‘सोऽमृतो भवति मृत्युर्ह्यस्यात्मा भवति’ इति विद्याफलेनैव उपसंहारात् न कर्मप्रधानता । तत्सामान्यात् इहापि तथात्वम् । भूयांसस्तु अग्न्यवयवाः सम्पादयितव्या विद्यायाम् — इत्येतस्मात्कारणात् अग्निना अनुबध्यते विद्या, न कर्माङ्गत्वात् । तस्मात् मनश्चिदादीनां केवलविद्यात्मकत्वसिद्धिः ॥ ५२ ॥
एक आत्मनः शरीरे भावात् ॥ ५३ ॥
५३इह देहव्यतिरिक्तस्य आत्मनः सद्भावः समर्थ्यते, बन्धमोक्षाधिकारसिद्धये । न हि असति देहव्यतिरिक्त आत्मनि परलोकफलाश्चोदना उपपद्येरन् । कस्य वा ब्रह्मात्मत्वमुपदिश्येत । ननु शास्त्रप्रमुख एव प्रथमे पादे शास्त्रफलोपभोगयोग्यस्य देहव्यतिरिक्तस्य आत्मनोऽस्तित्वमुक्तम् — सत्यमुक्तं भाष्यकृता । न तु तत्रात्मास्तित्वे सूत्रमस्ति । इह तु स्वयमेव सूत्रकृता तदस्तित्वमाक्षेपपुरःसरं प्रतिष्ठापितम् । इत एव च आकृष्य आचार्येण शबरस्वामिना प्रमाणलक्षणे वर्णितम् । अत एव च भगवता उपवर्षेण प्रथमे तन्त्रे आत्मास्तित्वाभिधानप्रसक्तौ शारीरके वक्ष्याम इत्युद्धारः कृतः । इह च इदं चोदनालक्षणेषु उपासनेषु विचार्यमाणेषु आत्मास्तित्वं विचार्यते, कृत्स्नशास्त्रशेषत्वप्रदर्शनाय । अपि च पूर्वस्मिन्नधिकरणे प्रकरणोत्कर्षाभ्युपगमेन मनश्चिदादीनां पुरुषार्थत्वं वर्णितम् । कोऽसौ पुरुषः, यदर्था एते मनश्चिदादयः — इत्यस्यां प्रसक्तौ इदं देहव्यतिरिक्तस्य आत्मनोऽस्तित्वमुच्यते । तदस्तित्वाक्षेपार्थं चेदमादिमं सूत्रम् — आक्षेपपूर्विका हि परिहारोक्तिः विवक्षितेऽर्थे स्थूणानिखननन्यायेन दृढां बुद्धिमुत्पादयेदिति ॥
अत्र एके देहमात्रात्मदर्शिनो लोकायतिकाः देहव्यतिरिक्तस्य आत्मनोऽभावं मन्यमानाः, समस्तव्यस्तेषु बाह्येषु पृथिव्यादिष्वदृष्टमपि चैतन्यं शरीराकारपरिणतेषु भूतेषु स्यादिति — सम्भावयन्तस्तेभ्यश्चैतन्यम् , मदशक्तिवत् विज्ञानम् चैतन्यविशिष्टः कायः पुरुषः — इति च आहुः । न स्वर्गगमनाय अपवर्गगमनाय वा समर्थो देहव्यतिरिक्त आत्मा अस्ति, यत्कृतं चैतन्यं देहे स्यात् । देह एव तु चेतनश्च आत्मा च इति प्रतिजानते । हेतुं च आचक्षते — शरीरे भावादिति । यद्धि यस्मिन्सति भवति, असति च न भवति, तत् तद्धर्मत्वेनाध्यवसीयते — यथा अग्निधर्मावौष्ण्यप्रकाशौ । प्राणचेष्टाचैतन्यस्मृत्यादयश्च आत्मधर्मत्वेनाभिमता आत्मवादिनाम् — तेऽपि अन्तरेव देहे उपलभ्यमानाः बहिश्च अनुपलभ्यमानाः असिद्धे देहव्यतिरिक्ते धर्मिणि देहधर्मा एव भवितुमर्हन्ति । तस्मादव्यतिरेको देहादात्मन इति ॥ ५३ ॥
एवं प्राप्ते, ब्रूमः —
व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवत् ॥ ५४ ॥
५४न त्वेतदस्ति — यदुक्तमव्यतिरेको देहादात्मन इति । व्यतिरेक एव अस्य देहाद्भवितुमर्हति । तद्भावाभावित्वात् । यदि देहभावे भावात् देहधर्मत्वम् आत्मधर्माणां मन्येत — ततो देहभावेऽपि अभावात् अतद्धर्मत्वमेव एषां किं न मन्येत ? देहधर्मवैलक्षण्यात् । ये हि देहधर्मा रूपादयः, ते यावद्देहं भवन्ति । प्राणचेष्टादयस्तु सत्यपि देहे मृतावस्थायां न भवन्ति । देहधर्माश्च रूपादयः परैरप्युपलभ्यन्ते, न त्वात्मधर्माश्चैतन्यस्मृत्यादयः । अपि च सति तावत् देहे जीवदवस्थायाम् एषां भावः शक्यते निश्चेतुम् , न तु असत्यभावः । पतितेऽपि कदाचिदस्मिन्देहे देहान्तरसञ्चारेण आत्मधर्मा अनुवर्तेरन् । संशयमात्रेणापि परपक्षः प्रतिषिध्यते । किमात्मकं च पुनरिदं चैतन्यं मन्यते, यस्य भूतेभ्य उत्पत्तिमिच्छति — इति परः पर्यनुयोक्तव्यः । न हि भूतचतुष्टयव्यतिरेकेण लोकायतिकः किञ्चित् तत्त्वं प्रत्येति । यत् अनुभवनं भूतभौतिकानाम् , तत् चैतन्यमिति चेत् , तर्हि विषयत्वात्तेषाम् न तद्धर्मत्वमश्नुवीत, स्वात्मनि क्रियाविरोधात् । न हि अग्निरुष्णः सन् स्वात्मानं दहति, न हि नटः शिक्षितः सन् स्वस्कन्धमधिरोक्ष्यति । न हि भूतभौतिकधर्मेण सता चैतन्येन भूतभौतिकानि विषयीक्रियेरन् । न हि रूपादिभिः स्वरूपं पररूपं वा विषयीक्रियते । विषयीक्रियन्ते तु बाह्याध्यात्मिकानि भूतभौतिकानि चैतन्येन । अतश्च यथैव अस्या भूतभौतिकविषयाया उपलब्धेर्भावोऽभ्युपगम्यते, एवं व्यतिरेकोऽपि अस्यास्तेभ्यः अभ्युपगन्तव्यः । उपलब्धिस्वरूप एव च न आत्मेति आत्मनो देहव्यतिरिक्तत्वम् । नित्यत्वं च उपलब्धेः, ऐकरूप्यात् , ‘अहम् इदम् अद्राक्षम्’ इति च अवस्थान्तरयोगेऽप्युपलब्धृत्वेन प्रत्यभिज्ञानात् , स्मृत्याद्युपपत्तेश्च । यत्तूक्तम् — शरीरे भावाच्छरीरधर्म उपलब्धिरिति, तत् वर्णितेन प्रकारेण प्रत्युक्तम् । अपि च सत्सु प्रदीपादिषु उपकरणेषु उपलब्धिर्भवति असत्सु न भवति — न च एतावता प्रदीपादिधर्म एव उपलब्धिर्भवति । एवं सति देहे उपलब्धिर्भवति, असति च न भवतीति — न देहधर्मो भवितुमर्हति । उपकरणत्वमात्रेणापि प्रदीपादिवत् देहोपयोगोपपत्तेः । न च अत्यन्तं देहस्य उपलब्धावुपयोगोऽपि दृश्यते, निश्चेष्टेऽप्यस्मिन्देहे स्वप्ने नानाविधोपलब्धिदर्शनात् । तस्मादनवद्यं देहव्यतिरिक्तस्य आत्मनोऽस्तित्वम् ॥ ५४ ॥
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ५५ ॥
५५समाप्ता प्रासङ्गिकी कथा; सम्प्रति प्रकृतामेवानुवर्तामहे । ‘ओमित्येतदक्षरमुद्गीथमुपासीत’(छा. उ. १ । १ । १) ‘लोकेषु पञ्चविधꣳ सामोपासीत’(छा. उ. २ । २ । १) ‘उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थम् इयमेव पृथिवी’ ‘अयं वाव लोकः’ ‘एषोऽग्निश्चितः’(श॰ब्रा॰ १०-१-२-२) इत्येवमाद्या ये उद्गीथादिकर्माङ्गावबद्धाः प्रत्ययाः प्रतिवेदं शाखाभेदेषु विहिताः, ते तत्तच्छाखागतेष्वेव उद्गीथादिषु भवेयुः, अथवा सर्वशाखागतेषु — इति विशयः । प्रतिशाखं च स्वरादिभेदात् उद्गीथादिभेदानुपादाय अयमुपन्यासः । किं तावत्प्राप्तम् ? स्वशाखागतेष्वेव उद्गीथादिषु विधीयेरन्निति । कुतः ? सन्निधानात् — ‘उद्गीथमुपासीत’(छा. उ. १ । १ । १) इति हि सामान्यविहितानां विशेषाकाङ्क्षायां सन्निकृष्टेनैव स्वशाखागतेन विशेषेण आकाङ्क्षानिवृत्तेः, तदतिलङ्घनेन शाखान्तरविहितविशेषोपादाने कारणं नास्ति । तस्मात्प्रतिशाखं व्यवस्थेत्येवं प्राप्ते, ब्रवीति — अङ्गावबद्धास्त्विति । तुशब्दः पक्षं व्यावर्तयति । नैते प्रतिवेदं स्वशाखास्वेव व्यवतिष्ठेरन् , अपि तु सर्वशाखास्वनुवर्तेरन् । कुतः ? उद्गीथादिश्रुत्यविशेषात् । स्वशाखाव्यवस्थायां हि ‘उद्गीथमुपासीत’ इति सामान्यश्रुतिरविशेषप्रवृत्ता सती सन्निधानवशेन विशेषे व्यवस्थाप्यमाना पीडिता स्यात् । न चैतन्न्याय्यम् । सन्निधानाद्धि श्रुतिर्बलीयसी । न च सामान्याश्रयः प्रत्ययो नोपपद्यते । तस्मात् स्वरादिभेदे सत्यपि उद्गीथत्वाद्यविशेषात् सर्वशाखागतेष्वेव उद्गीथादिषु एवंजातीयकाः प्रत्ययाः स्युः ॥ ५५ ॥
मन्त्रादिवद्वाऽविरोधः ॥ ५६ ॥
५६अथवा नैवात्र विरोधः शङ्कितव्यः — कथमन्यशाखागतेषु उद्गीथादिषु अन्यशाखाविहिताः प्रत्यया भवेयुरिति । मन्त्रादिवत् अविरोधोपपत्तेः । तथा हि — मन्त्राणां कर्मणां गुणानां च शाखान्तरोत्पन्नानामपि शाखान्तरे उपसङ्ग्रहो दृश्यते । येषामपि हि शाखिनाम् ‘कुटरुरसि’ इत्यश्मादानमन्त्रो नाम्नातः, तेषामपि असौ विनियोगो दृश्यते — ‘कुक्कुटोऽसीत्यश्मानमादत्ते, कुटरुरसीति वा’ इति । येषामपि समिदादयः प्रयाजा नाम्नाताः, तेषामपि तेषु गुणविधिराम्नायते — ‘ऋतवो वै प्रयाजाः समानत्र होतव्याः’ इति । तथा येषामपि ‘अजोऽग्नीषोमीयः’ इति जातिविशेषोपदेशो नास्ति, तेषामपि तद्विषयो मन्त्रवर्ण उपलभ्यते — ‘छागस्य वपाया मेदसोऽनुब्रूहि’ इति । तथा वेदान्तरोत्पन्नानामपि ‘अग्ने वेर्होत्रं वेरध्वरम्’(ता॰ब्रा॰२१-१०-११) इत्येवमादिमन्त्राणां वेदान्तरे परिग्रहो दृष्टः; तथा बह्वृचपठितस्य सूक्तस्य ‘यो जात एव प्रथमो मनस्वान्’(ऋ. सं. २ । १२ । १) इत्यस्य, अध्वर्यवे ‘सजनीयꣳ शस्यम्’ इत्यत्र परिग्रहो दृष्टः । तस्मात् यथा आश्रयाणां कर्माङ्गानां सर्वत्रानुवृत्तिः, एवम् आश्रितानामपि प्रत्ययानाम् — इत्यविरोधः ॥ ५६ ॥
भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥ ५७ ॥
५७‘प्राचीनशाल औपमन्यवः’(छा. उ. ५ । ११ । १) इत्यस्यामाख्यायिकायां व्यस्तस्य समस्तस्य च वैश्वानरस्य उपासनं श्रूयते । व्यस्तोपासनं तावत् — ‘औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुपास्से’(छा. उ. ५ । १२ । १) इत्यादि । तथा समस्तोपासनमपि — ‘तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा सन्देहो बहुलो बस्तिरेव रयिः पृथिव्येव पादौ’(छा. उ. ५ । १८ । २) इत्यादि । तत्र संशयः — किमिह उभयथापि उपासनं स्यात् व्यस्तस्य समस्तस्य च, उत समस्तस्यैवेति । किं तावत्प्राप्तम् ? प्रत्यवयवं सुतेजःप्रभृतिषु ‘उपास्से’ इति क्रियापदश्रवणात् , ‘तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते’(छा. उ. ५ । १२ । १) इत्यादिफलभेदश्रवणाच्च, व्यस्तान्यप्युपासनानि स्युः — इति प्राप्तम् ॥
