अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यम्

द्वितीयोऽध्यायः

व्याख्याः

प्रथमं ब्राह्मणम्

आत्मे­त्ये­वो­पा­सीत ; तदन्वेषणे च सर्वमन्विष्टं स्यात् ; तदेव च आत्मतत्त्वं सर्वस्मात् प्रेय­स्त्वा­द­न्वे­ष्ट­व्यम् — आत्मानमेवावेदहं ब्रह्मास्मीति — आत्मतत्त्वमेकं विद्याविषयः । यस्तु भेददृष्टिविषयः सः — अन्योऽ­सा­व­न्योऽ­ह­म­स्मीति न स वेदेति — अविद्याविषयः । ‘एक­धै­वा­नु­द्र­ष्ट­व्यम्’(बृ. उ. ४ । ४ । २०) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’(बृ. उ. ४ । ४ । १९) इत्येवमादिभिः प्रविभक्तौ विद्या­वि­द्या­वि­षयौ सर्वोपनिषत्सु । तत्र च अविद्याविषयः सर्व एव साध्य­सा­ध­ना­दि­भे­द­वि­शे­ष­वि­नि­यो­गेन व्याख्यातः आ तृती­या­ध्या­य­प­रि­स­माप्तेः । स च व्याख्या­तोऽ­वि­द्या­वि­षयः सर्व एव द्विप्रकारः — अन्तःप्राण उपष्टम्भको गृहस्येव स्तम्भादिलक्षणः प्रकाशकोऽमृतः, बाह्यश्च कार्य­ल­क्ष­णोऽ­प्र­का­शक उपजनापायधर्मकः तृण­कु­श­मृ­त्ति­का­समो गृहस्येव सत्यशब्दवाच्यो मर्त्यः ; तेन अमृतशब्दवाच्यः प्राणः छन्न इति च उपसंहृतम् । स एव च प्राणो बाह्या­धा­र­भे­दे­ष्व­ने­कधा विस्तृतः । प्राण एको वेद इत्युच्यते । तस्यैव बाह्यः पिण्ड एकः साधारणः — विराट् वैश्वानरः आत्मा पुरुषविधः प्रजापतिः कः हिरण्यगर्भः — इत्यादिभिः पिण्डप्रधानैः शब्दैराख्यायते सूर्या­दि­प्र­वि­भ­क्त­क­रणः । एकं च अनेकं च ब्रह्म एतावदेव, नातः परमस्ति प्रत्येकं च शरीरभेदेषु परिसमाप्तं चेतनावत् कर्तृ भोक्तृ च — इति अविद्याविषयमेव आत्मत्वेनोपगतो गार्ग्यो ब्राह्मणो वक्ता उपस्थाप्यते । तद्वि­प­री­ता­त्म­दृक् अजातशत्रुः श्रोता । एवं हि यतः पूर्व­प­क्ष­सि­द्धा­न्ता­ख्या­यि­का­रू­पेण सम­र्प्य­मा­णोऽर्थः श्रोतु­श्चि­त्तस्य वशमेति ; विपर्यये हि तर्क­शा­स्त्र­व­त्के­व­ला­र्था­नु­ग­म­वाक्यैः समर्प्यमाणो दुर्विज्ञेयः स्यात् अत्य­न्त­सू­क्ष्म­त्वा­द्व­स्तुनः ; तथा च काठके — ‘श्रवणायापि बहुभिर्यो न लभ्यः’(क. उ. १ । २ । ७) इत्यादिवाक्यैः सुसं­स्कृ­त­दे­व­बु­द्धि­ग­म्यत्वं सामा­न्य­मा­त्र­बु­द्ध्य­ग­म्यत्वं च सप्रपञ्चं दर्शितम् ; ‘आचा­र्य­वा­न्पु­रुषो वेद’(छा. उ. ६ । १४ । २) ‘आचार्याद्धैव विद्या’(छा. उ. ४ । ४ । ३) इति च च्छान्दोग्ये ; ‘उपदेक्ष्यन्ति ते ज्ञानं ज्ञानि­न­स्त­त्त्व­द­र्शिनः’(भ. गी. ४ । ३७) इति च गीतासु ; इहापि च शाक­ल्य­या­ज्ञ­व­ल्क्य­सं­वा­दे­ना­ति­ग­ह्व­रत्वं महता संरम्भेण ब्रह्मणो वक्ष्यति — तस्मात् श्लिष्ट एव आख्यायिकारूपेण पूर्व­प­क्ष­सि­द्धा­न्त­रू­प­मा­पाद्य वस्तुसमर्पणार्थ आरम्भः । आचा­र­वि­ध्यु­प­दे­शा­र्थश्च — एव­मा­चा­र­व­तो­र्व­क्तृ­श्रो­त्रो­रा­ख्या­यि­का­नु­ग­तोऽ­र्थोऽ­व­ग­म्यते । केव­ल­त­र्क­बु­द्धि­नि­षे­धार्था च आख्यायिका — ‘नैषा तर्केण मतिरापनेया’(क. उ. १ । २ । ९) ‘न तर्क­शा­स्त्र­द­ग्धाय’(मो. ध. २४७ । १८) इति श्रुति­स्मृ­ति­भ्याम् । श्रद्धा च ब्रह्मविज्ञाने परमं साध­न­मि­त्या­ख्या­यि­कार्थः ; तथा हि गार्ग्या­जा­त­श­त्र्वो­र­तीव श्रद्धालुता दृश्यत आख्यायिकायाम् ; ‘श्रद्धा­वां­ल्ल­भते ज्ञानम्’(भ. गी. ४ । ३०) इति च स्मृतिः ॥

ओं । दृप्त­बा­ला­कि­र्हा­नू­चानो गार्ग्य आस स होवाचाजातशत्रुं काश्यं ब्रह्म ते ब्रवाणीति स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मो जनको जनक इति वै जना धावन्तीति ॥ १ ॥

तत्र पूर्वपक्षवादी अवि­द्या­वि­ष­य­ब्र­ह्म­वित् दृप्तबालाकिः - दृप्तः गर्वितः अस­म्य­ग्ब्र­ह्म­वि­त्त्वा­देव — बलाकाया अपत्यं बालाकिः, दृप्तश्चासौ बालाकिश्चेति दृप्तबालाकिः, ह - शब्द ऐतिह्यार्थ आख्यायिकायाम् , अनूचानः अनुवचनसमर्थः वक्ता वाग्मी, गार्ग्यो गोत्रतः, आस बभूव क्वचि­त्का­ल­वि­शेषे । स होवाच अजातशत्रुम् अजा­त­श­त्रु­ना­मा­नम् काश्यं काशिराजम् अभिगम्य — ब्रह्म ते ब्रवाणीति ब्रह्म ते तुभ्यं ब्रवाणि कथयानि । स एव­मु­क्तोऽ­जा­त­श­त्रु­रु­वाच — सहस्रं गवां दद्मः एतस्यां वाचि — यां मां प्रत्यवोचः ब्रह्म ते ब्रवाणीति, तावन्मात्रमेव गोसहस्रप्रदाने निमि­त्त­मि­त्य­भि­प्रायः । साक्षा­द्ब्र­ह्म­क­थ­न­मेव निमित्तं कस्मा­न्ना­पे­क्ष्यते सहस्रदाने, ब्रह्म ते ब्रवाणीति इयमेव तु वाक् निमि­त्त­म­पे­क्ष्यत इत्युच्यते — यतः श्रुतिरेव राज्ञोऽ­भि­प्रा­य­माह — जनको दाता जनकः श्रोतेति च एत­स्मि­न्वा­क्य­द्वये एतद्वयमभ्यस्यते जनको जनक इति ; वै - शब्दः प्रसि­द्धा­व­द्यो­त­नार्थः ; जनको दित्सुर्जनकः शुश्रूषुरिति ब्रह्म शुश्रूषवो विवक्षवः प्रति­जि­घृ­क्ष­वश्च जनाः धावन्ति अभिगच्छन्ति ; तस्मात् तत्सर्वं मय्यपि सम्भावितवानसीति ॥

स होवाच गार्ग्यो य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति स होवा­चा­जा­त­श­त्रुर्मा मैत­स्मि­न्सं­व­दिष्ठा अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति स य एत­मे­व­मु­पा­स्तेऽ­तिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ २ ॥

एवं राजानं शुश्रूषुम् अभिमुखीभूतं स होवाच गार्ग्यः — य एव असौ आदित्ये चक्षुषि च एकः अभिमानी चक्षुर्द्वारेण इह हृदि प्रविष्टः अहं भोक्ता कर्ता चेत्यवस्थितः — एतमेव अहं ब्रह्म पश्यामि अस्मि­न्का­र्य­क­र­ण­स­ङ्घाते उपासे ; तस्मात् तमहं पुरुषं ब्रह्म तुभ्यं ब्रवीमि उपास्स्वेति । स एवमुक्तः प्रत्युवाच अजातशत्रुः मा मेति हस्तेन विनिवारयन् — एतस्मिन् ब्रह्मणि विज्ञेये मा संवदिष्ठाः ; मा मेत्याबाधनार्थं द्विर्वचनम् — एवं समाने विज्ञानविषय आवयोः अस्मानविज्ञानवत इव दर्शयता बाधिताः स्यामः, अतो मा संवदिष्ठाः मा संवादं कार्षीः अस्मिन्ब्रह्मणि ; अन्य­च्चे­ज्जा­नासि, तद्ब्रह्म वक्तुमर्हसि, न तु यन्मया ज्ञायत एव । अथ चेन्मन्यसे — जानीषे त्वं ब्रह्ममात्रम् , न तु तद्वि­शे­षे­णो­पा­स­न­फ­ला­नीति — तन्न मन्तव्यम् ; यतः सर्वमेतत् अहं जाने, यद्ब्रवीषि ; कथम् ? अतिष्ठाः अतीत्य भूतानि तिष्ठ­ती­त्य­तिष्ठाः, सर्वेषां च भूतानां मूर्धा शिरः राजेति वै — राजा दीप्ति­गु­णो­पे­त­त्वात् एतै­र्वि­शे­ष­णै­र्वि­शि­ष्ट­मे­त­द्ब्रह्म अस्मि­न्का­र्य­क­र­ण­स­ङ्घाते कर्तृ भोक्तृ चेति अहमेतमुपास इति ; फलमप्येवं विशिष्टोपासकस्य — स य एतमेवमुपास्ते अतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ; यथागुणोपासनमेव हि फलम् ; ‘तं यथा यथोपासते तदेव भवति’(शत. ब्रा. १० । ५ । २ । २०) इति श्रुतेः ॥

स होवाच गार्ग्यो य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति स होवा­चा­जा­त­श­त्रुर्मा मैत­स्मि­न्सं­व­दिष्ठा बृह­न्पा­ण्ड­र­वासाः सोमो राजेति वा अहमेतमुपास इति स य एत­मे­व­मु­पा­स्तेऽ­ह­र­हर्ह सुतः प्रसुतो भवति नास्यान्नं क्षीयते ॥ ३ ॥

संवादेन आदित्यब्रह्मणि प्रत्या­ख्या­तेऽ­जा­त­श­त्रुणा चन्द्रमसि ब्रह्मान्तरं प्रतिपेदे गार्ग्यः । य एवासौ चन्द्रे मनसि च एकः पुरुषो भोक्ता कर्ता चेति पूर्व­व­द्वि­शे­ष­णम् । बृहन् महान् पाण्डरं शुक्लं वासो यस्य सोऽयं पाण्डरवासाः, अप्शरीरत्वात् चन्द्राभिमानिनः प्राणस्य, सोमो राजा चन्द्रः, यश्चा­न्न­भू­तोऽ­भि­षू­यते लतात्मको यज्ञे, तमेकीकृत्य एतमेवाहं ब्रह्मोपासे ; यथोक्तगुणं य उपास्ते तस्य अहरहः सुतः सोमोऽभिषुतो भवति यज्ञे, प्रसुतः प्रकृष्टं सुतरां सुतो भवति विकारे — उभ­य­वि­ध­य­ज्ञा­नु­ष्ठा­न­सा­मर्थ्यं भवतीत्यर्थः ; अन्नं च अस्य न क्षीयते अन्ना­त्म­को­पा­स­कस्य ॥

स होवाच गार्ग्यो य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति स होवा­चा­जा­त­श­त्रुर्मा मैत­स्मि­न्सं­व­दि­ष्ठा­स्ते­ज­स्वीति वा अहमेतमुपास इति स य एतमेवमुपास्ते तेजस्वी ह भवति तेजस्विनी हास्य प्रजा भवति ॥ ४ ॥

तथा विद्युति त्वचि हृदये च एका देवता ; तेजस्वीति विशेषणम् ; तस्यास्तत्फलम् — तेजस्वी ह भवति तेजस्विनी हास्य प्रजा भवति — विद्युतां बहु­त्व­स्या­ङ्गी­क­र­णात् आत्मनि प्रजायां च फलबाहुल्यम् ॥

स होवाच गार्ग्यो य एवायमाकाशे पुरष एतमेवाहं ब्रह्मोपास इति स होवा­चा­जा­त­श­त्रुर्मा मैत­स्मि­न्सं­व­दिष्ठाः पूर्ण­म­प्र­व­र्तीति वा अहमेतमुपास इति स य एतमेवमुपास्ते पूर्यते प्रजया पशु­भि­र्ना­स्या­स्मा­ल्लो­का­त्प्र­जो­द्व­र्तते ॥ ५ ॥

तथा आकाशे हृद्याकाशे हृदये च एका देवता ; पूर्णम् अप्रवर्ति चेति विशेषणद्वयम् ; पूर्ण­त्व­वि­शे­ष­ण­फ­ल­मि­दम् — पूर्यते प्रजया पशुभिः ; अप्र­व­र्ति­वि­शे­ष­ण­फ­लम् — नास्या­स्मा­ल्लो­का­त्प्र­जो­द्व­र्तत इति, प्रजा सन्ता­ना­वि­च्छित्तिः ॥

स होवाच गार्ग्यो य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास इति स होवा­चा­जा­त­श­त्रुर्मा मैत­स्मि­न्सं­व­दिष्ठा इन्द्रो वैकु­ण्ठोऽ­प­रा­जिता सेनेति वा अहमेतमुपास इति स य एतमेवमुपास्ते जिष्णु­र्हा­प­रा­जि­ष्णु­र्भ­व­त्य­न्य­त­स्त्य­जायी ॥ ६ ॥

तथा वायौ प्राणे हृदि च एका देवता ; तस्या विशेषणम् — इन्द्रः परमेश्वरः, वैकुण्ठः अप्रसह्यः, न परैर्जितपूर्वा अपराजिता सेना — मरुतां गणत्वप्रसिद्धेः ; उपासनफलमपि — जिष्णुर्ह जयनशीलः अपराजिष्णुः न च परैर्जितस्वभावः भवति, अन्यतस्त्यजायी अन्यतस्त्यानां सपत्नानां जयनशीलो भवति ॥

स होवाच गार्ग्यो य एवायमग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति स होवा­चा­जा­त­श­त्रुर्मा मैत­स्मि­न्सं­व­दिष्ठा विषासहिरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते विषासहिर्ह भवति विषासहिर्हास्य प्रजा भवति ॥ ७ ॥

अग्नौ वाचि हृदि च एका देवता ; तस्या विशेषणम् — विषासहिः मर्षयिता परेषाम् अग्निबाहुल्यात् फलबाहुल्यं पूर्ववत् ॥

स होवाच गार्ग्यो य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास इति स होवा­चा­जा­त­श­त्रुर्मा मैत­स्मि­न्सं­व­दिष्ठाः प्रतिरूप इति वा अहमेतमुपास इति स य एतमेवमुपास्ते प्रतिरूपं हैवैनमुपगच्छति नाप्रतिरूपमथो प्रति­रू­पोऽ­स्मा­ज्जा­यते ॥ ८ ॥

अप्सु रेतसि हृदि च एका देवता ; तस्या विशेषणम् — प्रतिरूपः अनुरूपः श्रुति­स्मृ­त्य­प्र­ति­कूल इत्यर्थः ; फलम् — प्रतिरूपं श्रुति­स्मृ­ति­शा­स­ना­नु­रू­प­मेव एनमुपगच्छति प्राप्नोति न विपरीतम् , अन्यच्च — अस्मात् तथाविध एवोपजायते ॥

स होवाच गार्ग्यो य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति स होवा­चा­जा­त­श­त्रुर्मा मैत­स्मि­न्सं­व­दिष्ठा रोचिष्णुरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते रोचिष्णुर्ह भवति रोचिष्णुर्हास्य प्रजा भवत्यथो यैः सन्निगच्छति सर्वां स्तानतिरोचते ॥ ९ ॥

आदर्शे प्रसादस्वभावे चान्यत्र खड्गादौ, हार्दे च सत्त्व­शु­द्धि­स्वा­भाव्ये च एका देवता ; तस्या विशेषणम् — रोचिष्णुः दीप्तिस्वभावः ; फलं च तदेव, रोच­ना­धा­र­बा­हु­ल्या­त्फ­ल­बा­हु­ल्यम् ॥

स होवाच गार्ग्यो य एवायं यन्तं पश्चा­च्छ­ब्दोऽ­नू­दे­त्ये­त­मे­वाहं ब्रह्मोपास इति स होवा­चा­जा­त­श­त्रुर्मा मैत­स्मि­न्सं­व­दिष्ठा असुरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति नैनं पुरा कालात्प्राणो जहाति ॥ १० ॥

१०

यन्तं गच्छन्तं य एवायं शब्दः पश्चात् पृष्ठतः अनूदेति, अध्यात्मं च जीवनहेतुः प्राणः — तमेकीकृत्याह ; असुः प्राणो जीवनहेतुरिति गुणस्तस्य ; फलम् — सर्व­मा­यु­र­स्मिं­ल्लोक एतीति — यथोपात्तं कर्मणा आयुः कर्म­फ­ल­प­रि­च्छि­न्न­का­लात् पुरा पूर्वं रोगादिभिः पीड्यमानमप्येनं प्राणो न जहाति ॥

स होवाच गार्ग्यो य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति स होवा­चा­जा­त­श­त्रुर्मा मैत­स्मि­न्सं­व­दिष्ठा द्वितीयोऽनपग इति वा अहमेतमुपास इति स य एतमेवमुपास्ते द्वितीयवान्ह भवति नास्मा­द्ग­ण­श्छि­द्यते ॥ ११ ॥

११

दिक्षु कर्णयोः हृदि चैका देवता अश्विनौ देवा­व­वि­यु­क्त­स्व­भावौ ; गुणस्तस्य द्वितीयवत्त्वम् अनपगत्वम् अवियुक्तता चान्योन्यं दिशामश्विनोश्च एवं धर्मित्वात् ; तदेव च फलमुपासकस्य — गणाविच्छेदः द्वितीयवत्त्वं च ॥

स होवाच गार्ग्यो य एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास इति स होवा­चा­जा­त­श­त्रुर्मा मैत­स्मि­न्सं­व­दिष्ठा मृत्युरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति नैनं पुरा काला­न्मृ­त्यु­रा­ग­च्छति ॥ १२ ॥

१२

छायायां बाह्ये तमसि अध्यात्मं च आव­र­णा­त्म­केऽ­ज्ञाने हृदि च एका देवता, तस्या विशेषणम् — मृत्युः ; फलं सर्वं पूर्ववत् , मृत्योरनागमनेन रोगादिपीडाभावो विशेषः ॥

स होवाच गार्ग्यो य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास इति स होवा­चा­जा­त­श­त्रुर्मा मैत­स्मि­न्सं­व­दिष्ठा आत्मन्वीति वा अहमेतमुपास इति स य एतमेवमुपास्त आत्मन्वी ह भवत्यात्मन्विनी हास्य प्रजा भवति स ह तूष्णीमास गार्ग्यः ॥ १३ ॥

१३

आत्मनि प्रजापतौ बुद्धौ च हृदि च एका देवता ; तस्याः आत्मन्वी आत्मवानिति विशेषणम् ; फलम् — आत्मन्वी ह भवति आत्मवान्भवति, आत्मन्विनी हास्य प्रजा भवति, बुद्धि­ब­हु­ल­त्वात् प्रजायां सम्पादनमिति विशेषः । स्वयं परिज्ञातत्वेन एवं क्रमेण प्रत्याख्यातेषु ब्रह्मसु स गार्ग्यः क्षीण­ब्र­ह्म­वि­ज्ञानः अप्र­ति­भा­स­मा­नो­त्तरः तूष्णीमवाक्शिरा आस ॥

स होवा­चा­जा­त­श­त्रु­रे­ता­वन्नू ३ इत्येतावद्धीति नैतावता विदितं भवतीति स होवाच गार्ग्य उप त्वा यानीति ॥ १४ ॥

१४

तं तथाभूतम् आलक्ष्य गार्ग्यं स होवाच अजातशत्रुः — एतावन्नू३ इति — किमेतावद्ब्रह्म निर्ज्ञातम् , आहो­स्वि­द­धि­क­म­प्य­स्तीति ; इतर आह — एतावद्धीति । नैतावता विदितेन ब्रह्म विदितं भवतीत्याह अजातशत्रुः — किमर्थं गर्वितोऽसि ब्रह्म ते ब्रवाणीति । किमेतावद्विदितं विदितमेव न भवतीत्युच्यते ? न, फल­व­द्वि­ज्ञा­न­श्र­व­णात् ; न चार्थवादत्वमेव वाक्या­ना­म­व­गन्तुं शक्यम् ; अपू­र्व­वि­धा­न­प­राणि हि वाक्यानि प्रत्यु­पा­स­नो­प­देशं लक्ष्यन्ते — ‘अतिष्ठाः सर्वेषां भूतानाम्’(बृ. उ. २ । १ । २) इत्यादीनि ; तदनुरूपाणि च फलानि सर्वत्र श्रूयन्ते विभक्तानि ; अर्थवादत्वे एतदसमञ्जसम् । कथं तर्हि नैतावता विदितं भवतीति ? नैष दोषः, अधि­कृ­ता­पे­क्ष­त्वात् — ब्रह्मो­प­दे­शार्थं हि शुश्रूषवे अजातशत्रवे अमु­ख्य­ब्र­ह्म­वित् गार्ग्यः प्रवृत्तः ; स युक्त एव मुख्यब्रह्मविदा अजातशत्रुणा अमु­ख्य­ब्र­ह्म­वि­द्गार्ग्यो वक्तुम् — यन्मुख्यं ब्रह्म वक्तुं प्रवृत्तः त्वं तत् न जानीष इति ; यद्य­मु­ख्य­ब्र­ह्म­वि­ज्ञा­न­मपि प्रत्याख्यायेत, तदा एतावतेति न ब्रूयात् , न किञ्चिज्ज्ञातं त्वयेत्येवं ब्रूयात् ; तस्माद्भवन्ति एतावन्ति अविद्याविषये ब्रह्माणि ; एता­व­द्वि­ज्ञा­न­द्वा­र­त्वाच्च पर­ब्र­ह्म­वि­ज्ञा­नस्य युक्तमेव वक्तुम् — नैतावता विदितं भवतीति ; अविद्याविषये विज्ञेयत्वं नाम­रू­प­क­र्मा­त्म­कत्वं च एषां तृतीयेऽध्याये प्रदर्शितम् ; तस्मात् ‘नैतावता विदितं भवति’ इति ब्रुवता अधिकं ब्रह्म ज्ञातव्यमस्तीति दर्शितं भवति । तच्च अनुपसन्नाय न वक्त­व्य­मि­त्या­चा­र­वि­धिज्ञो गार्ग्यः स्वयमेव आह — उप त्वा यानीति — उपगच्छानीति — त्वाम् , यथान्यः शिष्यो गुरुम् ॥

स होवाचाजातशत्रुः प्रतिलोमं चैत­द्य­द्ब्रा­ह्मणः क्षत्रि­य­मु­पे­या­द्ब्रह्म मे वक्ष्यतीति व्येव त्वा ज्ञपयिष्यामीति तं पाणा­वा­दा­यो­त्तस्थौ तौ ह पुरुषं सुप्त­मा­ज­ग्म­तु­स्त­मे­तै­र्ना­म­भि­रा­म­न्त्र­या­ञ्चक्रे बृहन्पाण्डरवासः सोम राजन्निति स नोत्तस्थौ तं पाणिनापेषं बोधयाञ्चकार स होत्तस्थौ ॥ १५ ॥

१५

स होवाच अजातशत्रुः — प्रतिलोमं विपरीतं चैतत् ; किं तत् ? यद्ब्राह्मणः उत्तमवर्णः आचा­र्य­त्वेऽ­धि­कृतः सन् क्षत्रि­य­म­ना­चा­र्य­स्व­भा­वम् उपेयात् उपगच्छेत् शिष्यवृत्त्या — ब्रह्म मे वक्ष्यतीति ; एत­दा­चा­र­वि­धि­शा­स्त्रेषु निषिद्धम् ; तस्मात् तिष्ठ त्वम् आचार्य एव सन् ; विज्ञ­प­यि­ष्या­म्येव त्वामहम् — यस्मिन्विदिते ब्रह्म विदितं भवति, यत्तन्मुख्यं ब्रह्म वेद्यम् । तं गार्ग्यं सलज्जमालक्ष्य विस्रम्भजननाय पाणौ हस्ते आदाय गृहीत्वा उत्तस्थौ उत्थितवान् । तौ ह गार्ग्या­जा­त­शत्रू पुरुषं सुप्तं राजगृहप्रदेशे क्वचित् आजग्मतुः आगतौ । तं च पुरुषं सुप्तं प्राप्य एतैर्नामभिः — बृहन् पाण्डरवासः सोम राजन्नित्येतैः — आम­न्त्र­या­ञ्चक्रे । एव­मा­म­न्त्र्य­मा­णोऽपि स सुप्तः नोत्तस्थौ । तम् अप्र­ति­बु­द्ध्य­मानं पाणिना आपेषम् आपिष्य आपिष्य बोधयाञ्चकार प्रतिबोधितवान् । तेन स होत्तस्थौ । तस्माद्यो गार्ग्ये­णा­भि­प्रेतः, नासा­व­स्मि­ञ्छ­रीरे कर्ता भोक्ता ब्रह्मेति ॥

कथं पुनरिदमवगम्यते — सुप्त­पु­रु­ष­ग­म­न­त­त्स­म्बो­ध­ना­नु­त्थानैः गार्ग्याभिमतस्य ब्रह्म­णोऽ­ब्र­ह्मत्वं ज्ञापितमिति ? जागरितकाले यो गार्ग्या­भि­प्रेतः पुरुषः कर्ता भोक्ता ब्रह्म सन्निहितः करणेषु यथा, तथा अजा­त­श­त्र्व­भि­प्रे­तोऽपि तत्स्वामी भृत्येष्विव राजा सन्निहित एव ; किं तु भृत्यस्वामिनोः गार्ग्या­जा­त­श­त्र्व­भि­प्रे­तयोः यद्वि­वे­का­व­धा­र­ण­का­र­णम् , तत् सङ्की­र्ण­त्वा­द­न­व­धा­रि­त­वि­शे­षम् ; यत् द्रष्टृत्वमेव भोक्तुः न दृश्यत्वम् , यच्च अभो­क्तु­र्दृ­श्य­त्व­मेव न तु द्रष्टृत्वम् , तच्च उभयम् इह सङ्की­र्ण­त्वा­द्वि­विच्य दर्श­यि­तु­म­श­क्य­मिति सुप्तपुरुषगमनम् । ननु सुप्तेऽपि पुरुषे विशि­ष्टै­र्ना­म­भि­रा­म­न्त्रितो भोक्तैव प्रतिपत्स्यते, न अभोक्ता — इति नैव निर्णयः स्यादिति । न, निर्धा­रि­त­वि­शे­ष­त्वा­द्गा­र्ग्या­भि­प्रे­तस्य — यो हि सत्येन च्छन्नः प्राण आत्मा अमृतः वागादिषु अनस्तमितः निम्लोचत्सु, यस्य आपः शरीरं पाण्डरवासाः, यश्च असपत्नत्वात् बृहन् , यश्च सोमो राजा षोडशकलः, स स्वव्यापारारूढो यथानिर्ज्ञात एव अनस्तमितस्वभाव आस्ते ; न च अन्यस्य कस्य­चि­द्व्या­पारः तस्मिन्काले गार्ग्ये­णा­भि­प्रे­यते तद्विरोधिनः ; तस्मात् स्वना­म­भि­रा­म­न्त्रि­तेन प्रतिबोद्धव्यम् ; न च प्रत्यबुध्यत ; तस्मात् पारिशेष्यात् गार्ग्या­भि­प्रे­तस्य अभोक्तृत्वं ब्रह्मणः । भोक्तृ­स्व­भा­व­श्चेत् भुञ्जीतैव स्वं विषयं प्राप्तम् ; न हि दग्धृस्वभावः प्रका­श­यि­तृ­स्व­भावः सन् वह्निः तृणोलपादि दाह्यं स्वविषयं प्राप्तं न दहति, प्रकाश्यं वा न प्रकाशयति ; न चेत् दहति प्रकाशयति वा प्राप्तं स्वं विषयम् , नासौ वह्निः दग्धा प्रकाशयिता वेति निश्चीयते ; तथा असौ प्राप्त­श­ब्दा­दि­वि­ष­यो­प­ल­ब्धृ­स्व­भा­व­श्चेत् गार्ग्या­भि­प्रेतः प्राणः, बृहन्पाण्डरवास इत्येवमादिशब्दं स्वं विषयमुपलभेत — यथा प्राप्तं तृणोलपादि वह्निः दहेत् प्रकाशयेच्च अव्यभिचारेण तद्वत् । तस्मात् प्राप्तानां शब्दादीनाम् अप्रतिबोधात् अभोक्तृस्वभाव इति निश्चीयते ; न हि यस्य यः स्वभावो निश्चितः, स तं व्यभिचरति कदाचिदपि ; अतः सिद्धं प्राण­स्या­भो­क्तृ­त्वम् । सम्बो­ध­ना­र्थ­ना­म­वि­शे­षेण सम्ब­न्धा­ग्र­ह­णात् अप्रतिबोध इति चेत् — स्यादेतत् — यथा बहुष्वासीनेषु स्वनामविशेषेण सम्ब­न्धा­ग्र­ह­णात् मामयं सम्बोधयतीति, शृण्वन्नपि सम्बोध्यमानः विशेषतो न प्रतिपद्यते ; तथा इमानि बृह­न्नि­त्ये­व­मा­दीनि मम नामानीति अगृ­ही­त­स­म्ब­न्ध­त्वात् प्राणो न गृह्णाति सम्बोधनार्थं शब्दम् , न त्ववि­ज्ञा­तृ­त्वा­देव — इति चेत् — न, देवताभ्युपगमे अग्र­ह­णा­नु­प­पत्तेः ; यस्य हि चन्द्रा­द्य­भि­मा­निनी देवता अध्यात्मं प्राणो भोक्ता अभ्युपगम्यते, तस्य तया संव्यवहाराय विशेषनाम्ना सम्बन्धोऽवश्यं ग्रहीतव्यः ; अन्यथा आह्वानादिविषये संव्य­व­हा­रोऽ­नु­प­पन्नः स्यात् । व्यति­रि­क्त­प­क्षेऽपि अप्रतिपत्तेः अयुक्तमिति चेत् — यस्य च प्राण­व्य­ति­रिक्तो भोक्ता, तस्यापि बृह­न्नि­त्या­दि­ना­मभिः सम्बोधने बृह­त्त्वा­दि­नाम्नां तदा तद्विषयत्वात् प्रति­प­त्ति­र्युक्ता ; न च कदाचिदपि बृह­त्त्वा­दि­शब्दैः सम्बोधितः प्रतिपद्यमानो दृश्यते ; तस्मात् अकारणम् अभोक्तृत्वे सम्बो­ध­ना­प्र­ति­प­त्ति­रिति चेत् — न, तद्वतः ताव­न्मा­त्रा­भि­मा­ना­नु­प­पत्तेः ; यस्य प्राण­व्य­ति­रिक्तो भोक्ता, सः प्राणादिकरणवान् प्राणी ; तस्य न प्राण­दे­व­ता­मा­त्रेऽ­भि­मानः, यथा हस्ते ; तस्मात् प्राण­ना­म­स­म्बो­धने कृत्स्ना­भि­मा­निनो युक्तैव अप्रतिपत्तिः, न तु प्राणस्य असा­धा­र­ण­ना­म­सं­योगे ; देव­ता­त्म­त्वा­न­भि­मा­नाच्च आत्मनः । स्वना­म­प्र­यो­गेऽ­प्य­प्र­ति­प­त्ति­द­र्श­ना­द­यु­क्त­मिति चेत् — सुषुप्तस्य यल्लौकिकं देवदत्तादि नाम तेनापि सम्बोध्यमानः कदाचिन्न प्रतिपद्यते सुषुप्तः ; तथा भोक्तापि सन् प्राणो न प्रतिपद्यत इति चेत् — न, आत्मप्राणयोः सुप्ता­सु­प्त­त्व­वि­शे­षो­प­पत्तेः ; सुषुप्तत्वात् प्राणग्रस्ततया उपरतकरण आत्मा स्वं नाम प्रयुज्यमानमपि न प्रतिपद्यते ; न तु तत् असुप्तस्य प्राणस्य भोक्तृत्वे उपरतकरणत्वं सम्बोधनाग्रहणं वा युक्तम् । अप्रसिद्धनामभिः सम्बो­ध­न­म­यु­क्त­मिति चेत् — सन्ति हि प्राणविषयाणि प्रसिद्धानि प्राणादिनामानि ; तान्यपोह्य अप्र­सि­द्धै­र्बृ­ह­त्त्वा­दि­ना­मभिः सम्बोधनमयुक्तम् , लौकि­क­न्या­या­पो­हात् ; तस्मात् भोक्तुरेव सतः प्राण­स्या­प्र­ति­प­त्ति­रिति चेत् — न देव­ता­प्र­त्या­ख्या­ना­र्थ­त्वात् ; केव­ल­स­म्बो­ध­न­मा­त्रा­प्र­ति­प­त्त्यैव असुप्तस्य आध्यात्मिकस्य प्राण­स्या­भो­क्तृत्वे सिद्धे, यत् चन्द्र­दे­व­ता­वि­ष­यै­र्ना­मभिः सम्बोधनम् , तत् चन्द्रदेवता प्राणः अस्मिञ्छरीरे भोक्तेति गार्ग्यस्य विशे­ष­प्र­ति­प­त्ति­नि­रा­क­र­णा­र्थम् ; न हि तत् लौकिकनाम्ना सम्बोधने शक्यं कर्तुम् । प्राण­प्र­त्या­ख्या­ने­नैव प्राण­ग्र­स्त­त्वा­त्क­र­णा­न्त­राणां प्रवृ­त्त्य­नु­प­पत्तेः भोक्तृ­त्वा­श­ङ्का­नु­प­पत्तिः । देव­ता­न्त­रा­भा­वाच्च ; ननु अतिष्ठा इत्या­द्या­त्म­न्वी­त्य­न्तेन ग्रन्थेन गुण­व­द्दे­व­ता­भे­दस्य दर्शितत्वादिति चेत् , न, तस्य प्राण एव एक­त्वा­भ्यु­प­ग­मात् सर्वश्रुतिषु अर­ना­भि­नि­द­र्श­नेन, ‘सत्येन च्छन्नः’ ‘प्राणो वा अमृतम्’(बृ. उ. १ । ६ । ३) इति च प्राणबाह्यस्य अन्यस्य अनभ्युपगमात् भोक्तुः । ‘एष उ ह्येव सर्वे देवाः, कतम एको देव इति, प्राणः’(बृ. उ. ३ । ९ । ९) इति च सर्वदेवानां प्राण एव एकत्वोपपादनाच्च । तथा कर­ण­भे­दे­ष्व­ना­शङ्का, देहभेदेष्विव स्मृति­ज्ञा­ने­च्छा­दि­प्र­ति­स­न्धा­ना­नु­प­पत्तेः ; न हि अन्यदृष्टम् अन्यः स्मरति जानाति इच्छति प्रतिसन्दधाति वा ; तस्मात् न करणभेदविषया भोक्तृत्वाशङ्का विज्ञा­न­मा­त्र­वि­षया वा कदा­चि­द­प्यु­प­प­द्यते । ननु सङ्घात एवास्तु भोक्ता, किं व्यति­रि­क्त­क­ल्प­न­येति — न, आपेषणे विशेषदर्शनात् ; यदि हि प्राण­श­री­र­स­ङ्घा­त­मात्रो भोक्ता स्यात् सङ्घा­त­मा­त्रा­वि­शे­षात् सदा आपिष्टस्य अनापिष्टस्य च प्रतिबोधे विशेषो न स्यात् ; सङ्घा­त­व्य­ति­रिक्ते तु पुनर्भोक्तरि सङ्घा­त­स­म्ब­न्ध­वि­शे­षा­ने­क­त्वात् पेष­णा­पे­ष­ण­कृ­त­वे­द­नायाः सुख­दुः­ख­मो­ह­म­ध्य­मा­धा­मो­त्त­म­क­र्म­फ­ल­भे­दो­प­प­त्तेश्च विशेषो युक्तः ; न तु सङ्घातमात्रे सम्ब­न्ध­क­र्म­फ­ल­भे­दा­नु­प­पत्तेः विशेषो युक्तः ; तथा शब्दा­दि­प­टु­मा­न्द्या­दि­कृ­तश्च । अस्ति चायं विशेषः — यस्मात् स्पर्शमात्रेण अप्रतिबुध्यमानं पुरुषं सुप्तं पाणिना आपेषम् आपिष्य आपिष्य बोधयाञ्चकार अजातशत्रुः । तस्मात् यः आपेषणेन प्रतिबुबुधे — ज्वलन्निव स्फुरन्निव कुतश्चिदागत इव पिण्डं च पूर्वविपरीतं बोध­चे­ष्टा­का­र­वि­शे­षा­दि­म­त्त्वेन आपादयन् , सोऽन्योऽस्ति गार्ग्या­भि­म­त­ब्र­ह्मभ्यो व्यतिरिक्त इति सिद्धम् । संहतत्वाच्च पारा­र्थ्यो­प­पत्तिः प्राणस्य ; गृहस्य स्तम्भादिवत् शरीरस्य अन्तरुपष्टम्भकः प्राणः शरीरादिभिः संहत इत्यवोचाम — अरनेमिवच्च, नाभिस्थानीय एत­स्मि­न्स­र्व­मिति च ; तस्मात् गृहादिवत् स्वाव­य­व­स­मु­दा­य­जा­ती­य­व्य­ति­रि­क्तार्थं संहन्यत इत्येवम् अवगच्छाम । स्तम्भ­कु­ड्य­तृ­ण­का­ष्ठा­दि­गृ­हा­व­य­वानां स्वात्म­ज­न्मो­प­च­या­प­च­य­वि­ना­श­ना­मा­कृ­ति­का­र्य­ध­र्म­नि­र­पे­क्ष­ल­ब्ध­स­त्तादि — तद्वि­ष­य­द्र­ष्टृ­श्रो­तृ­म­न्तृ­वि­ज्ञा­त्र­र्थत्वं दृष्ट्वा, मन्यामहे, तत्सङ्घातस्य च — तथा प्राणा­द्य­व­य­वानां तत्सङ्घातस्य च स्वात्म­ज­न्मो­प­च­या­प­च­य­वि­ना­श­ना­मा­कृ­ति­का­र्य­ध­र्म­नि­र­पे­क्ष­ल­ब्ध­स­त्तादि — तद्वि­ष­य­द्र­ष्टृ­श्रो­तृ­म­न्तृ­वि­ज्ञा­त्र­र्थत्वं भवितुमर्हतीति । देव­ता­चे­त­ना­वत्त्वे सम­त्वा­द्गु­ण­भा­वा­नु­प­गम इति चेत् — प्राणस्य विशि­ष्टै­र्ना­म­भि­रा­म­न्त्र­ण­द­र्श­नात् चेत­ना­व­त्त्व­म­भ्यु­प­ग­तम् ; चेतनावत्त्वे च पारार्थ्योपगमः समत्वादनुपपन्न इति चेत् — न निरुपाधिकस्य केवलस्य विजि­ज्ञा­प­यि­षि­त­त्वात् क्रिया­का­र­क­फ­ला­त्म­कता हि आत्मनो नाम­रू­पो­पा­धि­ज­निता अवि­द्या­ध्या­रो­पिता ; तन्निमित्तो लोकस्य क्रिया­का­र­क­फ­ला­भि­मा­न­ल­क्षणः संसारः ; स निरू­पा­धि­का­त्म­स्व­रू­प­वि­द्यया निवर्तयितव्य इति तत्स्व­रू­प­वि­जि­ज्ञा­प­यि­षया उपनिषदारम्भः — ‘ब्रह्म ते ब्रवाणि’(बृ. उ. २ । १ । १) ‘नैतावता विदितं भवति’(बृ. उ. २ । १ । १) इति च उपक्रम्य ‘एतावदरे खल्वमृतत्वम्’(बृ. उ. ४ । ५ । १५) इति च उपसंहारात् ; न च अतोऽन्यत् अन्तराले विवक्षितम् उक्तं वा अस्ति ; तस्मादनवसरः सम­त्वा­द्गु­ण­भा­वा­नु­प­गम इति चोद्यस्य । विशेषवतो हि सोपाधिकस्य संव्यवहारार्थो गुणगुणिभावः, न विपरीतस्य ; निरुपाख्यो हि विजिज्ञापयिषितः सर्व­स्या­मु­प­नि­षदि, ‘स एष नेति नेति’(बृ. उ. ४ । ५ । १५) इत्युपसंहारात् । तस्मात् आदि­त्या­दि­ब्र­ह्मभ्य एते­भ्योऽ­वि­ज्ञा­न­म­येभ्यो विलक्षणः अन्योऽस्ति विज्ञानमय इत्येतत्सिद्धम् ॥

