अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यम्

तृतीयोऽध्यायः

व्याख्याः

प्रथमं ब्राह्मणम्

‘जनको ह वैदेहः’ इत्यादि याज्ञवल्कीयं काण्डमारभ्यते ; उप­प­त्ति­प्र­धा­न­त्वात् अतिक्रान्तेन मधुकाण्डेन समानार्थत्वेऽपि सति न पुनरुक्तता ; मधुकाण्डं हि आगमप्रधानम् ; आगमोपपत्ती हि आत्मै­क­त्व­प्र­का­श­नाय प्रवृत्ते शक्नुतः करतलगतबिल्वमिव दर्शयितुम् ; ‘श्रोतव्यो मन्तव्यः’(बृ. उ. २ । ४ । ५) इति ह्युक्तम् ; तस्मा­दा­ग­मा­र्थ­स्यैव परीक्षापूर्वकं निर्धारणाय याज्ञवल्कीयं काण्ड­मु­प­प­त्ति­प्र­धा­न­मा­र­भ्यते । आख्यायिका तु विज्ञा­न­स्तु­त्यर्था उपायविधिपरा वा ; प्रसिद्धो ह्युपायो विद्वद्भिः शास्त्रेषु च दृष्टः — दानम् ; दानेन ह्युपनमन्ते प्राणिनः ; प्रभूतं हिरण्यं गोसहस्रदानं च इहोपलभ्यते ; तस्मात् अन्यपरेणापि शास्त्रेण विद्या­प्रा­प्त्यु­पा­य­दा­न­प्र­द­र्श­नार्था आख्यायिका आरब्धा । अपि च तद्विद्यसंयोगः तैश्च सह वादकरणं विद्या­प्रा­प्त्यु­पायो न्यायविद्यायां दृष्टः ; तच्च अस्मिन्नध्याये प्राबल्येन प्रदर्श्यते ; प्रत्यक्षा च विद्वत्संयोगे प्रज्ञावृद्धिः । तस्मात् विद्या­प्रा­प्त्यु­पा­य­प्र­द­र्श­ना­र्थैव आख्यायिका ॥

ओं जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुस्तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव कःस्विदेषां ब्राह्म­णा­ना­म­नू­चा­न­तम इति स ह गवां सहस्रमवरुरोध दश दश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः ॥ १ ॥

जनको नाम ह किल सम्राट् राजा बभूव विदेहानाम् ; तत्र भवो वैदेहः ; स च बहुदक्षिणेन यज्ञेन — शाखा­न्त­र­प्र­सिद्धो वा बहुदक्षिणो नाम यज्ञः, अश्वमेधो वा दक्षि­णा­बा­हु­ल्यात् बहुदक्षिण इहोच्यते — तेनेजे अयजत् । तत्र तस्मिन्यज्ञे निमन्त्रिता दर्शनकामा वा कुरूणां देशानां पञ्चालानां च ब्राह्मणाः — तेषु हि विदुषां बाहुल्यं प्रसिद्धम् — अभिसमेताः अभिसङ्गता बभूवुः । तत्र महान्तं विद्वत्समुदायं दृष्ट्वा तस्य ह किल जनकस्य वैदेहस्य यजमानस्य, को नु खल्वत्र ब्रह्मिष्ठ इति विशेषेण ज्ञातुमिच्छा विजिज्ञासा, बभूव ; कथम् ? कःस्वित् को नु खलु एषां ब्राह्मणानाम् अनूचानतमः — सर्व इमेऽनूचानाः, कः स्विदे­षा­म­ति­श­ये­ना­नू­चान इति । स ह अनू­चा­न­त­म­वि­ष­यो­त्प­न्न­जि­ज्ञासः सन् तद्वि­ज्ञा­नो­पा­यार्थं गवां सहस्रं प्रथमवयसाम् अवरुरोध गोष्ठेऽवरोधं कारयामास ; किंविशिष्टास्ता गावोऽवरुद्धा इत्युच्यते — पलचतुर्थभागः पादः सुवर्णस्य, दश दश पादा एकैकस्या गोः शृङ्गयोः आबद्धा बभूवुः, पञ्च पञ्च पादा एकैकस्मिन् शृङ्गे ॥

तान्होवाच ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति । ते ह ब्राह्मणा न दधृषुरथ ह याज्ञवल्क्यः स्वमेव ब्रह्म­चा­रि­ण­मु­वा­चैताः सोम्योदज सामश्रवा३ इति ता होदाचकार ते ह ब्राह्म­णा­श्चु­क्रुधुः कथं नो ब्रह्मिष्ठो ब्रुवीतेत्यथ ह जनकस्य वैदेहस्य होताश्वलो बभूव स हैनं पप्रच्छ त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति स होवाच नामो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्म इति तं ह तत एव प्रष्टुं दध्रे होताश्वलः ॥ २ ॥

गा एवमवरुध्य ब्राह्म­णां­स्ता­न्हो­वाच, हे ब्राह्मणा भगवन्तः इत्यामन्त्र्य — यः वः युष्माकं ब्रह्मिष्ठः — सर्वे यूयं ब्रह्माणः, अतिशयेन युष्माकं ब्रह्मा यः — सः एता गा उदजताम् उत्कालयतु स्वगृहं प्रति । ते ह ब्राह्मणा न दधृषुः — ते ह किल एवमुक्ता ब्राह्मणाः ब्रह्मि­ष्ठ­ता­मा­त्मनः प्रतिज्ञातुं न दधृषुः न प्रगल्भाः संवृत्ताः । अप्रगल्भभूतेषु ब्राह्मणेषु अथ ह याज्ञवल्क्यः स्वम् आत्मीयमेव ब्रह्मचारिणम् अन्तेवासिनम् उवाच — एताः गाः हे सोम्य उदज उद्गमय अस्म­द्गृ­हा­न्प्रति, हे सामश्रवः — सामविधिं हि शृणोति, अतः अर्था­च्च­तु­र्वेदो याज्ञवल्क्यः । ताः गाः ह उदाचकार उत्का­लि­त­वा­ना­चा­र्य­गृहं प्रति । याज्ञवल्क्येन ब्रह्मि­ष्ठ­प­ण­स्वी­क­र­णेन आत्मनो ब्रह्मिष्ठता प्रतिज्ञातेति ते ह चुक्रुधुः क्रुद्धवन्तो ब्राह्मणाः । तेषां क्रोधा­भि­प्रा­य­मा­चष्टे — कथं नः अस्माकम् एकैकप्रधानानां ब्रह्मि­ष्ठोऽ­स्मीति ब्रुवीतेति । अथ ह एवं क्रुद्धेषु ब्राह्मणेषु जनकस्य यजमानस्य होता ऋत्विक् अश्वलो नाम बभूव आसीत् । स एवं याज्ञवल्क्यम् — ब्रह्मि­ष्ठा­भि­मानी राजाश्रयत्वाच्च धृष्टः — याज्ञवल्क्यं पप्रच्छ पृष्टवान् ; कथम् ? त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति — प्लुतिः भर्त्सनार्था । स होवाच याज्ञवल्क्यः — नमस्कुर्मो वयं ब्रह्मिष्ठाय, इदानीं गोकामाः स्मो वयमिति । तं ब्रह्मि­ष्ठ­प्र­तिज्ञं सन्तं तत एव ब्रह्मि­ष्ठ­प­ण­स्वी­क­र­णात् प्रष्टुं दध्रे धृतवान्मनो होता अश्वलः ॥

याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्युनाप्तं सर्वं मृत्युनाभिपन्नं केन यजमानो मृत्यो­रा­प्ति­म­ति­मु­च्यत इति होत्र­र्त्वि­जा­ग्निना वाचा वाग्वै यज्ञस्य होता तद्येयं वाक्सोऽयमग्निः स होता स मुक्तिः सातिमुक्तिः ॥ ३ ॥

याज्ञवल्क्येति होवाच । तत्र मधुकाण्डे पाङ्क्तेन कर्मणा दर्शनसमुच्चितेन यजमानस्य मृत्योरत्ययो व्याख्यातः उद्गीथप्रकरणे सङ्क्षेपतः ; तस्यैव परी­क्षा­वि­ष­योऽ­य­मिति तद्ग­त­द­र्श­न­वि­शे­षा­र्थोऽयं विस्तर आरभ्यते । यदिदं साधनजातम् अस्य कर्मणः ऋत्विगग्न्यादि मृत्युना कर्मलक्षणेन स्वाभा­वि­का­स­ङ्ग­स­हि­तेन आप्तं व्याप्तम् , न केवलं व्याप्तम् अभिपन्नं च मृत्युना वशीकृतं च — केन दर्शनलक्षणेन साधनेन यजमानः मृत्योराप्तिमति मृत्यु­गो­च­र­त्व­म­ति­क्रम्य मुच्यते स्वतन्त्रः मृत्योरवशो भवतीत्यर्थः । ननु उद्गीथ एवाभिहितम् येनातिमुच्यते मुख्य­प्रा­णा­त्म­द­र्श­ने­नेति — बाढमुक्तम् ; योऽनुक्तो विशेषस्तत्र, तदर्थोऽयमारम्भ इत्यदोषः । होत्रा ऋत्विजा अग्निना वाचा इत्याह याज्ञवल्क्यः । एतस्यार्थं व्याचष्टे — कः पुनर्होता येन मृत्यु­म­ति­क्रा­म­तीति उच्यते — वाग्वै यज्ञस्य यजमानस्य, ‘यज्ञो वै यजमानः’(शत. ब्राह्म. १४ । २ । २ । २४) इति श्रुतेः, यज्ञस्य यजमानस्य या वाक् सैव होता अधियज्ञे ; कथम् ? तत् तत्र येयं वाक् यज्ञस्य यजमानस्य, सोऽयं प्रसिद्धोऽग्निः अधिदैवतम् ; तदे­त­त्त्र्य­न्न­प्र­क­रणे व्याख्यातम् ; स चाग्निः होता, ‘अग्निर्वै होता’(शत. ब्रा. ४ । २ । ६) इति श्रुतेः । यदेतत् यज्ञस्य साधनद्वयम् — होता च ऋत्विक् अधियज्ञम् , अध्यात्मं च वाक् , एतदुभयं साधनद्वयं परिच्छिन्नं मृत्युना आप्तं स्वाभा­वि­का­ज्ञा­ना­स­ङ्ग­प्र­यु­क्तेन कर्मणा मृत्युना प्रति­क्ष­ण­म­न्य­था­त्व­मा­प­द्य­मानं वशीकृतम् ; तत् अने­ना­धि­दै­व­त­रू­पे­णा­ग्निना दृश्यमानं यजमानस्य यज्ञस्य मृत्यो­र­ति­मु­क्तये भवति ; तदेतदाह — स मुक्तिः स होता अग्निः मुक्तिः अग्नि­स्व­रू­प­द­र्श­न­मेव मुक्तिः ; यदैव साध­न­द्व­य­म­ग्नि­रू­पेण पश्यति, तदानीमेव हि स्वाभा­वि­का­दा­स­ङ्गा­न्मृ­त्यो­र्वि­मु­च्यते आध्या­त्मि­का­त्प­रि­च्छि­न्न­रू­पात् आधिभौतिकाच्च ; तस्मात् स होता अग्निरूपेण दृष्टः मुक्तिः मुक्तिसाधनं यजमानस्य । सा अतिमुक्तिः — यैव च मुक्तिः सा अतिमुक्तिः अति­मु­क्ति­सा­ध­न­मि­त्यर्थः । साधनद्वयस्य परिच्छिन्नस्य या अधिदैवतरूपेण अपरिच्छिन्नेन अग्निरूपेण दृष्टिः, सा मुक्तिः ; या असौ मुक्तिः अधिदैवतदृष्टिः सैव — अध्या­त्मा­धि­भू­त­प­रि­च्छे­द­वि­ष­या­ङ्गा­स्पदं मृत्युमतिक्रम्य अधिदेवतात्वस्य अग्निभावस्य प्राप्तिर्या फलभूता सा अति­मु­क्ति­रि­त्यु­च्यते ; तस्या अति­मु­क्ते­र्मु­क्ति­रेव साधनमिति कृत्वा सा अति­मु­क्ति­रि­त्याह । यजमानस्य हि अतिमुक्तिः वागा­दी­ना­म­ग्न्या­दि­भावः इत्यु­द्गी­थ­प्र­क­रणे व्याख्यातम् ; तत्र सामान्येन मुख्य­प्रा­ण­द­र्श­न­मात्रं मुक्ति­सा­ध­न­मु­क्तम् , न तद्विशेषः ; वागा­दी­ना­म­ग्न्या­दि­द­र्श­न­मिह विशेषो वर्ण्यते ; मृत्यु­प्रा­प्त्य­ति­मु­क्तिस्तु सैव फलभूता, या उद्गी­थ­ब्रा­ह्म­णेन व्याख्याता ‘मृत्यु­म­ति­क्रान्तो दीप्यते’(बृ. उ. १ । ३ । १२) , , , , , इत्याद्या ॥

याज्ञवल्क्येति होवाच यदिदं सर्व­म­हो­रा­त्रा­भ्या­माप्तं सर्व­म­हो­रा­त्रा­भ्या­म­भि­पन्नं केन यज­मा­नोऽ­हो­रा­त्र­यो­रा­प्ति­म­ति­मु­च्यत इत्य­ध्व­र्यु­ण­र्त्विजा चक्षुषादित्येन चक्षुर्वै यज्ञ­स्या­ध्व­र्यु­स्त­द्य­दिदं चक्षुः सोऽसावादित्यः सोऽध्वर्युः स मुक्तिः सातिमुक्तिः ॥ ४ ॥

याज्ञवल्क्येति होवाच । स्वाभाविकात् अज्ञा­ना­स­ङ्ग­प्र­यु­क्तात् कर्म­ल­क्ष­णा­न्मृत्योः अति­मु­क्ति­र्व्या­ख्याता ; तस्य कर्मणः सासङ्गस्य मृत्यो­रा­श्र­य­भू­तानां दर्श­पू­र्ण­मा­सा­दि­क­र्म­सा­ध­नानां यो विपरिणामहेतुः कालः, तस्मात्कालात् पृथक् अति­मु­क्ति­र्व­क्त­व्ये­ती­द­मा­र­भ्यते, क्रिया­नु­ष्ठा­न­व्य­ति­रे­के­णापि प्राक् ऊर्ध्वं च क्रियायाः साध­न­वि­प­रि­णा­म­हे­तु­त्वेन व्यापा­र­द­र्श­ना­त्का­लस्य ; तस्मात् पृथक् काला­द­ति­मु­क्ति­र्व­क्त­व्ये­त्यत आह — यदिदं सर्व­म­हो­रा­त्रा­भ्या­मा­प्तम् , स च कालो द्विरूपः — अहो­रा­त्रा­दि­ल­क्षणः तिथ्या­दि­ल­क्ष­णश्च ; तत्र अहो­रा­त्रा­दि­ल­क्ष­णा­त्ता­व­द­ति­मु­क्ति­माह — अहोरात्राभ्यां हि सर्वं जायते वर्धते विनश्यति च, तथा यज्ञसाधनं च — यज्ञस्य यजमानस्य चक्षुः अध्वर्युश्च ; शिष्टा­न्य­क्ष­राणि पूर्ववन्नेयानि ; यजमानस्य चक्षु­र­ध्व­र्युश्च साधनद्वयम् अध्या­त्मा­धि­भू­त­प­रि­च्छेदं हित्वा अधिदैवतात्मना दृष्टं यत् स मुक्तिः — सोऽध्वर्युः आदित्यभावेन दृष्टो मुक्तिः ; सैव मुक्तिरेव अतिमुक्तिरिति पूर्ववत् ; आदि­त्या­त्म­भा­व­मा­प­न्नस्य हि नाहोरात्रे सम्भवतः ॥

याज्ञवल्क्येति होवाच यदिदं सर्वं पूर्व­प­क्षा­प­र­प­क्षा­भ्या­माप्तं सर्वं पूर्व­प­क्षा­प­र­प­क्षा­भ्या­म­भि­पन्नं केन यजमानः पूर्व­प­क्षा­प­र­प­क्ष­यो­रा­प्ति­म­ति­मु­च्यत इत्यु­द्गा­त्र­र्त्विजा वायुना प्राणेन प्राणो वै यज्ञस्योद्गाता तद्योऽयं प्राणः स वायुः स उद्गाता स मुक्तिः सातिमुक्तिः ॥ ५ ॥

इदानीं तिथ्या­दि­ल­क्ष­णा­द­ति­मु­क्ति­रु­च्यते — यदिदं सर्वम् — अहो­रा­त्र­यो­र­वि­शि­ष्ट­यो­रा­दित्यः कर्ता, न प्रतिपदादीनां तिथीनाम् ; तासां तु वृद्धि­क्ष­यो­प­ग­म­नेन प्रति­प­त्प्र­भृ­तीनां चन्द्रमाः कर्ता ; अतः तदापत्त्या पूर्व­प­क्षा­प­र­प­क्षा­त्ययः, आदित्यापत्त्या अहो­रा­त्रा­त्य­य­वत् । तत्र यजमानस्य प्राणो वायुः, स एवोद्गाता — इत्यु­द्गी­थ­ब्रा­ह्म­णेऽ­व­ग­तम् , ‘वाचा च ह्येव स प्राणेन चोदगायत्’(बृ. उ. १ । ३ । २४) इति च निर्धारितम् ; अथैतस्य प्राणस्यापः शरीरं ज्योतीरूपमसौ चन्द्रः’ इति च ; प्राण­वा­यु­च­न्द्र­म­सा­मे­क­त्वात् चन्द्रमसा वायुना चोपसंहारे न कश्चिद्विशेषः — एवंमन्यमाना श्रुतिः वायुना अधि­दै­व­त­रू­पे­णो­प­सं­ह­रति । अपि च वायुनिमित्तौ हि वृद्धिक्षयौ चन्द्रमसः ; तेन तिथ्या­दि­ल­क्ष­णस्य कालस्य कर्तुरपि कारयिता वायुः । अतो वायुरूपापन्नः तिथ्या­दि­का­ला­द­तीतो भव­ती­त्यु­प­प­न्न­तरं भवति । तेन श्रुत्यन्तरे चन्द्ररूपेण दृष्टिः मुक्ति­र­ति­मु­क्तिश्च ; इह तु काण्वानां साधनद्वयस्य तत्कारणरूपेण वाय्वात्मना दृष्टिः मुक्ति­र­ति­मु­क्ति­श्चेति — न श्रुत्यो­र्वि­रोधः ॥

याज्ञवल्क्येति होवाच यदि­द­म­न्त­रि­क्ष­म­ना­र­म्ब­ण­मिव केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति ब्रह्मणर्त्विजा मनसा चन्द्रेण मनो वै यज्ञस्य ब्रह्मा तद्यदिदं मनः सोऽसौ चन्द्रः स ब्रह्मा स मुक्तिः साति­मु­क्ति­रि­त्य­ति­मोक्षा अथ सम्पदः ॥ ६ ॥

मृत्योः कालात् अति­मु­क्ति­र्व्या­ख्याता यजमानस्य । सोऽतिमुच्यमानः केनावष्टम्भेन परिच्छेदविषयं मृत्युमतीत्य फलं प्राप्नोति — अतिमुच्यते — इत्युच्यते — यदिदं प्रसिद्धम् अन्तरिक्षम् आकाशः अनारम्बणम् अनालम्बनम् इव - शब्दात् अस्त्येव तत्रालम्बनम् , तत्तु न ज्ञायते इत्यभिप्रायः । यत्तु तत् अज्ञा­य­मा­न­मा­ल­म्ब­नम् , तत् सर्वनाम्ना केनेति पृच्छ्यते, अन्यथा फल­प्रा­प्ते­र­स­म्भ­वात् ; येनावष्टम्भेन आक्रमेण यजमानः कर्मफलं प्रतिपद्यमानः अतिमुच्यते, किं तदिति प्रश्नविषयः ; केन आक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति — स्वर्गं लोकं फलं प्राप्नोति अतिमुच्यत इत्यर्थः । ब्रह्मणा ऋत्विजा मनसा चन्द्रे­णे­त्य­क्ष­र­न्यासः पूर्ववत् । तत्राध्यात्मं यज्ञस्य यजमानस्य यदिदं प्रसिद्धं मनः, सोऽसौ चन्द्रः अधिदैवम् ; मनोऽध्यात्मं चन्द्रमा अधिदैवतमिति हि प्रसिद्धम् ; स एव चन्द्रमा ब्रह्मा ऋत्विक् तेन — अधिभूतं ब्रह्मणः परिच्छिन्नं रूपम् अध्यात्मं च मनसः एतत् द्वयम् अपरिच्छिन्नेन चन्द्रमसो रूपेण पश्यति ; तेन चन्द्रमसा मनसा अवलम्बनेन कर्मफलं स्वर्गं लोकं प्राप्नोति अतिमुच्यते इत्यभिप्रायः । इती­त्यु­प­सं­हा­रार्थं वचनम् ; इत्येवं प्रकारा मृत्यो­र­ति­मोक्षाः ; सर्वाणि हि दर्शनप्रकाराणि यज्ञा­ङ्ग­वि­ष­या­ण्य­स्मि­न्न­व­सरे उक्तानीति कृत्वा उपसंहारः — इत्यतिमोक्षाः — एवं प्रकारा अतिमोक्षा इत्यर्थः । अथ सम्पदः अथ अधुना सम्पद उच्यन्ते । सम्पन्नाम केन­चि­त्सा­मा­न्येन अग्नि­हो­त्रा­दीनां कर्मणां फलवतां तत्फलाय सम्पादनम् , सम्पत्फलस्यैव वा ; सर्वोत्साहेन फलसाधनानुष्ठाने प्रयतमानानां केन­चि­द्वै­गु­ण्ये­ना­स­म्भवः ; तत् इदा­नी­मा­हि­ताग्निः सन् यत्किञ्चित्कर्म अग्नि­हो­त्रा­दीनां यथासम्भवमादाय आलम्बनीकृत्य कर्म­फ­ल­वि­द्व­त्तायां सत्यां यत्कर्मफलकामो भवति, तदेव सम्पादयति ; अन्यथा राज­सू­या­श्व­मे­ध­पु­रु­ष­मे­ध­स­र्व­मे­ध­ल­क्ष­णा­ना­म­धि­कृ­तानां त्रैव­र्णि­का­ना­मपि असम्भवः — तेषां तत्पाठः स्वाध्यायार्थ एव केवलः स्यात् , यदि तत्फ­ल­प्रा­प्त्यु­पायः कश्चन न स्यात् ; तस्मात् तेषां सम्पदैव तत्फलप्राप्तिः, तस्मा­त्स­म्प­दा­मपि फलवत्त्वम् , अतः सम्पदं आरभ्यन्ते ॥

याज्ञवल्क्येति होवाच कति­भि­र­य­म­द्य­र्ग्भि­र्हो­ता­स्मि­न्यज्ञे करिष्यतीति तिसृभिरिति कतमास्तास्तिस्र इति पुरोनुवाक्या च याज्या च शस्यैव तृतीया किं ताभिर्जयतीति यत्किञ्चेदं प्राणभृदिति ॥ ७ ॥

याज्ञवल्क्येति होवाच अभिमुखीकरणाय । कति­भि­र­य­म­द्य­र्ग्भि­र्हो­ता­स्मि­न्यज्ञे — कतिभिः कतिसङ्ख्याभिः ऋग्भिः ऋग्जातिभिः, अयं होता ऋत्विक् , अस्मिन्यज्ञे करिष्यति शस्त्रं शंसति ; आह इतरः — तिसृभिः ऋग्जातिभिः — इति — उक्तवन्तं प्रत्याह इतरः — कतमास्तास्तिस्र इति ; सङ्ख्ये­य­वि­ष­योऽयं प्रश्नः, पूर्वस्तु सङ्ख्याविषयः । पुरोनुवाक्या च — प्राग्यागकालात् याः प्रयुज्यन्ते ऋचः, सा ऋग्जातिः पुरो­नु­वा­क्ये­त्यु­च्यते ; यागार्थं याः प्रयुज्यन्ते ऋचः सा ऋग्जातिः याज्या ; शस्त्रार्थं याः प्रयुज्यन्ते ऋचः सा ऋग्जातिः शस्या ; सर्वास्तु याः काश्चन ऋचः, ताः स्तोत्रिया वा अन्या वा सर्वा एतास्वेव तिसृषु ऋग्जा­ति­ष्व­न्त­र्भ­वन्ति । किं ताभिर्जयतीति यत्किञ्चेदं प्राणभृदिति — अतश्च सङ्ख्या­सा­मा­न्यात् यत्कि­ञ्चि­त्प्रा­ण­भृ­ज्जा­तम् , तत्सर्वं जयति तत्सर्वं फलजातं सम्पादयति सङ्ख्या­दि­सा­मा­न्येन ॥

याज्ञवल्क्येति होवाच कत्य­य­म­द्या­ध्व­र्यु­र­स्मि­न्यज्ञ आहु­ती­र्हो­ष्य­तीति तिस्र इति कतमास्तास्तिस्र इति या हुता उज्ज्वलन्ति या हुता अतिनेदन्ते या हुता अधिशेरते किं ताभिर्जयतीति या हुता उज्ज्वलन्ति देवलोकमेव ताभिर्जयति दीप्यत इव हि देवलोको या हुता अतिनेदन्ते पितृलोकमेव ताभिर्जयत्यतीव हि पितृलोको या हुता अधिशेरते मनुष्यलोकमेव ताभिर्जयत्यध इव हि मनुष्यलोकः ॥ ८ ॥

याज्ञवल्क्येति होवाचेति पूर्ववत् । कत्य­य­म­द्या­ध्व­र्यु­र­स्मि­न्यज्ञ आहु­ती­र्हो­ष्य­तीति — कति आहुतिप्रकाराः ? तिस्र इति ; कतमास्तास्तिस्र इति पूर्ववत् । इतर आह — या हुता उज्ज्वलन्ति समिदाज्याहुतयः, या हुता अतिनेदन्ते अतीव शब्दं कुर्वन्ति मांसाद्याहुतयः, या हुता अधिशेरते अधि अधो गत्वा भूमेः अधिशेरते पयःसोमाहुतयः । किं ताभिर्जयतीति ; ताभिरेवं निर्व­र्ति­ता­भि­रा­हु­तिभिः किं जयतीति ; या आहुतयो हुता उज्ज्वलन्ति उज्ज्वलनयुक्ता आहुतयो निर्वर्तिताः — फलं च देवलोकाख्यं उज्ज्वलमेव ; तेन सामान्येन या मयैता उज्ज्वलन्त्य आहुतयो निर्व­र्त्य­मानाः, ता एताः — साक्षा­द्दे­व­लो­कस्य कर्मफलस्य रूपं देवलोकाख्यं फलमेव मया निर्वर्त्यते — इत्येवं सम्पादयति । या हुता अतिनेदन्ते आहुतयः, पितृलोकमेव ताभिर्जयति, कुत्सि­त­श­ब्द­क­र्तृ­त्व­सा­मा­न्येन ; पितृ­लो­क­स­म्ब­द्धायां हि संयमिन्यां पुर्यां वैवस्वतेन यात्यमानानां ‘हा हताः स्म, मुञ्च मुञ्च’ इति शब्दो भवति ; तथा अवदानाहुतयः ; तेन पितृ­लो­क­सा­मा­न्यात् , पितृलोक एव मया निर्वर्त्यते - इति सम्पादयति । या हुता अधिशेरते, मनुष्यलोकमेव ताभिर्जयति, भूम्यु­प­रि­स­म्ब­न्ध­सा­मा­न्यात् ; अध इव हि अध एव हि मनुष्यलोक उपरितनान् साध्यान् लोकानपेक्ष्य, अथवा अधोगमनमपेक्ष्य ; अतः मनुष्यलोक एव मया निर्वर्त्यते — इति सम्पादयति पयः­सो­मा­हु­ति­नि­र्व­र्त­न­काले ॥

याज्ञवल्क्येति होवाच कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देव­ता­भि­र्गो­पा­य­ती­त्ये­क­येति कतमा सैकेति मम एवेत्यनन्तं वै मनोऽनन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति ॥ ९ ॥

याज्ञवल्क्येति होवाचेति पूर्ववत् । अयम् ऋत्विक् ब्रह्मा दक्षिणतो ब्रह्मा आसने स्थित्वा यज्ञं गोपायति । कति­भि­र्दे­व­ता­भि­र्गो­पा­य­तीति प्रास­ङ्गि­क­मे­त­द्ब­हु­व­च­नम् — एकया हि देवतया गोपायत्यसौ ; एवं ज्ञाते बहुवचनेन प्रश्नो नोपपद्यते स्वयं जानतः ; तस्मात् पूर्वयोः कण्डिकयोः प्रश्न­प्र­ति­व­च­नेषु — कतिभिः कति तिसृभिः तिस्रः — इति प्रसङ्गं दृष्ट्वा इहापि बहुवचनेनैव प्रश्नोपक्रमः क्रियते ; अथवा प्रति­वा­दि­व्या­मो­हार्थं बहुवचनम् । इतर आह — एकयेति ; एका सा देवता, यया दक्षिणतः स्थित्वा ब्रह्म आसने यज्ञं गोपायति । कतमा सैकेति — मन एवेति, मनः सा देवता ; मनसा हि ब्रह्मा व्याप्रियते ध्यानेनैव, ‘तस्य यज्ञस्य मनश्च वाक्च वर्तनी तयोरन्यतरां मनसा संस्करोति ब्रह्मा’(छा. उ. ४ । १६ । १) , इति श्रुत्यन्तरात् ; तेन मन एव देवता, तया मनसा हि गोपायति ब्रह्मा यज्ञम् । तच्च मनः वृत्ति­भे­दे­ना­न­न्तम् ; वै - शब्दः प्रसि­द्धा­व­द्यो­त­नार्थः ; प्रसिद्धं मनस आनन्त्यम् ; तदा­न­न्त्या­भि­मा­निनो देवाः ; अनन्ता वै विश्वे देवाः — ‘सर्वे देवा यत्रैकं भवन्ति’ इत्या­दि­श्रु­त्य­न्त­रात् ; तेन आन­न्त्य­सा­मा­न्यात् अनन्तमेव स तेन लोकं जयति ॥

याज्ञवल्क्येति होवाच कत्य­य­म­द्यो­द्गा­ता­स्मि­न्यज्ञे स्तोत्रियाः स्तोष्यतीति तिस्र इति कतमास्तास्तिस्र इति पुरोनुवाक्या च याज्या च शस्यैव तृतीया कतमास्ता या अध्यात्ममिति प्राण एव पुरो­नु­वा­क्या­पानो याज्या व्यानः शस्या किं ताभिर्जयतीति पृथिवीलोकमेव पुरोनुवाक्यया जय­त्य­न्त­रि­क्ष­लोकं याज्यया द्युलोकं शस्यया ततो ह होताश्वल उपरराम ॥ १० ॥

१०

याज्ञवल्क्येति होवाचेति पूर्ववत् । कति स्तोत्रियाः स्तोष्यतीति अयमुद्गाता । स्तोत्रिया नाम ऋक् सामसमुदायः कतिपयानामृचाम् । स्तोत्रिया वा शस्या वा याः काश्चन ऋचः, ताः सर्वास्तिस्र एवेत्याह ; ताश्च व्याख्याताः — पुरोनुवाक्या च याज्या च शस्यैव तृतीयेति । तत्र पूर्वमुक्तम् — यत्किञ्चेदं प्राणभृत्सर्वं यजतीति तत् केन सामान्येनेति ; उच्यते — कतमास्तास्तिस्र ऋचः या अध्यात्मं भवन्तीति ; प्राण एव पुरोनुवाक्या, प - शब्दसामान्यात् ; अपानो याज्या, आनन्तर्यात् — अपानेन हि प्रत्तं हविः देवता ग्रसन्ति, यागश्च प्रदानम् ; व्यानः शस्या — ‘अप्रा­ण­न्न­न­पा­न­न्नृ­च­म­भि­व्या­ह­रति’(छा. उ. १ । ३ । ४) इति श्रुत्यन्तरात् । किं ताभिर्जयतीति व्याख्यातम् । तत्र विशे­ष­स­म्ब­न्ध­सा­मा­न्य­म­नु­क्त­मि­हो­च्यते, सर्व­म­न्य­द्व्या­ख्या­तम् ; लोक­स­म्ब­न्ध­सा­मा­न्येन पृथिवीलोकमेव पुरोनुवाक्यया जयति ; अन्तरिक्षलोकं याज्यया, मध्य­म­त्व­सा­मा­न्यात् ; द्युलोकं शस्यया ऊर्ध्व­त्व­सा­मा­न्यात् । ततो ह तस्मात् आत्मनः प्रश्ननिर्णयात् असौ होता अश्वल उपरराम — नायम् अस्मद्गोचर इति ॥

