अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यम्

प्रथमोऽध्यायः

व्याख्याः

प्रथमं ब्राह्मणम्

ओं नमो ब्रह्मादिभ्यो ब्रह्म­वि­द्या­स­म्प्र­दा­य­क­र्तृभ्यो वंशऋषिभ्यो नमो गुरुभ्यः ।

‘उषा वा अश्वस्य’(बृ. उ. १ । १ । १) इत्येवमाद्या वाज­स­ने­यि­ब्रा­ह्म­णो­प­नि­षत् । तस्या इयमल्पग्रन्था वृत्तिः आरभ्यते, संसा­र­व्या­वि­वृ­त्सुभ्यः संसा­र­हे­तु­नि­वृ­त्ति­सा­ध­न­ब्र­ह्मा­त्मै­क­त्व­वि­द्या­प्र­ति­प­त्तये । सेयं ब्रह्मविद्या उप­नि­ष­च्छ­ब्द­वाच्या, तत्पराणां सहेतोः संसा­र­स्या­त्य­न्ता­व­सा­द­नात् ; उपनिपूर्वस्य सदे­स्त­द­र्थ­त्वात् । ताद­र्थ्या­द्ग्र­न्थोऽ­प्यु­प­नि­ष­दु­च्यते । सेयं षडध्यायी अर­ण्येऽ­नू­च्य­मा­न­त्वा­दा­र­ण्य­कम् ; बृह­त्त्वा­त्प­रि­मा­णतो बृहदारण्यकम् ॥

तस्यास्य कर्मकाण्डेन सम्ब­न्धोऽ­भि­धी­यते । सर्वोऽप्ययं वेदः प्रत्य­क्षा­नु­मा­ना­भ्या­म­न­व­ग­ते­ष्टा­नि­ष्ट­प्रा­प्ति­प­रि­हा­रो­पा­य­प्र­का­श­न­परः, सर्वपुरुषाणां निसर्गत एव तत्प्रा­प्ति­प­रि­हा­र­यो­रि­ष्ट­त्वात् । दृष्टविषये चेष्टा­नि­ष्ट­प्रा­प्ति­प­रि­हा­रो­पा­य­ज्ञा­नस्य प्रत्य­क्षा­नु­मा­ना­भ्या­मेव सिद्धत्वात् नागमान्वेषणा । न चासति जन्मा­न्त­र­स­म्ब­न्ध्या­त्मा­स्ति­त्व­वि­ज्ञाने जन्मा­न्त­रे­ष्टा­नि­ष्ट­प्रा­प्ति­प­रि­हा­रेच्छा स्यात् ; स्वभा­व­वा­दि­द­र्श­नात् । तस्मा­ज्ज­न्मा­न्त­र­स­म्ब­न्ध्या­त्मा­स्तित्वे जन्मा­न्त­रे­ष्टा­नि­ष्ट­प्रा­प्ति­प­रि­हा­रो­पा­य­वि­शेषे च शास्त्रं प्रवर्तते । ‘येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके’(क. उ. १ । १ । २०) इत्युपक्रम्य ‘अस्ती­त्ये­वो­प­ल­ब्धव्यः’(क. उ. २ । ३ । १३) इत्ये­व­मा­दि­नि­र्ण­य­द­र्श­नात् ; ‘यथा च मरणं प्राप्य’(क. उ. २ । २ । ६) इत्युपक्रम्य ‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणु­म­न्येऽ­नु­सं­यन्ति यथाकर्म यथाश्रुतम्’(क. उ. २ । २ । ७) इति च ; ‘स्वयं ज्योतिः’(बृ. उ. ४ । ३ । ९) इत्युपक्रम्य ‘तं विद्याकर्मणी समन्वारभेते’(बृ. उ. ४ । ४ । २) ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’(बृ. उ. ३ । २ । १३) इति च ; ‘ज्ञपयिष्यामि’(बृ. उ. २ । १ । १५) इत्युपक्रम्य ‘विज्ञानमयः’(बृ. उ. २ । १ । १६) इति च — व्यति­रि­क्ता­त्मा­स्ति­त्वम् । तत्प्र­त्य­क्ष­वि­ष­य­मे­वेति चेत् , न ; वादि­वि­प्र­ति­प­त्ति­द­र्श­नात् । न हि देहा­न्त­र­स­म्ब­न्धिन आत्मनः प्रत्य­क्षे­णा­स्ति­त्व­वि­ज्ञाने लोकायतिका बौद्धाश्च नः प्रतिकूलाः स्युः नास्त्यात्मेति वदन्तः । न हि घटादौ प्रत्यक्षविषये कश्चि­द्वि­प्र­ति­प­द्यते, नास्ति घट इति । स्थाण्वादौ पुरु­षा­दि­द­र्श­ना­न्नेति चेत् , न ; निरूपितेऽभावात् । न हि प्रत्यक्षेण निरूपिते स्थाण्वादौ विप्र­ति­प­त्ति­र्भ­वति । वैना­शि­का­स्त्व­ह­मिति प्रत्यये जायमानेऽपि देहा­न्त­र­व्य­ति­रि­क्तस्य नास्तित्वमेव प्रतिजानते । तस्मा­त्प्र­त्य­क्ष­वि­ष­य­वै­ल­क्ष­ण्यात् प्रत्य­क्षा­न्ना­त्मा­स्ति­त्व­सिद्धिः । तथानुमानादपि । श्रुत्या आत्मास्तित्वे लिङ्गस्य दर्शितत्वात् लिङ्गस्य च प्रत्य­क्ष­वि­ष­य­त्वात् नेति चेत् , न ; जन्मा­न्त­र­स­म्ब­न्ध­स्या­ग्र­ह­णात् । आगमेन त्वात्मा­स्ति­त्वेऽ­व­गते वेद­प्र­द­र्शि­त­लौ­कि­क­लि­ङ्ग­वि­शे­षैश्च, तदनुसारिणो मीमां­स­का­स्ता­र्कि­का­श्चा­हं­प्र­त्य­य­लि­ङ्गानि च वैदिकान्येव स्वम­ति­प्र­भ­वा­णीति कल्पयन्तो वदन्ति प्रत्य­क्ष­श्चा­नु­मे­य­श्चा­त्मेति ॥

सर्व­था­प्य­स्त्यात्मा देहा­न्त­र­स­म्ब­न्धी­त्येवं प्रति­प­त्तु­र्दे­हा­न्त­र­ग­ते­ष्टा­नि­ष्ट­प्रा­प्ति­प­रि­हा­रो­पा­य­वि­शे­षा­र्थि­न­स्त­द्वि­शे­ष­ज्ञा­प­नाय कर्म­का­ण्ड­मा­र­ब्धम् । न त्वात्मनः इष्टा­नि­ष्ट­प्रा­प्ति­प­रि­हा­रे­च्छा­का­र­ण­मा­त्म­वि­ष­य­म­ज्ञानं कर्तृ­भो­क्तृ­स्व­रू­पा­भि­मा­न­ल­क्षणं तद्वि­प­री­त­ब्र­ह्मा­त्म­स्व­रू­प­वि­ज्ञा­ने­ना­प­नी­तम् । यावद्धि तन्नापनीयते, तावदयं कर्म­फ­ल­रा­ग­द्वे­षा­दि­स्वा­भा­वि­क­दो­ष­प्र­युक्तः शास्त्र­वि­हि­त­प्र­ति­षि­द्धा­ति­क्र­मे­णापि प्रवर्तमानो मनो­वा­क्का­यै­र्दृ­ष्टा­दृ­ष्टा­नि­ष्ट­सा­ध­ना­न्य­ध­र्म­सं­ज्ञ­कानि कर्मा­ण्यु­प­चि­नोति बाहुल्येन, स्वाभा­वि­क­दो­ष­ब­ली­य­स्त्वात् । ततः स्थाव­रा­न्ता­धो­गतिः । कदा­चि­च्छा­स्त्र­कृ­त­सं­स्का­र­ब­ली­य­स्त्वम् । ततो मन­आ­दि­भि­रि­ष्ट­सा­धनं बाहु­ल्ये­नो­प­चि­नोति धर्माख्यम् । तद्द्विविधम् — ज्ञानपूर्वकं केवलं च । तत्र केवलं पितृ­लो­का­दि­प्रा­प्ति­फ­लम् । ज्ञानपूर्वकं देव­लो­का­दि­ब्र­ह्म­लो­का­न्त­प्रा­प्ति­फ­लम् । तथा च शास्त्रम् — ‘आत्मयाजी श्रेया­न्दे­व­या­जिनः’(शत. ब्रा. १ । २ । ६ । ११३) इत्यादि । स्मृतिश्च ‘द्विविधं कर्म वैदिकम्’(मनु. १२ । ८८) इत्याद्या । साम्ये च धर्मा­ध­र्म­यो­र्म­नु­ष्य­त्व­प्राप्तिः । एवं ब्रह्माद्या स्थावरान्ता स्वाभा­वि­का­वि­द्या­दि­दो­ष­वती धर्मा­ध­र्म­सा­ध­न­कृता संसा­र­ग­ति­र्ना­म­रू­प­क­र्मा­श्रया । तदेवेदं व्याकृतं साध्यसाधनरूपं जगत् प्रागु­त्प­त्ते­र­व्या­कृ­त­मा­सीत् । स एष बीजा­ङ्कु­रा­दि­व­द­वि­द्या­कृतः संसारः आत्मनि क्रिया­का­र­क­फ­ला­ध्या­रो­प­ल­क्ष­णोऽ­ना­दि­र­न­न्तोऽ­नर्थ इत्ये­त­स्मा­द्वि­र­क्त­स्या­वि­द्या­नि­वृ­त्तये तद्वि­प­री­त­ब्र­ह्म­वि­द्या­प्र­ति­प­त्त्य­र्थो­प­नि­ष­दा­र­भ्यते ॥

अस्य त्वश्व­मे­ध­क­र्म­स­म्ब­न्धिनो विज्ञानस्य प्रयोजनम् — येषामश्वमेधे नाधिकारः, तेषामस्मादेव विज्ञा­ना­त्त­त्फ­ल­प्राप्तिः, विद्यया वा कर्मणा वा, ‘तद्धै­त­ल्लो­क­जि­देव’(बृ. उ. १ । ३ । २८) इत्ये­व­मा­दि­श्रु­तिभ्यः । कर्मविषयत्वमेव विज्ञानस्येति चेत् , न ; ‘योऽश्वमेधेन यजते य उ चैनमेवं वेद’(तै. सं. ५ । ३ । १२) इति विकल्पश्रुतेः । विद्याप्रकरणे चाम्नानात् , कर्मान्तरे च सम्पादनदर्शनात् , विज्ञा­ना­त्त­त्फ­ल­प्रा­प्ति­र­स्ती­त्य­व­ग­म्यते । सर्वेषां च कर्मणां परं कर्माश्वमेधः, सम­ष्टि­व्य­ष्टि­प्रा­प्ति­फ­ल­त्वात् । तस्य चेह ब्रह्म­वि­द्या­प्रा­रम्भे आम्नानं सर्वकर्मणां संसा­र­वि­ष­य­त्व­प्र­द­र्श­ना­र्थम् । तथा च दर्शयिष्यति फल­म­श­ना­या­मृ­त्यु­भा­वम् । न नित्यानां संसा­र­वि­ष­य­फ­ल­त्व­मिति चेत् , न ; सर्व­क­र्म­फ­लो­प­सं­हा­र­श्रुतेः । सर्वं हि पत्नीसम्बद्धं कर्म ; ‘जाया मे स्यादेतावान्वै कामः’(बृ. उ. १ । ४ । १७) इति निसर्गत एव सर्वकर्मणां काम्यत्वं दर्शयित्वा, पुत्र­क­र्मा­प­र­वि­द्यानां च ‘अयं लोकः पितृलोको देवलोकः’ इति फलं दर्शयित्वा, त्र्यन्ना­त्म­कतां चान्ते उपसंहरिष्यति ‘त्रयं वा इदं नाम रूपं कर्म’(बृ. उ. १ । ६ । १) इति — सर्वकर्मणां फलं व्याकृतं संसार एवेति । इदमेव त्रयं प्रागु­त्प­त्ते­स्त­र्ह्य­व्या­कृ­त­मा­सीत् । तदेव पुनः सर्व­प्रा­णि­क­र्म­व­शा­द्व्या­क्रि­यते बीजादिव वृक्षः । सोऽयं व्याकृ­ता­व्या­कृ­त­रूपः संसा­रोऽ­वि­द्या­वि­षयः क्रिया­का­र­क­फ­ला­त्म­क­त­या­त्म­रू­प­त्वे­ना­ध्या­रो­पि­तोऽ­वि­द्य­यैव मूर्ता­मू­र्त­त­द्वा­स­ना­त्मकः । अतो विल­क्ष­णोऽ­ना­म­रू­प­क­र्मा­त्म­कोऽ­द्वयो नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भा­वोऽपि क्रिया­का­र­क­फ­ल­भे­दा­दि­वि­प­र्य­ये­णा­व­भा­सते । अतोऽ­स्मा­त्क्रि­या­का­र­क­फ­ल­भे­द­स्व­रू­पात् ‘एतावदिदम्’ इति साध्य­सा­ध­न­रू­पा­द्वि­र­क्तस्य कामा­दि­दो­ष­क­र्म­बी­ज­भू­ता­वि­द्या­नि­वृ­त्तये रज्ज्वामिव सर्प­वि­ज्ञा­ना­प­न­याय ब्रह्मविद्या आरभ्यते ॥

तत्र ताव­द­श्व­मे­ध­वि­ज्ञा­नाय ‘उषा वा अश्वस्य’ इत्यादि । तत्राश्वविषयमेव दर्शनमुच्यते, प्राधा­न्या­द­श्वस्य । प्राधान्यं च तन्ना­मा­ङ्कि­त­त्वा­त्क्रतोः प्राजा­प­त्य­त्वाच्च ॥

ओं । उषा वा अश्वस्य मेध्यस्य शिरः । सूर्य­श्च­क्षु­र्वातः प्राणो व्यात्त­म­ग्नि­र्वै­श्वा­नरः संवत्सर आत्माश्वस्य मेध्यस्य । द्यौः पृष्ठ­म­न्त­रि­क्ष­मु­दरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासा­श्चा­र्ध­मा­साश्च पर्वा­ण्य­हो­रा­त्राणि प्रतिष्ठा नक्ष­त्रा­ण्य­स्थीनि नभो मांसानि । ऊवध्यं सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमा­न्यु­द्य­न्पू­र्वार्धो निम्लो­च­ञ्ज­घ­नार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक् ॥ १ ॥

उषा इति, ब्राह्मो मुहूर्तः उषाः ; वैशब्दः स्मारणार्थः, प्रसिद्धं कालं स्मारयति ; शिरः, प्राधान्यात् ; शिरश्च प्रधानं शरीरावयवानाम् ; अश्वस्य, मेध्यस्य मेधार्हस्य यज्ञियस्य, उषाः शिर इति सम्बन्धः । कर्माङ्गस्य पशोः संस्क­र्त­व्य­त्वा­त्का­ला­दि­दृ­ष्टयः शिरआदिषु क्षिप्यन्ते ; प्राजापत्यत्वं च प्रजा­प­ति­दृ­ष्ट्य­ध्या­रो­प­णात् ; काल­लो­क­दे­व­ता­त्वा­ध्या­रो­पणं च प्रजापतित्वकरणं पशोः ; एवंरूपो हि प्रजापतिः ; विष्णु­त्वा­दि­क­र­ण­मिव प्रतिमादौ । सूर्यश्चक्षुः, शिर­सोऽ­न­न्त­र­त्वा­त्सू­र्या­धि­दै­व­त­त्वाच्च ; वातः प्राणः, वायु­स्वा­भा­व्यात् ; व्यात्तं विवृतं मुखम् अग्नि­र्वै­श्वा­नरः ; वैश्वानर इत्य­ग्ने­र्वि­शे­ष­णम् ; वैश्वानरो नामा­ग्नि­र्वि­वृतं मुखमित्यर्थः, मुख­स्या­ग्नि­दै­व­त­त्वात् ; संवत्सर आत्मा ; संवत्सरो द्वाद­श­मा­स­स्त्र­यो­द­श­मासो वा ; आत्मा शरीरम् ; कालावयवानां च संवत्सरः शरीरम् ; शरीरं चात्मा, ‘मध्यं ह्येषा­म­ङ्गा­ना­मात्मा’(ऐ. आ. २ । ३ । ५) इति श्रुतेः ; अश्वस्य मेध्यस्येति सर्व­त्रा­नु­ष­ङ्गार्थं पुनर्वचनम् । द्यौः पृष्ठम् , ऊर्ध्व­त्व­सा­मा­न्यात् ; अन्तरिक्षमुदरम् , सुषि­र­त्व­सा­मा­न्यात् ; पृथिवी पाजस्यं पादस्यम् , पाजस्यमिति वर्णव्यत्ययेन, पादा­स­न­स्था­न­मि­त्यर्थः ; दिशश्चतस्रोऽपि पार्श्वे, पार्श्वेन दिशां सम्बन्धात् ; पार्श्व­यो­र्दिशां च सङ्ख्या­वै­ष­म्या­द­यु­क्त­मिति चेत् , न ; सर्व­मु­ख­त्वो­प­प­त्ते­र­श्वस्य पार्श्वाभ्यामेव सर्वदिशां सम्बन्धाददोषः ; अवान्तरदिश आग्नेय्याद्याः पर्शवः पार्श्वास्थीनि ; ऋतवोऽङ्गानि, संव­त्स­रा­व­य­व­त्वा­द­ङ्ग­सा­ध­र्म्यात् ; मासा­श्चा­र्ध­मा­साश्च पर्वाणि सन्धयः, सन्धिसामान्यात् ; अहोरात्राणि प्रतिष्ठाः ; बहु­व­च­ना­त्प्रा­जा­प­त्य­दै­व­पि­त्र्य­मा­नु­षाणि ; प्रतिष्ठाः पादाः, प्रति­ति­ष्ठ­त्ये­तै­रिति ; अहोरात्रैर्हि कालात्मा प्रतितिष्ठति, अश्वश्च पादैः ; नक्ष­त्रा­ण्य­स्थीनि, शुक्ल­त्व­सा­मा­न्यात् ; नभो नभःस्था मेघाः, अन्त­रि­क्ष­स्यो­द­र­त्वोक्तेः ; मांसानि, उद­क­रु­धि­र­से­च­न­सा­मा­न्यात् । ऊवध्यम् उद­र­स्थ­म­र्ध­जी­र्ण­म­शनं सिकताः, विश्लि­ष्टा­व­य­व­त्व­सा­मा­न्यात् ; सिन्धवः स्यन्द­न­सा­मा­न्यात् नद्यः गुदा नाड्यः, बहुवचनाच्च ; यकृच्च क्लोमानश्च हृद­य­स्या­ध­स्ता­द्द­क्षि­णो­त्तरौ मांसखण्डौ ; क्लोमान इति नित्यं बहु­व­च­न­मे­क­स्मि­न्नेव ; पर्वताः, काठि­न्या­दु­च्छ्रि­त­त्वाच्च ; ओषधयश्च क्षुद्राः स्थावराः, वनस्पतयो महान्तः, लोमानि केशाश्च यथासम्भवम् ; उद्य­न्नु­द्ग­च्छ­न्भ­वति सविता आ मध्याह्नात् अश्वस्य पूर्वार्धः नाभे­रू­र्ध्व­मि­त्यर्थः ; निम्लोचन्नस्तं यन् आ मध्याह्नात् जघ­ना­र्धोऽ­प­रार्धः, पूर्वा­प­र­त्व­सा­ध­र्म्यात् ; यद्विजृम्भते गात्राणि विनामयति विक्षिपति, तद्विद्योतते विद्योतनम् , मुख­घ­न­वि­दा­र­ण­सा­मा­न्यात् ; यद्विधूनुते गात्राणि कम्पयति, तत्स्तनयति, गर्ज­न­श­ब्द­सा­मा­न्यात् ; यन्मेहति मूत्रं करोत्यश्वः, तद्वर्षति वर्षणं तत् , सेचनसामान्यात् ; वागेव शब्द एव अस्याश्वस्य वागिति, नात्र कल्पनेत्यर्थः ॥

अहर्वा अश्वं पुर­स्ता­न्म­हि­मा­न्व­जा­यत तस्य पूर्वे समुद्रे योनी रात्रिरेनं पश्चा­न्म­हि­मा­न्व­जा­यत तस्यापरे समुद्रे योनिरेतौ वा अश्वं महिमानावभितः सम्बभूवतुः । हयो भूत्वा देवानवहद्वाजी गन्ध­र्वा­न­र्वा­सु­रा­नश्वो मनुष्यान्समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ २ ॥

अहर्वा इति, सौवर्णराजतौ महिमाख्यौ ग्रहा­व­श्व­स्या­ग्रतः पृष्ठतश्च स्थाप्येते, तद्विषयमिदं दर्शनम् । अहः सौवर्णो ग्रहः, दीप्ति­सा­मा­न्याद्वै । अहरश्वं पुर­स्ता­न्म­हि­मा­न्व­जा­य­तेति कथम् ? अश्वस्य प्रजापतित्वात् ; प्रजा­प­ति­र्ह्या­दि­त्या­दि­ल­क्ष­णोऽह्ना लक्ष्यते ; अश्वं लक्षयित्वाजायत सौवर्णो महिमा ग्रहः, वृक्षमनु विद्योतते विद्युदिति यद्वत् । तस्य ग्रहस्य पूर्वे पूर्वः समुद्रे समुद्रः योनिः, विभ­क्ति­व्य­त्य­येन ; योनि­रि­त्या­सा­द­न­स्था­नम् । तथा रात्री राजतो ग्रहः, वर्ण­सा­मा­न्या­ज्ज­घ­न्य­त्व­सा­मा­न्याद्वा । एनमश्वं पश्चात्पृष्ठतो महिमा अन्वजायत ; तस्यापरे समुद्रे योनिः । महिमा महत्त्वात् । अश्वस्य हि विभूतिरेषा, यत्सौवर्णो राजतश्च ग्रहावुभयतः स्थाप्येते । तावेतौ वै महिमानौ महिमाख्यौ ग्रहौ, अश्वमभितः सम्बभूवतुः उक्तलक्षणावेव सम्भूतौ । इत्थमसावश्वो महत्त्वयुक्त इति पुनर्वचनं स्तुत्यर्थम् । तथा च हयो भूत्वेत्यादि स्तुत्यर्थमेव । हयो हिनो­ते­र्ग­ति­क­र्मणः, विशि­ष्ट­ग­ति­रि­त्यर्थः ; जातिविशेषो वा ; देवानवहत् देवत्वमगमयत् , प्रजापतित्वात् ; देवानां वा वोढाभवत् ; ननु निन्दैव वाहनत्वम् ; नैष दोषः ; वाहनत्वं स्वाभा­वि­क­म­श्वस्य, स्वाभा­वि­क­त्वा­दु­च्छ्रा­य­प्रा­प्ति­र्दे­वा­दि­स­म्ब­न्धोऽ­श्वस्य इति स्तुतिरेवैषा । तथा वाज्यादयो जातिविशेषाः ; वाजी भूत्वा गन्ध­र्वा­न­व­ह­दि­त्य­नु­षङ्गः ; तथार्वा भूत्वासुरान् ; अश्वो भूत्वा मनुष्यान् । समुद्र एवेति परमात्मा, बन्धुर्बन्धनम् , बध्य­तेऽ­स्मि­न्निति ; समुद्रो योनिः कारणमुत्पत्तिं प्रति ; एवमसौ शुद्धयोनिः शुद्धस्थितिरिति स्तूयते ; ‘अप्सुयोनिर्वा अश्वः’(तै. सं. २ । ३ । १२) इति श्रुतेः प्रसिद्ध एव वा समुद्रो योनिः ॥

इति प्रथमाध्यायस्य प्रथमं ब्राह्मणम् ॥

द्वितीयं ब्राह्मणम्

नैवेह किञ्चनाग्र आसी­न्मृ­त्यु­नै­वे­द­मा­वृ­त­मा­सी­द­श­ना­य­या­श­नाया हि मृत्यु­स्त­न्म­नोऽ­कु­रु­ता­त्मन्वी स्यामिति । सोऽर्च­न्न­च­र­त्त­स्या­र्चत आपोऽ­जा­य­न्ता­र्चते वै मे कमभूदिति तदे­वा­र्क­स्या­र्कत्वं कं ह वा अस्मै भवति य एव­मे­त­द­र्क­स्या­र्कत्वं वेद ॥ १ ॥

अथा­ग्ने­र­श्व­मे­धो­प­यो­गि­क­स्यो­त्प­त्ति­रु­च्यते । तद्वि­ष­य­द­र्श­न­वि­व­क्ष­यै­वो­त्पत्तिः स्तुत्यर्था । नैवेह किञ्चनाग्र आसीत् इह संसारमण्डले, किञ्चन किञ्चिदपि नाम­रू­प­प्र­वि­भ­क्त­वि­शे­षम् , नैवासीत् न बभूव, अग्रे प्रागु­त्प­त्ते­र्म­न­आदेः ॥

किं शून्यमेव बभूव ? शून्यमेव स्यात् ; ‘नैवेह किञ्चन’ इति श्रुतेः, न कार्यं कारणं वासीत् ; उत्पत्तेश्च ; उत्पद्यते हि घटः ; अतः प्रागु­त्प­त्ते­र्घ­टस्य नास्तित्वम् । ननु कारणस्य न नास्तित्वम् , मृत्पि­ण्डा­दि­द­र्श­नात् ; यन्नोपलभ्यते तस्यैव नास्तिता । अस्तु कार्यस्य, न तु कारणस्य, उपलभ्यमानत्वात् । न, प्रागुत्पत्तेः सर्वानुपलम्भात् । अनु­प­ल­ब्धि­श्चे­द­भा­व­हेतुः, सर्वस्य जगतः प्रागु­त्प­त्तेर्न कारणं कार्यं वोपलभ्यते ; तस्मा­त्स­र्व­स्यै­वा­भा­वोऽस्तु ॥

न, ‘मृत्यु­नै­वे­द­मा­वृ­ता­मा­सीत्’ इति श्रुतेः ; यदि हि किञ्चिदपि नासीत् , येनाव्रियते यच्चाव्रियते, तदा नावक्ष्यत् , ‘मृत्यु­नै­वे­द­मा­वृ­तम्’ इति ; न हि भवति गगनकुसुमच्छन्नो वन्ध्यापुत्र इति ; ब्रवीति च ‘मृत्यु­नै­वे­द­मा­वृ­त­मा­सीत्’ इति । तस्मात् येनावृतं कारणेन, यच्चावृतं कार्यम् , प्रागु­त्प­त्ते­स्त­दु­भ­य­मा­सीत् , श्रुतेः प्रामाण्यात् , अनुमेयत्वाच्च । अनुमीयते च प्रागुत्पत्तेः कार्य­का­र­ण­यो­र­स्ति­त्वम् । कार्यस्य हि सतो जायमानस्य कारणे सत्यु­त्प­त्ति­द­र्श­नात् , असति चादर्शनात् , जगतोऽपि प्रागुत्पत्तेः कार­णा­स्ति­त्व­म­नु­मी­यते, घटा­दि­का­र­णा­स्ति­त्व­वत् । घटा­दि­का­र­ण­स्या­प्य­स­त्त्व­मेव, अनुपमृद्य मृत्पिण्डादिकं घटा­द्य­नु­त्प­त्ते­रिति चेत् , न ; मृदादेः कारणत्वात् । मृत्सुवर्णादि हि तत्र कारणं घटरुचकादेः, न पिण्डा­का­र­वि­शेषः, तदभावे भावात् । असत्यपि पिण्डाकारविशेषे मृत्सु­व­र्णा­दि­का­र­ण­द्र­व्य­मा­त्रा­देव घट­रु­च­का­दि­का­र्यो­त्प­त्ति­र्दृ­श्यते । तस्मान्न पिण्डाकारविशेषो घटरुचकादिकारणम् । असति तु मृत्सु­व­र्णा­दि­द्रव्ये घटरुचकादिर्न जायत इति मृत्सु­व­र्णा­दि­द्र­व्य­मेव कारणम् , न तु पिण्डाकारविशेषः । सर्वं हि कारणं कार्यमुत्पादयत् , पूर्वो­त्प­न्न­स्या­त्म­का­र्यस्य तिरोधानं कुर्वत् , कार्या­न्त­र­मु­त्पा­द­यति ; एकस्मिन्कारणे युग­प­द­ने­क­का­र्य­वि­रो­धात् । न च पूर्व­का­र्यो­प­मर्दे कारणस्य स्वात्मोपमर्दो भवति । तस्मा­त्पि­ण्डा­द्यु­प­मर्दे कार्यो­त्प­त्ति­द­र्श­न­म­हेतुः प्रागुत्पत्तेः कारणासत्त्वे । पिण्डा­दि­व्य­ति­रे­केण मृदा­दे­र­स­त्त्वा­द­यु­क्त­मिति चेत् — पिण्डा­दि­पू­र्व­का­र्यो­प­मर्दे मृदादि कारणं नोपमृद्यते, घटा­दि­का­र्या­न्त­रेऽ­प्य­नु­व­र्तते, इत्येतदयुक्तम् , पिण्ड­घ­टा­दि­व्य­ति­रे­केण मृदा­दि­का­र­ण­स्या­नु­प­ल­म्भा­दिति चेत् , न ; मृदादिकारणानां घटाद्युत्पत्तौ पिण्डा­दि­नि­वृ­त्ता­व­नु­वृ­त्ति­द­र्श­नात् । सादृ­श्या­द­न्व­य­द­र्श­नम् , न कार­णा­नु­वृ­त्ते­रिति चेत् , न ; पिण्डादिगतानां मृदा­द्य­व­य­वा­ना­मेव घटादौ प्रत्य­क्ष­त्वेऽ­नु­मा­ना­भा­सा­त्सा­दृ­श्या­दि­क­ल्प­ना­नु­प­पत्तेः । न च प्रत्य­क्षा­नु­मा­न­यो­र्वि­रु­द्धा­व्य­भि­चा­रिता, प्रत्य­क्ष­पू­र्व­क­त्वा­द­नु­मा­नस्य ; सर्व­त्रै­वा­ना­श्वा­स­प्र­स­ङ्गात् — यदि च क्षणिकं सर्वं तदेवेदमिति गम्यमानम् , तद्बु­द्धे­र­प्य­न्य­त­द्बु­द्ध्य­पे­क्षत्वे तस्या अप्य­न्य­त­द्बु­द्ध्य­पे­क्ष­त्व­मि­त्य­न­व­स्था­याम् , तत्स­दृ­श­मि­द­मि­त्यस्या अपि बुद्धे­र्मृ­षा­त्वात् , सर्व­त्रा­ना­श्वा­स­तैव । तदि­द­म्बु­द्ध्यो­रपि कर्त्रभावे सम्ब­न्धा­नु­प­पत्तिः । सादृ­श्या­त्त­त्स­म्बन्ध इति चेत् , न ; तदि­द­म्बु­द्ध्यो­रि­त­रे­त­र­वि­ष­य­त्वा­नु­प­पत्तेः । असति चेतरेतरविषयत्वे सादृ­श्य­ग्र­ह­णा­नु­प­पत्तिः । असत्येव सादृश्ये तद्बुद्धिरिति चेत् , न ; तदि­द­म्बु­द्ध्यो­रपि सादृ­श्य­बु­द्धि­व­द­स­द्वि­ष­य­त्व­प्र­स­ङ्गात् । असद्विषयत्वमेव सर्व­बु­द्धी­ना­म­स्त्विति चेत् , न ; बुद्धि­बु­द्धे­र­प्य­स­द्वि­ष­य­त्व­प्र­स­ङ्गात् । तदप्यस्त्विति चेत् , न ; सर्वबुद्धीनां मृषा­त्वेऽ­स­त्य­बु­द्ध्य­नु­प­पत्तेः । तस्मादसदेतत् — सादृ­श्या­त्त­द्बु­द्धि­रिति । अतः सिद्धः प्राक्का­र्यो­त्पत्तेः कारणसद्भावः ॥

कार्यस्य च अभि­व्य­क्ति­लि­ङ्ग­त्वात् । कार्यस्य च सद्भावः प्रागुत्पत्तेः सिद्धः ; कथ­म­भि­व्य­क्ति­लि­ङ्ग­त्वात् — अभि­व्य­क्ति­र्लि­ङ्ग­म­स्येति ? अभिव्यक्तिः साक्षा­द्वि­ज्ञा­ना­ल­म्ब­न­त्व­प्राप्तिः । यद्धि लोके प्रावृतं तमआदिना घटादि वस्तु, तदालोकादिना प्राव­र­ण­ति­र­स्का­रेण विज्ञानविषयत्वं प्राप्नुवत् , प्राक्सद्भावं न व्यभिचरति ; तथेदमपि जगत् प्रागु­त्प­त्ते­रि­त्य­व­ग­च्छामः । न ह्यविद्यमानो घटः उदि­तेऽ­प्या­दित्ये उपलभ्यते । न ; ते अवि­द्य­मा­न­त्वा­भा­वा­दु­प­ल­भ्ये­तै­वेति चेत् — न हि तव घटादि कार्यं कदा­चि­द­प्य­वि­द्य­मा­न­मि­त्यु­दिते आदित्ये उपलभ्येतैव, मृत्पि­ण्डे­स­न्नि­हिते तमआद्यावरणे चासति विद्य­मा­न­त्वा­दिति चेत् , न ; द्विवि­ध­त्वा­दा­व­र­णस्य । घटादिकार्यस्य द्विविधं ह्यावरणम् — मृदा­दे­र­भि­व्य­क्तस्य तमःकुड्यादि, प्राङ्मृ­दोऽ­भि­व्य­क्ते­र्मृ­दा­द्य­व­य­वानां पिण्डा­दि­का­र्या­न्त­र­रू­पेण संस्थानम् । तस्मा­त्प्रा­गु­त्प­त्ते­र्वि­द्य­मा­न­स्यैव घटा­दि­का­र्य­स्या­वृ­त­त्वा­द­नु­प­लब्धिः । नष्टो­त्प­न्न­भा­वा­भा­व­श­ब्द­प्र­त्य­य­भे­दस्तु अभि­व्य­क्ति­ति­रो­भा­व­यो­र्द्वि­वि­ध­त्वा­पेक्षः । पिण्ड­क­पा­ला­दे­रा­व­र­ण­वै­ल­क्ष­ण्या­द­यु­क्त­मिति चेत् — तमःकुड्यादि हि घटाद्यावरणं घटादिभिन्नदेशं दृष्टम् ; न तथा घटादिभिन्नदेशे दृष्टे पिण्डकपाले ; तस्मा­त्पि­ण्ड­क­पा­ल­सं­स्था­न­यो­र्वि­द्य­मा­न­स्यैव घट­स्या­वृ­त­त्वा­द­नु­प­ल­ब्धि­रि­त्य­यु­क्तम् , आव­र­ण­ध­र्म­वै­ल­क्ष­ण्या­दिति चेत् , न ; क्षीरोदकादेः क्षीरा­द्या­व­र­णे­नै­क­दे­श­त्व­द­र्श­नात् । घटादिकार्ये कपा­ल­चू­र्णा­द्य­व­य­वा­ना­म­न्त­र्भा­वा­द­ना­व­र­ण­त्व­मिति चेत् , न ; विभ­क्ता­ना­ङ्का­र्या­न्त­र­त्वा­दा­व­र­ण­त्वो­प­पत्तेः । आवरणाभावे एव यत्नः कर्तव्य इति चेत् — पिण्ड­क­पा­ला­व­स्थ­यो­र्वि­द्य­मा­न­मेव घटादि कार्य­मा­वृ­त­त्वा­न्नो­प­ल­भ्यत इति चेत् , घटा­दि­का­र्या­र्थिना तदावरणविनाशे एव यत्नः कर्तव्यः, न घटाद्युत्पत्तौ ; न चैतदस्ति ; तस्मादयुक्तं विद्य­मा­न­स्यै­वा­वृ­त­त्वा­द­नु­प­लब्धिः, इति चेत् , न ; अनियमात् । न हि विना­श­मा­त्र­प्र­य­त्ना­देव घटा­द्य­भि­व्य­क्ति­र्नि­यता ; तमआद्यावृते घटादौ प्रदी­पा­द्यु­त्पत्तौ प्रयत्नदर्शनात् । सोऽपि तमोनाशायैवेति चेत् — दीपा­द्यु­त्प­त्ता­वपि यः प्रयत्नः सोऽपि तमस्तिरस्करणाय ; तस्मिन्नष्टे घटः स्वयमेवोपलभ्यते ; न हि घटे किञ्चिदाधीयत इति चेत् , न ; प्रकाशवतो घट­स्यो­प­ल­भ्य­मा­न­त्वात् । यथा प्रकाशविशिष्टो घट उपलभ्यते प्रदीपकरणे, न तथा प्राक्प्र­दी­प­क­र­णात् । तस्मान्न तम­स्ति­र­स्क­र­णा­यैव प्रदीपकरणम् ; किं तर्हि, प्रकाशवत्त्वाय ; प्रका­श­व­त्त्वे­नै­वो­प­ल­भ्य­मा­न­त्वात् । क्वचि­दा­व­र­ण­वि­ना­शेऽपि यत्नः स्यात् ; यथा कुड्यादिविनाशे । तस्मान्न नियमोऽस्ति — अभि­व्य­क्त्य­र्थि­ना­व­र­ण­वि­नाशे एव यत्नः कार्य इति । निय­मा­र्थ­व­त्त्वाच्च । कारणे वर्तमानं कार्यं कार्या­न्त­रा­णा­मा­व­र­ण­मि­त्य­वो­चाम । तत्र यदि पूर्वा­भि­व्य­क्तस्य कार्यस्य पिण्डस्य व्यवहितस्य वा कपालस्य विनाशे एव यत्नः क्रियेत, तदा विदलचूर्णाद्यपि कार्यं जायेत । तेनाप्यावृतो घटो नोपलभ्यत इति पुनः प्रय­त्ना­न्त­रा­पे­क्षैव । तस्मा­द्घ­टा­द्य­भि­व्य­क्त्य­र्थिनो नियत एव कार­क­व्या­पा­रोऽ­र्थ­वान् । तस्मा­त्प्रा­गु­त्प­त्ते­रपि सदेव कार्यम् । अती­ता­ना­ग­त­प्र­त्य­य­भे­दाच्च । अतीतो घटोऽनागतो घट इत्येतयोश्च प्रत्य­य­यो­र्व­र्त­मा­न­घ­ट­प्र­त्य­य­वन्न निर्विषयत्वं युक्तम् । अना­ग­ता­र्थि­प्र­वृ­त्तेश्च । न ह्यसत्यर्थितया प्रवृत्तिर्लोके दृष्टा । योगिनां चाती­ता­ना­ग­त­ज्ञा­नस्य सत्यत्वात् । असं­श्चे­द्भ­वि­ष्य­द्घटः, ऐश्वरं भविष्यद्घटविषयं प्रत्यक्षज्ञानं मिथ्या स्यात् ; न च प्रत्य­क्ष­मु­प­च­र्यते ; घटसद्भावे ह्यनुमानमवोचाम । विप्रतिषेधाच्च । यदि घटो भविष्यतीति, कुलालादिषु व्याप्रियमाणेषु घटार्थम् , प्रमाणेन निश्चितम् , येन च कालेन घटस्य सम्बन्धो भवि­ष्य­ती­त्यु­च्यते, तस्मिन्नेव काले घटोऽसन्निति विप्र­ति­षि­द्ध­म­भि­धी­यते ; भवि­ष्य­न्घ­टोऽ­स­न्निति, न भविष्यतीत्यर्थः ; अयं घटो न वर्तत इति यद्वत् । अथ प्रागु­त्प­त्ते­र्घ­टोऽ­स­न्नि­त्यु­च्येत — घटार्थं प्रवृत्तेषु कुलालादिषु तत्र यथा व्यापाररूपेण वर्त­मा­ना­स्ता­व­त्कु­ला­ला­दयः, तथा घटो न वर्तत इत्य­स­च्छ­ब्द­स्या­र्थ­श्चेत् , न विरुध्यते ; कस्मात् ? स्वेन हि भविष्यद्रूपेण घटो वर्तते ; न हि पिण्डस्य वर्तमानता, कपालस्य वा, घटस्य भवति ; न च तयोः, भविष्यत्ता घटस्य ; तस्मा­त्कु­ला­ला­दि­व्या­पा­र­व­र्त­मा­न­तायां प्रागु­त्प­त्ते­र्घ­टोऽ­स­न्निति न विरुध्यते । यदि घटस्य यत्स्वं भवि­ष्य­त्ता­का­र्य­रूपं तत् प्रतिषिध्येत, तत्प्रतिषेधे विरोधः स्यात् ; न तु तद्भ­वा­न्प्र­ति­षे­धति ; न च सर्वेषां क्रियावतामेकैव वर्तमानता भविष्यत्त्वं वा । अपि च, चतु­र्वि­धा­ना­म­भा­वा­नाम् , घट­स्ये­त­रे­त­रा­भावो घटादन्यो ष्टः — यथा घटाभावः पटादिरेव, न घटस्वरूपमेव । न च घटाभावः सन्पटः अभावात्मकः ; किं तर्हि ? भावरूप एव । एवं घटस्य प्राक्प्र­ध्वं­सा­त्य­न्ता­भा­वा­ना­मपि घटादन्यत्वं स्यात् , घटेन व्यप­दि­श्य­मा­न­त्वात् , घट­स्ये­त­रे­त­रा­भा­व­वत् ; तथैव भावा­त्म­क­ता­भा­वा­नाम् । एवं च सति, घटस्य प्रागभाव इति न घटस्वरूपमेव प्रागु­त्प­त्ते­र्नास्ति । अथ घटस्य प्रागभाव इति घटस्य यत्स्वरूपं तदेवोच्येत, घटस्येति व्यप­दे­शा­नु­प­पत्तिः । अथ कल्पयित्वा व्यपदिश्येत, शिलापुत्रकस्य शरीरमिति यद्वत् ; तथापि घटस्य प्रागभाव इति कल्पि­त­स्यै­वा­भा­वस्य घटेन व्यपदेशः, न घटस्वरूपस्यैव । अथार्थान्तरं घटाद्घटस्याभाव इति, उक्तोत्तरमेतत् । किञ्चान्यत् ; प्रागुत्पत्तेः शश­वि­षा­ण­व­द­भा­व­भू­तस्य घटस्य स्वका­र­ण­स­त्ता­स­म्ब­न्धा­नु­प­पत्तिः, द्विनि­ष्ठ­त्वा­त्स­म्ब­न्धस्य । अयु­त­सि­द्धा­ना­म­दोष इति चेत् , न ; भावा­भा­व­यो­र­यु­त­सि­द्ध­त्वा­नु­प­पत्तेः । भावभूतयोर्हि युतसिद्धता अयुतसिद्धता वा स्यात् , न तु भावा­भा­व­यो­र­भा­व­योर्वा । तस्मात्सदेव कार्यं प्रागु­त्प­त्ते­रिति सिद्धम् ॥

किंलक्षणेन मृत्यु­ना­वृ­त­मि­त्यत आह — अशनायया, अशितुमिच्छा अशनाया, सैव मृत्योर्लक्षणम् , तया लक्षितेन मृत्युना अशनायया । कथमशनाया मृत्युरिति, उच्यते — अशनाया हि मृत्युः । हि - शब्देन प्रसिद्धं हेतुमवद्योतयति । यो ह्यशितुमिच्छति सोऽश­ना­या­न­न्त­र­मेव हन्ति जन्तून् । तेनासावशनायया लक्ष्यते मृत्युरिति, अशनाया हीत्याह । बुद्ध्या­त्म­नोऽ­श­नाया धर्म इति स एष बुद्ध्यवस्थो हिरण्यगर्भो मृत्यु­रि­त्यु­च्यते । तेन मृत्युनेदं कार्य­मा­वृ­त­मा­सीत् , यथा पिण्डावस्थया मृदा घटादय आवृताः स्युरिति तद्वत् । तन्मनोऽकुरुत, तदिति मनसो निर्देशः ; स प्रकृतो मृत्युः वक्ष्य­मा­ण­का­र्य­सि­सृ­क्षया तत् कार्या­लो­च­न­क्ष­मम् , मनःशब्दवाच्यं सङ्क­ल्पा­दि­ल­क्ष­ण­म­न्तः­क­र­णम् , अकुरुत कृतवान् । केनाभिप्रायेण मनोऽकरोदिति, उच्यते — आत्मन्वी आत्मवान् स्यां भवेयम् ; अहमनेनात्मना मनसा मनस्वी स्यामि­त्य­भि­प्रायः । सः प्रजापतिः, अभिव्यक्तेन मनसा समनस्कः सन् , अर्चन् अर्चयन्पूजयन् आत्मानमेव कृता­र्थोऽ­स्मीति, अचरत् चरणमकरोत् । तस्य प्रजापतेः अर्चतः पूजयतः आपः रसात्मिकाः पूजाङ्गभूताः अजायन्त उत्पन्नाः । अत्रा­का­श­प्र­भृ­तीनां त्रया­णा­मु­त्प­त्त्य­न­न्त­र­मिति वक्तव्यम् , श्रुत्य­न्त­र­सा­म­र्थ्यात् , विक­ल्पा­स­म्भ­वाच्च सृष्टिक्रमस्य । अर्चते पूजां कुर्वते वै मे मह्यं कम् उदकम् अभूत् इति एवममन्यत यस्मान्मृत्युः, तदेव तस्मादेव हेतोः अर्कस्य अग्ने­र­श्व­मे­ध­क्र­त्वौ­प­यो­गि­कस्य अर्कत्वम् ; अर्कत्वे हेतुरित्यर्थः । अग्ने­र­र्क­ना­म­नि­र्व­च­न­मे­तत् — अर्च­ना­त्सु­ख­हे­तु­पू­जा­क­र­णा­द­प्स­म्ब­न्धा­च्चा­ग्ने­रे­त­द्गौणं नामार्क इति । यः एवं यथोक्तम् अर्कस्यार्कत्वं वेद जानाति, कम् उदकं सुखं वा, नामसामान्यात् , ह वै इत्यवधारणार्थौ, भवत्येवेति, अस्मै एवंविदे एवंविदर्थं भवति ॥

आपो वा अर्कस्तद्यदपां शर आसीत्तत्समहन्यत । सा पृथि­व्य­भ­व­त्त­स्या­म­श्रा­म्य­त्तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः ॥ २ ॥

आपो वा अर्कः । कः पुनरसावर्क इति, उच्यते — आपो वै या अर्च­ना­ङ्ग­भू­तास्ता एव अर्कः, अग्नेरर्कस्य हेतुत्वात् , अप्सु चाग्निः प्रतिष्ठित इति ; न पुनः साक्षा­दे­वा­र्कस्ताः, तासामप्रकरणात् ; अग्नेश्च प्रकरणम् ; वक्ष्यति च — ‘अयमग्निरर्कः’ इति । तत् तत्र, यदपां शर इव शरो दध्न इव मण्डभूतमासीत् , तत्समहन्यत सङ्घातमापद्यत तेजसा बाह्या­न्तः­प­च्य­मा­नम् ; लिङ्गव्यत्ययेन वा, योऽपां शरः स समहन्यतेति । सा पृथिव्यभवत् , स सङ्घातो येयं पृथिवी साभवत् ; ताभ्योऽ­द्भ्योऽ­ण्ड­म­भि­नि­र्वृ­त्त­मि­त्यर्थः ; तस्यां पृथि­व्या­मु­त्पा­दि­ता­याम् , स मृत्युः प्रजापतिः अश्राम्यत् श्रमयुक्तो बभूव ; सर्वो हि लोकः कार्यं कृत्वा श्राम्यति ; प्रजापतेश्च तन्महत्कार्यम् , यत्पृथिवीसर्गः ; किं तस्य श्रान्त­स्ये­त्यु­च्यते — तस्य श्रान्तस्य तप्तस्य स्विन्नस्य, तेजोरसः तेज एव रसस्तेजोरसः, रसः सारः, निरवर्तत प्रजा­प­ति­श­री­रा­न्नि­ष्क्रान्त इत्यर्थः ; कोऽसौ निष्क्रान्तः ? अग्निः सोऽण्ड­स्या­न्त­र्वि­राट् प्रजापतिः प्रथमजः कार्य­क­र­ण­स­ङ्घा­त­वा­ञ्जातः ; ‘स वै शरीरी प्रथमः’ इति स्मरणात् ॥

स त्रेधात्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीयं स एष प्राणस्त्रेधा विहितः । तस्य प्राची दिक्शिरोऽसौ चासौ चेर्मौ । अथास्य प्रतीची दिक्पुच्छमसौ चासौ च सक्थ्यौ दक्षिणा चोदीची च पार्श्वे द्यौः पृष्ठ­म­न्त­रि­क्ष­मु­द­र­मि­य­मुरः स एषोऽप्सु प्रतिष्ठितो यत्र क्वचैति तदेव प्रति­ति­ष्ठ­त्येवं विद्वान् ॥ ३ ॥

स च जातः प्रजापतिः त्रेधा त्रिप्रकारम् आत्मानं स्वयमेव कार्यकरणसङ्घातं व्यकुरुत व्यभजदित्येतत् ; कथं त्रेधेत्याह — आदित्यं तृतीयम् अग्नि­वा­य्व­पे­क्षया त्रयाणां पूरणम् , अकु­रु­ते­त्य­नु­व­र्तते ; तथा­ग्न्या­दि­त्या­पे­क्षया वायुं तृतीयम् ; तथा वाय्वा­दि­त्या­पे­क्ष­याग्निं तृतीयमिति द्रष्टव्यम् ; सामर्थ्यस्य तुल्य­त्वा­त्त्र­याणां सङ्ख्यापूरणत्वे । स एष प्राणः सर्व­भू­ता­ना­मा­त्मा­प्य­ग्नि­वा­य्वा­दि­त्य­रू­पेण विशेषतः स्वेनैव मृत्य्वात्मना त्रेधा विहितः विभक्तः, न विरा­ट्स्व­रू­पो­प­म­र्द­नेन । तस्यास्य प्रथ­म­ज­स्या­ग्ने­र­श्व­मे­धौ­प­यो­गि­क­स्या­र्कस्य विरा­ज­श्चि­त्या­त्म­क­स्या­श्व­स्येव दर्शनमुच्यते ; सर्वा हि पूर्वो­क्तो­त्प­त्ति­रस्य स्तुत्य­र्थे­त्य­वो­चाम — इत्थमसौ शुद्धजन्मेति । तस्य प्राची दिक् शिरः, विशि­ष्ट­त्व­सा­मा­न्यात् ; असौ चासौ च ऐशान्याग्नेय्यौ ईर्मौ बाहू, ईर­य­ते­र्ग­ति­क­र्मणः । अथ अस्य अग्नेः, प्रतीची दिक् पुच्छं जघन्यो भागः, प्राङ्मुखस्य प्रत्य­ग्दि­क्स­म्ब­न्धात् ; असौ चासौ च वाय­व्य­नै­र्‌ऋत्यौ सक्थ्यौ सक्थिनी, पृष्ठ­को­ण­त्व­सा­मा­न्यात् ; दक्षिणा चोदीची च पार्श्वे, उभ­य­दि­क्स­म्ब­न्ध­सा­मा­न्यात् ; द्यौः पृष्ठ­म­न्त­रि­क्ष­मु­द­र­मिति पूर्ववत् ; इयमुरः, अधो­भा­ग­सा­मा­न्यात् ; स एषोऽग्निः प्रजापतिरूपो लोका­द्या­त्म­कोऽग्निः अप्सु प्रतिष्ठितः, ‘एवमिमे लोका अप्स्वन्तः’ इति श्रुतेः ; यत्र क्वच यस्मि­न्क­स्मिं­श्चित् एति गच्छति, तदेव तत्रैव प्रतितिष्ठिति स्थितिं लभते ; कोऽसौ ? एवं यथोक्तमप्सु प्रति­ष्ठि­त­त्व­मग्नेः विद्वान् विजानन् ; गुणफलमेतत् ॥

सोऽकामयत द्वितीयो म आत्मा जायेतेति स मनसा वाचं मिथुनं सम­भ­व­द­श­ना­या­मृ­त्यु­स्त­द्य­द्रेत आसीत्स संवत्सरोऽभवत् । न ह पुरा ततः संवत्सर आस तमेतावन्तं कालमबिभः । यावा­न्सं­व­त्स­र­स्त­मे­ता­वतः कालस्य परस्तादसृजत । तं जात­म­भि­व्या­द­दात्स भाणकरोत्सैव वागभवत् ॥ ४ ॥

सोऽकामयत — योऽसौ मृत्युः सोऽबा­दि­क्र­मे­णा­त्म­ना­त्मा­न­म­ण्ड­स्यान्तः कार्य­क­र­ण­स­ङ्घा­त­वन्तं विरा­ज­म­ग्नि­म­सृ­जत, त्रेधा चात्मा­न­म­कु­रु­ते­त्यु­क्तम् । स किंव्यापारः सन्नसृजतेति, उच्यते — सः मृत्युः अकामयत कामितवान् ; किम् ? द्वितीयः मे मम आत्मा शरीरम् , येनाहं शरीरी स्याम् , स जायेत उत्पद्येत, इति एवमेतदकामयत ; सः एवं कामयित्वा, मनसा पूर्वोत्पन्नेन, वाचं त्रयीलक्षणाम् , मिथुनं द्वन्द्वभावम् , समभवत् सम्भवनं कृतवान् , मनसा त्रयी­मा­लो­चि­त­वान् ; त्रयीविहितं सृष्टिक्रमं मन­सा­न्वा­लो­च­य­दि­त्यर्थः । कोऽसौ ? अशनायया लक्षितो मृत्युः ; अशनाया मृत्यु­रि­त्यु­क्तम् ; तमेव परामृशति, अन्यत्र प्रसङ्गो मा भूदिति ; तद्यद्रेत आसीत् , तत् तत्र मिथुने, यद्रेत आसीत् , प्रथमशरीरिणः प्रजा­प­ते­रु­त्पत्तौ कारणं रेतो बीजं ज्ञानकर्मरूपम् , त्रय्यालोचनायां यद्दृ­ष्ट­वा­ना­सी­ज्ज­न्मा­न्त­र­कृ­तम् ; तद्भावभावितोऽपः सृष्ट्वा तेन रेतसा बीजे­ना­प्स्व­नु­प्र­वि­श्या­ण्ड­रू­पेण गर्भीभूतः सः, संवत्सरोऽभवत् , संव­त्स­र­का­ल­नि­र्माता संवत्सरः, प्रजापतिरभवत् । न ह, पुरा पूर्वम् , ततः तस्मा­त्सं­व­त्स­र­का­ल­नि­र्मातुः प्रजापतेः, संवत्सरः कालो नाम, न आस न बभूव ह ; तं संव­त्स­र­का­ल­नि­र्मा­ता­र­म­न्त­र्गर्भं प्रजापतिम् , यावानिह प्रसिद्धः कालः एतावन्तम् एता­व­त्सं­व­त्स­र­प­रि­माणं कालम् अबिभः भृतवान् मृत्युः । यावान्संवत्सरः इह प्रसिद्धः, ततः परस्तात्किं कृतवान् ? तम् , एतावतः कालस्य संवत्सरमात्रस्य परस्तात् ऊर्ध्वम् असृजत सृष्टवान् , अण्ड­म­भि­न­दि­त्यर्थः । तम् एवं कुमारं जातम् अग्निं प्रथमशरीरिणम् , अश­ना­या­व­त्त्वा­न्मृत्युः अभिव्याददात् मुखविदारणं कृतवान् अत्तुम् ; स च कुमारो भीतः स्वाभा­वि­क्या­वि­द्यया युक्तः भाणित्येवं शब्दम् अकरोत् ; सैव वागभवत् , वाक् शब्दः अभवत् ॥

स ऐक्षत यदि वा इममभिमंस्ये कनीयोऽन्नं करिष्य इति स तया वाचा तेनात्मनेदं सर्वमसृजत यदिदं किञ्चर्चो यजूंषि सामानि च्छन्दांसि यज्ञान्प्रजाः पशून् । स यद्यदेवासृजत तत्त­द­त्तु­म­ध्रि­यत सर्वं वा अत्तीति तददितेरदितित्वं सर्व­स्यै­त­स्यात्ता भवति सर्वमस्यान्नं भवति य एव­मे­त­द­दि­ते­र­दि­तित्वं वेद ॥ ५ ॥

