बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायः
प्रथमं ब्राह्मणम्
जनको ह वैदेह आसाञ्चक्रे । अस्य सम्बन्धः — शारीराद्यानष्टौ पुरुषान्निरुह्य, प्रत्युह्य पुनर्हृदये, दिग्भेदेन च पुनः पञ्चधा व्यूह्य, हृदये प्रत्युह्य, हृदयं शरीरं च पुनरन्योन्यप्रतिष्ठं प्राणादिपञ्चवृत्त्यात्मके समानाख्ये जगदात्मनि सूत्र उपसंहृत्य, जगदात्मानं शरीरहृदयसूत्रावस्थमतिक्रान्तवान् य औपनिषदः पुरुषः नेति नेतीति व्यपदिष्टः, स साक्षाच्च उपादानकारणस्वरूपेण च निर्दिष्टः ‘विज्ञानमानन्दम्’ इति । तस्यैव वागादिदेवताद्वारेण पुनरधिगमः कर्तव्य इति अधिगमनोपायान्तरार्थोऽयमारम्भो ब्राह्मणद्वयस्य । आख्यायिका तु आचारप्रदर्शनार्था —
ओं जनको ह वैदेह आसाञ्चक्रेऽथ ह याज्ञवल्क्य आवव्राज । तंहोवाच याज्ञवल्क्य किमर्थमचारीः पशूनिच्छन्नण्वन्तानिति । उभयमेव सम्राडिति होवाच ॥ १ ॥
१जनको ह वैदेह आसाञ्चक्रे आसनं कृतवान् आस्थायिकां दत्तवानित्यर्थः, दर्शनकामेभ्यो राज्ञः । अथ ह तस्मिन्नवसरे याज्ञवल्क्य आवव्राज आगतवान् आत्मनो योगक्षेमार्थम् , राज्ञो वा विविदिषां दृष्ट्वा अनुग्रहार्थम् । तमागतं याज्ञवल्क्यं यथावत्पूजां कृत्वा उवाच ह उक्तवान् जनकः — हे याज्ञवल्क्य किमर्थमचारीः आगतोऽसि ; किं पशूनिच्छन्पुनरपि आहोस्वित् अण्वन्तान् सूक्ष्मान्तान् सूक्ष्मवस्तुनिर्णयान्तान् प्रश्नान् मत्तः श्रोतुमिच्छन्निति । उभयमेव पशून्प्रश्नांश्च, हे सम्राट् — सम्राडिति वाजपेययाजिनो लिङ्गम् ; यश्चाज्ञया राज्यं प्रशास्ति, स सम्राट् ; तस्यामन्त्रणं हे सम्राडिति ; समस्तस्य वा भारतस्य वर्षस्य राजा ॥
यत्ते कश्चिदब्रवीत्तछृणवामेत्यब्रवीन्मे जित्वा शैलिनिर्वाग्वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छैलिनिरब्रवीद्वाग्वै ब्रह्मेत्यवदतो हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य । वागेवायतनमाकाशः प्रतिष्ठा प्रज्ञेत्येनदुपासीत । का प्रज्ञता याज्ञवल्क्य । वागेव सम्राडिति होवाच । वाचा वै सम्राड्बन्धुः प्रज्ञायत ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव सम्राट्प्रज्ञायन्ते वाग्वै सम्राट्परमं ब्रह्म नैनं वाग्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ २ ॥
२किं तु यत् ते तुभ्यम् , कश्चित् अब्रवीत् आचार्यः ; अनेकाचार्यसेवी हि भवान् ; तच्छृणवामेति । इतर आह — अब्रवीत् उक्तवान् मे मम आचार्यः, जित्वा नामतः, शिलिनस्यापत्यं शैलिनिः — वाग्वै ब्रह्मेति वाग्देवता ब्रह्मेति । आहेतरः — यथा मातृमान् माता यस्य विद्यते पुत्रस्य सम्यगनुशास्त्री अनुशासनकर्त्री स मातृमान् ; अत ऊर्ध्वं पिता यस्यानुशास्ता स पितृमान् ; उपनयनादूर्ध्वम् आ समावर्तनात् आचार्यो यस्यानुशास्ता स आचार्यवान् ; एवं शुद्धित्रयहेतुसंयुक्तः स साक्षादाचार्यः स्वयं न कदाचिदपि प्रामाण्याद्व्यभिचरति ; स यथा ब्रूयाच्छिष्याय तथासौ जित्वा शैलिनिरुक्तवान् — वाग्वै ब्रह्मेति ; अवदतो हि किं स्यादिति — न हि मूकस्य इहार्थम् अमुत्रार्थं वा किञ्चन स्यात् । किं तु अब्रवीत् उक्तवान् ते तुभ्यम् तस्य ब्रह्मणः आयतनं प्रतिष्ठां च — आयतनं नाम शरीरम् ; प्रतिष्ठा त्रिष्वपि कालेषु य आश्रयः । आहेतरः — न मेऽब्रवीदिति । इतर आह — यद्येवम् एकपात् वै एतत् , एकः पादो यस्य ब्रह्मणः तदिदमेकपाद्ब्रह्म त्रिभिः पादैः शून्यम् उपास्यमानमिति न फलाय भवतीत्यर्थः । यद्येवम् , स त्वं विद्वान्सन् नः अस्मभ्यं ब्रूहि हे याज्ञवल्क्येति । स च आह — वागेव आयतनम् , वाग्देवस्य ब्रह्मणः वागेव करणम् आयतनं शरीरम् , आकाशः अव्याकृताख्यः प्रतिष्ठा उत्पत्तिस्थितिलयकालेषु । प्रज्ञेत्येनदुपासीत — प्रज्ञेतीयमुपनिषत् ब्रह्मणश्चतुर्थः पादः — प्रज्ञेति कृत्वा एनत् ब्रह्म उपासीत । का प्रज्ञता याज्ञवल्क्य, किं स्वयमेव प्रज्ञा, उत प्रज्ञानिमित्ता — यथा आयतनप्रतिष्ठे ब्रह्मणो व्यतिरिक्ते, तद्वत्किम् । न ; कथं तर्हि ? वागेव, सम्राट् , इति होवाच ; वागेव प्रज्ञेति ह उवाच उक्तवान् , न व्यतिरिक्ता प्रज्ञेति । कथं पुनर्वागेव प्रज्ञेति उच्यते — वाचा वै, सम्राट् , बन्धुः प्रज्ञायते — अस्माकं बन्धुरित्युक्ते प्रज्ञायते बन्धुः ; तथा ऋग्वेदादि, इष्टं यागनिमित्तं धर्मजातम् , हुतं होमनिमित्तं च, आशितम् अन्नदाननिमित्तम् , पायितं पानदाननिमित्तम् , अयं च लोकः, इदं च जन्म, परश्च लोकः, प्रतिपत्तव्यं च जन्म, सर्वाणि च भूतानि — वाचैव, सम्राट् , प्रज्ञायन्ते ; अतो वाग्वै, सम्राट् , परमं ब्रह्म । नैनं यथोक्तब्रह्मविदं वाग्जहाति ; सर्वाण्येनं भूतान्यभिक्षरन्ति बलिदानादिभिः ; इह देवो भूत्वा पुनः शरीरपातोत्तरकालं देवानप्येति अपिगच्छति, य एवं विद्वानेतदुपास्ते । विद्यानिष्क्रयार्थं हस्तितुल्य ऋषभो हस्त्यृषभः यस्मिन्गोसहस्रे तत् हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः — अननुशिष्य शिष्यं कृतार्थमकृत्वा शिष्यात् धनं न हरेतेति मे मम पिता — अमन्यत ; ममाप्ययमेवाभिप्रायः ॥
यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्म उदङ्कः शौल्बायनः प्राणो वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छौल्बायनोऽब्रवीत्प्राणो वै ब्रह्मेत्यप्राणतो हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य प्राण एवायतनमाकाशः प्रतिष्ठा प्रियमित्येनदुपासीत का प्रियता याज्ञवल्क्य प्राण एव सम्राडिति होवाच प्राणस्य वै सम्राट्कामायायाज्यं याजयत्यप्रतिगृह्यस्य प्रतिगृह्णात्यपि तत्र वधाशङ्कं भवति यां दिशमेति प्राणस्यैव सम्राट्कामाय प्राणो वै सम्राट्परमं ब्रह्म नैनं प्राणो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ३ ॥
३यदेव ते कश्चिदब्रवीत् उदङ्को नामतः शुल्बस्यापत्यं शौल्बायनः अब्रवीत् ; प्राणो वै ब्रह्मेति, प्राणो वायुर्देवता — पूर्ववत् । प्राण एव आयतनम् आकाशः प्रतिष्ठा ; उपनिषत् — प्रियमित्येनदुपासीत । कथं पुनः प्रियत्वम् ? प्राणस्य वै, हे सम्राट् , कामाय प्राणस्यार्थाय अयाज्यं याजयति पतितादिकमपि ; अप्रतिगृह्यस्याप्युग्रादेः प्रतिगृह्णात्यपि ; तत्र तस्यां दिशि वधनिमित्तमाशङ्कम् — वधाशङ्केत्यर्थः — यां दिशमेति तस्कराद्याकीर्णां च, तस्यां दिशि वधाशङ्का ; तच्चैतत्सर्वं प्राणस्य प्रियत्वे भवति, प्राणस्यैव, सम्राट् , कामाय । तस्मात्प्राणो वै, सम्राट् , परमं ब्रह्म ; नैनं प्राणो जहाति ; समानमन्यत् ॥
यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे बर्कुर्वार्ष्णश्चक्षुर्वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तद्वार्ष्णोऽब्रवीच्चक्षुर्वै ब्रह्मेत्यपश्यतो हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य चक्षुरेवायतनमाकाशः प्रतिष्ठा सत्यमित्येनदुपासीत का सत्यता याज्ञवल्क्य चक्षुरेव सम्राडिति होवाच चक्षुषा वै सम्राट्पश्यन्तमाहुरद्राक्षीरिति स आहाद्राक्षमिति तत्सत्यं भवति चक्षुर्वै सम्राट्परमं ब्रह्म नैनं चक्षुर्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ४ ॥
४यदेव ते कश्चित् बर्कुरिति नामतः वृष्णस्यापत्यं वार्ष्णः ; चक्षुर्वै ब्रह्मेति — आदित्यो देवता चक्षुषि । उपनिषत् — सत्यम् ; यस्मात् श्रोत्रेण श्रुतमनृतमपि स्यात् , न तु चक्षुषा दृष्टम् , तस्माद्वै, सम्राट् , पश्यन्तमाहुः — अद्राक्षीस्त्वं हस्तिनमिति, स चेत् अद्राक्षमित्याह, तत्सत्यमेव भवति ; यस्त्वन्यो ब्रूयात् — अहमश्रौषमिति, तद्व्यभिचरति ; यत्तु चक्षुषा दृष्टं तत् अव्यभिचारित्वात् सत्यमेव भवति ॥
यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे गर्दभीविपीतो भारद्वाजः श्रोत्रं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तद्भारद्वाजोऽब्रवीच्छ्रोत्रं वै ब्रह्मेत्यशृण्वतो हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य श्रोत्रमेवायतनमाकाशः प्रतिष्ठानन्त इत्येनदुपासीत कानन्तता याज्ञवल्क्य दिश एव सम्राडिति होवाच तस्माद्वै सम्राडपि यां कां च दिशं गच्छति नैवास्या अन्तं गच्छत्यनन्ता हि दिशो दिशो वै सम्राट् श्रोत्रं श्रोत्रं वै सम्राट्परमं ब्रह्म नैनं श्रोत्रं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ५ ॥
५यदेव ते गर्दभीविपीत इति नामतः भारद्वाजो गोत्रतः ; श्रोत्रं वै ब्रह्मेति — श्रोत्रे दिक् देवता । अनन्त इत्येनदुपासीत ; का अनन्तता श्रोत्रस्य ? दिश एव श्रोत्रस्य आनन्त्यं यस्मात् , तस्माद्वै, सम्राट् , प्राचीमुदीचीं वा यां काञ्चिदपि दिशं गच्छति, नैवास्य अन्तं गच्छति कश्चिदपि ; अतोऽनन्ता हि दिशः ; दिशो वै सम्राट् , श्रोत्रम् ; तस्मात् दिगानन्त्यमेव श्रोत्रस्य आनन्त्यम् ॥
यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे सत्यकामो जाबालो मनो वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तज्जाबालोऽब्रवीन्मनो वै ब्रह्मेत्यमनसो हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य मन एवायतनमाकाशः प्रतिष्ठानन्द इत्येनदुपासीत कानन्दता याज्ञवल्क्य मन एव सम्राडिति होवाच मनसा वै सम्राट्स्त्रियमभिहार्यते तस्यां प्रतिरूपः पुत्रो जायते स आनन्दो मनो वै सम्राट्परमं ब्रह्म नैनं मनो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ६ ॥
६सत्यकाम इति नामतः जबालाया अपत्यं जाबालः । चन्द्रमा मनसि देवता । आनन्द इत्युपनिषत् ; यस्मान्मन एव आनन्दः, तस्मात् मनसा वै, सम्राट् , स्त्रियमभिकामयमानः अभिहार्यते प्रार्थयत इत्यर्थः ; तस्मात् यां स्त्रियमभिकामयमानोऽभिहार्यते, तस्यां प्रतिरूपः अनुरूपः पुत्रो जायते ; स आनन्दहेतुः पुत्रः ; स येन मनसा निर्वर्त्यते, तन्मनः आनन्दः ॥
यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे विदग्धः शाकल्यो हृदयं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छाकल्योऽब्रवीद्धृदयं वै ब्रह्मेत्यहृदयस्य हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य हृदयमेवायतनमाकाशः प्रतिष्ठा स्थितिरित्येनदुपासीत का स्थितता याज्ञवल्क्य हृदयमेव सम्राडिति होवाच हृदयं वै सम्राट्सर्वेषां भूतानामायतनं हृदयं वै सम्राट्सर्वेषां भूतानां प्रतिष्ठा हृदये ह्येव सम्राट्सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति हृदयं वै सम्राट्परमं ब्रह्म नैनं हृदयं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ७ ॥
७विदग्धः शाकल्यः — हृदयं वै ब्रह्मेति । हृदयं वै, सम्राट् , सर्वेषां भूतानामायतनम् । नामरूपकर्मात्मकानि हि भूतानि हृदयाश्रयाणीत्यवोचाम शाकल्यब्राह्मणे हृदयप्रतिष्ठानि चेति । तस्मात् हृदये ह्येव, सम्राट् , सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति । तस्मात् हृदयं स्थितिरित्युपासीत ; हृदये च प्रजापतिर्देवता ॥
इति चतुर्थाध्यायस्य प्रथनं ब्राह्मणम् ॥
द्वितीयं ब्राह्मणम्
जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच नमस्तेऽस्तु याज्ञवल्क्यानु मा शाधीति स होवाच यथा वै सम्राण्महान्तमध्वानमेष्यन्रथं वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्मास्येवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति नाहं तद्भगवन्वेद यत्र गमिष्यामीत्यथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति ब्रवीतु भगवानिति ॥ १ ॥
१जनको ह वैदेहः । यस्मात्सविशेषणानि सर्वाणि ब्रह्माणि जानाति याज्ञवल्क्यः, तस्मात् आचार्यकत्वं हित्वा जनकः कूर्चात् आसनविशेषात् उत्थाय उप समीपम् अवसर्पन् , पादयोर्निपतन्नित्यर्थः, उवाच उक्तवान् — नमः ते तुभ्यम् अस्तु हे याज्ञवल्क्य ; अनु मा शाधि अनुशाधि मामित्यर्थः ; इति - शब्दो वाक्यपरिसमाप्त्यर्थः । स होवाच याज्ञवल्क्यः — यथा वै लोके, हे सम्राट् , महान्तं दीर्घम् अध्वानम् एष्यन् गमिष्यन् , रथं वा स्थलेन गमिष्यन् , नावं वा जलेन गमिष्यन् समाददीत — एवमेव एतानि ब्रह्माणि एताभिरुपनिषद्भिर्युक्तानि उपासीनः समाहितात्मा असि, अत्यन्तमेताभिरुपनिषद्भिः संयुक्तात्मा असि ; न केवलमुपनिषत्समाहितः ; एवं वृन्दारकः पूज्यश्च आढ्यश्च ईश्वरः न दरिद्र इत्यर्थः, अधीतवेदः अधीतो वेदो येन स त्वमधीतवेदः, उक्ताश्चोपनिषद आचार्यैस्तुभ्यं स त्वमुक्तोपनिषत्कः ; एवं सर्वविभूतिसम्पन्नोऽपि सन् भयमध्यस्थ एव परमात्मज्ञानेन विना अकृतार्थ एव तावदित्यर्थः — यावत्परं ब्रह्म न वेत्सि ; इतः अस्माद्देहात् विमुच्यमानः एताभिर्नौरथस्थानीयाभिः समाहितः क्व कस्मिन् गमिष्यसि, किं वस्तु प्राप्स्यसीति । नाहं तद्वस्तु, भगवन् पूजावन् , वेद जाने, यत्र गमिष्यामीति । अथ यद्येवं न जानीषे यत्र गतः कृतार्थः स्याः, अहं वै ते तुभ्यं तद्वक्ष्यामि यत्र गमिष्यसीति । ब्रवीतु भगवानिति, यदि प्रसन्नो मां प्रति ॥
शृणु —
इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषस्तं वा एतमिन्धं सन्तमिन्द्र इत्याचक्षते परोक्षेणैव परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः ॥ २ ॥
२इन्धो ह वै नाम । इन्ध इत्येवंनामा, यः चक्षुर्वै ब्रह्मेति पुरोक्त आदित्यान्तर्गतः पुरुषः स एषः, योऽयं दक्षिणे अक्षन् अक्षणि विशेषेण व्यवस्थितः — स च सत्यनामा ; तं वै एतं पुरुषम् , दीप्तिगुणत्वात् प्रत्यक्षं नाम अस्य इन्ध इति, तम् इन्धं सन्तम् इन्द्र इत्याचक्षते परोक्षेण । यस्मात्परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः प्रत्यक्षनामग्रहणं द्विषन्ति । एष त्वं वैश्वानरमात्मानं सम्पन्नोऽसि ॥
अथैतद्वामेऽक्षणि पुरुषरूपमेषास्य पत्नी विराट्तयोरेष संस्तावो य एषोऽन्तर्हृदय आकाशोऽथैनयोरेतदन्नं य एषोऽन्तर्हृदय लोहितपिण्डोऽथैनयोरेतत्प्रावरणं यदेतदन्तर्हृदये जालकमिवाथैनयोरेषा सृतिः सञ्चरणी यैषा हृदयादूर्ध्वा नाड्युच्चरति यथा केशः सहस्रधा भिन्न एवमस्यैता हिता नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता भवन्त्येताभिर्वा एतदास्रवदास्रवति तस्मादेष प्रविविक्ताहारतर इवैव भवत्यस्माच्छारीरादात्मनः ॥ ३ ॥
३अथैतत् वामेऽक्षणि पुरुषरूपम् , एषा अस्य पत्नी — यं त्वं वैश्वानरमात्मानं सम्पन्नोऽसि तस्यास्य इन्द्रस्य भोक्तुः भोग्या एषा पत्नी, विराट् अन्नं भोग्यत्वादेव ; तदेतत् अन्नं च अत्ता च एकं मिथुनं स्वप्ने । कथम् ? तयोरेषः — इन्द्राण्याः इन्द्रस्य च एषः संस्तावः, सम्भूय यत्र संस्तवं कुर्वाते अन्योन्यं स एष संस्तावः ; कोऽसौ ? य एषोऽन्तर्हृदय आकाशः — अन्तर्हृदये हृदयस्य मांसपिण्डस्य मध्ये ; अथैनयोः एतत् वक्ष्यमाणम् अन्नं भोज्यं स्थितिहेतुः ; किं तत् ? य एषोऽन्तर्हृदये लोहितपिण्डः — लोहित एव पिण्डाकारापन्नो लोहितपिण्डः ; अन्नं जग्धं द्वेधा परिणमते ; यत्स्थूलं तदधो गच्छति ; यदन्यत् तत्पुनरग्निना पच्यमानं द्वेधा परिणमते — यो मध्यमो रसः स लोहितादिक्रमेण पाञ्चभौतिकं पिण्डं शरीरमुपचिनोति ; योऽणिष्ठो रसः स एष लोहितपिण्ड इन्द्रस्य लिङ्गात्मनो हृदये मिथुनीभूतस्य, यं तैजसमाचक्षते ; स तयोरिन्द्रेन्द्राण्योर्हृदये मिथुनीभूतयोः सूक्ष्मासु नाडीष्वनुप्रविष्टः स्थितिहेतुर्भवति — तदेतदुच्यते — अथैनयोरेतदन्नमित्यादि । किञ्चान्यत् ; अथैनयोरेतत्प्रावरणम् — भुक्तवतोः स्वपतोश्च प्रावरणं भवति लोके, तत्सामान्यं हि कल्पयति श्रुतिः ; किं तदिह प्रावरणम् ? यदेतदन्तर्हृदये जालकमिव अनेकनाडीछिद्रबहुलत्वात् जालकमिव । अथैनयोरेषा सृतिः मार्गः, सञ्चरतोऽनयेति सञ्चरणी, स्वप्नाज्जागरितदेशागमनमार्गः ; का सा सृतिः ? यैषा हृदयात् हृदयदेशात् ऊर्ध्वाभिमुखी सती उच्चरति नाडी ; तस्याः परिमाणमिदमुच्यते — यथा लोके केशः सहस्रधा भिन्नः अत्यन्तसूक्ष्मो भवति एवं सूक्ष्मा अस्य देहस्य सम्बन्धिन्यः हिता नाम हिता इत्येवं ख्याताः नाड्यः, ताश्चान्तर्हृदये मांसपिण्डे प्रतिष्ठिता भवन्ति ; हृदयाद्विप्ररूढास्ताः सर्वत्र कदम्बकेसरवत् ; एताभिर्नाडीभिरत्यन्तसूक्ष्माभिः एतदन्नम् आस्रवत् गच्छत् आस्रवति गच्छति ; तदेतद्देवताशरीरम् अनेनान्नेन दामभूतेनोपचीयमानं तिष्ठति । तस्मात् — यस्मात् स्थूलेनान्नेन उपचितः पिण्डः, इदं तु देवताशरीरं लिङ्गं सूक्ष्मेणान्नेनोपचितं तिष्ठति, पिण्डोपचयकरमप्यन्नं प्रविविक्तमेव मूत्रपुरीषादिस्थूलमपेक्ष्य, लिङ्गस्थितिकरं तु अन्नं ततोऽपि सूक्ष्मतरम् — अतः प्रविविक्ताहारः पिण्डः, तस्मात्प्रविविक्ताहारादपि प्रविविक्ताहारतर एष लिङ्गात्मा इवैव भवति, अस्माच्छरीरात् शरीरमेव शारीरं तस्माच्छारीरात् , आत्मनः वैश्वानरात् — तैजसः सूक्ष्मान्नोपचितो भवति ॥
तस्य प्राची दिक्प्राञ्चः प्राणा दक्षिणा दिग्दक्षिणे प्राणाः प्रतीची दिक्प्रत्यञ्चः प्राणा उदीची दिगुदञ्चः प्राणा ऊर्ध्वा दिगूर्ध्वाः प्राणा अवाची दिगवाञ्चः प्राणाः सर्वा दिशः सर्वे प्राणाः स एष नेति नेत्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्यभयं वै जनक प्राप्तोऽसीति होवाच याज्ञवल्क्यः । स होवाच जनको वैदेहोऽभयं त्वा गच्छताद्याज्ञवल्क्य यो नो भगवन्नभयं वेदयसे नमस्तेऽस्त्विमे विदेहा अयमहमस्मि ॥ ४ ॥
४स एष हृदयभूतः तैजसः सूक्ष्मभूतेन प्राणेन विध्रियमाणः प्राण एव भवति ; तस्यास्य विदुषः क्रमेण वैश्वानरात् तैजसं प्राप्तस्य हृदयात्मानमापन्नस्य हृदयात्मनश्च प्राणात्मानमापन्नस्य प्राची दिक् प्राञ्चः प्राग्गताः प्राणाः ; तथा दक्षिणा दिक् दक्षिणे प्राणाः ; तथा प्रतीची दिक् प्रत्यञ्चः प्राणाः ; उदीची दिक् उदञ्चः प्राणाः ; ऊर्ध्वा दिक् ऊर्ध्वाः प्राणाः ; अवाची दिक् अवाञ्चः प्राणाः ; सर्वा दिशः सर्वे प्राणाः । एवं विद्वान् क्रमेण सर्वात्मकं प्राणमात्मत्वेनोपगतो भवति ; तं सर्वात्मानं प्रत्यगात्मन्युपसंहृत्य द्रष्टुर्हि द्रष्टृभावं नेति नेतीत्यात्मानं तुरीयं प्रतिपद्यते ; यम् एष विद्वान् अनेन क्रमेण प्रतिपद्यते, स एष नेति नेत्यात्मेत्यादि न रिष्यतीत्यन्तं व्याख्यातमेतत् । अभयं वै जन्ममरणादिनिमित्तभयशून्यम् , हे जनक, प्राप्तोऽसि — इति ह एवं किल उवाच उक्तवान् याज्ञवल्क्यः । तदेतदुक्तम् — अथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति । स होवाच जनको वैदेहः — अभयमेव त्वा त्वामपि गच्छतात् गच्छतु, यस्त्वं नः अस्मान् हे याज्ञवल्क्य भगवन् पूजावन् अभयं ब्रह्म वेदयसे ज्ञापयसि प्रापितवान् उपाधिकृताज्ञानव्यवधानापनयनेनेत्यर्थः ; किमन्यदहं विद्यानिष्क्रयार्थं प्रयच्छामि, साक्षादात्मानमेव दत्तवते ; अतो नमस्तेऽस्तु ; इमे विदेहाः तव यथेष्टं भुज्यन्ताम् ; अयं चाहमस्मि दासभावे स्थितः ; यथेष्टं मां राज्यं च प्रतिपद्यस्वेत्यर्थः ॥
इति चतुर्थाध्यायस्य द्वितीयं ब्राह्मणम् ॥
तृतीयं ब्राह्मणम्
जनकं ह वैदेहं याज्ञवल्क्यो जगामेत्यस्याभिसम्बन्धः । विज्ञानमय आत्मा साक्षादपरोक्षाद्ब्रह्म सर्वान्तरः पर एव — ‘नान्योऽतोऽस्ति द्रष्टा नान्यदतोऽस्ति द्रष्टृ’(बृ. उ. ३ । ७ । २३) इत्यादिश्रुतिभ्यः । स एष इह प्रविष्टः वदनादिलिङ्गः अस्ति व्यतिरिक्त इति मधुकाण्डे अजातशत्रुसंवादे प्राणादिकर्तृत्वभोक्तृत्वप्रत्याख्यानेनाधिगतोऽपि सन् , पुनः प्राणनादिलिङ्गमुपन्यस्य औषस्तप्रश्ने प्राणनादिलिङ्गो यः सामान्येनाधिगतः ‘प्राणेन प्राणिति’ इत्यादिना, ‘दृष्टेर्द्रष्टा’ इत्यादिना अलुप्तशक्तिस्वभावोऽधिगतः । तस्य च परोपाधिनिमित्तः संसारः — यथा रज्जूषरशुक्तिकागगनादिषु सर्पोदकरजतमलिनत्वादि परोपाध्यारोपणनिमित्तमेव, न स्वतः, तथा ; निरुपाधिको निरुपाख्यः नेति नेतीति व्यपदेश्यः साक्षादपरोक्षात्सर्वान्तरः आत्मा ब्रह्म अक्षरम् अन्तर्यामी प्रशास्ता औपनिषदः पुरुषः विज्ञानमानन्दं ब्रह्मेत्यधिगतम् । तदेव पुनरिन्धसंज्ञः प्रविविक्ताहारः ; ततोऽन्तर्हृदये लिङ्गात्मा प्रविविक्ताहारतरः ; ततः परेण जगदात्मा प्राणोपाधिः ; ततोऽपि प्रविलाप्य जगदात्मानमुपाधिभूतं रज्ज्वादाविव सर्पादिकं विद्यया, ‘स एष नेति नेति —’ इति साक्षात्सर्वान्तरं ब्रह्म अधिगतम् । एवम् अभयं परिप्रापितो जनकः याज्ञवल्क्येन आगमतः सङ्क्षेपतः । अत्र च जाग्रत्स्वप्नसुषुप्ततुरीयाण्युपन्यस्तानि अन्यप्रसङ्गेन — इन्धः, प्रविविक्ताहारतरः, सर्वे प्राणाः, स एष नेति नेतीति । इदानीं जाग्रत्स्वप्नादिद्वारेणैव महता तर्केण विस्तरतोऽधिगमः कर्तव्यः ; अभयं प्रापयितव्यम् ; सद्भावश्च आत्मनः विप्रतिपत्त्याशङ्कानिराकरणद्वारेण — व्यतिरिक्तत्वं शुद्धत्वं स्वयञ्ज्योतिष्ट्वम् अलुप्तशक्तिस्वरूपत्वं निरतिशयानन्दस्वाभाव्यम् अद्वैतत्वं च अधिगन्तव्यमिति — इदमारभ्यते । आख्यायिका तु विद्यासम्प्रदानग्रहणविधिप्रकाशनार्था, विद्यास्तुतये च विशेषतः, वरदानादिसूचनात् ॥
जनकं ह वैदेहं याज्ञवल्क्यो जगाम स मेने न वदिष्य इत्यथ ह यज्जनकश्च वैदेहो याज्ञवल्क्यश्चाग्निहोत्रे समूदाते तस्मै ह याज्ञवल्क्यो वरं ददौ स ह कामप्रश्नमेव वव्रे तं हास्मै ददौ तं ह सम्राडेव पूर्वं पप्रच्छ ॥ १ ॥
१जनकं ह वैदेहं याज्ञवल्क्यो जगाम । स च गच्छन् एवं मेने चिन्तितवान् — न वदिष्ये किञ्चिदपि राज्ञे ; गमनप्रयोजनं तु योगक्षेमार्थम् । न वदिष्य इत्येवंसङ्कल्पोऽपि याज्ञवल्क्यः यद्यत् जनकः पृष्टवान् तत्तत् प्रतिपेदे ; तत्र को हेतुः सङ्कल्पितस्यान्यथाकरणे — इत्यत्र आख्यायिकामाचष्टे । पूर्वत्र किल जनकयाज्ञवल्क्ययोः संवाद आसीत् अग्निहोत्रे निमित्ते ; तत्र जनकस्याग्निहोत्रविषयं विज्ञानमुपलभ्य परितुष्टो याज्ञवल्क्यः तस्मै जनकाय ह किल वरं ददौ ; स च जनकः ह कामप्रश्नमेव वरं वव्रे वृतवान् ; तं च वरं ह अस्मै ददौ याज्ञवल्क्यः ; तेन वरप्रदानसामर्थ्येन अव्याचिख्यासुमपि याज्ञवल्क्यं तूष्णीं स्थितमपि सम्राडेव जनकः पूर्वं पप्रच्छ । तत्रैव अनुक्तिः, ब्रह्मविद्यायाः कर्मणा विरुद्धत्वात् ; विद्यायाश्च स्वातन्त्र्यात् — स्वतन्त्रा हि ब्रह्मविद्या सहकारिसाधनान्तरनिरपेक्षा पुरुषार्थसाधनेति च ॥
याज्ञवल्क्य किञ्ज्योतिरयं पुरुष इति । आदित्यज्योतिः सम्राडिति होवाचादित्येनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीत्येवमेवैतद्याज्ञवल्क्य ॥ २ ॥
२हे याज्ञवल्क्येत्येवं सम्बोध्य अभिमुखीकरणाय, किञ्ज्योतिरयं पुरुष इति — किमस्य पुरुषस्य ज्योतिः, येन ज्योतिषा व्यवहरति ? सोऽयं किञ्ज्योतिः ? अयं प्राकृतः कार्यकरणसङ्घातरूपः शिरःपाण्यादिमान् पुरुषः पृच्छ्यते — किमयं स्वावयवसङ्घातबाह्येन ज्योतिरन्तरेण व्यवहरति, आहोस्वित् स्वावयवसङ्घातमध्यपातिना ज्योतिषा ज्योतिष्कार्यम् अयं पुरुषो निर्वर्तयति — इत्येतदभिप्रेत्य — पृच्छति । किञ्चातः, यदि व्यतिरिक्तेन यदि वा अव्यतिरिक्तेन ज्योतिषा ज्योतिष्कार्यं निर्वर्तयति ? शृणु तत्र कारणम् — यदि व्यतिरिक्तेनैव ज्योतिषा ज्योतिष्कार्यनिर्वर्तकत्वम् अस्य स्वभावो निर्धारितो भवति, ततः अदृष्टज्योतिष्कार्यविषयेऽप्यनुमास्यामहे व्यतिरिक्तज्योतिर्निमित्तमेवेदं कार्यमिति ; अथाव्यतिरिक्तेनैव स्वात्मना ज्योतिषा व्यवहरति, ततः अप्रत्यक्षेऽपि ज्योतिषि ज्योतिष्कार्यदर्शने अव्यतिरिक्तमेव ज्योतिः अनुमेयम् ; अथानियम एव — व्यतिरिक्तम् अव्यतिरिक्तं वा ज्योतिः पुरुषस्य व्यवहारहेतुः, ततः अनध्यवसाय एव ज्योतिर्विषये — इत्येवं मन्वानः पृच्छति जनको याज्ञवल्क्यम् — किञ्ज्योतिरयं पुरुष इति । ननु एवमनुमानकौशले जनकस्य किं प्रश्नेन, स्वयमेव कस्मान्न प्रतिपद्यत इति — सत्यमेतत् ; तथापि लिङ्गलिङ्गिसम्बन्धविशेषाणामत्यन्तसौक्ष्म्यात् दुरवबोधतां मन्यते बहूनामपि पण्डितानाम् , किमुतैकस्य ; अत एव हि धर्मसूक्ष्मनिर्णये परिषद्व्यापार इष्यते, पुरुषविशेषश्चापेक्ष्यते — दशावरा परिषत् , त्रयो वा एको वेति ; तस्मात् यद्यपि अनुमानकौशलं राज्ञः, तथापि तु युक्तो याज्ञवल्क्यः प्रष्टुम् , विज्ञानकौशलतारतम्योपपत्तेः पुरुषाणाम् । अथवा श्रुतिः स्वयमेव आख्यायिकाव्याजेन अनुमानमार्गमुपन्यस्य अस्मान्बोधयति पुरुषमतिमनुसरन्ती । याज्ञवल्क्योऽपि जनकाभिप्रायाभिज्ञतया व्यतिरिक्तमात्मज्योतिर्बोधयिष्यन् जनकं व्यतिरिक्तप्रतिपादकमेव लिङ्गं प्रतिपेदे, यथा — प्रसिद्धमादित्यज्योतिः सम्राट् इति होवाच । कथम् ? आदित्येनैव स्वावयवसङ्घातव्यतिरिक्तेन चक्षुषोऽनुग्राहकेण ज्योतिषा अयं प्राकृतः पुरुषः आस्ते उपविशति, पल्ययते पर्येति क्षेत्रमरण्यं वा, तत्र गत्वा कर्म कुरुते, विपल्येति विपर्येति च यथागतम् । अत्यन्तव्यतिरिक्तज्योतिष्ट्वप्रसिद्धताप्रदर्शनार्थम् अनेकविशेषणम् ; बाह्यानेकज्योतिःप्रदर्शनं च लिङ्गस्याव्यभिचारित्वप्रदर्शनार्थम् । एवमेवैतद्याज्ञवल्क्य ॥