इति तृतीयाध्यायस्य प्रथमं ब्राह्मणम् ॥

द्वितीयं ब्राह्मणम्

आख्या­यि­का­स­म्बन्धः प्रसिद्ध एव । मृत्यो­र­ति­मु­क्ति­र्व्या­ख्याता काललक्षणात् कर्मलक्षणाच्च ; कः पुनरसौ मृत्युः, यस्मात् अति­मु­क्ति­र्व्या­ख्याता ? स च स्वाभा­वि­का­ज्ञा­न­स­ङ्गा­स्पदः अध्या­त्मा­धि­भू­त­वि­ष­य­प­रि­च्छिन्नः ग्रहा­ति­ग्र­ह­ल­क्षणो मृत्युः । तस्मा­त्प­रि­च्छि­न्न­रू­पा­न्मृ­त्यो­र­ति­मु­क्तस्य रूपाणि अग्न्या­दि­त्या­दीनि उद्गीथप्रकरणे व्याख्यातानि ; अश्वलप्रश्ने च तद्गतो विशेषः कश्चित् ; तच्च एतत् कर्मणां ज्ञानसहितानां फलम् । एत­स्मा­त्सा­ध्य­सा­ध­न­रू­पा­त्सं­सा­रा­न्मोक्षः कर्तव्य इत्यतः बन्धनरूपस्य मृत्योः स्वरूपमुच्यते ; बद्धस्य हि मोक्षः कर्तव्यः । यदपि अतिमुक्तस्य स्वरूपमुक्तम् , तत्रापि ग्रहा­ति­ग्र­हा­भ्या­म­वि­नि­र्मुक्त एव मृत्यु­रू­पा­भ्याम् ; तथा चोक्तम् — ‘अशनाया हि मृत्युः’(बृ. उ. १ । २ । १) ; ‘एष एव मृत्युः’(श. ब्रा. १० । ५ । २ । ३) इति आदित्यस्थं पुरुषमङ्गीकृत्य आह, ‘एको मृत्युर्बहवा’(श. ब्रा. १० । ५ । २ । १६) इति च ; तदात्मभावापन्नो हि मृत्यो­रा­प्ति­म­ति­मु­च्यत इत्युच्यते ; न च तत्र ग्रहातिग्रहौ मृत्युरूपौ न स्तः ; ‘अथैतस्य मनसो द्यौः शरीरं ज्योती­रू­प­म­सा­वा­दित्यः’(बृ. उ. १ । ५ । १२) ‘मनश्च ग्रहः स कामेनातिग्राहेण गृहीतः’(बृ. उ. ३ । २ । ७) इति वक्ष्यति — ‘प्राणो वै ग्रहः सोऽपा­ने­ना­ति­ग्रा­हेण’(बृ. उ. ३ । २ । २) इति, ‘वाग्वै ग्रहः स नाम्ना­ति­ग्रा­हेण’(बृ. उ. ३ । २ । ३) इति च । तथा त्र्यन्नविभागे व्याख्या­त­म­स्माभिः । सुविचारितं चैतत् — यदेव प्रवृत्तिकारणम् , तदेव निवृत्तिकारणं न भवतीति ॥

केचित्तु सर्वमेव निवृत्तिकारणं मन्यन्ते ; अतः कारणात् — पूर्व­स्मा­त्पू­र्व­स्मात् मृत्योर्मुच्यते उत्तरमुत्तरं प्रतिपद्यमानः — व्यावृ­त्त्य­र्थ­मेव प्रतिपद्यते, न तु तादर्थ्यम् — इत्यतः आद्वैतक्षयात् सर्वं मृत्युः, द्वैतक्षये तु परमार्थतो मृत्यो­रा­प्ति­म­ति­मु­च्यते ; अतश्च आपेक्षिकी गौणी मुक्तिरन्तराले । सर्वमेतत् एवम् अबार्हदारण्यकम् । ननु सर्वैकत्वं मोक्षः, ‘तस्मा­त्त­त्स­र्व­म­भ­वत्’(बृ. उ. १ । ४ । १०) इति श्रुतेः — बाढं भवत्येतदपि ; न तु ‘ग्रामकामो यजेत’(तै. आ. १२ । १० । ४) ‘पशुकामो यजेत’(तै. आ. १६ । १२ । ८) इत्या­दि­श्रु­तीनां तादर्थ्यम् ; यदि हि अद्वै­ता­र्थ­त्व­मेव आसाम् , ग्राम­प­शु­स्व­र्गा­द्य­र्थत्वं नास्तीति ग्राम­प­शु­स्व­र्गा­दयो न गृह्येरन् ; गृह्यन्ते तु कर्म­फ­ल­वै­चि­त्र्य­वि­शेषाः ; यदि च वैदिकानां कर्मणां तादर्थ्यमेव, संसार एव नाभविष्यत् । अथ तादर्थ्येऽपि अनु­नि­ष्पा­दि­त­प­दा­र्थ­स्व­भावः संसार इति चेत् , यथा च रूपदर्शनार्थ आलोके सर्वोऽपि तत्रस्थः प्रकाश्यत एव — न, प्रमा­णा­नु­प­पत्तेः ; अद्वैतार्थत्वे वैदिकानां कर्मणां विद्यासहितानाम् , अन्य­स्या­नु­नि­ष्पा­दि­तत्वे प्रमा­णा­नु­प­पत्तिः — न प्रत्यक्षम् , नानुमानम् , अत एव च न आगमः । उभयम् एकेन वाक्येन प्रदर्श्यत इति चेत् , कुल्या­प्र­ण­य­ना­लो­का­दि­वत् — तन्नैवम् , वाक्य­ध­र्मा­नु­प­पत्तेः ; न च एक­वा­क्य­ग­त­स्या­र्थस्य प्रवृ­त्ति­नि­वृ­त्ति­सा­ध­न­त्व­म­व­गन्तुं शक्यते ; कुल्या­प्र­ण­य­ना­लो­कादौ अर्थस्य प्रत्य­क्ष­त्वा­द­दोषः । यदप्युच्यते — मन्त्रा अस्मिन्नर्थे दृष्टा इति — अयमेव तु तावदर्थः प्रमाणागम्यः ; मन्त्राः पुनः किमस्मिन्नर्थे आहो­स्वि­द­न्य­स्मि­न्नर्थे इति मृग्यमेतत् । तस्मा­द्ग्र­हा­ति­ग्र­ह­ल­क्षणो मृत्युः बन्धः, तस्मात् मोक्षो वक्तव्य इत्यत इदमारभ्यते । न च जानीमो विषयसम्बन्धाविव अन्त­रा­लेऽ­व­स्था­नम् अर्धजरतीयं कौशलम् । यत्तु मृत्यो­र­ति­मु­च्यते इत्युक्त्वा ग्रहा­ति­ग्र­हा­वु­च्येते, तत्तु अर्थसम्बन्धात् ; सर्वोऽयं साध्यसाधनलक्षणो बन्धः, ग्रहा­ति­ग्र­हा­वि­नि­र्मो­कात् ; निगडे हि निर्ज्ञाते निगडितस्य मोक्षाय यत्नः कर्तव्यो भवति । तस्मात् तादर्थ्येन आरम्भः ॥

अथ हैनं जारत्कारव आर्तभागः पप्रच्छ याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इति । अष्टौ ग्रहा अष्टावतिग्रहा इति ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति ॥ १ ॥

अथ हैनम् — ह - शब्द ऐतिह्यार्थः ; अथ अनन्तरम् अश्वले उपरते प्रकृतं याज्ञवल्क्यं जरत्कारुगोत्रो जारत्कारवः ऋतभागस्यापत्यम् आर्तभागः पप्रच्छ ; याज्ञवल्क्येति होवाचेति अभिमुखीकरणाय ; पूर्ववत्प्रश्नः — कति ग्रहाः कत्यतिग्रहा इति । इति - शब्दो वाक्य­प­रि­स­मा­प्त्यर्थः । तत्र निर्ज्ञातेषु वा ग्रहातिग्रहेषु प्रश्नः स्यात् , अनिर्ज्ञातेषु वा ; यदि तावत् ग्रहा अतिग्रहाश्च निर्ज्ञाताः, तदा तद्गतस्यापि गुणस्य सङ्ख्याया निर्ज्ञातत्वात् कति ग्रहाः कत्यतिग्रहा इति सङ्ख्याविषयः प्रश्नो नोपपद्यते ; अथ अनिर्ज्ञाताः तदा सङ्ख्ये­य­वि­ष­य­प्रश्न इति के ग्रहाः केऽतिग्रहा इति प्रष्टव्यम् , न तु कति ग्रहाः कत्यतिग्रहा इति प्रश्नः ; अपि च निर्ज्ञा­त­सा­मा­न्य­केषु विशेषविज्ञानाय प्रश्नो भवति — यथा कतमेऽत्र कठाः कतमेऽत्र कालापा इति ; न चात्र ग्रहातिग्रहा नाम पदार्थाः केचन लोके प्रसिद्धाः, येन विशेषार्थः प्रश्नः स्यात् ; ननु च ‘अतिमुच्यते’(बृ. उ. ३ । १ । ३) , , इत्युक्तम् , ग्रहगृहीतस्य हि मोक्षः, ‘स मुक्तिः सातिमुक्तिः’(बृ. उ. ३ । १ । ३)‘स मुक्तिः सातिमुक्तिः’(बृ. उ. ३ । १ । ३) , , , इति हि द्विरुक्तम् , तस्मात्प्राप्ता ग्रहा अतिग्रहाश्च — ननु तत्रापि चत्वारो ग्रहा अतिग्रहाश्च निर्ज्ञाताः वाक्च­क्षुः­प्रा­ण­म­नांसि, तत्र कतीति प्रश्नो नोपपद्यते निर्ज्ञातत्वात् — न, अन­व­धा­र­णा­र्थ­त्वात् ; न हि चतुष्ट्वं तत्र विवक्षितम् ; इह तु ग्रहा­ति­ग्र­ह­द­र्शने अष्ट­त्व­गु­ण­वि­व­क्षया कतीति प्रश्न उपपद्यत एव ; तस्मात् ‘स मुक्तिः सातिमुक्तिः’ , , , इति मुक्त्यतिमुक्ती द्विरुक्ते ; ग्रहातिग्रहा अपि सिद्धाः । अतः कतिसङ्ख्याका ग्रहाः, कति वा अतिग्रहाः इति पृच्छति । इतर आह — अष्टौ ग्रहा अष्टावतिग्रहा इति । ये ते अष्टौ ग्रहा अभिहिताः, कतमे ते नियमेन ग्रहीतव्या इति ॥

प्राणो वै ग्रहः सोऽपा­ने­ना­ति­ग्रा­हेण गृहीतोऽपानेन हि गन्धाञ्जिघ्रति ॥ २ ॥

तत्र आह — प्राणो वै ग्रहः — प्राण इति घ्राणमुच्यते, प्रकरणात् ; वायुसहितः सः ; अपानेनेति गन्धेनेत्येतत् ; अपानसचिवत्वात् अपानो गन्ध उच्यते ; अपानोपहृतं हि गन्धं घ्राणेन सर्वो लोको जिघ्रति ; तदेतदुच्यते — अपानेन हि गन्धा­ञ्जि­घ्र­तीति ॥

वाग्वै ग्रहः स नाम्नातिग्राहेण गृहीतो वाचा हि नामान्यभिवदति ॥ ३ ॥

जिह्वा वै ग्रहः स रसेनातिग्राहेण गृहीतो जिह्वया हि रसान्विजानाति ॥ ४ ॥

चक्षुर्वै ग्रहः स रूपेणातिग्राहेण गृहीतश्चक्षुषा हि रूपाणि पश्यति ॥ ५ ॥

श्रोत्रं वै ग्रहः स शब्दे­ना­ति­ग्रा­हेण गृहीतः श्रोत्रेण हि शब्दाञ्शृणोति ॥ ६ ॥

मनो वै ग्रहः स कामेनातिग्राहेण गृहीतो मनसा हि कामान्कामयते ॥ ७ ॥

हस्तौ वै ग्रहः स कर्मणातिग्राहेण गृहीतो हस्ताभ्यां हि कर्म करोति ॥ ८ ॥

त्वग्वै ग्रहः स स्पर्शे­ना­ति­ग्रा­हेण गृहीतस्त्वचा हि स्पर्शान्वेदयत इत्येतेऽष्टौ ग्रहा अष्टावतिग्रहाः ॥ ९ ॥

वाग्वै ग्रहः — वाचा हि अध्या­त्म­प­रि­च्छि­न्नया आस­ङ्ग­वि­ष­या­स्प­दया अस­त्या­नृ­ता­स­भ्य­बी­भ­त्सा­दि­व­च­नेषु व्यापृतया गृहीतो लोकः अपहृतः, तेन वाक् ग्रहः ; स नाम्नातिग्राहेण गृहीतः — सः वागाख्यो ग्रहः, नाम्ना वक्तव्येन विषयेण, अतिग्राहेण । अतिग्राहेणेति दैर्घ्यं छान्दसम् ; वक्तव्यार्था हि वाक् ; तेन वक्तव्येनार्थेन तादर्थ्येन प्रयुक्ता वाक् तेन वशीकृता ; तेन तत्कार्यमकृत्वा नैव तस्या मोक्षः ; अतः नाम्नातिग्राहेण गृहीता वागित्युच्यते ; वक्तव्यासङ्गेन प्रवृत्ता सर्वा­न­र्थै­र्यु­ज्यते । समानमन्यत् । इत्येते त्वक्पर्यन्ता अष्टौ ग्रहाः स्पर्श­प­र्य­न्ता­श्चैते अष्टावतिग्रहा इति ॥

याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्योरन्नं का स्वित्सा देवता यस्या मृत्यु­र­न्न­मि­त्य­ग्निर्वै मृत्युः सोऽपामन्नमप पुनर्मृत्युं जयति ॥ १० ॥

१०

उपसंहृतेषु ग्रहा­ति­ग्र­हे­ष्वाह पुनः — याज्ञवल्क्येति होवाच । यदिदं सर्वं मृत्योरन्नम् — यदिदं व्याकृतं सर्वं मृत्योरन्नम् , सर्वं जायते विपद्येत च ग्रहा­ति­ग्र­ह­ल­क्ष­णेन मृत्युना ग्रस्तम् — का स्वित् का नु स्यात् सा देवता, यस्या देवताया मृत्युरप्यन्नं भवेत् — ‘मृत्यु­र्य­स्यो­प­से­च­नम्’(क. उ. १ । २ । २५) इति श्रुत्यन्तरात् । अयमभिप्रायः प्रष्टुः — यदि मृत्योर्मृत्युं वक्ष्यति, अनवस्था स्यात् ; अथ न वक्ष्यति, अस्मा­द्ग्र­हा­ति­ग्र­ह­ल­क्ष­णा­न्मृत्योः मोक्षः नोपपद्यते ; ग्रहा­ति­ग्र­ह­मृ­त्यु­वि­नाशे हि मोक्षः स्यात् ; स यदि मृत्योरपि मृत्युः स्यात् भवेत् ग्रहा­ति­ग्र­ह­ल­क्ष­णस्य मृत्योर्विनाशः — अतः दुर्वचनं प्रश्नं मन्वानः पृच्छति ‘का स्वित्सा देवता’ इति । अस्ति ताव­न्मृ­त्यो­र्मृत्युः ; ननु अनवस्था स्यात् — तस्याप्यन्यो मृत्युरिति — नानवस्था, सर्वमृत्योः मृत्य्व­न्त­रा­नु­प­पत्तेः ; कथं पुनरवगम्यते — अस्ति मृत्यो­र्मृ­त्यु­रिति ? दृष्टत्वात् ; अग्निस्तावत् सर्वस्य दृष्टो मृत्युः, विनाशकत्वात् , सोऽद्भि­र्भ­क्ष्यते, सोऽग्निः अपामन्नम् , गृहाण तर्हि अस्ति मृत्यो­र्मृ­त्यु­रिति ; तेन सर्वं ग्रहातिग्रहजातं भक्ष्यते मृत्यो­र्मृ­त्युना ; तस्मिन्बन्धने नाशिते मृत्युना भक्षिते संसारान्मोक्ष उपपन्नो भवति ; बन्धनं हि ग्रहा­ति­ग्र­ह­ल­क्ष­ण­मु­क्तम् ; तस्माच्च मोक्ष उपपद्यत इत्ये­त­त्प्र­सा­धि­तम् । अतः बन्धमोक्षाय पुरुषप्रयासः सफलो भवति ; अतोऽपजयति पुनर्मृत्युम् ॥

याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो३ नेति नेति होवाच याज्ञ­व­ल्क्योऽ­त्रैव समवनीयन्ते स उच्छ्व­य­त्या­ध्मा­य­त्या­ध्मातो मृतः शेते ॥ ११ ॥

११

परेण मृत्युना मृत्यौ भक्षिते परमात्मदर्शनेन योऽसौ मुक्तः विद्वान् , सोऽयं पुरुषः यत्र यस्मिन्काले म्रियते, उत् ऊर्ध्वम् , अस्मात् ब्रह्मविदो म्रियमाणात् , प्राणाः - वागादयो ग्रहाः नामा­द­य­श्चा­ति­ग्रहा वासनारूपा अन्तस्थाः प्रयोजकाः — क्राम­न्त्यू­र्ध्वम् उत्क्रामन्ति, आहोस्विन्नेति । नेति होवाच याज्ञवल्क्यः — नोत्क्रामन्ति ; अत्रैव अस्मिन्नेव परेणात्मना अविभागं गच्छन्ति विदुषि कार्याणि करणानि च स्वयोनौ पर­ब्र­ह्म­स­तत्त्वे समवनीयन्ते, एकीभावेन समवसृज्यन्ते, प्रलीयन्त इत्यर्थः — ऊर्मय इव समुद्रे । तथा च श्रुत्यन्तरं कला­श­ब्द­वा­च्यानां प्राणानां परस्मिन्नात्मनि प्रलयं दर्शयति — ‘एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति’(प्र . उ. ६ । ५) इति — परेणात्मना अविभागं गच्छन्तीति दर्शितम् । न तर्हि मृतः — न हि ; मृतश्च अयम् — यस्मात् स उच्छ्वयति उच्छूनतां प्रतिपद्यते, आध्मायति बाह्येन वायुना पूर्यते, दृतिवत् , आध्मातः मृतः शेते निश्चेष्टः ; बन्धननाशे मुक्तस्य न क्वचिद्गमनमिति वाक्यार्थः ॥

याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते किमेनं न जहातीति नामेत्यनन्तं वै नामानन्ता विश्वे देवा अनन्तमेव सतेन लोकं जयति ॥ १२ ॥

१२

मुक्तस्य किं प्राणा एव समवनीयन्ते ? आहोस्वित् तत्प्रयोजकमपि सर्वम् ? अथ प्राणा एव, न तत्प्रयोजकं सर्वम् , प्रयोजके विद्यमाने पुनः प्राणानां प्रसङ्गः ; अथ सर्वमेव कामकर्मादि, ततो मोक्ष उपपद्यते — इत्येवमर्थः उत्तरः प्रश्नः । याज्ञवल्क्येति होवाच — यत्रायं पुरुषो म्रियते किमेनं न जहातीति ; आह इतरः — नामेति ; सर्वं समवनीयते इत्यर्थः ; नाममात्रं तु न लीयते, आकृतिसम्बन्धात् ; नित्यं हि नाम ; अनन्तं वै नाम ; नित्यत्वमेव आनन्त्यं नाम्नः । तदा­न­न्त्या­धि­कृताः अनन्ता वै विश्वे देवाः ; अनन्तमेव स तेन लोकं जयति — तन्ना­मा­न­न्त्या­धि­कृ­तान् विश्वान्देवान् आत्मत्वेनोपेत्य तेन आनन्त्यदर्शनेन अनन्तमेव लोकं जयति ॥

याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राण­श्च­क्षु­रा­दित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरी­र­मा­का­श­मा­त्मौ­ष­धी­र्लो­मानि वनस्पतीन्केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीत्याहर सोम्य हस्त­मा­र्त­भा­गा­वा­मे­वै­तस्य वेदिष्यावो न नावेतत्सजन इति । तौ होत्क्रम्य मन्त्र­या­ञ्च­क्राते तौ ह यदूचतुः कर्म हैव तदूचतुरथ यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति ततो ह जारत्कारव आर्तभाग उपरराम ॥ १३ ॥

१३

ग्रहातिग्रहरूपं बन्धनमुक्तं मृत्युरूपम् ; तस्य च मृत्योः मृत्यु­स­द्भा­वा­न्मो­क्ष­श्चो­प­प­द्यते ; स च मोक्षः ग्रहा­ति­ग्र­ह­रू­पा­णा­मि­हैव प्रलयः, प्रदी­प­नि­र्वा­ण­वत् ; यत्तत् ग्रहा­ति­ग्र­हाख्यं बन्धनं मृत्युरूपम् , तस्य यत्प्रयोजकं तत्स्व­रू­प­नि­र्धा­र­णा­र्थ­मि­द­मा­र­भ्यते — याज्ञवल्क्येति होवाच ॥

अत्र केचिद्वर्णयन्ति — ग्रहातिग्रहस्य सप्रयोजकस्य विनाशेऽपि किल न मुच्यते ; नामावशिष्टः अविद्यया ऊषरस्थानीयया स्वात्मप्रभवया परमात्मनः परिच्छिन्नः भोज्याच्च जगतो व्यावृत्तः उच्छि­न्न­का­म­कर्मा अन्तराले व्यवतिष्ठते ; तस्य पर­मा­त्मै­क­त्व­द­र्श­नेन द्वैत­द­र्श­न­म­प­ने­त­व्य­मिति — अतः परं पर­मा­त्म­द­र्श­न­मा­र­ब्ध­व्यम् — इति ; एवम् अप­व­र्गा­ख्या­म­न्त­रा­ला­वस्थां परिकल्प्य उत्त­र­ग्र­न्थ­स­म्बन्धं कुर्वन्ति ॥

तत्र वक्तव्यम् — विशीर्णेषु करणेषु विदेहस्य पर­मा­त्म­द­र्श­न­श्र­व­ण­म­न­न­नि­दि­ध्य­स­नानि कथमिति ; समवनीतप्राणस्य हि नाम­मा­त्रा­व­शि­ष्ट­स्येति तैरुच्यते ; ‘मृतः शेते’(बृ. उ. ३ । २ । ११) इति ह्युक्तम् ; न मनो­र­थे­ना­प्ये­त­दु­प­पा­द­यितुं शक्यते । अथ जीवन्नेव अवि­द्या­मा­त्रा­व­शिष्टो भोज्यादपावृत्त इति परिकल्प्यते, तत्तु किं निमित्तमिति वक्तव्यम् ; सम­स्त­द्वै­तै­क­त्वा­त्म­प्रा­प्ति­नि­मि­त्त­मिति यद्युच्येत, तत् पूर्वमेव निराकृतम् ; कर्मसहितेन द्वैतै­क­त्वा­त्म­द­र्श­नेन सम्पन्नो विद्वान् मृतः समवनीतप्राणः जगदात्मत्वं हिर­ण्य­ग­र्भ­स्व­रूपं वा प्राप्नुयात् , असमवनीतप्राणः भोज्यात् जीवन्नेव वा व्यावृत्तः विरक्तः पर­मा­त्म­द­र्श­ना­भि­मुखः स्यात् । न च उभयम् एक­प्र­य­त्न­नि­ष्पा­द्येन साधनेन लभ्यम् ; हिर­ण्य­ग­र्भ­प्रा­प्ति­सा­धनं चेत् , न ततो व्यावृ­त्ति­सा­ध­नम् ; पर­मा­त्मा­भि­मु­खी­क­र­णस्य भोज्या­द्व्या­वृत्तेः साधनं चेत् , न हिर­ण्य­ग­र्भ­प्रा­प्ति­सा­ध­नम् ; न हि यत् गतिसाधनम् , तत् गतिनिवृत्तेरपि । अथ मृत्वा हिरण्यगर्भं प्राप्य ततः समवनीतप्राणः नामावशिष्टः पर­मा­त्म­ज्ञा­नेऽ­धि­क्रि­यते, ततः अस्मदाद्यर्थं पर­मा­त्म­ज्ञा­नो­प­देशः अनर्थकः स्यात् ; सर्वेषां हि ब्रह्मविद्या पुरु­षा­र्था­यो­प­दि­श्यते — ‘तद्यो यो देवानाम्’(बृ. उ. १ । ४ । १०) इत्याद्यया श्रुत्या । तस्मात् अत्यन्तनिकृष्टा शास्त्रबाह्यैव इयं कल्पना । प्रकृतं तु वर्तयिष्यामः ॥

तत्र केन प्रयुक्तं ग्रहा­ति­ग्र­ह­ल­क्षणं बन्ध­न­मि­त्ये­त­न्नि­र्दि­धा­र­यि­षया आह — यत्रास्य पुरुषस्य असम्यग्दर्शिनः शिरःपाण्यादिमतो मृतस्य — वाक् अग्निमप्येति, वातं प्राणोऽप्येति, चक्षु­रा­दि­त्य­म­प्येति — इति सर्वत्र सम्बध्यते ; मनः चन्द्रम् , दिशः श्रोत्रम् , पृथिवीं शरीरम् , आका­श­मा­त्मे­त्यत्र आत्मा अधिष्ठानं हृदयाकाशमुच्यते ; स आकाशमप्येति ; ओषधीरपियन्ति लोमानि ; वनस्पतीनपियन्ति केशाः ; अप्सु लोहितं च रेतश्च — निधीयते इति — पुनरादानलिङ्गम् ; सर्वत्र हि वागादिशब्देन देवताः परिगृह्यन्ते ; न तु कर­णा­न्ये­वा­प­क्रा­मन्ति प्राङ्मोक्षात् ; तत्र देव­ता­भि­र­न­धि­ष्ठि­तानि करणानि न्यस्त­दा­त्रा­द्यु­प­मा­नानि, विदेहश्च कर्ता पुरुषः अस्वतन्त्रः किमाश्रितो भवतीति पृच्छ्यते — क्वायं तदा पुरुषो भवतीति — किमाश्रितः तदा पुरुषो भवतीति ; यम् आश्रयमाश्रित्य पुनः कार्य­क­र­ण­स­ङ्घा­त­मु­पा­दत्ते, येन ग्रहा­ति­ग्र­ह­ल­क्षणं बन्धनं प्रयुज्यते तत् किमिति प्रश्नः । अत्रोच्यते — स्वभा­व­य­दृ­च्छा­का­ल­क­र्म­दै­व­वि­ज्ञा­न­मा­त्र­शू­न्यानि वादिभिः परिकल्पितानि ; अतः अने­क­वि­प्र­ति­प­त्ति­स्था­न­त्वात् नैव जल्पन्यायेन वस्तुनिर्णयः ; अत्र वस्तुनिर्णयं चेदिच्छसि, आहर सोम्य हस्तम् आर्तभाग हे — आवामेव एतस्य त्वत्पृष्टस्य वेदितव्यं यत् , तत् वेदिष्यावः निरूपयिष्यावः ; कस्मात् ? न नौ आवयोः एतत् वस्तु सजने जनसमुदाये निर्णेतुं शक्यते ; अत एकान्तं गमिष्यावः विचारणाय । तौ हेत्यादि श्रुतिवचनम् । तौ याज्ञ­व­ल्क्या­र्त­भागौ एकान्तं गत्वा किं चक्र­तु­रि­त्यु­च्यते — तौ ह उत्क्रम्य सजनात् देशात् मन्त्र­या­ञ्च­क्राते ; आदौ लौकि­क­वा­दि­प­क्षा­णाम् एकैकं परिगृह्य विचारितवन्तौ । तौ ह विचार्य यदूचतुरपोह्य पूर्व­प­क्षा­न्स­र्वा­नेव — तच्छृणु ; कर्म हैव आश्रयं पुनः पुनः कार्य­क­र­णो­पा­दा­न­हे­तुम् तत् तत्र ऊचतुः उक्तवन्तौ — न केवलम् ; काल­क­र्म­दै­वे­श्व­रे­ष्व­भ्यु­प­ग­तेषु हेतुषु यत्प्र­श­शं­स­तुस्तौ, कर्म हैव तत्प्रशशंसतुः — यस्मा­न्नि­र्धा­रि­त­मे­तत् कर्मप्रयुक्तं ग्रहा­ति­ग्र­हा­दि­का­र्य­क­र­णो­पा­दानं पुनः पुनः, तस्मात् पुण्यो वै शास्त्रविहितेन पुण्येन कर्मणा भवति, तद्विपरीतेन विपरीतो भवति पापः पापेन — इति एवं याज्ञवल्क्येन प्रश्नेषु निर्णीतेषु, ततः अश­क्य­प्र­क­म्प­त्वात् याज्ञवल्क्यस्य, ह जारत्कारव आर्तभाग उपरराम ॥

इति तृतीयाध्यायस्य द्वितीयं ब्राह्मणम् ॥

तृतीयं ब्राह्मणम्

अथ हैनं भुज्यु­र्ला­ह्या­यनिः पप्रच्छ । ग्रहा­ति­ग्र­ह­ल­क्षणं बन्धनमुक्तम् ; यस्मात् सप्रयोजकात् मुक्तः मुच्यते, येन वा बद्धः संसरति, स मृत्युः ; तस्माच्च मोक्ष उपपद्यते, यस्मात् मृत्यो­र्मृ­त्यु­रस्ति ; मुक्तस्य च न गतिः क्वचित् — सर्वोत्सादः नाममात्रावशेषः प्रदी­प­नि­र्वा­ण­व­दिति चावधृतम् । तत्र संसरतां मुच्यमानानां च कार्यकरणानां स्वकारणसंसर्गे समाने, मुक्ता­ना­म­त्य­न्त­मेव पुनरनुपादानम् — संसरतां तु पुनः पुनरुपादानम् — येन प्रयुक्तानां भवति, तत् कर्म — इत्यवधारितं विचारणापूर्वकम् ; तत्क्षये च नामावशेषेण सर्वोत्सादो मोक्षः । तच्च पुण्यपापाख्यं कर्म, ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’(बृ. उ. ३ । २ । १३) इत्य­व­धा­रि­त­त्वात् ; एतत्कृतः संसारः । तत्र अपुण्येन स्थावरजङ्गमेषु स्वभा­व­दुः­ख­ब­हु­लेषु नर­क­ति­र्य­क्प्रे­ता­दिषु च दुःखम् अनुभवति पुनः पुनर्जायमानः म्रियमाणश्च इत्येतत् राजवर्त्मवत् सर्व­लो­क­प्र­सि­द्धम् । यस्तु शास्त्रीयः पुण्यो वै पुण्येन कर्मणा भवति, तत्रैव आदरः क्रियत इह श्रुत्या । पुण्यमेव च कर्म सर्व­पु­रु­षा­र्थ­सा­ध­न­मिति सर्वे श्रुति­स्मृ­ति­वादाः । मोक्षस्यापि पुरुषार्थत्वात् तत्साध्यता प्राप्ता ; यावत् यावत् पुण्योत्कर्षः तावत् तावत् फलो­त्क­र्ष­प्राप्तिः ; तस्मात् उत्तमेन पुण्योत्कर्षेण मोक्षो भवि­ष्य­ती­त्य­शङ्का स्यात् ; सा निवर्तयितव्या । ज्ञानसहितस्य च प्रकृष्टस्य कर्मण एतावती गतिः, व्याकृ­त­ना­म­रू­पा­स्प­द­त्वात् कर्मणः तत्फलस्य च ; न तु अकार्ये नित्ये अव्याकृतधर्मिणि अनामरूपात्मके क्रिया­का­र­क­फ­ल­स्व­भा­व­व­र्जिते कर्मणो व्यापारोऽस्ति ; यत्र च व्यापारः स संसार एव इत्यस्यार्थस्य प्रदर्शनाय ब्राह्म­ण­मा­र­भ्यते ॥