स ऐक्षत — सः, एवं भीतं कृतरवं कुमारं दृष्ट्वा, मृत्युः ऐक्षत ईक्षितवान् , अशनायावानपि — यदि कदाचिद्वा इमं कुमारम् अभिमंस्ये, अभिपूर्वो मन्य­ति­र्हिं­सार्थः, हिंसिष्ये इत्यर्थः ; कनीयोऽन्नं करिष्ये, कनीयः अल्पमन्नं करिष्ये - इति ; एवमीक्षित्वा तद्भ­क्ष­णा­दु­प­र­राम ; बहु ह्यन्नं कर्तव्यं दीर्घ­का­ल­भ­क्ष­णाय, न कनीयः ; तद्भक्षणे हि कनीयोऽन्नं स्यात् , बीजभक्षणे इव सस्याभावः । सः एवं प्रयो­ज­न­म­न्न­बा­हु­ल्य­मा­लोच्य, तयैव त्रय्या वाचा पूर्वोक्तया, तेनैव च आत्मना मनसा, मिथु­नी­भा­व­मा­लो­च­न­मु­प­ग­म्यो­प­गम्य, इदं सर्वं स्थावरं जङ्गमं च असृजत, यदिदं किञ्च यत्किञ्चेदम् ; किं तत् ? ऋचः, यजूंषि, सामानि, छन्दांसि च सप्त गायत्र्यादीनि — स्तोत्र­श­स्त्रा­दि­क­र्मा­ङ्ग­भू­तां­स्त्रि­वि­धा­न्म­न्त्रा­न्गा­य­त्र्या­दि­च्छ­न्दो­वि­शि­ष्टान् , यज्ञांश्च तत्साध्यान् , प्रजा­स्त­त्कर्त्रीः, पशूंश्च ग्राम्या­ना­र­ण्या­न्क­र्म­सा­ध­न­भू­तान् । ननु त्रय्या मिथु­नी­भू­त­या­सृ­ज­ते­त्यु­क्तम् ; ऋगादीनीह कथमसृजतेति ? नैष दोषः ; मन­स­स्त्व­व्य­क्तोऽयं मिथु­नी­भा­व­स्त्रय्या ; बाह्यस्तु ऋगादीनां विद्यमानानामेव कर्मसु विनियोगभावेन व्यक्तीभावः सर्ग इति । सः प्रजापतिः, एवमन्नवृद्धिं बुद्ध्वा, यद्यदेव क्रियां क्रियासाधनं फलं वा किञ्चित् असृजत, तत्तदत्तुं भक्षयितुम् अध्रियत धृतवान्मनः ; सर्वं कृत्स्नं वै यस्मात् अत्ति, तत् तस्मात् अदितेः अदितिनाम्नो मृत्योः अदितित्वं प्रसिद्धम् ; तथा च मन्त्रः — ‘अदि­ति­र्द्यौ­र­दि­ति­र­न्त­रि­क्ष­म­दि­ति­र्माता स पिता’(ऋ. १ । ५९ । १०) इत्यादिः ; सर्वस्यैतस्य जगतोऽन्नभूतस्य अत्ता सर्वात्मनैव भवति, अन्यथा विरोधात् ; न हि कश्चि­त्स­र्व­स्यै­कोऽत्ता दृश्यते ; तस्मा­त्स­र्वात्मा भवतीत्यर्थः ; सर्वमस्यान्नं भवति ; अत एव सर्वात्मनो ह्यत्तुः सर्वमन्नं भवतीत्युपपद्यते ; य एवमेतत् यथोक्तम् अदितेः मृत्योः प्रजापतेः सर्व­स्या­द­ना­द­दि­तित्वं वेद, तस्यैतत्फलम् ॥

सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति । सोऽश्राम्यत्स तपोऽतप्यत तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् । प्राणा वै यशो वीर्यं तत्प्रा­णे­षू­त्क्रा­न्तेषु शरीरं श्वयितुमध्रियत तस्य शरीर एव मन आसीत् ॥ ६ ॥

सोऽका­म­य­ते­त्य­श्वा­श्व­मे­ध­यो­र्नि­र्व­च­ना­र्थ­मि­द­माह । भूयसा महता यज्ञेन भूयः पुनरपि यजेयेति ; जन्मा­न्त­र­क­र­णा­पे­क्षया भूयःशब्दः ; स प्रजा­प­ति­र्ज­न्मा­न्त­रेऽ­श्व­मे­धे­ना­य­जत ; स तद्भावभावित एव कल्पादौ व्यवर्तत ; सोऽश्व­मे­ध­क्रि­या­का­र­क­फ­ला­त्म­त्वेन निर्वृत्तः सन्नकामयत — भूयसा यज्ञेन भूयो यजेयेति । एवं महत्कार्यं कामयित्वा लोकवदश्राम्यत् ; स तपोऽतप्यत ; तस्य श्रान्तस्य तप्तस्येति पूर्ववत् ; यशो वीर्य­मु­द­क्रा­म­दिति स्वयमेव पदार्थमाह — प्राणाः चक्षुरादयो वै यशः, यशोहेतुत्वात् , तेषु हि सत्सु ख्यातिर्भवति ; तथा वीर्यं बलम् अस्मिञ्शरीरे ; न ह्युत्क्रा­न्त­प्राणो यशस्वी बलवान्वा भवति ; तस्मात्प्राणा एव यशो वीर्यं चास्मिञ्शरीरे, तदेवं प्राणलक्षणं यशो वीर्यम् उदक्रामत् उत्क्रान्तवत् । तदेवं यशोवीर्यभूतेषु प्राणे­षू­त्क्रा­न्तेषु, शरी­रा­न्नि­ष्क्रा­न्तेषु तच्छरीरं प्रजापतेः श्वयितुम् उच्छूनभावं गन्तुम् अध्रियत, अमेध्यं चाभवत् ; तस्य प्रजापतेः, शरी­रा­न्नि­र्ग­त­स्यापि, तस्मिन्नेव शरीरे मन आसीत् ; यथा कस्यचित्प्रिये विषये दूरं गतस्यापि मनो भवति, तद्वत् ॥

सोऽकामयत मेध्यं म इदं स्यादा­त्म­न्व्य­नेन स्यामिति । ततोऽश्वः सम­भ­व­द्य­द­श्व­त्त­न्मे­ध्य­म­भू­दिति तदे­वा­श्व­मे­ध­स्या­श्व­मे­ध­त्वम् । एष ह वा अश्वमेधं वेद य एनमेवं वेद । तम­न­व­रु­ध्यै­वा­म­न्यत । तं संवत्सरस्य परस्तादात्मन आलभत । पशून्देवताभ्यः प्रत्यौहत् । तस्मा­त्स­र्व­दे­वत्यं प्रोक्षितं प्राजा­प­त्य­मा­ल­भन्ते । एष ह वा अश्वमेधो य एष तपति तस्य संवत्सर आत्मा­य­म­ग्नि­र­र्क­स्त­स्येमे लोका आत्मा­न­स्ता­वे­ता­व­र्का­श्व­मेधौ । सो पुनरेकैव देवता भवति मृत्युरेवाप पुनर्मृत्युं जयति नैनं मृत्युराप्नोति मृत्युरस्यात्मा भवत्येतासां देवतानामेको भवति ॥ ७ ॥

स तस्मिन्नेव शरीरे गतमनाः सन्किमकरोदिति, उच्यते — सोऽकामयत । कथम् ? मेध्यं मेधार्हं यज्ञियं मे मम इदं शरीरम् स्यात् ; किञ्च आत्मन्वी आत्मवांश्च अनेन शरीरेण शरीरवान् स्यामिति — प्रविवेश । यस्मात् , तच्छरीरं तद्वि­यो­गा­द्ग­त­य­शो­वीर्यं सत् अश्वत् अश्वयत् , ततः तस्मात् अश्वः समभवत् ; ततोऽश्वनामा प्रजापतिरेव साक्षादिति स्तूयते ; यस्माच्च पुन­स्त­त्प्र­वे­शात् गत­य­शो­वी­र्य­त्वा­द­मेध्यं सत् मेध्यमभूत् , तदेव तस्मादेव अश्वमेधस्य अश्वमेधनाम्नः क्रतोः अश्वमेधत्वम् अश्वमेधनामलाभः ; क्रिया­का­र­क­फ­ला­त्मको हि क्रतुः ; स च प्रजापतिरेवेति स्तूयते ॥

क्रतु­नि­र्व­र्त­क­स्या­श्वस्य प्रजा­प­ति­त्व­मु­क्तम् — ‘उषा वा अश्वस्य मेध्यस्य’(बृ. उ. १ । १ । १) इत्यादिना । तस्यैवाश्वस्य मेध्यस्य प्रजा­प­ति­स्व­रू­पस्य अग्नेश्च यथोक्तस्य क्रतु­फ­ला­त्म­रू­प­तया समस्योपासनं विधा­त­व्य­मि­त्या­र­भ्यते । पूर्वत्र क्रियापदस्य विधा­य­क­स्या­श्रु­त­त्वात् , क्रिया­प­दा­पे­क्ष­त्वाच्च प्रकरणस्य, अयमर्थोऽवगम्यते । एष ह वा अश्वमेधं क्रतुं वेद य एनमेवं वेद — यः कश्चित् , एनम् अश्व­म­ग्नि­रू­प­मर्कं च यथोक्तम् , एवं वक्ष्यमाणेन समासेन प्रदर्श्यमानेन विशेषणेन विशिष्टं वेद, स एषोऽश्वमेधं वेद, नान्यः ; तस्मादेवं वेदितव्य इत्यर्थः । कथम् ? तत्र पशुविषयमेव तावद्दर्शनमाह । तत्र प्रजापतिः ‘भूयसा यज्ञेन भूयो यजेय’ इति कामयित्वा, आत्मानमेव पशुं मेध्यं कल्पयित्वा, तं पशुम् , अनवरुध्यैव उत्सृष्टं पशु­म­व­रो­ध­म­कृ­त्वैव मुक्तप्रग्रहम् , अमन्यत अचिन्तयत् । तं संवत्सरस्य पूर्णस्य परस्तात् ऊर्ध्वम् आत्मने आत्मार्थम् आलभत — प्रजा­प­ति­दे­व­ता­क­त्वे­ने­त्ये­तत् — आलभत आलम्भं कृतवान् । पशून् अन्या­न्ग्रा­म्या­ना­र­ण्यांश्च देवताभ्यः यथादैवतं प्रत्यौहत् प्रतिगमितवान् । यस्माच्चैवं प्रजापतिरमन्यत, तस्मा­दे­व­म­न्योऽ­प्यु­क्तेन विधिना आत्मानं पशुमश्वं मेध्यं कल्पयित्वा, ‘सर्वदेवत्योऽहं प्रोक्ष्यमाणः’ आलभ्यमानस्त्वहं मद्देवत्य एव स्याम् ; अन्य इतरे पशवो ग्राम्यारण्या यथा­दै­व­त­म­न्याभ्यो देवताभ्य आलभ्यन्ते मदवयवभूताभ्य एव’ इति विद्यात् । अत एवेदानीं सर्वदेवत्यं प्रोक्षितं प्राजा­प­त्य­मा­ल­भन्ते याज्ञिका एवम् । एष ह वा अश्वमेधो य एष तपति, यस्त्वेवं पशुसाधनकः क्रतुः स एष साक्षात्फलभूतो निर्दिश्यते, एष ह वा अश्वमेधः ; कोऽसौ ? य एषः सविता तपति जगदवभासयति तेजसा ; तस्य अस्य क्रतुफलात्मनः, संवत्सरः कालविशेषः, आत्मा शरीरम् , तन्नि­र्व­र्त्य­त्वा­त्सं­व­त्स­रस्य ; तस्यैव क्रत्वात्मनः अयं पार्थिवोऽग्निः, अर्कः, साधनभूतः ; तस्य चार्कस्य क्रतौ चित्यस्य, इमे लोकास्त्रयोऽपि, आत्मानः शरीरावयवाः ; तथा च व्याख्यातम् — ‘तस्य प्राची दिक्’ इत्यादिना ; ताव­ग्न्या­दि­त्या­वेतौ यथा­वि­शे­षि­ता­व­र्का­श्व­मेधौ क्रतुफले ; अर्को यः पार्थिवोऽग्निः स साक्षा­त्क्र­तु­रूपः क्रियात्मकः ; क्रतो­र­ग्नि­सा­ध्य­त्वा­त्त­द्रू­पे­णैव निर्देशः ; क्रतु­सा­ध्य­त्वाच्च फलस्य क्रतुरूपेणैव निर्देशः — आदित्योऽश्वमेध इति । तौ साध्यसाधनौ क्रतु­फ­ल­भू­ता­व­ग्न्या­दित्यौ — सा उ, पुनः भूयः, एकैव देवता भवति ; का सा ? मृत्युरेव ; पूर्व­म­प्ये­कै­वा­सी­त्क्रि­या­सा­ध­न­फ­ल­भे­दाय विभक्ता ; तथा चोक्तम् ‘स त्रेधात्मानं व्यकुरुत’ इति ; सा पुनरपि क्रिया­नि­र्वृ­त्त्यु­त्त­र­का­ल­मे­कैव देवता भवति — मृत्युरेव फलरूपः ; यः पुन­रे­व­मे­न­म­श्व­मेधं मृत्युमेकां देवतां वेद — अहमेव मृत्यु­र­स्म्य­श्व­मेध एका देवता मद्रू­पा­श्वा­ग्नि­सा­ध­न­सा­ध्येति ; सोऽपजयति, पुनर्मृत्युं पुनर्मरणम् , सकृन्मृत्वा पुनर्मरणाय न जायत इत्यर्थः ; अपजितोऽपि मृत्युरेनं पुन­रा­प्नु­या­दि­त्या­श­ङ्क्याह — नैनं मृत्युराप्नोति ; कस्मात् ? मृत्युः, अस्यैवंविदः, आत्मा भवति ; किञ्च मृत्युरेव फलरूपः सन्नेतासां देवतानामेको भवति ; तस्यैतत्फलम् ॥

इति प्रथमाध्यायस्य द्वितीयं ब्राह्मणम् ॥

तृतीयं ब्राह्मणम्

‘द्वया ह’ इत्याद्यस्य कः सम्बन्धः ? कर्मणां ज्ञानसहितानां परा गतिरुक्ता मृत्य्वा­त्म­भावः, अश्व­मे­ध­ग­त्युक्त्या । अथेदानीं मृत्य्वा­त्म­भा­व­सा­ध­न­भू­तयोः कर्मज्ञानयोर्यत उद्भवः, तत्प्र­का­श­ना­र्थ­मु­द्गी­थ­ब्रा­ह्म­ण­मा­र­भ्यते ॥

ननु मृत्य्वात्मभावः पूर्वत्र ज्ञानकर्मणोः फलमुक्तम् । उद्गी­थ­ज्ञा­न­क­र्म­णोस्तु मृत्य्वा­त्म­भा­वा­ति­क्र­मणं फलं वक्ष्यति । अतो भिन्न­वि­ष­य­त्वा­त्फ­लस्य न पूर्व­क­र्म­ज्ञा­नो­द्भ­व­प्र­का­श­ना­र्थम् इति चेत् , नायं दोषः ; अग्न्या­दि­त्या­त्म­भा­व­त्वा­दु­द्गी­थ­फ­लस्य ; पूर्व­त्रा­प्ये­त­देव फलमुक्तम् — ‘एतासां देवतानामेको भवति’ इति । ननु ‘मृत्यु­म­ति­क्रान्तः’ इत्यादि विरुद्धम् ; न, स्वाभा­वि­क­पा­प्मा­स­ङ्ग­वि­ष­य­त्वा­द­ति­क्र­म­णस्य ॥

कोऽसौ स्वाभाविकः पाप्मासङ्गो मृत्युः ? कुतो वा तस्योद्भवः ? केन वा तस्यातिक्रमणम् ? कथं वा ? — इत्ये­त­स्या­र्थस्य प्रकाशनाय आख्यायिका आरभ्यते । कथम् ? —

द्वया ह प्राजापत्या देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुरास्त एषु लोके­ष्व­स्प­र्धन्त ते ह देवा ऊचु­र्ह­न्ता­सु­रा­न्यज्ञ उद्गी­थे­ना­त्य­या­मेति ॥ १ ॥

द्वया द्विप्रकाराः ; हेति पूर्व­वृ­त्ता­व­द्यो­तको निपातः ; वर्त­मा­न­प्र­जा­पतेः पूर्वजन्मनि यद्वृत्तम् , तदवद्योतयति ह - शब्देन ; प्राजापत्याः प्रजा­प­ते­र्वृ­त्त­ज­न्मा­व­स्थ­स्या­प­त्यानि प्राजापत्याः ; के ते ? देवाश्चासुराश्च ; तस्यैव प्रजापतेः प्राणा वागादयः ; कथं पुनस्तेषां देवासुरत्वम् ? उच्यते — शास्त्र­ज­नि­त­ज्ञा­न­क­र्म­भा­विता द्योतनाद्देवा भवन्ति ; त एव स्वाभा­वि­क­प्र­त्य­क्षा­नु­मा­न­ज­नि­त­दृ­ष्ट­प्र­यो­ज­न­क­र्म­ज्ञा­न­भा­विता असुराः, स्वेष्वेवासुषु रमणात् , सुरेभ्यो वा देवे­भ्योऽ­न्य­त्वात् । यस्माच्च दृष्ट­प्र­यो­ज­न­ज्ञा­न­क­र्म­भा­विता असुराः, ततः तस्मात् , कानीयसाः, कनीयांस एव कानीयसाः, स्वार्थेऽणि वृद्धिः ; कनीयांसोऽल्पा एव देवाः ; ज्यायसा असुरा ज्यायांसोऽसुराः ; स्वाभाविकी हि कर्म­ज्ञा­न­प्र­वृ­त्ति­र्म­ह­त्तरा प्राणानां शास्त्रजनितायाः कर्म­ज्ञा­न­प्र­वृत्तेः, दृष्ट­प्र­यो­ज­न­त्वात् ; अत एव कनीयस्त्वं देवानाम् , शास्त्र­ज­नि­त­प्र­वृ­त्ते­र­ल्प­त्वात् ; अत्य­न्त­य­त्न­साध्या हि सा ; ते देवाश्चासुराश्च प्रजा­प­ति­श­री­रस्थाः, एषु लोकेषु निमित्तभूतेषु स्वाभा­वि­के­त­र­क­र्म­ज्ञा­न­सा­ध्येषु, अस्पर्धन्त स्पर्धां कृतवन्तः ; देवानां चासुराणां च वृत्त्यु­द्भ­वा­भि­भवौ स्पर्धा । कदा­चि­त्छा­स्त्र­ज­नि­त­क­र्म­ज्ञा­न­भा­व­ना­रू­पा­वृत्तिः प्राणा­ना­मु­द्भ­वति । यदा चोद्भवति, तदा दृष्टप्रयोजना प्रत्य­क्षा­नु­मा­न­ज­नि­त­क­र्म­ज्ञा­न­भा­व­ना­रूपा तेषामेव प्राणानां वृत्ति­रा­सु­र्य­भि­भू­यते । स देवानां जयः, असुराणां पराजयः । कदा­चि­त्त­द्वि­प­र्य­येण देवानां वृत्तिरभिभूयते, आसुर्या उद्भवः । सोऽसुराणां जयः, देवानां पराजयः । एवं देवानां जये धर्म­भू­य­स्त्वा­दु­त्कर्ष आ प्रजा­प­ति­त्व­प्राप्तेः । असु­र­ज­येऽ­ध­र्म­भू­य­स्त्वा­द­प­कर्ष आ स्थाव­र­त्व­प्राप्तेः । उभयसाम्ये मनु­ष्य­त्व­प्राप्तिः । त एवं कनी­य­स्त्वा­द­भि­भू­य­माना असुरैर्देवा बाहू­ल्या­द­सु­राणां किं कृतवन्त इति, उच्यते — ते देवाः, असु­रै­र­भि­भू­य­मानाः, ह किल, ऊचुः उक्तवन्तः ; कथम् ? हन्त! इदानीम् , अस्मिन्यज्ञे ज्योतिष्टोमे, उद्गीथेन उद्गी­थ­क­र्म­प­दा­र्थ­क­र्तृ­स्व­रू­पा­श्र­य­णेन, अत्ययाम अतिगच्छामः ; असुरानभिभूय स्वं देवभावं शास्त्र­प्र­का­शितं प्रतिपद्यामहे इत्यु­क्त­व­न्तोऽ­न्यो­न्यम् । उद्गी­थ­क­र्म­प­दा­र्थ­क­र्तृ­स्व­रू­पा­श्र­यणं च ज्ञानकर्मभ्याम् । कर्म वक्ष्यमाणं मन्त्रजपलक्षणम् , विधित्स्यमानम् — ‘तदेतानि जपेत्’(बृ. उ. १ । ३ । २८) इति । ज्ञानं त्विदमेव निरूप्यमाणम् ॥

नन्वि­द­म­भ्या­रो­ह­ज­प­वि­धि­शे­षोऽ­र्थ­वादः, न ज्ञाननिरूपणपरम् । न, ‘य एवं वेद’(बृ. उ. १ । ३ । ७) इति वचनात् । उद्गीथप्रस्तावे पुरा­क­ल्प­श्र­व­णा­दु­द्गी­थ­वि­धि­प­र­मिति चेत् , न, अप्रकरणात् ; उद्गीथस्य चान्यत्र विहितत्वात् ; विद्या­प्र­क­र­ण­त्वा­च्चास्य ; अभ्यारोहजपस्य चानित्यत्वात् एवं­वि­त्प्र­यो­ज्य­त्वात् , विज्ञानस्य च नित्य­व­च्छ्र­व­णात् ; ‘तद्धै­त­ल्लो­क­जि­देव’(बृ. उ. १ । ४ । २८) इति च श्रुतेः ; प्राणस्य वागादीनां च शुद्ध्य­शु­द्धि­व­च­नात् ; न ह्यनुपास्यत्वे — प्राणस्य शुद्धिवचनम् , वागादीनां च सहो­प­न्य­स्ता­ना­म­शु­द्धि­व­च­नम् , वागादिनिन्दया मुख्य­प्रा­ण­स्तु­ति­श्चा­भि­प्रेता, — उपपद्यते — ‘मृत्यु­म­ति­क्रान्तो दीप्यते’(बृ. उ. १ । ३ । २७) इत्यादि फलवचनं च । प्राण­स्व­रू­पा­प­त्तेर्हि फलं तत् , यद्वा­गा­द्य­ग्न्या­दि­भावः ॥

भवतु नाम प्राणस्योपासनम् , न तु विशु­द्ध्या­दि­गु­ण­व­त्तेति ; ननु स्याच्छ्रु­त­त्वात् ; न स्यात् , उपास्यत्वे स्तुत्य­र्थ­त्वो­प­पत्तेः । न ; अवि­प­री­ता­र्थ­प्र­ति­पत्तेः श्रेयः­प्रा­प्त्यु­प­पत्तेः, लोकवत् । यो ह्यविपरीतमर्थं प्रतिपद्यते लोके, स इष्टं प्राप्नो­त्य­नि­ष्टाद्वा निवर्तते, न विप­री­ता­र्थ­प्र­ति­पत्त्या ; तथेहापि श्रौत­श­ब्द­ज­नि­ता­र्थ­प्र­ति­पत्तौ श्रेयः­प्रा­प्ति­रु­प­पन्ना, न विपर्यये । न चोपा­स­ना­र्थ­श्रु­त­श­ब्दो­त्थ­वि­ज्ञा­न­वि­ष­य­स्या­य­था­र्थत्वे प्रमाणमस्ति । न च तद्वि­ज्ञा­न­स्या­प­वादः श्रूयते । ततः श्रेयः­प्रा­प्ति­द­र्श­ना­द्य­था­र्थतां प्रतिपद्यामहे । विपर्यये चान­र्थ­प्रा­प्ति­द­र्श­नात् — यो हि विपर्ययेणार्थं प्रतिपद्यते लोके — पुरुषं स्थाणुरिति, अमित्रं मित्रमिति वा, सोऽनर्थं प्राप्नु­व­न्दृ­श्यते । आत्मे­श्व­र­दे­व­ता­दी­ना­म­प्य­य­था­र्था­ना­मेव चेद्ग्रहणं श्रुतितः, अन­र्थ­प्रा­प्त्यर्थं शास्त्रमिति ध्रुवं प्राप्नु­या­ल्लो­क­व­देव ; न चैतदिष्टम् । तस्मा­द्य­था­भू­ता­ने­वा­त्मे­श्व­र­दे­व­ता­दी­न्ग्रा­ह­य­त्यु­पा­स­नार्थं शास्त्रम् । नामादौ ब्रह्म­दृ­ष्टि­द­र्श­ना­द­यु­क्त­मिति चेत् , स्फुटं नामा­दे­र­ब्र­ह्म­त्वम् ; तत्र ब्रह्मदृष्टिं स्थाण्वादाविव पुरुषदृष्टिं विपरीतां ग्राह­य­च्छास्त्रं दृश्यते ; तस्मा­द्य­था­र्थ­मेव शास्त्रतः प्रतिपत्तेः श्रेय इत्ययुक्तमिति चेत् , न ; प्रति­मा­व­द्भे­द­प्र­ति­पत्तेः । नामादावब्रह्मणि ब्रह्मदृष्टिं विपरीतां ग्राहयति शास्त्रम् , स्थाण्वादाविव पुरुषदृष्टिम् — इति नैतत्साध्ववोचः । कस्मात् ? भेदेन हि ब्रह्मणो नामादिवस्तु प्रतिपन्नस्य नामादौ विधीयते ब्रह्मदृष्टिः, प्रतिमादाविव विष्णुदृष्टिः । आलम्बनत्वेन हि नामा­दि­प्र­ति­पत्तिः, प्रतिमादिवदेव, न तु नामाद्येव ब्रह्मेति । यथा स्थाणा­व­नि­र्ज्ञाते, न स्थाणुरिति, पुरुष एवायमिति प्रतिपद्यते विपरीतम् , न तु तथा नामादौ ब्रह्म­दृ­ष्टि­र्वि­प­रीता ॥

ब्रह्मदृष्टिरेव केवला, नास्ति ब्रह्मेति चेत् ; — एतेन प्रति­मा­ब्रा­ह्म­णा­दिषु विष्ण्वा­दि­दे­व­पि­त्रा­दि­दृ­ष्टीनां तुल्यता — न, ऋगादिषु पृथि­व्या­दि­दृ­ष्टि­द­र्श­नात् , विद्य­मा­न­पृ­थि­व्या­दि­व­स्तु­दृ­ष्टी­ना­मेव ऋगादिविषये प्रक्षे­प­द­र्श­नात् । तस्मा­त्त­त्सा­मा­न्या­न्ना­मा­दिषु ब्रह्मा­दि­दृ­ष्टीनां विद्य­मा­न­ब्र­ह्मा­दि­वि­ष­य­त्व­सिद्धिः । एतेन प्रति­मा­ब्रा­ह्म­णा­दिषु विष्ण्वा­दि­दे­व­पि­त्रा­दि­बु­द्धीनां च सत्य­व­स्तु­वि­ष­य­त्व­सिद्धिः । मुख्या­पे­क्ष­त्वाच्च गौणत्वस्य ; पञ्चाग्न्यादिषु चाग्नि­त्वा­दे­र्गौ­ण­त्वा­न्मु­ख्या­ग्न्या­दि­स­द्भा­व­वत् , नामादिषु ब्रह्मत्वस्य गौण­त्वा­न्मु­ख्य­ब्र­ह्म­स­द्भा­वो­प­पत्तिः ॥

क्रिया­र्थै­श्चा­वि­शे­षा­द्वि­द्या­र्था­नाम् । यथा च, दर्श­पू­र्ण­मा­सा­दि­क्रिया इदम्फला विशि­ष्टे­ति­क­र्त­व्य­ताका एवं­क्र­म­प्र­यु­क्ताङ्गा च — इत्येतदलौकिकं वस्तु प्रत्य­क्षा­द्य­वि­षयं तथाभूतं च वेदवाक्यैरेव ज्ञाप्यते ; तथा, पर­मा­त्मे­श्व­र­दे­व­ता­दि­वस्तु अस्थू­ला­दि­ध­र्म­क­म­श­ना­या­द्य­तीतं चेत्ये­व­मा­दि­वि­शि­ष्ट­मिति वेदवाक्यैरेव ज्ञाप्यते — इति अलौ­कि­क­त्वा­त्त­था­भू­त­मेव भवितुमर्हतीति । न च क्रिया­र्थै­र्वा­क्यै­र्ज्ञा­न­वा­क्यानांु बुद्ध्यु­त्पा­द­कत्वे विशेषोऽस्ति । न चानिश्चिता विपर्यस्ता वा पर­मा­त्मा­दि­व­स्तु­वि­षया बुद्धि­रु­त्प­द्यते । अनु­ष्ठे­या­भा­वा­द­यु­क्त­मिति चेत् , क्रिया­र्थै­र्वाक्यैः त्र्यंशा भावनानुष्ठेया ज्ञाप्य­तेऽ­लौ­कि­क्यपि ; न तथा पर­मा­त्मे­श्व­रा­दि­वि­ज्ञा­नेऽ­नु­ष्ठेयं किञ्चिदस्ति ; अतः क्रियार्थैः साध­र्म्य­मि­त्य­यु­क्त­मिति चेत् , न ; ज्ञानस्य तथा­भू­ता­र्थ­वि­ष­य­त्वात् । न ह्यनुष्ठेयस्य त्र्यंशस्य भाव­ना­ख्य­स्या­नु­ष्ठे­य­त्वा­त्त­था­त्वम् ; किं तर्हि ? प्रमा­ण­स­म­धि­ग­त­त्वात् । न च तद्विषयाया बुद्धे­र­नु­ष्ठे­य­वि­ष­य­त्वा­त्त­था­र्थ­त्वम् ; किं तर्हि ? वेद­वा­क्य­ज­नि­त­त्वा­देव । वेद­वा­क्या­धि­ग­तस्य वस्तुनस्तथात्वे सति, अनु­ष्ठे­य­त्व­वि­शिष्टं चेत् अनुतिष्ठति ; नो चेद­नु­ष्ठे­य­त्व­वि­शि­ष्टम् , नानुतिष्ठति । अननुष्ठेयत्वे वाक्य­प्र­मा­ण­त्वा­नु­प­प­त्ति­रिति चेत् , न ह्यनुष्ठेयेऽसति पदानां संहतिरुपपद्यते ; अनुष्ठेयत्वे तु सति तादर्थ्येन पदानि संहन्यन्ते ; तत्रा­नु­ष्ठे­य­निष्ठं वाक्यं प्रमाणं भवति — इदमनेनैवं कर्तव्यमिति ; न त्विद­म­ने­नै­व­मि­त्ये­वं­प्र­का­राणां पदशतानामपि वाक्यत्वमस्ति, — ‘कुर्या­त्क्रि­येत कर्तव्यं भवेत्स्यादिति पञ्चमम्’ इत्ये­व­मा­दी­ना­म­न्य­त­मेऽ­सति ; अतः पर­मा­त्मे­श्व­रा­दी­ना­म­वा­क्य­प्र­मा­ण­त्वम् ; पदार्थत्वे च प्रमा­णा­न्त­र­वि­ष­य­त्वम् ; अतोऽसदेतदिति चेत् , न ; ‘अस्ति मेरु­र्व­र्ण­च­तु­ष्ट­यो­पेतः’ इति एव­मा­द्य­न­नु­ष्ठे­येऽपि वाक्यदर्शनात् । न च, ‘मेरु­र्व­र्ण­च­तु­ष्ट­यो­पेतः’ इत्ये­व­मा­दि­वा­क्य­श्र­वणे मेर्वा­दा­व­नु­ष्ठे­य­त्व­बु­द्धि­रु­त्प­द्यते । तथा अस्तिपदसहितानां पर­मा­त्मे­श्व­रा­दि­प्र­ति­पा­द­क­वा­क्य­प­दानां विशे­ष­ण­वि­शे­ष्य­भा­वेन संहतिः केन वार्यते । मेर्वा­दि­ज्ञा­न­व­त्प­र­मा­त्म­ज्ञाने प्रयो­ज­ना­भा­वा­द­यु­क्त­मिति चेत् , न ; ‘ब्रह्म­वि­दा­प्नोति परम्’(तै. उ. २ । १ । १) ‘भिद्यते हृदयग्रन्थि’(मु. उ. २ । २ । ८) इति फलश्रवणात् , संसा­र­बी­जा­वि­द्या­दि­दो­ष­नि­वृ­त्ति­द­र्श­नाच्च । अनन्यशेषत्वाच्च तज्ज्ञानस्य, जुह्वामिव, फल­श्रु­ते­र­र्थ­वा­द­त्वा­नु­प­पत्तिः ॥

प्रति­षि­द्धा­नि­ष्ट­फ­ल­स­म्ब­न्धश्च वेदादेव विज्ञायते । न चानुष्ठेयः सः । न च प्रतिषिद्धविषये प्रवृ­त्त­क्रि­यस्य अक­र­णा­द­न्य­द­नु­ष्ठे­य­मस्ति । अक­र्त­व्य­ता­ज्ञा­न­नि­ष्ठ­तैव हि परमार्थतः प्रतिषेधविधीनां स्यात् । क्षुधार्तस्य प्रति­षे­ध­ज्ञा­न­सं­स्कृ­तस्य, अभक्ष्येऽभोज्ये वा प्रत्युपस्थिते कल­ञ्जा­भि­श­स्ता­न्नादौ ‘इदं भक्ष्यम्’ ‘अदो भोज्यम्’ इति वा ज्ञानमुत्पन्नम् , तद्विषयया प्रति­षे­ध­ज्ञा­न­स्मृत्या बाध्यते ; मृग­तृ­ष्णि­का­या­मिव पेयज्ञानं तद्वि­ष­य­या­था­त्म्य­वि­ज्ञा­नेन । तस्मिन्बाधिते स्वाभा­वि­क­वि­प­री­त­ज्ञा­नेऽ­न­र्थ­करी तद्भ­क्ष­ण­भो­ज­न­प्र­वृ­त्तिर्न भवति । विप­री­त­ज्ञा­न­नि­मि­त्तायाः प्रवृ­त्ते­र्नि­वृ­त्ति­रेव, न पुनर्यत्नः कार्यस्तदभावे । तस्मा­त्प्र­ति­षे­ध­वि­धीनां वस्तु­या­था­त्म्य­ज्ञा­न­नि­ष्ठ­तैव, न पुरु­ष­व्या­पा­र­नि­ष्ठ­ता­ग­न्धोऽ­प्यस्ति । तथेहापि पर­मा­त्मा­दि­या­था­त्म्य­ज्ञा­न­वि­धीनां ताव­न्मा­त्र­प­र्य­व­सा­न­तैव स्यात् । तथा तद्वि­ज्ञा­न­सं­स्कृ­तस्य, तद्वि­प­री­ता­र्थ­ज्ञा­न­नि­मि­त्तानां प्रवृत्तीनाम् , अनर्थार्थत्वेन ज्ञायमानत्वात् पर­मा­त्मा­दि­या­था­त्म्य­ज्ञा­न­स्मृत्या स्वाभाविके तन्नि­मि­त्त­वि­ज्ञाने बाधिते, अभावः स्यात् । ननु कल­ञ्जा­दि­भ­क्ष­णा­दे­र­न­र्था­र्थ­त्व­व­स्तु­या­था­त्म्य­ज्ञा­न­स्मृत्या स्वाभाविके तद्भ­क्ष्य­त्वा­दि­वि­प­री­त­ज्ञाने निवर्तिते तद्भ­क्ष­णा­द्य­न­र्थ­प्र­वृ­त्त्य­भा­व­वत् , अप्र­ति­षे­ध­वि­ष­य­त्वा­च्छा­स्त्र­वि­हि­त­प्र­वृ­त्त्य­भावो न युक्त इति चेत् , न ; विप­री­त­ज्ञा­न­नि­मि­त्त­त्वा­न­र्था­र्थ­त्वाभ्यां तुल्यत्वात् । कल­ञ्ज­भ­क्ष­णा­दि­प्र­वृ­त्ते­र्मि­थ्या­ज्ञा­न­नि­मि­त्त­त्व­म­न­र्था­र्थत्वं च यथा, तथा शास्त्र­वि­हि­त­प्र­वृ­त्ती­ना­मपि । तस्मा­त्प­र­मा­त्म­या­था­त्म्य­वि­ज्ञा­न­वतः शास्त्र­वि­हि­त­प्र­वृ­त्ती­ना­मपि, मिथ्या­ज्ञा­न­नि­मि­त्त­त्वे­ना­न­र्था­र्थ­त्वेन च तुल्यत्वात् , परमात्मज्ञानेन विपरीतज्ञाने निवर्तिते, युक्त एवाभावः । ननु तत्र युक्तः ; नित्यानां तु केव­ल­शा­स्त्र­नि­मि­त्त­त्वा­द­न­र्था­र्थ­त्वा­भा­वाच्च अभावो न युक्त इति चेत् , न ; अवि­द्या­रा­ग­द्वे­षा­दि­दो­ष­वतो विहितत्वात् । यथा स्वर्ग­का­मा­दि­दो­ष­वतो दर्श­पू­र्ण­मा­सा­दीनि काम्यानि कर्माणि विहितानि, तथा सर्वा­न­र्थ­बी­जा­वि­द्या­दि­दो­ष­व­त­स्त­ज्ज­नि­ते­ष्टा­नि­ष्ट­प्रा­प्ति­प­रि­हा­र­रा­ग­द्वे­षा­दि­दो­ष­व­तश्च तत्प्रे­रि­ता­वि­शे­ष­प्र­वृ­त्ते­रि­ष्टा­नि­ष्ट­प्रा­प्ति­प­रि­हा­रा­र्थिनो नित्यानि कर्माणि विधीयन्ते ; न केवलं शास्त्र­नि­मि­त्ता­न्येव । न चाग्नि­हो­त्र­द­र्श­पू­र्ण­मा­स­चा­तु­र्मा­स्य­प­शु­ब­न्ध­सो­मानां कर्मणां स्वतः काम्य­नि­त्य­त्व­वि­वे­कोऽस्ति । कर्तृगतेन हि स्वर्गा­दि­का­म­दो­षेण कामार्थता ; तथा अविद्यादिदोषवतः स्वभा­व­प्रा­प्ते­ष्टा­नि­ष्ट­प्रा­प्ति­प­रि­हा­रा­र्थि­न­स्त­द­र्था­न्येव नित्यानि — इति युक्तम् ; तं प्रति विहितत्वात् । न पर­मा­त्म­या­था­त्म्य­वि­ज्ञा­न­वतः शमो­पा­य­व्य­ति­रे­केण किञ्चित्कर्म विहितमुपलभ्यते । कर्म­नि­मि­त्त­दे­व­ता­दि­स­र्व­सा­ध­न­वि­ज्ञा­नो­प­म­र्देन ह्यात्मज्ञानं विधीयते । न चोप­म­र्दि­त­क्रि­या­का­र­का­दि­वि­ज्ञा­नस्य कर्म­प्र­वृ­त्ति­रु­प­प­द्यते, विशि­ष्ट­क्रि­या­सा­ध­ना­दि­ज्ञा­न­पू­र्व­क­त्वा­त्क्रि­या­प्र­वृत्तेः । न हि देश­का­ला­द्य­न­व­च्छि­न्ना­स्थू­ला­द्व­या­दि­ब्र­ह्म­प्र­त्य­य­धा­रिणः कर्मावसरोऽस्ति । भोज­ना­दि­प्र­वृ­त्त्य­व­स­र­व­त्स्या­दिति चेत् , न ; अवि­द्या­दि­के­व­ल­दो­ष­नि­मि­त्त­त्वा­द्भो­ज­ना­दि­प्र­वृ­त्ते­रा­व­श्य­क­त्वा­नु­प­पत्तेः । न तु, तथा अनियतं कदाचित्क्रियते कदाचिन्न क्रियते चेति, नित्यं कर्मोपपद्यते । केव­ल­दो­ष­नि­मि­त्त­त्वात्तु भोज­ना­दि­क­र्म­णोऽ­नि­य­तत्वं स्यात् , दोषो­द्भ­वा­भि­भ­व­यो­र­नि­य­त­त्वात् , कामानामिव काम्येषु । शास्त्र­नि­मि­त्त­का­ला­द्य­पे­क्ष­त्वाच्च नित्या­ना­म­नि­य­त­त्वा­नु­प­पत्तिः ; दोषनिमित्तत्वे सत्यपि, यथा काम्या­ग्नि­हो­त्रस्य शास्त्र­वि­हि­त­त्वा­त्सा­य­म्प्रा­तः­का­ला­द्य­पे­क्ष­त्वम् , एवम् । तद्भो­ज­ना­दि­प्र­वृत्तौ नियमवत्स्यादिति चेत् , न ; नियमस्य अक्रियात्वात् क्रिया­या­श्चा­प्र­यो­ज­न­क­त्वात् नासौ ज्ञान­स्या­प­वा­द­करः । तस्मात् , पर­मा­त्म­या­था­त्म्य­ज्ञा­न­वि­धे­रपि तद्वि­प­री­त­स्थू­ल­द्वै­ता­दि­ज्ञा­न­नि­व­र्त­क­त्वात् साम­र्थ्या­त्स­र्व­क­र्म­प्र­ति­षे­ध­वि­ध्य­र्थत्वं सम्पद्यते कर्म­प्र­वृ­त्त्य­भा­वस्य तुल्यत्वात् , यथा प्रतिषेधविषये । तस्मात् , प्रति­षे­ध­वि­धि­वच्च, वस्तुप्रतिपादनं तत्परत्वं च सिद्धं शास्त्रस्य ॥

ते ह वाचमूचुस्त्वं न उद्गायेति तथेति तेभ्यो वागुदगायत् । यो वाचि भोगस्तं देवेभ्य आगा­य­द्य­त्क­ल्याणं वदति तदात्मने । ते विदुरनेन वै न उद्गा­त्रा­त्ये­ष्य­न्तीति तमभिद्रुत्य पाप्मनाविध्यन्स यः स पाप्मा यदे­वे­द­म­प्र­ति­रूपं वदति स एव स पाप्मा ॥ २ ॥

ते देवाः, ह एवं विनिश्चित्य, वाचं वागभिमानिनीं देवताम् , ऊचुः उक्तवन्तः ; त्वम् , नः अस्मभ्यम् , उद्गाय औद्गात्रं कर्म कुरुष्व ; वाग्दे­व­ता­नि­र्व­र्त्य­मौ­द्गात्रं कर्म दृष्टवन्तः, तामेव च देवतां जप­म­न्त्रा­भि­धे­याम् — ‘असतो मा सद्गमय’ इति । अत्र चोपासनायाः कर्मणश्च कर्तृत्वेन वागादय एव विवक्ष्यन्ते । कस्मात् ? यस्मा­त्प­र­मा­र्थ­त­स्त­त्क­र्तृ­क­स्त­द्वि­षय एव च सर्वो ज्ञान­क­र्म­सं­व्य­व­हारः । वक्ष्यति हि ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) इत्या­त्म­क­र्तृ­क­त्वा­भावं विस्तरतः षष्ठे । इहापि च अध्यायान्ते उपसंहरिष्यति अव्या­कृ­ता­दि­क्रि­या­का­र­क­फ­ल­जा­तम् — ‘त्रयं वा इदं नाम रूपं कर्म’(बृ. उ. १ । ६ । १) इति — अविद्याविषयम् । अव्याकृतात्तु यत्परं परमात्माख्यं विद्याविषयम् अना­म­रू­प­क­र्मा­त्म­कम् , ‘नेति नेति’(बृ. उ. २ । ३ । ६) इति इत­र­प्र­त्या­ख्या­ने­नो­प­सं­ह­रि­ष्यति पृथक् । यस्तु वागा­दि­स­मा­हा­रो­पा­धि­प­रि­क­ल्पितः संसार्यात्मा, तं च वागा­दि­स­मा­हा­र­प­क्ष­पा­ति­न­मेव दर्शयिष्यति — ‘एतेभ्यो भूतेभ्यः समुत्थाय तान्ये­वा­नु­वि­न­श्यति’(बृ. उ. २ । ४ । १२) इति तस्माद्युक्ता वागादीनामेव ज्ञान­क­र्म­क­र्तृ­त्व­फ­ल­प्रा­प्ति­वि­वक्षा । तथेति तथास्त्विति, देवैरुक्ता वाक् तेभ्यः अर्थिभ्यः अर्थाय, उदगायत् उद्गानं कृतवती । कः पुनरसौ देवे­भ्योऽ­र्था­यो­द्गा­न­क­र्मणा वाचा निर्वर्तितः कार्यविशेष इति, उच्यते — यो वाचि — निमित्तभूतायाम् — वागादिसमुदायस्य य उपकारो निष्पद्यते वद­ना­दि­व्या­पा­रेण, स एव । सर्वेषां ह्यसौ वाग्व­द­ना­भि­नि­र्वृत्तो भोगः फलम् । तं भोगं सा त्रिषु पवमानेषु कृत्वा अवशिष्टेषु नवसु स्तोत्रेषु वाच­नि­क­मा­र्त्विज्यं फलम् — यत्कल्याणं शोभनम् , वदति वर्णा­न­भि­नि­र्व­र्त­यति, तत् — आत्मने मह्यमेव । तद्ध्यसाधारणं वाग्देवातायाः कर्म, यत्स­म्य­ग्व­र्णा­ना­मु­च्चा­र­णम् ; अतस्तदेव विशेष्यते — ‘यत्कल्याणं वदति’ इति । यत्तु वदनकार्यं सर्व­स­ङ्घा­तो­प­का­रा­त्म­कम् , तद्याजमानमेव । तत्र कल्या­ण­व­द­ना­त्म­स­म्ब­न्धा­स­ङ्गा­व­सरं देवताया रन्ध्रं प्रतिलभ्य ते विदुः असुराः ; कथम् ? अनेनोद्गात्रा, नः अस्मान् , स्वाभाविकं ज्ञानं कर्म च, अभिभूय अतीत्य, शास्त्र­ज­नि­त­क­र्म­ज्ञा­न­रू­पेण ज्योति­षो­द्गा­त्रा­त्मना अत्येष्यन्ति अतिगमिष्यन्ति — इत्येवं विज्ञाय, तमुद्गातारम् , अभिद्रुत्य अभिगम्य, स्वेन आसङ्गलक्षणेन पाप्मना अविध्यन् ताडितवन्तः संयोजितवन्त इत्यर्थः । स यः स पाप्मा — प्रजापतेः पूर्व­ज­न्मा­व­स्थस्य वाचि क्षिप्तः स एष प्रत्य­क्षी­क्रि­यते — कोऽसौ ? यदे­वे­द­म­प्र­ति­रू­पम् अननुरूपं शास्त्र­प्र­ति­षिद्धं वदति, येन प्रयु­क्तोऽ­स­भ्य­बी­भ­त्सा­नृ­ता­द्य­नि­च्छ­न्नपि वदति ; अनेन कार्ये­णा­प्र­ति­रू­प­व­द­ने­ना­नु­ग­म्य­मानः प्रजापतेः कार्यभूतासु प्रजासु वाचि वर्तते ; स एवा­प्र­ति­रू­प­व­द­ने­ना­नु­मितः, स प्रजापतेर्वाचि गतः पाप्मा ; कारणानुविधायि हि कार्यमिति ॥

अथ ह प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्यः प्राण उदगायद्यः प्राणे भोगस्तं

अथ ह प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य: प्राण उदगायद्यः प्राणे भोगस्तं देवेभ्य आगा­य­द्य­त्क­ल्याणं जिघ्रति तदात्मने । ते विदुरनेन वै न उद्गा­त्रा­त्ये­ष्य­न्तीति तमभिद्रुत्य पाप्मनाविध्यन्स यः स पाप्मा यदे­वे­द­म­प्र­ति­रूपं जिघ्रति स एव स पाप्मा ॥ ३ ॥

अथ ह चक्षुरूचुस्त्वं न उद्गायेति तथेति तेभ्य­श्च­क्षु­रु­द­गा­यत् । यश्चक्षुषि भोगस्तं देवेभ्य आगा­य­द्य­त्क­ल्याणं पश्यति तदात्मने । ते विदुरनेन वै न उद्गा­त्रा­त्ये­ष्य­न्तीति तमभिद्रुत्य पाप्मनाविध्यन्स यः स पाप्मा यदे­वे­द­म­प्र­ति­रूपं पश्यति स एव स पाप्मा ॥ ४ ॥

अथ ह श्रोत्र­मू­चुस्त्वं न उद्गायेति तथेति तेभ्यः श्रोत्र­मु­द­गा­यद्यः श्रोत्रे भोगस्तं देवेभ्य आगा­य­द्य­त्क­ल्याणं शृणोति तदात्मने । ते विदुरनेन वै न उद्गा­त्रा­त्ये­ष्य­न्तीति तमभिद्रुत्य पाप्मनाविध्यन्स यः स पाप्मा यदे­वे­द­म­प्र­ति­रूपं शृणोति स एव स पाप्मा ॥ ५ ॥

अथ ह मन ऊचुस्त्वं न उद्गायेति तथेति तेभ्यो मन उदगायद्यो मनसि भोगस्तं देवेभ्य आगा­य­द्य­त्क­ल्याणं सङ्कल्पयति तदात्मने । ते विदुरनेन वै न उद्गा­त्रा­त्ये­ष्य­न्तीति तमभिद्रुत्य पाप्मनाविध्यन्स यः स पाप्मा यदे­वे­द­म­प्र­ति­रूपं सङ्कल्पयति स एव स पाप्मैवमु खल्वेता देवताः पाप्म­भि­रु­पा­सृ­ज­न्ने­व­मेनाः पाप्मनाविध्यन् ॥ ६ ॥

तथैव घ्राणादिदेवता उद्गी­थ­नि­र्व­र्त­क­त्वा­ज्ज­प­म­न्त्र­प्र­काश्या उपास्याश्चेति क्रमेण परीक्षितवन्तः । देवानां चैत­न्नि­श्चि­त­मा­सीत् — वागादिदेवताः क्रमेण परीक्ष्यमाणाः कल्या­ण­वि­ष­य­वि­शे­षा­त्म­स­म्ब­न्धा­स­ङ्ग­हे­तो­रा­सु­र­पा­प्म­सं­स­र्गा­दु­द्गी­थ­नि­र्व­र्त­ना­स­मर्थाः ; अतोऽनभिधेयाः, ‘असतो मा सद्गमय’ इत्यनुपास्याश्च ; अशु­द्ध­त्वा­दि­त­रा­व्या­प­क­त्वा­च्चेति । एवमु खलु, अनुक्ता अप्ये­ता­स्त्व­गा­दि­दे­वताः, कल्या­णा­क­ल्या­ण­का­र्य­द­र्श­नात् , एवं वागादिवदेव, एनाः, पाप्मना अविध्यन् पाप्मना विद्धवन्त इति यदुक्तं तत्पा­प्म­भि­रु­पा­सृ­जन् पाप्मभिः संसर्गं कृतवन्त इत्येतत् ॥

वागादिदेवता उपासीना अपि मृत्य्व­ति­ग­म­ना­या­श­रणाः सन्तो देवाः, क्रमेण —

अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्ते विदुरनेन वै न उद्गा­त्रा­त्ये­ष्य­न्तीति तमभिद्रुत्य पाप्म­ना­वि­व्य­त्सन्स यथाश्मानमृत्वा लोष्टो विध्वंसेतैवं हैव विध्वंसमाना विष्वञ्चो विनेशुस्ततो देवा अभवन्परासुरा भवत्यात्मना परास्य द्विष­न्भ्रा­तृव्यो भवति य एवं वेद ॥ ७ ॥

अथ अनन्तरम् , ह इम­मि­त्य­भि­न­य­प्र­द­र्श­ना­र्थम् , आसन्यम् आस्ये भवमासन्यं मुखा­न्त­र्बि­लस्थं प्राणमूचुः — ‘त्वं न उद्गाय’ इति । तथेत्येवं शरणमुपगतेभ्यः स एष प्राणो मुख्य उदगायत् इत्यादि पूर्ववत् । पाप्मना अविव्यत्सन् वेधनं कर्तु­मि­ष्ट­वन्तः, ते च दोषासंसर्गिणं सन्तं मुख्यं प्राणम् , स्वेन आसङ्गदोषेण वागादिषु लब्ध­प्र­स­रा­स्त­द­भ्या­सा­नु­वृत्त्या, संस्रक्ष्यमाणा विनेशुः विनष्टा विध्वस्ताः ; कथमिवेति दृष्टान्त उच्यते — स यथा स दृष्टान्तो यथा — लोके अश्मानं पाषाणम् , ऋत्वा गत्वा प्राप्य, लोष्टः पांसुपिण्डः, पाषा­ण­चू­र्ण­ना­या­श्मनि निक्षिप्तः स्वयं विध्वंसेत विस्रंसेत विचूर्णीभवेत् ; एवं हैव यथायं दृष्टान्त एवमेव, विध्वंसमाना विशेषेण ध्वंसमानाः, विष्वञ्चः नानागतयः, विनेशुः विनष्टाः, यतः ; — ततः तस्मा­दा­सु­र­वि­ना­शा­द्दे­व­त्व­प्र­ति­ब­न्ध­भू­तेभ्यः स्वाभा­वि­का­स­ङ्ग­ज­नि­त­पा­प्मभ्यो वियोगात् , असं­स­र्ग­ध­र्मि­मु­ख्य­प्रा­णा­श्र­य­ब­लात् , देवाः वागादयः प्रकृताः, अभवन् ; किमभवन् ? स्वं देव­ता­रू­प­म­ग्न्या­द्या­त्मकं वक्ष्यमाणम् । पूर्व­म­प्य­ग्न्या­द्या­त्मका एव सन्तः स्वाभाविकेन पाप्मना तिर­स्कृ­त­वि­ज्ञानाः पिण्ड­मा­त्रा­भि­माना आसन् । ते तत्पा­प्म­वि­यो­गा­दु­ज्झित्वा पिण्ड­मा­त्रा­भि­मानं शास्त्र­स­म­र्पि­त­वा­गा­द्य­ग्न्या­द्या­त्मा­भि­माना बभूवुरित्यर्थः । किञ्च ते प्रतिपक्षभूता असुराः परा — अभ­व­न्नि­त्य­नु­व­र्तते ; पराभूता विनष्टा इत्यर्थः । यथा पुराकल्पेन वर्णितः पूर्व­य­ज­मा­नोऽ­ति­क्रा­न्त­का­लिकः एता­मे­वा­ख्या­यि­का­रूपां श्रुतिं दृष्ट्वा, तेनैव क्रमेण वागादिदेवताः परीक्ष्य, ताश्चा­पो­ह्या­स­ङ्ग­पा­प्मा­स्प­द­दो­ष­व­त्त्वे­ना­दो­षा­स्पदं मुख्यं प्राण­मा­त्म­त्वे­नो­प­गम्य, वागा­द्या­ध्या­त्मि­क­पि­ण्ड­मा­त्र­प­रि­च्छि­न्ना­त्मा­भि­मानं हित्वा, वैरा­ज­पि­ण्डा­भि­मानं वागा­द्य­ग्न्या­द्या­त्म­वि­षयं वर्त­मा­न­प्र­जा­प­तित्वं शास्त्र­प्र­का­शितं प्रतिपन्नः ; तथैवायं यजमानस्तेनैव विधिना भवति प्रजा­प­ति­स्व­रू­पे­णा­त्मना ; परा च, अस्य प्रजा­प­ति­त्व­प्र­ति­प­क्ष­भूतः पाप्मा द्विष­न्भ्रा­तृव्यः, भवति ; — यतोऽद्वेष्टापि भवति कश्चि­द्भ्रा­तृव्यो भरतादितुल्यः ; यस्त्वि­न्द्रि­य­वि­ष­या­स­ङ्ग­ज­नितः पाप्मा, भ्रातृव्यो द्वेष्टा च, पार­मा­र्थि­का­त्म­स्व­रू­प­ति­र­स्क­र­ण­हे­तु­त्वात् — स च पराभवति विशीर्यते, लोष्टवत् , प्राण­प­रि­ष्व­ङ्गात् । कस्यै­त­त्फ­ल­मि­त्याह — य एवं वेद, यथोक्तं प्राणमात्मत्वेन प्रतिपद्यते पूर्व­य­ज­मा­न­व­दि­त्यर्थः ॥

फल­मु­प­सं­हृ­त्या­धु­ना­ख्या­यि­का­रू­प­मे­वा­श्रि­त्याह । कस्माच्च हेतो­र्वा­गा­दी­न्मुक्त्वा मुख्य एव प्राण आत्म­त्वे­ना­श्र­यि­तव्य इति तदु­प­प­त्ति­नि­रू­प­णाय, यस्मादयं वागादीनां पिण्डादीनां च साधारण आत्मा — इत्ये­त­म­र्थ­मा­ख्या­यि­कया दर्शयन्त्याह श्रुतिः —

ते होचुः क्व नु सोऽभूद्यो न इत्थ­म­स­क्ते­त्य­य­मा­स्येऽ­न्त­रिति सोऽयास्य आङ्गि­र­सोऽ­ङ्गानां हि रसः ॥ ८ ॥

ते प्रजा­प­ति­प्राणाः, मुख्येन प्राणेन परि­प्रा­पि­त­दे­व­स्व­रूपाः, ह ऊचुः उक्तवन्तः, फलावस्थाः ; किमित्याह — क्व न्विति वितर्के ; क्व नु कस्मिन्नु, सोऽभूत् ; कः ? यो नोऽस्मान् , इत्थम् एवम् , असक्त सञ्जितवान् देव­भा­व­मा­त्म­त्वे­नो­प­ग­मि­त­वान् । स्मरन्ति हि लोके केनचिदुपकृता उपकारिणम् ; लोकवदेव स्मरन्तो विचारयमाणाः कार्यकरणसङ्घाते आत्म­न्ये­वो­प­ल­ब्ध­वन्तः ; कथम् ? अय­मा­स्येऽ­न्त­रिति — आस्ये मुखे य आकाशस्तस्मिन् , अन्तः, अयं प्रत्यक्षो वर्तत इति । सर्वो हि लोको विचा­र्या­ध्य­व­स्यति ; तथा देवाः ।

यस्मा­द­य­म­न्त­रा­काशे वागा­द्या­त्म­त्वेन विशेषमनाश्रित्य वर्तमान उपलब्धो देवैः, तस्मात् — स प्राणोऽयास्यः ; विशे­षा­ना­श्र­य­त्वाच्च असक्त सञ्जि­त­वा­न्वा­गा­दीन् ; अत एवाङ्गिरसः आत्मा कार्यकरणानाम् ; कथमाङ्गिरसः ? प्रसिद्धं ह्येतत् , अङ्गानां कार्य­क­र­ण­ल­क्ष­णा­नाम् , रसः सार आत्मेत्यर्थः ; कथं पुनरङ्गरसत्वम् ? तदपाये शोषप्राप्तेरिति वक्ष्यामः । यस्मा­च्चा­य­म­ङ्ग­र­स­त्वा­द्वि­शे­षा­ना­श्र­य­त्वाच्च कार्यकरणानां साधारण आत्मा विशुद्धश्च, तस्मा­द्वा­गा­दी­न­पास्य प्राण एवा­त्म­त्वे­ना­श्र­यि­तव्य इति वाक्यार्थः । आत्मा ह्यात्म­त्वे­नो­प­ग­न्तव्यः ; अवि­प­री­त­बो­धा­च्छ्रे­यः­प्राप्तेः, विपर्यये चानि­ष्टा­प्रा­प्ति­द­र्श­नात् ॥

सा वा एषा देवता दूर्नाम दूरं ह्यस्या मृत्युर्दूरं ह वा अस्मा­न्मृ­त्यु­र्भ­वति य एवं वेद ॥ ९ ॥