अस्तमित आदित्ये याज्ञवल्क्य किञ्ज्योतिरेवायं पुरुष इति चन्द्रमा एवास्य ज्योतिर्भवतीति चन्द्रमसैवायं ज्येतिषास्ते पल्ययते कर्म कुरुते विपल्येतीत्येवमेवैतद्याज्ञवल्क्य ॥ ३ ॥
३तथा अस्तमिते आदित्ये, याज्ञवल्क्य, किञ्ज्योतिरेवायं पुरुष इति — चन्द्रमा एवास्य ज्योतिः ॥
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते किञ्ज्योतिरेवायं पुरुष इत्यग्निरेवास्य ज्योतिर्भवतीत्यग्निनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीत्येवमेवैतद्याज्ञवल्क्य ॥ ४ ॥
४अस्तमित आदित्ये, चन्द्रमस्यस्तमिते अग्निर्ज्योतिः ॥
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ किञ्ज्योतिरेवायं पुरुष इति वागेवास्य ज्योतिर्भवतीति वाचैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति तस्माद्वै सम्राडपि यत्र स्वः पाणिर्न विनिर्ज्ञायतेऽथ यत्र वागुच्चरत्युपैव तत्र न्येतीत्येवमेवैतद्याज्ञवल्क्य ॥ ५ ॥
५शान्तेऽग्नौ वाक् ज्योतिः ; वागिति शब्दः परिगृह्यते ; शब्देन विषयेण श्रोत्रमिन्द्रियं दीप्यते ; श्रोत्रेन्द्रिये सम्प्रदीप्ते, मनसि विवेक उपजायते ; तेन मनसा बाह्यां चेष्टां प्रतिपद्यते — ‘मनसा ह्येव पश्यति मनसा शृणोति’(बृ. उ. १ । ५ । ३) इति ब्राह्मणम् । कथं पुनः वाग्ज्योतिरिति, वाचो ज्योतिष्ट्वमप्रसिद्धमित्यत आह — तस्माद्वै सम्राट् , यस्मात् वाचा ज्योतिषा अनुगृहीतोऽयं पुरुषो व्यवहरति, तस्मात् प्रसिद्धमेतद्वाचो ज्योतिष्ट्वम् ; कथम् ? अपि — यत्र यस्मिन्काले प्रावृषि प्रायेण मेघान्धकारे सर्वज्योतिःप्रत्यस्तमये स्वोऽपि पाणिः हस्तः न विस्पष्टं निर्ज्ञायते — अथ तस्मिन्काले सर्वचेष्टानिरोधे प्राप्ते बाह्यज्योतिषोऽभावात् यत्र वागुच्चरति, श्वा वा भषति, गर्दभो वा रौति, उपैव तत्र न्येति — तेन शब्देन ज्योतिषा श्रोत्रमनसोर्नैरन्तर्यं भवति, तेन ज्योतिष्कार्यत्वं वाक् प्रतिपद्यते, तेन वाचा ज्योतिषा उपन्येत्येव उपगच्छत्येव तत्र सन्निहितो भवतीत्यर्थः ; तत्र च कर्म कुरुते, विपल्येति । तत्र वाग्ज्योतिषो ग्रहणं गन्धादीनामुपलक्षणार्थम् ; गन्धादिभिरपि हि घ्राणादिष्वनुगृहीतेषु प्रवृत्तिनिवृत्त्यादयो भवन्ति ; तेन तैरप्यनुग्रहो भवति कार्यकरणसङ्घातस्य । एवमेवैतद्याज्ञवल्क्य ॥
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किञ्ज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिर्भवतीत्यात्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ॥ ६ ॥
६शान्तायां पुनर्वाचि, गन्धादिष्वपि च शान्तेषु बाह्येष्वनुग्राहकेषु, सर्वप्रवृत्तिनिरोधः प्राप्तोऽस्य पुरुषस्य । एतदुक्तं भवति — जाग्रद्विषये बहिर्मुखानि करणानि चक्षुरादीनि आदित्यादिज्योतिर्भिरनुगृह्यमाणानि यदा, तदा स्फुटतरः संव्यवहारोऽस्य पुरुषस्य भवतीति ; एवं तावत् जागरिते स्वावयवसङ्घातव्यतिरिक्तेनैव ज्योतिषा ज्योतिष्कार्यसिद्धिरस्य पुरुषस्य दृष्टा ; तस्मात् ते वयं मन्यामहे — सर्वबाह्यज्योतिःप्रत्यस्तमयेऽपि स्वप्नसुषुप्तकाले जागरिते च तादृगवस्थायां स्वावयवसङ्घातव्यतिरिक्तेनैव ज्योतिषा ज्योतिष्कार्यसिद्धिरस्येति ; दृश्यते च स्वप्ने ज्योतिष्कार्यसिद्धिः — बन्धुसङ्गमनवियोगदर्शनं देशान्तरगमनादि च ; सुषुप्ताच्च उत्थानम् — सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति ; तस्मादस्ति व्यतिरिक्तं किमपि ज्योतिः ; किं पुनस्तत् शान्तायां वाचि ज्योतिः भवतीति । उच्यते — आत्मैवास्य ज्योतिर्भवतीति । आत्मेति कार्यकरणस्वावयवसङ्घातव्यतिरिक्तं कार्यकरणावभासकम् आदित्यादिबाह्यज्योतिर्वत् स्वयमन्येनानवभास्यमानम् अभिधीयते ज्योतिः ; अन्तःस्थं च तत् पारिशेष्यात् — कार्यकरणव्यतिरिक्तं तदिति तावत्सिद्धम् ; यच्च कार्यकरणव्यतिरिक्तं कार्यकरणसङ्घातानुग्राहकं च ज्योतिः तत् बाह्यैश्चक्षुरादिकरणैरुपलभ्यमानं दृष्टम् ; न तु तथा तत् चक्षुरादिभिरुपलभ्यते, आदित्यादिज्योतिष्षु उपरतेषु ; कार्यं तु ज्योतिषो दृश्यते यस्मात् , तस्मात् आत्मनैवायं ज्योतिषा आस्ते पल्ययते कर्म कुरुते विपल्येतीति ; तस्मात् नूनम् अन्तःस्थं ज्योतिरित्यवगम्यते । किञ्च आदित्यादिज्योतिर्विलक्षणं तत् अभौतिकं च ; स एव हेतुः यत् चक्षुराद्यग्राह्यत्वम् , आदित्यादिवत् ॥
न, समानजातीयेनैवोपकारदर्शनात् — यत् आदित्यादिविलक्षणं ज्योतिरान्तरं सिद्धमिति, एतदसत् ; कस्मात् ? उपक्रियमाणसमानजातीयेनैव आदित्यादिज्योतिषा कार्यकरणसङ्घातस्य भौतिकस्य भौतिकेनैव उपकारः क्रियमाणो दृश्यते ; यथादृष्टं चेदम् अनुमेयम् ; यदि नाम कार्यकरणादर्थान्तरं तदुपकारकम् आदित्यादिवत् ज्योतिः, तथापि कार्यकरणसङ्घातसमानजातीयमेवानुमेयम् , कार्यकरणसङ्घातोपकारकत्वात् , आदित्यादिज्योतिर्वत् । यत्पुनः अन्तःस्थत्वादप्रत्यक्षत्वाच्च वैलक्षण्यमुच्यते, तत् चक्षुरादिज्योतिर्भिः अनैकान्तिकम् ; यतः अप्रत्यक्षाणि अन्तःस्थानि च चक्षुरादिज्योतींषि भौतिकान्येव । तस्मात् तव मनोरथमात्रम् — विलक्षणमात्मज्योतिः सिद्धमिति । कार्यकरणसङ्घातभावभावित्वाच्च सङ्घातधर्मत्वमनुमीयते ज्योतिषः । सामान्यतो दृष्टस्य च अनुमानस्य व्यभिचारित्वादप्रामाण्यम् ; सामान्यतो दृष्टबलेन हि भवान् आदित्यादिवत् व्यतिरिक्तं ज्योतिः साधयति कार्यकरणेभ्यः ; न च प्रत्यक्षम् अनुमानेन बाधितुं शक्यते ; अयमेव तु कार्यकरणसङ्घातः प्रत्यक्षं पश्यति शृणोति मनुते विजानाति च ; यदि नाम ज्योतिरन्तरमस्य उपकारकं स्यात् आदित्यादिवत् , न तत् आत्मा स्यात् ज्योतिरन्तरम् आदित्यादिवदेव ; य एव तु प्रत्यक्षं दर्शनादिक्रियां करोति, स एव आत्मा स्यात् कार्यकरणसङ्घातः, नान्यः, प्रत्यक्षविरोधे अनुमानस्याप्रामाण्यात् । ननु अयमेव चेत् दर्शनादिक्रियाकर्ता आत्मा सङ्घातः, कथम् अविकलस्यैवास्य दर्शनादिक्रियाकर्तृत्वं कदाचिद्भवति, कदाचिन्नेति — नैष दोषः, दृष्टत्वात् ; न हि दृष्टेऽनुपपन्नं नाम ; न हि खद्योते प्रकाशाप्रकाशकत्वेन दृश्यमाने कारणान्तरमनुमेयम् ; अनुमेयत्वे च केनचित्सामान्यात् सर्व सर्वत्रानुमेयं स्यात् ; तच्चानिष्टम् ; न च पदार्थस्वभावो नास्ति ; न हि अग्ने उष्णस्वाभाव्यम् अन्यनिमित्तम् , उदकस्य वा शैत्यम् ; प्राणिधर्माधर्माद्यपेक्षमिति चेत् , धर्माधर्मादेर्निमित्तान्तरापेक्षस्वभावप्रसङ्गः ; अस्त्विति चेत् , न, तदनवस्थाप्रसङ्गः ; स चानिष्टः ॥
न, स्वप्नस्मृत्योर्दृष्टस्यैव दर्शनात् — यदुक्तं स्वभाववादिना, देहस्यैव दर्शनादिक्रिया न व्यतिरिक्तस्येति, तन्न ; यदि हि देहस्यैव दर्शनादिक्रिया, स्वप्ने दृष्टस्यैव दर्शनं न स्यात् ; अन्धः स्वप्नं पश्यन् दृष्टपूर्वमेव पश्यति, न शाकद्वीपादिगतमदृष्टरूपम् ; ततश्च एतत्सिद्धं भवति — यः स्वप्ने पश्यति दृष्टपूर्वं वस्तु, स एव पूर्वं विद्यमाने चक्षुषि अद्राक्षीत् , न देह इति ; देहश्चेत् द्रष्टा, स येनाद्राक्षीत् तस्मिन्नुद्धृते चक्षुषि स्वप्ने तदेव दृष्टपूर्वं न पश्येत् ; अस्ति च लोके प्रसिद्धिः — पूर्वं दृष्टं मया हिमवतः शृङ्गम् अद्याहं स्वप्नेऽद्राक्षमिति उद्धृतचक्षुषामन्धानामपि ; तस्मात् अनुद्धृतेऽपि चक्षुषि, यः स्वप्नदृक् स एव द्रष्टा, न देह इत्यवगम्यते । तथा स्मृतौ द्रष्टृस्मर्त्रोः एकत्वे सति, य एव द्रष्टा स एव स्मर्ता ; यदा चैवं तदा निमीलिताक्षोऽपि स्मरन् दृष्टपूर्वं यद्रूपं तत् दृष्टवदेव पश्यतीति ; तस्मात् यत् निमीलितं तन्न द्रष्टृ ; यत् निमीलिते चक्षुषि स्मरत् रूपं पश्यति, तदेव अनिमीलितेऽपि चक्षुषि द्रष्टृ आसीदित्यवगम्यते । मृते च देहे अविकलस्यैव च रूपादिदर्शनाभावात् — देहस्यैव द्रष्टृत्वे मृतेऽपि दर्शनादिक्रिया स्यात् । तस्मात् यदपाये देहे दर्शनं न भवति, यद्भावे च भवति, तत् दर्शनादिक्रियाकर्तृ, न देह इत्यवगम्यते । चक्षुरादीन्येव दर्शनादिक्रियाकर्तॄणीति चेत् , न, यदहमद्राक्षं तत्स्पृशामीति भिन्नकर्तृकत्वे प्रतिसन्धानानुपपत्तेः । मनस्तर्हीति चेत् , न, मनसोऽपि विषयत्वात् रूपादिवत् द्रष्टृत्वाद्यनुपपत्तिः । तस्मात् अन्तःस्थं व्यतिरिक्तम् आदित्यादिवदिति सिद्धम् । यदुक्तम् — कार्यकरणसङ्घातसमानजातीयमेव ज्योतिरन्तरमनुमेयम् , आदित्यादिभिः तत्समानजातीयैरेव उपक्रियमाणत्वादिति — तदसत् , उपकार्योपकारकभावस्यानियमदर्शनात् ; कथम् ? पार्थिवैरिन्धनैः पार्थिवत्वसमानजातीयैस्तृणोलपादिभिरग्नेः प्रज्वलनोपकारः क्रियमाणो दृश्यते ; न च तावता तत्समानजातीयैरेव अग्नेः प्रज्वलनोपकारः सर्वत्रानुमेयः स्यात् , येन उदकेनापि प्रज्वलनोपकारः भिन्नजातीयेन वैद्युतस्याग्नेः जाठरस्य च क्रियमाणो दृश्यते ; तस्मात् उपकार्योपकारकभावे समानजातीयासमानजातीयनियमो नास्ति ; कदाचित् समानजातीया मनुष्या मनुष्यैरेवोपक्रियन्ते, कदाचित् स्थावरपश्वादिभिश्च भिन्नजातीयैः ; तस्मात् अहेतुः कार्यकरणसङ्घातसमानजातीयैरेव आदित्यादिज्योतिर्भिरुपक्रियमाणत्वादिति । यत्पुनरात्थ — चक्षुरादिभिः आदित्यादिज्योतिर्वत् अदृश्यत्वात् इत्ययं हेतुः ज्योतिरन्तरस्य अन्तःस्थत्वं वैलक्षण्यं च न साधयति, चक्षुरादिभिरनैकान्तिकत्वादिति — तदसत् , चक्षुरादिकरणेभ्योऽन्यत्वे सतीति हेतोर्विशेषणत्वोपपत्तेः । कार्यकरणसङ्घातधर्मत्वं ज्योतिष इति यदुक्तम् , तन्न, अनुमानविरोधात् ; आदित्यादिज्योतिर्वत् कार्यकरणसङ्घातादर्थान्तरं ज्योतिरिति हि अनुमानमुक्तम् ; तेन विरुध्यते इयं प्रतिज्ञा — कार्यकरणसङ्घातधर्मत्वं ज्योतिष इति । तद्भावभावित्वं तु असिद्धम् , मृते देहे ज्योतिषः अदर्शनात् । सामान्यतो दृष्टस्यानुमानस्य अप्रामाण्ये सति पानभोजनादिसर्वव्यवहारलोपप्रसङ्गः ; स चानिष्टः ; पानभोजनादिषु हि क्षुत्पिपासादिनिवृत्तिमुपलब्धवतः तत्सामान्यात् पानभोजनाद्युपादानं दृश्यमानं लोके न प्राप्नोति ; दृश्यन्ते हि उपलब्धपानभोजनाः सामान्यतः पुनः पानभोजनान्तरैः क्षुत्पिपासादिनिवृत्तिमनुमिन्वन्तः तादर्थ्येन प्रवर्तमानाः । यदुक्तम् — अयमेव तु देहो दर्शनादिक्रियाकर्तेति, तत् प्रथममेव परिहृतम् — स्वप्नस्मृत्योः देहादर्थान्तरभूतो द्रष्टेति । अनेनैव ज्योतिरन्तरस्य अनात्मत्वमपि प्रत्युक्तम् । यत्पुनः खद्योतादेः कादाचित्कं प्रकाशाप्रकाशकत्वम् , तदसत् , पक्षाद्यवयवसङ्कोचविकासनिमित्तत्वात् प्रकाशाप्रकाशकत्वस्य । यत्पुनरुक्तम् , धर्माधर्मयोरवश्यं फलदातृत्वं स्वभावोऽभ्युपगन्तव्य इति — तदभ्युपगमे भवतः सिद्धान्तहानात् । एतेन अनवस्थादोषः प्रत्युक्तः । तस्मात् अस्ति व्यतिरिक्तं च अन्तःस्थं ज्योतिः आत्मेति ॥
कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव स हि स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि ॥ ७ ॥
७यद्यपि व्यतिरिक्तत्वादि सिद्धम् , तथापि समानजातीयानुग्राहकत्वदर्शननिमित्तभ्रान्त्या करणानामेवान्यतमः व्यतिरिक्तो वा इत्यविवेकतः पृच्छति — कतम इति ; न्यायसूक्ष्मताया दुर्विज्ञेयत्वात् उपपद्यते भ्रान्तिः । अथवा शरीरव्यतिरिक्ते सिद्धेऽपि करणानि सर्वाणि विज्ञानवन्तीव, विवेकत आत्मनः अनुपलब्धत्वात् ; अतोऽहं पृच्छामि — कतम आत्मेति ; कतमोऽसौ देहेन्द्रियप्राणमनःसु, यः त्वयोक्तः आत्मा, येन ज्योतिषास्त इत्युक्तम् । अथवा योऽयमात्मा त्वया अभिप्रेतो विज्ञानमयः, सर्व इमे प्राणा विज्ञानमया इव, एषु प्राणेषु कतमः — यथा समुदितेषु ब्राह्मणेषु, सर्व इमे तेजस्विनः कतम एषु षडङ्गविदिति । पूर्वस्मिन्व्याख्याने कतम आत्मेत्येतावदेव प्रश्नवाक्यम् , योऽयं विज्ञानमय इति प्रतिवचनम् ; द्वितीये तु व्याख्याने प्राणेष्वित्येवमन्तं प्रश्नवाक्यम् । अथवा सर्वमेव प्रश्नवाक्यम् — विज्ञानमयो हृद्यन्तर्ज्योतिः पुरुषः कतम इत्येतदन्तम् । योऽयं विज्ञानमय इत्येतस्य शब्दस्य निर्धारितार्थविशेषविषयत्वम् , कतम आत्मेतीतिशब्दस्य प्रश्नवाक्यपरिसमाप्त्यर्थत्वम् — व्यवहितसम्बन्धमन्तरेण युक्तमिति कृत्वा, कतम आत्मेतीत्येवमन्तमेव प्रश्नवाक्यम् , योऽयमित्यादि परं सर्वमेव प्रतिवचनमिति निश्चीयते ॥
योऽयमिति आत्मनः प्रत्यक्षत्वान्निर्देशः ; विज्ञानमयः विज्ञानप्रायः बुद्धिविज्ञानोपाधिसम्पर्काविवेकाद्विज्ञानमय इत्युच्यते — बुद्धिविज्ञानसम्पृक्त एव हि यस्मादुपलभ्यते, राहुरिव चन्द्रादित्यसम्पृक्तः ; बुद्धिर्हि सर्वार्थकरणम् , तमसीव प्रदीपः पुरोवस्थितः ; ‘मनसा ह्येव पश्यति मनसा शृणोति’(बृ. उ. १ । ५ । ३) इति ह्युक्तम् ; बुद्धिविज्ञानालोकविशिष्टमेव हि सर्वं विषयजातमुपलभ्यते, पुरोवस्थितप्रदीपालोकविशिष्टमिव तमसि ; द्वारमात्राणि तु अन्यानि करणानि बुद्धेः ; तस्मात् तेनैव विशेष्यते — विज्ञानमय इति । येषां परमात्मविज्ञप्तिविकार इति व्याख्यानम् , तेषाम् ‘विज्ञानमयः’, ‘वमनोमयः’(बृ. उ. ४ । ४ । ५) इत्यादौ विज्ञानमयशब्दस्य अन्यार्थदर्शनात् अश्रौतार्थता अवसीयते ; सन्दिग्धश्च पदार्थः अन्यत्र निश्चितप्रयोगदर्शनात् निर्धारयितुं शक्यः, वाक्यशेषात् , निश्चितन्यायबलाद्वा ; सधीरिति चोत्तरत्र पाठात् । ‘हृद्यन्तः’ इति वचनात् युक्तं विज्ञानप्रायत्वमेव । प्राणेष्विति व्यतिरेकप्रदर्शनार्था सप्तमी — यथा वृक्षेषु पाषाण इति सामीप्यलक्षणा ; प्राणेषु हि व्यतिरेकाव्यतिरेकता सन्दिह्यत आत्मनः ; प्राणेषु प्राणेभ्यो व्यतिरिक्त इत्यर्थः ; यो हि येषु भवति, स तद्व्यतिरिक्तो भवत्येव — यथा पाषाणेषु वृक्षः । हृदि — तत्रैतत्स्यात् , प्राणेषु प्राणजातीयैव बुद्धिः स्यादिति, अत आह — हृद्यन्तरिति । हृच्छब्देन पुण्डरीकाकारो मांसपिण्डः, तात्स्थ्यात् बुद्धिः हृत् , तस्याम् , हृदि बुद्धौ । अन्तरिति बुद्धिवृत्तिव्यतिरेकप्रदर्शनार्थम् । ज्योतिः अवभासात्मकत्वात् आत्मा उच्यते । तेन हि अवभासकेन आत्मना ज्योतिषा आस्ते पल्ययते कर्म कुरुते, चेतनावानिव हि अयं कार्यकरणपिण्डः — यथा आदित्यप्रकाशस्थो घटः ; यथा वा मरकतादिर्मणिः क्षीरादिद्रव्ये प्रक्षिप्तः परीक्षणाय, आत्मच्छायामेव तत् क्षीरादिद्रव्यं करोति, तादृगेतत् आत्मज्योतिः बुद्धेरपि हृदयात् सूक्ष्मत्वात् हृद्यन्तःस्थमपि हृदयादिकं कार्यकरणसङ्घातं च एकीकृत्य आत्मज्योतिश्छायां करोति, पारम्पर्येण सूक्ष्मस्थूलतारतम्यात् , सर्वान्तरतमत्वात् । बुद्धिस्तावत् स्वच्छत्वात् आनन्तर्याच्च आत्मचैतन्यज्योतिःप्रतिच्छाया भवति ; तेन हि विवेकिनामपि तत्र आत्माभिमानबुद्धिः प्रथमा ; ततोऽप्यानन्तर्यात् मनसि चैतन्यावभासता, बुद्धिसम्पर्कात् ; तत इन्द्रियेषु, मनस्संयोगात् ; ततोऽनन्तरं शरीरे, इन्द्रियसम्पर्कात् । एवं पारम्पर्येण कृत्स्नं कार्यकरणसङ्घातम् आत्मा चैतन्यस्वरूपज्योतिषा अवभासयति । तेन हि सर्वस्य लोकस्य कार्यकरणसङ्घाते तद्वृत्तिषु च अनियतात्माभिमानबुद्धिः यथाविवेकं जायते । तथा च भगवतोक्तं गीतासु — ‘यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत’(भ. गी. १३ । ३३) ‘यदादित्यगतं तेजः - ’(भ. गी. १५ । १२) इत्यादि च । ‘नित्योऽनित्यानां चेतनश्चेतनानाम्’(क. उ. २ । २ । १३) इति च काठके, ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’(क. उ. २ । २ । १५) इति च । ‘येन सूर्यस्तपति तेजसेद्धः’(तै. ब्रा. ३ । १२ । ९ । ७) इति च मन्त्रवर्णः । तेनायं हृद्यन्तर्ज्योतिः । पुरुषः — आकाशवत्सर्वगतत्वात् पूर्ण इति पुरुषः ; निरतिशयं च अस्य स्वयञ्ज्योतिष्ट्वम् , सर्वावभासकत्वात् स्वयमन्यानवभास्यत्वाच्च ; स एष पुरुषः स्वयमेव ज्योतिःस्वभावः, यं त्वं पृच्छसि — कतम आत्मेति ॥
बाह्यानां ज्योतिषां सर्वकरणानुग्राहकाणां प्रत्यस्तमये अन्तःकरणद्वारेण हृद्यन्तर्ज्योतिः पुरुष आत्मा अनुग्राहकः करणानामित्युक्तम् । यदापि बाह्यकरणानुग्राहकाणाम् आदित्यादिज्योतिषां भावः, तदापि आदित्यादिज्योतिषां परार्थत्वात् कार्यकरणसङ्घातस्याचैतन्ये स्वार्थानुपपत्तेः स्वार्थज्योतिष आत्मनः अनुग्रहाभावे अयं कार्यकरणसङ्घातः न व्यवहाराय कल्पते ; आत्मज्योतिरनुग्रहेणैव हि सर्वदा सर्वः संव्यवहारः, ‘यदेतद्धृदयं मनश्चैतत्संज्ञानम्’(ऐ. उ. ३ । १ । २) इत्यादिश्रुत्यन्तरात् ; साभिमानो हि सर्वप्राणिसंव्यवहारः ; अभिमानहेतुं च मरकतमणिदृष्ठान्तेनावोचाम । यद्यप्येवमेतत् , तथापि जाग्रद्विषये सर्वकरणागोचरत्वात् आत्मज्योतिषः बुद्ध्यादिबाह्याभ्यन्तरकार्यकरणव्यवहारसन्निपातव्याकुलत्वात् न शक्यते तज्ज्योतिः आत्माख्यं मुञ्जेषीकावत् निष्कृष्य दर्शयितुमित्यतः स्वप्ने दिदर्शयिषुः प्रक्रमते — स समानः सन्नुभौ लोकावनुसञ्चरति । यः पुरुषः स्वयमेव ज्योतिरात्मा, स समानः सदृशः सन् — केन ? प्रकृतत्वात् सन्निहितत्वाच्च हृदयेन ; ‘हृदि’ इति च हृच्छब्दवाच्या बुद्धिः प्रकृता सन्निहिता च ; तस्मात् तयैव सामान्यम् । किं पुनः सामान्यम् ? अश्वमहिषवत् विवेकतोऽनुपलब्धिः ; अवभास्या बुद्धिः, अवभासकं तत् आत्मज्योतिः, आलोकवत् ; अवभास्यावभासकयोः विवेकतोऽनुपलब्धिः प्रसिद्धा ; विशुद्धत्वाद्धि आलोकः अवभास्येन सदृशो भवति ; यथा रक्तमवभासयन् रक्तसदृशो रक्ताकारो भवति, यथा हरितं नीलं लोहितं च अवभासयन् आलोकः तत्समानो भवति, तथा बुद्धिमवभासयन् बुद्धिद्वारेण कृत्स्नं क्षेत्रमवभासयति — इत्युक्तं मरकतमणिनिदर्शनेन । तेन सर्वेण समानः बुद्धिसामान्यद्वारेण ; ‘सर्वमयः’(बृ. उ. ४ । ४ । ५) इति च अत एव वक्ष्यति । तेन असौ कुतश्चित्प्रविभज्य मुञ्जेषीकावत् स्वेन ज्योतीरूपेण दर्शयितुं न शक्यत इति, सर्वव्यापारं तत्राध्यारोप्य नामरूपगतम् , ज्योतिर्धर्मं च नामरूपयोः, नामरूपे च आत्मज्योतिषि, सर्वो लोकः मोमुह्यते — अयमात्मा नायमात्मा, एवंधर्मा नैवन्धर्मा, कर्ता अकर्ता, शुद्धः अशुद्धः, बद्धः मुक्तः, स्थितः गतः आगतः, अस्ति नास्ति — इत्यादिविकल्पैः । अतः समानः सन् उभौ लोकौ प्रतिपन्नप्रतिपत्तव्यौ इहलोकपरलोकौ उपात्तदेहेन्द्रियादिसङ्घातत्यागान्योपादानसन्तानप्रबन्धशतसन्निपातैः अनुक्रमेण सञ्चरति । धीसादृश्यमेवोभयलोकसञ्चरणहेतुः, न स्वत इति — तत्र नामरूपोपाधिसादृश्यं भ्रान्तिनिमित्तं यत् तदेव हेतुः, न स्वतः — इत्येतदुच्यते — यस्मात् सः समानः सन् उभौ लोकावनुक्रमेण सञ्चरति — तदेतत् प्रत्यक्षम् इत्येतत् दर्शयति — यतः ध्यायतीव ध्यानव्यापारं करोतीव, चिन्तयतीव, ध्यानव्यापारवतीं बुद्धिं सः तत्स्थेन चित्स्वभावज्योतीरूपेण अवभासयन् तत्सदृशः तत्समानः सन् ध्यायति इव, आलोकवदेव — अतः भवति चिन्तयतीति भ्रान्तिर्लोकस्य ; न तु परमार्थतो ध्यायति । तथा लेलायतीव अत्यर्थं चलतीव, तेष्वेव करणेषु बुद्ध्यादिषु वायुषु च चलत्सु तदवभासकत्वात् तत्सदृशं तदिति — लेलायति इव, न तु परमार्थतः चलनधर्मकं तत् आत्मज्योतिः । कथं पुनः एतदवगम्यते, तत्समानत्वभ्रान्तिरेव उभयलोकसञ्चरणादिहेतुः न स्वतः — इत्यस्यार्थस्य प्रदर्शनाय हेतुरुपदिश्यते — सः आत्मा, हि यस्मात् स्वप्नो भूत्वा — सः यया धिया समानः, सा धीः यद्यत् भवति, तत्तत् असावपि भवतीव ; तस्मात् यदा असौ स्वप्नो भवति स्वापवृत्तिं प्रतिपद्यते धीः, तदा सोऽपि स्वप्नवृत्तिं प्रतिपद्यते ; यदा धीः जिजागरिषति, तदा असावपि ; अत आह — स्वप्नो भूत्वा स्वप्नवृत्तिमवभासयन् धियः स्वापवृत्त्याकारो भूत्वा इमं लोकम् जागरितव्यवहारलक्षणं कार्यकरणसङ्घातात्मकं लौकिकशास्त्रीयव्यवहारास्पदम् , अतिक्रामति अतीत्य क्रामति विविक्तेन स्वेन आत्मज्योतिषा स्वप्नात्मिकां धीवृत्तिमवभासयन्नवतिष्ठते यस्मात् — तस्मात् स्वयञ्ज्योतिःस्वभाव एवासौ, विशुद्धः स कर्तृक्रियाकारकफलशून्यः परमार्थतः, धीसादृश्यमेव तु उभयलोकसञ्चारादिसंव्यवहारभ्रान्तिहेतुः । मृत्यो रूपाणि — मृत्युः कर्माविद्यादिः, न तस्य अन्यद्रूपं स्वतः, कार्यकरणान्येव अस्य रूपाणि, अतः तानि मृत्यो रूपाणि अतिक्रामति क्रियाफलाश्रयाणि ॥
ननु नास्त्येव धिया समानम् अन्यत् धियोऽवभासकम् आत्मज्योतिः, धीव्यतिरेकेण प्रत्यक्षेण वा अनुमानेन वा अनुपलम्भात् — यथा अन्या तत्काल एव द्वितीया धीः । यत्तु अवभास्यावभासकयोः अन्यत्वेऽपि विवेकानुपलम्भात् सादृश्यमिति घटाद्यालोकयोः — तत्र भवतु, अन्यत्वेन आलोकस्योपलम्भात् घटादेः, संश्लिष्टयोः सादृश्यं भिन्नयोरेव ; न च तथा इह घटादेरिव धियोऽवभासकं ज्योतिरन्तरं प्रत्यक्षेण वा अनुमानेन वा उपलभामहे ; धीरेव हि चित्स्वरूपावभासकत्वेन स्वाकारा विषयाकारा च ; तस्मात् नानुमानतः नापि प्रत्यक्षतः धियोऽवभासकं ज्योतिः शक्यते प्रतिपादयितुं व्यतिरिक्तम् । यदपि दृष्टान्तरूपमभिहितम् — अवभास्यावभासकयोर्भिन्नयोरेव घटाद्यालोकयोः संयुक्तयोः सादृश्यमिति — तत्र अभ्युपगममात्रमस्माभिरुक्तम् ; न तु तत्र घटाद्यवभास्यावभासकौ भिन्नौ ; परमार्थतस्तु घटादिरेव अवभासात्मकः सालोकः ; अन्यः अन्यः हि घटादिरुत्पद्यते ; विज्ञानमात्रमेव सालोकघटादिविषयाकारमवभासते ; यदा एवम् , तदा न बाह्यो दृष्टान्तोऽस्ति, विज्ञानस्वलक्षणमात्रत्वात्सर्वस्य । एवं तस्यैव विज्ञानस्य ग्राह्यग्राहकाकारताम् अलं परिकल्प्य, तस्यैव पुनर्विशुद्धिं परिकल्पयन्ति । तत् ग्राह्यग्राहकविनिर्मुक्तं विज्ञानं स्वच्छीभूतं क्षणिकं व्यवतिष्ठत इति केचित् । तस्यापि शान्तिं केचिदिच्छन्ति ; तदपि विज्ञानं संवृतं ग्राह्यग्राहकांशविनिर्मुक्तं शून्यमेव घटादिबाह्यवस्तुवत् इत्यपरे माध्यमिका आचक्षते ॥
सर्वा एताः कल्पनाः बुद्धिविज्ञानावभासकस्य व्यतिरिक्तस्य आत्मज्योतिषोऽपह्नवात् अस्य श्रेयोमार्गस्य प्रतिपक्षभूता वैदिकस्य । तत्र येषां बाह्योऽर्थः अस्ति, तान्प्रत्युच्यते — न तावत् स्वात्मावभासकत्वं घटादेः ; तमसि अवस्थितः घटादिस्तावत् न कदाचिदपि स्वात्मना अवभास्यते, प्रदीपाद्यालोकसंयोगेन तु नियमेनैवावभास्यमानो दृष्टः सालोको घट इति — संश्लिष्टयोरपि घटालोकयोः अन्यत्वमेव, पुनः पुनः संश्लेषे विश्लेषे च विशेषदर्शनात् , रज्जुघटयोरिव ; अन्यत्वे च व्यतिरिक्तावभासकत्वम् ; न स्वात्मनैव स्वमात्मानमवभासयति । ननु प्रदीपः स्वात्मानमेव अवभासयन् दृष्ट इति — न हि घटादिवत् प्रदीपदर्शनाय प्रकाशान्तरम् उपाददते लौकिकाः ; तस्मात् प्रदीपः स्वात्मानं प्रकाशयति — न, अवभास्यत्वाविशेषात् — यद्यपि प्रदीपः अन्यस्यावभासकः स्वयमवभासात्मकत्वात् , तथापि व्यतिरिक्तचैतन्यावभास्यत्वं न व्यभिचरति, घटादिवदेव ; यदा चैवम् , तदा व्यतिरिक्तावभास्यत्वं तावत् अवश्यंभावि । ननु यथा घटः चैतन्यावभास्यत्वेऽपि व्यतिरिक्तमालोकान्तरमपेक्षते, न त्वेवं प्रदीपः अन्यमालोकान्तरमपेक्षते ; तस्मात् प्रदीपः अन्यावभास्योऽपि सन् आत्मानं घटं च अवभासयति — न, स्वतः परतो वा विशेषाभावात् — यथा चैतन्यावभास्यत्वं घटस्य, तथा प्रदीपस्यापि चैतन्यावभास्यत्वमविशिष्टम् । यत्तूच्यते, प्रदीप आत्मानं घटं चावभासयतीति, तदसत् ; कस्मात् ? यदा आत्मानं नावभासयति, तदा कीदृशः स्यात् ; न हि तदा प्रदीपस्य स्वतो वा परतो वा विशेषः कश्चिदुपलभ्यते ; स हि अवभास्यो भवति, यस्यावभासकसन्निधौ असन्निधौ च विशेष उपलभ्यते ; न हि प्रदीपस्य स्वात्मसन्निधिः असन्निधिर्वा शक्यः कल्पयितुम् ; असति च कादाचित्के विशेषे, आत्मानं प्रदीपः प्रकाशयतीति मृषैवोच्यते । चैतन्यग्राह्यत्वं तु घटादिभिरविशिष्टं प्रदीपस्य । तस्माद् विज्ञानस्य आत्मग्राह्यग्राहकत्वे न प्रदीपो दृष्टान्तः । चैतन्यग्राह्यत्वं च विज्ञानस्य बाह्यविषयैः अविशिष्टम् ; चैतन्यग्राह्यत्वे च विज्ञानस्य, किं ग्राह्यविज्ञानग्राह्यतैव किं वा ग्राहकविज्ञानग्राह्यतेति तत्र सन्दिह्यमाने वस्तुनि, योऽन्यत्र दृष्टो न्यायः, स कल्पयितुं युक्तः, न तु दृष्टविपरीतः ; तथा च सति यथा व्यतिरिक्तेनैव ग्राहकेण बाह्यानां प्रदीपानां ग्राह्यत्वं दृष्टम् , तथा विज्ञानस्यापि चैतन्यग्राह्यत्वात् प्रकाशकत्वे सत्यपि प्रदीपवत् व्यतिरिक्तचैतन्यग्राह्यत्वं युक्तं कल्पयितुम् , न तु अनन्यग्राह्यत्वम् ; यश्चान्यः विज्ञानस्य ग्रहीता, स आत्मा ज्योतिरन्तरं विज्ञानात् । तदा अनवस्थेति चेत् , न ; ग्राह्यत्वमात्रं हि तद्ग्राहकस्य वस्त्वन्तरत्वे लिङ्गमुक्तं न्यायतः ; न तु एकान्ततो ग्राहकत्वे तद्ग्राहकान्तरास्तित्वे वा कदाचिदपि लिङ्गं सम्भवति ; तस्मात् न तदनवस्थाप्रसङ्गः । विज्ञानस्य व्यतिरिक्तग्राह्यत्वे करणान्तरापेक्षायाम् अनवस्थेति चेत् , न, नियमाभावात् — न हि सर्वत्र अयं नियमो भवति ; यत्र वस्त्वन्तरेण गृह्यते वस्त्वन्तरम् , तत्र ग्राह्यग्राहकव्यतिरिक्तं करणान्तरं स्यादिति नैकान्तेन नियन्तुं शक्यते, वैचित्र्यदर्शनात् ; कथम् ? घटस्तावत् स्वात्मव्यतिरिक्तेन आत्मना गृह्यते ; तत्र प्रदीपादिरालोकः ग्राह्यग्राहकव्यतिरिक्तं करणम् ; न हि प्रदीपाद्यालोकः घटांशः चक्षुरंशो वा ; घटवत् चक्षुर्ग्राह्यत्वेऽपि प्रदीपस्य, चक्षुः प्रदीपव्यतिरेकेण न बाह्यमालोकस्थानीयं किञ्चित्करणान्तरमपेक्षते ; तस्मात् नैव नियन्तुं शक्यते — यत्र यत्र व्यतिरिक्तग्राह्यत्वं तत्र तत्र करणान्तरं स्यादेवेति । तस्मात् विज्ञानस्य व्यतिरिक्तग्राहकग्राह्यत्वे न करणद्वारा अनवस्था, नापि ग्राहकत्वद्वारा कदाचिदपि उपपादयितुं शक्यते । तस्मात् सिद्धं विज्ञानव्यतिरिक्तमात्मज्योतिरन्तरमिति । ननु नास्त्येव बाह्योऽर्थः घटादिः प्रदीपो वा विज्ञानव्यतिरिक्तः ; यद्धि यद्व्यतिरेकेण नोपलभ्यते, तत् तावन्मात्रं वस्तु दृष्टम् — यथा स्वप्नविज्ञानग्राह्यं घटपटादिवस्तु ; स्वप्नविज्ञानव्यतिरेकेणानुपलम्भात् स्वप्नघटप्रदीपादेः स्वप्नविज्ञानमात्रता अवगम्यते, तथा जागरितेऽपि घटप्रदीपादेः जाग्रद्विज्ञानव्यतिरेकेण अनुपलम्भात् जाग्रद्विज्ञानमात्रतैव युक्ता भवितुम् ; तस्मात् नास्ति बाह्योऽर्थः घटप्रदीपादिः, विज्ञानमात्रमेव तु सर्वम् ; तत्र यदुक्तम् , विज्ञानस्य व्यतिरिक्तावभास्यत्वात् विज्ञानव्यतिरिक्तमस्ति ज्योतिरन्तरं घटादेरिवेति, तन्मिथ्या, सर्वस्य विज्ञानमात्रत्वे दृष्टान्ताभावात् । न, यावत् तावदभ्युपगमात् — न तु बाह्योऽर्थः भवता एकान्तेनैव नाभ्युपगम्यते ; ननु मया नाभ्युपगम्यत एव — न, विज्ञानं घटः प्रदीप इति च शब्दार्थपृथक्त्वात् यावत् , तावदपि बाह्यमर्थान्तरम् अवश्यमभ्युपगन्तव्यम् ; विज्ञानादर्थान्तरं वस्तु न चेदभ्युपगम्यते, विज्ञानं घटः पट इत्येवमादीनां शब्दानाम् एकार्थत्वे पर्यायशब्दत्वं प्राप्नोति ; तथा साधनानां फलस्य च एकत्वे, साध्यसाधनभेदोपदेशशास्त्रानर्थक्यप्रसङ्गः ; तत्कर्तुः अज्ञानप्रसङ्गो वा । किञ्चान्यत् — विज्ञानव्यतिरेकेण वादिप्रतिवादिवाददोषाभ्युपगमात् ; न हि आत्मविज्ञानमात्रमेव वादिप्रतिवादिवादः तद्दोषो वा अभ्युपगम्यते, निराकर्तव्यत्वात् , प्रतिवाद्यादीनाम् ; न हि आत्मीयं विज्ञानं निराकर्तव्यमभ्युपगम्यते, स्वयं वा आत्मा कस्यचित् ; तथा च सति सर्वसंव्यवहारलोपप्रसङ्गः ; न च प्रतिवाद्यादयः स्वात्मनैव गृह्यन्त इत्यभ्युपगमः ; व्यतिरिक्तग्राह्या हि ते अभ्युपगम्यन्ते ; तस्मात् तद्वत् सर्वमेव व्यतिरिक्तग्राह्यं वस्तु, जाग्रद्विषयत्वात् , जाग्रद्वस्तुप्रतिवाद्यादिवत् — इति सुलभो दृष्टान्तः — सन्तत्यन्तरवत् , विज्ञानान्तरवच्चेति । तस्मात् विज्ञानवादिनापि न शक्यं विज्ञानव्यतिरिक्तं ज्योतिरन्तरं निराकर्तुम् । स्वप्ने विज्ञानव्यतिरेकाभावात् अयुक्तमिति चेत् , न, अभावादपि भावस्य वस्त्वन्तरत्वोपपत्तेः — भवतैव तावत् स्वप्ने घटादिविज्ञानस्य भावभूतत्वमभ्युपगतम् ; तत् अभ्युपगम्य तद्व्यतिरेकेण घटाद्यभाव उच्यते ; स विज्ञानविषयो घटादिः यद्यभावः यदि वा भावः स्यात् , उभयथापि घटादिविज्ञानस्य भावभूतत्वमभ्युपगतमेव ; न तु तत् निवर्तयितुं शक्यते, तन्निवर्तकन्यायाभावात् । एतेन सर्वस्य शून्यता प्रत्युक्ता । प्रत्यगात्मग्राह्यता च आत्मनः अहमिति मीमांसकपक्षः प्रत्युक्तः ॥