ततोऽभिधीयते — भूम्नः पदार्थोपचयात्मकस्य समस्तस्य वैश्वानरोपासनस्य ज्यायस्त्वं प्राधान्यं अस्मिन्वाक्ये विवक्षितं भवितुमर्हति, न प्रत्येकम् अवयवोपासनानामपि; क्रतुवत् — यथा क्रतुषु दर्शपूर्णमासप्रभृतिषु सामस्त्येन साङ्गप्रधानप्रयोग एव एको विवक्ष्यते, न व्यस्तानामपि प्रयोगः प्रयाजादीनाम् , नाप्येकदेशाङ्गयुक्तस्य प्रधानस्य — तद्वत् । कुत एतत् — भूमैव ज्यायानिति ? तथा हि श्रुतिः भूम्नो ज्यायस्त्वं दर्शयति, एकवाक्यतावगमात् । एकं हि इदं वाक्यं वैश्वानरविद्याविषयं पौर्वापर्यालोचनात्प्रतीयते । तथा हि — प्राचीनशालप्रभृतय उद्दालकावसानाः षट् ऋषयः वैश्वानरविद्यायां परिनिष्ठामप्रतिपद्यमानाः अश्वपतिं कैकेयं राजानमभ्याजग्मुः — इत्युपक्रम्य, एकैकस्य ऋषेरुपास्यं द्युप्रभृतीनामेकैकं श्रावयित्वा, ‘मूर्धा त्वेष आत्मन इति होवाच’(छा. उ. ५ । १२ । २) इत्यादिना मूर्धादिभावं तेषां विदधाति । ‘मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्यः’(छा. उ. ५ । १२ । २) इत्यादिना च व्यस्तोपासनमपवदति । पुनश्च व्यस्तोपासनं व्यावर्त्य, समस्तोपासनमेवानुवर्त्य, ‘स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति’(छा. उ. ५ । १८ । १) इति भूमाश्रयमेव फलं दर्शयति । यत्तु प्रत्येकं सुतेजःप्रभृतिषु फलभेदश्रवणम् , तत् एवं सति अङ्गफलानि प्रधान एवाभ्युपगतानि — इति द्रष्टव्यम् । तथा ‘उपास्से’ इत्यपि प्रत्यवयवमाख्यातश्रवणं पराभिप्रायानुवादार्थम् , न व्यस्तोपासनविधानार्थम् । तस्मात्समस्तोपासनपक्ष एव श्रेयानिति ॥
केचित्तु अत्र समस्तोपासनपक्षं ज्यायांसं प्रतिष्ठाप्य, ज्यायस्त्ववचनादेव किल व्यस्तोपासनपक्षमपि सूत्रकारोऽनुमन्यत इति कल्पयन्ति । तदयुक्तम् , एकवाक्यतावगतौ सत्यां वाक्यभेदकल्पनस्यान्याय्यत्वात् , ‘मूर्धा ते व्यपतिष्यत्’(छा. उ. ५ । १२ । २) इति च एवमादिनिन्दाविरोधात् , स्पष्टे च उपसंहारस्थे समस्तोपासनावगमे तदभावस्य पूर्वपक्षे वक्तुमशक्यत्वात् , सौत्रस्य च ज्यायस्त्ववचनस्य प्रमाणवत्त्वाभिप्रायेणापि उपपद्यमानत्वात् ॥ ५७ ॥
नाना शब्दादिभेदात् ॥ ५८ ॥
५८पूर्वस्मिन्नधिकरणे सत्यामपि सुतेजःप्रभृतीनां फलभेदश्रुतौ समस्तोपासनं ज्याय इत्युक्तम् । अतः प्राप्ता बुद्धिः — अन्यान्यपि भिन्नश्रुतीन्युपासनानि समस्य उपासिष्यन्ते इति । अपि च नैव वेद्याभेदे विद्याभेदो विज्ञातुं शक्यते । वेद्यं हि रूपं विद्यायाः, द्रव्यदैवतमिव यागस्य । वेद्यश्च एक एव ईश्वरः श्रुतिनानात्वेऽप्यवगम्यते — ‘मनोमयः प्राणशरीरः’(छा. उ. ३ । १४ । २) ‘कं ब्रह्म खं ब्रह्म’(छा. उ. ४ । १० । ५) ‘सत्यकामः सत्यसङ्कल्पः’(छा. उ. ८ । १ । ५) इत्येवमादिषु — तथा एक एव प्राणः ‘प्राणो वाव संवर्गः’(छा. उ. ४ । ३ । ३) ‘प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च’(छा. उ. ५ । १ । १) ‘प्राणो ह पिता प्राणो माता’(छा. उ. ७ । १५ । १) इत्येवमादिषु । वेद्यैकत्वाच्च विद्यैकत्वम् । श्रुतिनानात्वमपि अस्मिन्पक्षे गुणान्तरपरत्वात् न अनर्थकम् । तस्मात् स्वपरशाखाविहितम् एकवेद्यव्यपाश्रयं गुणजातमुपसंहर्तव्यं विद्याकात्स्न्याय इत्येवं प्राप्ते प्रतिपाद्यते —
नानेति । वेद्याभेदेऽपि एवंजातीयका विद्या भिन्ना भवितुमर्हति । कुतः ? शब्दादिभेदात् । भवति हि शब्दभेदः — ‘वेद’ ‘उपासीत’ ‘स क्रतुं कुर्वीत’(छा. उ. ३ । १४ । १) इत्येवमादिः । शब्दभेदश्च कर्मभेदहेतुः समधिगतः पुरस्तात् ‘शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्’ इति । आदिग्रहणात् गुणादयोऽपि यथासम्भवं भेदहेतवो योजयितव्याः । ननु ‘वेद’ इत्यादिषु शब्दभेद एव अवगम्यते, न ‘यजति’ इत्यादिवत् अर्थभेदः, सर्वेषामेवैषां मनोवृत्त्यर्थत्वाभेदात् , अर्थान्तरासम्भवाच्च । तत् कथं शब्दभेदाद्विद्याभेद इति? नैष दोषः, मनोवृत्त्यर्थत्वाभेदेऽपि अनुबन्धभेदाद्वेद्यभेदे सति विद्याभेदोपपत्तेः । एकस्यापीश्वरस्य उपास्यस्य प्रतिप्रकरणं व्यावृत्ता गुणाः शिष्यन्ते । तथा एकस्यापि प्राणस्य तत्र तत्र उपास्यस्य अभेदेऽपि अन्यादृग्गुणोऽन्यत्रोपासितव्यः अन्यादृग्गुणश्चान्यत्र — इत्येवमनुबन्धभेदाद्वेद्यभेदे सति विद्याभेदो विज्ञायते । न च अत्र एको विद्याविधिः, इतरे गुणविधय इति शक्यं वक्तुम् — विनिगमनायां हेत्वभावात् , अनेकत्वाच्च प्रतिप्रकरणं गुणानां प्राप्तविद्यानुवादेन विधानानुपपत्तेः । न च अस्मिन्पक्षे समानाः सन्तः सत्यकामादयो गुणा असकृच्छ्रावयितव्याः । प्रतिप्रकरणं च — इदंकामेनेदमुपासितव्यम् , इदंकामेन च इदम् — इति नैराकाङ्क्ष्यावगमात् नैकवाक्यतापत्तिः । न च अत्र वैश्वानरविद्यायामिव समस्तचोदना अपरा अस्ति, यद्बलेन प्रतिप्रकरणवर्तीन्यवयवोपासनानि भूत्वा एकवाक्यताम् इयुः । वेद्यैकत्वनिमित्ते च विद्यैकत्वे सर्वत्र निरङ्कुशे प्रतिज्ञायमाने, समस्तगुणोपसंहारोऽशक्यः प्रतिज्ञायेत । तस्मात् सुष्ठु उच्यते — नाना शब्दादिभेदादिति । स्थिते च एतस्मिन्नधिकरणे, सर्ववेदान्तप्रत्ययमित्यादि द्रष्टव्यम् ॥ ५८ ॥
विकल्पोऽविशिष्टफलत्वात् ॥ ५९ ॥
५९स्थिते विद्याभेदे विचार्यते — किमासामिच्छया समुच्चयो विकल्पो वा स्यात् , अथवा विकल्प एव नियमेनेति । तत्र स्थितत्वात् तावद्विद्याभेदस्य न समुच्चयनियमे किञ्चित्कारणमस्ति । ननु भिन्नानामप्यग्निहोत्रदर्शपूर्णमासादीनां समुच्चयनियमो दृश्यते — नैष दोषः । नित्यताश्रुतिर्हि तत्र कारणम् । नैवं विद्यानां काचिन्नित्यताश्रुतिरस्ति । तस्मान्न समुच्चयनियमः । नापि विकल्पनियमः, विद्यान्तराधिकृतस्य विद्यान्तराप्रतिषेधात् । पारिशेष्यात् याथाकाम्यमापद्यते । ननु अविशिष्टफलत्वादासां विकल्पो न्याय्यः । तथा हि — ‘मनोमयः प्राणशरीरः’(छा. उ. ३ । १४ । २) ‘कं ब्रह्म खं ब्रह्म’(छा. उ. ४ । १० । ५) ‘सत्यकामः सत्यसङ्कल्पः’(छा. उ. ८ । १ । ५) इत्येवमाद्याः तुल्यवत् ईश्वरप्राप्तिफला लक्ष्यन्ते — नैष दोषः। समानफलेष्वपि स्वर्गादिसाधनेषु कर्मसु याथाकाम्यदर्शनात् । तस्मात् याथाकाम्यप्राप्तौ, उच्यते — विकल्प एव आसां भवितुमर्हति, न समुच्चयः । कस्मात् ? अविशिष्टफलत्वात् । अविशिष्टं हि आसां फलमुपास्यविषयसाक्षात्करणम् । एकेन च उपासनेन साक्षात्कृते उपास्ये विषये ईश्वरादौ, द्वितीय मनर्थकम् । अपि च असम्भव एव साक्षात्करणस्य समुच्चयपक्षे, चित्तविक्षेपहेतुत्वात् । साक्षात्करणसाध्यं च विद्याफलं दर्शयन्ति श्रुतयः — ‘यस्य स्यादद्धा न विचिकित्सास्ति’(छा. उ. ३ । १४ । ४) इति, ‘देवो भूत्वा देवानप्येति’(बृ. उ. ४ । १ । २) इति च एवमाद्याः । स्मृतयश्च — ‘सदा तद्भावभावितः’(भ. गी. ८ । ६) इत्येवमाद्याः । तस्मात् अविशिष्टफलानां विद्यानामन्यतमामादाय तत्परः स्यात् , यावदुपास्यविषयसाक्षात्करणेन तत्फलप्राप्तिरिति ॥ ५९ ॥
काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥ ६० ॥
६०अविशिष्टफलत्वादित्यस्य प्रत्युदाहरणम् । यासु पुनः काम्यासु विद्यासु ‘स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदꣳ रोदिति’(छा. उ. ३ । १५ । २) ‘स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति’(छा. उ. ७ । १ । ५) इति चैवमाद्यासु क्रियावत् अदृष्टेनात्मना आत्मीयं फलं साधयन्तीषु, साक्षात्करणापेक्षा नास्ति; ता यथाकामं समुच्चीयेरन् , न वा समुच्चीयेरन् — पूर्वहेत्वभावात् — पूर्वस्य अविशिष्टफलत्वादित्यस्य विकल्पहेतोः अभावात् ॥ ६० ॥
अङ्गेषु यथाश्रयभावः ॥ ६१ ॥
६१कर्माङ्गेषु उद्गीथादिषु ये आश्रिताः प्रत्यया वेदत्रयविहिताः, किं ते समुच्चीयेरन् , किं वा यथाकामं स्युरिति संशये — यथाश्रयभाव इत्याह । यथैव एषामाश्रयाः स्तोत्रादयः सम्भूय भवन्ति, एवं प्रत्यया अपि, आश्रयतन्त्रत्वात्प्रत्ययानाम् ॥ ६१ ॥
शिष्टेश्च ॥ ६२ ॥
६२यथा वा आश्रयाः स्तोत्रादयः त्रिषु वेदेषु शिष्यन्ते, एवमाश्रिता अपि प्रत्ययाः — नोपदेशकृतोऽपि कश्चिद्विशेषः अङ्गानां तदाश्रयाणां च प्रत्ययानामित्यर्थः ॥ ६२ ॥
समाहारात् ॥ ६३ ॥
६३‘होतृषदनाद्धैवापि दुरुद्गीतमनुसमाहरति’(छा. उ. १ । ५ । ५) इति च — प्रणवोद्गीथैकत्वविज्ञानमाहात्म्यात् उद्गाता स्वकर्मण्युत्पन्नं क्षतं हौत्रात्कर्मणः प्रतिसमादधाति — इति ब्रुवन् वेदान्तरोदितस्य प्रत्ययस्य वेदान्तरोदितपदार्थसम्बन्धसामान्यात् सर्ववेदोदितप्रत्ययोपसंहारं सूचयति — इति लिङ्गदर्शनम् ॥ ६३ ॥
गुणसाधारण्यश्रुतेश्च ॥ ६४ ॥
६४विद्यागुणं च विद्याश्रयं सन्तम् ओंकारं वेदत्रयसाधारणं श्रावयति — ‘तेनेयं त्रयी विद्या वर्तत ओमित्याश्रावयत्योमिति शꣳसत्योमित्युद्गायति’(छा. उ. १ । १ । ९) इति च । ततश्च आश्रयसाधारण्यात् आश्रितसाधारण्यमिति — लिङ्गदर्शनमेव । अथवा गुणसाधारण्यश्रुतेश्चेति । यदीमे कर्मगुणा उद्गीथादयः सर्वे सर्वप्रयोगसाधारणा न स्युः, न स्यात् ततः तदाश्रयाणां प्रत्ययानां सहभावः । ते तु उद्गीथादयः सर्वाङ्गग्राहिणा प्रयोगवचनेन सर्वे सर्वप्रयोगसाधारणाः श्राव्यन्ते । ततश्च आश्रयसहभावात्प्रत्ययसहभाव इति ॥ ६४ ॥
न वा तत्सहभावाश्रुतेः ॥ ६५ ॥
६५न वेति पक्षव्यावर्तनम् । न यथाश्रयभाव आश्रितानामुपासनानां भवितुमर्हति । कुतः ? तत्सहभावाश्रुतेः । यथा हि त्रिवेदविहितानामङ्गानां स्तोत्रादीनां सहभावः श्रूयते — ‘ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकरोति, स्तुतमनुशंसति, प्रस्तोतः साम गाय, होतरेतद्यज’ इत्यादिना । नैवमुपासनानां सहभावश्रुतिरस्ति । ननु प्रयोगवचन एषां सहभावं प्रापयेत् — नेति ब्रूमः, पुरुषार्थत्वादुपासनानाम् । प्रयोगवचनो हि क्रत्वर्थानामुद्गीथादीनां सहभावं प्रापयेत् । उद्गीथाद्युपासनानि क्रत्वर्थाश्रयाण्यपि गोदोहनादिवत् पुरुषार्थानीत्यवोचाम ‘पृथग्घ्यप्रतिबन्धः फलम्’(ब्र. सू. ३ । ३ । ४२) इत्यत्र । अयमेव च उपदेशाश्रयो विशेषः अङ्गानां तदालम्बनानां च उपासनानाम् — यदेकेषां क्रत्वर्थत्वम् , एकेषां पुरुषार्थत्वमिति । परं च लिङ्गद्वयम् अकारणमुपासनसहभावस्य, श्रुतिन्यायाभावात् । न च प्रतिप्रयोगम् आश्रयकात्स्न्योपसंहारादाश्रितानामपि तथात्वं विज्ञातुं शक्यम् , अतत्प्रयुक्तत्वादुपासनानाम् — आश्रयतन्त्राण्यपि हि उपासनानि कामम् आश्रयाभावे मा भूवन् । न त्वाश्रयसहभावेन सहभावनियममर्हन्ति, तत्सहभावाश्रुतेरेव । तस्मात् यथाकाममेव उपासनान्यनुष्ठीयेरन् ॥ ६५ ॥
