अद्वैतशारदा

ब्रह्मसूत्रभाष्यम्

तृतीयोऽध्यायः (२)

व्याख्याः

एवं प्राप्ते, प्रतिविधत्ते —

न वा विशेषात् ॥ २१ ॥

२१

न वा उभयोः उभयत्र प्राप्तिः । कस्मात् ? विशेषात् , उपा­स­न­स्था­न­वि­शे­षो­प­नि­ब­न्धा­दि­त्यर्थः । कथं स्थान­वि­शे­षो­प­नि­बन्ध इति, उच्यते — ‘य एष एतस्मिन्मण्डले पुरुषः’(बृ. उ. ५ । ५ । ३) इति हि आधिदैविकं पुरुषं प्रकृत्य, ‘तस्योपनिषदहः’ इति श्रावयति । ‘योऽयं दक्षि­णेऽ­क्ष­न्पु­रुषः’(बृ. उ. ५ । ५ । ४) इति च आध्यात्मिकं पुरुषं प्रकृत्य, ‘तस्योपनिषदहम्’ इति । तस्येति च एतत् सन्नि­हि­ता­व­ल­म्बनं सर्वनाम । तस्मात् आय­त­न­वि­शे­ष­व्य­पा­श्र­ये­णैव एते उप­नि­ष­दा­वु­प­दि­श्येते । कुत उभयोरुभयत्र प्राप्तिः । ननु एक एवायम् अधि­दै­व­त­म­ध्यात्मं च पुरुषः, एकस्यैव सत्यस्य ब्रह्मण आय­त­न­द्व­य­प्र­ति­पा­द­नात् । सत्यमेवमेतत् । एकस्यापि तु अव­स्था­वि­शे­षो­पा­दा­ने­नैव उप­नि­ष­द्वि­शे­षो­प­दे­शात् तदवस्थस्यैव सा भवितुमर्हति । अस्ति चायं दृष्टान्तः — सत्यपि आचा­र्य­स्व­रू­पा­न­पाये, यत् आचार्यस्य आसीनस्य अनुवर्तनमुक्तम् , न तत् तिष्ठतो भवति । यच्च तिष्ठत उक्तम् , न तदासीनस्येति । ग्रामा­र­ण्य­योस्तु आचा­र्य­स्व­रू­पा­न­पा­यात् तत्स्व­रू­पा­नु­ब­द्धस्य च धर्मस्य ग्रामा­र­ण्य­कृ­त­वि­शे­षा­भा­वात् उभयत्र तुल्यवद्भाव इति अदृष्टान्तः सः । तस्मात् व्यवस्था अनयोरुपनिषदोः ॥ २१ ॥

दर्शयति च ॥ २२ ॥

२२

अपि च एवंजातीयकानां धर्माणां व्यवस्थेति लिङ्गदर्शनं भवति — ‘तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम’(छा. उ. १ । ७ । ५) इति । कथमस्य लिङ्गत्वमिति ? तदुच्यते — अक्ष्या­दि­त्य­स्था­न­भे­द­भि­न्नान् धर्मान् अन्यो­न्य­स्मि­न्न­नु­प­सं­हा­र्यान् पश्यन् इह अतिदेशेन आदि­त्य­पु­रु­ष­ग­तारू­पा­दीन् अक्षिपुरुषे उपसंहरति — ‘तस्यैतस्य तदेव रूपम्’(छा. उ. १ । ७ । ५) इत्यादिना । तस्मा­द्व्य­व­स्थिते एव एते उपनिषदाविति निर्णयः ॥ २२ ॥

सम्भृ­ति­द्यु­व्या­प्त्यपि चातः ॥ २३ ॥

२३

‘ब्रह्मज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान’ इत्येवं राणायनीयानां खिलेषु वीर्य­स­म्भृ­ति­द्यु­नि­वे­श­प्र­भृ­तयो ब्रह्मणो विभूतयः पठ्यन्ते । तेषामेव च उपनिषदि शाण्डि­ल्य­वि­द्या­प्र­भृ­तयो ब्रह्मविद्याः पठ्यन्ते । तासु ब्रह्मविद्यासु ता ब्रह्मविभूतय उपसंह्रियेरन् , न वेति विचारणायाम् , ब्रह्म­स­म्ब­न्धा­दु­प­सं­हा­र­प्राप्तौ एवं पठति । सम्भृ­ति­द्यु­व्या­प्ति­प्र­भृ­तयो विभूतयः शाण्डि­ल्य­वि­द्या­प्र­भृ­तिषु नोपसंहर्तव्याः, अत एव च आयतनविशेषयोगात् । तथा हि शाण्डि­ल्य­वि­द्यायां हृदयायतनत्वं ब्रह्मण उक्तम् — ‘एष म आत्मा­न्त­र्हृ­दये’(छा. उ. ३ । १४ । ३) इति; तद्वदेव दहरविद्यायामपि — ‘दहरं पुण्डरीकं वेश्म दह­रोऽ­स्मि­न्न­न्त­रा­काशः’(छा. उ. ८ । १ । २) इति । उपकोसलविद्यायां तु अक्ष्यायतनत्वम् — ‘य एषोऽक्षिणि पुरुषो दृश्यते’(छा. उ. ४ । १५ । १) इति । एवं तत्र तत्र तत्तत् आध्या­त्मि­क­मा­य­त­नम् एतासु विद्यासु प्रतीयते । आधिदैविक्यस्तु एता विभूतयः सम्भृ­ति­द्यु­व्या­प्ति­प्र­भृ­तयः । तासां कुत एतासु प्राप्तिः । नन्वेतास्वपि आधिदैविक्यो विभूतयः श्रूयन्ते — ‘ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः’(छा. उ. ३ । १४ । ३) ‘एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति’(छा. उ. ४ । १५ । ४) ‘यावान्वा अय­मा­का­श­स्ता­वा­ने­षोऽ­न्त­र्हृ­दय आकाश उभे अस्मि­न्द्या­वा­पृ­थिवी अन्तरेव समाहिते’(छा. उ. ८ । १ । ३) इत्येवमाद्याः । सन्ति च अन्या आयतनविशेषहीना अपि इह ब्रह्मविद्याः षोडशकलाद्याः — सत्यमेवमेतत्; तथाप्यत्र विद्यते विशेषः सम्भृ­त्या­द्य­नु­प­सं­हा­र­हेतुः — समानगुणाम्नानेन हि प्रत्यु­प­स्था­पि­तासु विप्र­कृ­ष्ट­दे­शा­स्वपि विद्यासु विप्रकृष्टदेशा गुणा उप­सं­ह्रि­ये­र­न्निति युक्तम् । सम्भृत्यादयस्तु शाण्डि­ल्या­दि­वा­क्य­गो­च­राश्च मनोमयत्वादयो गुणाः पर­स्प­र­व्या­वृ­त्त­स्व­रू­प­त्वात् न प्रदे­शा­न्त­र­व­र्ति­वि­द्या­प्र­त्यु­प­स्था­प­न­क्षमाः । न च ब्रह्म­स­म्ब­न्ध­मा­त्रेण प्रदे­शा­न्त­र­व­र्ति­वि­द्या­प्र­त्यु­प­स्था­प­न­मि­त्यु­चि­तम् , विद्याभेदेऽपि तदुपपत्तेः । एकमपि हि ब्रह्म विभू­ति­भे­दै­र­ने­कधा उपास्यत इति स्थितिः, परो­व­री­य­स्त्वा­दि­व­द्भे­द­द­र्श­नात् । तस्मात् वीर्य­स­म्भृ­त्या­दीनां शाण्डि­ल्य­वि­द्या­दिषु अनुपसंहार इति ॥ २३ ॥

पुरु­ष­वि­द्या­या­मिव चेत­रे­षा­म­ना­म्ना­नात् ॥ २४ ॥

२४

अस्ति ताण्डिनां पैङ्गिनां च रहस्यब्राह्मणे पुरुषविद्या । तत्र पुरुषो यज्ञः कल्पितः । तदीयमायुः त्रेधा विभज्य सवनत्रयं कल्पितम् । अशिशिषादीनि च दीक्षादिभावेन कल्पितानि । अन्ये च धर्मास्तत्र समधिगता आशी­र्म­न्त्र­प्र­यो­गा­दयः । तैत्तिरीयका अपि कञ्चित् पुरुषयज्ञं कल्पयन्ति — ‘तस्यैवंविदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी’(ना. उ. ८०) इत्ये­ते­ना­नु­वा­केन । तत्र संशयः — किमितरत्र उक्ताः पुरुषयज्ञस्य धर्माः ते तैत्तिरीयके प्युप­सं­ह­र्तव्याः, किं वा नोपसंहर्तव्या इति । पुरु­ष­य­ज्ञ­त्वा­वि­शे­षात् उप­सं­हा­र­प्राप्तौ, आचक्ष्महे — नोपसंहर्तव्या इति । कस्मात् ? तद्रू­प­प्र­त्य­भि­ज्ञा­ना­भा­वात् । तदाहाचार्यः पुरु­ष­वि­द्या­या­मि­वेति — यथा एकेषां शाखिनां ताण्डिनां पैङ्गिनां च पुरु­ष­वि­द्या­या­मा­म्ना­नम् , नैवम् इतरेषां तैत्ति­री­या­णा­मा­म्ना­न­मस्ति । तेषां हि इतरविलक्षणमेव यज्ञसम्पादनं दृश्यते, पत्नी­य­ज­मा­न­वे­द­वे­दि­ब­र्हि­र्यू­पा­ज्य­प­श्वृ­त्वि­गा­द्य­नु­क्र­म­णात् । यदपि सवनसम्पादनं तदपि इतरविलक्षणमेव — ‘यत्प्रा­त­र्म­ध्य­न्दिनं सायं च तानि’(ना. उ. ८०) इति । यदपि किञ्चित् मर­णा­व­भृ­थ­त्वा­दि­सा­म्यम् , तदपि अल्पीयस्त्वात् भूयसा वैलक्षण्येन अभिभूयमानं न प्रत्य­भि­ज्ञा­प­न­क्ष­मम् । न च तैत्तिरीयके पुरुषस्य यज्ञत्वं श्रूयते । ‘विदुषः’ ‘यज्ञस्य’ इति हि न च एते समानाधिकरणे षष्ठ्यौ — विद्वानेव यो यज्ञस्तस्येति । न हि पुरुषस्य मुख्यं यज्ञत्वमस्ति । व्यधिकरणे तु एते षष्ठ्यौ — विदुषो यो यज्ञस्तस्येति । भवति हि पुरुषस्य मुख्यो यज्ञसम्बन्धः । सत्यां च गतौ, मुख्य एवार्थ आश्रयितव्यः, न भाक्तः । ‘आत्मा यजमानः’ इति च यजमानत्वं पुरुषस्य निर्ब्रुवन् वैयधिकरण्येनैव अस्य यज्ञसम्बन्धं दर्शयति । अपि च ‘तस्यैवं विदुषः’ इति सिद्ध­व­द­नु­वा­द­श्रुतौ सत्याम् , पुरुषस्य यज्ञभावम् आत्मादीनां च यजमानादिभावं प्रति­पि­त्स­मा­नस्य वाक्यभेदः स्यात् । अपि च ससं­न्या­सा­मा­त्म­विद्यां पुरस्तादुपदिश्य अनन्तरम् ‘तस्यैवं विदुषः’ इत्या­द्य­नु­क्र­मणं पश्यन्तः — पूर्वशेष एव एष आम्नायः, न स्वतन्त्र इति प्रतीमः । तथा च एकमेव फल­मु­भ­यो­र­प्य­नु­वा­क­यो­रु­प­ल­भा­महे — ‘ब्रह्मणो महिमानमाप्नोति’(ना. उ. ८०) इति; इतरेषां तु अनन्यशेषः पुरु­ष­वि­द्या­म्नायः । आयुरभिवृद्धिफलो ह्यसौ, ‘प्र ह षोडशं वर्षशतं जीवति य एवं वेद’(छा. उ. ३ । १६ । ७) इति समभिव्याहारात् । तस्मात् शाखा­न्त­रा­धी­तानां पुरु­ष­वि­द्या­ध­र्मा­णा­मा­शी­र्म­न्त्रा­दी­ना­म­प्राप्तिः तैत्तिरीयके ॥ २४ ॥

वेधा­द्य­र्थ­भे­दात् ॥ २५ ॥

२५

अस्त्या­थ­र्व­णि­का­ना­मु­प­नि­ष­दा­रम्भे मन्त्रसमाम्नायः — ‘सर्वं प्रविध्य हृदयं प्रविध्य धमनीः प्रवृज्य शिरोऽभिप्रवृज्य त्रिधा विपृक्तः’ इत्यादिः । ताण्डिनाम् — ‘देव सवितः प्रसुव यज्ञम्’ इत्यादिः । शाट्यायनिनाम् — ‘श्वेताश्वो हरितनीलोऽसि’ इत्यादिः । कठानां तैत्तिरीयाणां च — ‘शं नो मित्रः शं वरुणः’(तै. उ. १ । १ । १) इत्यादिः । वाजसनेयिनां तु उपनिषदारम्भे प्रव­र्ग्य­ब्रा­ह्मणं पठ्यते — ‘देवा ह वै सत्रं निषेदुः’ इत्यादि । कौषीतकिनामपि अग्नि­ष्टो­म­ब्रा­ह्म­णम् — ‘ब्रह्म वा अग्निष्टोमो ब्रह्मैव तदहर्ब्रह्मणैव ते ब्रह्मोपयन्ति तेऽमृ­त­त्व­मा­प्नु­वन्ति य एतदहरुपयन्ति’ इति । किमिमे सर्वं प्रवि­ध्ये­त्या­दयो मन्त्राः प्रवर्ग्यादीनि च कर्माणि विद्यासु उपसंह्रियेरन् , किं वा न उपसंह्रियेरन् — इति मीमांसामहे । किं तावत् नः प्रतिभाति ? उपसंहार एव एषां विद्यास्विति । कुतः ? विद्या­प्र­धा­ना­ना­मु­प­नि­ष­द्ग्र­न्थानां समीपे पाठात् । ननु एषां विद्यार्थतया विधानं नोपलभामहे — बाढम् , अनुपलभमाना अपि तु अनुमास्यामहे, सन्नि­धि­सा­म­र्थ्यात् । न हि सन्निधेः अर्थवत्त्वे सम्भवति, अक­स्मा­द­सा­व­ना­श्र­यितुं युक्तः । ननु नैषां मन्त्राणां विद्याविषयं किञ्चि­त्सा­मर्थ्यं पश्यामः । कथं च प्रवर्ग्यादीनि कर्माणि अन्यार्थत्वेनैव विनियुक्तानि सन्ति विद्या­र्थ­त्वे­नापि प्रतिपद्येमहीति । नैष दोषः । सामर्थ्यं तावत् मन्त्राणां विद्याविषयमपि किञ्चित् शक्यं कल्पयितुम् , हृद­या­दि­स­ङ्की­र्त­नात् । हृदयादीनि हि प्रायेण उपासनेषु आय­त­ना­दि­भा­वे­नो­प­दि­ष्टानि । तद्द्वारेण च ‘हृदयं प्रविध्य’ इत्ये­वं­जा­ती­य­कानां मन्त्राणाम् उप­प­न्न­मु­पा­स­ना­ङ्ग­त्वम्; दृष्टश्च उपासनेष्वपि मन्त्रविनियोगः — ‘भूः प्रप­द्येऽ­मु­नाऽ­मु­नाऽ­मुना’(छा. उ. ३ । १५ । ३) इत्येवमादिः । तथा प्रवर्ग्यादीनां कर्मणाम् अन्यत्रापि विनियुक्तानां सताम् अविरुद्धो विद्यासु विनियोगः — वाजपेय इव बृहस्पतिसवस्य — इत्येवं प्राप्ते ब्रूमः —

नैषामुपसंहारो विद्यास्विति । कस्मात् ? वेधा­द्य­र्थ­भे­दात् — ‘हृदयं प्रविध्य’ इत्ये­वं­जा­ती­य­कानां हि मन्त्राणां येऽर्था हृदयवेधादयः, भिन्नाः अनभिसम्बद्धाः ते उप­नि­ष­दु­दि­ता­भि­र्वि­द्याभिः । न तेषां ताभिः सङ्गन्तुं सामर्थ्यमस्ति । ननु हृदयस्य उपा­स­ने­ष्व­प्यु­प­यो­गात् तद्द्वारक उपासनासम्बन्ध उपन्यस्तः — नेत्युच्यते । हृद­य­मा­त्र­स­ङ्की­र्त­नस्य हि एवमुपयोगः कथ­ञ्चि­दु­त्प्रे­क्ष्येत । न च हृदयमात्रमत्र मन्त्रार्थः । ‘हृदयं प्रविध्य धमनीः प्रवृज्य’ इत्येवंजातीयको हि न सकलो मन्त्रार्थो विद्या­भि­र­भि­स­म्ब­ध्यते । अभिचारिकविषयो ह्येषोऽर्थः । तस्मा­दा­भि­चा­रि­केण कर्मणा ‘सर्वं प्रविध्य’ इत्येतस्य मन्त्र­स्या­भि­स­म्बन्धः । तथा ‘देव सवितः प्रसुव यज्ञम्’ इत्यस्य यज्ञ­प्र­स­व­लि­ङ्ग­त्वात् यज्ञेन कर्मणा अभिसम्बन्धः । तद्वि­शे­ष­स­म्ब­न्धस्तु प्रमा­णा­न्त­रा­द­नु­स­र्तव्यः । एवमन्येषामपि मन्त्राणाम् — केषाञ्चित् लिङ्गेन, केषा­ञ्चि­द्व­च­नेन, केषा­ञ्चि­त्प्र­मा­णा­न्त­रे­णे­त्ये­वम् — अर्थान्तरेषु विनियुक्तानाम् , रहस्यपठितानामपि सताम् , न सन्निधिमात्रेण विद्या­शे­ष­त्वो­प­पत्तिः । दुर्बलो हि सन्निधिः श्रुत्यादिभ्य इत्युक्तं प्रथमे तन्त्रे — ‘श्रुति­लि­ङ्ग­वा­क्य­प्र­क­र­ण­स्था­न­स­मा­ख्यानां समवाये पार­दौ­र्ब­ल्य­म­र्थ­वि­प्र­क­र्षात्’(जै. सू. ३ । ३ । १४) इत्यत्र । तथा कर्मणामपि प्रव­र्ग्या­दी­ना­म­न्यत्र विनियुक्तानां न विद्या­शे­ष­त्वो­प­पत्तिः । न ह्येषां विद्याभिः सह ऐकार्थ्यं किञ्चिदस्ति । वाजपेये तु बृहस्पतिसवस्य स्पष्टं विनियोगान्तरम् — ‘वाज­पे­ये­नेष्ट्वा बृहस्पतिसवेन यजेत’ इति । अपि च एकोऽयं प्रवर्ग्यः सकृदुत्पन्नो बलीयसा प्रमाणेन अन्यत्र विनियुक्तः न दुर्बलेन प्रमाणेन अन्यत्रापि विनियोगमर्हति । अगृ­ह्य­मा­ण­वि­शे­षत्वे हि प्रमाणयोः एतदेवं स्यात् । न तु बलवदबलवतोः प्रमा­ण­यो­र­गृ­ह्य­मा­ण­वि­शे­षता सम्भवति, बल­व­द­ब­ल­व­त्त्व­वि­शे­षा­देव । तस्मात् एवंजातीयकानां मन्त्राणां कर्मणां वा न सन्नि­धि­पा­ठ­मा­त्रेण विद्या­शे­ष­त्व­मा­श­ङ्कि­त­व्यम् । अर­ण्या­नु­व­च­ना­दि­ध­र्म­सा­मा­न्यात्तु सन्निधिपाठ इति संतोष्टव्यम् ॥ २५ ॥

हानौ तूपा­य­न­श­ब्द­शे­ष­त्वा­त्कु­शा­च्छ­न्द­स्तु­त्यु­प­गा­न­व­त्त­दु­क्तम् ॥ २६ ॥

२६

अस्ति ताण्डिनां श्रुतिः — ‘अश्व इव रोमाणि विधूय पापं चन्द्र इव राहो­र्मु­खा­त्प्र­मुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्म­लो­क­म­भि­स­म्भ­वामि’(छा. उ. ८ । १३ । १) इति । तथा आथर्वणिकानाम् — ‘तदा विद्वा­न्पु­ण्य­पापे विधूय निरञ्जनः परमं साम्यमुपैति’(मु. उ. ३ । १ । ३) इति । तथा शाट्यायनिनः पठन्ति — ‘तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्’ इति । तथैव कौषीतकिनः — ‘तत्सु­कृ­त­दु­ष्कृते विधूनुते तस्य प्रिया ज्ञातयः सुकृ­त­मु­प­य­न्त्य­प्रिया दुष्कृतम्’(कौ॰उ॰ १-४) इति । तदिह क्वचित् सुकृ­त­दु­ष्कृ­त­यो­र्हानं श्रूयते । क्वचित्तयोरेव विभागेन प्रियै­र­प्रि­यै­श्चो­पा­य­नम् । क्वचित्तु उभयमपि हानमुपायनं च । तद्यत्रोभयं श्रूयते तत्र तावत् न किञ्चि­द्व­क्त­व्य­मस्ति । यत्रा­प्यु­पा­य­न­मेव श्रूयते, न हानम् , तत्राप्यर्थादेव हानं सन्निपतति, अन्यैरात्मीययोः सुकृ­त­दु­ष्कृ­त­यो­रु­पे­य­मा­नयोः आव­श्य­क­त्वा­त्त­द्धा­नस्य । यत्र तु हानमेव श्रूयते, नोपायनम् — तत्रोपायनं सन्निपतेद्वा, न वेति विचिकित्सायाम् — अश्र­व­णा­द­स­न्नि­पातः, विद्या­न्त­र­गो­च­र­त्वाच्च शाखान्तरीयस्य श्रवणस्य । अपि च आत्मकर्तृकं सुकृ­त­दु­ष्कृ­त­यो­र्हा­नम् । परकर्तृकं तु उपायनम् । तयो­र­स­त्या­व­श्य­क­भावे, कथं हाने­नो­पा­य­न­मा­क्षि­प्येत ? तस्मादसन्निपातो हाना­वु­पा­य­न­स्येति ॥

अस्यां प्राप्तौ पठति — हानाविति । हानौ तु एतस्यां केवलायामपि श्रूयमाणायाम् उपायनं सन्नि­प­ति­तु­म­र्हति । तच्छेषत्वात् — हानशब्दशेषो हि उपायनशब्दः समधिगतः कौषीतकिरहस्ये । तस्मादन्यत्र केव­ल­हा­न­श­ब्द­श्र­व­णेऽ­प्यु­पा­य­ना­नु­वृत्तिः । यदुक्तम् — अश्रवणात् विद्या­न्त­र­गो­च­र­त्वात् अनावश्यकत्वाच्च असन्निपात इति, तदुच्यते — भवेदेषा व्यवस्थोक्तिः, यद्यनुष्ठेयं किञ्चिदन्यत्र श्रुतम् अन्यत्र निनीष्येत । न त्विह हानमुपायनं वा अनुष्ठेयत्वेन सङ्कीर्त्यते । विद्या­स्तु­त्यर्थं तु अनयोः सङ्कीर्तनम् — इत्थं महाभागा विद्या, यत्सा­म­र्थ्या­दस्य विदुषः सुकृतदुष्कृते संसारकारणभूते विधूयेते, ते च अस्य सुहृद्द्विषत्सु निविशेते इति । स्तुत्यर्थे च अस्मि­न्सं­की­र्तने, हाना­न­न्त­र­भा­वि­त्वे­नो­पा­य­नस्य, क्वचि­च्छ्रु­त­त्वात् अन्यत्रापि हान­श्रु­ता­वु­पा­य­ना­नु­वृत्तिं मन्यते — स्तुति­प्र­क­र्ष­ला­भाय । प्रसिद्धा च अर्थ­वा­दा­न्त­रा­पेक्षा अर्थ­वा­दा­न्त­र­प्र­वृत्तिः — ‘एकविंशो वा इतोऽसावादित्यः’(छा. उ. २ । १० । ५) इत्येवमादिषु । कथं हि इह एकविंशता आदि­त्य­स्या­भि­धी­येत, अन­पे­क्ष्य­मा­णेऽ­र्थ­वा­दा­न्तरे — ‘द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः’(तै॰सं॰ ५-१-१०) इत्येतस्मिन् । तथा ‘त्रिष्टुभौ भवतः सेन्द्रियत्वाय’ इत्ये­व­मा­दि­वा­देषु ‘इन्द्रियं वै त्रिष्टुप्’ इत्ये­व­मा­द्य­र्थ­वा­दा­न्त­रा­पेक्षा दृश्यते । विद्या­स्तु­त्य­र्थ­त्वाच्च अस्यो­पा­य­न­वा­दस्य, कथमन्यदीये सुकृतदुष्कृते अन्यैरुपेयेते इति नाती­वा­भि­नि­वे­ष्ट­व्यम् । उपा­य­न­श­ब्द­शे­ष­त्वा­दिति च शब्दशब्दं समुच्चारयन् स्तुत्यर्थामेव हाना­वु­पा­य­ना­नु­वृत्तिं सूचयति । गुणो­प­सं­हा­र­वि­व­क्षायां हि उपायनार्थस्यैव हानावनुवृत्तिं ब्रूयात् । तस्मात् गुणो­प­सं­हा­र­वि­चा­र­प्र­स­ङ्गेन स्तुत्यु­प­सं­हा­र­प्र­द­र्श­ना­र्थ­मिदं सूत्रम् । कुशा­च्छ­न्द­स्तु­त्यु­प­गा­न­व­दिति उपमोपादानम् । तद्यथा — भाल्लविनाम् ‘कुशा वानस्पत्याः स्थ ता मा पात’ इत्ये­त­स्मि­न्नि­गमे कुशानामविशेषेण वन­स्प­ति­यो­नि­त्वेन श्रवणे, शाट्यायनिनाम् ‘औदुम्बराः कुशा’ इति विशेषवचनात् औदुम्बर्यः कुशा आश्रीयन्ते । यथा च क्वचित् देवा­सु­र­च्छ­न्द­सा­म­वि­शे­षेण पौर्वा­प­र्य­प्र­सङ्गे, देवच्छन्दांसि पूर्वाणीति पैङ्ग्या­म्ना­ना­त्प्र­ती­यते । यथा च षोडशिस्तोत्रे केषा­ञ्चि­त्का­ला­वि­शे­ष­प्राप्तौ, ‘समयाध्युषिते सूर्ये’ इत्यार्चश्रुतेः काल­वि­शे­ष­प्र­ति­पत्तिः । यथैव च अविशेषेणोपगानं केचित्समामनन्ति विशेषेण भाल्लविनः — यथा एतेषु कुशादिषु श्रुत्य­न्त­र­ग­त­वि­शे­षा­न्वयः, एवं हाना­व­प्यु­पा­य­ना­न्वय इत्यर्थः । श्रुत्यन्तरकृतं हि विशेषं श्रुत्य­न्त­रेऽ­न­भ्यु­प­ग­च्छतः सर्वत्रैव विकल्पः स्यात् । स च अन्याय्यः सत्यां गतौ । तदुक्तं द्वाद­श­ल­क्ष­ण्याम् — ‘अपि तु वाक्य­शे­ष­त्वा­दि­त­र­प­र्यु­दासः स्यात्प्रतिषेधे विकल्पः स्यात्’(जै॰सू॰ १०-८-१५) इति ॥

अथवा एतास्वेव विधूननश्रुतिषु एतेन सूत्रेण एत­च्चि­न्त­यि­त­व्यम् — किमनेन विधूननवचनेन सुकृ­त­दु­ष्कृ­त­यो­र्हा­न­म­भि­धी­यते, किं वा अर्थान्तरमिति । तत्र च एवं प्रापयितव्यम् — न हानं विधूननमभिधीयते, ‘धूञ्‌ कम्पने’ इति स्मरणात् , ‘दोधूयन्ते ध्वजाग्राणि’ इति च वायुना चाल्यमानेषु ध्वजाग्रेषु प्रयोगदर्शनात् । तस्मात् चालनं विधूननमभिधीयते । चालनं तु सुकृतदुष्कृतयोः कञ्चित्कालं फलप्रतिबन्धनात् — इत्येवं प्रापय्य, प्रतिवक्तव्यम् — हानावेव एष विधूननशब्दो वर्तितुमर्हति, उपा­य­न­श­ब्द­शे­ष­त्वात् । न हि परपरिग्रहभूतयोः सुकृतदुष्कृतयोः अप्रहीणयोः परैरुपायनं सम्भवति । यद्यपि इदं परकीययोः सुकृतदुष्कृतयोः परैरुपायनं न आञ्जसं सम्भाव्यते, तथापि तत्स­ङ्की­र्त­ना­त्ता­वत् तदानुगुण्येन हानमेव विधूननं नामेति निर्णेतुं शक्यते । क्वचिदपि च इदं विधू­न­न­स­न्नि­धा­वु­पा­यनं श्रूयमाणं कुशा­च्छ­न्द­स्तु­त्यु­प­गा­न­वत् विधूननश्रुत्या सर्व­त्रा­पे­क्ष्य­माणं सार्वत्रिकं निर्णयकारणं सम्पद्यते । न च चालनं ध्वजाग्रवत् सुकृ­त­दु­ष्कृ­त­यो­र्मुख्यं सम्भवति, अद्रव्यत्वात् । अश्वश्च रोमाणि विधून्वानः त्यजन् रजः सहैव तेन रोमाण्यपि जीर्णानि शातयति — ‘अश्व इव रोमाणि विधूय पापम्’(छा. उ. ८ । १३ । १) इति च ब्राह्मणम् । अने­का­र्थ­त्वा­भ्यु­प­ग­माच्च धातूनां न स्मरणविरोधः । तदुक्तमिति व्याख्यातम् ॥ २६ ॥