यत्तूक्तम् , सालोकः अन्यश्च अन्यश्च घटो जायत इति, तदसत् , क्षणान्तरेऽपि स एवायं घट इति प्रत्यभिज्ञानात् । सादृश्यात् प्रत्यभिज्ञानं कृत्तोत्थितकेशनखादिष्विवेति चेत् , न, तत्रापि क्षणिकत्वस्य असिद्धत्वात् , जात्येकत्वाच्च । कृत्तेषु पुनरुत्थितेषु च केशनखादिषु केशनखत्वजातेरेकत्वात् केशनखत्वप्रत्ययः तन्निमित्तः अभ्रान्त एव ; न हि दृश्यमानलूनोत्थितकेशनखादिषु व्यक्तिनिमित्तः स एवेति प्रत्ययो भवति ; कस्यचित् दीर्घकालव्यवहितदृष्टेषु च तुल्यपरिमाणेषु, तत्कालीनवालादितुल्या इमे केशनखाद्या इति प्रत्ययो भवति, न तु त एवेति ; घटादिषु पुनर्भवति स एवेति प्रत्ययः ; तस्मात् न समो दृष्टान्तः । प्रत्यक्षेण हि प्रत्यभिज्ञायमाने वस्तुनि तदेवेति, न च अन्यत्वम् अनुमातुं युक्तम् , प्रत्यक्षविरोधे लिङ्गस्य आभासत्वोपपत्तेः । सादृश्यप्रत्ययानुपपत्तेश्च, ज्ञानस्य क्षणिकत्वात् ; एकस्य हि वस्तुदर्शिनः वस्त्वन्तरदर्शने सादृश्यप्रत्ययः स्यात् ; न तु वस्तुदर्शी एकः वस्त्वन्तरदर्शनाय क्षणान्तरमवतिष्ठते, विज्ञानस्य क्षणिकत्वात् सकृद्वस्तुदर्शनेनैव क्षयोपपत्तेः । तेन इदं सदृशमिति हि सादृश्यप्रत्ययो भवति ; तेनेति दृष्टस्मरणम् , इदमिति वर्तमानप्रत्ययः ; तेनेति दृष्टं स्मृत्वा, यावत् इदमिति वर्तमानक्षणकालम् अवतिष्ठेत, ततः क्षणिकवादहानिः ; अथ तेनेत्येव उपक्षीणः स्मार्तः प्रत्ययः, इदमिति च अन्य एव वार्तमानिकः प्रत्ययः क्षीयते, ततः सादृश्यप्रत्ययानुपपत्तेः — तेनेदं सदृशमिति, अनेकदर्शिनः एकस्य अभावात् ; व्यपदेशानुपपत्तिश्च — द्रष्टव्यदर्शनेनैव उपक्षयाद्विज्ञानस्य, इदं पश्यामि अदोऽद्राक्षमिति व्यपदेशानुपपत्तिः, दृष्टवतो व्यपदेशक्षणानवस्थानात् ; अथ अवतिष्ठेत, क्षणिकवादहानिः ; अथ अदृष्टवतो व्यपदेशः सादृश्यप्रत्ययश्च, तदानीं जात्यन्धस्येव रूपविशेषव्यपदेशः तत्सादृश्यप्रत्ययश्च सर्वमन्धपरम्परेति प्रसज्येत सर्वज्ञशास्त्रप्रणयनादि ; न चैतदिष्यते । अकृताभ्यागमकृतविप्रणाशदोषौ तु प्रसिद्धतरौ क्षणवादे । दृष्टव्यपदेशहेतुः पूर्वोत्तरसहित एक एव हि शृङ्खलावत् प्रत्ययो जायत इति चेत् , तेनेदं सदृशमिति च — न, वर्तमानातीतयोः भिन्नकालत्वात् — तत्र वर्तमानप्रत्यय एकः शृङ्खलावयवस्थानीयः, अतीतश्चापरः, तौ प्रत्ययौ भिन्नकालौ ; तदुभयप्रत्ययविषयस्पृक् चेत् शृङ्खलाप्रत्ययः, ततः क्षणद्वयव्यापित्वादेकस्य विज्ञानस्य पुनः क्षणवादहानिः । ममतवतादिविशेषानुपपत्तेश्च सर्वसंव्यवहारलोपप्रसङ्गः ॥
सर्वस्य च स्वसंवेद्यविज्ञानमात्रत्वे, विज्ञानस्य च स्वच्छावबोधावभासमात्रस्वाभाव्याभ्युपगमात् , तद्दर्शिनश्चान्यस्याभावे, अनित्यदुःखशून्यानात्मत्वाद्यनेककल्पनानुपपत्तिः । न च दाडिमादेरिव विरुद्धानेकांशवत्त्वं विज्ञानस्य, स्वच्छावभासस्वाभाव्याद्विज्ञानस्य । अनित्यदुःखादीनां विज्ञानांशत्वे च सति अनुभूयमानत्वात् व्यतिरिक्तविषयत्वप्रसङ्गः । अथ अनित्यदुःखाद्यात्मैकत्वमेव विज्ञानस्य, तदा तद्वियोगात् विशुद्धिकल्पनानुपपत्तिः ; संयोगिमलवियोगाद्धि विशुद्धिर्भवति, यथा आदर्शप्रभृतीनाम् ; न तु स्वाभाविकेन धर्मेण कस्यचिद्वियोगो दृष्टः ; न हि अग्नेः स्वाभाविकेन प्रकाशेन औष्ण्येन वा वियोगो दृष्टः ; यदपि पुष्पगुणानां रक्तत्वादीनां द्रव्यान्तरयोगेन वियोजनं दृश्यते, तत्रापि संयोगपूर्वत्वमनुमीयते — बीजभावनया पुष्पफलादीनां गुणान्तरोत्पत्तिदर्शनात् ; अतः विज्ञानस्य विशुद्धिकल्पनानुपपत्तिः । विषयविषय्याभासत्वं च यत् मलं परिकल्प्यते विज्ञानस्य, तदपि अन्यसंसर्गाभावात् अनुपपन्नम् ; न हि अविद्यमानेन विद्यमानस्य संसर्गः स्यात् ; असति च अन्यसंसर्गे, यो धर्मो यस्य दृष्टः, स तत्स्वभावत्वात् न तेन वियोगमर्हति — यथा अग्नेरौष्ण्यम् , सवितुर्वा प्रभा ; तस्मात् अनित्यसंसर्गेण मलिनत्वं तद्विशुद्धिश्च विज्ञानस्येति इयं कल्पना अन्धपरम्परैव प्रमाणशून्येत्यवगम्यते । यदपि तस्य विज्ञानस्य निर्वाणं पुरुषार्थं कल्पयन्ति, तत्रापि फलाश्रयानुपपत्तिः ; कण्टकविद्धस्य हि कण्टकवेधजनितदुःखनिवृत्तिः फलम् ; न तु कण्टकविद्धमरणे तद्दुःखनिवृत्तिफलस्य आश्रय उपपद्यते ; तद्वत् सर्वनिर्वाणे, असति च फलाश्रये, पुरुषार्थकल्पना व्यर्थैव ; यस्य हि पुरुषशब्दवाच्यस्य सत्त्वस्य आत्मनो विज्ञानस्य च अर्थः परिकल्प्यते, तस्य पुनः पुरुषस्य निर्वाणे, कस्यार्थः पुरुषार्थ इति स्यात् । यस्य पुनः अस्ति अनेकार्थदर्शी विज्ञानव्यतिरिक्त आत्मा, तस्य दृष्टस्मरणदुःखसंयोगवियोगादि सर्वमेव उपपन्नम् , अन्यसंयोगनिमित्तं कालुष्यम् , तद्वियोगनिमित्ता च विशुद्धिरिति । शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय न आदरः क्रियते ॥
स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः संसृज्यते स उत्क्रामन्म्रियमाणः पाप्मनो विजहाति ॥ ८ ॥
८यथैव इह एकस्मिन्देहे स्वप्नो भूत्वा मृत्यो रूपाणि कार्यकरणानि अतिक्रम्य स्वप्ने स्वे आत्मज्योतिषि आस्ते, एवं स वै प्रकृतः पुरुषः अयं जायमानः — कथं जायमान इत्युच्यते — शरीरं देहेन्द्रियसङ्घातमभिसम्पद्यमानः, शरीरे आत्मभावमापद्यमान इत्यर्थः, पाप्मभिः पाप्मसमवायिभिर्धर्माधर्माश्रयैः कार्यकरणैरित्यर्थः, संसृज्यते संयुज्यते ; स एव उत्क्रामन् शरीरान्तरम् ऊर्ध्वं क्रामन् गच्छन् म्रियमाण इत्येतस्य व्याख्यानमुत्क्रामन्निति, तानेव संश्लिष्टान् पाप्मरूपान् कार्यकरणलक्षणान् , विजहाति तैर्वियुज्यते, तान्परित्यजति । यथा अयं स्वप्नजाग्रद्वृत्त्योः वर्तमाने एव एकस्मिन्देहे पाप्मरूपकार्यकरणोपादानपरित्यागाभ्याम् अनवरतं सञ्चरति धिया समानः सन् , तथा सोऽयं पुरुषः उभाविहलोकपरलोकौ, जन्ममरणाभ्यां कार्यकरणोपादानपरित्यागौ अनवरतं प्रतिपद्यमानः, आ संसारमोक्षात् सञ्चरति । तस्मात् सिद्धम् अस्य आत्मज्योतिषः अन्यत्वं कार्यकरणरूपेभ्यः पाप्मभ्यः, संयोगवियोगाभ्याम् ; न हि तद्धर्मत्वे सति, तैरेव संयोगः वियोगो वा युक्तः ॥
ननु न स्तः, अस्य उभौ लोकौ, यौ जन्ममरणाभ्यामनुक्रमेण सञ्चरति स्वप्नजागरिते इव ; स्वप्नजागरिते तु प्रत्यक्षमवगम्येते, न त्विहलोकपरलोकौ केनचित्प्रमाणेन ; तस्मात् एते एव स्वप्नजागरिते इहलोकपरलोकाविति । उच्यते —
तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं च सन्ध्यं तृतीयं स्वप्नस्थानं तस्मिन्सन्ध्ये स्थाने तिष्ठन्नेते उभे स्थाने पश्यतीदं च परलोकस्थानं च । अथ यथाक्रमोऽयं परलोकस्थाने भवति तमाक्रममाक्रम्योभयान्पाप्मन आनन्दांश्च पश्यति स यत्र प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपित्यत्रायं पुरुषः स्वयं ज्योतिर्भवति ॥ ९ ॥
९तस्य एतस्य पुरुषस्य वै द्वे एव स्थाने भवतः, न तृतीयं चतुर्थं वा ; के ते ? इदं च यत् प्रतिपन्नं वर्तमानं जन्म शरीरेन्द्रियविषयवेदनाविशिष्टं स्थानं प्रत्यक्षतोऽनुभूयमानम् , परलोक एव स्थानम् परलोकस्थानम् — तच्च शरीरादिवियोगोत्तरकालानुभाव्यम् । ननु स्वप्नोऽपि परलोकः ; तथा च सति द्वे एवेत्यवधारणमयुक्तम् — न ; कथं तर्हि ? सन्ध्यं तत् — इहलोकपरलोकयोर्यः सन्धिः तस्मिन्भवं सन्ध्यम् , यत् तृतीयं तत् स्वप्नस्थानम् ; तेन स्थानद्वित्वावधारणम् ; न हि ग्रामयोः सन्धिः तावेव ग्रामावपेक्ष्य तृतीयत्वपरिगणनमर्हति । कथं पुनः तस्य परलोकस्थानस्य अस्तित्वमवगम्यते, यदपेक्ष्य स्वप्नस्थानं सन्ध्यं भवेत् — यतः तस्मिन्सन्ध्ये स्वप्नस्थानेतिष्ठन् भवन् वर्तमानः एते उभे स्थाने पश्यति ; के ते उभे ? इदं च परलोकस्थानं च । तस्मात् स्तः स्वप्नजागरितव्यतिरेकेण उभौ लोकौ, यौ धिया समानः सन् अनुसञ्चरति जन्ममरणसन्तानप्रबन्धेन । कथं पुनः स्वप्ने स्थितः सन् उभौ लोकौ पश्यति, किमाश्रयः केन विधिना — इत्युच्यते — अथ कथं पश्यतीति शृणु — यथाक्रमः आक्रामति अनेन इत्याक्रमः आश्रयः अवष्टम्भ इत्यर्थः ; यादृशः आक्रमोऽस्य, सोऽयं यथाक्रमः ; अयं पुरुषः, परलोकस्थाने प्रतिपत्तव्ये निमित्ते, यथाक्रमो भवति यादृशेन परलोकप्रतिपत्तिसाधनेन विद्याकर्मपूर्वप्रज्ञालक्षणेन युक्तो भवतीत्यर्थः ; तम् आक्रमम् परलोकस्थानायोन्मुखीभूतं प्राप्ताङ्कुरीभावमिव बीजं तमाक्रमम् आक्रम्य अवष्टभ्य आश्रित्य उभयान्पश्यति — बहुवचनं धर्माधर्मफलानेकत्वात् — उभयान् उभयप्रकारानित्यर्थः ; कांस्तान् ? पाप्मनः पापफलानि — न तु पुनः साक्षादेव पाप्मनां दर्शनं सम्भवति, तस्मात् पापफलानि दुःखानीत्यर्थः — आनन्दांश्च धर्मफलानि सुखानीत्येतत् — तानुभयान् पाप्मनः आनन्दांश्च पश्यति जन्मान्तरदृष्टवासनामयान् ; यानि च प्रतिपत्तव्यजन्मविषयाणि क्षुद्रधर्माधर्मफलानि, धर्माधर्मप्रयुक्तो देवतानुग्रहाद्वा पश्यति । तत्कथमवगम्यते परलोकस्थानभावितत्पाप्मानन्ददर्शनं स्वप्ने — इत्युच्यते — यस्मात् इह जन्मनि अननुभाव्यमपि पश्यति बहु ; न च स्वप्नो नाम अपूर्वं दर्शनम् ; पूर्वदृष्टस्मृतिर्हि स्वप्नः प्रायेण ; तेन स्वप्नजागरितस्थानव्यतिरेकेण स्तः उभौ लोकौ । यत् आदित्यादिबाह्यज्योतिषामभावे अयं कार्यकरणसङ्घातः पुरुषः येन व्यतिरिक्तेन आत्मना ज्योतिषा व्यवहरतीत्युक्तम् — तदेव नास्ति, यत् आदित्यादिज्योतिषामभावगमनम् , यत्र इदं विविक्तं स्वयञ्ज्योतिः उपलभ्येत ; येन सर्वदैव अयं कार्यकरणसङ्घातः संसृष्ट एवोपलभ्यते ; तस्मात् असत्समः असन्नेव वा स्वेन विविक्तस्वभावेन ज्योतीरूपेण आत्मेति । अथ क्वचित् विविक्तः स्वेन ज्योतीरूपेण उपलभ्येत बाह्याध्यात्मिकभूतभौतिकसंसर्गशून्यः, ततः यथोक्तं सर्वं भविष्यतीत्येतदर्थमाह — सः यः प्रकृत आत्मा, यत्र यस्मिन्काले, प्रस्वपिति प्रकर्षेण स्वापमनुभवति ; तदा किमुपादानः केन विधिना स्वपिति सन्ध्यं स्थानं प्रतिपद्यत इत्युच्यते — अस्य दृष्टस्य लोकस्य जागरितलक्षणस्य, सर्वावतः सर्वमवतीति सर्वावान् अयं लोकः कार्यकरणसङ्घातः विषयवेदनासंयुक्तः ; सर्वावत्त्वम् अस्य व्याख्यातम् अन्नत्रयप्रकरणे ‘अथो अयं वा आत्मा’(बृ. उ. १ । ४ । १६) इत्यादिना — सर्वा वा भूतभौतिकमात्राः अस्य संसर्गकारणभूता विद्यन्त इति सर्ववान् , सर्ववानेव सर्वावान् , तस्य सर्वावतः मात्राम् एकदेशम् अवयवम् , अपादाय अपच्छिद्य आदाय गृहीत्वा — दृष्टजन्मवासनावासितः सन्नित्यर्थः, स्वयम् आत्मनैव विहत्य देहं पातयित्वा निःसम्बोधमापाद्य — जागरिते हि आदित्यादीनां चक्षुरादिष्वनुग्रहो देहव्यवहारार्थः, देहव्यवहारश्च आत्मनो धर्माधर्मफलोपभोगप्रयुक्तः, तद्धर्माधर्मफलोपभोगोपरमणम् अस्मिन्देहे आत्मकर्मोपरमकृतमिति आत्मा अस्य विहन्तेत्युच्यते — स्वयं निर्माय निर्माणं कृत्वा वासनामयं स्वप्नदेहं मायामयमिव, निर्माणमपि तत्कर्मापेक्षत्वात् स्वयङ्कर्तृकमुच्यते — स्वेन आत्मीयेन, भासा मात्रोपादानलक्षणेन भासा दीप्त्या प्रकाशेन, सर्ववासनात्मकेन अन्तःकरणवृत्तिप्रकाशेनेत्यर्थः — सा हि तत्र विषयभूता सर्ववासनामयी प्रकाशते, सा तत्र स्वयं भा उच्यते — तेन स्वेन भासा विषयभूतेन, स्वेन च ज्योतिषा तद्विषयिणा विविक्तरूपेण अलुप्तदृक्स्वभावेन तद्भारूपं वासनात्मकं विषयीकुर्वन् प्रस्वपिति । यत् एवं वर्तनम् , तत् प्रस्वपितीत्युच्यते । अत्र एतस्यामवस्थायाम् एतस्मिन्काले, अयं पुरुषः आत्मा, स्वयमेव विविक्तज्योतिर्भवति बाह्याध्यात्मिकभूतभौतिकसंसर्गरहितं ज्योतिः भवति । ननु अस्य लोकस्य मात्रोपादानं कृतम् , कथं तस्मिन् सति अत्रायं पुरुषः स्वयं ज्योतिर्भवतीत्युच्यते ? नैष दोषः ; विषयभूतमेव हि तत् ; तेनैव च अत्र अयं पुरुषः स्वयं ज्योतिः दर्शयितुं शक्यः ; न तु अन्यथा असति विषये कस्मिंश्चित् सुषुप्तकाल इव ; यदा पुनः सा भा वासनात्मिका विषयभूता उपलभ्यमाना भवति, तदा असिः कोशादिव निष्कृष्टः सर्वसंसर्गरहितं चक्षुरादिकार्यकरणव्यावृत्तस्वरूपम् अलुप्तदृक् आत्मज्योतिः स्वेन रूपेण अवभासयत् गृह्यते । तेन अत्रायं पुरुषः स्वयं ज्योतिर्भवतीति सिद्धम् ॥
ननु अत्र कथं पुरुषः स्वयं ज्योतिः ? येन जागरित इव ग्राह्यग्राहकादिलक्षणः सर्वो व्यवहारो दृश्यते, चक्षुराद्यनुग्राहकाश्च आदित्याद्यालोकाः तथैव दृश्यन्ते यथा जागरिते — तत्र कथं विशेषावधारणं क्रियते — अत्र अयं पुरुषः स्वयं ज्योतिर्भवतीति । उच्यते — वैलक्षण्यात् स्वप्नदर्शनस्य ; जागरिते हि इन्द्रियबुद्धिमनआलोकादिव्यापारसङ्कीर्णमात्मज्योतिः ; इह तु स्वप्ने इन्द्रियाभावात् तदनुग्राहकादित्याद्यालोकाभावाच्च विविक्तं केवलं भवति तस्माद्विलक्षणम् । ननु तथैव विषया उपलभ्यन्ते स्वप्नेऽपि, यथा जागरिते ; तत्र कथम् इन्द्रियाभावात् वैलक्षण्यमुच्यत इति । शृणु —
न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजते न तत्रानन्दा मुदः प्रमुदो भवन्त्यथानन्दान्मुदः प्रमुदः सृजते न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्त्यथ वेशान्तान्पुष्करिणीः स्रवन्तीः सृजते स हि कर्ता ॥ १० ॥
१०न तत्र विषयाः स्वप्ने रथादिलक्षणाः ; तथा न रथयोगाः, रथेषु युज्यन्त इति रथयोगाः अश्वादयः तत्र न विद्यन्ते ; न च पन्थानः रथमार्गाः भवन्ति । अथ रथान् रथयोगान् पथश्च सृजते स्वयम् । कथं पुनः सृजते रथादिसाधनानां वृक्षादीनामभावे । उच्यते — ननु उक्तम् ‘अस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय’ इति ; अन्तःकरणवृत्तिः अस्य लोकस्य वासना मात्रा, तामपादाय, रथादिवासनारूपान्तःकरणवृत्तिः तदुपलब्धिनिमित्तेन कर्मणा चोद्यमाना दृश्यत्वेन व्यवतिष्ठते ; तदुच्यते — स्वयं निर्मायेति ; तदेव आह — रथादीन्सृजत इति ; न तु तत्र करणं वा, करणानुग्राहकाणि वा आदित्यादिज्योतींषि, तदवभास्या वा रथादयो विषयाः विद्यन्ते ; तद्वासनामात्रं तु केवलं तदुपलब्धिकर्मनिमित्तचोदितोद्भूतान्तःकरणवृत्त्याश्रय दृश्यते । तत् यस्य ज्योतिषो दृश्यते अलुप्तदृशः, तत् आत्मज्योतिः अत्र केवलम् असिरिव कोशात् विविक्तम् । तथा न तत्र आनन्दाः सुखविशेषाः, मुदः हर्षाः पुत्रादिलाभनिमित्ताः, प्रमुदः ते एव प्रकर्षोपेताः ; अथ च आनन्दादीन् सृजते । तथा न तत्र वेशान्ताः पल्वलाः, पुष्करिण्यः तडागाः, स्रवन्त्यः नद्यः भवन्ति ; अथ वेशान्तादीन्सृजते वासनामात्ररूपान् । यस्मात् सः हि कर्ता ; तद्वासनाश्रयचित्तवृत्त्युद्भवनिमित्तकर्महेतुत्वेनेति अवोचाम तस्य कर्तृत्वम् ; न तु साक्षादेव तत्र क्रिया सम्भवति, साधनाभावात् ; न हि कारकमन्तरेण क्रिया सम्भवति ; न च तत्र हस्तपादादीनि क्रियाकारकाणि सम्भवन्ति ; यत्र तु तानि विद्यन्ते जागरिते, तत्र आत्मज्योतिरवभासितैः कार्यकरणैः रथादिवासनाश्रयान्तःकरणवृत्त्युद्भवनिमित्तं कर्म निर्वर्त्यते ; तेनोच्यते — स हि कर्तेति ; तदुक्तम् ‘आत्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते’(बृ. उ. ४ । ३ । ६) इति ; तत्रापि न परमार्थतः स्वतः कर्तृत्वं चैतन्यज्योतिषः अवभासकत्वव्यतिरेकेण — यत् चैतन्यात्मज्योतिषा अन्तःकरणद्वारेण अवभासयति कार्यकरणानि, तदवभासितानि कर्मसु व्याप्रियन्ते कार्यकरणानि, तत्र कर्तृत्वमुपचर्यते आत्मनः । यदुक्तम् ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) इति, तदेव अनूद्यते — स हि कर्तेति इह हेत्वर्थम् ॥
तदेते श्लोका भवन्ति । स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति । शुक्रमादाय पुनरैति स्थानं हिरण्मयः पुरुष एकहंसः ॥ ११ ॥
११तदेते — एतस्मिन् उक्तेऽर्थे एते श्लोकाः मन्त्राः भवन्ति । स्वप्नेन स्वप्नभावेन, शारीरम् शरीरम् , अभिप्रहत्य निश्चेष्टमापाद्य असुप्तः स्वयम् अलुप्तदृगादिशक्तिस्वाभाव्यात् , सुप्तान् वासनाकारोद्भूतान् अन्तःकरणवृत्त्याश्रयान् बाह्याध्यात्मिकान् सर्वानेव भावान् स्वेन रूपेण प्रत्यस्तमितान् सुप्तान् , अभिचाकशीति अलुप्तया आत्मदृष्ट्या पश्यति अवभासयतीत्यर्थः । शुक्रम् शुद्धं ज्योतिष्मदिन्द्रियमात्रारूपम् , आदाय गृहीत्वा, पुनः कर्मणे जागरितस्थानम् ऐति आगच्छति, हिरण्मयः हिरण्मय इव चैतन्यज्योतिःस्वभावः, पुरुषः, एकहंसः एक एव हन्तीत्येकहंसः — एकः जाग्रत्स्वप्नेहलोकपरलोकादीन् गच्छतीत्येकहंसः ॥
प्राणेन रक्षन्नवरं कुलायं बहिष्कुलायादमृतश्चरित्वा । स ईयतेऽमृतो यत्र कामं हिरण्मयः पुरुष एकहंसः ॥ १२ ॥
१२तथा प्राणेन पञ्चवृत्तिना, रक्षन् परिपालयन् — अन्यथा मृतभ्रान्तिः स्यात् , अवरम् निकृष्टम् अनेकाशुचिसङ्घातत्वादत्यन्तबीभत्सम् , कुलायं नीडं शरीरम् , स्वयं तु बहिस्तस्मात्कुलायात् , चरित्वा — यद्यपि शरीरस्थ एव स्वप्नं पश्यति तथापि तत्सम्बन्धाभावात् तत्स्थ इव आकाशः बहिश्चरित्वेत्युच्यते, अमृतः स्वयममरणधर्मा, ईयते गच्छति, यत्र कामम् — यत्र यत्र कामः विषयेषु उद्भूतवृत्तिर्भवति तं तं कामं वासनारूपेण उद्भूतं गच्छति ॥
स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि । उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन् ॥ १३ ॥
१३किञ्च स्वप्नान्ते स्वप्नस्थाने, उच्चावचम् — उच्चं देवादिभावम् अवचं तिर्यगादिभावं निकृष्टम् तदुच्चावचम् , ईयमानः गम्यमानः प्राप्नुवन् , रूपाणि, देवः द्योतनावान् , कुरुते निर्वर्तयति वासनारूपाणि बहूनि असङ्ख्येयानि । उत अपि, स्त्रीभिः सह मोदमान इव, जक्षदिव हसन्निव वयस्यैः, उत इव अपि भयानि — बिभेति एभ्य इति भयानि सिंहव्याघ्रादीनि, पश्यन्निव ॥
आराममस्य पश्यन्ति न तं पश्यति कश्चनेति । तं नायतं बोधयेदित्याहुः । दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते । अथो खल्वाहुर्जागरितदेश एवास्यैष इति यानि ह्येव जाग्रत्पश्यति तानि सुप्त इत्यत्रायं पुरुषः स्वयं ज्योतिर्भवति सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षाय ब्रूहीति ॥ १४ ॥
१४आरामम् आरमणम् आक्रीडाम् अनेन निर्मितां वासनारूपाम् अस्य आत्मनः, पश्यन्ति सर्वे जनाः — ग्रामं नगरं स्त्रियम् अन्नाद्यमित्यादिवासनानिर्मितम् आक्रीडनरूपम् ; न तं पश्यति तं न पश्यति कश्चन । कष्टं भोः! वर्तते अत्यन्तविविक्तं दृष्टिगोचरापन्नमपि — अहो भाग्यहीनता लोकस्य! यत् शक्यदर्शनमपि आत्मानं न पश्यति — इति लोकं प्रति अनुक्रोशं दर्शयति श्रुतिः । अत्यन्तविविक्तः स्वयं ज्योतिरात्मा स्वप्ने भवतीत्यभिप्रायः । तं नायतं बोधयेदित्याहुः — प्रसिद्धिरपि लोके विद्यते, स्वप्ने आत्मज्योतिषो व्यतिरिक्तत्वे ; का असौ ? तम् आत्मानं सुप्तम् , आयतम् सहसा भृशम् , न बोधयेत् — इत्याहुः एवं कथयन्ति चिकित्सकादयो जना लोके ; नूनं ते पश्यन्ति — जाग्रद्देहात् इन्द्रियद्वारतः अपसृत्य केवलो बहिर्वर्तत इति, यत आहुः — तं नायतं बोधयेदिति । तत्र च दोषं पश्यन्ति — भृशं हि असौ बोध्यमानः तानि इन्द्रियद्वाराणि सहसा प्रतिबोध्यमानः न प्रतिपद्यत इति ; तदेतदाह — दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते ; यम् इन्द्रियद्वारदेशम् — यस्माद्देशात् शुक्रमादाय अपसृतः तम् इन्द्रियदेशम् — एषः आत्मा पुनर्न प्रतिपद्यते, कदाचित् व्यत्यासेन इन्द्रियमात्राः प्रवेशयति, ततः आन्ध्यबाधिर्यादिदोषप्राप्तौ दुर्भिषज्यम् दुःखभिषक्कर्मता ह अस्मै देहाय भवति, दुःखेन चिकित्सनीयोऽसौ देहो भवतीत्यर्थः । तस्मात् प्रसिद्ध्यापि स्वप्ने स्वयञ्ज्योतिष्ट्वम् अस्य गम्यते । स्वप्नो भूत्वा अतिक्रान्तो मृत्यो रूपाणीति तस्मात् स्वप्ने स्वयं ज्योतिरात्मा । अथो अपि खलु अन्ये आहुः — जागरितदेश एवास्य एषः, यः स्वप्नः — न सन्ध्यं स्थानान्तरम् इहलोकपरलोकाभ्यां व्यतिरिक्तम् , किं तर्हि इहलोक एव जागरितदेशः । यद्येवम् , किञ्च अतः ? शृणु अतो यद्भवति — यदा जागरितदेश एवायं स्वप्नः, तदा अयमात्मा कार्यकरणेभ्यो न व्यावृत्तः तैर्मिश्रीभूतः, अतो न स्वयं ज्योतिरात्मा — इत्यतः स्वयञ्ज्योतिष्ट्वबाधनाय अन्ये आहुः — जागरितदेश एवास्यैष इति । तत्र च हेतुमाचक्षते — जागरितदेशत्वे यानि हि यस्मात् हस्त्यादीनि पदार्थजातानि, जाग्रत् जागरितदेशे, पश्यति लौकिकः, तान्येव सुप्तोऽपि पश्यतीति । तदसत् , इन्द्रियोपरमात् ; उपरतेषु हि इन्द्रियेषु स्वप्नान्पश्यति ; तस्मात् नान्यस्य ज्योतिषः तत्र सम्भवोऽस्ति ; तदुक्तम् ‘न तत्र रथा न रथयोगाः’(बृ. उ. ४ । ३ । १०) इत्यादि ; तस्मात् अत्रायं पुरुषः स्वयं ज्योतिर्भवत्येव । स्वयं ज्योतिः आत्मा अस्तीति स्वप्ननिदर्शनेन प्रदर्शितम् , अतिक्रामति मृत्यो रूपाणीति च ; क्रमेण सञ्चरन् इहलोकपरलोकादीन् इहलोकपरलोकादिव्यतिरिक्तः, तथा जाग्रत्स्वप्नकुलायाभ्यां व्यतिरिक्तः, तत्र च क्रमसञ्चारान्नित्यश्च — इत्येतत् प्रतिपादितं याज्ञवल्क्येन । अतः विद्यानिष्क्रयार्थं सहस्रं ददामीत्याह जनकः ; सोऽहम् एवं बोधितः त्वया भगवते तुभ्यम् सहस्रं ददामि ; विमोक्षश्च कामप्रश्नो मया अभिप्रेतः ; तदुपयोगी अयं तादर्थ्यात् तदेकदेश एव ; अतः त्वां नियोक्ष्यामि समस्तकामप्रश्ननिर्णयश्रवणेन — विमोक्षाय अत ऊर्ध्वं ब्रूहीति, येन संसारात् विप्रमुच्येयं त्वत्प्रसादात् । विमोक्षपदार्थैकदेशनिर्णयहेतोः सहस्रदानम् ॥
यत् प्रस्तुतम् — आत्मनैवायं ज्योतिषास्ते इति, तत् प्रत्यक्षतः प्रतिपादितम् — ‘अत्रायं पुरुषः स्वयं ज्योतिर्भवति’ इति स्वप्ने । यत्तु उक्तम् — ‘स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि’(बृ. उ. ४ । ३ । ७) इति, तत्र एतत् आशङ्क्यते — मृत्यो रूपाण्येव अतिक्रामति, न मृत्युम् ; प्रत्यक्षं ह्येतत् स्वप्ने कार्यकरणव्यावृत्तस्यापि मोदत्रासादिदर्शनम् ; तस्मात् नूनं नैवायं मृत्युमतिक्रामति ; कर्मणो हि मृत्योः कार्यं मोदत्रासादि दृश्यते ; यदि च मृत्युना बद्ध एव अयं स्वभावतः, ततः विमोक्षो नोपपद्यते ; न हि स्वभावात्कश्चित् विमुच्यते ; अथ स्वभावो न भवति मृत्युः, ततः तस्मात् मोक्ष उपपत्स्यते ; यथा असौ मृत्युः आत्मीयो धर्मो न भवति, तथा प्रदर्शनाय — अत ऊर्ध्वं विमोक्षाय ब्रूहीत्येवं जनकेन पर्यनुयुक्तः याज्ञवल्क्यः तद्दिदर्शयिषया प्रववृते —
