अद्वैतशारदा

ब्रह्मसूत्रभाष्यम्

चतुर्थोऽध्यायः

व्याख्याः

प्रथमः पादः

तृतीयेऽध्याये परापरासु विद्यासु साधनाश्रयो विचारः प्रायेण अत्यगात् । अथेह चतुर्थे फलाश्रय आगमिष्यति । प्रसङ्गागतं च अन्यदपि किञ्चि­च्चि­न्त­यि­ष्यते । प्रथमं तावत् कति­भि­श्चि­द­धि­क­रणैः साध­ना­श्र­य­वि­चा­र­शे­ष­मे­वा­नु­स­रामः —

आवृ­त्ति­र­स­कृ­दु­प­दे­शात् ॥ १ ॥

‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदि­ध्या­सि­तव्यः’(बृ. उ. ४ । ५ । ६) ‘तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत’(बृ. उ. ४ । ४ । २१) ‘सोऽन्वेष्टव्यः स विजि­ज्ञा­सि­तव्यः’(छा. उ. ८ । ७ । १) इति च एवमादिश्रवणेषु संशयः — किं सकृत्प्रत्ययः कर्तव्यः, आहोस्वित् आवृत्त्येति । किं तावत्प्राप्तम् ? सकृत्प्रत्ययः स्यात् , प्रयाजादिवत् , तावता शास्त्रस्य कृतार्थत्वात् । अश्रूयमाणायां हि आवृत्तौ क्रियमाणायाम् अशास्त्रार्थः कृतो भवेत् । ननु असकृदुपदेशा उदाहृताः — ‘श्रोतव्यो मन्तव्यो निदि­ध्या­सि­तव्यः’ इत्येवमादयः। एवमपि याव­च्छ­ब्द­मा­व­र्त­येत् — सकृच्छ्रवणं सकृन्मननं सकृ­न्नि­दि­ध्या­सनं चेति, नातिरिक्तम् । सकृदुपदेशेषु तु ‘वेद’ ‘उपासीत’ इत्येवमादिषु अना­वृ­त्ति­रि­त्येवं प्राप्ते, ब्रूमः — प्रत्ययावृत्तिः कर्तव्या । कुतः ? असकृदुपदेशात् — ‘श्रोतव्यो मन्तव्यो निदि­ध्या­सि­तव्यः’ इत्येवंजातीयको हि असकृदुपदेशः प्रत्ययावृत्तिं सूचयति । ननु उक्तम् — यावच्छब्दमेव आवर्तयेत् , नाधिकमिति — न, दर्श­न­प­र्य­व­सा­न­त्वा­दे­षाम् । दर्श­न­प­र्य­व­सा­नानि हि श्रव­णा­दी­न्या­व­र्त्य­मा­नानि दृष्टार्थानि भवन्ति — यथा अवघातादीनि तण्डु­ला­दि­नि­ष्प­त्ति­प­र्य­व­सा­नानि, तद्वत् । अपि च उपासनं निदिध्यासनं च इत्य­न्त­र्णी­ता­वृ­त्ति­गु­णैव क्रिया अभिधीयते । तथा हि लोके ‘गुरुमुपास्ते’ ‘राजानमुपास्ते’ इति च यस्तात्पर्येण गुर्वा­दी­न­नु­व­र्तते, स एवमुच्यते । तथा ‘ध्यायति प्रोषितनाथा पतिम्’ इति — या निरन्तरस्मरणा पतिं प्रति सोत्कण्ठा, सा एवमभिधीयते । विद्यु­पा­स्त्योश्च वेदान्तेषु अव्यतिरेकेण प्रयोगो दृश्यते; क्वचित् विदिनोपक्रम्य उपासिनोपसंहरति, यथा — ‘यस्तद्वेद यत्स वेद स मयैतदुक्तः’(छा. उ. ४ । १ । ४) इत्यत्र ‘अनु म एतां भगवो देवतां शाधि यां देवतामुपास्से’(छा. उ. ४ । २ । २) इति । क्वचिच्च उपासिनोपक्रम्य विदिनोपसंहरति, यथा — ‘मनो ब्रह्मे­त्यु­पा­सीत’(छा. उ. ३ । १८ । १) इत्यत्र ‘भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद’(छा. उ. ३ । १८ । ३) इति । तस्मा­त्स­कृ­दु­प­दे­शे­ष्वपि आवृत्तिसिद्धिः । असकृदुपदेशस्तु आवृत्तेः सूचकः ॥ १ ॥

लिङ्गाच्च ॥ २ ॥

लिङ्गमपि प्रत्ययावृत्तिं प्रत्याययति । तथा हि — उद्गीथविज्ञानं प्रस्तुत्य, ‘आदित्य उद्गीथः’(छा. उ. १ । ५ । १) इत्येतत् एक­पु­त्र­ता­दो­षे­णा­पोद्य, ‘रश्मींस्त्वं पर्यावर्तयात्’(छा. उ. १ । ५ । २) इति रश्मि­ब­हु­त्व­वि­ज्ञानं बहुपुत्रतायै विदधत् सिद्ध­व­त्प्र­त्य­या­वृत्तिं दर्शयति । तत्सामान्यात् सर्व­प्र­त्य­ये­ष्वा­वृ­त्ति­सिद्धिः ॥

अत्राह — भवतु नाम साध्यफलेषु प्रत्य­ये­ष्वा­वृत्तिः, तेष्वा­वृ­त्ति­सा­ध्य­स्या­ति­श­यस्य सम्भवात् । यस्तु परब्रह्मविषयः प्रत्ययो नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भा­व­मेव आत्मभूतं परं ब्रह्म समर्पयति, तत्र किमर्था आवृत्तिरिति । सकृच्छ्रुतौ ब्रह्मा­त्म­त्व­प्र­ती­त्य­नु­प­प­त्ते­रा­वृ­त्त्य­भ्यु­प­गम इति चेत् , न, आवृत्तावपि तदनुपपत्तेः । यदि हि ‘तत्त्वमसि’ इत्येवंजातीयकं वाक्यं सकृच्छ्रूयमाणं ब्रह्मा­त्म­त्व­प्र­तीतिं नोत्पादयेत् ततस्तदेव आव­र्त्य­मा­न­मु­त्पा­द­यि­ष्य­तीति का प्रत्याशा स्यात् । अथोच्येत — न केवलं वाक्यं कञ्चिदर्थं साक्षात्कर्तुं शक्नोति; अतो युक्त्यपेक्षं वाक्य­म­नु­भा­व­यि­ष्यति ब्रह्मा­त्म­त्व­मिति — तथा­प्या­वृ­त्त्या­न­र्थ­क्य­मेव । सापि हि युक्तिः सकृत्प्रवृत्तैव स्वम­र्थ­म­नु­भा­व­यि­ष्यति । अथापि स्यात् — युक्त्या वाक्येन च सामान्यविषयमेव विज्ञानं क्रियते, न विशेषविषयम्; यथा ‘अस्ति मे हृदये शूलम्’ इत्यतो वाक्यात् गात्र­क­म्पा­दि­लि­ङ्गाच्च शूल­स­द्भा­व­सा­मा­न्य­मेव परः प्रतिपद्यते, न विशेषमनुभवति — यथा स एव शूली । विशेषानुभवश्च अविद्याया निवर्तकः; तदर्था आवृत्तिरिति चेत् — न । असकृदपि तावन्मात्रे क्रियमाणे विशे­ष­वि­ज्ञा­नो­त्प­त्त्य­स­म्भ­वात् । न हि सकृ­त्प्र­यु­क्ताभ्यां शास्त्र­यु­क्ति­भ्या­म­न­व­गतो विशेषः शतकृत्वोऽपि प्रयु­ज्य­मा­ना­भ्या­म­व­गन्तुं शक्यते । तस्मात् यदि शास्त्र­यु­क्तिभ्यां विशेषः प्रतिपाद्येत, यदि वा सामान्यमेव उभयथापि सकृत्प्रवृत्ते एव ते स्वकार्यं कुरुत इति आवृत्त्यनुपयोगः । न च सकृत्प्रयुक्ते शास्त्रयुक्ती कस्यचिदप्यनुभवं नोत्पादयत इति शक्यते नियन्तुम् , विचि­त्र­प्र­ज्ञ­त्वा­त्प्र­ति­प­त्तॄ­णाम् । अपि च अनेकांशोपेते लौकिके पदार्थे सामान्यविशेषवति एकेनावधानेन एकमंशमवधारयति, अपरेण अपरम् — इति स्याद­प्य­भ्या­सो­प­योगः, यथा दीर्घ­प्र­पा­ठ­क­ग्र­ह­णा­दिषु । न तु निर्विशेषे ब्रह्मणि सामा­न्य­वि­शे­ष­र­हिते चैत­न्य­मा­त्रा­त्मके प्रमो­त्प­त्ता­व­भ्या­सा­पेक्षा युक्तेति ॥

अत्रोच्यते — भवे­दा­वृ­त्त्या­न­र्थक्यं तं प्रति, यः ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) इति सकृदुक्तमेव ब्रह्मा­त्म­त्व­म­नु­भ­वितुं शक्नुयात् । यस्तु न शक्नोति, तं प्रति उपयुज्यत एव आवृत्तिः । तथा हि छान्दोग्ये — ‘तत्त्वमसि श्वेतकेतो’(छा. उ. ६ । ८ । ७) इत्युपदिश्य, ‘भूय एव मा भग­वा­न्वि­ज्ञा­प­यतु’(छा. उ. ६ । ८ । ७) इति पुनः पुनः परिचोद्यमानः तत्त­दा­श­ङ्का­का­रणं निराकृत्य, ‘तत्त्वमसि’ इत्ये­वा­स­कृ­दु­प­दि­शति; तथा च ‘श्रोतव्यो मन्तव्यो निदि­ध्या­सि­तव्यः’(बृ. उ. ४ । ५ । ६) इत्यादि दर्शितम् । ननु उक्तम् — सकृच्छ्रुतं चेत् तत्त्वमसिवाक्यं स्वम­र्थ­म­नु­भा­व­यितुं न शक्नोति, तत आवर्त्यमानमपि नैव शक्ष्यतीति — नैष दोषः । न हि दृष्टेऽनुपपन्नं नाम । दृश्यन्ते हि सकृ­च्छ्रु­ता­द्वा­क्यात् मन्दप्रतीतं वाक्यार्थं आवर्तयन्तः तत्त­दा­भा­स­व्यु­दा­सेन सम्य­क्प्र­ति­प­द्य­मानाः । अपि च ‘तत्त्वमसि’ इत्येतद्वाक्यं त्वंपदार्थस्य तत्प­दा­र्थ­भा­व­मा­चष्टे । तत्पदेन च प्रकृतं सत् ब्रह्म ईक्षितृ जगतो जन्मा­दि­का­र­ण­म­भि­धी­यते — ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै. उ. २ । १ । १) ‘विज्ञानमानन्दं ब्रह्म’(बृ. उ. ३ । ९ । २८) ‘अदृष्टं द्रष्टृ’(बृ. उ. ३ । ८ । ११) ‘अविज्ञातं विज्ञातृ’(बृ. उ. ३ । ८ । ११) ‘अजमजरममरम्’ ‘अस्थू­ल­म­न­ण्व­ह्र­स्व­म­दी­र्घम्’ इत्या­दि­शा­स्त्र­प्र­सि­द्धम् । तत्र अजा­दि­श­ब्दै­र्ज­न्मा­दयो भावविकारा निवर्तिताः; अस्थू­ला­दि­श­ब्दैश्च स्थौल्यादयो द्रव्यधर्माः; विज्ञा­ना­दि­श­ब्दैश्च चैत­न्य­प्र­का­शा­त्म­क­त्व­मु­क्तम् । एष व्यावृ­त्त­स­र्व­सं­सा­र­ध­र्म­कोऽ­नु­भ­वा­त्मको ब्रह्म­सं­ज्ञ­क­स्त­त्प­दार्थो वेदा­न्ता­भि­यु­क्तानां प्रसिद्धः । तथा त्वंपदार्थोऽपि प्रत्यगात्मा श्रोता देहादारभ्य प्रत्यगात्मतया सम्भाव्यमानः चैत­न्य­प­र्य­न्त­त्वे­ना­व­धा­रितः । तत्र येषाम् एतौ पदार्थौ अज्ञा­न­सं­श­य­वि­प­र्य­य­प्र­ति­बद्धौ, तेषां ‘तत्त्वमसि’ इत्येतद्वाक्यं स्वार्थे प्रमां नोत्पादयितुं शक्नोति, पदा­र्थ­ज्ञा­न­पू­र्व­क­त्वा­द्वा­क्या­र्थ­ज्ञा­नस्य — इत्यतः, तान्प्रति एष्टव्यः पदा­र्थ­वि­वे­क­प्र­यो­जनः शास्त्र­यु­क्त्य­भ्यासः । यद्यपि च प्रतिपत्तव्य आत्मा निरंशः, तथापि अध्यारोपितं तस्मिन् बह्वंशत्वं देहे­न्द्रि­य­म­नो­बु­द्धि­वि­ष­य­वे­द­ना­दि­ल­क्ष­णम् । तत्र एकेन अवधानेन एकमंशमपोहति, अपरेण अपरम् — इति युज्यते तत्र क्रमवती प्रतिपत्तिः । तत्तु पूर्वरूपमेव आत्मप्रतिपत्तेः । येषां पुनः निपुणमतीनां न अज्ञा­न­सं­श­य­वि­प­र्य­य­ल­क्षणः पदार्थविषयः प्रति­ब­न्धोऽस्ति, ते शक्नुवन्ति सकृदुक्तमेव तत्त्व­म­सि­वा­क्या­र्थम् अनुभवितुमिति, तान्प्रति आवृ­त्त्या­न­र्थ­क्य­मि­ष्ट­मेव । सकृदुत्पन्नैव हि आत्मप्रतिपत्तिः अविद्यां निवर्तयतीति, नात्र कश्चिदपि क्रमोऽ­भ्यु­प­ग­म्यते । सत्यमेवं युज्येत, यदि कस्यचित् एवं प्रति­प­त्ति­र्भ­वेत् । बलवती हि आत्मनो दुःखि­त्वा­दि­प्र­ति­पत्तिः । अतो न दुःखि­त्वा­द्य­भावं कश्चि­त्प्र­ति­प­द्यत इति चेत् — न, देहाद्यभिमानवत् दुःखि­त्वा­द्य­भि­मा­नस्य मिथ्या­भि­मा­न­त्वो­प­पत्तेः । प्रत्यक्षं हि देहे छिद्यमाने दह्यमाने वा ‘अहं छिद्ये दह्ये’ इति च मिथ्याभिमानो दृष्टः । तथा बाह्यतरेष्वपि पुत्रमित्रादिषु सन्तप्यमानेषु ‘अहमेव सन्तप्ये’ इत्यध्यारोपो दृष्टः । तथा दुःखि­त्वा­द्य­भि­मा­नोऽपि स्यात् , देहादिवदेव चैत­न्या­द्ब­हि­रु­प­ल­भ्य­मा­न­त्वा­द्दुः­खि­त्वा­दी­नाम् , सुषुप्तादिषु च अननुवृत्तेः । चैतन्यस्य तु सुषुप्तेऽपि अनु­वृ­त्ति­मा­म­नन्ति — ‘यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति’(बृ. उ. ४ । ३ । २३) इत्यादिना । तस्मात् सर्व­दुः­ख­वि­नि­र्मु­क्तै­क­चै­त­न्या­त्म­कोऽ­ह­मि­त्येष आत्मानुभवः । न च एवम् आत्मानमनुभवतः किञ्चि­द­न्य­त्कृ­त्य­म­व­शि­ष्यते । तथा च श्रुतिः — ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’(बृ. उ. ४ । ४ । २२) इत्यात्मविदः कर्तव्याभावं दर्शयति । स्मृतिरपि — ‘यस्त्वा­त्म­र­ति­रेव स्यादा­त्म­तृ­प्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते’(भ. गी. ३ । १७) इति । यस्य तु न एषोऽनुभवो द्रागिव जायते, तं प्रति अनुभवार्थ एव आवृ­त्त्य­भ्यु­प­गमः । तत्रापि न तत्त्व­म­सि­वा­क्या­र्थात् प्रच्याव्य आवृत्तौ प्रवर्तयेत् । न हि वरघाताय कन्या­मु­द्वा­ह­यन्ति । नियुक्तस्य च ‘अस्मि­न्न­धि­कृ­तोऽहं कर्ता मयेदं कर्तव्यम्’ इत्यवश्यं ब्रह्म­प्र­त्य­या­द्वि­प­री­त­प्र­त्यय उत्पद्यते । यस्तु स्वयमेव मन्दमतिः अप्रतिभानात् तं वाक्यार्थं जिहासेत् , तस्य एतस्मिन्नेव वाक्यार्थे स्थिरीकार आवृ­त्त्या­दि­वा­चो­युक्त्या अभ्युपेयते । तस्मात् पर­ब्र­ह्म­वि­ष­येऽपि प्रत्यये तदु­पा­यो­प­दे­शे­ष्वा­वृ­त्ति­सिद्धिः ॥ २ ॥

आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ३ ॥

यः शास्त्रो­क्त­वि­शे­षणः परमात्मा, स किम् अहमिति ग्रहीतव्यः, किं वा मदन्य इति — एतद्विचारयति । कथं पुनरात्मशब्दे प्रत्य­गा­त्म­वि­षये श्रूयमाणे संशय इति, उच्यते — अयमात्मशब्दो मुख्यः शक्य­तेऽ­भ्यु­प­ग­न्तुम् , सति जीवे­श्व­र­यो­र­भे­द­स­म्भवे । इतरथा तु गौणोऽ­य­म­भ्यु­प­ग­न्तव्यः — इति मन्यते । किं तावत्प्राप्तम् ? न अहमिति ग्राह्यः । न हि अप­ह­त­पा­प्म­त्वा­दि­गुणो विपरीतगुणत्वेन शक्यते ग्रहीतुम् , विपरीतगुणो वा अप­ह­त­पा­प्म­त्वा­दि­गु­ण­त्वेन । अप­ह­त­पा­प्म­त्वा­दि­गु­णश्च परमेश्वरः, तद्वि­प­री­त­गु­णस्तु शारीरः । ईश्वरस्य च संसार्यात्मत्वे ईश्व­रा­भा­व­प्र­सङ्गः । ततः शास्त्रा­न­र्थ­क्यम् । संसारिणोऽपि ईश्वरात्मत्वे अधि­का­र्य­भा­वा­च्छा­स्त्रा­न­र्थ­क्य­मेव, प्रत्य­क्षा­दि­वि­रो­धश्च । अन्यत्वेऽपि तादात्म्यदर्शनं शास्त्रात् कर्तव्यम् — प्रतिमादिष्विव विष्ण्वा­दि­द­र्श­नम् इति चेत् — काममेवं भवतु । न तु संसारिणो मुख्य आत्मा ईश्वर इत्येतत् नः प्रापयितव्यम् ॥

एवं प्राप्ते, ब्रूमः — आत्मेत्येव परमेश्वरः प्रतिपत्तव्यः । तथा हि पर­मे­श्व­र­प्र­क्रि­यायां जाबाला आत्मत्वेनैव एतमुपगच्छन्ति — ‘त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि भगवो देवते’ इति; तथा अन्येऽपि ‘अहं ब्रह्मास्मि’ इत्येवमादय आत्मत्वोपगमा द्रष्टव्याः । ग्राहयन्ति च आत्मत्वेनैव ईश्वरं वेदान्तवाक्यानि — ‘एष त आत्मा सर्वान्तरः’(बृ. उ. ३ । ४ । १) ‘एष त आत्मा­न्त­र्या­म्य­मृतः’(बृ. उ. ३ । ७ । ३) ‘तत्सत्यꣳ स आत्मा तत्त्वमसि’(छा. उ. ६ । ८ । ७) इत्येवमादीनि । यदुक्तम् — प्रतीकदर्शनमिदं विष्णु­प्र­ति­मा­न्या­येन भविष्यतीति, तदयुक्तम् । गौण­त्व­प्र­स­ङ्गात् , वाक्य­वै­रू­प्याच्च। यत्र हि प्रती­क­दृ­ष्टि­र­भि­प्रे­यते, सकृदेव तत्र वचनं भवति — यथा ‘मनो ब्रह्म’(छा. उ. ३ । १८ । १) ‘आदित्यो ब्रह्म’(छा. उ. ३ । १९ । १) इत्यादि । इह पुनः — त्वम् अहमस्मि, अहं च त्वमसीत्याह । अतः प्रती­क­श्रु­ति­वै­रू­प्यात् अभेदप्रतिपत्तिः । भेद­दृ­ष्ट्य­प­वा­दाच्च; तथा हि — ‘अथ योऽन्यां देव­ता­मु­पा­स्तेऽ­न्योऽ­सा­व­न्योऽ­ह­म­स्मीति न स वेद’(बृ. उ. १ । ४ । १०) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’(बृ. उ. ४ । ४ । १९) ‘सर्वं तं परा­दा­द्योऽ­न्य­त्रा­त्मनः सर्वं वेद’(बृ. उ. २ । ४ । ६) इत्येवमाद्या भूयसी श्रुतिः भेददर्शनमपवदति । यत्तूक्तम् — न विरु­द्ध­गु­ण­यो­र­न्यो­न्या­त्म­त्व­स­म्भव इति, नायं दोषः, विरुद्धगुणताया मिथ्या­त्वो­प­पत्तेः । यत्पुनरुक्तम् — ईश्व­रा­भा­व­प्र­सङ्ग इति, तदसत् , शास्त्र­प्रा­मा­ण्यात् अनभ्युपगमाच्च । न हि ईश्वरस्य संसार्यात्मत्वं प्रतिपाद्यत इत्य­भ्यु­प­ग­च्छामः — किं तर्हि ? संसारिणः संसारित्वापोहेन ईश्वरात्मत्वं प्रति­पि­पा­द­यि­षि­त­मिति । एवं च सति अद्वैतेश्वरस्य अप­ह­त­पा­प्म­त्वा­दि­गु­णता विपरीतगुणता तु इतरस्य मिथ्येति व्यवतिष्ठते । यदप्युक्तम् — अधिकार्यभावः प्रत्य­क्षा­दि­वि­रो­ध­श्चेति, तदप्यसत् , प्राक्प्रबोधात् संसा­रि­त्वा­भ्यु­प­ग­मात् , तद्विषयत्वाच्च प्रत्य­क्षा­दि­व्य­व­हा­रस्य । ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्येत्’(बृ. उ. २ । ४ । १४) इत्यादिना हि प्रबोधे प्रत्य­क्षा­द्य­भावं दर्शयति । प्रत्य­क्षा­द्य­भावे श्रुते­र­प्य­भा­व­प्र­सङ्ग इति चेत् , न, इष्टत्वात् । ‘अत्र पिताऽपिता भवति’(बृ. उ. ४ । ३ । २२) इत्युपक्रम्य, ‘वेदा अवेदाः’(बृ. उ. ४ । ३ । २२) इति वचनात् इष्यत एव अस्माभिः श्रुतेरप्यभावः प्रबोधे । कस्य पुनरयम् अप्रबोध इति चेत् , यस्त्वं पृच्छसि तस्य ते, इति वदामः । ननु अहमीश्वर एवोक्तः श्रुत्या — यद्येवं प्रतिबुद्धोऽसि, नास्ति कस्यचिदप्रबोधः । योऽपि दोषश्चोद्यते कैश्चित् — अविद्यया किल आत्मनः सद्वितीयत्वात् अद्वै­ता­नु­प­प­त्ति­रिति, सोऽपि एतेन प्रत्युक्तः । तस्मात् आत्मेत्येव ईश्वरे मनो दधीत ॥ ३ ॥

न प्रतीके न हि सः ॥ ४ ॥

‘मनो ब्रह्मे­त्यु­पा­सी­ते­त्य­ध्या­त्म­म­था­धि­दै­व­त­मा­काशो ब्रह्मेति’(छा. उ. ३ । १८ । १) तथा ‘आदित्यो ब्रह्मे­त्या­देशः’(छा. उ. ३ । १९ । १) ‘स यो नाम ब्रह्मे­त्यु­पास्ते’(छा. उ. ७ । १ । ५) इत्येवमादिषु प्रतीकोपासनेषु संशयः — किं तेष्वपि आत्मग्रहः कर्तव्यः, न वेति । किं तावत्प्राप्तम् ? तेष्वपि आत्मग्रह एव युक्तः कर्तुम् । कस्मात् ? ब्रह्मणः श्रुतिषु आत्मत्वेन प्रसिद्धत्वात् , प्रतीकानामपि ब्रह्म­वि­का­र­त्वा­द्ब्र­ह्मत्वे सति आत्म­त्वो­प­प­त्ते­रि­त्येवं प्राप्ते ब्रूमः — न प्रती­के­ष्वा­त्म­मतिं बध्नीयात् । न हि स उपासकः प्रतीकानि व्यस्तानि आत्मत्वेन आकलयेत् । यत्पुनः ब्रह्म­वि­का­र­त्वा­त्प्र­ती­कानां ब्रह्मत्वं ततश्च आत्मत्वमिति, तदसत् , प्रती­का­भा­व­प्र­स­ङ्गात् । विका­र­स्व­रू­पो­प­म­र्देन हि नामादिजातस्य ब्रह्मत्वमेव आश्रितं भवति । स्वरूपोपमर्दे च नामादीनां कुतः प्रतीकत्वम् आत्मग्रहो वा ? न च ब्रह्मण आत्मत्वात् ब्रह्म­दृ­ष्ट्यु­प­दे­शे­ष्वा­त्म­दृष्टिः कल्प्या, कर्तृ­त्वा­द्य­नि­रा­क­र­णात् । कर्तृ­त्वा­दि­स­र्व­सं­सा­र­ध­र्म­नि­रा­क­र­णेन हि ब्रह्मण आत्मत्वोपदेशः । तदनिराकरणेन च उपासनविधानम् । अतश्च उपासकस्य प्रतीकैः समत्वात् आत्मग्रहो नोपपद्यते । न हि रुचकस्वस्तिकयोः इत­रे­त­रा­त्म­त्व­मस्ति । सुवर्णात्मनेव तु ब्रह्मात्मना एकत्वे प्रती­का­भा­व­प्र­स­ङ्ग­म­वो­चाम । अतो न प्रती­के­ष्वा­त्म­दृष्टिः क्रियते ॥ ४ ॥