साम्पराये तर्त­व्या­भा­वा­त्तथा ह्यन्ये ॥ २७ ॥

२७

देवयानेन पथा पर्यङ्कस्थं ब्रह्म अभिप्रस्थितस्य व्यध्वनि सुकृ­त­दु­ष्कृ­त­यो­र्वि­योगं कौषीतकिनः पर्य­ङ्क­वि­द्या­या­मा­म­नन्ति — ‘स एतं देवयानं पन्था­न­मा­प­द्या­ग्नि­लो­क­मा­ग­च्छति’(कौ. उ. १ । ३) इत्युपक्रम्य, ‘स आगच्छति विरजां नदीं तां मनसैवात्येति तत्सु­कृ­त­दु­ष्कृते विधूनुते’(कौ. उ. १ । ४) इति । तत् किं यथाश्रुतं व्यध्वन्येव वियोगवचनं प्रतिपत्तव्यम् , आहोस्वित् आदावेव देहादपसर्पणे — इति विचारणायाम् , श्रुति­प्रा­मा­ण्यात् यथाश्रुति प्रति­प­त्ति­प्र­सक्तौ, पठति — साम्पराय इति । साम्पराये गमन एव देहादपसर्पणे, इदं विद्या­सा­म­र्थ्या­त्सु­कृ­त­दु­ष्कृ­त­हानं भवति — इति प्रतिजानीते । हेतुं च आचष्टे — तर्त­व्या­भा­वा­दिति । न हि विदुषः सम्परेतस्य विद्यया ब्रह्म संप्रेप्सतः अन्तराले सुकृ­त­दु­ष्कृ­ताभ्यां किञ्चि­त्प्रा­प्त­व्य­मस्ति, यदर्थं कति­चि­त्क्ष­णा­न­क्षीणे ते कल्प्येयाताम् । विद्या­वि­रु­द्ध­फ­ल­त्वात्तु विद्या­सा­म­र्थ्येन तयोः क्षयः । स च यदैव विद्या फलाभिमुखी तदैव भवितुमर्हति । तस्मात् प्रागेव सन् अयं सुकृ­त­दु­ष्कृ­त­क्षयः पश्चात्पठ्यते । तथा हि अन्येऽपि शाखिनः ताण्डिनः शाट्यायनिनश्च प्रागवस्थायामेव सुकृ­त­दु­ष्कृ­त­हा­न­मा­म­नन्ति — ‘अश्व इव रोमाणि विधूय पापम्’(छा. उ. ८ । १३ । १) इति, ‘तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्’ इति च ॥ २७ ॥

छन्दत उभयाविरोधात् ॥ २८ ॥

२८

यदि च देहादपसृप्तस्य देवयानेन पथा प्रस्थितस्य अर्धपथे सुकृ­त­दु­ष्कृ­त­क्ष­योऽ­भ्यु­प­ग­म्येत, ततः पतिते देहे यम­नि­य­म­वि­द्या­भ्या­सा­त्म­कस्य सुकृ­त­दु­ष्कृ­त­क्ष­य­हेतोः पुरुषयत्नस्य इच्छा­तोऽ­नु­ष्ठा­ना­नु­प­पत्तेः अनुपपत्तिरेव तद्धेतुकस्य सुकृ­त­दु­ष्कृ­त­क्ष­यस्य स्यात् । तस्मात् पूर्वमेव साधकावस्थायां छन्दतोऽनुष्ठानं तस्य स्यात् , तत्पूर्वकं च सुकृ­त­दु­ष्कृ­त­हा­नम् — इति द्रष्टव्यम् । एवं निमि­त्त­नै­मि­त्ति­क­यो­रु­प­पत्तिः ताण्डि­शा­ट्या­य­नि­श्रु­त्योश्च सङ्गतिरिति ॥ २८ ॥

गते­र­र्थ­व­त्त्व­मु­भ­य­थाऽ­न्यथा हि विरोधः ॥ २९ ॥

२९

क्वचित् पुण्य­पा­पा­प­हा­न­स­न्निधौ देवयानः पन्थाः श्रूयते, क्वचिन्न । तत्र संशयः — किं हानावविशेषेणैव देवयानः पन्थाः सन्निपतेत् , उत विभागेन क्वचि­त्स­न्नि­प­तेत् क्वचिन्नेति । यथा तावत् हानावविशेषेणैव उपा­य­ना­नु­वृ­त्ति­रुक्ता एवं देव­या­ना­नु­वृ­त्ति­रपि भवि­तु­म­र्ह­ती­त्यस्यां प्राप्तौ, आचक्ष्महे — गतेः देवयानस्य पथः, अर्थवत्त्वम् , उभयथा विभागेन भवितुमर्हति — क्वचिदर्थवती गतिः क्वचिन्नेति; न अविशेषेण । अन्यथा हि अविशेषेणैव एतस्यां गता­व­ङ्गी­क्रि­य­मा­णायां विरोधः स्यात् — ‘पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’(मु. उ. ३ । १ । ३) इत्यस्यां श्रुतौ देशान्तरप्रापणी गतिर्विरुध्येत । कथं हि निरञ्जनोऽगन्ता देशान्तरं गच्छेत् । गन्तव्यं च परमं साम्यं न देशा­न्त­र­प्रा­प्त्या­य­त्तम् — इत्या­न­र्थ­क्य­मे­वात्र गतेर्मन्यामहे ॥ २९ ॥

उप­प­न्न­स्त­ल्ल­क्ष­णा­र्थो­प­ल­ब्धे­र्लो­क­वत् ॥ ३० ॥

३०

उपपन्नश्चायम् उभयथाभावः — क्वचिदर्थवती गतिः क्वचिन्नेति । तल्ल­क्ष­णा­र्थो­प­लब्धेः — गति­का­र­ण­भू­तोऽर्थः पर्य­ङ्क­वि­द्या­दिषु सगुणेषु उपासनेषु उपलभ्यते । तत्र हि पर्यङ्कारोहणम् , पर्यङ्कस्थेन ब्रह्मणा संवदनम् , विशि­ष्ट­ग­न्धा­दि­प्रा­प्तिश्च — इत्येवमादि बहु देशा­न्त­र­प्रा­प्त्या­यत्तं फलं श्रूयते । तत्र अर्थवती गतिः । न हि सम्यग्दर्शने तल्ल­क्ष­णा­र्थो­प­ल­ब्धि­रस्ति । न हि आत्मै­क­त्व­द­र्शि­ना­मा­प्त­का­मा­नाम् इहैव दग्धा­शे­ष­क्ले­श­बी­जा­नाम् आर­ब्ध­भो­ग­क­र्मा­श­य­क्ष­प­ण­व्य­ति­रे­केण अपेक्षितव्यं किञ्चिदस्ति । तत्र अनर्थिका गतिः । लोकवच्च एष विभागो द्रष्टव्यः — यथा लोके ग्रामप्राप्तौ देशान्तरप्रापणः पन्था अपेक्ष्यते, न आरोग्यप्राप्तौ, एवमिहापीति । भूयश्च एनं विभागं चतुर्थाध्याये निपु­ण­त­र­मु­प­पा­द­यि­ष्यामः ॥ ३० ॥

अनियमः सर्वासामविरोधः शब्दा­नु­मा­ना­भ्याम् ॥ ३१ ॥

३१

सगुणासु विद्यासु गतिरर्थवती, न निर्गुणायां पर­मा­त्म­वि­द्या­याम् — इत्युक्तम् । सगुणास्वपि विद्यासु कासुचिद्गतिः श्रूयते — यथा पर्य­ङ्क­वि­द्या­याम् उपकोसलविद्यायां पञ्चा­ग्नि­वि­द्यायां दहरविद्यायामिति । न अन्यासु — यथा मधुविद्यायां शाण्डि­ल्य­वि­द्यायां षोडशकलविद्यायां वैश्वा­न­र­वि­द्या­या­मिति । तत्र संशयः — किं यास्वेवैषा गतिः श्रूयते, तास्वेव नियम्येत; उत अनियमेन सर्वाभिरेव एवं­जा­ती­य­का­भि­र्वि­द्या­भि­र­भि­स­म्ब­ध्ये­तेति । किं तावत्प्राप्तम् ? नियम इति । यत्रैव श्रूयते, तत्रैव भवितुमर्हति, प्रकरणस्य नियामकत्वात् । यद्यन्यत्र श्रूयमाणापि गतिः विद्यान्तरं गच्छेत् , श्रुत्यादीनां प्रामाण्यं हीयेत, सर्वस्य सर्वा­र्थ­त्व­प्र­स­ङ्गात् । अपि च अर्चिरादिका एकैव गतिः उपकोसलविद्यायां पञ्चा­ग्नि­वि­द्यायां च तुल्यवत्पठ्यते । तत् सर्वा­र्थ­त्वेऽ­न­र्थकं पुनर्वचनं स्यात् । तस्मान्नियम इत्येवं प्राप्ते पठति —

अनियम इति । सर्वासामेव अभ्यु­द­य­प्रा­प्ति­फ­लानां सगुणानां विद्यानाम् अविशेषेण एषा देवयानाख्या गति­र्भ­वि­तु­म­र्हति । ननु अनियमाभ्युपगमे प्रकरणविरोध उक्तः — नैषोऽस्ति विरोधः । शब्दा­नु­मा­नाभ्यां श्रुति­स्मृ­ति­भ्या­मि­त्यर्थः । तथा हि श्रुतिः — ‘तद्य इत्थं विदुः’(छा. उ. ५ । १० । १) इति पञ्चा­ग्नि­वि­द्या­वतां देवयानं पन्था­न­म­व­ता­र­यन्ती ‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’(छा. उ. ५ । १० । १) इति विद्या­न्त­र­शी­लि­ना­मपि पञ्चा­ग्नि­वि­द्या­विद्भिः समानमार्गतां गमयति । कथं पुनरवगम्यते — विद्या­न्त­र­शी­लि­ना­मियं गतिरिति ? ननु श्रद्धा­त­पः­प­रा­य­णा­ना­मेव स्यात् , तन्मा­त्र­श्र­व­णात् — नैष दोषः । न हि केवलाभ्यां श्रद्धा­त­पो­भ्याम् अन्तरेण विद्याबलम् एषा गतिर्लभ्यते — ‘विद्यया तदारोहन्ति यत्र कामाः परागताः । न तत्र दक्षिणा यन्ति नावि­द्वां­स­स्त­प­स्विनः(श.ब्रा. १०.५.४.६)’ इति श्रुत्यन्तरात् । तस्मात् इह श्रद्धातपोभ्यां विद्या­न्त­रो­प­ल­क्ष­णम् । वाजसनेयिनस्तु पञ्चा­ग्नि­वि­द्या­धि­का­रेऽ­धी­यते — ‘य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धाꣳ सत्यमुपासते’(बृ. उ. ६ । २ । १५) इति । तत्र श्रद्धालवो ये सत्यं ब्रह्मोपासते इति व्याख्येयम् , सत्यशब्दस्य ब्रह्मणि अस­कृ­त्प्र­यु­क्त­त्वात् । पञ्चा­ग्नि­वि­द्या­विदां च इत्थंवित्तयैव उपात्तत्वात् , विद्या­न्त­र­प­रा­य­णा­ना­मेव एतदुपादानं न्याय्यम् । ‘अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम्’(बृ. उ. ६ । २ । १६) इति च मार्ग­द्व­य­भ्र­ष्टानां कष्टामधोगतिं गमयन्ती श्रुतिः देव­या­न­पि­तृ­या­ण­यो­रेव एनान् अन्तर्भावयति । तत्रापि विद्या­वि­शे­षा­देषां देव­या­न­प्र­ति­पत्तिः । स्मृतिरपि — ‘शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्य­ना­वृ­त्ति­म­न्य­या­व­र्तते पुनः’(भ. गी. ८ । २६) इति । यत्पुनः देवयानस्य पथो द्विराम्नानम् उपकोसलविद्यायां पञ्चा­ग्नि­वि­द्यायां च, तत् उभयत्रापि अनुचिन्तनार्थम् । तस्मादनियमः ॥ ३१ ॥

याव­द­धि­का­र­म­व­स्थि­ति­रा­धि­का­रि­का­णाम् ॥ ३२ ॥

३२

विदुषो वर्त­मा­न­दे­ह­पा­ता­न­न्तरं देहा­न्त­र­मु­त्प­द्यते, न वा — इति चिन्त्यते । ननु विद्यायाः साधनभूतायाः सम्पत्तौ कैव­ल्य­नि­र्वृत्तिः स्यात् न वेति नेयं चिन्ता उपपद्यते । न हि पाक­सा­ध­न­स­म्पत्तौ, ओदनो भवेत् न वेति चिन्ता सम्भवति । नापि भुञ्जानः तृप्येत् न वेति चिन्त्यते — उपपन्ना तु इयं चिन्ता, ब्रह्मविदामपि केषाञ्चित् इति­हा­स­पु­रा­ण­यो­र्दे­हा­न्त­रो­त्प­त्ति­द­र्श­नात् । तथा हि — अपान्तरतमा नाम वेदाचार्यः पुराणर्षिः विष्णुनियोगात् कलिद्वापरयोः सन्धौ कृष्णद्वैपायनः सम्बभूवेति स्मरन्ति । वसिष्ठश्च ब्रह्मणो मानसः पुत्रः सन् निमि­शा­पा­द­प­ग­त­पू­र्व­देहः पुन­र्ब्र­ह्मा­दे­शा­न्मि­त्रा­व­रु­णाभ्यां सम्बभूवेति । भृग्वादीनामपि ब्रह्मण एव मानसपुत्राणां वारुणे यज्ञे पुनरुत्पत्तिः श्रूयते । सनत्कुमारोऽपि ब्रह्मण एव मानसः पुत्रः स्वयं रुद्राय वरप्रदानात् स्कन्दत्वेन प्रादुर्बभूव । एवमेव दक्ष­ना­र­द­प्र­भृ­तीनां भूयसी देहा­न्त­रो­त्पत्तिः कथ्यते तेन तेन निमित्तेन स्मृतौ । श्रुतावपि मन्त्रा­र्थ­वा­दयोः प्रायेणोपलभ्यते । ते च केचित् पतिते पूर्वदेहे देहान्तरमाददते, केचित्तु स्थित एव तस्मिन् योगैश्वर्यवशात् अने­क­दे­हा­दा­न­न्या­येन । सर्वे च एते सम­धि­ग­त­स­क­ल­वे­दार्थाः स्मर्यन्ते । तत् एतेषां देहा­न्त­रो­त्प­त्ति­द­र्श­नात् प्राप्तं ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वम् , अहेतुत्वं वेति ॥

अत उत्तरमुच्यते — न, तेषाम् अपा­न्त­र­त­मः­प्र­भृ­तीनां वेद­प्र­व­र्त­ना­दिषु लोक­स्थि­ति­हे­तु­ष्व­धि­का­रेषु नियुक्तानाम् अधि­का­र­त­न्त्र­त्वा­त्स्थितेः । यथासौ भगवान्सविता सह­स्र­यु­ग­प­र्यन्तं जगतोऽधिकारं चरित्वा तदवसाने उद­या­स्त­म­य­व­र्जितं कैवल्यमनुभवति — ‘अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता’(छा. उ. ३ । ११ । १) इति श्रुतेः । यथा च वर्तमाना ब्रह्मविदः आरब्धभोगक्षये कैवल्यमनुभवन्ति — ‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’(छा. उ. ६ । १४ । २) इति श्रुतेः — एवम् अपा­न्त­र­त­मः­प्र­भृ­त­योऽ­पी­श्वराः परमेश्वरेण तेषु तेष्वधिकारेषु नियुक्ताः सन्तः सत्यपि सम्यग्दर्शने कैवल्यहेतौ अक्षीणकर्माणो याव­द­धि­का­र­म­व­ति­ष्ठन्ते, तदवसाने च अपवृज्यन्त इत्यविरुद्धम् । सकृ­त्प्र­वृ­त्त­मेव हि ते फलदानाय कर्मा­श­य­म­ति­वा­ह­यन्तः, स्वात­न्त्र्ये­णैव गृहादिव गृहान्तरम् अन्यमन्यं देहं सञ्चरन्तः स्वाधि­का­र­नि­र्व­र्त­नाय, अपरिमुषितस्मृतय एव देहे­न्द्रि­य­प्र­कृ­ति­व­शि­त्वात् निर्माय देहान् युगपत् क्रमेण वा अधितिष्ठन्ति । न च एते जातिस्मरा इत्युच्यन्ते — त एवैते इति स्मृति­प्र­सिद्धेः । यथा हि सुलभा नाम ब्रह्मवादिनी जनकेन विवदितुकामा व्युदस्य स्वं देहम् , जानकं देहमाविश्य, व्युद्य तेन, पश्चात् स्वमेव देहमाविवेश — इति स्मर्यते । यदि हि उपयुक्ते सकृत्प्रवृत्ते कर्मणि कर्मान्तरं देहा­न्त­रा­र­म्भ­का­र­ण­मा­वि­र्भ­वेत् , ततः अन्य­द­प्य­द­ग्ध­बीजं कर्मान्तरं तद्वदेव प्रसज्येतेति ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वम् अहेतुत्वं वा आशङ्क्येत । न तु इयमाशङ्का युक्ता, ज्ञाना­त्क­र्म­बी­ज­दा­हस्य श्रुति­स्मृ­ति­प्र­सि­द्ध­त्वात् । तथा हि श्रुतिः — ‘भिद्यते हृद­य­ग्र­न्थि­श्छि­द्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’(मु. उ. २ । २ । ९) इति, ‘स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः’(छा. उ. ७ । २६ । २) इति चैवमाद्या । स्मृतिरपि — ‘यथैधांसि समि­द्धोऽ­ग्नि­र्भ­स्म­सा­त्कु­रु­तेऽ­र्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा’(भ. गी. ४ । ३७) इति, ‘बीजा­न्य­ग्न्यु­प­द­ग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः’(म॰भा॰१२-२११-१७) इति चैवमाद्या । न च अवि­द्या­दि­क्ले­श­दाहे सति क्लेशबीजस्य कर्माशयस्य एकदेशदाहः एकदेशप्ररोहश्च इत्युपपद्यते । न हि अग्निदग्धस्य शालिबीजस्य एकदेशप्ररोहो दृश्यते । प्रवृत्तफलस्य तु कर्माशयस्य मुक्तेषोरिव वेगक्षयात् निवृत्तिः, ‘तस्य तावदेव चिरम्’(छा. उ. ६ । १४ । २) इति शरी­र­पा­ता­व­धि­क्षे­प­क­र­णात् । तस्मादुपपन्ना यावदधिकारम् आधि­का­रि­का­णा­म­व­स्थितिः । न च ज्ञानफलस्य अनैकान्तिकता । तथा च श्रुतिः अविशेषेणैव सर्वेषां ज्ञानान्मोक्षं दर्शयति — ‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम्’(बृ. उ. १ । ४ । १०) इति । ज्ञानान्तरेषु च ऐश्व­र्या­दि­फ­ले­ष्वा­सक्ताः स्युर्महर्षयः । ते पश्चा­दै­श्व­र्य­क्ष­य­द­र्श­नेन निर्विण्णाः परमात्मज्ञाने परिनिष्ठाः कैवल्यं प्रापु­रि­त्यु­प­प­द्यते — ‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्’ इति स्मरणात् । प्रत्य­क्ष­फ­ल­त्वाच्च ज्ञानस्य फल­वि­र­हा­श­ङ्का­नु­प­पत्तिः । कर्मफले हि स्वर्गा­दा­व­नु­भ­वा­ना­रूढे स्यादाशङ्का भवेद्वा न वेति । अनुभवारूढं तु ज्ञानफलम् — ‘यत्सा­क्षा­द­प­रो­क्षा­द्ब्रह्म’(बृ. उ. ३ । ४ । १) इति श्रुतेः, ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) इति सिद्धवदुपदेशात् । न हि ‘तत्त्वमसि’ इत्यस्य वाक्यस्य अर्थः — तत् त्वं मृतो भविष्यसीति — एवं परिणेतुं शक्यः । ‘तद्धै­त­त्प­श्य­न्नृ­षि­र्वा­म­देवः प्रतिपेदेऽहं मनुरभवꣳ सूर्यश्च’(बृ. उ. १ । ४ । १०) इति च सम्य­ग्द­र्श­न­का­ल­मेव तत्फलं सर्वात्मत्वं दर्शयति । तस्मात् ऐकान्तिकी विदुषः कैवल्यसिद्धिः ॥ ३२ ॥

अक्षरधियां त्ववरोधः सामा­न्य­त­द्भा­वा­भ्या­मौ­प­स­द­व­त्त­दु­क्तम् ॥ ३३ ॥

३३

वाजसनेयके श्रूयते — ‘एतद्वै तदक्षरं गार्गि ब्राह्मणा अभि­व­द­न्त्य­स्थू­ल­म­न­ण्व­ह्र­स्व­म­दी­र्घ­म­लो­हि­त­म­स्ने­हम्’(बृ. उ. ३ । ८ । ८) इत्यादि । तथा आथर्वणे श्रूयते — ‘अथ परा यया तद­क्ष­र­म­धि­ग­म्यते’(मु. उ. १ । १ । ५) ‘यत्त­द­द्रे­श्य­म­ग्रा­ह्य­म­गो­त्र­म­व­र्णम्’(मु. उ. १ । १ । ६) इत्यादि । तथैव अन्यत्रापि विशे­ष­नि­रा­क­र­ण­द्वा­रेण अक्षरं परं ब्रह्म श्राव्यते । तत्र च क्वचित् केचित् अतिरिक्ता विशेषाः प्रतिषिध्यन्ते । तासां विशे­ष­प्र­ति­षे­ध­बु­द्धीनां किं सर्वासां सर्वत्र प्राप्तिः, उत व्यवस्थेति संशये, श्रुतिविभागात् व्यव­स्था­प्राप्तौ, उच्यते — अक्षरविषयास्तु विशे­ष­प्र­ति­षे­ध­बु­द्धयः सर्वाः सर्व­त्रा­व­रो­द्धव्याः, सामा­न्य­त­द्भा­वा­भ्याम् — समानो हि सर्वत्र विशे­ष­नि­रा­क­र­ण­रूपो ब्रह्म­प्र­ति­पा­द­न­प्र­कारः । तदेव च सर्वत्र प्रतिपाद्यं ब्रह्म अभिन्नं प्रत्यभिज्ञायते । तत्र किमिति अन्यत्र कृता बुद्धयः अन्यत्र न स्युः । तथा च ‘आनन्दादयः प्रधानस्य’(ब्र. सू. ३ । ३ । ११) इत्यत्र व्याख्यातम् । तत्र विधिरूपाणि विशेषणानि चिन्तितानि, इह प्रति­षे­ध­रू­पा­णीति विशेषः । प्रप­ञ्चा­र्थ­श्चायं चिन्ताभेदः । औपसदवदिति निदर्शनम् । यथा जामदग्न्येऽहीने पुरो­डा­शि­नी­षू­प­सत्सु चोदितासु , पुरो­डा­श­प्र­दा­न­म­न्त्रा­णाम् ‘अग्ने वेर्होत्रं वेरध्वरम्’ इत्येवमादीनाम् उद्गा­तृ­वे­दो­त्प­न्ना­ना­मपि अध्व­र्यु­भि­र­भि­स­म्बन्धो भवति, अध्व­र्यु­क­र्तृ­क­त्वा­त्पु­रो­डा­श­प्र­दा­नस्य, प्रधा­न­त­न्त्र­त्वा­च्चा­ङ्गा­नाम् — एवमिहापि अक्ष­र­त­न्त्र­त्वात् तद्विशेषणानां यत्र क्वचि­द­प्यु­त्प­न्ना­नाम् अक्षरेण सर्व­त्रा­भि­स­म्बन्ध इत्यर्थः । तदुक्तं प्रथमे काण्डे — ‘गुण­मु­ख्य­व्य­ति­क्रमे तद­र्थ­त्वा­न्मु­ख्येन वेदसंयोगः’(जै. सू. ३ । ३ । ९) इत्यत्र ॥ ३३ ॥

इयदामननात् ॥ ३४ ॥

३४

‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्व­त्त्य­न­श्न­न्नन्यो अभिचाकशीति’(मु. उ. ३ । १ । १) — इत्य­ध्या­त्मा­धि­कारे मन्त्र­मा­थ­र्व­णिकाः श्वेताश्वतराश्च पठन्ति । तथा कठाः — ‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्ध्ये । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः’(क. उ. १ । ३ । १) इति । किमत्र विद्यैकत्वम् , उत विद्या­ना­ना­त्व­मिति संशयः । किं तावत्प्राप्तम् ? विद्या­ना­ना­त्व­मिति । कुतः ? विशेषदर्शनात् — ‘द्वा सुपर्णा’ इत्यत्र हि एकस्य भोक्तृत्वं दृश्यते, एकस्य च अभोक्तृत्वं दृश्यते । ‘ऋतं पिबन्तौ’ इत्यत्र उभयोरपि भोक्तृत्वमेव दृश्यते । तत् वेद्यरूपं भिद्यमानं विद्यां भिन्द्या­दि­त्येवं प्राप्ते ब्रवीति —

विद्यैकत्वमिति । कुतः ? यतः उभ­यो­र­प्य­न­यो­र्म­न्त्रयोः इय­त्ता­प­रि­च्छिन्नं द्वित्वोपेतं वेद्यं रूपम् अभिन्नम् आमनन्ति । ननु दर्शितो रूपभेदः — नेत्युच्यते; उभावप्येतौ मन्त्रौ जीव­द्वि­ती­य­मी­श्वरं प्रतिपादयतः, नार्थान्तरम् । ‘द्वा सुपर्णा’ इत्यत्र तावत् — ‘अनश्नन्नन्यो अभिचाकशीति’ इत्य­श­ना­या­द्य­तीतः परमात्मा प्रतिपाद्यते । वाक्यशेषेऽपि च स एव प्रतिपाद्यमानो दृश्यते ‘जुष्टं यदा पश्य­त्य­न्य­मी­श­मस्य महिमानम्’(श्वे. उ. ४ । ७) इति । ‘ऋतं पिबन्तौ’ इत्यत्र तु जीवे पिबति, अशनायाद्यतीतः परमात्मापि साहचर्यात् छत्रिन्यायेन पिब­ती­त्यु­प­च­र्यते । परमात्मप्रकरणं हि एतत् — ‘अन्यत्र धर्मा­द­न्य­त्रा­ध­र्मात्’(क. उ. १ । २ । १४) इत्युपक्रमात् । तद्विषय एव च अत्रापि वाक्यशेषो भवति — ‘यः सेतु­री­जा­ना­ना­म­क्षरं ब्रह्म यत्परम्’(क. उ. १ । ३ । २) इति । ‘गुहां प्रवि­ष्टा­वा­त्मानौ हि’(ब्र. सू. १ । २ । ११) इत्यत्र च एतत्प्रपञ्चितम् । तस्मान्नास्ति वेद्यभेदः । तस्माच्च विद्यैकत्वम् । अपि च त्रिष्वप्येतेषु वेदान्तेषु पौर्वा­प­र्या­लो­चने परमात्मविद्यैव अवगम्यते । तादा­त्म्य­वि­व­क्ष­यैव जीवोपादानम् , नार्था­न्त­र­वि­व­क्षया । न च पर­मा­त्म­वि­द्यायां भेदा­भे­द­वि­चा­रा­व­ता­रोऽ­स्ती­त्यु­क्तम् । तस्मा­त्प्र­प­ञ्चार्थ एव एष योगः । तस्मा­च्चा­धि­क­ध­र्मो­प­सं­हार इति ॥ ३४ ॥

अन्तरा भूत­ग्रा­म­व­त्स्वा­त्मनः ॥ ३५ ॥

३५

‘यत्सा­क्षा­द­प­रो­क्षा­द्ब्रह्म य आत्मा सर्वान्तरः’(बृ. उ. ३ । ४ । १) इत्येवं द्विः उष­स्त­क­हो­ल­प्र­श्नयोः नैरन्तर्येण वाजसनेयिनः समामनन्ति । तत्र संशयः — विद्यैकत्वं वा स्यात् , विद्यानानात्वं वेति । विद्या­ना­ना­त्व­मिति तावत्प्राप्तम् , अभ्या­स­सा­म­र्थ्यात् । अन्यथा हि अन्यू­ना­न­ति­रि­क्तार्थे द्विराम्नानम् अनर्थकमेव स्यात् । तस्मात् यथा अभ्या­सा­त्क­र्म­भेदः, एव­म­भ्या­सा­द्वि­द्या­भेद इत्येवं प्राप्ते, प्रत्याह — अन्तरा आम्नानाविशेषात् स्वात्मनः विद्यैकत्वमिति । सर्वान्तरो हि स्वात्मा उभ­य­त्रा­प्य­वि­शिष्टः पृच्छ्यते च, प्रत्युच्यते च । न हि द्वावात्मानौ एकस्मिन्देहे सर्वान्तरौ सम्भवतः । तदा हि एकस्य आञ्जसं सर्वा­न्त­र­त्व­म­व­क­ल्पेत, एकस्य तु भूतग्रामवत् नैव सर्वान्तरत्वं स्यात् । यथा च पञ्चभूतसमूहे देहे — पृथिव्या आपोऽन्तराः, अद्भ्य­स्ते­जोऽ­न्त­र­मिति — सत्य­प्या­पे­क्षि­केऽ­न्त­रत्वे, नैव मुख्यं सर्वान्तरत्वं भवति, तथेहापीत्यर्थः । अथवा भूतग्रामवदिति श्रुत्यन्तरं निदर्शयति । यथा — ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्व­भू­ता­न्त­रात्मा’(श्वे. उ. ६ । ११) इत्य­स्मि­न्मन्त्रे समस्तेषु भूतग्रामेष्वेक एव सर्वान्तर आत्मा आम्नायते — एवमनयोरपि ब्राह्म­ण­यो­रि­त्यर्थः । तस्मात् वेद्यैक्यात् विद्यैकत्वमिति ॥ ३५ ॥