स्यान्मतं प्राणस्य विशु­द्धि­र­सि­द्धेति ; ननु परि­हृ­त­मे­त­द्वा­गा­दीनां कल्या­ण­व­द­ना­द्या­स­ङ्ग­व­त्प्रा­ण­स्या­स­ङ्गा­स्प­दा­भा­वेन ; बाढम् ; किं त्वाङ्गिरसत्वेन वागा­दी­ना­मा­त्म­त्वोक्त्या वागादिद्वारेण शव­स्पृ­ष्टि­त­त्स्पृ­ष्टे­रि­वा­शु­द्धता शङ्क्यत इति । आह — शुद्ध एव प्राणः ; कुतः ? सा वा एषा देवता दूर्नाम — यं प्राणं प्राप्या­श्मा­न­मिव लोष्ट­व­द्वि­ध्वस्ता असुराः ; तं परामृशति — सेति ; सैवैषा, येयं वर्त­मा­न­य­ज­मा­न­श­री­रस्था देवै­र्नि­र्धा­रिता ‘अयमास्येऽन्तः’ इति ; देवता च सा स्यात् , उपासनक्रियायाः कर्मभावेन गुणभूतत्वात् ; यस्मात्सा दूर्नाम दूरित्येवं ख्याता — नामशब्दः ख्यापनपर्यायः — तस्मा­त्प्र­सि­द्धास्या विशुद्धिः, दूर्नामत्वात् ; कुतः पुन­र्दू­र्ना­म­त्व­मि­त्याह — दूरं दूरे, हि यस्मात् , अस्याः प्राणदेवतायाः, मृत्यु­रा­स­ङ्ग­ल­क्षणः पाप्मा ; असं­श्ले­ष­ध­र्मि­त्वा­त्प्रा­णस्य समीपस्थस्यापि दूरता मृत्योः ; तस्मा­द्दू­रि­त्येवं ख्यातिः ; एवं प्राणस्य विशु­द्धि­र्ज्ञा­पिता । विदुषः फलमुच्यते — दूरं ह वा अस्मा­न्मृ­त्यु­र्भ­वति — अस्मादेवंविदः, य एवं वेद तस्मात् , एवमिति — प्रकृतं विशु­द्धि­गु­णो­पेतं प्राणमुपास्त इत्यर्थः । उपासनं नाम उपास्यार्थवादे यथा देवतादिस्वरूपं श्रुत्या ज्ञाप्यते तथा मनसोपगम्य, आसनं चिन्तनम् , लौकि­क­प्र­त्य­या­व्य­व­धा­नेन, यावत् तद्दे­व­ता­दि­स्व­रू­पा­त्मा­भि­मा­ना­भि­व्य­क्ति­रिति लौकि­का­त्मा­भि­मा­न­वत् ; — ‘देवो भूत्वा देवानप्येति’(बृ. उ. ४ । १ । २) ‘किन्दे­व­तोऽस्यां प्राच्यां दिश्यसि’(बृ. उ. ३ । ९ । २०) इत्ये­व­मा­दि­श्रु­तिभ्यः ॥

‘सा वा एषा देवता...दूरं ह वा अस्मा­न्मृ­त्यु­र्भ­वति’ इत्युक्तम् ; कथं पुनरेवंविदो दूरं मृत्युर्भवतीति ? उच्यते — एवं­वि­त्त्व­वि­रो­धात् ; इन्द्रि­य­वि­ष­य­सं­स­र्गा­स­ङ्गजो हि पाप्मा प्राणा­त्मा­भि­मा­निनो हि विरुध्यते, वागा­दि­वि­शे­षा­त्मा­भि­मा­न­हे­तु­त्वा­त्स्वा­भा­वि­का­ज्ञा­न­हे­तु­त्वाच्च ; शास्त्रजनितो हि प्राणा­त्मा­भि­मानः ; तस्मात् एवंविदः पाप्मा दूरं भवतीति युक्तम् , विरोधात् ; — तदे­त­त्प्र­द­र्श­यति —

सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्रासां दिशा­म­न्त­स्त­द्ग­म­या­ञ्च­कार तदासां पाप्मनो विन्य­द­धा­त्त­स्मान्न जन­मि­या­न्ना­न्त­मि­या­न्ने­त्पा­प्मानं मृत्यु­म­न्व­वा­या­नीति ॥ १० ॥

१०

सा वा एषा देव­ते­त्यु­क्ता­र्थम् । एतासां वागादीनां देवतानाम् , पाप्मानं मृत्युम् — स्वाभा­वि­का­ज्ञा­न­प्र­यु­क्ते­न्द्रि­य­वि­ष­य­सं­स­र्गा­स­ङ्ग­ज­नि­तेन हि पाप्मना सर्वो म्रियते, स ह्यतो मृत्युः — तम् , प्राणा­त्मा­भि­मा­न­रू­पाभ्यो देवताभ्यः, अपच्छिद्य अपहत्य, — प्राणा­त्मा­भि­मा­न­मा­त्र­त­यैव प्राणोऽ­प­ह­न्ते­त्यु­च्यते ; विरोधादेव तु पाप्मैवंविदो दूरं गतो भवति ; किं पुनश्चकार देवतानां पाप्मानं मृत्यु­म­प­ह­त्ये­त्यु­च्यते — यत्र यस्मिन् , आसां प्राच्यादीनां दिशाम् , अन्तः अवसानम् , तत् तत्र गमयाञ्चकार गमनं कृतवानित्येतत् । ननु नास्ति दिशामन्तः, कथमन्तं गमितवानिति ; उच्यते — श्रौत­वि­ज्ञा­न­व­ज्ज­ना­व­धि­नि­मि­त्त­क­ल्पि­त­त्वा­द्दिशां तद्वि­रो­धि­ज­ना­ध्यु­षित एव देशो दिशामन्तः, देशा­न्तोऽ­र­ण्य­मिति यद्वत् ; इत्यदोषः । तत्तत्र गमयित्वा, आसां देवतानाम् , पाप्मन इति द्विती­या­ब­हु­व­च­नम् , विन्यदधात् विविधं न्यग्भा­वे­ना­द­धा­त्स्था­पि­त­वती, प्राणदेवता ; प्राणा­त्मा­भि­मा­न­शू­न्ये­ष्व­न्त्य­ज­ने­ष्विति सामर्थ्यात् ; इन्द्रि­य­सं­स­र्गजो हि स इति प्राण्या­श्र­य­ता­व­ग­म्यते । तस्मात्तमन्त्यं जनम् , नेयात् न गच्छेत् सम्भा­ष­ण­द­र्श­ना­दि­भिर्न संसृजेत् ; तत्संसर्गे पाप्मना संसर्गः कृतः स्यात् ; पाप्माश्रयो हि सः ; तज्जननिवासं चान्तं दिग­न्त­श­ब्द­वा­च्यम् , नेयात् — जनशून्यमपि, जनमपि तद्देशवियुक्तम् , इत्यभिप्रायः । नेदिति परिभयार्थे निपातः ; इत्थं जनसंसर्गे, पाप्मानं मृत्युम् , अन्ववायानीति — अनु अव अयानीति अनुगच्छेयमिति ; एवं भीतो न जनमन्तं चेयादिति पूर्वेण सम्बन्धः ॥

सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्यु­म­प­ह­त्या­थैना मृत्युमत्यवहत् ॥ ११ ॥

११

सा वा एषा देवता — तदे­त­त्प्रा­णा­त्म­ज्ञा­न­क­र्म­फलं वागा­दी­ना­म­ग्न्या­द्या­त्म­त्व­मु­च्यते । अथैना मृत्युमत्यवहत् — यस्मा­दा­ध्या­त्मि­क­प­रि­च्छे­द­करः पाप्मा मृत्युः प्राणा­त्म­वि­ज्ञा­ने­ना­प­हतः, तस्मात्स प्राणोऽपहन्ता पाप्मनो मृत्योः ; तस्मात्स एव प्राणः, एना वागादिदेवताः, प्रकृतं पाप्मानं मृत्युम् , अतीत्य अवहत् प्रापयत् स्वं स्वम­प­रि­च्छि­न्न­म­ग्न्या­दि­दे­व­ता­त्म­रू­पम् ॥

स वै वाचमेव प्रथमामत्यवहत् ; सा यदा मृत्यु­म­त्य­मु­च्यत सोऽग्निरभवत् ; सोऽयमग्निः परेण मृत्यु­म­ति­क्रान्तो दीप्यते ॥ १२ ॥

१२

स वै वाचमेव प्रथमामत्यवहत् — स प्राणः, वाचमेव, प्रथमां प्रधा­ना­मि­त्ये­तत् — उद्गी­थ­क­र्म­णी­त­र­क­र­णा­पे­क्षया साधकतमत्वं प्राधान्यं तस्याः — तां प्रथमामत्यवहत् वहनं कृतवान् । तस्याः पुन­र्मृ­त्यु­म­ती­त्यो­ढायाः किं रूपमित्युच्यते — सा वाक् , यदा यस्मिन्काले, पाप्मानं मृत्युम् , अत्यमुच्यत अतीत्यामुच्यत मोचिता स्वयमेव, तदा सः

अग्निः अभवत् — सा वाक् — पूर्व­म­प्य­ग्नि­रेव सती मृत्यु­वि­यो­गेऽ­प्य­ग्नि­रे­वा­भ­वत् । एतावांस्तु विशेषो मृत्युवियोगे — सोऽय­म­ति­क्रा­न्तोऽग्निः, परेण मृत्युं पर­स्ता­न्मृत्योः, दीप्यते ; प्राङ्मो­क्षा­न्मृ­त्यु­प्र­ति­ब­द्धोऽ­ध्या­त्म­वा­गा­त्मना नेदानीमिव दीप्तिमानासीत् ; इदानीं तु मृत्युं परेण दीप्यते मृत्युवियोगात् ॥

अथ प्राणमत्यवहत् ; स यदा मृत्यु­म­त्य­मु­च्यत स वायुरभवत् ; सोऽयं वायुः परेण मृत्यु­म­ति­क्रान्तः पवते ॥ १३ ॥

१३

तथा — प्राणः घ्राणम् — वायुरभवत् ; स तु पवते मृत्युं परेणातिक्रान्तः । सर्व­म­न्य­दु­क्ता­र्थम् ॥

अथ चक्षुरत्यवहत् ; तद्यदा मृत्यु­म­त्य­मु­च्यत स आदित्योऽभवत् ; सोऽसावादित्यः परेण मृत्यु­म­ति­क्रा­न्त­स्त­पति ॥ १४ ॥

१४

तथा चक्षु­रा­दि­त्योऽ­भ­वत् ; स तु तपति ॥

अथ श्रोत्रमत्यवहत् ; तद्यदा मृत्यु­म­त्य­मु­च्यत ता दिशोऽभवंस्ता इमा दिशः परेण मृत्यु­म­ति­क्रान्ताः ॥ १५ ॥

१५

तथा श्रोत्रं दिशोऽभवन् ; दिशः प्राच्या­दि­वि­भा­गे­ना­व­स्थिताः ॥

अथ मनोऽत्यवहत् ; तद्यदा मृत्यु­म­त्य­मु­च्यत स चन्द्रमा अभवत् ; सोऽसौ चन्द्रः परेण मृत्यु­म­ति­क्रान्तो भात्येवं ह वा एनमेषा देवता मृत्युमतिवहति य एवं वेद ॥ १६ ॥

१६

मनः चन्द्रमाः — भाति । यथा पूर्वयजमानं वागा­द्य­ग्न्या­दि­भा­वेन मृत्युमत्यवहत् , एवम् एनं वर्त­मा­न­य­ज­मा­न­मपि, ह वै, एषा प्राणदेवता मृत्युमतिवहति वागा­द्य­ग्न्या­दि­भा­वेन, एवं यो वागा­दि­प­ञ्च­क­वि­शिष्टं प्राणं वेद ; ‘तं यथा यथोपासते तदेव भवति’(शत. १० । ५ । २ । २०) इति श्रुतेः ॥

अथा­त्म­नेऽ­न्ना­द्य­मा­गा­य­द्यद्धि किञ्चा­न्न­म­द्य­तेऽ­ने­नैव तदद्यत इह प्रतितिष्ठति ॥ १७ ॥

१७

अथात्मने । यथा वागा­दि­भि­रा­त्मा­र्थ­मा­गानं कृतम् ; तथा मुख्योऽपि प्राणः सर्व­प्रा­ण­सा­धा­रणं प्राजा­प­त्य­फ­ल­मा­गानं कृत्वा त्रिषु पवमानेषु, अथ अनन्तरं शिष्टेषु नवसु स्तोत्रेषु, आत्मने आत्मार्थम् , अन्नाद्यम् अन्नं च तदाद्यं च अन्नाद्यम् , आगायत् । कर्तुः कामसंयोगो वाचनिक इत्युक्तम् । कथं पुनस्तदन्नाद्यं प्राणे­ना­त्मा­र्थ­मा­गी­त­मिति गम्यत इत्यत्र हेतुमाह — यत्किञ्चेति — सामा­न्या­न्न­मा­त्र­प­रा­म­र्शार्थः ; हीति हेतौ ; यस्माल्लोके प्राणि­भि­र्य­त्कि­ञ्चि­द­न्न­म­द्यते भक्ष्यते तदनेनैव प्राणेनैव ; अन इति प्राणस्याख्या प्रसिद्धा ; अनः शब्दः सान्तः शकटवाची, यस्त्वन्यः स्वरान्तः स प्राणपर्यायः ; प्राणेनैव तदद्यत इत्यर्थः ; किञ्च, न केवलं प्राणेनाद्यत एवान्नाद्यम् , तस्मि­ञ्श­री­रा­का­र­प­रि­ण­तेऽ­न्नाद्ये इह, प्रतितिष्ठति प्राणः ; तस्मा­त्प्रा­णे­ना­त्मनः प्रति­ष्ठा­र्थ­मा­गी­त­म­न्ना­द्यम् । यदपि प्राणेनान्नादनं तदपि प्राणस्य प्रति­ष्ठा­र्थ­मे­वेति न वागादिष्विव कल्या­णा­स­ङ्ग­ज­पा­प्म­स­म्भवः प्राणेऽस्ति ॥

ते देवा अब्रु­व­न्ने­ता­वद्वा इदं सर्वं यदन्नं तदात्मन आगासीरनु नोऽस्मिन्नन्न आभजस्वेति ते वै माभिसंविशतेति तथेति तं समन्तं परिण्यविशन्त । तस्मा­द्य­द­ने­ना­न्न­मत्ति तेनै­ता­स्तृ­प्य­न्त्येवं ह वा एनं स्वा अभिसंविशन्ति भर्ता स्वानां श्रेष्ठः पुर एता भव­त्य­न्ना­दोऽ­धि­प­तिर्य एवं वेद य उ हैवंविदं स्वेषु प्रति प्रतिर्बुभूषति न हैवालं भार्येभ्यो भवत्यथ य एवैतमनु भवति यो वैतमनु भार्या­न्बु­भू­र्षति स हैवालं भार्येभ्यो भवति ॥ १८ ॥

१८

ते देवाः । नन्व­व­धा­र­ण­म­यु­क्तम् ‘प्राणेनैव तदद्यते’ इति, वागा­दी­ना­म­प्य­न्न­नि­मि­त्तो­प­का­र­द­र्श­नात् ; नैष दोषः, प्राण­द्वा­र­त्वा­त्त­दु­प­का­रस्य । कथं प्राण­द्वा­र­कोऽ­न्न­कृतो वागादीनामुपकार इत्येतमर्थं प्रदर्शयन्नाह — ते वागादयो देवाः, स्ववि­ष­य­द्यो­त­ना­द्देवाः, अब्रुवन् उक्तवन्तो मुख्यं प्राणम् — ‘इदम् एतावत् , नातोऽधिकमस्ति ; वा इति स्मरणार्थः ; इदं तत्सर्वमेतावदेव ; किम् ? यदन्नं प्राण­स्थि­ति­क­र­म­द्यते लोके, तत्सर्वमात्मने आत्मार्थम् , आगासीः आगीतवानसि आगा­ने­ना­त्म­सा­त्कृ­त­मि­त्यर्थः ; वयं चान्नमन्तरेण स्थातुं नोत्सहामहे ; अतः अनु पश्चात् , नः अस्मान् , अस्मिन्नन्ने आत्मार्थे तवान्ने, आभजस्व आभाजयस्व ; णिचोऽश्रवणं छान्दसम् ; अस्मां­श्चा­न्न­भा­गिनः कुरु’ । इतर आह — ‘ते यूयं यदि अन्नार्थिनः वै, मा माम् , अभिसंविशत समन्ततो मामाभिमुख्येन निविशत’ — इति एवमुक्तवति प्राणे, तथेति एवमिति, तं प्राणं परिसमन्तं परिसमन्तात् , न्यविशन्त निश्च­ये­ना­वि­शन्त, तं प्राणं परिवेष्ट्य निविष्टवन्त इत्यर्थः । तथा निविष्टानां प्राणानुज्ञया तेषां प्राणे­नै­वा­द्य­मानं प्राणस्थितिकरं सदन्नं तृप्तिकरं भवति ; न स्वात­न्त्र्ये­णा­न्न­स­म्बन्धो वागादीनाम् । तस्मा­द्यु­क्त­मे­वा­व­धा­र­णम् — ‘अनेनैव तदद्यते’ इति । तदेव चाह — तस्मात् यस्मा­त्प्रा­णा­श्र­य­त­यैव प्राणा­नु­ज्ञ­या­भि­स­न्नि­विष्टा वागा­दि­दे­व­ता­स्त­स्मात् , यदन्नम् , अनेन प्राणेन, अत्ति लोकः, तेनान्नेन, एता वागाद्याः, तृप्यन्ति । वागाद्याश्रयं प्राणं यो वेद — ‘वागादयश्च पञ्च प्राणाश्रयाः’ इति, तमप्येवम् , एवं ह वै, स्वा ज्ञातयः, अभिसंविशन्ति वागादय इव प्राणम् ; ज्ञाती­ना­मा­श्र­य­णीयो भवतीत्यभिप्रायः । अभि­स­न्नि­वि­ष्टानां च स्वानाम् , प्राणवदेव वागादीनाम् , स्वान्नेन भर्ता भवति ; तथा श्रेष्ठः ; पुरोऽग्रतः, एता गन्ता, भवति, वागादीनामिव प्राणः ; तथा अन्ना­दोऽ­ना­म­या­वी­त्यर्थः ; अधिपतिरधिष्ठाय च पालयिता स्वतन्त्रः पतिः प्राणवदेव वागादीनाम् ; य एवं प्राणं वेद तस्यैतद्यथोक्तं फलं भवति । किञ्च य उ हैवंविदं प्राणविदं प्रति, स्वेषु ज्ञातीनां मध्ये, प्रतिः प्रतिकूलः, बुभूषति प्रति­स्प­र्धी­भ­वि­तु­मि­च्छति, सोऽसुरा इव प्राण­प्र­ति­स्प­र्धिनो न हैवालं न पर्याप्तः, भार्येभ्यः भरणीयेभ्यः, भवति, भर्तुमित्यर्थः । अथ पुनर्य एव ज्ञातीनां मध्ये एतमेवंविदं वागादय इव प्राणम् , अनु अनुगतो भवति, यो वा एतमेवंविदम् , अन्वेव अनुवर्तयन्नेव, आत्मी­या­न्भा­र्या­न्बु­भू­र्षति भर्तुमिच्छति, यथैव वागादयः प्राणा­नु­वृ­त्त्या­त्म­बु­भू­र्षव आसन् ; स हैवालं पर्याप्तः, भार्येभ्यो भरणीयेभ्यः, भवति भर्तुम् , नेतरः स्वतन्त्रः । सर्व­मे­त­त्प्रा­ण­गु­ण­वि­ज्ञा­न­फ­ल­मु­क्तम् ॥

कार्य­क­र­णा­ना­मा­त्म­त्व­प्र­ति­पा­द­नाय प्राण­स्या­ङ्गि­र­स­त्व­मु­प­न्य­स्तम् — ‘सोऽयास्य आङ्गिरसः’ इति ; ‘अस्मा­द्धे­तो­र­य­मा­ङ्गि­रसः’ इत्याङ्गिरसत्वे हेतुर्नोक्तः ; तद्धे­तु­सि­द्ध्य­र्थ­मा­र­भ्यते । तद्धे­तु­सि­द्ध्या­यत्तं हि कार्य­क­र­णा­त्मत्वं प्राणस्य ॥

अनन्तरं च वागादीनां प्राणाधीनतोक्ता ; सा च कथ­मु­प­पा­द­नी­ये­त्याह —

सोऽयास्य आङ्गि­र­सोऽ­ङ्गानां हि रसः प्राणो वा अङ्गानां रसः प्राणो हि वा अङ्गानां रस­स्त­स्मा­द्य­स्मा­त्क­स्मा­च्चा­ङ्गा­त्प्राण उत्क्रामति तदेव तच्छुष्यत्येष हि वा अङ्गानां रसः ॥ १९ ॥

१९

‘सोऽयास्य आङ्गिरसः’ इत्यादि यथो­प­न्य­स्त­मे­वो­पा­दी­यते उत्तरार्थम् । ‘प्राणो वा अङ्गानां रसः’ इत्येवमन्तं वाक्यं यथा­व्या­ख्या­ता­र्थ­मेव पुनः स्मारयति । कथम् ? — प्राणो वा अङ्गानां रस इति । प्राणो हि ; हि - शब्दः प्रसिद्धौ ; अङ्गानां रसः ; प्रसि­द्ध­मे­त­त्प्रा­ण­स्या­ङ्ग­र­सत्वं न वागादीनाम् ; तस्माद्युक्तम् ‘प्राणो वा’ इति स्मारणम् । कथं पुनः प्रसि­द्ध­त्व­मि­त्यत आह — तस्माच्छब्द उपसंहारार्थं उपरित्वेन सम्बध्यते ; यस्मा­द्य­तोऽ­व­य­वात् , कस्मा­द­नु­क्त­वि­शे­षात् ; यस्मात्कस्मात् यतः कुतश्चिच्च, अङ्गा­च्छ­री­रा­व­य­वा­द­वि­शे­षि­तात् , प्राणः उत्क्रा­म­त्य­प­स­र्पति, तदेव तत्रैव, तदङ्गं शुष्यति नीरसं भवति शोषमुपैति । तस्मादेष हि वा अङ्गानां रस इत्युपसंहारः । अतः कार्य­क­र­णा­ना­मात्मा प्राण इत्येतत्सिद्धम् । आत्मापाये हि शोषो मरणं स्यात् । तस्मात्तेन जीवन्ति प्राणिनः सर्वे । तस्मादपास्य वागादीन्प्राण एवोपास्य इति समुदायार्थः ॥

एष उ । न केवलं कार्य­क­र­ण­यो­रे­वात्मा प्राणो रूपकर्मभूतयोः ; किं तर्हि ? ऋग्यजुःसाम्नां नाम­भू­ता­ना­मा­त्मेति सर्वात्मकतया प्राणं स्तुव­न्म­ही­क­रो­त्यु­पा­स्य­त्वाय —

एष उ एव बृह­स्प­ति­र्वाग्वै बृहती तस्या एष पतिस्तस्मादु बृहस्पतिः ॥ २० ॥

२०

एष उ एव प्रकृत आङ्गिरसो बृहस्पतिः । कथं बृहस्पतिरिति, उच्यते — वाग्वै बृहती बृहतीच्छन्दः षट्त्रिंशदक्षरा । अनुष्टुप्च वाक् ; कथम् ? ‘वाग्वा अनुष्टुप्’(तै. सं. १ । ३ । ५) इति श्रुतेः ; सा च वाग­नु­ष्टु­ब्बृ­हत्यां छन्द­स्य­न्त­र्भ­वति ; अतो युक्तम् ‘वाग्वै बृहती’ इति प्रसि­द्ध­व­द्व­क्तुम् । बृहत्यां च सर्वा ऋचोऽ­न्त­र्भ­वन्ति, प्राण­सं­स्तु­त­त्वात् ; ‘प्राणो बृहती’(ऐ. आ. २ । १ । ६) ‘प्राण ऋच इत्येव विद्यात्’(ऐ. आ. २ । २ । २) इति श्रुत्यन्तरात् ; वागा­त्म­त्वा­च्चर्चां प्राणेऽ­न्त­र्भावः ; तत्कथमित्याह — तस्या वाचो बृहत्या ऋचः, एषः प्राणः, पतिः, तस्या निर्वर्तकत्वात् ; कौष्ठ्या­ग्नि­प्रे­रि­त­मा­रु­त­नि­र्वर्त्या हि ऋक् ; पालनाद्वा वाचः पतिः ; प्राणेन हि पाल्यते वाक् , अप्राणस्य शब्दो­च्चा­र­ण­सा­म­र्थ्या­भा­वात् ; तस्मादु बृहस्पतिः ऋचां प्राण आत्मेत्यर्थः ॥

एष उ एव ब्रह्म­ण­स्प­ति­र्वाग्वै ब्रह्म तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः ॥ २१ ॥

२१

तथा यजुषाम् । कथम् ? एष उ एव ब्रह्मणस्पतिः । वाग्वै ब्रह्म — ब्रह्म यजुः ; तच्च वाग्विशेष एव । तस्या वाचो यजुषो ब्रह्मणः, एष पतिः ; तस्मादु ब्रह्मणस्पतिः — पूर्ववत् ॥

कथं पुनरेतदवगम्यते बृह­ती­ब्र­ह्म­णो­र्‌ऋ­ग्य­जुष्ट्वं न पुन­र­न्या­र्थ­त्व­मिति ? उच्यते — वाचः अन्ते साम­सा­मा­ना­धि­क­र­ण्य­नि­र्दे­शात् ‘वाग्वै साम’ इति । तथा च ‘वाग्वै बृहती’ ‘वाग्वै ब्रह्म’ इति च वाक्स­मा­ना­धि­क­र­ण­यो­र्‌ऋ­ग्य­जुष्ट्वं युक्तम् । परिशेषाच्च — साम्न्यभिहिते ऋग्यजुषी एव परिशिष्टे । वाग्वि­शे­ष­त्वाच्च — वाग्विशेषौ हि ऋग्यजुषी ; तस्मा­त्त­यो­र्वाचा समानाधिकरणता युक्ता । अवि­शे­ष­प्र­स­ङ्गाच्च — ‘साम’ ‘उद्गीथः’ इति च स्पष्टं विशे­षा­भि­धा­न­त्वम् , तथा बृह­ती­ब्र­ह्म­श­ब्द­यो­रपि विशेषाभिधानत्वं युक्तम् ; अन्यथा अनि­र्धा­रि­त­वि­शे­ष­यो­रा­न­र्थ­क्या­प­त्तेश्च, विशेषाभिधानस्य वाङ्मात्रत्वे चोभयत्र पौनरुक्त्यात् ; ऋग्य­जुः­सा­मो­द्गी­थ­श­ब्दानां च श्रुतिष्वेवं क्रमदर्शनात् ॥

एष उ एव साम वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वम् । यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभि­स्त्रि­भि­र्लोकैः समोऽनेन सर्वेण तस्माद्वेव सामाश्नुते साम्नः सायुज्यं सलोकतां य एवमेतत्साम वेद ॥ २२ ॥

२२

एष उ एव साम । कथमित्याह — वाग्वै सा यत्कि­ञ्चि­त्स्त्री­श­ब्दा­भि­धेयं सा वाक् ; सर्व­स्त्री­श­ब्दा­भि­धे­य­व­स्तु­वि­षयो हि सर्वनाम - सा - शब्दः ; तथा अम एष प्राणः ; सर्व­पुं­श­ब्दा­भि­धे­य­व­स्तु­वि­ष­योऽमः - शब्दः ; ‘केन मे पौंस्नानि नामा­न्या­प्नो­षीति, प्राणेनेति ब्रूयात् ; केन मे स्त्रीनामानीति, वाचा’(कौ. उ. १ । ७) इति श्रुत्यन्तरात् ; वाक्प्रा­णा­भि­धा­न­भू­तोऽयं सामशब्दः । तथा प्राण­नि­र्व­र्त्य­स्व­रा­दि­स­मु­दा­य­मात्रं गीतिः साम­श­ब्दे­ना­भि­धी­यते ; अतो न प्राण­वा­ग्व्य­ति­रे­केण सामनामास्ति किञ्चित् , स्वरवर्णादेश्च प्राण­नि­र्व­र्त्य­त्वा­त्प्रा­ण­त­न्त्र­त्वाच्च । एष उ एव प्राणः साम । यस्मात् साम सामेति वाक्प्रा­णा­त्म­कम् — सा चामश्चेति, तत् तस्मात् साम्नो गीतिरूपस्य स्वरा­दि­स­मु­दा­यस्य सामत्वं तत् प्रगीतं भुवि ॥

यत् उ एव समः तुल्यः सर्वेण वक्ष्यमाणेन प्रकारेण, तस्माद्वा सामेत्यनेन सम्बन्धः । वा - शब्दः साम­श­ब्द­ला­भ­नि­मि­त्त­प्र­का­रा­न्त­र­नि­र्दे­श­सा­म­र्थ्य­लभ्यः । केन पुनः प्रकारेण प्राणस्य तुल्य­त्व­मि­त्यु­च्यते — समः प्लुषिणा पुत्तिकाशरीरेण, समो मशकेन मशकशरीरेण, समो नागेन हस्तिशरीरेण, सम एभि­स्त्रि­भि­र्लोकैः त्रैलोक्यशरीरेण प्राजापत्येन, समोऽनेन जगद्रूपेण हैरण्यगर्भेण । पुत्ति­का­दि­श­री­रेषु गोत्वा­दि­व­त्का­र्‌त्स्न्येन परिसमाप्त इति समत्वं प्राणस्य, न पुनः शरी­र­मा­त्र­प­रि­मा­णे­नैव ; अमू­र्त­त्वा­त्स­र्व­ग­त­त्वाच्च । न च घट­प्रा­सा­दा­दि­प्र­दी­प­व­त्स­ङ्को­च­वि­का­सि­तया शरीरेषु तावन्मात्रं समत्वम् । ‘त एते सर्व एव समाः सर्वेऽनन्ताः’(बृ. उ. १ । ५ । १३) इति श्रुतेः । सर्वगतस्य तु शरीरेषु शरी­र­प­रि­मा­ण­वृ­त्ति­लाभो न विरुध्यते । एवं सम­त्वा­त्सा­माख्यं प्राणं वेद यः श्रुति­प्र­का­शि­त­म­हत्त्वं तस्यैतत्फलम् — अश्नुते व्याप्नोति, साम्नः प्राणस्य, सायुज्यं सयुग्भावं समा­न­दे­हे­न्द्रि­या­भि­मा­न­त्वम् , सालोक्यं समानलोकतां वा, भावनाविशेषतः, य एवमेतत् यथोक्तं साम प्राणं वेद — आ प्राणा­त्मा­भि­मा­ना­भि­व्य­क्ते­रु­पास्ते इत्यर्थः ॥

एष उ वा उद्गीथः प्राणो वा उत्प्राणेन हीदं सर्वमुत्तब्धं वागेव गीथोच्च गीथा चेति स उद्गीथः ॥ २३ ॥

२३

एष उ वा उद्गीथः । उद्गीथो नाम सामावयवो भक्तिविशेषः नोद्गानम् ; सामाधिकारात् । कथमुद्गीथः प्राणः ? प्राणो वा उत् — प्राणेन हि यस्मादिदं सर्वं जगत् उत्तब्धम् ऊर्ध्वं स्तब्ध­मु­त्त­म्भितं विधृतमित्यर्थः ; उत्त­ब्धा­र्था­व­द्यो­त­कोऽ­य­मु­च्छब्दः प्राण­गु­णा­भि­धा­यकः ; तस्मादुत् प्राणः ; वागेव गीथा, शब्द­वि­शे­ष­त्वा­दु­द्गी­थ­भक्तेः ; गायतेः शब्दा­र्थ­त्वात्सा वागेव ; न ह्युद्गीथभक्तेः शब्दव्यतिरेकेण किञ्चि­द्रू­प­मु­त्प्रे­क्ष्यते, तस्मा­द्यु­क्त­म­व­धा­रणं वागेव गीथेति । उच्च प्राणः, गीथा च प्राणतन्त्रा वाक् , इत्युभयमेकेन शब्देनाभिधीयते, स उद्गीथः ॥

उक्ता­र्थ­दा­र्ढ्या­या­ख्या­यि­का­र­भ्यते —

तद्धापि ब्रह्म­द­त्त­श्चै­कि­ता­नेयो राजानं भक्षयन्नुवाचायं त्यस्य राजा मूर्धानं विपा­त­य­ता­द्य­दि­तोऽ­यास्य आङ्गि­र­सोऽ­न्ये­नो­द­गा­य­दिति वाचा च ह्येव स प्राणेन चोदगायदिति ॥ २४ ॥

२४

तद्धापि । तत् तत्रै­त­स्मि­न्नु­क्तेऽर्थे, हापि आख्यायिकापि श्रूयते ह स्म । ब्रह्मदत्तः नामतः ; चिकि­ता­न­स्या­पत्यं चैकितानः तदपत्यं युवा चैकितानेयः, राजानं यज्ञे सोमम् , भक्षयन्नुवाच ; किम् ? ‘अयं चमसस्थो मया भक्ष्यमाणो राजा, त्यस्य तस्य ममानृतवादिनः, मूर्धानं शिरः, विपातयतात् विस्पष्टं पातयतु’ ; तोरयं तातङादेशः, आशिषि लोट् — विपातयतादिति ; यद्यहमनृतवादी स्यामित्यर्थः ; कथं पुन­र­नृ­त­वा­दि­त्व­प्रा­प्ति­रिति, उच्यते — ‘यत् यदि इतोऽ­स्मा­त्प्र­कृ­ता­त्प्रा­णा­द्वा­क्सं­यु­क्तात् , अयास्यः — मुख्य­प्रा­णा­भि­धा­य­के­ना­या­स्या­ङ्गि­र­स­श­ब्दे­ना­भि­धी­यते विश्वसृजां पूर्वर्षीणां सत्रे उद्गाता — सोऽन्येन देवतान्तरेण वाक्प्रा­ण­व्य­ति­रि­क्तेन, उदगायत् उद्गानं कृतवान् ; ततोऽहमनृतवादी स्याम् ; तस्य मम देवता विप­री­त­प्र­ति­प­त्तु­र्मू­र्धानं विपातयतु’ इत्येवं शपथं चकारेति विज्ञाने प्रत्य­य­क­र्त­व्य­ता­दार्ढ्यं दर्शयति । तमि­म­मा­ख्या­यि­का­नि­र्धा­रि­त­मर्थं स्वेन वचसोपसंहरति श्रुतिः — वाचा च प्राणप्रधानया प्राणेन च स्वस्या­त्म­भू­तेन, सः अयास्य आङ्गिरस उद्गाता, उदगायत् इत्येषोऽर्थो निर्धारितः शपथेन ॥

तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वं तस्य वै स्वर एव स्वं तस्मा­दा­र्त्विज्यं करिष्यन्वाचि स्वरमिच्छेत तया वाचा स्वर­स­म्प­न्न­या­र्त्विज्यं कुर्या­त्त­स्मा­द्यज्ञे स्वरवन्तं दिदृक्षन्त एव । अथो यस्य स्वं भवति भवति हास्य स्वं य एवमेतत्साम्नः स्वं वेद ॥ २५ ॥

२५

तस्य हैतस्य । तस्येति प्रकृतं प्राण­म­भि­स­म्ब­ध्नाति । ह एतस्येति मुख्यं व्यप­दि­श­त्य­भि­न­येन । साम्नः सामशब्दवाच्यस्य प्राणस्य, यः स्वं धनम् , वेद ; तस्य ह किं स्यात् ? भवति हास्य स्वम् । फलेन प्रलो­भ्या­भि­मु­खी­कृत्य शुश्रूषवे आह — तस्य वै साम्नः स्वर एव स्वम् । स्वर इति कण्ठगतं माधुर्यम् , तदेवास्य स्वं विभूषणम् ; तेन हि भूषि­त­मृ­द्धि­म­ल्ल­क्ष्यत उद्गानम् ; यस्मादेवं तस्मात् आर्त्विज्यम् ऋत्वि­क्क­र्मो­द्गा­नम् , करिष्यन् , वाचि विषये, वाचि वागाश्रितम् , स्वरम् , इत्छेत इच्छेत् , साम्नो धनवत्तां स्वरेण चिकी­र्षु­रु­द्गाता । इदं तु प्रासङ्गिकं विधीयते ; साम्नः सौस्वर्येण स्वर­व­त्त्व­प्र­त्यये कर्तव्ये, इच्छामात्रेण सौस्वर्यं न भवतीति, दन्त­धा­व­न­तै­ल­पा­नादि साम­र्थ्या­त्क­र्त­व्य­मि­त्यर्थः । तयैवं संस्कृतया वाचा स्वरसम्पन्नया आर्त्विज्यं कुर्यात् । तस्मात् — यस्मात्साम्नः स्वभूतः स्वरः तेन स्वेन भूषितं साम, अतो यज्ञे स्वरवन्तम् उद्गातारम् , दिदृक्षन्त एव द्रष्टु­मि­च्छ­न्त्येव, धनिनमिव लौकिकाः । प्रसिद्धं हि लोके — अथो अपि, यस्य स्वं धनं भवति, तं धनिनं दिदृक्षन्ते — इति । सिद्धस्य गुण­वि­ज्ञा­न­फ­ल­स­म्ब­न्ध­स्यो­प­सं­हारः क्रियते — भवति हास्य स्वम् , य एवमेतत्साम्नः स्वं वेदेति ॥

तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णं तस्य वै स्वर एव सुवर्णं भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं वेद ॥ २६ ॥

२६

अथान्यो गुणः सुव­र्ण­व­त्ता­ल­क्षणो विधीयते । असावपि सौस्वर्यमेव । एतावान्विशेषः — पूर्वं कण्ठगतमाधुर्यम् ; इदं तु लाक्षणिकं सुव­र्ण­श­ब्द­वा­च्यम् । तस्य हैतस्य साम्नो यः सुवर्णं वेद, भवति हास्य सुवर्णम् ; सुव­र्ण­श­ब्द­सा­मा­न्या­त्स्व­र­सु­व­र्णयोः । लौकिकमेव सुवर्णं गुणविज्ञानफलं भवतीत्यर्थः । तस्य वै स्वर एव सुवर्णम् । भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं वेदेति पूर्ववत्सर्वम् ॥

तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति तस्य वै वागेव प्रतिष्ठा वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयतेऽन्न इत्यु हैक आहुः ॥ २७ ॥

२७

तथा प्रतिष्ठागुणं विधित्सन्नाह — तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद ; प्रिति­ति­ष्ठ­त्य­स्या­मिति प्रतिष्ठा वाक् ; तां प्रतिष्ठां साम्नो गुणम् , यो वेद स प्रतितिष्ठति ह । ‘तं यथा यथोपासते’(शत. ब्रा. १० । ५ । २ । २०) इति श्रुते­स्त­द्गु­णत्वं युक्तम् । पूर्ववत्फलेन प्रतिलोभिताय का प्रतिष्ठेति शुश्रूषव आह — तस्य वै साम्नो वागेव । वागिति जिह्वामूलादीनां स्थानानामाख्या ; सैव प्रतिष्ठा । तदाह — वाचि हि जिह्वामूलादिषु हि यस्मा­त्प्र­ति­ष्ठितः सन्नेष प्राणः एतद्गानं गीयते गीति­भा­व­मा­प­द्यते, तस्मात्साम्नः प्रतिष्ठा वाक् । अन्ने प्रतिष्ठितो गीयत इत्यु ह एके अन्ये आहुः ; इह प्रतितिष्ठतीति युक्तम् । अनि­न्दि­त­त्वा­दे­की­य­प­क्षस्य विकल्पेन प्रति­ष्ठा­गु­ण­वि­ज्ञानं कुर्यात् — वाग्वा प्रतिष्ठा, अन्नं वेति ॥

अथातः पव­मा­ना­ना­मे­वा­भ्या­रोहः स वै खलु प्रस्तोता साम प्रस्तौति स यत्र प्रस्तु­या­त्त­दे­तानि जपेत् । असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मामृतं गमयेति स यदाहासतो मा सद्गमयेति मृत्युर्वा असत्सदमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वि­त्ये­वै­त­दाह तमसो मा ज्योतिर्गमयेति मृत्युर्वै तमो ज्योतिरमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वि­त्ये­वै­त­दाह मृत्योर्मामृतं गमयेति नात्र तिरोहितमिवास्ति । अथ यानीतराणि स्तोत्राणि तेष्वा­त्म­नेऽ­न्ना­द्य­मा­गा­ये­त्त­स्मादु तेषु वरं वृणीत यं कामं कामयेत तं स एष एवं­वि­दु­द्गा­ता­त्मने वा यजमानाय वा यं कामं कामयते तमागायति तद्धै­त­ल्लो­क­जि­देव न हैवालोक्यताया आशास्ति य एवमेतत्साम वेद ॥ २८ ॥

२८

एवं प्राणविज्ञानवतो जपकर्म विधित्स्यते । यद्विज्ञानवतो जप­क­र्म­ण्य­धि­का­र­स्त­द्वि­ज्ञा­न­मु­क्तम् । अथानन्तरम् , यस्माच्चैवं विदुषा प्रयुज्यमानं देव­भा­वा­या­भ्या­रो­ह­फलं जपकर्म, अतः तस्मात् तद्विधीयते इह । तस्य चोद्गी­थ­स­म्ब­न्धा­त्स­र्वत्र प्राप्तौ पवमानानामिति वचनात् , पवमानेषु त्रिष्वपि कर्तव्यतायां प्राप्तायाम् , पुनः कालसङ्कोचं करोति — स वै खलु प्रस्तोता साम प्रस्तौति । स प्रस्तोता, यत्र यस्मिन्काले, साम प्रस्तु­या­त्प्रा­र­भेत, तस्मिन्काल एतानि जपेत् । अस्य च जपकर्मण आख्या अभ्यारोह इति । आभि­मु­ख्ये­ना­रो­ह­त्य­नेन जप­क­र्म­णै­वं­वि­द्दे­व­भा­व­मा­त्मा­न­मि­त्य­भ्या­रोहः । एतानीति बहुवचनात्त्रीणि यजूंषि । द्विती­या­नि­र्दे­शा­द्ब्रा­ह्म­णो­त्प­न्न­त्वाच्च यथापठित एव स्वरः प्रयोक्तव्यो न मान्त्रः । याजमानं जपकर्म ॥

एतानि तानि यजूंषि — ‘असतो मा सद्गमय’ ‘तमसो मा ज्योतिर्गमय’ ‘मृत्योर्मामृतं गमय’ इति । मन्त्रा­णा­म­र्थ­स्ति­रो­हितो भवतीति स्वयमेव व्याचष्टे ब्राह्मणं मन्त्रार्थम् — सः मन्त्रः, यदाह यदुक्तवान् ; कोऽसावर्थ इत्युच्यते — ‘असतो मा सद्गमय’ इति । मृत्युर्वा असत् — स्वाभा­वि­क­क­र्म­वि­ज्ञाने मृत्यु­रि­त्यु­च्येते ; असत् अत्य­न्ता­धो­भा­व­हे­तु­त्वात् ; सत् अमृतम् — सत् शास्त्री­य­क­र्म­वि­ज्ञाने, अम­र­ण­हे­तु­त्वा­द­मृ­तम् । तस्मादसतः अस­त्क­र्म­णोऽ­ज्ञा­नाच्च, मा माम् , सत् शास्त्री­य­क­र्म­वि­ज्ञाने, गमय, देव­भा­व­सा­ध­ना­त्म­भा­व­मा­पा­द­ये­त्यर्थः । तत्र वाक्यार्थमाह — अमृतं मा कुर्वि­त्ये­वै­त­दा­हेति । तथा तमसो मा ज्योतिर्गमयेति । मृत्युर्वै तमः, सर्वं ह्यज्ञा­न­मा­व­र­णा­त्म­क­त्वा­त्तमः, तदेव च मर­ण­हे­तु­त्वा­न्मृत्युः । ज्योतिरमृतं पूर्वो­क्त­वि­प­रीतं दैवं स्वरूपम् । प्रका­शा­त्म­क­त्वा­ज्ज्ञानं ज्योतिः ; तदेवामृतम् अवि­ना­शा­त्म­क­त्वात् ; तस्मात्तमसो मा ज्योतिर्गमयेति । पूर्व­व­न्मृ­त्यो­र्मा­मृतं गमयेत्यादि ; अमृतं मा कुर्वि­त्ये­वै­त­दाह — दैवं प्राजापत्यं फल­भा­व­मा­पा­द­ये­त्यर्थः । पूर्वो मन्त्रोऽ­सा­ध­न­स्व­भा­वा­त्सा­ध­न­भा­व­मा­पा­द­येति ; द्वितीयस्तु साध­न­भा­वा­द­प्य­ज्ञा­न­रू­पा­त्सा­ध्य­भा­व­मा­पा­द­येति । मृत्योर्मामृतं गमयेति पूर्वयोरेव मन्त्रयोः समु­च्चि­तोऽ­र्थ­स्तृ­ती­येन मन्त्रेणोच्यत इति प्रसिद्धार्थतैव । नात्र तृतीये मन्त्रे तिरो­हि­त­म­न्त­र्हि­त­मि­वा­र्थ­रूपं पूर्वयोरिव मन्त्रयोरस्ति ; यथाश्रुत एवार्थः ॥

याजमानमुद्गानं कृत्वा पवमानेषु त्रिषु, अथानन्तरं यानीतराणि शिष्टानि स्तोत्राणि, तेष्वा­त्म­नेऽ­न्ना­द्य­मा­गा­येत् — प्राणविदुद्गाता प्राणभूतः प्राणवदेव । यस्मात्स एष उद्गाता एवं प्राणं यथोक्तं वेत्ति, अतः प्राणवदेव तं कामं साधयितुं समर्थः ; तस्मा­द्य­ज­मा­न­स्तेषु स्तोत्रेषु प्रयुज्यमानेषु वरं वृणीत ; यं कामं कामयेत तं कामं वरं वृणीत प्रार्थयेत । यस्मात्स एष एवंविदुद्गातेति तस्मा­च्छ­ब्दा­त्प्रा­गेव सम्बध्यते । आत्मने वा यजमानाय वा यं कामं कामयत इच्छत्युद्गाता, तमागायत्यागानेन साधयति ॥

एवं ताव­ज्ज्ञा­न­क­र्मभ्यां प्राणा­त्मा­प­त्ति­रि­त्यु­क्तम् ; तत्र नास्त्या­श­ङ्का­स­म्भवः । अतः कर्मापाये प्राणा­प­त्ति­र्भ­वति वा न वेत्याशङ्क्यते ; तदा­श­ङ्का­नि­वृ­त्त्य­र्थ­माह — तद्धै­त­ल्लो­क­जि­दे­वेति । तद्ध तदे­त­त्प्रा­ण­द­र्शनं कर्मवियुक्तं केवलमपि, लोकजिदेवेति लोकसाधनमेव । न ह एव अलोक्यतायै अलोकार्हत्वाय, आशा आशंसनं प्रार्थनम् , नैवास्ति ह । न हि प्राणा­त्म­न्यु­त्प­न्ना­त्मा­भि­मा­नस्य तत्प्रा­प्त्या­शं­सनं सम्भवति । न हि ग्रामस्थः कदा ग्रामं प्राप्नु­या­मि­त्य­र­ण्यस्थ इवाशास्ते । अस­न्नि­कृ­ष्ट­वि­षये ह्यना­त्म­न्या­शं­स­नम् , न तत्स्वात्मनि सम्भवति । तस्मान्नाशास्ति — कदा­चि­त्प्रा­णा­त्म­भावं न प्रतिपद्येयेति ॥

कस्यैतत् । य एवमेतत्साम प्राणं यथोक्तं निर्धा­रि­त­म­हि­मानं वेद — ‘अहमस्मि प्राण इन्द्रि­य­वि­ष­या­स­ङ्गै­रा­सुरैः पाप्म­भि­र­ध­र्ष­णीयो विशुद्धः ; वागादिपञ्चकं च मदा­श्र­य­त्वा­द­ग्न्या­द्या­त्म­रूपं स्वाभा­वि­क­वि­ज्ञा­नो­त्थे­न्द्रि­य­वि­ष­या­स­ङ्ग­ज­नि­ता­सु­र­पा­प्म­दो­ष­वि­यु­क्तम् ; सर्वभूतेषु च मदा­श्र­या­न्ना­द्यो­प­यो­ग­ब­न्ध­नम् ; आत्मा चाहं सर्वभूतानाम् , आङ्गिरसत्वात् ; ऋग्य­जुः­सा­मो­द्गी­थ­भू­ता­याश्च वाच आत्मा, तद्व्या­प्ते­स्त­न्नि­र्व­र्त­क­त्वाच्च ; मम साम्नो गीति­भा­व­मा­प­द्य­मा­नस्य बाह्यं धनं भूषणं सौस्वर्यम् ; ततोऽप्यन्तरतरं सौवर्ण्यं लाक्षणिकं सौस्वर्यम् ; गीति­भा­व­मा­प­द्य­मा­नस्य मम कण्ठादिस्थानानि प्रतिष्ठा ; एवं गुणोऽहं पुत्ति­का­दि­श­री­रेषु कार्‌त्स्न्येन परिसमाप्तः, अमू­र्त­त्वा­त्स­र्व­ग­त­त्वाच्च’ — इति आ एव­म­भि­मा­ना­भि­व्य­क्ते­र्वेद उपास्ते इत्यर्थः ॥

इति प्रथमाध्यायस्य तृतीयं ब्राह्मणम् ॥

चतुर्थं ब्राह्मणम्

आत्मैवेदमग्र आसीत्पुरुषविधः सोऽनुवीक्ष्य नान्य­दा­त्म­नोऽ­प­श्य­त्सोऽ­ह­म­स्मी­त्यग्रे व्याह­र­त्त­तोऽ­ह­न्ना­मा­भ­व­त्त­स्मा­द­प्ये­त­र्ह्या­म­न्त्रि­तोऽ­ह­म­य­मि­त्ये­वाग्र उक्त्वा­था­न्य­न्नाम प्रब्रूते यदस्य भवति स यत्पू­र्वोऽ­स्मा­त्स­र्व­स्मा­त्स­र्वा­न्पा­प्मन औष­त्त­स्मा­त्पु­रुष ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद ॥ १ ॥

आत्मैवेदमग्र आसीत् । ज्ञानकर्मभ्यां समुच्चिताभ्यां प्रजा­प­ति­त्व­प्रा­प्ति­र्व्या­ख्याता ; केव­ल­प्रा­ण­द­र्श­नेन च — ‘तद्धै­त­ल्लो­क­जि­देव’ इत्यादिना । प्रजापतेः फलभूतस्य सृष्टि­स्थि­ति­सं­हा­रेषु जगतः स्वात­न्त्र्या­दि­वि­भू­त्यु­प­व­र्ण­नेन ज्ञान­क­र्म­णो­र्वै­दि­कयोः फलोत्कर्षो वर्णयितव्य इत्ये­व­म­र्थ­मा­र­भ्यते । तेन च कर्म­का­ण्ड­वि­हि­त­ज्ञा­न­क­र्म­स्तुतिः कृता भवे­त्सा­म­र्थ्यात् । विवक्षितं त्वेतत् — सर्व­म­प्ये­त­ज्ज्ञा­न­क­र्म­फलं संसार एव, भया­र­त्या­दि­यु­क्त­त्व­श्र­व­णा­त्का­र्य­क­र­ण­ल­क्ष­ण­त्वाच्च स्थूल­व्य­क्ता­नि­त्य­वि­ष­य­त्वा­च्चेति । ब्रह्मविद्यायाः केवलाया वक्ष्यमाणाया मोक्ष­हे­तु­त्व­मि­त्यु­त्त­रार्थं चेति । न हि संसा­र­वि­ष­या­त्सा­ध्य­सा­ध­ना­दि­भे­द­ल­क्ष­णा­द­वि­र­क्त­स्या­त्मै­क­त्व­ज्ञा­न­वि­ष­येऽ­धि­कारः, अतृषितस्येव पाने । तस्मा­ज्ज्ञा­न­क­र्म­फ­लो­त्क­र्षो­प­व­र्ण­न­मु­त्त­रा­र्थम् । तथा च वक्ष्यति — ‘तदे­त­त्प­द­नी­य­मस्य’(बृ. उ. १ । ४ । ७) ‘तदेतत्प्रेयः पुत्रात्’(बृ. उ. १ । ४ । ८) इत्यादि ॥

आत्मैव आत्मेति प्रजापतिः प्रथमोऽण्डजः शरीर्यभिधीयते । वैदि­क­ज्ञा­न­क­र्म­फ­ल­भूतः स एव — किम् ? इदं शरीरभेदजातं तेन प्रजा­प­ति­श­री­रे­णा­वि­भ­क्तम् आत्मैवासीत् अग्रे प्राक्श­री­रा­न्त­रो­त्पत्तेः । स च पुरुषविधः पुरुषप्रकारः शिरः­पा­ण्या­दि­ल­क्षणो विराट् ; स एव प्रथमः सम्भू­तोऽ­नु­वी­क्ष्या­न्वा­लो­चनं कृत्वा — ‘कोऽहं किंलक्षणो वास्मि’ इति, नान्य­द्व­स्त्व­न्त­रम् , आत्मनः प्राण­पि­ण्डा­त्म­का­त्का­र्य­क­र­ण­रू­पात् , नापश्यत् न ददर्श । केवलं त्वात्मानमेव सर्वा­त्मा­न­म­प­श्यत् । तथा पूर्व­ज­न्म­श्रौ­त­वि­ज्ञा­न­सं­स्कृतः ‘सोऽहं प्रजापतिः, सर्वा­त्मा­ह­मस्मि’ इत्यग्रे व्याहरत् व्याहृतवान् । ततः तस्मात् , यतः पूर्व­ज्ञा­न­सं­स्का­रा­दा­त्मा­न­मे­वा­ह­मि­त्य­भ्य­धा­दग्रे तस्मात् , अहन्नामाभवत् ; तस्योपनिषदहमिति श्रुति­प्र­द­र्शि­त­मेव नाम वक्ष्यति ; तस्मात् , यस्मात्कारणे प्रजापतावेवं वृत्तं तस्मात् , तत्कार्यभूतेषु प्राणिष्वेतर्हि एतस्मिन्नपि काले, आमन्त्रितः कस्त्व­मि­त्युक्तः सन् , ‘अहमयम्’ इत्येवाग्रे उक्त्वा कार­णा­त्मा­भि­धा­ने­ना­त्मा­न­म­भि­धा­याग्रे, पुन­र्वि­शे­ष­ना­म­जि­ज्ञा­सवे अथ अनन्तरं विशे­ष­पि­ण्डा­भि­धा­नम् ‘देवदत्तः’ ‘यज्ञदत्तः’ वेति प्रब्रूते कथयति — यन्नामास्य विशेषपिण्डस्य मातापितृकृतं भवति, तत्कथयति । स च प्रजापतिः, अति­क्रा­न्त­ज­न्मनि सम्य­क्क­र्म­ज्ञा­न­भा­व­ना­नु­ष्ठानैः साधकावस्थायाम् , यद्यस्मात् , कर्म­ज्ञा­न­भा­व­ना­नु­ष्ठानैः प्रजापतित्वं प्रतिपित्सूनां पूर्वः प्रथमः सन् , अस्मा­त्प्र­जा­प­ति­त्व­प्र­ति­पि­त्सु­स­मु­दा­या­त्स­र्व­स्मात् , आदौ औषत् अदहत् ; किम् ? आस­ङ्गा­ज्ञा­न­ल­क्ष­णा­न्स­र्वा­न्पा­प्मनः प्रजा­प­ति­त्व­प्र­ति­ब­न्ध­का­र­ण­भू­तान् ; यस्मादेवं तस्मात्पुरुषः — पूर्वमौषदिति पुरुषः । यथायं प्रजा­प­ति­रो­षित्वा प्रति­ब­न्ध­का­न्पा­प्मनः सर्वान् , पुरुषः प्रजापतिरभवत् ; एवमन्योऽपि ज्ञान­क­र्म­भा­व­ना­नु­ष्ठा­न­व­ह्निना केवलं ज्ञानबलाद्वा ओषति भस्मीकरोति ह वै सः तम् — कम् ? योऽस्माद्विदुषः पूर्वः प्रथमः प्रजा­प­ति­र्बु­भू­षति भवितुमिच्छति तमित्यर्थः । तं दर्शयति — य एवं वेदेति ; साम­र्थ्या­ज्ज्ञा­न­भा­व­ना­प्र­क­र्ष­वान् । नन्वनर्थाय प्राजा­प­त्य­प्र­ति­पित्सा, एवंविदा चेद्दह्यते ; नैष दोषः, ज्ञान­भा­व­नो­त्क­र्षा­भा­वात् प्रथमं प्रजा­प­ति­त्व­प्र­ति­प­त्त्य­भा­व­मा­त्र­त्वा­द्दा­हस्य । उत्कृष्टसाधनः प्रथमं प्रजापतित्वं प्राप्नुवन् न्यूनसाधनो न प्राप्नोतीति, स तं दहतीत्युच्यते ; न पुनः प्रत्य­क्ष­मु­त्कृ­ष्ट­सा­ध­ने­ने­तरो दह्यते — यथा लोके आजिसृतां यः प्रथ­म­मा­जि­मु­प­स­र्पति तेनेतरे दग्धा इवा­प­हृ­त­सा­मर्थ्या भवन्ति, तद्वत् ॥

यदिदं तुष्टूषितं कर्म­का­ण्ड­वि­हि­त­ज्ञा­न­क­र्म­फलं प्राजा­प­त्य­ल­क्ष­णम् , नैव तत्सं­सा­र­वि­ष­य­म­त्य­क्रा­म­दि­ती­म­मर्थं प्रद­र्श­यि­ष्य­न्नाह —

सोऽबि­भे­त्त­स्मा­दे­काकी बिभेति स हायमीक्षां चक्रे यन्म­द­न्य­न्नास्ति कस्मान्नु बिभेमीति तत एवास्य भयं वीयाय कस्मा­द्ध्य­भे­ष्य­द्द्वि­ती­याद्वै भयं भवति ॥ २ ॥