ब्रह्म­दृ­ष्टि­रु­त्क­र्षात् ॥ ५ ॥

तेष्वेव उदाहरणेष्वन्यः संशयः — किमा­दि­त्या­दि­दृ­ष्टयो ब्रह्म­ण्य­ध्य­सि­तव्याः, किं वा ब्रह्म­दृ­ष्टि­रा­दि­त्या­दि­ष्विति । कुतः संशयः ? सामानाधिकरण्ये कारणानवधारणात् । अत्र हि ब्रह्मशब्दस्य आदित्यादिशब्दैः सामा­ना­धि­क­र­ण्य­मु­प­ल­भ्यते, ‘आदित्यो ब्रह्म’ ‘प्राणो ब्रह्म’ ‘विद्यु­द्ब्रह्म’ इत्या­दि­स­मा­न­वि­भ­क्ति­नि­र्दे­शात् । न च अत्र आञ्जसं सामा­ना­धि­क­र­ण्य­म­व­क­ल्पते, अर्था­न्त­र­व­च­न­त्वा­द्ब्र­ह्मा­दि­त्या­दि­श­ब्दा­नाम् । न हि भवति — गौरश्व इति सामानाधिकरण्यम् । ननु प्रकृ­ति­वि­का­र­भा­वा­द्ब्र­ह्मा­दि­त्या­दीनां मृच्छ­रा­वा­दि­व­त्सा­मा­ना­धि­क­रण्यं स्यात् — नेत्युच्यते; विकारप्रविलयो ह्येवं प्रकृ­ति­सा­मा­ना­धि­क­र­ण्या­त्स्यात् , ततश्च प्रती­का­भा­व­प्र­स­ङ्ग­म­वो­चाम । परमात्मवाक्यं चेदं तदानीं स्यात् , तत­श्चो­पा­स­ना­धि­कारो बाध्येत, परि­मि­त­वि­का­रो­पा­दानं च व्यर्थम् । तस्मात् ‘ब्राह्म­णोऽ­ग्नि­र्वै­श्वा­नरः’ इत्यादिवत् अन्य­त्रा­न्य­दृ­ष्ट्य­ध्यासे सति, क्व किंदृ­ष्टि­र­ध्य­स्य­ता­मिति संशयः । तत्र अनियमः, नियमकारिणः शास्त्र­स्या­भा­वा­दि­त्येवं प्राप्तम् । अथवा आदित्यादिदृष्टय एव ब्रह्मणि कर्तव्या इत्येवं प्राप्तम् । एवं हि आदि­त्या­दि­दृ­ष्टिभिः ब्रह्म उपासितं भवति । ब्रह्मोपासनं च फलवदिति शास्त्रमर्यादा । तस्मात् न ब्रह्म­दृ­ष्टि­रा­दि­त्या­दि­ष्वि­त्येवं प्राप्ते ब्रूमः —

ब्रह्मदृष्टिरेव आदित्यादिषु स्यादिति । कस्मात् ? उत्कर्षात् । एवम् उत्कर्षेण आदित्यादयो दृष्टा भवन्ति, उत्कृ­ष्ट­दृ­ष्टे­स्ते­ष्व­ध्या­सात् । तथा च लौकिको न्यायोऽनुगतो भवति । उत्कृ­ष्ट­दृ­ष्टिर्हि निकृ­ष्टेऽ­ध्य­सि­त­व्येति लौकिको न्यायः — यथा राजदृष्टिः क्षत्तरि । स च अनुसर्तव्यः विपर्यये प्रत्य­वा­य­प्र­स­ङ्गात् । न हि क्षत्तृ­दृ­ष्टि­प­रि­गृ­हीतो राजा निकर्षं नीयमानः श्रेयसे स्यात् । ननु शास्त्र­प्रा­मा­ण्या­द­ना­श­ङ्क­नी­योऽत्र प्रत्य­वा­य­प्र­सङ्गः, न च लौकिकेन न्यायेन शास्त्रीया दृष्टि­र्नि­यन्तुं युक्तेति ; अत्रोच्यते — निर्धारिते शास्त्रार्थे एतदेवं स्यात् । सन्दिग्धे तु तस्मिन् तन्निर्णयं प्रति लौकिकोऽपि न्याय आश्रीयमाणो न विरुध्यते । तेन च उत्कृ­ष्ट­दृ­ष्ट्य­ध्यासे शास्त्रा­र्थेऽ­व­धा­र्य­माणे, निकृ­ष्ट­दृ­ष्टि­म­ध्य­स्य­न्प्र­त्य­वे­या­दिति श्लिष्यते । प्राथम्याच्च आदि­त्या­दि­श­ब्दानां मुख्यार्थत्वम् अविरोधात् ग्रहीतव्यम् । तैः स्वार्थ­वृ­त्ति­भि­र­व­रु­द्धायां बुद्धौ, पश्चादवतरतो ब्रह्मशब्दस्य मुख्यया वृत्त्या सामा­ना­धि­क­र­ण्या­स­म्भ­वात् , ब्रह्म­दृ­ष्टि­वि­धा­ना­र्थ­तैव अवतिष्ठते । इतिपरत्वादपि ब्रह्मशब्दस्य एष एवार्थो न्याय्यः । तथा हि — ‘ब्रह्मे­त्या­देशः’ ‘ब्रह्मे­त्यु­पा­सीत’ ‘ब्रह्मे­त्यु­पास्ते’ इति च सर्वत्रेतिपरं ब्रह्म­श­ब्द­मु­च्चा­र­यति, शुद्धांस्तु आदि­त्या­दि­श­ब्दान् । ततश्च यथा शुक्तिकां रजतमिति प्रत्ये­ती­त्यत्र, शुक्तिवचन एव शुक्तिकाशब्दः, रजतशब्दस्तु रज­त­प्र­ती­ति­ल­क्ष­णार्थः — प्रत्येत्येव हि केवलं रजतमिति, न तु तत्र रजतमस्ति — एवमत्रापि आदि­त्या­दी­न्ब्र­ह्मेति प्रतीयादिति गम्यते । वाक्यशेषोऽपि च द्विती­या­नि­र्दे­शेन आदित्यादीनेव उपास्तिक्रियया व्याप्य­मा­ना­न्द­र्श­यति — ‘स य एतमेवं विद्वानादित्यं ब्रह्मे­त्यु­पास्ते’(छा. उ. ३ । १९ । ४) ‘यो वाचं ब्रह्मे­त्यु­पास्ते’(छा. उ. ७ । २ । २) ‘यः सङ्कल्पं ब्रह्मे­त्यु­पास्ते’(छा. उ. ७ । ४ । ३) इति च । यत्तूक्तम् — ब्रह्मो­पा­स­न­मे­वात्र आदरणीयं फलवत्त्वायेति, तदयुक्तम् , उक्तेन न्यायेन आदित्यादीनामेव उपा­स्य­त्वा­व­ग­मात् । फलं तु अतिथ्याद्युपासन इव आदि­त्या­द्यु­पा­स­नेऽपि ब्रह्मैव दास्यति, सर्वा­ध्य­क्ष­त्वात् । वर्णितं चैतत् ‘फलमत उपपत्तेः’(ब्र. सू. ३ । २ । ३८) इत्यत्र । ईदृशं च अत्र ब्रह्मण उपास्यत्वम् , यत्प्रतीकेषु तद्दृ­ष्ट्य­ध्या­रो­प­णम् — प्रतिमादिष्विव विष्ण्वादीनाम् ॥ ५ ॥

आदि­त्या­दि­म­त­य­श्चाङ्ग उपपत्तेः ॥ ६ ॥

‘य एवासौ तपति तमु­द्गी­थ­मु­पा­सीत’(छा. उ. १ । ३ । १) ‘लोकेषु पञ्चविधꣳ सामोपासीत’(छा. उ. २ । २ । १)‘लोकेषु पञ्चविधꣳ सामोपासीत’(छा. उ. २ । २ । १) ‘वाचि सप्तविधꣳ सामोपासीत’(छा. उ. २ । ८ । १) ‘इयमेवर्गग्निः साम’(छा. उ. १ । ६ । १)‘इयमेवर्गग्निः साम’(छा. उ. १ । ६ । १) इत्येवमादिषु अङ्गा­व­ब­द्धे­षू­पा­स­नेषु संशयः — किमादित्यादिषु उद्गी­था­दि­दृ­ष्टयो विधीयन्ते, किं वा उद्गीथादिष्वेव आदित्यादिदृष्टय इति । तत्र अनियमः, नियमकारणाभावात् — इति प्राप्तम् । न हि अत्र ब्रह्मण इव कस्य­चि­दु­त्क­र्ष­वि­शे­षोऽ­व­धा­र्यते । ब्रह्म हि सम­स्त­ज­ग­त्का­र­ण­त्वात् अप­ह­त­पा­प्म­त्वा­दि­गु­ण­यो­गाच्च आदित्यादिभ्य उत्कृष्टमिति शक्यमवधारयितुम् । न तु आदि­त्यो­द्गी­था­दीनां विका­र­त्वा­वि­शे­षात् किञ्चि­दु­त्क­र्ष­वि­शे­षा­व­धा­रणे कारणमस्ति । अथवा नियमेनैव उद्गीथादिमतय आदित्यादिषु अध्यस्येरन् । कस्मात् ? कर्मा­त्म­क­त्वा­दु­द्गी­था­दी­नाम् , कर्मणश्च फल­प्रा­प्ति­प्र­सिद्धेः । उद्गी­था­दि­म­ति­भि­रु­पा­स्य­माना आदित्यादयः कर्मात्मकाः सन्तः फलहेतवो भविष्यन्ति । तथा च ‘इयमेवर्गग्निः साम’ इत्यत्र ‘तदे­त­दे­त­स्या­मृ­च्य­ध्यूढं साम’(छा. उ. १ । ६ । १) इति ऋक्शब्देन पृथिवीं निर्दिशति, साम­श­ब्दे­ना­ग्निम् । तच्च पृथिव्यग्न्योः ऋक्सा­म­दृ­ष्टि­चि­की­र्षा­या­म­व­क­ल्पते, न ऋक्सामयोः पृथि­व्य­ग्नि­दृ­ष्टि­चि­की­र्षा­याम् । क्षत्तरि हि राजदृष्टिकरणात् राजशब्द उपचर्यते, न राजनि क्षत्तृशब्दः । अपि च ‘लोकेषु पञ्चविधꣳ सामोपासीत’ इति अधि­क­र­ण­नि­र्दे­शात् लोकेषु साम अध्यसितव्यमिति प्रतीयते । ‘एतद्गायत्रं प्राणेषु प्रोतम्’(छा. उ. २ । ११ । १) इति च एतदेव दर्शयति । प्रथ­म­नि­र्दि­ष्टेषु च आदित्यादिषु चरमनिर्दिष्टं ब्रह्माध्यस्तम् — ‘आदित्यो ब्रह्मे­त्या­देशः’(छा. उ. ३ । १९ । १) इत्यादिषु । प्रथ­म­नि­र्दि­ष्टाश्च पृथिव्यादयः, चरमनिर्दिष्टा हिंकारादयः — ‘पृथिवी हिंकारः’(छा. उ. २ । २ । १) इत्यादिश्रुतिषु । अतः अन­ङ्गे­ष्वा­दि­त्या­दिषु अङ्गमतिक्षेप इत्येवं प्राप्ते ब्रूमः —

आदित्यादिमतय एव अङ्गेषु उद्गीथादिषु क्षिप्येरन् । कुतः ? उपपत्तेः । उपपद्यते हि एवम् अपू­र्व­स­न्नि­क­र्षात् आदित्यादिमतिभिः संस्क्रियमाणेषु उद्गीथादिषु कर्मसमृद्धिः । ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’(छा. उ. १ । १ । १०) इति च विद्यायाः कर्म­स­मृ­द्धि­हे­तुत्वं दर्शयति । भवतु कर्म­स­मृ­द्धि­फ­ले­ष्वे­वम्; स्वतन्त्रफलेषु तु कथं ‘य एतदेवं विद्वाँल्लोकेषु पञ्चविधं सामोपास्ते’(छा. उ. २ । २ । ३) इत्यादिषु ? तेष्वपि अधिकृताधिकारात् प्रकृ­ता­पू­र्व­स­न्नि­क­र्षे­णैव फलकल्पना युक्ता, गोदो­ह­ना­दि­नि­य­म­वत् । फलात्मकत्वाच्च आदित्यादीनाम् उद्गीथादिभ्यः कर्मात्मकेभ्यः उत्कर्षोपपत्तिः । आदि­त्या­दि­प्रा­प्ति­ल­क्षणं हि कर्मफलं शिष्यते श्रुतिषु । अपि च ‘ओमि­त्ये­त­द­क्ष­र­मु­द्गी­थ­मु­पा­सीत’(छा. उ. १ । १ । १) ‘खल्वे­त­स्यै­वा­क्ष­र­स्यो­प­व्या­ख्यानं भवति’(छा. उ. १ । १ । १०) इति च उद्गीथमेव उपा­स्य­त्वे­नो­प­क्रम्य, आदि­त्या­दि­म­ती­र्वि­द­धाति । यत्तूक्तम् — उद्गी­था­दि­म­ति­भि­रु­पा­स्य­माना आदित्यादयः कर्मभूयं भूत्वा फलं करिष्यन्तीति, तदयुक्तम् ; स्वयमेवोपासनस्य कर्मत्वात् फल­व­त्त्वो­प­पत्तेः । आदि­त्या­दि­भा­वे­नापि च दृश्य­मा­ना­ना­मु­द्गी­था­दीनां कर्मा­त्म­क­त्वा­न­पा­यात् । ‘तदे­त­दे­त­स्या­मृ­च्य­ध्यूढꣳ साम’(छा. उ. १ । ६ । १) इति तु लाक्षणिक एव पृथिव्यग्न्योः ऋक्सा­म­श­ब्द­प्र­योगः । लक्षणा च यथासम्भवं सन्निकृष्टेन विप्रकृष्टेन वा स्वार्थ­स­म्ब­न्धेन प्रवर्तते । तत्र यद्यपि ऋक्सामयोः पृथि­व्य­ग्नि­दृ­ष्टि­चि­कीर्षा, तथापि प्रसिद्धयोः ऋक्सा­म­यो­र्भे­दे­ना­नु­की­र्त­नात् , पृथि­व्य­ग्न्योश्च सन्निधानात् , तयोरेव एष ऋक्सा­म­श­ब्द­प्र­योगः ऋक्सा­म­स­म्ब­न्धा­दिति निश्चीयते । क्षत्तृशब्दोऽपि हि कुत­श्चि­त्का­र­णा­द्रा­जा­न­मु­प­स­र्पन् न निवारयितुं पार्यते । ‘इयमेवर्क्’(छा. उ. १ । ६ । १) इति च यथाक्षरन्यासम् ऋच एव पृथि­वी­त्व­म­व­धा­र­यति । पृथिव्या हि ऋक्त्वेऽ­व­धा­र्य­माणे — इय­मृ­गे­वे­त्य­क्ष­र­न्यासः स्यात् । ‘य एवं विद्वान्साम गायति’(छा. उ. १ । ७ । ९) इति च अङ्गाश्रयमेव विज्ञा­न­मु­प­सं­ह­रति, न पृथि­व्या­द्या­श्र­यम् । तथा ‘लोकेषु पञ्चविधꣳ सामोपासीत’(छा. उ. २ । २ । १) इति यद्यपि सप्त­मी­नि­र्दिष्टा लोकाः, तथापि साम्न्येव ते अध्यस्येरन् , द्विती­या­नि­र्दे­शेन साम्न उपा­स्य­त्वा­व­ग­मात् । सामनि हि लोके­ष्व­ध्य­स्य­मा­नेषु साम लोकात्मनोपासितं भवति, अन्यथा पुनः लोकाः सामात्मना उपासिताः स्युः । एतेन ‘एतद्गायत्रं प्राणेषु प्रोतम्’(छा. उ. २ । ११ । १) इत्यादि व्याख्यातम् । यत्रापि तुल्यो द्विती­या­नि­र्देशः ‘अथ खल्वमुमादित्यꣳ सप्तविधꣳ सामोपासीत’(छा. उ. २ । ९ । १) इति, तत्रापि — ‘समस्तस्य खलु साम्न उपासनꣳ साधु’(छा. उ. २ । १ । १) ‘इति तु पञ्चविधस्य’(छा. उ. २ । ७ । २) ‘अथ सप्तविधस्य’(छा. उ. २ । ८ । १) इति च साम्न एव उपा­स्य­त्वो­प­क्र­मात् तस्मिन्नेव आदि­त्या­द्य­ध्यासः । एतस्मादेव च साम्न उपा­स्य­त्वा­व­ग­मात् ‘पृथिवी हिंकारः’(छा. उ. २ । २ । १) इत्या­दि­नि­र्दे­श­वि­प­र्य­येऽपि हिंकारादिष्वेव पृथि­व्या­दि­दृष्टिः । तस्मात् अनङ्गाश्रया आदित्यादिमतयः अङ्गे­षू­द्गी­था­दिषु क्षिप्येरन्निति सिद्धम् ॥ ६ ॥

आसीनः सम्भवात् ॥ ७ ॥

कर्मा­ङ्ग­स­म्ब­द्धेषु तावत् उपासनेषु कर्म­त­न्त्र­त्वात् न आसनादिचिन्ता । नापि सम्यग्दर्शने, वस्तु­त­न्त्र­त्वा­द्वि­ज्ञा­नस्य । इतरेषु तु उपासनेषु किम् अनियमेन तिष्ठन् आसीनः शयानो वा प्रवर्तेत उत नियमेन आसीन एवेति चिन्तयति । तत्र मान­स­त्वा­दु­पा­स­नस्य अनियमः शरी­र­स्थि­ते­रि­त्येवं प्राप्ते, ब्रवीति — आसीन एवोपासीतेति । कुतः ? सम्भवात् । उपासनं नाम समा­न­प्र­त्य­य­प्र­वा­ह­क­र­णम् । न च तत् गच्छतो धावतो वा सम्भवति, गत्यादीनां चित्त­वि­क्षे­प­क­र­त्वात् । तिष्ठतोऽपि देहधारणे व्यापृतं मनो न सूक्ष्म­व­स्तु­नि­री­क्ष­ण­क्षमं भवति । शयानस्यापि अकस्मादेव निद्रया अभिभूयेत । आसीनस्य तु एवंजातीयको भूयान्दोषः सुपरिहर इति सम्भवति तस्योपासनम् ॥ ७ ॥

ध्यानाच्च ॥ ८ ॥

अपि च ध्यायत्यर्थ एषः, यत्स­मा­न­प्र­त्य­य­प्र­वा­ह­क­र­णम् । ध्यायतिश्च प्रशि­थि­ला­ङ्ग­चे­ष्टेषु प्रति­ष्ठि­त­दृ­ष्टिषु एक­वि­ष­या­क्षि­प्त­चि­त्तेषु उपचर्यमाणो दृश्यते — ध्यायति बकः, ध्यायति प्रोषि­त­ब­न्धु­रिति । आसीनश्च अनायासो भवति । तस्मादपि आसीनकर्मोपासनम् ॥ ८ ॥

अचलत्वं चापेक्ष्य ॥ ९ ॥

अपि च ‘ध्यायतीव पृथिवी’(छा. उ. ७ । ६ । १) इत्यत्र पृथिव्यादिषु अच­ल­त्व­मे­वा­पेक्ष्य ध्यायतिवादो भवति । तच्च लिङ्गम् उपासनस्य आसीनकर्मत्वे ॥ ९ ॥

स्मरन्ति च ॥ १० ॥

१०

स्मरन्त्यपि च शिष्टा उपासनाङ्गत्वेन आसनम् — ‘शुचौ देशे प्रतिष्ठाप्य स्थिर­मा­स­न­मा­त्मनः’(भ. गी. ६ । ११) इत्यादिना । अत एव पद्म­का­दी­ना­मा­स­न­वि­शे­षा­णा­मु­प­देशो योगशास्त्रे ॥ १० ॥

यत्रैकाग्रता तत्राविशेषात् ॥ ११ ॥

११

दिग्देशकालेषु संशयः — किमस्ति कश्चिन्नियमः, नास्ति वेति । प्रायेण वैदि­के­ष्वा­र­म्भेषु दिगा­दि­नि­य­म­द­र्श­नात् , स्यादिहापि कश्चिन्नियम इति यस्य मतिः, तं प्रत्याह — दिग्देशकालेषु अर्थलक्षण एव नियमः । यत्रैव अस्य दिशि देशे काले वा मनसः सौक­र्ये­णै­का­ग्रता भवति, तत्रैवोपासीत, प्राची­दि­क्पू­र्वा­ह्ण­प्रा­ची­न­प्र­व­णा­दि­वत् विशेषाश्रवणात् , एकाग्रताया इष्टायाः सर्व­त्रा­वि­शे­षात् । ननु विशेषमपि केचिदामनन्ति — ‘समे शुचौ शर्क­रा­व­ह्नि­वा­लु­का­वि­व­र्जिते शब्द­ज­ला­श्र­या­दिभिः । मनोनुकूले न तु चक्षुपीडने गुहा­नि­वा­ता­श्र­यणे प्रयोजयेत्’(श्वे. उ. २ । १०) इति यथेति — उच्यते । सत्यमस्ति एवंजातीयको नियमः । सति त्वेतस्मिन् , तद्गतेषु विशेषेष्वनियम इति सुहृद्भूत्वा आचार्य आचष्टे । ‘मनोनुकूले’ इति चैषा श्रुतिः यत्रैकाग्रता तत्रैव — इत्येतदेव दर्शयति ॥ ११ ॥

आ प्राय­णा­त्त­त्रापि हि दृष्टम् ॥ १२ ॥

१२

आवृत्तिः सर्वो­पा­स­ने­ष्वा­द­र्त­व्येति स्थित­मा­द्येऽ­धि­क­रणे । तत्र यानि तावत् सम्य­ग्द­र्श­ना­र्था­न्यु­पा­स­नानि, तानि अवघातादिवत् कार्य­प­र्य­व­सा­ना­नीति ज्ञातमेव एषा­मा­वृ­त्ति­प­रि­मा­णम् । न हि सम्यग्दर्शने कार्ये निष्पन्ने यत्नान्तरं किञ्चिच्छासितुं शक्यम् , अनि­यो­ज्य­ब्र­ह्मा­त्म­त्व­प्र­ति­पत्तेः शास्त्र­स्या­वि­ष­य­त्वात् । यानि पुनः अभ्युदयफलानि, तेष्वेषा चिन्ता — किं कियन्तंचित्कालं प्रत्ययमावर्त्य उपरमेत् , उत याव­ज्जी­व­मा­व­र्त­ये­दिति । किं तावत्प्राप्तम् ? कियन्तंचित्कालं प्रत्ययमभ्यस्य उत्सृजेत् , आवृ­त्ति­वि­शि­ष्ट­स्यो­पा­स­न­श­ब्दा­र्थस्य कृतत्वादित्येवं प्राप्ते, ब्रूमः — आ प्रायणादेव आव­र्त­ये­त्प्र­त्य­यम् , अन्त्य­प्र­त्य­य­व­शा­द­दृ­ष्ट­फ­ल­प्राप्तेः । कर्माण्यपि हि जन्मा­न्त­रो­प­भोग्यं फलमारभमाणानि तदनुरूपं भावनाविज्ञानं प्रायणकाले आक्षिपन्ति — ‘सविज्ञानो भवति सवि­ज्ञा­न­मे­वा­न्व­व­क्रा­मति’ ‘यच्चि­त्त­स्ते­नैष प्राणमायाति’ ‘प्राणस्तेजसा युक्तः सहात्मना यथासङ्कल्पितं लोकं नयति’ इति चैव­मा­दि­श्रु­तिभ्यः । तृण­ज­लू­का­नि­द­र्श­नाच्च । प्रत्य­या­स्त्वेते स्वरू­पा­नु­वृत्तिं मुक्त्वा किमन्यत् प्रायणकालभावि भाव­ना­वि­ज्ञा­न­म­पे­क्षे­रन् । तस्मात् ये प्रति­प­त्त­व्य­फ­ल­भा­व­ना­त्मकाः प्रत्ययाः, तेषु आ प्रायणात् आवृत्तिः । तथा च श्रुतिः — ‘स याव­त्क्र­तु­र­य­म­स्मा­ल्लो­का­त्प्रैति’ इति प्रायणकालेऽपि प्रत्य­या­नु­वृत्तिं दर्शयति । स्मृतिरपि — ‘यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः’(भ. गी. ८ । ६) इति, ‘प्रयाणकाले मनसाचलेन’(भ. गी. ८ । १०) इति च । ‘सोऽन्त­वे­ला­या­मे­त­त्त्रयं प्रतिपद्येत’ इति च मरणवेलायामपि कर्तव्यशेषं श्रावयति ॥ १२ ॥