अन्यथा भेदा­नु­प­प­त्ति­रिति चेन्नो­प­दे­शा­न्त­र­वत् ॥ ३६ ॥

३६

अथ यदुक्तम् — अनभ्युपगम्यमाने विद्याभेदे आम्ना­न­भे­दा­नु­प­प­त्ति­रिति, तत्प­रि­ह­र्त­व्यम्; अत्रोच्यते — नायं दोषः । उप­दे­शा­न्त­र­व­दु­प­पत्तेः । यथा ताण्डि­ना­मु­प­नि­षदि षष्ठे प्रपाठके — ‘स आत्मा तत्त्वमसि श्वेतकेतो’(छा. उ. ६ । ८ । ७) इति नव­कृ­त्वोऽ­प्यु­प­देशे न विद्याभेदो भवति, एवमिहापि भविष्यति । कथं च नव­कृ­त्वोऽ­प्यु­प­देशे विद्याभेदो न भवति ? उप­क्र­मो­प­सं­हा­रा­भ्या­मे­का­र्थ­ता­व­ग­मात् — ‘भूय एव मा भग­वा­न्वि­ज्ञा­प­यतु’(छा. उ. ६ । ५ । ४) इति च एकस्यैवार्थस्य पुनः पुनः प्रति­पि­पा­द­यि­षि­त­त्वेन उपक्षेपात् आश­ङ्का­न्त­र­नि­रा­क­र­णेन च अस­कृ­दु­प­दे­शो­प­पत्तेः । एवमिहापि प्रश्न­रू­पा­भे­दात् , ‘अतोऽ­न्य­दा­र्तम्’(बृ. उ. ३ । ४ । २) इति च परि­स­मा­प्त्य­वि­शे­षात् उपक्रमोपसंहारौ तावदेकार्थविषयौ दृश्येते । ‘यदेव साक्षा­द­प­रो­क्षा­द्ब्रह्म’(बृ. उ. ३ । ५ । १) इति द्वितीये प्रश्ने एवकारं प्रयुञ्जानः पूर्व­प्र­श्न­ग­त­मे­वा­र्थम् उत्त­र­त्रा­नु­कृ­ष्य­माणं दर्शयति । पूर्वस्मिंश्च ब्राह्मणे कार्य­क­र­ण­व्य­ति­रि­क्तस्य आत्मनः सद्भावः कथ्यते । उत्तरस्मिंस्तु तस्यैव अश­ना­या­दि­सं­सा­र­ध­र्मा­ती­तत्वं कथ्यते — इत्ये­का­र्थ­तो­प­पत्तिः । तस्मात् एका विद्येति ॥ ३६ ॥

व्यतिहारो विशिंषन्ति हीतरवत् ॥ ३७ ॥

३७

यथा — ‘तद्योऽहं सोऽसौ योऽसौ सोऽहम्’(ऐ॰आ॰ २-२-४-६) इत्या­दि­त्य­पु­रुषं प्रकृ­त्यै­त­रे­यिणः समामनन्ति, तथा जाबालाः — ‘त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि’ इति । तत्र संशयः — किमिह व्यतिहारेण उभयरूपा मतिः कर्तव्या, उत एकरूपैवेति । एकरूपैवेति तावदाह । न हि अत्र आत्मन ईश्वरेणैकत्वं मुक्त्वा अन्य­त्कि­ञ्चि­च्चि­न्त­यि­त­व्य­मस्ति । यदि चैवं चिन्तयितव्यो विशेषः परिकल्प्येत, संसारिणश्च ईश्वरात्मत्वम् , ईश्वरस्य संसा­र्या­त्म­त्व­मिति — तत्र संसा­रि­ण­स्ता­व­दी­श्व­रा­त्मत्वे उत्कर्षो भवेत् । ईश्वरस्य तु संसार्यात्मत्वे निकर्षः कृतः स्यात् । तस्मात् ऐकरूप्यमेव मतेः । व्यति­हा­रा­म्ना­यस्तु एक­त्व­दृ­ढी­का­रार्थ इत्येवं प्राप्ते, प्रत्याह — व्यतिहारोऽयम् आध्या­ना­या­म्ना­यते । इतरवत् — यथा इतरे गुणाः सर्वा­त्म­त्व­प्र­भृ­तयः आध्यानाय आम्नायन्ते, तद्वत् । तथा हि विशिंषन्ति समाम्नातारः उभयोच्चारणेन — ‘त्वमहमस्म्यहं च त्वमसि’ इति । तच्च उभयरूपायां मतौ कर्तव्यायाम् अर्थवद्भवति । अन्यथा हि इदं विशे­षे­णो­भ­या­म्ना­नम् अनर्थकं स्यात् , एकेनैव कृतत्वात् । ननु उभयाम्नानस्य अर्थविशेषे परिकल्प्यमाने देवतायाः संसा­र्या­त्म­त्वा­पत्तेः निकर्षः प्रस­ज्ये­ते­त्यु­क्तम् — नैष दोषः; ऐकात्म्यस्यैव अनेन प्रका­रे­णा­नु­चि­न्त्य­मा­न­त्वात् । ननु एवं सति स एव एकत्वदृढीकार आपद्येत — न वय­मे­क­त्व­दृ­ढी­कारं वारयामः — किं तर्हि ? — व्यतिहारेण इह द्विरूपा मतिः कर्तव्या वचनप्रामाण्यात् , नैक­रू­पे­त्ये­ता­वत् उपपादयामः । फलतस्तु एकत्वमपि दृढीभवति । यथा आध्यानार्थेऽपि सत्य­का­मा­दि­गु­णो­प­देशे तद्गुण ईश्वरः प्रसिध्यति, तद्वत् । तस्मा­द­य­मा­ध्या­तव्यो व्यतिहारः समाने च विषये उपसंहर्तव्यो भवतीति ॥ ३७ ॥

सैव हि सत्यादयः ॥ ३८ ॥

३८

‘स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्म’(बृ. उ. ५ । ४ । १) इत्यादिना वाजसनेयके सत्यविद्यां सना­मा­क्ष­रो­पा­सनां विधाय, अनन्तरमाम्नायते — ‘तद्य­त्त­त्स­त्य­मसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षि­णेऽ­क्ष­न्पु­रुषः’(बृ. उ. ५ । ५ । २) इत्यादि । तत्र संशयः — किं द्वे एते सत्यविद्ये, किं वा एकैवेति । द्वे इति तावत्प्राप्तम् । भेदेन हि फलसंयोगो भवति — ‘जय­ती­माँ­ल्लो­कान्’(बृ. उ. ५ । ४ । १) इति पुरस्तात् , ‘हन्ति पाप्मानं जहाति च’(बृ. उ. ५ । ५ । ४) इत्युपरिष्टात् । प्रकृताकर्षणं तु उपा­स्यै­क­त्वा­दि­त्येवं प्राप्ते ब्रूमः —

एकैवेयं सत्यविद्येति । कुतः ? ‘तद्य­त्त­त्स­त्यम्’(बृ. उ. ५ । ५ । २) इति प्रकृताकर्षणात् । ननु विद्याभेदेऽपि प्रकृताकर्षणम् उपा­स्यै­क­त्वा­दु­प­प­द्यत इत्युक्तम् — नैतदेवम्; यत्र हि विस्पष्टात् कारणान्तरात् विद्याभेदः प्रतीयते, तत्र एतदेवं स्यात् । अत्र तु उभयथा सम्भवे ‘तद्य­त्त­त्स­त्यम्’ इति प्रकृताकर्षणात् पूर्व­वि­द्या­स­म्ब­द्ध­मेव सत्यम् उत्तरत्र आकृष्यत इति एक­वि­द्या­त्व­नि­श्चयः । यत्पुनरुक्तम् — फला­न्त­र­श्र­व­णा­द्वि­द्या­न्त­र­मिति, अत्रोच्यते — ‘तस्योपनिषदहः … अहम्’ इति च अङ्गा­न्त­रो­प­दे­शस्य स्तावकमिदं फला­न्त­र­श्र­व­ण­मि­त्य­दोषः । अपि च अर्थवादादेव फले कल्पयितव्ये, सति विद्यैकत्वे च अवयवेषु श्रूयमाणानि बहून्यपि फलानि अवयविन्यामेव विद्यायाम् उपसंहर्तव्यानि भवन्ति । तस्मात्सैवेयम् एका सत्यविद्या तेन तेन विशेषेणोपेता आम्नाता — इत्यतः सर्व एव सत्यादयो गुणा एक­स्मि­न्ने­व­प्र­योगे उपसंहर्तव्याः ॥

केचि­त्पु­न­र­स्मि­न्सूत्रे इदं वाज­स­ने­य­क­म­क्ष्या­दि­त्य­पु­रु­ष­वि­षयं वाक्यम् , छान्दोग्ये च ‘अथ य एषोऽन्तरादित्ये हिरण्यमः पुरुषो दृश्यते’(छा. उ. १ । ६ । ६) अथ‘य एषोऽक्षिणि पुरुषो दृश्यते’(छा. उ. ४ । १५ । १) इति — उदाहृत्य, सैवेयम् अक्ष्या­दि­त्य­पु­रु­ष­वि­षया विद्या उभयत्र एकैवेति कृत्वा, सत्यादीन्गुणान् वाज­स­ने­यि­भ्य­श्छ­न्दो­गा­ना­मु­प­सं­हा­र्यान् मन्यन्ते । तन्न साधु लक्ष्यते । छान्दोग्ये हि ज्योति­ष्टो­म­क­र्म­स­म्ब­न्धिनी इयं उद्गी­थ­व्य­पा­श्रया विद्या विज्ञायते । तत्र हि आदिमध्यावसानेषु कर्म­स­म्ब­न्धि­चि­ह्नानि भवन्ति — ‘इयमेवर्गग्निः साम’(छा. उ. १ । ६ । १) इत्युपक्रमे, ‘तस्यर्क्च साम च गेष्णौ तस्मादुद्गीथः’(छा. उ. १ । ६ । ८) इति मध्ये, ‘य एवं विद्वान्साम गायति’(छा. उ. १ । ७ । ९) इत्युपसंहारे । नैवं वाजसनेयके किञ्चित् कर्मसम्बन्धि चिह्नम् अस्ति । तत्र प्रक्रमभेदात् विद्याभेदे सति गुणव्यवस्थैव युक्तेति ॥ ३८ ॥

कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥

३९

‘अथ यदि­द­म­स्मि­न्ब्र­ह्म­पुरे दहरं पुण्डरीकं वेश्म दह­रोऽ­स्मि­न्न­न्त­रा­काशः’(छा. उ. ८ । १ । १) इति प्रस्तुत्य, छन्दोगा अधीयते — ‘एष आत्माऽपहतपाप्मा विजरो विमृ­त्यु­र्वि­शोको विजि­घ­त्सोऽ­पि­पासः सत्यकामः सत्यसङ्कल्पः’(छा. उ. ८ । १ । ५) इत्यादि । तथा वाजसनेयिनः — ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आका­श­स्त­स्मि­ञ्शेते सर्वस्य वशी’(बृ. उ. ४ । ४ । २२) इत्यादि । तत्र विद्यैकत्वं पर­स्प­र­गु­ण­यो­गश्च, किं वा नेति संश­यः­वि­द्यै­क­त्व­मिति । तत्रेदमुच्यते — कामादीति, सत्य­का­मा­दी­त्यर्थः — यथा देवदत्तो दत्तः, सत्यभामा भामेति । यदेतत् छान्दोग्ये हृदयाकाशस्य सत्य­का­म­त्वा­दि­गु­ण­जा­त­मु­प­ल­भ्यते, तदितरत्र वाजसनेयके ‘स वा एष महानज आत्मा’ इत्यत्र सम्बध्येत । यच्च वाजसनेयके वशित्वादि उपलभ्यते, तदपि इतरत्र छान्दोग्ये ‘एष आत्माऽ­प­ह­त­पाप्मा’(छा. उ. ८ । १ । ५) इत्यत्र सम्बध्येत । कुतः ? आय­त­ना­दि­सा­मा­न्यात् । समानं हि उभयत्रापि हृदयमायतनम् , समानश्च वेद्य ईश्वरः, समानं च तस्य सेतुत्वं लोका­स­म्भे­द­प्र­यो­ज­नम् — इत्येवमादि बहु सामान्यं दृश्यते । ननु विशेषोऽपि दृश्यते — छान्दोग्ये हृदयाकाशस्य गुणयोगः, वाजसनेयके तु आकाशाश्रयस्य ब्रह्मण इति — न, ‘दहर उत्तरेभ्यः’(ब्र. सू. १ । ३ । १४) इत्यत्र च्छान्दोग्येऽपि आकाशशब्दं ब्रह्मैवेति प्रति­ष्ठा­पि­त­त्वात् । अयं तु अत्र विद्यते विशेषः — सगुणा हि ब्रह्मविद्या छान्दोग्ये उपदिश्यते — ‘अथ य इहा­त्मा­न­म­नु­विद्य व्रज­न्त्येताꣳश्च सत्यान्कामान्’(छा. उ. ८ । १ । ६) इत्यात्मवत् कामानामपि वेद्य­त्व­श्र­व­णात् , वाजसनेयके तु निर्गुणमेव परम्ब्रह्म उपदिश्यमानं दृश्यते — ‘अत ऊर्ध्वं विमोक्षाय ब्रूहि’(बृ. उ. ४ । ३ । १४) ‘असङ्गो ह्ययं पुरुषः’(बृ. उ. ४ । ३ । १५) इत्या­दि­प्र­श्न­प्र­ति­व­च­न­स­म­न्व­यात् । वशित्वादि तु तत्स्तु­त्य­र्थ­मेव गुणजातं वाजसनेयके सङ्कीर्त्यते । तथा च उपरिष्टात् ‘स एष नेति नेत्यात्मा’(बृ. उ. ३ । ९ । २६) इत्यादिना निर्गुणमेव ब्रह्म उपसंहरति । गुणवतस्तु ब्रह्मण एकत्वात् विभू­ति­प्र­द­र्श­नाय अयं गुणोपसंहारः सूत्रितः, नोपासनाय — इति द्रष्टव्यम् ॥ ३९ ॥

आदरादलोपः ॥ ४० ॥

४०

छान्दोग्ये वैश्वानरविद्यां प्रकृत्य श्रूयते — ‘तद्यद्भक्तं प्रथ­म­मा­ग­च्छे­त्त­द्धो­मीयꣳ स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहा’(छा. उ. ५ । १९ । १) इत्यादि । तत्र पञ्च प्राणाहुतयो विहिताः । तासु च पर­स्ता­द­ग्नि­हो­त्र­शब्दः प्रयुक्तः ‘य एतदेवं विद्वा­न­ग्नि­होत्रं जुहोति’(छा. उ. ५ । २४ । २) इति, ‘यथेह क्षुधिता बाला मातरं पर्युपासते एवꣳ सर्वाणि भूता­न्य­ग्नि­हो­त्र­मु­पा­सते’(छा. उ. ५ । २४ । ५) इति च । तत्रेदं विचार्यते — किं भोजनलोपे लोपः प्राणा­ग्नि­हो­त्रस्य, उत अलोप इति । ‘तद्यद्भक्तम्’ इति भक्ता­ग­म­न­सं­यो­ग­श्र­व­णात् , भक्तागमनस्य च भोजनार्थत्वात् , भोजनलोपे लोपः प्राणा­ग्नि­हो­त्र­स्ये­त्येवं प्राप्ते, न लुप्येतेति तावदाह । कस्मात् ? आदरात् । तथा हि वैश्वा­न­र­वि­द्या­या­मेव जाबालानां श्रुतिः — ‘पूर्वोऽ­ति­थि­भ्योऽ­श्नी­यात् । यथा ह वै स्वय­म­हु­त्वा­ग्नि­होत्रं परस्य जुहुयादेवं तत्’ इति अतिथिभोजनस्य प्राथम्यं निन्दित्वा, स्वामिभोजनं प्रथमं प्रापयन्ती प्राणा­ग्नि­होत्रे आदरं करोति । या हि न प्राथम्यलोपं सहते, नतरां सा प्राथ­म्य­व­तोऽ­ग्नि­हो­त्रस्य लोपं सहेतेति मन्यते । ननु भोज­ना­र्थ­भ­क्ता­ग­म­न­सं­यो­गा­द्भो­ज­न­लोपे लोपः प्रापितः — न, तस्य द्रव्य­वि­शे­ष­वि­धा­ना­र्थ­त्वात् । प्राकृते हि अग्निहोत्रे पयःप्रभृतीनां द्रव्याणां नियतत्वात् इहापि अग्नि­हो­त्र­श­ब्दात् कौण्ड­पा­यि­ना­म­य­न­वत् तद्धर्मप्राप्तौ सत्याम् , भक्त­द्र­व्य­क­ता­गु­ण­वि­शे­ष­वि­धा­ना­र्थम् इदं वाक्यम् ‘तद्यद्भक्तम्’ इति । अतो गुणलोपे न मुख्यस्येत्येवं प्राप्तम् । भोजनलोपेऽपि अद्भिर्वा अन्येन वा द्रव्ये­णा­वि­रु­द्धेन प्रति­नि­धि­न्या­येन प्राणा­ग्नि­हो­त्र­स्या­नु­ष्ठा­न­मिति ॥ ४० ॥

अत उत्तरं पठति —

उप­स्थि­तेऽ­त­स्त­द्व­च­नात् ॥ ४१ ॥

४१

उपस्थिते भोजने अतः तस्मादेव भोजनद्रव्यात् प्रथ­मो­प­नि­प­ति­तात् प्राणा­ग्नि­होत्रं निर्व­र्त­यि­त­व्यम् । कस्मात् ? तद्वचनात् । तथा हि — ‘तद्यद्भक्तं प्रथ­म­मा­ग­च्छे­त्त­द्धो­मी­यम्’(छा. उ. ५ । १९ । १) इति सिद्ध­व­द्भ­क्तो­प­नि­पा­त­प­रा­म­र्शेन परा­र्थ­द्र­व्य­सा­ध्यतां प्राणाहुतीनां विदधाति । ताः अप्र­यो­ज­क­ल­क्ष­णा­पन्नाः सत्यः, कथं भोजनलोपे द्रव्यान्तरं प्रतिनिधापयेयुः । न च अत्र प्राकृ­ता­ग्नि­हो­त्र­ध­र्म­प्रा­प्ति­रस्ति । कुण्डपायिनामयने हि ‘मासमग्निहोत्रं जुहोति’ इति विध्यु­द्दे­श­ग­तोऽ­ग्नि­हो­त्र­शब्दः तद्वद्भावं विधापयेदिति युक्ता तद्ध­र्म­प्राप्तिः । इह पुनः अर्थ­वा­द­ग­तोऽ­ग्नि­हो­त्र­शब्दः न तद्वद्भावं विधापयितुमर्हति । तद्धर्मप्राप्तौ च अभ्यु­प­ग­म्य­मा­ना­याम् , अग्न्यु­द्ध­र­णा­द­योऽपि प्राप्येरन् । न च अस्ति सम्भवः । अग्न्युद्धरणं तावत् होमाधिकरणभावाय । न च अयम् अग्नौ होमः, भोज­ना­र्थ­ता­व्या­घा­त­प्र­स­ङ्गात् । भोज­नो­प­नी­त­द्र­व्य­स­म्ब­न्धाच्च आस्य एव एष होमः । तथा च जाबालश्रुतिः ‘पूर्वोऽ­ति­थि­भ्योऽ­श्नी­यात्’ इति आस्याधारामेव इमां होमनिर्वृत्तिं दर्शयति । अत एव च इहापि साम्पा­दि­का­न्ये­वा­ग्नि­हो­त्रा­ङ्गानि दर्शयति — ‘उर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽ­न्वा­हा­र्य­प­चन आस्यमाहवनीयः’(छा. उ. ५ । १८ । २) इति । वेदि­श्रु­ति­श्चात्र स्थण्डि­ल­मा­त्रो­प­ल­क्ष­णार्था द्रष्टव्या, मुख्या­ग्नि­होत्रे वेद्यभावात् , तदङ्गानां च इह सम्पि­पा­द­यि­षि­त­त्वात् । भोजनेनैव च कृतकालेन संयोगात् न अग्नि­हो­त्र­का­ला­व­रो­ध­स­म्भवः । एवमन्येऽपि उपस्थानादयो धर्माः केचित्कथञ्चित् विरुध्यन्ते । तस्माद्भोजनपक्ष एव एते मन्त्र­द्र­व्य­दे­व­ता­सं­यो­गात् पञ्च होमा निर्व­र्त­यि­तव्याः । यत्तु आदरदर्शनवचनम् , तत् भोजनपक्षे प्राथ­म्य­वि­धा­ना­र्थम् । न ह्यस्ति वचनस्य अतिभारः । न तु अनेन अस्य नित्यता शक्यते दर्शयितुम् । तस्मात् भोजनलोपे लोप एव प्राणा­ग्नि­हो­त्र­स्येति ॥ ४१ ॥

तन्नि­र्धा­र­णा­नि­य­म­स्त­द्दृष्टेः पृथ­ग्घ्य­प्र­ति­बन्धः फलम् ॥ ४२ ॥

४२

सन्ति कर्मा­ङ्ग­व्य­पा­श्र­याणि विज्ञानानि — ‘ओमि­त्ये­त­द­क्ष­र­मु­द्गी­थ­मु­पा­सीत’(छा. उ. १ । १ । १) इत्येवमादीनि । किं तानि नित्यान्येव स्युः कर्मसु , पर्ण­म­यी­त्वा­दि­वत्; उत अनित्यानि, गोदोहनादिवदिति विचारयामः । किं तावत्प्राप्तम् ? नित्यानीति । कुतः ? प्रयो­ग­व­च­न­प­रि­ग्र­हात् — अना­र­भ्या­धी­ता­न्यपि हि एतानि उद्गी­था­दि­द्वा­रेण क्रतुसम्बन्धात् क्रतु­प्र­यो­ग­व­च­ने­नैव अङ्गान्तरवत् संस्पृश्यन्ते । यत्तु एषां स्ववाक्येषु फलश्रवणम् — ‘आपयिता ह वै कामानां भवति’(छा. उ. १ । १ । ७) इत्यादि, तद्व­र्त­मा­ना­प­दे­श­रू­प­त्वा­द­र्थ­वा­द­मा­त्र­मेव, अपा­प­श्लो­क­श्र­व­णा­दि­वत् , न फलप्रधानम् । तस्मात् यथा ‘यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति’ इत्येवमादीनाम् अप्र­क­र­ण­प­ठि­ता­ना­मपि जुह्वादिद्वारेण क्रतुप्रवेशात् प्रकरणपठितवत् नित्यता, एव­मु­द्गी­था­द्यु­पा­स­ना­ना­म­पी­त्येवं प्राप्ते ब्रूमः —

तन्नि­र्धा­र­णा­नि­यम इति । यान्येतानि उद्गी­था­दि­क­र्म­गु­ण­या­था­त्म्य­नि­र्धा­र­णानि — रसतमः, आप्तिः, समृद्धिः, मुख्यप्राणः, आदित्यः — इत्येवमादीनि, नैतानि नित्यवत् कर्मसु नियम्येरन् । कुतः ? तद्दृष्टेः । तथा हि अनि­य­त­त्व­मे­वं­जा­ती­य­कानां दर्शयति श्रुतिः — ‘तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद’(छा. उ. १ । १ । १०) इत्यविदुषोऽपि क्रिया­भ्य­नु­ज्ञा­नात् । प्रस्ता­वा­दि­दे­व­ता­वि­ज्ञा­न­वि­ही­ना­ना­मपि प्रस्तो­त्रा­दीनां याज­ना­ध्य­व­सा­न­द­र्श­नात् — ‘प्रस्तोतर्या देवता प्रस्ता­व­म­न्वा­यत्ता तां चेद­वि­द्वा­न्प्र­स्तो­ष्यसि’(छा. उ. १ । १० । ९) ‘तां चेद­वि­द्वा­नु­द्गा­स्यसि’(छा. उ. १ । १० । १०) ‘तां चेद­वि­द्वा­न्प्र­ति­ह­रि­ष्यसि’(छा. उ. १ । १० । ११) इति च । अपि च एवंजातीयकस्य कर्मा­ङ्ग­व्य­पा­श्र­यस्य विज्ञानस्य पृथगेव कर्मणः फलम् उपलभ्यते — कर्म­फ­ल­सि­द्ध्य­प्र­ति­बन्धः तत्समृद्धिः अतिशयविशेषः कश्चित् — ‘तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद । नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’(छा. उ. १ । १ । १०) इति । तत्र ‘नाना तु’ इति विद्व­द­वि­द्व­त्प्र­यो­गयोः पृथक्करणात् , ‘वीर्यवत्तरम्’ इति च तर­प्प्र­त्य­य­प्र­यो­गात् विद्याविहीनमपि कर्म वीर्यवदिति गम्यते । तच्च अनित्यत्वे विद्याया उपपद्यते । नित्यत्वे तु कथं तद्विहीनं कर्म वीर्य­व­दि­त्य­नु­ज्ञा­येत । सर्वा­ङ्गो­प­सं­हारे हि वीर्यवत्कर्मेति स्थितिः । तथा लोकसामादिषु प्रतिनियतानि प्रत्युपासनं फलानि शिष्यन्ते — ‘कल्पन्ते हास्मै लोका ऊर्ध्वा­श्चा­वृ­त्ताश्च’(छा. उ. २ । २ । ३) इत्येवमादीनि । न चेदं फलश्रवणम् अर्थवादमात्रं युक्तं प्रतिपत्तुम् । तथा हि गुणवाद आपद्येत । फलोपदेशे तु मुख्य­वा­दो­प­पत्तिः । प्रयाजादिषु तु इति­क­र्त­व्य­ता­का­ङ्क्षस्य क्रतोः प्रकृतत्वात् तादर्थ्ये सति युक्तं फल­श्रु­ते­र­र्थ­वा­द­त्वम् । तथा अना­र­भ्या­धी­ते­ष्वपि पर्णमयीत्वादिषु — न हि पर्ण­म­यी­त्वा­दी­ना­म­क्रि­या­त्म­का­नाम् आश्रयमन्तरेण फल­स­म्ब­न्धोऽ­व­क­ल्पते । गोदोहनादीनां हि प्रकृ­ता­प्प्र­ण­य­ना­द्या­श्र­य­ला­भा­दु­प­पन्नः फलविधिः । तथा बैल्वादीनामपि प्रकृ­त­यू­पा­द्या­श्र­य­ला­भा­दु­प­पन्नः फलविधिः । न तु पर्णमयीत्वादिषु एवंविधः कश्चिदाश्रयः प्रकृतोऽस्ति; वाक्येनैव तु जुह्वा­द्या­श्र­यतां विवक्षित्वा फलेऽपि विधिं विवक्षतो वाक्यभेदः स्यात् । उपासनानां तु क्रिया­त्म­क­त्वात् विशि­ष्ट­वि­धा­नो­प­पत्तेः उद्गी­था­द्या­श्र­याणां फले विधानं न विरुध्यते । तस्मात् यथा क्रत्वा­श्र­या­ण्यपि गोदोहनादीनि फल­सं­यो­गा­द­नि­त्यानि, एव­मु­द्गी­था­द्यु­पा­स­ना­न्यपि इति द्रष्टव्यम् । अत एव च कल्पसूत्रकारा नैवं­जा­ती­य­का­न्यु­पा­स­नानि क्रतुषु कल्पयांचक्रुः ॥ ४२ ॥

प्रदानवदेव तदुक्तम् ॥ ४३ ॥

४३

वाजसनेयके ‘वदि­ष्या­म्ये­वा­ह­मिति वाग्दध्रे’(बृ. उ. १ । ५ । २१) इत्यत्र अध्यात्मं वागादीनां प्राणः श्रेष्ठोऽ­व­धा­रितः, अधि­दै­व­त­म­ग्न्या­दीनां वायुः । तथा छान्दोग्ये ‘वायुर्वाव संवर्गः’(छा. उ. ४ । ३ । १) इत्यत्र अधिदैवतम् अग्न्यादीनां वायुः संव­र्गोऽ­व­धा­रितः, ‘प्राणो वाव संवर्गः’(छा. उ. ४ । ३ । ३) इत्यत्र अध्यात्मं वागादीनां प्राणः । तत्र संशयः — किं पृथगेवेमौ वायु­प्रा­णा­वु­प­ग­न्तव्यौ स्याताम् , अपृथग्वेति । अपृथगेवेति तावत्प्राप्तम् , तत्त्वाभेदात् । न हि अभिन्ने तत्त्वे पृथगनुचिन्तनं न्याय्यम् । दर्शयति च श्रुतिः अध्या­त्म­म­धि­दै­वतं च तत्त्वाभेदम् — ‘अग्नि­र्वा­ग्भूत्वा मुखं प्राविशत्’(ऐ. उ. १ । २ । ४) इत्यारभ्य; तथा ‘त एते सर्व एव समाः सर्वेऽनन्ताः’(बृ. उ. १ । ५ । १३) इति आध्यात्मिकानां प्राणानाम् आधिदैविकीं विभू­ति­मा­त्म­भूतां दर्शयति । तथा अन्यत्रापि तत्र तत्र अध्या­त्म­म­धि­दै­वतं च बहुधा तत्त्वा­भे­द­द­र्शनं भवति । क्वचिच्च ‘यः प्राणः स वायुः’ इति स्पष्टमेव वायुं प्राणं च एकं करोति । तथा उदाहृतेऽपि वाज­स­ने­यि­ब्रा­ह्मणे ‘यतश्चोदेति सूर्यः’(बृ. उ. १ । ५ । २३) इत्यस्मिन् उपसंहारश्लोके, ‘प्राणाद्वा एष उदेति प्राणेऽस्तमेति’(बृ. उ. १ । ५ । २३) इति प्राणेनैव उपसंहरन् एकत्वं दर्शयति । ‘तस्मादेकमेव व्रतं चरे­त्प्रा­ण्या­च्चै­वा­पा­न्याच्च’(बृ. उ. १ । ५ । २३) इति च प्राणव्रतेन एकेनोपसंहरन् एतदेव द्रढयति । तथा छान्दोग्येऽपि परस्तात् ‘महात्मनश्चतुरो देव एकः कः स जगार भुवनस्य गोपाः’(छा. उ. ४ । ३ । ६) इत्येकमेव संवर्गं गमयति; न ब्रवीति — एक एकेषां चतुर्णां संवर्गः, अपरोऽपरेषामिति । तस्मा­द­पृ­थ­क्त्व­मु­प­ग­म­न­स्ये­त्येवं प्राप्ते ब्रूमः —