यत्तु कैश्चिदुच्यते — विद्यासहितं कर्म निर­भि­स­न्धि­वि­ष­द­ध्या­दि­वत् कार्यान्तरमारभत इति — तन्न, अना­र­भ्य­त्वा­न्मो­क्षस्य ; बन्धननाश एव हि मोक्षः, न कार्यभूतः ; बन्धनं च अविद्येत्यवोचाम ; अविद्यायाश्च न कर्मणा नाश उपपद्यते, दृष्ट­वि­ष­य­त्वाच्च कर्मसामर्थ्यस्य ; उत्प­त्त्या­प्ति­वि­का­र­सं­स्कारा हि कर्मसामर्थ्यस्य विषयाः ; उत्पादयितुं प्रापयितुं विकर्तुं संस्कर्तुं च सामर्थ्यं कर्मणः, न अतो व्यति­रि­क्त­वि­ष­योऽस्ति कर्म­सा­म­र्थ्यस्य, लोके अप्रसिद्धत्वात् ; न च मोक्ष एषां पदा­र्था­ना­म­न्य­तमः ; अवि­द्या­मा­त्र­व्य­व­हित इत्यवोचाम । बाढम् ; भवतु केवलस्यैव कर्मण एवं स्वभावता ; विद्या­सं­यु­क्तस्य तु निरभिसन्धेः भवति अन्यथा स्वभावः ; दृष्टं हि अन्यशक्तित्वेन निर्ज्ञातानामपि पदार्थानां विषदध्यादीनां विद्या­म­न्त्र­श­र्क­रा­दि­सं­यु­क्ता­नाम् अन्यविषये सामर्थ्यम् ; तथा कर्म­णोऽ­प्य­स्त्विति चेत् — न । प्रमाणाभावात् । तत्र हि कर्मण उक्त­वि­ष­य­व्य­ति­रे­केण विषयान्तरे साम­र्थ्या­स्तित्वे प्रमाणं न प्रत्यक्षं नानुमानं नोपमानं नार्थापत्तिः न शब्दोऽस्ति । ननु फलान्तराभावे चोद­ना­न्य­था­नु­प­पत्तिः प्रमाणमिति ; न हि नित्यानां कर्मणां विश्व­जि­न्न्या­येन फलं कल्प्यते ; नापि श्रुतं फलमस्ति ; चोद्यन्ते च तानि ; पारिशेष्यात् मोक्षः तेषां फलमिति गम्यते ; अन्यथा हि पुरुषा न प्रवर्तेरन् । ननु विश्वजिन्न्याय एव आयातः, मोक्षस्य फलस्य कल्पितत्वात् — मोक्षे वा अन्यस्मिन्वा फले अकल्पिते पुरुषा न प्रवर्तेरन्निति मोक्षः फलं कल्प्यते श्रुता­र्था­पत्त्या, यथा विश्वजिति ; ननु एवं सति कथमुच्यते, विश्वजिन्न्यायो न भवतीति ; फलं च कल्प्यते विश्व­जि­न्न्या­यश्च न भवतीति विप्र­ति­षि­द्ध­म­भि­धी­यते । मोक्षः फलमेव न भवतीति चेत् , न, प्रतिज्ञाहानात् ; कर्म कार्यान्तरं विषदध्यादिवत् आरभत इति हि प्रतिज्ञातम् ; स चेन्मोक्षः कर्मणः कार्यं फलमेव न भवति, सा प्रतिज्ञा हीयेत । कर्मकार्यत्वे च मोक्षस्य स्वर्गा­दि­फ­लेभ्यो विशेषो वक्तव्यः । अथ कर्मकार्यं न भवति, नित्यानां कर्मणां फलं मोक्ष इत्यस्या वचनव्यक्तेः कोऽर्थ इति वक्तव्यम् । न च कार्य­फ­ल­श­ब्द­भे­द­मा­त्रेण विशेषः शक्यः कल्पयितुम् । अफलं च मोक्षः, नित्यैश्च कर्मभिः क्रियते — नित्यानां कर्मणां फलं न, कार्यम् — इति च एषोऽर्थः विप्र­ति­षि­द्धोऽ­भि­धी­यते — यथा अग्निः शीत इति । ज्ञानवदिति चेत् — यथा ज्ञानस्य कार्यं मोक्षः ज्ञाने­ना­क्रि­य­मा­णोऽ­प्यु­च्यते, तद्वत् कर्म­का­र्य­त्व­मिति चेत् — न, अज्ञा­न­नि­व­र्त­क­त्वात् ज्ञानस्य ; अज्ञा­न­व्य­व­धा­न­नि­व­र्त­क­त्वात् ज्ञानस्य मोक्षो ज्ञान­का­र्य­मि­त्यु­प­च­र्यते । न तु कर्मणा निव­र्त­यि­त­व्य­म­ज्ञा­नम् ; न च अज्ञा­न­व्य­ति­रे­केण मोक्षस्य व्यवधानान्तरं कल्पयितुं शक्यम् — नित्य­त्वा­न्मो­क्षस्य साध­क­स्व­रू­पा­व्य­ति­रे­काच्च — यत्कर्मणा निवर्त्येत । अज्ञानमेव निवर्तयतीति चेत् , न, विलक्षणत्वात् — अनभिव्यक्तिः अज्ञानम् अभि­व्य­क्ति­ल­क्ष­णेन ज्ञानेन विरुध्यते ; कर्म तु नाज्ञानेन विरुध्यते ; तेन ज्ञानविलक्षणं कर्म । यदि ज्ञानाभावः, यदि संशयज्ञानम् , यदि विपरीतज्ञानं वा उच्यते अज्ञानमिति, सर्वं हि तत् ज्ञानेनैव निवर्त्यते ; न तु कर्मणा अन्यतमेनापि विरोधाभावात् । अथ अदृष्टं कर्मणाम् अज्ञा­न­नि­व­र्त­कत्वं कल्प्यमिति चेत् , न, ज्ञानेन अज्ञाननिवृत्तौ गम्यमानायाम् अदृ­ष्ट­नि­वृ­त्ति­क­ल्प­ना­नु­प­पत्तेः ; यथा अवघातेन व्रीहीणां तुषनिवृत्तौ गम्यमानायाम् अग्नि­हो­त्रा­दि­नि­त्य­क­र्म­कार्या अदृष्टा न कल्प्यते तुषनिवृत्तिः, तद्वत् अज्ञा­न­नि­वृ­त्ति­रपि नित्यकर्मकार्या अदृष्टा न कल्प्यते । ज्ञानेन विरुद्धत्वं च असकृत् कर्मणामवोचाम । यत् अविरुद्धं ज्ञानं कर्मभिः, तत् देव­लो­क­प्रा­प्ति­नि­मि­त्त­मि­त्यु­क्तम् — ‘विद्यया देवलोकः’(बृ. उ. १ । ५ । १६) इति श्रुतेः । किञ्चान्यत् कल्प्ये च फले नित्यानां कर्मणां श्रुतानाम् , यत् कर्म­भि­र्वि­रु­ध्यते — द्रव्य­गु­ण­क­र्मणां कार्यमेव न भवति — किं तत् कल्प्यताम् , यस्मिन् कर्मणः सामर्थ्यमेव न दृष्टम् ? किं वा यस्मिन् दृष्टं सामर्थ्यम् , यच्च कर्मणां फलमविरुद्धम् , तत्कल्प्यतामिति । पुरु­ष­प्र­वृ­त्ति­ज­न­नाय अवश्यं चेत् कर्मफलं कल्पयितव्यम् — कर्मा­वि­रु­द्ध­वि­षय एव श्रुता­र्था­पत्तेः क्षीणत्वात् नित्यो मोक्षः फलं कल्पयितुं न शक्यः, तद्व्य­व­धा­ना­ज्ञा­न­नि­वृ­त्तिर्वा, अविरुद्धत्वात् दृष्ट­सा­म­र्थ्य­वि­ष­य­त्वा­च्चेति पारि­शे­ष्य­न्या­यात् मोक्ष एव कल्पयितव्य इति चेत् — सर्वेषां हि कर्मणां सर्वं फलम् ; न च अन्यत् इत­र­क­र्म­फ­ल­व्य­ति­रे­केण फलं कल्प­ना­यो­ग्य­मस्ति ; परिशिष्टश्च मोक्षः ; स च इष्टः वेदविदां फलम् ; तस्मात् स एव कल्पयितव्यः इति चेत् — न, कर्म­फ­ल­व्य­क्ती­नाम् आनन्त्यात् पारि­शे­ष्य­न्या­या­नु­प­पत्तेः ; न हि पुरु­षे­च्छा­वि­ष­याणां कर्मफलानाम् एतावत्त्वं नाम केनचित् अस­र्व­ज्ञे­ना­व­धृ­तम् , तत्साधनानां वा, पुरुषेच्छानां वा अनि­य­त­दे­श­का­ल­नि­मि­त्त­त्वात् पुरु­षे­च्छा­वि­ष­य­सा­ध­नानां च पुरु­षे­ष्ट­फ­ल­प्र­यु­क्त­त्वात् ; प्रतिप्राणि च इच्छा­वै­चि­त्र्यात् फलानां तत्साधनानां च आनन्त्यसिद्धिः ; तदानन्त्याच्च अशक्यम् एतावत्त्वं पुरु­षै­र्ज्ञा­तुम् ; अज्ञाते च साध­न­फ­लै­ता­वत्त्वे कथं मोक्षस्य परि­शे­ष­सि­द्धि­रिति । कर्म­फ­ल­जा­ति­पा­रि­शे­ष्य­मिति चेत् — सत्यपि इच्छाविषयाणां तत्साधनानां च आनन्त्ये, कर्मफलजातित्वं नाम सर्वेषां तुल्यम् ; मोक्षस्तु अकर्मफलत्वात् परिशिष्टः स्यात् ; तस्मात् परिशेषात् स एव युक्तः कल्पयितुमिति चेत् — न ; तस्यापि नित्य­क­र्म­फ­ल­त्वा­भ्यु­प­गमे कर्म­फ­ल­स­मा­न­जा­ती­य­त्वो­प­पत्तेः परि­शे­षा­नु­प­पत्तिः । तस्मात् अन्य­था­प्यु­प­पत्तेः क्षीणा श्रुता­र्था­पत्तिः ; उत्प­त्त्या­प्ति­वि­का­र­सं­स्का­रा­णा­म­न्य­त­म­मपि नित्यानां कर्मणां फलमुपपद्यत इति क्षीणा श्रुता­र्था­पत्तिः चतुर्णामन्यतम एव मोक्ष इति चेत् — न तावत् उत्पाद्यः, नित्यत्वात् ; अत एव अविकार्यः ; असंस्कार्यश्च अत एव — असा­ध­न­द्र­व्या­त्म­क­त्वाच्च — साधनात्मकं हि द्रव्यं संस्क्रियते, यथा पात्राज्यादि प्रोक्षणादिना ; न च संस्क्रियमाणः, संस्का­र­नि­र्वर्त्यो वा — यूपादिवत् ; पारिशेष्यात् आप्यः स्यात् ; न आप्योऽपि, आत्म­स्व­भा­व­त्वात् एकत्वाच्च । इतरैः कर्म­भि­र्वै­ल­क्ष­ण्यात् नित्यानां कर्मणाम् , तत्फलेनापि विलक्षणेन भवितव्यमिति चेत् , न — कर्म­त्व­सा­ल­क्ष­ण्यात् सलक्षणं कस्मात् फलं न भवति इतरकर्मफलैः ? निमि­त्त­वै­ल­क्ष­ण्या­दिति चेत् , न, क्षामवत्यादिभिः समानत्वात् ; यथा हि — गृहदाहादौ निमित्ते क्षाम­व­त्या­दीष्टिः, यथा — ‘भिन्ने जुहोति, स्कन्ने जुहोति’ इति — एवमादौ नैमित्तिकेषु कर्मसु न मोक्षः फलं कल्प्यते — तैश्चा­वि­शे­षा­न्नै­मि­त्ति­क­त्वेन, जीवनादिनिमित्ते च श्रवणात् , तथा नित्यानामपि न मोक्षः फलम् । आलोकस्य सर्वेषां रूप­द­र्श­न­सा­ध­नत्वे, उलूकादयः आलोकेन रूपं न पश्यन्तीति उलूकादिचक्षुषो वैल­क्ष­ण्या­दि­त­र­लो­क­च­क्षुर्भिः, न रसादिविषयत्वं परिकल्प्यते, रसादिविषये साम­र्थ्य­स्या­दृ­ष्ट­त्वात् । सुदूरमपि गत्वा यद्विषयं दृष्टं सामर्थ्यं तत्रैव कश्चिद्विशेषः कल्पयितव्यः । यत्पुनरुक्तम् , विद्या­म­न्त्र­श­र्क­रा­दि­सं­यु­क्त­वि­ष­द­ध्या­दि­वत् नित्यानि कार्या­न्त­र­मा­र­भन्त इति — आरभ्यतां विशिष्टं कार्यम् , तत् इष्टत्वादविरोधः ; निरभिसन्धेः कर्मणो विद्या­सं­यु­क्तस्य विशि­ष्ट­का­र्या­न्त­रा­रम्भे न कश्चिद्विरोधः, देव­या­ज्या­त्म­या­जिनोः आत्मयाजिनो विशेषश्रवणात् — ‘देवयाजिनः श्रेया­ना­त्म­याजी’(शत. ब्रा. ११ । २ । ६ । १३) इत्यादौ ‘यदेव विद्यया करोति’(छा. उ. १ । १ । १०) इत्यादौ च । यस्तु पर­मा­त्म­द­र्श­न­वि­षये मनुनोक्तः आत्मयाजिशब्दः ‘सम्प­श्य­न्ना­त्म­याजी’(मनु. १२ । ९१) इत्यत्र — समं पश्यन् आत्मयाजी भवतीत्यर्थः । अथवा भूतपूर्वगत्या — आत्मयाजी आत्म­सं­स्का­रार्थं नित्यानि कर्माणि करोति — ‘इदं मेऽनेनाङ्गं संस्क्रियते’(शत. ब्रा. ११ । २ । ६ । १३) इति श्रुतेः ; तथा ‘गार्भैर्होमैः’(मनु. २ । २७) इत्यादिप्रकरणे कार्य­क­र­ण­सं­स्का­रा­र्थत्वं नित्यानां कर्मणां दर्शयति ; संस्कृतश्च य आत्मयाजी तैः कर्मभिः समं द्रष्टुं समर्थो भवति, तस्य इह जन्मान्तरे वा समम् आत्म­द­र्श­न­मु­त्प­द्यते ; समं पश्यन् स्वारा­ज्य­म­धि­ग­च्छ­ती­त्ये­षोऽर्थः ; आत्म­या­जि­श­ब्दस्तु भूतपूर्वगत्या प्रयुज्यते ज्ञानयुक्तानां नित्यानां कर्मणां ज्ञानो­त्प­त्ति­सा­ध­न­त्व­प्र­द­र्श­ना­र्थम् । किञ्चान्यत् — ‘ब्रह्मा­वि­श्व­सृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्त्विकीमेतां गति­मा­हु­र्म­नी­षिणः’(मनु. १२ । ५०) इति च देव­सा­र्ष्टि­व्य­ति­रे­केण भूताप्ययं दर्शयति — ‘भूतान्यप्येति पञ्च वै’(मनु. १२ । ९०) ‘भूतान्यत्येति’ इति पाठं ये कुर्वन्ति, तेषां वेदविषये परि­च्छि­न्न­बु­द्धि­त्वा­द­दोषः ; न च अर्थवादत्वम् — अध्यायस्य ब्रह्मा­न्त­क­र्म­वि­पा­का­र्थस्य तद्व्य­ति­रि­क्ता­त्म­ज्ञा­ना­र्थस्य च कर्म­का­ण्डो­प­नि­षद्भ्यां तुल्या­र्थ­त्व­द­र्श­नात् , विहि­ता­क­र­ण­प्र­ति­षि­द्ध­क­र्मणां च स्थाव­र­श्व­सू­क­रा­दि­फ­ल­द­र्श­नात् , वान्ता­श्या­दि­प्रे­त­द­र्श­नाच्च । न च श्रुति­स्मृ­ति­वि­हि­त­प्र­ति­षि­द्ध­व्य­ति­रे­केण विहितानि वा प्रतिषिद्धानि वा कर्माणि केनचिदवगन्तुं शक्यन्ते, येषाम् अक­र­णा­द­नु­ष्ठा­नाच्च प्रेत­श्व­सू­क­र­स्था­व­रा­दीनि कर्मफलानि प्रत्य­क्षा­नु­मा­ना­भ्या­मु­प­ल­भ्यन्ते ; न च एषाम् कर्मफलत्वं केन­चि­द­भ्यु­प­ग­म्यते । तस्मात् विहि­ता­क­र­ण­प्र­ति­षि­द्ध­से­वानां यथा एते कर्मविपाकाः प्रेत­ति­र्य­क्स्था­व­रा­दयः, तथा उत्कृष्टेष्वपि ब्रह्मान्तेषु कर्मविपाकत्वं वेदितव्यम् ; तस्मात् ‘स आत्मनो वपामुदखिदत्’(तै. सं. २ । १ । १ । ४) ‘सोऽरोदीत्’(तै. सं. १ । ५ । १ । १) इत्यादिवत् न अभू­ता­र्थ­वा­द­त्वम् । तत्रापि अभूतार्थवादत्वं मा भूदिति चेत् — भवत्वेवम् ; न च एतावता अस्य न्यायस्य बाधो भवति ; न च अस्मत्पक्षो वा दुष्यति । न च ‘ब्रह्मा विश्वसृजः’ इत्यादीनां काम्यकर्मफलत्वं शक्यं वक्तुम् , तेषां देव­सा­र्ष्टि­तायाः फलस्योक्तत्वात् । तस्मात् साभिसन्धीनां नित्यानां कर्मणां सर्व­मे­धा­श्व­मे­धा­दीनां च ब्रह्मत्वादीनि फलानि ; येषां पुनः नित्यानि निरभिसन्धीनि आत्म­सं­स्का­रा­र्थानि, तेषां ज्ञानो­त्प­त्त्य­र्थानि तानि, ‘ब्राह्मीयं क्रियते तनुः’(मनु. २ । २८) इति स्मरणात् ; तेषाम् आरादुपकारत्वात् मोक्षसाधनान्यपि कर्माणि भवन्तीति न विरुध्यते ; यथा चायमर्थः, षष्ठे जन­का­ख्या­यि­का­स­माप्तौ वक्ष्यामः । यत्तु विष­द­ध्या­दि­व­दि­त्यु­क्तम् , तत्र प्रत्य­क्षा­नु­मा­न­वि­ष­य­त्वा­द­वि­रोधः ; यस्तु अत्य­न्त­श­ब्द­ग­म्योऽर्थः, तत्र वाक्यस्याभावे तद­र्थ­प्र­ति­पा­द­कस्य न शक्यं कल्पयितुं विष­द­ध्या­दि­सा­ध­र्म्यम् । न च प्रमा­णा­न्त­र­वि­रु­द्धा­र्थ­वि­षये श्रुतेः प्रामाण्यं कल्प्यते, यथा — शीतोऽग्निः क्लेदयतीति ; श्रुते तु तादर्थ्ये वाक्यस्य, प्रमाणान्तरस्य आभासत्वम् — यथा ‘खद्योतोऽग्निः’ इति ‘तल­म­लि­न­म­न्त­रि­क्षम्’ इति बालानां यत्प्र­त्य­क्ष­मपि, तद्वि­ष­य­प्र­मा­णा­न्त­रस्य यथार्थत्वे निश्चिते, निश्चितार्थमपि बालप्रत्यक्षम् आभासी भवति ; तस्मात् वेद­प्रा­मा­ण्य­स्या­व्य­भि­चा­रात् तादर्थ्ये सति वाक्यस्य तथात्वं स्यात् , न तु पुरुषमतिकौशलम् ; न हि पुरुषमतिकौशलात् सविता रूपं न प्रकाशयति ; तथा वेदवाक्यान्यपि न अन्यार्थानि भवन्ति । तस्मात् न मोक्षार्थानि कर्माणीति सिद्धम् । अतः कर्मफलानां संसा­र­त्व­प्र­द­र्श­ना­यैव ब्राह्म­ण­मा­र­भ्यते ॥

अथ हैनं भुज्यु­र्ला­ह्या­यनिः पप्रच्छ याज्ञवल्क्येति होवाच । मद्रेषु चरकाः पर्यव्रजाम ते पतञ्जलस्य काप्यस्य गृहानैम तस्यासीद्दुहिता गन्धर्वगृहीता तमपृच्छाम कोऽसीति सोऽब्र­वी­त्सु­ध­न्वा­ङ्गि­रस इति तं यदा लोका­ना­म­न्ता­न­पृ­च्छा­मा­थै­न­म­ब्रूम क्व पारिक्षिता अभवन्निति क्व पारिक्षिता अभवन्स त्वा पृच्छामि याज्ञवल्क्य क्व पारिक्षिता अभवन्निति ॥ १ ॥

अथ अनन्तरम् उपरते जारत्कारवे, भुज्युरिति नामतः, लह्यस्यापत्यं लाह्यः तदपत्यं लाह्यायनिः, प्रपच्छ ; याज्ञवल्क्येति होवाच । आदावुक्तम् अश्वमेधदर्शनम् ; सम­ष्टि­व्य­ष्टि­फ­ल­श्चा­श्व­मे­ध­क्रतुः, ज्ञानसमुच्चितो वा केव­ल­ज्ञा­न­स­म्पा­दितो वा, सर्वकर्मणां परा काष्ठा ; भ्रूण­ह­त्या­श्व­मे­धाभ्यां न परं पुण्यपापयोरिति हि स्मरन्ति ; तेन हि समष्टिं व्यष्टीश्च प्राप्नोति ; तत्र व्यष्टयो निर्ज्ञाता अन्तरण्डविषया अश्व­मे­ध­या­ग­फ­ल­भूताः ; ‘मृत्यु­र­स्यात्मा भवत्येतासां देवतानामेको भवति’(बृ. उ. १ । २ । ७) इत्युक्तम् ; मृत्युश्च अशनायालक्षणो बुद्ध्यात्मा समष्टिः प्रथमजः वायुः सूत्रं सत्यं हिरण्यगर्भः ; तस्य व्याकृतो विषयः — यदात्मकं सर्वं द्वैतकत्वम् , यः सर्व­भू­ता­न्त­रात्मा लिङ्गम् अमूर्तरसः यदाश्रितानि सर्वभूतकर्माणि, यः कर्मणां कर्मसम्बद्धानां च विज्ञानानां परा गतिः परं फलम् । तस्य कियान् गोचरः कियती व्याप्तिः सर्वतः परिमण्डलीभूता, सा वक्तव्या ; तस्याम् उक्तायाम् , सर्वः संसारो बन्धगोचर उक्तो भवति ; तस्य च सम­ष्टि­व्य­ष्ट्या­त्म­द­र्श­नस्य अलौ­कि­क­त्व­प्र­द­र्श­ना­र्थम् आख्या­यि­का­मा­त्मनो वृत्तां प्रकुरुते ; तेन च प्रति­वा­दि­बुद्धिं व्यामो­ह­यि­ष्या­मीति मन्यते ॥

मद्रेषु — मद्रा नाम जनपदाः तेषु, चरकाः — अध्ययनार्थं व्रतचरणाच्चरकाः अध्वर्यवो वा, पर्यव्रजाम पर्यटितवन्तः ; ते पतञ्जलस्य — ते वयं पर्यटन्तः, पतञ्जलस्य नामतः, काप्यस्य कपिगोत्रस्य, गृहान् ऐम गतवन्तः ; तस्यासीद्दुहिता गन्धर्वगृहीता — गन्धर्वेण अमानुषेण सत्त्वेन केनचित् आविष्टा ; गन्धर्वो वा धिष्ण्योऽग्निः ऋत्विक् देवता विशि­ष्ट­वि­ज्ञा­न­त्वात् अवसीयते ; न हि सत्त्वमात्रस्य ईदृशं विज्ञा­न­मु­प­प­द्यते । तं सर्वे वयं परिवारिताः सन्तः अपृच्छाम — कोऽसीति — कस्त्वमसि किन्नामा किंसतत्त्वः । सोऽब्र­वी­द्ग­न्धर्वः — सुधन्वा नामतः, आङ्गिरसो गोत्रतः । तं यदा यस्मिन्काले लोकानाम् अन्तान् पर्यवसानानि अपृच्छाम, अथ एनं गन्धर्वम् अब्रूम — भुव­न­को­श­प­रि­मा­ण­ज्ञा­नाय प्रवृत्तेषु सर्वेषु आत्मानं श्लाघयन्तः पृष्टवन्तो वयम् ; कथम् ? क्व पारिक्षिता अभवन्निति । स च गन्धर्वः सर्व­म­स्म­भ्य­म­ब्र­वीत् । तेन दिव्येभ्यो मया लब्धं ज्ञानम् ; तत् तव नास्ति ; अतो निगृहीतोऽसि’ — इत्यभिप्रायः । सोऽहं विद्यासम्पन्नो लब्धागमो गन्धर्वात् त्वा त्वाम् पृच्छामि याज्ञवल्क्य — क्व पारिक्षिता अभवन् — तत् त्वं किं जानासि ? हे याज्ञवल्क्य, कथय, पृच्छामि — क्व पारिक्षिता अभवन्निति ॥

स होवाचोवाच वै सोऽगच्छन्वै ते तद्य­त्रा­श्व­मे­ध­या­जिनो गच्छन्तीति क्व न्वश्वमेधयाजिनो गच्छन्तीति द्वात्रिंशतं वै देव­र­था­ह्न्या­न्ययं लोकस्तं समन्तं पृथिवी द्विस्ता­व­त्प­र्येति तां समन्तं पृथिवीं द्विस्ता­व­त्स­मुद्रः पर्येति तद्यावती क्षुरस्य धारा यावद्वा पक्षिकायाः पत्रं तावा­न­न्त­रे­णा­का­श­स्ता­निन्द्रः सुपर्णो भूत्वा वायवे प्राय­च्छ­त्ता­न्वा­यु­रा­त्मनि धित्वा तत्रा­ग­म­य­द्य­त्रा­श्व­मे­ध­या­जि­नोऽ­भ­व­न्नि­त्ये­व­मिव वै स वायुमेव प्रशशंस तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं वेद ततो ह भुज्यु­र्ला­ह्या­य­नि­रु­प­र­राम ॥ २ ॥

स होवाच याज्ञवल्क्यः ; उवाच वै सः — वै - शब्दः स्मरणार्थः — उवाच वै स गन्धर्वः तुभ्यम् । अगच्छन्वै ते पारिक्षिताः, तत् तत्र ; क्व ? यत्र यस्मिन् अश्वमेधयाजिनो गच्छन्ति — इति निर्णीते प्रश्न आह — क्व नु कस्मिन् अश्वमेधयाजिनो गच्छन्तीति । तेषां गतिविवक्षया भुव­न­को­शा­प­रि­मा­ण­माह — द्वात्रिंशतं वै, द्वे अधिके त्रिंशत् , द्वात्रिंशतं वै, देवरथाह्न्यानि — देव आदित्यः तस्य रथो देवरथः तस्य रथस्य गत्या अह्ना याव­त्प­रि­च्छि­द्यते देशपरिमाणं तत् देवरथाह्न्यम् , तद्द्वा­त्रिं­श­द्गु­णितं देवरथाह्न्यानि, तावत्परिमाणोऽयं लोकः लोकालोकगिरिणा परिक्षिप्तः — यत्र वैराजं शरीरम् , यत्र च कर्मफलोपभोगः प्राणिनाम् , स एष लोकः ; एतावान् लोकः, अतः परम् अलोकः, तं लोकं समन्तं समन्ततः, लोकविस्तारात् द्विगु­ण­प­रि­मा­ण­वि­स्ता­रेण परिमाणेन, तं लोकं परिक्षिप्ता पर्येति पृथिवी ; तां पृथिवीं तथैव समन्तम् , द्विस्तावत् — द्विगुणेन परिमाणेन समुद्रः पर्येति, यं घनोदमाचक्षते पौराणिकाः । तत्र अण्ड­क­पा­ल­यो­र्वि­व­र­प­रि­मा­ण­मु­च्यते, येन विवरेण मार्गेण बहि­र्नि­र्ग­च्छन्तो व्याप्नुवन्ति अश्वमेधयाजिनः ; तत्र यावती यावत्परिमाणा क्षुरस्य धारा अग्रम् , यावद्वा सौक्ष्म्येण युक्तं मक्षिकायाः पत्रम् , तावान् तावत्परिमाणः, अन्तरेण मध्येऽ­ण्ड­क­पा­लयोः, आकाशः छिद्रम् , तेन आकाशेनेत्येतत् ; तान् पारि­क्षि­ता­न­श्व­मे­ध­या­जिनः प्राप्तान् इन्द्रः परमेश्वरः — योऽश्व­मे­धेऽ­ग्नि­श्चितः, सुपर्णः — यद्विषयं दर्शनमुक्तम् ‘तस्य प्राची दिक्शिरः’(बृ. उ. १ । २ । ४) इत्यादिना — सुपर्णः पक्षी भूत्वा, पक्षपुच्छात्मकः सुपर्णो भूत्वा, वायवे प्रायच्छत् — मूर्त­त्वा­न्ना­स्त्या­त्मनो गतिस्तत्रेति । तान् पारिक्षितान् वायुः आत्मनि धित्वा स्थापयित्वा स्वात्म­भू­ता­न्कृत्वा तत्र तस्मिन् अगमयत् ; क्व ? यत्र पूर्वे अतिक्रान्ताः पारिक्षिता अश्व­मे­ध­या­जि­नोऽ­भ­व­न्निति । एवमिव वै — एवमेव स गन्धर्वः वायुमेव प्रशशंस पारिक्षितानां गतिम् । समाप्ता आख्यायिका ; आख्या­यि­का­नि­र्वृत्तं तु अर्थम् आख्या­यि­का­तोऽ­प­सृत्य स्वेन श्रुतिरूपेणैव आचष्टेऽस्मभ्यम् । यस्मात् वायुः स्थावरजङ्गमानां भूता­ना­म­न्त­रात्मा, बहिश्च स एव, तस्मात् अध्या­त्मा­धि­भू­ता­धि­दै­व­भा­वेन विविधा या अष्टिः व्याप्तिः स वायुरेव ; तथा समष्टिः केवलेन सूत्रात्मना वायुरेव । एवं वायुमात्मानं सम­ष्टि­व्य­ष्टि­रू­पा­त्म­क­त्वेन उपगच्छति यः — एवं वेद, तस्य किं फलमित्याह — अप पुनर्मृत्युं जयति, सकृन्मृत्वा पुनर्न म्रियते । तत आत्मनः प्रश्ननिर्णयात् भुज्यु­र्ला­ह्या­य­नि­रु­प­र­राम ॥

इति तृतीयाध्यायस्य तृतीयं ब्राह्मणम् ॥

चतुर्थं ब्राह्मणम्

अथ हैन­मु­ष­स्त­श्चा­क्रा­यणः पप्रच्छ । पुण्य­पा­प­प्र­यु­क्तै­र्ग्र­हा­ति­ग्र­है­र्गृ­हीतः पुनः पुनः ग्रहातिग्रहान् त्यजन् उपाददत् संसरतीत्युक्तम् ; पुण्यस्य च पर उत्कर्षो व्याख्यातः व्याकृतविषयः सम­ष्टि­व्य­ष्टि­रूपः द्वैतै­क­त्वा­त्म­प्राप्तिः । यस्तु ग्रहा­ति­ग्र­है­र्ग्रस्तः संसरति, सः अस्ति वा, न अस्ति ; अस्तित्वे च किंलक्षणः — इति आत्मन एव विवेकाधिगमाय उषस्तप्रश्न आरभ्यते । तस्य च निरु­पा­धि­स्व­रू­पस्य क्रिया­का­र­क­वि­नि­र्मु­क्त­स्व­भा­वस्य अधिगमात् यथो­क्ता­द्ब­न्ध­नात् विमुच्यते सप्रयोजकात् आख्या­यि­क­स­म्ब­न्धस्तु प्रसिद्धः ॥

अथ हैन­मु­ष­स्त­श्चा­क्रा­यणः पप्रच्छ याज्ञवल्क्येति होवाच यत्सा­क्षा­द­प­रो­क्षा­द्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याच­क्ष्वे­त्येष त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरो यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानीति स त आत्मा सर्वान्तरो यो व्यानेन व्यानीति स त आत्मा सर्वान्तरो य उदानेनोदानिति स त आत्मा सर्वान्तर एष त आत्मा सर्वान्तरः ॥ १ ॥