स होवा­चा­जा­त­श­त्रु­र्य­त्रैष एत­त्सु­प्तोऽ­भूद्य एष विज्ञानमयः पुरुषः क्वैष तदाभूत्कुत एतदागादिति तदु ह न मेने गार्ग्यः ॥ १६ ॥

१६

स एवम् अजातशत्रुः व्यति­रि­क्ता­त्मा­स्तित्वं प्रतिपाद्य गार्ग्यमुवाच — यत्र यस्मिन्काले एषः विज्ञानमयः पुरुषः एतत् स्वपनं सुप्तः अभूत् प्राक् पाणि­पे­ष­प्र­ति­बो­धात् ; विज्ञानम् विज्ञा­य­तेऽ­ने­ने­त्य­न्तः­क­रणं बुद्धिः उच्यते, तन्मयः तत्प्रायः विज्ञानमयः ; किं पुन­स्त­त्प्रा­य­त्वम् ? तस्मि­न्नु­प­ल­भ्य­त्वम् , तेन चोपलभ्यत्वम् , उपलब्धृत्वं च ; कथं पुन­र्म­य­टोऽ­ने­का­र्थत्वे प्रायार्थतैव अवगम्यते ? ‘स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः’(बृ. उ. ४ । ४ । ५) इत्येवमादौ प्रायार्थ एव प्रयोगदर्शनात् पर­वि­ज्ञा­न­वि­का­र­त्व­स्या­प्र­सि­द्ध­त्वात् ‘य एष विज्ञानमयः’ इति च प्रसि­द्ध­व­द­नु­वा­दात् अव­य­वो­प­मा­र्थ­योश्च अत्रासम्भवात् पारिशेष्यात् प्रायार्थतैव ; तस्मात् सङ्क­ल्प­वि­क­ल्पा­द्या­त्म­क­म­न्तः­क­रणं तन्मय इत्येतत् ; पुरुषः, पुरि शयनात् । क्वैष तदा अभूदिति प्रश्नः स्वभा­व­वि­जि­ज्ञा­प­यि­षया — प्राक् प्रतिबोधात् क्रिया­का­र­क­फ­ल­वि­प­री­त­स्व­भाव आत्मेति कार्याभावेन दिदर्शयिषितम् ; न हि प्राक्प्र­ति­बो­धा­त्क­र्मा­दि­कार्यं सुखादि किञ्चन गृह्यते ; तस्मात् अक­र्म­प्र­यु­क्त­त्वात् तथास्वाभाव्यमेव आत्मनोऽवगम्यते — यस्मि­न्स्वा­भा­व्येऽ­भूत् , यतश्च स्वाभा­व्या­त्प्र­च्युतः संसारी स्वभावविलक्षण इति — एतद्विवक्षया पृच्छति गार्ग्यं प्रतिभानरहितं बुद्धि­व्यु­त्पा­द­नाय । क्वैष तदाभूत् , कुत एतदागात् — इत्येतदुभयं गार्ग्येणैव प्रष्टव्यमासीत् ; तथापि गार्ग्येण न पृष्टमिति नोदा­स्तेऽ­जा­त­शत्रुः ; बोधयितव्य एवेति प्रवर्तते, ज्ञाप­यि­ष्या­म्ये­वेति प्रति­ज्ञा­त­त्वात् । एवमसौ व्युत्पा­द्य­मा­नोऽपि गार्ग्यः — यत्रैष आत्माभूत् प्राक्प्र­ति­बो­धात् , यत­श्चै­त­दा­ग­म­न­मा­गात् — तदुभयं न व्युत्पेदे वक्तुं वा प्रष्टुं वा — गार्ग्यो ह न मेने न ज्ञातवान् ॥

स होवा­चा­जा­त­श­त्रु­र्य­त्रैष एत­त्सु­प्तोऽ­भूद्य एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आका­श­स्त­स्मि­ञ्छेते तानि यदा गृह्णात्यथ हैतत्पुरुषः स्वपिति नाम तद्गृहीत एव प्राणो भवति गृहीता वाग्गृहीतं चक्षुर्गृहीतं श्रोत्रं गृहीतं मनः ॥ १७ ॥

१७

स होवाच अजातशत्रुः विव­क्षि­ता­र्थ­स­म­र्प­णाय । यत्रैष एत­त्सु­प्तोऽ­भूद्य एष विज्ञानमयः पुरुषः — क्वैष तदाभूत्कुत एतदागादिति यदपृच्छाम, तत् शृणु उच्यमानम् — यत्रैष एतत्सुप्तोऽभूत् , तत् तदा तस्मिन्काले एषां वागादीनां प्राणानाम् , विज्ञानेन अन्तः­क­र­ण­ग­ता­भि­व्य­क्ति­वि­शे­ष­वि­ज्ञा­नेन उपा­धि­स्व­भा­व­ज­नि­तेन, आदाय विज्ञानम् वागादीनां स्वस्व­वि­ष­य­ग­त­सा­मर्थ्यं गृहीत्वा, य एषः अन्तः मध्ये हृदये हृदयस्य आकाशः — य आकाशशब्देन पर एव स्व आत्मोच्यते — तस्मिन् स्वे आत्मन्याकाशे शेते स्वाभा­वि­केऽ­सां­सा­रिके ; न केवल आकाश एव, श्रुत्य­न्त­र­सा­म­र्थ्यात् — ‘सता सोम्य तदा सम्पन्नो भवति’(छा. उ. ६ । ८ । १) इति ; लिङ्गो­पा­धि­स­म्ब­न्ध­कृतं विशे­षा­त्म­स्व­रू­प­मु­त्सृज्य अविशेषे स्वाभाविके आत्मन्येव केवले वर्तत इत्यभिप्रायः । यदा शरी­रे­न्द्रि­या­ध्य­क्ष­ता­मु­त्सृ­जति तदा असौ स्वात्मनि वर्तत इति कथमवगम्यते ? नामप्रसिद्ध्या ; कासौ नाम­प्र­सि­द्धि­रि­त्याह — तानि वागा­दे­र्वि­ज्ञा­नानि यदा यस्मिन्काले गृह्णाति आदत्ते, अथ तदा ह एतत्पुरुषः स्वपितिनाम एतन्नाम अस्य पुरुषस्य तदा प्रसिद्धं भवति ; गौणमेवास्य नाम भवति ; स्वमेव आत्मानम् अपीति अपिगच्छतीति स्वपि­ती­त्यु­च्यते । सत्यं स्वपि­ती­ति­ना­म­प्र­सिद्ध्या आत्मनः संसा­र­ध­र्म­वि­ल­क्षणं रूपमवगम्यते, न त्वत्र युक्ति­र­स्ती­त्या­श­ङ्क्याह — तत् तत्र स्वापकाले गृहीत एव प्राणो भवति ; प्राण इति घ्राणेन्द्रियम् , वागादिप्रकरणात् ; वागादिसम्बन्धे हि सति तदुपाधित्वादस्य संसारधर्मित्वं लक्ष्यते ; वागादयश्च उपसंहृता एव तदा तेन ; कथम् ? गृहीता वाक् , गृहीतं चक्षुः, गृहीतं श्रोत्रम् , गृहीतं मनः ; तस्मात् उपसंहृतेषु वागादिषु क्रिया­का­र­क­फ­ला­त्म­ता­भा­वात् स्वात्मस्थ एव आत्मा भवतीत्यवगम्यते ॥

स यत्रै­त­त्स्व­प्न्यया चरति ते हास्य लोकास्तदुतेव महाराजो भवत्युतेव महाब्राह्मण उतेवोच्चावचं निगच्छति स यथा महाराजो जान­प­दा­न्गृ­हीत्वा स्वे जनपदे यथाकामं परि­व­र्ते­तै­व­मे­वैष एत­त्प्रा­णा­न्गृ­हीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ १८ ॥

१८

ननु दर्शनलक्षणायां स्वप्नावस्थायां कार्य­क­र­ण­वि­यो­गेऽपि संसा­र­ध­र्मि­त्व­मस्य दृश्यते — यथा च जागरिते सुखी दुःखी बन्धुवियुक्तः शोचति मुह्यते च ; तस्मात् शोक­मो­ह­ध­र्म­वा­ने­वा­यम् ; नास्य शोकमोहादयः सुखदुःखादयश्च कार्य­क­र­ण­सं­यो­ग­ज­नि­त­भ्रान्त्या अध्यारोपिता इति । न, मृषात्वात् — सः प्रकृत आत्मा यत्र यस्मिन्काले दर्शनलक्षणया स्वप्न्यया स्वप्नवृत्त्या चरति वर्तते, तदा ते ह अस्य लोकाः कर्मफलानि — के ते ? तत् तत्र उत अपि महाराज इव भवति ; सोऽयं महाराजत्वमिव अस्य लोकः, न महाराजत्वमेव जागरित इव ; तथा महाब्राह्मण इव, उत अपि, उच्चावचम् — उच्चं च देवत्वादि, अवचं च तिर्यक्त्वादि, उच्चमिव अवचमिव च — निगच्छति मृषैव महा­रा­ज­त्वा­द­योऽस्य लोकाः, इव - शब्दप्रयोगात् , व्यभि­चा­र­द­र्श­नाच्च ; तस्मात् न बन्धु­वि­यो­गा­दि­ज­नि­त­शो­क­मो­हा­दिभिः स्वप्ने सम्बध्यत एव ॥

ननु च यथा जागरिते जाग्र­त्का­ला­व्य­भि­चा­रिणो लोकाः, एवं स्वप्नेऽपि तेऽस्य महाराजत्वादयो लोकाः स्वप्नकालभाविनः स्वप्न­का­ला­व्य­भि­चा­रिण आत्मभूता एव, न तु अवि­द्या­ध्या­रो­पिता इति — ननु च जाग्र­त्का­र्य­क­र­णा­त्मत्वं देवतात्मत्वं च अवि­द्या­ध्या­रो­पितं न परमार्थत इति व्यति­रि­क्त­वि­ज्ञा­न­म­या­त्म­प्र­द­र्श­नेन प्रदर्शितम् ; तत् कथं दृष्टान्तत्वेन स्वप्नलोकस्य मृत इव उज्जीविष्यन् प्रादु­र्भ­वि­ष्यति — सत्यम् , विज्ञानमये व्यतिरिक्ते कार्य­क­र­ण­दे­व­ता­त्म­त्व­प्र­द­र्श­नम् अवि­द्या­ध्या­रो­पि­तम् — शुक्तिकायामिव रजतत्वदर्शनम् — इत्येतत्सिध्यति व्यति­रि­क्ता­त्मा­स्ति­त्व­प्र­द­र्श­न­न्या­ये­नैव, न तु तद्वि­शु­द्धि­प­र­त­यैव न्याय उक्तः इति — असन्नपि दृष्टान्तः जाग्र­त्का­र्य­क­र­ण­दे­व­ता­त्म­त्व­द­र्श­न­ल­क्षणः पुनरुद्भाव्यते ; सर्वो हि न्यायः किञ्चि­द्वि­शे­ष­म­पे­क्ष­माणः अपुनरुक्ती भवति । न ताव­त्स्व­प्नेऽ­नु­भू­त­म­हा­रा­ज­त्वा­दयो लोका आत्मभूताः, आत्मनोऽन्यस्य जाग्र­त्प्र­ति­बि­म्ब­भू­तस्य लोकस्य दर्शनात् ; महाराज एव तावत् व्यस्तसुप्तासु प्रकृतिषु पर्यङ्के शयानः स्वप्नान्पश्यन् उपसंहृतकरणः पुन­रु­प­ग­त­प्र­कृतिं महाराजमिव आत्मानं जागरित इव पश्यति यात्रागतं भुञ्जानमिव च भोगान् ; न च तस्य महाराजस्य पर्यङ्के शयानात् द्वितीय अन्यः प्रकृत्युपेतो विषये पर्यटन्नहनि लोके प्रसिद्धोऽस्ति, यमसौ सुप्तः पश्यति ; न च उपसंहृतकरणस्य रूपादिमतो दर्शनमुपपद्यते ; न च देहे देहान्तरस्य तत्तुल्यस्य सम्भवोऽस्ति ; देहस्थस्यैव हि स्वप्नदर्शनम् । ननु पर्यङ्के शयानः पथि प्रवृ­त्त­मा­त्मानं पश्यति — न बहिः स्वप्ना­न्प­श्य­ती­त्ये­त­दाह — सः महाराजः, जानपदान् जनपदे भवान् राजोपकरणभूतान् भृत्या­न­न्यांश्च, गृहीत्वा उपादाय, स्वे आत्मीय एव जयादिनोपार्जिते जनपदे, यथाकामं यो यः कामोऽस्य यथाकामम् इच्छातो यथा परि­व­र्ते­ते­त्यर्थः ; एवमेव एष विज्ञानमयः, एतदिति क्रियाविशेषणम् , प्राणा­न्गृ­हीत्वा जागरितस्थानेभ्य उपसंहृत्य, स्वे शरीरे स्व एव देहे न बहिः, यथाकामं परिवर्तते — काम­क­र्म­भ्या­मु­द्भा­सिताः पूर्वा­नु­भू­त­व­स्तु­स­दृ­शी­र्वा­सना अनुभवतीत्यर्थः । तस्मात् स्वप्ने मृषाध्यारोपिता एव आत्मभूतत्वेन लोका अविद्यमाना एव सन्तः ; तथा जागरितेऽपि — इति प्रत्येतव्यम् । तस्मात् विशुद्धः अक्रि­या­का­र­क­फ­ला­त्मको विज्ञानमय इत्येतत्सिद्धम् । यस्मात् दृश्यन्ते द्रष्टु­र्वि­ष­य­भूताः क्रिया­का­र­क­फ­ला­त्मकाः कार्यकरणलक्षणा लोकाः, तथा स्वप्नेऽपि, तस्मात् अन्योऽसौ दृश्येभ्यः स्वप्न­जा­ग­रि­त­लो­केभ्यो द्रष्टा विज्ञानमयो विशुद्धः ॥

दर्शनवृत्तौ स्वप्ने वास­ना­रा­शे­र्दृ­श्य­त्वा­द­त­द्ध­र्म­तेति विशुद्धता अवगता आत्मनः ; तत्र यथाकामं परिवर्तत इति काम­व­शा­त्प­रि­व­र्त­न­मु­क्तम् ; द्रष्टु­र्दृ­श्य­स­म्ब­न्धश्च अस्य स्वाभाविक इत्यशुद्धता शङ्क्यते ; अत­स्त­द्वि­शु­द्ध्य­र्थ­माह —

अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृद­या­त्पु­री­त­त­म­भि­प्र­ति­ष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते स यथा कुमारो वा महाराजो वा महाब्राह्मणो वाति­घ्नी­मा­न­न्दस्य गत्वा शयीतैवमेवैष एतच्छेते ॥ १९ ॥

१९

अथ यदा सुषुप्तो भवति — यदा स्वप्न्यया चरति, तदाप्ययं विशुद्ध एव ; अथ पुनः यदा हित्वा दर्शनवृत्तिं स्वप्नं यदा यस्मिन्काले सुषुप्तः सुष्ठु सुप्तः सम्प्रसादं स्वाभाव्यं गतः भवति — सलि­ल­मि­वा­न्य­स­म्ब­न्ध­का­लुष्यं हित्वा स्वाभाव्येन प्रसीदति । कदा सुषुप्तो भवति ? यदा यस्मिन्काले, न कस्यचन न किञ्चनेत्यर्थः, वेद विजानाति ; कस्यचन वा शब्दादेः सम्ब­न्धि­व­स्त्व­न्तरं किञ्चन न वेद — इत्यध्याहार्यम् ; पूर्वं तु न्याय्यम् , सुप्ते तु विशे­ष­वि­ज्ञा­ना­भा­वस्य विवक्षितत्वात् । एवं ताव­द्वि­शे­ष­वि­ज्ञा­ना­भावे सुषुप्तो भवतीत्युक्तम् ; केन पुनः क्रमेण सुषुप्तो भवतीत्युच्यते — हिता नाम हिता इत्येवंनाम्न्यो नाड्यः सिराः देह­स्या­न्न­र­स­वि­प­रि­णा­म­भूताः, ताश्च, द्वासप्ततिः सहस्राणि — द्वे सहस्रे अधिके सप्ततिश्च सहस्राणि — ता द्वासप्ततिः सहस्राणि, हृदयात् — हृदयं नाम मांसपिण्डः — तस्मा­न्मां­स­पि­ण्डा­त्पु­ण्ड­री­का­का­रात् , पुरीततं हृद­य­प­रि­वे­ष्ट­न­मा­च­क्षते — तदुपलक्षितं शरीरमिह पुरी­त­च्छ­ब्दे­ना­भि­प्रे­तम् — पुरी­त­त­म­भि­प्र­ति­ष्ठन्त इति — शरीरं कृत्स्नं व्याप्नुवत्यः अश्वत्थपर्णराजय इव बहिर्मुख्यः प्रवृत्ता इत्यर्थः । तत्र बुद्धे­र­न्तः­क­र­णस्य हृदयं स्थानम् ; तत्र­स्थ­बु­द्धि­त­न्त्राणि च इतराणि बाह्यानि करणानि ; तेन बुद्धिः कर्मवशात् श्रोत्रादीनि ताभिर्नाडीभिः मत्स्यजालवत् कर्ण­श­ष्कु­ल्या­दि­स्था­नेभ्यः प्रसारयति ; प्रसार्य च अधितिष्ठति जागरितकाले ; तां विज्ञा­न­म­योऽ­भि­व्य­क्त­स्वा­त्म­चै­त­न्या­व­भा­स­तया व्याप्नोति ; सङ्कोचनकाले च तस्याः अनुसङ्कुचति ; सोऽस्य विज्ञानमयस्य स्वापः ; जाग्र­द्वि­का­सा­नु­भवो भोगः ; बुद्ध्यु­पा­धि­स्व­भा­वा­नु­वि­धायी हि सः, चन्द्रा­दि­प्र­ति­बिम्ब इव जलाद्यनुविधायी । तस्मात् तस्या बुद्धेः जाग्रद्विषयायाः ताभिः नाडीभिः प्रत्यवसर्पणमनु प्रत्यवसृप्य पुरीतति शरीरे शेते तिष्ठति — तप्तमिव लोहपिण्डम् अविशेषेण संव्याप्य अग्निवत् शरीरं संव्याप्य वर्तत इत्यर्थः । स्वाभाविक एव स्वात्मनि वर्तमानोऽपि कर्मा­नु­ग­त­बु­द्ध्य­नु­वृ­त्ति­त्वात् पुरीतति शेत इत्युच्यते । न हि सुषुप्तिकाले शरी­र­स­म्ब­न्धोऽस्ति । ‘तीर्णो हि तदा सर्वा­ञ्छो­का­न्हृ­द­यस्य’(बृ. उ. ४ । ३ । २२) इति हि वक्ष्यति । सर्व­सं­सा­र­दुः­ख­वि­यु­क्ते­य­म­व­स्थे­त्यत्र दृष्टान्तः — स यथा कुमारो वा अत्यन्तबालो वा, महाराजो वा अत्य­न्त­व­श्य­प्र­कृतिः यथोक्तकृत् , महाब्राह्मणो वा अत्य­न्त­प­रि­प­क्व­वि­द्या­वि­न­य­स­म्पन्नः, अतिघ्नीम् — अतिशयेन दुःखं हन्तीत्यतिघ्नी आनन्दस्य अवस्था सुखावस्था ताम् प्राप्य गत्वा, शयीत अवतिष्ठेत । एषां च कुमारादीनां स्वभावस्थानां सुखं निरतिशयं प्रसिद्धं लोके ; विक्रियमाणानां हि तेषां दुःखं न स्वभावतः ; तेन तेषां स्वाभा­वि­क्य­वस्था दृष्टा­न्त­त्वे­नो­पा­दी­यते, प्रसिद्धत्वात् ; न तेषां स्वाप एवाभिप्रेतः, स्वापस्य दार्ष्टा­न्ति­क­त्वेन विवक्षितत्वात् विशेषाभावाच्च ; विशेषे हि सति दृष्टा­न्त­दा­र्ष्टा­न्ति­क­भेदः स्यात् ; तस्मान्न तेषां स्वापो दृष्टान्तः — एवमेव, यथा अयं दृष्टान्तः, एष विज्ञानमय एतत् शयनं शेते इति — एतच्छन्दः क्रिया­वि­शे­ष­णार्थः — एवमयं स्वाभाविके स्व आत्मनि सर्व­सं­सा­र­ध­र्मा­तीतो वर्तते स्वापकाल इति ॥

क्वैष तदाभूदित्यस्य प्रश्नस्य प्रतिवचनमुक्तम् ; अनेन च प्रश्ननिर्णयेन विज्ञानमयस्य स्वभावतो विशुद्धिः असंसारित्वं च उक्तम् ; कुत एतदागादित्यस्य प्रश्न­स्या­पा­क­र­णार्थः आरम्भः । ननु यस्मिन्ग्रामे नगरे वा यो भवति, सोऽन्यत्र गच्छन् तत एव ग्रामा­न्न­ग­राद्वा गच्छति, नान्यतः ; तथा सति क्वैष तदा­भू­दि­त्ये­ता­वा­ने­वास्तु प्रश्नः ; यत्राभूत् तत एव आगमनं प्रसिद्धं स्यात् नान्यत इति कुत एतदागादिति प्रश्नो निरर्थक एव — किं श्रुति­रु­पा­ल­भ्यते भवता ? न ; किं तर्हि द्वितीयस्य प्रश्नस्य अर्थान्तरं श्रोतुमिच्छामि, अत आनर्थक्यं चोदयामि । एवं तर्हि कुत इत्यपादानार्थता न गृह्यते ; अपादानार्थत्वे हि पुनरुक्तता, नान्यार्थत्वे ; अस्तु तर्हि निमित्तार्थः प्रश्नः — कुत एतदागात् — किन्नि­मि­त्त­मि­हा­ग­म­न­मिति । न निमि­त्ता­र्थ­तापि, प्रति­व­च­न­वै­रू­प्यात् ; आत्मनश्च सर्वस्य जगतः अग्नि­वि­स्फु­लि­ङ्गा­दि­व­दु­त्पत्तिः प्रतिवचने श्रूयते ; न हि विस्फुलिङ्गानां विद्रवणे अग्नि­र्नि­मि­त्तम् , अपादानमेव तु सः ; तथा परमात्मा विज्ञानमयस्य आत्म­नोऽ­पा­दा­न­त्वेन श्रूयते — ‘अस्मादात्मनः’ इत्ये­त­स्मि­न्वाक्ये ; तस्मात् प्रति­व­च­न­वै­लो­म्यात् कुत इति प्रश्नस्य निमित्तार्थता न शक्यते वर्णयितुम् । नन्व­पा­दा­न­प­क्षेऽपि पुनरुक्ततादोषः स्थित एव ॥

नैष दोषः, प्रश्ना­भ्या­मा­त्मनि क्रिया­का­र­क­फ­ला­त्म­ता­पो­हस्य विवक्षितत्वात् । इह हि विद्या­वि­द्या­वि­ष­या­वु­प­न्यस्तौ — ‘आत्मे­त्ये­वो­पा­सीत’(बृ. उ. १ । ४ । ७) ‘आत्मा­न­मे­वा­वेत्’(बृ. उ. १ । ४ । १०) ‘आत्मानमेव लोकमुपासीत’(बृ. उ. १ । ४ । १५) इति विद्याविषयः, तथा अविद्याविषयश्च पाङ्क्तं कर्म तत्फलं चान्नत्रयं नाम­रू­प­क­र्मा­त्म­क­मिति । तत्र अविद्याविषये वक्तव्यं सर्वमुक्तम् । विद्याविषयस्तु आत्मा केवल उपन्यस्तः न निर्णीतः । तन्निर्णयाय च ‘ब्रह्म ते ब्रवाणि’(बृ. उ. २ । १ । १) इति प्रक्रान्तम् , ‘ज्ञपयिष्यामि’(बृ. उ. २ । १ । १५) इति च । अतः तद्ब्रह्म विद्याविषयभूतं ज्ञापयितव्यं याथात्म्यतः । तस्य च याथात्म्यं क्रिया­का­र­क­फ­ल­भे­द­शू­न्यम् अत्य­न्त­वि­शु­द्ध­म­द्वै­तम् — इत्ये­त­द्वि­व­क्षि­तम् । अतस्तदनुरूपौ प्रश्ना­वु­त्था­प्येते श्रुत्या — क्वैष तदाभूत्कुत एतदागादिति । तत्र — यत्र भवति तत् अधिकरणम् , यद्भवति तदधिकर्तव्यम् — तयोश्च अधि­क­र­णा­धि­क­र्त­व्य­यो­र्भेदः दृष्टो लोके । तथा — यत आगच्छति तत् अपादानम् — य आगच्छति स कर्ता, तस्मादन्यो दृष्टः । तथा आत्मा क्वाप्य­भू­द­न्य­स्मि­न्नन्यः, कुत­श्चि­दा­गा­द­न्य­स्मा­दन्यः — केनचिद्भिन्नेन साधनान्तरेण — इत्येवं लोकवत्प्राप्ता बुद्धिः ; सा प्रतिवचनेन निवर्तयितव्येति । नायमात्मा अन्यः अन्यत्र अभूत् , अन्यो वा अन्यस्मादागतः, साधनान्तरं वा आत्मन्यस्ति ; किं तर्हि स्वात्म­न्ये­वा­भूत् — ‘स्वमा­त्मा­न­म­पीतो भवति’(छा. उ. ६ । ८ । १) ‘सता सोम्य तदा सम्पन्नो भवति’(छा. उ. ६ । ८ । १) ‘प्राज्ञे­ना­त्मना सम्परिष्वक्तः’(बृ. उ. ४ । ३ । २१) ‘पर आत्मनि सम्प्रतिष्ठते’(प्र. उ. ४ । ९) इत्या­दि­श्रु­तिभ्यः ; अत एव नान्यः अन्य­स्मा­दा­ग­च्छति ; तत् श्रुत्यैव प्रदर्श्यते ‘अस्मादात्मनः’ इति, आत्मव्यतिरेकेण वस्त्व­न्त­रा­भा­वात् । नन्वस्ति प्राणा­द्या­त्म­व्य­ति­रिक्तं वस्त्वन्तरम् — न, प्राणादेस्तत एव निष्पत्तेः ॥

तत्कथमिति उच्यते —

स यथो­र्ण­ना­भि­स्त­न्तु­नो­च्च­रे­द्य­थाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्च­र­न्त्ये­व­मे­वा­स्मा­दा­त्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति तस्यो­प­नि­ष­त्स­त्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ २० ॥