स वा एष एतस्मिन्सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च । पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नायैव स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष इत्येवमेवैतद्याज्ञवल्क्य सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ १५ ॥
१५स वै प्रकृतः स्वयं ज्योतिः पुरुषः, एषः यः स्वप्ने प्रदर्शितः, एतस्मिन्सम्प्रसादे — सम्यक् प्रसीदति अस्मिन्निति सम्प्रसादः ; जागरिते देहेन्द्रियव्यापारशतसन्निपातजं हित्वा कालुष्यं तेभ्यो विप्रमुक्तः ईषत् प्रसीदति स्वप्ने, इह तु सुषुप्ते सम्यक् प्रसीदति — इत्यतः सुषुप्तं सम्प्रसाद उच्यते ; ‘तीर्णो हि तदा सर्वाञ्शोकान्’(बृ. उ. ४ । ३ । २२) इति ‘सलिल एको द्रष्टा’(बृ. उ. ४ । ३ । ३१) इति हि वक्ष्यति सुषुप्तस्थम् आत्मानम् — स वै एषः एतस्मिन् सम्प्रसादे क्रमेण सम्प्रसन्नः सन् सुषुप्ते स्थित्वा ; कथं सम्प्रसन्नः ? स्वप्नात् सुषुप्तं प्रविविक्षुः स्वप्नावस्थ एव रत्वा रतिमनुभूय मित्रबन्धुजनदर्शनादिना, चरित्वा विहृत्य अनेकधा चरणफलं श्रममुपलभ्येत्यर्थः, दृष्ट्वैव न कृत्वेत्यर्थः, पुण्यं च पुण्यफलम् , पापं च पापफलम् ; न तु पुण्यपापयोः साक्षाद्दर्शनमस्तीत्यवोचाम ; तस्मात् न पुण्यपापाभ्यामनुबद्धः ; यो हि करोति पुण्यपापे, स ताभ्यामनुबध्यते ; न हि दर्शनमात्रेण तदनुबद्धः स्यात् । तस्मात् स्वप्नो भूत्वा मृत्युमतिक्रामत्येव, न मृत्युरूपाण्येव केवलम् । अतः न मृत्योः आत्मस्वभावत्वाशङ्का ; मृत्युश्चेत् स्वभावोऽस्य, स्वप्नेऽपि कुर्यात् ; न तु करोति ; स्वभावश्चेत् क्रिया स्यात् ; अनिर्मोक्षतैव स्यात् ; न तु स्वभावः, स्वप्ने अभावात् , अतः विमोक्षः अस्य उपपद्यते मृत्योः पुण्यपापाभ्याम् । ननु जागरिते अस्य स्वभाव एव — न ; बुद्ध्याद्युपाधिकृतं हि तत् ; तच्च प्रतिपादितं सादृश्यात् ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) इति । तस्मात् एकान्तेनैव स्वप्ने मृत्युरूपातिक्रमणात् न स्वाभाविकत्वाशङ्का अनिर्मोक्षता वा । तत्र ‘चरित्वा’ इति — चरणफलं श्रममुपलभ्येत्यर्थः, ततः सम्प्रसादानुभवोत्तरकालं पुनः प्रतिन्यायम् यथान्यायं यथागतम् — निश्चित आयः न्यायः, अयनम् आयः निर्गमनम् , पुनः पूर्वगमनवैपरीत्येन यत् आगमनं स प्रतिन्यायः — यथागतं पुनरागच्छतीत्यर्थः । प्रतियोनि यथास्थानम् ; स्वप्नस्थानाद्धि सुषुप्तं प्रतिपन्नः सन् यथास्थानमेव पुनरागच्छति — प्रतियोनि आद्रवति, स्वप्नायैव स्वप्नस्थानायैव । ननु स्वप्ने न करोति पुण्यपापे तयोः फलमेव पश्यतीति कथमवगम्यते ? यथा जागरिते तथा करोत्येव स्वप्नेऽपि, तुल्यत्वाद्दर्शनस्य — इत्यत आह — सः आत्मा, यत् किञ्चित् तत्र स्वप्ने पश्यति पुण्यपापफलम् , अनन्वागतः अननुबद्धः तेन दृष्टेन भवति, नैव अनुबद्धो भवति ; यदि हि स्वप्ने कृतमेव तेन स्यात् , तेन अनुबध्येत ; स्वप्नादुत्थितोऽपि समन्वागतः स्यात् ; न च तत् लोके — स्वप्नकृतकर्मणा अन्वागतत्वप्रसिद्धिः ; न हि स्वप्नकृतेन आगसा आगस्कारिणमात्मानं मन्यते कश्चित् ; न च स्वप्नदृश आगः श्रुत्वा लोकः तं गर्हति परिहरति वा ; अतः अनन्वागत एव तेन भवति ; तस्मात् स्वप्ने कुर्वन्निव उपलभ्यते, न तु क्रिया अस्ति परमार्थतः ; ‘उतेव स्त्रीभिः सह मोदमानः’(बृ. उ. ४ । ३ । १३) इति श्लोक उक्तः ; आख्यातारश्च स्वप्नस्य सह इव - शब्देन आचक्षते — हस्तिनोऽद्य घटीकृताः धावन्तीव मया दृष्टा इति । अतो न तस्य कर्तृत्वमिति । कथं पुनरस्याकर्तृत्वमिति — कार्यकरणैर्मूर्तैः संश्लेषः मूर्तस्य, स तु क्रियाहेतुर्दृष्टः ; न ह्यमूर्तः कश्चित् क्रियावान् दृश्यते ; अमूर्तश्च आत्मा, अतोऽसङ्गः ; यस्माच्च असङ्गोऽयं पुरुषः, तस्मात् अनन्वागतः तेन स्वप्नदृष्टेन ; अत एव न क्रियाकर्तृत्वमस्य कथञ्चिदुपपद्यते ; कार्यकरणसंश्लेषेण हि कर्तृत्वं स्यात् ; स च संश्लेषः सङ्गः अस्य नास्ति, यतः असङ्गो ह्ययं पुरुषः ; तस्मात् अमृतः । एवमेव एतत् याज्ञवल्क्य ; सोऽहं भगवते सहस्रं ददामि ; अत ऊर्ध्वं विमोक्षायैव ब्रूहि ; मोक्षपदार्थैकदेशस्य कर्मप्रविवेकस्य सम्यग्दर्शितत्वात् ; अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥
स वा एष एतस्मिन्स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष इत्येवमेवैतद्याज्ञवल्क्य सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ १६ ॥
१६तत्र ‘असङ्गो ह्ययं पुरुषः’(बृ. उ. ४ । ३ । १५)‘असङ्गो ह्ययं पुरुषः’(बृ. उ. ४ । ३ । १५) इति असङ्गता अकर्तृत्वे हेतुरुक्तः ; उक्तं च पूर्वम् — कर्मवशात् स ईयते यत्र काममिति ; कामश्च सङ्गः ; अतः असिद्धो हेतुरुक्तः — ‘असङ्गो ह्ययं पुरुषः’ इति । न तु एतत् अस्ति ; कथं तर्हि ? असङ्ग एव इत्येतदुच्यते — स वा एष एतस्मिन्स्वप्ने, स वै एष पुरुषः सम्प्रसादात्प्रत्यागतः स्वप्ने रत्वा चरित्वा यथाकामम् , दृष्ट्वैव पुण्यं च पापं च — इति सर्वं पूर्ववत् ; बुद्धान्तायैव जागरितस्थानाय । तस्मात् असङ्ग एवायं पुरुषः ; यदि स्वप्ने सङ्गवान् स्यात् कामी, ततः तत्सङ्गजैर्दोषैः बुद्धान्ताय प्रत्यागतो लिप्येत ॥
यथा असौ स्वप्ने असङ्गत्वात् स्वप्नप्रसङ्गजैर्दोषैः जागरिते प्रत्यागतो न लिप्यते, एवं जागरितसङ्गजैरपि दोषैः न लिप्यत एव बुद्धान्ते ; तदेतदुच्यते —
स वा एष एतस्मिन्बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव ॥ १७ ॥
१७स वै एषः एतस्मिन् बुद्धान्ते जागरिते रत्वा चरित्वेत्यादि पूर्ववत् । स यत् तत्र बुद्धान्ते किञ्चित्पश्यति, अनन्वागतः तेन भवति — असङ्गो ह्ययं पुरुष इति । ननु दृष्ट्वैवेति कथमवधार्यते ? करोति च तत्र पुण्यपापे ; तत्फलं च पश्यति — न, कारकावभासकत्वेन कर्तृत्वोपपत्तेः ; ‘आत्मनैवायं ज्योतिषास्ते’(बृ. उ. ४ । ३ । ६) इत्यादिना आत्मज्योतिषा अवभासितः कार्यकरणसङ्घातः व्यवहरति ; तेन अस्य कर्तृत्वमुपचर्यते, न स्वतः कर्तृत्वम् ; तथा चोक्तम् ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) इति — बुद्ध्याद्युपाधिकृतमेव न स्वतः ; इह तु परमार्थापेक्षया उपाधिनिरपेक्ष उच्यते — दृष्ट्वैव पुण्यं च पापं च न कृत्वेति ; तेन न पूर्वापरव्याघाताशङ्का, यस्मात् निरुपाधिकः परमार्थतो न करोति, न लिप्यते क्रियाफलेन ; तथा च भगवतोक्तम् — ‘अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते’(भ. गी. १३ । ११) इति । तथा सहस्रदानं तु कामप्रविवेकस्य दर्शितत्वात् । तथा ‘स वा एष एतस्मिन्स्वप्ने’ ‘स वा एष एतस्मिन्बुद्धान्ते’ इत्येताभ्यां कण्डिकाभ्याम् असङ्गतैव प्रतिपादिता ; यस्मात् बुद्धान्ते कृतेन स्वप्नान्तं गतः सम्प्रसन्नः असम्बद्धो भवति स्तैन्यादिकार्यादर्शनात् , तस्मात् त्रिष्वपि स्थानेषु स्वतः असङ्ग एव अयम् ; अतः अमृतः स्थानत्रयधर्मविलक्षणः । प्रतियोन्याद्रवति स्वप्नान्तायैव, सम्प्रसादायेत्यर्थः — दर्शनवृत्तेः स्वप्नस्य स्वप्नशब्देन अभिधानदर्शनात् , अन्तशब्देन च विशेषणोपपत्तेः ; ‘एतस्मा अन्ताय धावति’(बृ. उ. ४ । ३ । १९) इति च सुषुप्तं दर्शयिष्यति । यदि पुनः एवमुच्यते — ‘स्वप्नान्ते रत्वा चरित्वा’(बृ. उ. ४ । ३ । ३४) ‘एतावुभावन्तावनुसञ्चरति स्वप्नान्तं च बुद्धान्तं च’(बृ. उ. ४ । ३ । १८) इति दर्शनात् , ‘स्वप्नान्तायैव’ इत्यत्रापि दर्शनवृत्तिरेव स्वप्न उच्यत इति — तथापि न किञ्चिद्दुष्यति ; असङ्गता हि सिषाधयिषिता सिध्यत्येव ; यस्मात् जागरिते दृष्ट्वैव पुण्यं च पापं च रत्वा चरित्वा च स्वप्नान्तमागतः, न जागरितदोषेणानुगतो भवति ॥
एवम् अयं पुरुष आत्मा स्वयं ज्योतिः कार्यकरणविलक्षणः तत्प्रयोजकाभ्यां कामकर्मभ्यां विलक्षणः — यस्मात् असङ्गो ह्ययं पुरुषः, असङ्गत्वात् — इत्ययमर्थः ‘स वा एष एतस्मिन्सम्प्रसादे’(बृ. उ. ४ । ३ । १५) इत्याद्याभिस्तिसृभिः कण्डिकाभिः प्रतिपादितः ; तत्र असङ्गतैव आत्मनः कुतः — यस्मात् , जागरितात् स्वप्नम् , स्वप्नाच्च सम्प्रसादम् , सम्प्रसादाच्च पुनः स्वप्नम् , क्रमेण बुद्धान्तं जागरितम् , बुद्धान्ताच्च पुनः स्वप्नान्तम् — इत्येवम् अनुक्रमसञ्चारेण स्थानत्रयस्य व्यतिरेकः साधितः । पूर्वमप्युपन्यस्तोऽयमर्थः ‘स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि’(बृ. उ. ४ । ३ । ७) इति — तं विस्तरेण प्रतिपाद्य, केवलं दृष्टान्तमात्रमवशिष्टम् , तद्वक्ष्यामीत्यारभ्यते —
तद्यथा महामत्स्य उभे कूले अनुसञ्चरति पूर्वं चापरं चैवमेवायं पुरुष एतावुभावन्तावनुसञ्चरति स्वप्नान्तं च बुद्धान्तं च ॥ १८ ॥
१८तत् तत्र एतस्मिन् , यथा — प्रदर्शितेऽर्थे दृष्टान्तोऽयमुपादीयते — यथा लोके महामत्स्यः, महांश्चासौ मत्स्यश्च, नादेयेन स्रोतसा अहार्य इत्यर्थः, स्रोतश्च विष्टम्भयति, स्वच्छन्दचारी, उभे कूले नद्याः पूर्वं च अपरं च अनुक्रमेण सञ्चरति ; सञ्चरन्नपि कूलद्वयं तन्मध्यवर्तिना उदकस्रोतोवेगेन न परवशी क्रियते — एवमेव अयं पुरुषः एतौ उभौ अन्तौ अनुसञ्चरति ; कौ तौ ? स्वप्नान्तं च बुद्धान्तं च । दृष्टान्तप्रदर्शनफलं तु — मृत्युरूपः कार्यकरणसङ्घातः सह तत्प्रयोजकाभ्यां कामकर्मभ्याम् अनात्मधर्मः ; अयं च आत्मा एतस्माद्विलक्षणः — इति विस्तरतो व्याख्यातम् ॥
अत्र च स्थानत्रयानुसञ्चारेण स्वयञ्ज्योतिष आत्मनः कार्यकरणसङ्घातव्यतिरिक्तस्य कामकर्मभ्यां विविक्तता उक्ता ; स्वतः नायं संसारधर्मवान् , उपाधिनिमित्तमेव तु अस्य संसारित्वम् अविद्याध्यारोपितम् — इत्येष समुदायार्थ उक्तः । तत्र च जाग्रत्स्वप्नसुषुप्तस्थानानां त्रयाणां विप्रकीर्णरूपः उक्तः, न पुञ्जीकृत्य एकत्र दर्शितः — यस्मात् जागरिते ससङ्गः समृत्युः सकार्यकरणसङ्घातः उपलक्ष्यते अविद्यया ; स्वप्ने तु कामसंयुक्तः मृत्युरूपविनिर्मुक्त उपलभ्यते ; सुषुप्ते पुनः सम्प्रसन्नः असङ्गो भवतीति असङ्गतापि दृश्यते ; एकवाक्यतया तु उपसंह्रियमाणं फलं नित्यमुक्तबुद्धशुद्धस्वभावता अस्य न एकत्र पुञ्जीकृत्य प्रदर्शितेति, तत्प्रदर्शनाय कण्डिका आरभ्यते । सुषुप्ते हि एवंरूपता अस्य वक्ष्यमाणा ‘तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभयं रूपम्’(बृ. उ. ४ । ३ । २१) इति ; यस्मात् एवंरूपं विलक्षणम् , सुषुप्तं प्रविविक्षति ; तत् कथमिति आह — दृष्टान्तेन अस्य अर्थस्य प्रकटीभावो भवतीति तत्र दृष्टान्त उपादीयते —
तद्यथास्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ संलयायैव ध्रियत एवमेवायं पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति ॥ १९ ॥
१९तत् यथा — अस्मिन्नाकाशे भौतिके श्येनो वा सुपर्णो वा, सुपर्णशब्देन क्षिप्रः श्येन उच्यते, यथा आकाशेऽस्मिन् विहृत्य विपरिपत्य श्रान्तः नानापरिपतनलक्षणेन कर्मणा परिखिन्नः, संहत्य पक्षौ सङ्गमय्य सम्प्रसार्य पक्षौ, सम्यक् लीयते अस्मिन्निति संलयः, नीडः नीडायैव, ध्रियते स्वात्मनैव धार्यते स्वयमेव ; यथा अयं दृष्टान्तः, एवमेव अयं पुरुषः, एतस्मा एतस्मै, अन्ताय धावति । अन्तशब्दवाच्यस्य विशेषणम् — यत्र यस्मिन् अन्ते सुप्तः, न कञ्चन न कञ्चिदपि, कामं कामयते ; तथा न कञ्चन स्वप्नं पश्यति । ‘न कञ्चन कामम्’ इति स्वप्नबुद्धान्तयोः अविशेषेण सर्वः कामः प्रतिषिध्यते, ‘कञ्चन’ इत्यविशेषिताभिधानात् ; तथा ‘न कञ्चन स्वप्नम्’ इति — जागरितेऽपि यत् दर्शनम् , तदपि स्वप्नं मन्यते श्रुतिः, अत आह — न कञ्चन स्वप्नं पश्यतीति ; तथा च श्रुत्यन्तरम् ‘तस्य त्रय आवसथास्त्रयः स्वप्नाः’(ऐ. उ. १ । ३ । १२) इति । यथा दृष्टान्ते पक्षिणः परिपतनजश्रमापनुत्तये स्वनीडोपसर्पणम् , एवं जाग्रत्स्वप्नयोः कार्यकरणसंयोगजक्रियाफलैः संयुज्यमानस्य, पक्षिणः परिपतनज इव, श्रमो भवति ; तच्छ्रमापनुत्तये स्वात्मनो नीडम् आयतनं सर्वसंसारधर्मविलक्षणं सर्वक्रियाकारकफलायासशून्यं स्वमात्मानं प्रविशति ॥
यदि अस्य अयं स्वभावः — सर्वसंसारधर्मशून्यता, परोपाधिनिमित्तं च अस्य संसारधर्मित्वम् ; यन्निमित्तं च अस्य परोपाधिकृतं संसारधर्मित्वम् , सा च अविद्या — तस्या अविद्यायाः किं स्वाभाविकत्वम् , आहोस्वित् कामकर्मादिवत् आगन्तुकत्वम् ; यदि च आगन्तुकत्वम् , ततो विमोक्ष उपपद्यते ; तस्याश्च आगन्तुकत्वे का उपपत्तिः, कथं वा न आत्मधर्मः अविद्येति — सर्वानर्थबीजभूताया अविद्यायाः सतत्त्वावधारणार्थं परा कण्डिका आरभ्यते —
ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताणिम्ना तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिवपतति यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यतेऽथ यत्र देव इव राजेवाहमेवेदं सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः ॥ २० ॥
२०ताः वै, अस्य शिरःपाण्यादिलक्षणस्य पुरुषस्य, एताः हिता नाम नाड्यः, यथा केशः सहस्रधा भिन्नः, तावता तावत्परिमाणेन अणिम्ना अणुत्वेन तिष्ठन्ति ; ताश्च शुक्लस्य रसस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णाः, एतैः शुक्लत्वादिभिः रसविशेषैः पूर्णा इत्यर्थः ; एते च रसानां वर्णविशेषाः वातपित्तश्लेष्मणामितरेतरसंयोगवैषम्यविशेषात् विचित्रा बहवश्च भवन्ति । तासु एवंविधासु नाडीषु सूक्ष्मासु वालाग्रसहस्रभेदपरिमाणासु शुक्लादिरसपूर्णासु सकलदेहव्यापिनीषु सप्तदशकं लिङ्गं वर्तते ; तदाश्रिताः सर्वा वासना उच्चावचसंसारधर्मानुभवजनिताः ; तत् लिङ्गं वासनाश्रयं सूक्ष्मत्वात् स्वच्छं स्फटिकमणिकल्पं नाडीगतरसोपाधिसंसर्गवशात् धर्माधर्मप्रेरितोद्भूतवृत्तिविशेषं स्त्रीरथहस्त्याद्याकारविशेषैर्वासनाभिः प्रत्यवभासते ; अथ एवं सति, यत्र यस्मिन्काले, केचन शत्रवः अन्ये वा तस्कराः मामागत्य घ्नन्ति — इति मृषैव वासनानिमित्तः प्रत्ययः अविद्याख्यः जायते, तदेतदुच्यते — एनं स्वप्नदृशं घ्नन्तीवेति ; तथा जिनन्तीव वशीकुर्वन्तीव ; न केचन घ्नन्ति, नापि वशीकुर्वन्ति, केवलं तु अविद्यावासनोद्भवनिमित्तं भ्रान्तिमात्रम् ; तथा हस्तीवैनं विच्छाययति विच्छादयति विद्रावयति धावयतीवेत्यर्थः ; गर्तमिव पतति — गर्तं जीर्णकूपादिकमिव पतन्तम् आत्मानमुपलक्षयति ; तादृशी हि अस्य मृषा वासना उद्भवति अत्यन्तनिकृष्टा अधर्मोद्भासितान्तःकरणवृत्त्याश्रया, दुःखरूपत्वात् । किं बहुना, यदेव जाग्रत् भयं पश्यति हस्त्यादिलक्षणम् , तदेव भयरूपम् अत्र अस्मिन्स्वप्ने विनैव हस्त्यादिरूपं भयम् अविद्यावासनया मृषैव उद्भूतया मन्यते । अथ पुनः यत्र अविद्या अपकृष्यमाणा विद्या चोत्कृष्यमाणा — किंविषया किंलक्षणा चेत्युच्यते — अथ पुनः यत्र यस्मिन्काले, देव इव स्वयं भवति, देवताविषया विद्या यदा उद्भूता जागरितकाले, तदा उद्भूतया वासनया देवमिव आत्मानं मन्यते ; स्वप्नेऽपि तदुच्यते — देव इव, राजेव राज्यस्थः अभिषिक्तः, स्वप्नेऽपि राजा अहमिति मन्यते राजवासनावासितः । एवम् अत्यन्तप्रक्षीयमाणा अविद्या उद्भूता च विद्या सर्वात्मविषया यदा, तदा स्वप्नेऽपि तद्भावभावितः — अहमेवेदं सर्वोऽस्मीति मन्यते ; स यः सर्वात्मभावः, सोऽस्य आत्मनः परमो लोकः परम आत्मभावः स्वाभाविकः । यत्तु सर्वात्मभावादर्वाक् वालाग्रमात्रमपि अन्यत्वेन दृश्यते — नाहमस्मीति, तदवस्था अविद्या ; तया अविद्यया ये प्रत्युपस्थापिताः अनात्मभावा लोकाः, ते अपरमाः स्थावरान्ताः ; तान् संव्यवहारविषयान् लोकानपेक्ष्य अयं सर्वात्मभावः समस्तोऽनन्तरोऽबाह्यः, सोऽस्य परमो लोकः । तस्मात् अपकृष्यमाणायाम् अविद्ययाम् , विद्यायां च काष्ठं गतायाम् , सर्वात्मभावो मोक्षः, यथा स्वयञ्ज्योतिष्ट्वं स्वप्ने प्रत्यक्षत उपलभ्यते तद्वत् , विद्याफलम् उपलभ्यत इत्यर्थः । तथा अविद्यायामप्युत्कृष्यमाणायाम् , तिरोधीयमानायां च विद्यायाम् , अविद्यायाः फलं प्रत्यक्षत एवोपलभ्यते — ‘अथ यत्रैनं घ्नन्तीव जिनन्तीव’ इति । ते एते विद्याविद्याकार्ये, सर्वात्मभावः परिच्छिन्नात्मभावश्च ; विद्यया शुद्धया सर्वात्मा भवति ; अविद्यया च असर्वो भवति ; अन्यतः कुतश्चित्प्रविभक्तो भवति ; यतः प्रविभक्तो भवति, तेन विरुध्यते ; विरुद्धत्वात् हन्यते जीयते विच्छाद्यते च ; असर्वविषयत्वे च भिन्नत्वात् एतद्भवति ; समस्तस्तु सन् कुतो भिद्यते, येन विरुध्येत ; विरोधाभावे, केन हन्यते जीयते विच्छाद्यते च । अत इदम् अविद्यायाः सतत्त्वमुक्तं भवति — सर्वात्मानं सन्तम् असर्वात्मत्वेन ग्राहयति, आत्मनः अन्यत् वस्त्वन्तरम् अविद्यमानं प्रत्युपस्थापयति, आत्मानम् असर्वमापादयति ; ततस्तद्विषयः कामो भवति ; यतो भिद्यते कामतः, क्रियामुपादत्ते, ततः फलम् — तदेतदुक्तम् । वक्ष्यमाणं च ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’(बृ. उ. २ । ४ । १४) , इत्यादि । इदम् अविद्यायाः सतत्त्वं सह कार्येण प्रदर्शितम् ; विद्यायाश्च कार्यं सर्वात्मभावः प्रदर्शितः अविद्याया विपर्ययेण । सा चाविद्या न आत्मनः स्वाभाविको धर्मः — यस्मात् विद्यायामुत्कृष्यमाणायां स्वयमपचीयमाना सती, काष्ठां गतायां विद्यायां परिनिष्ठिते सर्वात्मभावे सर्वात्मना निवर्तते, रज्ज्वामिव सर्पज्ञानं रज्जुनिश्चये ; तच्चोक्तम् — ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’(बृ. उ. २ । ४ । १४) इत्यादि ; तस्मात् न आत्मधर्मः अविद्या ; न हि स्वाभाविकस्योच्छित्तिः कदाचिदप्युपपद्यते, सवितुरिव औष्ण्यप्रकाशयोः । तस्मात् तस्या मोक्ष उपपद्यते ॥
तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभयं रूपम् । तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमेवमेवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरं तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरम् ॥ २१ ॥
२१इदानीं योऽसौ सर्वात्मभावो मोक्षः विद्याफलं क्रियाकारकफलशून्यम् , स प्रत्यक्षतो निर्दिश्यते, यत्र अविद्याकामकर्माणि न सन्ति । तत् एतत् प्रस्तुतम् — ‘यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति’(बृ. उ. ४ । ३ । १९) इति, तदेतत् वै अस्य रूपम् — यः सर्वात्मभावः ‘सोऽस्य परमो लोकः’(बृ. उ. ४ । ३ । २०) इत्युक्तः — तत् ; अतिच्छन्दा अतिच्छन्दमित्यर्थः, रूपपरत्वात् ; छन्दः कामः, अतिगतः छन्दः यस्माद्रूपात् तत् अतिच्छन्दं रूपम् ; अन्योऽसौ सान्तः छन्दःशब्दः गायत्र्यादिच्छन्दोवाची ; अयं तु कामवचनः, अतः स्वरान्त एव ; तथापि ‘अतिच्छन्दा’ इति पाठः स्वाध्यायधर्मो द्रष्टव्यः ; अस्ति च लोके कामवचनप्रयुक्तः छन्दशब्दः ‘स्वच्छन्दः’ ‘परच्छन्दः’ इत्यादौ ; अतः ‘अतिच्छन्दम्’ इत्येवम् उपनेयम् , कामवर्जितमेतद्रूपमित्यस्मिन् अर्थे तथा अपहतपाप्म — पाप्मशब्देन धर्माधर्मावुच्येते, ‘पाप्मभिः संसृज्यते’‘पाप्मनो विजहाति’(बृ. उ. ४ । ३ । ८) इत्युक्तत्वात् ; अपहतपाप्म धर्माधर्मवर्जितमित्येतत् । किञ्च, अभयम् — भयं हि नाम अविद्याकार्यम् , ‘अविद्यया भयं मन्यते’(बृ. उ. ४ । ३ । २०) इति ह्युक्तम् ; तत् कार्यद्वारेण कारणप्रतिषेधोऽयम् ; अभयं रूपमिति अविद्यावर्जितमित्येतत् । यदेतत् विद्याफलं सर्वात्मभावः, तदेतत् अतिच्छन्दापहतपाप्माभयं रूपम् — सर्वसंसारधर्मवर्जितम् , अतः अभयं रूपम् एतत् । इदं च पूर्वमेवोपन्यस्तम् अतीतानन्तरब्राह्मणसमाप्तौ ‘अभयं वै जनक प्राप्तोऽसि’(बृ. उ. ४ । २ । ४) इत्यागमतः ; इह तु तर्कतः प्रपञ्चितं दर्शितागमार्थप्रत्ययदार्ढ्याय । अयमात्मा स्वयं चैतन्यज्योतिःस्वभावः सर्वं स्वेन चैतन्यज्योतिषा अवभासयति — स यत्तत्र किञ्चित्पश्यति, रमते, चरति, जानाति चेत्युक्तम् ; स्थितं चैतत् न्यायतः नित्यं स्वरूपं चैतन्यज्योतिष्ट्वमात्मनः । सः यद्यात्मा अत्र अविनष्टः स्वेनैव रूपेण वर्तते, कस्मात् अयम् — अहमस्मीत्यात्मानं वा, बहिर्वा — इमानि भूतानीति, जाग्रत्स्वप्नयोरिव, न जानाति — इत्यत्र उच्यते ; शृणु अत्र अज्ञानहेतुम् ; एकत्वमेव अज्ञानहेतुः ; तत्कथमिति उच्यते ; दृष्टान्तेन हि प्रत्यक्षी भवति विवक्षितोऽर्थ इत्याह — तत् तत्र यथा लोके प्रियया इष्टया स्त्रिया सम्परिष्वक्तः सम्यक्परिष्वक्तः कामयन्त्या कामुकः सन् , न बाह्यमात्मनः किञ्चन किञ्चिदपि वेद — मत्तोऽन्यद्वस्त्विति, न च आन्तरम् — अयमहमस्मि सुखी दुःखी वेति ; अपरिष्वक्तस्तु तया प्रविभक्तो जानाति सर्वमेव बाह्यम् आभ्यान्तरं च ; परिष्वङ्गोत्तरकालं तु एकत्वापत्तेः न जानाति — एवमेव, यथा दृष्टान्तः अयं पुरुषः क्षेत्रज्ञः भूतमात्रासंसर्गतः सैन्धवखिल्यवत् प्रविभक्तः, जलादौ चन्द्रादिप्रतिबिम्बवत् कार्यकरण इह प्रविष्टः, सोऽयं पुरुषः, प्राज्ञेन परमार्थेन स्वाभाविकेन स्वेन आत्मना परेण ज्योतिषा, सम्परिष्वक्तः सम्यक्परिष्वक्तः एकीभूतः निरन्तरः सर्वात्मा, न बाह्यं किञ्चन वस्त्वन्तरम् , नापि आन्तरम् आत्मनि — अयमहमस्मि सुखी दुःखी वेति वेद । तत्र चैतन्यज्योतिःस्वभावत्वे कस्मादिह न जानातीति यदप्राक्षीः, तत्र अयं हेतुः मयोक्तः एकत्वम् , यथा स्त्रीपुंसयोः सम्परिष्वक्तयोः । तत्र अर्थात् नानात्वं विशेषविज्ञानहेतुरित्युक्तं भवति ; नानात्वे च कारणम् — आत्मनो वस्त्वन्तरस्य प्रत्युपस्थापिका अविद्येत्युक्तम् । तत्र च अविद्याया यदा प्रविविक्तो भवति, तदा सर्वेण एकत्वमेव अस्य भवति ; ततश्च ज्ञानज्ञेयादिकारकविभागे असति, कुतो विशेषविज्ञानप्रादुर्भावः कामो वा सम्भवति स्वाभाविके स्वरूपस्थ आत्मज्योतिषि । यस्मात् एवं सर्वैकत्वमेव अस्य रूपम् , अतः तत् वै अस्य आत्मनः स्वयञ्ज्योतिःस्वभावस्य एतत् रूपम् आप्तकामम् — यस्मात् समस्तमेतत् तस्मात् आप्ताः कामा अस्मिन् रूपे तदिदम् आप्तकामम् ; यस्य हि अन्यत्वेन प्रविभक्तः कामः, तत् अनाप्तकामं भवति, यथा जागरितावस्थायां देवदत्तादिरूपम् ; न त्विदं तथा कुतश्चित्प्रविभज्यते ; अतः तत् आप्तकामं भवति । किम् अन्यस्मात् वस्त्वन्तरात् न प्रविभज्यते, आहोस्वित् आत्मैव तत् वस्त्वन्तरम् , अत आह — नान्यदस्ति आत्मनः ; कथम् ? यत आत्मकामम् — आत्मैव कामाः यस्मिन् रूपे, अन्यत्र प्रविभक्ता इव अन्यत्वेन काम्यमानाः यथा जाग्रत्स्वप्नयोः, तस्य आत्मैव अन्यत्वप्रत्युपस्थापकहेतोरविद्याया अभावात् — आत्मकामम् ; अत एव अकाममेतद्रूपम् काम्यविषयाभावात् ; शोकान्तरम् शोकच्छिद्रं शोकशून्यमित्येतत् , शोकमध्यमिति वा, सर्वथापि अशोकमेतद्रूपम् शोकवर्जितमित्यर्थः ॥
अत्र पितापिता भवति मातामाता लोका अलोका देवा अदेवा वेदा अवेदाः । अत्र स्तेनोऽस्तेनो भवति भ्रूणहाभ्रूणहा चाण्डालोऽचाण्डालः पौल्कसोऽपौल्कसः श्रमणोऽश्रमणस्तापसोऽतापसोऽनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य भवति ॥ २२ ॥