सोऽबिभेत् । सः प्रजापतिः, योऽयं प्रथमः शरीरी पुरुषविधो व्याख्यातः सः, अबिभेत् भीतवान् अस्म­दा­दि­व­दे­वे­त्याह । यस्मादयं पुरुषविधः शरीरकरणवान् आत्म­ना­श­वि­ष­य­वि­प­री­त­द­र्श­न­व­त्त्वा­द­बि­भेत् , तस्मा­त्त­त्सा­मा­न्या­द­द्य­त्वेऽ­प्ये­काकी बिभेति । किञ्चा­स्म­दा­दि­व­देव भय­हे­तु­वि­प­री­त­द­र्श­ना­प­नो­द­का­रणं यथा­भू­ता­त्म­द­र्श­नम् । सोऽयं प्रजापतिः ईक्षाम् ईक्षणं चक्रे कृतवान्ह । कथमित्याह — यत् यस्मात् मत्तोऽन्यत् आत्मव्यतिरेकेण वस्त्वन्तरं प्रति­द्व­न्द्वी­भूतं नास्ति, तस्मि­न्ना­त्म­वि­ना­श­हे­त्व­भावे, कस्मान्नु बिभेमि इति । तत एव यथा­भू­ता­त्म­द­र्श­ना­दस्य प्रजापतेर्भयं वीयाय विस्पष्टमपगतवत् । तस्य प्रजा­प­ते­र्य­द्भयं तत्के­व­ला­वि­द्या­नि­मि­त्त­मेव पर­मा­र्थ­द­र्श­नेऽ­नु­प­प­न्न­मि­त्याह — कस्मा­द्ध्य­भे­ष्यत् ? किमित्यसौ भीतवान् ? पर­मा­र्थ­नि­रू­प­णायां भय­म­नु­प­प­न्न­मे­वे­त्य­भि­प्रायः । यस्मा­द्द्वि­ती­या­द्व­स्त्व­न्त­राद्वै भयं भवति ; द्वितीयं च वस्त्व­न्त­र­म­वि­द्या­प्र­त्यु­प­स्था­पि­त­मेव । न ह्यदृश्यमानं द्वितीयं भयजन्मनो हेतुः, ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’(ई. उ. ७) इति मन्त्रवर्णात् । यच्चै­क­त्व­द­र्श­नेन भयमपनुनोद, तद्युक्तम् ; कस्मात् ? द्विती­या­द्व­स्त्व­न्त­राद्वै भयं भवति ; तदेकत्वदर्शनेन द्विती­य­द­र्श­न­म­प­नी­त­मिति नास्ति यतः ॥

अत्र चोदयन्ति — कुतः प्रजा­प­ते­रे­क­त्व­द­र्शनं जातम् ? को वास्मा उपदिदेश ? अथानुपदिष्टमेव प्रादुरभूत् ; अस्मदादेरपि तथा प्रसङ्गः । अथ जन्मा­न्त­र­कृ­त­सं­स्का­र­हे­तु­कम् ; एक­त्व­द­र्श­ना­न­र्थ­क्य­प्र­सङ्गः । यथा प्रजा­प­ते­र­ति­क्रा­न्त­ज­न्मा­व­स्थ­स्यै­क­त्व­द­र्शनं विद्य­मा­न­म­प्य­वि­द्या­ब­न्ध­का­रणं नापनिन्ये, यतोऽ­वि­द्या­सं­युक्त एवायं जातोऽबिभेत् , एवं सर्वे­षा­मे­क­त्व­द­र्श­ना­न­र्थक्यं प्राप्नोति । अन्त्यमेव निवर्तकमिति चेत् , न ; पूर्ववत्पुनः प्रस­ङ्गे­ना­नै­का­न्त्यात् । तस्मा­द­न­र्थ­क­मे­वै­क­त्व­द­र्श­न­मिति ॥

नैष दोषः ; उत्कृ­ष्ट­हे­तू­द्भ­व­त्वा­ल्लो­क­वत् । यथा पुण्य­क­र्मो­द्भ­वै­र्वि­विक्तैः कार्यकरणैः संयुक्ते जन्मनि सति प्रज्ञा­मे­धा­स्मृ­ति­वै­शा­रद्यं दृष्टम् , तथा प्रजा­प­ते­र्ध­र्म­ज्ञा­न­वै­रा­ग्यै­श्व­र्य­वि­प­री­त­हे­तु­स­र्व­पा­प्म­दा­हा­द्वि­शुद्धैः कार्यकरणैः संयु­क्त­मु­त्कृष्टं जन्म ; तदुद्भवं चानुपदिष्टमेव युक्त­मे­क­त्व­द­र्शनं प्रजापतेः । तथा च स्मृतिः — ‘ज्ञानमप्रतिघं यस्य वैराग्यं च प्रजापतेः । ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम्’ इति ॥ सहसिद्धत्वे भयानुपपत्तिरिति चेत् — न ह्यादित्येन सह तम उदेति — न, अन्या­नु­प­दि­ष्टा­र्थ­त्वा­त्स­ह­सि­द्ध­वा­क्यस्य । श्रद्धा­ता­त्प­र्य­प्र­णि­पा­ता­दी­ना­म­हे­तु­त्व­मिति चेत् — स्यान्मतम् — ‘श्रद्धा­वां­ल्ल­भते ज्ञानं तत्परः संयतेन्द्रियः’(भ. गी. ४ । ३९) ‘तद्विद्धि प्रणिपातेन’(भ. गी. ४ । ३४)‘तद्विद्धि प्रणिपातेन’(भ. गी. ४ । ३४) इत्येवमादीनां श्रुति­स्मृ­ति­वि­हि­तानां ज्ञान­हे­तू­ना­म­हे­तु­त्वम् , प्रजापतेरिव जन्मा­न्त­र­कृ­त­ध­र्म­हे­तुत्वे ज्ञानस्येति चेत् , न ; निमि­त्त­वि­क­ल्प­स­मु­च्च­य­गु­ण­व­द­गु­ण­व­त्त्व­भे­दो­प­पत्तेः । लोके हि नैमित्तिकानां कार्याणां निमि­त्त­भे­दोऽ­ने­कधा विकल्प्यते । तथा निमित्तसमुच्चयः । तेषां च विकल्पितानां समुच्चितानां च पुन­र्गु­ण­व­द­गु­ण­व­त्त्व­कृतो भेदो भवति । तद्यथा — रूपज्ञान एव तावन्नैमित्तिके कार्ये तमसि विनालोकेन चक्षू­रू­प­स­न्नि­कर्षो नक्तञ्चराणां रूपज्ञाने निमित्तं भवति ; मन एव केवलं रूप­ज्ञा­न­नि­मित्तं योगिनाम् ; अस्माकं तु सन्नि­क­र्षा­लो­काभ्यां सह तथा­दि­त्य­च­न्द्रा­द्या­लो­क­भेदैः समुच्चिता निमित्तभेदा भवन्ति ; तथा­लो­क­वि­शे­ष­गु­ण­व­द­गु­ण­व­त्त्वेन भेदाः स्युः । एव­मे­वा­त्मै­क­त्व­ज्ञा­नेऽपि क्वचि­ज्ज­न्मा­न्त­र­कृतं कर्म निमित्तं भवति ; यथा प्रजापतेः । क्वचित्तपो निमित्तम् ; ‘तपसा ब्रह्म विजिज्ञासस्व’(तै. उ. ३ । २ । १) इति श्रुतेः । क्वचित् ‘आचा­र्य­वा­न्पु­रुषो वेद’(छा. उ. ६ । १४ । २) ‘श्रद्धा­वां­ल्ल­भते ज्ञानम्’(भ. गी. ४ । ३९) ‘तद्विद्धि प्रणिपातेन’ ‘आचार्याद्धैव’(छा. उ. ४ । ९ । ३) ‘ज्ञातव्यो द्रष्टव्यः श्रोतव्यः’(बृ. उ. २ । ४ । ५) , इति श्रुतिस्मृतिभ्य एका­न्त­ज्ञा­न­ला­भ­नि­मि­त्तत्वं श्रद्धा­प्र­भृ­ती­नाम् अध­र्मा­दि­नि­मि­त्त­वि­यो­ग­हे­तु­त्वात् ; वेदा­न्त­श्र­व­ण­म­न­न­नि­दि­ध्या­स­नानां च साक्षा­ज्ज्ञे­य­वि­ष­य­त्वात् ; पापा­दि­प्र­ति­ब­न्ध­क्षये चात्ममनसोः, भूता­र्थ­ज्ञा­न­नि­मि­त्त­स्वा­भा­व्यात् । तस्मादहेतुत्वं न जातु ज्ञानस्य श्रद्धा­प्र­णि­पा­ता­दी­ना­मिति ॥

स वै नैव रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छत् । स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ स इममेवात्मानं द्वेधापातयत्ततः पतिश्च पत्नी चाभवतां तस्मा­दि­द­म­र्ध­बृ­ग­ल­मिव स्व इति ह स्माह याज्ञ­व­ल्क्य­स्त­स्मा­द­य­मा­काशः स्त्रिया पूर्यत एव तां समभवत्ततो मनुष्या अजायन्त ॥ ३ ॥

इतश्च संसारविषय एव प्रजापतित्वम् , यतः सः प्रजापतिः वै नैव रेमे रतिं नान्वभवत् — अर­त्या­वि­ष्टोऽ­भू­दि­त्यर्थः — अस्मदादिवदेव यतः ; इदानीमपि तस्मा­दे­का­कि­त्वा­दि­ध­र्म­व­त्त्वात् एकाकी न रमते रतिं नानुभवति । रति­र्ना­मे­ष्टा­र्थ­सं­यो­गजा क्रीडा । तत्प्रसङ्गिन इष्ट­वि­यो­गा­न्म­न­स्या­कु­ली­भा­वोऽ­र­ति­रि­त्यु­च्यते । सः तस्या अरतेरपनोदाय द्विती­य­म­र­त्य­प­घा­त­स­मर्थं स्त्रीवस्तु ऐच्छत् गृद्धिमकरोत् । तस्य चैवं स्त्रीविषयं गृध्यतः स्त्रिया परि­ष्व­क्त­स्ये­वा­त्मनो भावो बभूव । सः तेन सत्येप्सुत्वात् एतावान् एतत्परिमाण आस बभूव ह । किम्परिमाण इत्याह — यथा लोके स्त्रीपु­मां­सा­व­र­त्य­प­नो­दाय सम्परिष्वक्तौ यत्परिमाणौ स्याताम् , तथा तत्परिमाणः, बभूवेत्यर्थः । स तथा तत्प­रि­मा­ण­मे­वे­म­मा­त्मानं द्वेधा द्विप्रकारम् अपातयत् पातितवान् । इममेवेत्यवधारणं मूल­का­र­णा­द्वि­राजो विशेषणार्थम् । न क्षीरस्य सर्वोपमर्देन दधि­भा­वा­प­त्ति­व­द्वि­राट् सर्वो­प­म­र्दे­नै­ता­वा­नास ; किं तर्हि ? आत्मना व्यवस्थितस्यैव विराजः सत्य­स­ङ्क­ल्प­त्वा­दा­त्म­व्य­ति­रिक्तं स्त्रीपुं­स­प­रि­ष्व­क्त­प­रि­माणं शरीरान्तरं बभूव । स एव च विराट् तथाभूतः — ‘स हैतावानास’ इति सामा­ना­धि­क­र­ण्यात् । ततः तस्मात्पातनात् पतिश्च पत्नी चाभवताम् इति दम्प­त्यो­र्नि­र्व­चनं लौकिकयोः ; अत एव तस्मात् — यस्मादात्मन एवार्धः पृथग्भूतः — येयं स्त्री — तस्मात् — इदं शरी­र­मा­त्म­नोऽ­र्ध­बृ­ग­लम् — अर्धं च तत् बृगलं विदलं च तदर्धबृगलम् , अर्ध­वि­द­ल­मि­वे­त्यर्थः । प्राक्‌स्त्र्यु­द्व­ह­ना­त्क­स्या­र्ध­बृ­ग­ल­मि­त्यु­च्यते — स्व आत्मन इति । एवमाह स्म उक्तवान्किल, याज्ञवल्क्यः — यज्ञस्य वल्को वक्ता यज्ञ­व­ल्क­स्त­स्या­पत्यं याज्ञवल्क्यो दैव­रा­ति­रि­त्यर्थः ; ब्रह्मणो वा अपत्यम् । यस्मादयं पुरुषार्ध आकाशः स्त्र्यर्ध­शून्यः, पुन­रु­द्व­ह­ना­त्त­स्मा­त्पू­र्यते स्त्र्यर्धेन, पुनः सम्पुटीकरणेनेव विदलार्धः । तां स प्रजा­प­ति­र्म­न्वाख्यः शत­रू­पा­ख्या­मा­त्मनो दुहितरं पत्नीत्वेन कल्पितां समभवत् मैथुनमुपगतवान् । ततः तस्मा­त्त­दु­प­ग­म­नात् मनुष्या अजायन्त उत्पन्नाः ॥

सो हेय­मी­क्षा­ञ्चक्रे कथं नु मात्मन एव जनयित्वा सम्भवति हन्त तिरोऽसानीति सा गौरभवदृषभ इतरस्तां समेवाभवत्ततो गावोऽजायन्त बड­बे­त­रा­भ­व­द­श्व­वृष इतरो गर्दभीतरा गर्दभ इतरस्तां समेवाभवत्तत एक­श­फ­म­जा­य­ता­जे­त­रा­भ­व­द्बस्त इतरोऽविरितरा मेष इतरस्तां समे­वा­भ­व­त्त­तोऽ­जा­व­योऽ­जा­य­न्तै­व­मेव यदिदं किञ्च मिथुनमा पिपी­लि­का­भ्य­स्त­त्स­र्व­म­सृ­जत ॥ ४ ॥

सा शतरूपा उ ह इयम् — सेयं दुहितृगमने स्मार्तं प्रति­षे­ध­म­नु­स्म­रन्ती ईक्षाञ्चक्रे । ‘कथं न्विदमकृत्यम् , यन्मा माम् आत्मन एव जनयित्वा उत्पाद्य सम्भवति उपगच्छति ; यद्यप्ययं निर्घृणः, अहं हन्तेदानीं तिरोऽसानि जात्यन्तरेण तिरस्कृता भवानि’ इत्ये­व­मी­क्षित्वा असौ गौरभवत् । उत्पाद्य प्राणि­क­र्म­भि­श्चो­द्य­मा­नायाः पुनः पुनः सैव मतिः शतरूपाया मनोश्चाभवत् । ततश्च ऋषभ इतरः । तां समेवाभवदित्यादि पूर्ववत् । ततो गावोऽजायन्त । तथा बडबेतराभवत् अश्ववृष इतरः । तथा गर्दभीतरा गर्दभ इतरः । तत्र बड­बा­श्व­वृ­षा­दीनां सङ्गमात्तत एकशफम् एकखुरम् अश्वा­श्व­त­र­ग­र्द­भाख्यं त्रयमजायत । तथा अजा इतराभवत् , बस्तश्छाग इतरः । तथाविरितरा, मेष इतरः । तां समेवाभवत् । तां तामिति वीप्सा । तामजां तामविं चेति समभवदेवेत्यर्थः । ततोऽ­जा­श्चा­व­य­श्चा­जा­व­योऽ­जा­यन्त । एवमेव यदिदं किञ्च यत्किञ्चेदं मिथुनं स्त्रीपुं­स­ल­क्षणं द्वन्द्वम् , आ पिपीलिकाभ्यः पिपीलिकाभिः सह अनेनैव न्यायेन तत्सर्वमसृजत जगत्सृष्टवान् ॥

सोऽवेदहं वाव सृष्टिरस्म्यहं हीदं सर्वमसृक्षीति ततः सृष्टि­र­भ­व­त्सृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ ५ ॥

सः प्रजापतिः सर्वमिदं जगत्सृष्ट्वा अवेत् । कथम् ? अहं वाव अहमेव, सृष्टिः — सृज्यत इति सृष्टं जगदुच्यते सृष्टिरिति — यन्मया सृष्टं जगत् मद­भे­द­त्वा­द­ह­मे­वास्मि, न मत्तो व्यतिरिच्यते ; कुत एतत् ? अहं हि यस्मात् , इदं सर्वं जगत् असृक्षि सृष्टवानस्मि, तस्मादित्यर्थः । यस्मा­त्सृ­ष्टि­श­ब्दे­ना­त्मा­न­मे­वा­भ्य­धा­त्प्र­जा­पतिः ततः तस्मात् सृष्टिरभवत् सृष्टिनामाभवत् सृष्ट्यां जगति ह अस्य प्रजापतेः एतस्याम् एतस्मिञ्जगति, स प्रजा­प­ति­व­त्स्रष्टा भवति, स्वात्म­नोऽ­न­न्य­भू­तस्य जगतः ; कः ? य एवं प्रजा­प­ति­व­द्य­थोक्तं स्वात्म­नोऽ­न­न्य­भूतं जगत् ‘साध्या­त्मा­धि­भू­ता­धि­दैवं जगदहमस्मि’ इति वेद ॥

अथे­त्य­भ्य­म­न्थत्स मुखाच्च योने­र्ह­स्ताभ्यां चाग्निमसृजत तस्मा­दे­त­दु­भ­य­म­लो­म­क­म­न्त­र­तोऽ­लो­मका हि योनिरन्तरतः । तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे देवाः । अथ यत्कि­ञ्चे­द­मार्द्रं तद्रेतसोऽसृजत तदु सोम एतावद्वा इदं सर्वमन्नं चैवान्नादश्च सोम एवा­न्न­म­ग्नि­र­न्नादः सैषा ब्रह्म­णोऽ­ति­सृष्टिः । यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मा­द­ति­सृ­ष्टि­र­ति­सृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ ६ ॥

एवं स प्रजा­प­ति­र्ज­ग­दिदं मिथुनात्मकं सृष्ट्वा ब्राह्म­णा­दि­व­र्ण­नि­य­न्त्री­र्दे­वताः सिसृक्षुरादौ — अथ - इति - शब्द­द्व­य­म­भि­न­य­प्र­द­र्श­ना­र्थम् — अनेन प्रकारेण मुखे हस्तौ प्रक्षिप्य अभ्यमन्थत् आभिमुख्येन मन्थनमकरोत् । सः मुखं हस्ताभ्यां मथित्वा, मुखाच्च योनेः हस्ताभ्यां च योनिभ्याम् , अग्निं ब्राह्म­ण­जा­ते­र­नु­ग्र­ह­क­र्ता­रम् , असृजत सृष्टवान् । यस्मा­द्दा­ह­क­स्या­ग्ने­र्यो­नि­रे­त­दु­भ­यम् — हस्तौ मुखं च, तस्मात् उभयमप्येतत् अलोमकं लोमविवर्जितम् ; किं सर्वमेव ? न, अन्तरतः अभ्यन्तरतः । अस्ति हि योन्या सामा­न्य­मु­भ­य­स्यास्य । किम् ? अलोमका हि योनिरन्तरतः स्त्रीणाम् । तथा ब्राह्मणोऽपि मुखादेव जज्ञे प्रजापतेः । तस्मा­दे­क­यो­नि­त्वा­ज्ज्ये­ष्ठे­ने­वा­नु­जोऽ­नु­गृ­ह्यते, अग्निना ब्राह्मणः । तस्मा­द्ब्रा­ह्म­णोऽ­ग्नि­दे­वत्यो मुखवीर्यश्चेति श्रुति­स्मृ­ति­सि­द्धम् । तथा बलाश्रयाभ्यां बाहुभ्यां बलभिदादिकं क्षत्रि­य­जा­ति­नि­य­न्तारं क्षत्त्रियं च । तस्मादैन्द्रं क्षत्त्रं बाहुवीर्यं चेति श्रुतौ स्मृतौ चावगतम् । तथोरुत ईहा चेष्टा तदा­श्र­या­द्व­स्वा­दि­ल­क्षणं विशो नियन्तारं विशं च । तस्मा­त्कृ­ष्या­दि­परो वस्वा­दि­दे­व­त्यश्च वैश्यः । तथा पूषणं पृथ्वीदैवतं शूद्रं च पद्भ्यां परि­च­र­ण­क्ष­म­म­सृ­ज­तेति — श्रुति­स्मृ­ति­प्र­सिद्धेः । तत्र क्षत्रा­दि­दे­व­ता­स­र्ग­मि­हा­नुक्तं वक्ष्य­मा­ण­म­प्यु­क्त­व­दु­प­सं­ह­रति सृष्टि­सा­क­ल्या­नु­कीर्त्यै । यथेयं श्रुति­र्व्य­व­स्थिता तथा प्रजापतिरेव सर्वे देवा इति निश्चितोऽर्थः ; स्रष्टु­र­न­न्य­त्वा­त्सृ­ष्टा­नाम् , प्रजापतिनैव तु सृष्ट­त्वा­द्दे­वा­नाम् । अथैवं प्रकरणार्थे व्यवस्थिते तत्स्तु­त्य­भि­प्रा­ये­णा­वि­द्व­न्म­ता­न्त­र­नि­न्दो­प­न्यासः । अन्यनिन्दा अन्यस्तुतये । तत् तत्र कर्मप्रकरणे, केवलयाज्ञिका यागकाले, यदिदं वच आहुः — ‘अमुमग्निं यजामुमिन्द्रं यज’ इत्यादि — नाम­श­स्त्र­स्तो­त्र­क­र्मा­दि­भि­न्न­त्वा­द्भि­न्न­मे­वा­ग्न्या­दि­दे­व­मे­कैकं मन्यमाना आहु­रि­त्य­भि­प्रायः — तन्न तथा विद्यात् ; यस्मादेतस्यैव प्रजापतेः सा विसृ­ष्टि­र्दे­व­भेदः सर्वः ; एष उ ह्येव प्रजापतिरेव प्राणः सर्वे देवाः ॥

अत्र विप्रतिपद्यन्ते — पर एव हिरण्यगर्भ इत्येके ; संसारीत्यपरे । पर एव तु मन्त्रवर्णात् — ‘इन्द्रं मित्रं वरुणमग्निमाहुः’(ऋ. १ । १९४ । ४६) इति श्रुतेः ; ‘एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवाः’(ऐ. उ. ३ । १ । ३) इति च श्रुतेः ; स्मृतेश्च — ‘एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम्’(मनु. १२ । १२३) इति, ‘योऽसा­व­ती­न्द्रि­योऽ­ग्राह्यः सूक्ष्मोऽ­व्यक्तः सनातनः । सर्व­भू­त­म­योऽ­चिन्त्यः स एव स्वयमुद्बभौ’(मनु १ । ७) इति च । संसार्येव वा स्यात् — ‘सर्वान्पाप्मन औषत्’(बृ. उ. १ । ४ । १) इति श्रुतेः ; न ह्यसंसारिणः पाप्म­दा­ह­प्र­स­ङ्गोऽस्ति ; भया­र­ति­सं­यो­ग­श्र­व­णाच्च ; ‘अथ यन्मर्त्यः सन्नमृतानसृजत’(बृ. उ. १ । ४ । ६) इति च, ‘हिरण्यगर्भं पश्यत जायमानम्’(श्वे. ४ । १२) इति च मन्त्रवर्णात् ; स्मृतेश्च कर्म­वि­पा­क­प्र­क्रि­या­याम् — ‘ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्त्विकीमेतां गति­मा­हु­र्म­नी­षिणः’(मनु. १२ । ५०) इति । अथैवं विरु­द्धा­र्था­नु­प­पत्तेः प्रामा­ण्य­व्या­घात इति चेत् —

न, कल्प­ना­न्त­रो­प­प­त्ते­र­वि­रो­धात् । उपा­धि­वि­शे­ष­स­म्ब­न्धा­द्वि­शे­ष­क­ल्प­ना­न्त­र­मु­प­प­द्यते । ‘आसीनो दूरं व्रजति शयानो याति सर्वतः । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’(क. उ. १ । २ । २१) इत्ये­व­मा­दि­श्रु­तिभ्यः उपा­धि­व­शा­त्सं­सा­रि­त्वम् , न परमार्थतः । स्वतोऽसंसार्येव । एवमेकत्वं नानात्वं च हिरण्यगर्भस्य । तथा सर्वजीवानाम् , ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) इति श्रुतेः । हिर­ण्य­ग­र्भ­स्तू­पा­धि­शु­द्ध्य­ति­श­या­पे­क्षया प्रायशः पर एवेति श्रुति­स्मृ­ति­वादाः प्रवृत्ताः । संसारित्वं तु क्वचिदेव दर्शयन्ति । जीवानां तूपा­धि­ग­ता­शु­द्धि­बा­हु­ल्या­त्सं­सा­रि­त्व­मेव प्राय­शोऽ­भि­ल­प्यते । व्यावृ­त्त­कृ­त्स्नो­पा­धि­भे­दा­पे­क्षया तु सर्वः परत्वेनाभिधीयते श्रुति­स्मृ­ति­वादैः ॥

तार्किकैस्तु परि­त्य­क्ता­ग­म­बलैः अस्ति नास्ति कर्ता अकर्ता इत्यादि विरुद्धं बहु तर्क­य­द्भि­रा­कु­ली­कृतः शास्त्रार्थः । तेनार्थनिश्चयो दुर्लभः । ये तु केव­ल­शा­स्त्रा­नु­सा­रिणः शान्त­द­र्पा­स्तेषां प्रत्यक्षविषय इव निश्चितः शास्त्रार्थो देवतादिविषयः ॥

तत्र प्रजापतेरेकस्य देव­स्या­त्रा­द्य­ल­क्षणो भेदो विवक्षित इति — तत्रा­ग्नि­रु­क्तोऽत्ता, आद्यः सोम इदानीमुच्यते । अथ यत्किञ्चेदं लोक आर्द्रं द्रवात्मकम् , तद्रेतस आत्मनो बीजात् असृजत ; ‘रेतस आपः’(ऐ. उ. १ । १ । ४) इति श्रुतेः । द्रवात्मकश्च सोमः । तस्मा­द्य­दार्द्रं प्रजापतिना रेतसः सृष्टम् , तदु सोम एव । एतावद्वै एतावदेव, नातोऽधिकम् , इदं सर्वम् । किं तत् ? अन्नं चैव सोमो द्रवा­त्म­क­त्वा­दा­प्या­य­कम् , अन्नादश्चाग्निः औष्ण्या­द्रू­क्ष­त्वाच्च ।

तत्रैवमवध्रियते — सोम एवान्नम् , यदद्यते तदेव सोम इत्यर्थः ; य एवात्ता स एवाग्निः ; अर्थ­ब­ला­द्ध्य­व­धा­र­णम् । अग्निरपि क्वचिद्धूयमानः सोमपक्षस्यैव ; सोमोऽ­पी­ज्य­मा­नोऽ­ग्नि­रेव, अत्तृत्वात् । एव­म­ग्नी­षो­मा­त्मकं जगदात्मत्वेन पश्यन्न केनचिद्दोषेण लिप्यते ; प्रजापतिश्च भवति । सैषा ब्रह्मणः प्रजा­प­ते­र­ति­सृ­ष्टि­रा­त्म­नोऽ­प्य­ति­शया । का सेत्याह — यच्छ्रेयसः प्रश­स्य­त­रा­ना­त्मनः सकाशात् यस्मादसृजत देवान् , तस्मा­द्दे­व­सृ­ष्टि­र­ति­सृष्टिः । कथं पुन­रा­त्म­नोऽ­ति­शया सृष्टिरित्यत आह — अथ यत् यस्मात् मर्त्यः सन् मरणधर्मा सन् , अमृतान् अमरणधर्मिणो देवान् , कर्म­ज्ञा­न­व­ह्निना सर्वानात्मनः पाप्मन ओषित्वा, असृजत ; तस्मा­दि­य­म­ति­सृष्टिः उत्कृ­ष्ट­ज्ञा­नस्य फलमित्यर्थः । तस्मा­दे­ता­म­ति­सृष्टिं प्रजा­प­ते­रा­त्म­भूतां यो वेद, स एत­स्या­म­ति­सृष्ट्यां प्रजापतिरिव भवति प्रजापतिवदेव स्रष्टा भवति ॥

तद्धेतं तर्ह्य­व्या­कृ­त­मा­सीत् । सर्वं वैदिकं साधनं ज्ञानकर्मलक्षणं कर्त्रा­द्य­ने­क­का­र­का­पेक्षं प्रजा­प­ति­त्व­फ­ला­व­सानं साध्यमेतावदेव, यदेतद्व्याकृतं जगत्संसारः । अथैतस्यैव साध्य­सा­ध­न­ल­क्ष­णस्य व्याकृतस्य जगतो व्याक­र­णा­त्प्रा­ग्बी­जा­वस्था या, तां निर्दिदिक्षति अङ्कु­रा­दि­का­र्या­नु­मि­ता­मिव वृक्षस्य, कर्म­बी­जोऽ­वि­द्या­क्षेत्रो ह्यसौ संसारवृक्षः समूल उद्धर्तव्य इति ; तदुद्धरणे हि पुरु­षा­र्थ­प­रि­स­माप्तिः ; तथा चोक्तम् — ‘ऊर्ध्व­मू­लोऽ­वा­क्शाखः’(क. उ. २ । ३ । १) इति काठके ; गीतासु च ‘ऊर्ध्व­मू­ल­म­धः­शा­खम्’(भ. गी. १५ । १) इति ; पुराणे च — ‘ब्रह्मवृक्षः सनातनः’ इति ॥

तद्धेदं तर्ह्य­व्या­कृ­त­मा­सी­त्त­न्ना­म­रू­पा­भ्या­मेव व्याक्रि­य­ता­सौ­ना­मा­य­मि­दं­रूप इति तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रि­य­तेऽ­सौ­ना­मा­य­मि­दं­रूप इति स एष इह प्रविष्टः । आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्वि­श्व­म्भरो वा विश्वम्भरकुलाये तं न पश्यन्ति । अकृत्स्नो हि स प्राणन्नेव प्राणो नाम भवति । वद­न्वा­क्प­श्यं­श्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मन­स्ता­न्य­स्यै­तानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोऽत एकैकेन भव­त्या­त्मे­त्ये­वो­पा­सी­तात्र ह्येते सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य यदयमात्मानेन ह्येतत्सर्वं वेद । यथा ह वै पदे­ना­नु­वि­न्दे­देवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ ७ ॥

तद्धेदम् । तदिति बीजावस्थं जग­त्प्रा­गु­त्पत्तेः, तर्हि तस्मिन्काले ; परो­क्ष­त्वा­त्स­र्व­नाम्ना अप्र­त्य­क्षा­भि­धा­ने­ना­भि­धी­यते — भूत­का­ल­स­म्ब­न्धि­त्वा­द­व्या­कृ­त­भा­विनो जगतः ; सुख­ग्र­ह­णा­र्थ­मै­ति­ह्य­प्र­योगो ह - शब्दः ; एवं ह तदा आसी­दि­त्यु­च्य­माने सुखं तां परोक्षामपि जगतो बीजावस्थां प्रतिपद्यते — युधिष्ठिरो ह किल राजा­सी­दि­त्युक्ते यद्वत् ; इदमिति व्याकृ­त­ना­म­रू­पा­त्मकं साध्यसाधनलक्षणं यथा­व­र्णि­त­म­भि­धी­यते ; तदिदंशब्दयोः परो­क्ष­प्र­त्य­क्षा­व­स्थ­ज­ग­द्वा­च­कयोः सामा­ना­धि­क­र­ण्या­दे­क­त्व­मेव परो­क्ष­प्र­त्य­क्षा­व­स्थस्य जगतोऽवगम्यते ; तदेवेदम् , इदमेव च तद­व्या­कृ­त­मा­सी­दिति ।

अथैवं सति नासत उत्पत्तिर्न सतो विनाशः कार्य­स्ये­त्य­व­धृतं भवति । तदेवंभूतं जगत् अव्याकृतं सत् नामरूपाभ्यामेव नाम्ना रूपेणैव च, व्याक्रियत । व्याक्रियतेति कर्म­क­र्तृ­प्र­यो­गा­त्त­त्स्व­य­मे­वा­त्मैव व्याक्रियत — वि आ अक्रियत — विस्पष्टं नाम­रू­प­वि­शे­षा­व­धा­र­ण­म­र्यादं व्यक्ती­भा­व­मा­प­द्यत — साम­र्थ्या­दा­क्षि­प्त­नि­य­न्तृ­क­र्तृ­सा­ध­न­क्रि­या­नि­मि­त्तम् । असौ नामेति सर्व­ना­म्ना­वि­शे­षा­भि­धा­नेन नाममात्रं व्यपदिशति । देवदत्तो यज्ञदत्त इति वा नामा­स्ये­त्य­सौ­नामा अयम् । तथा इदमिति शुक्ल­कृ­ष्णा­दी­ना­म­वि­शेषः । इदं शुक्लमिदं कृष्णं वा रूप­म­स्ये­ती­दं­रूपः । तदिदम् अव्याकृतं वस्तु, एतर्हि एतस्मिन्नपि काले, नामरूपाभ्यामेव व्याक्रियते — असौनामायमिदंरूप इति । यदर्थः सर्व­शा­स्त्रा­रम्भः, यस्मिन्नविद्यया स्वाभाविक्या कर्तृ­क्रि­या­फ­ला­ध्या­रो­पणा कृता, यः कारणं सर्वस्य जगतः, यदात्मके नामरूपे सलिलादिव स्वच्छान्मलमिव फेनमव्याकृते व्याक्रियेते, यश्च ताभ्यां नामरूपाभ्यां विलक्षणः स्वतो नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावः — स एषः अव्याकृते आत्मभूते नामरूपे व्याकुर्वन् , ब्रह्मा­दि­स्त­म्ब­प­र्य­न्तेषु देहेष्विह कर्म­फ­ला­श्र­ये­ष्व­श­ना­या­दि­मत्सु प्रविष्टः ॥

नन्वव्याकृतं स्वयमेव व्याक्रि­य­ते­त्यु­क्तम् ; कथ­मि­द­मि­दा­नी­मु­च्यते — पर एव त्वात्मा अव्याकृतं व्याकुर्वन्निह प्रविष्ट इति । नैष दोषः — पर­स्या­प्या­त्म­नोऽ­व्या­कृ­त­ज­ग­दा­त्म­त्वेन विवक्षितत्वात् । आक्षि­प्त­नि­य­न्तृ­क­र्तृ­क्रि­या­नि­मित्तं हि जगदव्याकृतं व्याक्रि­य­ते­त्य­वो­चाम । इदं­श­ब्द­सा­मा­ना­धि­क­र­ण्याच्च अव्याकृतशब्दस्य । यथेदं जग­न्नि­य­न्त्रा­द्य­ने­क­का­र­क­नि­मि­त्ता­दि­वि­शे­ष­व­द्व्या­कृ­तम् , तथा अप­रि­त्य­क्ता­न्य­त­म­वि­शे­ष­व­देव तदव्याकृतम् । व्याकृ­ता­व्या­कृ­त­मात्रं तु विशेषः । दृष्टश्च लोके विवक्षातः शब्दप्रयोगो ग्राम आगतो ग्रामः शून्य इति — कदा­चि­द्ग्रा­म­श­ब्देन निवा­स­मा­त्र­वि­व­क्षायां ग्रामः शून्य इति शब्दप्रयोगो भवति ; कदा­चि­न्नि­वा­सि­ज­न­वि­व­क्षायां ग्राम आगत इति ; कदा­चि­दु­भ­य­वि­व­क्षा­या­मपि ग्राम­श­ब्द­प्र­योगो भवति ग्रामं च न प्रविशेदिति यथा — तद्वदिहापि जगदिदं व्याकृ­त­म­व्या­कृतं चेत्य­भे­द­वि­व­क्षा­या­मा­त्मा­ना­त्म­नो­र्भ­वति व्यपदेशः । तथेदं जग­दु­त्प­त्ति­वि­ना­शा­त्म­क­मिति केव­ल­ज­ग­द्व्य­प­देशः । तथा ‘महानज आत्मा’ ‘अस्थूलोऽनणुः’ ‘स एष नेति नेति’ इत्यादि केव­ला­त्म­व्य­प­देशः ॥

ननु परेण व्याकर्त्रा व्याकृतं सर्वतो व्याप्तं सर्वदा जगत् ; स कथमिह प्रविष्टः परिकल्प्यते ; अप्रविष्टो हि देशः परिच्छिन्नेन प्रवेष्टुं शक्यते, यथा पुरुषेण ग्रामादिः ; नाकाशेन किञ्चित् , नित्य­प्र­वि­ष्ट­त्वात् । पाषा­ण­स­र्पा­दि­व­द्ध­र्मा­न्त­रे­णेति चेत् — अथापि स्यात् — न पर आत्मा स्वेनैव रूपेण प्रविवेश ; किं तर्हि ? तत्स्थ एव धर्मा­न्त­रे­णो­प­जा­यते ; तेन प्रविष्ट इत्युपचर्यते ; यथा पाषाणे सहजोऽन्तस्थः सर्पः, नारिकेले वा तोयम् — न, ‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्’(तै. उ. २ । ६ । ६)‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्’(तै. उ. २ । ६ । ६) इति श्रुतेः । यः स्रष्टा स भावान्तरमनापन्न एव कार्यं सृष्ट्वा पश्चा­त्प्रा­वि­श­दिति हि श्रूयते । यथा ‘भुक्त्वा गच्छति’ इति भुजिगमिक्रिययोः पूर्वा­प­र­का­ल­यो­रि­त­रे­त­र­वि­च्छेदः, अविशिष्टश्च कर्ता, तद्वदिहापि स्यात् ; न तु तत्स्थस्यैव भावान्तरोपजनन एतत्सम्भवति । न च स्थानान्तरेण वियुज्य स्थाना­न्त­र­सं­यो­ग­ल­क्षणः प्रवेशो निर­व­य­व­स्या­प­रि­च्छि­न्नस्य दृष्टः । सावयव एव प्रवे­श­श्र­व­णा­दिति चेत् , न ; ‘दिव्यो ह्यमूर्तः पुरुषः’(मु. उ. २ । १ । २) ‘निष्कलं निष्क्रियम्’(श्वे. ६ । १९) इत्या­दि­श्रु­तिभ्यः, सर्व­व्य­प­दे­श्य­ध­र्म­वि­शे­ष­प्र­ति­षे­ध­श्रु­ति­भ्यश्च । प्रति­बि­म्ब­प्र­वे­श­व­दिति चेत् , न ; वस्त्वन्तरेण विप्र­क­र्षा­नु­प­पत्तेः । द्रव्ये गुणप्रवेशवदिति चेत् , न ; अनाश्रितत्वात् । नित्य­प­र­त­न्त्र­स्यै­वा­श्रि­तस्य गुणस्य द्रव्ये प्रवेश उपचर्यते ; न तु ब्रह्मणः स्वात­न्त्र्य­श्र­व­णा­त्तथा प्रवेश उपपद्यते । फले बीजवदिति चेत् , न ; साव­य­व­त्व­वृ­द्धि­क्ष­यो­त्प­त्ति­वि­ना­शा­दि­ध­र्म­व­त्त्व­प्र­स­ङ्गात् । न चैवं धर्मवत्त्वं ब्रह्मणः, ‘अजोऽजरः’(बृ. उ. ४ । ४ । २५) इत्या­दि­श्रु­ति­न्या­य­वि­रो­धात् । अन्य एव संसारी परिच्छिन्न इह प्रविष्ट इति चेत् , न ; ‘सेयं देवतैक्षत’(छा. उ. ६ । ३ । २) इत्यारभ्य ‘नामरूपे व्याकरवाणि’(छा. उ. ६ । ३ । २) इति तस्या एव प्रवे­श­व्या­क­र­ण­क­र्तृ­त्व­श्रुतेः । तथा ‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्’ ‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’(ऐ. उ. १ । ३ । १२) ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वा­भि­व­द­न्य­दास्ते’(तै. आ. ३ । १२ । ७) ‘त्वं कुमार उत वा कुमारी त्वं जीर्णो दण्डेन वञ्चसि’(श्वे. ४ । ३) ‘पुरश्चक्रे द्विपदः’(बृ. उ. २ । ५ । १८) ‘रूपं रूपम्’(बृ. उ. २ । ५ । १९) , इति च मन्त्रवर्णान्न परादन्यस्य प्रवेशः । प्रवि­ष्टा­ना­मि­त­रे­त­र­भे­दा­त्प­रा­ने­क­त्व­मिति चेत् , न । ‘एको देवो बहुधा सन्निविष्टः’(तै. आ. ३ । १४ । १) ‘एकः सन्बहुधा विचार’(तै. आ. ३ । ११ । १) ‘त्वमेकोऽसि बहू­न­नु­प्र­विष्टः’(तै. आ. ३ । १४ । १३) ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्व­भू­ता­न्त­रात्मा’(श्वे. ६ । ११) इत्या­दि­श्रु­तिभ्यः ॥

प्रवेश उपपद्यते नोपपद्यत इति — तिष्ठतु तावत् ; प्रविष्टानां संसा­रि­त्वा­त्त­द­न­न्य­त्वाच्च परस्य संसारित्वमिति चेत् , न ; अश­ना­या­द्य­त्य­य­श्रुतेः । सुखि­त्व­दुः­खि­त्वा­दि­द­र्श­ना­न्नेति चेत् , न ; ‘न लिप्यते लोकदुःखेन बाह्यः’(क. उ. १ । ३ । ११) इति श्रुतेः । प्रत्य­क्षा­दि­वि­रो­धा­द­यु­क्त­मिति चेत् , न ; उपा­ध्या­श्र­य­ज­नि­त­वि­शे­ष­वि­ष­य­त्वा­त्प्र­त्य­क्षादेः । ‘न दृष्टे­र्द्र­ष्टारं पश्येः’(बृ. उ. ३ । ४ । २) ‘विज्ञातारमरे केन विजानीयात्’(बृ. उ. २ । ४ । १४) , ‘अविज्ञातं विज्ञातृ’(बृ. उ. ३ । ८ । ११) इत्या­दि­श्रु­तिभ्यो न आत्मविषयं विज्ञानम् ; किं तर्हि ? बुद्ध्या­द्यु­पा­ध्या­त्म­प्र­ति­च्छा­या­वि­ष­य­मेव ‘सुखितोऽहं’ ‘दुःखितोऽहम्’ इत्येवमादि प्रत्य­क्ष­वि­ज्ञा­नम् ; ‘अयम् अहम्’ इति विषयेण विषयिणः सामा­ना­धि­क­र­ण्यो­प­चा­रात् ; ‘नान्यदतोऽस्ति द्रष्टृ’(बृ. उ. ३ । ८ । ११) इत्य­न्या­त्म­प्र­ति­षे­धाच्च । देहा­व­य­व­वि­शे­ष्य­त्वाच्च सुख­दुः­ख­यो­र्वि­ष­य­ध­र्म­त्वम् । ‘आत्मनस्तु कामाय’(बृ. उ. २ । ४ । ५) , इत्या­त्मा­र्थ­त्व­श्रु­ते­र­यु­क्त­मिति चेत् , न ; ‘यत्र वा अन्यदिव स्यात्’(बृ. उ. ४ । ३ । ३१) इत्य­वि­द्या­वि­ष­या­त्मा­र्थ­त्वा­भ्यु­प­ग­मात् , ‘तत्केन कं पश्येत्’(बृ. उ. २ । ४ । १४) , ‘नेह नानास्ति किञ्चन’(बृ. उ. ४ । ४ । १९) , ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’(ई. उ. ७) इत्यादिना विद्याविषये तत्प्रतिषेधाच्च न आत्मधर्मत्वम् । तार्कि­क­स­म­य­वि­रो­धा­द­यु­क्त­मिति चेत् , न ; युक्त्या­प्या­त्मनो दुःखि­त्वा­नु­प­पत्तेः । न हि दुःखेन प्रत्य­क्ष­वि­ष­ये­णा­त्मनो विशेष्यत्वम् , प्रत्य­क्षा­वि­ष­य­त्वात् । आकाशस्य शब्द­गु­ण­व­त्त्व­व­दा­त्मनो दुःखित्वमिति चेत् , न ; एक­प्र­त्य­य­वि­ष­य­त्वा­नु­प­पत्तेः । न हि सुखग्राहकेण प्रत्यक्षविषयेण प्रत्ययेन नित्या­नु­मे­य­स्या­त्मनो विष­यी­क­र­ण­मु­प­प­द्यते । तस्य च विषयीकरण आत्मन एक­त्वा­द्वि­ष­य्य­भा­व­प्र­सङ्गः । एकस्यैव विषयविषयित्वम् , दीपवदिति चेत् , न ; युगपदसम्भवात् , आत्म­न्यं­शा­नु­प­प­त्तेश्च । एतेन विज्ञानस्य ग्राह्य­ग्रा­ह­कत्वं प्रत्युक्तम् । प्रत्य­क्षा­नु­मा­न­वि­ष­य­योश्च दुःखा­त्म­नो­र्गु­ण­गु­णित्वे न अनुमानम् ; दुःखस्य नित्यमेव प्रत्य­क्ष­वि­ष­य­त्वात् ; रूपा­दि­सा­मा­ना­धि­क­र­ण्याच्च ; मनः­सं­यो­ग­ज­त्वेऽ­प्या­त्मनि दुःखस्य, साव­य­व­त्व­वि­क्रि­या­व­त्त्वा­नि­त्य­त्व­प्र­स­ङ्गात् । न ह्यविकृत्य संयोगि द्रव्यं गुणः कश्चिदुपयन् अपयन्वा दृष्टः क्वचित् । न च निरवयवं विक्रियमाणं दृष्टं क्वचित् , अनित्यगुणाश्रयं वा नित्यम् । न चाकाश आग­म­वा­दि­भि­र्नि­त्य­त­या­भ्यु­प­ग­म्यते । न चान्यो दृष्टान्तोऽस्ति । विक्रियमाणमपि तत्प्र­त्य­या­नि­वृत्तेः नित्यमेवेति चेत् , न ; द्रव्य­स्या­व­य­वा­न्य­था­त्व­व्य­ति­रे­केण विक्रि­या­नु­प­पत्तेः । सावयवत्वेऽपि नित्यत्वमिति चेत् , न ; साव­य­व­स्या­व­य­व­सं­यो­ग­पू­र्व­कत्वे सति विभागोपपत्तेः । वज्रा­दि­ष्व­द­र्श­ना­न्नेति चेत् , न ; अनु­मे­य­त्वा­त्सं­यो­ग­पू­र्व­त्वस्य । तस्मान्नात्मनो दुःखा­द्य­नि­त्य­गु­णा­श्र­य­त्वो­प­पत्तिः । पर­स्या­दुः­खि­त्वेऽ­न्यस्य च दुःखिनोऽभावे दुःखोपशमनाय शास्त्रा­र­म्भा­न­र्थ­क्य­मिति चेत् , न ; अवि­द्या­ध्या­रो­पि­त­दुः­खि­त्व­भ्र­मा­पो­हा­र्थ­त्वात् — आत्मनि प्रकृ­त­स­ङ्ख्या­पू­र­ण­भ्र­मा­पो­ह­वत् ; कल्पि­त­दुः­ख्या­त्मा­भ्यु­प­ग­माच्च ॥

जल­सू­र्या­दि­प्र­ति­बि­म्ब­वत् आत्मप्रवेशश्च प्रतिबिम्बवत् व्याकृते कार्ये उपलभ्यत्वम् । प्रागु­त्प­त्ते­र­नु­प­लब्ध आत्मा पश्चात्कार्ये च सृष्टे व्याकृते बुद्धे­र­न्त­रु­प­ल­भ्य­मानः, सूर्या­दि­प्र­ति­बि­म्ब­व­ज्ज­लादौ, कार्यं सृष्ट्वा प्रविष्ट इव लक्ष्यमाणो निर्दिश्यते — ‘स एष इह प्रविष्टः’ ‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्’(तै. उ. २ । ६ । ६) ‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’(ऐ. उ. १ । ३ । १२) ‘सेयं देवतैक्षत हन्ता­ह­मि­मा­स्तिस्रो देवता अनेन जीवे­ना­त्म­ना­नु­प्र­विश्य’(छा. उ. ६ । ३ । २) इत्येवमादिभिः । न तु सर्वगतस्य निरवयवस्य दिग्दे­श­का­ला­न्त­रा­प­क्र­म­ण­प्रा­प्ति­ल­क्षणः प्रवेशः कदा­चि­द­प्यु­प­प­द्यते । न च परा­दा­त्म­नोऽ­न्योऽस्ति द्रष्टा, ‘नान्यदतोऽस्ति द्रष्टृ’ ‘नान्यदतोऽस्ति श्रोतृ’(बृ. उ. ३ । ८ । १) इत्यादिश्रुतेः — इत्यवोचाम । उप­ल­ब्ध्य­र्थ­त्वाच्च सृष्टि­प्र­वे­श­स्थि­त्य­प्य­य­वा­क्या­नाम् ; उपलब्धेः पुरु­षा­र्थ­त्व­श्र­व­णात् — ‘आत्मानमेवावेत् तस्मा­त्त­त्स­र्व­म­भ­वत्’(बृ. उ. १ । ४ । १०) ‘ब्रह्म­वि­दा­प्नोति परम्’(तै. उ. २ । १ । १) ‘स यो ह वै तत्परं ब्रह्म वेद ब्रह्मैव भवति’(मु. उ. ३ । २ । ९) ‘आचा­र्य­वा­न्पु­रुषो वेद’‘तस्य तावदेव चिरम्’(छा. उ. ६ । १४ । २) इत्या­दि­श्रु­तिभ्यः ; ‘ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्’(भ. गी. १८ । ५५) ‘तद्ध्यग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः’(मनु. १२ । ८५) इत्या­दि­स्मृ­ति­भ्यश्च । भेद­द­र्श­ना­प­वा­दाच्च, सृष्ट्या­दि­वा­क्या­ना­मा­त्मै­क­त्व­द­र्श­ना­र्थ­प­र­त्वो­प­पत्तिः । तस्मा­त्का­र्य­स्थ­स्यो­प­ल­भ्य­त्व­मेव प्रवेश इत्युपचर्यते ॥

आ नखाग्रेभ्यः — नखा­ग्र­म­र्या­द­मा­त्म­न­श्चै­त­न्य­मु­प­ल­भ्यते । तत्र कथमिव प्रविष्ट इत्याह — यथा लोके, क्षुरधाने क्षुरो धीयते अस्मिन्निति क्षुरधानं तस्मिन् नापि­तो­प­स्क­रा­धाने, क्षुरः अन्तस्थ उपलभ्यते — अवहितः प्रवेशितः, स्यात् ; यथा वा विश्वम्भरः अग्निः — विश्वस्य भरणात् विश्वम्भरः कुलाये नीडे अग्निः काष्ठादौ, अवहितः स्यादि­त्य­नु­व­र्तते ; तत्र हि स मथ्यमान उपलभ्यते । यथा च क्षुरः क्षुरधान एकदेशेऽवस्थितः, यथा चाग्निः काष्ठादौ सर्वतो व्याप्या­व­स्थितः, एवं सामान्यतो विशेषतश्च देहं संव्या­प्या­व­स्थित आत्मा ; तत्र हि स प्राण­ना­दि­क्रि­या­वान् दर्श­ना­दि­क्रि­या­वां­श्चो­प­ल­भ्यते । तस्मात् तत्र एवं प्रविष्टं तम् आत्मानं प्राण­ना­दि­क्रि­या­वि­शि­ष्टम् , न पश्यन्ति नोपलभन्ते । नन्व­प्रा­प्त­प्र­ति­षे­धोऽ­यम् — ‘तं न पश्यन्ति’ इति, दर्श­न­स्या­प्र­कृ­त­त्वात् ; नैष दोषः ; सृष्ट्या­दि­वा­क्या­ना­मा­त्मै­क­त्व­प्र­ति­प­त्त्य­र्थ­प­र­त्वा­त्प्र­कृ­त­मेव तस्य दर्शनम् ; ‘रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय’(बृ. उ. २ । ५ । १९) इति मन्त्रवर्णात् । तत्र प्राण­ना­दि­क्रि­या­वि­शि­ष्टस्य दर्शने हेतुमाह — अकृत्स्नः असमस्तः, हि यस्मात् , सः प्राण­ना­दि­क्रि­या­वि­शिष्टः । कुतः पुन­र­कृ­त्स्न­त्व­मिति, उच्यते — प्राणन्नेव प्राणनक्रियामेव कुर्वन् , प्राणो नाम प्राणसमाख्यः प्राणाभिधानो भवति ; प्राण­न­क्रि­या­क­र्तृ­त्वाद्धि प्राणः प्राणि­ती­त्यु­च्यते, नान्यां क्रियां कुर्वन् — यथा लावकः पाचक इति ; तस्मा­त्क्रि­या­न्त­र­वि­शि­ष्ट­स्या­नु­प­सं­हा­रा­द­कृत्स्नो हि सः । तथा वदन् वदनक्रियां कुर्वन् , वक्तीति वाक् , पश्यन् चक्षुः, चष्ट इति चक्षुः द्रष्टा, शृण्वन् शृणोतीति श्रोत्रम् । ‘प्राणन्नेव प्राणो वदन्वाक्’ इत्याभ्यां क्रिया­श­क्त्यु­द्भवः प्रदर्शितो भवति । ‘पश्यंश्चक्षुः शृण्व­ञ्श्रो­त्रम्’ इत्याभ्यां विज्ञा­न­श­क्त्यु­द्भवः प्रदर्श्यते, नाम­रू­प­वि­ष­य­त्वा­द्वि­ज्ञा­न­शक्तेः । श्रोत्रचक्षुषी विज्ञानस्य साधने, विज्ञानं तु नामरूपसाधनम् ; न हि नाम­रू­प­व्य­ति­रिक्तं विज्ञेयमस्ति ; तयोश्चोपलम्भे करणं चक्षुश्रोत्रे । क्रिया च नामरूपसाध्या प्राणसमवायिनी ; तस्याः प्राणाश्रयाया अभिव्यक्तौ वाक् करणम् ; तथा पाणि­पा­द­पा­यू­प­स्था­ख्यानि ; सर्वे­षा­मु­प­ल­क्ष­णार्था वाक् । एतदेव हि सर्वं व्याकृतम् — ‘त्रयं वा इदं नाम रूपं कर्म’(बृ. उ. १ । ६ । १) इति हि वक्ष्यति । मन्वानो मनः — मनुते इति ; ज्ञान­श­क्ति­वि­का­सानां साधारणं करणं मनः — मनुतेऽनेनेति ; पुरुषस्तु कर्ता सन्मन्वानो मन इत्युच्यते । तान्येतानि प्राणादीनि, अस्यात्मनः कर्मनामानि, कर्मजानि नामानि कर्मनामान्येव, न तु वस्तु­मा­त्र­वि­ष­याणि ; अतो न कृत्स्ना­त्म­व­स्त्व­व­द्यो­त­कानि — एवं ह्यासावात्मा प्राण­ना­दि­क्रि­यया तत्त­त्क्रि­या­ज­नि­त­प्रा­णा­दि­ना­म­रू­पाभ्यां व्याक्रि­य­मा­णोऽ­व­द्यो­त्य­मा­नोऽपि । स योऽतः अस्मा­त्प्रा­ण­ना­दि­क्रि­या­स­मु­दा­यात् , एकैकं प्राणं चक्षुरिति वा विशि­ष्ट­म­नु­प­सं­हृ­ते­त­र­वि­शि­ष्ट­क्रि­या­त्म­कम् , मनसा अय­मा­त्मे­त्यु­पास्ते चिन्तयति, न स वेद न स जानाति ब्रह्म । कस्मात् ? अकृ­त्स्नोऽ­स­मस्तः हि यस्मात् एष आत्मा, अस्मा­त्प्रा­ण­ना­दि­स­मु­दा­यात् , अतः प्रविभक्तः, एकैकेन विशेषणेन विशिष्टः, इत­र­ध­र्मा­न्त­रा­नु­प­सं­हा­रात् — भवति । यावदयमेवं वेद — ‘पश्यामि’ ‘शृणोमि’ ‘स्पृशामि’ इति वा स्वभा­व­प्र­वृ­त्ति­वि­शिष्टं वेद, तावदञ्जसा कृत्स्नमात्मानं न वेद ॥

कथं पुनः पश्यन्वेदेत्याह — आत्मेत्येव आत्मेति — प्राणादीनि विशेषणानि यान्युक्तानि तानि यस्य सः — आप्नु­वं­स्ता­न्या­त्मे­त्यु­च्यते । स तथा कृत्स्न­वि­शे­षो­प­सं­हारी सन्कृत्स्नो भवति । वस्तुमात्ररूपेण हि प्राणा­द्यु­पा­धि­वि­शे­ष­क्रि­या­ज­नि­तानि विशेषणानि व्याप्नोति । तथा च वक्ष्यति — ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) इति । तस्मा­दा­त्मे­त्ये­वो­पा­सीत । एवं कृत्स्नो ह्यसौ स्वेन वस्तुरूपेण गृह्यमाणो भवति । कस्मात्कृत्स्न इत्याशङ्क्याह — अत्रा­स्मि­न्ना­त्मनि, हि यस्मात् , निरुपाधिके, जल­सू­र्य­प्र­ति­बि­म्ब­भेदा इवादित्ये, प्राणा­द्यु­पा­धि­कृता विशेषाः प्राणा­दि­क­र्म­ज­ना­मा­भि­धेया यथोक्ता ह्येते, एकमभिन्नताम् , भवन्ति प्रतिपद्यन्ते ॥