२०

तत्र दृष्टान्तः — स यथा लोके ऊर्णनाभिः लूताकीट एक एव प्रसिद्धः सन् स्वात्मा­प्र­वि­भ­क्तेन तन्तुना उच्चरेत् उद्गच्छेत् ; न चास्ति तस्योद्गमने स्वतोऽतिरिक्तं कारकान्तरम् — यथा च एक­रू­पा­दे­क­स्मा­दग्नेः क्षुद्रा अल्पाः विस्फुलिङ्गाः त्रुटयः अग्न्यवयवाः व्युच्चरन्ति विविधं नाना वा उच्चरन्ति — यथा इमौ दृष्टान्तौ कारकभेदाभावेऽपि प्रवृत्तिं दर्शयतः, प्राक्प्र­वृ­त्तेश्च स्वभावत एकत्वम् — एवमेव अस्मात् आत्मनो विज्ञानमयस्य प्राक्प्र­ति­बो­धात् यत्स्वरूपं तस्मादित्यर्थः, सर्वे प्राणा वागादयः, सर्वे लोका भूरादयः सर्वाणि कर्मफलानि, सर्वे देवाः प्राण­लो­का­धि­ष्ठा­तारः अग्न्यादयः सर्वाणि भूतानि ब्रह्मा­दि­स्त­म्ब­प­र्य­न्तानि प्राणिजातानि, सर्व एव आत्मान इत्यस्मिन्पाठे उपा­धि­स­म्प­र्क­ज­नि­त­प्र­बु­ध्य­मा­न­वि­शे­षा­त्मान इत्यर्थः, व्युच्चरन्ति । यस्मादात्मनः स्थावरजङ्गमं जगदिदम् अग्नि­वि­स्फु­लि­ङ्ग­वत् व्युच्च­र­त्य­नि­शम् , यस्मिन्नेव च प्रलीयते जलबुद्बुदवत् , यदात्मकं च वर्तते स्थितिकाले, तस्य अस्य आत्मनो ब्रह्मणः, उपनिषत् — उप समीपं निगमयतीति अभिधायकः शब्द उप­नि­ष­दि­त्यु­च्यते — शास्त्र­प्रा­मा­ण्या­दे­त­च्छ­ब्द­गतो विशेषोऽवसीयते उपनिगमयितृत्वं नाम ; कासा­वु­प­नि­ष­दि­त्याह — सत्यस्य सत्यमिति ; सा हि सर्वत्र चोपनिषत् अलौ­कि­का­र्थ­त्वा­द्दु­र्वि­ज्ञे­या­र्थेति तदर्थमाचष्टे — प्राणा वै सत्यं तेषामेष सत्यमिति । एतस्यैव वाक्यस्य व्याख्यानाय उत्तरं ब्राह्मणद्वयं भविष्यति ॥

भवतु तावत् उप­नि­ष­द्व्या­ख्या­नाय उत्तरं ब्राह्मणद्वयम् ; तस्यो­प­नि­ष­दि­त्यु­क्तम् ; तत्र न जानीमः — किं प्रकृतस्य आत्मनो विज्ञानमयस्य पाणि­पे­ष­णो­त्थि­तस्य संसारिणः शब्दादिभुज इयमुपनिषत् , आहोस्वित् संसारिणः कस्यचित् ; किञ्चातः ? यदि संसारिणः तदा संसार्येव विज्ञेयः, तद्विज्ञानादेव सर्वप्राप्तिः, स एव ब्रह्म­श­ब्द­वाच्यः तद्विद्यैव ब्रह्मविद्येति ; अथ असंसारिणः, तदा तद्विषया विद्या ब्रह्मविद्या, तस्माच्च ब्रह्म­वि­ज्ञा­ना­त्स­र्व­भा­वा­पत्तिः ; सर्व­मे­त­च्छा­स्त्र­प्रा­मा­ण्या­द्भ­वि­ष्यति ; किन्तु अस्मिन्पक्षे ‘आत्मे­त्ये­वो­पा­सीत’(बृ. उ. १ । ४ । ७) ‘आत्मा­न­मे­वा­वे­दहं ब्रह्मास्मि —’(बृ. उ. १ । ४ । १०) इति पर­ब्र­ह्मै­क­त्व­प्र­ति­पा­दिकाः श्रुतयः कुप्येरन् , संसारिणश्च अन्यस्याभावे उप­दे­शा­न­र्थ­क्यात् । यत एवं पण्डि­ता­ना­म­प्ये­त­न्म­हा­मो­ह­स्था­नम् अनु­क्त­प्र­ति­व­च­न­प्र­श्न­वि­ष­यम् , अतो यथाशक्ति ब्रह्म­वि­द्या­प्र­ति­पा­द­क­वा­क्येषु ब्रह्म विजिज्ञासूनां बुद्धि­व्यु­त्पा­द­नाय विचारयिष्यामः ॥

न तावत् असंसारी परः — पाणि­पे­ष­ण­प्र­ति­बो­धि­तात् शब्दादिभुजः अव­स्था­न्त­र­वि­शि­ष्टात् उत्पत्तिश्रुतेः ; न प्रशासिता अशनायादिवर्जितः परो विद्यते ; कस्मात् ? यस्मात् ‘ब्रह्म ज्ञपयिष्यामि’(बृ. उ. २ । १ । १५) इति प्रतिज्ञाय, सुप्तं पुरुषं पाणिपेष बोधयित्वा, तं शब्दा­दि­भो­क्तृ­त्व­वि­शिष्टं दर्शयित्वा, तस्यैव स्वप्नद्वारेण सुषु­प्त्या­ख्य­म­व­स्था­न्त­र­मु­न्नीय, तस्मादेव आत्मनः सुषु­प्त्य­व­स्था­वि­शि­ष्टात् अग्नि­वि­स्फु­लि­ङ्गो­र्ण­ना­भि­दृ­ष्टा­न्ता­भ्याम् उत्पत्तिं दर्शयति श्रुतिः — ‘एवमेवास्मात्’ इत्यादिना ; न चान्यो जग­दु­त्प­त्ति­का­र­ण­म­न्त­राले श्रुतोऽस्ति ; विज्ञानमयस्यैव हि प्रकरणम् । समानप्रकरणे च श्रुत्यन्तरे कौषीतकिनाम् आदि­त्या­दि­पु­रु­षा­न्प्र­स्तुत्य ‘स होवाच यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य चैतत्कर्म स वै वेदितव्यः’(कौ. उ. ४ । १९) इति प्रबुद्धस्यैव विज्ञानमयस्य वेदितव्यतां दर्शयति, नार्थान्तरस्य । तथा च ‘आत्मनस्तु कामाय सर्वं प्रियं भवति’(बृ. उ. २ । ४ । ५) इत्युक्त्वा, य एव आत्मा प्रियः प्रसिद्धः तस्यैव द्रष्ट­व्य­श्रो­त­व्य­म­न्त­व्य­नि­दि­ध्या­सि­त­व्यतां दर्शयति । तथा च विद्यो­प­न्या­स­काले ‘आत्मे­त्ये­वो­पा­सीत’(बृ. उ. १ । ४ । ७) ‘तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्’(बृ. उ. १ । ४ । ८) ‘तदा­त्मा­न­मे­वा­वे­दहं ब्रह्मास्मि - ’(बृ. उ. १ । ४ । १०) इत्ये­व­मा­दि­वा­क्या­ना­मा­नु­लोम्यं स्यात् पराभावे । वक्ष्यति च — ‘आत्मानं चेद्वि­जा­नी­या­द­य­म­स्मीति पूरुषः’(बृ. उ. ४ । ४ । १२) इति । सर्ववेदान्तेषु च प्रत्य­गा­त्म­वे­द्य­तैव प्रदर्श्यते — अहमिति, न बहिर्वेद्यता शब्दादिवत् प्रदर्श्यते असौ ब्रह्मेति । तथा कौषीतकिनामेव ‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’(कौ. उ. ३ । ८) इत्यादिना वागा­दि­क­र­णै­र्व्या­वृ­त्तस्य कर्तुरेव वेदितव्यतां दर्शयति । अव­स्था­न्त­र­वि­शि­ष्टोऽ­सं­सा­रीति चेत् — अथापि स्यात् , यो जागरिते शब्दादिभुक् विज्ञानमयः, स एव सुषु­प्ता­ख्य­म­व­स्था­न्तरं गतः असंसारी परः प्रशासिता अन्यः स्यादिति चेत् — न, अदृष्टत्वात् । न ह्येवंधर्मकः पदार्थो दृष्टः अन्यत्र वैना­शि­क­सि­द्धा­न्तात् । न हि लोके गौः तिष्ठन् गच्छन्वा गौर्भवति, शयानस्तु अश्वा­दि­जा­त्य­न्त­र­मिति । न्यायाच्च — यद्धर्मको यः पदार्थः प्रमाणेनावगतो भवति, स देश­का­ला­व­स्था­न्त­रे­ष्वपि तद्धर्मक एव भवति ; स चेत् तद्धर्मकत्वं व्यभिचरति, सर्वः प्रमाणव्यवहारो लुप्येत । तथा च न्यायविदः साङ्ख्य­मी­मां­स­का­दय असंसारिण अभावं युक्तिशतैः प्रतिपादयन्ति । संसारिणोऽपि जग­दु­त्प­त्ति­स्थि­ति­ल­य­क्रि­या­क­र्तृ­त्व­वि­ज्ञा­न­स्या­भा­वात् अयुक्तमिति चेत् — यत् महता प्रपञ्चेन स्थापितं भवता, शब्दादिभुक् संसार्येव अव­स्था­न्त­र­वि­शिष्टो जगत इह कर्तेति — तदसत् ; यतो जग­दु­त्प­त्ति­स्थि­ति­ल­य­क्रि­या­क­र्तृ­त्व­वि­ज्ञा­न­श­क्ति­सा­ध­ना­भावः सर्व­लो­क­प्र­त्यक्षः संसारिणः ; स कथम् अस्मदादिः संसारी मनसापि चिन्तयितुमशक्यं पृथि­व्या­दि­वि­न्या­स­वि­शिष्टं जगत् निर्मिनुयात् अतोऽयुक्तमिति चेत् — न, शास्त्रात् ; शास्त्रं संसारिणः ‘एव­मे­वा­स्मा­दा­त्मनः’ इति जगदुत्पत्त्यादि दर्शयति ; तस्मात् सर्वं श्रद्धेयमिति स्यादयम् एकः पक्षः ॥

‘यः सर्वज्ञः सर्ववित्’(मु. उ. १ । १ । ९) , ‘योऽशनायापिपासे अत्येति’(बृ. उ. ३ । ५ । १) ‘असङ्गो न हि सज्जते’(बृ. उ. ३ । ९ । २६) ‘एतस्य वा अक्षरस्य प्रशासने’(बृ. उ. ३ । ८ । ९) ‘यः सर्वेषु भूतेषु तिष्ठन् — अन्त­र्या­म्य­मृतः’(बृ. उ. ३ । ७ । १५) ‘स यस्ता­न्पु­रु­षा­न्नि­रु­ह्या­त्य­क्रा­मत्’(बृ. उ. ३ । ९ । २६) ‘स वा एष महानज आत्मा’(बृ. उ. ४ । ४ । २२) ‘एष सेतुर्विधरणः’(बृ. उ. ४ । ४ । २२) ‘सर्वस्य वशी सर्वस्येशानः’(बृ. उ. ४ । ४ । २२) ‘य आत्मापहतपाप्मा विजरो विमृत्युः’(छा. उ. ८ । ७ । १) , ‘तत्तेजोऽसृजत’(छा. उ. ६ । २ । ३) ‘आत्मा वा इदमेक एवाग्र आसीत्’(ऐ. उ. १ । १ । १) ‘न लिप्यते लोकदुःखेन बाह्यः’(क. उ. २ । २ । ११) इत्या­दि­श्रु­ति­श­तेभ्यः — स्मृतेश्च ‘अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते’(भ. गी. १० । ८) इति — परोऽस्ति असंसारी श्रुति­स्मृ­ति­न्या­ये­भ्यश्च ; स च कारणं जगतः । ननु ‘एव­मे­वा­स्मा­दा­त्मनः’ इति संसारिण एवोत्पत्तिं दर्श­य­ती­त्यु­क्तम् — न, ‘य एषोऽन्तर्हृदय आकाशः’(बृ. उ. २ । १ । १७) इति परस्य प्रकृतत्वात् , ‘अस्मादात्मनः’ इति युक्तः परस्यैव परामर्शः । ‘क्वैष तदाभूत्’(बृ. उ. २ । १ । १६) इत्यस्य प्रश्नस्य प्रतिवचनत्वेन आकाशशब्दवाच्यः पर आत्मा उक्तः ‘य एषोऽन्तर्हृदय आका­श­स्त­स्मि­ञ्छेते’(बृ. उ. २ । १ । १६) इति ; ‘सता सोम्य तदा सम्पन्नो भवति’(छा. उ. ६ । ८ । १) ‘अह­र­ह­र्ग­च्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’(छा. उ. ८ । ३ । २) ‘प्राज्ञे­ना­त्मना सम्परिष्वक्तः’(बृ. उ. ४ । ३ । २१) ‘पर आत्मनि सम्प्रतिष्ठते’(प्र. उ. ४ । ७) इत्या­दि­श्रु­तिभ्य आकाशशब्दः परआत्मेति निश्चीयते ; ‘दह­रोऽ­स्मि­न्न­न्त­रा­काशः’(छा. उ. ८ । १ । १) इति प्रस्तुत्य तस्मिन्नेव आत्म­श­ब्द­प्र­यो­गाच्च ; प्रकृत एव पर आत्मा । तस्मात् युक्तम् ‘एव­मे­वा­स्मा­दा­त्मनः’ इति परमात्मन एव सृष्टिरिति ; संसारिणः सृष्टि­स्थि­ति­सं­हा­र­ज्ञा­न­सा­म­र्थ्या­भावं च अवोचाम । अत्र च ‘आत्मे­त्ये­वो­पा­सीत’(बृ. उ. १ । ४ । ७) ‘आत्मा­न­मे­वा­वे­दहं ब्रह्मास्मि - ’(बृ. उ. १ । ४ । १०) इति ब्रह्मविद्या प्रस्तुता ; ब्रह्मविषयं च ब्रह्म­वि­ज्ञा­न­मिति ; ‘ब्रह्म ते ब्रवाणि’(बृ. उ. २ । २ । १) इति ‘ब्रह्म ज्ञपयिष्यामि’(बृ. उ. २ । १ । १५) इति प्रारब्धम् । तत्र इदानीम् असंसारि ब्रह्म जगतः कारणम् अशनायाद्यतीतं नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भा­वम् ; तद्विपरीतश्च संसारी ; तस्मात् अहं ब्रह्मास्मीति न गृह्णीयात् ; परं हि देवमीशानं निकृष्टः संसा­र्या­त्म­त्वेन स्मरन् कथं न दोषभाक्स्यात् ; तस्मात् न अहं ब्रह्मास्मीति युक्तम् । तस्मा­त्पु­ष्पो­द­का­ञ्ज­लि­स्तु­ति­न­म­स्का­र­ब­ल्यु­प­हा­र­स्वा­ध्या­य­ध्या­न­यो­गा­दिभिः आरिराधयिषेत ; आराधनेन विदित्वा सर्वेशितृ ब्रह्म भवति ; न पुनरसंसारि ब्रह्म संसा­र्या­त्म­त्वेन चिन्तयेत् — अग्निमिव शीतत्वेन आकाशमिव मूर्तिमत्त्वेन । ब्रह्मा­त्म­त्व­प्र­ति­पा­द­क­मपि शास्त्रम् अर्थवादो भविष्यति । सर्व­त­र्क­शा­स्त्र­लो­क­न्या­यैश्च एवमविरोधः स्यात् ॥

न, मन्त्र­ब्रा­ह्म­ण­वा­देभ्यः तस्यैव प्रवेशश्रवणात् । ‘पुरश्चक्रे’(बृ. उ. २ । ५ । १०) इति प्रकृत्य ‘पुरः पुरुष आविशत्’(बृ. उ. २ । ५ । १८) इति, ‘रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय’(बृ. उ. २ । ५ । १९) ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वा­भि­व­द­न्य­दास्ते’(तै. आ. ३ । १२ । ७) इति सर्वशाखासु सहस्रशो मन्त्रवादाः सृष्टि­क­र्तु­रे­वा­सं­सा­रिणः शरीरप्रवेशं दर्शयन्ति । तथा ब्राह्मणवादाः — ‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत्’(तै. उ. २ । ६ । ६) ‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’(ऐ. उ. १ । ३ । १२) ‘सेयं देवता — इमास्तिस्रो देवता अनेन जीवेन आत्म­ना­नु­प्र­विश्य’(छा. उ. ६ । २ । ३) ‘एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते’(क. उ. १ । ३ । १२) इत्याद्याः । सर्वश्रुतिषु च ब्रह्मणि आत्म­श­ब्द­प्र­यो­गात् आत्मशब्दस्य च प्रत्य­गा­त्मा­भि­धा­य­क­त्वात् , ‘एष सर्व­भू­ता­न्त­रात्मा’(मु. उ. २ । १ । ४) इति च श्रुतेः पर­मा­त्म­व्य­ति­रे­केण संसारिणोऽभावात् — ‘एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) ‘ब्रह्मैवेदम्’(मु. उ. २ । २ । ११) ‘आत्मैवेदम्’(छा. उ. ७ । २५ । २) इत्या­दि­श्रु­तिभ्यः युक्तमेव अहं ब्रह्मा­स्मी­त्य­व­धा­र­यि­तुम् ॥

यदा एवं स्थितः शास्त्रार्थः, तदा परमात्मनः संसारित्वम् ; तथा च सति शास्त्रा­न­र्थ­क्यम् , असंसारित्वे च उपदेशानर्थक्यं स्पष्टो दोषः प्राप्तः ; यदि तावत् परमात्मा सर्व­भू­ता­न्त­रात्मा सर्व­श­री­र­स­म्प­र्क­ज­नि­त­दुः­खानि अनुभवतीति, स्पष्टं परस्य संसारित्वं प्राप्तम् ; तथा च परस्य असं­सा­रि­त्व­प्र­ति­पा­दिकाः श्रुतयः कुप्येरन् , स्मृतयश्च, सर्वे च न्यायाः ; अथ कथञ्चित् प्राण­श­री­र­स­म्ब­न्ध­जै­र्दुः­खैर्न सम्बध्यत इति शक्यं प्रतिपादयितुम् , परमात्मनः साध्य­प­रि­हा­र्या­भा­वात् उप­दे­शा­न­र्थ­क्य­दोषो न शक्यते निवारयितुम् । अत्र केचि­त्प­रि­हा­र­मा­च­क्षते — परमात्मा न साक्षा­द्भू­ते­ष्वनु प्रविष्टः स्वेन रूपेण ; किं तर्हि विकारभावमापन्नो विज्ञानात्मत्वं प्रतिपेदे ; स च विज्ञानात्मा परस्मात् अन्यः अनन्यश्च ; येनान्यः, तेन संसा­रि­त्व­स­म्बन्धी, येन अनन्यः तेन अहं ब्रह्मे­त्य­व­धा­र­णार्हः ; एवं सर्वमविरुद्धं भविष्यतीति ॥

तत्र विज्ञानात्मनो विकारपक्ष एता गतयः — पृथिवीद्रव्यवत् अने­क­द्र­व्य­स­मा­हा­रस्य सावयवस्य परमात्मनः, एकदेशविपरिणामो विज्ञानात्मा घटादिवत् ; पूर्व­सं­स्था­ना­व­स्थस्य वा परस्य एकदेशो विक्रियते केशोषरादिवत् , सर्व एव वा परः परिणमेत् क्षीरादिवत् । तत्र समा­न­जा­ती­या­ने­क­द्र­व्य­स­मू­हस्य कश्चि­द्द्र­व्य­वि­शेषो विज्ञानात्मत्वं प्रतिपद्यते यदा, तदा समानजातीयत्वात् एकत्वमुपचरितमेव न तु परमार्थतः ; तथा च सति सिद्धान्तविरोधः । अथ नित्या­यु­त­सि­द्धा­व­य­वा­नु­गतः अवयवी पर आत्मा, तस्य तदवस्थस्य एकदेशो विज्ञानात्मा संसारी — तदापि सर्वा­व­य­वा­नु­ग­त­त्वात् अवयविन एव अवयवगतो दोषो गुणो वेति, विज्ञानात्मनः संसारित्वदोषेण पर एव आत्मा सम्बध्यत इति, इयमप्यनिष्टा कल्पना । क्षीरवत् सर्वपरिणामपक्षे सर्व­श्रु­ति­स्मृ­ति­कोपः, स च अनिष्टः । ‘निष्कलं निष्क्रियं शान्तम्’(श्वे. ६ । १९) ‘दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः’(मु. उ. २ । १ । २) ‘आका­श­व­त्स­र्व­ग­तश्च नित्यः’(शत. ब्रा. १० । ६ । ३ । २) ‘स वा एष महानज आत्मा­ज­रोऽ­म­रोऽ­मृतः’(बृ. उ. ४ । ४ । २५) ‘न जायते म्रियते वा कदाचित्’(भ. गी. २ । २०) ‘अव्यक्तोऽयम्’(भ. गी. २ । २५) इत्या­दि­श्रु­ति­स्मृ­ति­न्या­य­वि­रुद्धा एते सर्वे पक्षाः । अचलस्य परमात्मन एकदेशपक्षे विज्ञानात्मनः कर्म­फ­ल­दे­श­सं­स­र­णा­नु­प­पत्तिः, परस्य वा संसारित्वम् — इत्युक्तम् । परस्यैकदेशः अग्नि­वि­स्फु­लि­ङ्ग­वत् स्फुटितः विज्ञानात्मा संसरतीति चेत् — तथापि पर­स्या­व­य­व­स्फु­ट­नेन क्षतप्राप्तिः, तत्संसरणे च परमात्मनः प्रदे­शा­न्त­रा­व­य­व­व्यूहे छिद्र­ता­प्राप्तिः, अव्र­ण­त्व­वा­क्य­वि­रो­धश्च ; आत्मावयवभूतस्य विज्ञानात्मनः संसरणे पर­मा­त्म­शू­न्य­प्र­दे­शा­भा­वात् अव­य­वा­न्त­र­नो­द­न­व्यू­ह­नाभ्यां हृदयशूलेनेव परमात्मनो दुःखि­त्व­प्राप्तिः । अग्नि­वि­स्फु­लि­ङ्गा­दि­दृ­ष्टा­न्त­श्रु­तेर्न दोष इति चेत् , न ; श्रुते­र्ज्ञा­प­क­त्वात् — न शास्त्रं पदार्थानन्यथा कर्तुं प्रवृत्तम् , किं तर्हि यथाभूतानाम् अज्ञातानां ज्ञापने ; किञ्चातः ? शृणु, अतो यद्भवति ; यथाभूता मूर्ता­मू­र्ता­दि­प­दा­र्थ­धर्मा लोके प्रसिद्धाः ; तद्दृ­ष्टा­न्तो­पा­दा­नेन तदविरोध्येव वस्त्वन्तरं ज्ञापयितुं प्रवृत्तं शास्त्रं न लौकि­क­व­स्तु­वि­रो­ध­ज्ञा­प­नाय लौकिकमेव दृष्टा­न्त­मु­पा­दत्ते ; उपादीयमानोऽपि दृष्टान्तः अनर्थकः स्यात् , दार्ष्टा­न्ति­का­स­ङ्गतेः ; न हि अग्निः शीतः आदित्यो न तपतीति वा दृष्टा­न्त­श­ते­नापि प्रतिपादयितुं शक्यम् , प्रमाणान्तरेण अन्य­था­धि­ग­त­त्वा­द्व­स्तुनः ; न च प्रमाणं प्रमाणान्तरेण विरुध्यते ; प्रमा­णा­न्त­रा­वि­ष­य­मेव हि प्रमाणान्तरं ज्ञापयति ; न च लौकि­क­प­द­प­दा­र्था­श्र­य­ण­व्य­ति­रे­केण आगमेन शक्यमज्ञातं वस्त्वन्तरम् अवगमयितुम् ; तस्मात् प्रसि­द्ध­न्या­य­म­नु­स­रता न शक्या परमात्मनः साव­य­वां­शां­शि­त्व­क­ल्पना परमार्थतः प्रतिपादयितुम् । ‘क्षुद्रा­वि­स्फु­लिङ्गाः’(बृ. उ. २ । १ । २०) ‘ममैवांशः’(भ. गी. १५ । ७) इति च श्रूयते स्मर्यते चेति चेत् , न, एक­त्व­प्र­त्य­या­र्थ­प­र­त्वात् ; अग्नेर्हि विस्फुलिङ्गः अग्निरेव इत्ये­क­त्व­प्र­त्य­यार्हो दृष्टो लोके ; तथा च अंशः अंशिना एक­त्व­प्र­त्य­यार्हः ; तत्रैवं सति विज्ञानात्मनः पर­मा­त्म­वि­का­रां­श­त्व­वा­चकाः शब्दाः पर­मा­त्मै­क­त्व­प्र­त्य­या­धि­त्सवः । उप­क्र­मो­प­सं­हा­राभ्यां च — सर्वासु हि उपनिषत्सु पूर्वमेकत्वं प्रतिज्ञाय, दृष्टा­न्तै­र्हे­तु­भिश्च परमात्मनो विकारांशादित्वं जगतः प्रतिपाद्य, पुन­रे­क­त्व­मु­प­सं­ह­रति ; तद्यथा इहैव तावत् ‘इदं सर्वं यदयमात्मा’(बृ. उ. २ । ४ । ६) इति प्रतिज्ञाय, उत्प­त्ति­स्थि­ति­ल­य­हे­तु­दृ­ष्टान्तैः विका­र­वि­का­रि­त्वा­द्ये­क­त्व­प्र­त्य­य­हे­तून् प्रतिपाद्य ‘अन­न्त­र­म­बा­ह्यम्’(बृ. उ. २ । ५ । १९) ‘अयमात्मा ब्रह्म’(बृ. उ. २ । ५ । १९) इत्यु­प­सं­ह­रि­ष्यति ; तस्मात् उप­क्र­मो­प­सं­हा­रा­भ्या­म­य­मर्थो निश्चीयते — पर­मा­त्मै­क­त्व­प्र­त्य­य­द्र­ढिम्ने उत्प­त्ति­स्थि­ति­ल­य­प्र­ति­पा­द­कानि वाक्यानीति ; अन्यथा वाक्य­भे­द­प्र­स­ङ्गाच्च — सर्वोपनिषत्सु हि विज्ञानात्मनः परमात्मना एकत्वप्रत्ययो विधीयत इत्य­वि­प्र­ति­पत्तिः सर्वे­षा­मु­प­नि­ष­द्वा­दि­नाम् ; तद्वि­ध्ये­क­वा­क्य­योगे च सम्भवति उत्प­त्त्या­दि­वा­क्यानां वाक्या­न्त­र­त्व­क­ल्प­नायां न प्रमाणमस्ति ; फलान्तरं च कल्पयितव्यं स्यात् ; तस्मा­दु­त्प­त्त्या­दि­श्रु­तय आत्मै­क­त्व­प्र­ति­पा­द­न­पराः ॥

अत्र च सम्प्रदायविद आख्यायिकां सम्प्रचक्षते — कश्चित्किल राजपुत्रः जातमात्र एव माता­पि­तृ­भ्या­म­प­विद्धः व्याधगृहे संवर्धितः ; सः अमुष्य वंश्यतामजानन् व्याध­जा­ति­प्र­त्ययः व्याध­जा­ति­क­र्मा­ण्ये­वा­नु­व­र्तते, न राजास्मीति राज­जा­ति­क­र्मा­ण्य­नु­व­र्तते ; यदा पुनः कश्चि­त्प­र­म­का­रु­णिकः राजपुत्रस्य राज­श्री­प्रा­प्ति­यो­ग्यतां जानन् अमुष्य पुत्रतां बोधयति — ‘न त्वं व्याधः, अमुष्य राज्ञः पुत्रः ; कथ­ञ्चि­द्व्या­ध­गृ­ह­म­नु­प्र­विष्टः’ इति — स एवं बोधितः त्यक्त्वा व्याध­जा­ति­प्र­त्य­य­क­र्माणि पितृपैतामहीम् आत्मनः पदवीमनुवर्तते — राजाहमस्मीति । तथा किल अयं परस्मात् अग्नि­वि­स्फु­लि­ङ्गा­दि­वत् तज्जातिरेव विभक्तः इह देहे­न्द्रि­या­दि­ग­हने प्रविष्टः असंसारी सन् देहे­न्द्रि­या­दि­सं­सा­र­ध­र्म­म­नु­व­र्तते — देहे­न्द्रि­य­स­ङ्घा­तोऽस्मि कृशः स्थूलः सुखी दुःखीति — पर­मा­त्म­ता­म­जा­न­न्ना­त्मनः ; न त्वम् एतदात्मकः परमेव ब्रह्मासि असंसारी — इति प्रतिबोधित आचार्येण, हित्वा एष­णा­त्र­या­नु­वृत्तिं ब्रह्मैवास्मीति प्रतिपद्यते । अत्र राजपुत्रस्य राजप्रत्ययवत् ब्रह्मप्रत्ययो दृढी भवति — विस्फुलिङ्गवदेव त्वं पर­स्मा­द्ब्र­ह्मणो भ्रष्ट इत्युक्ते, विस्फुलिङ्गस्य प्राग­ग्ने­र्भ्रं­शात् अग्न्ये­क­त्व­द­र्श­नात् । तस्मात् एक­त्व­प्र­त्य­य­दा­र्ढ्याय सुव­र्ण­म­णि­लो­हा­ग्नि­वि­स्फु­लि­ङ्ग­दृ­ष्टान्ताः, न उत्प­त्त्या­दि­भे­द­प्र­ति­पा­द­न­पराः । सैन्धवघनवत् प्रज्ञ­प्त्ये­क­र­स­नै­र­न्त­र्या­व­धा­र­णात् ‘एक­धै­वा­नु­द्र­ष्ट­व्यम्’(बृ. उ. ४ । ४ । २०)‘एक­धै­वा­नु­द्र­ष्ट­व्यम्’(बृ. उ. ४ । ४ । २०) इति च — यदि च ब्रह्मणः चित्रपटवत् वृक्ष­स­मु­द्रा­दि­वच्च उत्प­त्त्या­द्य­ने­क­ध­र्म­वि­चि­त्रता विजि­ग्रा­ह­यि­षिता, एकरसं सैन्ध­व­घ­न­व­द­न­न्त­र­म­बा­ह्यम् — इति नोपसमहरिष्यत् , ‘एक­धै­वा­नु­द्र­ष्ट­व्यम्’ इति च न प्रायोक्ष्यत — ‘य इह नानेव पश्यति’(बृ. उ. ४ । ४ । १९) इति निन्दावचनं च । तस्मात् एक­रू­पै­क­त्व­प्र­त्य­य­दा­र्ढ्या­यैव सर्ववेदान्तेषु उत्प­त्ति­स्थि­ति­ल­या­दि­क­ल्पना, न तत्प्रत्ययकरणाय ॥

न च निरवयवस्य परमात्मनः असंसारिणः संसा­र्ये­क­दे­श­क­ल्पना न्याय्या, स्वतोऽदेशत्वात् परमात्मनः । अदेशस्य परस्य एक­दे­श­सं­सा­रि­त्व­क­ल्प­नायां पर एव संसारीति कल्पितं भवेत् । अथ परोपाधिकृत एकदेशः परस्य, घट­क­र­का­द्या­का­श­वत् । न तदा तत्र विवेकिनां परमात्मैकदेशः पृथ­क्सं­व्य­व­हा­र­भा­गिति बुद्धि­रु­त्प­द्यते । अविवेकिनां विवेकिनां च उपचरिता बुद्धि­र्दृ­ष्टेति चेत् , न, अविवेकिनां मिथ्या­बु­द्धि­त्वात् , विवेकिनां च संव्य­व­हा­र­मा­त्रा­ल­म्ब­ना­र्थ­त्वात् — यथा कृष्णो रक्तश्च आकाश इति विवेकिनामपि कदाचित् कृष्णता रक्तता च आकाशस्य संव्य­व­हा­र­मा­त्रा­ल­म्ब­ना­र्थत्वं प्रतिपद्यत इति, न परमार्थतः कृष्णो रक्तो वा आकाशो भवितुमर्हति । अतो न पण्डि­तै­र्ब्र­ह्म­स्व­रू­प­प्र­ति­प­त्ति­वि­षये ब्रह्मणः अंशां­श्ये­क­दे­शै­क­दे­शि­वि­का­र­वि­का­रि­त्व­क­ल्पना कार्या, सर्व­क­ल्प­ना­प­न­य­ना­र्थ­सा­र­प­र­त्वात् सर्वोपनिषदाम् । अतो हित्वा सर्वकल्पनाम् आकाशस्येव निर्विशेषता प्रतिपत्तव्या — ‘आका­श­व­त्स­र्व­ग­तश्च नित्यः’(शत. ब्रा. १० । ६ । ३ । २) ‘न लिप्यते लोकदुःखेन बाह्यः’(क. उ. २ । २ । ११) इत्या­दि­श्रु­ति­श­तेभ्यः । न आत्मानं ब्रह्मविलक्षणं कल्पयेत् — उष्णात्मक इवाग्नौ शीतैकदेशम् , प्रकाशात्मके वा सवितरि तमएकदेशम् — सर्व­क­ल्प­ना­प­न­य­ना­र्थ­सा­र­प­र­त्वात् सर्वोपनिषदाम् । तस्मात् नाम­रू­पो­पा­धि­नि­मित्ता एव आत्मनि असंसारधर्मिणि सर्वे व्यवहाराः — ‘रूपं रूपं प्रतिरूपो बभूव’(बृ. उ. २ । ५ । १९) ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वा­भि­व­द­न्य­दास्ते’(तै. आ. ३ । १२ । ७) इत्ये­व­मा­दि­म­न्त्र­व­र्णेभ्यः — न स्वत आत्मनः संसारित्वम् , अल­क्त­का­द्यु­पा­धि­सं­यो­ग­ज­नि­त­र­क्त­स्फ­टि­का­दि­बु­द्धि­वत् भ्रान्तमेव न परमार्थतः । ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) ‘न कर्मणा वर्धते नो कनीयान्’(बृ. उ. ४ । ४ । २३) ‘न कर्मणा लिप्यते पापकेन’(बृ. उ. ४ । ४ । २३) ‘समं सर्वेषु भूतेषु तिष्ठन्तम्’(भ. गी. १३ । २७) ‘शुनि चैव श्वपाके च’(भ. गी. ५ । १०) इत्या­दि­श्रु­ति­स्मृ­ति­न्या­येभ्यः पर­मा­त्म­नोऽ­सं­सा­रि­तैव । अत एकदेशो विकारः शक्तिर्वा विज्ञानात्मा अन्यो वेति विकल्पयितुं निर­व­य­व­त्वा­भ्यु­प­गमे विशेषतो न शक्यते । अंशा­दि­श्रु­ति­स्मृ­ति­वा­दाश्च एकत्वार्थाः, न तु भेदप्रतिपादकाः, विव­क्षि­ता­र्थै­क­वा­क्य­यो­गात् — इत्यवोचाम ॥