२२प्रकृतः स्वयञ्ज्योतिरात्मा अविद्याकामकर्मविनिर्मुक्त इत्युक्तम् , असङ्गत्वादात्मनः, आगन्तुकत्वाच्च तेषाम् । तत्र एवमाशङ्का जायते ; चैतन्यस्वभावत्वे सत्यपि एकीभावात् न जानाति स्त्रीपुंसयोरिव सम्परिष्वक्तयोरित्युक्तम् ; तत्र प्रासङ्गिकम् एतत् उक्तम् — कामकर्मादिवत् स्वयञ्ज्योतिष्ट्वमपि अस्य आत्मना न स्वभावः, यस्मात् सम्प्रसादे नोपलभ्यते — इत्याशङ्कायां प्राप्तायाम् , तन्निराकरणाय, स्त्रीपुंसयोर्दृष्टान्तोपादानेन, विद्यमानस्यैव स्वयञ्ज्योतिष्ट्वस्य सुषुप्ते अग्रहणम् एकीभावाद्धेतोः, न तु कामकर्मादिवत् आगन्तुकम् — इत्येतत् प्रासङ्गिकमभिधाय, यत्प्रकृतं तदेवानुप्रवर्तयति । अत्र च एतत् प्रकृतम् — अविद्याकामकर्मविनिर्मुक्तमेव तद्रूपम् , यत् सुषुप्ते आत्मनो गृह्यते प्रत्यक्षत इति ; तदेतत् यथाभूतमेवाभिहितम् — सर्वसम्बन्धातीतम् एतद्रूपमिति ; यस्मात् अत्र एतस्मिन् सुषुप्तस्थाने अतिच्छन्दापहतपाप्माभयम् एतद्रूपम् , तस्मात् अत्र पिता जनकः — तस्य च जनयितृत्वात् यत् पितृत्वं पुत्रं प्रति, तत् कर्मनिमित्तम् ; तेन च कर्मणा अयमसम्बद्धः अस्मिन्काले ; तस्मात् पिता पुत्रसम्बन्धनिमित्तात्कर्मणो विनिर्मुक्तत्वात् पितापि अपिता भवति ; तथा पुत्रोऽपि पितुरपुत्रो भवतीति सामर्थ्याद्गम्यते ; उभयोर्हि सम्बन्धनिमित्तं कर्म, तत् अयम् अतिक्रान्तो वर्तते ; ‘अपहतपाप्म’(बृ. उ. ४ । ३ । २१) इति हि उक्तम् । तथा माता अमाता ; लोकाः कर्मणा जेतव्याः जिताश्च — तत्कर्मसम्बन्धाभावात् लोकाः अलोकाः ; तथा देवाः कर्माङ्गभूताः — तत्कर्मसम्बन्धात्ययात् देवा अदेवाः ; तथा वेदाः — साध्यसाधनसम्बन्धाभिधायकाः, मन्त्रलक्षणाश्च अभिधायकत्वेन कर्माङ्गभूताः, अधीताः अध्येतव्याश्च — कर्मनिमित्तमेव सम्बध्यन्ते पुरुषेण ; तत्कर्मातिक्रमणात् एतस्मिन्काले वेदा अपि अवेदाः सम्पद्यन्ते । न केवलं शुभकर्मसम्बन्धातीतः, किं तर्हि, अशुभैरपि अत्यन्तघोरैः कर्मभिः असम्बद्ध एवायं वर्तते इत्येतमर्थमाह — अत्र स्तेनः ब्राह्मणसुवर्णहर्ता, भ्रूणघ्ना सह पाठादवगम्यते — सः तेन घोरेण कर्मणा एतस्मिन्काले विनिर्मुक्तो भवति, येन अयं कर्मणा महापातकी स्तेन उच्यते । तथा भ्रूणहा अभ्रूणहा । तथा चाण्डालः न केवलं प्रत्युत्पन्नेनैव कर्मणा विनिर्मुक्तः, किं तर्हि सहजेनापि अत्यन्तनिकृष्टजातिप्रापकेणापि विनिर्मुक्त एव अयम् ; चाण्डालो नाम शूद्रेण ब्राह्मण्यामुत्पन्नः, चण्डाल एव चाण्डालः ; सः जातिनिमित्तेन कर्मणा असम्बद्धत्वात् अचाण्डालो भवति । पौल्कसः, पुल्कस एव पौल्कसः, शूद्रेणैव क्षत्त्रियायामुत्पन्नः ; सोऽपि अपुल्कसो भवति । तथा आश्रमलक्षणैश्च कर्मभिः असम्बद्धो भवतीत्युच्यते ; श्रमणः परिव्राट् — यत्कर्मनिमित्तो भवति, सः तेन विनिर्मुक्तत्वात् अश्रमणः ; तथा तापसः वानप्रस्थः अतापसः ; सर्वेषां वर्णाश्रमादीनामुपलक्षणार्थम् उभयोर्ग्रहणम् । किं बहुना ? अनन्वागतम् — न अन्वागतम् अनन्वागतम् असम्बद्धमित्येतत् , पुण्येन शास्त्रविहितेन कर्मणा, तथा पापेन विहिताकरणप्रतिषिद्धक्रियालक्षणेन ; रूपपरत्वात् नपुंसकलिङ्गम् ; ‘अभयं रूपम्’(बृ. उ. ४ । ३ । २१) इति हि अनुवर्तते । किं पुनः असम्बद्धत्वे कारणमिति तद्धेतुरुच्यते — तीर्णः अतिक्रान्तः, हि यस्मात् , एवंरूपः, तदा तस्मिन्काले, सर्वान् शोकान् — शोकाः कामाः ; इष्टविषयप्रार्थना हि तद्विषयवियोगे शोकत्वमापद्यते ; इष्टं हि विषयम् अप्राप्तं वियुक्तं च उद्दिश्य चिन्तयानस्तद्गुणान् सन्तप्यते पुरुषः ; अतः शोको रतिः काम इति पर्यायाः । यस्मात् सर्वकामातीतो हि अत्र अयं भवति — ‘न कञ्चन कामं कामयते’(बृ. उ. ४ । ३ । १९) ‘अतिच्छन्दा’(बृ. उ. ४ । ३ । २०) इति ह्युक्तम् , तत्प्रक्रियापतितोऽयं शोकशब्दः कामवचन एव भवितुमर्हति ; कामश्च कर्महेतुः ; वक्ष्यति हि ‘स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते’(बृ. उ. ४ । ४ । ५) इति — अतः सर्वकामातितीर्णत्वात् युक्तमुक्तम् ‘अनन्वागतं पुण्येन’ इत्यादि । हृदयस्य — हृदयमिति पुण्डरीकाकारो मांसपिण्डः, तत्स्थम् अन्तःकरणं बुद्धिः हृदयमित्युच्यते, तात्स्थ्यात् , मञ्चक्रोशनवत् , हृदयस्य बुद्धेः ये शोकाः ; बुद्धिसंश्रया हि ते, ‘कामः सङ्कल्पो विचिकित्सेत्यादि — सर्वं मन एव’(बृ. उ. १ । ५ । ३) इत्युक्तत्वात् ; वक्ष्यति च ‘कामा येऽस्य हृदि श्रिताः’(बृ. उ. ४ । ४ । ७) इति ; आत्मसंश्रयभ्रान्त्यपनोदाय हि इदं वचनम् ‘हृदि श्रिताः’ ‘हृदयस्य शोकाः’ इति च । हृदयकरणसम्बन्धातीतश्च अयम् अस्मिन्काले ‘अतिक्रामति मृत्यो रूपाणि’(बृ. उ. ४ । ३ । ७) इति हि उक्तम् ; हृदयकरणसम्बन्धातीतत्वात् , तत्संश्रयकामसम्बन्धातीतो भवतीति युक्ततरं वचनम् ॥
ये तु वादिनः — हृदि श्रिताः कामा वासनाश्च हृदयसम्बन्धिनमात्मानमुपसृप्य उपश्लिष्यन्ति, हृदयवियोगेऽपि च अत्मनि अवतिष्ठन्ते पुटतैलस्थ इव पुष्पादिगन्धः — इत्याचक्षते ; तेषाम् ‘कामः सङ्कल्पः’(बृ. उ. १ । ५ । ३) ‘हृदये ह्येव रूपाणि’(बृ. उ. ३ । ९ । २०) ‘हृदयस्य शोकाः’ इत्यादीनां वचनानामानर्थक्यमेव । हृदयकरणोत्पाद्यत्वादिति चेत् , न, ‘हृदि श्रिताः’(बृ. उ. ४ । ४ । ७)‘हृदि श्रिताः’(बृ. उ. ४ । ४ । ७)‘हृदि श्रिताः’(बृ. उ. ४ । ४ । ७) इति विशेषणात् ; न हि हृदयस्य करणमात्रत्वे ‘हृदि श्रिताः’ इति वचनं समञ्जसम् , ‘हृदये ह्येव रूपाणि प्रतिष्ठितानि’(बृ. उ. ३ । ९ । २०) इति च । आत्मविशुद्धेश्च विवक्षितत्वात् हृच्छ्रयणवचनं यथार्थमेव युक्तम् ; ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) इति च श्रुतेः अन्यार्थासम्भवात् । ‘कामा येऽस्य हृदि श्रिताः’ इति विशेषणात् आत्माश्रया अपि सन्तीति चेत् , न, अनाश्रितापेक्षत्वात् । न अत्र आश्रयान्तरमपेक्ष्य ‘ये हृदि’ इति विशेषणम् , किं तर्हि ये हृदि अनाश्रिताः कामाः तानपेक्ष्य विशेषणम् ; ये तु अप्ररूढा भविष्यन्तः भूताश्च प्रतिपक्षतो निवृत्ताः, ते नैव हृदि श्रिताः ; सम्भाव्यन्ते च ते ; अतो युक्तं तानपेक्ष्य विशेषणम् — ये प्ररूढा वर्तमाना विषये ते सर्वे प्रमुच्यन्ते इति । तथापि विशेषणानर्थक्यमिति चेत् , न, तेषु यत्नाधिक्यात् , हेयार्थत्वात् ; इतरथा अश्रुतमनिष्टं च कल्पितं स्यात् आत्माश्रयत्वं कामानाम् । ‘न कञ्चन कामं कामयते’(बृ. उ. ४ । ३ । १९) इति प्राप्तप्रतिषेधात् आत्माश्रयत्वं कामानां श्रुतमेवेति चेत् , न, ‘सधीः स्वप्नो भूत्वा’(बृ. उ. ४ । ३ । ७) इति परनिमित्तत्वात् कामाश्रयत्वप्राप्तेः ; असङ्गवचनाच्च ; न हि कामास्रयत्वे असङ्गवचनमुपपद्यते ; सङ्गश्च काम इत्यवोचाम । ‘आत्मकामः’(बृ. उ. ४ । ३ । २१) इति श्रुतेः आत्मविषयोऽस्य कामो भवतीति चेत् , न, व्यतिरिक्तकामाभावार्थत्वात् तस्याः । वैशेषिकादितन्त्रन्यायोपपन्नम् आत्मनः कामाद्याश्रयत्वमिति चेत् , न, ‘हृदि श्रिताः’ इत्यादिविशेषश्रुतिविरोधात् अनपेक्ष्याः ताः वैशेषिकादितन्त्रोपपत्तयः ; श्रुतिविरोधे न्यायाभासत्वोपगमात् । स्वयञ्ज्योतिष्ट्वबाधनाच्च ; कामादीनां च स्वप्ने केवलदृशिमात्रविषयत्वात् स्वयञ्ज्योतिष्ट्वं सिद्धं स्थितं च बाध्येत — आत्मसमवायित्वे दृश्यत्वानुपपत्तेः, चक्षुर्गतविशेषवत् ; द्रष्टुर्हि दृश्यम् अर्थान्तरभूतमिति, द्रष्टुः स्वयञ्ज्योतिष्ट्वं सिद्धम् ; तत् बाधितं स्यात् , यदि कामाद्याश्रयत्वं परिकल्प्येत । सर्वशास्त्रार्थविप्रतिषेधाच्च — परस्य एकदेशकल्पनायां कामाद्याश्रयत्वे च सर्वशास्त्रार्थजातं कुप्येत ; एतच्च विस्तरेण चतुर्थेऽवोचाम ; महता हि प्रयत्नेन कामाद्याश्रयत्वकल्पनाः प्रतिषेद्धव्याः, आत्मनः परेणैकत्वशास्त्रार्थसिद्धये ; तत्कल्पनायां पुनः क्रियमाणायां शास्त्रार्थ एव बाधितः स्यात् । यथा इच्छादीनामात्मधर्मत्वं कल्पयन्तः वैशेषिका नैयायिकाश्च उपनिषच्छास्त्रार्थेन न सङ्गच्छन्ते, तथा इयमपि कल्पना उपनिषच्छास्त्रार्थबाधनात् न आदरणीया ॥
स्त्रीपुंसयोरिव एकत्वात् न पश्यतीत्युक्तम् , स्वयञ्ज्योतिरिति च ; स्वयञ्ज्योतिष्ट्वं नाम चैतन्यात्मस्वभावता ; यदि हि अग्न्युष्णत्वादिवत् चैतन्यात्मस्वभाव आत्मा, सः कथम् एकत्वेऽपि हि स्वभावं जह्यात् , न जानीयात् ? अथ न जहाति, कथमिह सुषुप्ते न पश्यति ? विप्रतिषिद्धमेतत् — चैतन्यमात्मस्वभावः, न जानाति चेति । न विप्रतिषिद्धम् , उभयमप्येतत् उपपद्यत एव ; कथम् —
यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् । न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् ॥ २३ ॥
२३यद्वै सुषुप्ते तत् न पश्यति, पश्यन्वै तत् तत्र पश्यन्नेव न पश्यति । यत् तत्र सुषुप्ते न पश्यतीति जानीषे, तत् न तथा गृह्णीयाः ; कस्मात् ? पश्यन्वै भवति तत्र । ननु एवं न पश्यतीति सुषुप्ते जानीमः, यतः न चक्षुर्वा मनो वा दर्शने करणं व्यापृतमस्ति ; व्यापृतेषु हि दर्शनश्रवणादिषु, पश्यतीति व्यवहारो भवति, शृणोतीति वा ; न च व्यापृतानि करणानि पश्यामः ; तस्मात् न पश्यत्येव अयम् । न हि ; किं तर्हि पश्यन्नेव भवति ; कथम् ? न — हि यस्मात् द्रष्टुः दृष्टिकर्तुः या दृष्टिः, तस्या दृष्टेः विपरिलोपः विनाशः, सः न विद्यते । यथा अग्नेरौष्ण्यं यावदग्निभावि, तथा अयं च आत्मा द्रष्टा अविनाशी, अतः अविनाशित्वात् आत्मनो दृष्टिरपि अविनाशिनी, यावद्द्रष्टृभाविनी हि सा । ननु विप्रतिषिद्धमिदमभिधीयते — द्रष्टुः सा दृष्टिः न विपरिलुप्यते इति च ; दृष्टिश्च द्रष्ट्रा क्रियते ; दृष्टिकर्तृत्वात् हि द्रष्टेत्युच्यते ; क्रियमाणा च द्रष्ट्रा दृष्टिः न विपरिलुप्यत इति च अशक्यं वक्तुम् ; ननु न विपरिलुप्यते इति वचनात् अविनाशिनी स्यात् , न, वचनस्य ज्ञापकत्वात् ; न हि न्यायप्राप्तो विनाशः कृतकस्य वचनशतेनापि वारयितुं शक्यते, वचनस्य यथाप्राप्तार्थज्ञापकत्वात् । नैष दोषः, आदित्यादिप्रकाशकत्ववत् दर्शनोपपत्तेः ; यथा आदित्यादयः नित्यप्रकाशस्वभावा एव सन्तः स्वाभाविकेन नित्येनैव प्रकाशेन प्रकाशयन्ति ; न हि अप्रकाशात्मानः सन्तः प्रकाशं कुर्वन्तः प्रकाशयन्तीत्युच्यन्ते, किं तर्हि स्वभावेनैव नित्येन प्रकाशेन — तथा अयमपि आत्मा अविपरिलुप्तस्वभावया दृष्ट्या नित्यया द्रष्टेत्युच्यते । गौणं तर्हि द्रष्टृत्वम् , न, एवमेव मुख्यत्वोपपत्तेः ; यदि हि अन्यथापि आत्मनो द्रष्टृत्वं दृष्टम् , तदा अस्य द्रष्टृत्वस्य गौणत्वम् ; न तु आत्मनः अन्यो दर्शनप्रकारोऽस्ति ; तत् एवमेव मुख्यं द्रष्टृत्वमुपपद्यते, नान्यथा — यथा आदित्यादीनां प्रकाशयितृत्वं नित्येनैव स्वाभाविकेन अक्रियमाणेन प्रकाशेन, तदेव च प्रकाशयितृत्वं मुख्यम् , प्रकाशयितृत्वान्तरानुपपत्तेः । तस्मात् न द्रष्टुः दृष्टिः विपरिलुप्यते इति न विप्रतिषेधगन्धोऽप्यस्ति । ननु अनित्यक्रियाकर्तृविषय एव तृच्प्रत्ययान्तस्य शब्दस्य प्रयोगो दृष्टः — यथा छेत्ता भेत्ता गन्तेति, तथा द्रष्टेत्यत्रापीति चेत् — न, प्रकाशयितेति दृष्टत्वात् । भवतु प्रकाशकेषु, अन्यथा असम्भवात् , न त्वात्मनीति चेत् — न, दृष्ट्यविपरिलोपश्रुतेः । पश्यामि — न पश्यामि — इत्यनुभवदर्शनात् नेति चेत् , न, करणव्यापारविशेषापेक्षत्वात् ; उद्धृतचक्षुषां च स्वप्ने आत्मदृष्टेरविपरिलोपदर्शनात् । तस्मात् अविपरिलुप्तस्वभावैव आत्मनो दृष्टिः ; अतः तया अविपरिलुप्तया दृष्ट्या स्वयञ्ज्योतिःस्वभावया पश्यन्नेव भवति सुषुप्ते ॥
कथं तर्हि न पश्यतीति उच्यते — न तु तदस्ति ; किं तत् ? द्वितीयं विषयभूतम् ; किंविशिष्टम् ? ततः द्रष्टुः अन्यत् अन्यत्वेन विभक्तम् यत्पश्येत् यदुपलभेत । यद्धि तद्विशेषदर्शनकारणमन्तःकरणम् चक्षू रूपं च, तत् अविद्यया अन्यत्वेन प्रत्युपस्थापितमासीत् ; तत् एतस्मिन्काले एकीभूतम् , आत्मनः परेण परिष्वङ्गात् ; द्रष्टुर्हि परिच्छिन्नस्य विशेषदर्शनाय करणम् अन्यत्वेन व्यवतिष्ठते ; अयं तु स्वेन सर्वात्मना सम्परिष्वक्तः — स्वेन परेण प्राज्ञेन आत्मना, प्रिययेव पुरुषः ; तेन न पृथक्त्वेन व्यवस्थितानि करणानि, विषयाश्च ; तदभावात् विशेषदर्शनं नास्ति ; करणादिकृतं हि तत् , न आत्मकृतम् ; आत्मकृतमिव प्रत्यवभासते । तस्मात् तत्कृता इयं भ्रान्तिः — आत्मनो दृष्टिः परिलुप्यते इति ॥
यद्वै तन्न जिघ्रति जिघ्रन्वै तन्न जिघ्रति न हि घ्रातुर्घ्रातेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यज्जिघ्रेत् ॥ २४ ॥
२४यद्वै तन्न रसयते रसयन्वै तन्न रसयते न हि रसयितू रसयतेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्रसयेत् ॥ २५ ॥
२५यद्वै तन्न वदति वदन्वै तन्न वदति न हि वक्तुर्वक्तेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत् ॥ २६ ॥
२६यद्वै तन्न शृणोति शृण्वन्वै तन्न शृणोति न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यच्छृणुयात् ॥ २७ ॥
२७यद्वै तन्न मनुते मन्वानो वै तन्न मनुते न हि मन्तुर्मतेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यन्मन्वीत ॥ २८ ॥
२८यद्वै तन्न स्पृशति स्पृशन्वै तन्न स्पृशति न हि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्स्पृशेत् ॥ २९ ॥
२९यद्वै तन्न विजानाति विजानन्वै तन्न विजानाति न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् ॥ ३० ॥
३०समानमन्यत् — यद्वै तन्न जिघ्रति, यद्वै तन्न रसयते, यद्वै तन्न वदति, यद्वै तन्न शृणोति, यद्वै तन्न मनुते, यद्वै तन्न स्पृशति, यद्वै तन्न विजानातीति । मननविज्ञानयोः दृष्ट्यादिसहकारित्वेऽपि सति चक्षुरादिनिरपेक्षो भूतभविष्यद्वर्तमानविषयव्यापारो विद्यत इति पृथग्ग्रहणम् ॥
किं पुनः दृष्ट्यादीनाम् अग्नेरोष्ण्यप्रकाशनज्वलनादिवत् धर्मभेदः, आहोस्वित् अभिन्नस्यैव धर्मस्य परोपाधिनिमित्तं धर्मान्यत्वमिति । अत्र केचिद्व्याचक्षते — आत्मवस्तुनः स्वत एव एकत्वं नानात्वं च — यथा गोः गोद्रव्यतया एकत्वम् , सास्नादीनां धर्माणां परस्परतो भेदः ; यथा स्थूलेषु एकत्वं नानात्वं च, तथा निरवयवेषु अमूर्तवस्तुषु एकत्वं नानात्वं च अनुमेयम् ; सर्वत्र अव्यभिचारदर्शनात् आत्मनोऽपि तद्वदेव दृष्ट्यादीनां परस्परं नानात्वम् , आत्मना चैकत्वमिति । न, अन्यपरत्वात् — न हि दृष्ट्यादिधर्मभेदप्रदर्शनपरम् इदं वाक्यम् ‘यद्वै तत्’ इत्यादि ; किं तर्हि, यदि चैतन्यात्मज्योतिः, कथं न जानाति सुषुप्ते ? नूनम् अतो न चैतन्यात्मज्योतिः इत्येवमाशङ्काप्राप्तौ, तन्निराकरणाय एतदारब्धम् ‘यद्वै तत्’ इत्यादि । यत् अस्य जाग्रत्स्वप्नयोः चक्षुराद्यनेकोपाधिद्वारं चैतन्यात्मज्योतिःस्वाभाव्यम् उपलक्षितं दृष्ट्याद्यभिधेयव्यवहारापन्नम् , सुषुप्ते उपाधिभेदव्यापारनिवृत्तौ अनुद्भास्यमानत्वात् अनुपलक्ष्यमाणस्वभावमपि उपाधिभेदेन भिन्नमिव — यथाप्राप्तानुवादेनैव विद्यमानत्वमुच्यते ; तत्र दृष्ट्यादिधर्मभेदकल्पना विवक्षितार्थानभिज्ञतया ; सैन्धवघनवत् प्रज्ञानैकरसघनश्रुतिविरोधाच्च ; ‘विज्ञानमानन्दम्’(बृ. उ. ३ । ९ । २८) ‘सत्यं ज्ञानम्’(तै. उ. २ । १ । १) ‘प्रज्ञानं ब्रह्म’(ऐ. उ. ३ । १ । ३) इत्यादिश्रुतिभ्यश्च । शब्दप्रवृत्तेश्च — लौकिकी च शब्दप्रवृत्तिः — ‘चक्षुषा रूपं विजानाति’ ‘श्रोत्रेण शब्दं विजानाति’ ‘रसनेनान्नस्य रसं विजानाति’ इति च सर्वत्रैव च दृष्ट्यादिशब्दाभिधेयानां विज्ञानशब्दवाच्यतामेव दर्शयति ; शब्दप्रवृत्तिश्च प्रमाणम् । दृष्टान्तोपपत्तेश्च — यथा हि लोके स्वच्छस्वाभाव्ययुक्तः स्फटिकः तन्निमित्तमेव केवलं हरितनीललोहिताद्युपाधिभेदसंयोगात् तदाकारत्वं भजते, न च स्वच्छस्वाभाव्यव्यतिरेकेण हरितनीललोहितादिलक्षणा धर्मभेदाः स्फटिकस्य कल्पयितुं शक्यन्ते — तथा चक्षुराद्युपाधिभेदसंयोगात् प्रज्ञानघनस्वभावस्यैव आत्मज्योतिषः दृष्ट्यादिशक्तिभेद उपलक्ष्यते, प्रज्ञानघनस्य स्वच्छस्वाभाव्यात् स्फटिकस्वच्छस्वाभाव्यवत् । स्वयञ्ज्योतिष्ट्वाच्च — यथा च आदित्यज्योतिः अवभास्यभेदैः संयुज्यमानं हरितनीलपीतलोहितादिभेदैरविभाज्यं तदाकाराभासं भवति, तथा च कृत्स्नं जगत् अवभासयत् चक्षुरादीनि च तदाकारं भवति ; तथा चोक्तम् — ‘आत्मनैवायं ज्योतिषास्ते’(बृ. उ. ४ । ३ । ६) इत्यादि । न च निरवयवेषु अनेकात्मता शक्यते कल्पयितुम् , दृष्टान्ताभावात् । यदपि आकाशस्य सर्वगतत्वादिधर्मभेदः परिकल्प्यते, परमाण्वादीनां च गन्धरसाद्यनेकगुणत्वम् , तदपि निरूप्यमाणं परोपाधिनिमित्तमेव भवति ; आकाशस्य तावत् सर्वगतत्वं नाम न स्वतो धर्मोऽस्ति ; सर्वोपाधिसंश्रयाद्धि सर्वत्र स्वेन रूपेण सत्त्वमपेक्ष्य सर्वगतत्वव्यवहारः ; न तु आकाशः क्वचिद्गतो वा, अगतो वा स्वतः ; गमनं हि नाम देशान्तरस्थस्य देशान्तरेण संयोगकारणम् ; सा च क्रिया नैव अविशेषे सम्भवति ; एवं धर्मभेदा नैव सन्त्याकाशे । तथा परमाण्वादावपि । परमाणुर्नाम पृथिव्या गन्धघनायाः परमसूक्ष्मः अवयवः गन्धात्मक एव ; न तस्य पुनः गन्धवत्त्वं नाम शक्यते कल्पयितुम् ; अथ तस्यैव रसादिमत्त्वं स्यादिति चेत् , न, तत्रापि अबादिसंसर्गनिमित्तत्वात् । तस्मात् न निरवयवस्य अनेकधर्मवत्त्वे दृष्टान्तोऽस्ति । एतेन दृगादिशक्तिभेदानां पृथक् चक्षूरूपादिभेदेन परिणामभेदकल्पना परमात्मनि प्रत्युक्ता ॥
यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येदन्योऽन्यज्जिघ्रेदन्योऽन्यद्रसयेदन्योऽन्यद्वदेदन्योऽन्यच्छृणुयादन्योऽन्यन्मन्वीतान्योऽन्यत्स्पृशेदन्योऽन्यद्विजानीयात् ॥ ३१ ॥
३१जाग्रत्स्वप्नयोरिव यद्विजानीयात् , तत् द्वितीयं प्रविभक्तमन्यत्वेन नास्तीत्युक्तम् ; अतः सुषुप्ते न विजानाति विशेषम् । ननु यदि अस्य अयमेव स्वभावः, किन्निमित्तम् अस्य विशेषविज्ञानं स्वभावपरित्यागेन ; अथ विशेषविज्ञानमेव अस्य स्वभावः, कस्मादेष विशेषं न विजानातीति । उच्यते, शृणु — यत्र यस्मिन् जागरिते स्वप्ने वा अन्यदिव आत्मनो वस्त्वन्तरमिव अविद्यया प्रत्युपस्थापितं भवति, तत्र तस्मादविद्याप्रत्युपस्थापितात् अन्यः अन्यमिव आत्मानं मन्यमानः — असति आत्मनः प्रविभक्ते वस्त्वन्तरे असति च आत्मनि ततः प्रविभक्तेः, अन्यः अन्यत् पश्येत् उपलभेत ; तच्च दर्शितं स्वप्ने प्रत्यक्षतः — ‘घ्नन्तीव जिनन्तीव’(बृ. उ. ४ । ३ । २०) इति । तथा अन्यः अन्यत् जिघ्रेत् रसयेत् वदेत् शृणुयात् मन्वीत स्पृशेत् विजानीयादिति ॥
सलिल एको द्रष्टाद्वैतो भवत्येष ब्रह्मलोकः सम्राडिति हैनमनुशशास याज्ञवल्क्य एषास्य परमा गतिरेषास्य परमा सम्पदेषोऽस्य परमो लोक एषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ॥ ३२ ॥
३२यत्र पुनः सा अविद्या सुषुप्ते वस्त्वन्तरप्रत्युपस्थापिका शान्ता, तेन अन्यत्वेन अविद्याप्रविभक्तस्य वस्तुनः अभावात् , तत् केन कं पश्येत् जिघ्रेत् विजानीयाद्वा । अतः स्वेनैव हि प्राज्ञेन आत्मना स्वयञ्ज्योतिःस्वभावेन सम्परिष्वक्तः समस्तः सम्प्रसन्नः आप्तकामः आत्मकामः, सलिलवत् स्वच्छीभूतः — सलिल इव सलिलः, एकः द्वितीयस्याभावात् ; अविद्यया हि द्वितीयः प्रविभज्यते ; सा च शान्ता अत्र, अतः एकः ; द्रष्टा दृष्टेरविपरिलुप्तत्वात् आत्मज्योतिःस्वभावायाः अद्वैतः द्रष्टव्यस्य द्वितीयस्याभावात् । एतत् अमृतम् अभयम् ; एष ब्रह्मलोकः, ब्रह्मैव लोकः ब्रह्मलोकः ; पर एव अयम् अस्मिन्काले व्यावृत्तकार्यकरणोपाधिभेदः स्वे आत्मज्योतिषि शान्तसर्वसम्बन्धो वर्तते, हे सम्राट् — इति ह एवं ह, एनं जनकम् अनुशशास अनुशिष्टवान् याज्ञवल्क्यः इति श्रुतिवचनमेतत् । कथं वा अनुशशास ? एषा अस्य विज्ञानमयस्य परमा गतिः ; यास्तु अन्याः देहग्रहणलक्षणाः ब्रह्मादिस्तम्बपर्यन्ताः अविद्याकल्पिताः, ता गतयः अतः अपरमाः, अविद्याविषयत्वात् ; इयं तु देवत्वादिगतीनां कर्मविद्यासाध्यानां परमा उत्तमा — यः समस्तात्मभावः, यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानातीति । एषैव च परमा सम्पत् — सर्वासां सम्पदां विभूतीनाम् इयं परमा, स्वाभाविकत्वात् अस्याः ; कृतका हि अन्याः सम्पदः । तथा एषोऽस्य परमो लोकः ; ये अन्ये कर्मफलाश्रया लोकाः, ते अस्मात् अपरमाः ; अयं तु न केनचन कर्मणा मीयते, स्वाभाविकत्वात् ; एषोऽस्य परमो लोकः । तथा एषोऽस्य परम आनन्दः ; यानि अन्यानि विषयेन्द्रियसम्बन्धजनितानि आनन्दजातानि, तान्यपेक्ष्य एषोऽस्य परम आनन्दः, नित्यत्वात् ; ‘यो वै भूमा तत्सुखम्’(छा. उ. ७ । २३ । १) इति श्रुत्यन्तरात् ; यत्र अन्यत्पश्यति अन्यद्विजानाति, तत् अल्पं मर्त्यम् अमुख्यं सुखम् ; इदं तु तद्विपरीतम् ; अत एव एषोऽस्य परम आनन्दः । एतस्यैव आनन्दस्य मात्रां कलाम् अविद्याप्रत्युपस्थापितां विषयेन्द्रियसम्बन्धकालविभाव्याम् अन्यानि भूतानि उपजीवन्ति ; कानि तानि ? तत एव आनन्दात् अविद्यया प्रविभज्यमानस्वरूपाणि, अन्यत्वेन तानि ब्रह्मणः परिकल्प्यमानानि अन्यानि सन्ति उपजीवन्ति भूतानि, विषयेन्द्रियसम्पर्कद्वारेण विभाव्यमानाम् ॥
स यो मनुष्याणां राद्धः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्यकैर्भोगैः सम्पन्नतमः स मनुष्याणां परम आनन्दोऽथ ये शतं मनुष्याणामानन्दाः स एकः पितृणां जितलोकानामानन्दोऽथ ये शतं पितृणां जितलोकानामानन्दाः स एको गन्धर्वलोक आनन्दोऽथ ये शतं गन्धर्वलोक आनन्दाः स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्तेऽथ ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतोऽथ ये शतमाजानदेवानामानन्दाः स एकः प्रजापतिलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतोऽथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतोऽथैष एव परम आनन्द एष ब्रह्मलोकः सम्राडिति होवाच याज्ञवल्क्यः सोहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहीत्यत्र ह याज्ञवल्क्यो बिभयाञ्चकार मेधावी राजा सर्वेभ्यो मान्तेभ्य उदरौत्सीदिति ॥ ३३ ॥
३३यस्य परमानन्दस्य मात्रा अवयवाः ब्रह्मादिभिर्मनुष्यपर्यन्तैः भूतैः उपजीव्यन्ते, तदानन्दमात्राद्वारेण मात्रिणं परमानन्दम् अधिजिगमयिषन् आह, सैन्धवलवणशकलैरिव लवणशैलम् । सः यः कश्चित् मनुष्याणां मध्ये, राद्धः संसिद्धः अविकलः समग्रावयव इत्यर्थः, समृद्धः उपभोगोपकरणसम्पन्नः भवति ; किं च अन्येषां समानजातीयानाम् अधिपतिः स्वतन्त्रः पतिः, न माण्डलिकः ; सर्वैः समस्तैः, मानुष्यकैरिति दिव्यभोगोपकरणनिवृत्त्यर्थम् , मनुष्याणामेव यानि भोगोपकरणानि तैः — सम्पन्नानामपि अतिशयेन सम्पन्नः सम्पन्नतमः — स मनुष्याणां परम आनन्दः । तत्र आनन्दानन्दिनोः अभेदनिर्देशात् न अर्थान्तरभूतत्वमित्येतत् ; परमानन्दस्यैव इयं विषयविषय्याकारेण मात्रा प्रसृतेति हि उक्तम् ‘यत्र वा अन्यदिव स्यात्’(बृ. उ. ४ । ३ । ३१) इत्यादिवाक्येन ; तस्मात् युक्तोऽयम् — ‘परम आनन्दः’ इत्यभेदनिर्देशः । युधिष्ठिरादितुल्यो राजा अत्र उदाहरणम् । दृष्टं मनुष्यानन्दम् आदिं कृत्वा शतगुणोत्तरोत्तरक्रमेण उन्नीय परमानन्दम् , यत्र भेदो निवर्तते तमधिगमयति ; अत्र अयमानन्दः शतगुणोत्तरोत्तरक्रमेण वर्धमानः यत्र वृद्धिकाष्ठामनुभवति, यत्र गणितभेदो निवर्तते, अन्यदर्शनश्रवणमननाभावात् , तं परमानन्दं विवक्षन् आह — अथ ये मनुष्याणाम् एवंप्रकाराः शतमानन्दभेदाः, स एकः पितृणाम् ; तेषां विशेषणम् —जितलोकानामिति ; श्राद्धादिकर्मभिः पितॄन् तोषयित्वा तेन कर्मणा जितो लोको येषाम् , ते जितलोकाः पितरः ; तेषां पितृणां जितलोकानां मनुष्यानन्दशतगुणीकृतपरिमाण एक आनन्दो भवति । सोऽपि शतगुणीकृतः गन्धर्वलोके एक आनन्दो भवति । स च शतगुणीकृतः कर्मदेवानाम् एक आनन्दः ; अग्निहोत्रादिश्रौतकर्मणा ये देवत्वं प्राप्नुवन्ति, ते कर्मदेवाः । तथैव आजानदेवानाम् एक आनन्दः ; आजानत एव उत्पत्तित एव ये देवाः, ते आजानदेवाः ; यश्च श्रोत्रियः अधीतवेदः, अवृजिनः वृजिनं पापम् तद्रहितः यथोक्तकारीत्यर्थः, अकामहतः वीततृष्णः आजानदेवेभ्योऽर्वाक् यावन्तो विषयाः तेषु —तस्य च एवंभूतस्य आजानदेवैः समान आनन्द इत्येतदन्वाकृष्यते च - शब्दात् । तच्छतगुणीकृतपरिमाणः प्रजापतिलोके एक आनन्दो विराट्शरीरे ; तथा तद्विज्ञानवान् श्रोत्रियः अधीतवेदश्च अवृजिन इत्यादि पूर्ववत् । तच्छतगुणीकृतपरिमाण एक आनन्दो ब्रह्मलोके हिरण्यगर्भात्मनि ; यश्चेत्यादि पूर्ववदेव । अतः परं गणितनिवृत्तिः ; एष परम आनन्द इत्युक्तः, यस्य च परमानन्दस्य ब्रह्मलोकाद्यानन्दा मात्राः, उदधेरिव विप्रुषः । एवं शतगुणोत्तरोत्तरवृद्ध्युपेता आनन्दाः यत्र एकतां यान्ति, यश्च श्रोत्रियप्रत्यक्षः, अथ एष एव सम्प्रसादलक्षणः परम आनन्दः ; तत्र हि नान्यत्पश्यति नान्यच्छृणोति ; अतो भूमा, भूमत्वादमृतः ; इतरे तद्विपरीताः । अत्र च श्रोत्रियत्वावृजिनत्वे तुल्ये ; अकामहतत्वकृतो विशेषः आनन्दशतगुणवृद्धिहेतुः ; अत्र एतानि साधनानि श्रोत्रियत्वावृजिनत्वाकामहतत्वानि तस्य तस्य आनन्दस्य प्राप्तौ अर्थादभिहितानि, यथा कर्माणि अग्निहोत्रादीनि देवानां देवत्वप्राप्तौ ; तत्र च श्रोत्रियत्वावृजिनत्वलक्षणे कर्मणी अधरभूमिष्वपि समाने इति न उत्तरानन्दप्राप्तिसाधने अभ्युपेयेते ; अकामहतत्वं तु वैराग्यतारतम्योपपत्तेः उत्तरोत्तरभूम्यानन्दप्राप्तिसाधनमित्यवगम्यते । स एष परमः आनन्दः वितृष्णश्रोत्रियप्रत्यक्षः अधिगतः । तथा च वेदव्यासः — ‘यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्’(मो. ध. १७७ । ५०) इति । एष ब्रह्मलोकः, हे सम्राट् — इति ह उवाच याज्ञवल्क्यः । सोऽहम् एवम् अनुशिष्टः भगवते तुभ्यम् सहस्रं ददामि गवाम् ; अत ऊर्ध्वं विमोक्षायैव ब्रूहि — इति व्याख्यातमेतत् । अत्र ह विमोक्षायेत्यस्मिन्वाक्ये, याज्ञवल्क्यः बिभयाञ्चकार भीतवान् ; याज्ञवल्क्यस्य भयकारणमाह श्रुतिः — न याज्ञवल्क्यो वक्तृत्वसामर्थ्याभावाद्भीतवान् , अज्ञानाद्वा ; किं तर्हि मेधावी राजा सर्वेभ्यः, मा माम् , अन्तेभ्यः प्रश्ननिर्णयावसानेभ्यः, उदरौत्सीत् आवृणोत् अवरोधं कृतवानित्यर्थः ; यद्यत् मया निर्णीतं प्रश्नरूपं विमोक्षार्थम् , तत्तत् एकदेशत्वेनैव कामप्रश्नस्य गृहीत्वा पुनः पुनः मां पर्यनुयुङ्क्त एव, मेधावित्वात् — इत्येतद्भयकारणम् — सर्वं मदीयं विज्ञानं कामप्रश्नव्याजेन उपादित्सतीति ॥
स वा एष एतस्मिन्स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥ ३४ ॥