‘आत्मे­त्ये­वो­पा­सीत’(बृ. उ. १ । ४ । ७) इति नापूर्वविधिः, पक्षे प्राप्तत्वात् । ‘यत्सा­क्षा­द­प­रो­क्षा­द्ब्रह्म’(बृ. उ. ३ । ४ । १) , ‘कतम आत्मेति — योऽयं विज्ञानमयः’(बृ. उ. ४ । ३ । ७) इत्ये­व­मा­द्या­त्म­प्र­ति­पा­द­न­प­राभिः श्रुति­भि­रा­त्म­वि­षयं विज्ञा­न­मु­त्पा­दि­तम् ; तत्रा­त्म­स्व­रू­प­वि­ज्ञा­ने­नैव तद्वि­ष­या­ना­त्मा­भि­मा­न­बुद्धिः कार­का­दि­क्रि­या­फ­ला­ध्या­रो­प­णा­त्मिका अविद्या निवर्तिता ; तस्यां निवर्तितायां कामा­दि­दो­षा­नु­प­प­त्ते­र­ना­त्म­चि­न्ता­नु­प­पत्तिः ; पारि­शे­ष्या­दा­त्म­चि­न्तैव । तस्मा­त्त­दु­पा­स­न­म­स्मि­न्पक्षे न विधातव्यम् , प्राप्तत्वात् ॥

तिष्ठतु तावत् — पाक्षि­क्या­त्मो­पा­स­न­प्रा­प्ति­र्नित्या वेति । अपूर्वविधिः स्यात् , ज्ञानो­पा­स­न­यो­रे­कत्वे सत्य­प्रा­प्त­त्वात् ; ‘न स वेद’ इति विज्ञानं प्रस्तुत्य ‘आत्मे­त्ये­वो­पा­सीत’(बृ. उ. १ । ४ । ७)‘आत्मे­त्ये­वो­पा­सीत’(बृ. उ. १ । ४ । ७)‘आत्मे­त्ये­वो­पा­सीत’(बृ. उ. १ । ४ । ७) इत्य­भि­धा­ना­द्वे­दो­पा­स­न­श­ब्द­यो­रे­का­र्थ­ता­व­ग­म्यते । ‘अनेन ह्येतत्सर्वं वेद’ ‘आत्मा­न­मे­वा­वेत्’(बृ. उ. १ । ४ । १०) इत्या­दि­श्रु­ति­भ्यश्च विज्ञानमुपासनम् । तस्य चाप्रा­प्त­त्वा­द्वि­ध्य­र्ह­त्वम् । न च स्वरू­पा­न्वा­ख्याने पुरु­ष­प्र­वृ­त्ति­रु­प­प­द्यते । तस्मा­द­पू­र्व­वि­धि­रे­वा­यम् । कर्म­वि­धि­सा­मा­न्याच्च — यथा ‘यजेत’ ‘जुहुयात्’ इत्यादयः कर्मविधयः, न तैरस्य ‘आत्मे­त्ये­वो­पा­सीत’ ‘आत्मा वा अरे द्रष्टव्यः’(बृ. उ. २ । ४ । ५) , इत्या­द्या­त्मो­पा­स­न­वि­धे­र्वि­शे­षोऽ­व­ग­म्यते । मान­स­क्रि­या­त्वाच्च विज्ञानस्य — यथा ‘यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्याये­द्व­ष­ट्क­रि­ष्यन्’(ऐ. ब्रा. ३ । ८ । १) इत्याद्या मानसी क्रिया विधीयते, तथा ‘आत्मे­त्ये­वो­पा­सीत’ ‘मन्तव्यो निदि­ध्या­सि­तव्यः’(बृ. उ. २ । ४ । ५) , इत्याद्या क्रियैव विधीयते ज्ञानात्मिका । तथावोचाम वेदो­पा­स­न­श­ब्द­यो­रे­का­र्थ­त्व­मिति । भाव­नां­श­त्र­यो­प­प­त्तेश्च — यथा हि ‘यजेत’ इत्यस्यां भावनायाम् , किम् ? केन ? कथम् ? इति भाव्या­द्या­का­ङ्क्षा­प­न­य­का­र­ण­मं­श­त्र­य­म­व­ग­म्यते, तथा ‘उपासीत’ इत्यस्यामपि भावनायां विधीयमानायाम् , किमुपासीत ? केनोपासीत ? कथमुपासीत ? इत्य­स्या­मा­का­ङ्क्षा­याम् , ‘आत्मानमुपासीत मनसा त्याग­ब्र­ह्म­च­र्य­श­म­द­मो­प­र­म­ति­ति­क्षा­दी­ति­क­र्त­व्य­ता­सं­युक्तः’ इत्या­दि­शा­स्त्रे­णैव समर्थ्यते अंशत्रयम् । यथा च कृत्स्नस्य दर्श­पू­र्ण­मा­सा­दि­प्र­क­र­णस्य दर्श­पू­र्ण­मा­सा­दि­वि­ध्यु­द्दे­श­त्वे­नो­प­योगः ; एव­मौ­प­नि­ष­दा­त्मो­पा­स­न­प्र­क­र­ण­स्या­त्मो­पा­स­न­वि­ध्यु­द्दे­श­त्वे­नै­वो­प­योगः । ‘नेति नेति’(बृ. उ. २ । ३ । ६) ‘अस्थूलम्’(बृ. उ. ३ । ८ । ८) ‘एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) ‘अशनायाद्यतीतः’(बृ. उ. ३ । ५ । १) इत्ये­व­मा­दि­वा­क्या­ना­मु­पा­स्या­त्म­स्व­रू­प­वि­शे­ष­स­म­र्प­णे­नो­प­योगः । फलं च मोक्षोऽ­वि­द्या­नि­वृ­त्तिर्वा ॥

अपरे वर्णयन्ति — उपा­स­ने­ना­त्म­वि­षयं विशिष्टं विज्ञानान्तरं भावयेत् ; तेनात्मा ज्ञायते ; अविद्यानिवर्तकं च तदेव, नात्मविषयं वेदवाक्यजनितं विज्ञानमिति । एतस्मिन्नर्थे वचनान्यपि — ‘विज्ञाय प्रज्ञां कुर्वीत’(बृ. उ. ४ । ४ । २१) ‘द्रष्टव्यः श्रोतव्यो मन्तव्यो निदि­ध्या­सि­तव्यः’(बृ. उ. २ । ४ । ५) , ‘सोऽन्वेष्टव्यः स विजि­ज्ञा­सि­तव्यः’(छा. उ. ८ । ७ । १) इत्यादीनि ॥

न, अर्था­न्त­रा­भा­वात् । न च ‘आत्मे­त्ये­वो­पा­सीत’(बृ. उ. १ । ४ । ७)‘आत्मे­त्ये­वो­पा­सीत’(बृ. उ. १ । ४ । ७) इत्यपूर्वविधिः ; कस्मात् ? आत्म­स्व­रू­प­क­थ­ना­ना­त्म­प्र­ति­षे­ध­वा­क्य­ज­नि­त­वि­ज्ञा­न­व्य­ति­रे­के­णा­र्था­न्त­रस्य कर्तव्यस्य मानसस्य बाह्यस्य वाभावात् । तत्र हि विधेः साफल्यम् , यत्र विधि­वा­क्य­श्र­व­ण­मा­त्र­ज­नि­त­वि­ज्ञा­न­व्य­ति­रे­केण पुरु­ष­प्र­वृ­त्ति­र्ग­म्यते — यथा ‘दर्श­पू­र्ण­मा­साभ्यां स्वर्गकामो यजेत’ इत्येवमादौ । न हि दर्श­पू­र्ण­मा­स­वि­धि­वा­क्य­ज­नि­त­वि­ज्ञा­न­मेव दर्श­पू­र्ण­मा­सा­नु­ष्ठा­नम् । तच्चा­धि­का­रा­द्य­पे­क्षा­नु­भावि । न तु ‘नेति नेति’(बृ. उ. २ । ३ । ६)‘नेति नेति’(बृ. उ. २ । ३ । ६)‘नेति नेति’(बृ. उ. २ । ३ । ६)‘नेति नेति’(बृ. उ. २ । ३ । ६) इत्या­द्या­त्म­प्र­ति­पा­द­क­वा­क्य­ज­नि­त­वि­ज्ञा­न­व्य­ति­रे­केण दर्श­पू­र्ण­मा­सा­दि­व­त्पु­रु­ष­व्या­पारः सम्भवति ; सर्व­व्या­पा­रो­प­श­म­हे­तु­त्वा­त्त­द्वा­क्य­ज­नि­त­वि­ज्ञा­नस्य । न ह्युदा­सी­न­वि­ज्ञानं प्रवृत्तिजनकम् ; अब्र­ह्मा­ना­त्म­वि­ज्ञा­न­नि­व­र्त­क­त्वाच्च ‘एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १)‘एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १)‘एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७)‘तत्त्वमसि’(छा. उ. ६ । ८ । ७)‘तत्त्वमसि’(छा. उ. ६ । ८ । ७)‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) इत्ये­व­मा­दि­वा­क्या­नाम् । न च तन्निवृत्तौ प्रवृ­त्ति­रु­प­प­द्यते, विरोधात् । वाक्य­ज­नि­त­वि­ज्ञा­न­मा­त्रा­न्ना­ब्र­ह्मा­ना­त्म­वि­ज्ञा­न­नि­वृ­त्ति­रिति चेत् , न ; ‘तत्त्वमसि’ ‘नेति नेति’ ‘आत्मैवेदम्’(छा. उ. ७ । २५ । २) ‘एक­मे­वा­द्वि­ती­यम्’ ‘ब्रह्मै­वे­द­म­मृ­तम्’(मु. उ. २ । २ । ११) ‘नान्यदतोऽस्ति द्रष्टृ’(बृ. उ. ३ । ८ । ११) ‘तदेव ब्रह्म त्वं विद्धि’(के. उ. १ । ५) इत्या­दि­वा­क्यानां तद्वादित्वात् । द्रष्ट­व्य­वि­धे­र्वि­ष­य­स­म­र्प­का­ण्ये­ता­नीति चेत् , न ; अर्था­न्त­रा­भा­वा­दि­त्यु­क्तो­त्त­र­त्वात् — आत्म­व­स्तु­स्व­रू­प­स­म­र्प­कै­रेव वाक्यैः ‘तत्त्वमसि’ इत्यादिभिः श्रवणकाल एव तद्दर्शनस्य कृत­त्वा­द्द्र­ष्ट­व्य­वि­धे­र्ना­नु­ष्ठा­ना­न्तरं कर्त­व्य­मि­त्यु­क्तो­त्त­र­मे­तत् । आत्म­स्व­रू­पा­न्वा­ख्या­न­मा­त्रे­णा­त्म­वि­ज्ञाने विधिमन्तरेण न प्रवर्तत इति चेत् , न ; आत्म­वा­दि­वा­क्य­श्र­व­णे­ना­त्म­वि­ज्ञा­नस्य जनितत्वात् — किं भोः कृतस्य करणम् । तच्छ्रवणेऽपि न प्रवर्तत इति चेत् , न ; अन­व­स्था­प्र­स­ङ्गात् — यथा­त्म­वा­दि­वा­क्या­र्थ­श्र­वणे विधिमन्तरेण न प्रवर्तते, तथा विधि­वा­क्या­र्थ­श्र­व­णेऽपि विधिमन्तरेण न प्रवर्तिष्यत इति विध्य­न्त­रा­पेक्षा ; तथा तद­र्थ­श्र­व­णेऽ­पी­त्य­न­वस्था प्रसज्येत । वाक्य­ज­नि­ता­त्म­ज्ञा­न­स्मृ­ति­स­न्ततेः श्रव­ण­वि­ज्ञा­न­मा­त्रा­द­र्था­न्त­र­त्व­मिति चेत् , न ; अर्थ­प्रा­प्त­त्वात् — यदै­वा­त्म­प्र­ति­पा­द­क­वा­क्य­श्र­व­णा­दा­त्म­वि­षयं विज्ञा­न­मु­त्प­द्यते, तदैव तदुत्पद्यमानं तद्विषयं मिथ्याज्ञानं निव­र्त­य­दे­वो­त्प­द्यते ; आत्म­वि­ष­य­मि­थ्या­ज्ञा­न­नि­वृत्तौ च तत्प्रभवाः स्मृतयो न भवन्ति स्वाभा­वि­क्योऽ­ना­त्म­व­स्तु­भे­द­वि­षयाः ; अन­र्थ­त्वा­व­ग­तेश्च — आत्मावगतौ हि सत्याम् अन्यद्वस्तु अन­र्थ­त्वे­ना­व­ग­म्यते, अनि­त्य­दुः­खा­शु­द्ध्या­दि­ब­हु­दो­ष­व­त्त्वात् आत्मवस्तुनश्च तद्वि­ल­क्ष­ण­त्वात् ; तस्मा­द­ना­त्म­वि­ज्ञा­न­स्मृ­ती­ना­मा­त्मा­व­ग­ते­र­भा­व­प्राप्तिः ; पारि­शे­ष्या­दा­त्मै­क­त्व­वि­ज्ञा­न­स्मृ­ति­स­न्त­ते­र­र्थत एव भावान्न विधेयत्वम् । शोक­मो­ह­भ­या­या­सा­दि­दुः­ख­दो­ष­नि­व­र्त­क­त्वाच्च तत्स्मृतेः — विप­री­त­ज्ञा­न­प्र­भवो हि शोकमोहादिदोषः ; तथा च ‘तत्र को मोहः’(ई. उ. ७) ‘विद्वान्न बिभेति कुतश्चन’(तै. उ. २ । ९ । १) ‘अभयं वै जनक प्राप्तोऽसि’(बृ. उ. ४ । २ । ४) ‘भिद्यते हृदयग्रन्थिः’(मु. उ. २ । २ । ८) इत्यादिश्रुतयः । निरो­ध­स्त­र्ह्य­र्था­न्त­र­मिति चेत् — अथापि स्याच्चि­त्त­वृ­त्ति­नि­रो­धस्य वेद­वा­क्य­ज­नि­ता­त्म­वि­ज्ञा­ना­द­र्था­न्त­र­त्वात् , तन्त्रान्तरेषु च कर्तव्यतया अव­ग­त­त्वा­द्वि­धे­य­त्व­मिति चेत् — न, मोक्ष­सा­ध­न­त्वे­ना­न­व­ग­मात् । न हि वेदान्तेषु ब्रह्मा­त्म­वि­ज्ञा­ना­द­न्य­त्प­र­म­पु­रु­षा­र्थ­सा­ध­न­त्वे­ना­व­ग­म्यते — ‘आत्मा­न­मे­वा­वे­त्त­स्मा­त्त­त्स­र्व­म­भ­वत्’ ‘ब्रह्म­वि­दा­प्नोति परम्’(तै. उ. २ । १ । १) ‘स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’(मु. उ. ३ । २ । ९) ‘आचा­र्य­वा­न्पु­रुषो वेद’‘तस्य तावदेव चिरम्’(छा. उ. ६ । १४ । २) ‘अभयं हि वै ब्रह्म भवति । य एवं वेद’(बृ. उ. ४ । ४ । २५) इत्ये­व­मा­दि­श्रु­ति­श­तेभ्यः । अन­न्य­सा­ध­न­त्वाच्च निरोधस्य — न ह्यात्म­वि­ज्ञा­न­त­त्स्मृ­ति­स­न्ता­न­व्य­ति­रे­केण चित्त­वृ­त्ति­नि­रो­धस्य साधनमस्ति । अभ्यु­प­ग­म्ये­द­मु­क्तम् ; न तु ब्रह्म­वि­ज्ञा­न­व्य­ति­रे­केण अन्यत् मोक्ष­सा­ध­न­म­व­ग­म्यते । आका­ङ्क्षा­भा­वाच्च भावनाभावः । यदुक्तम् ‘यजेत’ इत्यादौ किम् ? केन ? कथम् ? इति भाव­ना­का­ङ्क्षायां फल­सा­ध­ने­ति­क­र्त­व्य­ताभिः आकाङ्क्षापनयनं यथा, तद्व­दि­हा­प्या­त्म­वि­ज्ञा­न­वि­धा­व­प्यु­प­प­द्यत इति — तदसत् ; ‘एक­मे­वा­द्वि­ती­यम्’ ‘तत्त्वमसि’ ‘नेति नेति’ ‘अन­न्त­र­म­बा­ह्यम्’(बृ. उ. २ । ५ । १९) ‘अयमात्मा ब्रह्म’(बृ. उ. २ । ५ । १९) इत्या­दि­वा­क्या­र्थ­वि­ज्ञा­न­स­म­का­ल­मेव सर्वा­का­ङ्क्षा­वि­नि­वृत्तेः । न च वाक्या­र्थ­वि­ज्ञाने विधिप्रयुक्तः प्रवर्तते । विध्य­न्त­र­प्र­युक्तौ चान­व­स्था­दो­ष­म­वो­चाम । न च ‘एकमेवाद्वितीयं ब्रह्म’ इत्यादिवाक्येषु विधिरवगम्यते, आत्म­स्व­रू­पा­न्वा­ख्या­ने­नै­वा­व­सि­त­त्वात् । वस्तु­स्व­रू­पा­न्वा­ख्या­न­मा­त्र­त्वा­द­प्रा­मा­ण्य­मिति चेत् — अथापि स्यात् , यथा ‘सोऽरो­दी­द्य­द­रो­दी­त्त­द्रु­द्रस्य रुद्रत्वम्’(तै. सं. १ । ५ । १ । १) इत्येवमादौ वस्तु­स्व­रू­पा­न्वा­ख्या­न­मा­त्र­त्वा­द­प्रा­मा­ण्यम् , एव­मा­त्मा­र्थ­वा­क्या­ना­म­पीति चेत् — न, विशेषात् । न वाक्यस्य वस्त्व­न्वा­ख्यानं क्रिया­न्वा­ख्यानं वा प्रामा­ण्या­प्रा­मा­ण्य­का­र­णम् ; किं तर्हि, निश्चि­त­फ­ल­व­द्वि­ज्ञा­नो­त्पा­द­क­त्वम् ; तद्यत्रास्ति तत्प्रमाणं वाक्यम् ; यत्र नास्ति तदप्रमाणम् । किं च, भोः! पृच्छामस्त्वाम् — आत्म­स्व­रू­पा­न्वा­ख्या­न­प­रेषु वाक्येषु फलवन्निश्चितं च विज्ञा­न­मु­त्प­द्यते, न वा ? उत्पद्यते चेत् , कथ­म­प्रा­मा­ण्य­मिति । किं वा न पश्य­स्य­वि­द्या­शो­क­मो­ह­भ­या­दि­सं­सा­र­बी­ज­दो­ष­नि­वृत्तिं विज्ञानफलम् ? न शृणोषि वा किम् — ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’(ई. उ. ७) , ‘मन्त्र­वि­दे­वास्मि नात्मवित्सोऽहं भगवः शोचामि तं मा भगवाञ्शोकस्य पारं तारयतु’(छा. उ. ७ । १ । ३) इत्ये­व­मा­द्यु­प­नि­ष­द्वा­क्य­श­तानि ? एवं विद्यते किम् ‘सोऽरोदीत्’ इत्यादिषु निश्चितं फलवच्च विज्ञानम् ? न चेद्विद्यते, अस्त्व­प्रा­मा­ण्यम् ; तदप्रामाण्ये, फल­व­न्नि­श्चि­त­वि­ज्ञा­नो­त्पा­द­कस्य किमि­त्य­प्रा­माण्यं स्यात् ? तदप्रामाण्ये च दर्श­पू­र्ण­मा­सा­दि­वा­क्येषु को विश्रम्भः ? ननु दर्श­पू­र्ण­मा­सा­दि­वा­क्यानां पुरु­ष­प्र­वृ­त्ति­वि­ज्ञा­नो­त्पा­द­क­त्वा­त्प्रा­मा­ण्यम् , आत्म­वि­ज्ञा­न­वा­क्येषु तन्नास्तीति ; सत्यमेवम् ; नैष दोषः, प्रामा­ण्य­का­र­णो­प­पत्तेः । प्रामाण्यकारणं च यथोक्तमेव, नान्यत् । अलङ्कारश्चायम् , यत् सर्व­प्र­वृ­त्ति­बी­ज­नि­रो­ध­फ­ल­व­द्वि­ज्ञा­नो­त्पा­द­क­त्वम् आत्म­प्र­ति­पा­द­क­वा­क्या­नाम् , न अप्रा­मा­ण्य­का­र­णम् । यत्तूक्तम् — ‘विज्ञाय प्रज्ञां कुर्वीत’(बृ. उ. ४ । ४ । २१)‘विज्ञाय प्रज्ञां कुर्वीत’(बृ. उ. ४ । ४ । २१) इत्यादिवचनानां वाक्या­र्थ­वि­ज्ञा­न­व्य­ति­रे­के­णो­पा­स­ना­र्थ­त्व­मिति, सत्यमेतत् ; किन्तु न अपू­र्व­वि­ध्य­र्थता ; पक्षे प्राप्तस्य नियमार्थतैव । कथं पुनरुपासनस्य पक्षप्राप्तिः, यावता पारि­शे­ष्या­दा­त्म­वि­ज्ञा­न­स्मृ­ति­स­न्त­ति­र्नि­त्यै­वे­त्य­भि­हि­तम् ? बाढम् — यद्यप्येवम् , शरीरारम्भकस्य कर्मणो नियतफलत्वात् , सम्य­ग्ज्ञा­न­प्रा­प्ता­वपि अवश्यंभाविनी प्रवृ­त्ति­र्वा­ङ्म­नः­का­या­नाम् , लब्धवृत्तेः कर्मणो बलीयस्त्वात् — मुक्ते­ष्वा­दि­प्र­वृ­त्ति­वत् ; तेन पक्षे प्राप्तं ज्ञान­प्र­वृ­त्ति­दौ­र्ब­ल्यम् । तस्मात् त्याग­वै­रा­ग्या­दि­सा­ध­न­ब­ला­व­ल­म्बेन आत्म­वि­ज्ञा­न­स्मृ­ति­स­न्त­ति­र्नि­य­न्तव्या भवति ; न त्वपूर्वा कर्तव्या ; प्राप्तत्वात् — इत्यवोचाम । तस्मा­त्प्रा­प्त­वि­ज्ञा­न­स्मृ­ति­स­न्ता­न­नि­य­म­वि­ध्य­र्थानि ‘विज्ञाय प्रज्ञां कुर्वीत’ इत्या­दि­वा­क्यानि, अन्या­र्था­स­म्भ­वात् । ननु अना­त्मो­पा­स­न­मि­दम् , इति - शब्दप्रयोगात् ; यथा ‘प्रिय­मि­त्ये­त­दु­पा­सीत’(बृ. उ. ४ । १ । ३) इत्यादौ न प्रियादिगुणा एवोपास्याः, किं तर्हि, प्रिया­दि­गु­ण­व­त्प्रा­णा­द्ये­वो­पा­स्यम् ; तथा इहापि इति - परा­त्म­श­ब्द­प्र­यो­गात् आत्म­गु­ण­व­द­ना­त्म­वस्तु उपास्यमिति गम्यते ; आत्मो­पा­स्य­त्व­वा­क्य­वै­ल­क्ष­ण्याच्च — परेण च वक्ष्यति — ‘आत्मानमेव लोकमुपासीत’(बृ. उ. १ । ४ । १५)‘आत्मानमेव लोकमुपासीत’(बृ. उ. १ । ४ । १५) इति ; तत्र च वाक्ये आत्मै­वो­पा­स्य­त्वे­ना­भि­प्रेतः, द्विती­या­श्र­व­णात् ‘आत्मानमेव’ इति ; इह तु न द्वितीया श्रूयते, इति - परश्च आत्मशब्दः — ‘आत्मे­त्ये­वो­पा­सीत’ इति ; अतो न आत्मोपास्यः, आत्मगुणश्चान्यः — इति त्ववगम्यते । न, वाक्यशेषे आत्मन उपा­स्य­त्वे­ना­व­ग­मात् ; अस्यैव वाक्यस्य शेषे आत्मै­वो­पा­स्य­त्वे­ना­व­ग­म्यते — ‘तदे­त­त्प­द­नी­य­मस्य सर्वस्य, यदयमात्मा’, ‘अन्तरतरं यदयमात्मा’(बृ. उ. १ । ४ । ८) , ‘आत्मा­न­मे­वा­वेत्’(बृ. उ. १ । ४ । १०) इति । प्रविष्टस्य दर्श­न­प्र­ति­षे­धा­द­नु­पा­स्य­त्व­मिति चेत् — यस्यात्मनः प्रवेश उक्तः, तस्यैव दर्शनं वार्यते — ‘तं न पश्यन्ति’ इति प्रकृतोपादानात् ; तस्मा­दा­त्म­नोऽ­नु­पा­स्य­त्व­मे­वेति चेत् — न, अकृ­त्स्न­त्व­दो­षात् । दर्श­न­प्र­ति­षे­धोऽ­कृ­त्स्न­त्व­दो­षा­भि­प्रा­येण, न आत्मो­पा­स्य­त्व­प्र­ति­षे­धाय ; प्राण­ना­दि­क्रि­या­वि­शि­ष्ट­त्वेन विशेषणात् ; आत्म­न­श्चे­दु­पा­स्य­त्व­म­न­भि­प्रे­तम् , प्राण­ना­द्ये­कै­क­क्रि­या­वि­शि­ष्ट­स्या­त्म­नोऽ­कृ­त्स्न­त्व­व­च­न­म­न­र्थकं स्यात् — ‘अकृत्स्नो ह्येषोऽत एकैकेन भवति’ इति । अतः अने­कै­क­वि­शि­ष्ट­स्त्वात्मा कृत्स्न­त्वा­दु­पास्य एवेति सिद्धम् । यस्त्वा­त्म­श­ब्दस्य इति - परः प्रयोगः, आत्म­श­ब्द­प्र­त्य­ययोः आत्मतत्त्वस्य पर­मा­र्थ­तोऽ­वि­ष­य­त्व­ज्ञा­प­ना­र्थम् ; अन्यथा ‘आत्मानमुपासीत’ इत्येवमवक्ष्यत् ; तथा च अर्थात् आत्मनि शब्द­प्र­त्य­या­व­नु­ज्ञातौ स्याताम् ; तच्चानिष्टम् — ‘नेति नेति’ ‘विज्ञातारमरे केन विजानीयात्’(बृ. उ. २ । ४ । १४) , ‘अविज्ञातं विज्ञातृ’(बृ. उ. ३ । ८ । ११) ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’(तै. उ. २ । ९ । १) इत्या­दि­श्रु­तिभ्यः । यत्तु ‘आत्मानमेव लोकमुपासीत’ इति, तत् अना­त्मो­पा­स­न­प्र­स­ङ्ग­नि­वृ­त्ति­प­र­त्वात् न वाक्यान्तरम् ॥

अनि­र्ज्ञा­त­त्व­सा­मा­न्यात् आत्मा ज्ञातव्यः, अनात्मा च । तत्र कस्मादात्मोपासन एव यत्न आस्थीयते — ‘आत्मे­त्ये­वो­पा­सीत’(बृ. उ. १ । ४ । ७) इति, नेतरविज्ञाने इति ; अत्रोच्यते — तदेतदेव प्रकृतम् , पदनीयं गमनीयम् , नान्यत् ; अस्य सर्वस्येति निर्धारणार्था षष्ठी ; अस्मि­न्स­र्व­स्मि­न्नि­त्यर्थः ; यदयमात्मा यदे­त­दा­त्म­त­त्त्वम् ; किं न विज्ञा­त­व्य­मे­वा­न्यत् ? न ; किं तर्हि, ज्ञातव्यत्वेऽपि न पृथ­ग्ज्ञा­ना­न्त­र­म­पे­क्षते आत्मज्ञानात् ; कस्मात् ? अनेनात्मना ज्ञातेन, हि यस्मात् , एत­त्स­र्व­म­ना­त्म­जा­तम् अन्यद्यत् तत्सर्वं समस्तम् , वेद जानाति । नन्व­न्य­ज्ञा­ने­ना­न्यन्न ज्ञायत इति ; अस्य परिहारं दुन्दु­भ्या­दि­ग्र­न्थेन वक्ष्यामः । कथं पुन­रे­त­त्प­द­नी­य­मिति, उच्यते — यथा ह वै लोके, पदेन — गवादिखुराङ्कितो देशः पदमित्युच्यते, तेन पदेन — नष्टं विवित्सितं पशुं पदेनान्वेषमाणः अनुविन्देत् लभेत ; एवमात्मनि लब्धे सर्वमनुलभते इत्यर्थः ॥

नन्वात्मनि ज्ञाते सर्व­म­न्य­ज्ज्ञा­यत इति ज्ञाने प्रकृते, कथं लाभोऽप्रकृत उच्यत इति ; न, ज्ञान­ला­भ­यो­रे­का­र्थ­त्वस्य विवक्षितत्वात् । आत्मनो ह्यला­भोऽ­ज्ञा­न­मेव ; तस्मा­ज्ज्ञा­न­मे­वा­त्मनो लाभः ; न अनात्मलाभवत् अप्रा­प्त­प्रा­प्ति­ल­क्षण आत्मलाभः, लब्धृ­ल­ब्ध­व्य­यो­र्भे­दा­भा­वात् । यत्र ह्यात्म­नोऽ­नात्मा लब्धव्यो भवति, तत्रात्मा लब्धा, लब्धव्योऽनात्मा । स चाप्राप्तः उत्पा­द्या­दि­क्रि­या­व्य­व­हितः, कार­क­वि­शे­षो­पा­दा­नेन क्रिया­वि­शे­ष­मु­त्पाद्य लब्धव्यः । स त्वप्रा­प्त­प्रा­प्ति­ल­क्ष­णोऽ­नित्यः, मिथ्या­ज्ञा­न­ज­नि­त­का­म­क्रि­या­प्र­भ­व­त्वात् — स्वप्ने पुत्रादिलाभवत् । अयं तु तद्विपरीत आत्मा । आत्मत्वादेव नोत्पा­द्या­दि­क्रि­या­व्य­व­हितः । नित्य­ल­ब्ध­स्व­रू­प­त्वेऽपि अविद्यामात्रं व्यवधानम् । यथा गृह्यमाणाया अपि शुक्तिकाया विपर्ययेण रजताभासाया अग्रहणं विप­री­त­ज्ञा­न­व्य­व­धा­न­मा­त्रम् , तथा ग्रहणं ज्ञानमात्रमेव, विप­री­त­ज्ञा­न­व्य­व­धा­ना­पो­हा­र्थ­त्वा­ज्ज्ञा­नस्य ; एव­मि­हा­प्या­त्म­नोऽ­लाभः अवि­द्या­मा­त्र­व्य­व­धा­नम् ; तस्माद्विद्यया तदपोहनमात्रमेव लाभः, नान्यः कदा­चि­द­प्यु­प­प­द्यते । तस्मादात्मलाभे ज्ञाना­द­र्था­न्त­र­सा­ध­नस्य आनर्थक्यं वक्ष्यामः । तस्मा­न्नि­रा­श­ङ्क­मेव ज्ञान­ला­भ­यो­रे­का­र्थत्वं विवक्षन्नाह — ज्ञानं प्रकृत्य — ‘अनुविन्देत्’ इति ; विन्द­ते­र्ला­भा­र्थ­त्वात् ॥

गुण­वि­ज्ञा­न­फ­ल­मि­द­मु­च्यते — यथा — अयमात्मा नाम­रू­पा­नु­प्र­वे­शेन ख्यातिं गतः आत्मे­त्या­दि­ना­म­रू­पा­भ्याम् , प्राणादिसंहतिं च श्लोकं प्राप्तवान् - इति — एवम् , यो वेद ; सः कीर्तिं ख्यातिम् , श्लोकं च सङ्घातमिष्टैः सह, विन्दते लभते । यद्वा यथोक्तं वस्तु यो वेद ; मुमु­क्षू­णा­म­पे­क्षितं कीर्ति­श­ब्दि­त­मै­क्य­ज्ञा­नम् , तत्फलं श्लोकशब्दितां मुक्तिमाप्नोति — इति मुख्यमेव फलम् ॥

तदेतत्प्रेयः पुत्रात्प्रेयो वित्ता­त्प्रे­योऽ­न्य­स्मा­त्स­र्व­स्मा­द­न्त­र­तरं यदयमात्मा । स योऽन्यमात्मानः प्रियं ब्रुवाणं ब्रूयात्प्रियं रोत्स्य­ती­ती­श्वरो ह तथैव स्यादात्मानमेव प्रियमुपासीत स य आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुकं भवति ॥ ८ ॥

कुत­श्चा­त्म­त­त्त्व­मेव ज्ञेयम् अना­दृ­त्या­न्य­दि­त्याह — तदे­त­दा­त्म­त­त्त्वम् , प्रेयः प्रियतरम् , पुत्रात् ; पुत्रो हि लोके प्रियः प्रसिद्धः, तस्मादपि प्रियतरम् — इति निर­ति­श­य­प्रि­यत्वं दर्शयति ; तथा वित्तात् हिरण्यरत्नादेः ; तथा अन्यस्मात् यद्यल्लोके प्रियत्वेन प्रसिद्धं तस्मा­त्स­र्व­स्मा­दि­त्यर्थः । तत्क­स्मा­दा­त्म­त­त्त्व­मेव प्रियतरं न प्राणादीति, उच्यते — अन्तरतरम् — बाह्या­त्पु­त्र­वि­त्तादेः प्राण­पि­ण्ड­स­मु­दायो हि अन्तरः अभ्यन्तरः सन्निकृष्ट आत्मनः ; तस्मा­द­प्य­न्त­रात् अन्तरतरम् , यदयमात्मा यदे­त­दा­त्म­त­त्त्वम् । यो हि लोके निरतिशयप्रियः स सर्वप्रयत्नेन लब्धव्यो भवति ; तथा अयमात्मा सर्व­लौ­कि­क­प्रि­येभ्यः प्रियतमः ; तस्मात्तल्लाभे महान्यत्न आस्थेय इत्यर्थः — कर्त­व्य­ता­प्रा­प्त­म­प्य­न्य­प्रि­य­लाभे यत्नमुज्झित्वा । कस्मात्पुनः आत्मा­ना­त्म­प्रि­ययोः अन्य­त­र­प्रि­य­हा­नेन इत­र­प्रि­यो­पा­दा­न­प्राप्तौ, आत्म­प्रि­यो­पा­दा­ने­नै­वे­त­र­हानं क्रियते, न विपर्ययः - इति, उच्यते — स यः कश्चित् , अन्य­म­ना­त्म­वि­शेषं पुत्रादिकम् , प्रियतरमात्मनः सकाशात् , ब्रुवाणम् , ब्रूया­दा­त्म­प्रि­य­वादी — किम् ? प्रियं तवाभिमतं पुत्रादिलक्षणम् , रोत्स्यति आवरणं प्राणसंरोधं प्राप्स्यति विनङ्क्ष्यतीति ; स कस्मादेवं ब्रवीति ? यस्मादीश्वरः समर्थः पर्या­प्तोऽ­सा­वेवं वक्तुं ह ; यस्मात् तस्मात् तथैव स्यात् ; यत्तेनोक्तम् — ‘प्राणसंरोधं प्राप्स्यति’ ; यथाभूतवादी हि सः, तस्मात्स ईश्वरो वक्तुम् । ईश्वरशब्दः क्षिप्रवाचीति केचित् ; भवेद्यदि प्रसिद्धिः स्यात् । तस्मा­दु­ज्झि­त्वा­न्य­त्प्रि­यम् , आत्मानमेव प्रियमुपासीत । स य आत्मानमेव प्रियमुपास्ते - आत्मैव प्रियो नान्योऽस्तीति प्रतिपद्यते, अन्यल्लौकिकं प्रिय­म­प्य­प्रि­य­मे­वेति निश्चित्य, उपास्ते चिन्तयति, न हास्य एवंविदः प्रियं प्रमायुकं प्रमरणशीलं भवति । नित्या­नु­वा­द­मा­त्र­मे­तत् , आत्मविदोऽन्यस्य प्रिय­स्या­प्रि­यस्य च अभावात् ; आत्म­प्रि­य­ग्र­ह­ण­स्तु­त्यर्थं वा ; प्रिय­गु­ण­फ­ल­वि­धा­नार्थं वा मन्दा­त्म­द­र्शिनः, ताच्छी­ल्य­प्र­त्य­यो­पा­दा­नात् ॥

तदा­हु­र्य­द्ब्र­ह्म­वि­द्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते । किमु तद्ब्र­ह्मा­वे­द्य­स्मा­त्त­त्स­र्व­म­भ­व­दिति ॥ ९ ॥

सूत्रिता ब्रह्मविद्या — ‘आत्मे­त्ये­वो­पा­सीत’(बृ. उ. १ । ४ । ७) इति, यद­र्थो­प­नि­ष­त्कृ­त्स्नापि ; तस्यैतस्य सूत्रस्य व्याचिख्यासुः प्रयो­ज­ना­भि­धि­त्स­यो­पो­ज्जि­घां­सति — तदिति वक्ष्य­मा­ण­म­न­न्त­र­वा­क्येऽ­व­द्योत्यं वस्तु - आहुः — ब्राह्मणाः ब्रह्म विविदिषवः जन्म­ज­रा­म­र­ण­प्र­ब­न्ध­च­क्र­भ्र­म­ण­कृ­ता­या­स­दुः­खो­द­का­पा­र­म­हो­द­धि­प्ल­व­भूतं गुरुमासाद्य तत्ती­र­मु­त्ति­ती­र्षवः धर्मा­ध­र्म­सा­ध­न­त­त्फ­ल­ल­क्ष­णा­त्सा­ध्य­सा­ध­न­रू­पा­न्नि­र्विण्णाः तद्वि­ल­क्ष­ण­नि­त्य­नि­र­ति­श­य­श्रे­यः­प्र­ति­पि­त्सवः ; किमाहुरित्याह — यद्ब्र­ह्म­वि­द्यया ; ब्रह्म परमात्मा, तत् यया वेद्यते सा ब्रह्मविद्या तया ब्रह्मविद्यया, सर्वं निरवशेषम् , भविष्यन्तः भविष्याम इत्येवम् , मनुष्या यत् मन्यन्ते ; मनुष्यग्रहणं विशे­ष­तोऽ­धि­का­र­ज्ञा­प­ना­र्थम् ; मनुष्या एव हि विशे­ष­तोऽ­भ्यु­द­य­निः­श्रे­य­स­सा­ध­नेऽ­धि­कृता इत्यभिप्रायः ; यथा कर्मविषये फलप्राप्तिं ध्रुवां कर्मभ्यो मन्यन्ते, तथा ब्रह्मविद्यायाः सर्वा­त्म­भा­व­फ­ल­प्राप्तिं ध्रुवामेव मन्यन्ते, वेद­प्रा­मा­ण्य­स्यो­भ­य­त्रा­वि­शे­षात् ; तत्र विप्रतिषिद्धं वस्तु लक्ष्यते ; अतः पृच्छामः — किमु तद्ब्रह्म, यस्य विज्ञानात्सर्वं भविष्यन्तो मनुष्या मन्यन्ते ? तत्किमवेत् , यस्मा­द्वि­ज्ञा­ना­त्त­द्ब्रह्म सर्वमभवत् ? ब्रह्म च सर्वमिति श्रूयते, तत् यदि अविज्ञाय किञ्चि­त्स­र्व­म­भ­वत् , तथा­न्ये­षा­म­प्यस्तु ; किं ब्रह्मविद्यया ? अथ विज्ञाय सर्वमभवत् , विज्ञा­न­सा­ध्य­त्वा­त्क­र्म­फ­लेन तुल्य­मे­वे­त्य­नि­त्य­त्व­प्र­सङ्गः सर्वभावस्य ब्रह्म­वि­द्या­फ­लस्य ; अनवस्थादोषश्च - तद­प्य­न्य­द्वि­ज्ञाय सर्वमभवत् , ततः पूर्व­म­प्य­न्य­द्वि­ज्ञा­येति । न तावदविज्ञाय सर्वमभवत् , शास्त्रा­र्थ­वै­रू­प्य­दो­षात् । फला­नि­त्य­त्व­दो­ष­स्तर्हि ? नैकोऽपि दोषः, अर्थ­वि­शे­षो­प­पत्तेः ॥

यदि किमपि विज्ञायैव तद्ब्रह्म सर्वमभवत् , पृच्छामः - किमु तद्ब्र­ह्मा­वे­द्य­स्मा­त्त­त्स­र्व­म­भ­व­दिति । एवं चोदिते सर्व­दो­षा­ना­ग­न्धितं प्रतिवचनमाह —

ब्रह्म वा इदमग्र आसी­त्त­दा­त्मा­न­मे­वा­वेत् । अहं ब्रह्मास्मीति । तस्मा­त्त­त्स­र्व­म­भ­व­त्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तद्धै­त­त्प­श्य­नृ­षि­र्वा­म­देवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति अथ योऽन्यां देव­ता­मु­पा­स्तेऽ­न्योऽ­सा­व­न्योऽ­ह­म­स्मीति न स वेद यथा पशुरेवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्यु­रे­व­मे­कैकः पुरुषो देवा­न्भु­न­क्त्ये­क­स्मि­न्नेव पशा­वा­दी­य­मा­नेऽ­प्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥

१०

ब्रह्म अपरम् , सर्वभावस्य साध्य­त्वो­प­पत्तेः ; न हि परस्य ब्रह्मणः सर्व­भा­वा­प­त्ति­र्वि­ज्ञा­न­साध्या ; विज्ञानसाध्यां च सर्व­भा­वा­प­त्ति­माह — ‘तस्मा­त्त­त्स­र्व­म­भ­वत्’ इति ; तस्माद्ब्रह्म वा इदमग्र आसीदित्यपरं ब्रह्मेह भवितुमर्हति ॥

मनु­ष्या­धि­का­राद्वा तद्भावी ब्राह्मणः स्यात् ; ‘सर्वं भविष्यन्तो मनुष्या मन्यन्ते’ इति हि मनुष्याः प्रकृताः ; तेषां च अभ्यु­द­य­निः­श्रे­य­स­सा­धने विशेषतोऽधिकार इत्युक्तम् , न परस्य ब्रह्मणो नाप्यपरस्य प्रजापतेः ; अतो द्वैतै­क­त्वा­प­र­ब्र­ह्म­वि­द्यया कर्मसहितया अप­र­ब्र­ह्म­भा­व­मु­प­स­म्पन्नो भोज्यादपावृत्तः सर्व­प्रा­प्त्यो­च्छि­न्न­का­म­क­र्म­ब­न्धनः परब्रह्मभावी ब्रह्म­वि­द्या­हे­तो­र्ब्र­ह्मे­त्य­भि­धी­यते ; दृष्टश्च लोके भाविनीं वृत्तिमाश्रित्य शब्दप्रयोगः — यथा ‘ओदनं पचति’ इति, शास्त्रे च — ‘परिव्राजकः सर्व­भू­ता­भ­य­द­क्षि­णाम्’(?) इत्यादि, तथा इह - इति केचित् — ब्रह्म ब्रह्मभावी पुरुषो ब्राह्मणः इति व्याचक्षते ॥

तन्न, सर्व­भा­वा­प­त्ते­र­नि­त्य­त्व­दो­षात् । न हि सोऽस्ति लोके परमार्थतः, यो निमि­त्त­व­शा­द्भा­वा­न्त­र­मा­प­द्यते नित्यश्चेति । तथा ब्रह्म­वि­ज्ञा­न­नि­मि­त्त­कृता चेत्स­र्व­भा­वा­पत्तिः, नित्या चेति विरुद्धम् । अनित्यत्वे च कर्म­फ­ल­तु­ल्य­ते­त्युक्तो दोषः । अवि­द्या­कृ­ता­स­र्व­त्व­नि­वृत्तिं चेत्स­र्व­भा­वा­पत्तिं ब्रह्मविद्याफलं मन्यसे, ब्रह्म­भा­वि­पु­रु­ष­क­ल्पना व्यर्था स्यात् । प्राग्ब्र­ह्म­वि­ज्ञा­ना­दपि सर्वो जन्तु­र्ब्र­ह्म­त्वा­न्नि­त्य­मेव सर्वभावापन्नः परमार्थतः ; अविद्यया तु अब्र­ह्म­त्व­म­स­र्वत्वं चाध्यारोपितम् - यथा शुक्तिकायां रजतम् , व्योम्नि वा तलमलवत्त्वादि ; तथेह ब्रह्म­ण्य­ध्या­रो­पि­त­म­वि­द्यया अब्र­ह्म­त्व­म­स­र्वत्वं च ब्रह्मविद्यया निवर्त्यते - इति मन्यसे यदि, तदा युक्तम् — यत्परमार्थत आसीत्परं ब्रह्म, ब्रह्मशब्दस्य मुख्यार्थभूतम् ‘ब्रह्म वा इदमग्र आसीत्’ इत्य­स्मि­न्वाक्ये उच्यत इति वक्तुम् ; यथा­भू­ता­र्थ­वा­दि­त्वा­द्वे­दस्य । न त्वियं कल्पना युक्ता — ब्रह्म­श­ब्दा­र्थ­वि­प­रीतो ब्रह्मभावी पुरुषो ब्रह्मेत्युच्यत इति, श्रुत­हा­न्य­श्रु­त­क­ल्प­नाया अन्याय्यत्वात् — महत्तरे प्रयो­ज­ना­न्त­रेऽ­सति अवि­द्या­कृ­त­व्य­ति­रे­के­णा­ब्र­ह्म­त्व­म­स­र्वत्वं च विद्यत एवेति चेत् , न, तस्य ब्रह्म­वि­द्य­या­पो­हा­नु­प­पत्तेः । न हि क्वचि­त्सा­क्षा­द्व­स्तु­ध­र्म­स्या­पोढ्री दृष्टा कर्त्री वा ब्रह्मविद्या, अविद्यायास्तु सर्वत्रैव निवर्तिका दृश्यते ; तथा इहा­प्य­ब्र­ह्म­त्व­म­स­र्वत्वं चाविद्याकृतमेव निवर्त्यतां ब्रह्मविद्यया ; न तु पारमार्थिकं वस्तु कर्तुं निवर्तयितुं वा अर्हति ब्रह्मविद्या । तस्माद्व्यर्थैव श्रुत­हा­न्य­श्रु­त­क­ल्पना ॥

ब्रह्म­ण्य­वि­द्या­नु­प­प­त्ति­रिति चेत् , न, ब्रह्मणि विद्याविधानात् । न हि शुक्तिकायां रज­ता­ध्या­रो­प­णेऽ­सति शुक्तिकात्वं ज्ञाप्यते - चक्षु­र्गो­च­रा­प­न्ना­याम् — ‘इयं शुक्तिका न रजतम्’ इति । तथा ‘सदेवेदं सर्वम्’(छा. उ. ६ । ८ । ७) ‘ब्रह्मैवेदं सर्वम्’ ‘आत्मैवेदं सर्वम्’(छा. उ. ७ । २५ । २) ‘नेदं द्वैत­म­स्त्य­ब्रह्म’(?) इति ब्रह्म­ण्ये­क­त्व­वि­ज्ञानं न विधातव्यम् , ब्रह्म­ण्य­वि­द्या­ध्या­रो­प­णा­या­म­स­त्याम् । न ब्रूमः — शुक्तिकायामिव ब्रह्म­ण्य­त­द्ध­र्मा­ध्या­रो­पणा नास्तीति ; किं तर्हि न ब्रह्म स्वात्म­न्य­त­द्ध­र्मा­ध्या­रो­प­नि­मि­त्तम् अविद्याकर्तृ चेति - भवत्येवं नाविद्याकर्तृ भ्रान्तं च ब्रह्म । किन्तु नैव अब्रह्म अविद्यकर्ता चेतनो भ्रान्तोऽन्य इष्यते — ‘नान्योऽतोऽस्ति विज्ञाता’(बृ. उ. ३ । ७ । २३) ‘नान्यदतोऽस्ति विज्ञातृ’(बृ. उ. ३ । ८ । ११) ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) ‘आत्मानमेवावेत् अहं ब्रह्मास्मि’(बृ. उ. १ । ४ । १०) ‘अन्योऽ­सा­व­न्योऽ­ह­म­स्मीति, न स वेद’(बृ. उ. १ । ४ । १०) इत्या­दि­श्रु­तिभ्यः ; स्मृतिभ्यश्च — ‘समं सर्वेषु भूतेषु’(भ. गी. १३ । २७) ‘अहमात्मा गुडाकेश’(भ. गी. १० । २०) ‘शुनि चैव श्वपाके च’(भ. गी. ५ । १८) ; ‘यस्तु सर्वाणि भूतानि’(ई. उ. ६) ‘यस्मिन्सर्वाणि भूतानि’(ई. उ. ७) इति च मन्त्रवर्णात् । नन्वेवं शास्त्रो­प­दे­शा­न­र्थ­क्य­मिति ; बाढमेवम् , अवगते अस्त्वे­वा­न­र्थ­क्यम् । अव­ग­मा­न­र्थ­क्य­म­पीति चेत् , न, अन­व­ग­म­नि­वृ­त्ते­र्दृ­ष्ट­त्वात् । तन्नि­वृ­त्ते­र­प्य­नु­प­प­त्ति­रे­कत्व इति चेत् , न, दृष्टविरोधात् ; दृश्यते ह्येक­त्व­वि­ज्ञा­ना­दे­वा­न­व­ग­म­नि­वृत्तिः ; दृश्य­मा­न­म­प्य­नु­प­प­न्न­मिति ब्रुवतो दृष्टविरोधः स्यात् ; न च दृष्टविरोधः केन­चि­द­प्य­भ्यु­प­ग­म्यते ; न च दृष्टेऽनुपपन्नं नाम, दृष्टत्वादेव । दर्श­ना­नु­प­प­त्ति­रिति चेत् , तत्राप्येषैव युक्तिः ॥

‘पुण्यो वै पुण्येन कर्मणा भवति’(बृ. उ. ३ । २ । १३) ‘तं विद्याकर्मणी समन्वारभेते’(बृ. उ. ४ । ४ । २) ‘मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः’(प्र. उ. ४ । ९) इत्ये­व­मा­दि­श्रु­ति­स्मृ­ति­न्या­येभ्यः पर­स्मा­द्वि­ल­क्ष­णोऽन्यः संसार्यवगम्यते ; तद्विलक्षणश्च परः ‘स एष नेति नेति’(बृ. उ. २ । ३ । ६) ‘अश­ना­या­द्य­त्येति’(बृ. उ. ३ । ५ । १) ‘य आत्मापहतपाप्मा विजरो विमृत्युः’(छा. उ. ८ । ७ । १) ‘एतस्य वा अक्षरस्य प्रशासने’(बृ. उ. ३ । ८ । ९) इत्या­दि­श्रु­तिभ्यः ; कणा­दा­क्ष­पा­दा­दि­त­र्क­शा­स्त्रेषु च संसारिविलक्षण ईश्वर उपपत्तितः साध्यते ; संसा­र­दुः­खा­प­न­या­र्थि­त्व­प्र­वृ­त्ति­द­र्श­नात् स्फुटमन्यत्वम् ईश्वरात् संसा­रि­णोऽ­व­ग­म्यते ; ‘अवाक्यनादरः’(छा. उ. ३ । ४ । २) ‘न मे पार्थास्ति’(भ. गी. ३ । ३२) इति श्रुति­स्मृ­तिभ्यः ; ‘सोऽन्वेष्टव्यः स विजि­ज्ञा­सि­तव्यः’(छा. उ. ८ । ७ । १) ‘तं विदित्वा न लिप्यते’(बृ. उ. ४ । ४ । २३) ‘ब्रह्म­वि­दा­प्नोति परम्’(तै. उ. २ । १ । १)‘ब्रह्म­वि­दा­प्नोति परम्’(तै. उ. २ । १ । १) ‘एक­धै­वा­नु­द्र­ष्ट­व्य­मे­तत्’(बृ. उ. ४ । ४ । २०) ‘यो वा एतदक्षरं गार्ग्य­वि­दित्वा’(बृ. उ. ३ । ८ । १०) ‘तमेव धीरो विज्ञाय’(बृ. उ. ४ । ४ । २१) ‘प्रणवो धनुः, शरो ह्यात्मा, ब्रह्म तल्ल­क्ष्य­मु­च्यते’(मु. उ. २ । २ । ४) इत्या­दि­क­र्म­क­र्तृ­नि­र्दे­शाच्च ; मुमुक्षोश्च गति­मा­र्ग­वि­शे­ष­दे­शो­प­दे­शात् ; असति भेदे कस्य कुतो गतिः स्यात् ? तदभावे च दक्षि­णो­त्त­र­मा­र्ग­वि­शे­षा­नु­प­पत्तिः गन्त­व्य­दे­शा­नु­प­प­त्ति­श्चेति ; भिन्नस्य तु परस्मात् आत्मनः सर्व­मे­त­दु­प­प­न्नम् ; कर्म­ज्ञा­न­सा­ध­नो­प­दे­शाच्च — भिन्न­श्चे­द्ब्र­ह्मणः संसारी स्यात् , युक्तस्तं प्रत्य­भ्यु­द­य­निः­श्रे­य­स­सा­ध­नयोः कर्म­ज्ञा­न­यो­रु­प­देशः, नेश्वरस्य आप्तकामत्वात् ; तस्माद्युक्तं ब्रह्मेति ब्रह्मभावी पुरुष उच्यत इति चेत् — न, ब्रह्मो­प­दे­शा­न­र्थ­क्य­प्र­स­ङ्गात् — संसारी चेद्ब्रह्मभावी अब्रह्म सन् , विदि­त्वा­त्मा­न­मेव अहं ब्रह्मास्मीति, सर्वमभवत् ; तस्य संसा­र्या­त्म­वि­ज्ञा­ना­देव सर्वात्मभावस्य फलस्य सिद्ध­त्वा­त्प­र­ब्र­ह्मो­प­दे­शस्य ध्रुवमानर्थक्यं प्राप्तम् । तद्विज्ञानस्य क्वचि­त्पु­रु­षा­र्थ­सा­ध­नेऽ­वि­नि­यो­गा­त्सं­सा­रिण एव — अहं ब्रह्मास्मीति — ब्रह्म­त्व­स­म्पा­द­नार्थ उपदेश इति चेत् — अनिर्ज्ञाते हि ब्रह्मस्वरूपे किं सम्पादयेत् — अहं ब्रह्मास्मीति ? निर्ज्ञातलक्षणे हि ब्रह्मणि शक्या सम्पत्कर्तुम् — न ‘अयमात्मा ब्रह्म’(बृ. उ. २ । ५ । १९) ‘यत्सा­क्षा­द­प­रो­क्षा­द्ब्रह्म’‘य आत्मा’(बृ. उ. ३ । ४ । १) ‘तत्सत्यं स आत्मा’(छा. उ. ६ । ८ । ७) ‘ब्रह्म­वि­दा­प्नोति परम्’ इति प्रकृत्य ‘तस्माद्वा एतस्मादात्मनः’(तै. उ. २ । १ । १) इति सहस्रशो ब्रह्मा­त्म­श­ब्दयोः सामा­ना­धि­क­र­ण्यात् एका­र्थ­त्व­मे­वे­त्य­व­ग­म्यते ; अन्यस्य वै अन्यत्र सम्पत् क्रियते, नैकत्वे ; ‘इदं सर्वं यदयमात्मा’(बृ. उ. २ । ४ । ६) इति च प्रकृतस्यैव द्रष्ट­व्य­स्या­त्मन एकत्वं दर्शयति ; तस्मान्नात्मनो ब्रह्म­त्व­स­म्प­दु­प­पत्तिः । न चाप्य­न्य­त्प्र­यो­जनं ब्रह्मोपदेशस्य गम्यते ; ‘ब्रह्म वेद ब्रह्मैव भवति’(मु. उ. ३ । २ । ९) ‘अभयं हि जनक प्राप्तोऽसि’(बृ. उ. ४ । २ । ४) ‘अभयं हि वै ब्रह्म भवति’(बृ. उ. ४ । ४ । २५) इति च तदा­प­त्ति­श्र­व­णात् । सम्पत्तिश्चेत् , तदापत्तिर्न स्यात् । न ह्यन्य­स्या­न्य­भाव उपपद्यते । वचनात् , सम्पत्तेरपि तद्भावापत्तिः स्यादिति चेत् , न, सम्पत्तेः प्रत्य­य­मा­त्र­त्वात् । विज्ञानस्य च मिथ्या­ज्ञा­न­नि­व­र्त­क­त्व­व्य­ति­रे­के­णा­का­र­क­त्व­मि­त्य­वो­चाम । न च वचनं वस्तुनः सामर्थ्यजनकम् । ज्ञापकं हि शास्त्रं न कारकमिति स्थितिः । ‘स एष इह प्रविष्टः’(बृ. उ. १ । ४ । ७) इत्यादिवाक्येषु च परस्यैव प्रवेश इति स्थितम् । तस्मा­द्ब्र­ह्मेति न ब्रह्म­भा­वि­पु­रु­ष­क­ल्पना साध्वी । इष्टा­र्थ­बा­ध­नाच्च — सैन्ध­व­घ­न­व­द­न­न्त­र­म­बा­ह्य­मे­क­रसं ब्रह्म - इति विज्ञानं सर्व­स्या­मु­प­नि­षदि प्रति­पि­पा­द­यि­षि­तार्थः — काण्ड­द्व­येऽ­प्य­न्तेऽ­व­धा­र­णात् — अवगम्यते — ‘इत्यनुशासनम्’(बृ. उ. २ । ५ । १९) ‘एतावदरे खल्वमृतत्वम्’(बृ. उ. ४ । ५ । १५) इति ; तथा सर्व­शा­खो­प­नि­षत्सु च ब्रह्मै­क­त्व­वि­ज्ञानं निश्चितोऽर्थः ; तत्र यदि संसारी ब्रह्मणोऽन्य आत्मानमेवावेत् — इति कल्प्येत, इष्टस्यार्थस्य बाधनं स्यात् , तथा च शास्त्र­मु­प­क्र­मो­प­सं­हा­र­यो­र्वि­रो­धा­द­स­म­ञ्जसं कल्पितं स्यात् । व्यप­दे­शा­नु­प­प­त्तेश्च — यदि च ‘आत्मा­न­मे­वा­वेत्’ इति संसारी कल्प्येत, ‘ब्रह्मविद्या’ इति व्यपदेशो न स्यात् आत्मा­न­मे­वा­वे­दिति, संसारिण एव वेद्य­त्वो­प­पत्तेः । ‘आत्मा’ इति वेत्तु­र­न्य­दु­च्यत इति चेत् , न, ‘अहं ब्रह्मास्मि’ इति विशेषणात् ; अन्य­श्चे­द्वेद्यः स्यात् , ‘अयमसौ’ इति वा विशेष्येत, न तु ‘अहमस्मि’ इति । ‘अहमस्मि’ इति विशेषणात् ‘आत्मा­न­मे­वा­वेत्’ इति च अवधारणात् निश्चितम् आत्मैव ब्रह्मेति अवगम्यते ; तथा च सति उपपन्नो ब्रह्म­वि­द्या­व्य­प­देशः, नान्यथा ; संसारिविद्या ह्यन्यथा स्यात् ; न च ब्रह्म­त्वा­ब्र­ह्मत्वे ह्येकस्योपपन्ने परमार्थतः तमःप्रकाशाविव भानोः विरुद्धत्वात् ; न चोभयनिमित्तत्वे ब्रह्मविद्येति निश्चितो व्यपदेशो युक्तः, तदा ब्रह्मविद्या संसारिविद्या च स्यात् ; न च वस्तु­नोऽ­र्ध­ज­र­ती­यत्वं कल्पयितुं युक्तं तत्त्व­ज्ञा­न­वि­व­क्षा­याम् , श्रोतुः संशयो हि तथा स्यात् ; निश्चितं च ज्ञानं पुरु­षा­र्थ­सा­ध­न­मि­ष्यते — ‘यस्य स्यादद्धा न विचिकित्सास्ति’(छा. उ. ३ । १४ । ४) ‘संशयात्मा विनश्यति’(भ. गी. ४ । ४०) इति श्रुति­स्मृ­ति­भ्याम् । अतो न संशयितो वाक्यार्थो वाच्यः परहितार्थिना ॥