पृथगेव वायु­प्रा­णा­वु­प­ग­न्त­व्या­विति । कस्मात् ? पृथगुपदेशात् । आध्यानार्थो हि अयम् अध्या­त्मा­धि­दै­व­वि­भा­गो­प­देशः । सः अस­त्या­ध्या­न­पृ­थक्त्वे अनर्थक एव स्यात् । ननु उक्तम् , न पृथगनुचिन्तनं तत्त्वाभेदादिति — नैष दोषः । तत्त्वा­भे­देऽ­प्य­व­स्था­भे­दात् उपदेशभेदवशेन अनु­चि­न्त­न­भे­दो­प­पत्तेः, श्लोकोपन्यासस्य च तत्त्वा­भे­दा­भि­प्रा­ये­णापि उपपद्यमानस्य पूर्वो­दि­त­ध्ये­य­भे­द­नि­रा­क­र­ण­सा­म­र्थ्या­भा­वात् , ‘स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुः’(बृ. उ. १ । ५ । २२) इति च उप­मा­नो­प­मे­य­क­र­णात् । एतेन व्रतोपदेशो व्याख्यातः । ‘एकमेव व्रतम्’(बृ. उ. १ । ५ । २३) इति च एवकारः वागा­दि­व्र­त­नि­व­र्त­नेन प्राण­व्र­त­प्र­ति­प­त्त्यर्थः । भग्नव्रतानि हि वागा­दी­न्यु­क्तानि, ‘तानि मृत्युः श्रमो भूत्वोपयेमे’(बृ. उ. १ । ५ । २१) इति श्रुतेः । न वायु­व्र­त­नि­वृ­त्त्यर्थः, ‘अथातो व्रतमीमाꣳसा’(बृ. उ. १ । ५ । २१) इति प्रस्तुत्य तुल्यवत् वायु­प्रा­ण­यो­र­भ­ग्न­व्र­त­त्वस्य निर्धारितत्वात् । ‘एकमेव व्रतं चरेत्’(बृ. उ. १ । ५ । २३) इति च उक्त्वा, ‘तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति’(बृ. उ. १ । ५ । २३) इति वायुप्राप्तिं फलं ब्रुवन् वायु­व्र­त­म­नि­व­र्तितं दर्शयति । देवता ह्यत्र वायुः स्यात् , अप­रि­च्छि­न्ना­त्म­क­त्वस्य प्रेप्सितत्वात् , पुर­स्ता­त्प्र­यो­गाच्च — ‘सैषाऽनस्तमिता देवता यद्वायुः’(बृ. उ. १ । ५ । २२) इति । तथा ‘तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु’(छा. उ. ४ । ३ । ४) इति भेदेन व्यपदिशति । ‘ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्’(बृ. उ. ४ । ३ । ८) इति च भेदेनैव उपसंहरति । तस्मात्पृथगेव उपगमनम् । प्रदानवत् — यथा ‘इन्द्राय राज्ञे पुरो­डा­श­मे­का­द­श­क­पा­ल­मि­न्द्रा­या­धि­रा­जा­ये­न्द्राय स्वराज्ञे’ इत्यस्यां त्रिपु­रो­डा­शि­न्या­मिष्टौ, ‘सर्वे­षा­म­भि­ग­म­य­न्न­व­द्य­त्य­छ­म्ब­ट्का­रम्’ इत्यतो वचनात् , इन्द्राभेदाच्च, सह प्रदा­ना­श­ङ्का­याम् — राजादिगुणभेदात् याज्या­नु­वा­क्या­व्य­त्या­स­वि­धा­नाच्च यथान्यासमेव देव­ता­पृ­थ­क्त्वा­त्प्र­दा­न­पृ­थक्त्वं भवति । एवं तत्त्वाभेदेऽपि आध्ये­यां­श­पृ­थ­क्त्वात् आध्या­न­पृ­थ­क्त्व­मि­त्यर्थः । तदुक्तं सङ्कर्षे — ‘नाना वा देवता पृथग्ज्ञानात्’ इति । तत्र तु द्रव्य­दे­व­ता­भे­दात् यागभेदो विद्यते । नैवमिह विद्या­भे­दोऽस्ति, उप­क्र­मो­प­सं­हा­रा­भ्याम् अध्या­त्मा­धि­दै­वो­प­दे­शेषु एक­वि­द्या­वि­धा­न­प्र­तीतेः । विद्यैक्येऽपि तु अध्या­त्मा­धि­दै­व­भे­दात् प्रवृत्तिभेदो भवति — अग्निहोत्र इव सायं­प्रा­तः­का­ल­भे­दात् — इत्ये­ता­व­द­भि­प्रेत्य प्रदा­न­व­दि­त्यु­क्तम् ॥ ४३ ॥

लिङ्ग­भू­य­स्त्वा­त्तद्धि बलीयस्तदपि ॥ ४४ ॥

४४

वाज­स­ने­यि­नोऽ­ग्नि­र­हस्ये ‘नैव वा इदमग्रे सदासीत्’ इत्ये­त­स्मि­न्ब्रा­ह्मणे मनोऽधिकृत्य अधीयते — ‘तत्ष­ट्‍त्रिं­श­त्स­ह­स्रा­ण्य­प­श्य­दा­त्म­नोऽ­ग्नी­न­र्का­न्म­नो­म­या­न्म­न­श्चितः’ इत्यादि । तथैव ‘वाक्चितः प्राण­चि­त­श्च­क्षु­श्चितः श्रोत्रचितः कर्म­चि­तोऽ­ग्नि­चितः’ इति पृथगग्नीन् आमनन्ति साम्पादिकान् । तेषु संशयः — किमेते मनश्चिदादयः क्रिया­नु­प्र­वे­शिनः तच्छेषभूताः, उत स्वतन्त्राः केवलविद्यात्मका इति । तत्र प्रकरणात् क्रियानुप्रवेशे प्राप्ते, स्वातन्त्र्यं ताव­त्प्र­ति­जा­नीते — लिङ्ग­भू­य­स्त्वा­दिति । भूयांसि हि लिङ्गानि अस्मि­न्ब्रा­ह्मणे केव­ल­वि­द्या­त्म­क­त्व­मे­षा­मु­पो­द्ब­ल­यन्ति दृश्यन्ते — ‘तद्य­त्कि­ञ्चे­मानि भूतानि मनसा सङ्कल्पयन्ति तेषामेव सा कृतिः’ इति, ‘तान्है­ता­ने­वं­विदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते’ इति च एवंजातीयकानि । तद्धि लिङ्गं प्रकरणाद्बलीयः । तदप्युक्तं पूर्व­स्मि­न्काण्डे — ‘श्रुति­लि­ङ्ग­वा­क्य­प्र­क­र­ण­स्था­न­स­मा­ख्यानां समवाये पार­दौ­र्ब­ल्य­म­र्थ­वि­प्र­क­र्षात्’(जै. सू. ३ । ३ । १४) इति ॥ ४४ ॥

पूर्वविकल्पः प्रक­र­णा­त्स्या­त्क्रिया मानसवत् ॥ ४५ ॥

४५

नैतद्युक्तम् — स्वतन्त्रा एतेऽग्नयः अनन्यशेषभूता इति । पूर्वस्य क्रियामयस्य अग्नेः प्रकरणात् तद्विषय एव अयं विक­ल्प­वि­शे­षो­प­देशः स्यात् , न स्वतन्त्रः । ननु प्रकरणाल्लिङ्गं बलीयः — सत्यमेवमेतत् । लिङ्गमपि तु एवंजातीयकं न प्रकरणाद्बलीयो भवति । अन्यार्थदर्शनं हि एतत् , साम्पा­दि­का­ग्नि­प्र­शं­सा­रू­प­त्वात् । अन्यार्थदर्शनं च असत्यामन्यस्यां प्राप्तौ गुण­वा­दे­ना­प्यु­प­प­द्य­मानं न प्रकरणं बाधितुमुत्सहते । तस्मात् साम्पादिका अप्येतेऽग्नयः प्रक­र­णा­त्क्रि­या­नु­प्र­वे­शिन एव स्युः । मानसवत् — यथा दशरात्रस्य दशमेऽहनि अविवाक्ये पृथिव्या पात्रेण समुद्रस्य सोमस्य प्रजापतये देवतायै गृह्यमाणस्य ग्रह­णा­सा­द­न­ह­व­ना­ह­र­णो­प­ह्वा­न­भ­क्ष­णानि मानसान्येव आम्नायन्ते, स च मानसोऽपि ग्रहकल्पः क्रियाप्रकरणात् क्रियाशेष एव भवति — एवमयमप्यग्नि कल्प इत्यर्थः ॥ ४५ ॥

अतिदेशाच्च ॥ ४६ ॥

४६

अतिदेशश्च एषामग्नीनां क्रिया­नु­प्र­वे­श­मु­पो­द्ब­ल­यति — ‘षट्‍त्रिं­श­त्स­ह­स्रा­ण्य­ग्न­योऽ­र्का­स्ते­षा­मे­कैक एव तावान्यावानसौ पूर्वः’ इति । सति हि सामान्ये अतिदेशः प्रवर्तते । ततश्च पूर्वेण इष्टकाचितेन क्रिया­नु­प्र­वे­शिना अग्निना साम्पा­दि­का­न­ग्नी­न­ति­दि­शन् क्रिया­नु­प्र­वे­श­मेव एषां द्योतयति ॥ ४६ ॥

विद्यैव तु निर्धारणात् ॥ ४७ ॥

४७

तुशब्दः पक्षं व्यावर्तयति । विद्यात्मका एव एते स्वतन्त्रा मन­श्चि­दा­द­योऽ­ग्नयः स्युः, न क्रियाशेषभूताः । तथा हि निर्धारयति — ‘ते हैते विद्याचित एव’ इति, ‘विद्यया हैवैत एवंविदश्चिता भवन्ति’ इति च ॥ ४७ ॥

दर्शनाच्च ॥ ४८ ॥

४८

दृश्यते च एतेषां स्वातन्त्र्ये लिङ्गम् । तत्पु­र­स्ता­द्द­र्शि­तम् — ‘लिङ्ग­भू­य­स्त्वात्’(ब्र. सू. ३ । ३ । ४४) इत्यत्र ॥ ४८ ॥

ननु लिङ्गमपि असत्यामन्यस्यां प्राप्तौ असाधकं कस्य­चि­द­र्थ­स्येति, अपास्य तत् , प्रक­र­ण­सा­म­र्थ्यात् क्रिया­शे­ष­त्व­म­ध्य­व­सि­तम् — इत्यत उत्तरं पठति —

श्रुत्या­दि­ब­ली­य­स्त्वाच्च न बाधः ॥ ४९ ॥

४९

नैवं प्रक­र­ण­सा­म­र्थ्या­त्क्रि­या­शे­ष­त्व­म­ध्य­व­साय स्वात­न्त्र्य­पक्षो बाधितव्यः, श्रुत्या­दे­र्ब­ली­य­स्त्वात् । बलीयांसि हि प्रकरणात् श्रुति­लि­ङ्ग­वा­क्या­नीति स्थितं श्रुति­लि­ङ्ग­सूत्रे । तानि च इह स्वात­न्त्र्य­पक्षं साधयन्ति दृश्यन्ते । कथम् ? श्रुतिस्तावत् — ‘ते हैते विद्याचित एव’ इति । तथा लिङ्गम् — ‘सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते’ इति । तथा वाक्यमपि — ‘विद्यया हैवैत एवंविदश्चिता भवन्ति’ इति । ‘विद्याचित एव’ इति हि सावधारणा इयं श्रुतिः क्रिया­नु­प्र­वे­शेऽ­मी­षा­म­भ्यु­प­ग­म्य­माने पीडिता स्यात् । ननु अबा­ह्य­सा­ध­न­त्वा­भि­प्रा­य­मि­द­म­व­धा­रणं भविष्यति — नेत्युच्यते; तदभिप्रायतायां हि ‘विद्याचितः’ इति इयता स्वरू­प­स­ङ्की­र्त­ने­नैव कृतत्वात् , अनर्थकमवधारणं भवेत् — स्वरूपमेव हि एषाम् अबा­ह्य­सा­ध­न­त्व­मिति । अबा­ह्य­सा­ध­न­त्वेऽपि तु मानसग्रहवत् क्रिया­नु­प्र­वे­श­श­ङ्कायां तन्निवृत्तिफलम् अवधारणम् अर्थवद्भविष्यति । तथा ‘स्वपते जाग्रते चैवंविदे सर्वदा सर्वाणि भूता­न्ये­ता­न­ग्नीं­श्चि­न्वन्ति’ इति सातत्यदर्शनम् एषां स्वात­न्त्र्येऽ­व­क­ल्पते — यथा साम्पादिके वाक्प्रा­ण­म­येऽ­ग्नि­होत्रे ‘प्राणं तदा वाचि जुहोति … वाचं तदा प्राणे जुहोति’(कौ. उ. २ । ५) इति च उक्त्वा उच्यते — ‘एते अनन्ते अमृते आहुती जाग्रच्च स्वपंश्च सततं जुहोति’ इति — तद्वत् । क्रियानुप्रवेशे तु क्रियाप्रयोगस्य अल्पकालत्वेन न सातत्येन एषां प्रयोगः कल्पेत । न च इद­म­र्थ­वा­द­मा­त्र­मिति न्याय्यम् । यत्र हि विस्पष्टो विधायको लिङादिः उपलभ्यते, युक्तं तत्र सङ्की­र्त­न­मा­त्र­स्या­र्थ­वा­द­त्वम् । इह तु विस्प­ष्ट­वि­ध्य­न्त­रा­नु­प­लब्धेः सङ्कीर्तनादेव एषां विज्ञानविधानं कल्पनीयम् । तच्च यथासङ्कीर्तनमेव कल्पयितुं शक्यत इति, सातत्यदर्शनात् तथाभूतमेव कल्प्यते । ततश्च सामर्थ्यादेषां स्वात­न्त्र्य­सिद्धिः । एतेन ‘तद्य­त्कि­ञ्चे­मानि भूतानि मनसा सङ्कल्पयन्ति तेषामेव सा कृतिः’(श॰ब्रा॰ १०-५-३-३) इत्यादि व्याख्यातम् । तथा वाक्यमपि ‘एवंविदे’ इति पुरु­ष­वि­शे­ष­स­म्ब­न्ध­मेव एषामाचक्षाणं न क्रतुसम्बन्धं मृष्यते । तस्मात् स्वात­न्त्र्य­पक्ष एव ज्यायानिति ॥ ४९ ॥

अनुबन्धादिभ्यः प्रज्ञा­न्त­र­पृ­थ­क्त्व­व­द्दृ­ष्टश्च तदुक्तम् ॥ ५० ॥

५०

इतश्च प्रकरणमुपमृद्य स्वातन्त्र्यं मनश्चिदादीनां प्रतिपत्तव्यम् , यत् क्रियावयवान् मन­आ­दि­व्या­पा­रे­ष्व­नु­ब­ध्नाति — ‘ते मनसैवाधीयन्त मनसाचीयन्त मनसैव ग्रहा अगृह्यन्त मन­सा­स्तु­व­न्म­न­सा­शं­स­न्य­त्किञ्च यज्ञे कर्म क्रियते यत्किञ्च यज्ञियं कर्म मनसैव तेषु तन्मनोमयेषु मनश्चित्सु मनोमयमेव क्रियते’(श॰ब्रा॰ १०-५-३-३) इत्यादिना । सम्पत्फलो हि अयमनुबन्धः । न च प्रत्यक्षाः क्रियावयवाः सन्तः सम्पदा लिप्सितव्याः । न च अत्र उद्गी­था­द्यु­पा­स­न­वत् क्रिया­ङ्ग­स­म्ब­न्धात् तद­नु­प्र­वे­शि­त्व­मा­श­ङ्कि­त­व्यम् , श्रुति­वै­रू­प्यात् । न हि अत्र क्रियाङ्गं किञ्चिदादाय तस्मिन् अदो नामा­ध्य­व­सि­त­व्य­मिति वदति । षट्‍त्रिं­श­त्स­ह­स्राणि तु मनोवृत्तिभेदान् आदाय तेष्वग्नित्वं ग्रहादींश्च कल्पयति, पुरुषयज्ञादिवत् । संख्या च इयं पुरु­षा­यु­ष­स्या­हःसु दृष्टा सती तत्सम्बन्धिनीषु मनो­वृ­त्ति­ष्वा­रो­प्यत इति द्रष्टव्यम् । एव­म­नु­ब­न्धा­त्स्वा­तन्त्र्यं मनश्चिदादीनाम् । आदिशब्दात् अतिदेशाद्यपि यथासम्भवं योजयितव्यम् । तथा हि — ‘तेषामेकैक एव तावान्यावानसौ पूर्वः’(श॰ब्रा॰ १०-५-३-३) इति क्रिया­म­य­स्या­ग्ने­र्मा­हात्म्यं ज्ञान­म­या­ना­मे­कै­कस्य अतिदिशन् क्रियायामनादरं दर्शयति । न च सत्येव क्रियासम्बन्धे विकल्पः पूर्वे­णो­त्त­रे­षा­मिति शक्यं वक्तुम् । न हि, येन व्यापारेण आहवनीयधारणादिना पूर्वः क्रिया­या­मु­प­क­रोति, तेन उत्तरे उपकर्तुं शक्नुवन्ति । यत्तु पूर्व­प­क्षेऽ­प्य­ति­देश उपोद्बलक इत्युक्तम् — सति हि सामान्येऽतिदेशः प्रवर्तत इति, तत् अस्म­त्प­क्षेऽ­प्य­ग्नि­त्व­सा­मा­न्ये­ना­ति­दे­श­स­म्भ­वा­त्प्र­त्यु­क्तम् — अस्ति हि साम्पा­दि­का­ना­म­प्य­ग्नी­ना­म­ग्नि­त्व­मिति । श्रुत्यादीनि च कारणानि दर्शितानि । एव­म­नु­ब­न्धा­दिभ्यः कारणेभ्यः स्वातन्त्र्यं मनश्चिदादीनाम् । प्रज्ञा­न्त­र­पृ­थ­क्त्व­वत् — यथा प्रज्ञान्तराणि शाण्डि­ल्य­वि­द्या­प्र­भृ­तीनि स्वेन स्वेन अनुबन्धेन अनुबध्यमानानि पृथगेव कर्मभ्यः प्रज्ञा­न्त­रे­भ्यश्च स्वतन्त्राणि भवन्ति, एवमिति । दृष्टश्च अवेष्टेः राज­सू­य­प्र­क­र­ण­प­ठि­तायाः प्रक­र­णा­दु­त्कर्षः — वर्ण­त्र­या­नु­ब­न्धात् । राजयज्ञत्वाच्च राजसूयस्य । तदुक्तं प्रथमे काण्डे — ‘क्रत्व­र्था­या­मिति चेन्न वर्ण­त्र­य­सं­यो­गात्’(जै. सू. ११ । ४ । ९) इति ॥ ५० ॥

न सामा­न्या­द­प्यु­प­ल­ब्धे­र्मृ­त्यु­वन्न हि लोकापत्तिः ॥ ५१ ॥

५१

यदुक्तं मानसवदिति, तत्प्रत्युच्यते । न मान­स­ग्र­ह­सा­मा­न्या­दपि मनश्चिदादीनां क्रियाशेषत्वं कल्प्यम् , पूर्वोक्तेभ्यः श्रुत्या­दि­हे­तुभ्यः केव­ल­पु­रु­षा­र्थ­त्वो­प­लब्धेः । न हि किञ्चित् कस्यचित् केनचित् सामान्यं न सम्भवति । न च तावता यथास्वं वैषम्यं निवर्तते; मृत्युवत् — यथा ‘स वा एष एव मृत्युर्य एष एतस्मिन्मण्डले पुरुषः’ इति, ‘अग्निर्वै मृत्युः’(बृ. उ. ३ । २ । १०) इति च अग्न्या­दि­त्य­पु­रु­षयोः समानेऽपि मृत्यु­श­ब्द­प्र­योगे, न अत्य­न्त­सा­म्या­पत्तिः । यथा च ‘असौ वाव लोको गौत­मा­ग्नि­स्त­स्या­दित्य एव समित्’(छा. उ. ५ । ४ । १) इत्यत्र न समि­दा­दि­सा­मा­न्यात् लोक­स्या­ग्नि­भा­वा­पत्तिः — तद्वत् ॥ ५१ ॥

परेण च शब्दस्य ताद्विध्यं भूय­स्त्वा­त्त्व­नु­बन्धः ॥ ५२ ॥

५२

परस्तादपि ‘अयं वाव लोक एषोऽग्निश्चितः’ इत्यस्मिन् अनन्तरे ब्राह्मणे, ताद्विध्यं केव­ल­वि­द्या­वि­धि­त्वम् शब्दस्य प्रयोजनं लक्ष्यते, न शुद्ध­क­र्मा­ङ्ग­वि­धि­त्वम्; तत्र हि — ‘विद्यया तदारोहन्ति यत्र कामाः परागताः । न तत्र दक्षिणा यन्ति नावि­द्वां­स­स्त­प­स्विनः’(श॰ब्रा॰ १०-५-४-१६) इत्यनेन श्लोकेन केवलं कर्म निन्दन् विद्यां च प्रशंसन् इदं गमयति । तथा पुरस्तादपि ‘यदेतन्मण्डलं तपति’ इत्य­स्मि­न्ब्रा­ह्मणे विद्या­प्र­धा­न­त्व­मेव लक्ष्यते — ‘सोऽमृतो भवति मृत्यु­र्ह्य­स्यात्मा भवति’ इति विद्याफलेनैव उपसंहारात् न कर्मप्रधानता । तत्सामान्यात् इहापि तथात्वम् । भूयांसस्तु अग्न्यवयवाः सम्पादयितव्या विद्यायाम् — इत्ये­त­स्मा­त्का­र­णात् अग्निना अनुबध्यते विद्या, न कर्माङ्गत्वात् । तस्मात् मनश्चिदादीनां केव­ल­वि­द्या­त्म­क­त्व­सिद्धिः ॥ ५२ ॥

एक आत्मनः शरीरे भावात् ॥ ५३ ॥

५३

इह देह­व्य­ति­रि­क्तस्य आत्मनः सद्भावः समर्थ्यते, बन्ध­मो­क्षा­धि­का­र­सि­द्धये । न हि असति देहव्यतिरिक्त आत्मनि परलोकफलाश्चोदना उपपद्येरन् । कस्य वा ब्रह्मा­त्म­त्व­मु­प­दि­श्येत । ननु शास्त्रप्रमुख एव प्रथमे पादे शास्त्र­फ­लो­प­भो­ग­यो­ग्यस्य देह­व्य­ति­रि­क्तस्य आत्म­नोऽ­स्ति­त्व­मु­क्तम् — सत्यमुक्तं भाष्यकृता । न तु तत्रा­त्मा­स्तित्वे सूत्रमस्ति । इह तु स्वयमेव सूत्रकृता तद­स्ति­त्व­मा­क्षे­प­पु­रः­सरं प्रतिष्ठापितम् । इत एव च आकृष्य आचार्येण शबरस्वामिना प्रमाणलक्षणे वर्णितम् । अत एव च भगवता उपवर्षेण प्रथमे तन्त्रे आत्मा­स्ति­त्वा­भि­धा­न­प्र­सक्तौ शारीरके वक्ष्याम इत्युद्धारः कृतः । इह च इदं चोदनालक्षणेषु उपासनेषु विचार्यमाणेषु आत्मास्तित्वं विचार्यते, कृत्स्न­शा­स्त्र­शे­ष­त्व­प्र­द­र्श­नाय । अपि च पूर्व­स्मि­न्न­धि­क­रणे प्रक­र­णो­त्क­र्षा­भ्यु­प­ग­मेन मनश्चिदादीनां पुरुषार्थत्वं वर्णितम् । कोऽसौ पुरुषः, यदर्था एते मनश्चिदादयः — इत्यस्यां प्रसक्तौ इदं देह­व्य­ति­रि­क्तस्य आत्म­नोऽ­स्ति­त्व­मु­च्यते । तद­स्ति­त्वा­क्षे­पार्थं चेदमादिमं सूत्रम् — आक्षेपपूर्विका हि परिहारोक्तिः विवक्षितेऽर्थे स्थूणा­नि­ख­न­न­न्या­येन दृढां बुद्धि­मु­त्पा­द­ये­दिति ॥

अत्र एके देह­मा­त्रा­त्म­द­र्शिनो लोकायतिकाः देह­व्य­ति­रि­क्तस्य आत्मनोऽभावं मन्यमानाः, समस्तव्यस्तेषु बाह्येषु पृथि­व्या­दि­ष्व­दृ­ष्ट­मपि चैतन्यं शरी­रा­का­र­प­रि­ण­तेषु भूतेषु स्यादिति — सम्भा­व­य­न्त­स्ते­भ्य­श्चै­त­न्यम् , मदशक्तिवत् विज्ञानम् चैतन्यविशिष्टः कायः पुरुषः — इति च आहुः । न स्वर्गगमनाय अपवर्गगमनाय वा समर्थो देहव्यतिरिक्त आत्मा अस्ति, यत्कृतं चैतन्यं देहे स्यात् । देह एव तु चेतनश्च आत्मा च इति प्रतिजानते । हेतुं च आचक्षते — शरीरे भावादिति । यद्धि यस्मिन्सति भवति, असति च न भवति, तत् तद्ध­र्म­त्वे­ना­ध्य­व­सी­यते — यथा अग्नि­ध­र्मा­वौ­ष्ण्य­प्र­काशौ । प्राण­चे­ष्टा­चै­त­न्य­स्मृ­त्या­द­यश्च आत्म­ध­र्म­त्वे­ना­भि­मता आत्मवादिनाम् — तेऽपि अन्तरेव देहे उपलभ्यमानाः बहिश्च अनुपलभ्यमानाः असिद्धे देहव्यतिरिक्ते धर्मिणि देहधर्मा एव भवितुमर्हन्ति । तस्मादव्यतिरेको देहादात्मन इति ॥ ५३ ॥

एवं प्राप्ते, ब्रूमः —

व्यति­रे­क­स्त­द्भा­वा­भा­वि­त्वान्न तूपलब्धिवत् ॥ ५४ ॥

५४

न त्वेतदस्ति — यदु­क्त­म­व्य­ति­रेको देहादात्मन इति । व्यतिरेक एव अस्य देहा­द्भ­वि­तु­म­र्हति । तद्भा­वा­भा­वि­त्वात् । यदि देहभावे भावात् देहधर्मत्वम् आत्मधर्माणां मन्येत — ततो देहभावेऽपि अभावात् अतद्धर्मत्वमेव एषां किं न मन्येत ? देह­ध­र्म­वै­ल­क्ष­ण्यात् । ये हि देहधर्मा रूपादयः, ते यावद्देहं भवन्ति । प्राण­चे­ष्टा­द­यस्तु सत्यपि देहे मृतावस्थायां न भवन्ति । देहधर्माश्च रूपादयः परै­र­प्यु­प­ल­भ्यन्ते, न त्वात्म­ध­र्मा­श्चै­त­न्य­स्मृ­त्या­दयः । अपि च सति तावत् देहे जीवदवस्थायाम् एषां भावः शक्यते निश्चेतुम् , न तु असत्यभावः । पतितेऽपि कदा­चि­द­स्मि­न्देहे देहा­न्त­र­स­ञ्चा­रेण आत्मधर्मा अनुवर्तेरन् । संशयमात्रेणापि परपक्षः प्रतिषिध्यते । किमात्मकं च पुनरिदं चैतन्यं मन्यते, यस्य भूतेभ्य उत्पत्तिमिच्छति — इति परः पर्यनुयोक्तव्यः । न हि भूत­च­तु­ष्ट­य­व्य­ति­रे­केण लोकायतिकः किञ्चित् तत्त्वं प्रत्येति । यत् अनुभवनं भूतभौतिकानाम् , तत् चैतन्यमिति चेत् , तर्हि विष­य­त्वा­त्ते­षाम् न तद्ध­र्म­त्व­म­श्नु­वीत, स्वात्मनि क्रियाविरोधात् । न हि अग्निरुष्णः सन् स्वात्मानं दहति, न हि नटः शिक्षितः सन् स्वस्क­न्ध­म­धि­रो­क्ष्यति । न हि भूतभौतिकधर्मेण सता चैतन्येन भूतभौतिकानि विषयीक्रियेरन् । न हि रूपादिभिः स्वरूपं पररूपं वा विषयीक्रियते । विषयीक्रियन्ते तु बाह्या­ध्या­त्मि­कानि भूतभौतिकानि चैतन्येन । अतश्च यथैव अस्या भूतभौतिकविषयाया उप­ल­ब्धे­र्भा­वोऽ­भ्यु­प­ग­म्यते, एवं व्यतिरेकोऽपि अस्यास्तेभ्यः अभ्युपगन्तव्यः । उपलब्धिस्वरूप एव च न आत्मेति आत्मनो देह­व्य­ति­रि­क्त­त्वम् । नित्यत्वं च उपलब्धेः, ऐकरूप्यात् , ‘अहम् इदम् अद्राक्षम्’ इति च अव­स्था­न्त­र­यो­गेऽ­प्यु­प­ल­ब्धृ­त्वेन प्रत्य­भि­ज्ञा­नात् , स्मृत्या­द्यु­प­प­त्तेश्च । यत्तूक्तम् — शरीरे भावाच्छरीरधर्म उपलब्धिरिति, तत् वर्णितेन प्रकारेण प्रत्युक्तम् । अपि च सत्सु प्रदीपादिषु उपकरणेषु उपलब्धिर्भवति असत्सु न भवति — न च एतावता प्रदीपादिधर्म एव उपलब्धिर्भवति । एवं सति देहे उपलब्धिर्भवति, असति च न भवतीति — न देहधर्मो भवितुमर्हति । उप­क­र­ण­त्व­मा­त्रे­णापि प्रदीपादिवत् देहो­प­यो­गो­प­पत्तेः । न च अत्यन्तं देहस्य उप­ल­ब्धा­वु­प­यो­गोऽपि दृश्यते, निश्चे­ष्टेऽ­प्य­स्मि­न्देहे स्वप्ने नाना­वि­धो­प­ल­ब्धि­द­र्श­नात् । तस्मादनवद्यं देह­व्य­ति­रि­क्तस्य आत्म­नोऽ­स्ति­त्वम् ॥ ५४ ॥

अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ५५ ॥

५५

समाप्ता प्रासङ्गिकी कथा; सम्प्रति प्रकृ­ता­मे­वा­नु­व­र्ता­महे । ‘ओमि­त्ये­त­द­क्ष­र­मु­द्गी­थ­मु­पा­सीत’(छा. उ. १ । १ । १) ‘लोकेषु पञ्चविधꣳ सामोपासीत’(छा. उ. २ । २ । १)उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थम् इयमेव पृथिवी’ ‘अयं वाव लोकः’ ‘एषोऽ­ग्नि­श्चि­तः’(श॰ब्रा॰ १०-१-२-२) इत्येवमाद्या ये उद्गी­था­दि­क­र्मा­ङ्गा­व­बद्धाः प्रत्ययाः प्रतिवेदं शाखाभेदेषु विहिताः, ते तत्त­च्छा­खा­ग­ते­ष्वेव उद्गीथादिषु भवेयुः, अथवा सर्वशाखागतेषु — इति विशयः । प्रतिशाखं च स्वरादिभेदात् उद्गी­था­दि­भे­दा­नु­पा­दाय अयमुपन्यासः । किं तावत्प्राप्तम् ? स्वशाखागतेष्वेव उद्गीथादिषु विधीयेरन्निति । कुतः ? सन्निधानात् — ‘उद्गीथमुपासीत’(छा. उ. १ । १ । १) इति हि सामा­न्य­वि­हि­तानां विशे­षा­का­ङ्क्षायां सन्निकृष्टेनैव स्वशाखागतेन विशेषेण आका­ङ्क्षा­नि­वृत्तेः, तदतिलङ्घनेन शाखा­न्त­र­वि­हि­त­वि­शे­षो­पा­दाने कारणं नास्ति । तस्मा­त्प्र­ति­शाखं व्यवस्थेत्येवं प्राप्ते, ब्रवीति — अङ्गा­व­ब­द्धा­स्त्विति । तुशब्दः पक्षं व्यावर्तयति । नैते प्रतिवेदं स्वशाखास्वेव व्यवतिष्ठेरन् , अपि तु सर्व­शा­खा­स्व­नु­व­र्ते­रन् । कुतः ? उद्गी­था­दि­श्रु­त्य­वि­शे­षात् । स्वशा­खा­व्य­व­स्थायां हि ‘उद्गीथमुपासीत’ इति सामा­न्य­श्रु­ति­र­वि­शे­ष­प्र­वृत्ता सती सन्निधानवशेन विशेषे व्यवस्थाप्यमाना पीडिता स्यात् । न चैतन्न्याय्यम् । सन्निधानाद्धि श्रुतिर्बलीयसी । न च सामान्याश्रयः प्रत्ययो नोपपद्यते । तस्मात् स्वरादिभेदे सत्यपि उद्गी­थ­त्वा­द्य­वि­शे­षात् सर्व­शा­खा­ग­ते­ष्वेव उद्गीथादिषु एवंजातीयकाः प्रत्ययाः स्युः ॥ ५५ ॥

मन्त्रा­दि­व­द्वाऽ­वि­रोधः ॥ ५६ ॥

५६

अथवा नैवात्र विरोधः शङ्कितव्यः — कथमन्यशाखागतेषु उद्गीथादिषु अन्यशाखाविहिताः प्रत्यया भवेयुरिति । मन्त्रादिवत् अविरोधोपपत्तेः । तथा हि — मन्त्राणां कर्मणां गुणानां च शाखा­न्त­रो­त्प­न्ना­ना­मपि शाखान्तरे उपसङ्ग्रहो दृश्यते । येषामपि हि शाखिनाम् ‘कुटरुरसि’ इत्य­श्मा­दा­न­मन्त्रो नाम्नातः, तेषामपि असौ विनियोगो दृश्यते — ‘कुक्कु­टोऽ­सी­त्य­श्मा­न­मा­दत्ते, कुटरुरसीति वा’ इति । येषामपि समिदादयः प्रयाजा नाम्नाताः, तेषामपि तेषु गुण­वि­धि­रा­म्ना­यते — ‘ऋतवो वै प्रयाजाः समानत्र होतव्याः’ इति । तथा येषामपि ‘अजोऽ­ग्नी­षो­मीयः’ इति जातिविशेषोपदेशो नास्ति, तेषामपि तद्विषयो मन्त्रवर्ण उपलभ्यते — ‘छागस्य वपाया मेदसोऽनुब्रूहि’ इति । तथा वेदा­न्त­रो­त्प­न्ना­ना­मपि ‘अग्ने वेर्होत्रं वेरध्वरम्’(ता॰ब्रा॰२१-१०-११) इत्ये­व­मा­दि­म­न्त्राणां वेदान्तरे परिग्रहो दृष्टः; तथा बह्वृचपठितस्य सूक्तस्य ‘यो जात एव प्रथमो मनस्वान्’(ऋ. सं. २ । १२ । १) इत्यस्य, अध्वर्यवे ‘सजनीयꣳ शस्यम्’ इत्यत्र परिग्रहो दृष्टः । तस्मात् यथा आश्रयाणां कर्माङ्गानां सर्व­त्रा­नु­वृत्तिः, एवम् आश्रितानामपि प्रत्ययानाम् — इत्यविरोधः ॥ ५६ ॥

भूम्नः क्रतु­व­ज्ज्या­यस्त्वं तथा हि दर्शयति ॥ ५७ ॥

५७

‘प्राचीनशाल औपमन्यवः’(छा. उ. ५ । ११ । १) इत्य­स्या­मा­ख्या­यि­कायां व्यस्तस्य समस्तस्य च वैश्वानरस्य उपासनं श्रूयते । व्यस्तोपासनं तावत् — ‘औपमन्यव कं त्वमा­त्मा­न­मु­पास्स इति दिवमेव भगवो राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमा­त्मा­न­मु­पास्से’(छा. उ. ५ । १२ । १) इत्यादि । तथा समस्तोपासनमपि — ‘तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुते­जा­श्च­क्षु­र्वि­श्व­रूपः प्राणः पृथ­ग्व­र्त्मात्मा सन्देहो बहुलो बस्तिरेव रयिः पृथिव्येव पादौ’(छा. उ. ५ । १८ । २) इत्यादि । तत्र संशयः — किमिह उभयथापि उपासनं स्यात् व्यस्तस्य समस्तस्य च, उत समस्तस्यैवेति । किं तावत्प्राप्तम् ? प्रत्यवयवं सुतेजःप्रभृतिषु ‘उपास्से’ इति क्रिया­प­द­श्र­व­णात् , ‘तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते’(छा. उ. ५ । १२ । १) इत्या­दि­फ­ल­भे­द­श्र­व­णाच्च, व्यस्ता­न्य­प्यु­पा­स­नानि स्युः — इति प्राप्तम् ॥

ततोऽभिधीयते — भूम्नः पदा­र्थो­प­च­या­त्म­कस्य समस्तस्य वैश्वा­न­रो­पा­स­नस्य ज्यायस्त्वं प्राधान्यं अस्मिन्वाक्ये विवक्षितं भवितुमर्हति, न प्रत्येकम् अव­य­वो­पा­स­ना­ना­मपि; क्रतुवत् — यथा क्रतुषु दर्श­पू­र्ण­मा­स­प्र­भृ­तिषु सामस्त्येन साङ्ग­प्र­धा­न­प्र­योग एव एको विवक्ष्यते, न व्यस्तानामपि प्रयोगः प्रयाजादीनाम् , नाप्ये­क­दे­शा­ङ्ग­यु­क्तस्य प्रधानस्य — तद्वत् । कुत एतत् — भूमैव ज्यायानिति ? तथा हि श्रुतिः भूम्नो ज्यायस्त्वं दर्शयति, एकवाक्यतावगमात् । एकं हि इदं वाक्यं वैश्वा­न­र­वि­द्या­वि­षयं पौर्वा­प­र्या­लो­च­ना­त्प्र­ती­यते । तथा हि — प्राची­न­शा­ल­प्र­भृ­तय उद्दालकावसानाः षट् ऋषयः वैश्वा­न­र­वि­द्यायां परि­नि­ष्ठा­म­प्र­ति­प­द्य­मानाः अश्वपतिं कैकेयं राजा­न­म­भ्या­जग्मुः — इत्युपक्रम्य, एकैकस्य ऋषेरुपास्यं द्युप्र­भृ­ती­ना­मे­कैकं श्रावयित्वा, ‘मूर्धा त्वेष आत्मन इति होवाच’(छा. उ. ५ । १२ । २) इत्यादिना मूर्धादिभावं तेषां विदधाति । ‘मूर्धा ते व्यप­ति­ष्य­द्यन्मां नागमिष्यः’(छा. उ. ५ । १२ । २) इत्यादिना च व्यस्तो­पा­स­न­म­प­व­दति । पुनश्च व्यस्तोपासनं व्यावर्त्य, सम­स्तो­पा­स­न­मे­वा­नु­वर्त्य, ‘स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वे­ष्वा­त्म­स्व­न्न­मत्ति’(छा. उ. ५ । १८ । १) इति भूमाश्रयमेव फलं दर्शयति । यत्तु प्रत्येकं सुतेजःप्रभृतिषु फलभेदश्रवणम् , तत् एवं सति अङ्गफलानि प्रधान एवाभ्युपगतानि — इति द्रष्टव्यम् । तथा ‘उपास्से’ इत्यपि प्रत्य­व­य­व­मा­ख्या­त­श्र­वणं परा­भि­प्रा­या­नु­वा­दा­र्थम् , न व्यस्तो­पा­स­न­वि­धा­ना­र्थम् । तस्मा­त्स­म­स्तो­पा­स­न­पक्ष एव श्रेयानिति ॥

केचित्तु अत्र समस्तोपासनपक्षं ज्यायांसं प्रतिष्ठाप्य, ज्याय­स्त्व­व­च­ना­देव किल व्यस्तो­पा­स­न­प­क्ष­मपि सूत्र­का­रोऽ­नु­म­न्यत इति कल्पयन्ति । तदयुक्तम् , एकवाक्यतावगतौ सत्यां वाक्य­भे­द­क­ल्प­न­स्या­न्या­य्य­त्वात् , ‘मूर्धा ते व्यपतिष्यत्’(छा. उ. ५ । १२ । २) इति च एव­मा­दि­नि­न्दा­वि­रो­धात् , स्पष्टे च उपसंहारस्थे समस्तोपासनावगमे तदभावस्य पूर्वपक्षे वक्तु­म­श­क्य­त्वात् , सौत्रस्य च ज्याय­स्त्व­व­च­नस्य प्रमा­ण­व­त्त्वा­भि­प्रा­ये­णापि उपपद्यमानत्वात् ॥ ५७ ॥

नाना शब्दादिभेदात् ॥ ५८ ॥

५८

पूर्व­स्मि­न्न­धि­क­रणे सत्यामपि सुते­जः­प्र­भृ­तीनां फलभेदश्रुतौ समस्तोपासनं ज्याय इत्युक्तम् । अतः प्राप्ता बुद्धिः — अन्यान्यपि भिन्न­श्रु­ती­न्यु­पा­स­नानि समस्य उपासिष्यन्ते इति । अपि च नैव वेद्याभेदे विद्याभेदो विज्ञातुं शक्यते । वेद्यं हि रूपं विद्यायाः, द्रव्यदैवतमिव यागस्य । वेद्यश्च एक एव ईश्वरः श्रुति­ना­ना­त्वेऽ­प्य­व­ग­म्यते — ‘मनोमयः प्राणशरीरः’(छा. उ. ३ । १४ । २) ‘कं ब्रह्म खं ब्रह्म’(छा. उ. ४ । १० । ५) ‘सत्यकामः सत्यसङ्कल्पः’(छा. उ. ८ । १ । ५) इत्येवमादिषु — तथा एक एव प्राणः ‘प्राणो वाव संवर्गः’(छा. उ. ४ । ३ । ३) ‘प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च’(छा. उ. ५ । १ । १) ‘प्राणो ह पिता प्राणो माता’(छा. उ. ७ । १५ । १) इत्येवमादिषु । वेद्यैकत्वाच्च विद्यैकत्वम् । श्रुति­ना­ना­त्व­मपि अस्मिन्पक्षे गुणा­न्त­र­प­र­त्वात् न अनर्थकम् । तस्मात् स्वप­र­शा­खा­वि­हि­तम् एक­वे­द्य­व्य­पा­श्रयं गुण­जा­त­मु­प­सं­ह­र्तव्यं विद्या­कात्स्न्याय इत्येवं प्राप्ते प्रतिपाद्यते —

नानेति । वेद्याभेदेऽपि एवंजातीयका विद्या भिन्ना भवितुमर्हति । कुतः ? शब्दादिभेदात् । भवति हि शब्दभेदः — ‘वेद’ ‘उपासीत’ ‘स क्रतुं कुर्वीत’(छा. उ. ३ । १४ । १) इत्येवमादिः । शब्दभेदश्च कर्मभेदहेतुः समधिगतः पुरस्तात् ‘शब्दान्तरे कर्मभेदः कृता­नु­ब­न्ध­त्वात्’ इति । आदिग्रहणात् गुणादयोऽपि यथासम्भवं भेदहेतवो योजयितव्याः । ननु ‘वेद’ इत्यादिषु शब्दभेद एव अवगम्यते, न ‘यजति’ इत्यादिवत् अर्थभेदः, सर्वेषामेवैषां मनो­वृ­त्त्य­र्थ­त्वा­भे­दात् , अर्था­न्त­रा­स­म्भ­वाच्च । तत् कथं शब्द­भे­दा­द्वि­द्या­भेद इति? नैष दोषः, मनो­वृ­त्त्य­र्थ­त्वा­भे­देऽपि अनु­ब­न्ध­भे­दा­द्वे­द्य­भेदे सति विद्या­भे­दो­प­पत्तेः । एकस्यापीश्वरस्य उपास्यस्य प्रतिप्रकरणं व्यावृत्ता गुणाः शिष्यन्ते । तथा एकस्यापि प्राणस्य तत्र तत्र उपास्यस्य अभेदेऽपि अन्या­दृ­ग्गु­णोऽ­न्य­त्रो­पा­सि­तव्यः अन्या­दृ­ग्गु­ण­श्चा­न्यत्र — इत्ये­व­म­नु­ब­न्ध­भे­दा­द्वे­द्य­भेदे सति विद्याभेदो विज्ञायते । न च अत्र एको विद्याविधिः, इतरे गुणविधय इति शक्यं वक्तुम् — विनिगमनायां हेत्वभावात् , अनेकत्वाच्च प्रतिप्रकरणं गुणानां प्राप्त­वि­द्या­नु­वा­देन विधानानुपपत्तेः । न च अस्मिन्पक्षे समानाः सन्तः सत्यकामादयो गुणा अस­कृ­च्छ्रा­व­यि­तव्याः । प्रतिप्रकरणं च — इदं­का­मे­ने­द­मु­पा­सि­त­व्यम् , इदंकामेन च इदम् — इति नैरा­का­ङ्क्ष्या­व­ग­मात् नैक­वा­क्य­ता­पत्तिः । न च अत्र वैश्वा­न­र­वि­द्या­या­मिव समस्तचोदना अपरा अस्ति, यद्बलेन प्रति­प्र­क­र­ण­व­र्ती­न्य­व­य­वो­पा­स­नानि भूत्वा एकवाक्यताम् इयुः । वेद्यै­क­त्व­नि­मित्ते च विद्यैकत्वे सर्वत्र निरङ्कुशे प्रतिज्ञायमाने, सम­स्त­गु­णो­प­सं­हा­रोऽ­शक्यः प्रतिज्ञायेत । तस्मात् सुष्ठु उच्यते — नाना शब्दादिभेदादिति । स्थिते च एत­स्मि­न्न­धि­क­रणे, सर्व­वे­दा­न्त­प्र­त्य­य­मि­त्यादि द्रष्टव्यम् ॥ ५८ ॥

विक­ल्पोऽ­वि­शि­ष्ट­फ­ल­त्वात् ॥ ५९ ॥

५९

स्थिते विद्याभेदे विचार्यते — किमासामिच्छया समुच्चयो विकल्पो वा स्यात् , अथवा विकल्प एव नियमेनेति । तत्र स्थितत्वात् ताव­द्वि­द्या­भे­दस्य न समुच्चयनियमे किञ्चि­त्का­र­ण­मस्ति । ननु भिन्ना­ना­म­प्य­ग्नि­हो­त्र­द­र्श­पू­र्ण­मा­सा­दीनां समुच्चयनियमो दृश्यते — नैष दोषः । नित्य­ता­श्रु­तिर्हि तत्र कारणम् । नैवं विद्यानां काचि­न्नि­त्य­ता­श्रु­ति­रस्ति । तस्मान्न समुच्चयनियमः । नापि विकल्पनियमः, विद्या­न्त­रा­धि­कृ­तस्य विद्या­न्त­रा­प्र­ति­षे­धात् । पारिशेष्यात् याथा­का­म्य­मा­प­द्यते । ननु अवि­शि­ष्ट­फ­ल­त्वा­दासां विकल्पो न्याय्यः । तथा हि — ‘मनोमयः प्राणशरीरः’(छा. उ. ३ । १४ । २) ‘कं ब्रह्म खं ब्रह्म’(छा. उ. ४ । १० । ५) ‘सत्यकामः सत्यसङ्कल्पः’(छा. उ. ८ । १ । ५) इत्येवमाद्याः तुल्यवत् ईश्व­र­प्रा­प्ति­फला लक्ष्यन्ते — नैष दोषः। समानफलेष्वपि स्वर्गा­दि­सा­ध­नेषु कर्मसु याथा­का­म्य­द­र्श­नात् । तस्मात् याथा­का­म्य­प्राप्तौ, उच्यते — विकल्प एव आसां भवितुमर्हति, न समुच्चयः । कस्मात् ? अवि­शि­ष्ट­फ­ल­त्वात् । अविशिष्टं हि आसां फल­मु­पा­स्य­वि­ष­य­सा­क्षा­त्क­र­णम् । एकेन च उपासनेन साक्षात्कृते उपास्ये विषये ईश्वरादौ, द्वितीय मनर्थकम् । अपि च असम्भव एव साक्षात्करणस्य समुच्चयपक्षे, चित्त­वि­क्षे­प­हे­तु­त्वात् । साक्षा­त्क­र­ण­साध्यं च विद्याफलं दर्शयन्ति श्रुतयः — ‘यस्य स्यादद्धा न विचिकित्सास्ति’(छा. उ. ३ । १४ । ४) इति, ‘देवो भूत्वा देवानप्येति’(बृ. उ. ४ । १ । २) इति च एवमाद्याः । स्मृतयश्च — ‘सदा तद्भावभावितः’(भ. गी. ८ । ६) इत्येवमाद्याः । तस्मात् अविशिष्टफलानां विद्या­ना­म­न्य­त­मा­मा­दाय तत्परः स्यात् , याव­दु­पा­स्य­वि­ष­य­सा­क्षा­त्क­र­णेन तत्फ­ल­प्रा­प्ति­रिति ॥ ५९ ॥

काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्व­हे­त्व­भा­वात् ॥ ६० ॥

६०

अवि­शि­ष्ट­फ­ल­त्वा­दि­त्यस्य प्रत्युदाहरणम् । यासु पुनः काम्यासु विद्यासु ‘स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदꣳ रोदिति’(छा. उ. ३ । १५ । २) ‘स यो नाम ब्रह्मे­त्यु­पास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति’(छा. उ. ७ । १ । ५) इति चैवमाद्यासु क्रियावत् अदृष्टेनात्मना आत्मीयं फलं साधयन्तीषु, साक्षा­त्क­र­णा­पेक्षा नास्ति; ता यथाकामं समुच्चीयेरन् , न वा समुच्चीयेरन् — पूर्व­हे­त्व­भा­वात् — पूर्वस्य अवि­शि­ष्ट­फ­ल­त्वा­दि­त्यस्य विकल्पहेतोः अभावात् ॥ ६० ॥

अङ्गेषु यथाश्रयभावः ॥ ६१ ॥

६१

कर्माङ्गेषु उद्गीथादिषु ये आश्रिताः प्रत्यया वेदत्रयविहिताः, किं ते समुच्चीयेरन् , किं वा यथाकामं स्युरिति संशये — यथाश्रयभाव इत्याह । यथैव एषामाश्रयाः स्तोत्रादयः सम्भूय भवन्ति, एवं प्रत्यया अपि, आश्र­य­त­न्त्र­त्वा­त्प्र­त्य­या­नाम् ॥ ६१ ॥

शिष्टेश्च ॥ ६२ ॥

६२

यथा वा आश्रयाः स्तोत्रादयः त्रिषु वेदेषु शिष्यन्ते, एवमाश्रिता अपि प्रत्ययाः — नोपदेशकृतोऽपि कश्चिद्विशेषः अङ्गानां तदाश्रयाणां च प्रत्य­या­ना­मि­त्यर्थः ॥ ६२ ॥

समाहारात् ॥ ६३ ॥

६३

‘होतृ­ष­द­ना­द्धै­वापि दुरु­द्गी­त­म­नु­स­मा­ह­रति’(छा. उ. १ । ५ । ५) इति च — प्रण­वो­द्गी­थै­क­त्व­वि­ज्ञा­न­मा­हा­त्म्यात् उद्गाता स्वक­र्म­ण्यु­त्पन्नं क्षतं हौत्रात्कर्मणः प्रतिसमादधाति — इति ब्रुवन् वेदान्तरोदितस्य प्रत्ययस्य वेदा­न्त­रो­दि­त­प­दा­र्थ­स­म्ब­न्ध­सा­मा­न्यात् सर्व­वे­दो­दि­त­प्र­त्य­यो­प­सं­हारं सूचयति — इति लिङ्गदर्शनम् ॥ ६३ ॥

गुण­सा­धा­र­ण्य­श्रु­तेश्च ॥ ६४ ॥

६४

विद्यागुणं च विद्याश्रयं सन्तम् ओंकारं वेदत्रयसाधारणं श्रावयति — ‘तेनेयं त्रयी विद्या वर्तत ओमि­त्या­श्रा­व­य­त्यो­मिति शꣳसत्यो­मि­त्यु­द्गा­यति’(छा. उ. १ । १ । ९) इति च । ततश्च आश्र­य­सा­धा­र­ण्यात् आश्रि­त­सा­धा­र­ण्य­मिति — लिङ्गदर्शनमेव । अथवा गुण­सा­धा­र­ण्य­श्रु­ते­श्चेति । यदीमे कर्मगुणा उद्गीथादयः सर्वे सर्व­प्र­यो­ग­सा­धा­रणा न स्युः, न स्यात् ततः तदाश्रयाणां प्रत्ययानां सहभावः । ते तु उद्गीथादयः सर्वा­ङ्ग­ग्रा­हिणा प्रयोगवचनेन सर्वे सर्व­प्र­यो­ग­सा­धा­रणाः श्राव्यन्ते । ततश्च आश्र­य­स­ह­भा­वा­त्प्र­त्य­य­स­ह­भाव इति ॥ ६४ ॥

न वा तत्स­ह­भा­वा­श्रुतेः ॥ ६५ ॥

६५

न वेति पक्षव्यावर्तनम् । न यथाश्रयभाव आश्रि­ता­ना­मु­पा­स­नानां भवितुमर्हति । कुतः ? तत्स­ह­भा­वा­श्रुतेः । यथा हि त्रिवे­द­वि­हि­ता­ना­म­ङ्गानां स्तोत्रादीनां सहभावः श्रूयते — ‘ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्र­मु­पा­क­रोति, स्तुतमनुशंसति, प्रस्तोतः साम गाय, होतरेतद्यज’ इत्यादिना । नैवमुपासनानां सह­भा­व­श्रु­ति­रस्ति । ननु प्रयोगवचन एषां सहभावं प्रापयेत् — नेति ब्रूमः, पुरु­षा­र्थ­त्वा­दु­पा­स­ना­नाम् । प्रयोगवचनो हि क्रत्व­र्था­ना­मु­द्गी­था­दीनां सहभावं प्रापयेत् । उद्गी­था­द्यु­पा­स­नानि क्रत्व­र्था­श्र­या­ण्यपि गोदोहनादिवत् पुरु­षा­र्था­नी­त्य­वो­चाम ‘पृथ­ग्घ्य­प्र­ति­बन्धः फलम्’(ब्र. सू. ३ । ३ । ४२) इत्यत्र । अयमेव च उपदेशाश्रयो विशेषः अङ्गानां तदालम्बनानां च उपासनानाम् — यदेकेषां क्रत्वर्थत्वम् , एकेषां पुरु­षा­र्थ­त्व­मिति । परं च लिङ्गद्वयम् अका­र­ण­मु­पा­स­न­स­ह­भा­वस्य, श्रुति­न्या­या­भा­वात् । न च प्रतिप्रयोगम् आश्र­य­का­त्स्न्योप­सं­हा­रा­दा­श्रि­ता­ना­मपि तथात्वं विज्ञातुं शक्यम् , अत­त्प्र­यु­क्त­त्वा­दु­पा­स­ना­नाम् — आश्र­य­त­न्त्रा­ण्यपि हि उपासनानि कामम् आश्रयाभावे मा भूवन् । न त्वाश्रयसहभावेन सह­भा­व­नि­य­म­म­र्हन्ति, तत्स­ह­भा­वा­श्रु­ते­रेव । तस्मात् यथाकाममेव उपा­स­ना­न्य­नु­ष्ठी­ये­रन् ॥ ६५ ॥

दर्शनाच्च ॥ ६६ ॥

६६

दर्शयति च श्रुतिरसहभावं प्रत्ययानाम् — ‘एवंविद्ध वै ब्रह्मा यज्ञं यजमानꣳ सर्वाꣳश्च­र्त्वि­जोऽ­भि­र­क्षति’(छा. उ. ४ । १७ । १०) इति । सर्व­प्र­त्य­यो­प­सं­हारे हि, सर्वे सर्वविद इति न विज्ञानवता ब्रह्मणा परि­पा­ल्य­त्व­मि­त­रेषां सङ्कीर्त्येत । तस्मात् यथा­का­म­मु­पा­स­नानां समुच्चयो विकल्पो वेति ॥ ६६ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य
श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ शारी­र­क­मी­मां­सा­सू­त्र­भाष्ये
तृतीयाध्यायस्य तृतीयः पादः ॥

चतुर्थः पादः

अथेदानीम् औप­नि­ष­द­मा­त्म­ज्ञानं किम­धि­का­रि­द्वा­रेण कर्म­ण्ये­वा­नु­प्र­वि­शति, आहोस्वित् स्वतन्त्रमेव पुरुषार्थसाधनं भवतीति मीमांसमानः, सिद्धान्तेनैव तावदुपक्रमते —

पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ १ ॥

पुरुषार्थोऽत इति । अस्मा­द्वे­दा­न्त­वि­हि­ता­दा­त्म­ज्ञा­नात् स्वतन्त्रात् पुरुषार्थः सिध्यतीति बादरायण आचार्यो मन्यते । कुत एतदवगम्यते ? शब्दादित्याह । तथा हि — ‘तरति शोकमात्मवित्’(छा. उ. ७ । १ । ३) ‘स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’(मु. उ. ३ । २ । ९) ‘ब्रह्म­वि­दा­प्नोति परम्’(तै. उ. २ । १ । १) ‘आचा­र्य­वा­न्पु­रुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’(छा. उ. ६ । १४ । २) ‘य आत्मापहतपाप्मा’(छा. उ. ८ । ७ । १) इत्युपक्रम्य, ‘स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामा­न्य­स्त­मा­त्मा­न­म­नु­विद्य विजानाति’(छा. उ. ८ । ७ । १) इति; ‘आत्मा वा अरे द्रष्टव्यः’(बृ. उ. ४ । ५ । ६) इत्युपक्रम्य, ‘एतावदरे खल्वमृतत्वम्’(बृ. उ. ४ । ५ । १५) इति एवंजातीयका श्रुतिः केवलाया विद्यायाः पुरु­षा­र्थ­हे­तुत्वं श्रावयति ॥ १ ॥

अथात्र प्रत्यवतिष्ठते —

शेष­त्वा­त्पु­रु­षा­र्थ­वादो यथान्येष्विति जैमिनिः ॥ २ ॥

कर्तृत्वेन आत्मनः कर्मशेषत्वात् , तद्विज्ञानमपि व्रीहि­प्रो­क्ष­णा­दि­वत् विषयद्वारेण कर्मसम्बन्ध्येव — इत्यतः, तस्मिन् अवगतप्रयोजने आत्मज्ञाने या फलश्रुतिः, सा अर्थवादः — इति जैमिनिराचार्यो मन्यते । यथा अन्येषु द्रव्य­सं­स्का­र­क­र्मसु ‘यस्य पर्णमयी जुहूर्भवति न स पापꣳ श्लोकꣳ शृणोति’(तै॰सं॰ ३-५-७) ‘यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते’(तै॰सं॰ ६-१-१) ‘यत्प्र­या­जा­नू­याजा इज्यन्ते, वर्म वा एतद्यज्ञस्य क्रियते वर्म यजमानस्य भ्रातृ­व्या­भि­भूत्यै’(तै॰सं॰ २-६-१) इत्येवंजातीयका फलश्रुतिः अर्थवादः — तद्वत् । कथं पुनः अस्य अनारभ्याधीतस्य आत्मज्ञानस्य प्रक­र­णा­दी­ना­म­न्य­त­मे­नापि हेतुना विना क्रतुप्रवेश आशङ्क्यते ? कर्तृद्वारेण वाक्यात् तद्विज्ञानस्य क्रतुसम्बन्ध इति चेत् , न, वाक्या­द्वि­नि­यो­गा­नु­प­पत्तेः; अव्यभिचारिणा हि केनचिद्द्वारेण अना­र­भ्या­धी­ता­ना­मपि वाक्यनिमित्तः क्रतु­स­म्ब­न्धोऽ­व­क­ल्पते । कर्ता तु व्यभिचारि द्वारम् , लौकि­क­वै­दि­क­क­र्म­सा­धा­र­ण्यात् । तस्मान्न तद्द्वारेण आत्मज्ञानस्य क्रतु­स­म्ब­न्ध­सि­द्धि­रिति — न, व्यति­रे­क­वि­ज्ञा­नस्य वैदिकेभ्यः कर्मभ्योऽन्यत्र अनुपयोगात् । न हि देह­व्य­ति­रि­क्ता­त्म­ज्ञानं लौकिकेषु कर्मसु उपयुज्यते, सर्वथा दृष्टा­र्थ­प्र­वृ­त्त्यु­प­पत्तेः । वैदिकेषु तु देह­पा­तो­त्त­र­का­ल­फ­लेषु देह­व्य­ति­रि­क्ता­त्म­ज्ञा­न­म­न्त­रेण प्रवृत्तिः नोपपद्यत इति, उपयुज्यते व्यति­रे­क­वि­ज्ञा­नम् । ननु अप­ह­त­पा­प्म­त्वा­दि­वि­शे­ष­णात् असं­सा­र्या­त्म­वि­ष­यम् औपनिषदं दर्शनं न प्रवृत्त्यङ्गं स्यात् — न, प्रिया­दि­सं­सू­चि­तस्य संसारिण एव आत्मनो द्रष्ट­व्य­त्वे­नो­प­दे­शात् । अपहतपाप्मत्वादि विशेषणं तु स्तुत्यर्थं भविष्यति । ननु तत्र तत्र प्रसाधितमेतत् — अधिकमसंसारि ब्रह्म जगत्कारणम् । तदेव च संसारिण आत्मनः पारमार्थिकं स्वरूपम् उपनिषत्सु उपदिश्यत इति — सत्यं प्रसाधितम् । तस्यैव तु स्थूणानिखननवत् फलद्वारेण आक्षेपसमाधाने क्रियेते दार्ढ्याय ॥ २ ॥