सर्वोपनिषदां पर­मा­त्मै­क­त्व­ज्ञा­प­न­प­रत्वे अथ किमर्थं तत्प्र­ति­कू­लोऽर्थः विज्ञानात्मभेदः परिकल्प्यत इति । कर्म­का­ण्ड­प्रा­मा­ण्य­वि­रो­ध­प­रि­हा­रा­ये­त्येके ; कर्म­प्र­ति­पा­द­कानि हि वाक्यानि अने­क­क्रि­या­का­र­क­फ­ल­भो­क्तृ­क­र्त्रा­श्र­याणि, विज्ञा­ना­त्म­भे­दा­भावे हि असंसारिण एव परमात्मन एकत्वे, कथम् इष्टफलासु क्रियासु प्रवर्तयेयुः, अनिष्टफलाभ्यो वा क्रियाभ्यो निवर्तयेयुः ? कस्य वा बद्धस्य मोक्षाय उपनिषदारभ्येत ? अपि च पर­मा­त्मै­क­त्व­वा­दि­पक्षे कथं पर­मा­त्मै­क­त्वो­प­देशः ? कथं वा तदु­प­दे­श­ग्र­ह­ण­फ­लम् ? बद्धस्य हि बन्धनाशाय उपदेशः ; तदभावे उपनिषच्छास्त्रं निर्विषयमेव । एवं तर्हि उप­नि­ष­द्वा­दि­प­क्षस्य कर्म­का­ण्ड­वा­दि­प­क्षेण चोद्यपरिहारयोः समानः पन्थाः — येन भेदाभावे कर्मकाण्डं निरा­ल­म्ब­न­मा­त्मानं न लभते प्रामाण्यं प्रति, तथा उपनिषदपि । एवं तर्हि यस्य प्रामाण्ये स्वार्थविघातो नास्ति, तस्यैव कर्म­का­ण्ड­स्यास्तु प्रामाण्यम् ; उपनिषदां तु प्रामा­ण्य­क­ल्प­नायां स्वार्थविघातो भवेदिति मा भूत्प्रामाण्यम् । न हि कर्मकाण्डं प्रमाणं सत् अप्रमाणं भवितुमर्हति ; न हि प्रदीपः प्रकाश्यं प्रकाशयति, न प्रकाशयति च इति । प्रत्य­क्षा­दि­प्र­मा­ण­वि­प्र­ति­षे­धाच्च — न केवलमुपनिषदो ब्रह्मैकत्वं प्रतिपादयन्त्यः स्वार्थविघातं कर्म­का­ण्ड­प्रा­मा­ण्य­वि­घातं च कुर्वन्ति ; प्रत्य­क्षा­दि­नि­श्चि­त­भे­द­प्र­ति­प­त्त्य­र्थ­प्र­मा­णैश्च विरुध्यन्ते । तस्मा­द­प्रा­मा­ण्य­मेव उपनिषदाम् ; अन्यार्थता वास्तु ; न त्वेव ब्रह्मै­क­त्व­प्र­ति­प­त्त्य­र्थता ॥

न उक्तोत्तरत्वात् । प्रमाणस्य हि प्रमाणत्वम् अप्रमाणत्वं वा प्रमो­त्पा­द­ना­नु­त्पा­द­न­नि­मि­त्तम् , अन्यथा चेत् स्तम्भादीनां प्रामा­ण्य­प्र­स­ङ्गात् शब्दादौ प्रमेये । किञ्चातः ? यदि तावत् उपनिषदो ब्रह्मै­क­त्व­प्र­ति­प­त्ति­प्रमां कुर्वन्ति, कथमप्रमाणं भवेयुः । न कुर्वन्त्येवेति चेत् — यथा अग्निः शीतम् — इति, स भवानेवं वदन् वक्तव्यः — उप­नि­ष­त्प्रा­मा­ण्य­प्र­ति­षे­धार्थं भवतो वाक्यम् उप­नि­ष­त्प्रा­मा­ण्य­प्र­ति­षेधं किं न करोत्येव, अग्निर्वा रूपप्रकाशम् ; अथ करोति — यदि करोति, भवतु तदा प्रतिषेधार्थं प्रमाणं भवद्वाक्यम् , अग्निश्च रूपप्रकाशको भवेत् ; प्रति­षे­ध­वा­क्य­प्रा­माण्ये भवत्येवोपनिषदां प्रामाण्यम् । अत्रभवन्तो ब्रुवन्तु कः परिहार इति । ननु अत्र प्रत्यक्षा मद्वाक्य उप­नि­ष­त्प्रा­मा­ण्य­प्र­ति­षे­धा­र्थ­प्र­ति­पत्तिः अग्नौ च रूप­प्र­का­श­न­प्र­ति­पत्तिः प्रमा ; कस्तर्हि भवतः प्रद्वेषः ब्रह्मै­क­त्व­प्र­त्यये प्रमां प्रत्यक्षं कुर्वतीषु उपनिषत्सु उपलभ्यमानासु ? प्रति­षे­धा­नु­प­पत्तेः । शोक­मो­हा­दि­नि­वृ­त्तिश्च प्रत्यक्षं फलं ब्रह्मै­क­त्व­प्र­ति­प­त्ति­पा­र­म्प­र्य­ज­नि­तम् इत्यवोचाम । तस्मा­दु­क्तो­त्त­र­त्वात् उपनिषदं प्रति अप्रामाण्यशङ्का तावन्नास्ति ॥

यच्चोक्तम् स्वार्थ­वि­घा­त­क­र­त्वा­द­प्रा­मा­ण्य­मिति, तदपि न, तद­र्थ­प्र­ति­प­त्ते­र्बा­ध­का­भा­वात् । न हि उपनिषद्भ्यः — ब्रह्मै­क­मे­वा­द्वि­ती­यम् , नैव च — इति प्रतिपत्तिरस्ति — यथा अग्निरुष्णः शीत­श्चे­त्य­स्मा­द्वा­क्यात् विरु­द्धा­र्थ­द्व­य­प्र­ति­पत्तिः । अभ्युपगम्य चैतदवोचाम ; न तु वाक्य­प्रा­मा­ण्य­स­मये एष न्यायः — यदुत एकस्य वाक्यस्य अनेकार्थत्वम् ; सति च अनेकार्थत्वे, स्वार्थश्च स्यात् , तद्विघातकृच्च विरुद्धः अन्योऽर्थः । न त्वेतत् — वाक्य­प्र­मा­ण­कानां विरु­द्ध­म­वि­रुद्धं च, एकं वाक्यम् , अनेकमर्थं प्रति­पा­द­य­ती­त्येष समयः ; अर्थैकत्वाद्धि एकवाक्यता । न च कानि­चि­दु­प­नि­ष­द्वा­क्यानि ब्रह्मै­क­त्व­प्र­ति­षेधं कुर्वन्ति । यत्तु लौकिकं वाक्यम् — अग्निरुष्णः शीतश्चेति, न तत्र एकवाक्यता, तदेकदेशस्य प्रमा­णा­न्त­र­वि­ष­या­नु­वा­दि­त्वात् ; अग्निः शीत इत्येतत् एकं वाक्यम् ; अग्निरुष्ण इति तु प्रमा­णा­न्त­रा­नु­भ­व­स्मा­र­कम् , न तु स्वय­म­र्था­व­बो­ध­कम् ; अतो न अग्निः शीत इत्यनेन एकवाक्यता, प्रमा­णा­न्त­रा­नु­भ­व­स्मा­र­णे­नै­वो­प­क्षी­ण­त्वात् । यत्तु विरु­द्धा­र्थ­प्र­ति­पा­द­क­मिदं वाक्यमिति मन्यते, तत् शीतो­ष्ण­प­दा­भ्याम् अग्नि­प­द­सा­मा­ना­धि­क­र­ण्य­प्र­यो­ग­नि­मित्ता भ्रान्तिः ; न त्वेव एकस्य वाक्यस्य अनेकार्थत्वं लौकिकस्य वैदिकस्य वा ॥

यच्चोक्तम् — कर्म­का­ण्ड­प्रा­मा­ण्य­वि­घा­त­कृत् उप­नि­ष­द्वा­क्य­मिति, तन्न, अन्यार्थत्वात् । ब्रह्मै­क­त्व­प्र­ति­पा­द­न­परा हि उपनिषदः न इष्टा­र्थ­प्राप्तौ साधनोपदेशं तस्मिन्वा पुरुषनियोगं वारयन्ति, अने­का­र्थ­त्वा­नु­प­प­त्ते­रेव । न च कर्म­का­ण्ड­वा­क्यानां स्वार्थे प्रमा नोत्पद्यते । असाधारणे चेत्स्वार्थे प्रमाम् उत्पादयति वाक्यम् , कुतोऽन्येन विरोधः स्यात् । ब्रह्मैकत्वे निर्विषयत्वात् प्रमा नोत्पद्यत एवेति चेत् , न, प्रत्य­क्ष­त्वा­त्प्र­मायाः । ‘दर्श­पू­र्ण­मा­साभ्यां स्वर्गकामो यजेत’(?) ‘ब्राह्मणो न हन्तव्यः’(?) इत्ये­व­मा­दि­वा­क्येभ्यः प्रत्यक्षा प्रमा जायमाना ; सा नैव भविष्यति, यद्युपनिषदो ब्रह्मैकत्वं बोध­यि­ष्य­न्ती­त्य­नु­मा­नम् ; न च अनुमानं प्रत्यक्षविरोधे प्रामाण्यं लभते ; तस्मा­द­स­दे­वै­त­द्गी­यते — प्रमैव नोत्पद्यत इति । अपि च यथाप्राप्तस्यैव अवि­द्या­प्र­त्यु­प­स्था­पि­तस्य क्रियाकारकफलस्य आश्रयणेन इष्टा­नि­ष्ट­प्रा­प्ति­प­रि­हा­रो­पा­य­सा­मान्ये प्रवृत्तस्य तद्विशेषमजानतः तदाचक्षाणा श्रुतिः क्रिया­का­र­क­फ­ल­भे­दस्य लोकप्रसिद्धस्य सत्यताम् असत्यतां वा न आचष्टे न च वारयति, इष्टा­नि­ष्ट­फ­ल­प्रा­प्ति­प­रि­हा­रो­पा­य­वि­धि­प­र­त्वात् । यथा काम्येषु प्रवृत्ता श्रुतिः कामानां मिथ्या­ज्ञा­न­प्र­भ­वत्वे सत्यपि यथाप्राप्तानेव कामानुपादाय तत्साधनान्येव विधत्ते, न तु — कामानां मिथ्या­ज्ञा­न­प्र­भ­व­त्वा­द­न­र्थ­रू­पत्वं चेति — न विदधाति ; तथा नित्या­ग्नि­हो­त्रा­दि­शा­स्त्र­मपि मिथ्या­ज्ञा­न­प्र­भवं क्रियाकारकभेदं यथाप्राप्तमेव आदाय इष्ट­वि­शे­ष­प्रा­प्तिम् अनि­ष्ट­वि­शे­ष­प­रि­हारं वा किमपि प्रयोजनं पश्यत् अग्निहोत्रादीनि कर्माणि विधत्ते, न — अवि­द्या­गो­च­रा­स­द्व­स्तु­वि­ष­य­मिति — न प्रवर्तते — यथा काम्येषु । न च पुरुषा न प्रवर्तेरन् अविद्यावन्तः, दृष्टत्वात् — यथा कामिनः । विद्यावतामेव कर्माधिकार इति चेत् , न, ब्रह्मै­क­त्व­वि­द्यायां कर्मा­धि­का­र­वि­रो­ध­स्यो­क्त­त्वात् । एतेन ब्रह्मैकत्वे निर्विषयत्वात् उपदेशेन तद्ग्र­ह­ण­फ­ला­भा­व­दो­ष­प­रि­हार उक्तो वेदितव्यः । पुरु­षे­च्छा­रा­गा­दि­वै­चि­त्र्याच्च — अनेका हि पुरुषाणामिच्छा ; रागादयश्च दोषा विचित्राः ; ततश्च बाह्य­वि­ष­य­रा­गा­द्य­प­हृ­त­चे­तसो न शास्त्रं निवर्तयितुं शक्तम् ; नापि स्वभावतो बाह्य­वि­ष­य­वि­र­क्त­चे­तसो विषयेषु प्रवर्तयितुं शक्तम् ; किन्तु शास्त्रात् एतावदेव भवति — इदमिष्टसाधनम् इद­म­नि­ष्ट­सा­ध­न­मिति साध्य­सा­ध­न­स­म्ब­न्ध­वि­शे­षा­भि­व्यक्तिः — प्रदीपादिवत् तमसि रूपादिज्ञानम् ; न तु शास्त्रं भृत्यानिव बलात् निवर्तयति नियोजयति वा ; दृश्यन्ते हि पुरुषा रागादिगौरवात् शास्त्र­म­प्य­ति­क्रा­मन्तः । तस्मात् पुरु­ष­म­ति­वै­चि­त्र्य­म­पेक्ष्य साध्य­सा­ध­न­स­म्ब­न्ध­वि­शे­षान् अनेकधा उपदिशति । तत्र पुरुषाः स्वयमेव यथारुचि साधनविशेषेषु प्रवर्तन्ते ; शास्त्रं तु सवि­तृ­प्र­दी­पा­दि­वत् उदास्त एव । तथा कस्यचित्परोऽपि पुरुषार्थः अपु­रु­षा­र्थ­व­द­व­भा­सते ; यस्य यथावभासः, स तथारूपं पुरुषार्थं पश्यति ; तदनुरूपाणि साध­ना­न्यु­पा­दि­त्सते । तथा च अर्थवादोऽपि — ‘त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्म­च­र्य­मूषुः’(बृ. उ. ५ । २ । १) इत्यादिः । तस्मात् न ब्रह्मैकत्वं ज्ञापयिष्यन्तो वेदान्ता विधिशास्त्रस्य बाधकाः । न च विधिशास्त्रम् एतावता निर्विषयं स्यात् । नापि उक्तकारकादिभेदं विधिशास्त्रम् उपनिषदां ब्रह्मैकत्वं प्रति प्रामाण्यं निवर्तयति । स्वविषयशूराणि हि प्रमाणानि, श्रोत्रादिवत् ॥

तत्र पण्डितम्मन्याः केचित् स्वचित्तवशात् सर्वं प्रमा­ण­मि­त­रे­त­र­वि­रुद्धं मन्यन्ते, तथा प्रत्य­क्षा­दि­वि­रो­ध­मपि चोदयन्ति ब्रह्मैकत्वे — शब्दादयः किल श्रोत्रादिविषया भिन्नाः प्रत्यक्षत उपलभ्यन्ते ; ब्रह्मैकत्वं ब्रुवतां प्रत्यक्षविरोधः स्यात् ; तथा श्रोत्रादिभिः शब्दा­द्यु­प­ल­ब्धारः कर्तारश्च धर्माधर्मयोः प्रतिशरीरं भिन्ना अनुमीयन्ते संसारिणः ; तत्र ब्रह्मैकत्वं ब्रुव­ता­म­नु­मा­न­वि­रो­धश्च ; तथा च आगमविरोधं वदन्ति — ‘ग्रामकामो यजेत’(तै. आ. १७ । १० । ४) ‘पशुकामो यजेत’(तै. आ. १६ । १२ । ८) ‘स्वर्गकामो यजेत’(तै. आ. १६ । ३ । ३) इत्ये­व­मा­दि­वा­क्येभ्यः ग्राम­प­शु­स्व­र्गा­दि­कामाः तत्सा­ध­ना­द्य­नु­ष्ठा­ता­रश्च भिन्ना अवगम्यन्ते । अत्रोच्यते — ते तु कुत­र्क­दू­षि­ता­न्तः­क­रणाः ब्राह्म­णा­दि­व­र्णा­प­शदाः अनुकम्पनीयाः आग­मा­र्थ­वि­च्छि­न्न­स­म्प्र­दा­य­बु­द्धय इति । कथम् ? श्रोत्रा­दि­द्वारैः शब्दादिभिः प्रत्यक्षत उपलभ्यमानैः ब्रह्मण एकत्वं विरुध्यत इति वदन्तो वक्तव्याः — किं शब्दादीनां भेदेन आकाशैकत्वं विरुध्यत इति ; अथ न विरुध्यते, न तर्हि प्रत्यक्षविरोधः । यच्चोक्तम् — प्रतिशरीरं शब्दा­द्यु­प­ल­ब्धारः धर्माधर्मयोश्च कर्तारः भिन्ना अनुमीयन्ते, तथा च ब्रह्मै­क­त्वेऽ­नु­मा­न­वि­रोध इति ; भिन्नाः कैरनुमीयन्त इति प्रष्टव्याः ; अथ यदि ब्रूयुः — सर्वै­र­स्मा­भि­र­नु­मा­न­कु­श­लै­रिति — के यूयम् अनुमानकुशला इत्येवं पृष्टानां किमुत्तरम् ; शरी­रे­न्द्रि­य­म­न­आ­त्मसु च प्रत्ये­क­म­नु­मा­न­कौ­श­ल­प्र­त्या­ख्याने, शरी­रे­न्द्रि­य­म­नः­सा­धना आत्मानो वयमनुमानकुशलाः, अने­क­का­र­क­सा­ध्य­त्वा­त्क्रि­या­णा­मिति चेत् — एवं तर्हि अनुमानकौशले भव­ता­म­ने­क­त्व­प्र­सङ्गः ; अनेककारकसाध्या हि क्रियेति भव­द्भि­रे­वा­भ्यु­प­ग­तम् ; तत्र अनुमानं च क्रिया ; सा शरी­रे­न्द्रि­य­म­न­आ­त्म­सा­धनैः कारकैः आत्मकर्तृका निर्वर्त्यत इत्ये­त­त्प्र­ति­ज्ञा­तम् ; तत्र वयमनुमानकुशला इत्येवं वदद्भिः शरी­रे­न्द्रि­य­म­नः­सा­धना आत्मानः प्रत्येकं वयमनेके — इत्यभ्युपगतं स्यात् ; अहो अनुमानकौशलं दर्शितम् अपुच्छशृङ्गैः तार्कि­क­ब­ली­वर्दैः । यो हि आत्मानमेव न जानाति, स कथं मूढः तद्गतं भेदमभेदं वा जानीयात् ; तत्र किमनुमिनोति ? केन वा लिङ्गेन ? न हि आत्मनः स्वतो भेदप्रतिपादकं किञ्चि­ल्लि­ङ्ग­मस्ति, येन लिङ्गेन आत्मभेदं साधयेत् ; यानि लिङ्गानि आत्मभेदसाधनाय नामरूपवन्ति उपन्यस्यन्ति, तानि नामरूपगतानि उपाधय एव आत्मनः — घट­क­र­का­प­व­र­क­भू­छि­द्रा­णीव आकाशस्य ; यदा आकाशस्य भेदलिङ्गं पश्यति, तदा आत्मनोऽपि भेदलिङ्गं लभेत सः ; न ह्यात्मनः परतो विशे­ष­म­भ्यु­प­ग­च्छ­द्भि­स्ता­र्कि­क­श­तै­रपि भेदलिङ्गमात्मनो दर्शयितुं शक्यते ; स्वतस्तु दूरादपनीतमेव, अवि­ष­य­त्वा­दा­त्मनः । यद्यत् परः आत्म­ध­र्म­त्वे­ना­भ्यु­प­ग­च्छति, तस्य तस्य नाम­रू­पा­त्म­क­त्वा­भ्यु­प­ग­मात् , नामरूपाभ्यां च आत्म­नोऽ­न्य­त्वा­भ्यु­प­ग­मात् , ‘आकाशो वै नाम नाम­रू­प­यो­र्नि­र्व­हिता ते यदन्तरा तद्ब्रह्म’(छा. उ. ८ । १४ । १) इति श्रुतेः, ‘नामरूपे व्याकरवाणि’(छा. उ. ६ । ३ । २) इति च — उत्प­त्ति­प्र­ल­या­त्मके हि नामरूपे, तद्विलक्षणं च ब्रह्म — अतः अनु­मा­न­स्यै­वा­वि­ष­य­त्वात् कुतोऽ­नु­मा­न­वि­रोधः । एतेन आगमविरोधः प्रत्युक्तः । यदुक्तम् — ब्रह्मैकत्वे यस्मै उपदेशः, यस्य च उपदेशग्रहणफलम् , तदभावात् एक­त्वो­प­दे­शा­न­र्थ­क्य­मिति — तदपि न, अने­क­का­र­क­सा­ध्य­त्वा­त्क्रि­याणां कश्चोद्यो भवति ; एक­स्मि­न्ब्र­ह्मणि निरुपाधिके नोपदेशः, नोपदेष्टा, न च उपदेशग्रहणफलम् ; तस्मादुपनिषदां च आन­र्थ­क्य­मि­त्ये­तत् अभ्युपगतमेव ; अथ अने­क­का­र­क­वि­ष­या­न­र्थक्यं चोद्यते — न, स्वतोऽ­भ्यु­प­ग­म­वि­रो­धा­दा­त्म­वा­दि­नाम् । तस्मात् तार्कि­क­चा­ट­भ­ट­रा­जा­प्र­वे­श्यम् अभयं दुर्गमिदम् अल्प­बु­द्ध्य­गम्यं शास्त्र­गु­रु­प्र­सा­द­र­हि­तैश्च — ‘कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’(क. उ. १ । २ । २१) ‘देवैरत्रापि विचिकित्सितं पुरा’(क. उ. १ । १ । २१) ‘नैषा तर्केण मतिरापनेया’(क. उ. १ । २ । ९) — वर­प्र­सा­द­ल­भ्य­त्व­श्रु­ति­स्मृ­ति­वा­दे­भ्यश्च’ ‘तदेजति तन्नैजति तद्दूरे तद्वन्तिके’(ई. उ. ५) इत्या­दि­वि­रु­द्ध­ध­र्म­स­म­वा­यि­त्व­प्र­का­श­म­न्त्र­व­र्णे­भ्यश्च ; गीतासु च ‘मत्स्थानि सर्वभूतानि’(भ. गी. ९ । ४) इत्यादि । तस्मात् पर­ब्र­ह्म­व्य­ति­रे­केण संसारी नाम न अन्यत् वस्त्वन्तरमस्ति । तस्मा­त्सु­ष्ठू­च्यते ‘ब्रह्म वा इदमग्र आसीत् तदा­त्मा­न­मे­वा­वेत् अहं ब्रह्मास्मीति’(बृ. उ. १ । ४ । १०) —’ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ’ इत्या­दि­श्रु­ति­श­तेभ्यः । तस्मात् परस्यैव ब्रह्मणः सत्यस्य सत्यं नाम उपनिषत् परा ॥

इति द्विती­या­ध्या­यस्य प्रथमं ब्राह्मणम् ॥

द्वितीयं ब्राह्मणम्

‘ब्रह्म ज्ञपयिष्यामि’(बृ. उ. २ । १ । १५) इति प्रस्तुतम् ; तत्र यतो जगज्जातम् , यन्मयम् , यस्मिंश्च लीयते, तदेकं ब्रह्म — इति ज्ञापितम् । किमात्मकं पुनः तज्जगत् जायते, लीयते च ? पञ्चभूतात्मकम् ; भूतानि च नामरूपात्मकानि ; नामरूपे सत्यमिति ह्युक्तम् ; तस्य सत्यस्य पञ्चभूतात्मकस्य सत्यं ब्रह्म । कथं पुनः भूतानि सत्यमिति मूर्ता­मू­र्त­ब्रा­ह्म­णम् । मूर्ता­मू­र्त­भू­ता­त्म­क­त्वात् कार्य­क­र­णा­त्म­कानि भूतानि प्राणा अपि सत्यम् । तेषां कार्य­क­र­णा­त्म­कानां भूतानां सत्य­त्व­नि­र्दि­धा­र­यि­षया ब्राह्म­ण­द्व­य­मा­र­भ्यते सैव उपनिषद्व्याख्या । कार्य­क­र­ण­स­त्य­त्वा­व­धा­र­ण­द्वा­रेण हि सत्यस्य सत्यं ब्रह्म अवधार्यते । अत्रोक्तम् ‘प्राणा वै सत्यं तेषामेष सत्यम्’(बृ. उ. २ । १ । २०) इति ; तत्र के प्राणाः, कियत्यो वा प्राणविषया उपनिषदः का इति च — ब्रह्मो­प­नि­ष­त्प्र­स­ङ्गेन करणानां प्राणानां स्वरूपमवधारयति — पथि­ग­त­कू­पा­रा­मा­द्य­व­धा­र­ण­वत् ॥

यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद सप्त ह द्विषतो भ्रातृ­व्या­न­व­रु­णद्धि । अयं वाव शिशुर्योऽयं मध्यमः प्राण­स्त­स्ये­द­मे­वा­धा­न­मिदं प्रत्याधानं प्राणः स्थूणान्नं दाम ॥ १ ॥

यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद, तस्येदं फलम् ; किं तत् ? सप्त सप्तसङ्ख्याकान् ह द्विषतः द्वेषकर्तॄन् भ्रातृव्यान् भ्रातृव्या हि द्विविधा भवन्ति, द्विषन्तः अद्विषन्तश्च — तत्र द्विषन्तो ये भ्रातृव्याः तान् द्विषतो भ्रातृव्यान् अवरुणद्धि ; सप्त ये शीर्षण्याः प्राणा विष­यो­प­ल­ब्धि­द्वा­राणि तत्प्रभवा विषयरागाः सहजत्वात् भ्रातृव्याः । ते हि अस्य स्वात्मस्थां दृष्टिं विषयविषयां कुर्वन्ति ; तेन ते द्वेष्टारो भ्रातृव्याः, प्रत्य­गा­त्मे­क्ष­ण­प्र­ति­षे­ध­क­र­त्वात् ; काठके चोक्तम् — ‘पराञ्चि खानि व्यतृ­ण­त्स्व­य­म्भू­स्त­स्मा­त्प­रा­ङ्प­श्यति नान्तरात्मन्’(क. उ. २ । १ । १) इत्यादि ; तत्र यः शिश्वादीन्वेद, तेषां याथा­त्म्य­म­व­धा­र­यति, स एतान् भ्रातृव्यान् अवरुणद्धि अपावृणोति विनाशयति । तस्मै फल­श्र­व­णे­ना­भि­मु­खी­भू­ता­याह — अयं वाव शिशुः । कोऽसौ ? योऽयं मध्यमः प्राणः, शरीरमध्ये यः प्राणो लिङ्गात्मा, यः पञ्चधा शरीरमाविष्टः — बृहन्पाण्डरवासः सोम राज­न्नि­त्युक्तः, यस्मिन् वाङ्म­नः­प्र­भृ­तीनि करणानि विषक्तानि — पड्वी­श­श­ङ्कु­नि­द­र्श­नात् स एष शिशुरिव, विष­ये­ष्वि­त­र­क­र­ण­व­द­प­टु­त्वात् ; शिशुं साधा­न­मि­त्यु­क्तम् ; किं पुनस्तस्य शिशोः वत्सस्थानीयस्य करणात्मन आधानम् तस्य इदमेव शरीरम् आधानं कार्यात्मकम् — आधी­य­तेऽ­स्मि­न्नि­त्या­धा­नम् ; तस्य हि शिशोः प्राणस्य इदं शरीरमधिष्ठानम् ; अस्मिन्हि कर­णा­न्य­धि­ष्ठि­तानि लब्धात्मकानि उपलब्धिद्वाराणि भवन्ति, न तु प्राणमात्रे विषक्तानि ; तथा हि दर्शि­त­म­जा­त­श­त्रुणा — उपसंहृतेषु करणेषु विज्ञानमयो नोपलभ्यते, शरीरदेशव्यूढेषु तु करणेषु विज्ञानमय उपलभमान उपलभ्यते — तच्च दर्शितं पाणि­पे­ष­प्र­ति­बो­ध­नेन । इदं प्रत्याधानं शिरः ; प्रदेशविशेषेषु — प्रति — प्रत्याधीयत इति प्रत्याधानम् । प्राणः स्थूणा अन्नपानजनिता शक्तिः — प्राणो बलमिति पर्यायः ; बलावष्टम्भो हि प्राणः अस्मिन् शरीरे — ‘स यत्रा­य­मा­त्मा­बल्यं न्येत्य सम्मोहमिव’(बृ. उ. ४ । ४ । १) इति दर्शनात् — यथा वत्सः स्थूणावष्टम्भः एवम् । शरीरपक्षपाती वायुः प्राणः स्थूणेति केचित् । अन्नं दाम — अन्नं हि भुक्तं त्रेधा परिणमते ; यः स्थूलः परिणामः, स एतद्द्वयं भूत्वा, इमामप्येति — मूत्रं च पुरीषं च ; यो मध्यमो रसः, स रसो लोहितादिक्रमेण स्वकार्यं शरीरं साप्त­धा­तु­क­मु­प­चि­नोति ; स्वयोन्यन्नागमे हि शरीरमुपचीयते, अन्नमयत्वात् ; विप­र्य­येऽ­प­क्षी­यते पतति ; यस्तु अणिष्ठो रसः — अमृतम् ऊर्क् प्रभावः — इति च कथ्यते, स नाभेरूर्ध्वं हृदयदेशमागत्य, हृद­या­द्वि­प्र­सृ­तेषु द्वास­प्त­ति­ना­डी­स­ह­स्रे­ष्व­नु­प्र­विश्य, यत्तत् करणसङ्घातरूपं लिङ्गं शिशुसंज्ञकम् , तस्य शरीरे स्थितिकारणं भवति बलमुपजनयत् स्थूणाख्यम् ; तेन अन्नम् उभयतः पाशवत्सदामवत् प्राण­श­री­र­यो­र्नि­ब­न्धनं भवति ॥

इदानीं तस्यैव शिशोः प्रत्याधान ऊढस्य चक्षुषि काश्चनोपनिषद उच्यन्ते —

तमेताः सप्ताक्षितय उपतिष्ठन्ते तद्या इमा अक्षन्लोहिन्यो राजयस्ताभिरेनं रुद्रोऽ­न्वा­य­त्तोऽथ या अक्ष­न्ना­प­स्ताभिः पर्जन्यो या कनीनका तयादित्यो यत्कृष्णं तेना­ग्नि­र्य­च्छुक्लं तेने­न्द्रोऽ­ध­र­यैनं वर्तन्या पृथि­व्य­न्वा­यत्ता द्यौरुत्तरया नास्यान्नं क्षीयते य एवं वेद ॥ २ ॥

तमेताः सप्ताक्षितय उपतिष्ठन्ते — तं करणात्मकं प्राणं शरीरेऽन्नबन्धनं चक्षुष्यूढम् एताः वक्ष्यमाणाः सप्त सप्तसङ्ख्याकाः अक्षितयः, अक्षि­ति­हे­तु­त्वात् , उपतिष्ठन्ते । यद्यपि मन्त्रकरणे तिष्ठ­ति­रु­प­पूर्वः आत्मनेपदी भवति, इहापि सप्त देवताभिधानानि मन्त्र­स्था­नी­यानि करणानि ; तिष्ठतेः अतः अत्रापि आत्मनेपदं न विरुद्धम् । कास्ता अक्षितय इत्युच्यन्ते — तत् तत्र या इमाः प्रसिद्धाः, अक्षन् अक्षणि लोहिन्यः लोहिताः राजयः रेखाः, ताभिः द्वारभूताभिः एनं मध्यमं प्राणं रुद्रः अन्वायत्तः अनुगतः ; अथ याः अक्षन् अक्षणि आपः धूमा­दि­सं­यो­गे­ना­भि­व्य­ज्य­मानाः, ताभिः अद्भि­र्द्वा­र­भू­ताभिः पर्जन्यो देवतात्मा अन्वायत्तः अनुगत उपतिष्ठत इत्यर्थः । स च अन्न­भू­तोऽ­क्षितिः प्राणस्य, ‘पर्जन्ये वर्षत्यानन्दिनः प्राणा भवन्ति’(प्र. उ. २ । १०) इति श्रुत्यन्तरात् । या कनीनका दृक्शक्तिः तया कनीनकया द्वारेण आदित्यो मध्यमं प्राणमुपतिष्ठते । यत्कृष्णं चक्षुषि, तेन एन­म­ग्नि­रु­प­ति­ष्ठते । यच्छुक्लं चक्षुषि, तेन इन्द्रः । अधरया वर्तन्या पक्ष्मणा एनं पृथिवी अन्वायत्ता, अध­र­त्व­सा­मा­न्यात् । द्यौः उत्तरया, ऊर्ध्व­त्व­सा­मा­न्यात् । एताः सप्त अन्नभूताः प्राणस्य सन्त­त­मु­प­ति­ष्ठन्ते — इत्येवं यो वेद, तस्यैतत्फलम् — नास्यान्नं क्षीयते, य एवं वेद ॥

तदेष श्लोको भवति । अर्वाग्बिलश्चमस ऊर्ध्व­बु­ध्न­स्त­स्मि­न्यशो निहितं विश्वरूपम् । तस्यासत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदानेति । अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इतीदं तच्छिर एष ह्यर्वा­ग्बि­ल­श्च­मस ऊर्ध्व­बु­ध्न­स्त­स्मि­न्यशो निहितं विश्वरूपमिति प्राणा वै यशो विश्वरूपं प्राणानेतदाह तस्यासत ऋषयः सप्त तीर इति प्राणा वा ऋषयः प्राणानेतदाह वागष्टमी ब्रह्मणा संविदानेति वाग्घ्यष्टमी ब्रह्मणा संवित्ते ॥ ३ ॥