ब्रह्मणि साध­क­त्व­क­ल्प­ना­स्म­दा­दि­ष्विव, अपेशला — ‘तदा­त्मा­न­मे­वा­वे­त्त­स्मा­त्त­त्स­र्व­म­भ­वत्’ इति — इति चेत् , न, शास्त्रो­पा­ल­म्भात् ; न ह्यस्म­त्क­ल्प­ने­यम् ; शास्त्रकृता तु ; तस्मा­च्छा­स्त्र­स्या­य­मु­पा­लम्भः ; न च ब्रह्मण इष्टं चिकीर्षुणा शास्त्रा­र्थ­वि­प­री­त­क­ल्प­नया स्वार्थ­प­रि­त्यागः कार्यः । न चैता­व­त्ये­वा­क्षमा युक्ता भवतः ; सर्वं हि नानात्वं ब्रह्मणि कल्पितमेव ‘एक­धै­वा­नु­द्र­ष्ट­व्यम्’(बृ. उ. ४ । ४ । २०) ‘नेह नानास्ति किञ्चन’(बृ. उ. ४ । ४ । १९) ‘यत्र हि द्वैतमिव भवति’(बृ. उ. ४ । ५ । १५) ‘एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) इत्या­दि­वा­क्य­श­तेभ्यः, सर्वो हि लोकव्यवहारो ब्रह्मण्येव कल्पितो न परमार्थः सन् — इत्य­त्य­ल्प­मि­द­मु­च्यते — इयमेव कल्पनापेशलेति ॥

तस्मात् — यत्प्रविष्टं स्रष्टृ ब्रह्म, तद्ब्रह्म, वै - शब्दोऽ­व­धा­र­णार्थः, इदं शरीरस्थं यद्गृह्यते, अग्रे प्राक्प्र­ति­बो­धा­दपि, ब्रह्मैवासीत् , सर्वं च इदम् ; किन्त्व­प्र­ति­बो­धात् ‘अब्रह्मास्मि असर्वं च’ इत्या­त्म­न्य­ध्या­रो­पात् ‘कर्ताहं क्रिया­वा­न्फ­लानां च भोक्ता सुखी दुःखी संसारी’ इति च अध्यारोपयति ; परमार्थस्तु ब्रह्मैव तद्विलक्षणं सर्वं च । तत् कथञ्चिदाचार्येण दयालुना प्रतिबोधितम् ‘नासि संसारी’ इति आत्मा­न­मे­वा­वे­त्स्वा­भा­वि­कम् ; अवि­द्या­ध्या­रो­पि­त­वि­शे­ष­व­र्जि­त­मिति एव - शब्दस्यार्थः ॥

ब्रूहि कोऽसावात्मा स्वाभाविकः, यमात्मानं विदितवद्ब्रह्म । ननु न स्मरस्यात्मानम् ; दर्शितो ह्यसौ, य इह प्रविश्य प्राणित्यपानिति व्यानि­त्यु­दा­निति समानितीति । ननु असौ गौः असावश्व इत्येवमसौ व्यपदिश्यते भवता, न आत्मानं प्रत्यक्षं दर्शयसि ; एवं तर्हि द्रष्टा श्रोता मन्ता विज्ञाता स आत्मेति । ननु अत्रापि दर्श­ना­दि­क्रि­या­कर्तुः स्वरूपं न प्रत्यक्षं दर्शयसि ; न हि गमिरेव गन्तुः स्वरूपं छिदिर्वा छेत्तुः ; एवं तर्हि दृष्टेर्द्रष्टा श्रुतेः श्रोता मतेर्मन्ता विज्ञा­ते­र्वि­ज्ञाता स आत्मेति । ननु अत्र को विशेषो द्रष्टरि ; यदि दृष्टे­र्द्रष्टा, यदि वा घटस्य द्रष्टा, सर्वथापि द्रष्टैव ; द्रष्टव्य एव तु भवान्विशेषमाह दृष्टे­र्द्र­ष्टेति ; द्रष्टा तु यदि दृष्टेः, यदि वा घटस्य, द्रष्टा द्रष्टैव । न, विशेषोपपत्तेः — अस्त्यत्र विशेषः ; यो दृष्टेर्द्रष्टा सः दृष्टि­श्चे­द्भ­वति नित्यमेव पश्यति दृष्टिम् , न कदाचिदपि दृष्टिर्न दृश्यते द्रष्ट्रा ; तत्र द्रष्टु­र्दृष्ट्या नित्यया भवितव्यम् ; अनित्या चेद्द्र­ष्टु­र्दृष्टिः, तत्र दृश्या या दृष्टिः सा कदाचिन्न दृश्येतापि — यथा अनित्यया दृष्ट्या घटादि वस्तु ; न च तद्वत् दृष्टेर्द्रष्टा कदाचिदपि न पश्यति दृष्टिम् । किं द्वे दृष्टी द्रष्टुः — नित्या अदृश्या अन्या अनित्या दृश्येति ? बाढम् ; प्रसिद्धा तावदनित्या दृष्टिः, अन्धा­न­न्ध­त्व­द­र्श­नात् ; नित्यैव चेत् , सर्वोऽनन्ध एव स्यात् ; द्रष्टुस्तु नित्या दृष्टिः — ‘न हि द्रष्टु­र्दृ­ष्टे­र्वि­प­रि­लोपो विद्यते’(बृ. उ. ४ । ३ । २३) इति श्रुतेः ; अनुमानाच्च — अन्धस्यापि घटाद्याभासविषया स्वप्ने दृष्टिरुपलभ्यते ; सा तर्हि इतरदृष्टिनाशे न नश्यति ; सा द्रष्टु­र्दृष्टिः ; तया अविपरिलुप्तया नित्यया दृष्ट्या स्वरूपभूतया स्वय­ञ्ज्यो­तिः­स­मा­ख्यया इतरामनित्यां दृष्टिं स्वप्ना­न्त­बु­द्धा­न्त­यो­र्वा­स­ना­प्र­त्य­य­रूपां नित्यमेव पश्य­न्दृ­ष्टे­र्द्रष्टा भवति । एवं च सति दृष्टिरेव स्वरूपमस्य अग्न्यौष्ण्यवत् , न काणादानामिव दृष्टि­व्य­ति­रिक्तः अन्यः चेतनः द्रष्टा ॥

तद्ब्रह्म आत्मानमेव नित्य­दृ­ग्रू­प­म­ध्या­रो­पि­ता­नि­त्य­दृ­ष्ट्या­दि­व­र्जि­त­मेव अवेत् विदितवत् । ननु विप्रतिषिद्धम् — ‘न विज्ञा­ते­र्वि­ज्ञा­तारं विजानीयाः’(बृ. उ. ३ । ४ । २) इति श्रुतेः — विज्ञा­तु­र्वि­ज्ञा­नम् । न, एवं विज्ञानान्न विप्रतिषेधः ; एवं दृष्टे­र्द्र­ष्टेति विज्ञायत एव ; अन्य­ज्ञा­ना­न­पे­क्ष­त्वाच्च — न च द्रष्टु­र्नि­त्यैव दृष्टिरित्येवं विज्ञाते द्रष्टृविषयां दृष्टि­म­न्या­मा­का­ङ्क्षते ; निवर्तते हि द्रष्टृ­वि­ष­य­दृ­ष्ट्या­काङ्क्षा तदसम्भवादेव ; न ह्यविद्यमाने विषये आकाङ्क्षा कस्यचिदुपजायते ; न च दृश्या दृष्टि­र्द्र­ष्टारं विष­यी­क­र्तु­मु­त्स­हते, यत­स्ता­मा­का­ङ्क्षेत ; न च स्वरू­प­वि­ष­या­काङ्क्षा स्वस्यैव ; तस्मात् अज्ञा­ना­ध्या­रो­प­ण­नि­वृ­त्ति­रेव आत्मा­न­मे­वा­वे­दि­त्यु­क्तम् , नात्मनो विषयीकरणम् ॥

तत्कथमवेदित्याह — अहं दृष्टेर्द्रष्टा आत्मा ब्रह्मास्मि भवामीति । ब्रह्मेति — यत्सा­क्षा­द­प­रो­क्षा­त्स­र्वा­न्तर आत्मा अशनायाद्यतीतो नेति नेत्य­स्थू­ल­म­न­ण्वि­त्ये­व­मा­दि­ल­क्ष­णम् , तदेवाहमस्मि, नान्यः संसारी, यथा भवानाहेति । तस्मात् एवं विज्ञानात् तद्ब्रह्म सर्वमभवत् - अब्र­ह्मा­ध्या­रो­प­णा­प­ग­मात् तत्का­र्य­स्या­स­र्व­त्वस्य निवृत्त्या सर्वमभवत् । तस्माद्युक्तमेव मनुष्या मन्यन्ते — यद्ब्र­ह्म­वि­द्यया सर्वं भविष्याम इति । यत्पृष्टम् — किमु तद्ब्र­ह्मा­वे­द्य­स्मा­त्त­त्स­र्व­म­भ­व­दिति, तन्निर्णीतम् — ब्रह्म वा इदमग्र आसी­त्त­दा­त्मा­न­मे­वा­वे­दहं ब्रह्मास्मीति तस्मा­त्त­त्स­र्व­म­भ­व­दिति ॥

तत् तत्र, यो यो देवानां प्रत्यबुध्यत प्रति­बु­द्ध­वा­ना­त्मानं यथोक्तेन विधिना, स एव प्रतिबुद्ध आत्मा तत् ब्रह्म अभवत् ; तथा ऋषीणाम् , तथा मनुष्याणां च मध्ये । देवानामित्यादि लोक­दृ­ष्ट्य­पे­क्षया न ब्रह्म­त्व­बु­द्ध्यो­च्यते ; पुरः पुरुष आविशदिति सर्वत्र ब्रह्मै­वा­नु­प्र­वि­ष्ट­मि­त्य­वो­चाम ; अतः शरी­रा­द्यु­पा­धि­ज­नि­त­लो­क­दृ­ष्ट्य­पे­क्षया देवा­ना­मि­त्या­द्यु­च्यते ; परमार्थतस्तु तत्र तत्र ब्रह्मैवाग्र आसीत् प्राक्प्र­ति­बो­धात् देवादिशरीरेषु अन्यथैव विभाव्यमानम् , तदा­त्मा­न­मे­वा­वेत् , तथैव च सर्वमभवत् ॥

अस्या ब्रह्मविद्यायाः सर्वभावापत्तिः फल­मि­त्ये­त­स्या­र्थस्य द्रढिम्ने मन्त्रानुदाहरति श्रुतिः । कथम् ? तत् ब्रह्म एतत् आत्मानमेव अहमस्मीति पश्यन् एतस्मादेव ब्रह्मणो दर्शनात् ऋषि­र्वा­म­दे­वाख्यः प्रतिपेदे ह प्रति­प­न्न­वा­न्किल ; स एत­स्मि­न्ब्र­ह्मा­त्म­द­र्श­नेऽ­व­स्थितः एता­न्म­न्त्रा­न्द­दर्श — अहं मनुरभवं सूर्य­श्चे­त्या­दीन् । तदेतद्ब्रह्म पश्यन्निति ब्रह्मविद्या परामृश्यते ; अहं मनुरभवं सूर्य­श्चे­त्या­दिना सर्वभावापत्तिं ब्रह्मविद्याफलं परामृशति ; पश्य­न्स­र्वा­त्म­भावं फलं प्रतिपेदे इत्य­स्मा­त्प्र­यो­गात् ब्रह्म­वि­द्या­स­हा­य­सा­ध­न­साध्यं मोक्षं दर्शयति — भुञ्जा­न­स्तृ­प्य­तीति यद्वत् । सेयं ब्रह्मविद्यया सर्व­भा­वा­प­त्ति­रा­सी­न्म­हतां देवादीनां वीर्यातिशयात् , नेदा­नी­मै­दं­यु­गी­नानां विशेषतो मनुष्याणाम् , अल्पवीर्यत्वात् — इति स्यात्क­स्य­चि­द्बुद्धिः, तद्व्यु­त्था­प­ना­याह — तदिदं प्रकृतं ब्रह्म यत्स­र्व­भू­ता­नु­प्र­विष्टं दृष्टि­क्रि­या­दि­लि­ङ्गम् , एतर्हि एतस्मिन्नपि वर्तमानकाले यः कश्चित् व्यावृ­त्त­बा­ह्यौ­त्सुक्य आत्मानमेव एवं वेद अहं ब्रह्मास्मीति — अपोह्य उपा­धि­ज­नि­त­भ्रा­न्ति­वि­ज्ञा­ना­ध्या­रो­पि­ता­न्वि­शे­षान् संसा­र­ध­र्मा­ना­ग­न्धि­त­म­न­न्त­र­म­बाह्यं ब्रह्मैवाहमस्मि केवलमिति — सः अवि­द्या­कृ­ता­स­र्व­त्व­नि­वृ­त्ते­र्ब्र­ह्म­वि­ज्ञा­ना­दिदं सर्वं भवति । न हि महावीर्येषु वामदेवादिषु हीनवीर्येषु वा वार्तमानिकेषु मनुष्येषु ब्रह्मणो विशेषः तद्विज्ञानस्य वास्ति । वार्तमानिकेषु पुरुषेषु तु ब्रह्म­वि­द्या­फ­लेऽ­नै­का­न्ति­कता शङ्क्यत इत्यत आह — तस्य ह ब्रह्म­वि­ज्ञा­तु­र्य­थो­क्तेन विधिना देवा महावीर्याः, चन अपि, अभूत्यै अभवनाय ब्रह्म­स­र्व­भा­वस्य, नेशते न पर्याप्ताः, किमुतान्ये ॥

ब्रह्म­वि­द्या­फ­ल­प्राप्तौ विघ्नकरणे देवादय ईशत इति का शङ्केति — उच्यते — देवादीन्प्रति ऋण­व­त्त्वा­न्म­र्त्या­नाम् ; ‘ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः’(तै. सं. ६ । ३ । १०) इति हि जायमानमेव ऋणवन्तं पुरुषं दर्शयति श्रुतिः ; पशुनिदर्शनाच्च ‘अथो अयं वा...’(बृ. उ. १ । ४ । १६) इत्या­दि­लो­क­श्रु­तेश्च आत्मनो वृत्ति­प­रि­पि­पा­ल­यि­षया अधमर्णानिव देवाः पर­त­न्त्रा­न्म­नु­ष्या­न्प्रति अमृ­त­त्व­प्राप्तिं प्रति विघ्नं कुर्युरिति न्याय्यैवैषा शङ्का । स्वपशून् स्वशरीराणीव च रक्षन्ति देवाः ; महत्तरां हि वृत्तिं कर्माधीनां दर्शयिष्यति देवादीनां बहु­प­शु­स­म­त­यै­कै­कस्य पुरुषस्य ; ‘तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः’ इति हि वक्ष्यति, ‘यथा ह वै स्वाय लोका­या­रि­ष्टि­मि­च्छे­देवं हैवंविदे सर्वाणि भूता­न्य­रि­ष्टि­मि­च्छन्ति’(बृ. उ. १ । ४ । १६) इति च ; ब्रह्मवित्त्वे पारा­र्थ्य­नि­वृत्तेः न स्वलोकत्वं पशुत्वं चेत्यभिप्रायो अप्रि­या­रि­ष्टि­व­च­ना­भ्या­म­व­ग­म्यते ; तस्मा­द्ब्र­ह्म­विदो ब्रह्म­वि­द्या­फ­ल­प्राप्तिं प्रति कुर्युरेव विघ्नं देवाः । प्रभाववन्तश्च हि ते ॥

ननु एवं सत्यन्यास्वपि कर्म­फ­ल­प्रा­प्तिषु देवानां विघ्नकरणं पेयपानसमम् ; हन्त तर्ह्य­वि­स्र­म्भोऽ­भ्यु­द­य­निः­श्रे­य­स­सा­ध­ना­नु­ष्ठा­नेषु ; तथा ईश्व­र­स्या­चि­न्त्य­श­क्ति­त्वा­द्वि­घ्न­क­रणे प्रभुत्वम् ; तथा काल­क­र्म­म­न्त्रौ­ष­धि­त­प­साम् ; एषां हि फल­स­म्प­त्ति­वि­प­त्ति­हे­तुत्वं शास्त्रे लोके च प्रसिद्धम् ; अतोऽप्यनाश्वासः शास्त्रा­र्था­नु­ष्ठाने । न ; सर्वपदार्थानां निय­त­नि­मि­त्तो­पा­दा­नात् जग­द्वै­चि­त्र्य­द­र्श­नाच्च, स्वभावपक्षे च तदु­भ­या­नु­प­पत्तेः, सुख­दुः­खा­दि­फ­ल­नि­मित्तं कर्मे­त्ये­त­स्मि­न्पक्षे स्थिते वेद­स्मृ­ति­न्या­य­लो­क­प­रि­गृ­हीते, देवे­श्व­र­का­ला­स्ता­वन्न कर्म­फ­ल­वि­प­र्या­स­क­र्तारः, कर्मणां काङ्क्षि­त­का­र­क­त्वात् — कर्म हि शुभाशुभं पुरुषाणां देव­का­ले­श्व­रा­दि­का­र­क­म­न­पेक्ष्य नात्मानं प्रति लभते, लब्धात्मकमपि फलदानेऽसमर्थम् , क्रियाया हि कार­का­द्य­ने­क­नि­मि­त्तो­पा­दा­न­स्वा­भा­व्यात् ; तस्मात् क्रियानुगुणा हि देवेश्वरादय इति कर्मसु तावन्न फलप्राप्तिं प्रत्यविस्रम्भः । कर्मणामपि एषाम् वशानुगत्वं क्वचित् , स्वसा­म­र्थ्य­स्या­प्र­णो­द्य­त्वात् । कर्म­का­ल­दै­व­द्र­व्या­दि­स्व­भा­वानां गुण­प्र­धा­न­भा­व­स्त्व­नि­यतो दुर्वि­ज्ञे­य­श्चेति तत्कृतो मोहो लोकस्य — कर्मैव कारकं नान्य­त्फ­ल­प्रा­प्ता­विति केचित् ; दैवमेवेत्यपरे ; काल इत्येके ; द्रव्यादिस्वभाव इति केचित् ; सर्व एते संहता एवेत्यपरे । तत्र कर्मणः प्राधा­न्य­म­ङ्गी­कृत्य वेदस्मृतिवादाः — ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’(बृ. उ. ३ । २ । १३) इत्यादयः । यद्यपि एषां स्वविषये कस्य­चि­त्प्रा­धा­न्यो­द्भवः इतरेषां तत्का­ली­न­प्रा­धा­न्य­श­क्ति­स्तम्भः, तथापि न कर्मणः फलप्राप्तिं प्रति अनैकान्तिकत्वम् , शास्त्र­न्या­य­नि­र्धा­रि­त­त्वा­त्क­र्म­प्रा­धा­न्यस्य ॥

न, अवि­द्या­प­ग­म­मा­त्र­त्वा­द्ब्र­ह्म­प्रा­प्ति­फ­लस्य — यदुक्तं ब्रह्म­प्रा­प्ति­फलं प्रति देवा विघ्नं कुर्युरिति, तत्र न देवानां विघ्नकरणे सामर्थ्यम् ; कस्मात् ? विद्या­का­ला­न­न्त­रि­त­त्वा­द्ब्र­ह्म­प्रा­प्ति­फ­लस्य ; कथम् ; यथा लोके द्रष्टुश्चक्षुष आलोकेन संयोगो यत्कालः, तत्काल एव रूपाभिव्यक्तिः, एवमात्मविषयं विज्ञानं यत्कालम् , तत्काल एव तद्वि­ष­या­ज्ञा­न­ति­रो­भावः स्यात् ; अतो ब्रह्मविद्यायां सत्याम् अवि­द्या­का­र्या­नु­प­पत्तेः, प्रदीप इव तमःकार्यस्य, केन कस्य विघ्नं कुर्युर्देवाः — यत्र आत्मत्वमेव देवानां ब्रह्मविदः । तदेतदाह — आत्मा स्वरूपं ध्येयं यत्त­त्स­र्व­शा­स्त्रै­र्वि­ज्ञेयं ब्रह्म, हि यस्मात् , एषां देवानाम् , स ब्रह्मवित् , भवति ब्रह्म­वि­द्या­स­म­का­ल­मेव — अवि­द्या­मा­त्र­व्य­व­धा­ना­प­ग­मात् शुक्तिकाया इव रजताभासायाः शुक्ति­का­त्व­मि­त्य­वो­चाम । अतो नात्मनः प्रतिकूलत्वे देवानां प्रयत्नः सम्भवति । यस्य हि अनात्मभूतं फलं देश­का­ल­नि­मि­त्ता­न्त­रि­तम् , तत्रानात्मविषये सफलः प्रयत्नो विघ्नाचरणाय देवानाम् ; न त्विह विद्यासमकाल आत्मभूते देश­का­ल­नि­मि­त्ता­न­न्त­रिते, अवसरानुपपत्तेः ॥

एवं तर्हि विद्या­प्र­त्य­य­स­न्त­त्य­भा­वात् विप­री­त­प्र­त्य­य­त­त्का­र्य­योश्च दर्शनात् अन्त्य एव आत्म­प्र­त्य­योऽ­वि­द्या­नि­व­र्तकः, न तु पूर्व इति । न, प्रथ­मे­ना­नै­का­न्ति­क­त्वात् — यदि हि प्रथम आत्मविषयः प्रत्य­योऽ­विद्यां न निवर्तयति, तथा अन्त्योऽपि, तुल्यविषयत्वात् । एवं तर्हि सन्त­तोऽ­वि­द्या­नि­व­र्तकः न विच्छिन्न इति । न, जीवनादौ सति सन्त­त्य­नु­प­पत्तेः — न हि जीवनादिहेतुके प्रत्यये सति विद्या­प्र­त्य­य­स­न्त­ति­रु­प­प­द्यते, विरोधात् । अथ जीव­ना­दि­प्र­त्य­य­ति­र­स्क­र­णे­नैव आ मरणान्तात् विद्या­स­न्त­ति­रिति चेत् , न, प्रत्य­ये­य­त्ता­स­न्ता­ना­न­व­धा­र­णात् शास्त्रा­र्था­न­व­धा­र­ण­दो­षात् — इयतां प्रत्ययानां सन्ततिरविद्याया निव­र्ति­के­त्य­न­व­धा­र­णात् शास्त्रार्थो नावध्रियेत ; तच्चानिष्टम् । सन्त­ति­मा­त्र­त्वेऽ­व­धा­रित एवेति चेत् , न, आद्य­न्त­यो­र­वि­शे­षात् — प्रथमा विद्या­प्र­त्य­य­स­न्ततिः मरणकालान्ता वेति विशेषाभावात् , आद्यन्तयोः प्रत्यययोः पूर्वोक्तौ दोषौ प्रसज्येयाताम् । एवं तर्हि अनिवर्तक एवेति चेत् , न ‘तस्मा­त्त­त्स­र्व­म­भ­वत्’ इति श्रुतेः, ‘भिद्यते हृदयग्रन्थिः’(मु. उ. २ । २ । ९) ‘तत्र को मोहः’(ई. उ. ७) इत्या­दि­श्रु­ति­भ्यश्च ॥

अर्थवाद इति चेत् , न, सर्व­शा­खो­प­नि­ष­दा­म­र्थ­वा­द­त्व­प्र­स­ङ्गात् ; एता­व­न्मा­त्रा­र्थ­त्वो­प­क्षीणा हि सर्वशाखोपनिषदः । प्रत्य­क्ष­प्र­मि­ता­त्म­वि­ष­य­त्वात् अस्त्येवेति चेत् , न, उक्त­प­रि­हा­र­त्वात् — अवि­द्या­शो­क­मो­ह­भ­या­दि­दो­ष­नि­वृत्तेः प्रत्य­क्ष­त्वा­दिति चोक्तः परिहारः । तस्मात् आद्यः अन्त्यः सन्ततः अस­न्त­त­श्चे­त्य­चो­द्य­मे­तत् , अवि­द्या­दि­दो­ष­नि­वृ­त्ति­फ­ला­व­सा­न­त्वा­द्वि­द्यायाः — य एव अवि­द्या­दि­दो­ष­नि­वृ­त्ति­फ­ल­कृ­त्प्र­त्ययः आद्यः अन्त्यः सन्ततः असन्ततो वा, स एव विद्ये­त्य­भ्यु­प­ग­मात् न चोद्य­स्या­व­ता­र­ग­न्धोऽ­प्यस्ति । यत्तूक्तं विप­री­त­प्र­त्य­य­त­त्का­र्य­योश्च दर्शनादिति, न, तच्छे­ष­स्थि­ति­हे­तु­त्वात् — येन कर्मणा शरीरमारब्धं तत् , विप­री­त­प्र­त्य­य­दो­ष­नि­मि­त्त­त्वात् तस्य तथाभूतस्यैव विप­री­त­प्र­त्य­य­दो­ष­सं­यु­क्तस्य फलदाने सामर्थ्यमिति, यावत् शरीरपातः ताव­त्फ­लो­प­भो­गा­ङ्ग­तया विपरीतप्रत्ययं रागादिदोषं च ताव­न्मा­त्र­मा­क्षि­प­त्येव — मुक्तेषुवत् प्रवृ­त्त­फ­ल­त्वात् तद्धेतुकस्य कर्मणः । तेन न तस्य निवर्तिका विद्या, अविरोधात् ; किं तर्हि स्वाश्रयादेव स्वात्मविरोधि अविद्याकार्यं यदुत्पित्सु तन्निरुणद्धि, अनागतत्वात् ; अतीतं हि इतरत् । किञ्च न च विपरीतप्रत्ययो विद्यावत उत्पद्यते, निर्विषयत्वात् — अन­व­धृ­त­वि­ष­य­वि­शे­ष­स्व­रूपं हि सामा­न्य­मा­त्र­मा­श्रित्य विपरीतप्रत्यय उत्पद्यमान उत्पद्यते, यथा शुक्तिकायां रजतमिति ; स च विष­य­वि­शे­षा­व­धा­र­ण­वतो अशे­ष­वि­प­री­त­प्र­त्य­या­श­य­स्यो­प­म­र्दि­त­त्वात् न पूर्व­व­त्स­म्भ­वति, शुक्तिकादौ सम्य­क्प्र­त्य­यो­त्पत्तौ पुनरदर्शनात् । क्वचित्तु विद्यायाः पूर्वो­त्प­न्न­वि­प­री­त­प्र­त्य­य­ज­नि­त­सं­स्का­रेभ्यो विप­री­त­प्र­त्य­या­व­भासाः स्मृतयो जायमाना विप­री­त­प्र­त्य­य­भ्रा­न्तिम् अकस्मात् कुर्वन्ति — यथा विज्ञा­त­दि­ग्वि­भा­ग­स्या­प्य­क­स्मा­द्दि­ग्वि­प­र्य­य­वि­भ्रमः । सम्य­ग्ज्ञा­न­व­तोऽपि चेत् पूर्व­व­द्वि­प­री­त­प्र­त्यय उत्पद्यते, सम्य­ग्ज्ञा­नेऽ­प्य­वि­स्र­म्भा­च्छा­स्त्रा­र्थ­वि­ज्ञा­नादौ प्रवृ­त्ति­र­स­म­ञ्जसा स्यात् , सर्वं च प्रमाणमप्रमाणं सम्पद्येत, प्रमा­णा­प्र­मा­ण­यो­र्वि­शे­षा­नु­प­पत्तेः । एतेन सम्य­ग्ज्ञा­ना­न­न्त­र­मेव शरीरपाताभावः कस्मा­दि­त्ये­त­त्प­रि­हृ­तम् । ज्ञानोत्पत्तेः प्राक् ऊर्ध्वं तत्का­ल­ज­न्मा­न्त­र­स­ञ्चि­तानां च कर्म­णा­म­प्र­वृ­त्त­फ­लानां विनाशः सिद्धो भवति फल­प्रा­प्ति­वि­घ्न­नि­षे­ध­श्रु­ते­रेव ; ‘क्षीयन्ते चास्य कर्माणि’(मु. उ. २ । २ । ८) ‘तस्य तावदेव चिरम्’(छा. उ. ६ । १४ । २) ‘सर्वे पाप्मानः प्रदूयन्ते’(छा. उ. ५ । २४ । ३) ‘तं विदित्वा न लिप्यते कर्मणा पापकेन’(बृ. उ. ४ । ४ । २३) ‘एतमु हैवैते न तरतः’(बृ. उ. ४ । ४ । २२) ‘नैनं कृताकृते तपतः’(बृ. उ. ४ । ४ । २२) ‘एतं ह वाव न तपति’(तै. उ. २ । ९ । १) ‘न बिभेति कुतश्चन’(तै. उ. २ । ९ । १) इत्या­दि­श्रु­ति­भ्यश्च ; ‘ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते’(भ. गी. ४ । ३७) इत्या­दि­स्मृ­ति­भ्यश्च ॥

यत्तु ऋणैः प्रतिबध्यत इति, तन्न अवि­द्या­व­द्वि­ष­य­त्वात् — अविद्यावान्हि ऋणी, तस्य कर्तृ­त्वा­द्यु­प­पत्तेः, ‘यत्र वा अन्यदिव स्यात्त­त्रा­न्योऽ­न्य­त्प­श्येत्’(बृ. उ. ४ । ३ । ३१) इति हि वक्ष्यति — अनन्यत् सद्वस्तु आत्माख्यं यत्राविद्यायां सत्यामन्यदिव स्यात् तिमि­र­कृ­त­द्वि­ती­य­च­न्द्र­वत् तत्रा­वि­द्या­कृ­ता­ने­क­का­र­का­पेक्षं दर्शनादिकर्म तत्कृतं फलं च दर्शयति, तत्रा­न्योऽ­न्य­त्प­श्ये­दि­त्या­दिना ; यत्र पुनर्विद्यायां सत्या­म­वि­द्या­कृ­ता­ने­क­त्व­भ्र­म­प्र­हा­णम् , ‘तत्केन कं पश्येत्’(बृ. उ. ४ । ३ । ३१) इति कर्मासम्भवं दर्शयति, तस्मा­द­वि­द्या­व­द्वि­षय एव ऋणित्वम् , कर्मसम्भवात् , नेतरत्र । एतच्चोत्तरत्र व्याचि­ख्या­सि­ष्य­मा­णै­रेव वाक्यै­र्वि­स्त­रेण प्रदर्शयिष्यामः ॥

तद्यथेहैव तावत् — अथ यः कश्चि­द­ब्र­ह्म­वित् , अन्यामात्मनो व्यतिरिक्तां यां काञ्चिद्देवताम् , उपास्ते स्तुति­न­म­स्का­र­या­ग­ब­ल्यु­प­हा­र­प्र­णि­धा­न­ध्या­ना­दिना उप आस्ते तस्या गुणभावमुपगम्य आस्ते — अन्योऽसावनात्मा मत्तः पृथक् , अन्योऽ­ह­म­स्म्य­धि­कृतः, मया अस्मै ऋणि­व­त्प्र­ति­क­र्त­व्यम् — इत्येवंप्रत्ययः सन्नुपास्ते, न स इत्थंप्रत्ययः वेद विजानाति तत्त्वम् । न स केवलमेवंभूतः अविद्वान् अवि­द्या­दो­ष­वा­नेव, किं तर्हि, यथा पशुः गवादिः वाह­न­दो­ह­ना­द्यु­प­का­रै­रु­प­भु­ज्यते, एवं सः इज्या­द्य­ने­को­प­का­रै­रु­प­भो­क्त­व्य­त्वात् एकैकेन देवादीनाम् ; अतः पशुरिव सर्वार्थेषु कर्मस्वधिकृत इत्यर्थः । एतस्य हि अविदुषो वर्णा­श्र­मा­दि­प्र­वि­भा­ग­व­तोऽ­धि­कृ­तस्य कर्मणो विद्यासहितस्य केवलस्य च शास्त्रोक्तस्य कार्यं मनुष्यत्वादिको ब्रह्मान्त उत्कर्षः ; शास्त्रो­क्त­वि­प­री­तस्य च स्वाभाविकस्य कार्यं मनुष्यत्वादिक एव स्थाव­रा­न्तोऽ­प­कर्षः ; यथा चैतत् तथा ‘अथ त्रयो वाव लोकाः’(बृ. उ. १ । ५ । १६) इत्यादिना वक्ष्यामः कृत्स्ने­नै­वा­ध्या­य­शे­षेण । विद्यायाश्च कार्यं सर्वा­त्म­भा­वा­प­त्ति­रि­त्ये­तत् सङ्क्षेपतो दर्शितम् । सर्वा हि इयमुपनिषत् विद्या­वि­द्या­वि­भा­ग­प्र­द­र्श­ने­नै­वो­प­क्षीणा । यथा च एषोऽर्थः कृत्स्नस्य शास्त्रस्य तथा प्रदर्शयिष्यामः ॥

यस्मादेवम् , तस्मा­द­वि­द्या­वन्तं पुरुषं प्रति देवा ईशत एव विघ्नं कर्तुम् अनुग्रहं च इत्येतद्दर्शयति — यथा ह वै लोके, बहवो गोऽश्वादयः पशवः मनुष्यं स्वामिनमात्मनः अधिष्ठातारं भुञ्ज्युः पालयेयुः, एवं बहुपशुस्थानीयः एकैकः अविद्वान्पुरुषः देवान् — देवानिति पित्रा­द्यु­प­ल­क्ष­णा­र्थम् — भुनक्ति पालयतीति — इमे इन्द्रादयः अन्ये मत्तो ममेशितारः भृत्य इवाहमेषां स्तुति­न­म­स्का­रे­ज्या­दिना आराधनं कृत्वा अभ्युदयं निःश्रेयसं च तत्प्रत्तं फलं प्राप्स्या­मी­त्ये­व­म­भि­सन्धिः । तत्र लोके बहुपशुमतो यथा एकस्मिन्नेव पशावादीयमाने व्याघ्रादिना अपह्रियमाणे महदप्रियं भवति, तथा बहुपशुस्थानीय एकस्मिन्पुरुषे पशुभावात् व्युत्तिष्ठति, अप्रियं भवतीति — किं चित्रम् — देवानाम् , बहुपश्वपहरण इव कुटुम्बिनः । तस्मादेषां तन्न प्रियम् ; किं तत् ? यदे­त­द्ब्र­ह्मा­त्म­तत्त्वं कथञ्चन मनुष्या विद्युः विजानीयुः । तथा च स्मरणमनुगीतासु भगवतो व्यासस्य — ‘क्रिया­व­द्भिर्हि कौन्तेय देवलोकः समावृतः । न चैतदिष्टं देवानां मर्त्यै­रु­प­रि­व­र्त­नम्’(अश्व. १९ । ६१) इति । अतो देवाः पशूनिव व्याघ्रादिभ्यः, ब्रह्म­वि­ज्ञा­ना­द्वि­घ्न­मा­चि­की­र्षन्ति — अस्म­दु­प­भो­ग्य­त्वान्मा व्युत्ति­ष्ठे­यु­रिति । यं तु मुमोचयिषन्ति, तं श्रद्धा­दि­भि­र्यो­क्ष्यन्ति, विप­री­त­म­श्र­द्धा­दिभिः । तस्मा­न्मु­मु­क्षु­र्दे­वा­रा­ध­न­परः श्रद्धाभक्तिपरः प्रणेयोऽप्रमादी स्यात् विद्याप्राप्तिं प्रति विद्यां प्रतीति वा काक्वै­त­त्प्र­द­र्शितं भवति देवा­प्रि­य­वा­क्येन ॥

सूत्रितः शास्त्रार्थ — ‘आत्मे­त्ये­वो­पा­सीत’ इति ; तस्य च व्याचि­ख्या­सि­तस्य सार्थवादेन ‘तदा­हु­र्य­द्ब्र­ह्म­वि­द्यया’ इत्यादिना सम्बन्धप्रयोजने अभिहिते अविद्यायाश्च संसा­रा­धि­का­र­का­र­ण­त्व­मु­क्तम् — ‘अथ योऽन्यां देवतामुपास्ते’(बृ. उ. १ । ४ । १०) इत्यादिना ; तत्र अविद्वान् ऋणी पशु­व­द्दे­वा­दि­क­र्म­क­र्त­व्य­तया परतन्त्र इत्युक्तम् । किं पुन­र्दे­वा­दि­क­र्म­क­र्त­व्यत्वे निमित्तम् ? वर्णा आश्रमाश्च ; तत्र के वर्णा इत्यत इदमारभ्यते — यन्नि­मि­त्त­स­म्ब­द्धेषु कर्मसु अयं परतन्त्र एवाधिकृतः संसरति । एतस्यैवार्थस्य प्रदर्शनाय अग्नि­स­र्गा­न­न्त­र­मि­न्द्रा­दि­सर्गो नोक्तः ; अग्नेस्तु सर्गः प्रजापते सृष्टिपरिपूरणाय प्रदर्शितः ; अयं च इन्द्रादिसर्गः तत्रैव द्रष्टव्यः, तच्छेषत्वात् ; इह तु स एवाभिधीयते अविदुषः कर्मा­धि­का­र­हे­तु­प्र­द­र्श­नाय ॥

ब्रह्म वा इदमग्र आसीदेकमेव तदेकं सन्न व्यभवत् । तच्छ्रे­यो­रू­प­म­त्य­सृ­जत क्षत्रं यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति । तस्मा­त्क्ष­त्रा­त्परं नास्ति तस्माद्ब्रह्मणः क्षत्रि­य­म­ध­स्ता­दु­पास्ते राजसूये क्षत्र एव तद्यशो दधाति सैषा क्षत्रस्य योनिर्यद्ब्रह्म । तस्माद्यद्यपि राजा परमतां गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिं य उ एनं हिनस्ति स्वां स योनिमृच्छति स पापीयान्भवति यथा श्रेयां सं हिंसित्वा ॥ ११ ॥

११

ब्रह्म वा इदमग्र आसीत् — यदग्निं सृष्ट्वा अग्निरूपापन्नं ब्रह्म — ब्राह्म­ण­जा­त्य­भि­मा­नात् ब्रह्मे­त्य­भि­धी­यते — वै, इदं क्षत्रादिजातम् , ब्रह्मैव, अभिन्नमासीत् , एकमेव - न आसी­त्क्ष­त्रा­दि­भेदः । तत् ब्रह्मैकं क्षत्रा­दि­प­रि­पा­ल­यि­त्रा­दि­शून्यं सत् , न व्यभवत् न विभूतवत् कर्मणे नाल­मा­सी­दि­त्यर्थः । ततस्तद्ब्रह्म — ब्राह्मणोऽस्मि ममेत्थं कर्तव्यमिति ब्राह्म­ण­जा­ति­नि­मित्तं कर्म चिकीर्षुः आत्मनः कर्म­क­र्तृ­त्व­वि­भूत्यै, श्रेयोरूपं प्रशस्तरूपम् , अति असृजत अतिशयेन असृजत सृष्टवत् । किं पुनस्तत् , यत्सृष्टम् ? क्षत्रं क्षत्रियजातिः ; तद्व्यक्तिभेदेन प्रदर्शयति — यान्येतानि प्रसिद्धानि लोके, देवत्रा देवेषु, क्षत्त्राणीति — जात्याख्यायां पक्षे बहुवचनस्मरणात् व्यक्ति­ब­हु­त्वाद्वा भेदोपचारेण — बहुवचनम् । कानि पुनस्तानीत्याह — तत्राभिषिक्ता एव विशेषतो निर्दिश्यन्ते — इन्द्रो देवानां राजा, वरुणो यादसाम् , सोमो ब्राह्मणानाम् , रुद्रः पशूनाम् , पर्जन्यो विद्युदादीनाम् , यमः पितॄणाम् , मृत्युः रोगादीनाम् , ईशानो भासाम् — इत्येवमादीनि देवेषु क्षत्राणि । तदनु इन्द्रा­दि­क्ष­त्र­दे­व­ता­धि­ष्ठि­तानि मनुष्यक्षत्राणि सोम­सू­र्य­वं­श्यानि पुरू­र­वः­प्र­भृ­तीनि सृष्टान्येव द्रष्टव्यानि ; तदर्थ एव हि देवक्षत्रसर्गः प्रस्तुतः । यस्मात् ब्रह्मणा अतिशयेन सृष्टं क्षत्रम् , तस्मा­त्क्ष­त्रा­त्परं नास्ति ब्राह्मणजातेरपि नियन्तृ ; तस्मा­द्ब्रा­ह्मणः कारणभूतोऽपि क्षत्रियस्य क्षत्रियम् अधस्तात् व्यवस्थितः सन् उपरि स्थितम् उपास्ते — क्व ? राजसूये । क्षत्र एव तत् आत्मीयं यशः ख्यातिरूपम् — ब्रह्मेति — दधाति स्थापयति ; राज­सू­या­भि­षि­क्तेन आसन्द्यां स्थितेन राज्ञा आमन्त्रितो ब्रह्मन्निति ऋत्विक् पुनस्तं प्रत्याह — त्वं राज­न्ब्र­ह्मा­सीति ; तदेतदभिधीयते — क्षत्र एव तद्यशो दधातीति । सैषा प्रकृता क्षत्रस्य योनिरेव, यद्ब्रह्म । तस्मात् यद्यपि राजा परमतां राज­सू­या­भि­षे­क­गुणं गच्छति आप्नोति — ब्रह्मैव ब्राह्म­ण­जा­ति­मेव, अन्ततः अन्ते कर्मपरिसमाप्तौ, उपनिश्रयति आश्रयति स्वां योनिम् — पुरोहितं पुरो निधत्त इत्यर्थः । यस्तु पुन­र्ब­ला­भि­मा­नात् स्वां योनिं ब्राह्मणजातिं ब्राह्मणम् — य उ एनम् — हिनस्ति हिंसति न्यग्भावेन पश्यति, स्वामात्मीयामेव स योनिमृच्छति — स्वं प्रसवं विच्छिनत्ति विनाशयति । स एतत्कृत्वा पापीयान् पापतरो भवति ; पूर्वमपि क्षत्रियः पाप एव क्रूरत्वात् , आत्मप्रसवहिंसया सुतराम् ; यथा लोके श्रेयांसं प्रशस्ततरं हिंसित्वा परिभूय पापतरो भवति, तद्वत् ॥

स नैव व्यभवत्स विशमसृजत यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वेदेवा मरुत इति ॥ १२ ॥

१२

क्षत्रे सृष्टेऽपि, स नैव व्यभवत् , कर्मणे ब्रह्म तथा न व्यभवत् , वित्तो­पा­र्ज­यि­तु­र­भा­वात् ; स विशमसृजत कर्म­सा­ध­न­वि­त्तो­पा­र्ज­नाय ; कः पुनरसौ विट् ? यान्येतानि देवजातानि — स्वार्थे निष्ठा, य एते देवजातिभेदा इत्यर्थः — गणशः गणं गणम् , आख्यायन्ते कथ्यन्ते — गणप्राया हि विशः ; प्रायेण संहता हि वित्तोपार्जने समर्थाः, न एकैकशः — वसवः अष्टसङ्ख्यो गणः, तथैकादश रुद्राः ; द्वादश आदित्याः, विश्वे देवाः त्रयोदश विश्वाया अपत्यानि — सर्वे वा देवाः, मरुतः सप्त सप्त गणाः ॥

स नैव व्यभवत्स शौद्रं वर्णममृजत पूषणमियं वै पूषेयं हीदं सर्वं पुष्यति यदिदं किञ्च ॥ १३ ॥

१३

सः परि­चा­र­का­भा­वा­त्पु­न­रपि नैव व्यभवत् ; स शौद्रं वर्णमसृजत — शूद्र एव शौद्रः, स्वार्थेऽणि वृद्धिः । कः पुनरसौ शौद्रो वर्णः, यः सृष्टः ? पूषणम् — पुष्यतीति पूषा । कः पुनरसौ पूषेति विशे­ष­त­स्त­न्नि­र्दि­शति — इयं पृथिवी पूषा ; स्वयमेव निर्वचनमाह — इयं हि इदं सर्वं पुष्यति यदिदं किञ्च ॥

स नैव व्यभ­व­त्त­च्छ्रे­यो­रू­प­म­त्य­सृ­जत धर्मं तदेतत्क्षत्रस्य क्षत्त्रं यद्ध­र्म­स्त­स्मा­द्ध­र्मा­त्परं नास्त्यथो अबलीयान्बलीयां समाशंसते धर्मेण यथा राज्ञैवं यो वै स धर्मः सत्यं वै तत्तस्मात्सत्यं वद­न्त­मा­हु­र्धर्मं वदतीति धर्मं वा वदन्तं सत्यं वद­ती­त्ये­त­द्ध्ये­वै­त­दु­भयं भवति ॥ १४ ॥

१४

सः चतुरः सृष्ट्वापि वर्णान् नैव व्यभवत् उग्र­त्वा­त्क्ष­त्र­स्या­नि­य­ता­श­ङ्कया ; तत् श्रेयोरूपम् अत्यसृजत — किं तत् ? धर्मम् ; तदेतत् श्रेयोरूपं सृष्टं क्षत्रस्य क्षत्रं क्षत्रस्यापि नियन्तृ, उग्रादप्युग्रम् — यद्धर्मः यो धर्मः ; तस्मात् क्षत्रस्यापि नियन्तृत्वात् धर्मात्परं नास्ति, तेन हि नियम्यन्ते सर्वे । तत्कथमिति उच्यते — अथो अपि अबलीयान् दुर्बलतरः बलीयांसमात्मनो बलवत्तरमपि आशंसते कामयते जेतुं धर्मेण बलेन — यथा लोके राज्ञा सर्व­ब­ल­व­त्त­मे­नापि कुटुम्बिकः, एवम् ; तस्मात्सिद्धं धर्मस्य सर्व­ब­ल­व­त्त­र­त्वा­त्स­र्व­नि­य­न्तृ­त्वम् । यो वै स धर्मो व्यवहारलक्षणो लौकि­कै­र्व्य­व­ह्रि­य­माणः सत्यं वै तत् ; सत्यमिति यथा­शा­स्त्रा­र्थता ; स एवानुष्ठीयमानो धर्मनामा भवति ; शास्त्रा­र्थ­त्वेन ज्ञायमानस्तु सत्यं भवति । यस्मादेवं तस्मात् , सत्यं यथाशास्त्रं वदन्तं व्यवहारकाल आहुः समीपस्था उभयविवेकज्ञाः — धर्मं वदतीति, प्रसिद्धं लौकिकं न्यायं वदतीति ; तथा विपर्ययेण धर्मं वा लौकिकं व्यवहारं वदन्तमाहुः — सत्यं वदति, शास्त्रादनपेतं वदतीति । एतत् यदुक्तम् उभयं ज्ञाय­मा­न­म­नु­ष्ठी­य­मानं च एतत् धर्म एव भवति । तस्मात्स धर्मो ज्ञाना­नु­ष्ठा­न­ल­क्षणः शास्त्र­ज्ञा­नि­त­रांश्च सर्वानेव नियमयति ; तस्मात् स क्षत्रस्यापि क्षत्रम् ; अत­स्त­द­भि­मा­नोऽ­वि­द्वान् तद्वि­शे­षा­नु­ष्ठा­नाय ब्रह्म­क्ष­त्र­वि­ट्छू­द्र­नि­मि­त्त­वि­शे­ष­म­भि­म­न्यते ; तानि च निसर्गत एव कर्मा­धि­का­र­नि­मि­त्तानि ॥

तदेतद्ब्रह्म क्षत्रं विट्शू­द्र­स्त­द­ग्नि­नैव देवेषु ब्रह्मा­भ­व­द्ब्रा­ह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यः शूद्रेण शूद्र­स्त­स्मा­द­ग्ना­वेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनु­ष्ये­ष्वे­ताभ्यां हि रूपाभ्यां ब्रह्माभवत् । अथ यो ह वा अस्मा­ल्लो­कात्स्वं लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वान­नू­क्तोऽ­न्यद्वा कर्माकृतं यदिह वा अप्य­ने­वं­वि­न्म­ह­त्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवात्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते । अस्मा­द्ध्ये­वा­त्मनो यद्यत्कामयते तत्तत्सृजते ॥ १५ ॥

१५

तदे­त­च्चा­तु­र्वर्ण्यं सृष्टम् — ब्रह्म क्षत्रं विट् शूद्र इति ; उत्तरार्थ उपसंहारः । यत्तत् स्रष्टृ ब्रह्म, तदग्निनैव, नान्येन रूपेण, देवेषु ब्रह्म ब्राह्मणजातिः, अभवत् ; ब्राह्मणः ब्राह्म­ण­स्व­रू­पेण, मनुष्येषु ब्रह्माभवत् ; इतरेषु वर्णेषु विकारान्तरं प्राप्य, क्षत्रियेण — क्षत्रियोऽभवत् इन्द्रा­दि­दे­व­ता­धि­ष्ठितः, वैश्येन वैश्यः, शूद्रेण शूद्रः । यस्मा­त्क्ष­त्रा­दिषु विकारापन्नम् , अग्नौ ब्राह्मण एव चाविकृतं स्रष्टृ ब्रह्म, तस्मादग्नावेव देवेषु देवानां मध्ये लोकं कर्मफलम् , इच्छन्ति, अग्निसम्बद्धं कर्म कृत्वेत्यर्थः ; तदर्थमेव हि तद्ब्रह्म कर्मा­धि­क­र­ण­त्वे­ना­ग्नि­रू­पेण व्यवस्थितम् ; तस्मा­त्त­स्मि­न्नग्नौ कर्म कृत्वा तत्फलं प्रार्थयन्त इत्येतत् उपपन्नम् । ब्राह्मणे मनुष्येषु — मनुष्याणां पुनर्मध्ये कर्मफलेच्छायां नाग्न्या­दि­नि­मि­त्त­क्रि­या­पेक्षा, किं तर्हि जाति­मा­त्र­स्व­रू­प­प्र­ति­ल­म्भे­नैव पुरु­षा­र्थ­सिद्धिः ; यत्र तु देवाधीना पुरु­षा­र्थ­सिद्धिः, तत्रै­वा­ग्न्या­दि­स­म्ब­द्ध­क्रि­या­पेक्षा ; स्मृतेश्च — ‘जप्येनैव तु संसि­ध्ये­द्ब्रा­ह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते’(मनु २ । ८७) इति । पारि­व्रा­ज्य­द­र्श­नाच्च । तस्मा­द्ब्रा­ह्म­णत्व एव मनुष्येषु लोकं कर्मफलमिच्छन्ति । यस्मादेताभ्यां हि ब्राह्म­णा­ग्नि­रू­पाभ्यां कर्म­क­र्त्र­धि­क­र­ण­रू­पाभ्यां यत्स्रष्टृ ब्रह्म साक्षादभवत् ॥

अत्र तु परमात्मलोकमग्नौ ब्राह्मणे चेच्छन्तीति केचित् । तदसत् , अविद्याधिकारे कर्माधिकारार्थं वर्णविभागस्य प्रस्तुतत्वात् , परेण च विशेषणात् ; यदि ह्यत्र लोकशब्देन पर एवात्मोच्येत, परेण विशेषणमनर्थकं स्यात् — ‘स्वं लोकमदृष्ट्वा’ इति ; स्वलो­क­व्य­ति­रि­क्त­श्चे­द­ग्न्य­धी­न­तया प्रार्थ्यमानः प्रकृतो लोकः, ततः स्वमिति युक्तं विशेषणम् , प्रकृ­त­प­र­लो­क­नि­वृ­त्त्य­र्थ­त्वात् ; स्वत्वेन च अव्य­भि­चा­रा­त्प­र­मा­त्म­लो­कस्य, अविद्याकृतानां च स्वत्व­व्य­भि­चा­रात् — ब्रवीति च कर्मकृतानां व्यभिचारम् — ‘क्षीयत एव’ इति ॥

ब्रह्मणा सृष्टा वर्णाः कर्मार्थम् ; तच्च कर्म धर्माख्यं सर्वानेव कर्तव्यतया नियन्तृ पुरुषार्थसाधनं च ; तस्मात्ते नैव चेत्कर्मणा स्वो लोकः परमात्माख्यः अविदितोऽपि प्राप्यते, किं तस्यैव पदनीयत्वेन क्रियत इत्यत आह — अथेति, पूर्व­प­क्ष­वि­नि­वृ­त्त्यर्थः ; यः कश्चित् , ह वै अस्मात् सांसा­रि­का­त्पि­ण्ड­ग्र­ह­ण­ल­क्ष­णात् अवि­द्या­का­म­क­र्म­हे­तु­कात् अग्न्य­धी­न­क­र्मा­भि­मा­न­तया वा ब्राह्म­ण­जा­ति­मा­त्र­क­र्मा­भि­मा­न­तया वा आग­न्तु­का­द­स्व­भू­ता­ल्लो­कात् , स्वं लोकमात्माख्यम् आत्म­त्वे­ना­व्य­भि­चा­रि­त्वात् , अदृष्ट्वा — अहं ब्रह्मास्मीति, प्रैति म्रियते ; स यद्यपि स्वो लोकः, अविदितः अविद्यया व्यवहितः अस्व इवाज्ञातः, एनम् — सङ्ख्यापूरण इव लौकिकः आत्मानम् — न भुनक्ति न पालयति शोक­मो­ह­भ­या­दि­दो­षा­प­न­येन यथा लोके च वेदः अननूक्तः अनधीतः कर्मा­द्य­व­बो­ध­क­त्वेन न भुनक्ति, अन्यद्वा लौकिकं कृष्यादि कर्म अकृतं स्वात्मना अनभिव्यञ्जितम् आत्मी­य­फ­ल­प्र­दा­नेन न भुनक्ति, एवमात्मा स्वो लोकः स्वेनैव नित्या­त्म­स्व­रू­पे­णा­न­भि­व्य­ञ्जितः अवि­द्या­दि­प्र­हा­णेन न भुनक्त्येव । ननु किं स्वलो­क­द­र्श­न­नि­मि­त्त­प­रि­पा­ल­नेन ? कर्मणः फल­प्रा­प्ति­ध्रौ­व्यात् इष्ट­फ­ल­नि­मि­त्तस्य च कर्मणो बाहुल्यात् तन्निमित्तं पालनमक्षयं भविष्यति — तन्न, कृतस्य क्षय­व­त्त्वा­दि­त्ये­त­दाह — यत् इह वै संसारे अद्भुतवत् कश्चि­न्म­हा­त्मापि अनेवंवित् स्वं लोकं यथोक्तेन विधिना अविद्वान् महत् बहु अश्वमेधादि पुण्यं कर्म इष्टफलमेव नैरन्तर्येण करोति — अनेनैवानन्त्यं मम भविष्यतीति, तत्कर्म ह अस्य अविद्यावतः अवि­द्या­ज­नि­त­का­म­हे­तु­त्वात् स्वप्न­द­र्श­न­वि­भ्र­मो­द्भू­त­वि­भू­त­वत् अन्ततः अन्ते फलोपभोगस्य क्षीयत एव ; तत्का­र­ण­यो­र­वि­द्या­का­म­यो­श्च­ल­त्वात् कृत­क्ष­य­ध्रौ­व्यो­प­पत्तिः । तस्मान्न पुण्य­क­र्म­फ­ल­पा­ल­ना­न­न्त्याशा अस्त्येव । अत आत्मानमेव स्वं लोकम् — आत्मानमिति स्वं लोक­मि­त्य­स्मि­न्नर्थे, स्वं लोकमिति प्रकृतत्वात् इह च स्वश­ब्द­स्या­प्र­यो­गात् — उपासीत । स य आत्मानमेव लोकमुपास्ते — तस्य किमित्युच्यते — न हास्य कर्म क्षीयते, कर्माभावादेव — इति नित्यानुवादः ; यथा अविदुषः कर्मक्षयलक्षणं संसारदुःखं सन्ततमेव, न तथा तदस्य विद्यत इत्यर्थः — ‘मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन’(मो. ध. १७८ । २) इति यद्वत् ॥