आचारदर्शनात् ॥ ३ ॥

‘जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे’(बृ. उ. ३ । १ । १) ‘यक्ष्यमाणो वै भगवन्तोऽहमस्मि’(छा. उ. ५ । ११ । ५) इत्येवमादीनि ब्रह्मविदामपि अन्यपरेषु वाक्येषु कर्म­स­म्ब­न्ध­द­र्श­नानि भवन्ति । तथा उद्दालकादीनामपि पुत्रा­नु­शा­स­ना­दि­द­र्श­नात् गार्ह­स्थ्य­स­म्ब­न्धोऽ­व­ग­म्यते । केवलाच्चेत् ज्ञानात् पुरु­षा­र्थ­सिद्धिः स्यात् , किमर्थम् अने­का­या­स­स­म­न्वि­तानि कर्माणि ते कुर्युः ? ‘अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्’ इति न्यायात् ॥ ३ ॥

तच्छ्रुतेः ॥ ४ ॥

‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’(छा. उ. १ । १ । १०) इति च कर्म­शे­ष­त्व­श्र­व­णात् विद्याया न केवलायाः पुरु­षा­र्थ­हे­तु­त्वम् ॥ ४ ॥

समन्वारम्भणात् ॥ ५ ॥

‘तं विद्याकर्मणी समन्वारभेते’(बृ. उ. ४ । ४ । २) इति च विद्याकर्मणोः फलारम्भे साहित्यदर्शनात् न स्वातन्त्र्यं विद्यायाः ॥ ५ ॥

तद्वतो विधानात् ॥ ६ ॥

‘आचा­र्य­कु­ला­द्वे­द­म­धीत्य यथाविधानं गुरोः कर्मा­ति­शे­षे­णा­भि­स­मा­वृत्य कुटुम्बे शुचौ देशे स्वाध्या­य­म­धी­यानः’(छा. उ. ८ । १५ । १) इति च एवंजातीयका श्रुतिः सम­स्त­वे­दा­र्थ­वि­ज्ञा­न­वतः कर्माधिकारं दर्शयति । तस्मादपि न विज्ञानस्य स्वातन्त्र्येण फलहेतुत्वम् । ननु अत्र ‘अधीत्य’ इत्यध्ययनमात्रं वेदस्य श्रूयते, न अर्थविज्ञानम् — नैष दोषः । दृष्टार्थत्वात् वेदाध्ययनम् अर्था­व­बो­ध­प­र्य­न्त­मिति स्थितम् ॥ ६ ॥

नियमाच्च ॥ ७ ॥

‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣳ समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे’(ई. उ. २) इति — तथा ‘एतद्वै जरामर्यं सत्रं यदग्निहोत्रं जरया वा ह्येवा­स्मा­न्मु­च्यते मृत्युना वा’ — इत्ये­वं­जा­ती­य­कात् नियमादपि कर्मशेषत्वमेव विद्याया इति ॥ ७ ॥

एवं प्राप्ते, प्रतिविधत्ते —

अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥ ८ ॥

तुशब्दात् पक्षो विपरिवर्तते । यदुक्तम् ‘शेष­त्वा­त्पु­रु­षा­र्थ­वादः’(ब्र. सू. ३ । ४ । २) इति, तत् नोपपद्यते । कस्मात् ? अधिकोपदेशात् । यदि संसार्येव आत्मा शारीरः कर्ता भोक्ता च शरी­र­मा­त्र­व्य­ति­रे­केण वेदान्तेषु उपदिष्टः स्यात् , ततो वर्णितेन प्रकारेण फल­श्रु­ते­र­र्थ­वा­दत्वं स्यात् । अधिकस्तावत् शारीरादात्मनः असंसारी ईश्वरः कर्तृ­त्वा­दि­सं­सा­रि­ध­र्म­र­हि­तोऽ­प­ह­त­पा­प्म­त्वा­दि­वि­शे­षणः परमात्मा वेद्य­त्वे­नो­प­दि­श्यते वेदान्तेषु । न च तद्विज्ञानं कर्मणां प्रवर्तकं भवति, प्रत्युत कर्मा­ण्यु­च्छि­नत्ति — इति वक्ष्यति ‘उपमर्दं च’(ब्र. सू. ३ । ४ । १६) इत्यत्र । तस्मात् ‘पुरुषार्थोऽतः शब्दात्’(ब्र. सू. ३ । ४ । १) इति यन्मतं भगवतो बादरायणस्य, तत् तथैव तिष्ठति; न शेष­त्व­प्र­भृ­ति­भि­र्हे­त्वा­भा­सै­श्चा­ल­यितुं शक्यते । तथा हि तमधिकं शारीरात् ईश्वरमात्मानं दर्शयन्ति श्रुतयः — ‘यः सर्वज्ञः सर्ववित्’(मु. उ. १ । १ । ९) ‘भीषास्माद्वातः पवते’(तै. उ. २ । ८ । १) ‘महद्भयं वज्रमुद्यतम्’(क. उ. २ । ३ । २) ‘एतस्य वा अक्षरस्य प्रशासने गार्गि’(बृ. उ. ३ । ८ । ९) ‘तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत’(छा. उ. ६ । २ । ३) इत्येवमाद्याः । यत्तु प्रिया­दि­सं­सू­चि­तस्य संसारिण एव आत्मनो वेद्यतया अनुकर्षणम् — ‘आत्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः’(बृ. उ. २ । ४ । ५) ‘यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः’(बृ. उ. ३ । ४ । १) ‘य एषोऽक्षिणि पुरुषो दृश्यते’(छा. उ. ८ । ७ । ४) इत्युपक्रम्य ‘एतं त्वेव ते भूयोऽ­नु­व्या­ख्या­स्यामि’(छा. उ. ८ । ९ । ३) इति चैवमादि — तदपि, ‘अस्य महतो भूतस्य निःश्व­सि­त­मे­त­द्य­दृ­ग्वेदः’(बृ. उ. २ । ४ । १०) ‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’(बृ. उ. ३ । ५ । १) ‘परं ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यते स उत्तमः पुरुषः’(छा. उ. ८ । १२ । ३) इत्ये­व­मा­दि­भि­र्वा­क्य­शेषैः सत्यामेव अधि­को­प­दि­दि­क्षा­याम् , अत्य­न्ता­भे­दा­भि­प्रा­य­मि­त्य­वि­रोधः । पारमेश्वरमेव हि शारीरस्य पारमार्थिकं स्वरूपम्; उपाधिकृतं तु शारीरत्वम् , ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) ‘नान्यदतोऽस्ति द्रष्टृ’(बृ. उ. ३ । ८ । ११) इत्या­दि­श्रु­तिभ्यः । सर्वं च एतत् विस्त­रे­णा­स्माभिः पुरस्तात् तत्र तत्र वर्णितम् ॥ ८ ॥

तुल्यं तु दर्शनम् ॥ ९ ॥

यत्तूक्तम् — आचा­र­द­र्श­ना­त्क­र्म­शेषो विद्येति, अत्र ब्रूमः — तुल्य­मा­चा­र­द­र्श­नम् अकर्मशेषत्वेऽपि विद्यायाः । तथा हि श्रुतिर्भवति — ‘एतद्ध स्म वै तद्विद्वांस आहुऋषयः कावषेयाः किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे’ ‘एतद्ध स्म वै तत्पूर्वे विद्वां­सोऽ­ग्नि­होत्रं न जुहवाञ्चक्रिरे’ ‘एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’(बृ. उ. ३ । ५ । १) इत्येवंजातीयका । याज्ञ­व­ल्क्या­दी­ना­मपि ब्रह्मविदाम् अकर्मनिष्ठत्वं दृश्यते — ‘एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार’(बृ. उ. ८ । ७ । २) इत्या­दि­श्रु­तिभ्यः । अपि च ‘यक्ष्यमाणो वै भगवन्तोऽहमस्मि’(छा. उ. ५ । ११ । ५) इत्येतत् लिङ्गदर्शनं वैश्वा­न­र­वि­द्या­वि­ष­यम् । सम्भवति च सोपाधिकायां ब्रह्मविद्यायां कर्म­सा­हि­त्य­द­र्श­नम् । न तु अत्रापि कर्मा­ङ्ग­त्व­मस्ति, प्रक­र­णा­द्य­भा­वात् ॥ ९ ॥

यत्पुनरुक्तम् — ‘तच्छ्रुतेः’(ब्र. सू. ३ । ४ । ४) इति, अत्र ब्रूमः —

असार्वत्रिकी ॥ १० ॥

१०

‘यदेव विद्यया करोति’(छा. उ. १ । १ । १०) इत्येषा श्रुतिर्न सर्व­वि­द्या­वि­षया, प्रकृ­त­वि­द्या­भि­स­म्ब­न्धात् । प्रकृता च उद्गीथविद्या — ‘ओमि­त्ये­त­द­क्ष­र­मु­द्गी­थ­मु­पा­सीत’(छा. उ. १ । १ । १) इत्यत्र ॥ १० ॥

विभागः शतवत् ॥ ११ ॥

११

यदप्युक्तम् — ‘तं विद्याकर्मणी समन्वारभेते’(बृ. उ. ४ । ४ । २) इत्येतत् समन्वारम्भवचनम् अस्वातन्त्र्ये विद्याया लिङ्गमिति, तत् प्रत्युच्यते — विभागोऽत्र द्रष्टव्यः — विद्या अन्यं पुरुषमन्वारभते, कर्म अन्यमिति । शतवत् — यथा शतम् आभ्यां दीयतामित्युक्ते विभज्य दीयते — पञ्चाशदेकस्मै पञ्चाशदपरस्मै, तद्वत् । न च इदं समन्वारम्भवचनं मुमुक्षुविषयम् — ‘इति नु कामयमानः’(बृ. उ. ४ । ४ । ६) इति संसा­रि­वि­ष­य­त्वो­प­सं­हा­रात् , ‘अथाकामयमानः’(बृ. उ. ४ । ४ । ६) इति च मुमुक्षोः पृथगुपक्रमात् । तत्र संसारिविषये विद्या विहिता प्रतिषिद्धा च परिगृह्यते, विशेषाभावात् । कर्मापि विहितं प्रतिषिद्धं च, यथा­प्रा­प्ता­नु­वा­दि­त्वात् । एवं सति अविभागेनापि इदं सम­न्वा­र­म्भ­व­च­न­म­व­क­ल्पते ॥ ११ ॥

यच्चैतत् — ‘तद्वतो विधानात्’(ब्र. सू. ३ । ४ । ६) इति, अत उत्तरं पठति —

अध्ययनमात्रवतः ॥ १२ ॥

१२

‘आचा­र्य­कु­ला­द्वे­द­म­धीत्य’(छा. उ. ८ । १५ । १) इत्यत्र अध्ययनमात्रस्य श्रवणात् अध्ययनमात्रवत एव कर्म­वि­धि­रि­त्य­ध्य­व­स्यामः । ननु एवं सति अविद्यत्वात् अनधिकारः कर्मसु प्रसज्येत — नैष दोषः । न वयम् अध्ययनप्रभवं कर्मावबोधनम् अधिकारकारणं वारयामः । किं तर्हि ? औप­नि­ष­द­मा­त्म­ज्ञा­नम् स्वात­न्त्र्ये­णैव प्रयोजनवत् प्रतीयमानम् न कर्मा­धि­का­र­का­र­णतां प्रतिपद्यते — इत्ये­ता­व­त्प्र­ति­पा­द­यामः । यथा च न क्रत्व­न्त­र­ज्ञानं क्रत्व­न्त­रा­धि­का­रेण अपेक्ष्यते, एवमेतदपि द्रष्टव्यमिति ॥ १२ ॥

यदप्युक्तम् — ‘नियमाच्च’(ब्र. सू. ३ । ४ । ७) इति, अत्राभिधीयते —

नाविशेषात् ॥ १३ ॥

१३

‘कुर्वन्नेवेह कर्माणि जिजीविषेत्’(ई. उ. २) इत्येवमादिषु नियमश्रवणेषु न विदुष इति विशेषोऽस्ति, अविशेषेण नियमविधानात् ॥ १३ ॥

स्तुत­येऽ­नु­म­तिर्वा ॥ १४ ॥

१४

‘कुर्वन्नेवेह कर्माणि’(ई. उ. २) इत्यत्र अपरो विशेष आख्यायते । यद्यपि अत्र प्रक­र­ण­सा­म­र्थ्यात् विद्वानेव — कुर्वन् — इति सम्बध्यते, तथापि विद्यास्तुतये कर्मानुज्ञानम् एतद्द्रष्टव्यम् । ‘न कर्म लिप्यते नरे’(ई. उ. २) इति हि वक्ष्यति । एतदुक्तं भवति — यावज्जीवं कर्म कुर्वत्यपि विदुषि पुरुषे न कर्म लेपाय भवति, विद्या­सा­म­र्थ्या­दिति — तदेवं विद्या स्तूयते ॥ १४ ॥

कामकारेण चैके ॥ १५ ॥

१५

अपि च एके विद्वांसः प्रत्य­क्षी­कृ­त­वि­द्या­फलाः सन्तः, तदवष्टम्भात् फलान्तरसाधनेषु प्रजादिषु प्रयोजनाभावं परामृशन्ति कामकारेण — इति श्रुतिर्भवति वाजसनेयिनाम् — ‘एतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक इति’(बृ. उ. ४ । ४ । २२) । अनुभवारूढमेव च विद्याफलं न क्रियाफलवत् कालान्तरभावि — इत्यसकृदवोचाम । अतोऽपि न विद्यायाः कर्मशेषत्वं नापि तद्विषयायाः फल­श्रु­ते­र­य­था­र्थत्वं शक्यमाश्रयितुम् ॥ १५ ॥

उपमर्दं च ॥ १६ ॥

१६

अपि च कर्माधिकारहेतोः क्रिया­का­र­क­फ­ल­ल­क्ष­णस्य समस्तस्य प्रपञ्चस्य अविद्याकृतस्य विद्या­सा­म­र्थ्यात् स्वरू­पो­प­म­र्द­मा­म­नन्ति — ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्येत्तत्केन कं जिघ्रेत्’(बृ. उ. २ । ४ । १४) इत्यादिना । वेदा­न्तो­दि­ता­त्म­ज्ञा­न­पू­र्विकां तु कर्मा­धि­का­र­सिद्धिं प्रत्याशासानस्य कर्मा­धि­का­रो­च्छि­त्ति­रेव प्रसज्येत । तस्मादपि स्वातन्त्र्यं विद्यायाः ॥ १६ ॥

ऊर्ध्वरेतःसु च शब्दे हि ॥ १७ ॥

१७

ऊर्ध्वरेतःसु च आश्रमेषु विद्या श्रूयते । न च तत्र कर्माङ्गत्वं विद्याया उपपद्यते, कर्माभावात् । न हि अग्निहोत्रादीनि वैदिकानि कर्माणि तेषां सन्ति । स्यादेतत् , ऊर्ध्वरेतस आश्रमा न श्रूयन्ते वेद इति — तदपि नास्ति । तेऽपि हि वैदिकेषु शब्दे­ष्व­व­ग­म्यन्ते — ‘त्रयो धर्मस्कन्धाः’(छा. उ. २ । २३ । १) ‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’(छा. उ. ५ । १० । १) ‘तपःश्रद्धे ये ह्युप­व­स­न्त्य­रण्ये’(मु. उ. १ । २ । ११) ‘एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति’(बृ. उ. ४ । ४ । २२) ‘ब्रह्मचर्यादेव प्रव्रजेत्’(जा. उ. ४) इत्येवमादिषु । प्रति­प­न्ना­प्र­ति­प­न्न­गा­र्ह­स्थ्या­नाम् अपा­कृ­ता­न­पा­कृ­त­र्ण­त्र­याणां च ऊर्ध्वरेतस्त्वं श्रुति­स्मृ­ति­प्र­सि­द्धम् । तस्मादपि स्वातन्त्र्यं विद्यायाः ॥ १७ ॥

परामर्शं जैमिनिरचोदना चापवदति हि ॥ १८ ॥

१८

‘त्रयो धर्मस्कन्धाः’(छा. उ. २ । २३ । १) इत्यादयो ये शब्दा ऊर्ध्व­रे­त­सा­मा­श्र­माणां सद्भावाय उदाहृताः, न ते तत्प्रतिपादनाय प्रभवन्ति; यतः परामर्शम् एषु शब्दे­ष्वा­श्र­मा­न्त­राणां जैमिनिराचार्यो मन्यते, न विधिम् । कुतः ? न हि अत्र लिङा­दी­ना­म­न्य­त­म­श्चो­द­ना­श­ब्दोऽस्ति । अर्थान्तरपरत्वं च एषु प्रत्ये­क­मु­प­ल­भ्यते । ‘त्रयो धर्मस्कन्धाः’ इत्यत्र तावत् ‘यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्म­चा­र्या­चा­र्य­कु­ल­वासी तृती­योऽ­त्य­न्त­मा­त्मा­न­मा­चा­र्य­कु­लेऽ­व­सा­द­य­न्सर्व एते पुण्यलोका भवन्ति’ इति परा­म­र्श­पू­र्व­क­मा­श्र­मा­णा­म­ना­त्य­न्ति­क­फ­लत्वं सङ्कीर्त्य, आत्यन्तिकफलतया ब्रह्मसंस्थता स्तूयते — ‘ब्रह्म­सं­स्थोऽ­मृ­त­त्व­मेति’(छा. उ. २ । २३ । १) इति । ननु परामर्शेऽपि आश्रमा गम्यन्ते एव — सत्यं गम्यन्ते; स्मृत्या­चा­राभ्यां तु तेषां प्रसिद्धिः, न प्रत्य­क्ष­श्रुतेः । अतश्च प्रत्य­क्ष­श्रु­ति­वि­रोधे सति अनादरणीयास्ते भविष्यन्ति, अनधिकृतविषया वा । ननु गार्हस्थ्यमपि सहै­वो­र्ध्व­रे­तोभिः परामृष्टम् — ‘यज्ञोऽध्ययनं दानमिति प्रथमः’ इति — सत्यमेवम्; तथापि तु गृहस्थं प्रत्येव अग्नि­हो­त्रा­दीनां कर्मणां विधानात् श्रुति­प्र­सि­द्ध­मेव हि तदस्तित्वम्; तस्मा­त्स्तु­त्यर्थ एव अयं परामर्शः, न चोदनार्थः । अपि च अपवदति हि प्रत्यक्षा श्रुति­रा­श्र­मा­न्त­रम् — ‘वीरहा वा एष देवानां योऽग्नि­मु­द्वा­स­यते’ ‘आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः’(तै. उ. १ । ११ । १) ‘नापुत्रस्य लोकोऽस्तीति तत्सर्वे पशवो विदुः’ इत्येवमाद्या । तथा ‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’(छा. उ. ५ । १० । १) ‘तपःश्रद्धे ये ह्युप­व­स­न्त्य­रण्ये’(मु. उ. १ । २ । ११) इति च देवयानोपदेशः, न आश्र­मा­न्त­रो­प­देशः । सन्दिग्धं च आश्र­मा­न्त­रा­भि­धा­नम् — ‘तप एव द्वितीयः’(छा. उ. २ । २३ । १) इत्येवमादिषु । तथा ‘एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति’(बृ. उ. ४ । ४ । २२) इति लोकसंस्तवोऽयम् , न पारि­व्रा­ज्य­विधिः । ननु ‘ब्रह्मचर्यादेव प्रव्रजेत्’ इति विस्पष्टमिदं प्रत्यक्षं पारि­व्रा­ज्य­वि­धानं जाबालानाम् — सत्यमेवमेतत्; अनपेक्ष्य तु एतां श्रुतिम् अयं विचार इति द्रष्टव्यम् ॥ १८ ॥

अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ १९ ॥

१९

अनुष्ठेयम् आश्रमान्तरं बादरायण आचार्यो मन्यते — वेदेऽ­श्र­व­णा­द­ग्नि­हो­त्रा­दीनां च अव­श्या­नु­ष्ठे­य­त्वात् तद्वि­रो­धा­द­न­धि­कृ­ता­नु­ष्ठे­य­मा­श्र­मा­न्त­रम् — इति हि इमां मतिं निराकरोति, गार्हस्थ्यवदेव आश्रमान्तरमपि अनिच्छता प्रति­प­त्त­व्य­मिति मन्यमानः । कुतः ? साम्यश्रुतेः । समा हि गार्ह­स्थ्ये­ना­श्र­मा­न्त­रस्य परा­म­र्श­श्रु­ति­र्दृ­श्यते — ‘त्रयो धर्मस्कन्धाः’(छा. उ. २ । २३ । १)‘त्रयो धर्मस्कन्धाः’(छा. उ. २ । २३ । १) इत्याद्या । यथा इह श्रुत्य­न्त­र­वि­हि­त­मेव गार्हस्थ्यं परामृष्टम् , एव­मा­श्र­मा­न्त­र­म­पीति प्रतिपत्तव्यम् — यथा च शास्त्रा­न्त­र­प्रा­प्त­यो­रेव निवी­त­प्रा­ची­ना­वी­तयोः परामर्श उपवीतविधिपरे वाक्ये । तस्मात् तुल्य­म­नु­ष्ठे­यत्वं गार्हस्थ्येन आश्रमान्तरस्य । तथा ‘एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति’(बृ. उ. ४ । ४ । २२) इत्यस्य वेदानुवचनादिभिः समभिव्याहारः । ‘ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’(छा. उ. ५ । १० । १) इत्यस्य च पञ्चा­ग्नि­वि­द्यया । यत्तूक्तम् — ‘तप एव द्वितीयः’ इत्या­दि­ष्वा­श्र­मा­न्त­रा­भि­धानं सन्दिग्धमिति । नैष दोषः, निश्च­य­का­र­ण­स­द्भा­वात् । ‘त्रयो धर्मस्कन्धाः’ इति हि धर्म­स्क­न्ध­त्रित्वं प्रतिज्ञातम् । न च यज्ञादयो भूयांसो धर्मा उत्पत्तिभिन्नाः सन्तः अन्य­त्रा­श्र­म­स­म्ब­न्धात् त्रित्वेऽ­न्त­र्भा­व­यितुं शक्यन्ते । तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो निर्दिष्टः, ब्रह्मचारीति च स्पष्ट आश्रमनिर्देशः, तप इत्यपि कोऽन्य­स्त­पः­प्र­धा­ना­दा­श्र­मात् धर्म­स्क­न्धोऽ­भ्यु­प­ग­म्येत । ‘ये चेमेऽरण्ये’(छा. उ. ५ । १० । १) इति च अरण्यलिङ्गात् श्रद्धा­त­पो­भ्या­मा­श्र­म­गृ­हीतिः । तस्मात् पर­मा­र्शेऽ­प्य­नु­ष्ठे­य­मा­श्र­मा­न्त­रम् ॥ १९ ॥

विधिर्वा धारणवत् ॥ २० ॥

२०

विधिर्वा अय­मा­श्र­मा­न्त­रस्य, न परामर्शमात्रम् । ननु विधि­त्वा­भ्यु­प­गमे एक­वा­क्य­ता­प्र­ती­ति­रु­प­रु­ध्येत । प्रतीयते च अत्र एकवाक्यता — पुण्य­लो­क­फ­ला­स्त्रयो धर्मस्कन्धाः, ब्रह्मसंस्थता त्वमृतत्वफलेति — सत्यमेतत्; सतीमपि तु एक­वा­क्य­ता­प्र­तीतिं परित्यज्य विधि­रे­वा­भ्यु­प­ग­न्तव्यः, अपूर्वत्वात् , विध्य­न्त­र­स्या­द­र्श­नात् , विस्प­ष्टा­च्चा­श्र­मा­न्त­र­प्र­त्य­यात् गुणवादकल्पनया एक­वा­क्य­त्व­यो­ज­ना­नु­प­पत्तेः । धारणवत् — यथा ‘अधस्तात्समिधं धार­य­न्न­नु­द्र­वे­दु­परि हि देवेभ्यो धारयति’ इत्यत्र सत्या­म­प्य­धो­धा­र­णेन एक­वा­क्य­ता­प्र­तीतौ, विधीयत एव उपरिधारणम् , अपूर्वत्वात्; तथा च उक्तं शेषलक्षणे ‘विधिस्तु धार­णेऽ­पू­र्व­त्वात्’(जै. सू. ३ । ४ । १५) इति । तद्वत् इहापि आश्र­म­प­रा­म­र्श­श्रुतिः विधिरेवेति कल्प्यते ॥

यदापि परामर्श एवा­य­मा­श्र­मा­न्त­रा­णाम् , तदापि ब्रह्मसंस्थता तावत् , संस्त­व­सा­म­र्थ्या­द­वश्यं विधेया अभ्युपगन्तव्या । सा च किं चतु­र्ष्वा­श्र­मेषु यस्य कस्यचित् , आहो­स्वि­त्प­रि­व्रा­ज­क­स्यै­वेति विवेक्तव्यम् । यदि च ब्रह्म­चा­र्य­न्ते­ष्वा­श्र­मेषु परामृश्यमानेषु परिव्राजकोऽपि परामृष्टः, तत­श्च­तु­र्णा­म­प्या­श्र­माणां परा­मृ­ष्ट­त्वा­वि­शे­षात् अना­श्र­मि­त्वा­नु­प­प­त्तेश्च यः कश्चि­च्च­तु­र्ष्वा­श्र­मेषु ब्रह्मसंस्थो भविष्यति । अथ न परामृष्टः, ततः परिशिष्यमाणः परिव्राडेव ब्रह्मसंस्थ इति सेत्स्यति । तत्र तपःशब्देन वैखानसग्राहिणा परामृष्टः परिव्राडपि इति केचित् । तदयुक्तम्; न हि सत्यां गतौ वान­प्र­स्थ­वि­शे­ष­णेन परिव्राजको ग्रहणमर्हति । यथा अत्र ब्रह्म­चा­रि­गृ­ह­मे­धिनौ असाधारणेनैव स्वेन स्वेन विशेषणेन विशेषितौ, एवं भिक्षु­वै­खा­न­सा­व­पीति युक्तम् । तपश्च असाधारणो धर्मो वानप्रस्थानां काय­क्ले­श­प्र­धा­न­त्वात् , तपःशब्दस्य तत्र रूढेः । भिक्षोस्तु धर्म इन्द्रि­य­सं­य­मा­दि­ल­क्षणो नैव तपः­श­ब्दे­ना­भि­ल­प्यते । चतुष्ट्वेन च प्रसिद्धा आश्रमाः त्रित्वेन परामृश्यन्त इत्यन्याय्यम् । अपि च भेदव्यपदेशोऽत्र भवति — त्रय एते पुण्यलोकभाजः, एकोऽ­मृ­त­त्व­भा­गिति । पृथक्त्वे चैष भेद­व्य­प­दे­शोऽ­व­क­ल्पते । न ह्येवं भवति — देव­द­त्त­य­ज्ञ­दत्तौ मन्दप्रज्ञौ, अन्य­त­र­स्त्व­न­यो­र्म­हा­प्रज्ञ इति । भवति त्वेवम् — देव­द­त्त­य­ज्ञ­दत्तौ मन्दप्रज्ञौ, विष्णुमित्रस्तु महाप्रज्ञ इति । तस्मात् पूर्वे त्रय आश्रमिणः पुण्यलोकभाजः, परिशिष्यमाणः परि­व्रा­डे­वा­मृ­त­त्व­भाक् । कथं पुनः ब्रह्म­सं­स्थ­शब्दो योगा­त्प्र­व­र्त­मानः सर्वत्र सम्भवन् परिव्राजक एवावतिष्ठेत ? रूढ्यभ्युपगमे च आश्र­म­मा­त्रा­द­मृ­त­त्व­प्रा­प्ते­र्ज्ञा­ना­न­र्थ­क्य­प्र­सङ्ग इति; अत्रोच्यते — ब्रह्मसंस्थ इति हि ब्रह्मणि परिसमाप्तिः अन­न्य­व्या­पा­र­ता­रूपं तन्नि­ष्ठ­त्व­म­भि­धी­यते । तच्च त्रया­णा­मा­श्र­माणां न सम्भवति, स्वाश्र­म­वि­हि­त­क­र्मा­न­नु­ष्ठाने प्रत्य­वा­य­श्र­व­णात् । परिव्राजकस्य तु सर्व­क­र्म­सं­न्या­सात् प्रत्यवायो न सम्भवति अन­नु­ष्ठा­न­नि­मित्तः । शमदमादिस्तु तदीयो धर्मो ब्रह्मसंस्थताया उपोद्बलकः, न विरोधी । ब्रह्म­नि­ष्ठ­त्व­मेव हि तस्य शम­द­मा­द्यु­प­बृं­हितं स्वाश्रमविहितं कर्म । यज्ञादीनि च इतरेषाम् । तद्व्यतिक्रमे च तस्य प्रत्यवायः । तथा च ‘न्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्मा तानि वा एतान्यवराणि तपाꣳसि न्यास एवात्यरेचयत्’(ना. उ. ७८) ‘वेदा­न्त­वि­ज्ञा­न­सु­नि­श्चि­तार्थाः संन्या­स­यो­गा­द्य­तयः शुद्धसत्त्वाः’(मु. उ. ३ । २ । ६) इत्याद्याः श्रुतयः, स्मृतयश्च ‘तद्बु­द्ध­य­स्त­दा­त्मा­न­स्त­न्नि­ष्ठा­स्त­त्प­रा­यणाः’(भ. गी. ५ । १७) इत्याद्याः — ब्रह्मसंस्थस्य कर्माभावं दर्शयन्ति । तस्मात् परिव्राजकस्य आश्र­म­मा­त्रा­द­मृ­त­त्व­प्रा­प्ते­र्ज्ञा­ना­न­र्थ­क्य­प्र­सङ्ग इत्येषोऽपि दोषो नावतरति । तदेवं परामर्शेऽपि इत­रे­षा­मा­श्र­मा­णाम् , पारिव्राज्यं ताव­द्ब्र­ह्म­सं­स्थ­ता­ल­क्षणं लभ्यत एव । अनपेक्ष्यैव जाबा­ल­श्रु­ति­मा­श्र­मा­न्त­र­वि­धा­यि­नीम् अयमाचार्येण विचारः प्रवर्तितः; विद्यत एव तु आश्र­मा­न्त­र­वि­धि­श्रुतिः प्रत्यक्षा — ‘ब्रह्मचर्यं परिसमाप्य गृही भवेद्गृही भूत्वा वनी भवेद्वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्र­जे­द्गृ­हाद्वा वनाद्वा’(जा. उ. ४) इति । न च इयं श्रुतिः अनधिकृतविषया शक्या वक्तुम् , अविशेषश्रवणात् , पृथग्विधानाच्च अनधिकृतानाम् — ‘अथ पुनरेव व्रती वाऽव्रती वा स्नातको वाऽस्नातको वोत्स­न्ना­ग्नि­र­न­ग्निको वा’(जा. उ. ४) इत्यादिना । ब्रह्म­ज्ञा­न­प­रि­पा­का­ङ्ग­त्वाच्च पारिव्राज्यस्य न अन­धि­कृ­त­वि­ष­य­त्वम् , तच्च दर्शयति — ‘अथ परि­व्रा­ड्वि­व­र्ण­वासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय भवति’(जा. उ. ५) इति । तस्मात्सिद्धा ऊर्ध्व­रे­त­सा­मा­श्रमाः । सिद्धं च ऊर्ध्वरेतःसु विधा­ना­द्वि­द्यायाः स्वात­न्त्र्य­मिति ॥ २० ॥