तदधिगम उत्त­र­पू­र्वा­घ­यो­र­श्ले­ष­वि­नाशौ तद्व्यपदेशात् ॥ १३ ॥

१३

गतस्तृतीयशेषः । अथेदानीं ब्रह्मविद्याफलं प्रति चिन्ता प्रतायते । ब्रह्माधिगमे सति तद्विपरीतफलं दुरितं क्षीयते, न क्षीयते वेति संशयः । किं तावत्प्राप्तम् ? फला­र्थ­त्वा­त्क­र्मणः फलमदत्त्वा न सम्भाव्यते क्षयः । फलदायिनी हि अस्य शक्तिः श्रुत्या समधिगता । यदि तत् अन्तरेणैव फलो­प­भो­ग­म­प­वृ­ज्येत, श्रुतिः कदर्थिता स्यात् । स्मरन्ति च — ‘न हि कर्म क्षीयते’(गौ. ध. सू. ३ । १ । ५) इति । नन्वेवं सति प्राय­श्चि­त्तो­प­दे­शोऽ­न­र्थकः प्राप्नोति — नैष दोषः, प्राय­श्चि­त्तानां नैमि­त्ति­क­त्वो­प­पत्तेः गृह­दा­हे­ष्ट्या­दि­वत् । अपि च प्राय­श्चि­त्तानां दोषसंयोगेन विधानाद्भवेदपि दोषक्षपणार्थता । न त्वेवं ब्रह्मविद्यायां विधानमस्ति । नन्व­न­भ्यु­प­ग­म्य­माने ब्रह्मविदः कर्मक्षये तत्फ­ल­स्या­व­श्य­भो­क्त­व्य­त्वा­द­नि­र्मोक्षः स्यात् — नेत्युच्यते; देश­का­ल­नि­मि­त्ता­पेक्षो मोक्षः कर्मफलवत् भविष्यति । तस्मान्न ब्रह्माधिगमे दुरि­त­नि­वृ­त्ति­रि­त्येवं प्राप्ते ब्रूमः —

तदधिगमे ब्रह्माधिगमे सति उत्त­र­पू­र्व­यो­र­घ­यो­र­श्ले­ष­वि­नाशौ भवतः — उत्तरस्य अश्लेषः, पूर्वस्य विनाशः । कस्मात् ? तद्व्यपदेशात् । तथा हि ब्रह्म­वि­द्या­प्र­क्रि­यायां सम्भा­व्य­मा­न­स­म्ब­न्धस्य आगामिनो दुरि­त­स्या­न­भि­स­म्बन्धं विदुषो व्यपदिशति — ‘यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते’(छा. उ. ४ । १४ । ३) इति । तथा विनाशमपि पूर्वोपचितस्य दुरितस्य व्यपदिशति — ‘तद्य­थे­षी­का­तू­ल­मग्नौ प्रोतं प्रदूयेतैवꣳ हास्य सर्वे पाप्मानः प्रदूयन्ते’(छा. उ. ५ । २४ । ३) इति । अयमपरः कर्म­क्ष­य­व्य­प­देशो भवति — ‘भिद्यते हृद­य­ग्र­न्थि­श्छि­द्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’(मु. उ. २ । २ । ९) इति । यदुक्तम् — अनुपभुक्तफलस्य कर्मणः क्षयकल्पनायां शास्त्रं कदर्थितं स्यादिति, नैष दोषः । न हि वयं कर्मणः फलदायिनीं शक्तिमवजानीमहे । विद्यत एव सा । सा तु विद्यादिना कारणान्तरेण प्रतिबध्यत इति वदामः । शक्ति­स­द्भा­व­मात्रे च शास्त्रं व्याप्रियते, न प्रति­ब­न्धा­प्र­ति­ब­न्ध­यो­रपि । ‘न हि कर्म क्षीयते’(गौ. ध. सू. ३ । १ । ५) इत्येतदपि स्मर­ण­मौ­त्स­र्गि­कम् — न हि भोगादृते कर्म क्षीयते तदर्थत्वादिति । इष्यत एव तु प्राय­श्चि­त्ता­दिना तस्य क्षयः — ‘सर्वं पाप्मानं तरति, तरति ब्रह्महत्याम् , योऽश्वमेधेन यजते, य उ चैनमेवं वेद’ इत्यादि श्रुति­स्मृ­तिभ्यः । यत्तूक्तम् — नैमित्तिकानि प्रायश्चित्तानि भविष्यन्तीति, तदसत् , दोषसंयोगेन चोद्य­मा­ना­ना­मेषां दोष­नि­र्घा­त­फ­ल­स­म्भवे फला­न्त­र­क­ल्प­ना­नु­प­पत्तेः । यत्पु­न­रे­त­दु­क्तम् — न प्रायश्चित्तवत् दोषक्षयोद्देशेन विद्या­वि­धा­न­म­स्तीति, अत्र ब्रूमः — सगुणासु तावद्विद्यासु विद्यत एव विधानम् , तासु च वाक्यशेषे ऐश्व­र्य­प्राप्तिः पापनिवृत्तिश्च विद्यावत उच्यते, तयो­श्चा­वि­व­क्षा­का­रणं नास्ति — इत्यतः पाप्म­प्र­हा­ण­पू­र्व­कै­श्व­र्य­प्राप्तिः तासां फलमिति निश्चीयते । निर्गुणायां तु विद्यायां यद्यपि विधानं नास्ति, तथापि अक­र्त्रा­त्म­त्व­बो­धा­त्क­र्म­प्र­दा­ह­सिद्धिः । अश्लेष इति च आगामिषु कर्मसु कर्तृत्वमेव न प्रतिपद्यते ब्रह्मविदिति दर्शयति । अतिक्रान्तेषु तु यद्यपि मिथ्या­ज्ञा­ना­त्क­र्तृत्वं प्रतिपेद इव, तथापि विद्या­सा­म­र्थ्या­न्मि­थ्या­ज्ञा­न­नि­वृत्तेः तान्यपि प्रविलीयन्त इत्याह — विनाश इति । पूर्व­सि­द्ध­क­र्तृ­त्व­भो­क्तृ­त्व­वि­प­रीतं हि त्रिष्वपि काले­ष्व­क­र्तृ­त्वा­भो­क्तृ­त्व­स्व­रूपं ब्रह्माहमस्मि, नेतः पूर्वमपि कर्ता भोक्ता वा अहमासम् , नेदानीम् , नापि भविष्यत्काले — इति ब्रह्म­वि­द­व­ग­च्छति । एवमेव च मोक्ष उपपद्यते । अन्यथा हि अना­दि­का­ल­प्र­वृ­त्तानां कर्मणां क्षयाभावे मोक्षाभावः स्यात् । न च देश­का­ल­नि­मि­त्ता­पेक्षो मोक्षः कर्मफलवत् भवितुमर्हति; अनि­त्य­त्व­प्र­स­ङ्गात् , परो­क्ष­त्वा­नु­प­प­त्तेश्च ज्ञानफलस्य । तस्मात् ब्रह्माधिगमे दुरितक्षय इति स्थितम् ॥ १३ ॥

इत­र­स्या­प्ये­व­म­सं­श्लेषः पाते तु ॥ १४ ॥

१४

पूर्व­स्मि­न्न­धि­क­रणे बन्धहेतोरघस्य स्वाभाविकस्य अश्लेषविनाशौ ज्ञाननिमित्तौ शास्त्र­व्य­प­दे­शा­न्नि­रू­पितौ । धर्मस्य पुनः शास्त्रीयत्वात् शास्त्रीयेण ज्ञानेन अविरोध इत्याशङ्क्य तन्निराकरणाय पूर्वा­धि­क­र­ण­न्या­या­ति­देशः क्रियते — इतरस्यापि पुण्यस्य कर्मणः एवम् अघवत् असंश्लेषो विनाशश्च ज्ञानवतो भवतः ; कुतः ? तस्यापि स्वफलहेतुत्वेन ज्ञान­फ­ल­प्र­ति­ब­न्धि­त्व­प्र­स­ङ्गात् , ‘उभे उ हैवैष एते तरति’(बृ. उ. ४ । ४ । २२) इत्यादिश्रुतिषु च दुष्कृ­त­व­त्सु­कृ­त­स्यापि प्रणा­श­व्य­प­दे­शात् , अक­र्त्रा­त्म­त्व­बो­ध­नि­मि­त्तस्य च कर्मक्षयस्य सुकृ­त­दु­ष्कृ­त­यो­स्तु­ल्य­त्वात् , ‘क्षीयन्ते चास्य कर्माणि’(मु. उ. २ । २ । ९) इति च अविशेषश्रुतेः । यत्रापि केवल एव पाप्मशब्दः पठ्यते, तत्रापि तेनैव पुण्य­म­प्या­क­लि­त­मिति द्रष्टव्यम् , ज्ञानापेक्षया निकृष्टफलत्वात् । अस्ति च श्रुतौ पुण्येऽपि पाप्मशब्दः — ‘नैनं सेतुमहोरात्रे तरतः’(छा. उ. ८ । ४ । १) इत्यत्र सह दुष्कृतेन सुकृ­त­म­प्य­नु­क्रम्य, ‘सर्वे पाप्मानोऽतो निवर्तन्ते’ इत्यविशेषेणैव प्रकृते पुण्ये पाप्म­श­ब्द­प्र­यो­गात् । ‘पाते तु’ इति तुश­ब्दोऽ­व­धा­र­णार्थः । एवं धर्मा­ध­र्म­यो­र्ब­न्ध­हेत्वोः विद्या­सा­म­र्थ्या­द­श्ले­ष­वि­ना­श­सिद्धेः अवश्यंभाविनी विदुषः शरीरपाते मुक्ति­रि­त्य­व­धा­र­यति ॥ १४ ॥

अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ १५ ॥

१५

पूर्व­यो­र­धि­क­र­ण­यो­र्ज्ञा­न­नि­मित्तः सुकृ­त­दु­ष्कृ­त­यो­र्वि­ना­शोऽ­व­धा­रितः । स किमविशेषेण आर­ब्ध­का­र्य­यो­र­ना­र­ब्ध­का­र्य­योश्च भवति, उत विशे­षे­णा­ना­र­ब्ध­का­र्य­यो­रे­वेति विचार्यते । तत्र ‘उभे उ हैवैष एते तरति’(बृ. उ. ४ । ४ । २२) इत्ये­व­मा­दि­श्रु­ति­ष्व­वि­शे­ष­श्र­व­णा­द­वि­शे­षे­णैव क्षय इत्येवं प्राप्ते, प्रत्याह — अनारब्धकार्ये एव त्विति । अप्रवृत्तफले एव पूर्वे जन्मा­न्त­र­स­ञ्चिते, अस्मिन्नपि च जन्मनि प्राग्ज्ञा­नो­त्पत्तेः सञ्चिते, सुकृतदुष्कृते ज्ञानाधिगमात् क्षीयेते; न तु आरब्धकार्ये सामिभुक्तफले, याभ्यामेतत् ब्रह्म­ज्ञा­ना­य­तनं जन्म निर्मितम् । कुत एतत् ? ‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’(छा. उ. ६ । १४ । २) इति शरी­र­पा­ता­व­धि­क­र­णा­त्क्षे­म­प्राप्तेः । इतरथा हि ज्ञाना­द­शे­ष­क­र्म­क्षये सति स्थिति­हे­त्व­भा­वात् ज्ञान­प्रा­प्त्य­न­न्त­र­मेव क्षेममश्नुवीत । तत्र शरी­र­पा­त­प्र­तीक्षां न आचक्षीत । ननु वस्तुबलेनैव अय­म­क­र्त्रा­त्मा­व­बोधः कर्माणि क्षपयन् कथं कानि­चि­त्क्ष­प­येत् कानि­चि­च्चो­पे­क्षेत ? न हि समा­नेऽ­ग्नि­बी­ज­स­म्पर्के केषा­ञ्चि­द्बी­ज­शक्तिः क्षीयते, केषाञ्चिन्न क्षीयते इति शक्य­म­ङ्गी­क­र्तु­मिति । उच्यते — न तावदनाश्रित्य आरब्धकार्यं कर्माशयं ज्ञानो­त्प­त्ति­रु­प­प­द्यते । आश्रिते च तस्मि­न्कु­ला­ल­च­क्र­व­त्प्र­वृ­त्त­वे­गस्य अन्तराले प्रति­ब­न्धा­स­म्भ­वात् भवति वेग­क्ष­य­प्र­ति­पा­ल­नम् । अक­र्त्रा­त्म­बो­धोऽपि हि मिथ्या­ज्ञा­न­बा­ध­नेन कर्मा­ण्यु­च्छि­नत्ति । बाधितमपि तु मिथ्याज्ञानं द्विच­न्द्र­ज्ञा­न­व­त्सं­स्का­र­व­शा­त्कं­चि­त्का­ल­म­नु­व­र्तत एव । अपि च नैवात्र विवदितव्यम् — ब्रह्मविदा कञ्चित्कालं शरीरं ध्रियते न वा ध्रियत इति । कथं हि एकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणं च अपरेण प्रतिक्षेप्तुं शक्येत ? श्रुतिस्मृतिषु च स्थित­प्र­ज्ञ­ल­क्ष­ण­नि­र्दे­शेन एतदेव निरुच्यते । तस्मा­द­ना­र­ब्ध­का­र्य­यो­रेव सुकृ­त­दु­ष्कृ­त­यो­र्वि­द्या­सा­म­र्थ्या­त्क्षय इति निर्णयः ॥ १५ ॥

अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ १६ ॥

१६

पुण्य­स्या­प्य­श्ले­ष­वि­ना­श­यो­र­घ­न्या­योऽ­ति­दिष्टः । सोऽतिदेशः सर्वपुण्यविषय इत्याशङ्क्य प्रतिवक्ति — अग्निहोत्रादि त्विति । तुशब्द आशङ्कामपनुदति । यन्नित्यं कर्म वैदि­क­म­ग्नि­हो­त्रादि, तत् तत्कार्यायैव भवति; ज्ञानस्य यत्कार्यं तदेव अस्यापि कार्यमित्यर्थः । कुतः ? ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन’(बृ. उ. ४ । ४ । २२) इत्यादिदर्शनात् । ननु ज्ञान­क­र्म­णो­र्वि­ल­क्ष­ण­का­र्य­त्वा­त्का­र्यै­क­त्वा­नु­प­पत्तिः — नैष दोषः, ज्वर­म­र­ण­का­र्य­यो­रपि दधिविषयोः गुड­म­न्त्र­सं­यु­क्त­यो­स्तृ­प्ति­पु­ष्टि­का­र्य­द­र्श­नात् , तद्वत् कर्मणोऽपि ज्ञानसंयुक्तस्य मोक्ष­का­र्यो­प­पत्तेः । ननु अनारभ्यो मोक्षः, कथमस्य कर्म­का­र्य­त्व­मु­च्यते ? नैष दोषः, आरा­दु­प­का­र­क­त्वा­त्क­र्मणः । ज्ञानस्यैव हि प्रापकं सत् कर्म प्रणाड्या मोक्ष­का­र­ण­मि­त्यु­प­च­र्यते । अत एव च अति­क्रा­न्त­वि­ष­य­मे­त­त्का­र्यै­क­त्वा­भि­धा­नम् । न हि ब्रह्मविद आगा­म्य­ग्नि­हो­त्रादि सम्भवति, अनि­यो­ज्य­ब्र­ह्मा­त्म­त्व­प्र­ति­पत्तेः शास्त्र­स्या­वि­ष­य­त्वात् । सगुणासु तु विद्यासु कर्तृ­त्वा­न­ति­वृत्तेः सम्भवति आगाम्यपि अग्निहोत्रादि । तस्यापि निरभिसन्धिनः कार्या­न्त­रा­भा­वा­द्वि­द्या­स­ङ्ग­त्यु­प­पत्तिः ॥ १६ ॥

किंविषयं पुनरिदम् अश्ले­ष­वि­ना­श­व­च­नम् , किंविषयं वा अदो विनियोगवचनम् एकेषां शाखिनाम् — ‘तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्’ इति ? अत उत्तरं पठति —

अतोऽन्यापि ह्येकेषामुभयोः ॥ १७ ॥

१७

अतोऽ­ग्नि­हो­त्रा­दे­र्नि­त्या­त्क­र्मणः अन्यापि ह्यस्ति साधुकृत्या, या फलमभिसन्धाय क्रियते, तस्या एष विनियोग उक्तः एकेषां शाखिनाम् — ‘सुहृदः साधु­कृ­त्या­मु­प­यन्ति’ इति । तस्या एव च इदम् अघ­व­द­श्ले­ष­वि­ना­श­नि­रू­प­णम् — इत­र­स्या­प्ये­व­म­सं­श्लेष इति । एवंजातीयकस्य काम्यस्य कर्मणो विद्यां प्रत्य­नु­प­का­र­कत्वे सम्प्रतिपत्तिः उभयोरपि जैमि­नि­बा­द­रा­य­ण­यो­रा­चा­र्ययोः ॥ १७ ॥

यदेव विद्ययेति हि ॥ १८ ॥

१८

सम­धि­ग­त­मे­त­द­न­न्त­रा­धि­क­रणे — नित्य­म­ग्नि­हो­त्रा­दिकं कर्म मुमुक्षुणा मोक्ष­प्र­यो­ज­नो­द्दे­शेन कृत­मु­पा­त्त­दु­रि­त­क्ष­य­हे­तु­त्व­द्वा­रेण सत्त्व­शु­द्धि­का­र­णतां प्रतिपद्यमानं मोक्ष­प्र­यो­ज­न­ब्र­ह्मा­धि­ग­म­नि­मि­त्त­त्वेन ब्रह्मविद्यया सह एककार्यं भवतीति । तत्र अग्निहोत्रादि कर्मा­ङ्ग­व्य­पा­श्र­य­वि­द्या­सं­युक्तं केवलं चास्ति — ‘य एवं विद्वान्यजति’ ‘य एवं विद्वाञ्जुहोति’ ‘य एवं विद्वाञ्शंसति’ ‘य एवं विद्वान्गायति’ ‘तस्मा­दे­वं­वि­द­मेव ब्रह्माणं कुर्वीत नानेवंविदम्’(छा. उ. ४ । १७ । १०) ‘तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद’(छा. उ. १ । १ । १०) इत्यादिवचनेभ्यो विद्या­सं­यु­क्त­मस्ति, केवलमप्यस्ति । तत्रेदं विचार्यते — किं विद्या­सं­यु­क्त­मेव अग्निहोत्रादिकं कर्म मुमु­क्षो­र्वि­द्या­हे­तु­त्वेन तया सह एककार्यत्वं प्रतिपद्यते न केवलम्; उत विद्यासंयुक्तं केवलं च अविशेषेणेति । कुतः संशयः ? ‘तमेतमात्मानं यज्ञेन विविदिषन्ति’ इति यज्ञा­दी­ना­म­वि­शे­षेण आत्म­वे­द­ना­ङ्ग­त्वेन श्रवणात् , विद्या­सं­यु­क्तस्य च अग्नि­हो­त्रा­दे­र्वि­शि­ष्ट­त्वा­व­ग­मात् । किं तावत्प्राप्तम् ? विद्या­सं­यु­क्त­मेव कर्म अग्निहोत्रादि आत्म­वि­द्या­शे­षत्वं प्रतिपद्यते, न विद्याहीनम् , विद्योपेतस्य विशि­ष्ट­त्वा­व­ग­मा­द्वि­द्या­वि­ही­नात् — ‘यदहरेव जुहोति तदहः पुन­र्मृ­त्यु­म­प­ज­य­त्येवं विद्वान्’(बृ॰उ॰ १-५-२) इत्या­दि­श्रु­तिभ्यः, ‘बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि’(भ. गी. २ । ३९) ‘दूरेण ह्यवरं कर्म बुद्धि­यो­गा­द्ध­न­ञ्जय’(भ. गी. २ । ४९) इत्या­दि­स्मृ­ति­भ्यश्च इत्येवं प्राप्ते प्रतिपाद्यते —

यदेव विद्ययेति हि । सत्यमेतत् — विद्यासंयुक्तं कर्म अग्निहोत्रादिकं विद्या­वि­ही­ना­त्क­र्म­णोऽ­ग्नि­हो­त्रा­द्वि­शि­ष्टम् , विद्वानिव ब्राह्मणो विद्या­वि­ही­ना­द्ब्रा­ह्म­णात्; तथापि नात्य­न्त­म­न­पेक्षं विद्याविहीनं कर्म अग्नि­हो­त्रा­दि­कम् । कस्मात् ? ‘तमेतमात्मानं यज्ञेन विविदिषन्ति’ इत्यविशेषेण अग्नि­हो­त्रा­दे­र्वि­द्या­हे­तु­त्वेन श्रुतत्वात् । ननु विद्या­सं­यु­क्तस्य अग्नि­हो­त्रा­दे­र्वि­द्या­वि­ही­ना­द्वि­शि­ष्ट­त्वा­व­ग­मात् विद्या­वि­ही­न­म­ग्नि­हो­त्रादि आत्म­वि­द्या­हे­तु­त्वे­ना­न­पे­क्ष्य­मे­वेति युक्तम् — नैतदेवम्; विद्या­स­हा­य­स्या­ग्नि­हो­त्रा­दे­र्वि­द्या­नि­मि­त्तेन सामर्थ्यातिशयेन योगात् आत्मज्ञानं प्रति कश्चि­त्का­र­ण­त्वा­ति­शयो भविष्यति, न तथा विद्याविहीनस्य — इति युक्तं कल्पयितुम् । न तु ‘यज्ञेन विविदिषन्ति’ इत्य­त्रा­वि­शे­षे­णा­त्म­ज्ञा­ना­ङ्ग­त्वेन श्रुत­स्या­ग्नि­हो­त्रा­दे­र­न­ङ्गत्वं शक्य­म­भ्यु­प­ग­न्तुम् । तथा हि श्रुतिः — ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’(छा. उ. १ । १ । १०) इति विद्या­सं­यु­क्तस्य कर्म­णोऽ­ग्नि­हो­त्रादेः वीर्य­व­त्त­र­त्वा­भि­धा­नेन स्वकार्यं प्रति कञ्चिदतिशयं ब्रुवाणा विद्याविहीनस्य तस्यैव तत्प्रयोजनं प्रति वीर्यवत्त्वं दर्शयति । कर्मणश्च वीर्यवत्त्वं तत् , यत्स्व­प्र­यो­ज­न­सा­ध­न­प्र­स­ह­त्वम् । तस्मा­द्वि­द्या­सं­युक्तं नित्य­म­ग्नि­हो­त्रादि विद्याविहीनं च उभयमपि मुमुक्षुणा मोक्ष­प्र­यो­ज­नो­द्दे­शेन इह जन्मनि जन्मान्तरे च प्राग्ज्ञा­नो­त्पत्तेः कृतं यत् , तद्यथासामर्थ्यं ब्रह्मा­धि­ग­म­प्र­ति­ब­न्ध­का­र­णो­पा­त्त­दु­रि­त­क्ष­य­हे­तु­त्व­द्वा­रेण ब्रह्मा­धि­ग­म­का­र­णत्वं प्रतिपद्यमानं श्रव­ण­म­न­न­श्र­द्धा­ता­त्प­र्या­द्य­न्त­र­ङ्ग­का­र­णा­पेक्षं ब्रह्मविद्यया सह एककार्यं भवतीति स्थितम् ॥ १८ ॥

भोगेन त्वितरे क्षपयित्वा सम्पद्यते ॥ १९ ॥

१९

अनारब्धकार्ययोः पुण्य­पा­प­यो­र्वि­द्या­सा­म­र्थ्या­त्क्षय उक्तः । इतरे तु आरब्धकार्ये पुण्यपापे उपभोगेन क्षपयित्वा ब्रह्म सम्पद्यते, ‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’(छा. उ. ६ । १४ । २) इति ‘ब्रह्मैव सन्ब्र­ह्मा­प्येति’ इति च एव­मा­दि­श्रु­तिभ्यः । ननु सत्यपि सम्यग्दर्शने यथा प्राग्दे­ह­पा­ता­द्भे­द­द­र्शनं द्विच­न्द्र­द­र्श­न­न्या­ये­ना­नु­वृ­त्तम् , एवं पश्चा­द­प्य­नु­व­र्तेत — न, निमित्ताभावात् । उपभोगशेषक्षपणं हि तत्रा­नु­वृ­त्ति­नि­मि­त्तम् , न च तादृशमत्र किञ्चिदस्ति । ननु अपरः कर्मा­श­योऽ­भि­न­व­मु­प­भो­ग­मा­र­प्स्यते — न ; तस्य दग्धबीजत्वात् । मिथ्या­ज्ञा­ना­व­ष्टम्भं हि कर्मान्तरं देहपात उप­भो­गा­न्त­र­मा­र­भते; तच्च मिथ्याज्ञानं सम्यग्ज्ञानेन दग्धम् — इत्यतः साध्वेतत् आरब्धकार्यक्षये विदुषः कैवल्यमवश्यं भवतीति ॥ १९ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य
श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ शारी­र­क­मी­मां­सा­सू­त्र­भाष्ये
चतुर्थाध्यायस्य प्रथमः पादः ॥

द्वितीयः पादः

अथ अपरासु विद्यासु फलप्राप्तये देवयानं पन्था­न­म­व­ता­र­यि­ष्यन् प्रथमं तावत् यथा­शा­स्त्र­मु­त्क्रा­न्ति­क्र­म­म­न्वा­चष्टे । समाना हि विद्व­द­वि­दु­षो­रु­त्क्रा­न्ति­रिति वक्ष्यति —