३४अत्र विज्ञानमयः स्वयञ्ज्योतिः आत्मा स्वप्ने प्रदर्शितः, स्वप्नान्तबुद्धान्तसञ्चारेण कार्यकरणव्यतिरिक्तता, कामकर्मप्रविवेकश्च असङ्गतया महामत्स्यदृष्टान्तेन प्रदर्शितः ; पुनश्च अविद्याकार्यं स्वप्न एव ‘घ्नन्तीव’(बृ. उ. ४ । ३ । २०) इत्यादिना प्रदर्शितम् ; अर्थात् अविद्यायाः सतत्त्वं निर्धारितम् अतद्धर्माध्यारोपणरूपत्वम् अनात्मधर्मत्वं च ; तथा विद्यायाश्च कार्यं प्रदर्शितम् , सर्वात्मभावः, स्वप्ने एव प्रत्यक्षतः — ‘सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः’(बृ. उ. ४ । ३ । २०) इति ; तत्र च सर्वात्मभावः स्वभावोऽस्य, एवम् अविद्याकामकर्मादिसर्वसंसारधर्मसम्बन्धातीतं रूपमस्य, साक्षात् सुषुप्ते गृह्यते — इत्येतद्विज्ञापितम् ; स्वयञ्ज्योतिरात्मा एषः परम आनन्दः, एष विद्याया विषयः, स एष परमः सम्प्रसादः, सुखस्य च परा काष्ठा — इत्येतत् एवमन्तेन ग्रन्थेन व्याख्यातम् । तच्च एतत् सर्वं विमोक्षपदार्थस्य दृष्टान्तभूतम् , बन्धनस्य च ; ते च एते मोक्षबन्धने सहेतुके सप्रपञ्चे निर्दिष्टे विद्याविद्याकार्ये, तत्सर्वं दृष्टान्तभूतमेव — इति, तद्दार्ष्टान्तिकस्थानीये मोक्षबन्धने सहेतुके कामप्रश्नार्थभूते त्वया वक्तव्ये इति पुनः पर्यनुयुङ्क्ते जनकः — अत ऊर्ध्वं विमोक्षायैव ब्रूहीति । तत्र महामत्स्यवत् स्वप्नबुद्धान्तौ असङ्गः सञ्चरति एक आत्मा स्वयञ्ज्योतिरित्युक्तम् ; यथा च असौ कार्यकरणानि मृत्युरूपाणि परित्यजन् उपाददानश्च महामत्स्यवत् स्वप्नबुद्धान्तावनुसञ्चरति, तथा जायमानो म्रियमाणश्च तैरेव मृत्युरूपैः संयुज्यते वियुज्यते च — ‘उभौ लोकावनुसञ्चरति’(बृ. उ. ४ । ३ । ७) इति सञ्चरणं स्वप्नबुद्धान्तानुसञ्चारस्य दार्ष्टान्तिकत्वेन सूचितम् । तदिह विस्तरेण सनिमित्तं सञ्चरणं वर्णयितव्यमिति तदर्थोऽयमारम्भः । तत्र च बुद्धान्तात् स्वप्नान्तरम् अयमात्मा अनुप्रवेशितः ; तस्मात् सम्प्रसादस्थानं मोक्षदृष्टान्तभूतम् ; ततः प्राच्यव्य बुद्धान्ते संसारव्यवहारः प्रदर्शयितव्य इति तेन अस्य सम्बन्धः । स वै बुद्धान्तात् स्वप्नान्तक्रमेण सम्प्रसन्नः एषः एतस्मिन् सम्प्रसादे स्थित्वा, ततः पुनः ईषत्प्रच्युतः — स्वप्नान्ते रत्वा चरित्वेत्यादि पूर्ववत् — बुद्धान्तायैव आद्रवति ॥
तद्यथानः सुसमाहितमुत्सर्जद्यायादेवमेवायं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ३५ ॥
३५इत आरभ्य अस्य संसारो वर्ण्यते । यथा अयमात्मा स्वप्नान्तात् बुद्धान्तमागतः ; एवम् अयम् अस्माद्देहात् देहान्तरं प्रतिपत्स्यत इति आह अत्र दृष्टान्तम् — तत् तत्र यथा लोके अनः शकटम् , सुसमाहितं सुष्ठु भृशं वा समाहितम् भाण्डोपस्करणेन उलूखलमुसलशूर्पपिठरादिना अन्नाद्येन च सम्पन्नम् सम्भारेण आक्रान्तमित्यर्थः ; तथा भाराक्रान्तं सत् , उत्सर्जत् शब्दं कुर्वत् , यथा यायात् गच्छेत् शाकटिकेनाधिष्ठितं सत् ; एवमेव यथा उक्तो दृष्टान्तः, अयं शारीरः शरीरे भवः — कोऽसौ ? आत्मा लिङ्गोपाधिः, यः स्वप्नबुद्धान्ताविव जन्ममरणाभ्यां पाप्मसंसर्गवियोगलक्षणाभ्याम् इहलोकपरलोकावनुसञ्चरति, यस्योत्क्रमणमनु प्राणाद्युत्क्रमणम् — सः प्राज्ञेन परेण आत्मना स्वयञ्ज्योतिःस्वभावेन अन्वारूढः अधिष्ठितः अवभास्यमानः — तथा चोक्तम् ‘आत्मनैवायं ज्योतिषास्ते पल्ययते’(बृ. उ. ४ । ३ । ६) इति — उत्सर्जन्याति । तत्र चैतन्यात्मज्योतिषा भास्ये लिङ्गे प्राणप्रधाने गच्छति, तदुपाधिरप्यात्मा गच्छतीव ; तथा श्रुत्यन्तरम् — ‘कस्मिन्न्वहम्’(प्र. उ. ६ । ३) इत्यादि, ‘ध्यायतीव’(बृ. उ. ४ । ३ । ७) इति च ; अत एवोक्तम् — प्राज्ञेनात्मनान्वारूढ इति ; अन्यथा प्राज्ञेन एकीभूतः शकटवत् कथम् उत्सर्जयन् याति । तेन लिङ्गोपाधिरात्मा उत्सर्जन् मर्मसु निकृत्यमानेषु दुःखवेदनया आर्तः शब्दं कुर्वन् याति गच्छति । तत् कस्मिन्काले इत्युच्यते — यत्र एतद्भवति, एतदिति क्रियाविशेषणम् , ऊर्ध्वोच्छ्वासी, यत्र ऊर्ध्वोच्छ्वासित्वमस्य भवतीत्यर्थः । दृश्यमानस्याप्यनुवदनं वैराग्यहेतोः ; ईदृशः कष्टः खलु अयं संसारः — येन उत्क्रान्तिकाले मर्मसु उत्कृत्यमानेषु स्मृतिलोपः दुःखवेदनार्तस्य पुरुषार्थसाधनप्रतिपत्तौ च असामर्थ्यं परवशीकृतचित्तस्य ; तस्मात् यावत् इयमवस्था न आगमिष्यति, तावदेव पुरुषार्थसाधनकर्तव्यतायाम् अप्रमत्तो भवेत् — इत्याह कारुण्यात् श्रुतिः ॥
स यत्रायमणिमानं न्येति जरया वोपतपता वाणिमानं निगच्छति तद्यथाम्रं वोदुम्बरं वा पिप्पलं वा बन्धनात्प्रमुच्यत एवमेवायं पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्य पुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव ॥ ३६ ॥
३६तदस्य ऊर्ध्वोच्छ्वासित्वं कस्मिन्काले किन्निमित्तं कथं किमर्थं वा स्यादित्येतदुच्यते — सोऽयं प्राकृतः शिरःपाण्यादिमान् पिण्डः, यत्र यस्मिन्काले अयम् अणिमानम् अणोर्भावम् अणुत्वम् कार्श्यमित्यर्थः, न्येति निगच्छति ; किन्निमित्तम् ? जरया वा स्वयमेव कालपक्वफलवत् जीर्णः कार्श्यं गच्छति ; उपतपतीति उपतपन् ज्वरादिरोगः तेन उपतपता वा ; उपतप्यमानो हि रोगेण विषमाग्नितया अन्नं भुक्तं न जरयति, ततः अन्नरसेन अनुपचीयमानः पिण्डः कार्श्यमापद्यते, तदुच्यते — उपतपता वेति ; अणिमानं निगच्छति । यदा अत्यन्तकार्श्यं प्रतिपन्नः जरादिनिमित्तैः, तदा ऊर्ध्वोच्छ्वासी भवति ; यदा ऊर्ध्वोच्छ्वासी, तदा भृशाहितसम्भारशकटवत् उत्सर्जन्याति । जराभिभवः रोगादिपीडनं कार्श्यापत्तिश्च शरीरवतः अवश्यंभाविन एतेऽनर्था इति वैराग्याय इदमुच्यते । यदा असौ उत्सर्जन्याति, तदा कथं शरीरं विमुञ्चतीति दृष्टान्त उच्यते — तत् तत्र यथा आम्रं वा फलम् , उदुम्बरं वा फलम् , पिप्पलं वा फलम् ; विषमानेकदृष्टान्तोपादानं मरणस्यानियतनिमित्तत्वख्यापनार्थम् ; अनियतानि हि मरणस्य निमित्तानि असङ्ख्यातानि च ; एतदपि वैराग्यार्थमेव — यस्मात् अयम् अनेकमरणनिमित्तवान् तस्मात् सर्वदा मृत्योरास्ये वर्तते इति । बन्धनात् — बध्यते येन वृन्तेन सह, स बन्धनकारणो रसः, यस्मिन्वा बध्यत इति वृन्तमेव उच्यते बन्धनम् — तस्मात् रसात् वृन्ताद्वा बन्धनात् प्रमुच्यते वाताद्यनेकनिमित्तम् ; एवमेव अयं पुरुषः लिङ्गात्मा लिङ्गोपाधिः एभ्योऽङ्गेभ्यः चक्षुरादिदेहावयवेभ्यः, सम्प्रमुच्य सम्यङ्निर्लेपेन प्रमुच्य — न सुषुप्तगमनकाल इव प्राणेन रक्षन् , किं तर्हि सह वायुना उपसंहृत्य, पुनः प्रतिन्यायम् — पुनःशब्दात् पूर्वमपि अयं देहात् देहान्तरम् असकृत् गतवान् यथा स्वप्नबुद्धान्तौ पुनः पुनर्गच्छति तथा, पुनः प्रतिन्यायम् प्रतिगमनं यथागतमित्यर्थः, प्रतियोनिं योनिं योनिं प्रति कर्मश्रुतादिवशात् आद्रवति ; किमर्थम् ? प्राणायैव प्राणव्यूहायैवेत्यर्थः ; सप्राण एव हि गच्छति, ततः ‘प्राणायैव’ इति विशेषणमनर्थकम् ; प्राणव्यूहाय हि गमनं देहात् देहान्तरं प्रति ; तेन हि अस्य कर्मफलोपभोगार्थसिद्धिः, न प्राणसत्तामात्रेण । तस्मात् तादर्थ्यार्थं युक्तं विशेषणम् — प्राणव्यूहायेति ॥
तत्र अस्य इदं शरीरं परित्यज्य गच्छतः न अन्यस्य देहान्तरस्योपादाने सामर्थ्यमस्ति, देहेन्द्रियवियोगात् ; न च अन्ये अस्य भृत्यस्थानीयाः, गृहमिव राज्ञे, शरीरान्तरं कृत्वा प्रतीक्षमाणा विद्यन्ते ; अथैवं सति, कथम् अस्य शरीरान्तरोपादानमिति । उच्यते — सर्वं ह्यस्य जगत् स्वकर्मफलोपभोगसाधनत्वाय उपात्तम् ; स्वकर्मफलोपभोगाय च अयं प्रवृत्तः देहाद्देहान्तरं प्रतिपित्सुः ; तस्मात् सर्वमेव जगत् स्वकर्मणा प्रयुक्तं तत्कर्मफलोपभोगयोग्यं साधनं कृत्वा प्रतीक्षत एव, ‘कृतं लोकं पुरुषोऽभिजायते’(शत. ब्रा. ६ । २ । २ । २७) इति श्रुतेः — यथा स्वप्नात् जागरितं प्रतिपित्सोः । तत्कथमिति लोकप्रसिद्धो दृष्टान्त उच्यते —
तद्यथा राजानमायान्तमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः पानैरावसथैः प्रतिकल्पन्तेऽयमायात्ययमागच्छतीत्येवं हैवंविदं सर्वाणि भूतानि प्रतिकल्पन्त इदं ब्रह्मायातीदमागच्छतीति ॥ ३७ ॥
३७तत् तत्र यथा राजानं राज्याभिषिक्तम् आयान्तं स्वराष्ट्रे, उग्राः जातिविशेषाः क्रूरकर्माणो वा, प्रत्येनसः — प्रति प्रति एनसि पापकर्मणि नियुक्ताः प्रत्येनसः, तस्करादिदण्डनादौ नियुक्ताः, सूताश्च ग्रामण्यश्च सूतग्रामण्यः — सूताः वर्णसङ्करजातिविशेषाः, ग्रामण्यः ग्रामनेतारः, ते पूर्वमेव राज्ञ आगमनं बुद्ध्वा, अन्नैः भोज्यभक्ष्यादिप्रकारैः, पानैः मदिरादिभिः, आवसथैश्च प्रासादादिभिः, प्रतिकल्पन्ते निष्पन्नैरेव प्रतीक्षन्ते — अयं राजा आयाति अयमागच्छतीत्येवं वदन्तः । यथा अयं दृष्टान्तः, एवं ह एवंविदं कर्मफलस्य वेदितारं संसारिणमित्यर्थः ; कर्मफलं हि प्रस्तुतम् , तत् एवंशब्देन परामृश्यते ; सर्वाणि भूतानि शरीरकर्तॄणि, करणानुग्रहीतॄणि च आदित्यादीनि, तत्कर्मप्रयुक्तानि कृतैरेव कर्मफलोपभोगसाधनैः प्रतीक्षन्ते — इदं ब्रह्म भोक्तृ कर्तृ च अस्माकम् आयाति, तथा इदमागच्छतीति एवमेव च कृत्वा प्रतीक्षन्त इत्यर्थः ॥
तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽभिसमायन्त्येवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ३८ ॥
३८तमेवं जिगमिषुं के सह गच्छन्ति ; ये वा गच्छन्ति, ते किं तत्क्रियाप्रणुन्नाः, आहोस्वित् तत्कर्मवशात् स्वयमेव गच्छन्ति — परलोकशरीरकर्तॄणि च भूतानीति । अत्रोच्यते दृष्टान्तः — तद्यथा राजानं प्रयियासन्तम् प्रकर्षेण यातुमिच्छन्तम् , उग्राः प्रत्येनसः सूतग्रामण्यः तं यथा अभिसमायन्ति आभिमुख्येन समायन्ति, एकीभावेन तमभिमुखा आयन्ति अनाज्ञप्ता एव राज्ञा केवलं तज्जिगमिषाभिज्ञाः, एवमेव इममात्मानं भोक्तारम् अन्तकाले मरणकाले सर्वे प्राणाः वागादयः अभिसमायन्ति । यत्रैतदूर्ध्वोच्छ्वासी भवतीति व्याख्यातम् ॥
इति चतुर्थाध्यायस्य तृतीयं ब्राह्मणम् ॥
चतुर्थं ब्राह्मणम्
स यत्रायमात्मा । संसारोपवर्णनं प्रस्तुतम् ; ‘तत्रायं पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्य’(बृ. उ. ४ । ३ । ३६) इत्युक्तम् । तत्सम्प्रमोक्षणं कस्मिन्काले कथं वेति सविस्तरं संसरणं वर्णयितव्यमित्यारभ्यते —
स यत्रायमात्माबल्यं न्येत्य सम्मोहमिव न्येत्यथैनमेते प्राणा अभिसमायन्ति स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति स यत्रैष चाक्षुषः पुरुषः पराङ्पर्यावर्ततेऽथारूपज्ञो भवति ॥ १ ॥
१सोऽयम् आत्मा प्रस्तुतः, यत्र यस्मिन्काले, अबल्यम् अबलभावम् , नि एत्य गत्वा — यत् देहस्य दौर्बल्यम् , तत् आत्मन एव दौर्बल्यमित्युपचर्यते ‘अबल्यं न्येत्य’ इति ; न ह्यसौ स्वतः अमूर्तत्वात् अबलभावं गच्छति — तथा सम्मोहमिव सम्मूढता सम्मोहः विवेकाभावः सम्मूढतामिव न्येति निगच्छति ; न चास्य स्वतः सम्मोहः असम्मोहो वा अस्ति, नित्यचैतन्यज्योतिःस्वभावत्वात् ; तेन इवशब्दः — सम्मोहमिव न्येतीति ; उत्क्रान्तिकाले हि करणोपसंहारनिमित्तो व्याकुलीभावः आत्मन इव लक्ष्यते लौकिकैः ; तथा च वक्तारो भवन्ति — सम्मूढः सम्मूढोऽयमिति । अथ वा उभयत्र इवशब्दप्रयोगो योज्यः — अबल्यमिव न्येत्य सम्मोहमिव न्येतीति, उभयस्य परोपाधिनिमित्तत्वाविशेषात् , समानकर्तृकनिर्देशाच्च । अथ अस्मिन्काले एते प्राणाः वागादयः एनमात्मानमभिसमायन्ति ; तदा अस्य शारीरस्यात्मनः अङ्गेभ्यः सम्प्रमोक्षणम् । कथं पुनः सम्प्रमोक्षणम् , केन वा प्रकारेण आत्मानमभिसमायन्तीत्युच्यते — सः आत्मा, एतास्तेजोमात्राः तेजसो मात्राः तेजोमात्राः तेजोवयवाः रूपादिप्रकाशकत्वात् , चक्षुरादीनि करणानीत्यर्थः, ता एताः समभ्याददानः सम्यक् निर्लेपेन अभ्याददानः आभिमुख्येन आददानः संहरमाणः ; तत् स्वप्नापेक्षया विशेषणं ‘सम्’ इति ; न तु स्वप्ने निर्लेपेन सम्यगादानम् ; अस्ति तु आदानमात्रम् ; ‘गृहीता वाक् गृहीतं चक्षुः’(बृ. उ. २ । १ । १७) ‘अस्य लोकस्य सर्वावतो मात्रामपादाय’(बृ. उ. ४ । ३ । ९) ‘शुक्रमादाय’(बृ. उ. ४ । ३ । ११) इत्यादिवाक्येभ्यः । हृदयमेव पुण्डरीकाकाशम् अन्ववक्रामति अन्वागच्छति, हृदयेऽभिव्यक्तविज्ञानो भवतीत्यर्थः — बुद्ध्यादिविक्षेपोपसंहारे सति ; न हि तस्य स्वतश्चलनं विक्षेपोपसंहारादिविक्रिया वा, ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । २) इत्युक्तत्वात् ; बुद्ध्याद्युपाधिद्वारैव हि सर्वविक्रिया अध्यारोप्यते तस्मिन् । कदा पुनः तस्य तेजोमात्राभ्यादानमित्युच्यते — सः यत्र एषः, चक्षुषि भवः चाक्षुषः पुरुषः आदित्यांशः भोक्तुः कर्मणा प्रयुक्तः यावद्देहधारणं तावत् चक्षुषोऽनुग्रहं कुर्वन् वर्तते ; मरणकाले तु अस्य चक्षुरनुग्रहं परित्यजति, स्वम् आदित्यात्मानं प्रतिपद्यते ; तदेतदुक्तम् — ‘यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यम्’(बृ. उ. ३ । २ । १३) इत्यादि ; पुनः देहग्रहणकाले संश्रयिष्यन्ति ; तथा स्वप्स्यतः प्रबुध्यतश्च ; तदेतदाह — चाक्षुषः पुरुषः यत्र यस्मिन्काले, पराङ् पर्यावर्तते — परि समन्तात् पराङ् व्यावर्तते इति ; अथ अत्र अस्मिन्काले अरूपज्ञो भवति, मुमूर्षुः रूपं न जानाति ; तदा अयमात्मा चक्षुरादितेजोमात्राः समभ्याददानो भवति, स्वप्नकाल इव ॥
एकी भवति न पश्यतीत्याहुरेकी भवति न जिघ्रतीत्याहुरेकी भवति न रसयत इत्याहुरेकी भवति न वदतीत्याहुरेकी भवति न शृणोतीत्याहुरेकी भवति न मनुत इत्याहुरेकी भवति न स्पृशतीत्याहुरेकी भवति न विजानातीत्याहुस्तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति । तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च ॥ २ ॥
२एकी भवति करणजातं स्वेन लिङ्गात्मना, तदा एनं पार्श्वस्था आहुः — पश्यतीति ; तथा घ्राणदेवतानिवृत्तौ घ्राणमेकी भवति लिङ्गात्मना, तदा न जिघ्रतीत्याहुः । समानमन्यत् । जिह्वायां सोमो वरुणो वा देवता, तन्निवृत्त्यपेक्षया न रसयते इत्याहुः । तथा न वदति न शृणोति न मनुते न स्पृशति न विजानातीत्याहुः । तदा उपलक्ष्यते देवतानिवृत्तिः, करणानां च हृदय एकीभावः । तत्र हृदये उपसंहृतेषु करणेषु योऽन्तर्व्यापारः स कथ्यते — तस्य ह एतस्य प्रकृतस्य हृदयस्य हृदयच्छिद्रस्येत्येतत् , अग्रम् नाडीमुखं निर्गमनद्वारम् , प्रद्योतते, स्वप्नकाल इव, स्वेन भासा तेजोमात्रादानकृतेन, स्वेनैव ज्योतिषा आत्मनैव च ; तेन आत्मज्योतिषा प्रद्योतेन हृदयाग्रेण एष आत्मा विज्ञानमयो लिङ्गोपाधिः निर्गच्छति निष्क्रामति । तथा आथर्वणे ‘कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजत’(प्र. उ. ६ । ३) इति । तत्र च आत्मचैतन्यज्योतिः सर्वदा अभिव्यक्ततरम् ; तदुपाधिद्वारा हि आत्मनि जन्ममरणगमनागमनादिसर्वविक्रियालक्षणः संव्यवहारः ; तदात्मकं हि द्वादशविधं करणं बुद्ध्यादि, तत् सूत्रम् , तत् जीवनम् , सोऽन्तरात्मा जगतः तस्थुषश्च । तेन प्रद्योतेन हृदयाग्रप्रकाशेन निष्क्रममाणः केन मार्गेण निष्क्रामतीत्युच्यते — चक्षुष्टो वा, आदित्यलोकप्राप्तिनिमित्तं ज्ञानं कर्म वा यदि स्यात् ; मूर्ध्नो वा ब्रह्मलोकप्राप्तिनिमित्तं चेत् ; अन्येभ्यो वा शरीरदेशेभ्यः शरीरावयवेभ्यः यथाकर्म यथाश्रुतम् । तं विज्ञानात्मानम् , उत्क्रामन्तम् परलोकाय प्रस्थितम् , परलोकाय उद्भूताकूतमित्यर्थः, प्राणः सर्वाधिकारिस्थानीयः राज्ञ इव अनूत्क्रामति ; तं च प्राणमनूत्क्रामन्तं वागादयः सर्वे प्राणा अनूत्क्रामन्ति । यथाप्रधानान्वाचिख्यासा इयम् , न तु क्रमेण सार्थवत् गमनम् इह विवक्षितम् । तदा एष आत्मा सविज्ञानो भवति स्वप्न इव विशेषविज्ञानवान् भवति कर्मवशात् , न स्वतन्त्रः ; स्वातन्त्र्येण हि सविज्ञानत्वे सर्वः कृतकृत्यः स्यात् ; नैव तु तत् लभ्यते ; अत एवाह व्यासः — ‘सदा तद्भावभावितः’(भ. गी. ८ । ६) इति ; कर्मणा तु उद्भाव्यमानेन अन्तःकरणवृत्तिविशेषाश्रितवासनात्मकविशेषविज्ञानेन सर्वो लोकः एतस्मिन्काले सविज्ञानो भवति ; सविज्ञानमेव च गन्तव्यम् अन्ववक्रामति अनुगच्छति विशेषविज्ञानोद्भासितमेवेत्यर्थः । तस्मात् तत्काले स्वातन्त्र्यार्थं योगधर्मानुसेवनम् परिसङ्ख्यानाभ्यासश्च विशिष्टपुण्योपचयश्च श्रद्दधानैः परलोकार्थिभिः अप्रमत्तैः कर्तव्य इति । सर्वशास्त्राणां यत्नतो विधेयोऽर्थः — दुश्चरिताच्च उपरमणम् । न हि तत्काले शक्यते किञ्चित्सम्पादयितुम् , कर्मणा नीयमानस्य स्वातन्त्र्याभावात् । ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’(बृ. उ. ३ । २ । १३) इत्युक्तम् । एतस्य ह्यनर्थस्य उपशमोपायविधानाय सर्वशाखोपनिषदः प्रवृत्ताः । न हि तद्विहितोपायानुसेवनं मुक्त्वा आत्यन्तिकः अस्य अनर्थस्य उपशमोपायः अस्ति । तस्मात् अत्रैव उपनिषद्विहितोपाये यत्नपरैर्भवितव्यम् — इत्येष प्रकरणार्थः ॥
शकटवत्सम्भृतसम्भार उत्सर्जन्यातीत्युक्तम् , किं पुनः तस्य परलोकाय प्रवृत्तस्य पथ्यदनं शाकटिकसम्भारस्थानीयम् , गत्वा वा परलोकं यत् भुङ्क्ते, शरीराद्यारम्भकं च यत् तत्किम् इत्युच्यते — तं परलोकाय गच्छन्तमात्मानम् , विद्याकर्मणी — विद्या च कर्म च विद्याकर्मणी विद्या सर्वप्रकारा विहिता प्रतिषिद्धा च अविहिता अप्रतिषिद्धा च, तथा कर्म विहितं प्रतिषिद्धं च अविहितमप्रतिषिद्धं च, समन्वारभेते सम्यगन्वारभेते अन्वालभेते अनुगच्छतः ; पूर्वप्रज्ञा च — पूर्वानुभूतविषया प्रज्ञा पूर्वप्रज्ञा अतीतकर्मफलानुभववासनेत्यर्थः ; सा च वासना अपूर्वकर्मारम्भे कर्मविपाके च अङ्गं भवति ; तेन असावपि अन्वारभते ; न हि तया वासनया विना कर्म कर्तुं फलं च उपभोक्तुं शक्यते ; न हि अनभ्यस्ते विषये कौशलम् इन्द्रियाणां भवति ; पूर्वानुभववासनाप्रवृत्तानां तु इन्द्रियाणाम् इह अभ्यासमन्तरेण कौशलमुपपद्यते ; दृश्यते च केषाञ्चित् कासुचित्क्रियासु चित्रकर्मादिलक्षणासु विनैव इह अभ्यासेन जन्मत एव कौशलम् , कासुचित् अत्यन्तसौकर्ययुक्तास्वपि अकौशलं केषाञ्चित् ; तथा विषयोपभोगेषु स्वभावत एव केषाञ्चित् कौशलाकौशले दृश्येते ; तच्च एतत्सर्वं पूर्वप्रज्ञोद्भवानुद्भवनिमित्तम् ; तेन पूर्वप्रज्ञया विना कर्मणि वा फलोपभोगे वा न कस्यचित् प्रवृत्तिरुपपद्यते । तस्मात् एतत् त्रयं शाकटिकसम्भारस्थानीयं परलोकपथ्यदनं विद्याकर्मपूर्वप्रज्ञाख्यम् । यस्मात् विद्याकर्मणी पूर्वप्रज्ञा च देहान्तरप्रतिपत्त्युपभोगसाधनम् , तस्मात् विद्याकर्मादि शुभमेव समाचरेत् , यथा इष्टदेहसंयोगोपभोगौ स्याताम् — इति प्रकरणार्थः ॥
एवं विद्यादिसम्भारसम्भृतो देहान्तरं प्रतिपद्यमानः, मुक्त्वा पूर्वं देहम् , पक्षीव वृक्षान्तरम् , देहान्तरं प्रतिपद्यते ; अथवा आतिवाहिकेन शरीरान्तरेण कर्मफलजन्मदेशं नीयते । किञ्चात्रस्थस्यैव सर्वगतानां करणानां वृत्तिलाभो भवति, आहोस्वित् शरीरस्थस्य सङ्कुचितानि करणानि मृतस्य भिन्नघटप्रदीपप्रकाशवत् सर्वतो व्याप्य पुनः देहान्तरारम्भे सङ्कोचमुपगच्छन्ति — किञ्च मनोमात्रं वैशेषिकसमय इव देहान्तरारम्भदेशं प्रति गच्छति, किं वा कल्पनान्तरमेव वेदान्तसमये — इत्युच्यते — ‘त एते सर्व एव समाः सर्वेऽनन्ताः’(बृ. उ. १ । ५ । १३) इति श्रुतः सर्वात्मकानि तावत्करणानि, सर्वात्मकप्राणसंश्रयाच्च ; तेषाम् आध्यात्मिकाधिभौतिकपरिच्छेदः प्राणिकर्मज्ञानभावनानिमित्तः ; अतः तद्वशात् स्वभावतः सर्वगतानामनन्तानामपि प्राणानां कर्मज्ञानवासनानुरूपेणैव देहान्तरारम्भवशात् प्राणानां वृत्तिः सङ्कुचति विकसति च ; तथा चोक्तम् ‘समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण’(बृ. उ. १ । ३ । २२) इति ; तथा च इदं वचनमनुकूलम् — ‘स यो हैताननन्तानुपास्ते’(बृ. उ. १ । ५ । १३) इत्यादि, ‘तं यथा यथोपासते’ इति च । तत्र वासना पूर्वप्रज्ञाख्या विद्याकर्मतन्त्रा जलूकावत् सन्ततैव स्वप्नकाल इव कर्मकृतं देहाद्देहान्तरम् आरभते हृदयस्थैव ; पुनर्देहान्तरारम्भे देहान्तरं पूर्वाश्रयं विमुञ्चति — इत्येतस्मिन्नर्थे दृष्टान्त उपादीयते —
तद्यथा तृणजलायुका तृणस्यान्तं गत्वान्यमाक्रममाक्रम्यात्मानमुपसं हरत्येवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यमाक्रममाक्रम्यात्मानमुपसं हरति ॥ ३ ॥
३तत् तत्र देहान्तरसञ्चारे इदं निदर्शनम् — यथा येन प्रकारेण तृणजलायुका तृणजलूका तृणस्य अन्तम् अवसानम् , गत्वा प्राप्य, अन्यं तृणान्तरम् , आक्रमम् — आक्रम्यत इत्याक्रमः — तमाक्रमम् , आक्रम्य आश्रित्य, आत्मानम् आत्मनः पूर्वावयवम् उपसंहरति अन्त्यावयवस्थाने ; एवमेव अयमात्मा यः प्रकृतः संसारी इदं शरीरं पूर्वोपात्तम् , निहत्य स्वप्नं प्रतिपित्सुरिव पातयित्वा अविद्यां गमयित्वा अचेतनं कृत्वा स्वात्मोपसंहारेण, अन्यम् आक्रमम् तृणान्तरमिव तृणजलूका शरीरान्तरम् , गृहीत्वा प्रसारितया वासनया, आत्मानमुपसंहरति, तत्र आत्मभावमारभते — यथा स्वप्ने देहान्तरस्थ एव शरीरारम्भदेशे — आरभ्यमाणे देहे जङ्गमे स्थावरे वा । तत्र च कर्मवशात् करणानि लब्धवृत्तीनि संहन्यन्ते ; बाह्यं च कुशमृत्तिकास्थानीयं शरीरमारभ्यते ; तत्र च करणव्यूहमपेक्ष्य वागाद्यनुग्रहाय अग्न्यादिदेवताः संश्रयन्ते । एष देहान्तरारम्भविधिः ॥
तत्र देहान्तरारम्भे नित्योपात्तमेव उपादानम् उपमृद्य उपमृद्य देहान्तरमारभते, आहोस्वित् अपूर्वमेव पुनः पुनरादत्ते — इत्यत्र उच्यते दृष्ठान्तः —
तद्यथा पेशस्कारी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरं रूपं तनुत एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् ॥ ४ ॥
४तत् तत्र एतस्मिन्नर्थे, यथा पेशस्कारी — पेशः सुवर्णम् तत् करोतीति पेशस्कारी सुवर्णकारः, पेशसः सुवर्णस्य मात्राम् , अप आदाय अपच्छिद्य गृहीत्वा, अन्यत् पूर्वस्मात् रचनाविशेषात् नवतरम् अभिनवतरम् , कल्याणात् कल्याणतरम् , रूपं तनुते निर्मिनोति ; एवमेवायमात्मेत्यादि पूर्ववत् । नित्योपात्तान्येव पृथिव्यादीनि आकाशान्तानि पञ्च भूतानि यानि ‘द्वे वाव ब्रह्मणो रूपे’(बृ. उ. २ । ३ । १) इति चतुर्थे व्याख्यातानि, पेशःस्थानीयानि तान्येव उपमृद्य, उपमृद्य, अन्यदन्यच्च देहान्तरं नवतरं कल्याणतरं रूपं संस्थानविशेषम् , देहान्तरमित्यर्थः, कुरुते — पित्र्यं वा पितृभ्यो हितम् , पितृलोकोपभोगयोग्यमित्यर्थः, गान्धर्वं गन्धर्वाणामुपभोगयोग्यम् , तथा देवानां दैवम् , प्रजापतेः प्राजापत्यम् , ब्रह्मण इदं ब्राह्मं वा, यथाकर्म यथाश्रुतम् , अन्येषां वा भूतानां सम्बन्धि — शरीरान्तरं कुरुते इत्यभिसम्बध्यते ॥
ये अस्य बन्धनसंज्ञकाः उपाधिभूताः, यैः संयुक्तः तन्मयोऽयमिति विभाव्यते, ते पदार्थाः पुञ्जीकृत्य इह एकत्र प्रतिनिर्दिश्यन्ते —
स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः सर्वमयस्तद्यदेतदिदम्मयोऽदोमय इति यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेन । अथो खल्वाहुः काममय एवायं पुरुष इति स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते ॥ ५ ॥
५सः वै अयम् यः एवं संसरति आत्मा — ब्रह्मैव पर एव, यः अशनायाद्यतीतः ; विज्ञानमयः — विज्ञानं बुद्धिः, तेन उपलक्ष्यमाणः, तन्मयः ; ‘कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु’(बृ. उ. ४ । ३ । ७) इति हि उक्तम् ; विज्ञानमयः विज्ञानप्रायः, यस्मात् तद्धर्मत्वमस्य विभाव्यते — ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) इति ; तथा मनोमयः मनःसन्निकर्षान्मनोमयः ; तथा प्राणमयः, प्राणः पञ्चवृत्तिः तन्मयः, येन चेतनः चलतीव लक्ष्यते ; तथा चक्षुर्मयः रूपदर्शनकाले ; एवं श्रोत्रमयः शब्दश्रवणकाले । एवं तस्य तस्य इन्द्रियस्य व्यापारोद्भवे तत्तन्मयो भवति । एवं बुद्धिप्राणद्वारेण चक्षुरादिकरणमयः सन् शरीरारम्भकपृथिव्यादिभूतमयो भवति ; तत्र पार्थिवशरीरारम्भे पृथिवीमयो भवति ; तथा वरुणादिलोकेषु आप्यशरीरारम्भे आपोमयो भवति ; तथा वायव्यशरीरारम्भे वायुमयो भवति ; तथा आकाशशरीरारम्भे आकाशमयो भवति ; एवम् एतानि तैजसानि देवशरीराणि ; तेष्वारभ्यमाणेषु तन्मयः तेजोमयो भवति । अतो व्यतिरिक्तानि पश्वादिशरीराणि नरकप्रेतादिशरीराणि च अतेजोमयानि ; तान्यपेक्ष्य आह — अतेजोमय इति । एवं कार्यकरणसङ्घातमयः सन् आत्मा प्राप्तव्यं वस्त्वन्तरं पश्यन् — इदं मया प्राप्तम् , अदो मया प्राप्तव्यम् — इत्येवं विपरीतप्रत्ययः तदभिलाषः काममयो भवति । तस्मिन्कामे दोषं पश्यतः तद्विषयाभिलाषप्रशमे चित्तं प्रसन्नम् अकलुषं शान्तं भवति, तन्मयः अकाममयः । एवं तस्मिन्विहते कामे केनचित् , सकामः क्रोधत्वेन परिणमते, तेन तन्मयो भवन् क्रोधमयः । स क्रोधः केनचिदुपायेन निवर्तितो यदा भवति, तदा प्रसन्नम् अनाकुलं चित्तं सत् अक्रोध उच्यते, तेन तन्मयः । एवं कामक्रोधाभ्याम् अकामक्रोधाभ्यां च तन्मयो भूत्वा, धर्ममयः अधर्ममयश्च भवति ; न हि कामक्रोधादिभिर्विना धर्मादिप्रवृत्तिरुपपद्यते, ‘यद्यद्धि कुरुते कर्म तत्तत्कामस्य चेष्टितम्’(मनु. २ । ४) इति स्मरणात् । धर्ममयः अधर्ममयश्च भूत्वा सर्वमयो भवति — समस्तं धर्माधर्मयोः कार्यम् , यावत्किञ्चिद्व्याकृतम् , तत्सर्वं धर्माधर्मयोः फलम् , तत् प्रतिपद्यमानः तन्मयो भवति । किं बहुना, तदेतत् सिद्धमस्य — यत् अयम् इदम्मयः गृह्यमाणविषयादिमयः, तस्मात् अयम् अदोमयः ; अद इति परोक्षं कार्येण गृह्यमाणेन निर्दिश्यते ; अनन्ता हि अन्तःकरणे भावनाविशेषाः ; नैव ते विशेषतो निर्देष्टुं शक्यन्ते ; तस्मिन्तस्मिन् क्षणे कार्यतोऽवगम्यन्ते — इदमस्य हृदि वर्तते, अदः अस्येति ; तेन गृह्यमाणकार्येण इदम्मयतया निर्दिश्यते परोक्षः अन्तःस्थो व्यवहारः — अयमिदानीमदोमय इति । सङ्क्षेपतस्तु यथा कर्तुं यथा वा चरितुं शीलमस्य सोऽयं यथाकारी यथाचारी, सः तथा भवति ; करणं नाम नियता क्रिया विधिप्रतिषेधादिगम्या, चरणं नाम अनियतमिति विशेषः । साधुकारी साधुर्भवतीति यथाकारीत्यस्य विशेषणम् ; पापकारी पापो भवतीति च यथाचारीत्यस्य । ताच्छील्यप्रत्ययोपादानात् अत्यन्ततात्पर्यतैव तन्मयत्वम् , न तु तत्कर्ममात्रेण — इत्याशङ्क्याह — पुण्यः पुण्येन कर्मणा भवति पापः पापेनेति ; पुण्यपापकर्ममात्रेणैव तन्मयता स्यात् , न तु ताच्छील्यमपेक्षते ; ताच्छील्ये तु तन्मयत्वातिशय इत्ययं विशेषः । तत्र कामक्रोधादिपूर्वकपुण्यापुण्यकारिता सर्वमयत्वे हेतुः, संसारस्य कारणम् , देहात् देहान्तरसञ्चारस्य च ; एतत्प्रयुक्तो हि अन्यदन्यद्देहान्तरमुपादत्ते ; तस्मात् पुण्यापुण्ये संसारस्य कारणम् ; एतद्विषयौ हि विधिप्रतिषेधौ ; अत्र शास्त्रस्य साफल्यमिति ॥