अथ ह एनं प्रकृतं याज्ञवल्क्यम् , उषस्तो नामतः, चक्रस्यापत्यं चाक्रायणः, पप्रच्छ । यत् ब्रह्म साक्षात् अव्यवहितं केनचित् द्रष्टुः अपरोक्षात् — अगौणम् — न श्रोत्र­ब्र­ह्मा­दि­वत् — किं तत् ? य आत्मा — आत्मशब्देन प्रत्य­गा­त्मो­च्यते, तत्र आत्मशब्दस्य प्रसिद्धत्वात् ; सर्व­स्या­भ्य­न्तरः सर्वान्तरः ; यद्यःशब्दाभ्यां प्रसिद्ध आत्मा ब्रह्मेति — तम् आत्मानम् , मे मह्यम् , व्याचक्ष्वेति — विस्पष्टं शृङ्गे गृहीत्वा यथा गां दर्शयति तथा आचक्ष्व, सोऽयमित्येवं कथयस्वेत्यर्थः । एवमुक्तः प्रत्याह याज्ञवल्क्यः — एषः ते तव आत्मा सर्वान्तरः सर्व­स्या­भ्य­न्तरः ; सर्व­वि­शे­ष­णो­प­ल­क्ष­णार्थं सर्वा­न्त­र­ग्र­ह­णम् ; यत् साक्षात् अव्यवहितम् अपरोक्षात् अगौणम् ब्रह्म बृहत्तमम् आत्मा सर्वस्य सर्व­स्या­भ्य­न्तरः, एतैर्गुणैः समस्तैर्युक्तः एषः, कोऽसौ तवात्मा ? योऽयं कार्यकरणसङ्घातः तव सः येनात्मना आत्मवान् स एष तव आत्मा — तव कार्य­क­र­ण­स­ङ्घा­त­स्ये­त्यर्थः । तत्र पिण्डः, तस्याभ्यन्तरे लिङ्गात्मा करणसङ्घातः, तृतीयो यश्च सन्दिह्यमानः — तेषु कतमो मम आत्मा सर्वान्तरः त्वया विवक्षित इत्युक्ते इतर आह — यः प्राणेन मुख­ना­सि­का­स­ञ्चा­रिणा प्राणिति प्राणचेष्टां करोति, येन प्राणः प्रणीयत इत्यर्थः — सः ते तव कार्य­क­र­ण­स­ङ्घा­तस्य आत्मा विज्ञानमयः ; समानमन्यत् ; योऽपानेनापानीति यो व्यानेन व्यानीतीति — छान्दसं दैर्घ्यम् । सर्वाः कार्य­क­र­ण­स­ङ्घा­त­गताः प्राणनादिचेष्टा दारुयन्त्रस्येव येन क्रियन्ते — न हि चेत­ना­व­द­न­धि­ष्ठि­तस्य दारुयन्त्रस्येव प्राणनादिचेष्टा विद्यन्ते ; तस्मात् विज्ञा­न­म­ये­ना­धि­ष्ठितं विलक्षणेन दारुयन्त्रवत् प्राण­ना­दि­चेष्टां प्रतिपद्यते — तस्मात् सोऽस्ति कार्य­क­र­ण­स­ङ्घा­त­वि­ल­क्षणः, यश्चेष्टयति ॥

स होवा­चो­ष­स्त­श्चा­क्रा­यणो यथा विब्रूयादसौ गौरसावश्व इत्ये­व­मे­वै­त­द्व्य­प­दिष्टं भवति यदेव साक्षा­द­प­रो­क्षा­द्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याच­क्ष्वे­त्येष त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरः । न दृष्टे­र्द्र­ष्टारं पश्येर्न श्रुतेः श्रोतारं शृणुया न मतेर्मन्तारं मन्वीथा न विज्ञा­ते­र्वि­ज्ञा­तारं विजानीयाः । एष त आत्मा सर्वा­न्त­रोऽ­तोऽ­न्य­दार्तं ततो होष­स्त­श्चा­क्रा­यण उपरराम ॥ २ ॥

स होवा­चो­ष­स्त­श्चा­क्रा­यणः ; यथा कश्चित् अन्यथा प्रतिज्ञाय पूर्वम् , पुन­र्वि­प्र­ति­पन्नो ब्रूयादन्यथा — असौ गौः असावश्वः यश्चलति धावतीति वा, पूर्वं प्रत्यक्षं दर्शयामीति प्रतिज्ञाय, पश्चात् चल­ना­दि­लि­ङ्गै­र्व्य­प­दि­शति — एवमेव एतद्ब्रह्म प्राण­ना­दि­लि­ङ्गै­र्व्य­प­दिष्टं भवति त्वया ; किं बहुना ? त्यक्त्वा गोतृ­ष्णा­नि­मित्तं व्याजम् , यदेव साक्षा­द­प­रो­क्षा­द्ब्रह्म य आत्मा सर्वान्तरः, तं मे व्याचक्ष्वेति । इतर आह — यथा मया प्रथमं प्रतिज्ञातः तव आत्मा — एवँलक्षण इति — तां प्रति­ज्ञा­म­नु­वर्त एव ; तत् तथैव, यथोक्तं मया । यत्पुनरुक्तम् , तमात्मानं घटादिवत् विषयीकुर्विति — तत् अशक्यत्वान्न क्रियते । कस्मात्पुनः तदशक्यमित्याह — वस्तु­स्वा­भा­व्यात् ; किं पुनः तत् वस्तु­स्वा­भा­व्यम् ? दृष्ट्या­दि­द्र­ष्टृ­त्वम् ; दृष्टेर्द्रष्टा ह्यात्मा ; दृष्टिरिति द्विविधा भवति — लौकिकी पारमार्थिकी चेति ; तत्र लौकिकी चक्षुः­सं­यु­क्ता­न्तः­क­र­ण­वृत्तिः ; सा क्रियत इति जायते विनश्यति च ; या तु आत्मनो दृष्टिः अग्न्यु­ष्ण­प्र­का­शा­दि­वत् , सा च द्रष्टुः स्वरूपत्वात् , न जायते न विनश्यति च ; सा क्रियमाणया उपाधिभूतया संसृष्टेवेति, व्यपदिश्यते — द्रष्टेति, भेदवच्च — द्रष्टा दृष्टिरिति च ; यासौ लौकिकी दृष्टिः चक्षुर्द्वारा रूपोपरक्ता जायमानैव नित्यया आत्मदृष्ट्या संसृष्टेव, तत्प्रतिच्छाया — तया व्याप्तैव जायते, तथा विनश्यति च ; तेन उपचर्यते द्रष्टा सदा पश्यन्नपि — पश्यति न पश्यति चेति ; न तु पुनः द्रष्टु­र्दृष्टेः कदा­चि­द­प्य­न्य­था­त्वम् ; तथा च वक्ष्यति षष्ठे — ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) , ‘न हि द्रष्टु­र्दृ­ष्टे­र्वि­प­रि­लोपो विद्यते’(बृ. उ. ४ । ३ । २३) इति च । तमिममर्थमाह — लौकिक्या दृष्टेः कर्मभूतायाः, द्रष्टारं स्वकीयया नित्यया दृष्ट्या व्याप्तारम् , न पश्येः ; यासौ लौकिकी दृष्टिः कर्मभूता, सा रूपोपरक्ता रूपाभिव्यञ्जिका न आत्मानं स्वात्मनो व्याप्तारं प्रत्यञ्चं व्याप्नोति ; तस्मात् तं प्रत्यगात्मानं दृष्टे­र्द्र­ष्टारं न पश्येः । तथा श्रुतेः श्रोतारं न शृणुयाः । तथा मतेः मनोवृत्तेः केवलाया व्याप्तारं न मन्वीथाः । तथा विज्ञातेः केवलाया बुद्धिवृत्तेः व्याप्तारं न विजानीयाः । एष वस्तुनः स्वभावः ; अतः नैव दर्शयितुं शक्यते गवादिवत् ॥

‘न दृष्टे­र्द्र­ष्टा­रम्’ इत्यत्र अक्षराणि अन्यथा व्याचक्षते केचित् — न दृष्टे­र्द्र­ष्टा­रम् दृष्टेः कर्तारम् दृष्टि­भे­द­म­कृत्वा दृष्टिमात्रस्य कर्तारम् , न पश्येरिति ; दृष्टेरिति कर्मणि षष्ठी ; सा दृष्टिः क्रियमाणा घटवत् कर्म भवति ; द्रष्टारमिति तृजन्तेन द्रष्टु­र्दृ­ष्टि­क­र्तृ­त्व­मा­चष्टे ; तेन असौ दृष्टेर्द्रष्टा दृष्टेः कर्तेति व्याख्या­तॄ­णा­म­भि­प्रायः । तत्र दृष्टेरिति षष्ठ्यन्तेन दृष्टिग्रहणं निरर्थकमिति दोषं न पश्यन्ति ; पश्यतां वा पुनरुक्तम् असारः प्रमादपाठ इति वा न आदरः ; कथं पुनराधिक्यम् ? तृजन्तेनैव दृष्टि­क­र्तृ­त्वस्य सिद्धत्वात् दृष्टेरिति निरर्थकम् ; तदा ‘द्रष्टारं न पश्येः’ इत्येतावदेव वक्तव्यम् ; यस्माद्धातोः परः तृच् श्रूयते, तद्धा­त्व­र्थ­क­र्तरि हि तृच् स्मर्यते ; ‘गन्तारं भेत्तारं वा नयति’ इत्येतावानेव हि शब्दः प्रयुज्यते ; न तु ‘गतेर्गन्तारं भिदे­र्भे­त्ता­रम्’ इति असति अर्थविशेषे प्रयोक्तव्यः ; न च अर्थवादत्वेन हातव्यं सत्यां गतौ ; न च प्रमादपाठः, सर्वे­षा­म­वि­गा­नात् ; तस्मात् व्याख्यातॄणामेव बुद्धि­दौ­र्ब­ल्यम् , नाध्येतृप्रमादः । यथा तु अस्मा­भि­र्व्या­ख्या­तम् — लौकि­क­दृ­ष्टे­र्वि­विच्य नित्य­दृ­ष्टि­वि­शिष्ट आत्मा प्रदर्शयितव्यः — तथा कर्तृ­क­र्म­वि­शे­ष­ण­त्वेन दृष्टिशब्दस्य द्विः प्रयोग उपपद्यते आत्म­स्व­रू­प­नि­र्धा­र­णाय ; ‘न हि द्रष्टु­र्दृष्टेः’ इति च प्रदे­शा­न्त­र­वा­क्येन एकवाक्यतोपपन्ना भवति ; तथा च ‘चक्षूंषि पश्यति’(के. उ. १ । ७) ‘श्रोत्रमिदं श्रुतम्’(के. उ. १ । ८) इति श्रुत्यन्तरेण एकवाक्यता उपपन्ना । न्यायाच्च — एवमेव हि आत्मनो नित्य­त्व­मु­प­प­द्यते विक्रियाभावे ; विक्रियावच्च नित्यमिति च विप्रतिषिद्धम् । ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) ‘न हि द्रष्टु­र्दृ­ष्टे­र्वि­प­रि­लोपो विद्यते’(बृ. उ. ४ । ३ । २३) ‘एष नित्यो महिमा ब्राह्मणस्य’(बृ. उ. ४ । ४ । २३) इति च श्रुत्यक्षराणि अन्यथा न गच्छन्ति । ननु द्रष्टा श्रोता मन्ता विज्ञाता इत्ये­व­मा­दी­न्य­क्ष­राणि आत्म­नोऽ­वि­क्रि­यत्वे न गच्छन्तीति — न, यथा­प्रा­प्त­लौ­कि­क­वा­क्या­नु­वा­दि­त्वात् तेषाम् ; न आत्म­त­त्त्व­नि­र्धा­र­णा­र्थानि तानि ; ‘न दृष्टे­र्द्र­ष्टा­रम्’ इत्येवमादीनाम् अन्या­र्था­स­म्भ­वात् यथो­क्ता­र्थ­प­र­त्व­म­व­ग­म्यते । तस्मात् अनवबोधादेव हि विशेषणं परित्यक्तं दृष्टेरिति । एषः ते तव आत्मा सर्वै­रु­क्तै­र्वि­शे­ष­णै­र्वि­शिष्टः ; अतः एतस्मादात्मनः अन्यदार्तम् — कार्यं वा शरीरम् , करणात्मकं वा लिङ्गम् ; एतदेव एकम् अनार्तम् अविनाशि कूटस्थम् । ततो ह उषस्तश्चाक्रायण उपरराम ॥

इति तृतीयाध्यायस्य चतुर्थं ब्राह्मणम् ॥

पञ्चमं ब्राह्मणम्

बन्धनं सप्रयोजकमुक्तम् । यश्च बद्धः, तस्यापि अस्तित्वमधिगतम् , व्यतिरिक्तत्वं च । तस्य इदानीं बन्धमोक्षसाधनं सस­न्न्या­स­मा­त्म­ज्ञानं वक्तव्यमिति कहोलप्रश्न आरभ्यते —

अथ हैनं कहोलः कौषीतकेयः पप्रच्छ याज्ञवल्क्येति होवाच यदेव साक्षा­द­प­रो­क्षा­द्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याच­क्ष्वे­त्येष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति । एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः । तस्मा­द्ब्रा­ह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एवातोऽन्यदार्तं ततो ह कहोलः कौषीतकेय उपरराम ॥ १ ॥

अथ ह एनं कहोलो नामतः, कुषीतकस्यापत्यं कौषीतकेयः, पप्रच्छ ; याज्ञवल्क्येति होवाचेति, पूर्ववत् — यदेव साक्षा­द­प­रो­क्षा­द्ब्रह्म य आत्मा सर्वान्तरः तं मे व्याचक्ष्वेति — यं विदित्वा बन्ध­ना­त्प्र­मु­च्यते । याज्ञवल्क्य आह — एष ते तव आत्मा ॥

किम् उष­स्त­क­हो­ला­भ्याम् एक आत्मा पृष्टः, किं वा भिन्नावात्मानौ तुल्यलक्षणाविति । भिन्नाविति युक्तम् , प्रश्न­यो­र­पु­न­रु­क्त­त्वो­प­पत्तेः ; यदि हि एक आत्मा उष­स्त­क­हो­ल­प्र­श्न­यो­र्वि­व­क्षितः, तत्र एकेनैव प्रश्नेन अधिगतत्वात् तद्विषयो द्वितीयः प्रश्नोऽनर्थकः स्यात् ; न च अर्थवादरूपत्वं वाक्यस्य ; तस्मात् भिन्ना­वे­ता­वा­त्मानौ क्षेत्र­ज्ञ­प­र­मा­त्मा­ख्या­विति केचि­द्व्या­च­क्षते । तन्न, ‘ते’ इति प्रतिज्ञानात् ; ‘एष त आत्मा’ इति हि प्रतिवचने प्रतिज्ञातम् ; न च एकस्य कार्य­क­र­ण­स­ङ्घा­तस्य द्वावात्मानौ उपपद्येते ; एको हि कार्यकरणसङ्घातः एकेन आत्मना आत्मवान् ; न च उषस्तस्यान्यः कहोलस्यान्यः जातितो भिन्न आत्मा भवति, द्वयोः अगौ­ण­त्वा­त्म­त्व­स­र्वा­न्त­र­त्वा­नु­प­पत्तेः ; यदि एकमगौणं ब्रह्म द्वयोः इतरेण अवश्यं गौणेन भवितव्यम् ; तथा आत्मत्वं सर्वान्तरत्वं च — विरु­द्ध­त्वा­त्प­दा­र्था­नाम् ; यदि एकं सर्वान्तरं ब्रह्म आत्मा मुख्यः, इतरेण असर्वान्तरेण अनात्मना अमुख्येन अवश्यं भवितव्यम् ; तस्मात् एकस्यैव द्विः श्रवणं विशेषविवक्षया । यत्तु पूर्वोक्तेन समानं द्वितीये प्रश्नान्तर उक्तम् , तावन्मात्रं पूर्व­स्यै­वा­नु­वादः — तस्यैव अनुक्तः कश्चिद्विशेषः वक्तव्य इति । कः पुनरसौ विशेष इत्युच्यते — पूर्व­स्मि­न्प्रश्ने — अस्ति व्यतिरिक्त आत्मा यस्यायं सप्रयोजको बन्ध उक्त इति द्वितीये तु — तस्यैव आत्मनः अश­ना­या­दि­सं­सा­र­ध­र्मा­ती­तत्वं विशेष उच्यते — यद्वि­शे­ष­प­रि­ज्ञा­नात् सन्न्याससहितात् पूर्वो­क्ता­द्ब­न्ध­नात् विमुच्यते । तस्मात् प्रश्न­प्र­ति­व­च­नयोः ‘एष त आत्मा’ इत्येवमन्तयोः तुल्यार्थतैव । ननु कथम् एकस्यैव आत्मनः अश­ना­या­द्य­ती­तत्वं तद्वत्त्वं चेति विरु­द्ध­ध­र्म­स­म­वा­यि­त्व­मिति — न, परिहृतत्वात् ; नाम­रू­प­वि­का­र­का­र्य­क­र­ण­ल­क्ष­ण­स­ङ्घा­तो­पा­धि­भे­द­स­म्प­र्क­ज­नि­त­भ्रा­न्ति­मात्रं हि संसा­रि­त्व­मि­त्य­स­कृ­द­वो­चाम, विरु­द्ध­श्रु­ति­व्या­ख्या­न­प्र­स­ङ्गेन च ; यथा रज्जु­शु­क्ति­का­ग­ग­ना­दयः सर्परजतमलिना भवन्ति परा­ध्या­रो­पि­त­ध­र्म­वि­शिष्टाः, स्वतः केवला एव रज्जु­शु­क्ति­का­ग­ग­ना­दयः — न च एवं विरु­द्ध­ध­र्म­स­म­वा­यित्वे पदार्थानां कश्चन विरोधः । नाम­रू­पो­पा­ध्य­स्तित्वे ‘एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १)‘एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १)‘एक­मे­वा­द्वि­ती­यम्’(छा. उ. ६ । २ । १) ‘नेह नानास्ति किञ्चन’(बृ. उ. ४ । ४ । १९)‘नेह नानास्ति किञ्चन’(बृ. उ. ४ । ४ । १९) इति श्रुतयो विरुध्येरन्निति चेत् — न, सलि­ल­फे­न­दृ­ष्टा­न्तेन परिहृतत्वात् मृदा­दि­दृ­ष्टा­न्तैश्च ; यदा तु परमार्थदृष्ट्या पर­मा­त्म­त­त्त्वात् श्रुत्य­नु­सा­रिभिः अन्यत्वेन निरूप्यमाणे नामरूपे मृदादिविकारवत् वस्त्वन्तरे तत्त्वतो न स्तः — सलि­ल­फे­न­घ­टा­दि­वि­का­र­व­देव, तदा तत् अपेक्ष्य ‘एक­मे­वा­द्वि­ती­यम्’ ‘नेह नानास्ति किञ्चन’ इत्या­दि­प­र­मा­र्थ­द­र्श­न­गो­च­रत्वं प्रतिपद्यते ; रूपवदेव स्वेन रूपेण वर्तमानं केन­चि­द­स्पृ­ष्ट­स्व­भा­व­मपि सत् नाम­रू­प­कृ­त­का­र्य­क­र­णो­पा­धिभ्यो विवेकेन नावधार्यते, नाम­रू­पो­पा­धि­दृ­ष्टि­रेव च भवति स्वाभाविकी, तदा सर्वोऽयं वस्त्व­न्त­रा­स्ति­त्व­व्य­व­हारः । अस्ति चायं भेदकृतो मिथ्याव्यवहारः, येषां ब्रह्म­त­त्त्वा­द­न्य­त्वेन वस्तु विद्यते, येषां च नास्ति ; पर­मा­र्थ­वा­दि­भिस्तु श्रुत्यनुसारेण निरूप्यमाणे वस्तुनि — किं तत्त्वतोऽस्ति वस्तु किं वा नास्तीति, ब्रह्मै­क­मे­वा­द्वि­तीयं सर्व­सं­व्य­व­हा­र­शू­न्य­मिति निर्धार्यते ; तेन न कश्चिद्विरोधः । न हि पर­मा­र्था­व­धा­र­ण­नि­ष्ठायां वस्त्व­न्त­रा­स्तित्वं प्रतिपद्यामहे — ‘एक­मे­वा­द्वि­ती­यम्’ ‘अन­न्त­र­म­बा­ह्यम्’(बृ. उ. २ । ५ । १९) , इति श्रुतेः ; न च नाम­रू­प­व्य­व­हा­र­काले तु अविवेकिनां क्रिया­का­र­क­फ­ला­दि­सं­व्य­व­हारो नास्तीति प्रतिषिध्यते । तस्मात् ज्ञानाज्ञाने अपेक्ष्य सर्वः संव्यवहारः शास्त्रीयो लौकिकश्च ; अतो न काचन विरोधशङ्का । सर्व­वा­दि­ना­म­प्य­प­रि­हार्यः पर­मा­र्थ­सं­व्य­व­हा­र­कृतो व्यवहारः ॥

तत्र पर­मा­र्था­त्म­स्व­रू­प­म­पेक्ष्य प्रश्नः पुनः — कतमो याज्ञवल्क्य सर्वान्तर इति । प्रत्याह इतरः — योऽशनायापिपासे, अशितुमिच्छा अशनाया, पातुमिच्छा पिपासा ; ते अशनायापिपासे योऽत्येतीति वक्ष्यमाणेन सम्बन्धः । अविवेकिभिः तलमलवदिव गगनं गम्यमानमेव तलमले अत्येति — परमार्थतः — ताभ्या­म­सं­सृ­ष्ट­स्व­भा­व­त्वात् — तथा मूढैः अश­ना­या­पि­पा­सा­दि­म­द्ब्रह्म गम्यमानमपि — क्षुधितोऽहं पिपासितोऽहमिति, ते अत्येत्येव — परमार्थतः — ताभ्या­म­सं­सृ­ष्ट­स्व­भा­व­त्वात् ; ‘न लिप्यते लोकदुःखेन बाह्यः’(क. उ. २ । २ । ११) इति श्रुतेः — अवि­द्व­ल्लो­का­ध्या­रो­पि­त­दुः­खे­ने­त्यर्थः । प्राणै­क­ध­र्म­त्वात् समा­स­क­र­ण­म­श­ना­या­पि­पा­सयोः । शोकं मोहम् — शोक इति कामः ; इष्टं वस्तु उद्दिश्य चिन्तयतो यत् अरमणम् , तत् तृष्णाभिभूतस्य कामबीजम् ; तेन हि कामो दीप्यते ; मोहस्तु विप­री­त­प्र­त्य­य­प्र­भ­वोऽ­वि­वेकः भ्रमः ; स च अविद्या सर्वस्यानर्थस्य प्रसवबीजम् ; भिन्न­का­र्य­त्वा­त्तयोः शोकमोहयोः असमासकरणम् । तौ मनोऽधिकरणौ ; तथा शरीराधिकरणौ जरां मृत्युं च अत्येति ; जरेति कार्य­क­र­ण­स­ङ्घा­त­वि­प­रि­णामः वली­प­लि­ता­दि­लिङ्गः ; मृत्युरिति तद्विच्छेदः विपरिणामावसानः ; तौ जरामृत्यू शरीराधिकरणौ अत्येति । ये ते अशनायादयः प्राण­म­नः­श­री­रा­धि­क­रणाः प्राणिषु अनवरतं वर्तमानाः अहोरात्रादिवत् समुद्रोर्मिवच्च प्राणिषु संसार इत्युच्यन्ते ; योऽसौ दृष्टे­र्द्र­ष्टे­त्या­दि­ल­क्षणः साक्षादव्यवहितः अपरोक्षादगौणः सर्वान्तर आत्मा ब्रह्मा­दि­स्त­म्ब­प­र्य­न्तानां भूतानाम् अश­ना­या­पि­पा­सा­दिभिः संसारधर्मैः सदा न स्पृश्यते — आकाश इव घनादिमलैः — तम् एतं वै आत्मानं स्वं तत्त्वम् , विदित्वा ज्ञात्वा — अयमहमस्मि परं ब्रह्म सदा सर्व­सं­सा­र­वि­नि­र्मुक्तं नित्यतृप्तमिति, ब्राह्मणाः — ब्राह्म­णा­ना­मे­वा­धि­कारो व्युत्थाने, अतो ब्राह्मणग्रहणम् — व्युत्थाय वैप­री­त्ये­नो­त्थानं कृत्वा ; कुत इत्याह — पुत्रैषणायाः पुत्रार्थैषणा पुत्रैषणा — पुत्रेणेमं लोकं जयेयमिति लोकजयसाधनं पुत्रं प्रति इच्छा एषणा दारसङ्ग्रहः ; दार­स­ङ्ग्र­ह­म­कृ­त्वे­त्यर्थः ; वित्तैषणायाश्च — कर्मसाधनस्य गवादेरुपादानम् — अनेन कर्मकृत्वा पितृलोकं जेष्यामीति, विद्यासंयुक्तेन वा देवलोकम् , केवलया वा हिर­ण्य­ग­र्भ­वि­द्यया दैवेन वित्तेन देवलोकम् । दैवाद्वित्तात् व्युत्थानमेव नास्तीति केचित् , यस्मात् तद्बलेन हि किल व्युत्थानमिति — तदसत् , ‘एतावान्वै कामः’(बृ. उ. १ । ४ । १७)‘एतावान्वै कामः’(बृ. उ. १ । ४ । १७) इति पठितत्वात् एषणामध्ये दैवस्य वित्तस्य ; हिर­ण्य­ग­र्भा­दि­दे­व­ता­वि­ष­यैव विद्या वित्त­मि­त्यु­च्यते, देव­लो­क­हे­तु­त्वात् ; नहि निरु­पा­धि­क­प्र­ज्ञा­न­घ­न­वि­षया ब्रह्मविद्या देव­लो­क­प्रा­प्ति­हेतुः, ‘तस्मा­त्त­त्स­र्व­म­भ­वत्’(बृ. उ. १ । ४ । १०) ‘आत्मा ह्येषां स भवति’(बृ. उ. १ । ४ । १) इति श्रुतेः ; तद्बलेन हि व्युत्थानम् , ‘एतं वै तमात्मानं विदित्वा’(बृ. उ. ३ । ५ । १) इति विशेषवचनात् । तस्मात् त्रिभ्योऽ­प्ये­तेभ्यः अना­त्म­लो­क­प्रा­प्ति­सा­ध­नेभ्यः एषणाविषयेभ्यो व्युत्थाय — एषणा कामः, ‘एतावान्वै कामः’ इति श्रुतेः — एतस्मिन् विविधे अना­त्म­लो­क­प्रा­प्ति­सा­धने तृष्णा­म­कृ­त्वे­त्यर्थः । सर्वा हि साधनेच्छा फलेच्छैव, अतो व्याचष्टे श्रुतिः — एकैव एषणेति ; कथम् ? या ह्येव पुत्रैषणा सा वित्तैषणा, दृष्ट­फ­ल­सा­ध­न­त्व­तु­ल्य­त्वात् ; या वित्तैषणा सा लोकैषणा ; फलार्थैव सा ; सर्वः फलार्थप्रयुक्त एव हि सर्वं साधनमुपादत्ते ; अत एकैव एषणा या लोकैषणा सा साधनमन्तरेण सम्पादयितुं न शक्यत इति, साध्यसाधनभेदेन उभे हि यस्मात् एते एषणे एव भवतः । तस्मात् ब्रह्मविदो नास्ति कर्म कर्मसाधनं वा — अतो येऽतिक्रान्ता ब्राह्मणाः, सर्वं कर्म कर्मसाधनं च सर्वं देव­पि­तृ­मा­नु­ष­नि­मित्तं यज्ञोपवीतादि — तेन हि दैवं पित्र्यं मानुषं च कर्म क्रियते, ‘निवीतं मनुष्याणाम्’(तै. सं. २ । ५ । ११ । १) इत्यादिश्रुतेः । तस्मात् पूर्वे ब्राह्मणाः ब्रह्मविदः व्युत्थाय कर्मभ्यः कर्मसाधनेभ्यश्च यज्ञो­प­वी­ता­दिभ्यः, पर­म­हं­स­पा­रि­व्राज्यं प्रतिपद्य, भिक्षाचर्यं चरन्ति — भिक्षार्थं चरणं भिक्षाचर्यम् , चरन्ति — त्यक्त्वा स्मार्तं लिङ्गं केव­ल­मा­श्र­म­मा­त्र­श­र­णानां जीवनसाधनं पारि­व्रा­ज्य­व्य­ञ्ज­कम् ; विद्वान् लिङ्गवर्जितः — ‘तस्मादलिङ्गो धर्म­ज्ञोऽ­व्य­क्त­लि­ङ्गोऽ­व्य­क्ता­चारः’(अश्व. ४६ । ५१; व. १० । १२) इत्या­दि­स्मृ­तिभ्यः, ‘अथ परि­व्रा­ड्वि­व­र्ण­वासा मुण्डोऽ­प­रि­ग्रहः’(जा. उ. ५) इत्यादिश्रुतेः, ‘सशि­खा­न्के­शा­न्नि­कृत्य विसृज्य यज्ञोपवीतम्’(क. रु. १) इति च ॥

ननु ‘व्युत्थायाथ भिक्षाचर्यं चरन्ति’ इति वर्तमानापदेशात् अर्थवादोऽयम् ; न विधायकः प्रत्ययः कश्चिच्छ्रूयते लिङ्लो­ट्त­व्या­ना­म­न्य­त­मोऽपि ; तस्मात् अर्थवादमात्रेण श्रुति­स्मृ­ति­वि­हि­तानां यज्ञोपवीतादीनां साधनानां न शक्यते परित्यागः कारयितुम् ; ‘यज्ञो­प­वी­त्ये­वा­धी­यीत याजयेद्यजेत वा’(तै. आ. २ । १ । १) । पारिव्राज्ये तावदध्ययनं विहितम् — ‘वेद­स­न्न्य­स­ना­च्छू­द्र­स्त­स्मा­द्वेदं न सन्न्यसेत्’ इति ; ‘स्वाध्याय एवोत्सृज्यमानो वाचम्’(आ. ध. २ । २१ । १०) इति च आपस्तम्बः ; ‘ब्रह्मोज्झं वेदनिन्दा च कौटसाक्ष्यं सुहृद्वधः । गर्हि­ता­न्ना­द्य­यो­र्जग्धिः सुरापानसमानि षट्’(मनु. ११ । ५६) — इति वेदपरित्यागे दोषश्रवणात् । ‘उपासने गुरूणां वृद्धा­ना­म­ति­थीनां होमे जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीती स्यात्’(आ. ध. १ । १५ । १) इति परि­व्रा­ज­क­ध­र्मेषु च गुरू­पा­स­न­स्वा­ध्याय भोजनाचमनादीनां कर्मणां श्रुतिस्मृतिषु कर्तव्यतया चोदितत्वात् गुर्वा­द्यु­पा­स­ना­ङ्ग­त्वेन यज्ञोपवीतस्य विहितत्वात् तत्परित्यागो नैवावगन्तुं शक्यते । यद्यपि एषणाभ्यो व्युत्थानं विधीयत एव, तथापि पुत्रा­द्ये­ष­णा­भ्य­स्ति­सृभ्य एव व्युत्थानम् , न तु सर्व­स्मा­त्क­र्मणः कर्मसाधनाच्च व्युत्थानम् ; सर्वपरित्यागे च अश्रुतं कृतं स्यात् , श्रुतं च यज्ञोपवीतादि हापितं स्यात् ; तथा च महानपराधः विहि­ता­क­र­ण­प्र­ति­षि­द्धा­च­र­ण­नि­मित्तः कृतः स्यात् ; तस्मात् यज्ञो­प­वी­ता­दि­लि­ङ्ग­प­रि­त्या­गोऽ­न्ध­प­र­म्प­रैव ॥