वाङ्मनसि दर्श­ना­च्छ­ब्दाच्च ॥ १ ॥

अस्ति प्रायणविषया श्रुतिः — ‘अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम्’(छा. उ. ६ । ८ । ६) इति । किमिह वाच एव वृत्तिमत्त्या मनसि सम्प­त्ति­रु­च्यते, उत वाग्वृत्तेरिति विशयः । तत्र वागेव तावत् मनसि सम्पद्यत इति प्राप्तम् । तथा हि श्रुतिरनुगृहीता भवति । इतरथा लक्षणा स्यात् । श्रुति­ल­क्ष­णा­वि­शये च श्रुति­र्न्याय्या, न लक्षणा । तस्मात् वाच एव अयं मनसि प्रलय इति ॥

एवं प्राप्ते, ब्रूमः — वाग्वृ­त्ति­र्म­नसि सम्पद्यत इति । कथं वाग्वृत्तिरिति व्याख्यायते, यावता ‘वाङ्मनसि’ इत्येव आचार्यः पठति ? सत्यमेतत्; पठिष्यति तु परस्तात् — ‘अविभागो वचनात्’(ब्र. सू. ४ । २ । १६) इति । तस्मादत्र वृत्त्यु­प­श­म­मात्रं विवक्षितमिति गम्यते । तत्त्व­प्र­ल­य­वि­व­क्षायां तु सर्वत्रैव अविभागसाम्यात् किं परत्रैव विशिंष्यात् — ‘अविभागः’ इति । तस्मादत्र वृत्त्यु­प­सं­हा­र­वि­वक्षा । वाग्वृत्तिः पूर्व­मु­प­सं­ह्रि­यते मनो­वृ­त्ता­व­व­स्थि­ता­या­मि­त्यर्थः । कस्मात् ? दर्शनात् — दृश्यते हि वाग्वृत्तेः पूर्वोपसंहारो मनोवृत्तौ विद्यमानायाम् । न तु वाच एव वृत्तिमत्त्या मनस्युपसंहारः केनचिदपि द्रष्टुं शक्यते । ननु श्रुति­सा­म­र्थ्यात् वाच एवायं मनस्यप्ययो युक्त इत्युक्तम् — नेत्याह, अत­त्प्र­कृ­ति­त्वात् । यस्य हि यत उत्पत्तिः, तस्य तत्र प्रलयो न्याय्यः, मृदीव शरावस्य । न च मनसो वागुत्पद्यत इति किञ्चन प्रमाणमस्ति । वृत्त्यु­द्भ­वा­भि­भवौ तु अप्र­कृ­ति­स­मा­श्र­या­वपि दृश्येते । पार्थिवेभ्यो हि इन्धनेभ्यः तैज­स­स्या­ग्ने­र्वृ­त्ति­रु­द्भ­वति, अप्सु च उपशाम्यति । कथं तर्हि अस्मिन्पक्षे शब्दः ‘वाङ्मनसि सम्पद्यते’ इति ? अत आह — शब्दाच्चेति । शब्दोऽ­प्य­स्मि­न्प­क्षेऽ­व­क­ल्पते, वृत्ति­वृ­त्ति­म­तो­र­भे­दो­प­चा­रा­दि­त्यर्थः ॥ १ ॥

अत एव च सर्वाण्यनु ॥ २ ॥

‘तस्मा­दु­प­शा­न्त­तेजाः पुन­र्भ­व­मि­न्द्रि­यै­र्म­नसि सम्पद्यमानैः’(प्र. उ. ३ । ९) इत्यत्र अविशेषेण सर्वे­षा­मे­वे­न्द्रि­याणां मनसि सम्पत्तिः श्रूयते । तत्रापि अत एव वाच इव चक्षुरादीनामपि सवृत्तिके मनस्यवस्थिते वृत्ति­लो­प­द­र्श­नात् तत्त्व­प्र­ल­या­स­म्भ­वात् शब्दोपपत्तेश्च वृत्तिद्वारेणैव सर्वा­णी­न्द्रि­याणि मनोऽनुवर्तन्ते । सर्वेषां करणानां मन­स्यु­प­सं­हा­रा­वि­शेषे सति वाचः पृथग्ग्रहणम् ‘वाङ्मनसि सम्पद्यते’ इत्यु­दा­ह­र­णा­नु­रो­धेन ॥ २ ॥

तन्मनः प्राण उत्तरात् ॥ ३ ॥

समधिगतमेतत् — ‘वाङ्मनसि सम्पद्यते’(छा. उ. ६ । ८ । ६) इत्यत्र वृत्ति­स­म्प­त्ति­वि­व­क्षेति । अथ यदुत्तरं वाक्यम् ‘मनः प्राणे’(छा. उ. ६ । ८ । ६) इति, किमत्रापि वृत्ति­स­म्प­त्ति­रेव विवक्ष्यते, उत वृत्ति­म­त्स­म्पत्तिः — इति विचिकित्सायाम् , वृत्ति­म­त्स­म्प­त्ति­रेव अत्र इति प्राप्तम् , श्रुत्य­नु­ग्र­हात् । तत्प्र­कृ­ति­त्वो­प­प­त्तेश्च । तथा हि — ‘अन्नमयꣳ हि सोम्य मन आपोमयः प्राणः’(छा. उ. ६ । ५ । ४) इत्यन्नयोनि मन आमनन्ति, अब्योनिं च प्राणम् । ‘आप­श्चा­न्न­म­सृ­जन्त’ — इति श्रुतिः । अतश्च यन्मनः प्राणे प्रलीयते, अन्नमेव तदप्सु प्रलीयते । अन्नं हि मनः, आपश्च प्राणः, प्रकृ­ति­वि­का­रा­भे­दा­दिति । एवं प्राप्ते, ब्रूमः — तदपि आगृ­ही­त­बा­ह्ये­न्द्रि­य­वृत्ति मनो वृत्तिद्वारेणैव प्राणे प्रलीयत इति उत्त­रा­द्वा­क्या­द­व­ग­न्त­व्यम् । तथा हि सुषु­प्सो­र्मु­मू­र्षोश्च प्राणवृत्तौ परि­स्प­न्दा­त्मि­का­या­म­व­स्थि­ता­याम् , मनो­वृ­त्ती­ना­मु­प­शमो दृश्यते । न च मनसः स्वरूपाप्ययः प्राणे सम्भवति; अत­त्प्र­कृ­ति­त्वात् । ननु दर्शितं मनसः प्राण­प्र­कृ­ति­क­त्वम् — नैतत्सारम् । न हि ईदृशेन प्राणाडिकेन तत्प्रकृतित्वेन मनः प्राणे सम्पत्तुमर्हति । एवमपि हि अन्ने मनः सम्पद्येत, अप्सु चान्नम् , अप्स्वेव च प्राणः । न ह्येतस्मिन्नपि पक्षे प्राण­भा­व­प­रि­ण­ता­भ्योऽद्भ्यो मनो जायत इति किञ्चन प्रमाणमस्ति । तस्मात् न मनसः प्राणे स्वरूपाप्ययः । वृत्त्यप्ययेऽपि तु शब्दोऽवकल्पते, वृत्ति­वृ­त्ति­म­तो­र­भे­दो­प­चा­रात् इति दर्शितम् ॥ ३ ॥

सोऽध्यक्षे तदुपगमादिभ्यः ॥ ४ ॥

स्थितमेतत् — यस्य यतो नोत्पत्तिः, तस्य तस्मि­न्वृ­त्ति­प्र­लयः, न स्वरूपप्रलय इति । इदमिदानीम् ‘प्राणस्तेजसि’ इत्यत्र चिन्त्यते — किं यथाश्रुति प्राणस्य तेजस्येव वृत्त्यु­प­सं­हारः, किं वा देहे­न्द्रि­य­प­ञ्ज­रा­ध्यक्षे जीव इति । तत्र श्रुते­र­न­ति­श­ङ्क्य­त्वात् प्राणस्य तेजस्येव सम्पत्तिः स्यात् , अश्रुतकल्पनाया अन्याय्यत्वात् — इत्येवं प्राप्ते प्रति­प­द्य­ते­सोऽ­ध्यक्ष इति । स प्रकृतः प्राणः, अध्यक्षे अवि­द्या­क­र्म­पू­र्व­प्र­ज्ञो­पा­धिके विज्ञानात्मनि अवतिष्ठते; तत्प्रधाना प्राण­वृ­त्ति­र्भ­व­ती­त्यर्थः । कुतः ? तदुपगमादिभ्यः — ‘एव­मे­वे­म­मा­त्मा­न­म­न्त­काले सर्वे प्राणा अभिसमायन्ति यत्रै­त­दू­र्ध्वो­च्छ्वासी भवति’ इति हि श्रुत्यन्तरम् अध्यक्षोपगामिनः सर्वान्प्राणान् अविशेषेण दर्शयति । विशेषेण च ‘तमुत्क्रामन्तं प्राणोऽ­नू­त्क्रा­मति’(बृ. उ. ४ । ४ । २) इति पञ्चवृत्तेः प्राणस्य अध्य­क्षा­नु­गा­मितां दर्शयति, तदनुवृत्तितां च इतरेषाम् ‘प्राण­म­नू­त्क्रा­मन्तꣳ सर्वे प्राणा अनूत्क्रामन्ति’(बृ. उ. ४ । ४ । २) इति । ‘सविज्ञानो भवति’ इति च अध्यक्षस्य अन्त­र्वि­ज्ञा­न­व­त्त्व­प्र­द­र्श­नेन तस्मिन् अपीतकरणग्रामस्य प्राणस्य अवस्थानं गमयति । ननु ‘प्राणस्तेजसि’ इति श्रूयते; कथं प्राणोऽध्यक्षे इत्यधिकावापः क्रियते ? नैष दोषः, अध्य­क्ष­प्र­धा­न­त्वा­दु­त्क्र­म­णा­दि­व्य­व­हा­रस्य, श्रुत्य­न्त­र­ग­त­स्यापि च विशे­ष­स्या­पे­क्ष­णी­य­त्वात् ॥ ४ ॥

कथं तर्हि ‘प्राणस्तेजसि’ इति श्रुतिरित्यत आह —

भूतेषु तच्छ्रुतेः ॥ ५ ॥

स प्राण­स­म्पृ­क्तोऽ­ध्यक्षः तेजःसहचरितेषु भूतेषु देहबीजभूतेषु सूक्ष्मेषु अवतिष्ठत इत्यवगन्तव्यम् , ‘प्राणस्तेजसि’ इति श्रुतेः । ननु च इयं श्रुतिः प्राणस्य तेजसि स्थितिं दर्शयति, न प्राण­स­म्पृ­क्त­स्या­ध्य­क्षस्य — नैष दोषः, सोऽध्यक्षे — इति अध्य­क्ष­स्या­प्य­न्त­राल उपसंख्यातत्वात् । योऽपि हि स्रुघ्ना­न्म­थुरां गत्वा मथुरायाः पाटलिपुत्रं व्रजति, सोऽपि स्रुघ्ना­त्पा­ट­लि­पुत्रं यातीति शक्यते वदितुम् । तस्मात् ‘प्राणस्तेजसि’ इति प्राण­स­म्पृ­क्त­स्या­ध्य­क्ष­स्यैव एतत् तेजःसहचरितेषु भूतेष्ववस्थानम् ॥ ५ ॥

कथं तेजःसहचरितेषु भूते­ष्वि­त्यु­च्यते, यावता एकमेव तेजः श्रूयते — ‘प्राणस्तेजसि’ इति ? अत आह —

नैक­स्मि­न्द­र्श­यतो हि ॥ ६ ॥

न एकस्मिन्नेव तेजसि शरी­रा­न्त­र­प्रे­प्सा­वे­लायां जीवोऽवतिष्ठते, कार्यस्य शरी­र­स्या­ने­का­त्म­क­त्व­द­र्श­नात् । दर्शयतश्च एतमर्थं प्रश्नप्रतिवचने ‘आपः पुरुषवचसः’(छा. उ. ५ । ३ । ३) इति । तद्व्याख्यातम् ‘त्र्यात्म­क­त्वात्तु भूयस्त्वात्’(ब्र. सू. ३ । १ । २) इत्यत्र । श्रुतिस्मृती च एतमर्थं दर्शयतः । श्रुतिः — ‘पृथिवीमय आपोमयो वायुमय आका­श­म­य­स्ते­जो­मयः’ इत्याद्या; स्मृतिरपि — ‘अण्व्यो मात्राऽ­वि­ना­शिन्यो दशार्धानां तु याः स्मृताः । ताभिः सार्धमिदं सर्वं सम्भ­व­त्य­नु­पू­र्वशः’(म. स्मृ. १ । २७) इत्याद्या । ननु च उपसंहृतेषु वागादिषु करणेषु शरी­रा­न्त­र­प्रे­प्सा­वे­ला­याम् ‘क्वायं तदा पुरुषो भवति’(बृ. उ. ३ । २ । १३) इत्युपक्रम्य श्रुत्यन्तरं कर्माश्रयतां निरूपयति — ‘तौ ह यदूचतुः कर्म हैव तदूचतुरथ ह यत्प्रशशꣳसतुः कर्म हैव तत्प्रशशꣳसतुः’(बृ. उ. ३ । २ । १३) इति । अत्रोच्यते — तत्र कर्मप्रयुक्तस्य ग्रहा­ति­ग्र­ह­सं­ज्ञ­कस्य इन्द्रि­य­वि­ष­या­त्म­कस्य बन्धनस्य प्रवृत्तिरिति कर्माश्रयतोक्ता । इह पुनः भूतो­पा­दा­ना­द्दे­हा­न्त­रो­त्प­त्ति­रिति भूता­श्र­य­त्व­मु­क्तम् । प्रशंसाशब्दादपि तत्र प्राधान्यमात्रं कर्मणः प्रदर्शितम् , न त्वाश्रयान्तरं निवारितम् । तस्मादविरोधः ॥ ६ ॥

समाना चासृ­त्यु­प­क्र­मा­द­मृ­तत्वं चानुपोष्य ॥ ७ ॥

सेय­मु­त्क्रान्तिः किं विद्वदविदुषोः समाना, किं वा विशेषवती — इति विशयानानां विशेषवतीति तावत्प्राप्तम् । भूता­श्र­य­वि­शिष्टा ह्येषा । पुनर्भवाय च भूता­न्या­श्री­यन्ते । न च विदुषः पुनर्भवः सम्भवति; अमृतत्वं हि विद्वानश्नुते — इति स्थितिः । तस्मादविदुष एव एषा उत्क्रान्तिः । ननु विद्याप्रकरणे समाम्नानात् विदुष एव एषा भवेत् — न, स्वापादिवत् यथा­प्रा­प्ता­नु­की­र्त­नात् । यथा हि ‘यत्रैतत्पुरुषः स्वपिति नाम’(छा. उ. ६ । ८ । १) , ‘अशिशिषति नाम’(छा. उ. ६ । ८ । ३) , ‘पिपासति नाम’(छा. उ. ६ । ८ । ५) इति च सर्व­प्रा­णि­सा­धा­रणा एव स्वापा­द­योऽ­नु­की­र्त्यन्ते विद्या­प्र­क­र­णेऽपि प्रति­पि­पा­द­यि­षि­त­व­स्तु­प्र­ति­पा­द­ना­नु­गु­ण्येन, न तु विदुषो विशेषवन्तो विधित्स्यन्ते; एवम् इयमपि उत्क्रान्तिः महा­ज­न­ग­तै­वा­नु­की­र्त्यते, यस्यां परस्यां देवतायां पुरुषस्य प्रयतः तेजः सम्पद्यते स आत्मा तत्त्वमसि — इत्ये­त­त्प्र­ति­पा­द­यि­तुम् । प्रतिषिद्धा च एषा विदुषः — ‘न तस्य प्राणा उत्क्रामन्ति’(बृ. उ. ४ । ४ । ६) इति । तस्मात् अविदुष एवैषेति ॥

एवं प्राप्ते, ब्रूमः — समाना चैषा उत्क्रान्तिः ‘वाङ्मनसि’ इत्याद्या विद्वदविदुषोः आसृत्युपक्रमात् भवितुमर्हति, अविशेषश्रवणात् । अविद्वान् देहबीजभूतानि भूत­सू­क्ष्मा­ण्या­श्रित्य कर्मप्रयुक्तो देह­ग्र­ह­ण­म­नु­भ­वितुं संसरति, विद्वांस्तु ज्ञानप्रकाशितं मोक्ष­ना­डी­द्वा­र­मा­श्र­यते — तदेतत् ‘आसृ­त्यु­प­क्र­मात्’ इत्युक्तम् । ननु अमृतत्वं विदुषा प्राप्तव्यम् , न च तद्दे­शा­न्त­रा­य­त्तम् , तत्र कुतो भूताश्रयत्वं सृत्युपक्रमो वेति ? अत्रोच्यते — अनुपोष्य च, इदम् , अदग्ध्वा अत्य­न्त­म­वि­द्या­दी­न्क्ले­शान् , अप­र­वि­द्या­सा­म­र्थ्यात् आपे­क्षि­क­म­मृ­तत्वं प्रेप्सते, सम्भवति तत्र सृत्युपक्रमः भूताश्रयत्वं च — न हि निराश्रयाणां प्राणानां गतिरुपपद्यते; तस्माददोषः ॥ ७ ॥

तदाऽपीतेः संसारव्यपदेशात् ॥ ८ ॥

‘तेजः परस्यां देवतायाम्’(छा. उ. ६ । ८ । ६) इत्यत्र प्रक­र­ण­सा­म­र्थ्यात् तत् यथाप्रकृतं तेजः साध्यक्षं सप्राणं सकरणग्रामं भूतान्तरसहितं प्रयतः पुंसः परस्यां देवतायां सम्पद्यत इत्येतदुक्तं भवति । कीदृशी पुनरियं सम्पत्तिः स्यादिति चिन्त्यते । तत्र आत्यन्तिक एव तावत् स्वरूपप्रविलय इति प्राप्तम् , तत्प्र­कृ­ति­त्वो­प­पत्तेः । सर्वस्य हि जनिमतो वस्तुजातस्य प्रकृतिः परा देवतेति प्रतिष्ठापितम् । तस्मात् आत्यन्तिकी इय­म­वि­भा­गा­प­त्ति­रिति । एवं प्राप्ते ब्रूमः — तत् तेजआदि भूतसूक्ष्मं श्रोत्रा­दि­क­र­णा­श्र­य­भू­तम् आपीतेः आसंसारमोक्षात् सम्य­ग्ज्ञा­न­नि­मि­त्तात् अवतिष्ठते — ‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणु­म­न्येऽ­नु­सं­यन्ति यथाकर्म यथाश्रुतम्’(क. उ. २ । २ । ७) इत्या­दि­सं­सा­र­व्य­प­दे­शात् । अन्यथा हि सर्वः प्रायणसमय एव उपा­धि­प्र­त्य­स्त­म­या­द­त्यन्तं ब्रह्म सम्पद्येत, तत्र विधि­शा­स्त्र­म­न­र्थकं स्यात् , विद्याशास्त्रं च । मिथ्या­ज्ञा­न­नि­मि­त्तश्च बन्धो न सम्य­ग्ज्ञा­ना­दृते विस्रं­सि­तु­म­र्हति । तस्मात् तत्प्र­कृ­ति­त्वेऽपि सुषुप्तप्रलयवत् बीजभावावशेषैव एषा सत्सम्पत्तिरिति ॥ ८ ॥

सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ ९ ॥

तच्च इतरभूतसहितं तेजो जीवस्य अस्मा­च्छ­री­रा­त्प्र­व­सत आश्रयभूतं स्वरूपतः परिमाणतश्च सूक्ष्मं भवितुमर्हति । तथा हि नाडी­नि­ष्क्र­म­ण­श्र­व­णा­दि­भ्योऽस्य सौक्ष्म्य­मु­प­ल­भ्यते । तत्र तनु­त्वा­त्स­ञ्चा­रो­प­पत्तिः; स्वच्छत्वाच्च अप्र­ती­घा­तो­प­पत्तिः । अत एव च देहा­न्नि­र्ग­च्छन् पार्श्व­स्थै­र्नो­प­ल­भ्यते ॥ ९ ॥

नोपमर्देनातः ॥ १० ॥

१०

अत एव च सूक्ष्मत्वात् नास्य स्थूलस्य शरीरस्योपमर्देन दाहादिनिमित्तेन इतरत्सूक्ष्मं शरीरमुपमृद्यते ॥ १० ॥

अस्यैव चोपपत्तेरेष ऊष्मा ॥ ११ ॥

११

अस्यैव च सूक्ष्मस्य शरीरस्य एष ऊष्मा, यमे­त­स्मि­ञ्च्छ­रीरे संस्प­र्शे­नो­ष्माणं विजानन्ति । तथा हि मृतावस्थायाम् अवस्थितेऽपि देहे विद्यमानेष्वपि च रूपादिषु देहगुणेषु, न ऊष्मा उपलभ्यते, जीवदवस्थायामेव तु उपलभ्यते — इत्यत उपपद्यते

प्रसि­द्ध­श­री­र­व्य­ति­रि­क्त­व्य­पा­श्रय एव एष ऊष्मेति । तथा च श्रुतिः — ‘उष्ण एव जीविष्यञ्शीतो मरिष्यन्’ इति ॥ ११ ॥

प्रतिषेधादिति चेन्न शारीरात् ॥ १२ ॥

१२

‘अमृतत्वं चानुपोष्य’ इत्यतो विशेषणात् आत्य­न्ति­केऽ­मृ­तत्वे गत्यु­त्क्रा­न्त्यो­र­भा­वोऽ­भ्यु­प­गतः । तत्रापि केनचित्कारणेन उत्क्रा­न्ति­मा­शङ्क्य प्रतिषेधति — ‘अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो भवति न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्र­ह्मा­प्येति’(बृ. उ. ४ । ४ । ६) इति । अतः पर­वि­द्या­वि­ष­या­त्प्र­ति­षे­धात् न परब्रह्मविदो देहात् प्राणा­ना­मु­त्क्रा­न्ति­र­स्तीति चेत् , नेत्युच्यते, यतः शारीरादात्मन एष उत्क्रा­न्ति­प्र­ति­षेधः प्राणानाम् , न शरीरात् । कथमवगम्यते ? ‘न तस्मात्प्राणा उत्क्रामन्ति’ इति शाखान्तरे पञ्चमीप्रयोगात् । सम्ब­न्ध­सा­मा­न्य­वि­षया हि षष्ठी शाखान्तरगतया पञ्चम्या सम्बन्धविशेषे व्यवस्थाप्यते । ‘तस्मात्’ इति च प्राधान्यात् अभ्यु­द­य­निः­श्रे­य­सा­धि­कृतो देही सम्बध्यते, न देहः । न तस्मा­दु­च्चि­क्र­मि­षो­र्जी­वात् प्राणा अपक्रामन्ति, सहैव तेन भवन्ति — इत्यर्थः । सप्राणस्य च प्रवसतो भव­त्यु­त्क्रा­न्ति­र्दे­हा­दिति ॥ १२ ॥

एवं प्राप्ते, प्रत्युच्यते —

स्पष्टो ह्येकेषाम् ॥ १३ ॥

१३

नैतदस्ति — यदुक्तम् , परब्रह्मविदोऽपि देहात् अस्त्यु­त्क्रान्तिः उत्क्रा­न्ति­प्र­ति­षे­धस्य देह्य­पा­दा­न­त्वा­दिति; यतो देहापादान एव उत्क्रा­न्ति­प्र­ति­षेध एकेषां समाम्नातॄणां स्पष्ट उपलभ्यते । तथा हि — आर्तभागप्रश्ने ‘यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो नेति’(बृ. उ. ३ । २ । ११) इत्यत्र, ‘नेति होवाच याज्ञवल्क्यः’(बृ. उ. ३ । २ । ११) इत्य­नु­त्क्रा­न्ति­पक्षं परिगृह्य, न तर्ह्य­य­म­नु­त्क्रा­न्तेषु प्राणेषु मृतः — इत्य­स्या­मा­श­ङ्का­याम् ‘अत्रैव समवनीयन्ते’ इति प्रविलयं प्राणानां प्रतिज्ञाय, तत्सिद्धये ‘स उच्छ्व­य­त्या­ध्मा­य­त्या­ध्मातो मृतः शेते’(बृ. उ. ३ । २ । ११) इति सश­ब्द­प­रा­मृ­ष्टस्य प्रकृतस्य उत्क्रा­न्त्य­वधेः उच्छ्वयनादीनि समामनन्ति । देहस्य च एतानि स्युः न देहिनः; तत्सामान्यात् , ‘न तस्मात्प्राणा उत्क्रा­म­न्त्य­त्रैव समवनीयन्ते’ इत्यत्रापि — अभेदोपचारेण देहापादानस्यैव उत्क्रमणस्य प्रतिषेधः — यद्यपि प्राधान्यं देहिनः — इति व्याख्येयम् , येषां पञ्चमीपाठः । येषां तु षष्ठीपाठः, तेषां विद्व­त्स­म्ब­न्धिनी उत्क्रान्तिः प्रतिषिध्यत इति, प्राप्तो­त्क्रा­न्ति­प्र­ति­षे­धा­र्थ­त्वात् अस्य वाक्यस्य, देहापादानैव सा प्रतिषिद्धा भवति, देहा­दु­त्क्रान्तिः प्राप्ता, न देहिनः; अपि च ‘चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरी­र­दे­शे­भ्य­स्त­मु­त्क्रा­मन्तं प्राणोऽ­नू­त्क्रा­मति प्राण­म­नू­त्क्रा­मन्तꣳ सर्वे प्राणा अनूत्क्रामन्ति’(बृ. उ. ४ । ४ । २) इत्ये­व­म­वि­द्व­द्वि­षये सप्र­प­ञ्च­मु­त्क्र­मणं संसारगमनं च दर्शयित्वा, ‘इति नु कामयमानः’(बृ. उ. ४ । ४ । ६) इति उपसंहृत्य अविद्वत्कथाम् , ‘अथाकामयमानः’(बृ. उ. ४ । ४ । ६) इति व्यपदिश्य विद्वांसम् — यदि तद्वि­ष­येऽ­प्यु­त्क्रा­न्ति­मेव प्रापयेत् , असमञ्जस एव व्यपदेशः स्यात्; तस्मात् अविद्वद्विषये प्राप्त­यो­र्ग­त्यु­त्क्रान्त्योः विद्वद्विषये प्रतिषेधः — इत्येवमेव व्याख्येयम् , व्यप­दे­शा­र्थ­व­त्त्वाय । न च ब्रह्मविदः सर्व­ग­त­ब्र­ह्मा­त्म­भू­तस्य प्रक्षी­ण­का­म­क­र्मणः उत्क्रान्तिः गतिर्वा उपपद्यते, निमित्ताभावात् । ‘अत्र ब्रह्म समश्नुते’ इति च एवंजातीयकाः श्रुतयो गत्यु­त्क्रा­न्त्यो­र­भावं सूचयन्ति ॥ १३ ॥