दर्शनाच्च ॥ ६६ ॥
६६दर्शयति च श्रुतिरसहभावं प्रत्ययानाम् — ‘एवंविद्ध वै ब्रह्मा यज्ञं यजमानꣳ सर्वाꣳश्चर्त्विजोऽभिरक्षति’(छा. उ. ४ । १७ । १०) इति । सर्वप्रत्ययोपसंहारे हि, सर्वे सर्वविद इति न विज्ञानवता ब्रह्मणा परिपाल्यत्वमितरेषां सङ्कीर्त्येत । तस्मात् यथाकाममुपासनानां समुच्चयो विकल्पो वेति ॥ ६६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
तृतीयाध्यायस्य तृतीयः पादः ॥
चतुर्थः पादः
अथेदानीम् औपनिषदमात्मज्ञानं किमधिकारिद्वारेण कर्मण्येवानुप्रविशति, आहोस्वित् स्वतन्त्रमेव पुरुषार्थसाधनं भवतीति मीमांसमानः, सिद्धान्तेनैव तावदुपक्रमते —
पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ १ ॥
१पुरुषार्थोऽत इति । अस्माद्वेदान्तविहितादात्मज्ञानात् स्वतन्त्रात् पुरुषार्थः सिध्यतीति बादरायण आचार्यो मन्यते । कुत एतदवगम्यते ? शब्दादित्याह । तथा हि — ‘तरति शोकमात्मवित्’(छा. उ. ७ । १ । ३) ‘स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’(मु. उ. ३ । २ । ९) ‘ब्रह्मविदाप्नोति परम्’(तै. उ. २ । १ । १) ‘आचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’(छा. उ. ६ । १४ । २) ‘य आत्मापहतपाप्मा’(छा. उ. ८ । ७ । १) इत्युपक्रम्य, ‘स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानाति’(छा. उ. ८ । ७ । १) इति; ‘आत्मा वा अरे द्रष्टव्यः’(बृ. उ. ४ । ५ । ६) इत्युपक्रम्य, ‘एतावदरे खल्वमृतत्वम्’(बृ. उ. ४ । ५ । १५) इति एवंजातीयका श्रुतिः केवलाया विद्यायाः पुरुषार्थहेतुत्वं श्रावयति ॥ १ ॥
अथात्र प्रत्यवतिष्ठते —
शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥ २ ॥
२कर्तृत्वेन आत्मनः कर्मशेषत्वात् , तद्विज्ञानमपि व्रीहिप्रोक्षणादिवत् विषयद्वारेण कर्मसम्बन्ध्येव — इत्यतः, तस्मिन् अवगतप्रयोजने आत्मज्ञाने या फलश्रुतिः, सा अर्थवादः — इति जैमिनिराचार्यो मन्यते । यथा अन्येषु द्रव्यसंस्कारकर्मसु ‘यस्य पर्णमयी जुहूर्भवति न स पापꣳ श्लोकꣳ शृणोति’(तै॰सं॰ ३-५-७) ‘यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते’(तै॰सं॰ ६-१-१) ‘यत्प्रयाजानूयाजा इज्यन्ते, वर्म वा एतद्यज्ञस्य क्रियते वर्म यजमानस्य भ्रातृव्याभिभूत्यै’(तै॰सं॰ २-६-१) इत्येवंजातीयका फलश्रुतिः अर्थवादः — तद्वत् । कथं पुनः अस्य अनारभ्याधीतस्य आत्मज्ञानस्य प्रकरणादीनामन्यतमेनापि हेतुना विना क्रतुप्रवेश आशङ्क्यते ? कर्तृद्वारेण वाक्यात् तद्विज्ञानस्य क्रतुसम्बन्ध इति चेत् , न, वाक्याद्विनियोगानुपपत्तेः; अव्यभिचारिणा हि केनचिद्द्वारेण अनारभ्याधीतानामपि वाक्यनिमित्तः क्रतुसम्बन्धोऽवकल्पते । कर्ता तु व्यभिचारि द्वारम् , लौकिकवैदिककर्मसाधारण्यात् । तस्मान्न तद्द्वारेण आत्मज्ञानस्य क्रतुसम्बन्धसिद्धिरिति — न, व्यतिरेकविज्ञानस्य वैदिकेभ्यः कर्मभ्योऽन्यत्र अनुपयोगात् । न हि देहव्यतिरिक्तात्मज्ञानं लौकिकेषु कर्मसु उपयुज्यते, सर्वथा दृष्टार्थप्रवृत्त्युपपत्तेः । वैदिकेषु तु देहपातोत्तरकालफलेषु देहव्यतिरिक्तात्मज्ञानमन्तरेण प्रवृत्तिः नोपपद्यत इति, उपयुज्यते व्यतिरेकविज्ञानम् । ननु अपहतपाप्मत्वादिविशेषणात् असंसार्यात्मविषयम् औपनिषदं दर्शनं न प्रवृत्त्यङ्गं स्यात् — न, प्रियादिसंसूचितस्य संसारिण एव आत्मनो द्रष्टव्यत्वेनोपदेशात् । अपहतपाप्मत्वादि विशेषणं तु स्तुत्यर्थं भविष्यति । ननु तत्र तत्र प्रसाधितमेतत् — अधिकमसंसारि ब्रह्म जगत्कारणम् । तदेव च संसारिण आत्मनः पारमार्थिकं स्वरूपम् उपनिषत्सु उपदिश्यत इति — सत्यं प्रसाधितम् । तस्यैव तु स्थूणानिखननवत् फलद्वारेण आक्षेपसमाधाने क्रियेते दार्ढ्याय ॥ २ ॥
आचारदर्शनात् ॥ ३ ॥
३‘जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे’(बृ. उ. ३ । १ । १) ‘यक्ष्यमाणो वै भगवन्तोऽहमस्मि’(छा. उ. ५ । ११ । ५) इत्येवमादीनि ब्रह्मविदामपि अन्यपरेषु वाक्येषु कर्मसम्बन्धदर्शनानि भवन्ति । तथा उद्दालकादीनामपि पुत्रानुशासनादिदर्शनात् गार्हस्थ्यसम्बन्धोऽवगम्यते । केवलाच्चेत् ज्ञानात् पुरुषार्थसिद्धिः स्यात् , किमर्थम् अनेकायाससमन्वितानि कर्माणि ते कुर्युः ? ‘अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्’ इति न्यायात् ॥ ३ ॥
तच्छ्रुतेः ॥ ४ ॥
४‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’(छा. उ. १ । १ । १०) इति च कर्मशेषत्वश्रवणात् विद्याया न केवलायाः पुरुषार्थहेतुत्वम् ॥ ४ ॥
समन्वारम्भणात् ॥ ५ ॥
५‘तं विद्याकर्मणी समन्वारभेते’(बृ. उ. ४ । ४ । २) इति च विद्याकर्मणोः फलारम्भे साहित्यदर्शनात् न स्वातन्त्र्यं विद्यायाः ॥ ५ ॥
तद्वतो विधानात् ॥ ६ ॥
६‘आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानः’(छा. उ. ८ । १५ । १) इति च एवंजातीयका श्रुतिः समस्तवेदार्थविज्ञानवतः कर्माधिकारं दर्शयति । तस्मादपि न विज्ञानस्य स्वातन्त्र्येण फलहेतुत्वम् । ननु अत्र ‘अधीत्य’ इत्यध्ययनमात्रं वेदस्य श्रूयते, न अर्थविज्ञानम् — नैष दोषः । दृष्टार्थत्वात् वेदाध्ययनम् अर्थावबोधपर्यन्तमिति स्थितम् ॥ ६ ॥
नियमाच्च ॥ ७ ॥
७‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣳ समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे’(ई. उ. २) इति — तथा ‘एतद्वै जरामर्यं सत्रं यदग्निहोत्रं जरया वा ह्येवास्मान्मुच्यते मृत्युना वा’ — इत्येवंजातीयकात् नियमादपि कर्मशेषत्वमेव विद्याया इति ॥ ७ ॥
एवं प्राप्ते, प्रतिविधत्ते —
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥ ८ ॥
८तुशब्दात् पक्षो विपरिवर्तते । यदुक्तम् ‘शेषत्वात्पुरुषार्थवादः’(ब्र. सू. ३ । ४ । २) इति, तत् नोपपद्यते । कस्मात् ? अधिकोपदेशात् । यदि संसार्येव आत्मा शारीरः कर्ता भोक्ता च शरीरमात्रव्यतिरेकेण वेदान्तेषु उपदिष्टः स्यात् , ततो वर्णितेन प्रकारेण फलश्रुतेरर्थवादत्वं स्यात् । अधिकस्तावत् शारीरादात्मनः असंसारी ईश्वरः कर्तृत्वादिसंसारिधर्मरहितोऽपहतपाप्मत्वादिविशेषणः परमात्मा वेद्यत्वेनोपदिश्यते वेदान्तेषु । न च तद्विज्ञानं कर्मणां प्रवर्तकं भवति, प्रत्युत कर्माण्युच्छिनत्ति — इति वक्ष्यति ‘उपमर्दं च’(ब्र. सू. ३ । ४ । १६) इत्यत्र । तस्मात् ‘पुरुषार्थोऽतः शब्दात्’(ब्र. सू. ३ । ४ । १) इति यन्मतं भगवतो बादरायणस्य, तत् तथैव तिष्ठति; न शेषत्वप्रभृतिभिर्हेत्वाभासैश्चालयितुं शक्यते । तथा हि तमधिकं शारीरात् ईश्वरमात्मानं दर्शयन्ति श्रुतयः — ‘यः सर्वज्ञः सर्ववित्’(मु. उ. १ । १ । ९) ‘भीषास्माद्वातः पवते’(तै. उ. २ । ८ । १) ‘महद्भयं वज्रमुद्यतम्’(क. उ. २ । ३ । २) ‘एतस्य वा अक्षरस्य प्रशासने गार्गि’(बृ. उ. ३ । ८ । ९) ‘तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत’(छा. उ. ६ । २ । ३) इत्येवमाद्याः । यत्तु प्रियादिसंसूचितस्य संसारिण एव आत्मनो वेद्यतया अनुकर्षणम् — ‘आत्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः’(बृ. उ. २ । ४ । ५) ‘यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः’(बृ. उ. ३ । ४ । १) ‘य एषोऽक्षिणि पुरुषो दृश्यते’(छा. उ. ८ । ७ । ४) इत्युपक्रम्य ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि’(छा. उ. ८ । ९ । ३) इति चैवमादि — तदपि, ‘अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः’(बृ. उ. २ । ४ । १०) ‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’(बृ. उ. ३ । ५ । १) ‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः’(छा. उ. ८ । १२ । ३) इत्येवमादिभिर्वाक्यशेषैः सत्यामेव अधिकोपदिदिक्षायाम् , अत्यन्ताभेदाभिप्रायमित्यविरोधः । पारमेश्वरमेव हि शारीरस्य पारमार्थिकं स्वरूपम्; उपाधिकृतं तु शारीरत्वम् , ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) ‘नान्यदतोऽस्ति द्रष्टृ’(बृ. उ. ३ । ८ । ११) इत्यादिश्रुतिभ्यः । सर्वं च एतत् विस्तरेणास्माभिः पुरस्तात् तत्र तत्र वर्णितम् ॥ ८ ॥
तुल्यं तु दर्शनम् ॥ ९ ॥
९यत्तूक्तम् — आचारदर्शनात्कर्मशेषो विद्येति, अत्र ब्रूमः — तुल्यमाचारदर्शनम् अकर्मशेषत्वेऽपि विद्यायाः । तथा हि श्रुतिर्भवति — ‘एतद्ध स्म वै तद्विद्वांस आहुऋषयः कावषेयाः किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे’ ‘एतद्ध स्म वै तत्पूर्वे विद्वांसोऽग्निहोत्रं न जुहवाञ्चक्रिरे’ ‘एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’(बृ. उ. ३ । ५ । १) इत्येवंजातीयका । याज्ञवल्क्यादीनामपि ब्रह्मविदाम् अकर्मनिष्ठत्वं दृश्यते — ‘एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार’(बृ. उ. ८ । ७ । २) इत्यादिश्रुतिभ्यः । अपि च ‘यक्ष्यमाणो वै भगवन्तोऽहमस्मि’(छा. उ. ५ । ११ । ५) इत्येतत् लिङ्गदर्शनं वैश्वानरविद्याविषयम् । सम्भवति च सोपाधिकायां ब्रह्मविद्यायां कर्मसाहित्यदर्शनम् । न तु अत्रापि कर्माङ्गत्वमस्ति, प्रकरणाद्यभावात् ॥ ९ ॥
यत्पुनरुक्तम् — ‘तच्छ्रुतेः’(ब्र. सू. ३ । ४ । ४) इति, अत्र ब्रूमः —
असार्वत्रिकी ॥ १० ॥