न, ‘यज्ञोपवीतं वेदांश्च सर्वं तद्व­र्ज­ये­द्यतिः’(क. रु. २) इति श्रुतेः । अपि च आत्म­ज्ञा­न­प­र­त्वा­त्स­र्वस्या उपनिषदः — आत्मा द्रष्टव्यः श्रोतव्यो मन्तव्य इति हि प्रस्तुतम् ; स च आत्मैव साक्षा­द­प­रो­क्षा­त्स­र्वा­न्तरः अश­ना­या­दि­सं­सा­र­ध­र्म­व­र्जित इत्येवं विज्ञेय इति तावत् प्रसिद्धम् ; सर्वा हीयमुपनिषत् एवंपरेति विध्य­न्त­र­शे­षत्वं तावन्नास्ति, अतो नार्थवादः, आत्मज्ञानस्य कर्तव्यत्वात् । आत्मा च अश­ना­या­दि­ध­र्म­वान्न भवतीति साधनफलविलक्षणो ज्ञातव्यः ; अतोऽव्यतिरेकेण आत्मनो ज्ञानमविद्या — ‘अन्योऽ­सा­व­न्योऽ­ह­म­स्मीति’,(बृ. उ. १ । ४ । १०) न स वेद, ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’,(बृ. उ. ४ । ४ । १९) ‘एक­धै­वा­नु­द्र­ष्ट­व्यम्’,(छा. उ. ६ । २ । १) ‘एक­मे­वा­द्वि­ती­यम्’, ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) इत्या­दि­श्रु­तिभ्यः । क्रियाफलं साधनं अश­ना­या­दि­सं­सा­र­ध­र्मा­ती­ता­दा­त्म­नोऽ­न्यत् अविद्याविषयम् — ‘यत्र हि द्वैतमिव भवति’(बृ. उ. २ । ४ । १४) ‘अन्योऽ­सा­व­न्योऽ­ह­म­स्मीति, ’(बृ. उ. १ । ४ । १०) ‘न स वेद’ ‘अथ येऽन्यथातो विदुः’(छा. उ. ७ । २५ । २) इत्या­दि­वा­क्य­श­तेभ्यः । न च विद्याविद्ये एकस्य पुरुषस्य सह भवतः, विरोधात् — तमःप्रकाशाविव ; तस्मात् आत्मविदः अवि­द्या­वि­ष­योऽ­धि­कारो न द्रष्टव्यः क्रिया­का­र­क­फ­ल­भे­द­रूपः, ‘मृत्योः स मृत्युमाप्नोति’(बृ. उ. ४ । ४ । १९) इत्या­दि­नि­न्दि­त­त्वात् , सर्व­क्रि­या­सा­ध­न­फ­लानां च अविद्याविषयाणां तद्वि­प­री­ता­त्म­वि­द्यया हात­व्य­त्वे­ने­ष्ट­त्वात् , यज्ञो­प­वी­ता­दि­सा­ध­नानां च तद्विषयत्वात् । तस्मात् असा­ध­न­फ­ल­स्व­भा­वा­दा­त्मनः अन्यविषया विलक्षणा एषणा ; उभे ह्येते साधनफले एषणे एव भवतः यज्ञो­प­वी­ता­दे­स्त­त्सा­ध्य­क­र्मणां च साधनत्वात् , ‘उभे ह्येते एषणे एव’ इति हेतु­व­च­ने­ना­व­धा­र­णात् । यज्ञो­प­वी­ता­दि­सा­ध­नात् तत्साध्येभ्यश्च कर्मभ्यः अवि­द्या­वि­ष­य­त्वात् एषणारूपत्वाच्च जिहा­सि­त­व्य­रू­प­त्वाच्च व्युत्थानं विधित्सितमेव । ननूपनिषद आत्म­ज्ञा­न­प­र­त्वात् व्युत्था­न­श्रुतिः तत्स्तुत्यर्था, न विधिः — न, विधि­त्सि­त­वि­ज्ञा­नेन समा­न­क­र्तृ­क­त्व­श्र­व­णात् ; न हि अकर्तव्येन कर्तव्यस्य समानकर्तृकत्वेन वेदे कदाचिदपि श्रवणं सम्भवति ; कर्तव्यानामेव हि अभि­ष­व­हो­म­भ­क्षाणां यथा श्रवणम् — अभिषुत्य हुत्वा भक्षयन्तीति, तद्वत् आत्म­ज्ञा­नै­ष­णा­व्यु­त्था­न­भि­क्षा­च­र्याणां कर्तव्यानामेव समा­न­क­र्तृ­क­त्व­श्र­वणं भवेत् । अवि­द्या­वि­ष­य­त्वात् एषणात्वाच्च अर्थप्राप्त आत्म­ज्ञा­न­वि­धे­रेव यज्ञो­प­वी­ता­दि­प­रि­त्यागः, न तु विधातव्य इति चेत् — न ; सुत­रा­मा­त्म­न­ज्ञा­न­वि­धि­नैव विहितस्य समा­न­क­र्तृ­क­त्व­श्र­व­णेन दार्ढ्यो­प­पत्तिः, तथा भिक्षाचर्यस्य च । यत्पुनरुक्तम् , वर्त­मा­ना­प­दे­शा­द­र्थ­वा­द­मा­त्र­मिति — न, औदु­म्ब­र­यू­पा­दि­वि­धि­स­मा­न­त्वा­द­दोषः ॥

‘व्युत्थाय भिक्षाचर्यं चरन्ति’ इत्यनेन पारिव्राज्यं विधीयते ; पारि­व्रा­ज्या­श्रमे च यज्ञो­प­वी­ता­दि­सा­ध­नानि विहितानि लिङ्गं च श्रुतिभिः स्मृतिभिश्च ; अतः तत् वर्जयित्वा अन्य­स्मा­द्व्यु­त्था­नम् एषणात्वेऽपीति चेत् — न, विज्ञा­न­स­मा­न­क­र्तृ­का­त्पा­रि­व्रा­ज्यात् एष­णा­व्यु­त्था­न­ल­क्ष­णात् पारि­व्रा­ज्या­न्त­रो­प­पत्तेः ; यद्धि तत् एषणाभ्यो व्युत्थानलक्षणं पारिव्राज्यम् , तत् आत्मज्ञानाङ्गम् , आत्म­ज्ञा­न­वि­रो­ध्ये­ष­णा­प­रि­त्या­ग­रू­प­त्वात् , अवि­द्या­वि­ष­य­त्वा­च्चै­ष­णायाः ; तद्व्यतिरेकेण च अस्ति आश्रमरूपं पारिव्राज्यं ब्रह्म­लो­का­दि­फ­ल­प्रा­प्ति­सा­ध­नम् , यद्विषयं यज्ञो­प­वी­ता­दि­सा­ध­न­वि­धानं लिङ्गविधानं च । न च एष­णा­रू­प­सा­ध­नो­पा­दा­नस्य आश्र­म­ध­र्म­मा­त्रेण पारि­व्रा­ज्या­न्तरे विषये सम्भवति सति, सर्वो­प­नि­ष­द्वि­हि­तस्य आत्मज्ञानस्य बाधनं युक्तम् , यज्ञो­प­वी­ता­द्य­वि­द्या­वि­ष­यै­ष­णा­रू­प­सा­ध­नो­पा­दि­त्सायां च अवश्यम् असाधनफलरूपस्य अश­ना­या­दि­सं­सा­र­ध­र्म­व­र्जि­तस्य अहं ब्रह्मास्मीति विज्ञानं बाध्यते । न च तद्बाधनं युक्तम् , सर्वोपनिषदां तदर्थपरत्वात् । ‘भिक्षाचर्यं चरन्ति’ इत्येषणां ग्राहयन्ती श्रुतिः स्वयमेव बाधत इति चेत् — अथापि स्यादेषणाभ्यो व्युत्थानं विधाय पुनरेषणैकदेशं भिक्षाचर्यं ग्राहयन्ती तत्स­म्ब­द्ध­म­न्य­दपि ग्राहयतीति चेत् — न, भिक्षा­च­र्य­स्या­प्र­यो­ज­क­त्वात् — हुत्वो­त्त­र­का­ल­भ­क्ष­ण­वत् ; शेष­प्र­ति­प­त्ति­क­र्म­त्वात् अप्रयोजकं हि तत् ; असं­स्का­र­क­त्वाच्च — भक्षणं पुरु­ष­सं­स्का­र­क­मपि स्यात् , न तु भिक्षाचर्यम् ; निय­मा­दृ­ष्ट­स्यापि ब्रह्मविदः अनिष्टत्वात् । निय­मा­दृ­ष्ट­स्या­नि­ष्टत्वे किं भिक्षाचर्येणेति चेत् — न, अन्यसाधनात् व्युत्थानस्य विहितत्वात् । तथापि किं तेनेति चेत् — यदि स्यात् , बाढम् अभ्युपगम्यते हि तत् । यानि पारि­व्रा­ज्येऽ­भि­हि­तानि वचनानि ‘यज्ञो­प­वी­त्ये­वा­धी­यीत’(तै. आ. २ । १ । १) इत्यादीनि, तानि अवि­द्व­त्पा­रि­व्रा­ज्य­मा­त्र­वि­ष­या­णीति परिहृतानि ; इत­र­था­त्म­ज्ञा­न­बाधः स्यादिति ह्युक्तम् ; ‘निरा­शि­ष­म­ना­रम्भं निर्न­म­स्का­र­म­स्तु­तिम् । अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः’(मो. ध. २६३ । ३४) इति सर्वकर्माभावं दर्शयति स्मृतिः विदुषः — ‘विद्वां­ल्लि­ङ्ग­वि­व­र्जितः’(?) , ‘तस्मादलिङ्गो धर्मज्ञः’(अश्व. ४६ । ५१) इति च । तस्मात् पर­म­हं­स­पा­रि­व्रा­ज्य­मेव व्युत्थानलक्षणं प्रतिपद्येत आत्मवित् सर्व­क­र्म­सा­ध­न­प­रि­त्या­ग­रू­प­मिति ॥

यस्मात् पूर्वे ब्राह्मणा एतमात्मानम् असाधनफलस्वभावं विदित्वा सर्वस्मात् साधनफलस्वरूपात् एषणालक्षणात् व्युत्थाय भिक्षाचर्यं चरन्ति स्म, दृष्टा­दृ­ष्टार्थं कर्म तत्साधनं च हित्वा — तस्मात् अद्यत्वेऽपि ब्राह्मणः ब्रह्मवित् , पाण्डित्यं पण्डितभावम् , एतदात्मविज्ञानं पाण्डित्यम् , तत् निर्विद्य निःशेषं विदित्वा, आत्मविज्ञानं निरवशेषं कृत्वेत्यर्थः — आचार्यत आगमतश्च एषणाभ्यो व्युत्थाय — एष­णा­व्यु­त्था­ना­व­सा­न­मेव हि तत्पाण्डित्यम् , एष­णा­ति­र­स्का­रो­द्भ­व­त्वात् एष­णा­वि­रु­द्ध­त्वात् ; एषणामतिरस्कृत्य न ह्यात्मविषयस्य पाण्डि­त्य­स्यो­द्भव इति आत्मज्ञानेनैव विहि­त­मे­ष­णा­व्यु­त्था­नम् आत्म­ज्ञा­न­स­मा­न­क­र्तृ­क­त्वा­प्र­त्य­यो­पा­दा­न­लि­ङ्ग­श्रुत्या दृढीकृतम् । तस्मात् एषणाभ्यो व्युत्थाय ज्ञानबलभावेन बाल्येन तिष्ठासेत् स्थातुमिच्छेत् ; साधनफलाश्रयणं हि बलम् इत­रे­षा­म­ना­त्म­वि­दाम् ; तद्बलं हित्वा विद्वान् असा­ध­न­फ­ल­स्व­रू­पा­त्म­वि­ज्ञा­न­मेव बलं तद्भावमेव केवलम् आश्रयेत् , तदाश्रयणे हि करणानि एषणाविषये एनं हृत्वा स्थापयितुं नोत्सहन्ते ; ज्ञानबलहीनं हि मूढं दृष्टा­दृ­ष्ट­वि­ष­या­या­मे­ष­णा­या­मेव एनं करणानि नियोजयन्ति ; बलं नाम आत्मविद्यया अशे­ष­वि­ष­य­दृ­ष्टि­ति­र­स्क­र­णम् ; अतः तद्भावेन बाल्येन तिष्ठासेत् , तथा ‘आत्मना विन्दते वीर्यम्’(के. उ. २ । ४) इति श्रुत्यन्तरात् , ‘नायमात्मा बलहीनेन लभ्यः’(मु. उ. ३ । २ । ४) इति च । बाल्यं च पाण्डित्यं च निर्विद्य निःशेषं कृत्वा अथ मननान्मुनिः योगी भवति ; एतावद्धि ब्राह्मणेन कर्तव्यम् , यदुत सर्वा­ना­त्म­प्र­त्य­य­ति­र­स्क­र­णम् ; एतत्कृत्वा कृतकृत्यो योगी भवति । अमौनं च आत्म­ज्ञा­ना­ना­त्म­प्र­त्य­य­ति­र­स्कारौ पाण्डि­त्य­बा­ल्य­सं­ज्ञकौ निःशेषं कृत्वा, मौनं नाम अना­त्म­प्र­त्य­य­ति­र­स्क­र­णस्य पर्यवसानं फलम् — तच्च निर्विद्य अथ ब्राह्मणः कृतकृत्यो भवति — ब्रह्मैव सर्वमिति प्रत्यय उपजायते । स ब्राह्मणः कृतकृत्यः, अतो ब्राह्मणः ; निरुपचरितं हि तदा तस्य ब्राह्मण्यं प्राप्तम् ; अत आह — स ब्राह्मणः केन स्यात् केन चरणेन भवेत् ? येन स्यात् — येन चरणेन भवेत् , तेन ईदृश एवायम् — येन केनचित् चरणेन स्यात् , तेन ईदृश एव उक्तलक्षण एव ब्राह्मणो भवति ; येन केनचिच्चरणेनेति स्तुत्यर्थम् — येयं ब्राह्म­ण्या­वस्था सेयं स्तूयते, न तु चरणेऽनादरः । अतः एत­स्मा­द्ब्रा­ह्म­ण्या­व­स्था­नात् अश­ना­या­द्य­ती­ता­त्म­स्व­रू­पात् नित्यतृप्तात् , अन्यत् अवि­द्या­वि­ष­य­मे­ष­णा­ल­क्षणं वस्त्वन्तरम् , आर्तम् विनाशि आर्तिपरिगृहीतं स्वप्न­मा­या­म­री­च्यु­द­क­स­मम् असारम् , आत्मैव एकः केवलो नित्यमुक्त इति । ततो ह कहोलः कौषीतकेयः उपरराम ॥

इति तृतीयाध्यायस्य पञ्चमं ब्राह्मणम् ॥

षष्ठं ब्राह्मणम्

अथ हैनं गार्गी वाचक्नवी पप्रच्छ याज्ञवल्क्येति होवाच यदिदं सर्वमप्स्वोतं च प्रोतं च कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति वायौ गार्गीति कस्मिन्नु खलु वायुरोतश्च प्रोत­श्चे­त्य­न्त­रि­क्ष­लो­केषु गार्गीति कस्मिन्नु खल्व­न्त­रि­क्ष­लोका ओताश्च प्रोताश्चेति गन्धर्वलोकेषु गार्गीति कस्मिन्नु खलु गन्धर्वलोका ओताश्च प्रोता­श्चे­त्या­दि­त्य­लो­केषु गार्गीति कस्मिन्नु खल्वादित्यलोका ओताश्च प्रोताश्चेति चन्द्रलोकेषु गार्गीति कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति नक्षत्रलोकेषु गार्गीति कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति देवलोकेषु गार्गीति कस्मिन्नु खलु देवलोका ओताश्च प्रोता­श्चे­ती­न्द्र­लो­केषु गार्गीति कस्मिन्नु खल्विन्द्रलोका ओताश्च प्रोताश्चेति प्रजापतिलोकेषु गार्गीति कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति ब्रह्मलोकेषु गार्गीति कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति स होवाच गार्गि माति­प्रा­क्षीर्मा ते मूर्धा व्यप­प्त­द­न­ति­प्रश्न्यां वै देवतामतिपृच्छसि गार्गि माति­प्रा­क्षी­रिति ततो ह गार्गी वाचक्नव्युपरराम ॥ १ ॥

यत्सा­क्षा­द­प­रो­क्षा­द्ब्रह्म सर्वान्तर आत्मेत्युक्तम् , तस्य सर्वान्तरस्य स्वरूपाधिगमाय आ शाक­ल्य­ब्रा­ह्म­णात् ग्रन्थ आरभ्यते । पृथिव्यादीनि ह्याकाशान्तानि भूतानि अन्त­र्ब­हि­र्भा­वेन व्यवस्थितानि ; तेषां यत् बाह्यं बाह्यम् , अधिगम्याधिगम्य निराकुर्वन् द्रष्टुः साक्षा­त्स­र्वा­न्त­रोऽ­गौण आत्मा सर्व­सं­सा­र­ध­र्म­वि­नि­र्मुक्तो दर्शयितव्य इत्यारम्भः — अथ हैनं गार्गी नामतः, वाचक्नवी वचक्नोर्दुहिता, पप्रच्छ ; याज्ञवल्क्येति होवाच ; यदिदं सर्वं पार्थिवं धातुजातम् अप्सु उदके ओतं च प्रोतं च — ओतं दीर्घपटतन्तुवत् , प्रोतं तिर्यक्तन्तुवत् , विपरीतं वा — अद्भिः सर्व­तोऽ­न्त­र्ब­हि­र्भू­ता­भि­र्व्या­प्त­मि­त्यर्थः ; अन्यथा सक्तु­मु­ष्टि­व­द्वि­शी­र्येत । इदं तावत् अनु­मा­न­मु­प­न्य­स्तम् — यत् कार्यं परिच्छिन्नं स्थूलम् , कारणेन अपरिच्छिन्नेन सूक्ष्मेण व्याप्तमिति दृष्टम् — यथा पृथिवी अद्भिः ; तथा पूर्वं पूर्वम् उत्तरेणोत्तरेण व्यापिना भवितव्यम् — इत्येष आ सर्वा­न्त­रा­दा­त्मनः प्रश्नार्थः । तत्र भूतानि पञ्च संहतान्येव उत्तरमुत्तरं सूक्ष्मभावेन व्यापकेन कारणरूपेण च व्यवतिष्ठन्ते ; न च पर­मा­त्म­नोऽ­र्वाक् तद्व्यतिरेकेण वस्त्व­न्त­र­मस्ति, ‘सत्यस्य सत्यम्’(बृ. उ. २ । ३ । ६) इति श्रुतेः ; सत्यं च भूतपञ्चकम् , सत्यस्य सत्यं च पर आत्मा । कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति — तासामपि कार्यत्वात् स्थूलत्वात् परि­च्छि­न्न­त्वाच्च क्वचिद्धि ओतप्रोतभावेन भवितव्यम् ; क्व तासाम् ओतप्रोतभाव इति । एव­मु­त्त­रो­त्त­र­प्र­श्न­प्र­सङ्गो योजयितव्यः । वायौ गार्गीति ; ननु अग्नाविति वक्तव्यम् — नैष दोषः ; अग्नेः पार्थिवं वा आप्यं वा धातुमनाश्रित्य इतरभूतवत् स्वातन्त्र्येण आत्मलाभो नास्तीति तस्मिन् ओतप्रोतभावो नोपदिश्यते । कस्मिन्नु खलु वायुरोतश्च प्रोत­श्चे­त्य­न्त­रि­क्ष­लो­केषु गार्गीति । तान्येव भूतानि संहतानि अन्तरिक्षलोकाः ; तान्यपि — गन्धर्वलोकेषु गन्धर्वलोकाः, आदित्यलोकेषु आदित्यलोकाः, चन्द्रलोकेषु चन्द्रलोकाः नक्षत्रलोकेषु नक्षत्रलोकाः, देवलोकेषु देवलोकाः, इन्द्रलोकेषु इन्द्रलोकाः, विरा­ट्श­री­रा­र­म्भ­केषु भूतेषु प्रजापतिलोकेषु प्रजापतिलोकाः, ब्रह्मलोकेषु ब्रह्मलोका नाम — अण्डारम्भकाणि भूतानि ; सर्वत्र हि सूक्ष्म­ता­र­त­म्य­क्र­मेण प्राण्यु­प­भो­गा­श्र­या­का­र­प­रि­ण­तानि भूतानि संहतानि तान्येव पञ्चेति बहुवचनभाञ्जि । कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति — स होवाच याज्ञवल्क्यः — हे गार्गि मातिप्राक्षीः स्वं प्रश्नम् , न्याय­प्र­का­र­म­तीत्य आगमेन प्रष्टव्यां देवताम् अनुमानेन मा प्राक्षी­रि­त्यर्थः ; पृच्छन्त्याश्च मा ते तव मूर्धा शिरः व्यपप्तत् विस्पष्टं पतेत् ; देवतायाः स्वप्रश्न आगमविषयः ; तं प्रश्न­वि­ष­य­म­ति­क्रान्तो गार्ग्याः प्रश्नः, आनुमानिकत्वात् ; स यस्या देवतायाः प्रश्नः सा अतिप्रश्न्या, न अतिप्रश्न्या अनतिप्रश्न्या, स्वप्र­श्न­वि­ष­यैव, केव­ला­ग­म­ग­म्ये­त्यर्थः ; ताम् अनतिप्रश्न्यां वै देवताम् अतिपृच्छसि । अतो गार्गी मातिप्राक्षीः, मर्तुं चेन्नेच्छसि । ततो ह गार्गी वाचक्नव्युपरराम ॥

इति तृतीयाध्यायस्य षष्ठं ब्राह्मणम् ॥

सप्तमं ब्राह्मणम्

अथ हैनमुद्दालक आरुणिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेष्ववसाम पतञ्जलस्य काप्यस्य गृहेषु यज्ञ­म­धी­या­ना­स्त­स्या­सी­द्भार्या गन्धर्वगृहीता तमपृच्छाम कोऽसीति सोऽब्रवीत्कबन्ध आथर्वण इति सोऽब्र­वी­त्प­त­ञ्जलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तत्सूत्रं येनायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्तीति सोऽब्र­वी­त्प­त­ञ्जलः काप्यो नाहं तद्भगवन्वेदेति सोऽब्र­वी­त्प­त­ञ्जलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयतीति सोऽब्र­वी­त्प­त­ञ्जलः काप्यो नाहं तं भगवन्वेदेति सोऽब्र­वी­त्प­त­ञ्जलं काप्यं याज्ञिकांश्च यो वै तत्काप्य सूत्रं विद्यात्तं चान्त­र्या­मि­ण­मिति स ब्रह्मवित्स लोकवित्स देववित्स वेदवित्स भूतवित्स आत्मवित्स सर्वविदिति तेभ्योऽ­ब्र­वी­त्त­दहं वेद तच्चेत्त्वं याज्ञवल्क्य सूत्र­म­वि­द्वांस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यतीति वेद वा अहं गौतम तत्सूत्रं तं चान्त­र्या­मि­ण­मिति यो वा इदं कश्चि­द्ब्रू­या­द्वेद वेदेति यथा वेत्थ तथा ब्रूहीति ॥ १ ॥

इदानीं ब्रह्मलोकानाम् अन्तरतमं सूत्रं वक्तव्यमिति तदर्थ आरम्भः ; तच्च आगमेनैव प्रष्टव्यमिति इतिहासेन आगमोपन्यासः क्रियते — अथ हैनम् उद्दालको नामतः, अरुणस्यापत्यम् आरुणिः पप्रच्छ ; याज्ञवल्क्येति होवाच ; मद्रेषु देशेषु अवसाम उषितवन्तः, पतञ्जलस्य — पतञ्जलो नामतः — तस्यैव कपिगोत्रस्य काप्यस्य गृहेषु यज्ञमधीयानाः यज्ञ­शा­स्त्रा­ध्य­यनं कुर्वाणाः । तस्य आसीत् भार्या गन्धर्वगृहीता ; तमपृच्छाम — कोऽसीति । सोऽब्रवीत् — कबन्धो नामतः, अथर्वणोऽपत्यम् आथर्वण इति । सोऽब्र­वी­द्ग­न्धर्वः पतञ्जलं काप्यं याज्ञिकांश्च तच्छिष्यान् — वेत्थ नु त्वं हे काप्य जानीषे तत्सूत्रम् ; किं तत् ? येन सूत्रेण अयं च लोकः इदं च जन्म, परश्च लोकः परं च प्रतिपत्तव्यं जन्म, सर्वाणि च भूतानि ब्रह्मा­दि­स्त­म्ब­प­र्य­न्तानि, सन्दृब्धानि सङ्ग्रथितानि स्रगिव सूत्रेण विष्टब्धानि भवन्ति येन — तत् किं सूत्रं वेत्थ । सोऽब्रवीत् एवं पृष्टः काप्यः — नाहं तद्भगवन्वेदेति — तत् सूत्रं नाहं जाने हे भगवन्निति सम्पूजयन्नाह । सोऽब्रवीत् पुनर्गन्धर्वः उपा­ध्या­य­म­स्मांश्च — वेत्थ नु त्वं काप्य तमन्तर्यामिणम् — अन्तर्यामीति विशेष्यते — य इमं च लोकं परं च लोकं सर्वाणि च भूतानि यः अन्तरः अभ्यन्तरः सन् यमयति नियमयति, दारुयन्त्रमिव भ्रामयति, स्वं स्वमु­चि­त­व्या­पारं कारयतीति । सोऽब्र­वी­दे­व­मुक्तः पतञ्जलः काप्यः — नाहं तं जाने भगवन्निति सम्पूजयन्नाह । सोऽब्र­वी­त्पु­न­र्ग­न्धर्वः ; सूत्र­त­द­न्त­र्ग­ता­न्त­र्या­मि­णो­र्वि­ज्ञानं स्तूयते — यः कश्चिद्वै तत् सूत्रं हे काप्य विद्यात् विजानीयात् तं च अन्तर्यामिणं सूत्रान्तर्गतं तस्यैव सूत्रस्य नियन्तारं विद्यात् यः इत्येवमुक्तेन प्रकारेण — स हि ब्रह्मवित् परमात्मवित् , स लोकांश्च भूरा­दी­न­न्त­र्या­मिणा नियम्यमानान् लोकान् वेत्ति, स देवां­श्चा­ग्न्या­दीन् लोकिनः जानाति, वेदांश्च सर्व­प्र­मा­ण­भू­ता­न्वेत्ति, भूतानि च ब्रह्मादीनि सूत्रेण ध्रियमाणानि तद­न्त­र्ग­ते­ना­न्त­र्या­मिणा नियम्यमानानि वेत्ति, स आत्मानं च कर्तृ­त्व­भो­क्तृ­त्व­वि­शिष्टं तेनै­वा­न्त­र्या­मिणा नियम्यमानं वेत्ति, सर्वं च जगत् तथाभूतं वेत्ति — इति ; एवं स्तुते सूत्रा­न्त­र्या­मि­वि­ज्ञाने प्रलुब्धः काप्योऽ­भि­मु­खी­भूतः, वयं च ; तेभ्यश्च अस्मभ्यम् अभिमुखीभूतेभ्यः अब्र­वी­द्ग­न्धर्वः सूत्र­म­न्त­र्या­मिणं च ; तदहं सूत्रा­न्त­र्या­मि­वि­ज्ञानं वेद गन्ध­र्वा­ल्ल­ब्धा­गमः सन् ; तच्चेत् याज्ञवल्क्य सूत्रम् , तं चान्तर्यामिणम् अविद्वांश्चेत् , अब्रह्मवित्सन् यदि ब्रह्मगवीरुदजसे ब्रह्मविदां स्वभूता गा उदजस उन्नयसि त्वम् अन्यायेन, ततो मच्छापदग्धस्य मूर्धा शिरः ते तव विस्पष्टं पतिष्यति । एवमुक्तो याज्ञवल्क्य आह — वेद जानामि अहम् , हे गौतमेति गोत्रतः, तत्सूत्रम् — यत् गन्ध­र्व­स्तु­भ्य­मु­क्त­वान् ; यं च अन्तर्यामिणं गन्ध­र्वा­द्वि­दि­त­वन्तो यूयम् , तं च अन्तर्यामिणं वेद अहम् — इति ; एवमुक्ते प्रत्याह गौतमः — यः कश्चित्प्राकृत इदं यत्त्वयोक्तं ब्रूयात् — कथम् ? वेद वेदेति — आत्मानं श्लाघयन् , किं तेन गर्जितेन ? कार्येण दर्शय ; यथा वेत्थ, तथा ब्रूहीति ॥

स होवाच वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति तस्माद्वै गौतम पुरुषं प्रेत­मा­हु­र्व्य­स्रं­सि­ष­ता­स्या­ङ्गा­नीति वायुना हि गौतम सूत्रेण सन्दृब्धानि भव­न्ती­त्ये­व­मे­वै­त­द्या­ज्ञ­व­ल्क्या­न्त­र्या­मिणं ब्रूहीति ॥ २ ॥

स होवाच याज्ञवल्क्यः । ब्रह्मलोका यस्मिन्नोताश्च प्रोताश्च वर्तमाने काले, यथा पृथिवी अप्सु, तत् सूत्रम् आगमगम्यं वक्तव्यमिति — तदर्थं प्रश्ना­न्त­र­मु­त्था­पि­तम् ; अतस्तन्निर्णयाय आह — वायुर्वै गौतम तत्सूत्रम् ; नान्यत् ; वायुरिति — सूक्ष्ममाकाशवत् विष्टम्भकं पृथिव्यादीनाम् , यदात्मकं सप्तदशविधं लिङ्गं कर्मवासनासमवायि प्राणिनाम् , यत्त­त्स­म­ष्टि­व्य­ष्ट्या­त्म­कम् , यस्य बाह्या भेदाः सप्तसप्त मरुद्गणाः समु­द्र­स्ये­वो­र्मयः — तदेतद्वायव्यं तत्त्वं सूत्र­मि­त्य­भि­धी­यते । वायुना वै गौतम सूत्रेण अयं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति सङ्ग्रथितानि भवन्तीति प्रसिद्धमेतत् ; अस्ति च लोके प्रसिद्धिः ; कथम् ? यस्मात् वायुः सूत्रम् , वायुना विधृतं सर्वम् , तस्माद्वै गौतम पुरुषं प्रेतमाहुः कथयन्ति — व्यस्रंसिषत विस्रस्तानि अस्य पुरु­ष­स्या­ङ्गा­नीति ; सूत्रापगमे हि मण्यादीनां प्रोता­ना­म­व­स्रं­सनं दृष्टम् ; एवं वायुः सूत्रम् ; तस्मि­न्म­णि­व­त्प्रो­तानि यदि अस्याङ्गानि स्युः, ततो युक्तमेतत् वाय्वपगमे अव­स्रं­स­न­म­ङ्गा­नाम् । अतो वायुना हि गौतम सूत्रेण सन्दृब्धानि भवन्तीति निगमयति । एवमेवैतत् याज्ञवल्क्य, सम्यगुक्तं सूत्रम् ; तदन्तर्गतं तु इदानीं तस्यैव सूत्रस्य निय­न्ता­र­म­न्त­र्या­मिणं ब्रूहीत्युक्तः आह ॥

यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृतः ॥ ३ ॥

यः पृथिव्यां तिष्ठन्भवति, सोऽन्तर्यामी । सर्वः पृथिव्यां तिष्ठतीति सर्वत्र प्रसङ्गो मा भूदिति विशिनष्टि — पृथिव्या अन्तरः अभ्यन्तरः । तत्रैतत्स्यात् , पृथिवी देवतैव अन्तर्यामीति — अत आह — यमन्तर्यामिणं पृथिवी देवतापि न वेद — मय्यन्यः कश्चिद्वर्तत इति । यस्य पृथिवी शरीरम् — यस्य च पृथिव्येव शरीरम् , नान्यत् — पृथिवीदेवताया यच्छरीरम् , तदेव शरीरं यस्य ; शरीरग्रहणं च उपलक्षणार्थम् ; करणं च पृथिव्याः तस्य ; स्वक­र्म­प्र­युक्तं हि कार्यं करणं च पृथिवीदेवतायाः ; तत् अस्य स्वकर्माभावात् अन्तर्यामिणो नित्य­मु­क्त­त्वात् , परा­र्थ­क­र्त­व्य­ता­स्व­भा­व­त्वात् परस्य यत्कार्यं करणं च — तदेवास्य, न स्वतः ; तदाह — यस्य पृथिवी शरीरमिति । देव­ता­का­र्य­क­र­णस्य ईश्व­र­सा­क्षि­मा­त्र­सा­न्नि­ध्येन हि नियमेन प्रवृ­त्ति­नि­वृत्ती स्याताम् ; य ईदृगीश्वरो नारायणाख्यः, पृथिवीं पृथिवीदेवताम् , यमयति नियमयति स्वव्यापारे, अन्तरः अभ्य­न्त­र­स्ति­ष्ठन् , एष त आत्मा, ते तव, मम च सर्वभूतानां च इत्यु­प­ल­क्ष­णा­र्थ­मे­तत् , अन्तर्यामी यस्त्वया पृष्टः, अमृतः सर्व­सं­सा­र­ध­र्म­व­र्जित इत्येतत् ॥

योऽप्सु तिष्ठ­न्न­द्भ्योऽ­न्तरो यमापो न विदुर्यस्यापः शरीरं योऽपोऽन्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृतः ॥ ४ ॥

योऽग्नौ तिष्ठ­न्न­ग्ने­र­न्तरो यमग्निर्न वेद यस्याग्निः शरीरं योऽग्निमन्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृतः ॥ ५ ॥

योऽन्तरिक्षे तिष्ठ­न्न­न्त­रि­क्षा­द­न्तरो यमन्तरिक्षं न वेद यस्यान्तरिक्षं शरीरं योऽन्त­रि­क्ष­म­न्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृतः ॥ ६ ॥

यो वायौ तिष्ठ­न्वा­यो­र­न्तरो यं वायुर्न वेद यस्य वायुः शरीरं यो वायुमन्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृतः ॥ ७ ॥

यो दिवि तिष्ठ­न्दि­वोऽ­न्त­रोयं द्यौर्न वेद यस्य द्यौः शरीरं यो दिवमन्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृतः ॥ ८ ॥