स्वात्म­लो­को­पा­स­कस्य विदुषो विद्यासंयोगात् कर्मैव न क्षीयत इत्यपरे वर्णयन्ति ; लोकशब्दार्थं च कर्मसमवायिनं द्विधा परिकल्पयन्ति किल — एको व्याकृतावस्थः कर्माश्रयो लोको हैर­ण्य­ग­र्भाख्यः, तं कर्मसमवायिनं लोकं व्याकृतं परिच्छिन्नं य उपास्ते, तस्य किल परि­च्छि­न्न­क­र्मा­त्म­द­र्शिनः कर्म क्षीयते ; तमेव कर्मसमवायिनं लोक­म­व्या­कृ­ता­वस्थं कारणरूपमापाद्य यस्तूपास्ते, तस्या­प­रि­च्छि­न्न­क­र्मा­त्म­द­र्शि­त्वा­त्तस्य कर्म न क्षीयत इति । भवतीयं शोभना कल्पना, न तु श्रौती, स्वलोकशब्देन प्रकृतस्य पर­मा­त्म­नोऽ­भि­हि­त­त्वात् , स्वं लोकमिति प्रस्तुत्य स्वशब्दं विहाय आत्म­श­ब्द­प्र­क्षे­पेण पुनस्तस्यैव प्रतिनिर्देशात् — आत्मानमेव लोकमुपासीतेति ; तत्र कर्म­स­म­वा­यि­लो­क­क­ल्प­नाया अनवसर एव । परेण च केव­ल­वि­द्या­वि­ष­येण विशेषणात् — ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’(बृ. उ. ४ । ४ । २२) इति ; पुत्र­क­र्मा­प­र­वि­द्या­कृ­तेभ्यो हि लोकेभ्यो विशिनष्टि — अयमात्मा नो लोक इति, ‘न हास्य केनचन कर्मणा लोको मीयत एषोऽस्य परमो लोकः’(कौ. उ. ३ । १) इति च । तैः सविशेषणैः अस्यैकवाक्यता युक्ता, इहापि स्वं लोकमिति विशेषणदर्शनात् । अस्मात्कामयत इत्ययुक्तमिति चेत् — इह स्वो लोकः परमात्मा ; तदुपासनात्स एव भवतीति स्थिते, यद्यत्कामयते तत्त­द­स्मा­दा­त्मनः सृजत इति

तदा­त्म­प्रा­प्ति­व्य­ति­रे­केण फलवचनमयुक्तमिति चेत् , न । स्वलो­को­पा­स­न­स्तु­ति­प­र­त्वात् ; स्वस्मादेव लोका­त्स­र्व­मिष्टं सम्पद्यत इत्यर्थः, नान्यदतः प्रार्थनीयम् , आप्तकामत्वात् — ‘आत्मतः प्राण आत्मत आशा’(छा. उ. ७ । २६ । १) इत्यादि श्रुत्यन्तरे यथा ; सर्वा­त्म­भा­व­प्र­द­र्श­नार्थो वा पूर्ववत् । यदि हि पर एव आत्मा सम्पद्यते, तदा युक्तः ‘अस्मा­द्ध्ये­वा­त्मनः’ इत्या­त्म­श­ब्द­प्र­योगः — स्वस्मादेव प्रकृतादात्मनो लोका­दि­त्ये­व­मर्थः ; अन्यथा अव्या­कृ­ता­व­स्था­त्क­र्मणो लोकादिति सवि­शे­ष­ण­म­व­क्ष्यत् प्रकृ­त­प­र­मा­त्म­लो­क­व्या­वृ­त्तये व्याकृ­ता­व­स्था­व्या­वृ­त्तये च ; न ह्यस्मि­न्प्र­कृते विशेषिते अश्रु­ता­न्त­रा­ला­वस्था प्रतिपत्तुं शक्यते ॥

अथो अयं वा आत्मा । अत्र अवि­द्वा­न्व­र्णा­श्र­मा­द्य­भि­मानो धर्मेण नियम्यमानो देवा­दि­क­र्म­क­र्त­व्य­तया पशुवत्परतन्त्र इत्युक्तम् । कानि पुनस्तानि कर्माणि, यत्कर्तव्यतया पशुवत्परतन्त्रो भवति ; के वा ते देवादयः, येषां कर्मभिः पशुवदुपकरोति — इति तदुभयं प्रपञ्चयति —

अथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति यद्यजते तेन देवानां लोकोऽथ यदनुब्रूते तेन ऋषीणामथ यत्पितृभ्यो निपृणाति यत्प्रजामिच्छते तेन पितृणामथ यन्म­नु­ष्या­न्वा­स­यते यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्प­शु­भ्य­स्तृ­णो­दकं विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वयांस्या पिपीलिकाभ्य उपजीवन्ति तेन तेषां लोको यथा ह वै स्वाय लोका­या­रि­ष्टि­मि­च्छे­देवं हैवंविदे सर्वाणि भूता­न्य­रि­ष्टि­मि­च्छन्ति तद्वा एतद्विदितं मीमांसितम् ॥ १६ ॥

१६

अथो इत्ययं वाक्यो­प­न्या­सार्थः । अयं यः प्रकृतो गृही कर्माधिकृतः अविद्वान् शरी­रे­न्द्रि­य­स­ङ्घा­ता­दि­वि­शिष्टः पिण्ड आत्मेत्युच्यते, सर्वेषां देवादीनां पिपीलिकान्तानां भूतानां लोको भोग्य आत्मेत्यर्थः, सर्वेषां वर्णा­श्र­मा­दि­वि­हितैः कर्म­भि­रु­प­का­रि­त्वात् । कैः पुनः कर्म­वि­शे­षै­रु­प­कु­र्व­न्केषां भूतविशेषाणां लोकः इत्युच्यते — स गृही यज्जुहोति यद्यजतेयागो देवतामुद्दिश्य स्वत्व­प­रि­त्यागः, स एव आसेचनाधिको होमः — तेन होमयागलक्षणेन कर्मणा अव­श्य­क­र्त­व्य­त्वेन देवानां पशु­व­त्प­र­त­न्त्र­त्वेन प्रतिबद्ध इति लोकः ; अथ यदनुब्रूते स्वाध्यायमधीते अहरहः तेन ऋषीणां लोकः ; अथ यत्पितृभ्यो निपृणाति प्रयच्छति पिण्डोदकादि, यच्च प्रजामिच्छते प्रजार्थमुद्यमं करोति — इच्छा च उत्प­त्त्यु­प­ल­क्ष­णार्था — प्रजां चोत्पा­द­य­ती­त्यर्थः, तेन कर्मणा अव­श्य­क­र्त­व्य­त्वेन पितृणां लोकः पितॄणां भोग्यत्वेन परतन्त्रो लोकः ; अथ यन्म­नु­ष्या­न्वा­स­यते भूम्यु­द­का­दि­दा­नेन गृहे, यच्च तेभ्यो वस­द्भ्योऽ­व­सद्भ्यो वा अर्थिभ्यः अशनं ददाति, तेन मनुष्याणाम् ; अथ यत्प­शु­भ्य­स्तृ­णो­दकं विन्दति लम्भयति, तेन पशूनाम् ; यदस्य गृहेषु श्वापदा वयांसि च पिपीलिकाभिः सह कण­ब­लि­भा­ण्ड­क्षा­ल­ना­द्यु­प­जी­वन्ति, तेन तेषां लोकः । यस्मादयमेतानि कर्माणि कुर्वन्नुपकरोति देवादिभ्यः, तस्मात् , यथा ह वै लोके स्वाय लोकाय स्वस्मै देहाय अरिष्ठिम् अविनाशं स्वत्व­भा­वा­प्र­च्यु­तिम् इच्छेत् स्वत्व­भा­व­प्र­च्यु­ति­भ­या­त्पो­ष­ण­र­क्ष­णा­दिभिः सर्वतः परिपालयेत् ; एवं ह, एवंविदे — सर्व­भू­त­भो­ग्योऽ­हम् अनेन प्रकारेण मया अव­श्य­मृ­णि­व­त्प्र­ति­क­र्त­व्यम् — इत्येवमात्मानं परिकल्पितवते, सर्वाणि भूतानि देवादीनि यथोक्तानि, अरिष्ठिमविनाशम् इच्छन्ति स्वत्वा­प्र­च्युत्यै सर्वतः संरक्षन्ति कुटुम्बिन इव पशून् — ‘तस्मादेषां तन्न प्रियम्’(बृ. उ. १ । ४ । १०) इत्युक्तम् । तद्वा एतत् तदेतत् यथोक्तानां कर्म­णा­मृ­ण­व­द­व­श्य­क­र्त­व्यत्वं पञ्च­म­हा­य­ज्ञ­प्र­क­रणे विदितं कर्तव्यतया मीमांसितं विचारितं च अवदानप्रकरणे ॥

आत्मैवेदमग्र आसीत् । ब्रह्म विद्वांश्चेत् तस्मा­त्प­शु­भा­वा­त्क­र्त­व्य­ता­ब­न्ध­न­रू­पा­त्प्र­ति­मु­च्यते, केनायं कारितः कर्म­ब­न्ध­ना­धि­कारे अवश इव प्रवर्तते, न पुन­स्त­द्वि­मो­क्ष­णो­पाये विद्याधिकार इति । ननूक्तं देवा रक्षन्तीति ; बाढम् — कर्मा­धि­का­र­स्व­गो­च­रा­रू­ढा­नेव तेऽपि रक्षन्ति, अन्यथा अकृ­ता­भ्या­ग­म­कृ­त­ना­श­प्र­स­ङ्गात् , न तु सामान्यं पुरुषमात्रं विशि­ष्टा­धि­का­रा­ना­रू­ढम् ; तस्माद्भवितव्यं तेन, येन प्रेरितोऽवश एव बहिर्मुखो भवति स्वस्माल्लोकात् । नन्वविद्यया सा ; अविद्वान्हि बहिर्मुखीभूतः प्रवर्तते — सापि नैव प्रवर्तिका ; वस्तु­स्व­रू­पा­व­र­णा­त्मिका हि सा ; प्रवर्तकबीजत्वं तु प्रतिपद्यते अन्धत्वमिव गर्ता­दि­प­त­न­प्र­वृ­त्ति­हेतुः । एतं तर्ह्युच्यतां किं तत् , यत्प्र­वृ­त्ति­हे­तु­रिति ; तदिहाभिधीयते — एषणा कामः सः, स्वाभा­वि­क्या­म­वि­द्यायां वर्तमाना बालाः पराचः कामाननुयन्तीति काठकश्रुतौ, स्मृतौ च — ‘काम एष क्रोध एषः’(भ. गी. ३ । ३७) इत्यादि, मानवे च — सर्वा प्रवृत्तिः कामहेतुक्येवेति । स एषोऽर्थः सविस्तरः प्रदर्श्यत इह आ अध्या­य­प­रि­स­माप्तेः ॥

आत्मैवेदमग्र आसीदेक एव सोऽकामयत जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वी­ये­त्ये­ता­वान्वै कामो नेच्छंश्चनातो भूयो विन्दे­त्त­स्मा­द­प्ये­त­र्ह्ये­काकी कामयते जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति स याव­द­प्ये­ते­षा­मे­कैकं न प्राप्नो­त्य­कृत्स्न एव तावन्मन्यते तस्यो कृत्स्नता मन एवास्यात्मा वाग्जाया प्राणः प्रजा चक्षुर्मानुषं वित्तं चक्षुषा हि तद्विन्दते श्रोत्रं देवं श्रोत्रेण हि तच्छृ­णो­त्या­त्मै­वास्य कर्मात्मना हि कर्म करोति स एष पाङ्क्तो यज्ञः पाङ्क्तः पशुः पाङ्क्तः पुरुषः पाङ्क्तमिदं सर्वं यदिदं किञ्च तदिदं सर्वमाप्नोति य एवं वेद ॥ १७ ॥

१७

आत्मैवेदमग्र आसीत् । आत्मैव — स्वाभाविकः अविद्वान् कार्य­क­र­ण­स­ङ्घा­त­ल­क्षणो वर्णी अग्रे प्राग्दा­र­स­म्ब­न्धात् आत्मेत्यभिधीयते ; तस्मादात्मनः पृथग्भूतं काम्यमानं जायादिभेदरूपं नासीत् ; स एवैक आसीत् — जाया­द्ये­ष­णा­बी­ज­भू­ता­वि­द्या­वा­नेक एवासीत् । स्वाभाविक्या स्वात्मनि कर्त्रा­दि­का­र­क­क्रि­या­फ­ला­त्म­क­ता­ध्या­रो­प­ल­क्ष­णया अविद्यावासनया वासितः सः अकामयत कामितवान् । कथम् ? जाया कर्मा­धि­का­र­हे­तु­भूता मे मम कर्तुः स्यात् ; तया विना अहमनधिकृत एव कर्मणि ; अतः कर्मा­धि­का­र­स­म्प­त्तये भवेज्जाया ; अथाहं प्रजायेय प्रजा­रू­पे­णा­ह­मे­वो­त्प­द्येय ; अथ वित्तं मे स्यात् कर्मसाधनं गवादिलक्षणम् ; अथा­ह­म­भ्यु­द­य­निः­श्रे­य­स­सा­धनं कर्म कुर्वीय — येनाहमनृणी भूत्वा देवादीनां लोका­न्प्रा­प्नु­याम् , तत्कर्म कुर्वीय, काम्यानि च पुत्र­वि­त्त­स्व­र्गा­दि­सा­ध­नानि एतावान्वै कामः एता­व­द्वि­ष­य­प­रि­च्छिन्न इत्यर्थः ; एतावानेव हि कामयितव्यो विषयः - यदुत जाया­पु­त्र­वि­त्त­क­र्माणि साधनलक्षणैषणा, लोकाश्च त्रयः — मनुष्यलोकः पितृलोको देवलोक इति — फलभूताः साध­नै­ष­णा­या­श्चास्याः ; तदर्था हि जाया­पु­त्र­वि­त्त­क­र्म­ल­क्षणा साधनैषणा ; तस्मात् सा एकैव एषणा, या लोकैषणा ; सा एकैव सती एषणा साधनापेक्षेति द्विधा ; अतोऽवधारयिष्यति ‘उभे ह्येते एषणे एव’(बृ. उ. ३ । ५ । १) इति । फला­र्थ­त्वा­त्स­र्वा­र­म्भस्य लोकैषणा अर्थप्राप्ता उक्तैवेति — एतावान्वै एतावानेव काम इति अवध्रियते ; भोजनेऽभिहिते तृप्तिर्न हि पृथगभिधेया, तद­र्थ­त्वा­द्भो­ज­नस्य । ते एते एषणे साध्यसाधनलक्षणे कामः, येन प्रयुक्तः अविद्वान् अवश एव कोशकारवत् आत्मानं वेष्टयति — कर्ममार्ग एवात्मानं प्रणिदधत् बहिर्मुखीभूतः न स्वं लोकं प्रतिजानाति ; तथा च तैत्तिरीयके — ‘अग्निमुग्धो हैव धूमतान्तः स्वं लोकं न प्रतिजानाति’(तै. ब्रा. ३ । १० । ११) इति । कथं पुन­रे­ता­व­त्त्व­म­व­धा­र्यते कामानाम् , अनन्तत्वात् ; अनन्ता हि कामाः — इत्येतदाशङ्क्य हेतुमाह — यस्मात् — न - इच्छन् - चन — इच्छन्नपि, अतः अस्मा­त्फ­ल­सा­ध­न­ल­क्ष­णात् , भूयः अधिकतरम् , न विन्देत् न लभेत ; न हि लोके फल­सा­ध­न­व्य­ति­रिक्तं दृष्टमदृष्टं वा लब्धव्यमस्ति ; लब्धव्यविषयो हि कामः ; तस्य चैत­द्व्य­ति­रे­के­णा­भा­वा­द्युक्तं वक्तुम् — एतावान्वै काम इति । एतदुक्तं भवति — दृष्टा­र्थ­म­दृ­ष्टार्थं वा साध्य­सा­ध­न­ल­क्ष­णम् अवि­द्या­व­त्पु­रु­षा­धि­का­र­वि­ष­यम् एषणाद्वयं कामः ; अतोऽ­स्मा­द्वि­दुषा व्युत्था­त­व्य­मिति । यस्मात् एव­म­वि­द्वा­न­ना­त्म­कामी पूर्वः कामयामास, तथा पूर्वतरोऽपि ; एषा लोकस्थितिः ; प्रजा­प­ते­श्चै­व­मेष सर्ग आसीत् — सोऽबि­भे­द­वि­द्यया, ततः कामप्रयुक्तः एका­क्य­र­म­मा­णोऽ­र­त्यु­प­घा­ताय स्त्रियमैच्छत् , तां समभवत् , ततः सर्गोऽयमासीदिति हि उक्तम् — तस्मात् तत्सृष्टौ एतर्हि एतस्मिन्नपि काले एकाकी सन् प्राग्दा­र­क्रि­यातः कामयते — जाया मे स्यात् , अथ प्रजायेय, अथ वित्तं मे स्यात् , अथ कर्म कुर्वी­ये­त्यु­क्तार्थं वाक्यम् । सः — एवं कामयमानः सम्पादयंश्च जायादीन् यावत् सः एतेषां यथोक्तानां जायादीनाम् एकैकमपि न प्राप्नोति, अकृत्स्नः असम्पूर्णोऽहम् इत्येव तावत् आत्मानं मन्यते ; पारि­शे­ष्या­त्स­म­स्ता­ने­वै­ता­न्स­म्पा­द­यति यदा, तदा तस्य कृत्स्नता । यदा तु न शक्नोति कृत्स्नतां सम्पादयितुं तदा अस्य कृत्स्न­त्व­स­म्पा­द­नाय आह — तस्यो तस्य अकृ­त्स्न­त्वा­भि­मा­निनः कृत्स्नतेयम् एवं भवति ; कथम् ? अयं कार्यकरणसङ्घातः प्रविभज्यते ; तत्र मनोऽनुवृत्ति हि इतरत्सर्वं कार्यकरणजातमिति मनः प्रधानत्वात् आत्मेव आत्मा — यथा जायादीनां कुटु­म्ब­प­ति­रा­त्मेव तद­नु­का­रि­त्वा­ज्जा­या­दि­च­तु­ष्ट­यस्य, एवमिहापि मन आत्मा परिकल्प्यते कृत्स्नतायै । तथा वाग्जाया मनोऽ­नु­वृ­त्ति­त्व­सा­मा­न्या­द्वाचः । वागिति शब्द­श्चो­द­ना­दि­ल­क्षणो मनसा श्रोत्रद्वारेण गृह्यते अवधार्यते प्रयुज्यते चेति मनसो जायेव वाक् । ताभ्यां च वाङ्मनसाभ्यां जाया­प­ति­स्था­नी­याभ्यां प्रसूयते प्राणः कर्मार्थमिति प्राणः प्रजेव । तत्र प्राण­चे­ष्टा­दि­ल­क्षणं कर्म चक्षु­र्दृ­ष्ट­वि­त्त­साध्यं भवतीति चक्षुर्मानुषं वित्तम् ; तत् द्विविधं वित्तम् — मानुषम् इतरच्च ; अतो विशिनष्टि इत­र­वि­त्त­नि­वृ­त्त्यर्थं मानुषमिति ; गवादि हि मनु­ष्य­स­म्ब­न्धि­वित्तं चक्षुर्ग्राह्यं कर्मसाधनम् ; तस्मा­त्त­त्स्था­नी­यम् , तेन सम्बन्धात् चक्षुर्मानुषं वित्तम् ; चक्षुषा हि यस्मात् तन्मानुषं वित्तं विन्दते गवाद्युपलभत इत्यर्थः । किं पुन­रि­त­र­द्वि­त्तम् ? श्रोत्रं दैवम् — देव­वि­ष­य­त्वा­द्वि­ज्ञा­नस्य विज्ञानं दैवं वित्तम् ; तदिह श्रोत्रमेव सम्पत्तिविषयम् ; कस्मात् ? श्रोत्रेण हि यस्मात् तत् दैवं वित्तं विज्ञानं शृणोति ; अतः श्रोत्रा­धी­न­त्वा­द्वि­ज्ञा­नस्य श्रोत्रमेव तदिति । किं पुन­रे­तै­रा­त्मा­दि­वि­त्ता­न्तै­रिह निर्वर्त्यं कर्मेत्युच्यते — आत्मैव — आत्मेति शरीरमुच्यते ; कथं पुनरात्मा कर्मस्थानीयः ? अस्य कर्महेतुत्वात् । कथं कर्महेतुत्वम् ? आत्मना हि शरीरेण यतः कर्म करोति । तस्य अकृ­त्स्न­त्वा­भि­मा­निन एवं कृत्स्नता सम्पन्ना — यथा बाह्या जायादिलक्षणा एवम् । तस्मात्स एष पाङ्क्तः पञ्च­भि­र्नि­र्वृत्तः पाङ्क्तः यज्ञः दर्श­न­मा­त्र­नि­र्वृत्तः अकर्मिणोऽपि । कथं पुनरस्य पञ्च­त्व­स­म्प­त्ति­मा­त्रेण यज्ञत्वम् ? उच्यते — यस्मात् बाह्योऽपि यज्ञः पशुपुरुषसाध्यः, स च पशुः पुरुषश्च पाङ्क्तः एव, यथो­क्त­म­न­आ­दि­प­ञ्च­त्व­यो­गात् ; तदाह — पाङ्क्तः पशुः गवादिः, पाङ्क्तः पुरुषः — पशुत्वेऽपि अधिकृतत्वेनास्य विशेषः पुरुषस्येति पृथ­क्पु­रु­ष­ग्र­ह­णम् । किं बहुना पाङ्क्तमिदं सर्वं कर्मसाधनं फलं च, यदिदं किञ्च यत्किञ्चिदिदं सर्वम् । एवं पाङ्क्तं यज्ञमात्मानं यः सम्पादयति सः तदिदं सर्वं जगत् आत्मत्वेन आप्नोति — य एवं वेद ॥

इति प्रथमाध्यायस्य चतुर्थं ब्राह्मणम् ॥

पञ्चमं ब्राह्मणम्

यत्सप्तान्नानि मेधया तपसाजनयत्पिता । एकमस्य साधारणं द्वे देवानभाजयत् । त्रीण्या­त्म­नेऽ­कु­रुत पशुभ्य एकं प्रायच्छत् । तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । कस्मात्तानि न क्षीय­न्तेऽ­द्य­मा­नानि सर्वदा । यो वैतामक्षितिं वेद सोऽन्नमत्ति प्रतीकेन । स देवानपिगच्छति स ऊर्जमुपजीवतीति श्लोकाः ॥ १ ॥

यत्सप्तान्नानि मेधया । अविद्या प्रस्तुता ; तत्र अविद्वान् अन्यां देवतामुपास्ते अन्योऽ­सा­व­न्योऽ­ह­म­स्मीति ; सः वर्णा­श्र­मा­भि­मानः कर्मकर्तव्यतया नियतो जुहो­त्या­दि­क­र्मभिः कामप्रयुक्तो देवा­दी­ना­मु­प­कु­र्वन् सर्वेषां भूतानां लोक इत्युक्तम् । यथा च स्वक­र्म­भि­रे­कै­केन सर्वैर्भूतैरसौ लोको भोज्यत्वेन सृष्टः, एवमसावपि जुहो­त्या­दि­पा­ङ्क्त­क­र्मभिः सर्वाणि भूतानि सर्वं च जगत् आत्म­भो­ज्य­त्वे­ना­सृ­जत ; एवम् एकैकः स्वक­र्म­वि­द्या­नु­रू­प्येण सर्वस्य जगतो भोक्ता भोज्यं च, सर्वस्य सर्वः कर्ता कार्यं चेत्यर्थः ; एतदेव च विद्याप्रकरणे मधुविद्यायां वक्ष्यामः — सर्वं सर्वस्य कार्यं मध्विति आत्मै­क­त्व­वि­ज्ञा­ना­र्थम् । यदसौ जुहोत्यादिना पाङ्क्तेन काम्येन कर्मणा आत्मभोज्यत्वेन जगदसृजत विज्ञानेन च, तज्जगत्सर्वं सप्तधा प्रविभज्यमानं कार्यकारणत्वेन सप्ता­न्ना­न्यु­च्यन्ते, भोज्यत्वात् ; तेनासौ पिता तेषामन्नानाम् । एतेषामन्नानां सविनियोगानां सूत्रभूताः सङ्क्षेपतः प्रकाशकत्वात् इमे मन्त्राः ॥

यत्सप्तान्नानि मेधया तपसाजनयत्पितेति मेधया हि तपसाजनयत्पिता । एकमस्य साधा­र­ण­मि­ती­द­मे­वास्य तत्साधारणमन्नं यदिदमद्यते । स य एतदुपास्ते न स पाप्मनो व्यावर्तते मिश्रं ह्येतत् । द्वे देवानभाजयदिति हुतं च प्रहुतं च तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वत्यथो आहु­र्द­र्श­पू­र्ण­मा­सा­विति तस्मा­न्ने­ष्टि­या­जुकः स्यात् । पशुभ्य एकं प्रायच्छदिति तत्पयः । पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति तस्मात्कुमारं जातं घृतं वै वाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्त्यथ वत्सं जातमाहुरतृणाद इति । तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति न तथा विद्याद्यदहरेव जुहोति तदहः पुन­र्मृ­त्यु­म­प­ज­य­त्येवं विद्वान्सर्वं हि देवे­भ्योऽ­न्नाद्यं प्रयच्छति । कस्मात्तानि न क्षीय­न्तेऽ­द्य­मा­नानि सर्वदेति पुरुषो वा अक्षितिः स हीदमन्नं पुनः पुनर्जनयते । यो वैतामक्षितिं वेदेति पुरुषो वा अक्षितिः स हीदमन्नं धिया धिया जनयते कर्म­भि­र्य­द्धै­तन्न कुर्यात्क्षीयेत ह सोऽन्नमत्ति प्रतीकेनेति मुखं प्रतीकं मुखेनेत्येतत् । स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशंसा ॥ २ ॥

यत्सप्तान्नानि — यत् अजनयदिति क्रियाविशेषणम् ; मेधया प्रज्ञया विज्ञानेन तपसा च कर्मणा ; ज्ञानकर्मणी एव हि मेधा­त­पः­श­ब्द­वाच्ये, तयोः प्रकृतत्वात् ; नेतरे मेधातपसी, अप्रकरणात् ; पाङ्क्तं हि कर्म जायादिसाधनम् ; ‘य एवं वेद’ इति च अनन्तरमेव ज्ञानं प्रकृतम् ; तस्मान्न प्रसि­द्ध­यो­र्मे­धा­त­प­सो­रा­शङ्का कार्या ; अतः यानि सप्तान्नानि ज्ञानकर्मभ्यां जनितवान्पिता, तानि प्रकाशयिष्याम इति वाक्यशेषः । तत्र मन्त्राणामर्थः तिरो­हि­त­त्वा­त्प्रा­येण दुर्विज्ञेयो भवतीति तद­र्थ­व्या­ख्या­नाय ब्राह्मणं प्रवर्तते । तत्र यत्सप्तान्नानि मेधया तप­सा­ज­न­य­त्पि­ते­त्यस्य कोऽर्थः ? उच्यते इति — हि - शब्देनैव व्याचष्टे प्रसि­द्धा­र्था­व­द्यो­त­केन ; प्रसिद्धो ह्यस्य मन्त्रस्यार्थ इत्यर्थः ; यदजनयदिति च अनुवादस्वरूपेण मन्त्रेण प्रसिद्धार्थतैव प्रकाशिता ; अतः ब्राह्मणम् अविशङ्कयैवाह — मेधया हि तपसाजनयत्पितेति ॥

ननु कथं प्रसिद्धता अस्यार्थस्येति, उच्यते — जाया­दि­क­र्मा­न्तानां लोकफलसाधनानां पितृत्वं ताव­त्प्र­त्य­क्ष­मेव ; अभिहितं च — ‘जाया ते स्यात्’ इत्यादिना । तत्र च दैवं वित्तं विद्या कर्म पुत्रश्च फलभूतानां लोकानां साधनं स्रष्टृत्वं प्रति इत्यभिहितम् ; वक्ष्यमाणं च प्रसिद्धमेव । तस्माद्युक्तं वक्तुं मेधयेत्यादि । एषणा हि फलविषया प्रसिद्धैव च लोके ; एषणा च जायादीत्युक्तम् ‘एतावान्वै कामः’ इत्यनेन ; ब्रह्म­वि­द्या­वि­षये च सर्वै­क­त्वा­त्का­मा­नु­प­पत्तेः । एतेन अशा­स्त्री­य­प्र­ज्ञा­त­पोभ्यां स्वाभाविकाभ्यां जग­त्स्र­ष्टृ­त्व­मु­क्त­मेव भवति ; स्थावरान्तस्य च अनिष्टफलस्य कर्म­वि­ज्ञा­न­नि­मि­त्त­त्वात् । विवक्षितस्तु शास्त्रीय एव साध्यसाधनभावः, ब्रह्म­वि­द्या­वि­धि­त्सया तद्वैराग्यस्य विवक्षितत्वात् — सर्वो ह्ययं व्यक्ता­व्य­क्त­ल­क्षणः संसा­रोऽ­शु­द्धोऽ­नित्यः साध्यसाधनरूपो दुःखोऽ­वि­द्या­वि­षय इत्ये­त­स्मा­द्वि­र­क्तस्य ब्रह्मविद्या आरब्धव्येति ॥

तत्र अन्नानां विभागेन विनियोग उच्यते — एकमस्य साधारणमिति मन्त्रपदम् ; तस्य व्याख्यानम् — इदमेवास्य तत्सा­धा­र­ण­म­न्न­मि­त्यु­क्तम् ; भोक्तृसमुदायस्य ; किं तत् ? यदिदमद्यते भुज्यते सर्वैः प्राणि­भि­र­ह­न्य­हनि, तत् साधारणं सर्व­भो­क्त्र­र्थ­म­क­ल्प­य­त्पिता सृष्ट्वा अन्नम् । स य एतत्साधारणं सर्व­प्रा­ण­भृ­त्स्थि­ति­करं भुज्य­मा­न­म­न्न­मु­पास्ते — तत्परो भवतीत्यर्थः — उपासनं हि नाम तात्पर्यं दृष्टं लोके ‘गुरुमुपास्ते’ ‘राजानमुपास्ते’ इत्यादौ — तस्मात् शरी­र­स्थि­त्य­र्था­न्नो­प­भो­ग­प्र­धानः नादृ­ष्टा­र्थ­क­र्म­प्र­धान इत्यर्थः ; स एवंभूतो न पाप्मनोऽधर्मात् व्यावर्तते — न विमुच्यत इत्येतत् । तथा च मन्त्रवर्णः — ‘मोघमन्नं विन्दते’(ऋ. १० । ९७ । ६) इत्यादिः ; स्मृतिरपि —’नात्मार्थं पाचयेदन्नम्’ ‘अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः’(भ. गी. ३ । १३) ‘अन्नादे भ्रूणहा मार्ष्टि’(मनु. ८ । १३७) इत्यादिः । कस्मात्पुनः पाप्मनो न व्यावर्तते ? मिश्रं ह्येतत् — सर्वेषां हि स्वं तत् अप्रविभक्तं यत्प्रा­णि­भि­र्भु­ज्यते, सर्व­भो­ज्य­त्वा­देव यो मुखे प्रक्षि­प्य­मा­णोऽपि ग्रासः परस्य पीडाकरो दृश्यते — ममेदं स्यादिति हि सर्वेषां तत्राशा प्रतिबद्धा ; तस्मात् न परमपीडयित्वा ग्रसितुमपि शक्यते । ‘दुष्कृतं हि मनुष्याणाम्’(?) इत्या­दि­स्म­र­णाच्च ॥

गृहिणा वैश्व­दे­वा­ख्य­मन्नं यदहन्यहनि निरूप्यत इति केचित् । तन्न । सर्व­भो­क्तृ­सा­धा­र­णत्वं वैश्व­दे­वा­ख्य­स्या­न्नस्य न सर्व­प्रा­ण­भृ­द्भु­ज्य­मा­ना­न्न­व­त्प्र­त्य­क्षम् । नापि यदिदमद्यत इति तद्विषयं वचनमनुकूलम् । सर्व­प्रा­ण­भृ­द्भु­ज्य­मा­ना­न्ना­न्तः­पा­ति­त्वाच्च वैश्वदेवाख्यस्य युक्तं श्वचा­ण्डा­ला­द्या­द्यस्य अन्नस्य ग्रहणम् , वैश्व­दे­व­व्य­ति­रे­के­णापि श्वचा­ण्डा­ला­द्या­द्या­न्न­द­र्श­नात् , तत्र युक्तं यदिदमद्यत इति वचनम् । यदि हि तन्न गृह्येत साधारणशब्देन पित्रा असृ­ष्ट­त्वा­वि­नि­यु­क्तत्वे तस्य प्रसज्येयाताम् । इष्यते हि तत्सृष्टत्वं तद्वि­नि­यु­क्तत्वं च सर्व­स्या­न्न­जा­तस्य । न च वैश्वदेवाख्यं शास्त्रोक्तं कर्म कुर्वतः पाप्म­नोऽ­वि­नि­वृ­त्ति­र्युक्ता । न च तस्य प्रतिषेधोऽस्ति । न च मत्स्य­ब­न्ध­ना­दि­क­र्म­व­त्स्व­भा­व­जु­गु­प्सि­त­मे­तत् , शिष्ट­नि­र्व­र्त्य­त्वात् , अकरणे च प्रत्य­वा­य­श्र­व­णात् । इतरत्र च प्रत्य­वा­यो­प­पत्तेः, ‘अह­म­न्न­म­न्न­म­द­न्त­मद्मि’(तै. उ. ३ । १० । ६) इति मन्त्रवर्णात् ॥

द्वे देवानभाजयदिति मन्त्रपदम् ; ये द्वे अन्ने सृष्ट्वा देवानभाजयत् , के ते द्वे इत्युच्यते — हुतं च प्रहुतं च । हुतमित्यग्नौ हवनम् , प्रहुतं हुत्वा बलिहरणम् । यस्मात् द्वे एते अन्ने हुतप्रहुते देवा­न­भा­ज­य­त्पिता, तस्मात् एतर्ह्यपि गृहिणः काले देवेभ्यो जुह्वति देवेभ्य इद­म­न्न­म­स्मा­भि­र्दी­य­मा­न­मिति मन्वाना जुह्वति, प्रजुह्वति च हुत्वा बलिहरणं च कुर्वत इत्यर्थः । अथो अप्यन्य आहुः — द्वे अन्ने पित्रा देवेभ्यः प्रत्ते न हुतप्रहुते, किं तर्हि दर्श­पू­र्ण­मा­सा­विति । द्वित्व­श्र­व­णा­वि­शे­षात् अत्य­न्त­प्र­सि­द्ध­त्वाच्च हुतप्रहुते इति प्रथमः पक्षः । यद्यपि द्वित्वं हुतप्रहुतयोः सम्भवति, तथापि श्रौतयोरेव तु दर्श­पू­र्ण­मा­स­यो­र्दे­वा­न्नत्वं प्रसिद्धतरम् , मन्त्र­प्र­का­शि­त­त्वात् ; गुण­प्र­धा­न­प्राप्तौ च प्रधाने प्रथमतरा अवगतिः ; दर्श­पू­र्ण­मा­स­योश्च प्राधान्यं हुत­प्र­हु­ता­पे­क्षया ; तस्मात्तयोरेव ग्रहणं युक्तम् — द्वे देवानभाजयदिति । यस्मा­द्दे­वा­र्थ­मेते पित्रा प्रक्लृप्ते दर्श­पू­र्ण­मा­साख्ये अन्ने, तस्मात् तयो­र्दे­वा­र्थ­त्वा­वि­घा­ताय नेष्टियाजुकः इष्टियजनशीलः ; इष्टिशब्देन किल काम्या इष्टयः ; शातपथी इयं प्रसिद्धिः ; ताच्छी­ल्य­प्र­त्य­य­प्र­यो­गा­त्का­म्ये­ष्टि­य­ज­न­प्र­धानो न स्यादित्यर्थः ॥

पशुभ्य एकं प्रायच्छदिति — यत्पशुभ्य एकं प्रायच्छत्पिता, किं पुनस्तदन्नम् ? तत्पयः । कथं पुनरवगम्यते पशवोऽस्यान्नस्य स्वामिन इत्यत आह — पयो हि अग्रे प्रथमं यस्मात् मनुष्याश्च पशवश्च पय एवोपजीवन्तीति ; उचितं हि तेषां तदन्नम् , अन्यथा कथं तदेवाग्रे नियमेनोपजीवेयुः । कथमग्रे तदेवोपजीवन्तीति उच्यते — मनुष्याश्च पशवश्च यस्मात् तेनैवान्नेन वर्तन्ते अद्यत्वेऽपि, यथा पित्रा आदौ विनियोगः कृतः तथा ; तस्मात् कुमारं बालं जातं घृतं वा त्रैवर्णिका जातकर्मणि जातरूपसंयुक्तं प्रतिलेहयन्ति प्राशयन्ति ; स्तनं वा अनुधापयन्ति पश्चात् पाययन्ति यथासम्भवम् अन्येषाम् ; स्तनमेवाग्रे धापयन्ति मनु­ष्ये­भ्योऽ­न्येषां पशूनाम् । अथ वत्सं जातमाहुः कियत्प्रमाणो वत्स इत्येवं पृष्टाः सन्तः — अतृणाद इति — नाद्यापि तृणमत्ति, अतीव बालः पयसैवाद्यापि वर्तत इत्यर्थः । यच्च अग्रे जातकर्मादौ घृतमुपजीवन्ति, यच्च इतरे पय एव, तत् सर्वथापि पय एवोपजीवन्ति ; घृतस्यापि पयो­वि­का­र­त्वा­त्प­य­स्त्व­मेव । कस्मात्पुनः सप्तमं सत् पश्वन्नं चतुर्थत्वेन व्याख्यायते ? कर्मसाधनत्वात् ; कर्म हि पयःसाधनाश्रयम् अग्निहोत्रादि ; तच्च कर्म साधनं वित्तसाध्यं वक्ष्य­मा­ण­स्या­न्न­त्र­यस्य साध्यस्य, यथा दर्शपूर्णमासौ पूर्वोक्तावन्ने ; अतः कर्मपक्षत्वात् कर्मणा सह पिण्डी­कृ­त्यो­प­देशः ; साध­न­त्वा­वि­शे­षात् अर्थसम्बन्धात् आन­न्त­र्य­म­का­र­ण­मिति च ; व्याख्याने प्रति­प­त्ति­सौ­क­र्याच्च — सुखं हि नैरन्तर्येण व्याख्यातुं शक्यन्तेऽन्नानि व्याख्यातानि च सुखं प्रतीयन्ते । तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेत्यस्य कोऽर्थ इत्युच्यते — तस्मिन् पश्वन्ने पयसि, सर्वम् अध्या­त्मा­धि­भू­ता­धि­दै­व­ल­क्षणं कृत्स्नं जगत् प्रतिष्ठितम् — यच्च प्राणिति प्राणचेष्टावत् , यच्च न स्थावरं शैलादि । तत्र हि - शब्देनैव प्रसि­द्धा­व­द्यो­त­केन व्याख्यातम् । कथं पयोद्रव्यस्य सर्व­प्र­ति­ष्ठा­त्वम् ? कारणत्वोपपत्तेः ; कारणत्वं च अग्नि­हो­त्रा­दि­क­र्म­स­म­वा­यि­त्वम् ; अग्नि­हो­त्रा­द्या­हु­ति­वि­प­रि­णा­मा­त्मकं च जगत्कृत्स्नमिति श्रुति­स्मृ­ति­वादाः शतशो व्यवस्थिताः ; अतो युक्तमेव हि - शब्देन व्याख्यानम् । यत्त­द्ब्रा­ह्म­णा­न्त­रे­ष्वि­म­द­माहुः — संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति ; संवत्सरेण किल त्रीणि षष्टि­श­ता­न्या­हु­तीनां सप्त च शतानि विंशतिश्चेति याजु­ष्म­ती­रि­ष्टका अभिसम्पद्यमानाः संवत्सरस्य च अहोरात्राणि, संवत्सरमग्निं प्रजा­प­ति­मा­प्नु­वन्ति ; एवं कृत्वा संवत्सरं जुह्वत् अपजयति पुनर्मृत्युम् - इतः प्रेत्य देवेषु सम्भूतः पुनर्न म्रियत इत्यर्थः — इत्येवं ब्राह्मणवादा आहुः । न तथा विद्यात् न तथा द्रष्टव्यम् ; यदहरेव जुहोति तदहः पुन­र्मृ­त्यु­म­प­ज­यति न संव­त्स­रा­भ्या­स­म­पे­क्षते ; एवं विद्वान्सन् — यदुक्तम् , पयसि हीदं सर्वं प्रतिष्ठितं पय­आ­हु­ति­वि­प­रि­णा­मा­त्म­क­त्वा­त्स­र्व­स्येति, तत् — एकेनैवाह्ना जगदात्मत्वं प्रतिपद्यते ; तदुच्यते — अपजयति पुनर्मृत्युं पुनर्मरणम् , सकृन्मृत्वा विद्वान् शरीरेण वियुज्य सर्वात्मा भवति न पुनर्मरणाय परिच्छिन्नं शरीरं गृह्णातीत्यर्थः । कः पुनर्हेतुः, सर्वात्माप्त्या मृत्युमपजयतीति ? उच्यते — सर्वं समस्तं हि यस्मात् देवेभ्यः सर्वेभ्यः अन्नाद्यम् अन्नमेव तदाद्यं च साय­म्प्रा­त­रा­हु­ति­प्र­क्षे­पेण प्रयच्छति । तद्युक्तम् — सर्व­मा­हु­ति­म­य­मा­त्मानं कृत्वा सर्व­दे­वा­न्न­रू­पेण सर्वैः देवैः एकात्मभावं गत्वा सर्वदेवमयो भूत्वा पुनर्न म्रियत इति । अथैतदप्युक्तं ब्राह्मणेन — ‘ब्रह्म वै स्वयम्भु तपोऽतप्यत, तदैक्षत न वै तप­स्या­न­न्त्य­मस्ति हन्ताहं भूतेष्वात्मानं जुहवानि भूतानि चात्मनीति, तत्सर्वेषु भूतेष्वात्मानं हुत्वा भूतानि चात्मनि सर्वेषां भूतानां श्रैष्ठ्यं स्वारा­ज्य­मा­धि­पत्यं पर्येत्’(शत. ब्रा. १३ । ७ । १ । १) इति ॥

कस्मात्तानि न क्षीय­न्तेऽ­द्य­मा­नानि सर्वदेति । यदा पित्रा अन्नानि सृष्ट्वा सप्त पृथ­क्पृ­थ­ग्भो­क्तृभ्यः प्रत्तानि, तदा प्रभृत्येव तैर्भो­क्तृ­भि­र­द्य­मा­नानि — तन्नि­मि­त्त­त्वा­त्तेषां स्थितेः — सर्वदा नैरन्तर्येण ; कृत­क्ष­यो­प­प­त्तेश्च युक्तस्तेषां क्षयः ; न च तानि क्षीयमाणानि, जग­तोऽ­वि­भ्र­ष्ट­रू­पे­णै­वा­व­स्था­न­द­र्श­नात् ; भवितव्यं च अक्षयकारणेन ; तस्मात् कस्मा­त्पु­न­स्तानि न क्षीयन्त इति प्रश्नः । तस्येदं प्रतिवचनम् — पुरुषो वा अक्षितिः । यथा असौ पूर्वमन्नानां स्रष्टासीत्पिता मेधया जायादिसम्बद्धेन च पाङ्क्तकर्मणा भोक्ता च तथा येभ्यो दत्तान्यन्नानि तेऽपि तेषामन्नानां भोक्तारोऽपि सन्तः पितर एव — मेधया तपसा च यतो जनयन्ति तान्यन्नानि । तदेतदभिधीयते पुरुषो वै योऽन्नानां भोक्ता सः अक्षितिः अक्षयहेतुः । कथ­म­स्या­क्षि­ति­त्व­मि­त्यु­च्यते — सः हि यस्मात् इदं भुज्यमानं सप्तविधं कार्यकरणलक्षणं क्रियाफलात्मकं पुनः पुनः भूयो भूयः जनयते उत्पादयति, धिया धिया तत्त­त्का­ल­भा­विन्या तया तया प्रज्ञया, कर्मभिश्च वाङ्म­नः­का­य­चे­ष्टितैः ; यत् यदि ह यद्ये­त­त्स­प्त­वि­ध­म­न्न­मुक्तं क्षणमात्रमपि न कुर्या­त्प्र­ज्ञया कर्मभिश्च, ततो विच्छिद्येत भुज्य­मा­न­त्वा­त्सा­त­त्येन क्षीयेत ह । तस्मात् यथैवायं पुरुषो भोक्ता अन्नानां नैरन्तर्येण यथाप्रज्ञं यथाकर्म च करोत्यपि ; तस्मात् पुरुषोऽक्षितिः, सातत्येन कर्तृत्वात् ; तस्मात् भुज्य­मा­ना­न्य­प्य­न्नानि न क्षीयन्त इत्यर्थः । अतः प्रज्ञा­क्रि­या­ल­क्ष­ण­प्र­ब­न्धा­रूढः सर्वो लोकः साध्यसाधनलक्षणः क्रियाफलात्मकः संह­ता­ने­क­प्रा­णि­क­र्म­वा­स­ना­स­न्ता­ना­व­ष्ट­ब्ध­त्वात् क्षणिकः अशुद्धः असारः नदी­स्रो­तः­प्र­दी­प­स­न्ता­न­कल्पः कद­ली­स्त­म्भ­व­द­सारः फेन­मा­या­म­री­च्य­म्भः­स्व­प्ना­दि­समः तदा­त्म­ग­त­दृ­ष्टी­ना­म­वि­की­र्य­माणो नित्यः सारवानिव लक्ष्यते ; तदे­त­द्वै­रा­ग्या­र्थ­मु­च्यते — धिया धिया जनयते कर्म­भि­र्य­द्धै­तन्न कुर्यात्क्षीयेत हेति — विरक्तानां ह्यस्मात् ब्रह्मविद्या आरब्धव्या चतु­र्थ­प्र­मु­खे­नेति । यो वैतामक्षितिं वेदेति । वक्ष्यमाणान्यपि त्रीण्यन्नानि अस्मिन्नवसरे व्याख्या­ता­न्ये­वेति कृत्वा तेषां याथा­त्म्य­वि­ज्ञा­न­फ­ल­मु­प­सं­ह्रि­यते — यो वा एतामक्षितिम् अक्षयहेतुं यथोक्तं वेद - पुरुषो वा अक्षितिः स हीदमन्न धिया धिया जनयते कर्म­भि­र्य­द्धै­तन्न कुर्यात्क्षीयेत हेति — सोऽन्नमत्ति प्रती­के­ने­त्य­स्यार्थ उच्यते — मुखं मुख्यत्वं प्राधा­न्य­मि­त्ये­तत् , प्राधान्येनैव, अन्नानां पितुः पुरु­ष­स्या­क्षि­तित्वं यो वेद, सोऽन्नमत्ति, नान्नं प्रति गुणभूतः सन् , यथा अज्ञः न तथा विद्वान् अन्ना­ना­मा­त्म­भूतः — भोक्तैव भवति न भोज्यतामापद्यते । स देवानपिगच्छति स ऊर्जमुपजीवति — देवानपिगच्छति देवात्मभावं प्रतिपद्यते, ऊर्जममृतं च उपजीवतीति यदुक्तम् , सा प्रशंसा ; नापू­र्वा­र्थोऽ­न्योऽस्ति ॥

त्रीण्या­त्म­नेऽ­कु­रु­तेति मनो वाचं प्राणं तान्या­त्म­नेऽ­कु­रु­ता­न्य­त्र­मना अभूवं नाद­र्श­म­न्य­त्र­मना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति । कामः सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृति­र­धृ­ति­र्ह्री­र्धी­र्भी­रि­त्ये­त­त्सर्वं मन एव तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति यः कश्च शब्दो वागेव सा । एषा ह्यन्तमायत्तैषा हि न प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण एवैतन्मयो वा अयमात्मा वाङ्मयो मनोमयः प्राणमयः ॥ ३ ॥

पाङ्क्तस्य कर्मणः फलभूतानि यानि त्रीण्य­न्ना­न्यु­प­क्षि­प्तानि तानि कार्यत्वात् विस्ती­र्ण­वि­ष­य­त्वाच्च पूर्वे­भ्योऽ­न्नेभ्यः पृथगुत्कृष्टानि ; तेषां व्याख्यानार्थ उत्तरो ग्रन्थ आ ब्राह्म­ण­प­रि­स­माप्तेः । त्रीण्या­त्म­नेऽ­कु­रु­तेति कोऽस्यार्थ इत्युच्यते — मनः वाक् प्राणः, एतानि त्रीण्यन्नानि ; तानि मनः वाचं प्राणं च आत्मने आत्मार्थम् अकुरुत कृतवान् सृष्ट्वा आदौ पिता । तेषां मनसोऽस्तित्वं स्वरूपं च प्रति संशय इत्यत आह — अस्ति तावन्मनः श्रोत्रा­दि­बा­ह्य­क­र­ण­व्य­ति­रि­क्तम् ; यत एवं प्रसिद्धम् — बाह्य­क­र­ण­वि­ष­या­त्म­स­म्बन्धे सत्यपि अभिमुखीभूतं विषयं न गृह्णाति, किं दृष्टवानसीदं रूपमित्युक्तो वदति — अन्यत्र मे गतं मन आसीत् सोऽहमन्यत्रमना आसं नादर्शम् , तथेदं श्रुतवानसि मदीयं वच इत्युक्तः अन्यत्रमना अभूवम् नाश्रौषं न श्रुतवानस्मीति । तस्मात् यस्यासन्निधौ रूपा­दि­ग्र­ह­ण­स­म­र्थ­स्यापि सतः चक्षुरादेः स्वस्व­वि­ष­य­स­म्बन्धे रूप­श­ब्दा­दि­ज्ञानं न भवति, यस्य च भावे भवति, तत् अन्यत् अस्ति मनो नामान्तःकरणं सर्व­क­र­ण­वि­ष­य­यो­गी­त्य­व­ग­म्यते । तस्मात्सर्वो हि लोको मनसा ह्येव पश्यति मनसा शृणोति, तद्व्यग्रत्वे दर्शनाद्यभावात् ॥

अस्तित्वे सिद्धे मनसः स्वरू­पा­र्थ­मि­द­मु­च्यते — कामः स्त्रीव्य­ति­क­रा­भि­ला­षादिः, सङ्कल्पः प्रत्यु­प­स्थि­त­वि­ष­य­वि­क­ल्पनं शुक्ल­नी­ला­दि­भे­देन, विचिकित्सा संशयज्ञानम् , श्रद्धा अदृष्टार्थेषु कर्मसु आस्तिक्यबुद्धिः देवतादिषु च, अश्रद्धा तद्विपरीता बुद्धिः, धृतिः धारणं देहाद्यवसाने उत्तम्भनम् , अधृतिः तद्विपर्ययः, ह्रीः लज्जा, धीः प्रज्ञा, भीः भयम् इत्येतदेवमादिकं सर्वं मन एव ; मनसोऽन्तःकरणस्य रूपाण्येतानि । मनोऽस्तित्वं प्रत्यन्यच्च कारणमुच्यते — तस्मान्मनो नामा­स्त्य­न्तः­क­र­णम् , यस्माच्चक्षुषो ह्यगोचरे पृष्ठ­तोऽ­प्यु­प­स्पृष्टः केनचित् हस्तस्यायं स्पर्शः जानोरयमिति विवेकेन प्रतिपद्यते ; यदि विवेककृत् मनो नाम नास्ति तर्हि त्वङ्मात्रेण कुतो विवे­क­प्र­ति­पत्तिः स्यात् ; यत्तत् विवे­क­प्र­ति­प­त्ति­का­रणं तन्मनः ॥

अस्ति तावन्मनः, स्वरूपं च तस्याधिगतम् । त्रीण्यन्नानीह फलभूतानि कर्मणां मनो­वा­क्प्रा­णा­ख्यानि अध्या­त्म­म­धि­भू­त­म­धि­दैवं च व्याचि­ख्या­सि­तानि । तत्र आध्यात्मिकानां वाङ्म­नः­प्रा­णानां मनो व्याख्यातम् । अथेदानीं वाग्व­क्त­व्ये­त्या­रम्भः — यः कश्चित् लोके शब्दो ध्वनिः ताल्वा­दि­व्यङ्ग्यः प्राणिभिः वर्णादिलक्षणः इतरो वा वादि­त्र­मे­घा­दि­नि­मित्तः सर्वो ध्वनिः वागेव सा । इदं तावद्वाचः स्वरूपमुक्तम् । अथ तस्याः कार्यमुच्यते — एषा वाक् हि यस्मात् अन्तम् अभिधेयावसानम् अभिधेयनिर्णयम् आयत्ता अनुगता । एषा पुनः स्वयं नाभिधेयवत् प्रकाश्या अभि­धे­य­प्र­का­शि­कैव प्रका­शा­त्म­क­त्वात् प्रदीपादिवत् ; न हि प्रदी­पा­दि­प्र­काशः प्रकाशान्तरेण प्रकाश्यते ; तद्वत् वाक् प्रकाशिकैव स्वयं न प्रकाश्या — इति अनवस्थां श्रुतिः परिहरति — एषा हि न प्रकाश्या, प्रकाशकत्वमेव वाचः कार्यमित्यर्थः ॥

अथ प्राण उच्यते — प्राणः मुख­ना­सि­का­स­ञ्चार्या हृदयवृत्तिः प्रण­य­ना­त्प्राणः, अप­न­य­ना­न्मू­त्र­पु­री­षा­दे­र­पानः अधोवृत्तिः आ नाभिस्थानः, व्यानः व्यायमनकर्मा व्यानः प्राणापानयोः सन्धिः वीर्य­व­त्क­र्म­हे­तुश्च, उदानः उत्क­र्षो­र्ध्व­ग­म­ना­दि­हेतुः आपा­द­त­ल­म­स्त­क­स्थान ऊर्ध्ववृत्तिः, समान समं नयनाद्भुक्तस्य पीतस्य च कोष्ठ­स्था­नोऽ­न्न­पक्ता, अन इत्येषां वृत्तिविशेषाणां सामान्यभूता सामा­न्य­दे­ह­चे­ष्टा­भि­स­म्ब­न्धिनी वृत्तिः — एवं यथोक्तं प्राणा­दि­वृ­त्ति­जा­त­मे­त­त्सर्वं प्राण एव । प्राण इति वृत्ति­मा­ना­ध्या­त्मिकः अन उक्तः ; कर्म च अस्य वृत्ति­भे­द­प्र­द­र्श­ने­नैव व्याख्यातम् ; व्याख्या­ता­न्या­ध्या­त्मि­कानि मनो­वा­क्प्रा­णा­ख्यानि अन्नानि ; एतन्मय एतद्विकारः प्राजा­प­त्यै­रे­तै­र्वा­ङ्म­नः­प्रा­णै­रा­रब्धः । कोऽसावयं कार्यकरणसङ्घातः ? आत्मा पिण्डः आत्म­स्व­रू­प­त्वे­ना­भि­म­तोऽ­वि­वे­किभिः — अविशेषेणैतन्मय इत्युक्तस्य विशेषेण वाङ्मयो मनोमयः प्राणमय इति स्फुटीकरणम् ॥

तेषामेव प्राजा­प­त्या­ना­म­न्ना­ना­मा­धि­भौ­तिको विस्ता­रोऽ­भि­धी­यते —

त्रयो लोका एत एव वागेवायं लोको मनोऽ­न्त­रि­क्ष­लोकः प्राणोऽसौ लोकः ॥ ४ ॥

त्रयो लोकाः भूर्भु­वः­स्व­रि­त्याख्याः एत एव वाङ्मनःप्राणाः ; तत्र विशेषः — वागेवायं लोकः, मनोऽ­न्त­रि­क्ष­लोकः, प्राणोऽसौ लोकः ॥

त्रयो वेदा एत एव वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः ॥ ५ ॥

देवाः पितरो मनुष्या एत एव वागेव देवा मनः पितरः प्राणो मनुष्याः ॥ ६ ॥

पिता माता प्रजैत एव मन एव पिता वाङ्माता प्राणः प्रजा ॥ ७ ॥

तथा त्रयो वेदा इत्यादीनि वाक्यानि ऋज्वर्थानि ॥

विज्ञातं विजि­ज्ञा­स्य­म­वि­ज्ञा­त­मेत एव यत्किञ्च विज्ञातं वाचस्तद्रूपं वाग्घि विज्ञाता वागेनं तद्भूत्वावति ॥ ८ ॥

विज्ञातं विजिज्ञास्यम् अविज्ञातम् एत एव ; तत्र विशेषः यत्किञ्च विज्ञातं विस्पष्टं ज्ञातं वाचस्तद्रूपम् ; तत्र स्वयमेव हेतुमाह — वाक् हि विज्ञाता, प्रका­शा­त्म­क­त्वात् ; कथमविज्ञाता भवेत् या अन्यानपि विज्ञापयति ; ‘वाचैव सम्राड्बन्धुः प्रज्ञायते’(बृ. उ. ४ । १ । २) इति हि वक्ष्यति । वाग्विशेषविद इदं फलमुच्यते — वागेव एनं यथो­क्त­वा­ग्वि­भू­ति­विदं तत् विज्ञातं भूत्वा अवति पालयति, विज्ञा­त­रू­पे­णै­वा­स्यान्नं भोज्यतां प्रतिपद्यत इत्यर्थः ॥

यत्किञ्च विजिज्ञास्यं मनसस्तद्रूपं मनो हि विजिज्ञास्यं मन एवं तद्भूत्वावति ॥ ९ ॥

तथा यत्किञ्च विजिज्ञास्यम् , विस्पष्टं ज्ञातुमिष्टं विजिज्ञास्यम् , तत्सर्वं मनसो रूपम् ; मनः हि यस्मात् सन्दि­ह्य­मा­ना­का­र­त्वा­द्वि­जि­ज्ञा­स्यम् । पूर्व­व­न्म­नो­वि­भू­ति­विदः फलम् — मन एनं तत् विजिज्ञास्यं भूत्वा अवति विजि­ज्ञा­स्य­स्व­रू­पे­णै­वा­न्न­त्व­मा­प­द्यते ॥

यत्कि­ञ्चा­वि­ज्ञातं प्राणस्य तद्रूपं प्राणो ह्यविज्ञातः प्राण एनं तद्भूत्वावति ॥ १० ॥