१०‘यदेव विद्यया करोति’(छा. उ. १ । १ । १०) इत्येषा श्रुतिर्न सर्वविद्याविषया, प्रकृतविद्याभिसम्बन्धात् । प्रकृता च उद्गीथविद्या — ‘ओमित्येतदक्षरमुद्गीथमुपासीत’(छा. उ. १ । १ । १) इत्यत्र ॥ १० ॥
विभागः शतवत् ॥ ११ ॥
११यदप्युक्तम् — ‘तं विद्याकर्मणी समन्वारभेते’(बृ. उ. ४ । ४ । २) इत्येतत् समन्वारम्भवचनम् अस्वातन्त्र्ये विद्याया लिङ्गमिति, तत् प्रत्युच्यते — विभागोऽत्र द्रष्टव्यः — विद्या अन्यं पुरुषमन्वारभते, कर्म अन्यमिति । शतवत् — यथा शतम् आभ्यां दीयतामित्युक्ते विभज्य दीयते — पञ्चाशदेकस्मै पञ्चाशदपरस्मै, तद्वत् । न च इदं समन्वारम्भवचनं मुमुक्षुविषयम् — ‘इति नु कामयमानः’(बृ. उ. ४ । ४ । ६) इति संसारिविषयत्वोपसंहारात् , ‘अथाकामयमानः’(बृ. उ. ४ । ४ । ६) इति च मुमुक्षोः पृथगुपक्रमात् । तत्र संसारिविषये विद्या विहिता प्रतिषिद्धा च परिगृह्यते, विशेषाभावात् । कर्मापि विहितं प्रतिषिद्धं च, यथाप्राप्तानुवादित्वात् । एवं सति अविभागेनापि इदं समन्वारम्भवचनमवकल्पते ॥ ११ ॥
यच्चैतत् — ‘तद्वतो विधानात्’(ब्र. सू. ३ । ४ । ६) इति, अत उत्तरं पठति —
अध्ययनमात्रवतः ॥ १२ ॥
१२‘आचार्यकुलाद्वेदमधीत्य’(छा. उ. ८ । १५ । १) इत्यत्र अध्ययनमात्रस्य श्रवणात् अध्ययनमात्रवत एव कर्मविधिरित्यध्यवस्यामः । ननु एवं सति अविद्यत्वात् अनधिकारः कर्मसु प्रसज्येत — नैष दोषः । न वयम् अध्ययनप्रभवं कर्मावबोधनम् अधिकारकारणं वारयामः । किं तर्हि ? औपनिषदमात्मज्ञानम् स्वातन्त्र्येणैव प्रयोजनवत् प्रतीयमानम् न कर्माधिकारकारणतां प्रतिपद्यते — इत्येतावत्प्रतिपादयामः । यथा च न क्रत्वन्तरज्ञानं क्रत्वन्तराधिकारेण अपेक्ष्यते, एवमेतदपि द्रष्टव्यमिति ॥ १२ ॥
यदप्युक्तम् — ‘नियमाच्च’(ब्र. सू. ३ । ४ । ७) इति, अत्राभिधीयते —
नाविशेषात् ॥ १३ ॥
१३‘कुर्वन्नेवेह कर्माणि जिजीविषेत्’(ई. उ. २) इत्येवमादिषु नियमश्रवणेषु न विदुष इति विशेषोऽस्ति, अविशेषेण नियमविधानात् ॥ १३ ॥
स्तुतयेऽनुमतिर्वा ॥ १४ ॥
१४‘कुर्वन्नेवेह कर्माणि’(ई. उ. २) इत्यत्र अपरो विशेष आख्यायते । यद्यपि अत्र प्रकरणसामर्थ्यात् विद्वानेव — कुर्वन् — इति सम्बध्यते, तथापि विद्यास्तुतये कर्मानुज्ञानम् एतद्द्रष्टव्यम् । ‘न कर्म लिप्यते नरे’(ई. उ. २) इति हि वक्ष्यति । एतदुक्तं भवति — यावज्जीवं कर्म कुर्वत्यपि विदुषि पुरुषे न कर्म लेपाय भवति, विद्यासामर्थ्यादिति — तदेवं विद्या स्तूयते ॥ १४ ॥
कामकारेण चैके ॥ १५ ॥
१५अपि च एके विद्वांसः प्रत्यक्षीकृतविद्याफलाः सन्तः, तदवष्टम्भात् फलान्तरसाधनेषु प्रजादिषु प्रयोजनाभावं परामृशन्ति कामकारेण — इति श्रुतिर्भवति वाजसनेयिनाम् — ‘एतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक इति’(बृ. उ. ४ । ४ । २२) । अनुभवारूढमेव च विद्याफलं न क्रियाफलवत् कालान्तरभावि — इत्यसकृदवोचाम । अतोऽपि न विद्यायाः कर्मशेषत्वं नापि तद्विषयायाः फलश्रुतेरयथार्थत्वं शक्यमाश्रयितुम् ॥ १५ ॥
उपमर्दं च ॥ १६ ॥
१६अपि च कर्माधिकारहेतोः क्रियाकारकफललक्षणस्य समस्तस्य प्रपञ्चस्य अविद्याकृतस्य विद्यासामर्थ्यात् स्वरूपोपमर्दमामनन्ति — ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्’(बृ. उ. २ । ४ । १४) इत्यादिना । वेदान्तोदितात्मज्ञानपूर्विकां तु कर्माधिकारसिद्धिं प्रत्याशासानस्य कर्माधिकारोच्छित्तिरेव प्रसज्येत । तस्मादपि स्वातन्त्र्यं विद्यायाः ॥ १६ ॥
ऊर्ध्वरेतःसु च शब्दे हि ॥ १७ ॥
१७ऊर्ध्वरेतःसु च आश्रमेषु विद्या श्रूयते । न च तत्र कर्माङ्गत्वं विद्याया उपपद्यते, कर्माभावात् । न हि अग्निहोत्रादीनि वैदिकानि कर्माणि तेषां सन्ति । स्यादेतत् , ऊर्ध्वरेतस आश्रमा न श्रूयन्ते वेद इति — तदपि नास्ति । तेऽपि हि वैदिकेषु शब्देष्ववगम्यन्ते — ‘त्रयो धर्मस्कन्धाः’(छा. उ. २ । २३ । १) ‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’(छा. उ. ५ । १० । १) ‘तपःश्रद्धे ये ह्युपवसन्त्यरण्ये’(मु. उ. १ । २ । ११) ‘एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति’(बृ. उ. ४ । ४ । २२) ‘ब्रह्मचर्यादेव प्रव्रजेत्’(जा. उ. ४) इत्येवमादिषु । प्रतिपन्नाप्रतिपन्नगार्हस्थ्यानाम् अपाकृतानपाकृतर्णत्रयाणां च ऊर्ध्वरेतस्त्वं श्रुतिस्मृतिप्रसिद्धम् । तस्मादपि स्वातन्त्र्यं विद्यायाः ॥ १७ ॥
परामर्शं जैमिनिरचोदना चापवदति हि ॥ १८ ॥
१८‘त्रयो धर्मस्कन्धाः’(छा. उ. २ । २३ । १) इत्यादयो ये शब्दा ऊर्ध्वरेतसामाश्रमाणां सद्भावाय उदाहृताः, न ते तत्प्रतिपादनाय प्रभवन्ति; यतः परामर्शम् एषु शब्देष्वाश्रमान्तराणां जैमिनिराचार्यो मन्यते, न विधिम् । कुतः ? न हि अत्र लिङादीनामन्यतमश्चोदनाशब्दोऽस्ति । अर्थान्तरपरत्वं च एषु प्रत्येकमुपलभ्यते । ‘त्रयो धर्मस्कन्धाः’ इत्यत्र तावत् ‘यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व एते पुण्यलोका भवन्ति’ इति परामर्शपूर्वकमाश्रमाणामनात्यन्तिकफलत्वं सङ्कीर्त्य, आत्यन्तिकफलतया ब्रह्मसंस्थता स्तूयते — ‘ब्रह्मसंस्थोऽमृतत्वमेति’(छा. उ. २ । २३ । १) इति । ननु परामर्शेऽपि आश्रमा गम्यन्ते एव — सत्यं गम्यन्ते; स्मृत्याचाराभ्यां तु तेषां प्रसिद्धिः, न प्रत्यक्षश्रुतेः । अतश्च प्रत्यक्षश्रुतिविरोधे सति अनादरणीयास्ते भविष्यन्ति, अनधिकृतविषया वा । ननु गार्हस्थ्यमपि सहैवोर्ध्वरेतोभिः परामृष्टम् — ‘यज्ञोऽध्ययनं दानमिति प्रथमः’ इति — सत्यमेवम्; तथापि तु गृहस्थं प्रत्येव अग्निहोत्रादीनां कर्मणां विधानात् श्रुतिप्रसिद्धमेव हि तदस्तित्वम्; तस्मात्स्तुत्यर्थ एव अयं परामर्शः, न चोदनार्थः । अपि च अपवदति हि प्रत्यक्षा श्रुतिराश्रमान्तरम् — ‘वीरहा वा एष देवानां योऽग्निमुद्वासयते’ ‘आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः’(तै. उ. १ । ११ । १) ‘नापुत्रस्य लोकोऽस्तीति तत्सर्वे पशवो विदुः’ इत्येवमाद्या । तथा ‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’(छा. उ. ५ । १० । १) ‘तपःश्रद्धे ये ह्युपवसन्त्यरण्ये’(मु. उ. १ । २ । ११) इति च देवयानोपदेशः, न आश्रमान्तरोपदेशः । सन्दिग्धं च आश्रमान्तराभिधानम् — ‘तप एव द्वितीयः’(छा. उ. २ । २३ । १) इत्येवमादिषु । तथा ‘एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति’(बृ. उ. ४ । ४ । २२) इति लोकसंस्तवोऽयम् , न पारिव्राज्यविधिः । ननु ‘ब्रह्मचर्यादेव प्रव्रजेत्’ इति विस्पष्टमिदं प्रत्यक्षं पारिव्राज्यविधानं जाबालानाम् — सत्यमेवमेतत्; अनपेक्ष्य तु एतां श्रुतिम् अयं विचार इति द्रष्टव्यम् ॥ १८ ॥
अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ १९ ॥
१९अनुष्ठेयम् आश्रमान्तरं बादरायण आचार्यो मन्यते — वेदेऽश्रवणादग्निहोत्रादीनां च अवश्यानुष्ठेयत्वात् तद्विरोधादनधिकृतानुष्ठेयमाश्रमान्तरम् — इति हि इमां मतिं निराकरोति, गार्हस्थ्यवदेव आश्रमान्तरमपि अनिच्छता प्रतिपत्तव्यमिति मन्यमानः । कुतः ? साम्यश्रुतेः । समा हि गार्हस्थ्येनाश्रमान्तरस्य परामर्शश्रुतिर्दृश्यते — ‘त्रयो धर्मस्कन्धाः’(छा. उ. २ । २३ । १)‘त्रयो धर्मस्कन्धाः’(छा. उ. २ । २३ । १) इत्याद्या । यथा इह श्रुत्यन्तरविहितमेव गार्हस्थ्यं परामृष्टम् , एवमाश्रमान्तरमपीति प्रतिपत्तव्यम् — यथा च शास्त्रान्तरप्राप्तयोरेव निवीतप्राचीनावीतयोः परामर्श उपवीतविधिपरे वाक्ये । तस्मात् तुल्यमनुष्ठेयत्वं गार्हस्थ्येन आश्रमान्तरस्य । तथा ‘एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति’(बृ. उ. ४ । ४ । २२) इत्यस्य वेदानुवचनादिभिः समभिव्याहारः । ‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’(छा. उ. ५ । १० । १) इत्यस्य च पञ्चाग्निविद्यया । यत्तूक्तम् — ‘तप एव द्वितीयः’ इत्यादिष्वाश्रमान्तराभिधानं सन्दिग्धमिति । नैष दोषः, निश्चयकारणसद्भावात् । ‘त्रयो धर्मस्कन्धाः’ इति हि धर्मस्कन्धत्रित्वं प्रतिज्ञातम् । न च यज्ञादयो भूयांसो धर्मा उत्पत्तिभिन्नाः सन्तः अन्यत्राश्रमसम्बन्धात् त्रित्वेऽन्तर्भावयितुं शक्यन्ते । तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो निर्दिष्टः, ब्रह्मचारीति च स्पष्ट आश्रमनिर्देशः, तप इत्यपि कोऽन्यस्तपःप्रधानादाश्रमात् धर्मस्कन्धोऽभ्युपगम्येत । ‘ये चेमेऽरण्ये’(छा. उ. ५ । १० । १) इति च अरण्यलिङ्गात् श्रद्धातपोभ्यामाश्रमगृहीतिः । तस्मात् परमार्शेऽप्यनुष्ठेयमाश्रमान्तरम् ॥ १९ ॥
विधिर्वा धारणवत् ॥ २० ॥
२०विधिर्वा अयमाश्रमान्तरस्य, न परामर्शमात्रम् । ननु विधित्वाभ्युपगमे एकवाक्यताप्रतीतिरुपरुध्येत । प्रतीयते च अत्र एकवाक्यता — पुण्यलोकफलास्त्रयो धर्मस्कन्धाः, ब्रह्मसंस्थता त्वमृतत्वफलेति — सत्यमेतत्; सतीमपि तु एकवाक्यताप्रतीतिं परित्यज्य विधिरेवाभ्युपगन्तव्यः, अपूर्वत्वात् , विध्यन्तरस्यादर्शनात् , विस्पष्टाच्चाश्रमान्तरप्रत्ययात् गुणवादकल्पनया एकवाक्यत्वयोजनानुपपत्तेः । धारणवत् — यथा ‘अधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयति’ इत्यत्र सत्यामप्यधोधारणेन एकवाक्यताप्रतीतौ, विधीयत एव उपरिधारणम् , अपूर्वत्वात्; तथा च उक्तं शेषलक्षणे ‘विधिस्तु धारणेऽपूर्वत्वात्’(जै. सू. ३ । ४ । १५) इति । तद्वत् इहापि आश्रमपरामर्शश्रुतिः विधिरेवेति कल्प्यते ॥