स्तुति­मा­त्र­मु­पा­दा­ना­दिति चेन्ना­पू­र्व­त्वात् ॥ २१ ॥

२१

‘स एष रसानां रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः’(छा. उ. १ । १ । ३) ‘इयमेवर्गग्निः साम’(छा. उ. १ । ६ । १) ‘अयं वाव लोकः एषोऽग्निश्चितः ।’(श॰ब्रा॰ १०-१-२-२), ‘तदि­द­मे­वो­क्थ­मि­य­मेव पृथिवी(ऐ॰आ॰ २-१-२)’ इत्येवंजातीयकाः श्रुतयः किमुद्गीथादेः स्तुत्यर्थाः, आहोस्वित् उपासनाविध्यर्था इत्यस्मिन्संशये — स्तुत्यर्था इति युक्तम् , उद्गीथादीनि कर्मा­ङ्गा­न्यु­पा­दाय श्रवणात् । यथा ‘इयमेव जुहूरादित्यः कूर्मः स्वर्गो लोक आहवनीयः’ इत्याद्या जुह्वा­दि­स्तु­त्यर्थाः, तद्वत् — इति चेत् , नेत्याह । न हि स्तुति­मा­त्र­मासां श्रुतीनां प्रयोजनं युक्तम् , अपूर्वत्वात् । विध्यर्थतायां हि अपूर्वोऽर्थो विहितो भवति । स्तुत्यर्थतायां त्वानर्थक्यमेव स्यात् । विधायकस्य हि शब्दस्य वाक्यशेषभावं प्रतिपद्यमाना स्तुतिरुपयुज्यत इत्युक्तम् ‘विधिना त्वेक­वा­क्य­त्वा­त्स्तु­त्य­र्थेन विधीनां स्युः’(जै॰सू॰ १-२-७) इत्यत्र । प्रदे­शा­न्त­र­वि­हि­तानां तु उद्गीथादीनाम् इयं प्रदे­शा­न्त­र­प­ठिता स्तुतिः वाक्य­शे­ष­भा­व­म­प्र­ति­प­द्य­माना अनर्थिकैव स्यात् । ‘इयमेव जुहूः’ इत्यादि तु विधि­स­न्नि­धा­वे­वा­म्ना­त­मिति वैषम्यम् । तस्मात् विध्यर्था एव एवंजातीयकाः श्रुतयः ॥ २१ ॥

भावशब्दाच्च ॥ २२ ॥

२२

‘उद्गीथमुपासीत’(छा. उ. १ । १ । १) ‘सामोपासीत’(छा. उ. २ । २ । १) ‘अहमुक्थमस्मीति विद्यात्’ इत्यादयश्च विस्पष्टा विधिशब्दाः श्रूयन्ते । ते च स्तुति­मा­त्र­प्र­यो­ज­न­तायां व्याहन्येरन् । तथा च न्यायविदां स्मरणम् — ‘कुर्या­त्क्रि­येत कर्तव्यं भवेत्स्यादिति पञ्चमम् । एत­त्स्या­त्स­र्व­वे­देषु नियतं विधिलक्षणम्’ इति । लिङाद्यर्थो विधिरिति मन्यमानास्त एवं स्मरन्ति । प्रतिप्रकरणं च फलानि श्राव्यन्ते — ‘आपयिता ह वै कामानां भवति’(छा. उ. १ । १ । ७) ‘एष ह्येव कामा­गा­न­स्येष्टे’(छा. उ. १ । ७ । ९) ‘कल्पन्ते हास्मै लोका ऊर्ध्वा­श्चा­वृ­त्ताश्च’(छा. उ. २ । २ । ३) इत्यादीनि । तस्मा­द­प्यु­पा­स­न­वि­धा­नार्था उद्गी­था­दि­श्रु­तयः ॥ २२ ॥

पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ २३ ॥

२३

‘अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभू­व­तु­र्मै­त्रेयी च कात्यायनी च’(बृ. उ. ४ । ५ । १) ‘प्रतर्दनो ह वै दैवो­दा­सि­रि­न्द्रस्य प्रियं धामोपजगाम’(कौ. उ. ३ । १) ‘जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस’(छा. उ. ४ । १ । १) इत्येवमादिषु वेदा­न्त­प­ठि­ते­ष्वा­ख्या­नेषु संशयः — किमिमानि पारि­प्ल­व­प्र­यो­गा­र्थानि, आहो­स्वि­त्स­न्नि­हि­त­वि­द्या­प्र­ति­प­त्त्य­र्था­नीति । पारिप्लवार्था इमा आख्यानश्रुतयः, आख्या­न­सा­मा­न्यात् , आख्यानप्रयोगस्य च पारिप्लवे चोदितत्वात् । ततश्च विद्या­प्र­धा­नत्वं वेदान्तानां न स्यात् , मन्त्रवत् प्रयो­ग­शे­ष­त्वा­दिति चेत् — तन्न । कस्मात् ? विशेषितत्वात् — ‘पारि­प्ल­व­मा­च­क्षीत’ इति हि प्रकृत्य, ‘मनुर्वैवस्वतो राजा’ इत्येवमादीनि कानिचिदेव आख्यानानि तत्र विशेष्यन्ते । आख्या­न­सा­मा­न्या­च्चेत् सर्वगृहीतिः स्यात् , अनर्थकमेवेदं विशेषणं भवेत् । तस्मात् न पारिप्लवार्था एता आख्यानश्रुतयः ॥ २३ ॥

तथा चैक­वा­क्य­तो­प­ब­न्धात् ॥ २४ ॥

२४

असति च पारि­प्ल­वा­र्थत्वे आख्यानानां सन्नि­हि­त­वि­द्या­प्र­ति­पा­द­नो­प­यो­गि­तैव न्याय्या, एक­वा­क्य­तो­प­ब­न्धात् । तथा हि तत्र तत्र सन्नि­हि­ता­भि­र्वि­द्या­भि­रे­क­वा­क्यता दृश्यते प्ररोचनोपयोगात् प्रति­प­त्ति­सौ­क­र्यो­प­यो­गाच्च । मैत्रे­यी­ब्रा­ह्मणे तावत् — ‘आत्मा वा अरे द्रष्टव्यः’(बृ. उ. ४ । ५ । ६) इत्याद्यया विद्यया एकवाक्यता दृश्यते; प्रातर्दनेऽपि ‘प्राणोऽस्मि प्रज्ञात्मा’ इत्याद्यया । ‘जानश्रुतिः’ इत्यत्रापि ‘वायुर्वाव संवर्गः’(छा. उ. ४ । ३ । १) इत्याद्यया । यथा ‘स आत्मनो वपामुदखिदत्’ इत्येवमादीनां कर्म­श्रु­ति­ग­ता­ना­मा­ख्या­नानां सन्नि­हि­त­वि­धि­स्तु­त्य­र्थता, तद्वत् । तस्मान्न पारि­प्ल­वा­र्थ­त्वम् ॥ २४ ॥

अत एव चाग्नी­न्ध­ना­द्य­न­पेक्षा ॥ २५ ॥

२५

‘पुरुषार्थोऽतः शब्दात्’(ब्र. सू. ३ । ४ । १) इत्येतत् व्यवहितमपि सम्भवात् ‘अतः’ इति परामृश्यते । अत एव च विद्यायाः पुरु­षा­र्थ­हे­तु­त्वात् अग्नी­न्ध­ना­दी­न्या­श्र­म­क­र्माणि विद्यया स्वार्थसिद्धौ नापे­क्षि­त­व्या­नीति आद्य­स्यै­वा­धि­क­र­णस्य फल­मु­प­सं­ह­र­त्य­धि­क­वि­व­क्षया ॥ २५ ॥

सर्वापेक्षा च यज्ञा­दि­श्रु­ते­र­श्व­वत् ॥ २६ ॥

२६

इदमिदानीं चिन्त्यते — किं विद्याया अत्य­न्त­मे­वा­न­पेक्षा आश्रमकर्मणाम् , उत अस्ति काचिदपेक्षेति । तत्र अत एवा­ग्नी­न्ध­ना­दी­न्या­श्र­म­क­र्माणि विद्यया स्वार्थसिद्धौ नापेक्ष्यन्ते, इत्ये­व­म­त्य­न्त­मे­वा­न­पे­क्षायां प्राप्तायाम् , इदमुच्यते — सर्वापेक्षा चेति । अपेक्षते च विद्या सर्वा­ण्या­श्र­म­क­र्माणि, नात्य­न्त­म­न­पे­क्षैव । ननु विरुद्धमिदं वचनम् — अपेक्षते च आश्रमकर्माणि विद्या, नापेक्षते चेति । नेति ब्रूमः । उत्पन्ना हि विद्या फलसिद्धिं प्रति न किञ्चि­द­न्य­द­पे­क्षते, उत्पत्तिं प्रति तु अपेक्षते । कुतः ? यज्ञादिश्रुतेः । तथा हि श्रुतिः — ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’(बृ. उ. ४ । ४ । २२) इति यज्ञादीनां विद्यासाधनभावं दर्शयति । विवि­दि­षा­सं­यो­गा­च्चै­षा­मु­त्प­त्ति­सा­ध­न­भा­वोऽ­व­सी­यते । ‘अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तत्’(छा. उ. ८ । ५ । १) इत्यत्र च विद्या­सा­ध­न­भू­तस्य ब्रह्मचर्यस्य यज्ञादिभिः संस्तवात् यज्ञादीनामपि हि साधनभावः सूच्यते । ‘सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीमि’(क. उ. १ । २ । १५) इत्येवमाद्या च श्रुतिः आश्रमकर्मणां विद्यासाधनभावं सूचयति । स्मृतिरपि — ‘कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः । कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते’ इत्येवमाद्या । अश्ववदिति योग्य­ता­नि­द­र्श­नम् — यथा च योग्यतावशेन अश्वो न लाङ्गलाकर्षणे युज्यते, रथचर्यायां तु युज्यते, एवमाश्रमकर्माणि विद्यया फलसिद्धौ नापेक्ष्यन्ते, उत्पत्तौ च अपेक्ष्यन्त इति ॥ २६ ॥

शमदमाद्युपेतः स्यात्तथापि तु तद्वि­धे­स्त­द­ङ्ग­तया तेषा­म­व­श्या­नु­ष्ठे­य­त्वात् ॥ २७ ॥

२७

यदि कश्चिन्मन्येत — यज्ञादीनां विद्यासाधनभावो न न्याय्यः, विध्यभावात् । ‘यज्ञेन विविदिषन्ति’ इत्येवंजातीयका हि श्रुतिः अनुवादस्वरूपा विद्या­भि­ष्ट­व­परा, न यज्ञादिविधिपरा — इत्थं महाभागा विद्या, यत् यज्ञा­दि­भि­रे­ता­म­वा­प्तु­मि­च्छ­न्तीति — तथापि तु शमदमाद्युपेतः स्यात् विद्यार्थी, ‘तस्मा­दे­वं­वि­च्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽ­त्म­न्ये­वा­त्मानं पश्यति’(बृ. उ. ४ । ४ । २३) इति विद्यासाधनत्वेन शमदमादीनां विधानात् विहितानां च अव­श्या­नु­ष्ठे­य­त्वात् । ननु अत्रापि शमाद्युपेतो भूत्वा पश्यतीति वर्तमानापदेश उपलभ्यते, न विधिः ; नेति ब्रूमः, ‘तस्मात्’ इति प्रकृ­त­प्र­शं­सा­प­रि­ग्र­हा­द्वि­धि­त्व­प्र­तीतेः । ‘पश्येत्’ इति च माध्यन्दिना विस्पष्टमेव विधिमधीयते । तस्मात् यज्ञा­द्य­न­पे­क्षा­या­मपि शमा­दी­न्य­पे­क्षि­त­व्यानि । यज्ञादीन्यपि तु अपेक्षितव्यानि, यज्ञा­दि­श्रु­ते­रेव । ननु उक्तम् — यज्ञा­दि­भि­र्वि­वि­दि­ष­न्ती­त्यत्र न विधिरुपलभ्यत इति — सत्यमुक्तम्; तथापि तु अपू­र्व­त्वा­त्सं­यो­गस्य विधिः परिकल्प्यते । न हि अयं यज्ञादीनां विविदिषासंयोगः पूर्वं प्राप्तः, येनानूद्येत । ‘तस्मात्पूषा प्रपि­ष्ट­भा­गोऽ­द­न्तको हि’ इत्येवमादिषु च अश्रु­त­वि­धि­के­ष्वपि वाक्येषु अपू­र्व­त्वा­द्विधिं परिकल्प्य, ‘पौष्णं पेषणं विकृतौ प्रतीयेत’(शाब. भा. ३ । ३ । ३४) — इत्यादिविचारः प्रथमे तन्त्रे प्रवर्तितः । तथा च उक्तम् ‘विधिर्वा धारणवत्’(ब्र. सू. ३ । ४ । २०) इति । स्मृतिष्वपि भगवद्गीताद्यासु अनभिसन्धाय फलम् अनुष्ठितानि यज्ञादीनि मुमु­क्षो­र्ज्ञा­न­सा­ध­नानि भवन्तीति प्रपञ्चितम् । तस्मा­द्य­ज्ञा­दीनि शमदमादीनि च यथाश्रमं सर्वाण्येव आश्रमकर्माणि विद्यो­त्प­त्ता­व­पे­क्षि­त­व्यानि । तत्रापि ‘एवंवित्’ इति विद्यासंयोगात् प्रत्यासन्नानि विद्यासाधनानि शमादीनि, विवि­दि­षा­सं­यो­गात्तु बाह्यतराणि यज्ञादीनीति विवेक्तव्यम् ॥ २७ ॥

सर्वा­न्ना­नु­म­तिश्च प्राणात्यये तद्दर्शनात् ॥ २८ ॥

२८

प्राणसंवादे श्रूयते छन्दोगानाम् — ‘न ह वा एवंविदि किञ्चनानन्नं भवति’(छा. उ. ५ । २ । १) इति । तथा वाजसनेयिनाम् — ‘न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतम्’(बृ. उ. ६ । १ । १४) इति । सर्व­म­स्या­द­नी­य­मेव भवतीत्यर्थः । किमिदं सर्वा­न्ना­नु­ज्ञानं शमादिवत् विद्याङ्गं विधीयते, उत स्तुत्यर्थं सङ्कीर्त्यत इति संशये — विधिरिति तावत्प्राप्तम् । तथा हि प्रवृ­त्ति­वि­शे­ष­कर उपदेशो भवति । अतः प्राण­वि­द्या­स­न्नि­धा­नात् तदङ्गत्वेन इयं निय­म­नि­वृ­त्ति­रु­प­दि­श्यते । ननु एवं सति भक्ष्या­भ­क्ष्य­वि­भा­ग­शा­स्त्र­व्या­घातः स्यात् — नैष दोषः, सामा­न्य­वि­शे­ष­भा­वात् बाधोपपत्तेः । यथा प्राणि­हिं­सा­प्र­ति­षे­धस्य पशु­सं­ज्ञ­प­न­वि­धिना बाधः, यथा च ‘न काञ्चन परि­ह­रे­त्त­द्व्र­तम्’(छा. उ. २ । १३ । २) इत्यनेन वाम­दे­व्य­वि­द्या­वि­ष­येण सर्व­स्त्र्य­प­रि­हा­र­व­च­नेन सामान्यविषयं गम्या­ग­म्य­वि­भा­ग­शास्त्रं बाध्यते — एवमनेनापि प्राण­वि­द्या­वि­ष­येण सर्वा­न्न­भ­क्ष­ण­व­च­नेन भक्ष्या­भ­क्ष्य­वि­भा­ग­शास्त्रं बाध्येतेत्येवं प्राप्ते ब्रूमः —

नेदं सर्वा­न्ना­नु­ज्ञानं विधीयत इति । न हि अत्र विधायकः शब्द उपलभ्यते, ‘न ह वा एवंविदि किञ्चनानन्नं भवति’(छा. उ. ५ । २ । १) इति वर्तमानापदेशात् । न च असत्यामपि विधिप्रतीतौ प्रवृ­त्ति­वि­शे­ष­क­र­त्व­लो­भे­नैव विधि­र­भ्यु­प­गन्तुं शक्यते । अपि च श्वादिमर्यादं प्राण­स्या­न्न­मि­त्युक्त्वा, इदमुच्यते — नैवंविदः किञ्चिदनन्नं भवतीति । न च श्वादि­म­र्या­द­मन्नं मानुषेण देहेनोपभोक्तुं शक्यते । शक्यते तु प्राण­स्या­न्न­मिदं सर्वमिति विचिन्तयितुम् । तस्मात् प्राणा­न्न­वि­ज्ञा­न­प्र­शं­सा­र्थोऽ­य­म­र्थ­वादः, न सर्वा­न्ना­नु­ज्ञा­न­विधिः । तद्दर्शयति — ‘सर्वा­न्ना­नु­म­तिश्च प्राणात्यये’ इति । एतदुक्तं भवति — प्राणात्यय एव हि परस्यामापदि सर्व­म­न्न­म­द­नी­य­त्वे­ना­भ्य­नु­ज्ञा­यते, तद्दर्शनात् । तथा हि श्रुतिः चाक्रायणस्य ऋषेः कष्टा­या­म­व­स्था­याम् अभक्ष्यभक्षणे प्रवृत्तिं दर्शयति ‘मटचीहतेषु कुरुषु’(छा. उ. १ । १० । १) इत्यस्मिन् ब्राह्मणे — चाक्रायणः किल ऋषिः आपद्गतः इभ्येन सामि­खा­दि­ता­न्कु­ल्मा­षां­श्च­खाद । अनुपानं तु तदीयम् उच्छि­ष्ट­दो­षा­त्प्र­त्या­च­चक्षे । कारणं चात्रोवाच ‘न वा अजी­वि­ष्य­मि­मा­न­खा­दन्’(छा. उ. १ । १० । ४) इति, ‘कामो म उदपानम्’(छा. उ. १ । १० । ४) इति च । पुनश्च उत्तरेद्युः तानेव स्वप­रो­च्छि­ष्टा­न्प­र्यु­षि­ता­न्कु­ल्मा­षान् भक्षयांबभूव — इति । तदेतत् उच्छि­ष्टो­च्छि­ष्ट­प­र्यु­षि­त­भ­क्षणं दर्शयन्त्याः श्रुतेः आशयातिशयो लक्ष्यते — प्राणा­त्य­य­प्र­सङ्गे प्राणसन्धारणाय अभक्ष्यमपि भक्षयितव्यमिति; स्वस्थावस्थायां तु तन्न कर्तव्यं विद्यावतापि — इत्य­नु­पा­न­प्र­त्या­ख्या­ना­द्ग­म्यते । तस्मात् अर्थवादः ‘न ह वा एवंविदि’(छा. उ. ५ । २ । १) इत्येवमादिः ॥ २८ ॥

अबाधाच्च ॥ २९ ॥

२९

एवं च सति ‘आहारशुद्धौ सत्त्वशुद्धिः’ इत्येवमादि भक्ष्या­भ­क्ष्य­वि­भा­ग­शा­स्त्रम् अबाधितं भविष्यति ॥ २९ ॥

अपि च स्मर्यते ॥ ३० ॥

३०

अपि च आपदि सर्वा­न्न­भ­क्ष­ण­मपि स्मर्यते विदुषोऽविदुषश्च अविशेषेण — ‘जीवि­ता­त्य­य­मा­पन्नो योऽन्नमत्ति यतस्ततः । लिप्यते न स पापेन पद्म­प­त्र­मि­वा­म्भसा’(म.स्मृ. १० । १०४) इति । तथा ‘मद्यं नित्यं ब्राह्मणः’(गौ॰ध॰सू॰ १-२-२५) , ‘सुरापस्य ब्राह्म­ण­स्यो­ष्णा­मा­सि­ञ्चेयुः’(गौ. ध. सू. ३ । ५ । १) , ‘सुरापाः कृमयो भव­न्त्य­भ­क्ष्य­भ­क्ष­णात्’ इति च स्मर्यते वर्जनमनन्नस्य ॥ ३० ॥

शब्द­श्चा­तोऽ­का­म­कारे ॥ ३१ ॥

३१

शब्दश्च अनन्नस्य प्रतिषेधकः काम­का­र­नि­वृ­त्ति­प्र­यो­जनः कठानां संहितायां श्रूयते — ‘तस्मा­द्ब्रा­ह्मणः सुरां न पिबेत्’ इति । सोऽपि ‘न ह वा एवंविदि’(छा. उ. ५ । २ । १) इत्य­स्या­र्थ­वा­द­त्वात् उपपन्नतरो भवति । तस्मा­दे­वं­जा­ती­यका अर्थवादा न विधय इति ॥ ३१ ॥

विहि­त­त्वा­च्चा­श्र­म­क­र्मापि ॥ ३२ ॥

३२

‘सर्वापेक्षा च’(ब्र. सू. ३ । ४ । २६) इत्यत्र आश्रमकर्मणां विद्या­सा­ध­न­त्व­म­व­धा­रि­तम्; इदानीं तु किम­मु­मु­क्षो­र­प्या­श्र­म­मा­त्र­नि­ष्ठस्य विद्या­म­का­म­य­मा­नस्य तान्य­नु­ष्ठे­यानि, उताहो नेति चिन्त्यते । तत्र ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’(बृ. उ. ४ । ४ । २२) इत्यादिना आश्रमकर्मणां विद्यासाधनत्वेन विहितत्वात् विद्यामनिच्छतः फलान्तरं कामयमानस्य नित्या­न्य­न­नु­ष्ठे­यानि । अथ तस्या­प्य­नु­ष्ठे­यानि, न तर्हि एषां विद्यासाधनत्वम् , नित्या­नि­त्य­सं­यो­ग­वि­रो­धात् — इत्यस्यां प्राप्तौ, पठति — आश्र­म­मा­त्र­नि­ष्ठ­स्या­प्य­मु­मुक्षोः कर्तव्यान्येव नित्यानि कर्माणि, ‘याव­ज्जी­व­म­ग्नि­होत्रं जुहोति’ इत्यादिना विहितत्वात्; न हि वचनस्यातिभारो नाम कश्चिदस्ति ॥ ३२ ॥

अथ यदुक्तम् — नैवं सति विद्या­सा­ध­न­त्व­मेषां स्यादिति, अत उत्तरं पठति —

सहकारित्वेन च ॥ ३३ ॥

३३

विद्यासहकारीणि च एतानि स्युः, विहितत्वादेव ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’ इत्यादिना; तदुक्तम् — ‘सर्वापेक्षा च यज्ञा­दि­श्रु­ते­र­श्व­वत्’(ब्र. सू. ३ । ४ । २६) इति । न चेदं विद्या­स­ह­का­रि­त्व­व­च­न­मा­श्र­म­क­र्मणां प्रयाजादिवत् विद्याफलविषयं मन्तव्यम् , अवि­धि­ल­क्ष­ण­त्वा­द्वि­द्यायाः, असाध्यत्वाच्च विद्याफलस्य । विधिलक्षणं हि साधनं दर्शपूर्णमासादि स्वर्ग­फ­ल­सि­षा­ध­यि­षया सह­का­रि­सा­ध­ना­न्त­रम् अपेक्षते, नैवं विद्या । तथा चोक्तम् — ‘अत एव चाग्नी­न्ध­ना­द्य­न­पेक्षा’(ब्र. सू. ३ । ४ । २५) इति । तस्मा­दु­त्प­त्ति­सा­ध­नत्व एव एषां सह­का­रि­त्व­वा­चो­युक्तिः । न च अत्र नित्या­नि­त्य­सं­यो­ग­वि­रोध आशङ्क्यः, कर्माभेदेऽपि संयोगभेदात् । नित्यो हि एकः संयोगो याव­ज्जी­वा­दि­वा­क्य­क­ल्पितः, न तस्य विद्याफलत्वम् । अनित्यस्तु अपरः संयोगः ‘तमेतं वेदानुवचनेन’(बृ. उ. ४ । ४ । २२) इत्या­दि­वा­क्य­क­ल्पितः, तस्य विद्याफलत्वम् — यथा एकस्यापि खादिरत्वस्य नित्येन संयोगेन क्रत्वर्थत्वम् , अनित्येन संयोगेन पुरुषार्थत्वम् , तद्वत् ॥ ३३ ॥

सर्वथापि त एवोभयलिङ्गात् ॥ ३४ ॥

३४

सर्वथापि आश्र­म­क­र्म­त्व­पक्षे विद्या­स­ह­का­रि­त्व­पक्षे च, त एव अग्निहोत्रादयो धर्मा अनुष्ठेयाः । ‘त एव’ इत्य­व­धा­र­य­न्ना­चार्यः किं निवर्तयति ? कर्म­भे­द­श­ङ्का­मिति ब्रूमः । यथा कुण्डपायिनामयने ‘मासमग्निहोत्रं जुह्वति’ इत्यत्र नित्या­द­ग्नि­हो­त्रा­त्क­र्मा­न्त­र­मु­प­दि­श्यते, नैवमिह कर्म­भे­दोऽ­स्ती­त्यर्थः । कुतः ? उभयलिङ्गात् — श्रुति­लि­ङ्गा­त्स्मृ­ति­लि­ङ्गाच्च । श्रुतिलिङ्गं तावत् — ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’(बृ. उ. ४ । ४ । २२) इति सिद्ध­व­दु­त्प­न्न­रू­पा­ण्येव यज्ञादीनि विविदिषायां विनियुङ्क्ते, न तु ‘जुह्वति’ इत्यादिवत् अपूर्वमेषां रूपमुत्पादयतीति । स्मृतिलिङ्गमपि — ‘अनाश्रितः कर्मफलं कार्यं कर्म करोति यः’(भ. गी. ६ । १) इति विज्ञा­त­क­र्त­व्य­ता­क­मेव कर्म विद्यो­त्प­त्त्यर्थं दर्शयति । ‘यस्यै­तेऽ­ष्टा­च­त्वा­रिं­श­त्सं­स्काराः’(गौ. ध. सू. १ । ८ । २५) इत्याद्या च संस्का­र­त्व­प्र­सिद्धिः वैदिकेषु कर्मसु तत्संस्कृतस्य विद्यो­त्प­त्ति­म­भि­प्रेत्य स्मृतौ भवति । तस्मा­त्सा­ध्वि­दम् अभेदावधारणम् ॥ ३४ ॥

अनभिभवं च दर्शयति ॥ ३५ ॥

३५

सहकारित्वस्यैव एतदुपोद्बलकं लिङ्गदर्शनम् । अनभिभवं च दर्शयति श्रुतिः ब्रह्म­च­र्या­दि­सा­ध­न­स­म्प­न्नस्य रागादिभिः क्लेशैः — ‘एष ह्यात्मा न नश्यति यं ब्रह्म­च­र्ये­णा­नु­वि­न्दते’(छा. उ. ८ । ५ । ३) इत्यादिना । तस्मात् यज्ञा­दी­न्या­श्र­म­क­र्माणि च भवन्ति विद्यासहकारीणि चेति निश्चितम् ॥ ३५ ॥

अन्तरा चापि तु तद्दृष्टेः ॥ ३६ ॥

३६

विधुरादीनां द्रव्या­दि­स­म्प­द्र­हि­तानां च अन्य­त­मा­श्र­म­प्र­ति­प­त्ति­ही­ना­ना­म­न्त­रा­ल­व­र्तिनां किं विद्या­या­म­धि­का­रोऽस्ति, किं वा नास्ति — इति संशये, नास्तीति तावत्प्राप्तम् , आश्रमकर्मणां विद्या­हे­तु­त्वा­व­धा­र­णात् , आश्र­म­क­र्मा­स­म्भ­वा­च्चै­ते­षाम् — इत्येवं प्राप्ते, इदमाह — अन्तरा चापि तु — अनाश्रमित्वेन वर्तमानोऽपि विद्या­या­म­धि­क्रि­यते । कुतः ? तद्दृष्टेः — रैक्व­वा­च­क्न­वी­प्र­भृ­ती­ना­मे­वं­भू­ता­ना­मपि ब्रह्म­वि­त्त्व­श्रु­त्यु­प­लब्धेः ॥ ३६ ॥

अपि च स्मर्यते ॥ ३७ ॥

३७

संव­र्त­प्र­भृ­तीनां च नग्न­च­र्या­दि­यो­गात् अन­पे­क्षि­ता­श्र­म­क­र्म­णा­मपि महायोगित्वं स्मर्यत इतिहासे ॥ ३७ ॥

ननु लिङ्गमिदं श्रुति­स्मृ­ति­द­र्श­न­मु­प­न्य­स्तम् । का नु खलु प्राप्तिरिति, सा अभिधीयते —

विशेषानुग्रहश्च ॥ ३८ ॥

३८

तेषामपि च विधुरादीनाम् अविरुद्धैः पुरु­ष­मा­त्र­स­म्ब­न्धि­भि­र्ज­पो­प­वा­स­दे­व­ता­रा­ध­ना­दि­भि­र्ध­र्म­वि­शे­षै­र­नु­ग्रहो विद्यायाः सम्भवति । तथा च स्मृतिः — ‘जप्येनैव तु संसि­ध्ये­द्ब्रा­ह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते’(म. स्मृ. २ । ८७) इति अस­म्भ­व­दा­श्र­म­क­र्म­णोऽपि जप्येऽधिकारं दर्शयति । जन्मा­न्त­रा­नु­ष्ठि­तै­रपि च आश्रमकर्मभिः सम्भवत्येव विद्याया अनुग्रहः । तथा च स्मृतिः — ‘अने­क­ज­न्म­सं­सि­द्ध­स्ततो याति परां गतिम्’(भ. गी. ६ । ४५) इति जन्मा­न्त­र­स­ञ्चि­ता­नपि संस्कारविशेषान् अनुग्रहीतॄन् विद्यायां दर्शयति । दृष्टार्था च विद्या प्रति­षे­धा­भा­व­मा­त्रे­णापि अर्थिनमधिकरोति श्रवणादिषु । तस्मात् विधु­रा­दी­ना­म­प्य­धि­कारो न विरुध्यते ॥ ३८ ॥