तत् तत्र एतस्मिन्नर्थे एष श्लोकः मन्त्रो भवति — अर्वाग्बिलश्चमस इत्यादिः । तत्र मन्त्रा­र्थ­मा­चष्टे श्रुतिः — अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति । कः पुन­र­सा­व­र्वा­ग्बि­ल­श्च­मस ऊर्ध्वबुध्नः ? इदं तत् ; शिरः चमसाकारं हि तत् ; कथम् ? एष हि अर्वाग्बिलः मुखस्य बिलरूपत्वात् , शिरसो बुध्नाकारत्वात् ऊर्ध्वबुध्नः । तस्मिन् यशो निहितं विश्वरूपमिति — यथा सोमः चमसे, एवं तस्मिन् शिरसि विश्वरूपं नानारूपं निहितं स्थितं भवति । किं पुनस्तत् ? यशः — प्राणा वै यशो विश्वरूपम् — प्राणाः श्रोत्रादयः वायवश्च मरुतः सप्तधा तेषु प्रसृताः यशः — इत्येतदाह मन्त्रः, शब्दा­दि­ज्ञा­न­हे­तु­त्वात् । तस्यासत ऋषयः सप्त तीर इति — प्राणाः परि­स्प­न्दा­त्मकाः, त एव च ऋषयः, प्राणानेतदाह मन्त्रः । वागष्टमी ब्रह्मणा संविदानेति — ब्रह्मणा संवादं कुर्वन्ती अष्टमी भवति ; तद्धेतुमाह — वाग्घ्यष्टमी ब्रह्मणा संवित्त इति ॥

इमावेव गोत­म­भ­र­द्वा­जा­व­य­मेव गोतमोऽयं भरद्वाज इमावेव विश्वा­मि­त्र­ज­म­दग्नी अयमेव विश्वामित्रोऽयं जमदग्निरिमावेव वसि­ष्ठ­क­श्य­पा­व­य­मेव वसिष्ठोऽयं कश्यपो वागे­वा­त्रि­र्वाचा ह्यन्न­म­द्य­तेऽ­त्तिर्ह वै नामै­त­द्य­द­त्रि­रिति सर्वस्यात्ता भवति सर्वमस्यान्नं भवति य एवं वेद ॥ ४ ॥

के पुनस्तस्य चमसस्य तीर आसत ऋषय इति — इमावेव गोतमभरद्वाजौ कर्णौ — अयमेव गोतमः अयं भरद्वाजः दक्षिणश्च उत्तरश्च, विपर्ययेण वा । तथा चक्षुषी उपदिशन्नुवाच — इमावेव विश्वा­मि­त्र­ज­म­दग्नी दक्षिणं विश्वामित्रः उत्तरं जमदग्निः, विपर्ययेण वा । इमावेव वसिष्ठकश्यपौ — नासिके उपदिशन्नुवाच ; दक्षिणः पुटो भवति वसिष्ठः ; उत्तरः कश्यपः — पूर्ववत् । वागेव अत्रिः अदनक्रियायोगात् सप्तमः ; वाचा ह्यन्नमद्यते ; तस्मादत्तिर्हि वै प्रसिद्धं नामैतत् — अत्तृ­त्वा­द­त्ति­रिति, अत्तिरेव सन् यद­त्रि­रि­त्यु­च्यते परोक्षेण । सर्वस्य एतस्यान्नजातस्य प्राणस्य, अत्रि­नि­र्व­च­न­वि­ज्ञा­ना­दत्ता भवति । अत्तैव भवति नामु­ष्मि­न्न­न्येन पुनः प्रत्यद्यते इत्येतदुक्तं भवति — सर्वमस्यान्नं भवतीति । य एवम् एतत् यथोक्तं प्राणयाथात्म्यं वेद, स एवं मध्यमः प्राणो भूत्वा आधा­न­प्र­त्या­धा­न­गतो भोक्तैव भवति, न भोज्यम् ; भोज्या­द्व्या­व­र्तत इत्यर्थः ॥

इति द्विती­या­ध्या­यस्य द्वितीयम् ब्राह्मणम् ॥

तृतीयं ब्राह्मणम्

द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च मर्त्यं चामृतं च स्थितं च यच्च सच्च त्यच्च ॥ १ ॥

तत्र प्राणा वै सत्यमित्युक्तम् । याः प्राणा­ना­मु­प­नि­षदः, ताः ब्रह्मो­प­नि­ष­त्प्र­स­ङ्गेन व्याख्याताः — एते ते प्राणा इति च । ते किमात्मकाः कथं वा तेषां सत्यत्वमिति च वक्तव्यमिति पञ्चभूतानां सत्यानां कार्य­क­र­णा­त्म­कानां स्वरू­पा­व­धा­र­णा­र्थम् इदं ब्राह्म­ण­मा­र­भ्यते — यदु­पा­धि­वि­शे­षा­प­न­य­द्वा­रेण ‘नेति नेति’(बृ. उ. २ । ३ । ६)‘नेति नेति’(बृ. उ. २ । ३ । ६)‘नेति नेति’(बृ. उ. २ । ३ । ६) इति ब्रह्मणः सतत्त्वं निर्दि­धा­र­यि­षि­तम् । तत्र द्विरूपं ब्रह्म पञ्च­भू­त­ज­नि­त­का­र्य­क­र­ण­स­म्बद्धं मूर्ता­मू­र्ताख्यं मर्त्या­मृ­त­स्व­भावं तज्ज­नि­त­वा­स­ना­रूपं च सर्वज्ञं सर्वशक्ति सोपाख्यं भवति । क्रिया­का­र­क­फ­ला­त्मकं च सर्व­व्य­व­हा­रा­स्प­दम् । तदेव ब्रह्म विग­त­स­र्वो­पा­धि­वि­शेषं सम्य­ग्द­र्श­न­वि­ष­यम् अजरम् अमृतम् अभयम् , वाङ्म­न­स­यो­र­प्य­वि­ष­यम् अद्वैतत्वात् ‘नेति नेति’ इति निर्दिश्यते । तत्र यदपोहद्वारेण ‘नेति नेति’ इति निर्दिश्यते ब्रह्म, ते एते द्वे वाव — वाव­श­ब्दोऽ­व­धा­र­णार्थः — द्वे एवेत्यर्थः — ब्रह्मणः परमात्मनः रूपे — रूप्यते याभ्याम् अरूपं परं ब्रह्म अवि­द्या­ध्या­रो­प्य­मा­णा­भ्याम् । के ते द्वे ? मूर्तं चैव मूर्तमेव च ; तथा अमूर्तं च अमूर्तमेव चेत्यर्थः । अन्त­र्णी­त­स्वा­त्म­वि­शे­षणे मूर्तामूर्ते द्वे एवेत्यवधार्येते ; कानि पुनस्तानि विशेषणानि मूर्ता­मू­र्त­यो­रि­त्यु­च्यन्ते — मर्त्यं च मर्त्यं मरणधर्मि, अमृतं च तद्विपरीतम् , स्थितं च — परिच्छिन्नं गतिपूर्वकं यत्स्थास्नु, यच्च — यातीति यत् — व्यापि अपरिच्छिन्नं स्थितविपरीतम् , सच्च — सदित्यन्येभ्यो विशे­ष्य­मा­णा­सा­धा­र­ण­ध­र्म­वि­शे­ष­वत् , त्यच्च — तद्विपरीतम् ‘त्यत्’ इत्येव सर्वदा परो­क्षा­भि­धा­ना­र्हम् ॥

तदेतन्मूर्तं यद­न्य­द्वा­यो­श्चा­न्त­रि­क्षा­च्चै­त­न्म­र्त्य­मे­त­त्स्थि­त­मे­त­त्स­त्त­स्यै­तस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतो ह्येष रसः ॥ २ ॥

तत्र चतु­ष्ट­य­वि­शे­ष­ण­वि­शिष्टं मूर्तम् , तथा अमूर्तं च ; तत्र कानि मूर्तविशेषणानि कानि चेतराणीति विभज्यते । तदेतन्मूर्तं मूर्छितावयवम् इत­रे­त­रा­नु­प्र­वि­ष्टा­व­यवं घनं संहतमित्यर्थः । किं तत् ? यदन्यत् ; कस्मादन्यत् ? वायो­श्चा­न्त­रि­क्षाच्च भूतद्वयात् — परि­शे­षा­त्पृ­थि­व्या­दि­भू­त­त्र­यम् ; एतन्मर्त्यम् — यदे­त­न्मू­र्ताख्यं भूतत्रयम् इदं मर्त्यं मरणधर्मि ; कस्मात् ? यस्मा­त्स्थि­त­मे­तत् ; परिच्छिन्नं ह्यर्थान्तरेण सम्प्रयुज्यमानं विरुध्यते — यथा घटः स्तम्भ­कु­ड्या­दिना ; तथा मूर्तं स्थितं परिच्छिन्नम् अर्था­न्त­र­स­म्बन्धि ततोऽ­र्था­न्त­र­वि­रो­धा­न्म­र्त्यम् ; एतत्सत् विशे­ष्य­मा­णा­सा­धा­र­ण­ध­र्म­वत् , तस्माद्धि परिच्छिन्नम् , परि­च्छि­न्न­त्वा­न्म­र्त्यम् , अतो मूर्तम् ; मूर्तत्वाद्वा मर्त्यम् , मर्त्य­त्वा­त्स्थि­तम् , स्थितत्वात्सत् । अतः अन्यो­न्या­व्य­भि­चा­रात् चतुर्णां धर्माणां यथेष्टं विशे­ष­ण­वि­शे­ष्य­भावो हेतु­हे­तु­म­द्भा­वश्च दर्शयितव्यः । सर्वथापि तु भूतत्रयं चतु­ष्ट­य­वि­शे­ष­ण­वि­शिष्टं मूर्तं रूपं ब्रह्मणः । तत्र चतु­र्णा­मे­क­स्मि­न्गृ­हीते विशेषणे इतरद्गृहीतमेव विशेषणमित्याह — तस्यैतस्य मूर्तस्य, एतस्य मर्त्यस्य, एतस्य स्थितस्य, एतस्य सतः — चतु­ष्ट­य­वि­शे­ष­णस्य भूत­त्र­य­स्ये­त्यर्थः — एष रसः सार इत्यर्थः ; त्रयाणां हि भूतानां सारिष्ठः सविता ; एतत्साराणि त्रीणि भूतानि, यत एत­त्कृ­त­वि­भ­ज्य­मा­न­रू­प­वि­शे­ष­णानि भवन्ति ; आधिदैविकस्य कार्य­स्यै­त­द्रू­पम् — यत्सविता यदेतन्मण्डलं तपति ; सतो भूतत्रयस्य हि यस्मात् एष रस इति एतद्गृह्यते ; मूर्तो ह्येष सविता तपति, सारिष्ठश्च । यत्तु आधिदैविकं करणं मण्ड­ल­स्या­भ्य­न्त­रम् , तद्वक्ष्यामः ॥

अथामूर्तं वायु­श्चा­न्त­रिक्षं चैत­द­मृ­त­मे­त­द्य­दे­त­त्त्य­त्त­स्यै­त­स्या­मू­र्त­स्यै­त­स्या­मृ­त­स्यै­तस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषस्त्यस्य ह्येष रस इत्यधिदैवतम् ॥ ३ ॥

अथामूर्तम् — अथाधुना अमूर्तमुच्यते । वायु­श्चा­न्त­रिक्षं च यत्परिशेषितं भूतद्वयम् — एतत् अमृतम् , अमूर्तत्वात् , अस्थितम् , अतोऽविरुध्यमानं केनचित् , अमृतम् , अमरणधर्मि ; एतत् यत् स्थितविपरीतम् , व्यापि, अपरिच्छिन्नम् ; यस्मात् यत् एतत् अन्ये­भ्योऽ­प्र­वि­भ­ज्य­मा­न­वि­शे­षम् , अतः त्यत् ‘त्यत्’ इति परो­क्षा­भि­धा­ना­र्ह­मेव — पूर्ववत् । तस्यै­त­स्या­मू­र्तस्य एतस्यामृतस्य एतस्य यतः एतस्य त्यस्य चतु­ष्ट­य­वि­शे­ष­ण­स्या­मू­र्तस्य एष रसः ; कोऽसौ ? य एष एतस्मिन्मण्डले पुरुषः — करणात्मको हिरण्यगर्भः प्राण इत्यभिधीयते यः, स एषः अमूर्तस्य भूतद्वयस्य रसः पूर्ववत् सारिष्ठः । एतत्पुरुषसारं चामूर्तं भूतद्वयम् — हैर­ण्य­ग­र्भ­लि­ङ्गा­र­म्भाय हि भूत­द्व­या­भि­व्य­क्ति­र­व्या­कृ­तात् ; तस्मात् तादर्थ्यात् तत्सारं भूतद्वयम् । त्यस्य ह्येष रसः — यस्मात् यः मण्डलस्थः पुरुषो मण्डलवन्न गृह्यते सारश्च भूतद्वयस्य, तस्मादस्ति मण्डलस्थस्य पुरुषस्य भूतद्वयस्य च साधर्म्यम् । तस्मात् युक्तं प्रसि­द्ध­व­द्धे­तू­पा­दा­नम् — त्यस्य ह्येष रस इति ॥

रसः कारणं हिर­ण्य­ग­र्भ­वि­ज्ञा­नात्मा चेतन इति केचित् ; तत्र च किल हिर­ण्य­ग­र्भ­वि­ज्ञा­ना­त्मनः कर्म वाय्व­न्त­रि­क्षयोः प्रयोक्तृ ; तत्कर्म वाय्व­न्त­रि­क्षा­धारं सत् अन्येषां भूतानां प्रयोक्तृ भवति ; तेन स्वकर्मणा वाय्व­न्त­रि­क्षयोः प्रयोक्तेति तयोः रसः कारणमुच्यत इति । तन्न मूर्तरसेन अतुल्यत्वात् ; मूर्तस्य तु भूतत्रयस्य रसो मूर्तमेव मण्डलं दृष्टं भूत­त्र­य­स­मा­न­जा­ती­यम् ; न चेतनः ; तथा अमूर्तयोरपि भूतयोः तत्स­मा­न­जा­ती­ये­नैव अमूर्तरसेन युक्तं भवितुम् , वाक्य­प्र­वृ­त्ते­स्तु­ल्य­त्वात् ; यथा हि मूर्तामूर्ते चतुष्टयधर्मवती विभज्येते, तथा रसरसवतोरपि मूर्तामूर्तयोः तुल्येनैव न्यायेन युक्तो विभागः ; न त्वर्धवैशसम् । मूर्तरसेऽपि मण्ड­लो­पा­धि­श्चे­तनो विवक्ष्यत इति चेत् — अत्य­ल्प­मि­द­मु­च्यते, सर्वत्रैव तु मूर्तामूर्तयोः ब्रह्मरूपेण विवक्षितत्वात् । पुरुषशब्दः अचेतनेऽनुपपन्न इति चेत् , न, पक्ष­पु­च्छा­दि­वि­शि­ष्ट­स्यैव लिङ्गस्य पुरु­ष­श­ब्द­द­र्श­नात् , ‘न वा इत्थं सन्तः शक्ष्यामः प्रजाः प्रज­न­यि­तु­मि­मा­न्सप्त पुरुषानेकं पुरुषं करवामेति त एतान्सप्त पुरुषानेकं पुरुषमकुर्वन्’(शत. ब्रा. ६ । १ । १ । ३) इत्यादौ अन्नरसमयादिषु च श्रुत्यन्तरे पुरु­ष­श­ब्द­प्र­यो­गात् । इत्यधिदैवतमिति उक्तोपसंहारः अध्या­त्म­वि­भा­गो­क्त्यर्थः ॥

अथा­ध्या­त्म­मि­द­मेव मूर्तं यद­न्य­त्प्रा­णाच्च यश्चा­य­म­न्त­रा­त्म­न्ना­काश एत­न्म­र्त्य­मे­त­त्स्थि­त­मे­त­त्स­त्त­स्यै­तस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्येष रसः ॥ ४ ॥

अथाधुना अध्यात्मं मूर्ता­मू­र्त­यो­र्वि­भाग उच्यते । किं तत् मूर्तम् ? इदमेव ; किञ्चेदम् ? यदन्यत् प्राणाच्च वायोः, यश्चायम् अन्तः अभ्यन्तरे आत्मन् आत्मनि आकाशः खम् , शरीरस्थश्च यः प्राणः — एतद्द्वयं वर्जयित्वा यदन्यत् शरीरारम्भकं भूतत्रयम् ; एत­न्म­र्त्य­मि­त्यादि समा­न­म­न्य­त्पू­र्वेण । एतस्य सतो ह्येष रसः — यच्चक्षुरिति ; आध्यात्मिकस्य शरीरारम्भकस्य कार्यस्य एष रसः सारः ; तेन हि सारेण सारवदिदं शरीरं समस्तम् — यथा अधि­दै­व­त­मा­दि­त्य­म­ण्ड­लेन ; प्राथम्याच्च — चक्षुषी एव प्रथमे सम्भवतः सम्भवत इति, ‘तेजो रसो निरवर्तताग्निः’(बृ. उ. १ । २ । २) इति लिङ्गात् ; तैजसं हि चक्षुः ; एतत्सारम् आध्यात्मिकं भूतत्रयम् ; सतो ह्येष रस इति मूर्तत्वसारत्वे हेत्वर्थः ॥

अथामूर्तं प्राणश्च यश्चा­य­म­न्त­रा­त्म­न्ना­काश एत­द­मृ­त­मे­त­द्य­दे­त­त्त्य­त्त­स्यै­त­स्या­मू­र्त­स्यै­त­स्या­मृ­त­स्यै­तस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षि­णेऽ­क्ष­न्पु­रु­ष­स्त्यस्य ह्येष रसः ॥ ५ ॥

अथाधुना अमूर्तमुच्यते । यत्परिशेषितं भूतद्वयं प्राणश्च यश्चा­य­म­न्त­रा­त्म­न्ना­काशः, एतदमूर्तम् । अन्यत्पूर्ववत् । एतस्य त्यस्य एष रसः सारः, योऽयं दक्षि­णेऽ­क्ष­न्पु­रुषः — दक्षि­णेऽ­क्ष­न्निति विशेषग्रहणम् , शास्त्र­प्र­त्य­क्ष­त्वात् ; लिङ्गस्य हि दक्षिणेऽक्ष्णि विशे­ष­तोऽ­धि­ष्ठा­तृत्वं शास्त्रस्य प्रत्यक्षम् , सर्वश्रुतिषु तथा प्रयोगदर्शनात् । त्यस्य ह्येष रस इति पूर्ववत् विशेषतः अग्रहणात् अमूर्तत्वसारत्व एव हेत्वर्थः ॥

तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथा­ग्न्य­र्चि­र्यथा पुण्डरीकं यथा सकृद्विद्युत्तं सकृ­द्वि­द्यु­त्तेव ह वा अस्य श्रीर्भवति य एवं वेदाथात आदेशो नेति नेति न ह्येतस्मादिति नेत्य­न्य­त्प­र­म­स्त्यथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ ६ ॥

ब्रह्मण उपा­धि­भू­त­यो­र्मू­र्ता­मू­र्तयोः कार्यकरणविभागेन अध्या­त्मा­धि­दै­व­तयोः विभागो व्याख्यातः सत्य­श­ब्द­वा­च्ययोः । अथेदानीं तस्य हैतस्य पुरुषस्य करणात्मनो लिङ्गस्य रूपं वक्ष्यामः वासनामयं मूर्ता­मू­र्त­वा­स­ना­वि­ज्ञा­न­म­य­सं­यो­ग­ज­नितं विचित्रं पट­भि­त्ति­चि­त्र­वत् माये­न्द्र­जा­ल­मृ­ग­तृ­ष्णि­को­पमं सर्व­व्या­मो­हा­स्प­दम् — एतावन्मात्रमेव आत्मेति विज्ञानवादिनो वैनाशिका यत्र भ्रान्ताः, एतदेव वासनारूपं पटरूपवत् आत्मनो द्रव्यस्य गुण इति नैयायिका वैशेषिकाश्च सम्प्रतिपन्नाः, इदम् आत्मार्थं त्रिगुणं स्वतन्त्रं प्रधानाश्रयं पुरुषार्थेन हेतुना प्रवर्तत इति साङ्ख्याः ॥

औपनिषदम्मन्या अपि केचि­त्प्र­क्रियां रचयन्ति — मूर्ता­मू­र्त­रा­शि­रेकः, पर­मा­त्म­रा­शि­रु­त्तमः, ताभ्यामन्योऽयं मध्यमः किल तृतीयः कर्त्रा भोक्त्रा विज्ञानमयेन अजा­त­श­त्रु­प्र­ति­बो­धि­तेन सह विद्या­क­र्म­पू­र्व­प्र­ज्ञा­स­मु­दायः ; प्रयोक्ता कर्मराशिः, प्रयोज्यः पूर्वोक्तो मूर्ता­मू­र्त­भू­त­राशिः साधनं चेति । तत्र च तार्किकैः सह सन्धिंं कुर्वन्ति । लिङ्गाश्रयश्च एष कर्म­रा­शि­रि­त्युक्त्वा, पुन­स्त­त­स्त्र­स्यन्तः साङ्ख्यत्वभयात् — सर्वः कर्म राशिः — पुष्पाश्रय इव गन्धः पुष्पवियोगेऽपि पुटतैलाश्रयो भवति, तद्वत् — लिङ्गवियोगेऽपि पर­मा­त्मै­क­दे­श­मा­श्र­यति, सपरमात्मैकदेशः किल अन्यत आगतेन गुणेन कर्मणा सगुणो भवति निर्गुणोऽपि सन् , स कर्ता भोक्ता बध्यते मुच्यते च विज्ञानात्मा — इति वैशे­षि­क­चि­त्त­म­प्य­नु­स­रन्ति ; स च कर्मराशिः भूत­रा­शे­रा­ग­न्तुकः, स्वतो निर्गुण एव पर­मा­त्मै­क­दे­श­त्वात् , स्वत उत्थिता अविद्या अनागन्तुकापि ऊषरवत् अनात्मधर्मः — इत्यनया कल्पनया साङ्ख्य­चि­त्त­म­नु­व­र्तन्ते ॥

सर्वमेतत् तार्किकैः सह साम­ञ्ज­स्य­क­ल्प­नया रमणीयं पश्यन्ति, न उप­नि­ष­त्सि­द्धान्तं सर्वन्यायविरोधं च पश्यन्ति ; कथम् ? उक्ता एव तावत् सावयवत्वे परमात्मनः संसा­रि­त्व­स­व्र­ण­त्व­क­र्म­फ­ल­दे­श­सं­स­र­णा­नु­प­प­त्त्या­दयो दोषाः ; नित्यभेदे च विज्ञानात्मनः परेण एकत्वानुपपत्तिः । लिङ्गमेवेति चेत् परमात्मन उपचरितदेशत्वेन कल्पितं घट­क­र­क­भू­छि­द्रा­का­शा­दि­वत् , तथा लिङ्गवियोगेऽपि पर­मा­त्म­दे­शा­श्र­यणं वासनायाः । अविद्यायाश्च स्वत उत्थानम् ऊषरवत् — इत्या­दि­क­ल्प­ना­नु­प­प­न्नैव । न च वास्य­दे­श­व्य­ति­रे­केण वासनाया वस्त्व­न्त­र­स­ञ्च­रणं मनसापि कल्पयितुं शक्यम् । न च श्रुतयो अवगच्छन्ति — ‘कामः सङ्कल्पो विचिकित्सा’(बृ. उ. १ । ५ । ३) ‘हृदये ह्येव रूपाणि’(बृ. उ. ३ । ९ । २०) ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) ‘कामा येऽस्य हृदि श्रिताः’(बृ. उ. ४ । ४ । ७) ‘तीर्णो हि तदा सर्वा­ञ्शो­का­न्हृ­द­यस्य’(बृ. उ. ४ । ३ । २२) इत्याद्याः । न च आसां श्रुतीनां श्रुता­द­र्था­न्त­र­क­ल्पना न्याय्या, आत्मनः पर­ब्र­ह्म­त्वो­प­पा­द­ना­र्थ­प­र­त्वा­दा­साम् , एता­व­न्मा­त्रा­र्थो­प­क्ष­य­त्वाच्च सर्वोपनिषदाम् । तस्मात् श्रुत्य­र्थ­क­ल्प­ना­कु­शलाः सर्व एव उपनिषदर्थमन्यथा कुर्वन्ति । तथापि वेदा­र्थ­श्चे­त्स्यात् , कामं भवतु, न मे द्वेषः । न च ‘द्वे वाव ब्रह्मणो रूपे’ इति राशित्रयपक्षे समञ्जसम् ; यदा तु मूर्तामूर्ते तज्जनितवासनाश्च मूर्तामूर्ते द्वे रूपे, ब्रह्म च रूपि तृतीयम् , न चान्यत् चतुर्थमन्तराले — तदा एतत् अनुकूलमवधारणम् , द्वे एव ब्रह्मणो रूपे इति ; अन्यथा ब्रह्मैकदेशस्य विज्ञानात्मनो रूपे इति कल्प्यम् , परमात्मनो वा विज्ञा­ना­त्म­द्वा­रे­णेति ; तदा च रूपे एवेति द्विव­च­न­म­स­म­ञ्ज­सम् ; रूपाणीति वासनाभिः सह बहुवचनं युक्ततरं स्यात् — द्वे च मूर्तामूर्ते वासनाश्च तृतीयमिति । अथ मूर्तामूर्ते एव परमात्मनो रूपे, वासनास्तु विज्ञानात्मन इति चेत् — तदा विज्ञा­ना­त्म­द्वा­रेण विक्रियमाणस्य परमात्मनः — इतीयं वाचो युक्तिरनर्थिका स्यात् , वासनाया अपि विज्ञा­ना­त्म­द्वा­र­त्वस्य अविशिष्टत्वात् ; न च वस्तु वस्त्व­न्त­र­द्वा­रेण विक्रियत इति मुख्यया वृत्त्या शक्यं कल्पयितुम् ; न च विज्ञानात्मा परमात्मनो वस्त्वन्तरम् , तथा कल्पनायां सिद्धान्तहानात् । तस्मात् वेदार्थमूढानां स्वचित्तप्रभवा एवमादिकल्पना अक्षरबाह्याः ; न ह्यक्षरबाह्यो वेदार्थः वेदार्थोपकारी वा, निरपेक्षत्वात् वेदस्य प्रामाण्यं प्रति । तस्मात् राशित्रयकल्पना असमञ्जसा ॥

‘योऽयं दक्षि­णेऽ­क्ष­न्पु­रुषः’(बृ. उ. २ । ३ । ५) इति लिङ्गात्मा प्रस्तुतः अध्यात्मे, अधिदैवे च ‘य एष एतस्मिन्मण्डले पुरुषः’(बृ. उ. २ । ३ । ३) इति, ‘तस्य’ इति प्रकृतोपादनात् स एवोपादीयते — योऽसौ त्यस्यामूर्तस्य रसः, न तु विज्ञानमयः । ननु विज्ञानमयस्यैव एतानि रूपाणि कस्मान्न भवन्ति, विज्ञानमयस्यापि प्रकृतत्वात् , ‘तस्य’ इति च प्रकृतोपादानात् — नैवम् , विज्ञानमयस्य अरूपित्वेन विजि­ज्ञा­प­यि­षि­त­त्वात् ; यदि हि तस्यैव विज्ञानमयस्य एतानि माहारजनादीनि रूपाणि स्युः, तस्यैव ‘नेति नेति’(बृ. उ. २ । ३ । ६)‘नेति नेति’(बृ. उ. २ । ३ । ६) इत्य­ना­ख्ये­य­रू­प­तया आदेशो न स्यात् । ननु अन्यस्यैव असावादेशः, न तु विज्ञानमयस्येति — न, षष्ठान्ते उपसंहरात् — ‘विज्ञातारमरे केन विजानीयात्’(बृ. उ. ४ । ५ । १५) इति विज्ञानमयं प्रस्तुत्य ‘स एष नेति नेति’(बृ. उ. ४ । ५ । १५) — इति ; ‘विज्ञ­प­यि­ष्यामि’(बृ. उ. २ । १ । १५) इति च प्रतिज्ञाया अर्थवत्त्वात् — यदि च विज्ञानमयस्यैव असं­व्य­व­हा­र्य­मा­त्म­स्व­रूपं ज्ञापयितुमिष्टं स्यात् प्रध्व­स्त­स­र्वो­पा­धि­वि­शे­षम् , तत इयं प्रतिज्ञा अर्थवती स्यात् — येन असौ ज्ञापितो जाना­त्या­त्मा­न­मेव अहं ब्रह्मास्मीति, शास्त्रनिष्ठां प्राप्नोति, न बिभेति कुतश्चन ; अथ पुनः अन्यो विज्ञानमयः, अन्यः ‘नेति नेति’ इति व्यपदिश्यते — तदा अन्यददो ब्रह्म अन्योऽहमस्मीति विपर्ययो गृहीतः स्यात् , न ‘आत्मा­न­मे­वा­वे­दहं ब्रह्मास्मि’(बृ. उ. १ । ४ । १०) इति । तस्मात् ‘तस्य हैतस्य’ इति लिङ्गपुरुषस्यैव एतानि रूपाणि । सत्यस्य च सत्ये परमात्मस्वरूपे वक्तव्ये निरवशेषं सत्यं वक्तव्यम् ; सत्यस्य च विशेषरूपाणि वासनाः ; तासामिमानि रूपाण्युच्यन्ते ॥

एतस्य पुरुषस्य प्रकृतस्य लिङ्गात्मन एतानि रूपाणि ; कानि तानीत्युच्यन्ते — यथा लोके, महारजनं हरिद्रा तया रक्तं माहारजनम् यथा वासो लोके, एवं स्त्र्यादि­वि­ष­य­सं­योगे तादृशं वासनारूपं रञ्ज­ना­का­र­मु­त्प­द्यते चित्तस्य, येनासौ पुरुषो रक्त इत्युच्यते वस्त्रादिवत् — यथा च लोके पाण्ड्वाविकम् , अवेरिदम् आविकम् ऊर्णादि, यथा च तत् पाण्डुरं भवति, तथा अन्य­द्वा­स­ना­रू­पम् — यथा च लोके इन्द्रगोप अत्यन्तरक्तो भवति, एवमस्य वासनारूपम् — क्वचि­द्वि­ष­य­वि­शे­षा­पे­क्षया रागस्य तारतम्यम् , क्वचि­त्पु­रु­ष­चि­त्त­वृ­त्त्य­पे­क्षया — यथा च लोके अग्न्यर्चिः भास्वरं भवति, तथा क्वचित् कस्यचित् वासनारूपं भवति — यथा पुण्डरीकं शुक्लम् , तद्वदपि च वासनारूपं कस्यचिद्भवति — यथा सकृ­द्वि­द्यु­त्तम् , यथा लोके सकृद्विद्योतनं सर्वतः प्रकाशकं भवति, तथा ज्ञान­प्र­का­श­वि­वृ­द्ध्य­पे­क्षया कस्यचित् वासनारूपम् — उपजायते । न एषां वासनारूपाणाम् आदिः अन्तः मध्यं सङ्ख्या वा, देशः कालो निमित्तं वा अवधार्यते — अस­ङ्ख्ये­य­त्वा­द्वा­स­नायाः, वासनाहेतूनां च आनन्त्यात् । तथा च वक्ष्यति षष्ठे ‘इदम्मयोऽदोमयः’(बृ. उ. ४ । ४ । ५) इत्यादि । तस्मात् न स्वरू­प­स­ङ्ख्या­व­धा­र­णार्था दृष्टान्ताः — ‘यथा माहारजनं वासः’ इत्यादयः ; किं तर्हि प्रका­र­प्र­द­र्श­नार्थाः — एवंप्रकाराणि हि वासनारूपाणीति । यत्तु वास­ना­रू­प­म­भि­हि­त­मन्ते — सकृ­द्वि­द्यो­त­न­मि­वेति, तत्किल हिरण्यगर्भस्य अव्या­कृ­ता­त्प्रा­दु­र्भ­वतः तडिद्वत् सकृदेव व्यक्तिर्भवतीति ; तत् तदीयं वासनारूपं हिरण्यगर्भस्य यो वेद तस्य सकृ­द्वि­द्यु­त्तेव, ह वै इत्यवधारणार्थौ, एवमेव अस्य श्रीः ख्यातिः भवतीत्यर्थः, यथा हिरण्यगर्भस्य — एवम् एतत् यथोक्तं वास­ना­रू­प­म­न्त्यम् यो वेद ॥

एवं निरवशेषं सत्यस्य स्वरूपमभिधाय, यत्तत्सत्यस्य सत्यमवोचाम तस्यैव स्वरू­पा­व­धा­र­णार्थं ब्रह्मण इदमारभ्यते — अथ अनन्तरं सत्य­स्व­रू­प­नि­र्दे­शा­न­न्त­रम् , यत्सत्यस्य सत्यं तदेवावशिष्यते यस्मात् — अतः तस्मात् , सत्यस्य सत्यं स्वरूपं निर्देक्ष्यामः ; आदेशः निर्देशः ब्रह्मणः ; कः पुनरसौ निर्देश इत्युच्यते — नेति नेतीत्येवं निर्देशः ॥

ननु कथम् आभ्यां ‘नेति नेति’(बृ. उ. २ । ३ । ६)‘नेति नेति’(बृ. उ. २ । ३ । ६) इति शब्दाभ्यां सत्यस्य सत्यं निर्दि­दि­क्षि­त­मिति, उच्यते — सर्वो­पा­धि­वि­शे­षा­पो­हेन । यस्मिन्न कश्चि­द्वि­शे­षोऽस्ति — नाम वा रूपं वा कर्म वा भेदो वा जातिर्वा गुणो वा ; तद्द्वारेण हि शब्द­प्र­वृ­त्ति­र्भ­वति ; न चैषां कश्चिद्विशेषो ब्रह्मण्यस्ति ; अतो न निर्देष्टुं शक्यते — इदं तदिति — गौरसौ स्पन्दते शुक्लो विषाणीति यथा लोके निर्दिश्यते, तथा ; अध्या­रो­पि­त­ना­म­रू­प­क­र्म­द्वा­रेण ब्रह्म निर्दिश्यते ‘विज्ञानमानन्दं ब्रह्म’(बृ. उ. ३ । ९ । २८) ‘विज्ञानघन एव ब्रह्मात्मा’(बृ. उ. २ । ४ । १२) इत्ये­व­मा­दि­शब्दैः । यदा पुनः स्वरूपमेव निर्दिदिक्षितं भवति निर­स्त­स­र्वो­पा­धि­वि­शे­षम् , तदा न शक्यते केनचिदपि प्रकारेण निर्देष्टुम् ; तदा अयमेवाभ्युपायः — यदुत प्राप्त­नि­र्दे­श­प्र­ति­षे­ध­द्वा­रेण ‘नेति नेति’ इति निर्देशः ॥