अथो अपि अन्ये बन्धमोक्षकुशलाः खलु आहुः — सत्यं कामादिपूर्वके पुण्यापुण्ये शरीरग्रहणकारणम् ; तथापि कामप्रयुक्तो हि पुरुषः पुण्यापुण्ये कर्मणी उपचिनोति ; कामप्रहाणे तु कर्म विद्यमानमपि पुण्यापुण्योपचयकरं न भवति ; उपचिते अपि पुण्यापुण्ये कर्मणी कामशून्ये फलारम्भके न भवतः ; तस्मात् काम एव संसारस्य मूलम् । तथा चोक्तमाथर्वणे — ‘कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र’(मु. उ. ३ । २ । २) इति । तस्मात् काममय एवायं पुरुषः, यत् अन्यमयत्वं तत् अकारणं विद्यमानमपि — इत्यतः अवधारयति ‘काममय एव’ इति । यस्मात् स च काममयः सन् यादृशेन कामेन यथाकामो भवति, तत्क्रतुर्भवति — स काम ईषदभिलाषमात्रेणाभिव्यक्तो यस्मिन्विषये भवति, सः अविहन्यमानः स्फुटीभवन् क्रतुत्वमापद्यते ; क्रतुर्नाम अध्यवसायः निश्चयः, यदनन्तरा क्रिया प्रवर्तते । यत्क्रतुर्भवति — यादृक्कामकार्येण क्रतुना यथारूपः क्रतुः अस्य सोऽयं यत्क्रतुः भवति — तत्कर्म कुरुते — यद्विषयः क्रतुः, तत्फलनिर्वृत्तये यत् योग्यं कर्म, तत् कुरुते निर्वर्तयति । यत् कर्म कुरुते, तत् अभिसम्पद्यते — तदीयं फलमभिसम्पद्यते । तस्मात् सर्वमयत्वे अस्य संसारित्वे च काम एव हेतुरिति ॥
तदेष श्लोको भवति । तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मण इति नु कामयमानोऽथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति ॥ ६ ॥
६तत् तस्मिन्नर्थे एष श्लोकः मन्त्रोऽपि भवति । तदेव एति तदेव गच्छति, सक्त आसक्तः तत्र उद्भूताभिलाषः सन्नित्यर्थः ; कथमेति ? सह कर्मणा — यत् कर्मफलासक्तः सन् अकरोत् , तेन कर्मणा सहैव तत् एति तत्फलमेति ; किं तत् ? लिङ्गं मनः — मनःप्रधानत्वाल्लिङ्गस्य मनो लिङ्गमित्युच्यते ; अथवा लिङ्ग्यते अवगम्यते — अवगच्छति — येन, तत् लिङ्गम् , तत् मनः — यत्र यस्मिन् निषक्तं निश्चयेन सक्तम् उद्भूताभिलाषम् अस्य संसारिणः ; तदभिलाषो हि तत्कर्म कृतवान् ; तस्मात्तन्मनोऽभिषङ्गवशादेव अस्य तेन कर्मणा तत्फलप्राप्तिः । तेन एतत्सिद्धं भवति, कामो मूलं संसारस्येति । अतः उच्छिन्नकामस्य विद्यमानान्यपि कर्माणि ब्रह्मविदः वन्ध्याप्रसवानि भवन्ति, ‘पर्याप्तकामस्य कृतात्मनश्च इहैव सर्वे प्रविलीयन्ति कामाः’(मु. उ. ३ । २ । २) इति श्रुतेः । किञ्च प्राप्यान्तं कर्मणः — प्राप्य भुक्त्वा अन्तम् अवसानं यावत् , कर्मणः फलपरिसमाप्तिं कृत्वेत्यर्थः ; कस्य कर्मणोऽन्तं प्राप्येत्युच्यते — तस्य, यत्किञ्च कर्म इह अस्मिन् लोके करोति निर्वर्तयति अयम् , तस्य कर्मणः फलं भुक्त्वा अन्तं प्राप्य, तस्मात् लोकात् पुनः ऐति आगच्छति, अस्मै लोकाय कर्मणे — अयं हि लोकः कर्मप्रधानः, तेनाह ‘कर्मणे’ इति — पुनः कर्मकरणाय ; पुनः कर्म कृत्वा फलासङ्गवशात् पुनरमुं लोकं याति — इत्येवम् । इति नु एवं नु, कामयमानः संसरति । यस्मात् कामयमान एव एवं संसरति, अथ तस्मात् , अकामयमानो न क्वचित्संसरति । फलासक्तस्य हि गतिरुक्ता ; अकामस्य हि क्रियानुपपत्तेः अकामयमानो मुच्यत एव । कथं पुनः अकामयमानो भवति ? यः अकामो भवति, असौ अकामयमानः । कथमकामतेत्युच्यते — यो निष्कामः यस्मान्निर्गताः कामाः सोऽयं निष्कामः । कथं कामा निर्गच्छन्ति ? य आप्तकामः भवति आप्ताः कामा येन स आप्तकामः । कथमाप्यन्ते कामाः ? आत्मकामत्वेन, यस्य आत्मैव नान्यः कामयितव्यो वस्त्वन्तरभूतः पदार्थो भवति ; आत्मैव अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एकरसः नोर्ध्वं न तिर्यक् नाधः आत्मनोऽन्यत् कामयितव्यं वस्वन्तरम् — यस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् , शृणुयात् , मन्वीत, विजानीयाद्वा — एवं विजानन्कं कामयेत । ज्ञायमानो ह्यन्यत्वेन पदार्थः कामयितव्यो भवति ; न चासावन्यः ब्रह्मविद आप्तकामस्यास्ति । य एवात्मकामतया आप्तकामः, स निष्कामः अकामः अकामयमानश्चेति मुच्यते । न हि यस्य आत्मैव सर्वं भवति, तस्य अनात्मा कामयितव्योऽस्ति । अनात्मा चान्यः कामयितव्यः, सर्वं च आत्मैवाभूदिति विप्रतिषिद्धम् । सर्वात्मदर्शिनः कामयितव्याभावात्कर्मानुपपत्तिः । ये तु प्रत्यवायपरिहारार्थं कर्म कल्पयन्ति ब्रह्मविदोऽपि, तेषां न आत्मैव सर्वं भवति, प्रत्यवायस्य जिहासितव्यस्य आत्मनोऽन्यस्य अभिप्रेतत्वात् । येन च अशनायाद्यतीतः नित्यं प्रत्यवायासम्बद्धः विदित आत्मा, तं वयं ब्रह्मविदं ब्रूमः ; नित्यमेव अशनायाद्यतीतमात्मानं पश्यति ; यस्माच्च जिहासितव्यमन्यम् उपादेयं वा यो न पश्यति, तस्य कर्म न शक्यत एव सम्बन्धुम् । यस्तु अब्रह्मवित् , तस्य भवत्येव प्रत्यवायपरिहारार्थं कर्मेति न विरोधः । अतः कामाभावात् अकामयमानो न जायते, मुच्यत एव ॥
तस्य एवमकामयमानस्य कर्माभावे गमनकारणाभावात् प्राणा वागादयः, नोत्क्रामन्ति नोर्ध्वं क्रामन्ति देहात् । स च विद्वान् आप्तकामः आत्मकामतया इहैव ब्रह्मभूतः । सर्वात्मनो हि ब्रह्मणः दृष्टान्तत्वेन प्रदर्शितम् एतद्रूपम् — ‘तद्वा अस्यैतदाप्तकाममकामं रूपम्’(बृ. उ. ४ । ३ । २१) इति ; तस्य हि दार्ष्टान्तिकभूतोऽयमर्थ उपसंह्रियते — अथाकामयमान इत्यादिना । स कथमेवंभूतो मुच्यत इत्युच्यते — यो हि सुषुप्तावस्थमिव निर्विशेषमद्वैतम् अलुप्तचिद्रूपज्योतिःस्वभावम् आत्मानं पश्यति, तस्यैव अकामयमानस्य कर्माभावे गमनकारणाभावात् प्राणा वागादयो नोत्क्रामन्ति । किन्तु विद्वान् सः इहैव ब्रह्म, यद्यपि देहवानिव लक्ष्यते ; स ब्रह्मैव सन् ब्रह्म अप्येति । यस्मात् न हि तस्य अब्रह्मत्वपरिच्छेदहेतवः कामाः सन्ति, तस्मात् इहैव ब्रह्मैव सन् ब्रह्म अप्येति न शरीरपातोत्तरकालम् । न हि विदुषो मृतस्य भावान्तरापत्तिः जीवतोऽन्यः भावः, देहान्तरप्रतिसन्धानाभावमात्रेणैव तु ब्रह्माप्येतीत्युच्यते । भावान्तरापत्तौ हि मोक्षस्य सर्वोपनिषद्विवक्षितोऽर्थः आत्मैकत्वाख्यः स बाधितो भवेत् ; कर्महेतुकश्च मोक्षः प्राप्नोति, न ज्ञाननिमित्त इति ; स चानिष्टः ; अनित्यत्वं च मोक्षस्य प्राप्नोति ; न हि क्रियानिर्वृत्तः अर्थः नित्यो दृष्टः ; नित्यश्च मोक्षोऽभ्युपगम्यते, ‘एष नित्यो महिमा’(बृ. उ. ४ । ४ । २३) इति मन्त्रवर्णात् । न च स्वाभाविकात् स्वभावात् अन्यत् नित्यं कल्पयितुं शक्यम् । स्वाभाविकश्चेत् अग्न्युष्णवत् आत्मनः स्वभावः, स न शक्यते पुरुषव्यापारानुभावीति वक्तुम् ; न हि अग्नेरौष्ण्यं प्रकाशो वा अग्निव्यापारानन्तरानुभावी ; अग्निव्यापारानुभावी स्वाभाविकश्चेति विप्रतिषिद्धम् । ज्वलनव्यापारानुभावित्वम् उष्णप्रकाशयोरिति चेत् , न, अन्योपलब्धिव्यवधानापगमाभिव्यक्त्यपेक्षत्वात् ; ज्वलनादिपूर्वकम् अग्निः उष्णप्रकाशगुणाभ्यामभिव्यज्यते, तत् न अग्न्यपेक्षया ; किं तर्हि अन्यदृष्टेः अग्नेरौष्ण्यप्रकाशौ धर्मौ व्यवहितौ, कस्यचिद्दृष्ट्या तु असम्बध्यमानौ, ज्वलनापेक्षया व्यवधानापगमे दृष्टेरभिव्यज्येते ; तदपेक्षया भ्रान्तिरुपजायते — ज्वलनपूर्वकौ एतौ उष्णप्रकाशौ धर्मौ जाताविति । यदि उष्णप्रकाशयोरपि स्वाभाविकत्वं न स्यात् — यः स्वाभाविकोऽग्नेर्धर्मः, तमुदाहरिष्यामः ; न च स्वाभाविको धर्म एव नास्ति पदार्थानामिति शक्यं वक्तुम् ॥
न च निगडभङ्ग इव अभावभूतो मोक्षः बन्धननिवृत्तिरुपपद्यते, परमात्मैकत्वाभ्युपगमात् , ‘एकमेवाद्वितीयम्’(छा. उ. ६ । २ । १) इति श्रुतेः ; न चान्यो बद्धोऽस्ति, यस्य निगडनिवृत्तिवत् बन्धननिवृत्तिः मोक्षः स्यात् ; परमात्मव्यतिरेकेण अन्यस्याभावं विस्तरेण अवादिष्म । तस्मात् अविद्यानिवृत्तिमात्रे मोक्षव्यवहार इति च अवोचाम, यथा रज्ज्वादौ सर्पाद्यज्ञाननिवृत्तौ सर्पादिनिवृत्तिः ॥
येऽप्याचक्षते — मोक्षे विज्ञानान्तरम् आनन्दान्तरं च अभिव्यज्यत इति, तैर्वक्तव्यः अभिव्यक्तिशब्दार्थः । यदि तावत् लौकिक्येव उपलब्धिविषयव्याप्तिः अभिव्यक्तिशब्दार्थः, ततो वक्तव्यम् — किं विद्यमानमभिव्यज्यते, अविद्यमानमिति वा । विद्यमानं चेत् , यस्य मुक्तस्य तदभिव्यज्यते तस्य आत्मभूतमेव तत् इति, उपलब्धिव्यवधानानुपपत्तेः नित्याभिव्यक्तत्वात् , मुक्तस्य अभिव्यज्यत इति विशेषवचनमनर्थकम् । अथ कदाचिदेव अभिव्यज्यते, उपलब्धिव्यवधानात् अनात्मभूतं तदिति, अन्यतोऽभिव्यक्तिप्रसङ्गः ; तथा च अभिव्यक्तिसाधनापेक्षता । उपलब्धिसमानाश्रयत्वे तु व्यवधानकल्पनानुपपत्तेः सर्वदा अभिव्यक्तिः, अनभिव्यक्तिर्वा ; न तु अन्तरालकल्पनायां प्रमाणमस्ति । न च समानाश्रयाणाम् एकस्य आत्मभूतानां धर्माणाम् इतरेतरविषयविषयित्वं सम्भवति । विज्ञानसुखयोश्च प्रागभिव्यक्तेः संसारित्वम् , अभिव्यक्त्युत्तरकालं च मुक्तत्वं यस्य — सोऽन्यः परस्मात् नित्याभिव्यक्तज्ञानस्वरूपात् अत्यन्तवैलक्षण्यात् , शैत्यमिव औष्ण्यात् ; परमात्मभेदकल्पनायां च वैदिकः कृतान्तः परित्यक्तः स्यात् । मोक्षस्य इदानीमिव निर्विशेषत्वे तदर्थाधिकयत्नानुपपत्तिः शास्त्रवैयर्थ्यं च प्राप्नोतीति चेत् , न, अविद्याभ्रमापोहार्थत्वात् ; न हि वस्तुतो मुक्तामुक्तत्वविशेषोऽस्ति, आत्मनो नित्यैकरूपत्वात् ; किन्तु तद्विषया अविद्या अपोह्यते शास्त्रोपदेशजनितविज्ञानेन ; प्राक्तदुपदेशप्राप्तेः तदर्थश्च प्रयत्न उपपद्यत एव । अविद्यावतः अविद्यानिवृत्त्यनिवृत्तिकृतः विशेषः आत्मनः स्यादिति चेत् , न, अविद्याकल्पनाविषयत्वाभ्युपगमात् , रज्जूषरशुक्तिकागगनानां सर्पोदकरजतमलिनत्वादिवत् , अदोष इत्यवोचाम । तिमिरातिमिरदृष्टिवत् अविद्याकर्तृत्वाकर्तृत्वकृत आत्मनो विशेषः स्यादिति चेत् , न, ‘ध्यायतीव लेलायतीव’(बृ. उ. ४ । ३ । ७) इति स्वतः अविद्याकर्तृत्वस्य प्रतिषिद्धत्वात् ; अनेकव्यापारसन्निपातजनितत्वाच्च अविद्याभ्रमस्य ; विषयत्वोपपत्तेश्च ; यस्य च अविद्याभ्रमो घटादिवत् विविक्तो गृह्यते, सः न अविद्याभ्रमवान् । अहं न जाने मुग्धोऽस्मीति प्रत्ययदर्शनात् ; अविद्याभ्रमवत्त्वमेवेति चेत् , न, तस्यापि विवेकग्रहणात् ; न हि यो यस्य विवेकेन ग्रहीता, स तस्मिन्भ्रान्त इत्युच्यते ; तस्य च विवेकग्रहणम् , तस्मिन्नेव च भ्रमः — इति विप्रतिषिद्धम् ; न जाने मुग्धोऽस्मीति दृश्यते इति ब्रवीषि — तद्दर्शिनश्च अज्ञानं मुग्धरूपता दृश्यत इति च — तद्दर्शनस्य विषयो भवति, कर्मतामापद्यत इति ; तत् कथं कर्मभूतं सत् कर्तृस्वरूपदृशिविशेषणम् अज्ञानमुग्धते स्याताम् ? अथ दृशिविशेषणत्वं तयोः, कथं कर्म स्याताम् — दृशिना व्याप्येते ? कर्म हि कर्तृक्रियया व्याप्यमानं भवति ; अन्यश्च व्याप्यम् , अन्यम् व्यापकम् ; न तेनैव तत् व्याप्यते ; वद, कथम् एवं सति, अज्ञानमुग्धते दृशिविशेषणे स्याताम् ? न च अज्ञानविवेकदर्शी अज्ञानम् आत्मनः कर्मभूतमुपलभमानः उपलब्धृधर्मत्वेन गृह्णाति, शरीरे कार्श्यरूपादिवत् तथा । सुखदुःखेच्छाप्रयत्नादीन् सर्वो लोकः गृह्णातीति चेत् , तथापि ग्रहीतुर्लोकस्य विविक्ततैव अभ्युपगता स्यात् । न जानेऽहं त्वदुक्तं मुग्ध एव इति चेत् — भवतु अज्ञो मुग्धः, यस्तु एवंदर्शी, तं ज्ञम् अमुग्धं प्रतिजानीमहे वयम् । तथा व्यासेनोक्तम् — ‘इच्छादि कृत्स्नं क्षेत्रं क्षेत्री प्रकाशयतीति’(भ.गी.१३/३३), ‘समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तम् —’(भ. गी. १३ । २७) इत्यादि शतश उक्तम् । तस्मात् न आत्मनः स्वतः बद्धमुक्तज्ञानाज्ञानकृतो विशेषः अस्ति, सर्वदा समैकरसस्वाभाव्याभ्युपगमात् । ये तु अतोऽन्यथा आत्मवस्तु परिकल्प्य बन्धमोक्षादिशास्त्रं च अर्थवादमापादयन्ति, ते उत्सहन्ते — खेऽपि शाकुनं पदं द्रष्टुम् , खं वा मुष्टिना आक्रष्टुम् , चर्मवद्वेष्टितुम् ; वयं तु तत् कर्तुमशक्ताः ; सर्वदा समैकरसम् अद्वैतम् अविक्रियम् अजम् अजरम् अमरम् अमृतम् अभयम् आत्मतत्त्वं ब्रह्मैव स्मः — इत्येष सर्ववेदान्तनिश्चितोऽर्थ इत्येवं प्रतिपद्यामहे । तस्मात् ब्रह्मात्येतीति उपचारमात्रमेतत् , विपरीतग्रहवद्देहसन्ततेः विच्छेदमात्रं विज्ञानफलमपेक्ष्य ॥
स्वप्नबुद्धान्तगमनदृष्टान्तस्य दार्ष्टान्तिकः संसारो वर्णितः । संसारहेतुश्च विद्याकर्मपूर्वप्रज्ञा वर्णिता । यैश्च उपाधिभूतैः कार्यकरणलक्षणभूतैः परिवेष्टितः संसारित्वमनुभवति, तानि चोक्तानि । तेषां साक्षात्प्रयोजकौ धर्माधर्माविति पूर्वपक्षं कृत्वा, काम एवेत्यवधारितम् । यथा च ब्राह्मणेन अयम् अर्थः अवधारितः, एवं मन्त्रेणापीति बन्धं बन्धकारणं च उक्त्वा उपसंहृतं प्रकरणम् — ‘इति नु कामयमानः’(बृ. उ. ४ । ४ । ६) इति । ‘अथाकामयमानः’(बृ. उ. ४ । ४ । ६) इत्यारभ्य सुषुप्तदृष्टान्तस्य दार्ष्टान्तिकभूतः सर्वात्मभावो मोक्ष उक्तः । मोक्षकारणं च आत्मकामतया यत् आप्तकामत्वमुक्तम् , तच्च सामर्थ्यात् न आत्मज्ञानमन्तरेण आत्मकामतया आप्तकामत्वमिति — सामर्थ्यात् ब्रह्मविद्यैव मोक्षकारणमित्युक्तम् । अतः यद्यपि कामो मूलमित्युक्तम् , तथापि मोक्षकारणविपर्ययेण बन्धकारणम् अविद्या इत्येतदपि उक्तमेव भवति । अत्रापि मोक्षः मोक्षसाधनं च ब्राह्मणेनोक्तम् ; तस्यैव दृढीकरणाय मन्त्र उदाह्रियते श्लोकशब्दवाच्यः —
तदेष श्लोको भवति । यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति । तद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेतेऽथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥ ७ ॥
७तत् तस्मिन्नेवार्थे एष श्लोकः मन्त्रो भवति । यदा यस्मिन्काले सर्वे समस्ताः कामाः तृष्णाप्रभेदाः प्रमुच्यन्ते, आत्मकामस्य ब्रह्मविदः समूलतो विशीर्यन्ते, ये प्रसिद्धा लोके इहामुत्रार्थाः पुत्रवित्तलोकैषणालक्षणाः अस्य प्रसिद्धस्य पुरुषस्य हृदि बुद्धौ श्रिताः आश्रिताः — अथ तदा, मर्त्यः मरणधर्मा सन् , कामवियोगात्समूलतः, अमृतो भवति ; अर्थात् अनात्मविषयाः कामा अविद्यालक्षणाः मृत्यवः इत्येतदुक्तं भवति ; अतः मृत्युवियोगे विद्वान् जीवन्नेव अमृतो भवति । अत्र अस्मिन्नेव शरीरे वर्तमानः ब्रह्म समश्नुते, ब्रह्मभावं मोक्षं प्रतिपद्यत इत्यर्थः । अतः मोक्षः न देशान्तरगमनादि अपेक्षते । तस्मात् विदुषो नोत्क्रामन्ति प्राणाः, यथावस्थिता एव स्वकारणे पुरुषे समवनीयन्ते ; नाममात्रं हि अवशिष्यते — इत्युक्तम् । कथं पुनः समवनीतेषु प्राणेषु, देहे च स्वकारणे प्रलीने, विद्वान् मुक्तः अत्रैव सर्वात्मा सन् वर्तमानः पुनः पूर्ववत् देहित्वं संसारित्वलक्षणं न प्रतिपद्यते — इत्यत्रोच्यते — तत् तत्र अयं दृष्टान्तः ; यथा लोके अहिः सर्पः, तस्य निर्ल्वयनी, निर्मोकः, सा अहिनिर्ल्वयनी, वल्मीके सर्पाश्रये वल्मीकादावित्यर्थः, मृता प्रत्यस्ता प्रक्षिप्ता अनात्मभावेन सर्पेण परित्यक्ता, शयीत वर्तेत — एवमेव, यथा अयं दृष्टान्तः, इदं शरीरं सर्पस्थानीयेन मुक्तेन अनात्मभावेन परित्यक्तं मृतमिव शेते । अथ इतरः सर्पस्थानीयो मुक्तः सर्वात्मभूतः सर्पवत् तत्रैव वर्तमानोऽपि अशरीर एव, न पूर्ववत् पुनः सशरीरो भवति । कामकर्मप्रयुक्तशरीरात्मभावेन हि पूर्वं सशरीरः मर्त्यश्च ; तद्वियोगात् अथ इदानीम् अशरीरः, अत एव च अमृतः ; प्राणः, प्राणितीति प्राणः — ‘प्राणस्य प्राणम्’(बृ. उ. ४ । ४ । १८) इति हि वक्ष्यमाणे श्लोके, ‘प्राणबन्धनं हि सोम्य मनः’(छा. उ. ६ । ८ । २) इति च श्रुत्यन्तरे ; प्रकरणवाक्यसामर्थ्याच्च पर एव आत्मा अत्र प्राणशब्दवाच्यः ; ब्रह्मैव परमात्मैव । किं पुनस्तत् ? तेज एव विज्ञानम् ज्योतिः, येन आत्मज्योतिषा जगत् अवभास्यमानं प्रज्ञानेत्रं विज्ञानज्योतिष्मत् सत् अविभ्रंशत् वर्तते । यः कामप्रश्नो विमोक्षार्थः याज्ञवल्क्येन वरो दत्तो जनकाय, सहेतुकः बन्धमोक्षार्थलक्षणः दृष्टान्तदार्ष्टान्तिकभूतः स एष निर्णीतः सविस्तरः जनकयाज्ञवल्क्याख्यायिकारूपधारिण्या श्रुत्या ; संसारविमोक्षोपाय उक्तः प्राणिभ्यः । इदानीं श्रुतिः स्वयमेवाह — विद्यानिष्क्रयार्थं जनकेनैवमुक्तमिति ; कथम् ? सोऽहम् एवं विमोक्षितस्त्वया भगवते तुभ्यं विद्यानिष्क्रयार्थं सहस्रं ददामि — इति ह एवं किल उवाच उक्तवान् जनको वैदेहः । अत्र कस्माद्विमोक्षपदार्थे निर्णीते, विदेहराज्यम् आत्मानमेव च न निवेदयति, एकदेशोक्ताविव सहस्रमेव ददाति ? तत्र कोऽभिप्राय इति । अत्र केचिद्वर्णयन्ति — अध्यात्मविद्यारसिको जनकः श्रुतमप्यर्थं पुनर्मन्त्रैः शुश्रूषति ; अतो न सर्वमेव निवेदयति ; श्रुत्वाभिप्रेतं याज्ञवल्क्यात् पुनरन्ते निवेदयिष्यामीति हि मन्यते ; यदि चात्रैव सर्वं निवेदयामि, निवृत्ताभिलाषोऽयं श्रवणादिति मत्वा, श्लोकान् न वक्ष्यति — इति च भयात् सहस्रदानं शुश्रूषालिङ्गज्ञापनायेति । सर्वमप्येतत् असत् , पुरुषस्येव प्रमाणभूतायाः श्रुतेः व्याजानुपपत्तेः ; अर्थशेषोपपत्तेश्च — विमोक्षपदार्थे उक्तेऽपि आत्मज्ञानसाधने, आत्मज्ञानशेषभूतः सर्वैषणापरित्यागः सन्न्यासाख्यः वक्तव्योऽर्थशेषः विद्यते ; तस्मात् श्लोकमात्रशुश्रूषाकल्पना अनृज्वी ; अगतिका हि गतिः पुनरुक्तार्थकल्पना ; सा च अयुक्ता सत्यां गतौ । न च तत् स्तुतिमात्रमित्यवोचाम । ननु एवं सति ‘अत ऊर्ध्वं विमोक्षायैव’ इति वक्तव्यम् — नैष दोषः ; आत्मज्ञानवत् अप्रयोजकः सन्न्यासः पक्षे, प्रतिपत्तिकर्मवत् — इति हि मन्यते ; ‘सन्न्यासेन तनुं त्यजेत्’ इति स्मृतेः । साधनत्वपक्षेऽपि न ‘अत ऊर्ध्वं विमोक्षायैव’ इति प्रश्नमर्हति, मोक्षसाधनभूतात्मज्ञानपरिपाकार्थत्वात् ॥
तदेते श्लोका भवन्ति । अणुः पन्था विततः पुराणो मां स्पृष्टोऽनुवित्तो मयैव । तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वं विमुक्ताः ॥ ८ ॥
८आत्मकामस्य ब्रह्मविदो मोक्ष इत्येतस्मिन्नर्थे मन्त्रब्राह्मणोक्ते, विस्तरप्रतिपादका एते श्लोका भवन्ति । अणुः सूक्ष्मः पन्थाः दुर्विज्ञेयत्वात् , विततः विस्तीर्णः, विस्पष्टतरणहेतुत्वाद्वा ‘वितरः’ इति पाठान्तरात् , मोक्षसाधनो ज्ञानमार्गः पुराणः चिरन्तनः नित्यश्रुतिप्रकाशितत्वात् , न तार्किकबुद्धिप्रभवकुदृष्टिमार्गवत् अर्वाक्कालिकः, मां स्पृष्टः मया लब्ध इत्यर्थः ; यो हि येन लभ्यते, स तं स्पृशतीव सम्बध्यते ; तेन अयं ब्रह्मविद्यालक्षणो मोक्षमार्गः मया लब्धत्वात् ‘मां स्पृष्टः’ इत्युच्यते । न केवलं मया लब्धः, किं तु अनुवित्तो मयैव ; अनुवेदनं नाम विद्यायाः परिपाकापेक्षया फलावसानतानिष्ठा प्राप्तिः, भुजेरिव तृप्त्यवसानता ; पूर्वं तु ज्ञानप्राप्तिसम्बन्धमात्रमेवेति विशेषः । किम् असावेव मन्त्रदृक् एकः ब्रह्मविद्याफलं प्राप्तः, नान्यः प्राप्तवान् , येन ‘अनुवित्तो मयैव’ इत्यवधारयति — नैष दोषः, अस्याः फलम् आत्मसाक्षिकमनुत्तममिति ब्रह्मविद्यायाः स्तुतिपरत्वात् ; एवं हि कृतार्थात्माभिमानकरम् आत्मप्रत्ययसाक्षिकम् आत्मज्ञानम् , किमतः परम् अन्यत्स्यात् — इति ब्रह्मविद्यां स्तौति ; न तु पुनः अन्यो ब्रह्मवित् तत्फलं न प्राप्नोतीति, ‘तद्यो यो देवानाम्’(बृ. उ. १ । ४ । १०) इति सर्वार्थश्रुतेः ; तदेवाह — तेन ब्रह्मविद्यामार्गेण धीराः प्रज्ञावन्तः अन्येऽपि ब्रह्मविद इत्यर्थः, अपियन्ति अपिगच्छन्ति, ब्रह्मविद्याफलं मोक्षं स्वर्गं लोकम् ; स्वर्गलोकशब्दः त्रिविष्टपवाच्यपि सन् इह प्रकरणात् मोक्षाभिधायकः ; इतः अस्माच्छरीरपातात् ऊर्ध्वं जीवन्त एव विमुक्ताः सन्तः ॥
तस्मिञ्छुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितं च । एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च ॥ ९ ॥
९तस्मिन् मोक्षसाधनमार्गे विप्रतिपत्तिर्मुमुक्षूणाम् ; कथम् ? तस्मिन् शुक्लं शुद्धं विमलम् आहुः केचित् मुमुक्षवः ; नीलम् अन्ये, पिङ्गलम् अन्ये, हरितं लोहितं च — यथादर्शनम् । नाड्यस्तु एताः सुषुम्नाद्याः श्लेष्मादिरससम्पूर्णाः — शुक्लस्य नीलस्य पिङ्गलस्येत्याद्युक्तत्वात् । आदित्यं वा मोक्षमार्गम् एवंविधं मन्यन्ते — ‘एष शुक्ल एष नीलः’(छा. उ. ८ । ६ । १) इत्यादिश्रुत्यन्तरात् । दर्शनमार्गस्य च शुक्लादिवर्णासम्भवात् । सर्वथापि तु प्रकृतात् ब्रह्मविद्यामार्गात् अन्ये एते शुक्लादयः । ननु शुक्लः शुद्धः अद्वैतमार्गः — न, नीलपीतादिशब्दैः वर्णवाचकैः सह अनुद्रवणात् ; यान् शुक्लादीन् योगिनो मोक्षपथान् आहुः, न ते मोक्षमार्गाः ; संसारविषया एव हि ते — ‘चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः’(बृ. उ. ४ । ४ । २) इति शरीरदेशान्निःसरणसम्बन्धात् , ब्रह्मादिलोकप्रापका हि ते । तस्मात् अयमेव मोक्षमार्गः — यः आत्मकामत्वेन आप्तकामतया सर्वकामक्षये गमनानुपपत्तौ प्रदीपनिर्वाणवत् चक्षुरादीनां कार्यकरणानाम् अत्रैव समवनयः — इति एषः ज्ञानमार्गः पन्थाः, ब्रह्मणा परमात्मस्वरूपेणैव ब्राह्मणेन त्यक्तसर्वैषणेन, अनुवित्तः । तेन ब्रह्मविद्यामार्गेण ब्रह्मवित् अन्यः अपि एति । कीदृशो ब्रह्मवित् तेन एतीत्युच्यते — पूर्वं पुण्यकृद्भूत्वा पुनस्त्यक्तपुत्राद्येषणः, परमात्मतेजस्यात्मानं संयोज्य तस्मिन्नभिनिर्वृत्तः तैजसश्च — आत्मभूतः इहैव इत्यर्थः ; ईदृशो ब्रह्मवित् तेन मार्गेण एति । न पुनः पुण्यादिसमुच्चयकारिणो ग्रहणम् , विरोधादित्यवोचाम ; ‘अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः । शान्ताः सन्न्यासिनो यान्ति तस्मै मोक्षात्मने नमः’(महा. भा. रा. ध. ४७ । ५५) इति च स्मृतेः ; ‘त्यज धर्ममधर्मं च’(मो. ध. ३२९ । ४०) इत्यादि पुण्यापुण्यत्यागोपदेशात् ; ‘निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् । अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः’(मो. ध. २६३ । ३४) ‘नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च । शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः’(मो. ध. १७५ । ३७) इत्यादिस्मृतिभ्यश्च । उपदेक्ष्यति च इहापि तु — ‘एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान्’(बृ. उ. ४ । ४ । २३) इति कर्मप्रयोजनाभावे हेतुमुक्त्वा, ‘तस्मादेवंविच्छान्तो दान्तः’(बृ. उ. ४ । ४ । २३) इत्यादिना सर्वक्रियोपरमम् । तस्मात् यथाव्याख्यातमेव पुण्यकृत्त्वम् । अथवा यो ब्रह्मवित् तेन एति, स पुण्यकृत् तैजसश्च — इति ब्रह्मवित्स्तुतिरेषा ; पुण्यकृति तैजसे च योगिनि महाभाग्यं प्रसिद्धं लोके, ताभ्याम् अतः ब्रह्मवित् स्तूयते प्रख्यातमहाभाग्यत्वाल्लोके ॥
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः ॥ १० ॥
१०अन्धम् अदर्शनात्मकं तमः संसारनियामकं प्रविशन्ति प्रतिपद्यन्ते ; के ? ये अविद्यां विद्यातोऽन्यां साध्यसाधनलक्षणाम् , उपासते, कर्म अनुवर्तन्त इत्यर्थः ; ततः तस्मादपि भूय इव बहुतरमिव तमः प्रविशन्ति ; के ? ये उ विद्यायाम् अविद्यावस्तुप्रतिपादिकायां कर्मार्थायां त्रय्यामेव विद्यायाम् , रता अभिरताः ; विधिप्रतिषेधपर एव वेदः, नान्योऽस्ति — इति, उपनिषदर्थानपेक्षिण इत्यर्थः ॥
अनन्दा नाम ते लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याभिगच्छन्त्यविद्वांसोऽबुधो जनाः ॥ ११ ॥