य आदित्ये तिष्ठ­न्ना­दि­त्या­द­न्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृतः ॥ ९ ॥

यो दिक्षु तिष्ठ­न्दि­ग्भ्योऽ­न्तरो यं दिशो न विदुर्यस्य दिशः शरीरं यो दिशोऽन्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृतः ॥ १० ॥

१०

यश्चान्द्रतारके तिष्ठं­श्च­न्द्र­ता­र­का­द­न्तरो यं चन्द्रतारकं न वेद यस्य चन्द्रतारकं शरीरं यश्च­न्द्र­ता­र­क­म­न्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृतः ॥ ११ ॥

११

य आकाशे तिष्ठ­न्ना­का­शा­द­न्तरो यमाकाशो न वेद यस्याकाशः शरीरं य आकाशमन्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृतः ॥ १२ ॥

१२

यस्तमसि तिष्ठं­स्त­म­सोऽ­न्तरो यं तमो न वेद यस्य तमः शरीरं यस्तमोऽन्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृतः ॥ १३ ॥

१३

यस्तेजसि तिष्ठं­स्ते­ज­सोऽ­न्तरो यं तेजो न वेद यस्य तेजः शरीरं यस्तेजोऽन्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृत इत्य­धि­दै­व­त­म­था­धि­भू­तम् ॥ १४ ॥

१४

समानमन्यत् । योऽप्सु तिष्ठन् , अग्नौ, अन्तरिक्षे, वायौ, दिवि, आदित्ये, दिक्षु, चन्द्रतारके, आकाशे, यस्त­म­स्या­व­र­णा­त्मके बाह्ये तमसि, तेजसि तद्विपरीते प्रकाशसामान्ये — इत्येवमधिदैवतम् अन्तर्यामिविषयं दर्शनं देवतासु । अथ अधिभूतं भूतेषु ब्रह्मा­दि­स्त­म्ब­प­र्य­न्तेषु अन्त­र्या­मि­द­र्श­न­म­धि­भू­तम् ॥

यः सर्वेषु भूतेषु तिष्ठ­न्स­र्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भूतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृत इत्य­धि­भू­त­म­था­ध्या­त्मम् ॥ १५ ॥

१५

यः प्राणे तिष्ठ­न्प्रा­णा­द­न्तरो यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृतः ॥ १६ ॥

१६

यो वाचि तिष्ठ­न्वा­चोऽ­न्तरो यं वाङ्न वेद यस्य वाक्शरीरं यो वाचमन्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृतः ॥ १७ ॥

१७

यश्चक्षुषि तिष्ठं­श्च­क्षु­षोऽ­न्तरो यं चक्षुर्न वेद यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृतः ॥ १८ ॥

१८

यः श्रोत्रे तिष्ठ­ञ्छ्रो­त्रा­द­न्तरो यं श्रोत्रं न वेद यस्य श्रोत्रं शरीरं यः श्रोत्रमन्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृतः ॥ १९ ॥

१९

यो मनसि तिष्ठ­न्म­न­सोऽ­न्तरो यं मनो न वेद यस्य मनः शरीरं यो मनोऽन्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृतः ॥ २० ॥

२०

यस्त्वचि तिष्टं स्त्वचोऽन्तरो यं त्वङ्न वेद यस्य त्वक्शरीरं यस्त्वचमन्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृतः ॥ २१ ॥

२१

यो विज्ञाने तिष्ठ­न्वि­ज्ञा­ना­द­न्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृतः ॥ २२ ॥

२२

यो रेतसि तिष्ठ­न्रे­त­सोऽ­न्तरो यं रेतो न वेद यस्य रेतः शरीरं यो रेतोऽन्तरो यमयत्येष त आत्मा­न्त­र्या­म्य­मृ­तोऽ­दृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञातो विज्ञाता नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञातैष त आत्मा­न्त­र्या­म्य­मृ­तोऽ­तोऽ­न्य­दार्तं ततो होद्दालक आरुणिरुपरराम ॥ २३ ॥

२३

अथाध्यात्मम् — यः प्राणे प्राणवायुसहिते घ्राणे, यो वाचि, चक्षुषि, श्रोत्रे, मनसि, त्वचि, विज्ञाने, बुद्धौ, रेतसि प्रजनने । कस्मात्पुनः कारणात् पृथिव्यादिदेवता महाभागाः सत्यः मनुष्यादिवत् आत्मनि तिष्ठन्तम् आत्मनो निय­न्ता­र­म­न्त­र्या­मिणं न विदुरित्यत आह — अदृष्टः न दृष्टो न विष­यी­भू­त­श्च­क्षु­र्द­र्श­नस्य कस्यचित् , स्वयं तु चक्षुषि सन्निहितत्वात् दृशिस्वरूप इति द्रष्टा । तथा अश्रुतः श्रोत्र­गो­च­र­त्व­म­ना­पन्नः कस्यचित् , स्वयं तु अलु­प्त­श्र­व­ण­शक्तिः सर्वश्रोत्रेषु सन्निहितत्वात् श्रोता । तथा अमतः मन­स्स­ङ्क­ल्प­वि­ष­य­ता­म­ना­पन्नः ; दृष्टश्रुते एव हि सर्वः सङ्कल्पयति ; अदृष्टत्वात् अश्रुतत्वादेव अमतः ; अलु­प्त­म­न­न­श­क्ति­त्वात् सर्वमनःसु सन्निहितत्वाच्च मन्ता । तथा अविज्ञातः निश्च­य­गो­च­र­ता­म­ना­पन्नः रूपादिवत् सुखादिवद्वा, स्वयं तु अलु­प्त­वि­ज्ञा­न­श­क्ति­त्वात् तत्सन्निधानाच्च विज्ञाता । तत्र यं पृथिवी न वेद यं सर्वाणि भूतानि न विदुरिति च अन्ये नियन्तव्या विज्ञातारः अन्यो नियन्ता अन्तर्यामीति प्राप्तम् ; तद­न्य­त्वा­श­ङ्का­नि­वृ­त्त्य­र्थ­मु­च्यते — नान्योऽतः — नान्यः — अतः अस्मात् अन्तर्यामिणः नान्योऽस्ति द्रष्टा ; तथा नान्योऽतोऽस्ति श्रोता ; नान्योऽतोऽस्ति मन्ता ; नान्योऽतोऽस्ति विज्ञाता । यस्मात्परो नास्ति द्रष्टा श्रोता मन्ता विज्ञाता, यः अदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञातो विज्ञाता, अमृतः सर्व­सं­सा­र­ध­र्म­व­र्जितः सर्वसंसारिणां कर्म­फ­ल­वि­भा­ग­कर्ता — एष ते आत्मा अन्तर्याम्यमृतः ; अस्मा­दी­श्व­रा­दा­त्म­नोऽ­न्यत् आर्तम् । ततो होद्दालक आरुणिरुपरराम ॥

इति तृतीयाध्यायस्य सप्तमं ब्राह्मणम् ॥

अष्टमं ब्राह्मणम्

अतः परम् अश­ना­या­दि­वि­नि­र्मुक्तं निरुपाधिकं साक्षा­द­प­रो­क्षा­त्स­र्वा­न्तरं ब्रह्म वक्तव्यमित्यत आरम्भः —

अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चि­द्ब्र­ह्मोद्यं जेतेति पृच्छ गार्गीति ॥ १ ॥

अथ ह वाचक्नव्युवाच । पूर्वं याज्ञवल्क्येन निषिद्धा मूर्ध­पा­त­भ­या­दु­प­रता सती पुनः प्रष्टुं ब्राह्म­णा­नुज्ञां प्रार्थयते हे ब्राह्मणाः भगवन्तः पूजावन्तः शृणुत मम वचः ; हन्त अहमिमं याज्ञवल्क्यं पुनर्द्वौ प्रश्नौ प्रक्ष्यामि, यद्य­नु­म­ति­र्भ­व­ता­मस्ति ; तौ प्रश्नौ चेत् यदि वक्ष्यति कथयिष्यति मे, कथञ्चित् न वै जातु कदाचित् , युष्माकं मध्ये इमं याज्ञवल्क्यं कश्चित् ब्रह्मोद्यं ब्रह्मवदनं प्रति जेता — न वै कश्चित् भवेत् — इति । एवमुक्ता ब्राह्मणा अनुज्ञां प्रददुः — पृच्छ गार्गीति ॥

सा होवाचाहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सप­त्ना­ति­व्या­धिनौ हस्ते कृत्वो­पो­त्ति­ष्ठे­दे­व­मे­वाहं त्वा द्वाभ्यां प्रश्ना­भ्या­मु­पा­दस्थां तौ मे ब्रूहीति पृच्छ गार्गीति ॥ २ ॥

लब्धानुज्ञा ह याज्ञवल्क्यं सा ह उवाच — अहं वै त्वा त्वाम् द्वौ प्रश्नौ प्रक्ष्या­मी­त्य­नु­ष­ज्यते ; कौ ताविति जिज्ञासायां तयो­र्दु­रु­त्त­रत्वं द्योतयितुं दृष्टा­न्त­पू­र्वकं तावाह — हे याज्ञवल्क्य यथा लोके काश्यः — काशिषु भवः काश्यः, प्रसिद्धं शौर्यं काश्ये — वैदेहो वा विदेहानां वा राजा, उग्रपुत्रः शूरान्वय इत्यर्थः, उज्ज्यम् अवतारितज्याकम् धनुः पुनरधिज्यम् आरोपितज्याकं कृत्वा, द्वौ बाणवन्तौ — बाणशब्देन शराग्रे यो वंशखण्डः सन्धीयते, तेन विनापि शरो भवतीत्यतो विशिनष्टि बाणवन्ताविति — द्वौ बाणवन्तौ शरौ, तयोरेव विशेषणम् — सप­त्ना­ति­व्या­धिनौ शत्रोः पीडाकरावतिशयेन, हस्ते कृत्वा उप उत्तिष्ठेत् समीपत आत्मानं दर्शयेत् — एवमेव अहं त्वा त्वाम् शरस्थानीयाभ्यां प्रश्नाभ्यां द्वाभ्याम् उपोदस्थां उत्थितवत्यस्मि त्वत्समीपे । तौ मे ब्रूहीति — ब्रह्मविच्चेत् । आह इतरः — पृच्छ गार्गीति ॥

सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भवि­ष्य­च्चे­त्या­च­क्षते कस्मिंस्तदोतं च प्रोतं चेति ॥ ३ ॥

सा होवाच — यत् ऊर्ध्वम् उपरि दिवः अण्डकपालात् , यच्च अवाक् अधः पृथिव्याः अधोऽण्डकपालात् , यच्च अन्तरा मध्ये द्यावापृथिवी द्यावापृथिव्योः अण्डकपालयोः, इमे च द्यावापृथिवी, यद्भूतं यच्चातीतम् , भवच्च वर्तमानं स्वव्यापारस्थम् , भविष्यच्च वर्त­मा­ना­दू­र्ध्व­का­ल­भावि लिङ्गगम्यम् — यत्स­र्व­मे­त­दा­च­क्षते कथयन्त्यागमतः — तत्सर्वं द्वैतजातं यस्मि­न्ने­की­भ­व­ती­त्यर्थः — तत् सूत्रसंज्ञं पूर्वोक्तं कस्मिन् ओतं च प्रोतं च पृथि­वी­धा­तु­रि­वाप्सु ॥

स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भवि­ष्य­च्चे­त्या­च­क्षत आकाशे तदोतं च प्रोतं चेति ॥ ४ ॥

स होवाच इतरः — हे गार्गि, यत् त्वयोक्तम् ‘ऊर्ध्वं दिवः’ इत्यादि, तत्सर्वम् — यत्सू­त्र­मा­च­क्षते — तत् सूत्रम् , आकाशे तत् ओतं च प्रोतं च — यदेतत् व्याकृतं सूत्रात्मकं जगत् अव्याकृताकाशे, अप्स्विव पृथिवीधातुः, त्रिष्वपि कालेषु वर्तते उत्पत्तौ स्थितौ लये च ॥

सा होवाच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचोऽपरस्मै धारयस्वेति पृच्छ गार्गीति ॥ ५ ॥

पुनः सा होवाच ; नम­स्तेऽ­स्त्वि­त्या­दि­प्र­श्नस्य दुर्व­च­त्व­प्र­द­र्श­ना­र्थम् ; यः मे मम एतं प्रश्नं व्यवोचः विशे­षे­णा­पा­कृ­त­वा­नसि ; एतस्य दुर्वचत्वे कारणम् — सूत्रमेव तावदगम्यम् इत­रै­र्दु­र्वा­च्यम् ; किमुत तत् , यस्मिन्नोतं च प्रोतं चेति ; अतो नमोऽस्तु ते तुभ्यम् ; अपरस्मै द्वितीयाय प्रश्नाय धारयस्व दृढीकुरु आत्मानमित्यर्थः । पृच्छ गार्गीति इतर आह ॥

सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भवि­ष्य­च्चे­त्या­च­क्षते कस्मिंस्तदोतं च प्रोतं चेति ॥ ६ ॥

व्याख्यातमन्यत् । सा होवाच यदूर्ध्वं याज्ञ­व­ल्क्ये­त्या­दि­प्रश्नः प्रतिवचनं च उक्त­स्यै­वा­र्थ­स्या­व­धा­र­णार्थं पुनरुच्यते ; न किञ्चि­द­पू­र्व­म­र्था­न्त­र­मु­च्यते ॥

स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भवि­ष्य­च्चे­त्या­च­क्षत आकाश एव तदोतं च प्रोतं चेति कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ॥ ७ ॥

सर्वं यथोक्तं गार्ग्या प्रत्युच्चार्य तमेव पूर्वो­क्त­म­र्थ­म­व­धा­रि­त­वान् आकाश एवेति याज्ञवल्क्यः । गार्ग्याह — कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति । आकाशमेव ताव­त्का­ल­त्र­या­ती­त­त्वात् दुर्वाच्यम् , ततोऽपि कष्टतरम् अक्षरम् , यस्मि­न्ना­का­श­मोतं च प्रोतं च, अतः अवाच्यम् — इति कृत्वा, न प्रतिपद्यते सा अप्र­ति­प­त्ति­र्नाम निग्रहस्थानं तार्किकसमये ; अथ अवाच्यमपि वक्ष्यति, तथापि विप्र­ति­प­त्ति­र्नाम निग्रहस्थानम् ; विरुद्धा प्रतिपत्तिर्हि सा, यदवाच्यस्य वदनम् ; अतो दुर्वचनम् प्रश्नं मन्यते गार्गी ॥

स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभि­व­द­न्त्य­स्थू­ल­म­न­ण्व­ह्र­स्व­म­दी­र्घ­म­लो­हि­त­म­स्ने­ह­म­च्छा­य­म­त­मोऽ­वा­य्व­ना­का­श­म­स­ङ्ग­म­र­स­म­ग­न्ध­म­च­क्षु­ष्क­म­श्रो­त्र­म­वा­ग­म­नोऽ­ते­ज­स्क­म­प्रा­ण­म­मु­ख­म­मा­त्र­म­न­न्त­र­म­बाह्यं न तदश्नाति किञ्चन न तदश्नाति कश्चन ॥ ८ ॥

तद्दोषद्वयमपि परिजिहीर्षन्नाह — स होवाच याज्ञवल्क्यः ; एतद्वै तत् , यत्पृष्टवत्यसि — कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ; किं तत् ? अक्षरम् — यन्न क्षीयते न क्षरतीति वा अक्षरम् — तदक्षरं हे गार्गि ब्राह्मणा ब्रह्मविदः अभिवदन्ति ; ब्राह्म­णा­भि­व­द­न­क­थ­नेन, नाहमवाच्यं वक्ष्यामि न च न प्रति­प­द्ये­य­मि­त्येवं दोषद्वयं परिहरति । एवमपाकृते प्रश्ने, पुनर्गार्ग्याः प्रतिवचनं द्रष्टव्यम् — ब्रूहि किं तदक्षरम् , यद्ब्राह्मणा अभिवदन्ति — इत्युक्त आह — अस्थूलम् तत् स्थूलादन्यत् ; एवं तर्ह्यणु — अनणु ; अस्तु तर्हि ह्रस्वम् — अह्रस्वम् ; एवं तर्हि दीर्घम् — नापि दीर्घम् अदीर्घम् ; एव­मे­तै­श्च­तुर्भिः परि­मा­ण­प्र­ति­षे­धै­र्द्र­व्य­धर्मः प्रतिषिद्धः, न द्रव्यं तदक्षरमित्यर्थः । अस्तु तर्हि लोहितो गुणः — ततोऽप्यन्यत् अलोहितम् ; आग्नेयो गुणो लोहितः ; भवतु तर्ह्यपां स्नेहनम् — न अस्नेहम् ; अस्तु तर्हि छाया — सर्वथापि अनि­र्दे­श्य­त्वात् छायाया अप्यन्यत् अच्छायम् ; अस्तु तर्हि तमः — अतमः ; भवतु वायुस्तर्हि — अवायुः ; भवे­त्त­र्ह्या­का­शम् — अनाकाशम् ; भवतु तर्हि सङ्गात्मकं जतुवत् — असङ्गम् ; रसोऽस्तु तर्हि — अरसम् ; तथा गन्धोऽस्तु — अगन्धम् ; अस्तु तर्हि चक्षुः — अचक्षुष्कम् , न हि चक्षुरस्य करणं विद्यते, अतोऽचक्षुष्कम् , ‘पश्यत्यचक्षुः’(श्वे. ३ । १९) इति मन्त्रवर्णात् ; तथा अश्रोत्रम् , ‘स शृणोत्यकर्णः’(शे. ३ । १९) इति ; भवतु तर्हि वाक् — अवाक् ; तथा अमनः, तथा अतेजस्कम् अविद्यमानं तेजोऽस्य तत् अतेजस्कम् ; न हि तेजः अग्न्या­दि­प्र­का­श­वत् अस्य विद्यते ; अप्राणम् — आध्यात्मिको वायुः प्रति­षि­ध्य­तेऽ­प्रा­ण­मिति ; मुखं तर्हि द्वारं तत् — अमुखम् ; अमात्रम् — मीयते येन तन्मात्रम् , अमात्रम् मात्रारूपं तन्न भवति, न तेन किञ्चिन्मीयते ; अस्तु तर्हि च्छिद्रवत् — अनन्तरम् नास्यान्तरमस्ति ; सम्भवेत्तर्हि बहिस्तस्य — अबाह्यम् ; अस्तु तर्हि भक्षयितृ तत् — न तदश्नाति किञ्चन ; भवेत् तर्हि भक्ष्यं कस्यचित् — न तदश्नाति कश्चन । सर्व­वि­शे­ष­ण­र­हि­त­मि­त्यर्थः । एकमेवाद्वितीयं हि तत् — केन किं विशिष्यते ॥

एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहो­रा­त्रा­ण्य­र्ध­मासा मासा ऋतवः संवत्सरा इति विधृ­ता­स्ति­ष्ठ­न्त्ये­तस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां च दिशमन्वेतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीं पित­रोऽ­न्वा­यत्ताः ॥ ९ ॥

अने­क­वि­शे­ष­ण­प्र­ति­षे­ध­प्र­या­सात् अस्तित्वं ताव­द­क्ष­र­स्यो­प­ग­मितं श्रुत्या ; तथापि लोक­बु­द्धि­म­पेक्ष्य आशङ्क्यते यतः, अतोऽस्तित्वाय अनुमानं प्रमा­ण­मु­प­न्य­स्यति — एतस्य वा अक्षरस्य । यदेतदधिगतमक्षरं सर्वान्तरं साक्षा­द­प­रो­क्षा­द्ब्रह्म, य आत्मा अश­ना­या­दि­ध­र्मा­तीतः, एतस्य वा अक्षरस्य प्रशासने — यथा राज्ञः प्रशासने राज्यमस्फुटितं नियतं वर्तते, एव­मे­त­स्या­क्ष­रस्य प्रशासने — हे गार्गि सूर्या­च­न्द्र­मसौ, सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ अहो­रा­त्र­यो­र्लो­क­प्र­दीपौ, तादर्थ्येन प्रशासित्रा ताभ्यां निर्व­र्त्य­मा­न­लो­क­प्र­यो­ज­न­वि­ज्ञा­न­वता निर्मितौ च, स्याताम् — साधा­र­ण­स­र्व­प्रा­णि­प्र­का­शो­प­का­र­क­त्वात् लौकिकप्रदीपवत् । तस्मादस्ति तत् , येन विधृतौ ईश्वरौ स्वतन्त्रौ सन्तौ निर्मितौ तिष्ठतः निय­त­दे­श­का­ल­नि­मि­त्तो­द­या­स्त­म­य­वृ­द्धि­क्ष­याभ्यां वर्तेते ; तदस्ति एवमेतयोः प्रशासितृ अक्षरम् , प्रदी­प­क­र्तृ­वि­धा­र­यि­तृ­वत् । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ — द्यौश्च पृथिवी च सावयवत्वात् स्फुटनस्वभावे अपि सत्यौ गुरु­त्वा­त्प­त­न­स्व­भावे संयु­क्त­त्वा­द्वि­यो­ग­स्व­भावे चेत­ना­व­द­भि­मा­नि­दे­व­ता­धि­ष्ठि­त­त्वा­त्स्व­तन्त्रे अपि — एतस्याक्षरस्य प्रशासने वर्तेते विधृते तिष्ठतः ; एतद्धि अक्षरं सर्व­व्य­व­स्था­सेतुः सर्व­म­र्या­दा­वि­ध­र­णम् ; अतो नास्याक्षरस्य प्रशासनं द्यावा­पृ­थि­व्या­व­ति­क्रा­मतः ; तस्मात् सिद्ध­म­स्या­स्ति­त्व­म­क्ष­रस्य ; अव्यभिचारि हि तल्लिङ्गम् , यत् द्यावापृथिव्यौ नियते वर्तेते ; चेतनावन्तं प्रशा­सि­ता­र­म­सं­सा­रि­ण­म­न्त­रेण नैतद्युक्तम् , ‘येन द्यौरुग्रा पृथिवी च दृढा’(ऋ. सं. १० । १२१ । ५) इति मन्त्रवर्णात् । एतस्य वा अक्षरस्य प्रशासने गार्गि, निमेषाः मुहूर्ताः इत्येते कालावयवाः सर्व­स्या­ती­ता­ना­ग­त­व­र्त­मा­नस्य जनिमतः कलयितारः — यथा लोके प्रभुणा नियतो गणकः सर्वम् आयं व्ययं च अप्रमत्तो गणयति, तथा प्रभुस्थानीय एषां कालावयवानां नियन्ता । तथा प्राच्यः प्रागञ्चनाः पूर्वदिग्गमनाः नद्यः स्यन्दन्ते स्रवन्ति, श्वेतेभ्यः हिमवदादिभ्यः पर्वतेभ्यः गिरिभ्यः, गङ्गाद्या नद्यः — ताश्च यथा प्रवर्तिता एव नियताः प्रवर्तन्ते, अन्यथापि प्रव­र्ति­तु­मु­त्स­हन्त्यः ; तदेतल्लिङ्गं प्रशास्तुः । प्रतीच्योऽन्याः प्रतीचीं दिशमञ्चन्ति सिन्ध्वाद्या नद्यः ; अन्याश्च यां यां दिश­म­नु­प्र­वृत्ताः, तां तां न व्यभिचरन्ति ; तच्च लिङ्गम् । किञ्च ददतः हिर­ण्या­दी­न्प्र­य­च्छतः आत्मपीडां कुर्वतोऽपि प्रमाणज्ञा अपि मनुष्याः प्रशंसन्ति ; तत्र यच्च दीयते, ये च ददति, ये च प्रतिगृह्णन्ति, तेषामिहैव समागमो विलयश्च अन्वक्षो दृश्यते ; अदृष्टस्तु परः समागमः ; तथापि मनुष्या ददतां दानफलेन संयोगं पश्यन्तः प्रमाणज्ञतया प्रशंसन्ति ; तच्च, कर्मफलेन संयोजयितरि कर्तुः — कर्मफलविभागज्ञे प्रशास्तरि असति, न स्यात् , दानक्रियायाः प्रत्य­क्ष­वि­ना­शि­त्वात् ; तस्मादस्ति दानकर्तॄणां फलेन संयोजयिता । अपूर्वमिति चेत् , न, तत्सद्भावे प्रमा­णा­नु­प­पत्तेः । प्रशास्तुरपीति चेत् , न, आगमतात्पर्यस्य सिद्धत्वात् ; अवोचाम हि आगमस्य वस्तुपरत्वम् । किञ्चान्यत् — अपूर्वकल्पनायां च अर्थापत्तेः क्षयः, अन्य­थै­वो­प­पत्तेः, सेवाफलस्य सेव्या­त्प्रा­प्ति­द­र्श­नात् ; सेवायाश्च क्रियात्वात् तत्सामान्याच्च यागदानहोमादीनां सेव्यात् ईश्वरादेः फल­प्रा­प्ति­रु­प­प­द्यते । दृष्ट­क्रि­या­ध­र्म­सा­म­र्थ्य­म­प­रि­त्य­ज्यैव फल­प्रा­प्ति­क­ल्प­नो­प­पत्तौ दृष्ट­क्रि­या­ध­र्म­सा­म­र्थ्य­प­रि­त्यागो न न्याय्यः । कल्पनाधिक्याच्च — ईश्वरः कल्प्यः, अपूर्वं वा ; तत्र क्रियायाश्च स्वभावः सेव्या­त्फ­ल­प्राप्तिः दृष्टा, न त्वपूर्वात् ; न च अपूर्वं दृष्टम् , तत्र अपूर्वमदृष्टं कल्पयितव्यम् , तस्य च फलदातृत्वे सामर्थ्यम् , सामर्थ्ये च सति दानं च अभ्यधिकमिति ; इह तु ईश्वरस्य सेव्यस्य सद्भावमात्रं कल्प्यम् , न तु फलदानसामर्थ्यं दातृत्वं च, सेव्या­त्फ­ल­प्रा­प्ति­द­र्श­नात् । अनुमानं च दर्शितम् — ‘द्यावापृथिव्यौ विधृते तिष्ठतः’ इत्यादि । तथा च यजमानं देवाः ईश्वराः सन्तो जीव­ना­र्थेऽ­नु­गताः चरु­पु­रो­डा­शा­द्यु­प­जी­व­न­प्र­यो­ज­नेन, अन्यथापि जीवि­तु­मु­त्स­हन्तः कृपणां दीनां वृत्तिमाश्रित्य स्थिताः — तच्च प्रशास्तुः प्रशा­स­ना­त्स्यात् । तथा पितरोऽपि तदर्थम् , दर्वीम् दर्वीहोमम् अन्वायत्ता अनुगता इत्यर्थः समानं सर्वमन्यत् ॥

यो वा एतदक्षरं गार्ग्य­वि­दि­त्वा­स्मिँ­ल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्ष­स­ह­स्रा­ण्य­न्त­व­दे­वास्य तद्भवति यो वा एतदक्षरं गार्ग्य­वि­दि­त्वा­स्मा­ल्लो­का­त्प्रैति स कृपणोऽथ य एतदक्षरं गार्गि विदि­त्वा­स्मा­ल्लो­का­त्प्रैति स ब्राह्मणः ॥ १० ॥

१०

इतश्चास्ति तदक्षरम् , यस्मात् तदज्ञाने नियता संसारोपपत्तिः ; भवितव्यं तु तेन, यद्विज्ञानात् तद्विच्छेदः, न्यायोपपत्तेः । ननु क्रियात एव तद्विच्छित्तिः स्यादिति चेत् , न — यो वा एतदक्षरं हे गार्गि अविदित्वा अविज्ञाय अस्मिन् लोके जुहोति यजते तपस्तप्यते यद्यपि बहूनि वर्षसहस्राणि, अन्तवदेवास्य तत्फलं भवति, तत्फलोपभोगान्ते क्षीयन्त एवास्य कर्माणि । अपि च यद्वि­ज्ञा­ना­त्का­र्प­ण्या­त्ययः संसारविच्छेदः, यद्वि­ज्ञा­ना­भा­वाच्च कर्मकृत् कृपणः कृत­फ­ल­स्यै­वो­प­भोक्ता जन­न­म­र­ण­प्र­ब­न्धा­रूढः संसरति — तदस्ति अक्षरं प्रशासितृ ; तदेतदुच्यते — यो वा एतदक्षरं गार्ग्य­वि­दि­त्वा­स्मा­ल्लो­का­त्प्रैति स कृपणः, पणक्रीत इव दासादिः । अथ य एतदक्षरं गार्गि विदित्वा अस्मा­ल्लो­का­त्प्रैति स ब्राह्मणः ॥

अग्ने­र्द­ह­न­प्र­का­श­क­त्व­वत् स्वाभाविकमस्य प्रशास्तृत्वम् अचेतनस्यैवेत्यत आह —

तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञा­त्रे­त­स्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति ॥ ११ ॥

११

तद्वा एतदक्षरं गार्गि अदृष्टम् , न केनचिद्दृष्टम् , अविषयत्वात् स्वयं तु द्रष्टृ दृष्टि­स्व­रू­प­त्वात् । तथा अश्रुतं श्रोत्रा­वि­ष­य­त्वात् , स्वयं श्रोतृ श्रुति­स्व­रू­प­त्वात् । तथा अमतं मनसोऽविषयत्वात् स्वयं मन्तृ मतिस्वरूपत्वात् । तथा अविज्ञातं बुद्धे­र­वि­ष­य­त्वात् , स्वयं विज्ञातृ विज्ञा­न­स्व­रू­प­त्वात् । किं च नान्यत् अतः अस्मादक्षरात् अस्ति — नास्ति किञ्चिद्द्रष्टृ दर्श­न­क्रि­या­कर्तृ ; एतदेवाक्षरं दर्श­न­क्रि­या­कर्तृ सर्वत्र । तथा नान्यदतोऽस्ति श्रोतृ ; तदेवाक्षरं श्रोतृ सर्वत्र । नान्यदतोऽस्ति मन्तृ ; तदेवाक्षरं मन्तृ सर्वत्र सर्वमनोद्वारेण । नान्यदतोऽस्ति विज्ञातृ विज्ञा­न­क्रि­या­कर्तृ, तदेवाक्षरं सर्व­बु­द्धि­द्वा­रेण विज्ञा­न­क्रि­या­कर्तृ, नाचेतनं प्रधानम् अन्यद्वा । एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति । यदेव साक्षा­द­प­रो­क्षा­द्ब्रह्म, य आत्मा सर्वान्तरः अश­ना­या­दि­सं­सा­र­ध­र्मा­तीतः, यस्मिन्नाकाश ओतश्च प्रोतश्च — एषा परा काष्ठा, एषा परा गतिः, एतत्परं ब्रह्म, एत­त्पृ­थि­व्या­दे­रा­का­शा­न्तस्य सत्यस्य सत्यम् ॥

सा होवाच ब्राह्मणा भगवन्तस्तदेव बहुमन्येध्वं यद­स्मा­न्न­म­स्का­रेण मुच्येध्वं न वै जातु युष्माकमिमं कश्चि­द्ब्र­ह्मोद्यं जेतेति ततो ह वाचक्नव्युपरराम ॥ १२ ॥

१२

सा होवाच — हे ब्राह्मणा भगवन्तः शृणुत मदीयं वचः ; तदेव बहुमन्येध्वम् ; किं तत् ? यदस्मात् याज्ञवल्क्यात् नमस्कारेण मुच्येध्वम् — अस्मै नमस्कारं कृत्वा, तदेव बहु­म­न्य­ध्व­मि­त्यर्थः ; जयस्त्वस्य मनसापि नाशंसनीयः, किमुत कार्यतः ; कस्मात् ? न वै युष्माकं मध्ये जातु कदाचिदपि इमं याज्ञवल्क्यं ब्रह्मोद्यं प्रति जेता । प्रश्नौ चेन्मह्यं वक्ष्यति, न वै जेता भविता — इति पूर्वमेव मया प्रतिज्ञातम् ; अद्यापि ममायमेव निश्चयः — ब्रह्मोद्यं प्रति एतत्तुल्यो न कश्चिद्विद्यत इति । ततो ह वाचक्नव्युपरराम ॥