इदं च नकारद्वयं वीप्सा­व्या­प्त्य­र्थम् ; यद्यत्प्राप्तं तत्तत् निषिध्यते ; तथा च सति अनि­र्दि­ष्टा­शङ्का ब्रह्मणः परिहृता भवति ; अन्यथा हि नकारद्वयेन प्रकृ­त­द्व­य­प्र­ति­षेधे, यदन्यत् प्रकृ­ता­त्प्र­ति­षि­द्ध­द्व­यात् ब्रह्म, तन्न निर्दिष्टम् , कीदृशं नु खलु — इत्याशङ्का न निवर्तिष्यते ; तथा च अनर्थकश्च स निर्देशः, पुरुषस्य विविदिषाया अनिवर्तकत्वात् ; ‘ब्रह्म ज्ञपयिष्यामि’ इति च वाक्यम् अपरिसमाप्तार्थं स्यात् । यदा तु सर्व­दि­क्का­ला­दि­वि­वि­दिषा निवर्तिता स्यात् सर्वो­पा­धि­नि­रा­क­र­ण­द्वा­रेण, तदा सैन्धवघनवत् एकरसं प्रज्ञानघनम् अनन्तरमबाह्यं सत्यस्य सत्यम् अहं ब्रह्म अस्मीति सर्वतो निवर्तते विविदिषा, आत्म­न्ये­वा­व­स्थिता प्रज्ञा भवति । तस्मात् वीप्सार्थं नेति नेतीति नकारद्वयम् । ननु महता यत्नेन परिकरबन्धं कृत्वा किं युक्तम् एवं निर्देष्टुं ब्रह्म ? बाढम् ; कस्मात् ? न हि — यस्मात् , ‘इति न, इति न’ इत्येतस्मात् — इतीति व्याप्त­व्य­प्र­कारा नकारद्वयविषया निर्दिश्यन्ते, यथा ग्रामो ग्रामो रमणीय इति — अन्यत्परं निर्देशनं नास्ति ; तस्मादयमेव निर्देशो ब्रह्मणः । यदुक्तम् — ‘तस्यो­प­नि­ष­त्स­त्यस्य सत्यम्’(बृ. उ. २ । १ । २०) इति, एवंप्रकारेण सत्यस्य सत्यं तत् परं ब्रह्म ; अतो युक्तमुक्तं नामधेयं ब्रह्मणः, नामैव नामधेयम् ; किं तत् सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यमिति ॥

इति द्विती­या­ध्या­यस्य तृतीयं ब्राह्मणम् ॥

चतुर्थं ब्राह्मणम्

आत्मे­त्ये­वो­पा­सीत ; तदेव एतस्मिन् सर्वस्मिन् पदनीयम् आत्मतत्त्वम् , यस्मात् प्रेयः पुत्रादेः — इत्युपन्यस्तस्य वाक्यस्य व्याख्यानविषये सम्बन्धप्रयोजने अभिहिते — ‘तदा­त्मा­न­मे­वा­वे­दहं ब्रह्मास्मीति तस्मा­त्त­त्स­र्व­म­भ­वत्’(बृ. उ. १ । ४ । १०) इति ; एवं प्रत्यगात्मा ब्रह्मविद्याया विषय इत्येतत् उपन्यस्तम् । अविद्यायाश्च विषयः — ‘अन्योऽ­सा­व­न्योऽ­ह­म­स्मीति न स वेद’(बृ. उ. १ । ४ । १०) इत्यारभ्य चातु­र्व­र्ण्य­प्र­वि­भा­गा­दि­नि­मि­त्त­पा­ङ्क्त­क­र्म­सा­ध्य­सा­ध­न­ल­क्षणः बीजाङ्कुरवत् व्याकृ­ता­व्या­कृ­त­स्व­भावः नाम­रू­प­क­र्मा­त्मकः संसारः ‘त्रयं वा इदं नाम रूपं कर्म’(बृ. उ. १ । ६ । १) इत्युपसंहृतः शास्त्रीय उत्कर्षलक्षणो ब्रह्मलोकान्तः अधोभावश्च स्थाव­रा­न्तोऽ­शा­स्त्रीयः, पूर्वमेव प्रदर्शितः — ‘द्वया ह’(बृ. उ. १ । ३ । १) इत्यादिना । एत­स्मा­द­वि­द्या­वि­ष­या­द्वि­र­क्तस्य प्रत्य­गा­त्म­वि­ष­य­ब्र­ह्म­वि­द्या­याम् अधिकारः कथं नाम स्यादिति — तृतीयेऽध्याये उपसंहृतः सम­स्तोऽ­वि­द्या­वि­षयः । चतुर्थे तु ब्रह्म­वि­द्या­वि­षयं प्रत्यगात्मानम् ‘ब्रह्म ते ब्रवाणि’(बृ. उ. २ । १ । १) इति ‘ब्रह्म ज्ञपयिष्यामि’(बृ. उ. २ । १ । १) इति च प्रस्तुत्य, तत् ब्रह्म एकम् अद्वयं सर्वविशेषशून्यं क्रिया­का­र­क­फ­ल­स्व­भा­व­स­त्य­श­ब्द­वा­च्या­शे­ष­भू­त­ध­र्म­प्र­ति­षे­ध­द्वा­रेण ‘नेति नेति’(बृ. उ. २ । ३ । ६) इति ज्ञापितम् । अस्या ब्रह्मविद्याया अङ्गत्वेन सन्न्यासो विधित्सितः, जाया­पु­त्र­वि­त्ता­दि­ल­क्षणं पाङ्क्तं कर्म अविद्याविषयं यस्मात् न आत्म­प्रा­प्ति­सा­ध­नम् ; अन्यसाधनं हि अन्यस्मै फलसाधनाय प्रयुज्यमानं प्रतिकूलं भवति ; न हि बुभु­क्षा­पि­पा­सा­नि­वृ­त्त्यर्थं धावनं गमनं वा साधनम् ; मनु­ष्य­लो­क­पि­तृ­लो­क­दे­व­लो­क­सा­ध­न­त्वेन हि पुत्रादिसाधनानि श्रुतानि, न आत्म­प्रा­प्ति­सा­ध­न­त्वेन, विशेषितत्वाच्च ; न च ब्रह्मविदो विहितानि, काम्य­त्व­श्र­व­णात् — ‘एतावान्वै कामः’(बृ. उ. १ । ४ । १७) इति, ब्रह्मविदश्च आप्तकामत्वात् आप्तकामस्य कामानुपपत्तेः, ‘येषां नोऽयमात्मायं लोकः’(बृ. उ. ४ । ४ । २२)‘येषां नोऽयमात्मायं लोकः’(बृ. उ. ४ । ४ । २२) इति च श्रुतेः । केचित्तु ब्रह्म­वि­दोऽ­प्ये­ष­णा­स­म्बन्धं वर्णयन्ति ; तैर्बृहदारण्यकं न श्रुतम् ; पुत्रा­द्ये­ष­णा­ना­म­वि­द्व­द्वि­ष­य­त्वम् , विद्याविषये च — ‘येषां नोऽयमात्मायं लोकः’ इत्यतः ‘किं प्रजया करिष्यामः’ इति — एष विभागः तैर्न श्रुतः श्रुत्या कृतः ; सर्व­क्रि­या­का­र­क­फ­लो­प­म­र्द­स्व­रू­पायां च विद्यायां सत्याम् , सह कार्येण अविद्याया अनु­प­प­त्ति­ल­क्ष­णश्च विरोधः तैर्न विज्ञातः ; व्यासवाक्यं च तैर्न श्रुतम् । कर्म­वि­द्या­स्व­रू­पयोः विद्या­वि­द्या­त्म­कयोः प्रतिकूलवर्तनं विरोधः । ‘यदिदं वेदवचनं कुरु कर्म त्यजेति च । कां गतिं विद्यया यान्ति कां च गच्छन्ति कर्मणा’(मो. ध. २४१ । १ । २) ॥ एतद्वै श्रोतुमिच्छामि तद्भ­वा­न्प्र­ब्र­वीतु मे । एता­व­न्यो­न्य­वै­रुप्ये वर्तेते प्रतिकूलतः’ इत्येवं पृष्टस्य प्रतिवचनेन — ‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः’(मो. ध. २४१ । ७) इत्येवमादि — विरोधः प्रदर्शितः । तस्मात् न साधनान्तरसहिता ब्रह्मविद्या पुरुषार्थसाधनम् , सर्वविरोधात् , साधननिरपेक्षैव पुरुषार्थसाधनम् — इति पारिव्राज्यं सर्व­सा­ध­न­स­न्न्या­स­ल­क्ष­णम् अङ्गत्वेन विधित्स्यते ; एता­व­दे­वा­मृ­त­त्व­सा­ध­न­मि­त्य­व­धा­र­णात् , षष्ठसमाप्तौ, लिङ्गाच्च — कर्मी सन्याज्ञवल्क्यः प्रवव्राजेति । मैत्रेय्यै च कर्मसाधनरहितायै साध­न­त्वे­ना­मृ­त­त्वस्य ब्रह्म­वि­द्यो­प­दे­शात् , वित्त­नि­न्दा­व­च­नाच्च ; यदि हि अमृतत्वसाधनं कर्म स्यात् , वित्तसाध्यं पाङ्क्तं कर्मेति — तन्नि­न्दा­व­च­न­म­निष्टं स्यात् ; यदि तु परि­ति­त्या­ज­यि­षितं कर्म, ततो युक्ता तत्साधननिन्दा । कर्मा­धि­का­र­नि­मि­त्त­व­र्णा­श्र­मा­दि­प्र­त्य­यो­प­म­र्दाच्च — ‘ब्रह्म तं परादात्’(बृ. उ. २ । ४ । ६) ‘क्षत्रं तं परादात्’(बृ. उ. २ । ४ । ६) इत्यादेः ; न हि ब्रह्म­क्ष­त्रा­द्या­त्म­प्र­त्य­यो­प­मर्दे, ब्राह्मणेनेदं कर्तव्यं क्षत्रियेणेदं कर्तव्यमिति विषयाभावात् आत्मानं लभते विधिः ; यस्यैव पुरुषस्य उपमर्दितः प्रत्ययः ब्रह्म­क्ष­त्रा­द्या­त्म­वि­षयः, तस्य तत्प्र­त्य­य­स­न्न्या­सात् तत्कार्याणां कर्मणां कर्मसाधनानां च अर्थप्राप्तश्च सन्न्यासः । तस्मात् आत्म­ज्ञा­ना­ङ्ग­त्वेन सन्न्या­स­वि­धि­त्स­यैव आख्या­यि­के­य­मा­र­भ्यते ॥

मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽ­ह­म­स्मा­त्स्था­ना­दस्मि हन्त तेऽनया कात्यायन्यान्तं करवाणीति ॥ १ ॥

मैत्रेयीति होवाच याज्ञवल्क्यः — मैत्रेयीं स्वभा­र्या­मा­म­न्त्रि­त­वान् याज्ञवल्क्यो नाम ऋषिः ; उद्यास्यन् ऊर्ध्वं यास्यन् पारि­व्रा­ज्या­ख्य­मा­श्र­मा­न्त­रम् वै ; ‘अरे’ इति सम्बोधनम् ; अहम् , अस्मात् गार्हस्थ्यात् , स्थानात् आश्रमात् , ऊर्ध्वं गन्तुमिच्छन् अस्मि भवामि ; अतः हन्त अनुमतिं प्रार्थयामि ते तव ; किञ्चान्यत् — ते तव अनया द्वितीयया भार्यया कात्यायन्या अन्तं विच्छेदं करवाणि ; पतिद्वारेण युवयोर्मया सम्ब­ध्य­मा­न­योर्यः सम्बन्ध आसीत् , तस्य सम्बन्धस्य विच्छेदं करवाणि द्रव्यविभागं कृत्वा ; वित्तेन संविभज्य युवां गमिष्यामि ॥

सा होवाच मैत्रेयी । यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्कथं तेनामृता स्यामिति नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ २ ॥

सा एवमुक्ता ह उवाच — यत् यदि, ‘नु’ इति वितर्के, मे मम इयं पृथिवी, भगोः भगवन् , सर्वा सागरपरिक्षिप्ता वित्तेन धनेन पूर्णा स्यात् ; कथम् ? न कथ­ञ्च­ने­त्या­क्षे­पार्थः, प्रश्नार्थो वा, तेन पृथि­वी­पू­र्ण­वि­त्त­सा­ध्येन कर्मणा अग्निहोत्रादिना — अमृता किं स्यामिति व्यवहितेन सम्बन्धः । प्रत्युवाच याज्ञवल्क्यः — कथमिति यद्या­क्षे­पा­र्थम् , अनुमोदनम् — नेति होवाच याज्ञवल्क्य इति ; प्रश्नश्चेत् प्रतिवचनार्थम् ; नैव स्याः अमृता, किं तर्हि यथैव लोके उपकरणवतां साधनवतां जीवितं सुखो­पा­य­भो­ग­स­म्प­न्नम् , तथैव तद्वदेव तव जीवितं स्यात् ; अमृतत्वस्य तु न आशा मनसापि अस्ति वित्तेन वित्तसाध्येन कर्मणेति ॥

सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहीति ॥ ३ ॥

सा होवाच मैत्रेयी । एवमुक्ता प्रत्युवाच मैत्रेयी — यद्येवं येनाहं नामृता स्याम् , किमहं तेन वित्तेन कुर्याम् ? यदेव भगवान् केवलम् अमृतत्वसाधनं वेद, तदेव अमृतत्वसाधनं मे मह्यं ब्रूहि ॥

स होवाच याज्ञवल्क्यः प्रिया बतारे नः सती प्रियं भाषस एह्यास्स्व व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ४ ॥

स होवाच याज्ञवल्क्यः । एवं वित्त­सा­ध्येऽ­मृ­त­त्व­सा­धने प्रत्याख्याते, याज्ञवल्क्यः स्वाभि­प्रा­य­स­म्पत्तौ तुष्ट आह — स होवाच — प्रिया इष्टा, बते­त्य­नु­क­म्प्याह, अरे मैत्रेयि, न अस्माकं पूर्वमपि प्रिया सती भवन्ती इदानीं प्रियमेव चित्तानुकूलं भाषसे । अतः एहि आस्स्व उपविश व्याख्यास्यामि — यत् ते तव इष्टम् अमृ­त­त्व­सा­ध­न­मा­त्म­ज्ञा­नम् कथयिष्यामि । व्याचक्षाणस्य तु मे मम व्याख्यानं कुर्वतः, निदिध्यासस्व वाक्यानि अर्थतो निश्चयेन ध्यातुमिच्छेति ॥

स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भव­न्त्या­त्म­नस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भव­न्त्या­त्म­नस्तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भव­न्त्या­त्म­नस्तु कामाय देवाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भव­न्त्या­त्म­नस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् ॥ ५ ॥

स होवाच — अमृतत्वसाधनं वैरा­ग्य­मु­प­दि­दिक्षुः जाया­प­ति­पु­त्रा­दिभ्यो विरागमुत्पादयति तत्सन्न्यासाय । न वै — वै - शब्दः प्रसि­द्ध­स्म­र­णार्थः ; प्रसिद्धमेव एतत् लोके ; पत्युः भर्तुः कामाय प्रयोजनाय जायायाः पतिः प्रियो न भवति, किं तर्हि आत्मनस्तु कामाय प्रयोजनायैव भार्यायाः पतिः प्रियो भवति । तथा न वा अरे जायाया इत्यादि समानमन्यत् , न वा अरे पुत्राणाम् , न वा अरे वित्तस्य, न वा अरे ब्रह्मणः, न वा अरे क्षत्रस्य, न वा अरे लोकानाम् , न वा अरे देवानाम् , न वा अरे भूतानाम् , न वा अरे सर्वस्य । पूर्वं पूर्वं यथासन्ने प्रीतिसाधने वचनम् , तत्र तत्र इष्ट­त­र­त्वा­द्वै­रा­ग्यस्य ; सर्वग्रहणम् उक्ता­नु­क्ता­र्थम् । तस्मात् लोक­प्र­सि­द्ध­मे­तत् — आत्मैव प्रियः, नान्यत् । ‘तदेतत्प्रेयः पुत्रात्’(बृ. उ. १ । ४ । ८) इत्युपन्यस्तम् , तस्यैतत् वृत्तिस्थानीयं प्रपञ्चितम् । तस्मात् आत्म­प्री­ति­सा­ध­न­त्वात् गौणी अन्यत्र प्रीतिः, आत्मन्येव मुख्या । तस्मात् आत्मा वै अरे द्रष्टव्यः दर्शनार्हः, दर्श­न­वि­ष­य­मा­पा­द­यि­तव्यः ; श्रोतव्यः पूर्वम् आचार्यत आगमतश्च ; पश्चान्मन्तव्यः तर्कतः ; ततो निदिध्यासितव्यः निश्चयेन ध्यातव्यः ; एवं ह्यसौ दृष्टो भवति श्रव­ण­म­न­न­नि­दि­ध्या­स­न­सा­ध­नै­र्नि­र्व­र्तितैः ; यदा एक­त्व­मे­ता­न्यु­प­ग­तानि, तदा सम्यग्दर्शनं ब्रह्मै­क­त्व­वि­षयं प्रसीदति, न अन्यथा श्रवणमात्रेण । यत् ब्रह्मक्षत्रादि कर्मनिमित्तं वर्णा­श्र­मा­दि­ल­क्ष­णम् आत्म­न्य­वि­द्या­ध्या­रो­पि­त­प्र­त्य­य­वि­षयं क्रिया­का­र­क­फ­ला­त्म­कम् अवि­द्या­प्र­त्य­य­वि­ष­यम् — रज्ज्वामिव सर्पप्रत्ययः, तदु­प­म­र्द­ना­र्थ­माह — आत्मनि खलु अरे मैत्रेयि दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितं विज्ञातं भवति ॥

ब्रह्म तं परा­दा­द्योऽ­न्य­त्रा­त्मनो ब्रह्म वेद क्षत्त्रं तं परा­दा­द्योऽ­न्य­त्रा­त्मनः क्षत्त्रं वेद लोकास्तं परा­दु­र्योऽ­न्य­त्रा­त्मनो लोकान्वेद देवास्तं परा­दु­र्योऽ­न्य­त्रा­त्मनो देवान्वेद भूतानि तं परा­दु­र्योऽ­न्य­त्रा­त्मनो भूतानि वेद सर्वं तं परा­दा­द्योऽ­न्य­त्रा­त्मनः सर्वं वेदेदं ब्रह्मेदं क्षत्त्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वं यदयमात्मा ॥ ६ ॥

ननु कथम् अन्य­स्मि­न्वि­दिते अन्यद्विदितं भवति ? नैष दोषः ; न हि आत्मव्यतिरेकेण अन्य­त्कि­ञ्चि­दस्ति ; यद्यस्ति, न तद्विदितं स्यात् ; न त्वन्यदस्ति ; आत्मैव तु सर्वम् ; तस्मात् सर्वम् आत्मनि विदिते विदितं स्यात् । कथं पुनरात्मैव सर्वमित्येतत् श्रावयति — ब्रह्म ब्राह्मणजातिः तं पुरुषं परादात् परादध्यात् पराकुर्यात् ; कम् ? यः अन्यत्रात्मनः आत्म­स्व­रू­प­व्य­ति­रे­केण — आत्मैव न भवतीयं ब्राह्म­ण­जा­ति­रिति — तां यो वेद, तं परादध्यात् सा ब्राह्मणजातिः अनात्मस्वरूपेण मां पश्यतीति ; परमात्मा हि सर्वेषामात्मा । तथा क्षत्रं क्षत्रियजातिः, तथा लोकाः, देवाः, भूतानि, सर्वम् । इदं ब्रह्मेति — यान्य­नु­क्रा­न्तानि तानि सर्वाणि, आत्मैव, यदयमात्मा — योऽयमात्मा द्रष्टव्यः श्रोतव्य इति प्रकृतः — यस्मात् आत्मनो जायते आत्मन्येव लीयत आत्ममयं च स्थितिकाले, आत्म­व्य­ति­रे­के­णा­ग्र­ह­णात् , आत्मैव सर्वम् ॥

स यथा दुन्दु­भे­र्ह­न्य­मा­नस्य न बाह्या­ञ्श­ब्दा­ञ्श­क्नु­या­द्ग्र­ह­णाय दुन्दुभेस्तु ग्रहणेन दुन्दु­भ्या­घा­तस्य वा शब्दो गृहीतः ॥ ७ ॥

कथं पुनः इदानीम् इदं सर्वमात्मैवेति ग्रहीतुं शक्यते ? चिन्मा­त्रा­नु­ग­मा­त्स­र्वत्र चित्स्व­रू­प­तै­वेति गम्यते ; तत्र दृष्टान्त उच्यते — यत्स्व­रू­प­व्य­ति­रे­के­णा­ग्र­हणं यस्य, तस्य तदात्मत्वमेव लोके दृष्टम् ; स यथा — स इति दृष्टान्तः ; लोके यथा दुन्दुभेः भेर्यादेः, हन्यमानस्य ताड्यमानस्य दण्डादिना, न, बाह्यान् शब्दान् बहिर्भूतान् शब्दविशेषान् दुन्दु­भि­श­ब्द­सा­मा­न्या­न्नि­ष्कृ­ष्टान् दुन्दु­भि­श­ब्द­वि­शे­षान् , न शक्नुयात् ग्रहणाय ग्रहीतुम् ; दुन्दुभेस्तु ग्रहणेन, दुन्दु­भि­श­ब्द­सा­मा­न्य­वि­शे­ष­त्वेन, दुन्दुभिशब्दा एते इति, शब्दविशेषा गृहीता भवन्ति, दुन्दु­भि­श­ब्द­सा­मा­न्य­व्य­ति­रे­के­णा­भा­वात् तेषाम् ; दुन्दु­भ्या­घा­तस्य वा, दुन्दुभेराहननम् आघातः — दुन्दु­भ्या­घा­त­वि­शि­ष्टस्य शब्दसामान्यस्य ग्रहणेन तद्गता विशेषा गृहीता भवन्ति, न तु त एव निर्भिद्य ग्रहीतुं शक्यन्ते, विशे­ष­रू­पे­णा­भा­वात् तेषाम् — तथा प्रज्ञा­न­व्य­ति­रे­केण स्वप्नजागरितयोः न कश्चि­द्व­स्तु­वि­शेषो गृह्यते ; तस्मात् प्रज्ञा­न­व्य­ति­रे­केण अभावो युक्तस्तेषाम् ॥

स यथा शङ्खस्य ध्मायमानस्य न बाह्या­ञ्श­ब्दा­ञ्श­क्नु­या­द्ग्र­ह­णाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ८ ॥

तथा स यथा शङ्खस्य ध्मायमानस्य शब्देन संयोज्यमानस्य आपूर्यमाणस्य न बाह्यान् शब्दान् शक्नुयात् — इत्येवमादि पूर्ववत् ॥

स यथा वीणायै वाद्यमानायै न बाह्या­ञ्श­ब्दा­ञ्श­क्नु­या­द्ग्र­ह­णाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ ९ ॥

तथा वीणायै वाद्यमानायै — वीणाया वाद्यमानायाः । अने­क­दृ­ष्टा­न्तो­पा­दा­नम् इह सामा­न्य­ब­हु­त्व­ख्या­प­ना­र्थम् — अनेके हि विलक्षणाः चेतनाचेतनरूपाः सामान्यविशेषाः — तेषां पारम्पर्यगत्या यथा एकस्मिन् महासामान्ये अन्तर्भावः प्रज्ञानघने, कथं नाम प्रदर्शयितव्य इति ; दुन्दु­भि­श­ङ्ख­वी­णा­श­ब्द­सा­मा­न्य­वि­शे­षाणां यथा शब्द­त्वेऽ­न्त­र्भावः, एवं स्थितिकाले तावत् सामा­न्य­वि­शे­षा­व्य­ति­रे­कात् ब्रह्मैकत्वं शक्यमवगन्तुम् ॥

स यथा­र्द्रै­धा­ग्ने­र­भ्या­हि­ता­त्पृ­थ­ग्धूमा विनि­श्च­र­न्त्येवं वा अरेऽस्य महतो भूतस्य निश्व­सि­त­मे­त­द्य­दृ­ग्वेदो यजुर्वेदः साम­वे­दोऽ­थ­र्वा­ङ्गि­रस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्रा­ण्य­नु­व्या­ख्या­नानि व्याख्या­ना­न्य­स्यै­वै­तानि निश्वसितानि ॥ १० ॥

१०

एवम् उत्पत्तिकाले प्रागुत्पत्तेः ब्रह्मैवेति शक्यमवगन्तुम् ; यथा अग्नेः विस्फु­लि­ङ्ग­धू­मा­ङ्गा­रा­र्चिषां प्राग्विभागात् अग्निरेवेति भव­त्य­ग्न्ये­क­त्वम् , एवं जगत् नामरूपविकृतं प्रागुत्पत्तेः प्रज्ञानघन एवेति युक्तं ग्रहीतुम् — इत्येतदुच्यते — स यथा — आर्द्रैधाग्नेः आर्द्रै­रे­धो­भि­रि­द्धोऽग्निः आर्द्रैधाग्निः, तस्मात् , अभ्याहितात् पृथग्धूमाः, पृथक् नानाप्रकारम् , धूमग्रहणं विस्फु­लि­ङ्गा­दि­प्र­द­र्श­ना­र्थम् , धूम­वि­स्फु­लि­ङ्गा­दयः, विनिश्चरन्ति विनिर्गच्छन्ति ; एवम् — यथायं दृष्टान्तः ; अरे मैत्रेयि अस्य परमात्मनः प्रकृतस्य महतो भूतस्य निश्वसितमेतत् ; निश्वसितमिव निश्वसितम् ; यथा अप्रयत्नेनैव पुरुषनिश्वासो भवति, एवं वै अरे । किं तन्निश्वसितमिव ततो जातमित्युच्यते — यदृग्वेदो यजुर्वेदः साम­वे­दोऽ­थ­र्वा­ङ्गि­रसः - चतुर्विधं मन्त्रजातम् , इतिहास इति, उर्वशीपुरूरवसोः संवादादिः — ‘उर्वशी हाप्सराः’(शत. ब्रा. ११ । ५ । १ । १) इत्यादि ब्राह्मणमेव, पुराणम् — ‘असद्वा इदमग्र आसीत्’(तै. उ. २ । ७ । १) इत्यादि, विद्या देवजनविद्या — वेदः सोऽयम् — इत्याद्या, उपनिषदः ‘प्रिय­मि­त्ये­त­दु­पा­सीत’(बृ. उ. ४ । १ । ३) इत्याद्याः, श्लोकाः ब्राह्मणप्रभवा मन्त्राः ‘तदेते श्लोकाः’(बृ. उ. ४ । ४ । ८) इत्यादयः, सूत्राणि वस्तु­स­ङ्ग्र­ह­वा­क्यानि वेदे यथा — ‘आत्मे­त्ये­वो­पा­सीत’(बृ. उ. १ । ४ । ७)‘आत्मे­त्ये­वो­पा­सीत’(बृ. उ. १ । ४ । ७) इत्यादीनि, अनुव्याख्यानानि मन्त्रविवरणानि, व्याख्या­ना­न्य­र्थ­वादाः, अथवा वस्तु­स­ङ्ग्र­ह­वा­क्य­वि­व­र­णा­न्य­नु­व्या­ख्या­नानि — यथा चतुर्थाध्याये ‘आत्मे­त्ये­वो­पा­सीत’ इत्यस्य यथा वा ‘अन्योऽ­सा­व­न्योऽ­ह­म­स्मीति न स वेद यथा पशुरेवं’(बृ. उ. १ । ४ । १०) इत्यस्य अय­मे­वा­ध्या­य­शेषः, मन्त्रविवरणानि व्याख्यानानि — एवमष्टविधं ब्राह्मणम् । एवं मन्त्र­ब्रा­ह्म­ण­यो­रेव ग्रहणम् ; नियतरचनावतो विद्यमानस्यैव वेद­स्या­भि­व्यक्तिः पुरुषनिश्वासवत् , न च पुरु­ष­बु­द्धि­प्र­य­त्न­पू­र्वकः ; अतः प्रमाणं निरपेक्ष एव स्वार्थे ; तस्मात् यत् तेनोक्तं तत्तथैव प्रतिपत्तव्यम् , आत्मनः श्रेय इच्छद्भिः, ज्ञानं वा कर्म वेति । नाम­प्र­का­श­व­शाद्धि रूपस्य विक्रियावस्था ; नामरूपयोरेव हि पर­मा­त्मो­पा­धि­भू­त­यो­र्व्या­क्रि­य­मा­णयोः सलिलफेनवत् तत्त्वा­न्य­त्वे­ना­नि­र्व­क्त­व्ययोः सर्वावस्थयोः संसारत्वम् — इत्यतः नाम्न एव निश्व­सि­त­त्व­मु­क्तम् , तद्वचनेनैव इतरस्य निश्व­सि­त­त्व­सिद्धेः । अथवा सर्वस्य द्वैतजातस्य अवि­द्या­वि­ष­य­त्व­मु­क्तम् — ‘ब्रह्म तं परादात् — इदं सर्वं यदयमात्मा’(बृ. उ. २ । ४ । ६) इति ; तेन वेद­स्या­प्रा­मा­ण्य­मा­श­ङ्क्येत ; तदा­श­ङ्का­नि­वृ­त्त्य­र्थ­मि­द­मु­क्तम् — पुरुषनिश्वासवत् अप्र­य­त्नो­त्थि­त­त्वात् प्रमाणं वेदः, न यथा अन्यो ग्रन्थ इति ॥

स यथा सर्वासामपां समुद्र एकायनमेवं सर्वेषां स्पर्शानां त्वगेकायनमेवं सर्वेषां गन्धानां नासिके एकायनमेवं सर्वेषां रसानां जिह्वैकायनमेवं सर्वेषां रूपाणां चक्षुरेकायनमेवं सर्वेषां शब्दानां श्रोत्र­मे­का­य­न­मेवं सर्वेषां सङ्कल्पानां मन एकायनमेवं सर्वासां विद्यानां हृदयमेकायनमेवं सर्वेषां कर्मणां हस्तावेकायनमेवं सर्वे­षा­मा­न­न्दा­ना­मु­पस्थ एकायनमेवं सर्वेषां विसर्गाणां पायुरेकायनमेवं सर्वेषामध्वनां पादावेकायनमेवं सर्वेषां वेदानां वागेकायनम् ॥ ११ ॥

११

किञ्चान्यत् ; न केवलं स्थित्यु­त्प­त्ति­का­ल­यो­रेव प्रज्ञा­न­व्य­ति­रे­के­णा­भा­वात् जगतो ब्रह्मत्वम् ; प्रलयकाले च ; जल­बु­द्बु­द­फे­ना­दी­ना­मिव सलि­ल­व्य­ति­रे­के­णा­भावः, एवं प्रज्ञा­न­व्य­ति­रे­केण तत्कार्याणां नामरूपकर्मणां तस्मिन्नेव लीयमानानामभावः ; तस्मात् एकमेव ब्रह्म प्रज्ञानघनम् एकरसं प्रति­प­त्त­व्य­मि­त्यत आह । प्रलयप्रदर्शनाय दृष्टान्तः ; स इति दृष्टान्तः ; यथा येन प्रकारेण, सर्वासां नदी­वा­पी­त­डा­गा­दि­ग­ता­ना­म­पाम् , समुद्रः अब्धिः एकायनम् , एकगमनम् एकप्रलयः अवि­भा­ग­प्रा­प्ति­रि­त्यर्थः ; यथा अयं दृष्टान्तः, एवं सर्वेषां स्पर्शानां मृदु­क­र्क­श­क­ठि­न­पि­च्छि­ला­दीनां वायो­रा­त्म­भू­तानां त्वक् एकायनम् , त्वगिति त्वग्विषयं स्पर्श­सा­मा­न्य­मा­त्रम् , तस्मि­न्प्र­विष्टाः स्पर्शविशेषाः — आप इव समुद्रम् — तद्व्य­ति­रे­के­णा­भा­व­भूता भवन्ति ; तस्यैव हि ते संस्थानमात्रा आसन् । तथा तदपि स्पर्श­सा­मा­न्य­मात्रं त्वक्शब्दवाच्यं मनःसङ्कल्पे मनो­वि­ष­य­सा­मा­न्य­मात्रे, त्वग्विषय इव स्पर्शविशेषाः, प्रविष्टं तद्व्य­ति­रे­के­णा­भा­व­भूतं भवति ; एवं मनोविषयोऽपि बुद्धि­वि­ष­य­सा­मा­न्य­मात्रे प्रविष्टः तद्व्य­ति­रे­के­णा­भा­व­भूतो भवति ; विज्ञानमात्रमेव भूत्वा प्रज्ञानघने परे ब्रह्मणि आप इव समुद्रे प्रलीयते । एवं परम्पराक्रमेण शब्दादौ सह ग्राहकेण करणेन प्रलीने प्रज्ञानघने, उपाध्यभावात् सैन्धवघनवत् प्रज्ञानघनम् एकरसम् अनन्तम् अपारं निरन्तरं ब्रह्म व्यवतिष्ठते । तस्मात् आत्मैव एकमद्वयमिति प्रतिपत्तव्यम् । तथा सर्वेषां गन्धानां पृथिवीविशेषाणां नासिके घ्राण­वि­ष­य­सा­मा­न्यम् । तथा सर्वेषां रसा­ना­म­ब्वि­शे­षाणां जिह्वे­न्द्रि­य­वि­ष­य­सा­मा­न्यम् । तथा सर्वेषां रूपाणां तेजोविशेषाणां चक्षुः चक्षु­र्वि­ष­य­सा­मा­न्यम् । तथा शब्दानां श्रोत्र­वि­ष­य­सा­मान्यं पूर्ववत् । तथा श्रोत्रा­दि­वि­ष­य­सा­मा­न्यानां मनोविषयसामान्ये सङ्कल्पे ; मनो­वि­ष­य­सा­मा­न्य­स्यापि बुद्धि­वि­ष­य­सा­मान्ये विज्ञानमात्रे ; विज्ञानमात्रं भूत्वा पर­स्मि­न्प्र­ज्ञा­न­घने प्रलीयते । तथा कर्मे­न्द्रि­याणां विषया वद­ना­दा­न­ग­म­न­वि­स­र्गा­न­न्द­वि­शेषाः तत्त­त्क्रि­या­सा­मा­न्ये­ष्वेव प्रविष्टा न विभागयोग्या भवन्ति, समुद्र इव अब्विशेषाः ; तानि च सामान्यानि प्राणमात्रम् ; प्राणश्च प्रज्ञा­न­मा­त्र­मेव — ‘यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणः’(कौ. उ. ३ । ३) इति कौषीतकिनोऽधीयते । ननु सर्वत्र विषयस्यैव प्रलयोऽभिहितः, न तु करणस्य ; तत्र कोऽभिप्राय इति — बाढम् ; किन्तु विषयसमानजातीयं करणं मन्यते श्रुतिः, न तु जात्यन्तरम् ; विषयस्यैव स्वात्म­ग्रा­ह­क­त्वेन संस्थानान्तरं करणं नाम — यथा रूपविशेषस्यैव संस्थानं प्रदीपः करणं सर्व­रू­प­प्र­का­शने, एवं सर्व­वि­ष­य­वि­शे­षा­णा­मेव स्वात्म­वि­शे­ष­प्र­का­श­क­त्वेन संस्थानान्तराणि करणानि, प्रदीपवत् ; तस्मात् न करणानां पृथक्प्रलये यत्नः कार्यः ; विष­य­सा­मा­न्या­त्म­क­त्वात् विषयप्रलयेनैव प्रलयः सिद्धो भवति करणानामिति ॥