स्मर्यते च ॥ १४ ॥

१४

स्मर्यतेऽपि च महाभारते गत्यु­त्क्रा­न्त्यो­र­भावः — ‘सर्व­भू­ता­त्म­भू­तस्य सम्यग्भूतानि पश्यतः । देवा अपि मार्गे मुह्यन्त्यपदस्य पदैषिणः’(म. भा. १२ । २३९ । २३) इति । ननु गतिरपि ब्रह्मविदः सर्व­ग­त­ब्र­ह्मा­त्म­भू­तस्य स्मर्यते — ‘शुकः किल वैया­स­कि­र्मु­मु­क्षु­रा­दि­त्य­म­ण्ड­ल­म­भि­प्र­तस्थे पित्रा चानुगम्याहूतो भो इति प्रतिशुश्राव’ इति — न; सशरीरस्यैव अयं योगबलेन विशि­ष्ट­दे­श­प्रा­प्ति­पू­र्वकः शरीरोत्सर्ग इति द्रष्टव्यम् , सर्व­भू­त­दृ­श्य­त्वा­द्यु­प­न्या­सात् । न हि अशरीरं गच्छन्तं सर्वभूतानि द्रष्टुं शक्नुयुः । तथा च तत्रैवोपसंहृतम् — ‘शुकस्तु मारुताच्छीघ्रां गतिं कृत्वा­न्त­रि­क्षगः ।’(म. भा. १२ । ३३३ । १९) , ‘दर्शयित्वा प्रभावं स्वं सर्व­भू­त­ग­तोऽ­भ­वत्’(म. भा. १२ । ३३३ । २०) इति । तस्मादभावः परब्रह्मविदो गत्यु­त्क्रान्त्योः । गतिश्रुतीनां तु विष­य­मु­प­रि­ष्टा­द्व्या­ख्या­स्यामः ॥ १४ ॥

तानि परे तथा ह्याह ॥ १५ ॥

१५

तानि पुनः प्राण­श­ब्दो­दि­तानि इन्द्रियाणि भूतानि च परब्रह्मविदः तस्मिन्नेव परस्मिन्नात्मनि प्रलीयन्ते । कस्मात् ? तथा हि आह श्रुतिः — ‘एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति’(प्र. उ. ६ । ५) इति । ननु ‘गताः कलाः पञ्चदश प्रतिष्ठाः’(मु. उ. ३ । २ । ७) इति विद्व­द्वि­ष­यै­वा­परा श्रुतिः पर­स्मा­दा­त्म­नोऽ­न्य­त्रापि कलानां प्रलयम् आह स्म — न; सा खलु व्यवहारापेक्षा — पार्थिवाद्याः कलाः पृथिव्यादीरेव स्वप्र­कृ­ती­र­पि­य­न्तीति । इतरा तु विद्व­त्प्र­ति­प­त्त्य­पेक्षा — कृत्स्नं कलाजातं परब्रह्मविदो ब्रह्मैव सम्पद्यत इति । तस्माददोषः ॥ १५ ॥

अविभागो वचनात् ॥ १६ ॥

१६

स पुनर्विदुषः कलाप्रलयः किम् इतरेषामिव सावशेषो भवति, आहो­स्वि­न्नि­र­व­शेष इति । तत्र प्रलयसामान्यात् शक्त्य­व­शे­ष­ता­प्र­सक्तौ ब्रवीति — अवि­भा­गा­प­त्ति­रे­वेति । कुतः ? वचनात् । तथा हि कला­प्र­ल­य­मुक्त्वा वक्ति — ‘भिद्येते तासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति’(प्र. उ. ६ । ५) इति । अवि­द्या­नि­मि­त्तानां च कलानां न विद्यानिमित्ते प्रलये साव­शे­ष­त्वो­प­पत्तिः । तस्मादविभाग एवेति ॥ १६ ॥

तदोकोऽग्रज्वलनं तत्प्र­का­शि­त­द्वारो विद्या­सा­म­र्थ्या­त्त­च्छे­ष­ग­त्य­नु­स्मृ­ति­यो­गाच्च हार्दानुगृहीतः शताधिकया ॥ १७ ॥

१७

समाप्ता प्रासङ्गिकी परविद्यागता चिन्ता; सम्प्रति तु अप­र­वि­द्या­वि­ष­या­मेव चिन्ता­म­नु­व­र्त­यति । समाना च आसृत्युपक्रमात् विद्व­द­वि­दु­षो­रु­त्क्रान्तिः — इत्युक्तम् । तम् इदानीं सृत्युपक्रमं दर्शयति । तस्य उप­सं­हृ­त­वा­गा­दि­क­ला­प­स्यो­च्चि­क्र­मि­षतो विज्ञानात्मनः, ओकः आयतनं हृदयम् — ‘स एता­स्ते­जो­मात्राः समभ्याददानो हृद­य­मे­वा­न्व­व­क्रा­मति’ इति श्रुतेः, तद­ग्र­प्र­ज्व­ल­न­पू­र्विका चक्षु­रा­दि­स्था­ना­पा­दाना च उत्क्रान्तिः श्रूयते — ‘तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः’(बृ. उ. ४ । ४ । २) इति । सा किमनियमेनैव विद्व­द­वि­दु­षो­र्भ­वति, अथास्ति कश्चिद्विदुषो विशेषनियमः — इति विचिकित्सायाम् , श्रुत्य­वि­शे­षा­द­नि­य­म­प्राप्तौ, आचष्टे — समानेऽपि हि विद्व­द­वि­दु­षो­र्हृ­द­या­ग्र­प्र­द्यो­तने तत्प्र­का­शि­त­द्वा­रत्वे च, मूर्धस्थानादेव विद्वा­न्नि­ष्क्रा­मति, स्थाना­न्त­रे­भ्यस्तु इतरे । कुतः ? विद्या­सा­म­र्थ्यात् । यदि विद्वानपि इतरवत् यतः कुत­श्चि­द्दे­ह­दे­शात् उत्क्रामेत् , नैव उत्कृष्टं लोकं लभेत, तत्र अनर्थिकैव विद्या स्यात् । तच्छे­ष­ग­त्य­नु­स्मृ­ति­यो­गाच्च — विद्याशेषभूता च मूर्ध­न्य­ना­डी­स­म्बद्धा गतिः अनुशीलयितव्या विद्याविशेषेषु विहिता । तामभ्यस्यन् तयैव प्रतिष्ठत इति युक्तम् । तस्मात् हृदयालयेन ब्रह्मणा सूपासितेन अनुगृहीतः तद्भावं समापन्नो विद्वान् मूर्धन्ययैव शताधिकया शतादतिरिक्तया एकशततम्या नाड्या निष्क्रामति, इतराभिरितरे । तथा हि हार्दविद्यां प्रकृत्य समामनन्ति — ‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धा­न­म­भि­निः­सृ­तैका । तयो­र्ध्व­मा­य­न्न­मृ­त­त्व­मेति विष्वङ्ङन्या उत्क्रमणे भवन्ति’(छा. उ. ८ । ६ । ६) इति ॥ १७ ॥

रश्म्यनुसारी ॥ १८ ॥

१८

अस्ति हार्दविद्या ‘अथ यदि­द­म­स्मि­न्ब्र­ह्म­पुरे दहरं पुण्डरीकं वेश्म’(छा. उ. ८ । १ । १) इत्युपक्रम्य विहिता । तत्प्र­क्रि­या­याम् ‘अथ या एता हृदयस्य नाड्यः’(छा. उ. ८ । ६ । १) इत्युपक्रम्य सप्रपञ्चं नाडी­र­श्मि­स­म्ब­न्ध­मुक्त्वा उक्तम् — ‘अथ यत्रै­त­द­स्मा­च्छ­री­रा­दु­त्क्रा­म­त्य­थै­तै­रेव रश्मि­भि­रू­र्ध्व­मा­क्र­मते’(छा. उ. ८ । ६ । ५) इति । पुनश्चोक्तम् — ‘तयो­र्ध्व­मा­य­न्न­मृ­त­त्व­मेति’(छा. उ. ८ । ६ । ६) इति । तस्मात् शताधिकया नाड्या निष्क्रामन् रश्म्यनुसारी निष्क्रामतीति गम्यते । तत् किम् अविशेषेणैव अहनि रात्रौ वा म्रियमाणस्य रश्म्य­नु­सा­रि­त्वम् , आहोस्विदहन्येव — इति संशये सति, अविशेषश्रवणात् अविशेषेणैव तावत् रश्म्यनुसारीति प्रतिज्ञायते ॥ १८ ॥

निशि नेति चेन्न सम्बन्धस्य याव­द्दे­ह­भा­वि­त्वा­द्द­र्श­यति च ॥ १९ ॥

१९

अस्ति अहनि नाडी­र­श्मि­स­म्बन्ध इति अहनि मृतस्य स्यात् रश्म्य­नु­सा­रि­त्वम् । रात्रौ तु प्रेतस्य न स्यात् , नाडी­र­श्मि­स­म्ब­न्ध­वि­च्छे­दात् — इति चेत् , न, नाडी­र­श्मि­स­म्ब­न्धस्य याव­द्दे­ह­भा­वि­त्वात् । यावद्देहभावी हि शिरा­कि­र­ण­स­म्पर्कः । दर्शयति चैतमर्थं श्रुतिः — ‘अमु­ष्मा­दा­दि­त्या­त्प्र­ता­यन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमु­ष्मि­न्ना­दित्ये सृप्ताः’(छा. उ. ८ । ६ । २) इति । निदाघसमये च निशास्वपि किर­णा­नु­वृ­त्ति­रु­प­ल­भ्यते, प्रता­पा­दि­का­र्य­द­र्श­नात् । स्तोका­नु­वृ­त्तेस्तु दुर्लक्ष्यत्वम् ऋत्वन्तररजनीषु , शैशिरेष्विव दुर्दिनेषु । ‘अह­रे­वै­त­द्रात्रौ दधाति’ इति च एतदेव दर्शयति । यदि च रात्रौ प्रेतः विनैव रश्म्यनुसारेण ऊर्ध्वमाक्रमेत, रश्म्य­नु­सा­रा­न­र्थक्यं भवेत् । न ह्येतत् विशिष्य अधीयते — यो दिवा प्रैति, स रश्मी­न­पे­क्ष्यो­र्ध्व­मा­क्र­मते, यस्तु रात्रौ सोऽन­पे­क्ष्यै­वेति । अथ तु विद्वानपि रात्रि­प्रा­य­णा­प­रा­ध­मा­त्रेण नोर्ध्व­मा­क्र­मेत, पाक्षिकफला विद्येति अप्रवृत्तिरेव तस्यां स्यात् । मृत्यु­का­ला­नि­य­मात् । अथापि रात्रा­वु­प­र­तोऽ­ह­रा­ग­मम् उदीक्षेत, अहरागमेऽप्यस्य कदाचित् अर­श्मि­स­म्ब­न्धार्हं शरीरं स्यात् पाव­का­दि­स­म्प­र्कात् । ‘स याव­त्क्षि­प्ये­न्म­न­स्ता­व­दा­दित्यं गच्छति’(छा. उ. ८ । ६ । ५) इति च श्रुतिः अनुदीक्षां दर्शयति । तस्मात् अविशेषेणैव इदं रात्रिंदिवं रश्म्य­नु­सा­रि­त्वम् ॥ १९ ॥

अतश्चायनेऽपि दक्षिणे ॥ २० ॥

२०

अत एव च उदी­क्षा­नु­प­पत्तेः, अपा­क्षि­क­फ­ल­त्वाच्च विद्यायाः, अनियतकालत्वाच्च मृत्योः, दक्षिणायनेऽपि म्रियमाणो विद्वान् प्राप्नोत्येव विद्याफलम् । उत्त­रा­य­ण­म­र­ण­प्रा­श­स्त्य­प्र­सिद्धेः, भीष्मस्य च प्रती­क्षा­द­र्श­नात् , ‘आपू­र्य­मा­ण­प­क्षा­द्या­न्ष­डु­द­ङ्ङेति मासाꣳस्तान्’(छा. उ. ४ । १५ । ५) इति च श्रुतेः, अपे­क्षि­त­व्य­मु­त्त­रा­य­णम् — इतीमामाशङ्काम् अनेन सूत्रेणापनुदति । प्राश­स्त्य­प्र­सिद्धिः अविद्वद्विषया । भीष्मस्य तूत्त­रा­य­ण­प्र­ति­पा­ल­नम् आचा­र­प­रि­पा­ल­नार्थं पितृ­प्र­सा­द­ल­ब्ध­स्व­च्छ­न्द­मृ­त्यु­ता­ख्या­प­नार्थं च । श्रुतेस्तु अर्थं वक्ष्यति ‘आति­वा­हि­का­स्त­ल्लि­ङ्गात्’(ब्र. सू. ४ । ३ । ४) इति ॥ २० ॥

ननु च ‘यत्र काले त्वना­वृ­त्ति­मा­वृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ’(भ. गी. ८ । २३) इति कालप्राधान्येन उपक्रम्य अहरादिकालविशेषः स्मृता­व­ना­वृ­त्तये नियमितः । कथं रात्रौ दक्षिणायने वा प्रया­तोऽ­ना­वृत्तिं यायात् — इत्यत्रोच्यते —

योगिनः प्रति च स्मर्यते स्मार्ते चैते ॥ २१ ॥

२१

योगिनः प्रति च अयम् अह­रा­दि­का­ल­वि­नि­योगः अनावृत्तये स्मर्यते । स्मार्ते चैते योगसाङ्ख्ये, न श्रौते । अतो विषयभेदात् प्रमाणविशेषाच्च नास्य स्मार्तस्य कालविनियोगस्य श्रौतेषु विज्ञानेषु अवतारः । ननु ‘अग्नि­र्ज्यो­ति­रहः शुक्लः षण्मासा उत्तरायणम् ।’(भ. गी. ८ । २४) ‘धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्’(भ. गी. ८ । २५) इति च श्रौतावेतौ देवयानपितृयाणौ प्रत्य­भि­ज्ञा­येते स्मृतावपीति, उच्यते — ‘तं कालं वक्ष्यामि’(भ. गी. ८ । २३) इति स्मृतौ काल­प्र­ति­ज्ञा­नात् विरोधमाशङ्क्य अयं परिहारः उक्तः । यदा पुनः स्मृतावपि अग्न्याद्या देवता एव आतिवाहिक्यो गृह्यन्ते, तदा न कश्चिद्विरोध इति ॥ २१ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य
श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ शारी­र­क­मी­मां­सा­सू­त्र­भाष्ये
चतुर्थाध्यायस्य द्वितीयः पादः ॥

तृतीयः पादः

आसृत्युपक्रमात् समा­नो­त्क्रा­न्ति­रि­त्यु­क्तम् । सृतिस्तु श्रुत्य­न्त­रे­ष्व­ने­कधा श्रूयते — नाडी­र­श्मि­स­म्ब­न्धे­नैका ‘अथैतैरेव रश्मि­भि­रू­र्ध्व­मा­क्र­मते’(छा. उ. ८ । ६ । ५) इति । अर्चिरादिकैका ‘तेऽर्चि­ष­म­भि­स­म्भ­व­न्त्य­र्चि­षोऽहः’(बृ. उ. ६ । २ । १५) इति । ‘स एतं देवयानं पन्था­न­मा­प­द्या­ग्नि­लो­क­मा­ग­च्छति’(कौ. उ. १ । ३) इत्यन्या । ‘यदा वै पुरु­षोऽ­स्मा­ल्लो­का­त्प्रैति स वायुमागच्छति’(बृ. उ. ५ । १० । १) इत्यपरा । ‘सूर्यद्वारेण ते विरजाः प्रयान्ति’(मु. उ. १ । २ । ११) इति च अपरा । तत्र संशयः — किं परस्परं भिन्ना एताः सृतयः, किं वा एकैव अनेकविशेषणेति । तत्र प्राप्तं तावत् — भिन्ना एताः सृतय इति, भिन्न­प्र­क­र­ण­त्वात् , भिन्नो­पा­स­ना­शे­ष­त्वाच्च । अपि च ‘अथैतैरेव रश्मिभिः’(छा. उ. ८ । ६ । ५) इत्यवधारणम् अर्चि­रा­द्य­पे­क्षा­याम् उपरुध्येत, त्वरावचनं च पीड्येत — ‘स याव­त्क्षि­प्ये­न्म­न­स्ता­व­दा­दित्यं गच्छति’(छा. उ. ८ । ६ । ५) इति । तस्मा­द­न्यो­न्य­भिन्ना एवैते पन्थान इति । एवं प्राप्ते, अभिदध्महे —

अर्चिरादिना तत्प्रथितेः ॥ १ ॥

अर्चिरादिनेति । सर्वो ब्रह्म प्रेप्सुः अर्चि­रा­दि­नै­वा­ध्वना रंहतीति प्रतिजानीमहे । कुतः ? तत्प्रथितेः । प्रथितो ह्येष मार्गः सर्वेषां विदुषाम् । तथा हि पञ्चा­ग्नि­वि­द्या­प्र­क­रणे — ‘ये चामी अरण्ये श्रद्धाꣳ सत्यमुपासते’(बृ. उ. ६ । २ । १५) इति विद्या­न्त­र­शी­लि­ना­मपि अर्चिरादिका सृतिः श्राव्यते । स्यादेतत् — यासु विद्यासु न काचि­द्ग­ति­रु­च्यते, तासु इयमर्चिरादिका उपतिष्ठताम् । यासु तु अन्या श्राव्यते, तासु किमि­त्य­र्चि­रा­द्या­श्र­य­ण­मिति, अत्रोच्यते — भवेदेतदेवम् , यद्य­त्य­न्त­भिन्ना एव एताः सृतयः स्युः । एकैव त्वेषा सृतिः अनेकविशेषणा ब्रह्म­लो­क­प्र­प­दनी क्वचित् केनचित् विशे­ष­णे­नो­प­ल­क्षि­तेति वदामः, सर्व­त्रै­क­दे­श­प्र­त्य­भि­ज्ञा­नात् इत­रे­त­र­वि­शे­ष­ण­वि­शे­ष्य­भा­वो­प­पत्तेः । प्रकरणभेदेऽपि हि विद्यैकत्वे भवति इत­रे­त­र­वि­शे­ष­णो­प­सं­हा­र­वत् गति­वि­शे­ष­णा­ना­म­प्यु­प­सं­हारः । विद्याभेदेऽपि तु गत्ये­क­दे­श­प्र­त्य­भि­ज्ञा­नात् गन्तव्याभेदाच्च गत्यभेद एव । तथा हि — ‘ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति’(बृ. उ. ६ । २ । १५) ‘तस्मिन्वसन्ति शाश्वतीः समाः’(बृ. उ. ५ । १० । १) ‘सा या ब्रह्मणो जितिर्या व्युष्टिस्तां जितिं जयति तां व्युष्टिं व्यश्नुते’(कौ. उ. १ । ७) ‘तद्य एवैतं ब्रह्मलोकं ब्रह्म­च­र्ये­णा­नु­वि­न्दति’(छा. उ. ८ । ४ । ३) इति च तत्र तत्र तदेव एकं फलं ब्रह्म­लो­क­प्रा­प्ति­ल­क्षणं प्रदर्श्यते । यत्तु ‘एतैरेव’ इत्यवधारणम् अर्चि­रा­द्या­श्र­यणे न स्यादिति, नैष दोषः, रश्मि­प्रा­प्ति­प­र­त्वा­दस्य । न हि एक एव शब्दो रश्मींश्च प्राप­यि­तु­म­र्हति, अर्चिरादींश्च व्यावर्तयितुम् । तस्मात् रश्मिसम्बन्ध एवायमवधार्यत इति द्रष्टव्यम् । त्वरावचनं तु अर्चि­रा­द्य­पे­क्षा­या­मपि गन्त­व्या­न्त­रा­पे­क्षया शैघ्र्या­र्थ­त्वात् नोपरुध्यते — यथा निमे­ष­मा­त्रे­णा­त्रा­ग­म्यत इति । अपि च ‘अथैतयोः पथोर्न कतरेणचन’(छा. उ. ५ । १० । ८) इति मार्ग­द्व­य­भ्र­ष्टानां कष्टं तृतीयं स्थानमाचक्षाणा पितृ­या­ण­व्य­ति­रि­क्त­मे­क­मेव देव­या­न­म­र्चि­रा­दि­प­र्वाणं पन्थानं प्रथयति । भूयां­स्य­र्चि­रा­दि­सृतौ मार्गपर्वाणि, अल्पीयांसि त्वन्यत्र । भूयसां च आनुगुण्येन अल्पीयसां नयनं न्याय्य­मि­त्य­तोऽपि अर्चिरादिना तत्प्र­थि­ते­रि­त्यु­क्तम् ॥ १ ॥

वायु­म­ब्दा­द­वि­शे­ष­वि­शे­षा­भ्याम् ॥ २ ॥

केन पुनः सन्निवेशविशेषेण गतिविशेषणानाम् इत­रे­त­र­वि­शे­ष­ण­वि­शे­ष्य­भावः — इति तदेतत् सुहृद्भूत्वा आचार्यो ग्रथयति । ‘स एतं देवयानं पन्था­न­मा­प­द्या­ग्नि­लो­क­मा­ग­च्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम्’(कौ. उ. १ । ३) इति कौषीतकिनां देवयानः पन्थाः पठ्यते । तत्र अर्चि­र­ग्नि­लो­क­शब्दौ तावत् एकार्थौ ज्वल­न­व­च­न­त्वा­दिति नात्र सन्निवेशक्रमः कश्चिदन्वेष्यः । वायुस्तु अर्चिरादौ वर्त्मनि अश्रुतः कतमस्मिन्स्थाने निवेशयितव्य इति, उच्यते — ‘तेऽर्चि­ष­मे­वा­भि­स­म्भ­व­न्त्य­र्चि­षोऽ­ह­रह्न आपू­र्य­मा­ण­प­क्ष­मा­पू­र्य­मा­ण­प­क्षा­द्या­न्ष­डु­द­ङ्ङेति मासाꣳस्तान् ।’(छा. उ. ५ । १० । १) ‘मासेभ्यः संवत्सरं संव­त्स­रा­दा­दि­त्यम्’(छा. उ. ५ । १० । २) इत्यत्र संव­त्स­रा­त्प­रा­ञ्चम् आदि­त्या­द­र्वाञ्चं वायु­म­भि­स­म्भ­वन्ति । कस्मात् ? अवि­शे­ष­वि­शे­षा­भ्याम् । तथा हि ‘स वायुलोकम्’(कौ. उ. १ । ३) इत्यत्र अवि­शे­षो­प­दि­ष्टस्य वायोः श्रुत्यन्तरे विशेषोपदेशो दृश्यते — ‘यदा वै पुरु­षोऽ­स्मा­ल्लो­का­त्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति’(बृ. उ. ५ । १० । १) इति । एतस्मात् आदित्यात् वायोः पूर्व­त्व­द­र्श­नात् विशेषात् अब्दा­दि­त्य­यो­र­न्त­राले वायु­र्नि­वे­श­यि­तव्यः । कस्मा­त्पु­न­रग्नेः पर­त्व­द­र्श­ना­द्वि­शे­षा­द­र्चि­षोऽ­न­न्तरं वायुर्न निवेश्यते ? नैषोऽस्ति विशेष इति वदामः । ननूदाहृता श्रुतिः — ‘स एतं देवयानं पन्था­न­मा­प­द्या­ग्नि­लो­क­मा­ग­च्छति स वायुलोकं स वरुणलोकम्’(कौ. उ. १ । ३) इति । उच्यते — केवलोऽत्र पाठः पौर्वा­प­र्ये­णा­व­स्थितः, नात्र क्रमवचनः कश्चि­च्छ­ब्दोऽस्ति । पदा­र्थो­प­द­र्श­न­मात्रं ह्यत्र क्रियते — एतं एतं च आगच्छतीति । इतरत्र पुनः, वायुप्रत्तेन रथचक्रमात्रेण च्छिद्रेण ऊर्ध्वमाक्रम्य आदि­त्य­मा­ग­च्छ­तीति — अवगम्यते क्रमः । तस्मात् सूक्तम् अवि­शे­ष­वि­शे­षा­भ्या­मिति । वाजसनेयिनस्तु ‘मासेभ्यो देवलोकं देव­लो­का­दा­दि­त्यम्’(बृ. उ. ६ । २ । १५) इति समामनन्ति । तत्र आदि­त्या­न­न्त­र्याय देव­लो­का­द्वा­यु­म­भि­स­म्भ­वेयुः । ‘वायुमब्दात्’ इति तु छन्दो­ग­श्रु­त्य­पे­क्ष­यो­क्तम् । छान्दो­ग्य­वा­ज­स­ने­य­क­योस्तु एकत्र देवलोको न विद्यते, परत्र संवत्सरः । तत्र श्रुति­द्व­य­प्र­त्य­यात् उभावपि उभयत्र ग्रथयितव्यौ । तत्रापि मास­स­म्ब­न्धा­त्सं­व­त्सरः पूर्वः पश्चिमो देवलोक इति विवेक्तव्यम् ॥ २ ॥