यदापि परामर्श एवायमाश्रमान्तराणाम् , तदापि ब्रह्मसंस्थता तावत् , संस्तवसामर्थ्यादवश्यं विधेया अभ्युपगन्तव्या । सा च किं चतुर्ष्वाश्रमेषु यस्य कस्यचित् , आहोस्वित्परिव्राजकस्यैवेति विवेक्तव्यम् । यदि च ब्रह्मचार्यन्तेष्वाश्रमेषु परामृश्यमानेषु परिव्राजकोऽपि परामृष्टः, ततश्चतुर्णामप्याश्रमाणां परामृष्टत्वाविशेषात् अनाश्रमित्वानुपपत्तेश्च यः कश्चिच्चतुर्ष्वाश्रमेषु ब्रह्मसंस्थो भविष्यति । अथ न परामृष्टः, ततः परिशिष्यमाणः परिव्राडेव ब्रह्मसंस्थ इति सेत्स्यति । तत्र तपःशब्देन वैखानसग्राहिणा परामृष्टः परिव्राडपि इति केचित् । तदयुक्तम्; न हि सत्यां गतौ वानप्रस्थविशेषणेन परिव्राजको ग्रहणमर्हति । यथा अत्र ब्रह्मचारिगृहमेधिनौ असाधारणेनैव स्वेन स्वेन विशेषणेन विशेषितौ, एवं भिक्षुवैखानसावपीति युक्तम् । तपश्च असाधारणो धर्मो वानप्रस्थानां कायक्लेशप्रधानत्वात् , तपःशब्दस्य तत्र रूढेः । भिक्षोस्तु धर्म इन्द्रियसंयमादिलक्षणो नैव तपःशब्देनाभिलप्यते । चतुष्ट्वेन च प्रसिद्धा आश्रमाः त्रित्वेन परामृश्यन्त इत्यन्याय्यम् । अपि च भेदव्यपदेशोऽत्र भवति — त्रय एते पुण्यलोकभाजः, एकोऽमृतत्वभागिति । पृथक्त्वे चैष भेदव्यपदेशोऽवकल्पते । न ह्येवं भवति — देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ, अन्यतरस्त्वनयोर्महाप्रज्ञ इति । भवति त्वेवम् — देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ, विष्णुमित्रस्तु महाप्रज्ञ इति । तस्मात् पूर्वे त्रय आश्रमिणः पुण्यलोकभाजः, परिशिष्यमाणः परिव्राडेवामृतत्वभाक् । कथं पुनः ब्रह्मसंस्थशब्दो योगात्प्रवर्तमानः सर्वत्र सम्भवन् परिव्राजक एवावतिष्ठेत ? रूढ्यभ्युपगमे च आश्रममात्रादमृतत्वप्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इति; अत्रोच्यते — ब्रह्मसंस्थ इति हि ब्रह्मणि परिसमाप्तिः अनन्यव्यापारतारूपं तन्निष्ठत्वमभिधीयते । तच्च त्रयाणामाश्रमाणां न सम्भवति, स्वाश्रमविहितकर्माननुष्ठाने प्रत्यवायश्रवणात् । परिव्राजकस्य तु सर्वकर्मसंन्यासात् प्रत्यवायो न सम्भवति अननुष्ठाननिमित्तः । शमदमादिस्तु तदीयो धर्मो ब्रह्मसंस्थताया उपोद्बलकः, न विरोधी । ब्रह्मनिष्ठत्वमेव हि तस्य शमदमाद्युपबृंहितं स्वाश्रमविहितं कर्म । यज्ञादीनि च इतरेषाम् । तद्व्यतिक्रमे च तस्य प्रत्यवायः । तथा च ‘न्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्मा तानि वा एतान्यवराणि तपाꣳसि न्यास एवात्यरेचयत्’(ना. उ. ७८) ‘वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः’(मु. उ. ३ । २ । ६) इत्याद्याः श्रुतयः, स्मृतयश्च ‘तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः’(भ. गी. ५ । १७) इत्याद्याः — ब्रह्मसंस्थस्य कर्माभावं दर्शयन्ति । तस्मात् परिव्राजकस्य आश्रममात्रादमृतत्वप्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इत्येषोऽपि दोषो नावतरति । तदेवं परामर्शेऽपि इतरेषामाश्रमाणाम् , पारिव्राज्यं तावद्ब्रह्मसंस्थतालक्षणं लभ्यत एव । अनपेक्ष्यैव जाबालश्रुतिमाश्रमान्तरविधायिनीम् अयमाचार्येण विचारः प्रवर्तितः; विद्यत एव तु आश्रमान्तरविधिश्रुतिः प्रत्यक्षा — ‘ब्रह्मचर्यं परिसमाप्य गृही भवेद्गृही भूत्वा वनी भवेद्वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा’(जा. उ. ४) इति । न च इयं श्रुतिः अनधिकृतविषया शक्या वक्तुम् , अविशेषश्रवणात् , पृथग्विधानाच्च अनधिकृतानाम् — ‘अथ पुनरेव व्रती वाऽव्रती वा स्नातको वाऽस्नातको वोत्सन्नाग्निरनग्निको वा’(जा. उ. ४) इत्यादिना । ब्रह्मज्ञानपरिपाकाङ्गत्वाच्च पारिव्राज्यस्य न अनधिकृतविषयत्वम् , तच्च दर्शयति — ‘अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय भवति’(जा. उ. ५) इति । तस्मात्सिद्धा ऊर्ध्वरेतसामाश्रमाः । सिद्धं च ऊर्ध्वरेतःसु विधानाद्विद्यायाः स्वातन्त्र्यमिति ॥ २० ॥
स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ २१ ॥
२१‘स एष रसानां रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः’(छा. उ. १ । १ । ३) ‘इयमेवर्गग्निः साम’(छा. उ. १ । ६ । १) ‘अयं वाव लोकः एषोऽग्निश्चितः ।’(श॰ब्रा॰ १०-१-२-२), ‘तदिदमेवोक्थमियमेव पृथिवी(ऐ॰आ॰ २-१-२)’ इत्येवंजातीयकाः श्रुतयः किमुद्गीथादेः स्तुत्यर्थाः, आहोस्वित् उपासनाविध्यर्था इत्यस्मिन्संशये — स्तुत्यर्था इति युक्तम् , उद्गीथादीनि कर्माङ्गान्युपादाय श्रवणात् । यथा ‘इयमेव जुहूरादित्यः कूर्मः स्वर्गो लोक आहवनीयः’ इत्याद्या जुह्वादिस्तुत्यर्थाः, तद्वत् — इति चेत् , नेत्याह । न हि स्तुतिमात्रमासां श्रुतीनां प्रयोजनं युक्तम् , अपूर्वत्वात् । विध्यर्थतायां हि अपूर्वोऽर्थो विहितो भवति । स्तुत्यर्थतायां त्वानर्थक्यमेव स्यात् । विधायकस्य हि शब्दस्य वाक्यशेषभावं प्रतिपद्यमाना स्तुतिरुपयुज्यत इत्युक्तम् ‘विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः’(जै॰सू॰ १-२-७) इत्यत्र । प्रदेशान्तरविहितानां तु उद्गीथादीनाम् इयं प्रदेशान्तरपठिता स्तुतिः वाक्यशेषभावमप्रतिपद्यमाना अनर्थिकैव स्यात् । ‘इयमेव जुहूः’ इत्यादि तु विधिसन्निधावेवाम्नातमिति वैषम्यम् । तस्मात् विध्यर्था एव एवंजातीयकाः श्रुतयः ॥ २१ ॥
भावशब्दाच्च ॥ २२ ॥
२२‘उद्गीथमुपासीत’(छा. उ. १ । १ । १) ‘सामोपासीत’(छा. उ. २ । २ । १) ‘अहमुक्थमस्मीति विद्यात्’ इत्यादयश्च विस्पष्टा विधिशब्दाः श्रूयन्ते । ते च स्तुतिमात्रप्रयोजनतायां व्याहन्येरन् । तथा च न्यायविदां स्मरणम् — ‘कुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम् । एतत्स्यात्सर्ववेदेषु नियतं विधिलक्षणम्’ इति । लिङाद्यर्थो विधिरिति मन्यमानास्त एवं स्मरन्ति । प्रतिप्रकरणं च फलानि श्राव्यन्ते — ‘आपयिता ह वै कामानां भवति’(छा. उ. १ । १ । ७) ‘एष ह्येव कामागानस्येष्टे’(छा. उ. १ । ७ । ९) ‘कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च’(छा. उ. २ । २ । ३) इत्यादीनि । तस्मादप्युपासनविधानार्था उद्गीथादिश्रुतयः ॥ २२ ॥
पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ २३ ॥
२३‘अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च’(बृ. उ. ४ । ५ । १) ‘प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम’(कौ. उ. ३ । १) ‘जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस’(छा. उ. ४ । १ । १) इत्येवमादिषु वेदान्तपठितेष्वाख्यानेषु संशयः — किमिमानि पारिप्लवप्रयोगार्थानि, आहोस्वित्सन्निहितविद्याप्रतिपत्त्यर्थानीति । पारिप्लवार्था इमा आख्यानश्रुतयः, आख्यानसामान्यात् , आख्यानप्रयोगस्य च पारिप्लवे चोदितत्वात् । ततश्च विद्याप्रधानत्वं वेदान्तानां न स्यात् , मन्त्रवत् प्रयोगशेषत्वादिति चेत् — तन्न । कस्मात् ? विशेषितत्वात् — ‘पारिप्लवमाचक्षीत’ इति हि प्रकृत्य, ‘मनुर्वैवस्वतो राजा’ इत्येवमादीनि कानिचिदेव आख्यानानि तत्र विशेष्यन्ते । आख्यानसामान्याच्चेत् सर्वगृहीतिः स्यात् , अनर्थकमेवेदं विशेषणं भवेत् । तस्मात् न पारिप्लवार्था एता आख्यानश्रुतयः ॥ २३ ॥
तथा चैकवाक्यतोपबन्धात् ॥ २४ ॥
२४असति च पारिप्लवार्थत्वे आख्यानानां सन्निहितविद्याप्रतिपादनोपयोगितैव न्याय्या, एकवाक्यतोपबन्धात् । तथा हि तत्र तत्र सन्निहिताभिर्विद्याभिरेकवाक्यता दृश्यते प्ररोचनोपयोगात् प्रतिपत्तिसौकर्योपयोगाच्च । मैत्रेयीब्राह्मणे तावत् — ‘आत्मा वा अरे द्रष्टव्यः’(बृ. उ. ४ । ५ । ६) इत्याद्यया विद्यया एकवाक्यता दृश्यते; प्रातर्दनेऽपि ‘प्राणोऽस्मि प्रज्ञात्मा’ इत्याद्यया । ‘जानश्रुतिः’ इत्यत्रापि ‘वायुर्वाव संवर्गः’(छा. उ. ४ । ३ । १) इत्याद्यया । यथा ‘स आत्मनो वपामुदखिदत्’ इत्येवमादीनां कर्मश्रुतिगतानामाख्यानानां सन्निहितविधिस्तुत्यर्थता, तद्वत् । तस्मान्न पारिप्लवार्थत्वम् ॥ २४ ॥
अत एव चाग्नीन्धनाद्यनपेक्षा ॥ २५ ॥
२५‘पुरुषार्थोऽतः शब्दात्’(ब्र. सू. ३ । ४ । १) इत्येतत् व्यवहितमपि सम्भवात् ‘अतः’ इति परामृश्यते । अत एव च विद्यायाः पुरुषार्थहेतुत्वात् अग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीति आद्यस्यैवाधिकरणस्य फलमुपसंहरत्यधिकविवक्षया ॥ २५ ॥
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २६ ॥
२६इदमिदानीं चिन्त्यते — किं विद्याया अत्यन्तमेवानपेक्षा आश्रमकर्मणाम् , उत अस्ति काचिदपेक्षेति । तत्र अत एवाग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्ष्यन्ते, इत्येवमत्यन्तमेवानपेक्षायां प्राप्तायाम् , इदमुच्यते — सर्वापेक्षा चेति । अपेक्षते च विद्या सर्वाण्याश्रमकर्माणि, नात्यन्तमनपेक्षैव । ननु विरुद्धमिदं वचनम् — अपेक्षते च आश्रमकर्माणि विद्या, नापेक्षते चेति । नेति ब्रूमः । उत्पन्ना हि विद्या फलसिद्धिं प्रति न किञ्चिदन्यदपेक्षते, उत्पत्तिं प्रति तु अपेक्षते । कुतः ? यज्ञादिश्रुतेः । तथा हि श्रुतिः — ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’(बृ. उ. ४ । ४ । २२) इति यज्ञादीनां विद्यासाधनभावं दर्शयति । विविदिषासंयोगाच्चैषामुत्पत्तिसाधनभावोऽवसीयते । ‘अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तत्’(छा. उ. ८ । ५ । १) इत्यत्र च विद्यासाधनभूतस्य ब्रह्मचर्यस्य यज्ञादिभिः संस्तवात् यज्ञादीनामपि हि साधनभावः सूच्यते । ‘सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीमि’(क. उ. १ । २ । १५) इत्येवमाद्या च श्रुतिः आश्रमकर्मणां विद्यासाधनभावं सूचयति । स्मृतिरपि — ‘कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः । कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते’ इत्येवमाद्या । अश्ववदिति योग्यतानिदर्शनम् — यथा च योग्यतावशेन अश्वो न लाङ्गलाकर्षणे युज्यते, रथचर्यायां तु युज्यते, एवमाश्रमकर्माणि विद्यया फलसिद्धौ नापेक्ष्यन्ते, उत्पत्तौ च अपेक्ष्यन्त इति ॥ २६ ॥
शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ २७ ॥
२७यदि कश्चिन्मन्येत — यज्ञादीनां विद्यासाधनभावो न न्याय्यः, विध्यभावात् । ‘यज्ञेन विविदिषन्ति’ इत्येवंजातीयका हि श्रुतिः अनुवादस्वरूपा विद्याभिष्टवपरा, न यज्ञादिविधिपरा — इत्थं महाभागा विद्या, यत् यज्ञादिभिरेतामवाप्तुमिच्छन्तीति — तथापि तु शमदमाद्युपेतः स्यात् विद्यार्थी, ‘तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्यति’(बृ. उ. ४ । ४ । २३) इति विद्यासाधनत्वेन शमदमादीनां विधानात् विहितानां च अवश्यानुष्ठेयत्वात् । ननु अत्रापि शमाद्युपेतो भूत्वा पश्यतीति वर्तमानापदेश उपलभ्यते, न विधिः ; नेति ब्रूमः, ‘तस्मात्’ इति प्रकृतप्रशंसापरिग्रहाद्विधित्वप्रतीतेः । ‘पश्येत्’ इति च माध्यन्दिना विस्पष्टमेव विधिमधीयते । तस्मात् यज्ञाद्यनपेक्षायामपि शमादीन्यपेक्षितव्यानि । यज्ञादीन्यपि तु अपेक्षितव्यानि, यज्ञादिश्रुतेरेव । ननु उक्तम् — यज्ञादिभिर्विविदिषन्तीत्यत्र न विधिरुपलभ्यत इति — सत्यमुक्तम्; तथापि तु अपूर्वत्वात्संयोगस्य विधिः परिकल्प्यते । न हि अयं यज्ञादीनां विविदिषासंयोगः पूर्वं प्राप्तः, येनानूद्येत । ‘तस्मात्पूषा प्रपिष्टभागोऽदन्तको हि’ इत्येवमादिषु च अश्रुतविधिकेष्वपि वाक्येषु अपूर्वत्वाद्विधिं परिकल्प्य, ‘पौष्णं पेषणं विकृतौ प्रतीयेत’(शाब. भा. ३ । ३ । ३४) — इत्यादिविचारः प्रथमे तन्त्रे प्रवर्तितः । तथा च उक्तम् ‘विधिर्वा धारणवत्’(ब्र. सू. ३ । ४ । २०) इति । स्मृतिष्वपि भगवद्गीताद्यासु अनभिसन्धाय फलम् अनुष्ठितानि यज्ञादीनि मुमुक्षोर्ज्ञानसाधनानि भवन्तीति प्रपञ्चितम् । तस्माद्यज्ञादीनि शमदमादीनि च यथाश्रमं सर्वाण्येव आश्रमकर्माणि विद्योत्पत्तावपेक्षितव्यानि । तत्रापि ‘एवंवित्’ इति विद्यासंयोगात् प्रत्यासन्नानि विद्यासाधनानि शमादीनि, विविदिषासंयोगात्तु बाह्यतराणि यज्ञादीनीति विवेक्तव्यम् ॥ २७ ॥
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २८ ॥
२८प्राणसंवादे श्रूयते छन्दोगानाम् — ‘न ह वा एवंविदि किञ्चनानन्नं भवति’(छा. उ. ५ । २ । १) इति । तथा वाजसनेयिनाम् — ‘न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतम्’(बृ. उ. ६ । १ । १४) इति । सर्वमस्यादनीयमेव भवतीत्यर्थः । किमिदं सर्वान्नानुज्ञानं शमादिवत् विद्याङ्गं विधीयते, उत स्तुत्यर्थं सङ्कीर्त्यत इति संशये — विधिरिति तावत्प्राप्तम् । तथा हि प्रवृत्तिविशेषकर उपदेशो भवति । अतः प्राणविद्यासन्निधानात् तदङ्गत्वेन इयं नियमनिवृत्तिरुपदिश्यते । ननु एवं सति भक्ष्याभक्ष्यविभागशास्त्रव्याघातः स्यात् — नैष दोषः, सामान्यविशेषभावात् बाधोपपत्तेः । यथा प्राणिहिंसाप्रतिषेधस्य पशुसंज्ञपनविधिना बाधः, यथा च ‘न काञ्चन परिहरेत्तद्व्रतम्’(छा. उ. २ । १३ । २) इत्यनेन वामदेव्यविद्याविषयेण सर्वस्त्र्यपरिहारवचनेन सामान्यविषयं गम्यागम्यविभागशास्त्रं बाध्यते — एवमनेनापि प्राणविद्याविषयेण सर्वान्नभक्षणवचनेन भक्ष्याभक्ष्यविभागशास्त्रं बाध्येतेत्येवं प्राप्ते ब्रूमः —
नेदं सर्वान्नानुज्ञानं विधीयत इति । न हि अत्र विधायकः शब्द उपलभ्यते, ‘न ह वा एवंविदि किञ्चनानन्नं भवति’(छा. उ. ५ । २ । १) इति वर्तमानापदेशात् । न च असत्यामपि विधिप्रतीतौ प्रवृत्तिविशेषकरत्वलोभेनैव विधिरभ्युपगन्तुं शक्यते । अपि च श्वादिमर्यादं प्राणस्यान्नमित्युक्त्वा, इदमुच्यते — नैवंविदः किञ्चिदनन्नं भवतीति । न च श्वादिमर्यादमन्नं मानुषेण देहेनोपभोक्तुं शक्यते । शक्यते तु प्राणस्यान्नमिदं सर्वमिति विचिन्तयितुम् । तस्मात् प्राणान्नविज्ञानप्रशंसार्थोऽयमर्थवादः, न सर्वान्नानुज्ञानविधिः । तद्दर्शयति — ‘सर्वान्नानुमतिश्च प्राणात्यये’ इति । एतदुक्तं भवति — प्राणात्यय एव हि परस्यामापदि सर्वमन्नमदनीयत्वेनाभ्यनुज्ञायते, तद्दर्शनात् । तथा हि श्रुतिः चाक्रायणस्य ऋषेः कष्टायामवस्थायाम् अभक्ष्यभक्षणे प्रवृत्तिं दर्शयति ‘मटचीहतेषु कुरुषु’(छा. उ. १ । १० । १) इत्यस्मिन् ब्राह्मणे — चाक्रायणः किल ऋषिः आपद्गतः इभ्येन सामिखादितान्कुल्माषांश्चखाद । अनुपानं तु तदीयम् उच्छिष्टदोषात्प्रत्याचचक्षे । कारणं चात्रोवाच ‘न वा अजीविष्यमिमानखादन्’(छा. उ. १ । १० । ४) इति, ‘कामो म उदपानम्’(छा. उ. १ । १० । ४) इति च । पुनश्च उत्तरेद्युः तानेव स्वपरोच्छिष्टान्पर्युषितान्कुल्माषान् भक्षयांबभूव — इति । तदेतत् उच्छिष्टोच्छिष्टपर्युषितभक्षणं दर्शयन्त्याः श्रुतेः आशयातिशयो लक्ष्यते — प्राणात्ययप्रसङ्गे प्राणसन्धारणाय अभक्ष्यमपि भक्षयितव्यमिति; स्वस्थावस्थायां तु तन्न कर्तव्यं विद्यावतापि — इत्यनुपानप्रत्याख्यानाद्गम्यते । तस्मात् अर्थवादः ‘न ह वा एवंविदि’(छा. उ. ५ । २ । १) इत्येवमादिः ॥ २८ ॥
अबाधाच्च ॥ २९ ॥
२९एवं च सति ‘आहारशुद्धौ सत्त्वशुद्धिः’ इत्येवमादि भक्ष्याभक्ष्यविभागशास्त्रम् अबाधितं भविष्यति ॥ २९ ॥
अपि च स्मर्यते ॥ ३० ॥
३०अपि च आपदि सर्वान्नभक्षणमपि स्मर्यते विदुषोऽविदुषश्च अविशेषेण — ‘जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा’(म.स्मृ. १० । १०४) इति । तथा ‘मद्यं नित्यं ब्राह्मणः’(गौ॰ध॰सू॰ १-२-२५) , ‘सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः’(गौ. ध. सू. ३ । ५ । १) , ‘सुरापाः कृमयो भवन्त्यभक्ष्यभक्षणात्’ इति च स्मर्यते वर्जनमनन्नस्य ॥ ३० ॥
शब्दश्चातोऽकामकारे ॥ ३१ ॥
३१शब्दश्च अनन्नस्य प्रतिषेधकः कामकारनिवृत्तिप्रयोजनः कठानां संहितायां श्रूयते — ‘तस्माद्ब्राह्मणः सुरां न पिबेत्’ इति । सोऽपि ‘न ह वा एवंविदि’(छा. उ. ५ । २ । १) इत्यस्यार्थवादत्वात् उपपन्नतरो भवति । तस्मादेवंजातीयका अर्थवादा न विधय इति ॥ ३१ ॥
विहितत्वाच्चाश्रमकर्मापि ॥ ३२ ॥
३२‘सर्वापेक्षा च’(ब्र. सू. ३ । ४ । २६) इत्यत्र आश्रमकर्मणां विद्यासाधनत्वमवधारितम्; इदानीं तु किममुमुक्षोरप्याश्रममात्रनिष्ठस्य विद्यामकामयमानस्य तान्यनुष्ठेयानि, उताहो नेति चिन्त्यते । तत्र ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’(बृ. उ. ४ । ४ । २२) इत्यादिना आश्रमकर्मणां विद्यासाधनत्वेन विहितत्वात् विद्यामनिच्छतः फलान्तरं कामयमानस्य नित्यान्यननुष्ठेयानि । अथ तस्याप्यनुष्ठेयानि, न तर्हि एषां विद्यासाधनत्वम् , नित्यानित्यसंयोगविरोधात् — इत्यस्यां प्राप्तौ, पठति — आश्रममात्रनिष्ठस्याप्यमुमुक्षोः कर्तव्यान्येव नित्यानि कर्माणि, ‘यावज्जीवमग्निहोत्रं जुहोति’ इत्यादिना विहितत्वात्; न हि वचनस्यातिभारो नाम कश्चिदस्ति ॥ ३२ ॥
अथ यदुक्तम् — नैवं सति विद्यासाधनत्वमेषां स्यादिति, अत उत्तरं पठति —
सहकारित्वेन च ॥ ३३ ॥
३३विद्यासहकारीणि च एतानि स्युः, विहितत्वादेव ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’ इत्यादिना; तदुक्तम् — ‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्’(ब्र. सू. ३ । ४ । २६) इति । न चेदं विद्यासहकारित्ववचनमाश्रमकर्मणां प्रयाजादिवत् विद्याफलविषयं मन्तव्यम् , अविधिलक्षणत्वाद्विद्यायाः, असाध्यत्वाच्च विद्याफलस्य । विधिलक्षणं हि साधनं दर्शपूर्णमासादि स्वर्गफलसिषाधयिषया सहकारिसाधनान्तरम् अपेक्षते, नैवं विद्या । तथा चोक्तम् — ‘अत एव चाग्नीन्धनाद्यनपेक्षा’(ब्र. सू. ३ । ४ । २५) इति । तस्मादुत्पत्तिसाधनत्व एव एषां सहकारित्ववाचोयुक्तिः । न च अत्र नित्यानित्यसंयोगविरोध आशङ्क्यः, कर्माभेदेऽपि संयोगभेदात् । नित्यो हि एकः संयोगो यावज्जीवादिवाक्यकल्पितः, न तस्य विद्याफलत्वम् । अनित्यस्तु अपरः संयोगः ‘तमेतं वेदानुवचनेन’(बृ. उ. ४ । ४ । २२) इत्यादिवाक्यकल्पितः, तस्य विद्याफलत्वम् — यथा एकस्यापि खादिरत्वस्य नित्येन संयोगेन क्रत्वर्थत्वम् , अनित्येन संयोगेन पुरुषार्थत्वम् , तद्वत् ॥ ३३ ॥
सर्वथापि त एवोभयलिङ्गात् ॥ ३४ ॥
३४सर्वथापि आश्रमकर्मत्वपक्षे विद्यासहकारित्वपक्षे च, त एव अग्निहोत्रादयो धर्मा अनुष्ठेयाः । ‘त एव’ इत्यवधारयन्नाचार्यः किं निवर्तयति ? कर्मभेदशङ्कामिति ब्रूमः । यथा कुण्डपायिनामयने ‘मासमग्निहोत्रं जुह्वति’ इत्यत्र नित्यादग्निहोत्रात्कर्मान्तरमुपदिश्यते, नैवमिह कर्मभेदोऽस्तीत्यर्थः । कुतः ? उभयलिङ्गात् — श्रुतिलिङ्गात्स्मृतिलिङ्गाच्च । श्रुतिलिङ्गं तावत् — ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’(बृ. उ. ४ । ४ । २२) इति सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुङ्क्ते, न तु ‘जुह्वति’ इत्यादिवत् अपूर्वमेषां रूपमुत्पादयतीति । स्मृतिलिङ्गमपि — ‘अनाश्रितः कर्मफलं कार्यं कर्म करोति यः’(भ. गी. ६ । १) इति विज्ञातकर्तव्यताकमेव कर्म विद्योत्पत्त्यर्थं दर्शयति । ‘यस्यैतेऽष्टाचत्वारिंशत्संस्काराः’(गौ. ध. सू. १ । ८ । २५) इत्याद्या च संस्कारत्वप्रसिद्धिः वैदिकेषु कर्मसु तत्संस्कृतस्य विद्योत्पत्तिमभिप्रेत्य स्मृतौ भवति । तस्मात्साध्विदम् अभेदावधारणम् ॥ ३४ ॥
अनभिभवं च दर्शयति ॥ ३५ ॥