तत्र ‘इदं सर्वं यदयमात्मा’(बृ. उ. २ । ४ । ६) इति प्रतिज्ञातम् ; तत्र हेतुरभिहितः — आत्म­सा­मा­न्य­त्वम् , आत्मजत्वम् , आत्मप्रलयत्वं च ; तस्मात् उत्प­त्ति­स्थि­ति­प्र­ल­य­का­लेषु प्रज्ञा­न­व्य­ति­रे­के­णा­भा­वात् ‘प्रज्ञानं ब्रह्म’ ‘आत्मैवेदं सर्वम्’ इति प्रतिज्ञातं यत् , तत् तर्कतः साधितम् । स्वाभाविकोऽयं प्रलय इति पौराणिका वदन्ति । यस्तु बुद्धिपूर्वकः प्रलयः ब्रह्मविदां ब्रह्म­वि­द्या­नि­मित्तः, अयम् आत्यन्तिक इत्याचक्षते — अवि­द्या­नि­रो­ध­द्वा­रेण यो भवति ; तदर्थोऽयं विशेषारम्भः —

स यथा सैन्धवखिल्य उदके प्रास्त उद­क­मे­वा­नु­वि­ली­येत न हास्यो­द्ग्र­ह­णा­येव स्यात् । यतो यतस्त्वाददीत लवणमेवैवं वा अर इदं मह­द्भू­त­म­न­न्त­म­पारं विज्ञानघन एव । एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥ १२ ॥

१२

तत्र दृष्टान्त उपादीयते — स यथेति । सैन्धवखिल्यः — सिन्धोर्विकारः सैन्धवः, सिन्धुशब्देन उदकमभिधीयते, स्यन्दनात् सिन्धुः उदकम् , तद्विकारः तत्र भवो वा सैन्धवः, सैन्धवश्चासौ खिल्यश्चेति सैन्धवखिल्यः, खिल एव खिल्यः, स्वार्थे यत्प्रत्ययः — उदके सिन्धौ स्वयोनौ प्रास्तः प्रक्षिप्तः, उदकमेव विलीयमानम् अनुविलीयते ; यत्तत् भौम­तै­ज­स­स­म्प­र्कात् काठि­न्य­प्राप्तिः खिल्यस्य स्वयो­नि­स­म्प­र्का­द­प­ग­च्छति — तत् उदकस्य विलयनम् , तत् अनु सैन्धवखिल्यो विलीयत इत्युच्यते ; तदेतदाह — उद­क­मे­वा­नु­वि­ली­ये­तेति । न ह नैव — अस्य खिल्यस्य उद्ग्रहणाय उद्धृत्य पूर्ववद्ग्रहणाय ग्रहीतुम् , नैव समर्थः कश्चित्स्यात् सुनिपुणोऽपि ; इव - शब्दोऽनर्थकः । ग्रहणाय नैव समर्थः ; कस्मात् ? यतो यतः यस्मात् यस्मात् देशात् तदुदकमाददीत, गृहीत्वा आस्वादयेत् लवणास्वादमेव तत् उदकम् , न तु खिल्यभावः । यथा अयं दृष्टान्तः, एवमेव वै अरे मैत्रेयि इदं परमात्माख्यं महद्भूतम् — यस्मात् महतो भूतात् अविद्यया परिच्छिन्ना सती कार्य­क­र­णो­पा­धि­स­म्ब­न्धा­त्खि­ल्य­भा­व­मा­प­न्नासि, मर्त्या जन्म­म­र­णा­श­ना­या­पि­पा­सा­दि­सं­सा­र­ध­र्म­व­त्यसि, नाम­रू­प­का­र्या­त्मिका — अमु­ष्या­न्व­या­ह­मिति, स खिल्यभावस्तव कार्य­क­र­ण­भू­तो­पा­धि­स­म्प­र्क­भ्रा­न्ति­ज­नितः महति भूते स्वयोनौ महा­स­मु­द्र­स्था­नीये परमात्मनि अजरेऽमरेऽभये शुद्धे सैन्धवघनवदेकरसे प्रज्ञा­न­घ­नेऽ­न­न्तेऽ­पारे निरन्तरे अवि­द्या­ज­नि­त­भ्रा­न्ति­भे­द­व­र्जिते प्रवेशितः ; तस्मि­न्प्र­विष्टे स्वयोनिग्रस्ते खिल्यभावे अविद्याकृते भेदभावे प्रणाशिते — इदमेकमद्वैतं महद्भूतम् — महच्च तद्भूतं च महद्भूतं सर्व­म­ह­त्त­र­त्वात् आका­शा­दि­का­र­ण­त्वाच्च, भूतम् — त्रिष्वपि कालेषु स्वरू­पा­व्य­भि­चा­रात् सर्वदैव परिनिष्पन्नमिति त्रैकालिको निष्ठाप्रत्ययः ; अथवा भूतशब्दः परमार्थवाची, महच्च पारमार्थिकं चेत्यर्थः ; लौकिकं तु यद्यपि महद्भवति, स्वप्नमायाकृतं हिम­व­दा­दि­प­र्व­तो­पमं न परमार्थवस्तु ; अतो विशिनष्टि — इदं तु महच्च तद्भूतं चेति । अनन्तम् नास्यान्तो विद्यत इत्यनन्तम् ; कदाचिदापेक्षिकं स्यादित्यतो विशिनष्टि अपारमिति । विज्ञप्तिः विज्ञानम् , विज्ञानं च तद्घनश्चेति विज्ञानघनः, घनशब्दो जात्य­न्त­र­प्र­ति­षे­धार्थः — यथा सुवर्णघनः अयोघन इति ; एव - शब्दोऽ­व­धा­र­णार्थः — नान्यत् जात्यन्तरम् अन्तराले विद्यत इत्यर्थः । यदि इदमेकमद्वैतं परमार्थतः स्वच्छं संसा­र­दुः­खा­स­म्पृ­क्तम् , किन्निमित्तोऽयं खिल्यभाव आत्मनः — जातो मृतः सुखी दुःखी अहं ममे­त्ये­व­मा­दि­ल­क्षणः अने­क­सं­सा­र­ध­र्मो­प­द्रुत इति उच्यते — एतेभ्यो भूतेभ्यः — यान्येतानि कार्य­क­र­ण­वि­ष­या­का­र­प­रि­ण­तानि नामरूपात्मकानि सलि­ल­फे­न­बु­द्बु­दो­प­मानि स्वच्छस्य परमात्मनः सलिलोपमस्य, येषां विषयपर्यन्तानां प्रज्ञानघने ब्रह्मणि पर­मा­र्थ­वि­वे­क­ज्ञा­नेन प्रवि­ला­प­न­मु­क्तम् नदीसमुद्रवत् — एतेभ्यो हेतुभूतेभ्यः भूतेभ्यः सत्य­श­ब्द­वा­च्येभ्यः, समुत्थाय सैन्धवखिल्यवत् — यथा अद्भ्यः सूर्य­च­न्द्रा­दि­प्र­ति­बिम्बः, यथा वा स्वच्छस्य स्फटिकस्य अल­क्त­का­द्यु­पा­धिभ्यो रक्तादिभावः, एवं कार्य­क­र­ण­भू­त­भू­तो­पा­धिभ्यो विशे­षा­त्म­खि­ल्य­भा­वेन समुत्थाय सम्यगुत्थाय — येभ्यो भूतेभ्य उत्थितः तानि यदा कार्य­क­र­ण­वि­ष­या­का­र­प­रि­ण­तानि भूतानि आत्मनो विशे­षा­त्म­खि­ल्य­हे­तु­भू­तानि शास्त्रा­चा­र्यो­प­दे­शेन ब्रह्मविद्यया नदीसमुद्रवत् प्रविलापितानि विनश्यन्ति, सलि­ल­फे­न­बु­द्बु­दा­दि­वत् तेषु विनश्यत्सु अन्वेव एष विशे­षा­त्म­खि­ल्य­भावो विनश्यति ; यथा उद­का­ल­क्त­का­दि­हे­त्व­प­नये सूर्य­च­न्द्र­स्फ­टि­का­दि­प्र­ति­बिम्बो विनश्यति, चन्द्रा­दि­स्व­रू­प­मेव परमार्थतो व्यवतिष्ठते, तद्वत् प्रज्ञा­न­घ­न­म­न­न्त­म­पारं स्वच्छं व्यवतिष्ठते । न तत्र प्रेत्य विशेषसंज्ञास्ति कार्य­क­र­ण­स­ङ्घा­तेभ्यो विमुक्तस्य — इत्येवम् अरे मैत्रेयि ब्रवीमि — नास्ति विशेषसंज्ञेति — अहमसौ अमुष्य पुत्रः ममेदं क्षेत्रं धनम् सुखी दुःखी­त्ये­व­मा­दि­ल­क्षणा, अवि­द्या­कृ­त­त्वा­त्तस्याः ; अविद्यायाश्च ब्रह्मविद्यया निरन्वयतो नाशितत्वात् कुतो विशे­ष­सं­ज्ञा­स­म्भवो ब्रह्मविदः चैत­न्य­स्व­भा­वा­व­स्थि­तस्य ; शरी­रा­व­स्थि­त­स्यापि विशेषसंज्ञा नोपपद्यते किमुत कार्य­क­र­ण­वि­मु­क्तस्य सर्वतः । इति ह उवाच उक्तवान्किल परमार्थदर्शनं मैत्रेय्यै भार्यायै याज्ञवल्क्यः ॥

सा होवाच मैत्रेय्यत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्तीति स होवाच न वा अरेऽहं मोहं ब्रवीम्यलं वा अर इदं विज्ञानाय ॥ १३ ॥

१३

एवं प्रतिबोधिता सा ह किल उवाच उक्तवती मैत्रेयी — अत्रैव एतस्मिन्नेव एकस्मिन्वस्तुनि ब्रह्मणि विरु­द्ध­ध­र्म­व­त्त्व­मा­च­क्षा­णेन भगवता मम मोहः कृतः ; तदाह — अत्रैव मा भगवान् पूजावान् अमूमुहत् मोहं कृतवान् । कथं तेन विरु­द्ध­ध­र्म­व­त्त्व­मु­क्त­मि­त्यु­च्यते — पूर्वं विज्ञानघन एवेति प्रतिज्ञाय, पुनः न प्रेत्य संज्ञास्तीति ; कथं विज्ञानघन एव ? कथं वा न प्रेत्य संज्ञास्तीति ? न हि उष्णः शीतश्च अग्निरेवैको भवति ; अतो मूढास्मि अत्र । स होवाच याज्ञवल्क्यः — न वा अरे मैत्रेय्यहं मोहं ब्रवीमि — मोहनं वाक्यं न ब्रवीमीत्यर्थः । ननु कथं विरु­द्ध­ध­र्म­त्व­म­वोचः — विज्ञानघनं संज्ञाभावं च ? न मया इदम् एक­स्मि­न्ध­र्मि­ण्य­भि­हि­तम् ; त्वयैव इदं विरु­द्ध­ध­र्म­त्वेन एकं वस्तु परिगृहीतं भ्रान्त्या ; न तु मया उक्तम् ; मया तु इदमुक्तम् — यस्तु अवि­द्या­प्र­त्यु­प­स्था­पितः कार्य­क­र­ण­स­म्बन्धी आत्मनः खिल्यभावः, तस्मिन्विद्यया नाशिते, तन्निमित्ता या विशेषसंज्ञा शरी­रा­दि­स­म्ब­न्धिनी अन्य­त्व­द­र्श­न­ल­क्षणा, सा कार्य­क­र­ण­स­ङ्घा­तो­पाधौ प्रविलापिते नश्यति, हेत्वभावात् , उद­का­द्या­धा­र­ना­शा­दिव चन्द्रा­दि­प्र­ति­बिम्बः तन्निमित्तश्च प्रकाशादिः ; न पुनः पर­मा­र्थ­च­न्द्रा­दि­त्य­स्व­रू­प­वत् असं­सा­रि­ब्र­ह्म­स्व­रू­पस्य विज्ञानघनस्य नाशः ; तत् विज्ञानघन इत्युक्तम् ; स आत्मा सर्वस्य जगतः ; परमार्थतो भूतनाशात् न विनाशी ; विनाशी तु अविद्याकृतः खिल्यभावः, ‘वाचारम्भणं विकारो नामधेयम्’(छा. उ. ६ । १ । ४) , इति श्रुत्यन्तरात् । अयं तु पारमार्थिकः — अविनाशी वा अरेऽयमात्मा ; अतः अलं पर्याप्तम् वै अरे इदं मह­द्भू­त­म­न­न्त­म­पारं यथाव्याख्यातम् विज्ञानाय विज्ञातुम् ; ‘न हि विज्ञा­तु­र्वि­ज्ञा­ते­र्वि­प­रि­लोपो विद्य­तेऽ­वि­ना­शि­त्वात्’(बृ. उ. ४ । ५ । ३०) इति हि वक्ष्यति ॥

यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितर इतरं शृणोति तदितर इतरमभिवदति तदितर इतरं मनुते मदितर इतरं विजानाति यत्र वा अस्य सर्व­मा­त्मै­वा­भू­त्त­त्केन कं जिघ्रेत्तत्केन कं पश्येत्तत्केन कं शृणुयात्तत्केन कमभिवदेत्तत्केन कं मन्वीत तत्केन कं विजानीयात् । येनेदं सर्वं विजानाति तं केन विजा­नी­या­द्वि­ज्ञा­ता­र­मरे केन विजानीयादिति ॥ १४ ॥

१४

कथं तर्हि प्रेत्य संज्ञा नास्तीत्युच्यते शृणु ; यत्र यस्मिन् अविद्याकल्पिते कार्य­क­र­ण­स­ङ्घा­तो­पा­धि­ज­निते विशेषात्मनि खिल्यभावे, हि यस्मात् , द्वैतमिव — पर­मा­र्थ­तोऽ­द्वैते ब्रह्मणि द्वैतमिव भिन्नमिव वस्त्व­न्त­र­मा­त्मनः — उपलक्ष्यते — ननु द्वैते­नो­प­मी­य­मा­न­त्वात् द्वैतस्य पार­मा­र्थि­क­त्व­मिति ; न, ‘वाचारम्भणं विकारो नामधेयम्’(छा. उ. ६ । १ । ४) इति श्रुत्यन्तरात् ‘एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) ‘आत्मैवेदं सर्वम्’(छा. उ. ७ । २५ । २) इति च — तत् तत्र यस्माद्द्वैतमिव तस्मादेव इतरोऽसौ परमात्मनः खिल्यभूत आत्मा अपरमार्थः, चन्द्रादेरिव उद­क­च­न्द्रा­दि­प्र­ति­बिम्बः, इतरो घ्राता इतरेण घ्राणेन इतरं घ्रातव्यं जिघ्रति ; इतर इतरमिति कार­क­प्र­द­र्श­ना­र्थम् , जिघ्रतीति क्रिया­फ­ल­यो­र­भि­धा­नम् — यथा छिनत्तीति — यथा उद्यम्य उद्यम्य निपातनम् छेद्यस्य च द्वैधीभावः उभयं छिन­त्ती­त्ये­के­नैव शब्देन अभिधीते — क्रिया­व­सा­न­त्वात् क्रिया­व्य­ति­रे­केण च तत्फ­ल­स्या­नु­प­ल­म्भात् ; इतरो घ्राता इतरेण घ्राणेन इतरं घ्रातव्यं जिघ्रति — तथा सर्वं पूर्ववत् — विजानाति ; इयम् अविद्यावदवस्था । यत्र तु ब्रह्मविद्यया अविद्या नाशमुपगमिता तत्र आत्मव्यतिरेकेण अन्यस्याभावः ; यत्र वै अस्य ब्रह्मविदः सर्वं नामरूपादि आत्मन्येव प्रविलापितम् आत्मैव संवृत्तम् — यत्र एवम् आत्मैवाभूत् , तत् तत्र केन करणेन कं घ्रातव्यं को जिघ्रेत् ? तथा पश्येत् ? विजानीयात् ; सर्वत्र हि कारकसाध्या क्रिया ; अतः कार­का­भा­वेऽ­नु­प­पत्तिः क्रियायाः ; क्रियाभावे च फलाभावः । तस्मात् अविद्यायामेव सत्यां क्रिया­का­र­क­फ­ल­व्य­व­हारः, न ब्रह्मविदः — आत्मत्वादेव सर्वस्य, न आत्मव्यतिरेकेण कारकं क्रियाफलं वास्ति ; न च अनात्मा सन् सर्वमात्मैव भवति कस्यचित् ; तस्मात् अविद्ययैव अनात्मत्वं परिकल्पितम् ; न तु परमार्थत आत्म­व्य­ति­रे­के­णास्ति किञ्चित् ; तस्मात् पर­मा­र्था­त्मै­क­त्व­प्र­त्यये क्रिया­का­र­क­फ­ल­प्र­त्य­या­नु­प­पत्तिः । अतः विरोधात् ब्रह्मविदः क्रियाणां तत्साधनानां च अत्यन्तमेव निवृत्तिः । केन कमिति क्षेपार्थं वचनं प्रका­रा­न्त­रा­नु­प­प­त्ति­द­र्श­ना­र्थम् , केनचिदपि प्रकारेण क्रिया­क­र­णा­दि­का­र­का­नु­प­पत्तेः — केनचित् कञ्चित् कश्चित् कथञ्चित् न जिघ्रे­दे­वे­त्यर्थः । यत्रापि अवि­द्या­व­स्था­याम् अन्यः अन्यं पश्यति, तत्रापि येनेदं सर्वं विजानाति, तं केन विजानीयात् — येन विजानाति, तस्य करणस्य, विज्ञेये विनियुक्तत्वात् ; ज्ञातुश्च ज्ञेय एव हि जिज्ञासा, न आत्मनि ; न च अग्नेरिव आत्मा आत्मनो विषयः ; न च अविषये ज्ञातुः ज्ञानमुपपद्यते ; तस्मात् येन इदं सर्वं विजानाति, तं विज्ञातारं केन करणेन को वा अन्यः विजानीयात् — यदा तु पुनः परमार्थविवेकिनो ब्रह्मविदो विज्ञातैव केवलोऽद्वयो वर्तते, तं विज्ञातारं अरे केन विजानीयादिति ॥

इति द्विती­या­ध्या­यस्य चतुर्थं ब्राह्मणम् ॥

पञ्चमं ब्राह्मणम्

यत् केवलं कर्मनिरपेक्षम् अमृतत्वसाधनम् , तद्वक्तव्यमिति मैत्रे­यी­ब्रा­ह्म­ण­मा­र­ब्धम् ; तच्च आत्मज्ञानं सर्व­स­न्न्या­सा­ङ्ग­वि­शि­ष्टम् ; आत्मनि च विज्ञाते सर्वमिदं विज्ञातं भवति ; आत्मा च प्रियः सर्वस्मात् ; तस्मात् आत्मा द्रष्टव्यः ; स च श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति च दर्शनप्रकारा उक्ताः ; तत्र श्रोतव्यः, आचा­र्या­ग­मा­भ्याम् ; मन्तव्यः तर्कतः ; तत्र च तर्क उक्तः — ‘आत्मैवेदं सर्वम्’(छा. उ. ७ । २५ । २)‘आत्मैवेदं सर्वम्’(छा. उ. ७ । २५ । २) इति प्रतिज्ञातस्य हेतुवचनम् आत्मै­क­सा­मा­न्य­त्वम् आत्मै­को­द्भ­व­त्वम् आत्मैकप्रलयत्वं च ; तत्र अयं हेतुः असिद्ध इत्याशङ्क्यते आत्मै­क­सा­मा­न्यो­द्भ­व­प्र­ल­याख्यः ; तदा­श­ङ्का­नि­वृ­त्त्य­र्थ­मे­त­द्ब्रा­ह्म­ण­मा­र­भ्यते । यस्मात् पर­स्प­रो­प­का­र्यो­प­का­र­क­भूतं जगत्सर्वं पृथिव्यादि, यच्च लोके पर­स्प­रो­प­का­र्यो­प­का­र­क­भूतं तत् एककारणपूर्वकम् एक­सा­मा­न्या­त्म­कम् एकप्रलयं च दृष्टम् , तस्मात् इदमपि पृथि­व्या­दि­ल­क्षणं जगत् पर­स्प­रो­प­का­र्यो­प­का­र­क­त्वात् तथाभूतं भवितुमर्हति — एष ह्यर्थ अस्मि­न्ब्रा­ह्मणे प्रकाश्यते । अथवा ‘आत्मैवेदं सर्वम्’ इति प्रतिज्ञातस्य आत्मो­त्प­त्ति­स्थि­ति­ल­यत्वं हेतुमुक्त्वा, पुनः आगमप्रधानेन मधुब्राह्मणेन प्रतिज्ञातस्य अर्थस्य निगमनं क्रियते ; तथाहि नैयायिकैरुक्तम् — ‘हेत्व­प­दे­शा­त्प्र­ति­ज्ञायाः पुनर्वचनं निगमनम्’ इति । अन्यै­र्व्या­ख्या­तम् — आ दुन्दु­भि­दृ­ष्टा­न्तात् श्रोत­व्या­र्थ­मा­ग­म­व­च­नम् , प्राङ्म­धु­ब्रा­ह्म­णात् मन्तव्यार्थम् उप­प­त्ति­प्र­द­र्श­नेन, मधुब्राह्मणेन तु निदि­ध्या­स­न­वि­धि­रु­च्यत इति । सर्वथापि तु यथा आगमेनावधारितम् , तर्कतस्तथैव मन्तव्यम् ; यथा तर्कतो मतम् , तस्य तर्कागमाभ्यां निश्चितस्य तथैव निदिध्यासनं क्रियत इति पृथक् निदि­ध्या­स­न­वि­धि­र­न­र्थक एव ; तस्मात् पृथक् प्रकरणविभाग अनर्थक इत्य­स्म­द­भि­प्रायः श्रव­ण­म­न­न­नि­दि­ध्या­स­ना­ना­मिति । सर्वथापि तु अध्या­य­द्व­य­स्यार्थः अस्मि­न्ब्रा­ह्मणे उपसंह्रियते ॥

इयं पृथिवी सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधु यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शारी­र­स्ते­जो­म­योऽ­मृ­त­मयः पुरुषोऽयमेव स योऽय­मा­त्मे­द­म­मृ­त­मिदं ब्रह्मेदं सर्वम् ॥ १ ॥

इयं पृथिवी प्रसिद्धा सर्वेषां भूतानां मधु — सर्वेषां ब्रह्मा­दि­स्त­म्ब­प­र्य­न्तानां भूतानां प्राणिनाम् , मधु कार्यम् , मध्विव मधु ; यथा एको मध्वपूपः अने­कै­र्म­धु­क­रै­र्नि­र्व­र्तितः, एवम् इयं पृथिवी सर्व­भू­त­नि­र्व­र्तिता । तथा सर्वाणि भूतानि पृथिव्यै पृथिव्या अस्याः, मधु कार्यम् । किं च यश्चायं पुरुषः अस्यां पृथिव्यां तेजोमयः चिन्मा­त्र­प्र­का­श­मयः अमृ­त­म­योऽ­म­र­ण­धर्मा पुरुषः, यश्चायम् अध्यात्मम् शारीरः शरीरे भवः पूर्ववत् तेजोमयोऽमृतमयः पुरुषः, स च लिङ्गाभिमानी — स च सर्वेषां भूता­ना­मु­प­का­र­क­त्वेन मधु, सर्वाणि च भूतान्यस्य मधु, च - शब्दसामर्थ्यात् । एवम् एतच्चतुष्टयं तावत् एकं सर्वभूतकार्यम् , सर्वाणि च भूतान्यस्य कार्यम् ; अतः अस्य एककारणपूर्वकता । यस्मात् एकस्मात्कारणात् एतज्जातम् , तदेव एकं परमार्थतो ब्रह्म, इतरत्कार्यं वाचारम्भणं विकारो नामधेयमात्रम् — इत्येष मधुपर्यायाणां सर्वेषामर्थः सङ्क्षेपतः । अयमेव सः, योऽयं प्रतिज्ञातः — ‘इदं सर्वं यदयमात्मा’(बृ. उ. २ । ४ । ६) इति ; इदममृतम् — यत् मैत्रेय्याः अमृ­त­त्व­सा­ध­न­मु­क्तम् आत्मविज्ञानम् — इदं तदमृतम् ; इदं ब्रह्म — यत् ‘ब्रह्म ते ब्रवाणि’(बृ. उ. २ । १ । १) ‘ज्ञपयिष्यामि’(बृ. उ. २ । १ । १५) इत्यध्यायादौ प्रकृतम् , यद्विषया च विद्या ब्रह्म­वि­द्ये­त्यु­च्यते ; इदं सर्वम् — यस्मात् ब्रह्मणो विज्ञानात्सर्वं भवति ॥

इमा आपः सर्वेषां भूतानां मध्वासामपां सर्वाणि भूतानि मधु यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं रैत­स­स्ते­जो­म­योऽ­मृ­त­मयः पुरुषोऽयमेव स योऽय­मा­त्मे­द­म­मृ­त­मिदं ब्रह्मेदं सर्वम् ॥ २ ॥

तथा आपः । अध्यात्मं रेतसि अपां विशे­ष­तोऽ­व­स्था­नम् ॥

अयमग्निः सर्वेषां भूतानां मध्वस्याग्नेः सर्वाणि भूतानि मधु यश्चा­य­म­स्मि­न्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं वाङ्म­य­स्ते­जो­म­योऽ­मृ­त­मयः पुरुषोऽयमेव स योऽय­मा­त्मे­द­म­मृ­त­मिदं ब्रह्मेदं सर्वम् ॥ ३ ॥

तथा अग्निः । वाचि अग्ने­र्वि­शे­ष­तोऽ­व­स्था­नम् ॥

अयं वायुः सर्वेषां भूतानां मध्वस्य वायोः सर्वाणि भूतानि मधु यश्चा­य­म­स्मि­न्वायौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं प्राण­स्ते­जो­म­योऽ­मृ­त­मयः पुरुषोऽयमेव स योऽय­मा­त्मे­द­म­मृ­त­मिदं ब्रह्मेदं सर्वम् ॥ ४ ॥

तथा वायुः, अध्यात्मं प्राणः । भूतानां शरी­रा­र­म्भ­क­त्वे­नो­प­का­रात् मधुत्वम् ; तदन्तर्गतानां तेजोमयादीनां कर­ण­त्वे­नो­प­का­रा­न्म­धु­त्वम् ; तथा चोक्तम् — ‘तस्यै वाचः पृथिवी शरीरं ज्योति­रू­प­म­य­मग्निः’(बृ. उ. १ । ५ । ११) इति ॥

अयमादित्यः सर्वेषां भूतानां मध्व­स्या­दि­त्यस्य सर्वाणि भूतानि मधु यश्चा­य­म­स्मि­न्ना­दित्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं चाक्षु­ष­स्ते­जो­म­योऽ­मृ­त­मयः पुरुषोऽयमेव स योऽय­मा­त्मे­द­म­मृ­त­मिदं ब्रह्मेदं सर्वम् ॥ ५ ॥

तथा आदित्यो मधु, चाक्षुषः अध्यात्मम् ॥

इमा दिशः सर्वेषां भूतानां मध्वासां दिशां सर्वाणि भूतानि मधु यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं श्रौत्रः प्राति­श्रु­त्क­स्ते­जो­म­योऽ­मृ­त­मयः पुरुषोऽयमेव स योऽय­मा­त्मे­द­म­मृ­त­मिदं ब्रह्मेदं सर्वम् ॥ ६ ॥

तथा दिशो मधु । दिशां यद्यपि श्रोत्र­म­ध्या­त्मम् , शब्द­प्र­ति­श्र­व­ण­वे­लायां तु विशेषतः सन्निहितो भवतीति अध्यात्मं प्रातिश्रुत्कः — प्रति­श्रु­त्कायां प्रति­श्र­व­ण­वे­लायां भवः प्रातिश्रुत्कः ॥

अयं चन्द्रः सर्वेषां भूतानां मध्वस्य चन्द्रस्य सर्वाणि भूतानि मधु यश्चा­य­म­स्मिं­श्चन्द्रे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मान­स­स्ते­जो­म­योऽ­मृ­त­मयः पुरुषोऽयमेव स योऽय­मा­त्मे­द­म­मृ­त­मिदं ब्रह्मेदं सर्वम् ॥ ७ ॥

तथा चन्द्रः, अध्यात्मं मानसः ॥

इयं विद्यु­त्स­र्वेषां भूतानां मध्वस्यै विद्युतः सर्वाणि भूतानि मधु यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं तैज­स­स्ते­जो­म­योऽ­मृ­त­मयः पुरुषोऽयमेव स योऽय­मा­त्मे­द­म­मृ­त­मिदं ब्रह्मेदं सर्वम् ॥ ८ ॥

तथा विद्युत् , त्वक्तेजसि भवः तैजसः अध्यात्मम् ॥

अयं स्तनयित्नुः सर्वेषां भूतानां मध्वस्य स्तनयित्नोः सर्वाणि भूतानि मधु यश्चा­य­म­स्मि­न्स्त­न­यित्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शाब्दः सौव­र­स्ते­जो­म­योऽ­मृ­त­मयः पुरुषोऽयमेव स योऽय­मा­त्मे­द­म­मृ­त­मिदं ब्रह्मेदं सर्वम् ॥ ९ ॥

तथा स्तनयित्नुः । शब्दे भवः शाब्दोऽध्यात्मं यद्यपि, तथापि स्वरे विशेषतो भवतीति सौवरः अध्यात्मम् ॥

अयमाकाशः सर्वेषां भूतानां मध्वस्याकाशस्य सर्वाणि भूतानि मधु यश्चा­य­म­स्मि­न्ना­काशे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं हृद्या­का­श­स्ते­जो­म­योऽ­मृ­त­मयः पुरुषोऽयमेव स योऽय­मा­त्मे­द­म­मृ­त­मिदं ब्रह्मेदं सर्वम् ॥ १० ॥

१०

तथा आकाशः, अध्यात्मं हृद्याकाशः ॥

आकाशान्ताः पृथिव्यादयो भूतगणा देवतागणाश्च कार्य­क­र­ण­स­ङ्घा­ता­त्मान उपकुर्वन्तो मधु भवन्ति प्रति­श­री­रि­ण­मि­त्यु­क्तम् । येन ते प्रयुक्ताः शरीरिभिः सम्बध्यमाना मधु­त्वे­नो­प­कु­र्वन्ति, तत् वक्तव्यमिति इदमारभ्यते —

अयं धर्मः सर्वेषां भूतानां मध्वस्य धर्मस्य सर्वाणि भूतानि मधु यश्चा­य­म­स्मि­न्धर्मे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं धार्म­स्ते­जो­म­योऽ­मृ­त­मयः पुरुषोऽयमेव स योऽय­मा­त्मे­द­म­मृ­त­मिदं ब्रह्मेदं सर्वम् ॥ ११ ॥

११

अयं धर्मः — ‘अयम्’ इति अप्रत्यक्षोऽपि धर्मः कार्येण तत्प्रयुक्तेन प्रत्यक्षेण व्यपदिश्यते — अयं धर्म इति — प्रत्यक्षवत् । धर्मश्च व्याख्यातः श्रुति­स्मृ­ति­ल­क्षणः, क्षत्त्रा­दी­ना­मपि नियन्ता, जगतो वैचित्र्यकृत् पृथिव्यादीनां परि­णा­म­हे­तु­त्वात् , प्राणि­भि­र­नु­ष्ठी­य­मा­न­रू­पश्च ; तेन च ‘अयं धर्मः’ इति प्रत्यक्षेण व्यपदेशः । सत्यधर्मयोश्च अभेदेन निर्देशः कृतः शास्त्रा­चा­र­ल­क्ष­णयोः ; इह तु भेदेन व्यपदेश एकत्वे सत्यपि, दृष्टा­दृ­ष्ट­भे­द­रू­पेण कार्या­र­म्भ­क­त्वात् । यस्तु अदृष्टः अपूर्वाख्यो धर्मः, स सामा­न्य­वि­शे­षा­त्मना अदृष्टेन रूपेण कार्यमारभते — सामान्यरूपेण पृथिव्यादीनां प्रयोक्ता भवति, विशेषरूपेण च अध्यात्मं कार्य­क­र­ण­स­ङ्घा­तस्य ; तत्र पृथिव्यादीनां प्रयोक्तरि — यश्चा­य­म­स्मि­न्धर्मे तेजोमयः ; तथा अध्यात्मं कार्य­क­र­ण­स­ङ्घा­त­क­र्तरि धर्मे भवो धार्मः ॥

इदं सत्यं सर्वेषां भूतानां मध्वस्य सत्यस्य सर्वाणि भूतानि मधु यश्चा­य­म­स्मि­न्सत्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं सात्य­स्ते­जो­म­योऽ­मृ­त­मयः पुरुषोऽयमेव स योऽय­मा­त्मे­द­म­मृ­त­मिदं ब्रह्मेदं सर्वम् ॥ १२ ॥