तडितोऽधि वरुणः सम्बन्धात् ॥ ३ ॥

‘आदि­त्या­च्च­न्द्र­मसं चन्द्रमसो विद्युतम्’(छा. उ. ४ । १५ । ५) इत्यस्या विद्युत उपरिष्टात् ‘स वरुणलोकम्’ इत्ययं वरुणः सम्बध्यते । अस्ति हि सम्बन्धो विद्युद्वरुणयोः । यदा हि विशाला विद्यु­त­स्ती­व्र­स्त­नि­त­नि­र्घोषा जीमूतोदरेषु प्रनृत्यन्ति, अथ आपः प्रपतन्ति । ‘विद्योतते स्तनयति वर्षिष्यति वा’(छा. उ. ७ । ११ । १) इति च ब्राह्मणम् । अपां च अधिपतिर्वरुण इति श्रुति­स्मृ­ति­प्र­सिद्धिः । वरुणादधि इन्द्रप्रजापती स्थाना­न्त­रा­भा­वात् पाठसामर्थ्याच्च । आगन्तुकत्वादपि वरुणादीनामन्ते एव निवेशः, वैशे­षि­क­स्था­ना­भा­वात् । विद्युच्च अन्त्या अर्चिरादौ वर्त्मनि ॥ ३ ॥

आति­वा­हि­का­स्त­ल्लि­ङ्गात् ॥ ४ ॥

तेष्वेव अर्चिरादिषु संशयः — किमेतानि मार्गचिह्नानि, उत भोगभूमयः, अथवा नेतारो गन्तॄणामिति । तत्र मार्गलक्षणभूता अर्चिरादय इति तावत्प्राप्तम् , तत्स्व­रू­प­त्वा­दु­प­दे­शस्य । यथा हि लोके कश्चिद्ग्रामं नगरं वा प्रति­ष्ठा­स­मा­नोऽ­नु­शि­ष्यते — गच्छ इतस्त्वममुं गिरिं ततो न्यग्रोधं ततो नदीं ततो ग्रामं नगरं वा प्राप्स्यसीति — एवमिहापि ‘अर्चिषोऽहरह्न आपू­र्य­मा­ण­प­क्षम्’ इत्याद्याह । अथवा भोगभूमय इति प्राप्तम् । तथाहि लोकशब्देन अग्न्या­दी­न­नु­ब­ध्नाति — ‘अग्नि­लो­क­मा­ग­च्छति’(कौ. उ. १ । ३) इत्यादि । लोकशब्दश्च प्राणिनां भोगायतनेषु भाष्यते — ‘मनुष्यलोकः पितृलोको देवलोकः’(बृ. उ. १ । ५ । १६) इति च । तथा च ब्राह्मणम् — ‘अहोरात्रेषु ते लोकेषु सज्जन्ते’ इत्यादि । तस्मा­न्ना­ति­वा­हिका अर्चिरादयः । अचे­त­न­त्वा­द­प्ये­ते­षा­मा­ति­वा­हि­क­त्वा­नु­प­पत्तिः । चेतना हि लोके राजनियुक्ताः पुरुषा दुर्गेषु मार्गे­ष्व­ति­वा­ह्यान् अतिवाहयन्तीति । एवं प्राप्ते, ब्रूमः — आतिवाहिका एवैते भवितुमर्हन्ति । कुतः ? तल्लिङ्गात् । तथा हि — ‘चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयति’(छा. उ. ४ । १५ । ५) इति सिद्ध­व­द्ग­म­यि­तृत्वं दर्शयति । तद्वचनं तद्वि­ष­य­मे­वो­प­क्षी­ण­मिति चेत् , न, प्राप्त­मा­न­व­त्व­नि­वृ­त्ति­प­र­त्वा­द्वि­शे­ष­णस्य । यद्यर्चिरादिषु पुरुषा गमयितारः प्राप्ताः ते च मानवाः, ततो युक्तं तन्नि­वृ­त्त्यर्थं पुरुषविशेषणम् — अमानव इति ॥ ४ ॥

ननु तल्लि­ङ्ग­मा­त्र­म­ग­म­कम् , न्यायाभावात्; नैष दोषः —

उभ­य­व्या­मो­हा­त्त­त्सिद्धेः ॥ ५ ॥

ये ताव­द­र्चि­रा­दि­मा­र्गगाः ते देहवियोगात् सम्पि­ण्डि­त­क­र­ण­ग्रामा इति अस्वतन्त्राः, अर्चि­रा­दी­ना­म­प्य­चे­त­न­त्वा­द­स्वा­त­न्त्र्यम् — इत्यतः अर्चि­रा­द्य­भि­मा­नि­न­श्चे­तना देवताविशेषा अतियात्रायां नियुक्ता इति गम्यते । लोकेऽपि हि मत्तमूर्छितादयः सम्पिण्डितकरणाः पर­प्र­यु­क्त­व­र्त्मानो भवन्ति । अन­व­स्थि­त­त्वा­द­प्य­र्चि­रा­दीनां न मार्ग­ल­क्ष­ण­त्वो­प­पत्तिः । न हि रात्रौ प्रेतस्य अहः­स्व­रू­पा­भि­स­म्भव उपपद्यते । न च प्रति­पा­ल­न­म­स्ती­त्युक्तं पुरस्तात् । ध्रुवत्वात्तु देवतात्मनां नायं दोषो भवति । अर्चिरादिशब्दता च एषाम् अर्चि­रा­द्य­भि­मा­ना­दु­प­प­द्यते । ‘अर्चिषोऽहः’(छा. उ. ४ । १५ । ५) इत्या­दि­नि­र्दे­शस्तु आतिवाहिकत्वेऽपि न विरुध्यते — अर्चिषा हेतुना अहरभिसम्भवति, अह्ना हेतुना आपू­र्य­मा­ण­प­क्ष­मिति । तथा च लोके प्रसि­द्धे­ष्व­प्या­ति­वा­हि­केषु एवंजातीयक उपदेशो दृश्यते — गच्छ त्वम् इतो बलवर्माणं ततो जयसिंहं ततः कृष्णगुप्तमिति । अपि च उपक्रमे ‘तेऽर्चि­र­भि­स­म्भ­वन्ति’(बृ. उ. ६ । २ । १५) इति सम्ब­न्ध­मा­त्र­मु­क्तम् , न सम्बन्धविशेषः कश्चित् । उपसंहारे तु ‘स एनान्ब्रह्म गमयति’(छा. उ. ४ । १५ । ५) इति सम्बन्धविशेषः अति­वा­ह्या­ति­वा­ह­क­त्व­ल­क्षण उक्तः । तेन स एवोपक्रमेऽपीति निर्धार्यते । सम्पि­ण्डि­त­क­र­ण­त्वा­देव च गन्तॄणां न तत्र भोगसम्भवः । लोकशब्दस्तु अनु­प­भु­ञ्जा­ने­ष्वपि गन्तृषु गमयितुं शक्यते, अन्येषां तल्लोकवासिनां भोगभूमित्वात् । अतः अग्निस्वामिकं लोकं प्राप्तः अग्निना अतिवाह्यते, वायुस्वामिकं प्राप्तो वायुना — इति योजयितव्यम् ॥ ५ ॥

कथं पुन­रा­ति­वा­हि­क­त्व­पक्षे वरुणादिषु तत्सम्भवः ? विद्युतो ह्यधि वरुणादय उपक्षिप्ताः, विद्यु­त­स्त्व­न­न्त­रम् आ ब्रह्मप्राप्तेः अमानवस्यैव पुरुषस्य गमयितृत्वं श्रुतम् — इत्यत उत्तरं पठति —

वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ६ ॥

ततो विद्यु­द­भि­स­म्भ­व­ना­दूर्ध्वं विद्यु­द­न­न्त­र­व­र्ति­नै­वा­मा­न­वेन पुरुषेण वरु­ण­लो­का­दि­ष्व­ति­वा­ह्य­माना ब्रह्मलोकं गच्छ­न्ती­त्य­व­ग­न्त­व्यम् , ‘तान्वै­द्यु­ता­त्पु­रु­षोऽ­मा­नवः स एत्य ब्रह्मलोकं गमयति’ इति तस्यैव गम­यि­तृ­त्व­श्रुतेः । वरुणादयस्तु तस्यैव अप्रतिबन्धकरणेन साहा­य्या­नु­ष्ठा­नेन वा केनचित् अनुग्राहका इत्यवगन्तव्यम् । तस्मा­त्सा­धू­क्तम् — आतिवाहिका देव­ता­त्मा­नोऽ­र्चि­रा­दय इति ॥ ६ ॥

कार्यं बादरिरस्य गत्युपपत्तेः ॥ ७ ॥

‘स एनान्ब्रह्म गमयति’(छा. उ. ४ । १५ । ५) इत्यत्र विचिकित्स्यते — किं कार्यमपरं ब्रह्म गमयति, आहो­स्वि­त्प­र­मे­वा­वि­कृतं मुख्यं ब्रह्मेति । कुतः संशयः ? ब्रह्म­श­ब्द­प्र­यो­गात् , गतिश्रुतेश्च । तत्र कार्यमेव सगुणमपरं ब्रह्म एना­न्ग­म­य­त्य­मा­नवः पुरुष इति बादरिराचार्यो मन्यते । कुतः ? अस्य गत्युपपत्तेः — अस्य हि कार्यब्रह्मणो गन्त­व्य­त्व­मु­प­प­द्यते, प्रदेशवत्त्वात् । न तु पर­स्मि­न्ब्र­ह्मणि गन्तृत्वं गन्तव्यत्वं गतिर्वा अवकल्पते, सर्व­ग­त­त्वा­त्प्र­त्य­गा­त्म­त्वाच्च गन्तॄणाम् ॥ ७ ॥

विशेषितत्वाच्च ॥ ८ ॥

‘ब्रह्म­लो­का­न्ग­म­यति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति’(बृ. उ. ६ । २ । १५) इति च श्रुत्यन्तरे विशेषितत्वात् कार्य­ब्र­ह्म­वि­ष­यैव गतिरिति गम्यते । न हि बहुवचनेन विशेषणं पर­स्मि­न्ब्र­ह्म­ण्य­व­क­ल्पते । कार्ये तु अव­स्था­भे­दो­प­पत्तेः सम्भवति बहुवचनम् । लोकश्रुतिरपि विकारगोचरायामेव सन्नि­वे­श­वि­शि­ष्टायां भोगभूमावाञ्जसी । गौणी त्वन्यत्र ‘ब्रह्मैव लोक एष सम्राट्’ इत्यादिषु । अधि­क­र­णा­धि­क­र्त­व्य­नि­र्दे­शोऽपि पर­स्मि­न्ब्र­ह्मणि अनाञ्जसः स्यात् । तस्मात् कार्यविषयमेवेदं नयनम् ॥ ८ ॥

ननु कार्यविषयेऽपि ब्रह्मशब्दो नोपपद्यते, समन्वये हि समस्तस्य जगतो जन्मादिकारणं ब्रह्मेति स्थापितम् — इत्यत्रोच्यते —

सामीप्यात्तु तद्व्यपदेशः ॥ ९ ॥

तुशब्द आश­ङ्का­व्या­वृ­त्त्यर्थः । पर­ब्र­ह्म­सा­मी­प्यात् अपरस्य ब्रह्मणः, तस्मिन्नपि ब्रह्म­श­ब्द­प्र­योगो न विरुध्यते । परमेव हि ब्रह्म विशु­द्धो­पा­धि­स­म्बन्धं क्वचि­त्कै­श्चि­द्वि­का­र­ध­र्मै­र्म­नो­म­य­त्वा­दिभिः उपासनाय उपदिश्यमानम् अपरमिति स्थितिः ॥ ९ ॥

ननु कार्यप्राप्तौ अनावृत्तिश्रवणं न घटते । न हि पर­स्मा­द्ब्र­ह्म­णोऽ­न्यत्र क्वचिन्नित्यतां सम्भावयन्ति । दर्शयति च देवयानेन पथा प्रस्थि­ता­ना­म­ना­वृ­त्तिम् — ‘एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते’(छा. उ. ४ । १५ । ५) इति, ‘तेषामिह न पुन­रा­वृ­त्ति­रस्ति — ‘तयो­र्ध्व­मा­य­न्न­मृ­त­त्व­मेति’(छा. उ. ८ । ६ । ६) इति चेत्; अत्र ब्रूमः —

कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ १० ॥

१०

कार्य­ब्र­ह्म­लो­क­प्र­ल­य­प्र­त्यु­प­स्थाने सति तत्रैव उत्प­न्न­स­म्य­ग्द­र्शनाः सन्तः, तदध्यक्षेण हिरण्यगर्भेण सह अतः परं परिशुद्धं विष्णोः परमं पदं प्रतिपद्यन्ते — इति, इत्थं क्रममुक्तिः अना­वृ­त्त्या­दि­श्रु­त्य­भि­धा­ने­भ्योऽ­भ्यु­प­ग­न्तव्या । न ह्यञ्जसैव गतिपूर्विका परप्राप्तिः सम्भ­व­ती­त्यु­प­पा­दि­तम् ॥ १० ॥

स्मृतेश्च ॥ ११ ॥

११

स्मृति­र­प्ये­त­म­र्थ­म­नु­जा­नाति — ‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्’ इति । तस्मा­त्का­र्य­ब्र­ह्म­वि­षया एव गतिश्रुतयः इति सिद्धान्तः ॥ ११ ॥

कं पुनः पूर्व­प­क्ष­मा­शङ्क्य अयं सिद्धान्तः प्रतिष्ठापितः ‘कार्यं बादरिः’(ब्र. सू. ४ । ३ । ७) इत्यादिनेति, स इदानीं सूत्रै­रे­वो­प­द­र्श्यते —

परं जैमि­नि­र्मु­ख्य­त्वात् ॥ १२ ॥

१२

जैमि­नि­स्त्वा­चार्यः ‘स एनान्ब्रह्म गमयति’(छा. उ. ४ । १५ । ५) इत्यत्र परमेव ब्रह्म प्रापयतीति मन्यते । कुतः ? मुख्यत्वात् । परं हि ब्रह्म ब्रह्मशब्दस्य मुख्यमालम्बनम् , गौणमपरम्; मुख्यगौणयोश्च मुख्ये सम्प्रत्ययो भवति ॥ १२ ॥

दर्शनाच्च ॥ १३ ॥

१३

‘तयो­र्ध्व­मा­य­न्न­मृ­त­त्व­मेति’(छा. उ. ८ । ६ । ६) इति च गति­पू­र्व­क­म­मृ­तत्वं दर्शयति । अमृतत्वं च पर­स्मि­न्ब्र­ह्म­ण्यु­प­प­द्यते, न कार्ये, विना­शि­त्वा­त्का­र्यस्य — ‘अथ यत्रा­न्य­त्प­श्यति … तदल्पं … तन्मर्त्यम्’(छा. उ. ७ । २४ । १) इति वचनात् । परविषयैव च एषा गतिः कठवल्लीषु पठ्यते; न हि तत्र विद्या­न्त­र­प्र­क्र­मोऽस्ति — ‘अन्यत्र धर्मा­द­न्य­त्रा­ध­र्मात्’(क. उ. १ । २ । १४) इति परस्यैव ब्रह्मणः प्रक्रा­न्त­त्वात् ॥ १३ ॥

न च कार्ये प्रति­प­त्त्य­भि­सन्धिः ॥ १४ ॥

१४

अपि च ‘प्रजापतेः सभां वेश्म प्रपद्ये’(छा. उ. ८ । १४ । १)‘प्रजापतेः सभां वेश्म प्रपद्ये’(छा. उ. ८ । १४ । १) इति नायं कार्यविषयः प्रति­प­त्त्य­भि­सन्धिः, ‘नाम­रू­प­यो­र्नि­र्व­हिता ते यदन्तरा तद्ब्रह्म’(छा. उ. ८ । १४ । १) इति कार्यविलक्षणस्य परस्यैव ब्रह्मणः प्रकृतत्वात् । ‘यशोऽहं भवामि ब्राह्मणानाम्’(छा. उ. ८ । १४ । १) इति च सर्वा­त्म­त्वे­नो­प­क्र­म­णात् । ‘न तस्य प्रतिमाऽस्ति यस्य नाम महद्यशः’(श्वे. उ. ४ । १९) इति च परस्यैव ब्रह्मणो यशो­ना­म­त्व­प्र­सिद्धेः । सा चेयं वेश्म­प्र­ति­प­त्ति­र्ग­ति­पू­र्विका हार्द­वि­द्या­या­मु­दिता — ‘तदपराजिता पूर्ब्रह्मणः प्रभुविमितꣳ हिरण्मयम्’(छा. उ. ८ । ५ । ३) इत्यत्र । पदेरपि च गत्यर्थत्वात् मार्गापेक्षता अवसीयते । तस्मा­त्प­र­ब्र­ह्म­वि­षया गतिश्रुतय इति पक्षान्तरम् । तावेतौ द्वौ पक्षावाचार्येण सूत्रितौ — गत्यु­प­प­त्त्या­दि­भि­रेकः, मुख्य­त्वा­दि­भि­र­परः । तत्र गत्यु­प­प­त्त्या­दयः प्रभवन्ति मुख्य­त्वा­दी­ना­भा­स­यि­तुम् , न तु मुख्यत्वादयो गत्यु­प­प­त्त्या­दीन् — इति आद्य एव सिद्धान्तो व्याख्यातः, द्वितीयस्तु पूर्वपक्षः । न ह्यसत्यपि सम्भवे मुख्य­स्यै­वा­र्थस्य ग्रहणमिति कश्चि­दा­ज्ञा­प­यिता विद्यते । पर­वि­द्या­प्र­क­र­णेऽपि च तत्स्तुत्यर्थं विद्या­न्त­रा­श्र­य­ग­त्य­नु­की­र्त­न­मु­प­प­द्यते — ‘विष्वङ्ङन्या उत्क्रमणे भवन्ति’(छा. उ. ८ । ६ । ६) इतिवत् । ‘प्रजापतेः सभां वेश्म प्रपद्ये’ इति तु पूर्व­वा­क्य­वि­च्छे­देन कार्येऽपि प्रति­प­त्त्य­भि­स­न्धिर्न विरुध्यते । सगुणेऽपि च ब्रह्मणि सर्वा­त्म­त्व­स­ङ्की­र्त­नम् ‘सर्वकर्मा सर्वकामः’ इत्यादिवत् अवकल्पते । तस्मादपरविषया एव गतिश्रुतयः ॥

केचित्पुनः पूर्वाणि पूर्व­प­क्ष­सू­त्राणि भवन्ति उत्तराणि सिद्धा­न्त­सू­त्राणि — इत्येतां व्यव­स्था­म­नु­रु­ध्य­मानाः परविषया एव गतिश्रुतीः प्रति­ष्ठा­प­यन्ति; तत् अनुपपन्नम् , गन्त­व्य­त्वा­नु­प­प­त्ते­र्ब्र­ह्मणः । यत्सर्वगतं सर्वान्तरं सर्वात्मकं च परं ब्रह्म ‘आका­श­व­त्स­र्व­ग­तश्च नित्यः’ ‘यत्सा­क्षा­द­प­रो­क्षा­द्ब्रह्म’(बृ. उ. ३ । ४ । १) ‘य आत्मा सर्वान्तरः’(बृ. उ. ३ । ४ । १) ‘आत्मैवेदꣳ सर्वम्’(छा. उ. ७ । २५ । २) ‘ब्रह्मैवेदं विश्वमिदं वरिष्ठम्’(मु. उ. २ । २ । १२) इत्या­दि­श्रु­ति­नि­र्धा­रि­त­वि­शे­षम् — तस्य गन्तव्यता न कदा­चि­द­प्यु­प­प­द्यते । न हि गतमेव गम्यते । अन्यो ह्यन्य­द्ग­च्छ­तीति प्रसिद्धं लोके । ननु लोके गतस्यापि गन्तव्यता देशा­न्त­र­वि­शि­ष्टस्य दृष्टा — यथा पृथिवीस्थ एव पृथिवीं देशान्तरद्वारेण गच्छति, तथा अनन्यत्वेऽपि बालस्य काला­न्त­र­वि­शिष्टं वार्धकं स्वात्मभूतमेव गन्तव्यं दृष्टम् , तद्वत् ब्रह्मणोऽपि सर्व­श­क्त्यु­पे­त­त्वात् कथञ्चित् गन्तव्यता स्यादिति — न, प्रति­षि­द्ध­स­र्व­वि­शे­ष­त्वा­द्ब्र­ह्मणः । ‘निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्’(श्वे. उ. ६ । १९) ‘अस्थू­ल­म­न­ण्व­ह्र­स्व­म­दी­र्घम्’(बृ. उ. ३ । ८ । ८) ‘सबा­ह्या­भ्य­न्तरो ह्यजः’(मु. उ. २ । १ । २) ‘स वा एष महानज आत्मा­ज­रोऽ­म­रोऽ­मृ­तोऽ­भयो ब्रह्म’(बृ. उ. ४ । ४ । २५) ‘स एष नेति नेत्यात्मा’(बृ. उ. ३ । ९ । २६) इत्या­दि­श्रु­ति­स्मृ­ति­न्या­येभ्यो न देश­का­ला­दि­वि­शे­ष­योगः परमात्मनि कल्पयितुं शक्यते, येन भूप्र­दे­श­व­यो­व­स्था­न्या­ये­नास्य गन्तव्यता स्यात् । भूवयसोस्तु प्रदे­शा­व­स्था­दि­वि­शे­ष­यो­गा­दु­प­प­द्यते देशकालविशिष्टा गन्तव्यता । जग­दु­त्प­त्ति­स्थि­ति­प्र­ल­य­हे­तु­त्व­श्रु­ते­र­ने­क­श­क्तित्वं ब्रह्मण इति चेत् , न, विशे­ष­नि­रा­क­र­ण­श्रु­ती­ना­म­न­न्या­र्थ­त्वात् । उत्प­त्त्या­दि­श्रु­ती­ना­मपि समा­न­म­न­न्या­र्थ­त्व­मिति चेत् , न, तासा­मे­क­त्व­प्र­ति­पा­द­न­प­र­त्वात् । मृदा­दि­दृ­ष्टा­न्तैर्हि सतो ब्रह्मण एकस्य सत्यत्वं विकारस्य च अनृतत्वं प्रतिपादयत् शास्त्रं नोत्प­त्त्या­दि­परं भवितुमर्हति ॥

कस्मा­त्पु­न­रु­त्प­त्त्या­दि­श्रु­तीनां विशे­ष­नि­रा­क­र­ण­श्रु­ति­शे­ष­त्वम् , न पुन­रि­त­र­शे­ष­त्व­मि­त­रा­सा­मिति, उच्यते — विशे­ष­नि­रा­क­र­ण­श्रु­तीनां निरा­का­ङ्क्षा­र्थ­त्वात् । न हि आत्मन एक­त्व­नि­त्य­त्व­शु­द्ध­त्वा­द्य­व­गतौ सत्यां भूयः काचिदाकाङ्क्षा उपजायते, पुरु­षा­र्थ­स­मा­प्ति­बु­द्ध्यु­प­पत्तेः, ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’(ई. उ. ७) ‘अभयं वै जनक प्राप्तोऽसि’(बृ. उ. ४ । २ । ४) ‘विद्वान्न बिभेति कुतश्चन । एतꣳ ह वाव न तपति । किमहꣳ साधु नाकरवम् । किमहं पापमकरवम्’(तै. उ. २ । ९ । १) इत्या­दि­श्रु­तिभ्यः, तथैव च विदुषां तुष्ट्य­नु­भ­वा­दि­द­र्श­नात् , विका­रा­नृ­ता­भि­स­न्ध्य­प­वा­दाच्च — ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ इति । अतो न विशे­ष­नि­रा­क­र­ण­श्रु­ती­ना­म­न्य­शे­ष­त्व­म­व­गन्तुं शक्यते । नैव­मु­त्प­त्त्या­दि­श्रु­तीनां निरा­का­ङ्क्षा­र्थ­प्र­ति­पा­द­न­सा­म­र्थ्य­मस्ति । प्रत्यक्षं तु तासा­म­न्या­र्थत्वं समनुगम्यते । तथा हि — ‘तत्रै­त­च्छु­ङ्ग­मु­त्प­तितꣳ सोम्य विजानीहि नेदममूलं भविष्यति’(छा. उ. ६ । ८ । ३) इत्युपन्यस्य उदर्के सत एवैकस्य जगन्मूलस्य विज्ञेयत्वं दर्शयति; ‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्र­य­न्त्य­भि­सं­वि­शन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म’(तै. उ. ३ । १ । १) इति च । एव­मु­त्प­त्त्या­दि­श्रु­ती­नाम् ऐका­त्म्या­व­ग­म­प­र­त्वात् नानेकशक्तियोगो ब्रह्मणः । अतश्च गन्त­व्य­त्वा­नु­प­पत्तिः । ‘न तस्य प्राणा उत्क्रामन्ति’(बृ. उ. ४ । ४ । ६) ‘ब्रह्मैव सन्ब्र­ह्मा­प्येति’ इति च पर­स्मि­न्ब्र­ह्मणि गतिं निवारयति । तद्व्याख्यातम् ‘स्पष्टो ह्येकेषाम्’(ब्र. सू. ४ । २ । १३) इत्यत्र ॥