१०

तथा यत्किञ्च अविज्ञातं विज्ञानागोचरं न च सन्दिह्यमानम् , प्राणस्य तद्रूपम् ; प्राणो ह्यविज्ञातः अविज्ञातरूपः हि यस्मात् प्राणः — अनिरुक्तश्रुतेः । विज्ञा­त­वि­जि­ज्ञा­स्या­वि­ज्ञा­त­भे­देन वाङ्म­नः­प्रा­ण­वि­भागे स्थिते त्रयो लोका इत्यादयो वाचनिका एव । सर्वत्र विज्ञा­ता­दि­रू­प­द­र्श­ना­द्व­च­ना­देव नियमः स्मर्तव्यः । प्राण एनं तद्भूत्वावति — अवि­ज्ञा­त­रू­पे­णै­वास्य प्राणोऽन्नं भवतीत्यर्थः । शिष्य­पु­त्रा­दिभिः सन्दि­ह्य­मा­ना­वि­ज्ञा­तो­प­कारा अप्या­चा­र्य­पि­त्रा­दयो दृश्यन्ते ; तथा मनःप्राणयोरपि सन्दि­ह्य­मा­ना­वि­ज्ञा­त­यो­र­न्न­त्वो­प­पत्तिः ॥

व्याख्यातो वाङ्म­नः­प्रा­णा­ना­मा­धि­भौ­तिको विस्तारः ; अथा­य­मा­धि­दै­वि­कार्थ आरम्भः —

तस्यै वाचः पृथिवी शरीरं ज्योती­रू­प­म­य­म­ग्नि­स्त­द्या­व­त्येव वाक्तावती पृथिवी तावानयमग्निः ॥ ११ ॥

११

तस्यै तस्याः वाचः प्रजा­प­ते­र­न्न­त्वेन प्रस्तुतायाः पृथिवी शरीरं बाह्य आधारः, ज्योतीरूपं प्रकाशात्मकं करणं पृथिव्या आधेयभूतम् अयं पार्थिवोऽग्निः । द्विरूपा हि प्रजापतेः वाक् कार्यं आधारः अप्रकाशः, करणं च आधेयं प्रकाशः तदुभयं पृथिव्यग्नी वागेव प्रजापतेः । तत् तत्र यावत्येव यावत्परिमाणैव अध्या­त्मा­धि­भू­त­भे­द­भिन्ना सती वाग्भवति, तत्र सर्वत्र आधारत्वेन पृथिवी व्यवस्थिता तावत्येव भवति कार्यभूता ; तावानयमग्निः आधेयः — करणरूपो ज्योतीरूपेण पृथि­वी­म­नु­प्र­वि­ष्ट­स्ता­वा­नेव भवति । समानमुत्तरम् ॥

अथैतस्य मनसो द्यौः शरीरं ज्योती­रू­प­म­सा­वा­दि­त्य­स्त­द्या­व­देव मनस्तावती द्यौस्ता­वा­न­सा­वा­दि­त्यस्तौ मिथुनं समैतां ततः प्राणोऽजायत स इन्द्रः स एषोऽसपत्नो द्वितीयो वै सपत्नो नास्य सपत्नो भवति य एवं वेद ॥ १२ ॥

१२

अथैतस्य प्राजा­प­त्या­न्नो­क्त­स्यैव मनसः द्यौः द्युलोकः शरीरं कार्यम् आधारः, ज्योतीरूपं करणम् आधेयः असावादित्यः । तत् तत्र याव­त्प­रि­मा­ण­मे­वा­ध्या­त्म­म­धि­भूतं वा मनः, तावती तावद्विस्तारा तावत्परिमाणा मनसो ज्योतीरूपस्य करणस्य आधारत्वेन व्यवस्थिता द्यौः ; तावानसावादित्यो ज्योतीरूपं करणमाधेयम् ; तावग्न्यादित्यौ वाङ्मनसे आधिदैविके मातापितरौ मिथुनं मैथुन्यम् इतरेतरसंसर्गं समैतां समगच्छेताम् — मनसा आदित्येन प्रसूतं पित्रा, वाचा अग्निना मात्रा प्रकाशितं कर्म करिष्यामीति — अन्तरा रोदस्योः । ततः तयोरेव सङ्गमनात् प्राणो वायुरजायत परिस्पन्दाय कर्मणे । यो जातः स इन्द्रः परमेश्वरः ; न केवलमिन्द्र एव, असपत्नः अविद्यमानः सपत्नो यस्य ; कः पुनः सपत्नो नाम ? द्वितीयो वै प्रति­प­क्ष­त्वे­नो­प­गतः स द्वितीयः सपत्न इत्युच्यते । तेन द्वितीयत्वेऽपि सति वाङ्मनसे न सपत्नत्वं भजेते ; प्राणं प्रति गुणभावोपगते एव हि ते अध्यात्ममिव । तत्र प्रास­ङ्गि­का­स­प­त्न­वि­ज्ञा­न­फ­ल­मि­दम् — नास्य विदुषः सपत्नः प्रतिपक्षो भवति, य एवं यथोक्तं प्राणम् असपत्नं वेद ॥

अथैतस्य प्राणस्यापः शरीरं ज्योतीरूपमसौ चन्द्र­स्त­द्या­वा­नेव प्राणस्तावत्य आपस्तावानसौ चन्द्रस्त एते सर्व एव समाः सर्वेऽनन्ताः स यो हैतानन्तवत उपा­स्तेऽ­न्त­वन्तं स लोकं जयत्यथ यो हैता­न­न­न्ता­नु­पा­स्तेऽ­नन्तं स लोकं जयति ॥ १३ ॥

१३

अथैतस्य प्रकृतस्य प्राजा­प­त्या­न्नस्य प्राणस्य, न प्रजोक्तस्य अन­न्त­र­नि­र्दि­ष्टस्य, आपः शरीरं कार्यं करणाधारः ; पूर्ववत् ज्योतीरूपमसौ चन्द्रः ; तत्र यावानेव प्राणः यावत्परिमाणः अध्या­त्मा­दि­भे­देषु, ताव­द्व्या­प्ति­मत्य आपः तावत्परिमाणाः ; तावानसौ चन्द्र अबाधेयः तास्व­प्स्व­नु­प्र­विष्टः करणभूतः अध्यात्ममधिभूतं च ताव­द्व्या­प्ति­मा­नेव । तान्येतानि पित्रा पाङ्क्तेन कर्मणा सृष्टानि त्रीण्यन्नानि वाङ्मनः प्राणाख्यानि ; अध्यात्ममधिभूतं च जगत्समस्तम् एतैर्व्याप्तम् ; नैते­भ्योऽ­न्य­द­ति­रिक्तं किञ्चिदस्ति कार्यात्मकं करणात्मकं वा । समस्तानि त्वेतानि प्रजापतिः त एते वाङ्मनःप्राणाः सर्व एव समाः तुल्याः व्याप्तिमन्तः याव­त्प्रा­णि­गो­चरं साध्या­त्मा­धि­भूतं व्याप्य व्यवस्थिताः ; अत एवानन्ता याव­त्सं­सा­र­भा­विनो हि ते । न हि कार्य­क­र­ण­प्र­त्या­ख्या­नेन संसारोऽवगम्यते ; कार्यकरणात्मका हि त इत्युक्तम् । स यः कश्चित् ह एतान् प्रजा­प­ते­रा­त्म­भू­तान् अन्तवतः परिच्छिन्नान् अध्यात्मरूपेण वा अधिभूतरूपेण वा उपास्ते, स च तदु­पा­स­ना­नु­रू­प­मेव फलम् अन्तवन्तं लोकं जयति, परिच्छिन्न एव जायते, नैतेषामात्मभूतो भवतीत्यर्थः । अथ पुनः यः ह एताननन्तान् सर्वात्मकान् सर्व­प्रा­ण्या­त्म­भू­तान् अपरिच्छिन्नान् उपास्ते, सोऽनन्तमेव लोकं जयति ॥

पिता पाङ्क्तेन कर्मणा सप्तान्नानि सृष्ट्वा त्रीण्य­न्ना­न्या­त्मा­र्थ­म­क­रो­दि­त्यु­क्तम् ; तान्येतानि पाङ्क्त­क­र्म­फ­ल­भू­तानि व्याख्यातानि ; तत्र कथं पुनः पाङ्क्तस्य कर्मणः फलमेतानीति उच्यते — यस्मात्तेष्वपि त्रिष्वन्नेषु पाङ्क्तता अवगम्यते, वित्तकर्मणोरपि तत्र सम्भवात् ; तत्र पृथिव्यग्नी माता, दिवादित्यौ पिता, योऽयमनयोरन्तरा प्राणः स प्रजेति व्याख्यातम् । तत्र वित्तकर्मणी सम्भावयितव्ये इत्यारम्भः —

स एष संवत्सरः प्रजापतिः षोडशकलस्तस्य रात्रय एव पञ्चदश कला ध्रुवैवास्य षोडशी कला स रात्रिभिरेवा च पूर्यतेऽप च क्षीयते सोऽमावास्यां रात्रिमेतया षोडश्या कलया सर्वमिदं प्राण­भृ­द­नु­प्र­विश्य ततः प्रातर्जायते तस्मादेतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै ॥ १४ ॥

१४

स एष संवत्सरः — योऽयं त्र्यन्नात्मा प्रजापतिः प्रकृतः, स एष संवत्सरात्मना विशेषतो निर्दिश्यते । षोडशकलः षोडश कला अवयवा अस्य सोऽयं षोडशकलः संवत्सरः संवत्सरात्मा कालरूपः । तस्य च कालात्मनः प्रजापतेः रात्रय एव अहोरात्राणि — तिथय इत्यर्थः — पञ्चदशा कलाः । ध्रुवैव नित्यैव व्यवस्थिता अस्य प्रजापतेः षोडशी षोडशानां पूरणी कला । रात्रिभिरेव तिथिभिः कलोक्ताभिः आपूर्यते च अपक्षीयते च प्रति­प­दा­द्या­भिर्हि चन्द्रमाः प्रजापतिः शुक्लपक्ष आपूर्यते कला­भि­रु­प­ची­य­मा­ना­भि­र्व­र्धते याव­त्स­म्पू­र्ण­म­ण्डलः पौर्णमास्याम् ; ताभि­रे­वा­प­ची­य­मा­नाभिः कलाभिरपक्षीयते कृष्णपक्षे यावद्ध्रुवैका कला व्यवस्थिता अमावास्यायाम् । स प्रजापतिः कालात्मा अमावास्याम् अमावास्यायाम् रात्रिं रात्रौ या व्यवस्थिता ध्रुवा कलोक्ता एतया षोडश्या कलया सर्वमिदं प्राणभृत् प्राणिजातम् अनुप्रविश्य — यदपः पिबति यच्चौषधीरश्नाति तत्सर्वमेव ओषध्यात्मना सर्वं व्याप्य — अमावास्यां रात्रिमवस्थाय ततोऽपरेद्युः प्रातर्जायते द्वितीयया कलया संयुक्तः । एवं पाङ्क्ता­त्म­कोऽसौ प्रजापतिः — दिवादित्यौ मनः पिता, पृथिव्यग्नी वाक् जाया माता, तयोश्च प्राणः प्रजा, चान्द्र­म­स्य­स्ति­थयः कला वित्तम् — उप­च­या­प­च­य­ध­र्मि­त्वात् वित्तवत् , तासां च कलानां कालावयवानां जग­त्प­रि­णा­म­हे­तुत्वं कर्म ; एवमेष कृत्स्नः प्रजापतिः — जाया मे स्यात् , अथ प्रजायेय, अथ वित्तं मे स्यात् , अथ कर्म कुर्वीय — इत्येषणानुरूप एव पाङ्क्तस्य कर्मणः फलभूतः संवृत्तः ; कारणानुविधायि हि कार्यमिति लोकेऽपि स्थितिः । यस्मादेष चन्द्र एतां रात्रिं सर्व­प्रा­णि­जा­त­म­नु­प्र­विष्टो ध्रुवया कलया वर्तते, तस्माद्धेतोः एताममावास्यां रात्रिं प्राणभृतः प्राणिनः प्राणं न विच्छिन्द्यात् — प्राणिनं न प्रमा­प­ये­दि­त्ये­तत् — अपि कृकलासस्य — कृकलासो हि पापात्मा स्वभावेनैव हिंस्यते प्राणिभिः दृष्टोऽप्यमङ्गल इति कृत्वा । ननु प्रतिषिद्धैव प्राणिहिंसा ‘अहिंसन् सर्व­भू­ता­न्य­न्यत्र तीर्थेभ्यः’ इति ; बाढं प्रतिषिद्धा, तथापि न अमावास्याया अन्यत्र प्रतिप्रसवार्थं वचनं हिंसायाः कृकलासविषये वा, किं तर्हि एतस्याः सोमदेवताया अपचित्यै पूजार्थम् ॥

यो वै स संवत्सरः प्रजापतिः षोडशकलोऽयमेव स योऽय­मे­वं­वि­त्पु­रु­ष­स्तस्य वित्तमेव पञ्चदश कला आत्मैवास्य षोडशी कला स वित्तेनैवा च पूर्यतेऽप च क्षीयते तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तं तस्माद्यद्यपि सर्वज्यानिं जीयत आत्मना चेज्जीवति प्रधि­ना­गा­दि­त्ये­वाहुः ॥ १५ ॥

१५

यो वै परोक्षाभिहितः संवत्सरः प्रजापतिः षोडशकलः, स नैव अत्यन्तं परोक्षो मन्तव्यः, यस्मादयमेव स प्रत्यक्ष उपलभ्यते ; कोऽसावयम् ? यो यथोक्तं त्र्यन्नात्मकं प्रजा­प­ति­मा­त्म­भूतं वेत्ति स एवंवित्पुरुषः ; केन सामान्येन प्रजापतिरिति तदुच्यते — तस्य एवंविदः पुरुषस्य गवादिवित्तमेव पञ्चदश कलाः, उप­च­या­प­च­य­ध­र्मि­त्वात् — वित्तसाध्यं च कर्म ; तस्य कृत्स्नतायै — आत्मैव पिण्ड एव अस्य विदुषः षोडशी कला ध्रुवस्थानीया ; स चन्द्रवत् वित्तेनैव आपूर्यते च अपक्षीयते च ; तदेतत् लोके प्रसिद्धम् ; तदेतत् नभ्यम् नाभ्यै हितं नभ्यम् नाभिं वा अर्हतीति — किं तत् ? यदयं योऽयम् आत्मा पिण्डः ; प्रधिः वित्तं परिवारस्थानीयं बाह्यम् — चक्र­स्ये­वा­र­ने­म्यादि । तस्मात् यद्यपि सर्वज्यानिं सर्वस्वापहरणं जीयते हीयते ग्लानिं प्राप्नोति, आत्मना चक्र­ना­भि­स्था­नी­येन चेत् यदि जीवति, प्रधिना बाह्येन परिवारेण अयम् अगात् क्षीणोऽयम् — यथा चक्र­म­र­ने­मि­वि­मु­क्तम् — एवमाहुः ; जीवं­श्चे­द­र­ने­मि­स्था­नी­येन वित्तेन पुनरुपचीयत इत्यभिप्रायः ॥

एवं पाङ्क्तेन दैव­वि­त्त­वि­द्या­सं­यु­क्तेन कर्मणा त्र्यन्नात्मकः प्रजा­प­ति­र्भ­व­तीति व्याख्यातम् ; अनन्तरं च जायादिवित्तं परि­वा­र­स्था­नी­य­मि­त्यु­क्तम् । तत्र पुत्र­क­र्मा­प­र­वि­द्यानां लोक­प्रा­प्ति­सा­ध­न­त्व­मात्रं सामान्येनावगतम् ; न पुत्रादीनां लोकप्राप्तिफलं प्रति विशे­ष­स­म्ब­न्ध­नि­यमः । सोऽयं पुत्रादीनां साधनानां साध्य­वि­शे­ष­स­म्बन्धो वक्तव्य इत्यु­त्त­र­क­ण्डिका प्रणीयते —

अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा कर्मणा पितृलोको विद्यया देवलोको देवलोको वै लोकानां श्रेष्ठ­स्त­स्मा­द्विद्यां प्रशंसन्ति ॥ १६ ॥

१६

अथेति वाक्यो­प­न्या­सार्थः । त्रयः — वावे­त्य­व­धा­र­णार्थः — त्रय एव शास्त्रो­क्त­सा­ध­नार्हा लोकाः, न न्यूना नाधिका वा ; के त इत्युच्यते — मनुष्यलोकः पितृलोको देवलोक इति । तेषां सोऽयं मनुष्यलोकः पुत्रेणैव साधनेन जय्यः जेतव्यः साध्यः — यथा च पुत्रेण जेत­व्य­स्त­थो­त्त­रत्र वक्ष्यामः — नान्येन कर्मणा, विद्यया वेति वाक्यशेषः । कर्मणा अग्नि­हो­त्रा­दि­ल­क्ष­णेन केवलेन पितृलोको जेतव्यः, न पुत्रेण नापि विद्यया । विद्यया देवलोकः, न पुत्रेण नापि कर्मणा । देवलोको वै लोकानां त्रयाणां श्रेष्ठः प्रशस्यतमः ; तस्मात् तत्साधनत्वात् विद्यां प्रशंसन्ति ॥

अथातः सम्प्रत्तिर्यदा प्रैष्य­न्म­न्य­तेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञोऽहं लोक इति यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता । ये वै के च यज्ञास्तेषां सर्वेषां यज्ञ इत्येकता ये वै के च लोकास्तेषां सर्वेषां लोक इत्येकतैतावद्वा इदं सर्वमेतन्मा सर्वं सन्न­य­मि­तोऽ­भु­न­ज­दिति तस्मा­त्पु­त्र­म­नु­शिष्टं लोक्य­मा­हु­स्त­स्मा­दे­न­म­नु­शा­सति स यदै­वं­वि­द­स्मा­ल्लो­का­त्प्रै­त्य­थै­भि­रेव प्राणैः सह पुत्रमाविशति । स यद्यनेन किञ्चि­द­क्ष्ण­या­कृतं भवति तस्मादेनं सर्व­स्मा­त्पुत्रो मुञ्चति तस्मात्पुत्रो नाम स पुत्रे­णै­वा­स्मिं­ल्लोके प्रति­ति­ष्ठ­त्य­थै­न­मेते दैवाः प्राणा अमृता आविशन्ति ॥ १७ ॥

१७

एवं साध्य­लो­क­त्र­य­फ­ल­भे­देन विनियुक्तानि पुत्र­क­र्म­वि­द्या­ख्यानि त्रीणि साधनानि ; जाया तु पुत्र­क­र्मा­र्थ­त्वान्न पृथक्साधनमिति पृथक् नाभिहिता ; वित्तं च कर्मसाधनत्वान्न पृथक्साधनम् ; विद्या­क­र्म­णो­र्लो­क­ज­य­हे­तुत्वं स्वात्म­प्र­ति­ला­भे­नैव भवतीति प्रसिद्धम् ; पुत्रस्य तु अक्रि­या­त्म­क­त्वात् केन प्रकारेण लोक­ज­य­हे­तु­त्व­मिति न ज्ञायते ; अत­स्त­द्व­क्त­व्य­मिति अथ अनन्तरमारभ्यते — सम्प्रत्तिः सम्प्रदानम् ; सम्प्रत्तिरिति वक्ष्यमाणस्य कर्मणो नामधेयम् ; पुत्रे हि स्वात्म­व्या­पा­र­स­म्प्र­दानं करोति अनेन प्रकारेण पिता, तेन सम्प्र­त्ति­सं­ज्ञ­क­मिदं कर्म । तत् कस्मिन्काले कर्तव्यमित्याह — स पिता यदा यस्मिन्काले प्रैष्यन् मरिष्यन् मरि­ष्या­मी­त्य­रि­ष्टा­दि­द­र्श­नेन मन्यते, अथ तदा पुत्रमाहूयाह — त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति । स एवमुक्तः पुत्रः प्रत्याह ; स तु पूर्व­मे­वा­नु­शिष्टो जानाति मयै­त­त्क­र्त­व्य­मिति ; तेनाह — अहं ब्रह्म अहं यज्ञः अहं लोक इति एतद्वाक्यत्रयम् । एत­स्या­र्थ­स्ति­रो­हित इति मन्वाना श्रुति­र्व्या­ख्या­नाय प्रवर्तते — यद्वै किञ्च यत्किञ्च अवशिष्टम् अनूक्तम् अधीतमनधीतं च, तस्य सर्वस्यैव ब्रह्मे­त्ये­त­स्मि­न्पदे एकता एकत्वम् ; योऽध्य­य­न­व्या­पारो मम कर्तव्य आसीदेतावन्तं कालं वेदविषयः, सः इत ऊर्ध्वं त्वं ब्रह्म त्वत्क­र्तृ­कोऽ­स्त्वि­त्यर्थः । तथा ये वै के च यज्ञा अनुष्ठेयाः सन्तो मया अनु­ष्ठि­ता­श्चा­न­नु­ष्ठि­ताश्च, तेषां सर्वेषां यज्ञ इत्येतस्मिन्पद एकता एकत्वम् ; मत्कर्तृका यज्ञा य आसन् ; ते इत ऊर्ध्वं त्वं यज्ञः त्वत्कर्तृका भवन्त्वित्यर्थः । ये वै के च लोका मया जेतव्याः सन्तो जिता अजिताश्च, तेषां सर्वेषां लोक इत्येतस्मिन्पद एकता ; इत ऊर्ध्वं त्वं लोकः त्वया जेतव्यास्ते । इत ऊर्ध्वं मया अध्य­य­न­य­ज्ञ­लो­क­ज­य­क­र्त­व्य­क्र­तु­स्त्वयि समर्पितः, अहं तु मुक्तोऽस्मि कर्त­व्य­ता­ब­न्ध­न­वि­ष­या­त्क्रतोः । स च सर्वं तथैव प्रति­प­न्न­वा­न्पुत्रः अनुशिष्टत्वात् । तत्र इमं पितुरभिप्रायं मन्वाना आचष्टे श्रुतिः — एतावत् एतत्परिमाणं वै इदं सर्वम् — यद्गृहिणा कर्तव्यम् , यदुत वेदा अध्येतव्याः, यज्ञा यष्टव्याः, लोकाश्च जेतव्याः ; एतन्मा सर्वं सन्नयम् — सर्वं हि इमं भारं मदधीनं मत्तोऽपच्छिद्य आत्मनि निधाय इतः अस्माल्लोकात् मा माम् अभुनजत् पालयिष्यतीति — लृडर्थे लङ् , छन्दसि कालनियमाभावात् । यस्मादेवं सम्पन्नः पुत्रः पितरम् अस्मा­ल्लो­का­त्क­र्त­व्य­ता­ब­न्ध­नतो मोचयिष्यति, तस्मा­त्पु­त्र­म­नु­शिष्टं लोक्यं लोकहितं पितुः आहुर्ब्राह्मणाः । अत एव ह्येनं पुत्र­म­नु­शा­स­ति­लो­क्योऽयं नः स्यादिति — पितरः । स पिता यदा यस्मिन्काले एवंवित् पुत्र­स­म­र्पि­त­क­र्त­व्य­ता­क्रतुः अस्माल्लोकात् प्रैति म्रियते, अथ तदा एभिरेव प्रकृ­तै­र्वा­ङ्म­नः­प्राणैः पुत्रमाविशति पुत्रं व्याप्नोति । अध्या­त्म­प­रि­च्छे­द­हे­त्व­प­ग­मात् पितु­र्वा­ङ्म­नः­प्राणाः स्वेन आधिदैविकेन रूपेण पृथि­व्य­ग्न्या­द्या­त्मना भिन्न­घ­ट­प्र­दी­प­प्र­का­श­वत् सर्वम् आविशन्ति ; तैः प्राणैः सह पितापि आविशति वाङ्म­नः­प्रा­णा­त्म­भा­वि­त्वा­त्पितुः ; अहमस्म्यनन्ता वाङ्मनःप्राणा अध्या­त्मा­दि­भे­द­वि­स्ताराः — इत्येवंभावितो हि पिता ; तस्मात् प्राणा­नु­वृ­त्तित्वं पितुर्भवतीति युक्तमुक्तम् — एभिरेव प्राणैः सह पुत्रमाविशतीति ; सर्वेषां ह्यसावात्मा भवति पुत्रस्य च । एतदुक्तं भवति — यस्य पितु­रे­व­म­नु­शिष्टः पुत्रो भवति सोऽस्मिन्नेव लोके वर्तते पुत्ररूपेण नैव मृतो मन्तव्य इत्यर्थः ; तथा च श्रुत्यन्तरे — ‘सोऽस्यायमितर आत्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते’(ऐ. उ. २ । १ । ४) इति । अथेदानीं पुत्रनिर्वचनमाह — स पुत्रः यदि कदाचित् अनेन पित्रा अक्ष्णया कोण­च्छि­द्र­तोऽ­न्तरा अकृतं भवति कर्तव्यम् , तस्मात् कर्त­व्य­ता­रू­पा­त्पित्रा अकृतात् सर्व­स्मा­ल्लो­क­प्रा­प्ति­प्र­ति­ब­न्ध­रू­पात् पुत्रो मुञ्चति मोचयति तत्सर्वं स्वय­म­नु­ति­ष्ठ­न्पू­र­यित्वा ; तस्मात् पूरणेन त्रायते स पितरं यस्मात् , तस्मात् , पुत्रो नाम ; इदं तत्पुत्रस्य पुत्रत्वम् — यत्पितुश्छिद्रं पूरयित्वा त्रायते । स पिता एवंविधेन पुत्रेण मृतोऽपि सन् अमृतः अस्मिन्नेव लोके प्रतितिष्ठति एवमसौ पिता पुत्रेणेमं मनुष्यलोकं जयति ; न तथा विद्याकर्मभ्यां देवलोकपितृलोकौ, स्वरू­प­ला­भ­स­त्ता­मा­त्रेण ; न हि विद्याकर्मणी स्वरू­प­ला­भ­व्य­ति­रे­केण पुत्रवत् व्यापा­रा­न्त­रा­पे­क्षया लोकजयहेतुत्वं प्रतिपद्येते । अथ कृतसम्प्रत्तिकं पितरम् एनम् एते वागादयः प्राणाः दैवाः हैरण्यगर्भाः अमृताः अमरणधर्माण आविशन्ति ॥

पृथिव्यै चैनमग्नेश्च दैवी वागाविशति सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति ॥ १८ ॥

१८

कथमिति वक्ष्यति — पृथिव्यै चैनमित्यादि । एवं पुत्र­क­र्मा­प­र­वि­द्यानां मनु­ष्य­लो­क­पि­तृ­लो­क­दे­व­लो­क­सा­ध्या­र्थता प्रदर्शिता श्रुत्या स्वयमेव ; अत्र केचिद्वावदूकाः श्रुत्यु­क्त­वि­शे­षा­र्था­न­भिज्ञाः सन्तः पुत्रा­दि­सा­ध­नानां मोक्षार्थतां वदन्ति ; तेषां मुखापिधानं श्रुत्येदं कृतम् — जाया मे स्यादित्यादि पाङ्क्तं काम्यं कर्मे­त्यु­प­क्र­मेण, पुत्रादीनां च साध्य­वि­शे­ष­वि­नि­यो­गो­प­सं­हा­रेण च ; तस्मात् ऋण­श्रु­ति­र­वि­द्व­द्वि­षया न पर­मा­त्म­वि­द्वि­ष­येति सिद्धम् ; वक्ष्यति च — ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’(बृ. उ. ४ । ४ । २२) इति -

केचित्तु पितृ­लो­क­दे­व­लो­क­ज­योऽपि पितृ­लो­क­दे­व­लो­काभ्यां व्यावृत्तिरेव ; तस्मात् पुत्र­क­र्मा­प­र­वि­द्याभिः समु­च्चि­त्या­नु­ष्ठि­ताभिः त्रिभ्य एतेभ्यो लोकेभ्यो व्यावृत्तः पर­मा­त्म­वि­ज्ञा­नेन मोक्ष­म­धि­ग­च्छ­तीति परम्परया मोक्षार्थान्येव पुत्रादिसाधनानि इच्छन्ति ; तेषामपि मुखापिधानाय इयमेव श्रुतिरुत्तरा कृत­स­म्प्र­त्ति­कस्य पुत्रिणः कर्मिणः त्र्यन्ना­त्म­वि­द्या­विदः फलप्रदर्शनाय प्रवृत्ता । न च इदमेव फलं मोक्षफलमिति शक्यं वक्तुम् , त्र्यन्न­स­म्ब­न्धात् मेधा­त­पः­का­र्य­त्वा­च्चा­न्ना­नाम् पुनः पुनर्जनयत इति दर्शनात् , ‘यद्धैतन्न कुर्यात्क्षीयेत ह’(बृ. उ. १ । ५ । २) इति च क्षयश्रवणात् , शरीरम् ज्योतीरूपमिति च कार्य­क­र­ण­त्वो­प­पत्तेः, ‘त्रयं वा इदम्’(बृ. उ. १ । ६ । १) इति च नाम­रू­प­क­र्मा­त्म­क­त्वे­नो­प­सं­हा­रात् । न च इदमेव साधनत्रयं संहतं सत् कस्य­चि­न्मो­क्षार्थं कस्यचित् त्र्यन्ना­त्म­फ­ल­मि­त्य­स्मा­देव वाक्यादवगन्तुं शक्यम् , पुत्रा­दि­सा­ध­नानां त्र्यन्ना­त्म­फ­ल­द­र्श­ने­नैव उप­क्षी­ण­त्वा­द्वा­क्यस्य ॥

पृथिव्यै पृथिव्याः च एनम् अग्नेश्च दैवी अधिदैवात्मिका वाक् एनं कृत­स­म्प्र­त्ति­कम् आविशति ; सर्वेषां हि वाच उपादानभूता दैवी वाक् पृथि­व्य­ग्नि­ल­क्षणा ; सा ह्याध्या­त्मि­का­स­ङ्गा­दि­दो­षै­र्नि­रुद्धा । विदु­ष­स्त­द्दो­षा­प­गमे आवरणभङ्ग इवोदकं प्रदी­प­प्र­का­श­वच्च व्याप्नोति ; तदेतदुच्यते — पृथिव्या अग्नेश्चैनं दैवी वागाविशतीति । सा च दैवी वाक् अनृतादिदोषरहिता शुद्धा, यया वाचा दैव्या यद्यदेव आत्मने परस्मै वा वदति तत्तत् भवति — अमोघा अप्रतिबद्धा अस्य वाग्भवतीत्यर्थः ॥

दिव­श्चै­न­मा­दि­त्याच्च दैवं मन आविशति तद्वै दैवं मनो येनानन्द्येव भवत्यथो न शोचति ॥ १९ ॥

१९

तथा दिव­श्चै­न­मा­दि­त्याच्च दैवं मन आविशति — तच्च दैवं मनः, स्वभा­व­नि­र्म­ल­त्वात् ; येन मनसा असौ आनन्द्येव भवति सुख्येव भवति ; अथो अपि न शोचति, शोका­दि­नि­मि­त्ता­सं­यो­गात् ॥

अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति स वै दैवः प्राणो यः सञ्च­रं­श्चा­स­ञ्च­रंश्च न व्यथतेऽथो न रिष्यति स एवंवित्सर्वेषां भूतानामात्मा भवति यथैषा देवतैवं स यथैतां देवतां सर्वाणि भूता­न्य­व­न्त्यैवं हैवंविदं सर्वाणि भूतान्यवन्ति । यदु किञ्चेमाः प्रजाः शोचन्त्यमैवासां तद्भवति पुण्यमेवामुं गच्छति न ह वै देवान्पापं गच्छति ॥ २० ॥

२०

तथा अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति । स वै दैवः प्राणः किंलक्षण इत्युच्यते — यः सञ्चरन् प्राणिभेदेषु असञ्चरन् सम­ष्टि­व्य­ष्टि­रू­पेण — अथवा सञ्चरन् जङ्गमेषु अस­ञ्च­र­न्स्था­व­रेषु — न व्यथते न दुःखनिमित्तेन भयेन युज्यते ; अथो अपि न रिष्यति न विनश्यति न हिंसामापद्यते । सः — यो यथोक्तमेवं वेत्ति त्र्यन्ना­त्म­द­र्शनं सः — सर्वेषां भूतानामात्मा भवति, सर्वेषां भूतानां प्राणो भवति, सर्वेषां भूतानां मनो भवति, सर्वेषां भूतानां वाग्भवति — इत्येवं सर्वभूतात्मतया सर्वज्ञो भवतीत्यर्थः — सर्वकृच्च । यथैषा पूर्वसिद्धा हिरण्यगर्भदेवता एवमेव नास्य सर्वज्ञत्वे सर्वकृत्त्वे वा क्वचि­त्प्र­ति­घातः ; स इति दार्ष्टा­न्ति­क­नि­र्देशः । किञ्च यथैतां हिर­ण्य­ग­र्भ­दे­व­ताम् इज्यादिभिः सर्वाणि भूतान्यवन्ति पालयन्ति पूजयन्ति, एवं ह एवंविदं सर्वाणि भूतान्यवन्ति — इज्यादिलक्षणां पूजां सततं प्रयुञ्जत इत्यर्थः ॥

अथेदमाशङ्क्यते — सर्व­प्रा­णि­ना­मात्मा भवतीत्युक्तम् ; तस्य च सर्व­प्रा­णि­का­र्य­क­र­णा­त्मत्वे सर्व­प्रा­णि­सु­ख­दुःखैः सम्बध्येतेति — तन्न । अप­रि­च्छि­न्न­बु­द्धि­त्वात् — परि­च्छि­न्ना­त्म­बु­द्धीनां ह्याक्रोशादौ दुःखसम्बन्धो दृष्टः -, अनेनाहमाक्रुष्ट इति ; अस्य तु सर्वात्मनो य आक्रुश्यते यश्चाक्रोशति तयो­रा­त्म­त्व­बु­द्धि­वि­शे­षा­भा­वात् न तन्निमित्तं दुःखमुपपद्यते । मरणदुःखवच्च निमित्ताभावात् — यथा हि कस्मिं­श्चि­न्मृते कस्य­चि­द्दुः­ख­मु­त्प­द्यते — ममासौ पुत्रो भ्राता चेति — पुत्रा­दि­नि­मि­त्तम् , तन्निमित्ताभावे तन्म­र­ण­द­र्शि­नोऽपि नैव दुःखमुपजायते, तथा ईश्वरस्यापि अप­रि­च्छि­न्ना­त्मनो मम­त­व­ता­दि­दुः­ख­नि­मि­त्त­मि­थ्या­ज्ञा­ना­दि­दो­षा­भा­वात् नैव दुःखमुपजायते । तदेतदुच्यते — यदु किञ्च यत्किञ्च इमाः प्रजाः शोचन्ति अमैव सहैव प्रजाभिः तच्छो­का­दि­नि­मित्तं दुःखं संयुक्तं भवति आसां प्रजानाम् परि­च्छि­न्न­बु­द्धि­ज­नि­त­त्वात् ; सर्वात्मनस्तु केन सह किं संयुक्तं भवेत् वियुक्तं वा । अमुं तु प्राजापत्ये पदे वर्तमानं पुण्यमेव शुभमेव — फलमभिप्रेतं पुण्यमिति — निरतिशयं हि तेन पुण्यं कृतम् , तेन तत्फलमेव गच्छति ; न ह वै देवान्पापं गच्छति, पाप­फ­ल­स्या­व­स­रा­भा­वात् — पापफलं दुःखं न गच्छतीत्यर्थः ॥

‘त एते सर्व एव समाः सर्वेऽनन्ताः’(बृ. उ. १ । ५ । १३) इत्यविशेषेण वाङ्म­नः­प्रा­णा­ना­मु­पा­स­न­मु­क्तम् , न अन्यतमगतो विशेष उक्तः ; किमेवमेव प्रतिपत्तव्यम् , किं वा विचार्यमाणे कश्चिद्विशेषो व्रतमुपासनं प्रति प्रतिपत्तुं शक्यत इत्युच्यते —

अथातो व्रतमीमांसा प्रजापतिर्ह कर्माणि ससृजे तानि सृष्टा­न्य­न्यो­न्ये­ना­स्प­र्धन्त वदि­ष्या­म्ये­वा­ह­मिति वाग्दध्रे द्रक्ष्या­म्य­ह­मिति चक्षुः श्रोष्या­म्य­ह­मिति श्रोत्र­मे­व­म­न्यानि कर्माणि यथाकर्म तानि मृत्युः श्रमो भूत्वोपयेमे तान्या­प्नो­त्ता­न्याप्त्वा मृत्युरवारुन्ध तस्मा­च्छ्रा­म्य­त्येव वाक्श्राम्यति चक्षुः श्राम्यति श्रोत्रमथेममेव नाप्नोद्योऽयं मध्यमः प्राणस्तानि ज्ञातुं दध्रिरे । अयं वै नः श्रेष्ठो यः सञ्च­रं­श्चा­स­ञ्च­रंश्च न व्यथतेऽथो न रिष्यति हन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूप­म­भ­वं­स्त­स्मा­देत एतेनाख्यायन्ते प्राणा इति तेन ह वाव तत्कुलमाचक्षते यस्मिन्कुले भवति य एवं वेद य उ हैवंविदा स्पर्ध­तेऽ­नु­शु­ष्य­त्य­नु­शुष्य हैवान्ततो म्रियत इत्यध्यात्मम् ॥ २१ ॥

२१

अथातः अनन्तरं व्रतमीमांसा उपा­स­न­क­र्म­वि­चा­र­णे­त्यर्थः ; एषां प्राणानां कस्य कर्म व्रतत्वेन धारयितव्यमिति मीमांसा प्रवर्तते । तत्र प्रजापतिः ह — ह - शब्दः किलार्थे — प्रजापतिः किल प्रजाः सृष्ट्वा कर्माणि करणानि वागादीनि — कर्मार्थानि हि तानीति कर्मा­णी­त्यु­च्यन्ते — ससृजे सृष्टवान् वागादीनि करणानीत्यर्थः । तानि पुनः सृष्टानि अन्योन्येन इतरेतरम् अस्पर्धन्त स्पर्धां सङ्घर्षं चक्रुः ; कथम् ? वदिष्याम्येव स्वव्या­पा­रा­द्व­द­ना­द­नु­प­र­तैव अहं स्यामिति वाग्व्रतं दध्रे धृतवती — यद्यन्योऽपि मत्समोऽस्ति स्वव्या­पा­रा­द­नु­प­रन्तुं शक्तः, सोऽपि दर्शयत्वात्मनो वीर्यमिति ; तथा द्रक्ष्या­म्य­ह­मिति चक्षुः ; श्रोष्या­म्य­ह­मिति श्रोत्रम् ; एवमन्यानि कर्माणि करणानि यथाकर्म — यत् यत् यस्य कर्म यथाकर्म — तानि करणानि मृत्युर्मारकः श्रमः श्रमरूपी भूत्वा उपयेमे सञ्जग्राह । कथम् ? तानि करणानि स्वव्यापारे प्रवृत्तानि आप्नोत् श्रमरूपेण आत्मानं दर्शितवान् ; आप्त्वा च तानि अवारुन्ध अवरोधं कृतवान्मृत्युः — स्वकर्मभ्यः प्रच्या­वि­त­वा­नि­त्यर्थः । तस्मा­द­द्य­त्वेऽपि वदने स्वकर्मणि प्रवृत्ता वाक् श्राम्यत्येव श्रमरूपिणा मृत्युना संयुक्ता स्वकर्मतः प्रच्यवते ; तथा श्राम्यति चक्षुः ; श्राम्यति श्रोत्रम् । अथेममेव मुख्यं प्राणं न आप्नोत् न प्राप्त­वा­न्मृत्युः श्रमरूपी — योऽयं मध्यमः प्राणः तम् । तेना­द्य­त्वेऽ­प्य­श्रान्त एव स्वकर्मणि प्रवर्तते । तानीतराणि करणानि तं ज्ञातुं दध्रिरे धृतवन्ति मनः ; अयं वै नः अस्माकं मध्ये श्रेष्ठः प्रशस्यतमः अभ्यधिकः, यस्मात् यः सञ्च­रं­श्चा­स­ञ्च­रंश्च न व्यथते, अथो न रिष्यति — हन्त इदानीमस्यैव प्राणस्य सर्वे वयं रूपमसाम प्राणमात्मत्वेन प्रतिपद्येमहि — एवं विनिश्चित्य ते एतस्यैव सर्वे रूपमभवन् प्राणरूपमेव आत्मत्वेन प्रतिपन्नाः प्राणव्रतमेव दध्रिरे — अस्मद्व्रतानि न मृत्योर्वारणाय पर्याप्तानीति । यस्मात्प्राणेन रूपेण रूपवन्तीतराणि करणानि चलनात्मना स्वेन च प्रकाशात्मना ; न हि प्राणादन्यत्र चल­ना­त्म­क­त्वो­प­पत्तिः ; चल­न­व्या­पा­र­पू­र्व­का­ण्येव हि सर्वदा स्वव्यापारेषु लक्ष्यन्ते — तस्मात् एते वागादयः एतेन प्राणाभिधानेन आख्यायन्ते अभिधीयन्ते — प्राणा इत्येवम् । य एवं प्राणात्मतां सर्वकरणानां वेत्ति प्राण­श­ब्दा­भि­धे­यत्वं च, तेन ह वाव तेनैव विदुषा तत्कुलमाचक्षते लौकिकाः, यस्मिन्कुले स विद्वान् जातो भवति — तत्कुलं विद्वन्नाम्नैव प्रथितं भवति — अमुष्येदं कुलमिति — यथा तापत्य इति । य एवं यथोक्तं वेद वागादीनां प्राणरूपतां प्राणाख्यत्वं च, तस्यैतत्फलम् । किञ्च यः कश्चित् उ ह एवंविदा प्राणा­त्म­द­र्शिना स्पर्धते तत्प्रतिपक्षी सन् सः अस्मिन्नेव शरीरे अनुशुष्यति शोषमुपगच्छति ; अनुशुष्य हैव शोषं गत्वैव अन्ततः अन्ते म्रियते, न सहसा अनुपद्रुतो म्रियते । इत्ये­व­मु­क्त­म­ध्यात्मं प्राणा­त्म­द­र्श­न­मिति उक्तोपसंहारः अधि­दै­व­त­प्र­द­र्श­नार्थः ॥

अथाधिदैवतं ज्वलि­ष्या­म्ये­वा­ह­मि­त्य­ग्नि­र्दध्रे तप्स्या­म्य­ह­मि­त्या­दित्यो भास्याम्यहमिति चन्द्रमा एवमन्या देवता यथादैवतं स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुर्म्लोचन्ति ह्यन्या देवता न वायुः सैषानस्तमिता देवता यद्वायुः ॥ २२ ॥

२२

अथ अनन्तरम् अधिदैवतं देवताविषयं दर्शनमुच्यते । कस्य देवताविशेषस्य व्रतधारणं श्रेय इति मीमांस्यते । अध्या­त्म­व­त्स­र्वम् । ज्वलि­ष्या­म्ये­वा­ह­मि­त्य­ग्नि­र्दध्रे ; तप्स्या­म्य­ह­मि­त्या­दित्यः ; भास्याम्यहमिति चन्द्रमाः ; एवमन्या देवता यथादैवतम् । सः अध्यात्मं वागादीनामेषां प्राणानां मध्ये मध्यमः प्राणो मृत्युना अनाप्तः स्वकर्मणो न प्रच्यावितः स्वेन प्राण­व्र­ते­ना­भ­ग्न­व्रतो यथा, एवम् एता­सा­म­ग्न्या­दीनां देवतानां वायुरपि । म्लोचन्ति अस्तं यन्ति स्वकर्मभ्य उपरमन्ते — यथा अध्यात्मं वागादयोऽन्या देवता अग्न्याद्याः ; न वायुरस्तं याति — यथा मध्यमः प्राणः ; अतः सैषा अनस्तमिता देवता यद्वायुः योऽयं वायुः । एव­म­ध्या­त्म­म­धि­दैवं च मीमांसित्वा निर्धारितम् — प्राण­वा­य्वा­त्म­नो­र्व्र­त­म­भ­ग्न­मिति ॥

अथैष श्लोको भवति यतश्चोदेति सूर्योऽस्तं यत्र च गच्छतीति प्राणाद्वा एष उदेति प्राणेऽस्तमेति तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इति यद्वा एतेऽ­मु­र्ह्य­ध्रि­यन्त तदेवाप्यद्य कुर्वन्ति । तस्मादेकमेव व्रतं चरे­त्प्रा­ण्या­च्चै­वा­पा­न्याच्च नेन्मा पाप्मा मृत्यु­रा­प्नु­व­दिति यद्यु चरे­त्स­मा­पि­प­यि­षे­त्तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति ॥ २३ ॥

२३

अथै­त­स्यै­वा­र्थस्य प्रकाशकः एष श्लोको मन्त्रो भवति । यतश्च यस्माद्वायोः उदेति उद्गच्छति सूर्यः, अध्यात्मं च चक्षुरात्मना प्राणात् — अस्तं च यत्र वायौ प्राणे च गच्छति अपरसन्ध्यासमये स्वापसमये च पुरुषस्य — तं देवाः तं धर्मं देवाः चक्रिरे धृतवन्तः वागा­द­योऽ­ग्न्या­द­यश्च प्राणव्रतं वायुव्रतं च पुरा विचार्य । स एव अद्य इदानीं श्वोऽपि भविष्यत्यपि काले अनुवर्त्यते अनुवर्तिष्यते च देवै­रि­त्य­भि­प्रायः । तत्रेमं मन्त्रं सङ्क्षेपतो व्याचष्टे ब्राह्मणम् — प्राणाद्वा एष सूर्य उदेति प्राणेऽस्तमेति । तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इत्यस्य कोऽर्थ इत्युच्यते — यत् वै एते व्रतम् अमुर्हि अमुष्मिन्काले वागा­द­योऽ­ग्न्या­द­यश्च प्राणव्रतं वायुव्रतं च अध्रियन्त, तदेवाद्यापि कुर्वन्ति अनुवर्तन्ते अनुवर्तिष्यन्ते च ; व्रतं तयोरभग्नमेव । यत्तु वागादिव्रतम् अग्न्यादिव्रतं च तद्भग्नमेव, तेषाम् अस्तमयकाले स्वापकाले च वायौ प्राणे च निम्लु­क्ति­द­र्श­नात् । अथै­त­द­न्य­त्रो­क्तम् — ‘यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं मनः प्राणं चक्षुः प्राणं श्रोत्रं यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्त इत्य­ध्या­त्म­म­था­धि­दै­वतं यदा वा अग्निरनुगच्छति वायुं तर्ह्यनूद्वाति तस्मा­दे­न­मु­द­वा­सी­दि­त्या­हु­र्वायुं ह्यनूद्वाति यदा­दि­त्योऽ­स्त­मेति वायुं तर्हि प्रविशति वायुं चन्द्रमा वायौ दिशः प्रतिष्ठिता वायोरेवाधि पुनर्जायन्ते’(शत. ब्रा. १० । ३ । ३ । ६, ८) इति । यस्मात् एतदेव व्रतं वागादिषु अग्न्यादिषु च अनुगतं यदेतत् वायोश्च प्राणस्य च परि­स्प­न्दा­त्म­कत्वं सर्वैः देवै­र­नु­व­र्त्य­मानं व्रतम् — तस्मात् अन्योऽप्येकमेव व्रतं चरेत् ; किं तत् ? प्राण्यात् प्राणनव्यापारं कुर्यात् अपान्यात् अपाननव्यापारं च ; न हि प्राणा­पा­न­व्या­पा­रस्य प्राण­ना­पा­न­न­ल­क्ष­ण­स्यो­प­र­मोऽस्ति ; तस्मात्तदेव एकं व्रतं चरेत् हित्वे­न्द्रि­या­न्त­र­व्या­पा­रम् — नेत् मा मां पाप्मा मृत्युः श्रमरूपी आप्नुवत् आप्नुयात् — नेच्छब्दः परिभये — यद्य­ह­म­स्मा­द्व्र­ता­त्प्र­च्युतः स्याम् , ग्रस्त एवाहं मृत्युनेत्येवं त्रस्तो धार­ये­त्प्रा­ण­व्र­त­मि­त्य­भि­प्रायः । यदि कदाचित् उ चरेत् प्रारभेत प्राणव्रतम् , समापिपयिषेत् समा­प­यि­तु­मि­च्छेत् ; यदि हि अस्मा­द्व्र­ता­दु­प­र­मेत् प्राणः परिभूतः स्यात् देवाश्च ; तस्मा­त्स­मा­प­ये­देव । तेन उ तेन अनेन व्रतेन प्राणा­त्म­प्र­ति­पत्त्या सर्वभूतेषु — वागादयः अग्न्यादयश्च मदात्मका एव, अहं प्राण आत्मा सर्व­प­रि­स्प­न्द­कृत् एवं तेनानेन व्रतधारणेन एतस्या एव प्राणदेवतायाः सायुज्यं सयुग्भावम् एकात्मत्वं सलोकतां समानलोकतां वा एकस्थानत्वम् — विज्ञा­न­मा­न्द्या­पे­क्ष­मे­तत् — जयति प्राप्नोतीति ॥

इति प्रथमाध्यायस्य पञ्चमं ब्राह्मणम् ॥

षष्ठं ब्राह्मणम्

त्रयं वा इदं नाम रूपं कर्म तेषां नाम्नां वागि­त्ये­त­दे­षा­मु­क्थ­मतो हि सर्वाणि नामा­न्यु­त्ति­ष्ठन्ति । एतदेषां सामैतद्धि सर्वैर्नामभिः सममेतदेषां ब्रह्मैतद्धि सर्वाणि नामानि बिभर्ति ॥ १ ॥

यदे­त­द­वि­द्या­वि­ष­य­त्वेन प्रस्तुतं साध्यसाधनलक्षणं व्याकृतं जगत् प्राणा­त्म­प्रा­प्त्य­न्तो­त्क­र्ष­व­दपि फलम् , या चैतस्य व्याक­र­णा­त्प्रा­ग­वस्था अव्या­कृ­त­श­ब्द­वाच्या — वृक्षबीजवत् सर्वमेतत् त्रयम् ; किं तत्त्र­य­मि­त्यु­च्यते — नाम रूपं कर्म चेति अनात्मैव — न आत्मा यत्सा­क्षा­द­प­रो­क्षा­द्ब्रह्म ; तस्मा­द­स्मा­द्वि­र­ज्ये­ते­त्ये­व­मर्थः त्रयं वा इत्याद्यारम्भः । न ह्यस्मात् अनात्मनः अव्या­वृ­त्त­चि­त्तस्य आत्मानमेव लोकम् अहं ब्रह्मा­स्मी­त्यु­पा­सितुं बुद्धिः प्रवर्तते, बाह्य­प्र­त्य­गा­त्म­प्र­वृ­त्त्यो­र्वि­रो­धात् । तथा च काठके — ‘पराञ्चि खानि व्यतृ­ण­त्स्व­य­म्भू­स्त­स्मा­त्प­रा­ङ्प­श्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्य­गा­त्मा­न­मै­क्ष­दा­वृ­त्त­च­क्षु­र­मृ­त­त्व­मि­च्छन्’(क . २ । १ । १) इत्यादि ॥

कथं पुनः अस्य व्याकृ­ता­व्या­कृ­तस्य क्रिया­का­र­क­फ­ला­त्मनः संसारस्य नाम­रू­प­क­र्मा­त्म­क­तैव, न पुनरात्मत्वम् — इत्ये­त­त्स­म्भा­व­यितुं शक्यत इति । अत्रोच्यते — तेषां नाम्नां यथोपन्यस्तानाम् — वागिति शब्द­सा­मा­न्य­मु­च्यते, ‘यः कश्च शब्दो वागेव सा’(बृ. उ. १ । ५ । ३) इत्युक्तत्वात् वागित्येतस्य शब्दस्य यो अर्थः शब्द­सा­मा­न्य­मा­त्रम् एतत् एतेषां नामविशेषाणाम् उक्थं कारणम् उपादानम् , सैन्ध­व­ल­व­ण­क­णा­ना­मिव सैन्धवाचलः ; तदाह — अतो हि अस्मा­न्ना­म­सा­मा­न्यात् सर्वाणि नामानि यज्ञदत्तो देवदत्त इत्ये­व­मा­दि­प्र­वि­भ­गानि उत्तिष्ठन्ति उत्पद्यन्ते प्रविभज्यन्ते, लवणाचलादिव लवणकणाः ; कार्यं च कार­णे­ना­व्य­ति­रि­क्तम् । तथा विशेषाणां च सामा­न्येऽ­न्त­र्भा­वात् — कथं सामान्यविशेषभाव इति — एतत् शब्दसामान्यम् एषां नामविशेषाणाम् साम, समत्वात्साम, सामा­न्य­मि­त्यर्थः ; एतत् हि यस्मात् सर्वैर्नामभिः आत्मविशेषैः समम् । किञ्च आत्म­ला­भा­वि­शे­षाच्च नामविशेषाणाम् — यस्य च यस्मादात्मलाभो भवति, स तेनाप्रविभक्तो दृष्टः, यथा घटादीनां मृदा ; कथं नाम­वि­शे­षा­णा­मा­त्म­लाभो वाच इत्युच्यते — यत एतदेषां वाक्शब्दवाच्यं वस्तु ब्रह्म आत्मा, ततो ह्यात्मलाभो नाम्नाम् , शब्द­व्य­ति­रि­क्त­स्व­रू­पा­नु­प­पत्तेः ; तत्प्रतिपादयति — एतत् शब्दसामान्यं हि यस्मात् शब्दविशेषान् सर्वाणि नामानि बिभर्ति धारयति स्वरूपप्रदानेन । एवं कार्य­का­र­ण­त्वो­प­पत्तेः सामा­न्य­वि­शे­षो­प­पत्तेः आत्म­प्र­दा­नो­प­प­त्तेश्च नामविशेषाणां शब्दमात्रता सिद्धा । एवमुत्तरयोरपि सर्वं योज्यं यथोक्तम् ॥

अथ रूपाणां चक्षु­रि­त्ये­त­दे­षा­मु­क्थ­मतो हि सर्वाणि रूपा­ण्यु­त्ति­ष्ठ­न्त्ये­त­देषां सामैतद्धि सर्वै रूपैः सममेतदेषां ब्रह्मैतद्धि सर्वाणि रूपाणि बिभर्ति ॥ २ ॥

अथेदानीं रूपाणां सिता­सि­त­प्र­भृ­ती­नाम् — चक्षुरिति चक्षु­र्वि­ष­य­सा­मान्यं चक्षुः­श­ब्दा­भि­धेयं रूपसामान्यं प्रका­श्य­मा­त्र­म­भि­धी­यते । अतो हि सर्वाणि रूपा­ण्यु­त्ति­ष्ठन्ति, एतदेषां साम, एतद्धि सर्वै रूपैः समम् , एतदेषां ब्रह्म, एतद्धि सर्वाणि रूपाणि बिभर्ति ॥

अथ कर्म­णा­मा­त्मे­त्ये­त­दे­षा­मु­क्थ­मतो हि सर्वाणि कर्मा­ण्यु­त्ति­ष्ठ­न्त्ये­त­देषां सा मैतद्धि सर्वैः कर्मभिः सममेतदेषां ब्रह्मैतद्धि सर्वाणि कर्माणि बिभर्ति तदेतत्त्रयं सदे­क­म­य­मा­त्मात्मो एकः सन्नेतत्त्रयं तदेतदमृतं सत्त्येन च्छन्नं प्राणो वा अमृतं नामरूपे सत्त्यं ताभ्यामयं प्राणश्छन्नः ॥ ३ ॥

अथेदानीं सर्व­क­र्म­वि­शे­षाणां मन­न­द­र्श­ना­त्म­कानां चलनात्मकानां च क्रिया­सा­मा­न्य­मा­त्रेऽ­न्त­र्भाव उच्यते ; कथम् ? सर्वेषां कर्मविशेषाणाम् , आत्मा शरीरम् सामान्यम् आत्मा — आत्मनः कर्म आत्मेत्युच्यते ; आत्मना हि शरीरेण कर्म करोति — इत्युक्तम् ; शरीरे च सर्वं कर्माभिव्यज्यते ; अतः तात्स्थ्यात् तच्छब्दं कर्म — कर्म­सा­मा­न्य­मात्रं सर्वे­षा­मु­क्थ­मि­त्यादि पूर्ववत् । तदेतद्यथोक्तं नाम रूपं कर्म त्रयम् इतरेतराश्रयम् इत­रे­त­रा­भि­व्य­क्ति­का­र­णम् इतरेतरप्रलयम् संहतम् — त्रिद­ण्ड­वि­ष्ट­म्भ­वत् — सत् एकम् । केना­त्म­नै­क­त्व­मि­त्यु­च्यते — अयमात्मा अयं पिण्डः कार्य­क­र­णा­त्म­स­ङ्घातः तथा अन्नत्रये व्याख्यातः — ‘एतन्मयो वा अयमात्मा’(बृ. उ. १ । ५ । ३) इत्यादिना ; एतावद्धीदं सर्वं व्याकृ­त­म­व्या­कृतं च यदुत नाम रूपं कर्मेति ; आत्मा उ एकोऽयं कार्यकरणसङ्घातः सन् अध्या­त्मा­धि­भू­ता­धि­दै­व­भा­वेन व्यवस्थितम् एतदेव त्रयं नाम रूपं कर्मेति । तदेतत् वक्ष्यमाणम् ; अमृतं सत्त्येन च्छन्न­मि­त्ये­तस्य वाक्स्यार्थमाह — प्राणो वा अमृतम् करणात्मकः अन्तरुपष्टम्भकः आत्मभूतः अमृतः अविनाशी ; नामरूपे सत्त्यं कार्यात्मके शरीरावस्थे ; क्रियात्मकस्तु प्राणः तयोरुपष्टम्भकः बाह्याभ्यां शरी­रा­त्म­का­भ्या­मु­प­ज­ना­पा­य­ध­र्मिभ्यां मर्त्याभ्यां छन्नः अप्रकाशीकृतः । एतदेव संसा­र­स­त­त्त्व­म­वि­द्या­वि­षयं प्रदर्शितम् ; अत ऊर्ध्वं विद्याविषय आत्मा अधिगन्तव्य इति चतुर्थ आरभ्यते ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ बृह­दा­र­ण्य­को­प­नि­ष­द्भाष्ये प्रथमोऽध्यायः ॥