१२

तथा दृष्टे­ना­नु­ष्ठी­य­मा­नेन आचाररूपेण सत्याख्यो भवति, स एव धर्मः ; सोऽपि द्विप्रकार एव सामा­न्य­वि­शे­षा­त्म­रू­पेण — सामान्यरूपः पृथि­व्या­दि­स­म­वेतः, विशेषरूपः कार्य­क­र­ण­स­ङ्घा­त­स­म­वेतः ; तत्र पृथि­व्या­दि­स­म­वेते वर्त­मा­न­क्रि­या­रूपे सत्ये, तथा अध्यात्मं कार्य­क­र­ण­स­ङ्घा­त­स­म­वेते सत्ये, भवः सात्यः — ‘सत्येन वायुरावाति’(तै. ना. २ । १) इति श्रुत्यन्तरात् ॥

इदं मानुषं सर्वेषां भूतानां मध्वस्य मानुषस्य सर्वाणि भूतानि मधु यश्चा­य­म­स्मि­न्मा­नुषे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानु­ष­स्ते­जो­म­योऽ­मृ­त­मयः पुरुषोऽयमेव स योऽय­मा­त्मे­द­म­मृ­त­मिदं ब्रह्मेदं सर्वम् ॥ १३ ॥

१३

धर्मसत्याभ्यां प्रयुक्तोऽयं कार्य­क­र­ण­स­ङ्घा­त­वि­शेषः, स येन जातिविशेषेण संयुक्तो भवति, स जातिविशेषो मानुषादिः ; तत्र मनु­षा­दि­जा­ति­वि­शिष्टा एव सर्वे प्राणिनिकायाः पर­स्प­रो­प­का­र्यो­प­का­र­क­भा­वेन वर्तमाना दृश्यन्ते ; अतो मानुषादिजातिरपि सर्वेषां भूतानां मधु । तत्र मानुषादिजातिरपि बाह्या आध्यात्मिकी चेति उभयथा निर्देशभाक् भवति ॥

अयमात्मा सर्वेषां भूतानां मध्वस्यात्मनः सर्वाणि भूतानि मधु यश्चा­य­म­स्मि­न्ना­त्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽय­मा­त्मे­द­म­मृ­त­मिदं ब्रह्मेदं सर्वम् ॥ १४ ॥

१४

यस्तु कार्यकरणसङ्घातो मानु­षा­दि­जा­ति­वि­शिष्टः, सोऽयमात्मा सर्वेषां भूतानां मधु । ननु अयं शारीरशब्देन निर्दिष्टः पृथिवीपर्याय एव — न, पार्थिवांशस्यैव तत्र ग्रहणात् ; इह तु सर्वात्मा प्रत्य­स्त­मि­ता­ध्या­त्मा­धि­भू­ता­धि­दै­वा­दि­स­र्व­वि­शेषः सर्व­भू­त­दे­व­ता­ग­ण­वि­शिष्टः कार्यकरणसङ्घातः सः ‘अयमात्मा’ इत्युच्यते । तस्मिन् अस्मिन् आत्मनि तेजोमयोऽमृतमयः पुरुषः अमूर्तरसः सर्वात्मको निर्दिश्यते ; एकदेशेन तु पृथिव्यादिषु निर्दिष्टः, अत्र अध्या­त्म­वि­शे­षा­भा­वात् सः न निर्दिश्यते । यस्तु परिशिष्टो विज्ञानमयः — यदर्थोऽयं देहलिङ्गसङ्घात आत्मा — सः ‘यश्चायमात्मा’ इत्युच्यते ॥

स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूतानां राजा तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता एव­मे­वा­स्मि­न्ना­त्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः ॥ १५ ॥

१५

यस्मिन्नात्मनि, परिशिष्टो विज्ञा­न­म­योऽन्त्ये पर्याये, प्रवेशितः, सोऽयमात्मा । तस्मिन् अवि­द्या­कृ­त­का­र्य­क­र­ण­स­ङ्घा­तो­पा­धि­वि­शिष्टे ब्रह्मविद्यया परमार्थात्मनि प्रवेशिते, स एवमुक्तः अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघनभूतः, स वै — स एव अयमात्मा अव्य­व­हि­त­पू­र्व­प­र्याये ‘तेजोमयः’ इत्यादिना निर्दिष्टो विज्ञानात्मा विद्वान् , सर्वेषां भूतानामयमात्मा — सर्वैरुपास्यः — सर्वेषां भूतानामधिपतिः सर्वभूतानां स्वतन्त्रः — न कुमारामात्यवत् — किं तर्हि सर्वेषां भूतानां राजा, राजत्वविशेषणम् ‘अधिपतिः’ इति — भवति कश्चित् राजो­चि­त­वृ­त्ति­मा­श्रित्य राजा, न तु अधिपतिः, अतो विशिनष्टि अधिपतिरिति ; एवं सर्वभूतात्मा विद्वान् ब्रह्मवित् मुक्तो भवति । यदुक्तम् — ‘ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते, किमु तद्ब्र­ह्मा­वे­द्य­स्मा­त्त­त्स­र्व­म­भ­वत्’(बृ. उ. १ । ४ । ९) इतीदम् , तत् व्याख्यातम् एवम् — आत्मानमेव सर्वात्मत्वेन आचार्यागमाभ्यां श्रुत्वा, मत्वा तर्कतः, विज्ञाय साक्षात् एवम् , यथा मधुब्राह्मणे दर्शितं तथा — तस्मात् ब्रह्म­वि­ज्ञा­नात् एवँलक्षणात् पूर्वमपि, ब्रह्मैव सत् अविद्यया अब्रह्म आसीत् , सर्वमेव च सत् असर्वमासीत् — तां तु अविद्याम् अस्मा­द्वि­ज्ञा­नात् तिरस्कृत्य ब्रह्मवित् ब्रह्मैव सन् ब्रह्माभवत् , सर्वः सः सर्वमभवत् । परिसमाप्तः शास्त्रार्थः, यदर्थः प्रस्तुतः ; तस्मिन् एतस्मिन् सर्वात्मभूते ब्रह्मविदि सर्वात्मनि सर्वं जग­त्स­म­र्पि­त­मि­त्ये­त­स्मि­न्नर्थे दृष्टान्त उपादीयते — तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता इति, प्रसिद्धोऽर्थः, एवमेव अस्मिन् आत्मनि परमात्मभूते ब्रह्मविदि सर्वाणि भूतानि ब्रह्मा­दि­स्त­म्ब­प­र्य­न्तानि सर्वे देवाः अग्न्यादयः सर्वे लोकाः भूरादयः सर्वे प्राणाः वागादयः सर्व एत आत्मानो जलचन्द्रवत् प्रति­श­री­रा­नु­प्र­वे­शिनः अविद्याकल्पिताः ; सर्वं जगत् अस्मि­न्स­म­र्पि­तम् । यदुक्तम् , ब्रह्मवित् वामदेवः प्रतिपेदे — अहं मनुरभवं सूर्यश्चेति, स एष सर्वात्मभावो व्याख्यातः । स एष विद्वान् ब्रह्मवित् सर्वोपाधिः सर्वात्मा सर्वो भवति ; निरुपाधिः निरुपाख्यः अनन्तरः अबाह्यः कृत्स्नः प्रज्ञानघनः अजोऽ­ज­रोऽ­मृ­तोऽ­भ­योऽ­चलः नेति नेत्य­स्थू­लोऽ­न­णु­रि­त्ये­वं­वि­शे­षणः भवति । तमेतमर्थम् अजा­न­न्त­स्ता­र्किकाः केचित् पण्डि­त­म्म­न्या­श्चा­ग­म­विदः शास्त्रार्थं विरुद्धं मन्यमाना विकल्पयन्तो मोह­म­गा­ध­मु­प­यान्ति । तमेतमर्थम् एतौ मन्त्रावनुवदतः — ‘अनेजदेकं मनसो जवीयः’(ई. उ. ४) ‘तदेजति तन्नैजति’(ई. उ. ५) इति । तथा च तैत्तिरीयके —, ‘यस्मात्परं नापरमस्ति किञ्चित्’(तै. ना. १० । ४) , ‘एतत्साम गायन्नास्ते अह­म­न्न­म­ह­म­न्न­म­ह­म­न्नम्’(तै. उ. ३ । १० । ६) इत्यादि । तथा च च्छान्दोग्ये ‘जक्ष­त्क्री­ड­न्र­म­माणः’(छा. उ. ८ । १२ । ३) , ‘स यदि पितृलोककामः’(छा. उ. ८ । २ । १) ‘सर्वगन्धः सर्वरसः’(छा. उ. ३ । १४ । २) , ‘सर्वज्ञः सर्ववित्’(मु. उ. १ । १ । ९) इत्यादि । आथर्वणे च ‘दूरात्सुदूरे तदिहान्तिके च’(मु. उ. ३ । १ । ७) । कठवल्लीष्वपि ‘अणोरणीयान्महतो महीयान्’(क. उ. १ । २ । २१) ‘कस्तं मदामदं देवं’(क. उ. १ । २ । २१) ‘तद्धा­व­तोऽ­न्या­न­त्येति तिष्ठत्’(ई. उ. ४) इति च । तथा गीतासु ‘अहं क्रतुरहं यज्ञः’(भ. गी. ९ । १०) ‘पिताहमस्य जगतः’(भ. गी. ९ । १७) ‘नादत्ते कस्यचित्पापम्’(भ. गी. ५ । १०) ‘समं सर्वेषु भूतेषु’(भ. गी. १३ । २७) ‘अविभक्तं विभक्तेषु’(भ. गी. १७ । २०) ‘ग्रसिष्णु प्रभविष्णु च’(भ. गी. १३ । १६) इति — एवमाद्यागमार्थं विरुद्धमिव प्रतिभान्तं मन्यमानाः स्वचि­त्त­सा­म­र्थ्यात् अर्थनिर्णयाय विकल्पयन्तः — अस्त्यात्मा नास्त्यात्मा, कर्ता अकर्ता, मुक्तः बद्धः, क्षणिको विज्ञानमात्रं शून्यं च — इत्येवं विकल्पयन्तः न पार­म­धि­ग­च्छ­न्त्य­वि­द्यायाः, विरु­द्ध­ध­र्म­द­र्शि­त्वा­त्स­र्वत्र । तस्मात् तत्र य एव श्रुत्या­चा­र्य­द­र्शि­त­मा­र्गा­नु­सा­रिणः, त एवाविद्यायाः पारमधिगच्छन्ति ; त एव च अस्मा­न्मो­ह­स­मु­द्रा­द­गा­धात् उत्तरिष्यन्ति, नेतरे स्वबु­द्धि­कौ­श­ला­नु­सा­रिणः ॥

परिसमाप्ता ब्रह्मविद्या अमृ­त­त्व­सा­ध­न­भूता, यां मैत्रेयी पृष्टवती भर्तारम् ‘यदेव भग­वा­न­मृ­त­त्व­सा­धनं वेद तदेव मे ब्रूहि’(बृ. उ. २ । ४ । ३) इति । एतस्या ब्रह्मविद्यायाः स्तुत्यर्था इयमाख्यायिका आनीता । तस्या आख्यायिकायाः सङ्क्षे­प­तोऽ­र्थ­प्र­का­श­ना­र्था­वेतौ मन्त्रौ भवतः ; एवं हि मन्त्र­ब्रा­ह्म­णाभ्यां स्तुतत्वात् अमृ­त­त्व­स­र्व­प्रा­प्ति­सा­ध­नत्वं ब्रह्मविद्यायाः प्रकटीकृतं राजमार्गमुपनीतं भवति — यथा आदित्य उद्यन् शार्वरं तमोऽपनयतीति — तद्वत् । अपि च एवं स्तुता ब्रह्मविद्या — या इन्द्ररक्षिता सा दुष्प्रापा देवैरपि ; यस्मात् अश्विभ्यामपि देवभिषग्भ्याम् इन्द्ररक्षिता विद्या महता आयासेन प्राप्ता ; ब्राह्मणस्य शिरश्छित्त्वा अश्व्यं शिरः प्रतिसन्धाय, तस्मि­न्नि­न्द्रेण च्छिन्ने पुनः स्वशिर एव प्रतिसन्धाय, तेन ब्राह्मणस्य स्वशिरसैव उक्ता अशेषा ब्रह्मविद्या श्रुता ; यस्मात् ततः परतरं किञ्चि­त्पु­रु­षा­र्थ­सा­धनं न भूतं न भावि वा, कुत एव वर्तमानम् — इति नातः परा स्तुतिरस्ति । अपि चैवं स्तूयते ब्रह्मविद्या — सर्व­पु­रु­षा­र्थानां कर्म हि साधनमिति लोके प्रसिद्धम् ; तच्च कर्म वित्तसाध्यम् , तेन आशापि नास्त्य­मृ­त­त्वस्य ; तदिदममृतत्वं केवलया आत्मविद्यया कर्मनिरपेक्षया प्राप्यते ; यस्मात् कर्मप्रकरणे वक्तुं प्राप्तापि सती प्रव­र्ग्य­प्र­क­रणे, कर्म­प्र­क­र­णा­दु­त्तीर्य कर्मणा विरुद्धत्वात् केव­ल­स­न्न्या­स­स­हिता अभिहिता अमृतत्वसाधनाय — तस्मात् नातः परं पुरु­षा­र्थ­सा­ध­न­मस्ति । अपि च एवं स्तुता ब्रह्मविद्या — सर्वो हि लोको द्वन्द्वारामः, ‘स वै नैव रेमे तस्मादेकाकी न रमते’(बृ. उ. १ । ४ । ३) इति श्रुतेः ; याज्ञवल्क्यो लोकसाधारणोऽपि सन् आत्मज्ञानबलात् भार्या­पु­त्र­वि­त्ता­दि­सं­सा­र­रतिं परित्यज्य प्रज्ञानतृप्त आत्मरतिर्बभूव । अपि च एवं स्तुता ब्रह्मविद्या — यस्मात् याज्ञवल्क्येन संसारमार्गात् व्युत्तिष्ठतापि प्रियायै भार्यायै प्रीत्यर्थमेव अभिहिता, ‘प्रियं भाषस एह्यास्स्व’(बृ. उ. २ । ४ । ४) इति लिङ्गात् ॥

इदं वै तन्मधु दध्य­ङ्ङा­थ­र्व­णोऽ­श्वि­भ्या­मु­वाच । तदेतदृषिः पश्यन्नवोचत् । तद्वां नरा सनये दंस उग्र­मा­वि­ष्कृ­णोमि तन्यतुर्न वृष्टिम् । दध्यङ् ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाचेति ॥ १६ ॥

१६

तत्र इयं स्तुत्यर्था आख्या­यि­के­त्य­वो­चाम ; का पुनः सा आख्यायिकेति उच्यते — इद­मि­त्य­न­न्त­र­नि­र्दिष्टं व्यपदिशति, बुद्धौ सन्निहितत्वात् ; वै - शब्दः स्मरणार्थः ; तदि­त्या­ख्या­यि­का­नि­र्वृत्तं प्रक­र­णा­न्त­रा­भि­हितं परोक्षं वै - शब्देन स्मारयन् इह व्यपदिशति ; यत् प्रव­र्ग्य­प्र­क­रणे सूचितम् , न आविष्कृतं मधु, तदिदं मधु इह अनन्तरं निर्दिष्टम् — ‘इयं पृथिवी’(बृ. उ. २ । ५ । ११) इत्यादिना ; कथं तत्र प्रकरणान्तरे सूचितम् — ‘दध्यङ् ह वा आभ्यामाथर्वणो मधु नाम ब्राह्मणमुवाच ; तदेनयोः प्रियं धाम तदे­वै­न­यो­रे­ते­नो­प­ग­च्छति ; स होवाचेन्द्रेण वा उक्तोऽ­स्म्ये­त­च्चे­द­न्यस्मा अनुब्रूयास्तत एव ते शिर­श्छि­न्द्या­मिति ; तस्माद्वै बिभेमि यद्वै मे स शिरो न च्छिन्द्या­त्त­द्वा­मु­प­नेष्य इति ; तौ होचतुरावां त्वा तस्मा­त्त्रा­स्या­वहे इति ; कथं मा त्रास्येथे इति ; यदा नावुपनेष्यसे ; अथ ते शिर­श्छि­त्त्वा­न्य­त्रा­हृ­त्यो­प­नि­धा­स्यावः ; अथाश्वस्य शिर आहृत्य तत्ते प्रतिधास्यावः ; तेन नावनुवक्ष्यसि ; स यदा नावनुवक्ष्यसि ; अथ ते तदिन्द्रः शिरश्छेत्स्यति ; अथ ते स्वं शिर आहृत्य तत्ते प्रतिधास्याव इति ; तथेति तौ होपनिन्ये ; तौ यदोपनिन्ये ; अथास्य शिरश्छित्त्वा अन्य­त्रो­प­नि­द­धतुः ; अथाश्वस्य शिर आहृत्य तद्धास्य प्रतिदधतुः ; तेन हाभ्यामनूवाच ; स यदाभ्यामनूवाच अथास्य तदिन्द्रः शिरश्चिच्छेद ; अथास्य स्वं शिर आहृत्य तद्धास्य प्रतिदधतुरिति । यावत्तु प्रव­र्ग्य­क­र्मा­ङ्ग­भूतं मधु, तावदेव तत्राभिहितम् ; न तु कक्ष्य­मा­त्म­ज्ञा­ना­ख्यम् ; तत्र या आख्यायिका अभिहिता, सेह स्तुत्यर्था प्रदर्श्यते ; इदं वै तन्मधु दध्यङ्ङाथर्वणः अनेन प्रपञ्चेन अश्विभ्यामुवाच । तदेतदृषिः — तदेतत्कर्म, ऋषिः मन्त्रः, पश्यन् उपलभमानः, अवोचत् उक्तवान् ; कथम् ? तत् दंस इति व्यवहितेन सम्बन्धः, दंस इति कर्मणो नामधेयम् ; तच्च दंसः किंविशिष्टम् ? उग्रं क्रूरम् , वां युवयोः, हे नरा नराकारावश्विनौ ; तच्च कर्म किं निमित्तम् ? सनये लाभाय ; लाभलुब्धो हि लोकेऽपि क्रूरं कर्म आचरति, तथैव एतावुपलभ्येते यथा लोके ; तत् आविः प्रकाशं कृणोमि करोमि, यत् रहसि भवद्भ्यां कृतम् ; किमिवेत्युच्यते — तन्यतुः पर्जन्यः, न इव ; नकारस्तु उपरिष्टादुपचार उपमार्थीयो वेदे, न प्रतिषेधार्थः — यथा ‘अश्वं न’(ऋ. सं. १ । ६ । २४ । १) अश्वमिवेति यद्वत् ; तन्यतुरिव वृष्टिं यथा पर्जन्यो वृष्टिं प्रकाशयति स्तन­यि­त्न्वा­दि­शब्दैः, तद्वत् अहं युवयोः क्रूरं कर्म आविष्कृणोमीति सम्बन्धः । ननु अश्विनोः स्तुत्यर्थौ कथमिमौ मन्त्रौ स्याताम् ? निन्दावचनौ हीमौ — नैष दोषः ; स्तुतिरेवैषा, न निन्दावचनौ ; यस्मात् ईदृ­श­म­प्य­ति­क्रूरं कर्म कुर्वतोर्युवयोः न लोम च मीयत इति — न चान्य­त्कि­ञ्चि­द्धी­यत एवेति — स्तुतावेतौ भवतः ; निन्दां प्रशंसां हि लौकिकाः स्मरन्ति ; तथा प्रशंसारूपा च निन्दा लोके प्रसिद्धा । दध्यङ्नाम आथर्वणः ; हेत्यनर्थको निपातः ; यन्मधु कक्ष्यम् आत्म­ज्ञा­न­ल­क्ष­णम् आथर्वणः वां युवाभ्याम् अश्वस्य शीर्ष्णा शिरसा, प्र यत् ईम् उवाच — यत्प्रोवाच मधु ; ईमित्यनर्थको निपातः ॥

इदं वै तन्मधु दध्य­ङ्ङा­थ­र्व­णोऽ­श्वि­भ्या­मु­वाच । तदेतदृषिः पश्यन्नवोचत् । आथर्वणायाश्विनौ दधीचेऽश्व्यं शिरः प्रत्यैरयतम् । स वां मधु प्रवो­च­दृ­ता­य­न्त्वाष्ट्रं यद्दस्रावपि कक्ष्यं वामिति ॥ १७ ॥

१७

इदं वै तन्मध्वित्यादि पूर्ववत् मन्त्रा­न्त­र­प्र­द­र्श­ना­र्थम् । तथा अन्यो मन्त्रः तामेव आख्या­यि­का­म­नु­स­रति स्म । आथर्वणो दध्यङ्नाम — आथर्वणोऽन्यो विद्यत इत्यतो विशिनष्टि — दध्यङ्नाम आथर्वणः, तस्मै दधीचे आथर्वणाय, हे अश्विनाविति मन्त्रदृशो वचनम् ; अश्व्यम् अश्वस्य स्वभूतम् , शिरः, ब्राह्मणस्य शिरसि च्छिन्ने अश्वस्य शिरश्छित्त्वा ईदृशमतिक्रूरं कर्म कृत्वा अश्व्यं शिरः ब्राह्मणं प्रति ऐरयतं गमितवन्तौ, युवाम् ; स च आथर्वणः वां युवाभ्याम् तन्मधु प्रवोचत् , यत्पूर्वं प्रतिज्ञातम् — वक्ष्यामीति । स किमर्थमेवं जीवि­त­स­न्दे­ह­मा­रुह्य प्रवो­च­दि­त्यु­च्यते — ऋतायन् यत्पूर्वं प्रतिज्ञातं सत्यं तत्प­रि­पा­ल­यि­तु­मि­च्छन् ; जीवितादपि हि सत्य­ध­र्म­प­रि­पा­लना गुरुतरेत्येतस्य लिङ्गमेतत् । किं तन्मधु प्रवो­च­दि­त्यु­च्यते — त्वाष्ट्रम् , त्वष्टा आदित्यः, तस्य सम्बन्धि — यज्ञस्य शिरश्छिन्नं त्वष्ट्रा अभवत् , तत्प्र­ति­स­न्धा­नार्थं प्रवर्ग्यं कर्म, तत्र प्रव­र्ग्य­क­र्मा­ङ्ग­भूतं यद्विज्ञानं तत् त्वाष्ट्रं मधु — यत्तस्य चिर­श्छे­द­न­प्र­ति­स­न्धा­ना­दि­वि­षयं दर्शनं तत् त्वाष्ट्रं यन्मधु ; हे दस्रौ दस्राविति पर­ब­ला­ना­मु­प­क्ष­प­यि­तारौ शत्रूणां हिंसितारौ ; अपि च न केवलं त्वाष्ट्रमेव मधु कर्मसम्बन्धि युवाभ्यामवोचत् ; अपि च कक्ष्यं गोप्यं रहस्यं परमात्मसम्बन्धि यद्विज्ञानं मधु मधु­ब्रा­ह्म­णे­नोक्तं अध्या­य­द्व­य­प्र­का­शि­तम् , तच्च वां युवाभ्यां प्रवो­च­दि­त्य­नु­व­र्तते ॥

इदं वै तन्मधु दध्य­ङ्ङा­थ­र्व­णोऽ­श्वि­भ्या­मु­वाच । तदेतदृषिः पश्यन्नवोचत् । पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशदिति । स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम् ॥ १८ ॥

१८

इदं वै तन्मध्विति पूर्ववत् । उक्तौ द्वौ मन्त्रौ प्रव­र्ग्य­स­म्ब­न्ध्या­ख्या­यि­को­प­सं­ह­र्तारौ ; द्वयोः प्रव­र्ग्य­क­र्मा­र्थ­यो­र­ध्या­य­यो­रर्थ आख्या­यि­का­भू­ताभ्यां मन्त्राभ्यां प्रकाशितः । ब्रह्म­वि­द्या­र्थ­यो­स्त्व­ध्या­य­यो­रर्थ उत्त­रा­भ्या­मृग्भ्यां प्रकाशयितव्य इत्यतः प्रवर्तते । यत् कक्ष्यं च मधु उक्तवानाथर्वणो युवा­भ्या­मि­त्यु­क्तम् — किं पुन­स्त­न्म­ध्वि­त्यु­च्यते — पुरश्चक्रे, पुरः पुराणि शरीराणि — यत इय­म­व्या­कृ­त­व्या­क­र­ण­प्र­क्रिया — स परमेश्वरो नामरूपे अव्याकृते व्याकुर्वाणः प्रथमं भूरादीन् लोकान्सृष्ट्वा, चक्रे कृतवान् , द्विपदः द्विपा­दु­प­ल­क्षि­तानि मनुष्यशरीराणि पक्षिशरीराणि ; तथा पुरः शरीराणि चक्रे चतुष्पदः चतु­ष्पा­दु­प­ल­क्षि­तानि पशुशरीराणि ; पुरः पुरस्तात् , स ईश्वरः पक्षी लिङ्गशरीरं भूत्वा पुरः शरीराणि — पुरुष आवि­श­दि­त्य­स्या­र्थ­मा­चष्टे श्रुतिः — स वा अयं पुरुषः सर्वासु पूर्षु सर्वशरीरेषु पुरिशयः, पुरि शेत इति पुरिशयः सन् पुरुष इत्युच्यते ; न एनेन अनेन किञ्चन किञ्चिदपि अनावृतम् अनाच्छादितम् ; तथा न एनेन किञ्चनासंवृतम् अन्त­र­न­नु­प्र­वे­शि­तम् — बाह्य­भू­ते­ना­न्त­र्भू­तेन च न अनावृतम् ; एवं स एव नामरूपात्मना अन्त­र्ब­हि­र्भा­वेन कार्यकरणरूपेण व्यवस्थितः ; पुरश्चक्रे इत्यादिमन्त्रः सङ्क्षेपत आत्मैकत्वमाचष्ट इत्यर्थः ॥

इदं वै तन्मधु दध्य­ङ्ङा­थ­र्व­णोऽ­श्वि­भ्या­मु­वाच । तदेतदृषिः पश्यन्नवोचत् । रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेति । अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च तदे­त­द्ब्र­ह्मा­पू­र्व­म­न­प­र­म­न­न्त­र­म­बा­ह्य­म­य­मात्मा ब्रह्म सर्वा­नु­भू­रि­त्य­नु­शा­स­नम् ॥ १९ ॥

१९

इदं वै तन्मध्वित्यादि पूर्ववत् । रूपं रूपं प्रतिरूपो बभूव — रूपं रूपं प्रति प्रतिरूपः रूपान्तरं बभूवेत्यर्थः ; प्रति­रू­पोऽ­नु­रूपो वा यादृक्संस्थानौ मातापितरौ तत्संस्थानः तदनुरूप एव पुत्रो जायते ; न हि चतुष्पदो द्विपाज्जायते, द्विपदो वा चतुष्पात् ; स एव हि परमेश्वरो नामरूपे व्याकुर्वाणः रूपं रूपं प्रतिरूपो बभूव । किमर्थं पुनः प्रतिरूपमागमनं तस्येत्युच्यते — तत् अस्य आत्मनः रूपं प्रतिचक्षणाय प्रतिख्यापनाय ; यदि हि नामरूपे न व्याक्रियेते, तदा अस्य आत्मनो निरुपाधिकं रूपं प्रज्ञानघनाख्यं न प्रतिख्यायेत ; यदा पुनः कार्यकरणात्मना नामरूपे व्याकृते भवतः, तदा अस्य रूपं प्रतिख्यायेत । इन्द्रः परमेश्वरः मायाभिः प्रज्ञाभिः नाम­रू­प­भू­त­कृ­त­मि­थ्या­भि­मा­नैर्वा न तु परमार्थतः, पुरुरूपः बहुरूपः, ईयते गम्यते — एकरूप एव प्रज्ञानघनः सन् अवि­द्या­प्र­ज्ञाभिः । कस्मात्पुनः कारणात् ? युक्ताः रथ इव वाजिनः, स्ववि­ष­य­प्र­का­श­नाय, हि यस्मात् , अस्य हरयः हरणात् इन्द्रियाणि, शता शतानि, दश च, प्राणि­भे­द­बा­हु­ल्यात् शतानि दश च भवन्ति ; तस्मात् इन्द्रि­य­वि­ष­य­बा­हु­ल्यात् तत्प्रकाशनायैव च युक्तानि तानि न आत्मप्रकाशनाय ; ‘पराञ्चि खानि व्यतृ­ण­त्स्व­यम्भूः’(क. उ. २ । १ । १) इति हि काठके । तस्मात् तैरेव विष­य­स्व­रू­पै­री­यते, न प्रज्ञा­न­घ­नै­क­र­सेन स्वरूपेण । एवं तर्हि अन्यः परमेश्वरः अन्ये हरय इत्येवं प्राप्ते उच्यते — अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च ; प्राणिभेदस्य आनन्त्यात् । किं बहुना ? तदेतद्ब्रह्म य आत्मा, अपूर्वम् नास्य कारणं पूर्वं विद्यत इत्यपूर्वम् , नास्यापरं कार्यं विद्यत इत्यनपरम् , नास्य जात्य­न्त­र­म­न्त­राले विद्यत इत्यनन्तरम् , तथा बहिरस्य न विद्यत इत्यबाह्यम् ; किं पुनस्तत् निरन्तरं ब्रह्म ? अयमात्मा ; कोऽसौ ? यः प्रत्यगात्मा द्रष्टा, श्रोता मन्ता बोद्धा, विज्ञाता सर्वानुभूः — सर्वात्मना सर्वमनुभवतीति सर्वानुभूः — इत्येतदनुशासनम् सर्व­वे­दा­न्तो­प­देशः ; एष सर्व­वे­दा­न्ता­ना­मु­प­सं­हृ­तोऽर्थः ; एतदमृतमभयम् ; परिसमाप्तश्च शास्त्रार्थः ॥

इति द्विती­या­ध्या­यस्य पञ्चमं ब्राह्मणम् ॥

षष्ठं ब्राह्मणम्

अथ वंशः पौतिमाष्यो गौपवनाद्गौपवनः पौति­मा­ष्या­त्पौ­ति­माष्यो गौपवनाद्गौपवनः कौशिकात्कौशिकः कौण्डि­न्या­त्कौ­ण्डिन्यः शाण्डि­ल्या­च्छा­ण्डिल्यः कौशिकाच्च गौतमाच्च गौतमः ॥ १ ॥

आग्नि­वे­श्या­दा­ग्नि­वेश्यः शाण्डि­ल्या­च्चा­न­भि­म्ला­ता­च्चा­न­भि­म्लात आन­भि­म्ला­ता­दा­न­भि­म्लात आन­भि­म्ला­ता­दा­न­भि­म्लातो गौतमाद्गौतमः सैत­व­प्रा­ची­न­यो­ग्याभ्यां सैत­व­प्रा­ची­न­योग्यौ पारा­श­र्या­त्पा­र­शर्यो भार­द्वा­जा­द्भा­र­द्वाजो भारद्वाजाच्च गौतमाच्च गौतमो भार­द्वा­जा­द्भा­र­द्वाजः पारा­श­र्या­त्पा­रा­शर्यो बैज­वा­पा­य­ना­द्बै­ज­वा­पा­यनः कौशिकायनेः कौशिकायनिः ॥ २ ॥

घृत­कौ­शि­का­द्घृ­त­कौ­शिकः पारा­श­र्या­य­णा­त्पा­रा­श­र्या­यणः पारा­श­र्या­त्पा­रा­शर्यो जातू­क­र्ण्या­ज्जा­तू­कर्ण्य आसुरायणाच्च यास्का­च्चा­सु­रा­य­ण­स्त्रै­व­णे­स्त्रै­व­णि­रौ­प­ज­न्ध­ने­रौ­प­ज­न्ध­नि­रा­सु­रे­रा­सु­रि­र्भा­र­द्वा­जा­द्भा­र­द्वाज आत्रेयादात्रेयो माण्टे­र्मा­ण्टि­र्गौ­त­मा­द्गौ­तमो गौतमाद्गौतमो वात्स्या­द्वात्स्यः शाण्डि­ल्या­च्छा­ण्डिल्यः कैशो­र्या­त्का­प्या­त्कै­शोर्यः काप्यः कुमा­र­हा­रि­ता­त्कु­मा­र­हा­रितो गालवाद्गालवो विद­र्भी­कौ­ण्डि­न्या­द्वि­द­र्भी­कौ­ण्डिन्यो वत्सनपातो बाभ्र­वा­द्व­त्स­न­पा­द्बा­भ्रवः पथः सौभरात्पन्थाः सौभ­रोऽ­या­स्या­दा­ङ्गि­र­सा­द­यास्य आङ्गिरस आभू­ते­स्त्वा­ष्ट्रा­दा­भू­ति­स्त्वाष्ट्रो विश्व­रू­पा­त्त्वा­ष्ट्रा­द्वि­श्व­रू­प­स्त्वा­ष्ट्रोऽ­श्वि­भ्या­म­श्विनौ दधीच आथ­र्व­णा­द्द­ध्य­ङ्ङा­थ­र्व­णोऽ­थ­र्वणो दैवादथर्वा दैवो मृत्योः प्राध्वं­स­ना­न्मृत्युः प्राध्वंसनः प्रध्वं­स­ना­त्प्र­ध्वं­सन एक­र्षे­रे­क­र्षि­र्वि­प्र­चि­त्ते­र्वि­प्र­चि­त्ति­र्व्य­ष्टे­र्व्यष्टिः सनारोः सनारुः सनातनात्सनातनः सनगात्सनगः परमेष्ठिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः ॥ ३ ॥

अथेदानीं ब्रह्म­वि­द्या­र्थस्य मधुकाण्डस्य वंशः स्तुत्यर्थो ब्रह्मविद्यायाः । मन्त्रश्चायं स्वाध्यायार्थो जपार्थश्च । तत्र वंश इव वंशः — यथा वेणुः वंशः पर्वणः पर्वणो हि भिद्यते तद्वत् अग्रात्प्रभृति आ मूलप्राप्तेः अयं वंशः ; अध्या­य­च­तु­ष्ट­यस्य आचा­र्य­प­र­म्प­रा­क्रमो वंश इत्युच्यते ; तत्र प्रथमान्तः शिष्यः पञ्चम्यन्त आचार्यः ; परमेष्ठी विराट् ; ब्रह्मणो हिरण्यगर्भात् ; ततः परम् आचार्यपरम्परा नास्ति । यत्पुनर्ब्रह्म, तन्नित्यं स्वयम्भु, तस्मै ब्रह्मणे स्वयम्भुवे नमः ॥

इति द्विती­या­ध्या­यस्य षष्ठं ब्राह्मणम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ बृह­दा­र­ण्य­को­प­नि­ष­द्भाष्ये द्वितीयोऽध्यायः ॥