गतिकल्पनायां च गन्ता जीवो गन्तव्यस्य ब्रह्मणः अवयवः विकारो अन्यो वा ततः स्यात् , अत्य­न्त­ता­दात्म्ये गमनानुपपत्तेः । यद्येवम् , ततः किं स्यात् ? उच्यते — यद्येकदेशः, तेन एकदेशिनो नित्य­प्रा­प्त­त्वात् न पुन­र्ब्र­ह्म­ग­म­न­मु­प­प­द्यते । एक­दे­शै­क­दे­शि­त्व­क­ल्पना च ब्रह्म­ण्य­नु­प­पन्ना, निर­व­य­व­त्व­प्र­सिद्धेः । विका­र­प­क्षेऽ­प्ये­त­त्तु­ल्यम् , विकारेणापि विकारिणो नित्य­प्रा­प्त­त्वात् । न हि घटो मृदात्मतां परित्यज्य अवतिष्ठते, परित्यागे वा अभावप्राप्तेः । विका­रा­व­य­व­प­क्ष­योश्च तद्वतः स्थिरत्वात् ब्रह्मणः संसारगमनमपि अनवकॢप्तम् । अथ अन्य एव जीवो ब्रह्मणः, सोऽणुः व्यापी मध्यमपरिमाणो वा भवितुमर्हति । व्यापित्वे गमनानुपपत्तिः । मध्यमपरिमाणत्वे च अनि­त्य­त्व­प्र­सङ्गः । अणुत्वे कृत्स्न­श­री­र­वे­द­ना­नु­प­पत्तिः । प्रतिषिद्धे च अणु­त्व­म­ध्य­म­प­रि­मा­णत्वे विस्तरेण पुरस्तात् । परस्माच्च अन्यत्वे जीवस्य ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) इत्या­दि­शा­स्त्र­बा­ध­प्र­सङ्गः । विका­रा­व­य­व­प­क्ष­यो­रपि समानोऽयं दोषः । विका­रा­व­य­व­यो­स्त­द्व­तोऽ­न­न्य­त्वात् अदोष इति चेत् , न, मुख्यै­क­त्वा­नु­प­पत्तेः । सर्वेष्वेतेषु पक्षेषु अनि­र्मो­क्ष­प्र­सङ्गः, संसा­र्या­त्म­त्वा­नि­वृत्तेः; निवृत्तौ वा स्वरू­प­ना­श­प्र­सङ्गः, ब्रह्मा­त्म­त्वा­न­भ्यु­प­ग­माच्च ॥

यत्तु कैश्चि­ज्ज­ल्प्यते — नित्यानि नैमित्तिकानि च कर्मा­ण्य­नु­ष्ठी­यन्ते प्रत्य­वा­या­नु­त्प­त्तये, काम्यानि प्रतिषिद्धानि च परिह्रियन्ते स्वर्ग­न­र­का­न­वा­प्तये, साम्प्र­त­दे­हो­प­भो­ग्यानि च कर्मा­ण्यु­प­भो­गे­नैव क्षप्यन्ते — इत्यतो वर्त­मा­न­दे­ह­पा­ता­दूर्ध्वं देहा­न्त­र­प्र­ति­स­न्धा­न­का­र­णा­भा­वात् स्वरू­पा­व­स्था­न­ल­क्षणं कैवल्यं विनापि ब्रह्मात्मतया एवंवृत्तस्य सेत्स्यतीति — तदसत् , प्रमाणाभावात् । न ह्येतत् शास्त्रेण केन­चि­त्प्र­ति­पा­दि­तम् — मोक्षार्थी इत्थं समाचरेदिति । स्वमनीषया तु एतत्तर्कितम् — यस्मा­त्क­र्म­नि­मित्तः संसारः तस्मा­न्नि­मि­त्ता­भा­वान्न भविष्यतीति । न च एतत् तर्कयितुमपि शक्यते, निमित्ताभावस्य दुर्ज्ञानत्वात् । बहूनि हि कर्माणि जात्य­न्त­र­स­ञ्चि­तानि इष्टा­नि­ष्ट­वि­पा­कानि एकैकस्य जन्तोः सम्भाव्यन्ते । तेषां विरुद्धफलानां युग­प­दु­प­भो­गा­स­म्भ­वात् कानि­चि­ल्ल­ब्धा­व­स­राणि इदं जन्म निर्मिमते, कानिचित्तु देश­का­ल­नि­मि­त्त­प्र­ती­क्षा­ण्या­सते — इत्यतः तेषामवशिष्टानां साम्प्र­ते­नो­प­भो­गेन क्षपणासम्भवात् न यथा­व­र्णि­त­च­रि­त­स्यापि वर्तमानदेहपाते देहा­न्त­र­नि­मि­त्ता­भावः शक्यते निश्चेतुम् । कर्म­शे­ष­स­द्भा­व­सि­द्धिश्च ‘तद्य इह रमणीयचरणाः’ ‘ततः शेषेण’ इत्या­दि­श्रु­ति­स्मृ­तिभ्यः । स्यादेतत् — नित्य­नै­मि­त्ति­कानि तेषां क्षेपकाणि भविष्यन्तीति — तत् न, विरोधाभावात् । सति हि विरोधे क्षेप्य­क्षे­प­क­भावो भवति । न च जन्मा­न्त­र­स­ञ्चि­तानां सुकृतानां नित्य­नै­मि­त्ति­कै­रस्ति विरोधः, शुद्धि­रू­प­त्वा­वि­शे­षात् । दुरितानां तु अशु­द्धि­रू­प­त्वात् सति विरोधे भवतु क्षपणम् । न तु तावता देहा­न्त­र­नि­मि­त्ता­भा­व­सिद्धिः, सुकृ­त­नि­मि­त्त­त्वो­प­पत्तेः, दुरि­त­स्या­प्य­शे­ष­क्ष­प­णा­न­व­ग­मात् । न च नित्य­नै­मि­त्ति­का­नु­ष्ठा­नात् प्रत्य­वा­या­नु­त्प­त्ति­मा­त्रम् , न पुनः फला­न्त­रो­त्पत्तिः इति प्रमाणमस्ति, फला­न्त­र­स्या­प्य­नु­नि­ष्पा­दिनः सम्भवात् । स्मरति हि आपस्तम्बः — ‘तद्यथा आम्रे फलार्थे निमिते छाया­ग­न्धा­व­नू­त्प­द्येते एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते’(आ. ध. सू. १ । ७ । २० । ३) इति । न च असति सम्यग्दर्शने सर्वात्मना काम्य­प्र­ति­षि­द्ध­व­र्जनं जन्म­प्रा­य­णा­न्त­राले केन­चि­त्प्र­ति­ज्ञातुं शक्यम् , सुनिपुणानामपि सूक्ष्मा­प­रा­ध­द­र्श­नात् । संशयितव्यं तु भवति । तथापि निमित्ताभावस्य दुर्ज्ञानत्वमेव । न च अनभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्वे कर्तृ­त्व­भो­क्तृ­त्व­स्व­भा­वस्य आत्मनः कैव­ल्य­मा­का­ङ्क्षितुं शक्यम् , अग्न्यौष्ण्यवत् स्वभा­व­स्या­प­रि­हा­र्य­त्वात् । स्यादेतत् — कर्तृ­त्व­भो­क्तृ­त्व­का­र्यम् अनर्थः, न तच्छक्तिः, तेन शक्त्य­व­स्था­नेऽपि कार्य­प­रि­हा­रा­दु­प­पन्नो मोक्ष इति — तच्च न । शक्तिसद्भावे कार्यप्रसवस्य दुर्निवारत्वात् । अथापि स्यात् — न केवला शक्तिः कार्यमारभते अनपेक्ष्य अन्यानि निमित्तानि । अत एकाकिनी सा स्थितापि नापराध्यतीति — तच्च न, निमित्तानामपि शक्तिलक्षणेन सम्बन्धेन नित्य­स­म्ब­द्ध­त्वात् । तस्मात् कर्तृ­त्व­भो­क्तृ­त्व­स्व­भावे सति आत्मनि, असत्यां विद्यागम्यायां ब्रह्मा­त्म­ता­याम् , न कथञ्चन मोक्षं प्रति आशा अस्ति । श्रुतिश्च — ‘नान्यः पन्था विद्यतेऽयनाय’(श्वे. उ. ३ । ८) इति ज्ञानादन्यं मोक्षमार्गं वारयति ॥

पर­स्मा­द­न­न्य­त्वेऽपि जीवस्य सर्व­व्य­व­हा­र­लो­प­प्र­सङ्गः, प्रत्य­क्षा­दि­प्र­मा­णा­प्र­वृ­त्ते­रिति चेत् — न, प्राक्प्रबोधात् स्वप्न­व्य­व­हा­र­वत् तदुपपत्तेः । शास्त्रं च ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’(बृ. उ. २ । ४ । १४) इत्यादिना अप्रबुद्धविषये प्रत्य­क्षा­दि­व्य­व­हा­र­मुक्त्वा, पुनः प्रबुद्धविषये — ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं पश्येत्’(बृ. उ. २ । ४ । १४) इत्यादिना तदभावं दर्शयति । तदेवं परब्रह्मविदो गन्त­व्या­दि­वि­ज्ञा­नस्य वाधितत्वात् न कथञ्चन गतिरुपपादयितुं शक्या । किंविषयाः पुनर्गतिश्रुतय इति, उच्यते — सगुणविद्याविषया भविष्यन्ति । तथा हि — क्वचि­त्प­ञ्चा­ग्नि­विद्यां प्रकृत्य गतिरुच्यते, क्वचि­त्प­र्य­ङ्क­वि­द्याम् , क्वचि­द्वै­श्वा­न­र­वि­द्याम् । यत्रापि ब्रह्म प्रकृत्य गतिरुच्यते — यथा ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’(छा. उ. ४ । १० । ४) इति ‘अथ यदि­द­म­स्मि­न्ब्र­ह्म­पुरे दहरं पुण्डरीकं वेश्म’(छा. उ. ८ । १ । १) इति च, तत्रापि वामनीत्वादिभिः सत्यकामादिभिश्च गुणैः सगुणस्यैव उपास्यत्वात् सम्भवति गतिः । न क्वचि­त्प­र­ब्र­ह्म­वि­षया गतिः श्राव्यते । तथा गतिप्रतिषेधः श्रावितः — ‘न तस्य प्राणा उत्क्रामन्ति’(बृ. उ. ४ । ४ । ६) इति । ‘ब्रह्म­वि­दा­प्नोति परम्’(तै. उ. २ । १ । १) इत्यादिषु तु, सत्यपि आप्नो­ते­र्ग­त्य­र्थत्वे, वर्णितेन न्यायेन देशा­न्त­र­प्रा­प्त्य­स­म्भ­वात् स्वरू­प­प्र­ति­प­त्ति­रे­वे­यम् अवि­द्या­ध्या­रो­पि­त­ना­म­रू­प­प्र­वि­ल­या­पे­क्षया अभिधीयते — ‘ब्रह्मैव सन्ब्र­ह्मा­प्येति’(बृ. उ. ४ । ४ । ६) इत्यादिवत् इति द्रष्टव्यम् । अपि च परविषया गति­र्व्या­ख्या­य­माना प्ररोचनाय वा स्यात् , अनुचिन्तनाय वा ? तत्र प्ररोचनं तावत् ब्रह्मविदो न गत्युक्त्या क्रियते, स्वसंवेद्येनैव अव्यवहितेन विद्यासमर्पितेन स्वास्थ्येन तत्सिद्धेः । न च नित्य­सि­द्ध­निः­श्रे­य­स­नि­वे­द­नस्य असाध्यफलस्य विज्ञानस्य गत्यनुचिन्तने काचिदपेक्षा उपपद्यते । तस्मा­द­प­र­ब्र­ह्म­वि­षया गतिः । तत्र परा­प­र­ब्र­ह्म­वि­वे­का­न­व­धा­र­णेन अप­र­स्मि­न्ब्र­ह्मणि वर्तमाना गतिश्रुतयः पर­स्मि­न्न­ध्या­रो­प्यन्ते । किं द्वे ब्रह्मणी परमपरं चेति ? बाढं द्वे — ‘एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः’(प्र. उ. ५ । २) इत्यादिदर्शनात् । किं पुनः परं ब्रह्म किमपरमिति, उच्यते — यत्र अवि­द्या­कृ­त­ना­म­रू­पा­दि­वि­शे­ष­प्र­ति­षे­धेन अस्थू­ला­दि­श­ब्दै­र्ब्र­ह्मो­प­दि­श्यते, तत्परम् । तदेव यत्र नाम­रू­पा­दि­वि­शे­षेण केन­चि­द्वि­शि­ष्टम् उपा­स­ना­यो­प­दि­श्यते — ‘मनोमयः प्राणशरीरो भारूपः’(छा. उ. ३ । १४ । २) इत्यादिशब्दैः, तदपरम् । ननु एव­म­द्वि­ती­य­श्रु­ति­रु­प­रु­ध्येत — न, अवि­द्या­कृ­त­ना­म­रू­पो­पा­धि­क­तया परिहृतत्वात् । तस्य च अप­र­ब्र­ह्मो­पा­स­नस्य तत्सन्निधौ श्रूयमाणम् ‘स यदि पितृलोककामो भवति’(छा. उ. ८ । २ । १) इत्यादि जग­दै­श्व­र्य­ल­क्षणं संसारगोचरमेव फलं भवति, अनि­व­र्ति­त­त्वा­द­वि­द्यायाः । तस्य च देश­वि­शे­षा­व­ब­द्ध­त्वात् तत्प्रा­प्त्यर्थं गमनमविरुद्धम् । सर्वगतत्वेऽपि च आत्मनः, आकाशस्येव घटादिगमने, बुद्ध्या­द्यु­पा­धि­ग­मने गमनप्रसिद्धिः इत्यवादिष्म ‘तद्गु­ण­सा­र­त्वात्’(ब्र. सू. २ । ३ । २९) इत्यत्र । तस्मात् ‘कार्यं बादरिः’(ब्र. सू. ४ । ३ । ७) इत्येष एव स्थितः पक्षः । ‘परं जैमिनिः’(ब्र. सू. ४ । ३ । १२) इति तु पक्षा­न्त­र­प्र­ति­भा­न­मा­त्र­प्र­द­र्शनं प्रज्ञा­वि­का­स­ना­येति द्रष्टव्यम् ॥ १४ ॥

अप्र­ती­का­ल­म्ब­ना­न्न­य­तीति बादरायण उभ­य­थाऽ­दो­षा­त्त­त्क्र­तुश्च ॥ १५ ॥

१५

स्थितमेतत् — कार्यविषया गतिः, न परविषयेति । इदमिदानीं सन्दिह्यते — किं सर्वा­न्वि­का­रा­ल­म्ब­नान् अविशेषेणैव अमानवः पुरुषः प्रापयति ब्रह्मलोकम् , उत कांश्चिदेवेति । किं तावत्प्राप्तम् ? सर्वेषामेव एषां विदुषाम् अन्यत्र पर­स्मा­द्ब्र­ह्मणः गतिः स्यात् । तथा हि ‘अनियमः सर्वासाम्’(ब्र. सू. ३ । ३ । ३१) इत्यत्र अविशेषेणैव एषा विद्या­न्त­रे­ष्व­व­ता­रि­तेति । एवं प्राप्ते, प्रत्याह — अप्र­ती­का­ल­म्ब­ना­निति । प्रती­का­ल­म्ब­ना­न्व­र्ज­यित्वा सर्वा­न­न्या­न्वि­का­रा­ल­म्ब­नान् नयति ब्रह्मलोकम् — इति बादरायण आचार्यो मन्यते । न हि एवम् उभ­य­था­भा­वा­भ्यु­प­गमे कश्चि­द्दो­षोऽस्ति, अनियमन्यायस्य प्रती­क­व्य­ति­रि­क्ते­ष्व­प्यु­पा­स­ने­षू­प­पत्तेः । तत्क्रतुश्च अस्य उभयथाभावस्य समर्थको हेतु­र्द्र­ष्टव्यः । यो हि ब्रह्मक्रतुः, स ब्राह्म­मै­श्व­र्य­मा­सी­देत् — इति श्लिष्यते, ‘तं यथा यथोपासते तदेव भवति’ इति श्रुतेः, न तु प्रतीकेषु ब्रह्म­क्र­तु­त्व­मस्ति, प्रती­क­प्र­धा­न­त्वा­दु­पा­स­नस्य । ननु, अब्रह्मक्रतुरपि ब्रह्म गच्छतीति श्रूयते; यथा पञ्चा­ग्नि­वि­द्या­याम् — ‘स एनान्ब्रह्म गमयति’(छा. उ. ४ । १५ । ५) इति ; भवतु यत्र एवम् आहत्यवाद उपलभ्यते । तदभावे तु औत्सर्गिकेण तत्क्रतुन्यायेन ब्रह्म­क्र­तू­ना­मेव तत्प्राप्तिः, न इतरेषाम् — इति गम्यते ॥ १५ ॥

विशेषं च दर्शयति ॥ १६ ॥

१६

नामादिषु प्रतीकोपासनेषु पूर्व­स्मा­त्पू­र्व­स्मात् फलविशेषम् उत्त­र­स्मि­न्नु­त्त­र­स्मिन् उपासने दर्शयति — ‘यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति’(छा. उ. ७ । १ । ५) ‘वाग्वाव नाम्नो भूयसी’(छा. उ. ७ । २ । १) ‘यावद्वाचो गतं तत्रास्य यथाकामचारो भवति’(छा. उ. ७ । २ । २) ‘मनो वाव वाचो भूयः’(छा. उ. ७ । ३ । १) इत्यादिना । स च अयं फलविशेषः प्रती­क­त­न्त्र­त्वा­दु­पा­स­ना­नाम् उपपद्यते । ब्रह्म­त­न्त्रत्वे तु ब्रह्म­णोऽ­वि­शि­ष्ट­त्वात् कथं फलविशेषः स्यात् । तस्मात् न प्रती­का­ल­म्ब­ना­नाम् इत­रै­स्तु­ल्य­फ­ल­त्व­मिति ॥ १६ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य
श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ शारी­र­क­मी­मां­सा­सू­त्र­भाष्ये
चतुर्थाध्यायस्य तृतीयः पादः ॥

चतुर्थः पादः

‘एवमेवैष सम्प्र­सा­दोऽ­स्मा­च्छ­री­रा­त्स­मु­त्थाय परं ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यते’ इति श्रूयते । तत्र संशयः — किं देव­लो­का­द्यु­प­भो­ग­स्था­ने­ष्विव आगन्तुकेन केनचिद्विशेषेण अभिनिष्पद्यते, आहोस्वित् आत्ममात्रेणेति । किं तावत्प्राप्तम् ? स्थाना­न्त­रे­ष्विव आगन्तुकेन केनचिद्रूपेण अभिनिष्पत्तिः स्यात् , मोक्षस्यापि फल­त्व­प्र­सिद्धेः, अभिनिष्पद्यत इति च उत्प­त्ति­प­र्या­य­त्वात् । स्वरूपमात्रेण चेद­भि­नि­ष्पत्तिः, पूर्वा­स्व­प्य­व­स्थासु स्वरूपानपायात् विभाव्येत । तस्मात् विशेषेण केन­चि­द­भि­नि­ष्प­द्यत इति । एवं प्राप्ते, ब्रूमः —

सम्प­द्या­वि­र्भावः स्वेनशब्दात् ॥ १ ॥

केवलेनैव आत्मना आविर्भवति, न धर्मान्तरेणेति । कुतः ? ‘स्वेन रूपे­णा­भि­नि­ष्प­द्यते’ इति स्वशब्दात् । अन्यथा हि स्वशब्देन विशेषणमनवकॢप्तं स्यात् । ननु, आत्मीयाभिप्रायः स्वशब्दो भविष्यति — न, तस्या­व­च­नी­य­त्वात् । येनैव हि केन­चि­द्रू­पे­णा­भि­नि­ष्प­द्यते, तस्यैव आत्मी­य­त्वो­प­पत्तेः, स्वेनेति विशेषणमनर्थकं स्यात् । आत्मवचनतायां तु अर्थवत् — केवलेनैव आत्म­रू­पे­णा­भि­नि­ष्प­द्यते, न आग­न्तु­के­ना­प­र­रू­पे­णा­पीति ॥ १ ॥

कः पुनर्विशेषः पूर्वा­स्व­व­स्थासु , इह च स्वरू­पा­न­पा­य­साम्ये सतीत्यत आह —

मुक्तः प्रतिज्ञानात् ॥ २ ॥

योऽत्र अभिनिष्पद्यत इत्युक्तः, स सर्व­ब­न्ध­वि­नि­र्मुक्तः शुद्धेनैव आत्मना अवतिष्ठते । पूर्वत्र तु — ‘अन्धो भवति’ ‘अपि रोदितीव’ ‘विनाशमेवापीतो भवति’ — इति च अव­स्था­त्र­य­क­लु­षि­तेन आत्मना — इत्ययं विशेषः । कथं पुनरवगम्यते — मुक्तोऽयमिदानीं भवतीति ? प्रति­ज्ञा­ना­दि­त्याह — तथा हि — ‘एतं त्वेव ते भूयोऽ­नु­व्या­ख्या­स्यामि’(छा. उ. ८ । ९ । ३) इति अव­स्था­त्र­य­दो­ष­वि­ही­नम् आत्मानम् व्याख्येयत्वेन प्रतिज्ञाय, ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’(छा. उ. ८ । १२ । १) इति च उपन्यस्य, ‘स्वेन रूपे­णा­भि­नि­ष्प­द्यते स उत्तमः पुरुषः’(छा. उ. ८ । १२ । ३) इति च उपसंहरति । तथा आख्या­यि­को­प­क्र­मेऽपि ‘य आत्मापहतपाप्मा’(छा. उ. ८ । ७ । १) इत्यादि मुक्ता­त्म­वि­ष­य­मेव प्रतिज्ञानम् । फल­त्व­प्र­सि­द्धि­रपि मोक्षस्य बन्ध­नि­वृ­त्ति­मा­त्रा­पेक्षा, न अपू­र्वो­प­ज­न­ना­पेक्षा । यदपि अभिनिष्पद्यत इत्यु­त्प­त्ति­प­र्या­य­त्वम् , तदपि पूर्वा­व­स्था­पे­क्षम् — यथा रोगनिवृत्तौ अरो­गोऽ­भि­नि­ष्प­द्यत इति, तद्वत् । तस्माददोषः ॥ २ ॥

आत्मा प्रकरणात् ॥ ३ ॥

कथं पुनर्मुक्त इत्युच्यते, यावता ‘परं ज्योति­रु­प­स­म्पद्य’(छा. उ. ८ । १२ । ३) इति कार्यगोचरमेव एनं श्रावयति, ज्योतिःशब्दस्य भौतिके ज्योतिषि रूढत्वात् ? न च अनतिवृत्तो विकारविषयात् कश्चिन्मुक्तो भवितुमर्हति, विकारस्य आर्त­त्व­प्र­सि­द्धे­रिति — नैष दोषः, यतः आत्मैवात्र ज्योतिःशब्देन आवेद्यते, प्रकरणात् । ‘य आत्मापहतपाप्मा विजरो विमृत्युः’(छा. उ. ८ । ७ । १) इति हि प्रकृते परस्मिन्नात्मनि न अकस्माद्भौतिकं ज्योतिः शक्यं ग्रहीतुम् , प्रकृ­त­हा­ना­प्र­कृ­त­प्र­क्रि­या­प्र­स­ङ्गात् । ज्योतिःशब्दस्तु आत्मन्यपि दृश्यते — ‘तद्देवा ज्योतिषां ज्योतिः’(बृ. उ. ४ । ४ । १६) इति । प्रपञ्चितं च एतत् ‘ज्योति­र्द­र्श­नात्’(ब्र. सू. १ । ३ । ४०) इत्यत्र ॥ ३ ॥

अविभागेन दृष्टत्वात् ॥ ४ ॥

परं ज्योति­रु­प­स­म्पद्य स्वेन रूपे­णा­भि­नि­ष्प­द्यते यः, स किं परस्मादात्मनः पृथगेव भवति, उत अवि­भा­गे­नै­वा­व­ति­ष्ठत इति वीक्षायाम् , ‘स तत्र पर्येति’(छा. उ. ८ । १२ । ३) इत्य­धि­क­र­णा­धि­क­र्त­व्य­नि­र्दे­शात् ‘ज्योति­रु­प­स­म्पद्य’(छा. उ. ८ । १२ । ३) इति च कर्तृ­क­र्म­नि­र्दे­शात् भेदे­नै­वा­व­स्था­न­मिति यस्य मतिः, तं व्युत्पादयति — अविभक्त एव परेण आत्मना मुक्तोऽवतिष्ठते । कुतः ? दृष्टत्वात्; तथा हि — ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) ‘अहं ब्रह्मास्मि’(बृ. उ. १ । ४ । १०) ‘यत्र नान्यत्पश्यति’(छा. उ. ७ । २४ । १) ‘न तु तद्द्वितीयमस्ति ततोऽ­न्य­द्वि­भक्तं यत्पश्येत्’(बृ. उ. ४ । ३ । २३) इत्येवमादीनि वाक्या­न्य­वि­भा­गे­नैव परमात्मानं दर्शयन्ति । यथादर्शनमेव च फलं युक्तम् , तत्क्र­तु­न्या­यात् । ‘यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम’(क. उ. २ । १ । १५) इति च एवमादीनि मुक्त­स्व­रू­प­नि­रू­प­ण­प­राणि वाक्या­न्य­वि­भा­ग­मेव दर्शयन्ति । नदी­स­मु­द्रा­दि­नि­द­र्श­नानि च । भेदनिर्देशस्तु अभे­देऽ­प्यु­प­च­र्यते ‘स भगवः कस्मि­न्प्र­ति­ष्ठित इति स्वे महिम्नि’(छा. उ. ७ । २४ । १) इति, ‘आत्म­र­ति­रा­त्म­क्रीडः’(छा. उ. ७ । २५ । २) इति च एवमादिदर्शनात् ॥ ४ ॥