अत­स्त्वि­त­र­ज्ज्यायो लिङ्गाच्च ॥ ३९ ॥

३९

अतस्तु अन्त­रा­ल­व­र्ति­त्वात् इतरत् आश्रमवर्तित्वं ज्यायो विद्यासाधनम् , श्रुति­स्मृ­ति­स­न्दृ­ष्ट­त्वात् । श्रुतिलिङ्गाच्च — ‘तेनैति ब्रह्म­वि­त्पु­ण्य­कृ­त्तै­ज­सश्च’(बृ. उ. ४ । ४ । ९) इति । ‘अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः । संवत्सरमनाश्रमी स्थित्वा कृच्छ्रमेकं चरेत्’(द॰स्मृ॰ १-१०) इति च स्मृतिलिङ्गात् ॥ ३९ ॥

तद्भूतस्य तु नातद्भावो जैमिनेरपि निय­मा­त­द्रू­पा­भा­वेभ्यः ॥ ४० ॥

४०

सन्ति ऊर्ध्वरेतस आश्रमा इति स्थापितम् । तांस्तु प्राप्तस्य कथञ्चित् ततः प्रच्युतिरस्ति, नास्ति वेति संशयः । पूर्व­क­र्म­स्व­नु­ष्ठा­न­चि­की­र्षया वा रागादिवशेन वा प्रच्युतोऽपि स्यात् विशे­षा­भा­वा­दि­त्येवं प्राप्ते, उच्यते — तद्भूतस्य तु प्रति­प­न्नो­र्ध्व­रे­तो­भा­वस्य न कथञ्चिदपि अतद्भावः, न ततः प्रच्युतिः स्यात् । कुतः ? निय­मा­त­द्रू­पा­भा­वेभ्यः । तथा हि — ‘अत्य­न्त­मा­त्मा­न­मा­चा­र्य­कु­लेऽ­व­सा­द­यन्’(छा. उ. २ । २३ । १) इति, ‘अरण्यमियादिति पदं ततो न पुन­रे­या­दि­त्यु­प­नि­षत्’ इति, ‘आचा­र्ये­णा­भ्य­नु­ज्ञा­त­श्च­तु­र्णा­मे­क­मा­श्र­मम् । आ विमो­क्षा­च्छ­री­रस्य सोऽनु­ति­ष्ठे­द्य­था­विधि’(म॰भा॰ १२-२३४-४) इति च एवंजातीयको नियमः प्रच्युत्यभावं दर्शयति । यथा च ‘ब्रह्मचर्यं समाप्य गृही भवेत्’(जा. उ. ४) ‘ब्रह्मचर्यादेव प्रव्रजेत्’(जा. उ. ४) इति च एवमादीनि आरोहरूपाणि वचां­स्यु­प­ल­भ्यन्ते, नैवं प्रत्य­व­रो­ह­रू­पाणि । न चैवमाचाराः शिष्टा विद्यन्ते । यत्तु पूर्व­क­र्म­स्व­नु­ष्ठा­न­चि­की­र्षया प्रत्य­व­रो­ह­ण­मिति, तदसत् — ‘श्रेया­न्स्व­धर्मो विगुणः पर­ध­र्मा­त्स्व­नु­ष्ठि­तात्’(भ. गी. ३ । ३५) इति स्मरणात् , न्यायाच्च — यो हि यं प्रति विधीयते स तस्य धर्मः, न तु यो येन स्वनुष्ठातुं शक्यते । चोद­ना­ल­क्ष­ण­त्वा­द्ध­र्मस्य । न च रागा­दि­व­शा­त्प्र­च्युतिः, नियमशास्त्रस्य बलीयस्त्वात् । जैमिनेरपीति अपिशब्देन जैमि­नि­बा­द­रा­य­ण­यो­रत्र सम्प्रतिपत्तिं शास्ति प्रति­प­त्ति­दा­र्ढ्याय ॥ ४० ॥

न चाधिकारिकमपि पत­ना­नु­मा­ना­त्त­द­यो­गात् ॥ ४१ ॥

४१

यदि नैष्ठिको ब्रह्मचारी प्रमा­दा­द­व­की­र्येत, किं तस्य ‘ब्रह्म­चा­र्य­व­कीर्णी नैऋतं गर्दभमालभेत’ इत्ये­त­त्प्रा­य­श्चित्तं स्यात् , उत नेति । नेत्युच्यते; यदपि अधिकारलक्षणे निर्णीतं प्रायश्चित्तम् ‘अवकीर्णिपशुश्च तद्व­दा­धा­न­स्या­प्रा­प्त­का­ल­त्वात्’(जै. सू. ६ । ८ । २२) इति, तदपि न नैष्ठिकस्य भवितुमर्हति । किं कारणम् ? ‘आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा’(अ॰पु॰ १६५-२३,२४) इति अप्र­ति­स­मा­धे­य­प­त­न­स्म­र­णात् छिन्नशिरस इव प्रति­क्रि­या­नु­प­पत्तेः । उपकुर्वाणस्य तु तादृ­क्प­त­न­स्म­र­णा­भा­वा­दु­प­प­द्यते तत्प्रा­य­श्चि­त्तम् ॥ ४१ ॥

उपपूर्वमपि त्वेके भाव­म­श­न­व­त्त­दु­क्तम् ॥ ४२ ॥

४२

अपि तु एके आचार्या उपपातकमेवैतदिति मन्यन्ते । यत् नैष्ठिकस्य गुरु­दा­रा­दि­भ्योऽ­न्यत्र ब्रह्मचर्यं विशीर्येत, न तत् महापातकं भवति, गुरुतल्पादिषु महा­पा­त­के­ष्व­प­रि­ग­ण­नात् । तस्मात् उपकुर्वाणवत् नैष्ठिकस्यापि प्रायश्चित्तस्य भावमिच्छन्ति, ब्रह्म­चा­रि­त्वा­वि­शे­षात् अव­की­र्णि­त्वा­वि­शे­षाच्च । अशनवत् — यथा ब्रह्मचारिणो मधुमांसाशने व्रतलोपः पुनः संस्कारश्च, एवमिति । ये हि प्राय­श्चि­त्त­स्या­भा­व­मि­च्छन्ति, तेषां न मूलमुपलभ्यते । ये तु भावमिच्छन्ति, तेषां ‘ब्रह्म­चा­र्य­व­कीर्णी’ इत्ये­त­द­वि­शे­ष­श्र­वणं मूलम् । तस्मात् भावो युक्ततरः । तदुक्तं प्रमाणलक्षणे — ‘समा विप्रतिपत्तिः स्यात्’(जै. सू. १ । ३ । ८) ‘शास्त्रस्था वा तन्नि­मि­त्त­त्वात्’(जै. सू. १ । ३ । ९) इति । प्राय­श्चि­त्ता­भा­व­स्म­रणं तु एवं सति यत्न­गौ­र­वो­त्पा­द­ना­र्थ­मिति व्याख्यातव्यम् । एवं भिक्षु­वै­खा­न­स­यो­रपि — ‘वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्धयेत्’ ,‘भिक्षु­र्वा­न­प्र­स्थ­व­त्सो­म­व­ल्लि­वर्जं स्वशा­स्त्र­सं­स्का­रश्च’(व॰ध॰ २१-३५,३६) इत्येवमादि प्राय­श्चि­त्त­स्म­र­णम् अनुसर्तव्यम् ॥ ४२ ॥

बहिस्तूभयथापि स्मृतेराचाराच्च ॥ ४३ ॥

४३

यदि ऊर्ध्वरेतसां स्वाश्रमेभ्यः प्रच्यवनं महापातकम् , यदि वा उपपातकम् , उभयथापि शिष्टैस्ते बहिष्कर्तव्याः — ‘आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा’(अ॰पु॰ १६५-२३,२४) इति, ‘आरूढपतितं विप्रं मण्डलाच्च विनिःसृतम् । उद्बद्धं कृमिदष्टं च स्पृष्ट्वा चान्द्रायणं चरेत्’ इति च एव­मा­दि­नि­न्दा­ति­श­य­स्मृ­तिभ्यः । शिष्टाचाराच्च — न हि यज्ञा­ध्य­य­न­वि­वा­हा­दीनि तैः सह आचरन्ति शिष्टाः ॥ ४३ ॥

स्वामिनः फल­श्रु­ते­रि­त्या­त्रेयः ॥ ४४ ॥

४४

अङ्गेषूपासनेषु संशयः — किं तानि यजमानकर्माणि आहोस्वित् ऋत्वि­क्क­र्मा­णीति । किं तावत्प्राप्तम् ? यजमानकर्माणीति । कुतः ? फलश्रुतेः । फलं हि श्रूयते — ‘वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ पञ्चविधꣳ सामोपास्ते’(छा. उ. २ । ३ । २) इत्यादि । तच्च स्वामिगामि न्याय्यम् , तस्य साङ्गे प्रयो­गेऽ­धि­कृ­त­त्वात् , अधि­कृ­ता­धि­का­र­त्वाच्च एवंजातीयकस्य । फलं च कर्तरि उपासनानां श्रूयते — ‘वर्षत्यस्मै य उपास्ते’ इत्यादि । ननु ऋत्विजोऽपि फलं दृष्टम् ‘आत्मने वा यजमानाय वा यं कामं कामयते तमागायति’(बृ. उ. १ । ३ । २८) इति — न, तस्य वाचनिकत्वात् । तस्मात् स्वामिन एव फलवत्सु उपासनेषु कर्तृत्वम् — इत्यात्रेय आचार्यो मन्यते ॥ ४४ ॥

आर्त्वि­ज्य­मि­त्यौ­डु­लो­मि­स्तस्मै हि परिक्रीयते ॥ ४५ ॥

४५

नैतदस्ति — स्वामि­क­र्मा­ण्यु­पा­स­ना­नीति । ऋत्वि­क्क­र्मा­ण्ये­तानि स्युः — इत्यौ­डु­लो­मि­रा­चार्यो मन्यते । किं कारणम् ? तस्मै हि साङ्गाय कर्मणे यजमानेन ऋत्विक् परिक्रीयते । तत्प्र­यो­गा­न्तः­पा­तीनि च उद्गी­था­द्यु­पा­स­नानि अधि­कृ­ता­धि­का­र­त्वात् । तस्मात् गोदो­ह­ना­दि­नि­य­म­व­देव ऋत्वि­ग्भि­र्नि­र्व­र्त्ये­रन् । तथा च ‘तꣳ ह बको दाल्भ्यो विदाञ्चकार । स ह नैमि­शी­या­ना­मु­द्गाता बभूव’(छा. उ. १ । २ । १३) इत्यु­द्गा­तृ­क­र्तृ­कतां विज्ञानस्य दर्शयति । यत्तूक्तं कर्त्राश्रयं फलं श्रूयत इति — नैष दोषः, परा­र्थ­त्वा­दृ­त्विजः अन्यत्र वचनात् फल­स­म्ब­न्धा­नु­प­पत्तेः ॥ ४५ ॥

श्रुतेश्च ॥ ४६ ॥

४६

‘यां वै काञ्चन यज्ञ ऋत्विज आशिषमाशासत इति यजमानायैव तामाशासत इति होवाच’ इति, ‘तस्मादु हैवंविदुद्गाता ब्रूयात्कं’(छा. उ. १ । ७ । ८) ‘ते काममागायानि’(छा. उ. १ । ७ । ९) इति च ऋत्वि­क्क­र्तृ­कस्य विज्ञानस्य यजमानगामि फलं दर्शयति । तस्मात् अङ्गो­पा­स­ना­ना­मृ­त्वि­क्क­र्म­त्व­सिद्धिः ॥ ४६ ॥

सह­का­र्य­न्त­र­विधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ ४७ ॥

४७

‘तस्मा­द्ब्रा­ह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठा­से­द्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः’(बृ. उ. ३ । ५ । १) इति बृहदारण्यके श्रूयते । तत्र संशयः — मौनं विधीयते, न वेति । न विधीयत इति तावत्प्राप्तम् , ‘बाल्येन तिष्ठासेत्’ इत्यत्रैव विधेरवसितत्वात् । न हि ‘अथ मुनिः’ इत्यत्र विधायिका विभ­क्ति­रु­प­ल­भ्यते । तस्मादयमनुवादो युक्तः । कुतः प्राप्तिरिति चेत् — मुनि­प­ण्डि­त­श­ब्द­यो­र्ज्ञा­ना­र्थ­त्वात् ‘पाण्डित्यं निर्विद्य’ इत्येव प्राप्तं मौनम् । अपि च ‘अमौनं च मौनं च निर्विद्याथ ब्राह्मणः’ इत्यत्र तावत् न ब्राह्मणत्वं विधीयते, प्रागेव प्राप्तत्वात् । तस्मात् ‘अथ ब्राह्मणः’ इति प्रशंसावादः, तथैव ‘अथ मुनिः’ इत्यपि भवितुमर्हति, समा­न­नि­र्दे­श­त्वा­दि­त्येवं प्राप्ते ब्रूमः —

सह­का­र्य­न्त­र­वि­धि­रिति । विद्यासहकारिणो मौनस्य बाल्य­पा­ण्डि­त्य­व­द्वि­धि­रेव आश्रयितव्यः, अपूर्वत्वात् । ननु पाण्डि­त्य­श­ब्दे­नैव मौन­स्या­व­ग­त­त्व­मु­क्तम् — नैष दोषः, मुनिशब्दस्य ज्ञाना­ति­श­या­र्थ­त्वात् , मननान्मुनिरिति च व्युत्प­त्ति­स­म्भ­वात् , ‘मुनीनामप्यहं व्यासः’(भ. गी. १० । ३७) इति च प्रयोगदर्शनात् । ननु मुनिशब्द उत्त­मा­श्र­म­व­च­नोऽपि श्रूयते ‘गार्ह­स्थ्य­मा­चा­र्य­कुलं मौनं वानप्रस्थम्’ इत्यत्र — न, ‘वाल्मी­कि­र्मु­नि­पु­ङ्गवः’ इत्यादिषु व्यभि­चा­र­द­र्श­नात् । इत­रा­श्र­म­स­न्नि­धा­नात्तु पारिशेष्यात् तत्र उत्त­मा­श्र­मो­पा­दा­नम् , ज्ञान­प्र­धा­न­त्वा­दु­त्त­मा­श्र­मस्य । तस्मात् बाल्य­पा­ण्डि­त्या­पे­क्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विधीयते । यत्तु बाल्य एव विधेः पर्यवसानमिति, तथापि अपू­र्व­त्वा­न्मु­नि­त्वस्य विधे­य­त्व­मा­श्री­यते — मुनिः स्यादिति । निर्वे­द­नी­य­त्व­नि­र्दे­शा­दपि मौनस्य बाल्य­पा­ण्डि­त्य­व­द्वि­धे­य­त्वा­श्र­य­णम् । तद्वतः विद्यावतः संन्यासिनः । कथं च विद्यावतः संन्यासिन इत्यवगम्यते ? तदधिकारात् — आत्मानं विदित्वा पुत्रा­द्ये­ष­णाभ्यो व्युत्थाय ‘अथ भिक्षाचर्यं चरन्ति’ इति । ननु सति विद्यावत्त्वे प्राप्नोत्येव तत्रातिशयः, किं मौनविधिना — इत्यत आह — पक्षेणेति । एतदुक्तं भवति — यस्मिन्पक्षे भेद­द­र्श­न­प्रा­ब­ल्यात् न प्राप्नोति, तस्मिन् एष विधिरिति । विध्यादिवत् — यथा ‘दर्श­पू­र्ण­मा­साभ्यां स्वर्गकामो यजेत’ इत्येवंजातीयके विध्यादौ सहकारित्वेन अग्न्य­न्वा­धा­ना­दि­कम् अङ्गजातं विधीयते, एवम् अविधिप्रधानेऽपि अस्मि­न्वि­द्या­वाक्ये मौन­वि­धि­रि­त्यर्थः ॥ ४७ ॥

एवं बाल्या­दि­वि­शिष्टे कैवल्याश्रमे श्रुतिमति विद्यमाने, कस्मात् छान्दोग्ये गृहिणा उपसंहारः ‘अभिसमावृत्य कुटुम्बे’(छा. उ. ८ । १५ । १) इत्यत्र ? तेन हि उपसंहरन् तद्विषयमादरं दर्शयति — इत्यत उत्तरं पठति —

कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ४८ ॥

४८

तुशब्दो विशेषणार्थः । कृत्स्नभावोऽस्य विशेष्यते । बहुलायासानि हि बहू­न्या­श्र­म­क­र्माणि यज्ञादीनि तं प्रति कर्त­व्य­त­यो­प­दि­ष्टानि, आश्र­मा­न्त­र­क­र्माणि च यथा­स­म्भ­व­म­हिं­से­न्द्रि­य­सं­य­मा­दीनि तस्य विद्यन्ते । तस्मात् गृहमेधिना उपसंहारो न विरुध्यते ॥ ४८ ॥

मौन­व­दि­त­रे­षा­म­प्यु­प­दे­शात् ॥ ४९ ॥

४९

यथा मौनं गार्हस्थ्यं च एतावाश्रमौ श्रुतिमन्तौ, एवमितरावपि वान­प्र­स्थ­गु­रु­कु­ल­वासौ । दर्शिता हि पुर­स्ता­च्छ्रुतिः — ‘तप एव द्वितीयो ब्रह्म­चा­र्या­चा­र्य­कु­ल­वासी तृतीयः’(छा. उ. २ । २३ । १) इत्याद्या । तस्मात् चतु­र्णा­म­प्या­श्र­मा­णाम् उपदेशाविशेषात् तुल्यवत् विक­ल्प­स­मु­च्च­याभ्यां प्रतिपत्तिः । इतरेषामिति द्वयो­रा­श्र­म­यो­र्ब­हु­व­चनं वृत्ति­भे­दा­पे­क्षया अनु­ष्ठा­तृ­भे­दा­पे­क्षया वा — इति द्रष्टव्यम् ॥ ४९ ॥

अना­वि­ष्कु­र्व­न्न­न्व­यात् ॥ ५० ॥

५०

‘तस्मा­द्ब्रा­ह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्’(बृ. उ. ३ । ५ । १) इति बाल्य­म­नु­ष्ठे­य­तया श्रूयते । तत्र बालस्य भावः कर्म वा बाल्यमिति तद्धिते सति, बालभावस्य वयोविशेषस्य इच्छया सम्पा­द­यि­तु­म­श­क्य­त्वात् , यथो­प­पा­द­मू­त्र­पु­री­ष­त्वादि बालचरितम् , अन्तर्गता वा भावविशुद्धिः अप्र­रू­ढे­न्द्रि­यत्वं दम्भ­द­र्पा­दि­र­हि­तत्वं वा बाल्यं स्यादिति संशयः । किं तावत्प्राप्तम् ? कामचारवादभक्षता यथो­प­पा­द­मू­त्र­पु­री­षत्वं च प्रसिद्धतरं लोके बाल्यमिति तद्ग्रहणं युक्तम् । ननु पति­त­त्वा­दि­दो­ष­प्रा­प्तेर्न युक्तं काम­चा­र­ता­द्या­श्र­य­णम् — न; विद्यावतः संन्यासिनो वचनसामर्थ्यात् दोषनिवृत्तेः, पशु­हिं­सा­दि­ष्वि­वे­त्येवं प्राप्ते अभिधीयते —

न, वचनस्य गत्य­न्त­र­स­म्भ­वात् । अविरुद्धे हि अन्यस्मिन् बाल्य­श­ब्दा­भि­लप्ये लभ्यमाने, न विध्य­न्त­र­व्या­घा­त­क­ल्पना युक्ता । प्रधानोपकाराय च अङ्गं विधीयते । ज्ञानाभ्यासश्च प्रधानमिह यतीनामनुष्ठेयम् । न च सकलायां बाल­च­र्या­या­म­ङ्गी­क्रि­य­मा­णायां ज्ञानाभ्यासः सम्भाव्यते । तस्मात् आन्तरो भावविशेषो बालस्य अप्र­रू­ढे­न्द्रि­य­त्वादिः इह बाल्यमाश्रीयते; तदाह — अना­वि­ष्कु­र्व­न्निति । ज्ञाना­ध्य­य­न­धा­र्मि­क­त्वा­दिभिः आत्मा­न­म­वि­ख्या­प­यन् दम्भ­द­र्पा­दि­र­हितो भवेत् — यथा बालः अप्र­रू­ढे­न्द्रि­य­तया न परेषाम् आत्मा­न­मा­वि­ष्क­र्तु­मी­हते, तद्वत् । एवं हि अस्य वाक्यस्य प्रधा­नो­प­का­र्य­र्था­नु­गम उपपद्यते । तथा च उक्तं स्मृतिकारैः — ‘यं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राह्मणः ॥ गूढधर्माश्रितो विद्वा­न­ज्ञा­त­च­रितं चरेत् । अन्ध­व­ज्ज­ड­व­च्चापि मूकवच्च महीं चरेत्’(व॰स्मृ॰ ६-४०,४१), ‘अव्य­क्त­लि­ङ्गोऽ­व्य­क्ता­चारः’(व॰स्मृ॰ १०-१२) इति चैवमादि ॥ ५० ॥

ऐहि­क­म­प्य­प्र­स्तु­त­प्र­ति­बन्धे तद्दर्शनात् ॥ ५१ ॥

५१

‘सर्वापेक्षा च यज्ञा­दि­श्रु­ते­र­श्व­वत्’(ब्र. सू. ३ । ४ । २६) इत्यत आरभ्य उच्चावचं विद्या­सा­ध­न­म­व­धा­रि­तम्; तत्फलं विद्या सिध्यन्ती किमिहैव जन्मनि सिध्यति, उत कदाचित् अमुत्रापीति चिन्त्यते । किं तावत्प्राप्तम् ? इहैवेति । किं कारणम् ? श्रव­णा­दि­पू­र्विका हि विद्या । न च कश्चित् अमुत्र मे विद्या जाय­ता­मि­त्य­भि­स­न्धाय श्रवणादिषु प्रवर्तते । समान एव तु जन्मनि विद्याजन्म अभिसन्धाय एतेषु प्रवर्तमानो दृश्यते । यज्ञादीन्यपि श्रव­णा­दि­द्वा­रे­णैव विद्यां जनयन्ति, प्रमा­ण­ज­न्य­त्वा­द्वि­द्यायाः । तस्मादैहिकमेव विद्या­ज­न्मे­त्येवं प्राप्ते वदामः —

ऐहिकं विद्याजन्म भवति, असति प्रस्तु­त­प्र­ति­बन्ध इति । एतदुक्तं भवति — यदा प्रक्रान्तस्य विद्यासाधनस्य कश्चि­त्प्र­ति­बन्धो न क्रियते उपस्थितविपाकेन कर्मान्तरेण, तदा इहैव विद्या उत्पद्यते । यदा तु खलु तत्प्रतिबन्धः क्रियते तदा अमुत्रेति । उप­स्थि­त­वि­पा­कत्वं च कर्मणो देश­का­ल­नि­मि­त्तो­प­नि­पा­ता­द्भ­वति । यानि च एकस्य कर्मणो विपाचकानि देश­का­ल­नि­मि­त्तानि, तान्येव अन्यस्यापीति न नियन्तुं शक्यते; यतो विरुद्धफलान्यपि कर्माणि भवन्ति । शास्त्रमपि अस्य कर्मण इदं फलं भवतीत्येतावति पर्यवसितं न देश­का­ल­नि­मि­त्त­वि­शे­ष­मपि सङ्कीर्तयति । साध­न­वी­र्य­वि­शे­षात्तु अतीन्द्रिया कस्य­चि­च्छ­क्ति­रा­वि­र्भ­वति, तत्प्रतिबद्धा परस्य तिष्ठति । न च अविशेषेण विद्यायाम् अभि­स­न्धि­र्नो­त्प­द्यते — इह अमुत्र वा मे विद्या जायतामिति, अभि­स­न्धे­र्नि­र­ङ्कु­श­त्वात् । श्रव­णा­दि­द्वा­रे­णापि विद्या उत्पद्यमाना प्रति­ब­न्ध­क्ष­या­पे­क्ष­यैव उत्पद्यते । तथा च श्रुतिः दुर्बो­ध­त्व­मा­त्मनो दर्शयति — ‘श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलोऽस्य लब्धाऽऽश्चर्यो ज्ञाता कुशलानुशिष्टः’(क. उ. १ । २ । ७) इति । गर्भस्थ एव च वामदेवः प्रतिपेदे ब्रह्मभावमिति वदन्ती जन्मा­न्त­र­स­ञ्चि­तात् साधनात् जन्मान्तरे विद्योत्पत्तिं दर्शयति । न हि गर्भस्थस्यैव ऐहिकं किञ्चित्साधनं सम्भाव्यते । स्मृतावपि — ‘अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति’(भ. गी. ६ । ३७) इत्यर्जुनेन पृष्टो भगवान्वासुदेवः ‘न हि कल्या­ण­कृ­त्क­श्चि­द्दु­र्गतिं तात गच्छति’(भ. गी. ६ । ४०) इत्युक्त्वा, पुनस्तस्य पुण्य­लो­क­प्राप्तिं साधुकुले सम्भूतिं च अभिधाय, अनन्तरम् ‘तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्’(भ. गी. ६ । ४३) इत्यादिना ‘अने­क­ज­न्म­सं­सि­द्ध­स्ततो याति परां गतिम्’(भ. गी. ६ । ४५) इत्यन्तेन एतदेव दर्शयति । तस्मात् ऐहिकम् आमुष्मिकं वा विद्याजन्म प्रति­ब­न्ध­क्ष­या­पे­क्ष­येति स्थितम् ॥ ५१ ॥

एवं मुक्ति­फ­ला­नि­य­म­स्त­द­व­स्था­व­धृ­ते­स्त­द­व­स्था­व­धृतेः ॥ ५२ ॥

५२

यथा मुमु­क्षो­र्वि­द्या­सा­ध­ना­व­ल­म्बिनः साध­न­वी­र्य­वि­शे­षा­द्वि­द्या­ल­क्षणे फले ऐहि­का­मु­ष्मि­क­फ­ल­त्व­कृतो विशेषप्रतिनियमो दृष्टः, एवं मुक्तिलक्षणेऽपि उत्क­र्षा­प­क­र्ष­कृतः कश्चि­द्वि­शे­ष­प्र­ति­नि­यमः स्यात् — इत्याशङ्क्य, आह — एवं मुक्तिफलानियम इति । न खलु मुक्तिफले कश्चित् एवंभूतो विशेषप्रतिनियम आशङ्कितव्यः । कुतः ? तदवस्थावधृतेः — मुक्त्यवस्था हि सर्व­वे­दा­न्ते­ष्वे­क­रू­पैव अवधार्यते । ब्रह्मैव हि मुक्त्यवस्था । न च ब्रह्म­णोऽ­ने­का­का­र­यो­गोऽस्ति, एक­लि­ङ्ग­त्वा­व­धा­र­णात् — ‘अस्थूलमनणु’(बृ. उ. ३ । ८ । ८) ‘स एष नेति नेत्यात्मा’(बृ. उ. ३ । ९ । २६) ‘यत्र नान्यत्पश्यति’(छा. उ. ७ । २४ । १) ‘ब्रह्मै­वे­द­म­मृतं पुरस्तात्’(मु. उ. २ । २ । १२) ‘इदꣳ सर्वं यदयमात्मा’(बृ. उ. २ । ४ । ६) , ‘स वा एष महानज आत्माऽ­ज­रोऽ­म­रोऽ­मृ­तोऽ­भयो ब्रह्म’(बृ. उ. ४ । ४ । २५) , ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्येत्’(बृ. उ. ४ । ५ । १५) इत्या­दि­श्रु­तिभ्यः । अपि च विद्यासाधनं स्ववी­र्य­वि­शे­षात् स्वफल एव विद्यायां कञ्चि­द­ति­श­य­मा­स­ञ्ज­येत् , न विद्याफले मुक्तौ । तद्धि असाध्यं नित्य­सि­द्ध­स्व­भा­व­मेव विद्यया अधिगम्यत इत्यसकृदवादिष्म । न च तस्या­म­प्यु­त्क­र्ष­नि­क­र्षा­त्म­कोऽ­ति­शय उपपद्यते, निकृष्टाया विद्या­त्वा­भा­वात् । उत्कृष्टैव हि विद्या भवति । तस्मात् तस्यां चिरा­चि­रो­त्प­त्ति­रू­पोऽ­ति­शयो भवन् भवेत् । न तु मुक्तौ कश्चित् अति­श­य­स­म्भ­वोऽस्ति । विद्या­भे­दा­भा­वा­दपि तत्फ­ल­भे­द­नि­य­मा­भावः, कर्मफलवत् । न हि मुक्ति­सा­ध­न­भू­ताया विद्यायाः कर्मणामिव भेदोऽस्ति । सगुणासु तु विद्यासु ‘मनोमयः प्राणशरीरः’(छा. उ. ३ । १४ । २) इत्याद्यासु गुणा­वा­पो­द्वा­प­व­शा­द्भे­दो­प­पत्तौ सत्याम् , उपपद्यते यथास्वं फलभेदनियमः, कर्मफलवत् — तथा च लिङ्गदर्शनम् — ‘तं यथा यथोपासते तदेव भवति’ इति । नैवं निर्गुणायां विद्यायाम् , गुणाभावात् । तथा च स्मृतिः — ‘न हि गतिरधिकास्ति कस्यचित्सति हि गुणे प्रव­द­न्त्य­तु­ल्य­ताम्’(म. भा. १२ । १९४ । ६०) इति । तद­व­स्था­व­धृ­ते­स्त­द­व­स्था­व­धृ­ते­रिति पदाभ्यासः अध्या­य­प­रि­स­माप्तिं द्योतयति ॥ ५२ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य
श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ शारी­र­क­मी­मां­सा­सू­त्र­भाष्ये
तृतीयोऽध्यायः ॥