३५सहकारित्वस्यैव एतदुपोद्बलकं लिङ्गदर्शनम् । अनभिभवं च दर्शयति श्रुतिः ब्रह्मचर्यादिसाधनसम्पन्नस्य रागादिभिः क्लेशैः — ‘एष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दते’(छा. उ. ८ । ५ । ३) इत्यादिना । तस्मात् यज्ञादीन्याश्रमकर्माणि च भवन्ति विद्यासहकारीणि चेति निश्चितम् ॥ ३५ ॥
अन्तरा चापि तु तद्दृष्टेः ॥ ३६ ॥
३६विधुरादीनां द्रव्यादिसम्पद्रहितानां च अन्यतमाश्रमप्रतिपत्तिहीनानामन्तरालवर्तिनां किं विद्यायामधिकारोऽस्ति, किं वा नास्ति — इति संशये, नास्तीति तावत्प्राप्तम् , आश्रमकर्मणां विद्याहेतुत्वावधारणात् , आश्रमकर्मासम्भवाच्चैतेषाम् — इत्येवं प्राप्ते, इदमाह — अन्तरा चापि तु — अनाश्रमित्वेन वर्तमानोऽपि विद्यायामधिक्रियते । कुतः ? तद्दृष्टेः — रैक्ववाचक्नवीप्रभृतीनामेवंभूतानामपि ब्रह्मवित्त्वश्रुत्युपलब्धेः ॥ ३६ ॥
अपि च स्मर्यते ॥ ३७ ॥
३७संवर्तप्रभृतीनां च नग्नचर्यादियोगात् अनपेक्षिताश्रमकर्मणामपि महायोगित्वं स्मर्यत इतिहासे ॥ ३७ ॥
ननु लिङ्गमिदं श्रुतिस्मृतिदर्शनमुपन्यस्तम् । का नु खलु प्राप्तिरिति, सा अभिधीयते —
विशेषानुग्रहश्च ॥ ३८ ॥
३८तेषामपि च विधुरादीनाम् अविरुद्धैः पुरुषमात्रसम्बन्धिभिर्जपोपवासदेवताराधनादिभिर्धर्मविशेषैरनुग्रहो विद्यायाः सम्भवति । तथा च स्मृतिः — ‘जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते’(म. स्मृ. २ । ८७) इति असम्भवदाश्रमकर्मणोऽपि जप्येऽधिकारं दर्शयति । जन्मान्तरानुष्ठितैरपि च आश्रमकर्मभिः सम्भवत्येव विद्याया अनुग्रहः । तथा च स्मृतिः — ‘अनेकजन्मसंसिद्धस्ततो याति परां गतिम्’(भ. गी. ६ । ४५) इति जन्मान्तरसञ्चितानपि संस्कारविशेषान् अनुग्रहीतॄन् विद्यायां दर्शयति । दृष्टार्था च विद्या प्रतिषेधाभावमात्रेणापि अर्थिनमधिकरोति श्रवणादिषु । तस्मात् विधुरादीनामप्यधिकारो न विरुध्यते ॥ ३८ ॥
अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ ३९ ॥
३९अतस्तु अन्तरालवर्तित्वात् इतरत् आश्रमवर्तित्वं ज्यायो विद्यासाधनम् , श्रुतिस्मृतिसन्दृष्टत्वात् । श्रुतिलिङ्गाच्च — ‘तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च’(बृ. उ. ४ । ४ । ९) इति । ‘अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः । संवत्सरमनाश्रमी स्थित्वा कृच्छ्रमेकं चरेत्’(द॰स्मृ॰ १-१०) इति च स्मृतिलिङ्गात् ॥ ३९ ॥
तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॥ ४० ॥
४०सन्ति ऊर्ध्वरेतस आश्रमा इति स्थापितम् । तांस्तु प्राप्तस्य कथञ्चित् ततः प्रच्युतिरस्ति, नास्ति वेति संशयः । पूर्वकर्मस्वनुष्ठानचिकीर्षया वा रागादिवशेन वा प्रच्युतोऽपि स्यात् विशेषाभावादित्येवं प्राप्ते, उच्यते — तद्भूतस्य तु प्रतिपन्नोर्ध्वरेतोभावस्य न कथञ्चिदपि अतद्भावः, न ततः प्रच्युतिः स्यात् । कुतः ? नियमातद्रूपाभावेभ्यः । तथा हि — ‘अत्यन्तमात्मानमाचार्यकुलेऽवसादयन्’(छा. उ. २ । २३ । १) इति, ‘अरण्यमियादिति पदं ततो न पुनरेयादित्युपनिषत्’ इति, ‘आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् । आ विमोक्षाच्छरीरस्य सोऽनुतिष्ठेद्यथाविधि’(म॰भा॰ १२-२३४-४) इति च एवंजातीयको नियमः प्रच्युत्यभावं दर्शयति । यथा च ‘ब्रह्मचर्यं समाप्य गृही भवेत्’(जा. उ. ४) ‘ब्रह्मचर्यादेव प्रव्रजेत्’(जा. उ. ४) इति च एवमादीनि आरोहरूपाणि वचांस्युपलभ्यन्ते, नैवं प्रत्यवरोहरूपाणि । न चैवमाचाराः शिष्टा विद्यन्ते । यत्तु पूर्वकर्मस्वनुष्ठानचिकीर्षया प्रत्यवरोहणमिति, तदसत् — ‘श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्’(भ. गी. ३ । ३५) इति स्मरणात् , न्यायाच्च — यो हि यं प्रति विधीयते स तस्य धर्मः, न तु यो येन स्वनुष्ठातुं शक्यते । चोदनालक्षणत्वाद्धर्मस्य । न च रागादिवशात्प्रच्युतिः, नियमशास्त्रस्य बलीयस्त्वात् । जैमिनेरपीति अपिशब्देन जैमिनिबादरायणयोरत्र सम्प्रतिपत्तिं शास्ति प्रतिपत्तिदार्ढ्याय ॥ ४० ॥
न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ ४१ ॥
४१यदि नैष्ठिको ब्रह्मचारी प्रमादादवकीर्येत, किं तस्य ‘ब्रह्मचार्यवकीर्णी नैऋतं गर्दभमालभेत’ इत्येतत्प्रायश्चित्तं स्यात् , उत नेति । नेत्युच्यते; यदपि अधिकारलक्षणे निर्णीतं प्रायश्चित्तम् ‘अवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात्’(जै. सू. ६ । ८ । २२) इति, तदपि न नैष्ठिकस्य भवितुमर्हति । किं कारणम् ? ‘आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा’(अ॰पु॰ १६५-२३,२४) इति अप्रतिसमाधेयपतनस्मरणात् छिन्नशिरस इव प्रतिक्रियानुपपत्तेः । उपकुर्वाणस्य तु तादृक्पतनस्मरणाभावादुपपद्यते तत्प्रायश्चित्तम् ॥ ४१ ॥
उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ ४२ ॥
४२अपि तु एके आचार्या उपपातकमेवैतदिति मन्यन्ते । यत् नैष्ठिकस्य गुरुदारादिभ्योऽन्यत्र ब्रह्मचर्यं विशीर्येत, न तत् महापातकं भवति, गुरुतल्पादिषु महापातकेष्वपरिगणनात् । तस्मात् उपकुर्वाणवत् नैष्ठिकस्यापि प्रायश्चित्तस्य भावमिच्छन्ति, ब्रह्मचारित्वाविशेषात् अवकीर्णित्वाविशेषाच्च । अशनवत् — यथा ब्रह्मचारिणो मधुमांसाशने व्रतलोपः पुनः संस्कारश्च, एवमिति । ये हि प्रायश्चित्तस्याभावमिच्छन्ति, तेषां न मूलमुपलभ्यते । ये तु भावमिच्छन्ति, तेषां ‘ब्रह्मचार्यवकीर्णी’ इत्येतदविशेषश्रवणं मूलम् । तस्मात् भावो युक्ततरः । तदुक्तं प्रमाणलक्षणे — ‘समा विप्रतिपत्तिः स्यात्’(जै. सू. १ । ३ । ८) ‘शास्त्रस्था वा तन्निमित्तत्वात्’(जै. सू. १ । ३ । ९) इति । प्रायश्चित्ताभावस्मरणं तु एवं सति यत्नगौरवोत्पादनार्थमिति व्याख्यातव्यम् । एवं भिक्षुवैखानसयोरपि — ‘वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्धयेत्’ ,‘भिक्षुर्वानप्रस्थवत्सोमवल्लिवर्जं स्वशास्त्रसंस्कारश्च’(व॰ध॰ २१-३५,३६) इत्येवमादि प्रायश्चित्तस्मरणम् अनुसर्तव्यम् ॥ ४२ ॥
बहिस्तूभयथापि स्मृतेराचाराच्च ॥ ४३ ॥
४३यदि ऊर्ध्वरेतसां स्वाश्रमेभ्यः प्रच्यवनं महापातकम् , यदि वा उपपातकम् , उभयथापि शिष्टैस्ते बहिष्कर्तव्याः — ‘आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा’(अ॰पु॰ १६५-२३,२४) इति, ‘आरूढपतितं विप्रं मण्डलाच्च विनिःसृतम् । उद्बद्धं कृमिदष्टं च स्पृष्ट्वा चान्द्रायणं चरेत्’ इति च एवमादिनिन्दातिशयस्मृतिभ्यः । शिष्टाचाराच्च — न हि यज्ञाध्ययनविवाहादीनि तैः सह आचरन्ति शिष्टाः ॥ ४३ ॥
स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ४४ ॥
४४अङ्गेषूपासनेषु संशयः — किं तानि यजमानकर्माणि आहोस्वित् ऋत्विक्कर्माणीति । किं तावत्प्राप्तम् ? यजमानकर्माणीति । कुतः ? फलश्रुतेः । फलं हि श्रूयते — ‘वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ पञ्चविधꣳ सामोपास्ते’(छा. उ. २ । ३ । २) इत्यादि । तच्च स्वामिगामि न्याय्यम् , तस्य साङ्गे प्रयोगेऽधिकृतत्वात् , अधिकृताधिकारत्वाच्च एवंजातीयकस्य । फलं च कर्तरि उपासनानां श्रूयते — ‘वर्षत्यस्मै य उपास्ते’ इत्यादि । ननु ऋत्विजोऽपि फलं दृष्टम् ‘आत्मने वा यजमानाय वा यं कामं कामयते तमागायति’(बृ. उ. १ । ३ । २८) इति — न, तस्य वाचनिकत्वात् । तस्मात् स्वामिन एव फलवत्सु उपासनेषु कर्तृत्वम् — इत्यात्रेय आचार्यो मन्यते ॥ ४४ ॥
आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ ४५ ॥
४५नैतदस्ति — स्वामिकर्माण्युपासनानीति । ऋत्विक्कर्माण्येतानि स्युः — इत्यौडुलोमिराचार्यो मन्यते । किं कारणम् ? तस्मै हि साङ्गाय कर्मणे यजमानेन ऋत्विक् परिक्रीयते । तत्प्रयोगान्तःपातीनि च उद्गीथाद्युपासनानि अधिकृताधिकारत्वात् । तस्मात् गोदोहनादिनियमवदेव ऋत्विग्भिर्निर्वर्त्येरन् । तथा च ‘तꣳ ह बको दाल्भ्यो विदाञ्चकार । स ह नैमिशीयानामुद्गाता बभूव’(छा. उ. १ । २ । १३) इत्युद्गातृकर्तृकतां विज्ञानस्य दर्शयति । यत्तूक्तं कर्त्राश्रयं फलं श्रूयत इति — नैष दोषः, परार्थत्वादृत्विजः अन्यत्र वचनात् फलसम्बन्धानुपपत्तेः ॥ ४५ ॥
श्रुतेश्च ॥ ४६ ॥
४६‘यां वै काञ्चन यज्ञ ऋत्विज आशिषमाशासत इति यजमानायैव तामाशासत इति होवाच’ इति, ‘तस्मादु हैवंविदुद्गाता ब्रूयात्कं’(छा. उ. १ । ७ । ८) ‘ते काममागायानि’(छा. उ. १ । ७ । ९) इति च ऋत्विक्कर्तृकस्य विज्ञानस्य यजमानगामि फलं दर्शयति । तस्मात् अङ्गोपासनानामृत्विक्कर्मत्वसिद्धिः ॥ ४६ ॥
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ ४७ ॥
४७‘तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः’(बृ. उ. ३ । ५ । १) इति बृहदारण्यके श्रूयते । तत्र संशयः — मौनं विधीयते, न वेति । न विधीयत इति तावत्प्राप्तम् , ‘बाल्येन तिष्ठासेत्’ इत्यत्रैव विधेरवसितत्वात् । न हि ‘अथ मुनिः’ इत्यत्र विधायिका विभक्तिरुपलभ्यते । तस्मादयमनुवादो युक्तः । कुतः प्राप्तिरिति चेत् — मुनिपण्डितशब्दयोर्ज्ञानार्थत्वात् ‘पाण्डित्यं निर्विद्य’ इत्येव प्राप्तं मौनम् । अपि च ‘अमौनं च मौनं च निर्विद्याथ ब्राह्मणः’ इत्यत्र तावत् न ब्राह्मणत्वं विधीयते, प्रागेव प्राप्तत्वात् । तस्मात् ‘अथ ब्राह्मणः’ इति प्रशंसावादः, तथैव ‘अथ मुनिः’ इत्यपि भवितुमर्हति, समाननिर्देशत्वादित्येवं प्राप्ते ब्रूमः —