ब्राह्मेण जैमि­नि­रु­प­न्या­सा­दिभ्यः ॥ ५ ॥

स्थितमेतत् ‘स्वेन रूपेण’(छा. उ. ८ । ३ । ४) इत्यत्र — आत्म­मा­त्र­रू­पे­णा­भि­नि­ष्प­द्यते, न आग­न्तु­के­ना­प­र­रू­पे­णेति । अधुना तु तद्वि­शे­ष­बु­भु­त्सा­या­म­भि­धी­यते — स्वम् अस्य रूपं ब्राह्मम् अप­ह­त­पा­प्म­त्वा­दि­स­त्य­स­ङ्क­ल्प­त्वा­व­सानं तथा सर्वज्ञत्वं सर्वेश्वरत्वं च, तेन स्वेन रूपे­णा­भि­नि­ष्प­द्यत इति जैमिनिराचार्यो मन्यते । कुतः ? उप­न्या­सा­दि­भ्य­स्त­था­त्वा­व­ग­मात्; तथा हि ‘य आत्मापहतपाप्मा’(छा. उ. ८ । ७ । १) इत्यादिना ‘सत्यकामः सत्यसङ्कल्पः’(छा. उ. ८ । ७ । १) इत्येवमन्तेन उपन्यासेन एव­मा­त्म­क­ता­मा­त्मनो बोधयति । तथा ‘स तत्र पर्येति जक्ष­त्क्री­डर­म­माणः’(छा. उ. ८ । १२ । ३) इति ऐश्व­र्य­रू­प­मा­वे­द­यति, ‘तस्य सर्वेषु लोकेषु कामचारो भवति’(छा. उ. ७ । २५ । २) इति च । ‘सर्वज्ञः सर्वेश्वरः’ इत्या­दि­व्य­प­दे­शाश्च एवमुपपन्ना भविष्यन्तीति ॥ ५ ॥

चितितन्मात्रेण तदा­त्म­क­त्वा­दि­त्यौ­डु­लोमिः ॥ ६ ॥

यद्यपि अप­ह­त­पा­प्म­त्वा­दयो भेदेनैव धर्मा निर्दिश्यन्ते, तथापि शब्द;विकल्पजा एव एते । पाप्मा­दि­नि­वृ­त्ति­मात्रं हि तत्र गम्यते । चैतन्यमेव तु अस्य आत्मनः स्वरूपमिति तन्मात्रेण स्वरूपेण अभि­नि­ष्प­त्ति­र्युक्ता तथा च श्रुतिः ‘एवं वा अरेऽ­य­मा­त्मा­न­न्त­रोऽ­बाह्यः कृत्स्नः प्रज्ञानघन एव’(बृ. उ. ४ । ५ । १३) इत्येवंजातीयका अनुगृहीता भविष्यति । सत्य­का­म­त्वा­द­यस्तु यद्यपि वस्तुस्वरूपेणैव धर्मा उच्यन्ते — सत्याः कामा अस्येति, तथापि उपा­धि­स­म्ब­न्धा­धी­न­त्वा­त्तेषां न चैतन्यवत् स्वरू­प­त्व­स­म्भवः, अने­का­का­र­त्व­प्र­ति­षे­धात् । प्रतिषिद्धं हि ब्रह्म­णोऽ­ने­का­का­र­त्वम् ‘न स्थानतोऽपि पर­स्यो­भ­य­लि­ङ्गम्’(ब्र. सू. ३ । २ । ११) इत्यत्र । अत एव च जक्ष­णा­दि­स­ङ्की­र्त­न­मपि दुःखा­भा­व­मा­त्रा­भि­प्रायं स्तुत्यर्थम् ‘आत्मरतिः’ इत्यादिवत् । न हि मुख्यान्येव रति­क्री­डा­मि­थु­नानि आत्मनि शक्यन्ते वर्णयितुम् , द्विती­य­वि­ष­य­त्वा­त्ते­षाम् । तस्मा­न्नि­र­स्ता­शे­ष­प्र­प­ञ्चेन प्रसन्नेन अव्यपदेश्येन बोधात्मना अभिनिष्पद्यत इत्यौ­डु­लो­मि­रा­चार्यो मन्यते ॥ ६ ॥

एव­म­प्यु­प­न्या­सा­त्पू­र्व­भा­वा­द­वि­रोधं बादरायणः ॥ ७ ॥

एवमपि पार­मा­र्थि­क­चै­त­न्य­मा­त्र­स्व­रू­पा­भ्यु­प­ग­मेऽपि व्यवहारापेक्षया पूर्वस्यापि उप­न्या­सा­दि­भ्योऽ­व­ग­तस्य ब्राह्मस्य ऐश्वर्यरूपस्य अप्र­त्या­ख्या­ना­द­वि­रोधं बादरायण आचार्यो मन्यते ॥ ७ ॥

सङ्कल्पादेव तु तच्छ्रुतेः ॥ ८ ॥

हार्दविद्यायां श्रूयते — ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’(छा. उ. ८ । २ । १) इत्यादि । तत्र संशयः — किं सङ्कल्प एव केवलः पित्रा­दि­स­मु­त्थाने हेतुः, उत निमि­त्ता­न्त­र­स­हित इति । तत्र सत्यपि ‘सङ्कल्पादेव’ इति श्रवणे लोकवत् निमि­त्ता­न्त­रा­पेक्षा युक्ता । यथा लोके अस्मदादीनां सङ्कल्पात् गमनादिभ्यश्च हेतुभ्यः पित्रा­दि­स­म्प­त्ति­र्भ­वति एवं मुक्तस्यापि स्यात् । एवं दृष्टविपरीतं न कल्पितं भविष्यति । ‘सङ्कल्पादेव’ इति तु राज्ञ इव सङ्क­ल्पि­ता­र्थ­सि­द्धि­करीं साध­ना­न्त­र­सा­मग्रीं सुलभामपेक्ष्य उच्यते । न च सङ्क­ल्प­मा­त्र­स­मु­त्थानाः पित्रादयः मनो­र­थ­वि­जृ­म्भि­त­वत् चञ्चलत्वात् पुष्कलं भोगं समर्पयितुं पर्याप्ताः स्युरिति । एवं प्राप्ते, ब्रूमः — सङ्कल्पादेव तु केवलात् पित्रा­दि­स­मु­त्था­न­मिति । कुतः ? तच्छ्रुतेः । ‘सङ्क­ल्पा­दे­वास्य पितरः समुत्तिष्ठन्ति’(छा. उ. ८ । २ । १) इत्यादिका हि श्रुति­र्नि­मि­त्ता­न्त­रा­पे­क्षायां पीड्येत । निमित्तान्तरमपि तु यदि सङ्क­ल्पा­नु­वि­धा­य्येव स्यात् , भवतु; न तु प्रय­त्ना­न्त­र­स­म्पाद्यं निमि­त्ता­न्त­र­मि­ती­ष्यते, प्राक्त­त्स­म्पत्तेः वन्ध्य­स­ङ्क­ल्प­त्व­प्र­स­ङ्गात् । न च श्रुत्य­व­ग­म्येऽर्थे लोकवदिति सामान्यतो दृष्टं क्रमते । सङ्कल्पबलादेव च एषां यावत्प्रयोजनं स्थैर्यो­प­पत्तिः, प्राकृ­त­स­ङ्क­ल्प­वि­ल­क्ष­ण­त्वा­न्मु­क्त­स­ङ्क­ल्पस्य ॥ ८ ॥

अत एव चानन्याधिपतिः ॥ ९ ॥

अत एव च अव­न्ध्य­स­ङ्क­ल्प­त्वात् अन­न्या­धि­प­ति­र्वि­द्वा­न्भ­वति — नास्या­न्योऽ­धि­प­ति­र्भ­व­ती­त्यर्थः । न हि प्राकृतोऽपि सङ्कल्पयन् अन्य­स्वा­मि­क­त्व­मा­त्मनः सत्यां गतौ सङ्कल्पयति । श्रुति­श्चै­त­द्द­र्श­यति — ‘अथ य इहा­त्मा­न­म­नु­विद्य व्रज­न्त्येताꣳश्च सत्या­न्का­माꣳस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति’(छा. उ. ८ । १ । ६) इति ॥ ९ ॥

अभावं बादरिराह ह्येवम् ॥ १० ॥

१०

‘सङ्क­ल्पा­दे­वास्य पितरः समुत्तिष्ठन्ति’(छा. उ. ८ । २ । १) इत्यतः श्रुतेः मन­स्ता­व­त्स­ङ्क­ल्प­सा­धनं सिद्धम् । शरीरेन्द्रियाणि पुनः प्राप्तै­श्व­र्यस्य विदुषः सन्ति, न वा सन्ति — इति समीक्ष्यते । तत्र बाद­रि­स्ता­व­दा­चार्यः शरी­र­स्ये­न्द्रि­याणां च अभावं महीयमानस्य विदुषो मन्यते । कस्मात् ? एवं हि आह आम्नायः — ‘मन­सै­ता­न्का­मा­न्प­श्यर­मते’(छा. उ. ८ । १२ । ५) ‘य एते ब्रह्मलोके’(छा. उ. ८ । १२ । ५) इति । यदि मनसा शरी­रे­न्द्रि­यैश्च विहरेत् मनसेति विशेषणं न स्यात् । तस्मादभावः शरी­रे­न्द्रि­याणां मोक्षे ॥ १० ॥

भावं जैमि­नि­र्वि­क­ल्पा­म­न­नात् ॥ ११ ॥

११

जैमि­नि­स्त्वा­चार्यः मनोवत् शरीरस्यापि सेन्द्रियस्य भावं मुक्तं प्रति मन्यते; यतः ‘स एकधा भवति त्रिधा भवति’(छा. उ. ७ । २६ । २) इत्यादिना अने­क­धा­भा­व­वि­क­ल्प­मा­म­नन्ति । न हि अनेकविधता विना शरीरभेदेन आञ्जसी स्यात् । यद्यपि निर्गुणायां भूमविद्यायाम् अय­म­ने­क­धा­भा­व­वि­कल्पः पठ्यते, तथापि विद्यमानमेवेदं सगुणावस्थायाम् ऐश्वर्यं भूम­वि­द्या­स्तु­तये सङ्कीर्त्यत इत्यतः सगु­ण­वि­द्या­फ­ल­भा­वेन उपतिष्ठत इत्युच्यते ॥ ११ ॥

द्वाद­शा­ह­व­दु­भ­य­विधं बादरायणोऽतः ॥ १२ ॥

१२

बादरायणः पुनराचार्यः अत एव उभ­य­लि­ङ्ग­श्रु­ति­द­र्श­नात् उभयविधत्वं साधु मन्यते — यदा सशरीरतां सङ्कल्पयति तदा सशरीरो भवति, यदा तु अशरीरतां तदा अशरीर इति; सत्य­स­ङ्क­ल्प­त्वात् , सङ्क­ल्प­वै­चि­त्र्याच्च । द्वादशाहवत् — यथा द्वादशाहः सत्रम् अहीनश्च भवति, उभ­य­लि­ङ्ग­श्रु­ति­द­र्श­नात् — एवमिदमपीति ॥ १२ ॥

तन्वभावे सन्ध्य­व­दु­प­पत्तेः ॥ १३ ॥

१३

यदा तनोः सेन्द्रियस्य शरीरस्य अभावः तदा, यथा सन्ध्ये स्थाने शरी­रे­न्द्रि­य­वि­ष­ये­ष्व­वि­द्य­मा­ने­ष्वपि उपलब्धिमात्रा एव पित्रादिकामा भवन्ति, एवं मोक्षेऽपि स्युः । एवं हि एतदुपपद्यते ॥ १३ ॥

भावे जाग्रद्वत् ॥ १४ ॥

१४

भावे पुनः तनोः, यथा जागरिते विद्यमाना एव पित्रादिकामा भवन्ति, एवं मुक्त­स्या­प्यु­प­प­द्यते ॥ १४ ॥

प्रदी­प­व­दा­वे­श­स्तथा हि दर्शयति ॥ १५ ॥

१५

‘भावं जैमि­नि­र्वि­क­ल्पा­म­न­नात्’(ब्र. सू. ४ । ४ । ११) इत्यत्र सशरीरत्वं मुक्तस्योक्तम् । तत्र त्रिधाभावादिषु अनेकशरीरसर्गे किं निरात्मकानि शरीराणि दारु­य­न्त्र­व­त्सृ­ज्यन्ते, किं वा सात्म­का­न्य­स्म­दा­दि­श­री­र­वत् — इति भवति वीक्षा । तत्र च आत्ममनसोः भेदानुपपत्तेः एकेन शरीरेण योगात् इतराणि शरीराणि निरात्मकानि — इत्येवं प्राप्ते, प्रतिपद्यते — प्रदीपवदावेश इति । यथा प्रदीप एकः अने­क­प्र­दी­प­भा­व­मा­प­द्यते, विका­र­श­क्ति­यो­गात् , एवमेकोऽपि सन् विद्वान् ऐश्व­र्य­यो­गा­द­ने­क­भा­व­मा­पद्य सर्वाणि शरीराण्याविशति । कुतः ? तथा हि दर्शयति शास्त्र­मे­क­स्या­ने­क­भा­वम् — ‘स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा’(छा. उ. ७ । २६ । २) इत्यादि । नैत­द्दा­रु­य­न्त्रो­प­मा­भ्यु­प­ग­मेऽ­व­क­ल्पते, नापि जीवान्तरावेशे । न च निरात्मकानां शरीराणां प्रवृत्तिः सम्भवति । यत्तु आत्म­म­न­सो­र्भे­दा­नु­प­पत्तेः अने­क­श­री­र­यो­गा­स­म्भव इति — नैष दोषः; एकमनोनुवर्तीनि सम­न­स्का­न्ये­वा­प­राणि शरीराणि सत्य­स­ङ्क­ल्प­त्वात् स्रक्ष्यति । सृष्टेषु च तेषु उपाधिभेदात् आत्मनोऽपि भेदे­ना­धि­ष्ठा­तृत्वं योक्ष्यते । एषैव च योगशास्त्रेषु योगि­ना­म­ने­क­श­री­र­यो­ग­प्र­क्रिया ॥ १५ ॥

कथं पुनः मुक्तस्य अने­क­श­री­रा­वे­शा­दि­ल­क्ष­ण­मै­श्व­र्य­म­भ्यु­प­ग­म्यते, यावता ‘तत्केन कं विजानीयात्’(बृ. उ. ४ । ५ । १५) ‘न तु तद्द्वितीयमस्ति ततोऽ­न्य­द्वि­भक्तं यद्विजानीयात्’(बृ. उ. ४ । ३ । ३०) ‘सलिल एको द्रष्टाऽद्वैतो भवति’(बृ. उ. ४ । ३ । ३२) इति च एवंजातीयका श्रुतिः विशेषविज्ञानं वारयति — इत्यत उत्तरं पठति —

स्वाप्य­य­स­म्प­त्त्यो­र­न्य­त­रा­पे­क्ष­मा­वि­ष्कृतं हि ॥ १६ ॥

१६

स्वाप्ययः सुषुप्तम् , ‘स्वमपीतो भवति तस्मादेनꣳ स्वपि­ती­त्या­च­क्षते’(छा. उ. ६ । ८ । १) इति श्रुतेः । सम्पत्तिः कैवल्यम् , ‘ब्रह्मैव सन्ब्र­ह्मा­प्येति’(बृ. उ. ४ । ४ । ६) इति श्रुतेः । तयो­र­न्य­त­रा­म­व­स्था­म­पेक्ष्य एतत् विशे­ष­सं­ज्ञाऽ­भा­व­व­च­नम् — क्वचित् सुषु­प्ता­व­स्था­म­पे­क्ष्यो­च्यते, क्वचि­त्कै­व­ल्या­व­स्थाम् । कथमवगम्यते ? यतस्तत्रैव एतदधिकारवशात् आविष्कृतम् — ‘एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्तीति’(बृ. उ. २ । ४ । १२) , ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भूत्’(बृ. उ. २ । ४ । १४) ‘यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति’(बृ. उ. ४ । ३ । १९) , इत्या­दि­श्रु­तिभ्यः । सगु­ण­वि­द्या­वि­पा­का­व­स्थानं तु एतत् स्वर्गादिवत् अवस्थान्तरम् , यत्रै­त­दै­श्व­र्य­मु­प­व­र्ण्यते । तस्माददोषः ॥ १६ ॥

जग­द्व्या­पा­र­वर्जं प्रक­र­णा­द­स­न्नि­हि­त­त्वाच्च ॥ १७ ॥

१७

ये सगु­ण­ब्र­ह्मो­पा­स­नात् सहैव मनसा ईश्वरसायुज्यं व्रजन्ति, किं तेषां निर­व­ग्र­ह­मै­श्वर्यं भवति, आहो­स्वि­त्सा­व­ग्र­ह­मिति संशयः । किं तावत्प्राप्तम् ? निरङ्कुशमेव एषामैश्वर्यं भवितुमर्हति, ‘आप्नोति स्वाराज्यम्’(तै. उ. १ । ६ । २) ‘सर्वेऽस्मै देवा बलिमावहन्ति’(तै. उ. १ । ५ । ३) ‘तेषां सर्वेषु लोकेषु कामचारो भवति’(छा. उ. ७ । २५ । २) इत्या­दि­श्रु­तिभ्य इति । एवं प्राप्ते, पठति — जग­द्व्या­पा­र­व­र्ज­मिति । जग­दु­त्प­त्त्या­दि­व्या­पारं वर्जयित्वा अन्यत् अणि­मा­द्या­त्म­क­मै­श्वर्यं मुक्तानां भवितुमर्हति, जगद्व्यापारस्तु नित्यसिद्धस्यैव ईश्वरस्य । कुतः ? तस्य तत्र प्रकृतत्वात्; अस­न्नि­हि­त­त्वा­च्चे­त­रे­षाम् । पर एव हि ईश्वरो जग­द्व्या­पा­रेऽ­धि­कृतः, तमेव प्रकृत्य उत्प­त्त्या­द्यु­प­दे­शात् , नित्य­श­ब्द­नि­ब­न्ध­न­त्वाच्च । तद­न्वे­ष­ण­वि­जि­ज्ञा­स­न­पू­र्वकं तु इत­रे­षा­म­णि­मा­द्यै­श्वर्यं श्रूयते । तेना­स­न्नि­हि­तास्ते जगद्व्यापारे । समनस्कत्वादेव च एतेषामनैकमत्ये, कस्य­चि­त्स्थि­त्य­भि­प्रायः कस्य­चि­त्सं­हा­रा­भि­प्राय इत्येवं विरोधोऽपि कदाचित्स्यात् । अथ कस्यचित् सङ्कल्पमनु अन्यस्य सङ्कल्प इत्यविरोधः समर्थ्येत, ततः पर­मे­श्व­रा­कू­त­त­न्त्र­त्व­मे­वे­त­रे­षा­मिति व्यवतिष्ठते ॥ १७ ॥

प्रत्य­क्षो­प­दे­शा­दिति चेन्ना­धि­का­रि­क­म­ण्ड­ल­स्थोक्तेः ॥ १८ ॥

१८

अथ यदुक्तम् — ‘आप्नोति स्वाराज्यम्’(तै. उ. १ । ६ । २) इत्या­दि­प्र­त्य­क्षो­प­दे­शात् निर­व­ग्र­ह­मै­श्वर्यं विदुषां न्याय्यमिति, तत्परिहर्तव्यम् । अत्रोच्यते — नायं दोषः, आधि­का­रि­क­म­ण्ड­ल­स्थोक्तेः । आधिकारिको यः सवितृमण्डलादिषु विशे­षा­य­त­ने­ष्व­व­स्थितः पर ईश्वरः, तदायत्तैव इयं स्वारा­ज्य­प्रा­प्ति­रु­च्यते; यत्कारणम् अनन्तरम् ‘आप्नोति मनसस्पतिम्’(तै. उ. १ । ६ । २) इत्याह । यो हि सर्वमनसां पतिः पूर्वसिद्ध ईश्वरः तं प्राप्नो­ती­त्ये­त­दुक्तं भवति । तदनुसारेणैव च अनन्तरम् ‘वाक्प­ति­श्च­क्षु­ष्पतिः । श्रोत्र­प­ति­र्वि­ज्ञा­न­पतिः’ च भवति इत्याह । एवमन्यत्रापि यथासम्भवं नित्य­सि­द्धे­श्व­रा­य­त्त­मेव इतरेषामैश्वर्यं योजयितव्यम् ॥ १८ ॥

विकारावर्ति च तथा हि स्थितिमाह ॥ १९ ॥

१९

विकारावर्त्यपि च नित्यमुक्तं पारमेश्वरं रूपम् , न केवलं विकारमात्रगोचरं सवि­तृ­म­ण्ड­ला­द्य­धि­ष्ठा­नम् । तथा हि अस्य द्विरूपां स्थितिमाह आम्नायः — ‘तावानस्य महिमा ततो ज्यायाꣳश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’(छा. उ. ३ । १२ । ६) इत्येवमादिः । न च तत् निर्विकारं रूपम् इतरालम्बनाः प्राप्नुवन्तीति शक्यं वक्तुम् अत­त्क्र­तु­त्वा­त्ते­षाम् । अतश्च यथैव द्विरूपे परमेश्वरे निर्गुणं रूपमनवाप्य सगुण एवावतिष्ठन्ते, एवं सगुणेऽपि निर­व­ग्र­ह­मै­श्व­र्य­म­न­वाप्य सावग्रह एवावतिष्ठन्त इति द्रष्टव्यम् ॥ १९ ॥

दर्शयतश्चैवं प्रत्य­क्षा­नु­माने ॥ २० ॥

२०

दर्शयतश्च विकारावर्तित्वं परस्य ज्योतिषः श्रुतिस्मृती — ‘न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः’(मु. उ. २ । २ । ११) इति, ‘न तद्भासयते सूर्यो न शशाङ्को न पावकः’(भ. गी. १५ । ६) इति च । तदेवं विकारावर्तित्वं परस्य ज्योतिषः प्रसि­द्ध­मि­त्य­भि­प्रायः ॥ २० ॥

भोग­मा­त्र­सा­म्य­लि­ङ्गाच्च ॥ २१ ॥

२१

इतश्च न निरङ्कुशं विका­रा­ल­म्ब­ना­ना­मै­श्व­र्यम् , यस्मात् भोगमात्रमेव एषाम् अना­दि­सि­द्धे­ने­श्व­रेण समानमिति श्रूयते — ‘तमाहापो वै खलु मीयन्ते लोकोऽसौ’ इति ‘स यथैतां देवताꣳ सर्वाणि भूता­न्य­व­न्त्येवꣳ हैवंविदꣳ सर्वाणि भूतान्यवन्ति’ ‘तेनो एतस्यै देवतायै सायुज्यꣳ सलोकतां जयति’(बृ. उ. १ । ५ । २३) इत्या­दि­भे­द­व्य­प­दे­श­लि­ङ्गेभ्यः ॥ २१ ॥

ननु एवं सति साति­श­य­त्वा­द­न्त­व­त्त्वम् ऐश्वर्यस्य स्यात् । ततश्च एषामावृत्तिः प्रसज्येत — इत्यतः उत्तरं भगवान्बादरायण आचार्यः पठति —

अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥ २२ ॥

२२

नाडी­र­श्मि­स­म­न्वि­तेन अर्चिरादिपर्वणा देवयानेन पथा ये ब्रह्मलोकं शास्त्रो­क्त­वि­शे­षणं गच्छन्ति — यस्मिन्नरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि, यस्मिन्नैरं मदीयं सरः, यस्मिन्नश्वत्थः सोमसवनः, यस्मिन्नपराजिता पूर्ब्रह्मणः, यस्मिंश्च प्रभुविमितं हिरण्मयं वेश्म, यश्चानेकधा मन्त्रा­र्थ­वा­दा­दि­प्र­दे­शेषु प्रपञ्च्यते — ते तं प्राप्य न चन्द्रलोकादिव भुक्तभोगा आवर्तन्ते । कुतः ? ‘तयो­र्ध्व­मा­य­न्न­मृ­त­त्व­मेति’(छा. उ. ८ । ६ । ६) ‘तेषां न पुनरावृत्तिः’(बृ. उ. ६ । २ । १५) ‘एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते’(छा. उ. ४ । १५ । ५) ‘ब्रह्म­लो­क­म­भि­स­म्प­द्यते’(छा. उ. ८ । १५ । १) ‘न च पुनरावर्तते’ इत्या­दि­श­ब्देभ्यः । अन्तवत्त्वेऽपि तु ऐश्वर्यस्य यथा अनावृत्तिः तथा वर्णितम् — ‘कार्यात्यये तदध्यक्षेण सहातः परम्’(ब्र. सू. ४ । ३ । १०) इत्यत्र । सम्य­ग्द­र्श­न­वि­ध्व­स्त­त­मसां तु नित्य­सि­द्ध­नि­र्वा­ण­प­रा­य­णानां सिद्धैव अनावृत्तिः । तदाश्रयणेनैव हि सगु­ण­श­र­णा­ना­म­प्य­ना­वृ­त्ति­सि­द्धि­रिति । अनावृत्तिः शब्दादनावृत्तिः शब्दात् — इति सूत्राभ्यासः शास्त्र­प­रि­स­माप्तिं द्योतयति ॥ २२ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य
श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ शारी­र­क­मी­मां­सा­सू­त्र­भाष्ये
चतुर्थोऽध्यायः ॥

इति श्रीम­च्छा­री­र­क­मी­मां­सा­सू­त्र­भाष्यं सम्पूर्णम् ॥