अत्र अन्त­र्या­मि­ब्रा­ह्मणे एतदुक्तम् — यं पृथिवी न वेद, यं सर्वाणि भूतानि न विदुरिति च, यमन्तर्यामिणं न विदुः, ये च न विदुः, यच्च तदक्षरं दर्श­ना­दि­क्रि­या­क­र्तृ­त्वेन सर्वेषां चेत­ना­धा­तु­रि­त्यु­क्तम् — कस्तु एषां विशेषः, किं वा सामान्यमिति । तत्र केचिदाचक्षते — परस्य महा­स­मु­द्र­स्था­नी­यस्य ब्रह्मणः अक्षरस्य अप्र­च­लि­त­स्व­रू­पस्य ईष­त्प्र­च­लि­ता­वस्था अन्तर्यामी ; अत्य­न्त­प्र­च­लि­ता­वस्था क्षेत्रज्ञः, यः तं न वेद अन्तर्यामिणम् ; तथा अन्याः पञ्चावस्थाः परिकल्पयन्ति ; तथा अष्टावस्था ब्रह्मणो भवन्तीति वदन्ति । अन्ये अक्षरस्य शक्तय एता इति वदन्ति, अन­न्त­श­क्ति­म­द­क्ष­र­मिति च । अन्ये तु अक्षरस्य विकारा इति वदन्ति । अवस्थाशक्ती ताव­न्नो­प­प­द्येते, अक्षरस्य अश­ना­या­दि­सं­सा­र­ध­र्मा­ती­त­त्व­श्रुतेः ; न हि अश­ना­या­द्य­ती­त­त्वम् अश­ना­या­दि­ध­र्म­व­द­व­स्था­वत्त्वं च एकस्य युगपदुपपद्यते ; तथा शक्तिमत्त्वं च । विकारावयवत्वे च दोषाः प्रद­र्शि­ता­श्च­तुर्थे । तस्मात् एता असत्याः सर्वाः कल्पनाः । कस्तर्हि भेद एषाम् ? उपाधिकृत इति ब्रूमः ; न स्वत एषां भेदः अभेदो वा, सैन्धवघनवत् प्रज्ञा­न­घ­नै­क­र­स­स्वा­भा­व्यात् , ‘अपू­र्व­म­न­प­र­म­न­न्त­र­म­बा­ह्यम्’(बृ. उ. २ । ५ । १९) ‘अयमात्मा ब्रह्म’(बृ. उ. २ । ५ । १९) इति च श्रुतेः — ‘सबा­ह्या­भ्य­न्तरो ह्यजः’(मु. उ. २ । १ । २) इति च आथर्वणे । तस्मात् निरुपाधिकस्य आत्मनो निरुपाख्यत्वात् निर्विशेषत्वात् एकत्वाच्च ‘नेति नेति’(बृ. उ. २ । ३ । ६) इति व्यपदेशो भवति ; अवि­द्या­का­म­क­र्म­वि­शि­ष्ट­का­र्य­क­र­णो­पा­धि­रात्मा संसारी जीव उच्यते ; नित्य­नि­र­ति­श­य­ज्ञा­न­श­क्त्यु­पा­धि­रात्मा अन्तर्यामी ईश्वर उच्यते ; स एव निरुपाधिः केवलः शुद्धः स्वेन स्वभावेन अक्षरं पर उच्यते । तथा हिर­ण्य­ग­र्भा­व्या­कृ­त­दे­व­ता­जा­ति­पि­ण्ड­म­नु­ष्य­ति­र्य­क्प्रे­ता­दि­का­र्य­क­र­णो­पा­धि­भि­र्वि­शिष्टः तदाख्यः तद्रूपो भवति । तथा ‘तदेजति तन्नैजति’(ई. उ. ५) इति व्याख्यातम् । तथा ‘एष त आत्मा’(बृ. उ. ३ । ४ । १) , ‘एष सर्व­भू­ता­न्त­रात्मा’(मु. उ. २ । १ । ४) ‘एष सर्वेषु भूतेषु गूढः’(क. उ. १ । ३ । १२) ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) ‘अहमेवेदं सर्वम्’(छा. उ. ७ । २५ । १) ‘आत्मैवेदं सर्वम्’ ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. उ. ३ । ७ । २३) इत्यादिश्रुतयो न विरुध्यन्ते । कल्पनान्तरेषु एताः श्रुतयो न गच्छन्ति । तस्मात् उपाधिभेदेनैव एषां भेदः, नान्यथा, ‘एक­मे­वा­द्वि­ती­यम्’ इत्य­व­धा­र­णा­त्स­र्वो­प­नि­षत्सु ॥

इति तृतीयाध्यायस्य अष्टमं ब्राह्मणम् ॥

नवमं ब्राह्मणम्

अथ हैनं विदग्धः शाकल्यः पप्रच्छ । पृथिव्यादीनां सूक्ष्म­ता­र­त­म्य­क्र­मेण पूर्वस्य पूर्वस्य उत्त­र­स्मि­न्नु­त्त­र­स्मिन् ओतप्रोतभावं कथयन् सर्वान्तरं ब्रह्म प्रकाशितवान् ; तस्य च ब्रह्मणो व्याकृतविषये सूत्रभेदेषु निय­न्तृ­त्व­मु­क्तम् — व्याकृतविषये व्यक्ततरं लिङ्गमिति । तस्यैव ब्रह्मणः साक्षा­द­प­रो­क्षत्वे निय­न्त­व्य­दे­व­ता­भे­द­स­ङ्को­च­वि­का­स­द्वा­रे­णा­धि­ग­न्तव्ये इति तदर्थं शाक­ल्य­ब्रा­ह्म­ण­मा­र­भ्यते —

अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति त्रय­स्त्रिं­श­दि­त्यो­मिति होवाच कत्येव देवा याज्ञवल्क्येति षडित्योमिति होवाच कत्येव देवा याज्ञवल्क्येति त्रय इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति द्वावित्योमिति होवाच कत्येव देवा याज्ञ­व­ल्क्ये­त्य­ध्यर्ध इत्योमिति होवाच कत्येव देवा याज्ञ­व­ल्क्ये­त्येक इत्योमिति होवाच कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥ १ ॥

अथ हैनं विदग्ध इति नामतः, शकलस्यापत्यं शाकल्यः, पप्रच्छ — कतिसङ्ख्याका देवाः हे याज्ञवल्क्येति । स याज्ञवल्क्यः, ह किल, एतयैव वक्ष्यमाणया निविदा प्रतिपेदे सङ्ख्याम् , यां सङ्ख्यां पृष्टवान् शाकल्यः ; यावन्तः यावत्सङ्ख्याका देवाः वैश्वदेवस्य शस्त्रस्य निविदि — निविन्नाम देव­ता­स­ङ्ख्या­वा­च­कानि मन्त्रपदानि कानि­चि­द्वै­श्व­देवे शस्त्रे शस्यन्ते, तानि निवित्संज्ञकानि ; तस्यां निविदि यावन्तो देवाः श्रूयन्ते, तावन्तो देवा इति । का पुनः सा निविदिति तानि निवित्पदानि प्रदर्श्यन्ते — त्रयश्च त्री च शतात्रयश्च देवाः, देवानां त्री च त्रीणि च शतानि ; पुनरप्येवं त्रयश्च, त्री च सहस्रा सहस्राणि — एतावन्तो देवा इति । शाकल्योऽपि ओमिति होवाच । एवमेषां मध्यमा सङ्ख्या सम्यक्तया ज्ञाता ; पुनस्तेषामेव देवानां सङ्कोचविषयां सङ्ख्यां पृच्छति — कत्येव देवा याज्ञवल्क्येति ; त्रयस्त्रिंशत् , षट् , त्रयः, द्वौ, अध्यर्धः, एकः — इति । देव­ता­स­ङ्को­च­वि­का­स­वि­षयां सङ्ख्यां पृष्ट्वा पुनः सङ्ख्येयस्वरूपं पृच्छति — कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥

स होवाच महिमान एवैषामेते त्रय­स्त्रिं­श­त्त्वेव देवा इति कतमे ते त्रय­स्त्रिं­श­दि­त्यष्टौ वसव एकादश रुद्रा द्वाद­शा­दि­त्यास्त एक­त्रिं­श­दि­न्द्र­श्चैव प्रजापतिश्च त्रय­स्त्रिं­शा­विति ॥ २ ॥

स होवाच इतरः — महिमानः विभूतयः, एषां त्रयस्त्रिंशतः देवानाम् , एते त्रयश्च त्री च शतेत्यादयः ; परमार्थतस्तु त्रय­स्त्रिं­श­त्त्वेव देवा इति । कतमे ते त्रय­स्त्रिं­श­दि­त्यु­च्यते — अष्टौ वसवः, एकादश रुद्राः, द्वादश आदित्याः — ते एकत्रिंशत् — इन्द्रश्चैव प्रजापतिश्च त्रय­स्त्रिं­शा­विति त्रयस्त्रिंशतः पूरणौ ॥

कतमे वसव इत्यग्निश्च पृथिवी च वायु­श्चा­न्त­रिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चैते वसव एतेषु हीदं सर्वं हितमिति तस्माद्वसव इति ॥ ३ ॥

कतमे वसव इति तेषां स्वरूपं प्रत्येकं पृच्छ्यते ; अग्निश्च पृथिवी चेति — अग्न्याद्या नक्षत्रान्ता एते वसवः — प्राणिनां कर्म­फ­ला­श्र­य­त्वेन कार्य­क­र­ण­स­ङ्घा­त­रू­पेण तन्निवासत्वेन च विपरिणमन्तः जगदिदं सर्वं वासयन्ति वसन्ति च ; ते यस्माद्वासयन्ति तस्माद्वसव इति ॥

कतमे रुद्रा इति दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदा­स्मा­च्छ­री­रा­न्म­र्त्या­दु­त्क्रा­म­न्त्यथ रोदयन्ति तद्यद्रोदयन्ति तस्माद्रुद्रा इति ॥ ४ ॥

कतमे रुद्रा इति । दश इमे पुरुषे, कर्म­बु­द्धी­न्द्रि­याणि प्राणाः, आत्मा मनः एकादशः — एकादशानां पूरणः ; ते एते प्राणाः यदा अस्माच्छरीरात् मर्त्यात् प्राणिनां कर्म­फ­लो­प­भो­ग­क्षये उत्क्रामन्ति — अथ तदा रोदयन्ति तत्सम्बन्धिनः । तत् तत्र यस्माद्रोदयन्ति ते सम्बन्धिनः, तस्मात् रुद्रा इति ॥

कतम आदित्या इति द्वादश वै मासाः संवत्सरस्यैत आदित्या एते हीदं सर्वमाददाना यन्ति ते यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति ॥ ५ ॥

कतम आदित्या इति । द्वादश वै मासाः संवत्सरस्य कालस्य अवयवाः प्रसिद्धाः, एते आदित्याः ; कथम् ? एते हि यस्मात् पुनः पुनः परिवर्तमानाः प्राणिनामायूंषि कर्मफलं च आददानाः गृह्णन्त उपाददतः यन्ति गच्छन्ति — ते यत् यस्मात् एवम् इदं सर्वमाददाना यन्ति, तस्मादादित्या इति ॥

कतम इन्द्रः कतमः प्रजापतिरिति स्तन­यि­त्नु­रे­वेन्द्रो यज्ञः प्रजापतिरिति कतमः स्तन­यि­त्नु­रि­त्य­श­नि­रिति कतमो यज्ञ इति पशव इति ॥ ६ ॥

कतम इन्द्रः कतमः प्रजापतिरिति, स्तन­यि­त्नु­रे­वेन्द्रो यज्ञः प्रजापतिरिति, कतमः स्तन­यि­त्नु­रि­त्य­श­नि­रिति । अशनिः वज्रं वीर्यं बलम् , यत् प्राणिनः प्रमापयति, स इन्द्रः ; इन्द्रस्य हि तत् कर्म । कतमो यज्ञ इति पशव इति — यज्ञस्य हि साधनानि पशवः ; यज्ञ­स्या­रू­प­त्वात् पशु­सा­ध­ना­श्र­य­त्वाच्च पशवो यज्ञ इत्युच्यते ॥

कतमे षडित्यग्निश्च पृथिवी च वायु­श्चा­न्त­रिक्षं च आदित्यश्च द्यौश्चैते षडेते हीदं सर्वं षडिति ॥ ७ ॥

कतमे षडिति । त एव अग्न्यादयो वसुत्वेन पठिताः चन्द्रमसं नक्षत्राणि च वर्जयित्वा षड्भवन्ति — षट्स­ङ्ख्या­वि­शिष्टाः । एते हि यस्मात् , त्रय­स्त्रिं­श­दादि यदुक्तम् इदं सर्वम् , एत एव षड्भवन्ति ; सर्वो हि वस्वादिविस्तर एतेष्वेव षट्सु अन्त­र्भ­व­ती­त्यर्थः ॥

कतमे ते त्रयो देवा इतीम एव त्रयो लोका एषु हीमे सर्वे देवा इति कतमौ तौ द्वौ देवावित्यन्नं चैव प्राणश्चेति कतमोऽध्यर्ध इति योऽयं पवत इति ॥ ८ ॥

कतमे ते त्रयो देवा इति ; इम एव त्रयो लोका इति — पृथिवीमग्निं च एकीकृत्य एको देवः, अन्तरिक्षं वायुं च एकीकृत्य द्वितीयः, दिवमादित्यं च एकीकृत्य तृतीयः — ते एव त्रयो देवा इति । एषु, हि यस्मात् , त्रिषु देवेषु सर्वे देवा अन्तर्भवन्ति, तेन एत एव देवास्त्रयः — इत्येष नैरुक्तानां केषाञ्चित्पक्षः । कतमौ तौ द्वौ देवाविति — अन्नं चैव प्राणश्च एतौ द्वौ देवौ ; अनयोः सर्वे­षा­मु­क्ता­ना­म­न्त­र्भावः । कतमोऽध्यर्ध इति — योऽयं पवते वायुः ॥

तदाहुर्यदयमेक इवैव पवतेऽथ कथमध्यर्ध इति यदस्मिन्निदं सर्व­म­ध्या­र्ध्नो­त्ते­ना­ध्यर्ध इति कतम एको देव इति प्राण इति स ब्रह्म त्यदित्याचक्षते ॥ ९ ॥

तत् तत्र आहुः चोदयन्ति — यदयं वायुः एक इवैव एक एव पवते ; अथ कथमध्यर्ध इति । यत् अस्मिन् इदं सर्व­म­ध्या­र्ध्नोत् — अस्मिन्वायौ सति इदं सर्व­म­ध्या­र्ध्नोत् — अधि ऋद्धिं प्राप्नोति — तेनाध्यर्ध इति । कतम एको देव इति, प्राण इति । स प्राणो ब्रह्म — सर्व­दे­वा­त्म­क­त्वा­न्म­ह­द्ब्रह्म, तेन स ब्रह्म त्यदित्याचक्षते — त्यदिति तद्ब्र­ह्मा­च­क्षते परोक्षाभिधायकेन शब्देन । देवानामेतत् एकत्वं नानात्वं च — अनन्तानां देवानां निवि­त्स­ङ्ख्या­वि­शि­ष्टे­ष्व­न्त­र्भावः ; तेषामपि त्रय­स्त्रिं­श­दा­दि­षू­त्त­रो­त्त­रेषु याव­दे­क­स्मि­न्प्राणे ; प्राणस्यैव चैकस्य सर्वः अनन्तसङ्ख्यातो विस्तरः । एवमेकश्च अनन्तश्च अवा­न्त­र­स­ङ्ख्या­वि­शि­ष्टश्च प्राण एव । तत्र च देवस्यैकस्य नाम­रू­प­क­र्म­गु­ण­श­क्ति­भेदः अधिकारभेदात् ॥

इदानीं तस्यैव प्राणस्य ब्रह्मणः पुनरष्टधा भेद उपदिश्यते —

पृथिव्येव यस्या­य­त­न­म­ग्नि­र्लोको मनोज्योतिर्यो वै तं पुरुषं विद्या­त्स­र्व­स्या­त्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायं शारीरः पुरुषः स एष वदैव शाकल्य तस्य का देवतेत्यमृतमिति होवाच ॥ १० ॥

१०

पृथिव्येव यस्य देवस्य आयतनम् आश्रयः ; अग्निर्लोको यस्य — लोकयत्यनेनेति लोकः, पश्यतीति — अग्निना पश्यतीत्यर्थः ; मनोज्योतिः — मनसा ज्योतिषा सङ्क­ल्प­वि­क­ल्पा­दि­कार्यं करोति यः, सोऽयं मनोज्योतिः ; पृथिवीशरीरः अग्निदर्शनः मनसा सङ्कल्पयिता पृथिव्यभिमानी कार्य­क­र­ण­स­ङ्घा­त­वा­न्देव इत्यर्थः । य एवं विशिष्टं वै तं पुरुषं विद्यात् विजानीयात् , सर्वस्य आत्मनः आध्यात्मिकस्य कार्य­क­र­ण­स­ङ्घा­तस्य आत्मनः परमयनम् पर आश्रयः तं परायणम् — मातृजेन त्वङ्मां­स­रु­धि­र­रू­पेण क्षेत्र­स्था­नी­येन बीजस्थानीयस्य पितृजस्य अस्थि­म­ज्जा­शु­क्र­रू­पस्य परम् अयनम् , करणात्मनश्च — स वै वेदिता स्यात् ; य एतदेवं वेत्ति स वै वेदिता पण्डितः स्यादि­त्य­भि­प्रायः । याज्ञवल्क्य त्वं तमजानन्नेव पण्डि­ता­भि­मा­नी­त्य­भि­प्रायः । यदि तद्विज्ञाने पाण्डित्यं लभ्यते, वेद वै अहं तं पुरुषम् — सर्वस्य आत्मनः परायणं यमात्थ यं कथयसि — तमहं वेद । तत्र शाकल्यस्य वचनं द्रष्टव्यम् — यदि त्वं वेत्थ तं पुरुषम् , ब्रूहि किंविशेषणोऽसौ । शृणु, यद्विशेषणः सः — य एवायं शारीरः पार्थिवांशे शरीरे भवः शारीरः मातृजकोशत्रयरूप इत्यर्थः ; स एष देवः, यस्त्वया पृष्टः, हे शाकल्य ; किन्तु अस्ति तत्र वक्तव्यं विशेषणान्तरम् ; तत् वदैव पृच्छै­वे­त्यर्थः, हे शाकल्य । स एवं प्रक्षो­भि­तोऽ­म­र्ष­व­शग आह, तोत्रार्दित इव गजः — तस्य देवस्य शारीरस्य का देवता — यस्मा­न्नि­ष्प­द्यते, यः ‘सा तस्य देवता’ इत्य­स्मि­न्प्र­क­रणे विवक्षितः ; अमृतमिति होवाच — अमृतमिति यो भुक्तस्यान्नस्य रसः मातृजस्य लोहितस्य निष्पत्तिहेतुः ; तस्माद्धि अन्नरसाल्लोहितं निष्पद्यते स्त्रियां श्रितम् ; ततश्च लोहितमयं शरीरं बीजाश्रयम् । समानमन्यत् ॥

काम एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्या­त्स­र्व­स्या­त्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायं काममयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति स्त्रिय इति होवाच ॥ ११ ॥

११

काम एव यस्यायतनम् । स्त्रीव्य­ति­क­रा­भि­लाषः कामः कामशरीर इत्यर्थः । हृदयं लोकः, हृदयेन बुद्ध्या पश्यति । य एवायं काममयः पुरुषः अध्यात्ममपि काममय एव, तस्य का देवतेति — स्त्रिय इति होवाच ; स्त्रीतो हि कामस्य दीप्तिर्जायते ॥

रूपाण्येव यस्यायतनं चक्षुर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्या­त्स­र्व­स्या­त्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवासावादित्ये पुरुषः स एष वदैव शाकल्य तस्य का देवतेति सत्यमिति होवाच ॥ १२ ॥

१२

रूपाण्येव यस्यायतनम् । रूपाणि शुक्लकृष्णादीनि । य एवासावादित्ये पुरुषः — सर्वेषां हि रूपाणां विशिष्टं कार्यमादित्ये पुरुषः, तस्य का देवतेति — सत्यमिति होवाच ; सत्यमिति चक्षुरुच्यते ; चक्षुषो हि अध्यात्मत आदि­त्य­स्या­धि­दै­व­तस्य निष्पत्तिः ॥

आकाश एव यस्यायतनं श्रोत्रं लोको मनोज्योतिर्यो वै तं पुरुषं विद्या­त्स­र्व­स्या­त्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरषं सर्वस्यात्मनः परायणं यमात्थ य एवायं श्रौत्रः प्रातिश्रुत्कः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति दिश इति होवाच ॥ १३ ॥

१३

आकाश एव यस्यायतनम् । य एवायं श्रोत्रे भवः श्रौत्रः, तत्रापि प्रति­श्र­व­ण­वे­लायां विशेषतो भवतीति प्रातिश्रुत्कः, तस्य का देवतेति — दिश इति होवाच ; दिग्भ्यो ह्यसौ आध्यात्मिको निष्पद्यते ॥

तम एव यस्यायतनं हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्या­त्स­र्व­स्या­त्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायं छायामयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति मृत्युरिति होवाच ॥ १४ ॥

१४

तम एव यस्यायतनम् । तम इति शार्व­रा­द्य­न्ध­कारः परिगृह्यते ; अध्यात्मं छायामयः अज्ञानमयः पुरुषः ; तस्य का देवतेति — मृत्युरिति होवाच ; मृत्युरधिदैवतं तस्य निष्पत्तिकारणम् ॥

रूपाण्येव यस्यायतनं चक्षुर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्या­त्स­र्व­स्या­त्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्यस्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायमादर्शे पुरुषः स एष वदैव शाकल्य तस्य का देवतेत्यसुरिति होवाच ॥ १५ ॥

१५

रूपाण्येव यस्यायतनम् । पूर्वं साधारणानि रूपाण्युक्तानि इह तु प्रकाशकानि विशिष्टानि रूपाणि गृह्यन्ते ; रूपायतनस्य देवस्य विशेषायतनं प्रति­बि­म्बा­धा­र­मा­द­र्शादि ; तस्य का देवतेति — असुरिति होवाच ; तस्य प्रति­बि­म्बा­ख्यस्य पुरुषस्य निष्पत्तिः असोः प्राणात् ॥

आप एव यस्यायतनं हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्या­त्स­र्व­स्या­त्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायमप्सु पुरुषः स एष वदैव शाकल्य तस्य का देवतेति वरुण इति होवाच ॥ १६ ॥

१६

आप एव यस्य आयतनम् । साधारणाः सर्वा आप आयतनम् ; वापी­कू­प­त­डा­गा­द्या­श्र­यासु अप्सु विशेषावस्थानम् ; तस्य का देवतेति, वरुण इति — वरुणात् सङ्घातकर्त्र्यः अध्यात्मम् आप एव वाप्याद्यपां निष्पत्तिकारणम् ॥

रेत एव यस्यायतनं हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्या­त्स­र्व­स्या­त्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ य एवायं पुत्रमयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति प्रजापतिरिति होवाच ॥ १७ ॥

१७

रेत एव यस्यायतनम् ; य एवायं पुत्रमयः विशेषायतनं रेतआयतनस्य — पुत्रमय इति च अस्थि­म­ज्जा­शु­क्राणि पितुर्जातानि ; तस्य का देवतेति, प्रजापतिरिति होवाच — प्रजापतिः पितोच्यते, पितृतो हि पुत्र­स्यो­त्पत्तिः ॥

शाकल्येति होवाच याज्ञ­व­ल्क्यस्त्वां स्विदिमे ब्राह्मणा अङ्गा­रा­व­क्ष­य­ण­म­क्रता३ इति ॥ १८ ॥

१८

अष्टधा देव­लो­क­पु­रु­ष­भे­देन त्रिधा त्रिधा आत्मानं प्रविभज्य अवस्थित एकैको देवः प्राणभेद एव उपासनार्थं व्यपदिष्टः ; अधुना दिग्विभागेन पञ्चधा प्रविभक्तस्य आत्म­न्यु­प­सं­हा­रा­र्थम् आह ; तूष्णीम्भूतं शाकल्यं याज्ञवल्क्यो ग्रहेणेव आवेशयन्नाह — शाकल्येति होवाच याज्ञवल्क्यः ; त्वां स्विदिति वितर्के, इमे नूनं ब्राह्मणाः, अङ्गारावक्षयणम् — अङ्गाराः अवक्षीयन्ते यस्मिन् सन्दंशादौ तत् अङ्गारावक्षयणम् — तत् नूनं त्वाम् अक्रत कृतवन्तः ब्राह्मणाः, त्वं तु तन्न बुध्यसे आत्मानं मया दह्य­मा­न­मि­त्य­भि­प्रायः ॥

याज्ञवल्क्येति होवाच शाकल्यो यदिदं कुरुपञ्चालानां ब्राह्म­णा­न­त्य­वादीः किं ब्रह्म विद्वानिति दिशो वेद सदेवाः सप्रतिष्ठा इति यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ १९ ॥

१९

याज्ञवल्क्येति होवाच शाकल्यः — यदिदं कुरुपञ्चालानां ब्राह्मणान् अत्यवादीः अत्युक्तवानसि — स्वयं भीता­स्त्वा­म­ङ्गा­रा­व­क्ष­यणं कृतवन्त इति — किं ब्रह्म विद्वान्सन् एवमधिक्षिपसि ब्राह्मणान् । याज्ञवल्क्य आह — ब्रह्मविज्ञानं तावदिदं मम ; किं तत् ? दिशो वेद दिग्विषयं विज्ञानं जाने ; तच्च न केवलं दिश एव, सदेवाः देवैः सह दिगधिष्ठातृभिः, किञ्च सप्रतिष्ठाः प्रतिष्ठाभिश्च सह । इतर आह — यत् यदि दिशो वेत्थ सदेवाः सप्रतिष्टा इति, सफलं यदि विज्ञानं त्वया प्रतिज्ञातम् ॥

किन्देवतोऽस्यां प्राच्यां दिश्य­सी­त्या­दि­त्य­दे­वत इति स आदित्यः कस्मि­न्प्र­ति­ष्ठित इति चक्षुषीति कस्मिन्नु चक्षुः प्रतिष्ठितमिति रूपेष्विति चक्षुषा हि रूपाणि पश्यति कस्मिन्नु रूपाणि प्रतिष्ठितानीति हृदय इति होवाच हृदयेन हि रूपाणि जानाति हृदये ह्येव रूपाणि प्रतिष्ठितानि भव­न्ती­त्ये­व­मे­वै­त­द्या­ज्ञ­वल्क्य ॥ २० ॥

२०

किन्देवतः का देवता अस्य तव दिग्भूतस्य । असौ हि याज्ञवल्क्यः हृदयमात्मानं दिक्षु पञ्चधा विभक्तं दिगात्मभूतम् , तद्द्वारेण सर्वं जगत् आत्म­त्वे­नो­प­गम्य, अहमस्मि दिगात्मेति व्यवस्थितः, पूर्वाभिमुखः — सप्र­ति­ष्ठा­व­च­नात् ; यथा याज्ञवल्क्यस्य प्रतिज्ञा तथैव पृच्छति — किन्दे­व­त­स्त्व­मस्यां दिश्यसीति । सर्वत्र हि वेदे यां यां देवतामुपास्ते इहैव तद्भूतः तां तां प्रतिपद्यत इति ; तथा च वक्ष्यति — ‘देवो भूत्वा देवानप्येति’(बृ. उ. ४ । १ । २) इति । अस्यां प्राच्यां का देवता दिगात्मनस्तव अधिष्ठात्री, कया देवतया त्वं प्राचीदिग्रूपेण सम्पन्न इत्यर्थः । इतर आह — आदित्यदेवत इति ; प्राच्यां दिशि मम आदित्यो देवता, सोऽह­मा­दि­त्य­दे­वतः । सदेवा इत्येतत् उक्तम् , सप्रतिष्ठा इति तु वक्तव्यमित्याह — स आदित्यः कस्मि­न्प्र­ति­ष्ठित इति, चक्षुषीति ; अध्या­त्म­त­श्च­क्षुष आदित्यो निष्पन्न इति हि मन्त्र­ब्रा­ह्म­ण­वादाः — ‘चक्षोः सूर्यो अजायत’(ऋ. सं. १० । ९० । १३) ‘चक्षुष आदित्यः’(ऐ. उ. १ । १ । ४) इत्यादयः ; कार्यं हि कारणे प्रतिष्ठितं भवति । कस्मिन्नु चक्षुः प्रतिष्ठितमिति, रूपेष्विति ; रूपग्रहणाय हि रूपात्मकं चक्षुः रूपेण प्रयुक्तम् ; यैर्हि रूपैः प्रयुक्तं तैरात्मग्रहणाय आरब्धं चक्षुः ; तस्मात् सादित्यं चक्षुः सह प्राच्या दिशा सह तत्स्थैः सर्वैः रूपेषु प्रतिष्ठितम् । चक्षुषा सह प्राची दिक्सर्वा रूपभूता ; तानि च कस्मिन्नु रूपाणि प्रतिष्ठितानीति ; हृदय इति होवाच ; हृदयारब्धानि रूपाणि ; रूपाकारेण हि हृदयं परिणतम् ; यस्मात् हृदयेन हि रूपाणि सर्वो लोको जानाति ; हृदयमिति बुद्धिमनसी एकीकृत्य निर्देशः ; तस्मात् हृदये ह्येव रूपाणि प्रतिष्ठितानि ; हृदयेन हि स्मरणं भवति रूपाणां वासनात्मनाम् ; तस्मात् हृदये रूपाणि प्रति­ष्ठि­ता­नी­त्यर्थः । एव­मे­वै­त­द्या­ज्ञ­वल्क्य ॥

किन्देवतोऽस्यां दक्षिणायां दिश्यसीति यमदेवत इति स यमः कस्मि­न्प्र­ति­ष्ठित इति यज्ञ इति कस्मिन्नु यज्ञः प्रतिष्ठित इति दक्षिणायामिति कस्मिन्नु दक्षिणा प्रतिष्ठितेति श्रद्धायामिति यदा ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति श्रद्धायां ह्येव दक्षिणा प्रतिष्ठितेति कस्मिन्नु श्रद्धा प्रतिष्ठितेति हृदय इति होवाच हृदयेन हि श्रद्धां जानाति हृदये ह्येव श्रद्धा प्रतिष्ठिता भव­ती­त्ये­व­मे­वै­त­द्या­ज्ञ­वल्क्य ॥ २१ ॥

२१

किन्देवतोऽस्यां दक्षिणायां दिश्यसीति पूर्ववत् — दक्षिणायां दिशि का देवता तव । यमदेवत इति — यमो देवता मम दक्षि­णा­दि­ग्भू­तस्य । स यमः कस्मि­न्प्र­ति­ष्ठित इति, यज्ञ इति — यज्ञे कारणे प्रतिष्ठितो यमः सह दिशा । कथं पुनर्यज्ञस्य कार्यं यम इत्युच्यते — ऋत्वि­ग्भि­र्नि­ष्पा­दितो यज्ञः ; दक्षिणया यजमानस्तेभ्यो यज्ञं निष्क्रीय तेन यज्ञेन दक्षिणां दिशं सह यमेनाभिजायति ; तेन यज्ञे यमः कार्य­त्वा­त्प्र­ति­ष्ठितः सह दक्षिणया दिशा । कस्मिन्नु यज्ञः प्रतिष्ठित इति, दक्षिणायामिति — दक्षिणया स निष्क्रीयते ; तेन दक्षिणाकार्यं यज्ञः । कस्मिन्नु दक्षिणा प्रतिष्ठितेति, श्रद्धायामिति — श्रद्धा नाम दित्सुत्वम् आस्ति­क्य­बु­द्धि­र्भ­क्ति­स­हिता । कथं तस्यां प्रतिष्ठिता दक्षिणा ? यस्मात् यदा ह्येव श्रद्धत्ते अथ दक्षिणां ददाति, न अश्रद्दधत् दक्षिणां ददाति ; तस्मात् श्रद्धायां ह्येव दक्षिणा प्रतिष्ठितेति । कस्मिन्नु श्रद्धा प्रतिष्ठितेति, हृदय इति होवाच — हृदयस्य हि वृत्तिः श्रद्धा यस्मात् , हृदयेन हि श्रद्धां जानाति ; वृत्तिश्च वृत्तिमति प्रतिष्ठिता भवति ; तस्माद्धृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीति । एव­मे­वै­त­द्या­ज्ञ­वल्क्य ॥

किन्देवतोऽस्यां प्रतीच्यां दिश्यसीति वरुणदेवत इति स वरुणः कस्मि­न्प्र­ति­ष्ठित इत्यप्स्विति कस्मिन्न्वापः प्रतिष्ठिता इति रेतसीति कस्मिन्नु रेतः प्रतिष्ठितमिति हृदय इति तस्मादपि प्रतिरूपं जात­मा­हु­र्हृ­द­या­दिव सृप्तो हृदयादिव निर्मित इति हृदये ह्येव रेतः प्रतिष्ठितं भव­ती­त्ये­व­मे­वै­त­द्या­ज्ञ­वल्क्य ॥ २२ ॥