सहकार्यन्तरविधिरिति । विद्यासहकारिणो मौनस्य बाल्यपाण्डित्यवद्विधिरेव आश्रयितव्यः, अपूर्वत्वात् । ननु पाण्डित्यशब्देनैव मौनस्यावगतत्वमुक्तम् — नैष दोषः, मुनिशब्दस्य ज्ञानातिशयार्थत्वात् , मननान्मुनिरिति च व्युत्पत्तिसम्भवात् , ‘मुनीनामप्यहं व्यासः’(भ. गी. १० । ३७) इति च प्रयोगदर्शनात् । ननु मुनिशब्द उत्तमाश्रमवचनोऽपि श्रूयते ‘गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थम्’ इत्यत्र — न, ‘वाल्मीकिर्मुनिपुङ्गवः’ इत्यादिषु व्यभिचारदर्शनात् । इतराश्रमसन्निधानात्तु पारिशेष्यात् तत्र उत्तमाश्रमोपादानम् , ज्ञानप्रधानत्वादुत्तमाश्रमस्य । तस्मात् बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विधीयते । यत्तु बाल्य एव विधेः पर्यवसानमिति, तथापि अपूर्वत्वान्मुनित्वस्य विधेयत्वमाश्रीयते — मुनिः स्यादिति । निर्वेदनीयत्वनिर्देशादपि मौनस्य बाल्यपाण्डित्यवद्विधेयत्वाश्रयणम् । तद्वतः विद्यावतः संन्यासिनः । कथं च विद्यावतः संन्यासिन इत्यवगम्यते ? तदधिकारात् — आत्मानं विदित्वा पुत्राद्येषणाभ्यो व्युत्थाय ‘अथ भिक्षाचर्यं चरन्ति’ इति । ननु सति विद्यावत्त्वे प्राप्नोत्येव तत्रातिशयः, किं मौनविधिना — इत्यत आह — पक्षेणेति । एतदुक्तं भवति — यस्मिन्पक्षे भेददर्शनप्राबल्यात् न प्राप्नोति, तस्मिन् एष विधिरिति । विध्यादिवत् — यथा ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इत्येवंजातीयके विध्यादौ सहकारित्वेन अग्न्यन्वाधानादिकम् अङ्गजातं विधीयते, एवम् अविधिप्रधानेऽपि अस्मिन्विद्यावाक्ये मौनविधिरित्यर्थः ॥ ४७ ॥
एवं बाल्यादिविशिष्टे कैवल्याश्रमे श्रुतिमति विद्यमाने, कस्मात् छान्दोग्ये गृहिणा उपसंहारः ‘अभिसमावृत्य कुटुम्बे’(छा. उ. ८ । १५ । १) इत्यत्र ? तेन हि उपसंहरन् तद्विषयमादरं दर्शयति — इत्यत उत्तरं पठति —
कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ४८ ॥
४८तुशब्दो विशेषणार्थः । कृत्स्नभावोऽस्य विशेष्यते । बहुलायासानि हि बहून्याश्रमकर्माणि यज्ञादीनि तं प्रति कर्तव्यतयोपदिष्टानि, आश्रमान्तरकर्माणि च यथासम्भवमहिंसेन्द्रियसंयमादीनि तस्य विद्यन्ते । तस्मात् गृहमेधिना उपसंहारो न विरुध्यते ॥ ४८ ॥
मौनवदितरेषामप्युपदेशात् ॥ ४९ ॥
४९यथा मौनं गार्हस्थ्यं च एतावाश्रमौ श्रुतिमन्तौ, एवमितरावपि वानप्रस्थगुरुकुलवासौ । दर्शिता हि पुरस्ताच्छ्रुतिः — ‘तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयः’(छा. उ. २ । २३ । १) इत्याद्या । तस्मात् चतुर्णामप्याश्रमाणाम् उपदेशाविशेषात् तुल्यवत् विकल्पसमुच्चयाभ्यां प्रतिपत्तिः । इतरेषामिति द्वयोराश्रमयोर्बहुवचनं वृत्तिभेदापेक्षया अनुष्ठातृभेदापेक्षया वा — इति द्रष्टव्यम् ॥ ४९ ॥
अनाविष्कुर्वन्नन्वयात् ॥ ५० ॥
५०‘तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्’(बृ. उ. ३ । ५ । १) इति बाल्यमनुष्ठेयतया श्रूयते । तत्र बालस्य भावः कर्म वा बाल्यमिति तद्धिते सति, बालभावस्य वयोविशेषस्य इच्छया सम्पादयितुमशक्यत्वात् , यथोपपादमूत्रपुरीषत्वादि बालचरितम् , अन्तर्गता वा भावविशुद्धिः अप्ररूढेन्द्रियत्वं दम्भदर्पादिरहितत्वं वा बाल्यं स्यादिति संशयः । किं तावत्प्राप्तम् ? कामचारवादभक्षता यथोपपादमूत्रपुरीषत्वं च प्रसिद्धतरं लोके बाल्यमिति तद्ग्रहणं युक्तम् । ननु पतितत्वादिदोषप्राप्तेर्न युक्तं कामचारताद्याश्रयणम् — न; विद्यावतः संन्यासिनो वचनसामर्थ्यात् दोषनिवृत्तेः, पशुहिंसादिष्विवेत्येवं प्राप्ते अभिधीयते —
न, वचनस्य गत्यन्तरसम्भवात् । अविरुद्धे हि अन्यस्मिन् बाल्यशब्दाभिलप्ये लभ्यमाने, न विध्यन्तरव्याघातकल्पना युक्ता । प्रधानोपकाराय च अङ्गं विधीयते । ज्ञानाभ्यासश्च प्रधानमिह यतीनामनुष्ठेयम् । न च सकलायां बालचर्यायामङ्गीक्रियमाणायां ज्ञानाभ्यासः सम्भाव्यते । तस्मात् आन्तरो भावविशेषो बालस्य अप्ररूढेन्द्रियत्वादिः इह बाल्यमाश्रीयते; तदाह — अनाविष्कुर्वन्निति । ज्ञानाध्ययनधार्मिकत्वादिभिः आत्मानमविख्यापयन् दम्भदर्पादिरहितो भवेत् — यथा बालः अप्ररूढेन्द्रियतया न परेषाम् आत्मानमाविष्कर्तुमीहते, तद्वत् । एवं हि अस्य वाक्यस्य प्रधानोपकार्यर्थानुगम उपपद्यते । तथा च उक्तं स्मृतिकारैः — ‘यं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राह्मणः ॥ गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत् । अन्धवज्जडवच्चापि मूकवच्च महीं चरेत्’(व॰स्मृ॰ ६-४०,४१), ‘अव्यक्तलिङ्गोऽव्यक्ताचारः’(व॰स्मृ॰ १०-१२) इति चैवमादि ॥ ५० ॥
ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ५१ ॥
५१‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्’(ब्र. सू. ३ । ४ । २६) इत्यत आरभ्य उच्चावचं विद्यासाधनमवधारितम्; तत्फलं विद्या सिध्यन्ती किमिहैव जन्मनि सिध्यति, उत कदाचित् अमुत्रापीति चिन्त्यते । किं तावत्प्राप्तम् ? इहैवेति । किं कारणम् ? श्रवणादिपूर्विका हि विद्या । न च कश्चित् अमुत्र मे विद्या जायतामित्यभिसन्धाय श्रवणादिषु प्रवर्तते । समान एव तु जन्मनि विद्याजन्म अभिसन्धाय एतेषु प्रवर्तमानो दृश्यते । यज्ञादीन्यपि श्रवणादिद्वारेणैव विद्यां जनयन्ति, प्रमाणजन्यत्वाद्विद्यायाः । तस्मादैहिकमेव विद्याजन्मेत्येवं प्राप्ते वदामः —
ऐहिकं विद्याजन्म भवति, असति प्रस्तुतप्रतिबन्ध इति । एतदुक्तं भवति — यदा प्रक्रान्तस्य विद्यासाधनस्य कश्चित्प्रतिबन्धो न क्रियते उपस्थितविपाकेन कर्मान्तरेण, तदा इहैव विद्या उत्पद्यते । यदा तु खलु तत्प्रतिबन्धः क्रियते तदा अमुत्रेति । उपस्थितविपाकत्वं च कर्मणो देशकालनिमित्तोपनिपाताद्भवति । यानि च एकस्य कर्मणो विपाचकानि देशकालनिमित्तानि, तान्येव अन्यस्यापीति न नियन्तुं शक्यते; यतो विरुद्धफलान्यपि कर्माणि भवन्ति । शास्त्रमपि अस्य कर्मण इदं फलं भवतीत्येतावति पर्यवसितं न देशकालनिमित्तविशेषमपि सङ्कीर्तयति । साधनवीर्यविशेषात्तु अतीन्द्रिया कस्यचिच्छक्तिराविर्भवति, तत्प्रतिबद्धा परस्य तिष्ठति । न च अविशेषेण विद्यायाम् अभिसन्धिर्नोत्पद्यते — इह अमुत्र वा मे विद्या जायतामिति, अभिसन्धेर्निरङ्कुशत्वात् । श्रवणादिद्वारेणापि विद्या उत्पद्यमाना प्रतिबन्धक्षयापेक्षयैव उत्पद्यते । तथा च श्रुतिः दुर्बोधत्वमात्मनो दर्शयति — ‘श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलोऽस्य लब्धाऽऽश्चर्यो ज्ञाता कुशलानुशिष्टः’(क. उ. १ । २ । ७) इति । गर्भस्थ एव च वामदेवः प्रतिपेदे ब्रह्मभावमिति वदन्ती जन्मान्तरसञ्चितात् साधनात् जन्मान्तरे विद्योत्पत्तिं दर्शयति । न हि गर्भस्थस्यैव ऐहिकं किञ्चित्साधनं सम्भाव्यते । स्मृतावपि — ‘अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति’(भ. गी. ६ । ३७) इत्यर्जुनेन पृष्टो भगवान्वासुदेवः ‘न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति’(भ. गी. ६ । ४०) इत्युक्त्वा, पुनस्तस्य पुण्यलोकप्राप्तिं साधुकुले सम्भूतिं च अभिधाय, अनन्तरम् ‘तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्’(भ. गी. ६ । ४३) इत्यादिना ‘अनेकजन्मसंसिद्धस्ततो याति परां गतिम्’(भ. गी. ६ । ४५) इत्यन्तेन एतदेव दर्शयति । तस्मात् ऐहिकम् आमुष्मिकं वा विद्याजन्म प्रतिबन्धक्षयापेक्षयेति स्थितम् ॥ ५१ ॥
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ ५२ ॥
५२यथा मुमुक्षोर्विद्यासाधनावलम्बिनः साधनवीर्यविशेषाद्विद्यालक्षणे फले ऐहिकामुष्मिकफलत्वकृतो विशेषप्रतिनियमो दृष्टः, एवं मुक्तिलक्षणेऽपि उत्कर्षापकर्षकृतः कश्चिद्विशेषप्रतिनियमः स्यात् — इत्याशङ्क्य, आह — एवं मुक्तिफलानियम इति । न खलु मुक्तिफले कश्चित् एवंभूतो विशेषप्रतिनियम आशङ्कितव्यः । कुतः ? तदवस्थावधृतेः — मुक्त्यवस्था हि सर्ववेदान्तेष्वेकरूपैव अवधार्यते । ब्रह्मैव हि मुक्त्यवस्था । न च ब्रह्मणोऽनेकाकारयोगोऽस्ति, एकलिङ्गत्वावधारणात् — ‘अस्थूलमनणु’(बृ. उ. ३ । ८ । ८) ‘स एष नेति नेत्यात्मा’(बृ. उ. ३ । ९ । २६) ‘यत्र नान्यत्पश्यति’(छा. उ. ७ । २४ । १) ‘ब्रह्मैवेदममृतं पुरस्तात्’(मु. उ. २ । २ । १२) ‘इदꣳ सर्वं यदयमात्मा’(बृ. उ. २ । ४ । ६) , ‘स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म’(बृ. उ. ४ । ४ । २५) , ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’(बृ. उ. ४ । ५ । १५) इत्यादिश्रुतिभ्यः । अपि च विद्यासाधनं स्ववीर्यविशेषात् स्वफल एव विद्यायां कञ्चिदतिशयमासञ्जयेत् , न विद्याफले मुक्तौ । तद्धि असाध्यं नित्यसिद्धस्वभावमेव विद्यया अधिगम्यत इत्यसकृदवादिष्म । न च तस्यामप्युत्कर्षनिकर्षात्मकोऽतिशय उपपद्यते, निकृष्टाया विद्यात्वाभावात् । उत्कृष्टैव हि विद्या भवति । तस्मात् तस्यां चिराचिरोत्पत्तिरूपोऽतिशयो भवन् भवेत् । न तु मुक्तौ कश्चित् अतिशयसम्भवोऽस्ति । विद्याभेदाभावादपि तत्फलभेदनियमाभावः, कर्मफलवत् । न हि मुक्तिसाधनभूताया विद्यायाः कर्मणामिव भेदोऽस्ति । सगुणासु तु विद्यासु ‘मनोमयः प्राणशरीरः’(छा. उ. ३ । १४ । २) इत्याद्यासु गुणावापोद्वापवशाद्भेदोपपत्तौ सत्याम् , उपपद्यते यथास्वं फलभेदनियमः, कर्मफलवत् — तथा च लिङ्गदर्शनम् — ‘तं यथा यथोपासते तदेव भवति’ इति । नैवं निर्गुणायां विद्यायाम् , गुणाभावात् । तथा च स्मृतिः — ‘न हि गतिरधिकास्ति कस्यचित्सति हि गुणे प्रवदन्त्यतुल्यताम्’(म. भा. १२ । १९४ । ६०) इति । तदवस्थावधृतेस्तदवस्थावधृतेरिति पदाभ्यासः अध्यायपरिसमाप्तिं द्योतयति ॥ ५२ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
तृतीयोऽध्यायः ॥