२२

किं देवतोऽस्यां प्रतीच्यां दिश्यसीति । तस्यां वरुणोऽधिदेवता मम । स वरुणः कस्मि­न्प्र­ति­ष्ठित इति, अप्स्विति — अपां हि वरुणः कार्यम् , ‘श्रद्धा वा आपः’(तै. सं. १ । ६ । ८ । १) ‘श्रद्धातो वरुणमसृजत’(?) इति श्रुतेः । कस्मिन्न्वापः प्रतिष्ठिता इति, रेतसीति — ‘रेतसो ह्यापः सृष्टाः’(?) इति श्रुतेः । कस्मिन्नु रेतः प्रतिष्ठितमिति, हृदय इति — यस्मात् हृदयस्य कार्यं रेतः ; कामो हृदयस्य वृत्तिः ; कामिनो हि हृदयात् रेतोऽधिस्कन्दति ; तस्मादपि प्रतिरूपम् अनुरूपं पुत्रं जात­मा­हु­र्लौ­किकाः — अस्य पितुर्हृदयादिव अयं पुत्रः सृप्तः विनिःसृतः, हृदयादिव निर्मितो यथा सुवर्णेन निर्मितः कुण्डलः । तस्मात् हृदये ह्येव रेतः प्रतिष्ठितं भवतीति । एव­मे­वै­त­द्या­ज्ञ­वल्क्य ॥

किन्दे­व­तोऽ­स्या­मु­दीच्यां दिश्यसीति सोमदेवत इति स सोमः कस्मि­न्प्र­ति­ष्ठित इति दीक्षायामिति कस्मिन्नु दीक्षा प्रतिष्ठितेति सत्य इति तस्मादपि दीक्षितमाहुः सत्यं वदेति सत्ये ह्येव दीक्षा प्रतिष्ठितेति कस्मिन्नु सत्यं प्रतिष्ठितमिति हृदय इति होवाच हृदयेन हि सत्यं जानाति हृदये ह्येव सत्यं प्रतिष्ठितं भव­ती­त्ये­व­मे­वै­त­द्या­ज्ञ­वल्क्य ॥ २३ ॥

२३

किन्दे­व­तोऽ­स्या­मु­दीच्यां दिश्यसीति, सोमदेवत इति — सोम इति लतां सोमं देवतां चैकीकृत्य निर्देशः । स सोमः कस्मि­न्प्र­ति­ष्ठित इति, दीक्षायामिति — दीक्षितो हि यजमानः सोमं क्रीणाति ; क्रीतेन सोमेन इष्ट्वा ज्ञानवानुत्तरां दिशं प्रतिपद्यते सोम­दे­व­ता­धि­ष्ठितां सौम्याम् । कस्मिन्नु दीक्षा प्रतिष्ठितेति, सत्य इति — कथम् ? यस्मात्सत्ये दीक्षा प्रतिष्ठिता, तस्मादपि दीक्षितमाहुः — सत्यं वदेति — कारणभ्रेषे कार्यभ्रेषो मा भूदिति । सत्ये ह्येव दीक्षा प्रतिष्ठितेति । कस्मिन्नु सत्यं प्रतिष्ठितमिति ; हृदय इति होवाच ; हृदयेन हि सत्यं जानाति ; तस्मात् हृदये ह्येव सत्यं प्रतिष्ठितं भवतीति । एव­मे­वै­त­द्या­ज्ञ­वल्क्य ॥

किन्देवतोऽस्यां ध्रुवायां दिश्य­सी­त्य­ग्नि­दे­वत इति सोऽग्निः कस्मि­न्प्र­ति­ष्ठित इति वाचीति कस्मिन्नु वाक्प्र­ति­ष्ठि­तेति हृदय इति कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥ २४ ॥

२४

किन्देवतोऽस्यां ध्रुवायां दिश्यसीति । मेरोः समन्ततो वस­ता­म­व्य­भि­चा­रात् ऊर्ध्वा दिक् ध्रुवेत्युच्यते । अग्निदेवत इति — ऊर्ध्वायां हि प्रका­श­भू­य­स्त्वम् , प्रकाशश्च अग्निः सोऽग्निः कस्मि­न्प्र­ति­ष्ठित इति, वाचीति । कस्मिन्नु वाक्प्र­ति­ष्ठि­तेति, हृदय इति । तत्र याज्ञवल्क्यः सर्वासु दिक्षु विप्रसृतेन हृदयेन सर्वा दिश आत्म­त्वे­ना­भि­स­म्पन्नः ; सदेवाः सप्रतिष्ठा दिश आत्मभूतास्तस्य नाम­रू­प­क­र्मा­त्म­भू­तस्य याज्ञवल्क्यस्य ; यत् रूपं तत् प्राच्यादिशा सह हृदयभूतं याज्ञवल्क्यस्य ; यत्केवलं कर्म पुत्रो­त्पा­द­न­ल­क्षणं च ज्ञानसहितं च सह फलेन अधि­ष्ठा­त्री­भिश्च देवताभिः दक्षि­णा­प्र­ती­च्यु­दीच्यः कर्मफलात्मिकाः हृदयमेव आपन्नास्तस्य ; ध्रुवया दिशा सह नाम सर्वं वाग्द्वारेण हृदयमेव आपन्नम् ; एतावद्धीदं सर्वम् ; यदुत रूपं वा कर्म वा नाम वेति तत्सर्वं हृदयमेव ; तत् सर्वात्मकं हृदयं पृच्छ्यते — कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥

अहल्लिकेति होवाच याज्ञवल्क्यो यत्रै­त­द­न्य­त्रा­स्म­न्म­न्यासै यद्ध्ये­त­द­न्य­त्रा­स्म­त्स्या­च्छ्वानो वैन­द­द्यु­र्व­यांसि वैन­द्वि­म­थ्नी­र­न्निति ॥ २५ ॥

२५

अहल्लिकेति होवाच याज्ञवल्क्यः — नामान्तरेण सम्बोधनं कृतवान् । यत्र यस्मिन्काले, एतत् हृदयं आत्मा अस्य शरीरस्य अन्यत्र क्वचि­द्दे­शा­न्तरे, अस्मत् अस्मत्तः, वर्तत इति मन्यासै मन्यसे — यद्धि यदि हि एतद्धृदयम् अन्यत्रास्मत् स्यात् भवेत् , श्वानो वा एनत् शरीरम् तदा अद्युः, वयांसि वा पक्षिणो वा एनत् विमथ्नीरन् विलोडयेयुः विकर्षेरन्निति । तस्मात् मयि शरीरे हृदयं प्रति­ष्ठि­त­मि­त्यर्थः । शरीरस्यापि नाम­रू­प­क­र्मा­त्म­क­त्वा­द्धृ­दये प्रतिष्ठितत्वम् ॥

कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति प्राण इति कस्मिन्नु प्राणः प्रतिष्ठित इत्यपान इति कस्मिन्न्वपानः प्रतिष्ठित इति व्यान इति कस्मिन्नु व्यानः प्रतिष्ठित इत्युदान इति कस्मिन्नूदानः प्रतिष्ठित इति समान इति स एष नेति नेत्या­त्मा­गृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यति । एता­न्य­ष्टा­वा­य­त­ना­न्यष्टौ लोका अष्टौ देवा अष्टौ पुरुषाः स यस्ता­न्पु­रु­षा­न्नि­रुह्य प्रत्यु­ह्या­त्य­क्रा­मत्तं त्वौपनिषदं पुरुषं पृच्छामि तं चेन्मे न विवक्ष्यति मूर्धा ते विपतिष्यतीति । तं ह न मेने शाकल्यस्तस्य ह मूर्धा विपपातापि हास्य परि­मो­षि­णोऽ­स्थी­न्य­प­ज­ह्रु­र­न्य­न्म­न्य­मानाः ॥ २६ ॥

२६

हृद­य­श­री­र­यो­रे­व­म­न्यो­न्य­प्र­तिष्ठा उक्ता कार्यकरणयोः ; अतस्त्वां पृच्छामि — कस्मिन्नु त्वं च शरीरम् आत्मा च तव हृदयं प्रतिष्ठितौ स्थ इति ; प्राण इति ; देहात्मानौ प्राणे प्रतिष्ठितौ स्यातां प्राणवृत्तौ । कस्मिन्नु प्राणः प्रतिष्ठित इति, अपान इति — सापि प्राणवृत्तिः प्रागेव प्रेयात् , अपानवृत्त्या चेन्न निगृह्येत । कस्मिन्न्वपानः प्रतिष्ठित इति, व्यान इति — साप्यपानवृत्तिः अध एव यायात् प्राणवृत्तिश्च प्रागेव, मध्यस्थया चेत् व्यानवृत्त्या न निगृह्येत । कस्मिन्नु व्यानः प्रतिष्ठित इति, उदान इति — सर्वा­स्ति­स्रोऽपि वृत्तय उदाने कीलस्थानीये चेन्न निबद्धाः, विष्वगेवेयुः । कस्मिन्नूदानः प्रतिष्ठित इति, समान इति — समानप्रतिष्ठा ह्येताः सर्वा वृत्तयः । एतदुक्तं भवति — शरी­र­हृ­द­य­वा­य­वोऽ­न्यो­न्य­प्र­तिष्ठाः । सङ्घातेन नियता वर्तन्ते विज्ञा­न­म­या­र्थ­प्र­युक्ता इति । सर्वमेतत् येन नियतम् यस्मि­न्प्र­ति­ष्ठि­तम् आकाशान्तम् ओतं च प्रोतं च, तस्य निरुपाधिकस्य साक्षा­द­प­रो­क्षा­द्ब्र­ह्मणो निर्देशः कर्तव्य इत्ययमारम्भः । स एषः — स यो ‘नेति नेति’(बृ. उ. २ । ३ । ६) इति निर्दिष्टो मधुकाण्डे एष सः, सोऽयमात्मा अगृह्यः न गृह्यः ; कथम् ? यस्मा­त्स­र्व­का­र्य­ध­र्मा­तीतः, तस्मादगृह्यः ; कुतः ? यस्मान्न हि गृह्यते ; यद्धि करणगोचरं व्याकृतं वस्तु, तद्ग्रहणगोचरम् ; इदं तु तद्वि­प­री­त­मा­त्म­त­त्त्वम् । तथा अशीर्यः — यद्धि मूर्तं संहतं शरीरादि तच्छीर्यते ; अयं तु तद्विपरीतः ; अतो न हि शीर्यते । तथा असङ्गः — मूर्तो मूर्तान्तरेण सम्बध्यमानः सज्यते ; अयं च तद्विपरीतः ; अतो न हि सज्यते । तथा असितः अबद्धः — यद्धि मूर्तं तत् बध्यते ; अयं तु तद्विपरीतत्वात् असितः ; अबद्धत्वान्न व्यथते ; अतो न रिष्यति — ग्रह­ण­वि­श­र­ण­स­ङ्ग­ब­न्ध­का­र्य­ध­र्म­र­हि­त­त्वान्न रिष्यति न हिंसामापद्यते न विनश्यतीत्यर्थः । क्रममतिक्रम्य औपनिषदस्य पुरुषस्य आख्या­यि­का­तोऽ­प­सृत्य श्रुत्या स्वेन रूपेण त्वरया निर्देशः कृतः ; ततः पुनः आख्या­यि­का­मे­वा­श्रि­त्याह — एतानि यान्युक्तानि अष्टावायतनानि ‘पृथिव्येव यस्यायतनम्’ इत्येवमादीनि, अष्टौ लोकाः अग्निलोकादयः, अष्टौ देवाः ‘अमृतमिति होवाच’(बृ. उ. ३ । ९ । १०) इत्येवमादयः, अष्टौ पुरुषाः ‘शरीरः पुरुषः’ इत्यादयः — स यः कश्चित् तान्पुरुषान् शारीरप्रभृतीन् निरुह्य निश्चयेनोह्य गमयित्वा अष्टचतुष्कभेदेन लोक­स्थि­ति­मु­प­पाद्य, पुनः प्राची­दि­गा­दि­द्वा­रेण प्रत्युह्य उपसंहृत्य स्वात्मनि हृदये अत्यक्रामत् अति­क्रा­न्त­वा­नु­पा­धि­धर्मं हृद­या­द्या­त्म­त्वम् ; स्वेनैवात्मना व्यवस्थितो य औपनिषदः पुरुषः अशनायादिवर्जित उपनिषत्स्वेव विज्ञेयः नान्य­प्र­मा­ण­गम्यः, तं त्वा त्वां विद्याभिमानिनं पुरुषं पृच्छामि । तं चेत् यदि मे न विवक्ष्यसि विस्पष्टं न कथयिष्यसि, मूर्धा ते विपतिष्यतीत्याह याज्ञवल्क्यः । तं त्वौपनिषदं पुरुषं शाकल्यो न मेने ह न विज्ञातवान्किल । तस्य ह मूर्धा विपपात विपतितः । समाप्ता आख्यायिका । श्रुतेर्वचनम् , ‘तं ह न मेने’ इत्यादि । किं च अपि ह अस्य परिमोषिणः तस्कराः अस्थीन्यपि संस्कारार्थं शिष्यै­र्नी­य­मा­नानि गृहा­न्प्र­त्य­प­जह्रुः अपहृतवन्तः — किं निमित्तम् — अन्यत् धनं नीयमानं मन्यमानाः । पूर्ववृत्ता ह्याख्यायिकेह सूचिता । अष्टाध्याय्यां किल शाकल्येन याज्ञवल्क्यस्य समानान्त एव संवादो निर्वृत्तः ; तत्र याज्ञवल्क्येन शापो दत्तः — ‘पुरेऽतिथ्ये मरिष्यसि न तेऽस्थीनिचन गृहा­न्प्रा­प्स्यन्ति’(शत. ब्रा. ११ । ६ । ३ । ११) इति ‘स ह तथैव ममार ; तस्य हाप्य­न्य­न्म­न्य­मानाः परि­मो­षि­णोऽ­स्थी­न्य­प­जह्रुः ; तस्मान्नोपवादी स्यादुत ह्येवंवित्परो भवतीति’(शत. ब्रा. ११ । ६ । ३ । ११) । सैषा आख्यायिका आचारार्थं सूचिता विद्यास्तुतये च इह ॥

यस्य नेति नेती­त्य­न्य­प्र­ति­षे­ध­द्वा­रेण ब्रह्मणो निर्देशः कृतः तस्य विधिमुखेन कथं निर्देशः कर्तव्य इति पुन­रा­ख्या­यि­का­मे­वा­श्रि­त्याह मूलं च जगतो वक्तव्यमिति । आख्या­यि­का­स­म्ब­न्ध­स्त्व­ब्र­ह्म­विदो ब्राह्म­णा­ञ्जित्वा गोधनं हर्तव्यमिति । न्यायं मत्वाह —

अथ होवाच ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु सर्वे वा मा पृच्छत यो वः कामयते तं वः पृच्छामि सर्वान्वा वः पृच्छामीति ते ह ब्राह्मणा न दधृषुः ॥ २७ ॥

२७

अथ होवाच । अथ अनन्तरं तूष्णीम्भूतेषु ब्राह्मणेषु ह उवाच, हे ब्राह्मणा भगवन्त इत्येवं सम्बोध्य — यो वः युष्माकं मध्ये कामयते इच्छति — याज्ञवल्क्यं पृच्छामीति, स मा माम् आगत्य पृच्छतु ; सर्वे वा मा पृच्छत — सर्वे वा यूयं मा मां पृच्छत ; यो वः कामयते — याज्ञवल्क्यो मां पृच्छत्विति, तं वः पृच्छामि ; सर्वान्वा वः युष्मान् अहं पृच्छामि । ते ह ब्राह्मणा न दधृषुः — ते ब्राह्मणा एवमुक्ता अपि न प्रगल्भाः संवृत्ताः किञ्चिदपि प्रत्युत्तरं वक्तुम् ॥

तान्हैतैः श्लोकैः पप्रच्छ —
यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा । तस्य लोमानि पर्णानि त्वग­स्यो­त्पा­टिका बहिः ॥ १ ॥

२८

तेष्व­प्र­ग­ल्भ­भू­तेषु ब्राह्मणेषु तान् ह एतैः वक्ष्यमाणैः श्लोकैः पप्रच्छ पृष्टवान् । यथा लोके वृक्षो वनस्पतिः, वृक्षस्य विशेषणं वनस्पतिरिति, तथैव पुरुषोऽमृषा — अमृषा सत्यमेतत् ; तस्य लोमानि — तस्य पुरुषस्य लोमानि इतरस्य वनस्पतेः पर्णानि ; त्वग­स्यो­त्पा­टिका बहिः — त्वक् अस्य पुरुषस्य इतरस्योत्पाटिका वनस्पतेः ॥

त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः । तस्मा­त्त­दा­तृ­ण्णा­त्प्रैति रसो वृक्षादिवाहतात् ॥ २ ॥

२८

त्वच एव सकाशात् अस्य पुरुषस्य रुधिरं प्रस्यन्दि, वनस्पतेस्त्वचः उत्पटः — त्वच एव उत्स्फुटति यस्मात् ; एवं सर्वं समानमेव वनस्पतेः पुरुषस्य च ; तस्मात् आतृण्णात् हिंसितात् प्रैति तत् रुधिरं निर्गच्छति, वृक्षादिव आहतात् छिन्नात् रसः ॥

मांसान्यस्य शकराणि किनाटं स्नाव तत्स्थिरम् । अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता ॥ ३ ॥

२८

एवं मांसान्यस्य पुरुषस्य, वनस्पतेः तानि शकराणि शकलानीत्यर्थः । किनाटम् , वृक्षस्य किनाटं नाम शक­ले­भ्योऽ­भ्य­न्तरं वल्कलरूपं काष्ठसँलग्नम् , तत् स्नाव पुरुषस्य ; तत्स्थिरम् — तच्च किनाटं स्नाववत् दृढं हि तत् ; अस्थीनि पुरुषस्य, स्नाव्नोऽन्तरतः अस्थीनि भवन्ति ; तथा किना­ट­स्या­भ्य­न्त­रतो दारूणि काष्ठानि ; मज्जा, मज्जैव वनस्पतेः पुरुषस्य च मज्जोपमा कृता, मज्जाया उपमा मज्जोपमा, नान्यो विशे­षोऽ­स्ती­त्यर्थः ; यथा वनस्पतेर्मज्जा तथा पुरुषस्य, यथा पुरुषस्य तथा वनस्पतेः ॥

यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः । मर्त्यः स्विन्मृत्युना वृक्णः कस्मा­न्मू­ला­त्प्र­रो­हति ॥ ४ ॥

२८

यत् यदि वृक्षो वृक्णः छिन्नः रोहति पुनः पुनः प्ररोहति प्रादुर्भवति मूलात् पुनर्नवतरः पूर्व­स्मा­द­भि­न­व­तरः ; यदे­त­स्मा­द्वि­शे­ष­णा­त्प्राक् वनस्पतेः पुरुषस्य च, सर्वं सामान्यमवगतम् ; अयं तु वनस्पतौ विशेषो दृश्यते — यत् छिन्नस्य प्ररोहणम् ; न तु पुरुषे मृत्युना वृक्णे पुनः प्ररोहणं दृश्यते ; भवितव्यं च कुत­श्चि­त्प्र­रो­ह­णेन ; तस्मात् वः पृच्छामि — मर्त्यः मनुष्यः स्वित् मृत्युना वृक्णः कस्मात् मूलात् प्ररोहति, मृतस्य पुरुषस्य कुतः प्ररो­ह­ण­मि­त्यर्थः ॥

रेतस इति मा वोचत जीव­त­स्त­त्प्र­जा­यते । धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य सम्भवः ॥ ५ ॥

२८

यदि चेदेवं वदथ — रेतसः प्ररोहतीति, मा वोचत मैवं वक्तुमर्हथ ; कस्मात् ? यस्मात् जीवतः पुरुषात् तत् रेतः प्रजायते, न मृतात् । अपि च धानारुहः धाना बीजम् , बीजरुहोऽपि वृक्षो भवति, न केवलं काण्डरुह एव ; इव - शब्दोऽनर्थकः ; वै वृक्षः अञ्जसा साक्षात् प्रेत्य मृत्वा सम्भवः धानातोऽपि प्रेत्य सम्भवो भवेत् अञ्जसा पुनर्वनस्पतेः ॥

यत्स­मू­ल­मा­वृ­हे­यु­र्वृक्षं न पुनराभवेत् । मर्त्यः स्विन्मृत्युना वृक्णः कस्मा­न्मू­ला­त्प्र­रो­हति ॥ ६ ॥

२८

यत् यदि सह मूलेन धानया वा आवृहेयुः उद्यच्छेयुः उत्पाटयेयुः वृक्षम् , न पुनराभवेत् पुनरागत्य न भवेत् । तस्माद्वः पृच्छामि — सर्वस्यैव जगतो मूलं मर्त्यः स्वित् मृत्युना वृक्णः कस्मात् मूलात् प्ररोहति ॥

जात एव न जायते को न्वेनं जनयेत्पुनः । विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणं तिष्ठमानस्य तद्विद इति ॥ ७ ॥

२८

जात एवेति, मन्यध्वं यदि, किमत्र प्रष्टव्यमिति — जनिष्यमाणस्य हि सम्भवः प्रष्टव्यः, न जातस्य ; अयं तु जात एव अतोऽस्मिन्विषये प्रश्न एव नोपपद्यत इति चेत् — न ; किं तर्हि ? मृतः पुनरपि जायत एव अन्यथा अकृ­ता­भ्या­ग­म­कृ­त­ना­श­प्र­स­ङ्गात् ; अतो वः पृच्छामि — को न्वेनं मृतं पुनर्जनयेत् । तत् न विज­ज्ञु­र्ब्रा­ह्मणाः — यतो मृतः पुनः प्ररोहति जगतो मूलं न विज्ञातं ब्राह्मणैः ; अतो ब्रह्मि­ष्ठ­त्वात् हृता गावः ; याज्ञवल्क्येन जिता ब्राह्मणाः । समाप्ता आख्यायिका । यज्जगतो मूलम् , येन च शब्देन साक्षा­द्व्य­प­दि­श्यते ब्रह्म, यत् याज्ञवल्क्यो ब्राह्म­णा­न्पृ­ष्ट­वान् , तत् स्वेन रूपेण श्रुति­र­स्म­भ्य­माह — विज्ञानं विज्ञप्तिः विज्ञानम् , तच्च आनन्दम् , न विष­य­वि­ज्ञा­न­व­द्दुः­खा­नु­वि­द्धम् , किं तर्हि प्रसन्नं शिवमतुलमनायासं नित्य­तृ­प्त­मे­क­र­स­मि­त्यर्थः । किं तत् ब्रह्म उभ­य­वि­शे­ष­ण­व­द्रातिः रातेः षष्ठ्यर्थे प्रथमा, धनस्येत्यर्थः ; धनस्य दातुः कर्मकृतो यजमानस्य परायणं परा गतिः कर्मफलस्य प्रदातृ । किञ्च व्युत्था­यै­ष­णाभ्यः तस्मिन्नेव ब्रह्मणि तिष्ठति अकर्मकृत् , तत् ब्रह्म वेत्तीति तद्विच्च, तस्य — तिष्ठमानस्य च तद्विदः, ब्रह्मविद इत्यर्थः, परायणमिति ॥

अत्रेदं विचार्यते — आनन्दशब्दो लोके सुखवाची प्रसिद्धः ; अत्र च ब्रह्मणो विशेषणत्वेन आनन्दशब्दः श्रूयते आनन्दं ब्रह्मेति ; श्रुत्यन्तरे च — ‘आनन्दो ब्रह्मेति व्यजानात्’(तै. उ. ३ । ६ । ९) ‘आनन्दं ब्रह्मणो विद्वान्’(तै. उ. २ । ९ । १) ‘यदेष आकाश आनन्दो न स्यात्’(तै. उ. २ । ७ । १) ‘यो वै भूमा तत्सुखम्’(छा. उ. ७ । २३ । १) इति च ; ‘एष परम आनन्दः’ इत्येवमाद्याः ; संवेद्ये च सुखे आनन्दशब्दः प्रसिद्धः ; ब्रह्मानन्दश्च यदि संवेद्यः स्यात् , युक्ता एते ब्रह्मणि आनन्दशब्दाः । ननु च श्रुति­प्रा­मा­ण्यात् संवे­द्या­न­न्द­स्व­रू­प­मेव ब्रह्म, किं तत्र विचार्यमिति — न, विरु­द्ध­श्रु­ति­वा­क्य­द­र्श­नात् — सत्यम् , आनन्दशब्दो ब्रह्मणि श्रूयते ; विज्ञा­न­प्र­ति­षे­धश्च एकत्वे — ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भूत् , तत्केन कं पश्येत् , तत्केन किं विजानीयात्’(बृ. उ. ४ । ५ । १५) ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’(छा. उ. ७ । २४ । १) ‘प्राज्ञे­ना­त्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद’(बृ. उ. ४ । ३ । २१) इत्यादि ; विरु­द्ध­श्रु­ति­वा­क्य­द­र्श­नात् तेन कर्तव्यो विचारः । तस्मात् युक्तं वेद­वा­क्या­र्थ­नि­र्ण­याय विचारयितुम् । मोक्ष­वा­दि­वि­प्र­ति­प­त्तेश्च — साङ्ख्या वैशेषिकाश्च मोक्षवादिनो नास्ति मोक्षे सुखं संवेद्यमित्येवं विप्रतिपन्नाः ; अन्ये निरतिशयं सुखं स्वसंवेद्यमिति ॥

किं तावद्युक्तम् ? आन­न्दा­दि­श्र­व­णात् ‘जक्ष­त्क्री­ड­न्र­म­माणः’(छा. उ. ८ । १२ । ३) ‘स यदि पितृलोककामो भवति’(छा. उ. ८ । २ । १) ‘यः सर्वज्ञः सर्ववित्’(मु. उ. १ । १ । ९) ‘सर्वा­न्का­मा­न्स­म­श्नुते’(तै. उ. २ । ५ । १) इत्या­दि­श्रु­तिभ्यः मोक्षे सुखं संवेद्यमिति । ननु एकत्वे कार­क­वि­भा­गा­भा­वात् विज्ञा­ना­नु­प­पत्तिः, क्रिया­या­श्चा­ने­क­का­र­क­सा­ध्य­त्वात् विज्ञानस्य च क्रियात्वात् — नैष दोषः ; शब्द­प्रा­मा­ण्यात् भवेत् विज्ञा­न­मा­न­न्द­वि­षये ; ‘विज्ञा­न­मा­न­न्दम्’ इत्यादीनि आन­न्द­स्व­रू­प­स्या­सं­वे­द्य­त्वेऽ­नु­प­प­न्नानि वचनानीत्यवोचाम । ननु वचनेनापि अग्नेः शैत्यम् उदकस्य च औष्ण्यं न क्रियत एव, ज्ञाप­क­त्वा­द्व­च­ना­नाम् ; न च देशान्तरेऽग्निः शीत इति शक्यते ज्ञापयितुम् ; अगम्ये वा देशान्तरे उष्णमुदकमिति — न, प्रत्य­गा­त्म­न्या­न­न्द­वि­ज्ञा­न­द­र्श­नात् ; न ‘विज्ञा­न­मा­न­न्दम्’ इत्येवमादीनां वचनानां शीतोऽ­ग्नि­रि­त्या­दि­वा­क्य­वत् प्रत्य­क्षा­दि­वि­रु­द्धा­र्थ­प्र­ति­पा­द­क­त्वम् । अनुभूयते तु अविरुद्धार्थता ; सुखी अहम् इति सुखा­त्म­क­मा­त्मानं स्वयमेव वेदयते ; तस्मात् सुतरां प्रत्य­क्षा­वि­रु­द्धा­र्थता ; तस्मात् आनन्दं ब्रह्म विज्ञानात्मकं सत् स्वयमेव वेदयते । तथा आन­न्द­प्र­ति­पा­दिकाः श्रुतयः समञ्जसाः स्युः ‘जक्ष­त्क्री­ड­न्र­म­माणः’ इत्येवमाद्याः पूर्वोक्ताः ॥

न, कार्यकरणाभावे अनु­प­प­त्ते­र्वि­ज्ञा­नस्य — शरीरवियोगो हि मोक्ष आत्यन्तिकः ; शरीराभावे च करणानुपपत्तिः, आश्रयाभावात् ; ततश्च विज्ञा­ना­नु­प­पत्तिः अकार्यकरणत्वात् ; देहाद्यभावे च विज्ञानोत्पत्तौ सर्वेषां कार्य­क­र­णो­पा­दा­ना­न­र्थ­क्य­प्र­सङ्गः । एकत्वविरोधाच्च — परं चेद्ब्रह्म आनन्दात्मकम् आत्मानं नित्य­वि­ज्ञा­न­त्वात् नित्यमेव विजानीयात् , तन्न ; संसार्यपि संसा­र­वि­नि­र्मुक्तः स्वाभाव्यं प्रतिपद्येत ; जलाशय इवोदकाञ्जलिः क्षिप्तः न पृथक्त्वेन व्यवतिष्ठते आन­न्दा­त्म­क­ब्र­ह्म­वि­ज्ञा­नाय ; तदा मुक्त आन­न्दा­त्म­क­मा­त्मानं वेदयत इत्येतदनर्थकं वाक्यम् । अथ ब्रह्मानन्दम् अन्यः सन् मुक्तो वेदयते, प्रत्यगात्मानं च, अह­म­स्म्या­न­न्द­स्व­रूप इति ; तदा एकत्वविरोधः ; तथा च सति सर्व­श्रु­ति­वि­रोधः । तृतीया च कल्पना नोपपद्यते । किञ्चान्यत् , ब्रह्मणश्च निर­न्त­रा­त्मा­न­न्द­वि­ज्ञाने विज्ञा­ना­वि­ज्ञा­न­क­ल्प­ना­न­र्थ­क्यम् ; निरन्तरं चेत् आत्मानन्दविषयं ब्रह्मणो विज्ञानम् , तदेव तस्य स्वभाव इति आत्मानन्दं विजानातीति कल्पना अनुपपन्ना ; अत­द्वि­ज्ञा­न­प्र­सङ्गे हि कल्पनाया अर्थवत्त्वम् , यथा आत्मानं परं च वेत्तीति ; न हि इष्वा­द्या­स­क्त­म­नसो नैरन्तर्येण इषु­ज्ञा­ना­ज्ञा­न­क­ल्प­नाया अर्थवत्त्वम् । अथ विच्छि­न्न­मा­त्मा­नन्दं विजानाति — विज्ञानस्य आत्म­वि­ज्ञा­न­च्छिद्रे अन्य­वि­ष­य­त्व­प्र­सङ्गः ; आत्मनश्च विक्रि­या­व­त्त्वम् , तत­श्चा­नि­त्य­त्व­प्र­सङ्गः । तस्मात् ‘विज्ञा­न­मा­न­न्दम्’ इति स्वरू­पा­न्वा­ख्या­न­प­रैव श्रुतिः, नात्मा­न­न्द­सं­वे­द्य­त्वार्था । ‘जक्षत्क्रीडन्’(छा. उ. ८ । १२ । ३) इत्या­दि­श्रु­ति­वि­रो­धोऽ­सं­वे­द्यत्व इति चेन्न, सर्वात्मैकत्वे यथा­प्रा­प्ता­नु­वा­दि­त्वात् — मुक्तस्य सर्वात्मभावे सति यत्र क्वचित् योगिषु देवेषु वा जक्षणादि प्राप्तम् ; तत् यथा­प्रा­प्त­मे­वा­नू­द्यते — तत् तस्यैव सर्वा­त्म­भा­वा­दिति सर्वा­त्म­भा­व­मो­क्ष­स्तु­तये । यथा­प्रा­प्ता­नु­वा­दित्वे दुःखित्वमपीति चेत् — योग्यादिषु यथा­प्रा­प्त­ज­क्ष­णा­दि­वत् स्थावरादिषु यथा­प्रा­प्त­दुः­खि­त्व­म­पीति चेत् — न, नाम­रू­प­कृ­त­का­र्य­क­र­णो­पा­धि­स­म्प­र्क­ज­नि­त­भ्रा­न्त्य­ध्या­रो­पि­त­त्वात् सुखि­त्व­दुः­खि­त्वा­दि­वि­शे­ष­स्येति परि­हृ­त­मे­त­त्स­र्वम् । विरु­द्ध­श्रु­तीनां च विषयमवोचाम । तस्मात् ‘एषोऽस्य परम आनन्दः’(बृ. उ. ४ । ३ । ३२) इतिवत् सर्वा­ण्या­न­न्द­वा­क्यानि द्रष्टव्यानि ॥

इति तृतीयाध्यायस्य नवमं ब्राह्मणम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ बृह­दा­र­ण्य­को­प­नि­ष­द्भाष्ये तृतीयोऽध्यायः ॥