११यदि ते अदर्शनलक्षणं तमः प्रविशन्ति, को दोष इत्युच्यते — अनन्दाः अनानन्दाः असुखा नाम ते लोकाः, तेन अन्धेनादर्शनलक्षणेन तमसा आवृताः व्याप्ताः, — ते तस्य अज्ञानतमसो गोचराः ; तान् ते प्रेत्य मृत्वा अभिगच्छन्ति अभियान्ति ; के ? ये अविद्वांस ; किं सामान्येन अविद्वत्तामात्रेण ? नेत्युच्यते — अबुधः, बुधेः अवगमनार्थस्य धातोः क्विप्प्रत्ययान्तस्य रूपम् , आत्मावगमवर्जिता इत्यर्थः ; जनाः प्राकृता एव जननधर्माणो वा इत्येतत् ॥
आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनुसञ्ज्वरेत् ॥ १२ ॥
१२आत्मानं स्वं परं सर्वप्राणिमनीषितज्ञं हृत्स्थम् अशनायादिधर्मातीतम् , चेत् यदि, विजानीयात् सहस्रेषु कश्चित् ; चेदिति आत्मविद्याया दुर्लभत्वं दर्शयति ; कथम् ? अयम् पर आत्मा सर्वप्राणिप्रत्ययसाक्षी, यः नेति नेतीत्याद्युक्तः, यस्मान्नान्योऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता, समः सर्वभूतस्थो नित्यशुद्धबुद्धमुक्तस्वभावः — अस्मि भवामि — इति ; पूरुषः पुरुषः ; सः किमिच्छन् — तत्स्वरूपव्यतिरिक्तम् अन्यद्वस्तु फलभूतं किमिच्छन् कस्य वा अन्यस्य आत्मनो व्यतिरिक्तस्य कामाय प्रयोजनाय ; न हि तस्य आत्मन एष्टव्यं फलम् , न चाप्यात्मनोऽन्यः अस्ति, यस्य कामाय इच्छति, सर्वस्य आत्मभूतत्वात् ; अतः किमिच्छन् कस्य कामाय शरीरमनुसञ्ज्वरेत् , भ्रंशेत् , शरीरोपाधिकृतदुःखमनु दुःखी स्यात् , शरीरतापमनुतप्येत । अनात्मदर्शिनो हि तद्व्यतिरिक्तवस्त्वन्तरेप्सोः ; ‘ममेदं स्यात् , पुत्रस्य इदम् , भार्याया इदम्’ इत्येवमीहमानः पुनःपुनर्जननमरणप्रबन्धरूढः शरीररोगमनुरुज्यते ; सर्वात्मदर्शिनस्तु तदसम्भव इत्येतदाह ॥
यस्यानुवित्तः प्रतिबुद्ध आत्मास्मिन्सन्देह्ये गहने प्रविष्टः । स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ १३ ॥
१३किं च यस्य ब्राह्मणस्य, अनुवित्तः अनुलब्धः, प्रतिबुद्धः साक्षात्कृतः, कथम् ? अहमस्मि परं ब्रह्मेत्येवं प्रत्यगात्मत्वेनावगतः, आत्मा अस्मिन्सन्देह्ये सन्देहे अनेकानर्थसङ्कटोपचये, गहने विषमे अनेकशतसहस्रविवेकविज्ञानप्रतिपक्षे विषमे, प्रविष्टः ; स यस्य ब्राह्मणस्यानुवित्तः प्रतिबोधेनेत्यर्थः ; स विश्वकृत् विश्वस्य कर्ता ; कथं विश्वकृत्त्वम् , तस्य किं विश्वकृदिति नाम इत्याशङ्क्याह — सः हि यस्मात् सर्वस्य कर्ता, न नाममात्रम् ; न केवलं विश्वकृत् परप्रयुक्तः सन् , किं तर्हि तस्य लोकः सर्वः ; किमन्यो लोकः अन्योऽसावित्युच्यते — स उ लोक एव ; लोकशब्देन आत्मा उच्यते ; तस्य सर्व आत्मा, स च सर्वस्यात्मेत्यर्थः । य एष ब्राह्मणेन प्रत्यगात्मा प्रतिबुद्धतया अनुवित्तः आत्मा अनर्थसङ्कटे गहने प्रविष्टः, स न संसारी, किं तु पर एव ; यस्मात् विश्वस्य कर्ता सर्वस्य आत्मा, तस्य च सर्व आत्मा । एक एवाद्वितीयः पर एवास्मीत्यनुसन्धातव्य इति श्लोकार्थः ॥
इहैव सन्तोऽथ विद्मस्तद्वयं न चेदवेदिर्महती विनष्टिः । ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ १४ ॥
१४किं च इहैव अनेकानर्थसङ्कुले, सन्तः भवन्तः अज्ञानदीर्घनिद्रामोहिताः सन्तः, कथञ्चिदिव ब्रह्मतत्त्वम् आत्मत्वेन अथ विद्मः विजानीमः, तत् एतद्ब्रह्म प्रकृतम् ; अहो वयं कृतार्था इत्यभिप्रायः । यदेतद्ब्रह्म विजानीमः, तत् न चेत् विदितवन्तो वयम् — वेदनं वेदः, वेदोऽस्यास्तीति वेदी, वेद्येव वेदिः, न वेदिः अवेदिः, ततः अहम् अवेदिः स्याम् । यदि अवेदिः स्याम् , को दोषः स्यात् ? महती अनन्तपरिमाणा जन्ममरणादिलक्षणा विनष्टिः विनशनम् । अहो वयम् अस्मान्महतो विनाशात् निर्मुक्ताः, यत् अद्वयं ब्रह्म विदितवन्त इत्यर्थः । यथा च वयं ब्रह्म विदित्वा अस्माद्विनशनाद्विप्रमुक्ताः, एवं ये तद्विदुः अमृतास्ते भवन्ति ; ये पुनः नैवं ब्रह्म विदुः, ते इतरे ब्रह्मविद्भ्योऽन्ये अब्रह्मविद इत्यर्थः, दुःखमेव जन्ममरणादिलक्षणमेव अपियन्ति प्रतिपद्यन्ते, न कदाचिदपि अविदुषां ततो विनिवृत्तिरित्यर्थः ; दुःखमेव हि ते आत्मत्वेनोपगच्छन्ति ॥
यदैतमनुपश्यत्यात्मानं देवमञ्जसा । ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥ १५ ॥
१५यदा पुनः एतम् आत्मानम् , कथञ्चित् परमकारुणिकं कञ्चिदाचार्यं प्राप्य ततो लब्धप्रसादः सन् , अनु पश्चात् पश्यति साक्षात्करोति स्वमात्मानम् , देवं द्योतनवन्तम् दातारं वा सर्वप्राणिकर्मफलानां यथाकर्मानुरूपम् , अञ्जसा साक्षात् , ईशानं स्वामिनम् भूतभव्यस्य कालत्रयस्येत्येतत् — न ततः तस्मादीशानाद्देवात् आत्मानं विशेषेण जुगुप्सते गोपायितुमिच्छति । सर्वो हि लोक ईश्वराद्गुप्तिमिच्छति भेददर्शी ; अयं तु एकत्वदर्शी न बिभेति कुतश्चन ; अतो न तदा विजुगुप्सते, यदा ईशानं देवम् अञ्जसा आत्मत्वेन पश्यति । न तदा निन्दति वा कञ्चित् , सर्वम् आत्मानं हि पश्यति, स एवं पश्यन् कम् असौ निन्द्यात् ॥
यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते । तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् ॥ १६ ॥
१६किं च यस्मात् ईशानात् अर्वाक् , यस्मादन्यविषय एवेत्यर्थः, संवत्सरः कालात्मा सर्वस्य जनिमतः परिच्छेत्ता, यम् अपरिच्छिन्दन् अर्वागेव वर्तते, अहोभिः स्वावयवैः अहोरात्रैरित्यर्थः ; तत् ज्योतिषां ज्योतिः आदित्यादिज्योतिषामप्यवभासकत्वात् , आयुरित्युपासते देवाः, अमृतं ज्योतिः — अतोऽन्यन्म्रियते, न हि ज्योतिः ; सर्वस्य हि एतज्ज्योतिः आयुः । आयुर्गुणेन यस्मात् देवाः तत् ज्योतिरुपासते, तस्मात् आयुष्मन्तस्ते । तस्मात् आयुष्कामेन आयुर्गुणेन उपास्यं ब्रह्मेत्यर्थः ॥
यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् ॥ १७ ॥
१७किं च यस्मिन् यत्र ब्रह्मणि, पञ्च पञ्चजनाः — गन्धर्वादयः पञ्चैव सङ्ख्याताः गन्धर्वाः पितरो देवा असुरा रक्षांसि — निषादपञ्चमा वा वर्णाः, आकाशश्च अव्याकृताख्यः — यस्मिन् सूत्रम् ओतं च प्रोतं च — यस्मिन्प्रतिष्ठितः ; ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाशः’(बृ. उ. ३ । ८ । ११) इत्युक्तम् ; तमेव आत्मानम् अमृतं ब्रह्म मन्ये अहम् , न चाहमात्मानं ततोऽन्यत्वेन जाने । किं तर्हि ? अमृतोऽहम् ब्रह्म विद्वान्सन् ; अज्ञानमात्रेण तु मर्त्योऽहम् आसम् ; तदपगमात् विद्वानहम् अमृत एव ॥
प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः । ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ॥ १८ ॥
१८किं च तेन हि चैतन्यात्मज्योतिषा अवभास्यमानः प्राणः आत्मभूतेन प्राणिति, तेन प्राणस्यापि प्राणः सः, तं प्राणस्य प्राणम् ; तथा चक्षुषोऽपि चक्षुः ; उत श्रोत्रस्यापि श्रोत्रम् ; ब्रह्मशक्त्याधिष्ठितानां हि चक्षुरादीनां दर्शनादिसामर्थ्यम् ; स्वतः काष्ठलोष्टसमानि हि तानि चैतन्यात्मज्योतिःशून्यानि ; मनसोऽपि मनः — इति ये विदुः — चक्षुरादिव्यापारानुमितास्तित्वं प्रत्यगात्मानम् , न विषयभूतम् ये विदुः — ते निचिक्युः निश्चयेन ज्ञातवन्तः ब्रह्म, पुराणं चिरन्तनम् , अग्र्यम् अग्रे भवम् । ‘तद्यदात्मविदो विदुः’(मु. उ. २ । २ । १०) इति ह्याथर्वणे ॥
मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १९ ॥
१९तद्ब्रह्मदर्शने साधनमुच्यते — मनसैव परमार्थज्ञानसंस्कृतेन आचार्योपदेशपूर्वकं च अनुद्रष्टव्यम् । तत्र च दर्शनविषये ब्रह्मणि न इह नाना अस्ति किञ्चन किञ्चिदपि ; असति नानात्वे, नानात्वमध्यारोपयति अविद्यया । सः मृत्योः मरणात् , मृत्युं मरणम् आप्नोति ; कोऽसौ ? य इह नानेव पश्यति । अविद्याध्यारोपणव्यतिरेकेण नास्ति परमार्थतो द्वैतमित्यर्थः ॥
एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् । विरजः पर आकाशादज आत्मा महान्ध्रुवः ॥ २० ॥
२०यस्मादेवम् तस्मात् , एकधैव एकेनैव प्रकारेण विज्ञानघनैकरसप्रकारेण आकाशवन्निरन्तरेण अनुद्रष्टव्यम् ; यस्मात् एतद्ब्रह्म अप्रमयम् अप्रमेयम् , सर्वैकत्वात् ; अन्येन हि अन्यत् प्रमीयते ; इदं तु एकमेव, अतः अप्रमेयम् ; ध्रुवं नित्यं कूटस्थम् अविचालीत्यर्थः । ननु विरुद्धमिदमुच्यते — अप्रमेयं ज्ञायत इति च ; ‘ज्ञायते’ इति प्रमाणैर्मीयत इत्यर्थः, ‘अप्रमेयम्’ इति च तत्प्रतिषेधः — नैष दोषः, अन्यवस्तुवत् अनागमप्रमाणप्रमेयत्वप्रतिषेधार्थत्वात् ; यथा अन्यानि वस्तूनि आगमनिरपेक्षैः प्रमाणैः विषयीक्रियन्ते, न तथा एतत् आत्मतत्त्वं प्रमाणान्तरेण विषयीकर्तुं शक्यते ; सर्वस्यात्मत्वे केन कं पश्येत् विजानीयात् — इति प्रमातृप्रमाणादिव्यापारप्रतिषेधेनैव आगमोऽपि विज्ञापयति, न तु अभिधानाभिधेयलक्षणवाक्यधर्माङ्गीकरणेन ; तस्मात् न आगमेनापि स्वर्गमेर्वादिवत् तत् प्रतिपाद्यते ; प्रतिपादयित्रात्मभूतं हि तत् ; प्रतिपादयितुः प्रतिपादनस्य प्रतिपाद्यविषयत्वात् , भेदे हि सति तत् भवति । ज्ञानं च तस्मिन् परात्मभावनिवृत्तिरेव ; न तस्मिन् साक्षात् आत्मभावः कर्तव्यः, विद्यमानत्वादात्मभावस्य ; नित्यो हि आत्मभावः सर्वस्य अतद्विषय इव प्रत्यवभासते ; तस्मात् अतद्विषयाभासनिवृत्तिव्यतिरेकेण न तस्मिन्नात्मभावो विधीयते ; अन्यात्मभावनिवृत्तौ, आत्मभावः स्वात्मनि स्वाभाविको यः, स केवलो भवतीति — आत्मा ज्ञायत इत्युच्यते ; स्वतश्चाप्रमेयः प्रमाणान्तरेण न विषयीक्रियते इति उभयमप्यविरुद्धमेव । विरजः विगतरजः, रजो नाम धर्माधर्मादिमलम् तद्रहित इत्येतत् । परः — परो व्यतिरिक्तः सूक्ष्मो व्यापी वा आकाशादपि अव्याकृताख्यात् । अजः न जायते ; जन्मप्रतिषेधात् उत्तरेऽपि भावविकाराः प्रतिषिद्धाः, सर्वेषां जन्मादित्वात् । आत्मा, महान्परिमाणतः, महत्तरः सर्वस्मात् । ध्रुवः अविनाशी ॥
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तदिति ॥ २१ ॥
२१तम् ईदृशमात्मानमेव, धीरः धीमान् विज्ञाय उपदेशतः शास्त्रतश्च, प्रज्ञां शास्त्राचर्योपदिष्टविषयां जिज्ञासापरिसमाप्तिकरीम् , कुर्वीत ब्राह्मणः — एवं प्रज्ञाकरणसाधनानि सन्न्यासशमदमोपरमतितिक्षासमाधानानि कुर्यादित्यर्थः । न अनुध्यायात् नानुचिन्तयेत् , बहून् प्रभूतान् शब्दान् ; तत्र बहुत्वप्रतिषेधात् केवलात्मैकत्वप्रतिपादकाः स्वल्पाः शब्दा अनुज्ञायन्ते ; ‘ओमित्येवं ध्यायथ आत्मानम्’(मु. उ. २ । २ । ६) ‘अन्या वाचो विमुञ्चथ’(मु. उ. २ । २ । ५) इति च आथर्वणे । वाचो विग्लापनं विशेषेण ग्लानिकरं श्रमकरम् , हि यस्मात् , तत् बहुशब्दाभिध्यानमिति ॥
स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेनैतमेव विदित्वा मुनिर्भवति । एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति । एतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक इति ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः । स एष नेति नेत्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्येतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते तपतः ॥ २२ ॥
२२सहेतुकौ बन्धमोक्षौ अभिहितौ मन्त्रब्राह्मणाभ्याम् ; श्लोकैश्च पुनः मोक्षस्वरूपं विस्तरेण प्रतिपादितम् ; एवम् एतस्मिन् आत्मविषये सर्वो वेदः यथा उपयुक्तो भवति, तत् तथा वक्तव्यमिति तदर्थेयं कण्डिका आरभ्यते । तच्च यथा अस्मिन्प्रपाठके अभिहितं सप्रयोजनम् अनूद्य अत्रैव उपयोगः कृत्स्नस्य वेदस्य काम्यराशिवर्जितस्य — इत्येवमर्थ उक्तार्थानुवादः ‘स वा एषः’ इत्यादिः । स इति उक्तपरामर्शार्थः ; कोऽसौ उक्तः परामृश्यते ? तं प्रतिनिर्दिशति — य एष विज्ञानमय इति — अतीतानन्तरवाक्योक्तसंप्रत्ययो मा भूदिति, यः एषः ; कतमः एषः इत्युच्यते — विज्ञानमयः प्राणेष्विति ; उक्तवाक्योल्लिङ्गनं संशयनिवृत्त्यर्थम् ; उक्तं हि पूर्वं जनकप्रश्नारम्भे ‘कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु’(बृ. उ. ४ । ३ । ७) इत्यादि । एतदुक्तं भवति — योऽयम् ‘विज्ञानमयः प्राणेषु’ इत्यादिना वाक्येन प्रतिपादितः स्वयं ज्योतिरात्मा, स एषः कामकर्माविद्यानामनात्मधर्मत्वप्रतिपादनद्वारेण मोक्षितः परमात्मभावमापादितः — पर एवायं नान्य इति ; एष सः साक्षान्महानज आत्मेत्युक्तः । योऽयं विज्ञानमयः प्राणेष्विति यथाव्याख्यातार्थ एव । य एषः अन्तर्हृदये हृदयपुण्डरीकमध्ये य एष आकाशो बुद्धिविज्ञानसंश्रयः, तस्मिन्नाकाशे बुद्धिविज्ञानसहिते शेते तिष्ठति ; अथवा सम्प्रसादकाले अन्तर्हृदये य एष आकाशः पर एव आत्मा निरुपाधिकः विज्ञानमयस्य स्वस्वभावः, तस्मिन् स्वस्वभावे परमात्मनि आकाशाख्ये शेते ; चतुर्थे एतद्व्याख्यातम् ‘क्वैष तदाभूत्’(बृ. उ. २ । १ । १६) इत्यस्य प्रतिवचनत्वेन । स च सर्वस्य ब्रह्मेन्द्रादेः वशी ; सर्वो हि अस्य वशे वर्तते ; उक्तं च ‘एतस्य वा अक्षरस्य प्रशासने’(बृ. उ. ३ । ८ । ९) इति । न केवलं वशी, सर्वस्य ईशानः ईशिता च ब्रह्मेन्द्रप्रभृतीनाम् । ईशितृत्वं च कदाचित् जातिकृतम् , यथा राजकुमारस्य बलवत्तरानपि भृत्यान्प्रति, तद्वन्मा भूदित्याह — सर्वस्याधिपतिः अधिष्ठाय पालयिता, स्वतन्त्र इत्यर्थः ; न राजपुत्रवत् अमात्यादिभृत्यतन्त्रः । त्रयमप्येतत् वशित्वादि हेतुहेतुमद्रूपम् — यस्मात् सर्वस्याधिपतिः, ततोऽसौ सर्वस्येशानः ; यो हि यमधिष्ठाय पालयति, स तं प्रतीष्ट एवेति प्रसिद्धम् , यस्माच्च सर्वस्येशानः, तस्मात् सर्वस्य वशीति । किञ्चान्यत् स एवंभूतो हृद्यन्तर्ज्योतिः पुरुषो विज्ञानमयः न साधुना शास्त्रविहितेन कर्मणा भूयान्भवति, न वर्धते पूर्वावस्थातः केनचिद्धर्मेण ; नो एव शास्त्रप्रतिषिद्धेन असाधुना कर्मणा कनीयान् अल्पतरो भवति, पूर्वावस्थातो न हीयत इत्यर्थः । किं च सर्वो हि अधिष्ठानपालनादि कुर्वन् परानुग्रहपीडाकृतेन धर्माधर्माख्येन युज्यते ; अस्यैव तु कथं तदभाव इत्युच्यते — यस्मात् एष सर्वेश्वरः सन् कर्मणोऽपीशितुं भवत्येव शीलमस्य, तस्मात् न कर्मणा सम्बध्यते । किं च एष भूताधिपतिः ब्रह्मादिस्तम्बपर्यन्तानां भूतानामधिपतिरित्युक्तार्थं पदम् । एष भूतानां तेषामेव पालयिता रक्षिता । एष सेतुः ; किंविशिष्ट इत्याह — विधरणः वर्णाश्रमादिव्यवस्थाया विधारयिता ; तदाह — एषां भूरादीनां ब्रह्मलोकान्तानां लोकानाम् असम्भेदाय असम्भिन्नमर्यादायै ; परमेश्वरेण सेतुवदविधार्यमाणा लोकाः सम्भिन्नमर्यादाः स्युः ; अतो लोकानामसम्भेदाय सेतुभूतोऽयं परमेश्वरः, यः स्वयं ज्योतिरात्मैव एवंवित् सर्वस्य वशी — इत्यादि ब्रह्मविद्यायाः फलमेतन्निर्दिष्टम् । ‘किञ्ज्योतिरयं पुरुषः’(बृ. उ. ४ । ३ । २) इत्येवमादिषष्ठप्रपाठकविहितायामेतस्यां ब्रह्मविद्यायाम् एवंफलायाम् काम्यैकदेशवर्जितं कृत्स्नं कर्मकाण्डं तादर्थ्येन विनियुज्यते ; तत् कथमित्युच्यते — तमेतम् एवंभूतमौपनिषदं पुरुषम् , वेदानुवचनेन मन्त्रब्राह्मणाध्ययनेन नित्यस्वाध्यायलक्षणेन, विविदिषन्ति वेदितुमिच्छन्ति ; के ? ब्राह्मणाः ; ब्राह्मणग्रहणमुपलक्षणार्थम् ; अविशिष्टो हि अधिकारः त्रयाणां वर्णानाम् ; अथवा कर्मकाण्डेन मन्त्रब्राह्मणेन वेदानुवचनेन विविदिषन्ति ; कथं विविदिषन्तीत्युच्यते — यज्ञेनेत्यादि ॥
ये पुनः मन्त्रब्राह्मणलक्षणेन वेदानुवचनेन प्रकाश्यमानं विविदिषन्ति — इति व्याचक्षते, तेषाम् आरण्यकमात्रमेव वेदानुवचनं स्यात् ; न हि कर्मकाण्डेन पर आत्मा प्रकाश्यते ; ‘तं त्वौपनिषदम्’(बृ. उ. ३ । ९ । २६) इति विशेषश्रुतेः । वेदानुवचनेनेति च अविशेषितत्वात् समस्तग्राहि इदं वचनम् ; न च तदेकदेशोत्सर्गः युक्तः । ननु त्वत्पक्षेऽपि उपनिषद्वर्जमिति एकदेशत्वं स्यात् — न, आद्यव्याख्याने अविरोधात् अस्मत्पक्षे नैष दोषो भवति ; यदा वेदानुवचनशब्देन नित्यः स्वाध्यायो विधीयते, तदा उपनिषदपि गृहीतैवेति, वेदानुवचनशब्दार्थैकदेशो न परित्यक्तो भवति । यज्ञादिसहपाठाच्च — यज्ञादीनि कर्माण्येव अनुक्रमिष्यन् वेदानुवचनशब्दं प्रयुङ्क्ते ; तस्मात् कर्मैव वेदानुवचनशब्देनोच्यत इति गम्यते ; कर्म हि नित्यस्वाध्यायः ॥
कथं पुनः नित्यस्वाध्यायादिभिः कर्मभिः आत्मानं विविदिषन्ति ? नैव हि तानि आत्मानं प्रकाशयन्ति, यथा उपनिषदः — नैष दोषः, कर्मणां विशुद्धिहेतुत्वात् ; कर्मभिः संस्कृता हि विशुद्धात्मानः शक्नुवन्ति आत्मानमुपनिषत्प्रकाशितम् अप्रतिबन्धेन वेदितुम् ; तथा ह्याथर्वणे — ‘विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः’(मु. उ. ३ । १ । ८) इति ; स्मृतिश्च ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः’(मो. ध. २०४ । ८) इत्यादिः । कथं पुनः नित्यानि कर्माणि संस्कारार्थानीत्यवगम्यते ? ‘स ह वा आत्मयाजी यो वेदेदं मेऽनेनाङ्गं संस्क्रियत इदं मेऽनेनाङ्गमुपधीयते’(शत. ब्रा. ११ । २ । ६ । १३) इत्यादिश्रुतेः ; सर्वेषु च स्मृतिशास्त्रेषु कर्माणि संस्कारार्थान्येव आचक्षते ‘अष्टाचत्वारिंशत्संस्काराः’(गौ. ध. १ । ८ । ८ तः २२, २४, २५) इत्यादिषु । गीतासु च — ‘यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् । ’(भ. गी. १८ । ५) ‘सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः’(भ. गी. ४ । ३०) इति । यज्ञेनेति — द्रव्ययज्ञा ज्ञानयज्ञाश्च संस्कारार्थाः ; संस्कृतस्य च विशुद्धसत्त्वस्य ज्ञानोत्पत्तिरप्रतिबन्धेन भविष्यति ; अतो यज्ञेन विविदिषन्ति । दानेन — दानमपि पापक्षयहेतुत्वात् धर्मवृद्धिहेतुत्वाच्च । तपसा, तप इति अविशेषेण कृच्छ्रचान्द्रायणादिप्राप्तौ विशेषणम् — अनाशकेनेति ; कामानशनम् अनाशकम् , न तु भोजननिवृत्तिः ; भोजननिवृत्तौ म्रियत एव, न आत्मवेदनम् । वेदानुवचनयज्ञदानतपःशब्देन सर्वमेव नित्यं कर्म उपलक्ष्यते ; एवं काम्यवर्जितं नित्यं कर्मजातं सर्वम् आत्मज्ञानोत्पत्तिद्वारेण मोक्षसाधनत्वं प्रतिपद्यते ; एवं कर्मकाण्डेन अस्य एकवाक्यतावगतिः । एवं यथोक्तेन न्यायेन एतमेव आत्मानं विदित्वा यथाप्रकाशितम् , मुनिर्भवति, मननान्मुनिः, योगी भवतीत्यर्थः ; एतमेव विदित्वा मुनिर्भवति, नान्यम् । ननु अन्यवेदनेऽपि मुनित्वं स्यात् ; कथमवधार्यते — एतमेवेति — बाढम् , अन्यवेदनेऽपि मुनिर्भवेत् ; किं तु अन्यवेदने न मुनिरेव स्यात् , किं तर्हि कर्म्यपि भवेत् सः ; एतं तु औपनिषदं पुरुषं विदित्वा, मुनिरेव स्यात् , न तु कर्मी ; अतः असाधारणं मुनित्वं विवक्षितमस्येति अवधारयति — एतमेवेति ; एतस्मिन्हि विदिते, केन कं पश्येदित्येवं क्रियासम्भवात् मननमेव स्यात् । किं च एतमेव आत्मानं स्वं लोकम् इच्छन्तः प्रार्थयन्तः प्रव्राजिनः प्रव्रजनशीलाः प्रव्रजन्ति प्रकर्षेण व्रजन्ति, सर्वाणि कर्माणि सन्न्यस्यन्तीत्यर्थः । ‘एतमेव लोकमिच्छन्तः’ इत्यवधारणात् न बाह्यलोकत्रयेप्सूनां पारिव्राज्ये अधिकार इति गम्यते ; न हि गङ्गाद्वारं प्रतिपित्सुः काशीदेशनिवासी पूर्वाभिमुखः प्रैति । तस्मात् बाह्यलोकत्रयार्थिनां पुत्रकर्मापरब्रह्मविद्याः साधनम् , ‘पुत्रेणायं लोको जय्यो नान्येन कर्मणा’(बृ. उ. १ । ५ । १६) इत्यादिश्रुतेः ; अतः तदर्थिभिः पुत्रादिसाधनं प्रत्याख्याय, न पारिव्राज्यं प्रतिपत्तुं युक्तम् , अतत्साधनत्वात्पारिव्राज्यस्य । तस्मात् ‘एतमेव लोकमिच्छन्तः प्रव्रजन्ति’ इति युक्तमवधारणम् । आत्मलोकप्राप्तिर्हि अविद्यानिवृत्तौ स्वात्मन्यवस्थानमेव । तस्मात् आत्मानं चेत् लोकमिच्छति यः, तस्य सर्वक्रियोपरम एव आत्मलोकसाधनं मुख्यम् अन्तरङ्गम् , यथा पुत्रादिरेव बाह्यलोकत्रयस्य, पुत्रादिकर्मण आत्मलोकं प्रति असाधनत्वात् । असम्भवेन च विरुद्धत्वमवोचाम । तस्मात् आत्मानं लोकमिच्छन्तः प्रव्रजन्त्येव, सर्वक्रियाभ्यो निवर्तेरन्नेवेत्यर्थः । यथा च बाह्यलोकत्रयार्थिनः प्रतिनियतानि पुत्रादीनि साधनानि विहितानि, एवमात्मलोकार्थिनः सर्वैषणानिवृत्तिः पारिव्राज्यं ब्रह्मविदो विधीयत एव । कुतः पुनः ते आत्मलोकार्थिनः प्रव्रजन्त्येवेत्युच्यते ; तत्र अर्थवादवाक्यरूपेण हेतुं दर्शयति — एतद्ध स्म वै तत् । तदेतत् पारिव्राज्ये कारणमुच्यते — ह स्म वै किल पूर्वे अतिक्रान्तकालीना विद्वांसः आत्मज्ञाः, प्रजां कर्म अपरब्रह्मविद्यां च ; प्रजोपलक्षितं हि त्रयमेतत् बाह्यलोकत्रयसाधनं निर्दिश्यते ‘प्रजाम्’ इति । प्रजां किम् ? न कामयन्ते, पुत्रादिलोकत्रयसाधनं न अनुतिष्ठन्तीत्यर्थः । ननु अपरब्रह्मदर्शनमनुतिष्ठन्त्येव, तद्बलाद्धि व्युत्थानम् — न अपवादात् ; ‘ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद’(बृ. उ. २ । ४ । ६) ‘सर्वं तं परादात् —’ इति अपरब्रह्मदर्शनमपि अपवदत्येव, अपरब्रह्मणोऽपि सर्वमध्यान्तर्भावात् ; ‘यत्र नान्यत्पश्यति’(छा. उ. ७ । २४ । १) इति च ; पूर्वापरबाह्यान्तरदर्शनप्रतिषेधाच्च अपूर्वमनपरमनन्तरमबाह्यमिति ; ‘तत्केन कं पश्येद्विजानीयात्’(बृ. उ. २ । ४ । १४) इति च ; तस्मात् न आत्मदर्शनव्यतिरेकेण अन्यत् व्युत्थानकारणमपेक्षते । कः पुनः तेषामभिप्राय इत्युच्यते — किं प्रयोजनं फलं साध्यं करिष्यामः प्रजया साधनेन ; प्रजा हि बाह्यलोकसाधनं निर्ज्ञाता ; स च बाह्यलोको नास्ति अस्माकम् आत्मव्यतिरिक्तः ; सर्वं हि अस्माकम् आत्मभूतमेव, सर्वस्य च वयम् आत्मभूताः ; आत्मा च नः आत्मत्वादेव न केनचित् साधनेन उत्पाद्यः आप्यः विकार्यः संस्कार्यो वा । यदपि आत्मयाजिनः संस्कारार्थं कर्मेति, तदपि कार्यकरणात्मदर्शनविषयमेव, इदं मे अनेन अङ्गं संस्क्रियते — इति अङ्गाङ्गित्वादिश्रवणात् ; न हि विज्ञानघनैकरसनैरन्तर्यदर्शिनः अङ्गाङ्गिसंस्कारोपधानदर्शनं सम्भवति । तस्मात् न किञ्चित् प्रजादिसाधनैः करिष्यामः ; अविदुषां हि तत् प्रजादिसाधनैः कर्तव्यं फलम् ; न हि मृगतृष्णिकायामुदकपानाय तदुदकदर्शी प्रवृत्त इति, तत्र ऊषरमात्रमुदकाभावं पश्यतोऽपि प्रवृत्तिर्युक्ता ; एवम् अस्माकमपि परमार्थात्मलोकदर्शिनां प्रजादिसाधनसाध्ये मृगतृष्णिकादिसमे अविद्वद्दर्शनविषये न प्रवृत्तिर्युक्तेत्यभिप्रायः । तदेतदुच्यते — येषाम् अस्माकं परमार्थदर्शिनां नः, अयमात्मा अशनायादिविनिर्मुक्तः साध्वसाधुभ्यामविकार्यः अयं लोकः फलमभिप्रेतम् ; न चास्य आत्मनः साध्यसाधनादिसर्वसंसारधर्मविनिर्मुक्तस्य साधनं किञ्चित् एषितव्यम् ; साध्यस्य हि साधनान्वेषणा क्रियते ; असाध्यस्य साधनान्वेषणायां हि, जलबुद्ध्या स्थल इव तरणं कृतं स्यात् , खे वा शाकुनपदान्वेषणम् । तस्मात् एतमात्मानं विदित्वा प्रव्रजेयुरेव ब्राह्मणाः, न कर्म आरभेरन्नित्यर्थः, यस्मात् पूर्वे ब्राह्मणा एवं विद्वांसः प्रजामकामयमानाः । ते एवं साध्यसाधनसंव्यवहारं निन्दन्तः अविद्वद्विषयोऽयमिति कृत्वा, किं कृतवन्त इत्युच्यते — ते ह स्म किल पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्तीत्यादि व्याख्यातम् ॥
तस्मात् आत्मानं लोकमिच्छन्तः प्रव्रजन्ति प्रव्रजेयुः — इत्येष विधिः अर्थवादेन सङ्गच्छते ; न हि सार्थवादस्य अस्य लोकस्तुत्याभिमुख्यम् उपपद्यते ; प्रव्रजन्तीत्यस्यार्थवादरूपो हि ‘एतद्ध स्म’ इत्यादिरुत्तरो ग्रन्थः ; अर्थवादश्चेत् , नार्थवादान्तरमपेक्षेत ; अपेक्षते तु ‘एतद्ध स्म’ इत्याद्यर्थवादं ‘प्रव्रजन्ति’ इत्येतत् । यस्मात् पूर्वे विद्वांसः प्रजादिकर्मभ्यो निवृत्ताः प्रव्रजितवन्त एव, तस्मात् अधुनातना अपि प्रव्रजन्ति प्रव्रजेयुः — इत्येवं सम्बध्यमानं न लोकस्तुत्यभिमुखं भवितुमर्हति ; विज्ञानसमानकर्तृकत्वोपदेशादित्यादिना अवोचाम । वेदानुवचनादिसहपाठाच्च ; यथा आत्मवेदनसाधनत्वेन विहितानां वेदानुवचनादीनां यथार्थत्वमेव, नार्थवादत्वम् , तथा तैरेव सह पठितस्य पारिव्राज्यस्य आत्मलोकप्राप्तिसाधनत्वेन अर्थवादत्वमयुक्तम् । फलविभागोपदेशाच्च ; ‘एतमेवात्मानं लोकं विदित्वा’ इति अन्यस्मात् बाह्यात् लोकात् आत्मानं फलान्तरत्वेन प्रविभजति, यथा — पुत्रेणैवायं लोको जय्यः नान्येन कर्मणा, कर्मणा पितृलोकः — इति । न च प्रव्रजन्तीत्येतत् प्राप्तवत् लोकस्तुतिपरम् , प्रधानवच्च अर्थवादापेक्षम् — सकृच्छ्रुतं स्यात् । तस्मात् भ्रान्तिरेव एषा — लोकस्तुतिपरमिति । न च अनुष्ठेयेन पारिव्राज्येन स्तुतिरुपपद्यते ; यदि पारिव्राज्यम् अनुष्ठेयमपि सत् अन्यस्तुत्यर्थं स्यात् , दर्शपूर्णमासादीनामपि अनुष्ठेयानां स्तुत्यर्थता स्यात् । न च अन्यत्र कर्तव्यता एतस्माद्विषयात् निर्ज्ञाता, यत इह स्तुत्यर्थो भवेत् । यदि पुनः क्वचिद्विधिः परिकल्प्येत पारिव्राज्यस्य, स इहैव मुख्यः नान्यत्र सम्भवति । यदपि अनधिकृतविषये पारिव्राज्यं परिकल्प्यते, तत्र वृक्षाद्यारोहणाद्यपि पारिव्राज्यवत् कल्प्येत, कर्तव्यत्वेन अनिर्ज्ञातत्वाविशेषात् । तस्मात् स्तुतित्वगन्धोऽपि अत्र न शक्यः कल्पयितुम् ॥
यदि अयमात्मा लोक इष्यते, किमर्थं तत्प्राप्तिसाधनत्वेन कर्माण्येव न आरभेरन् , किं पारिव्राज्येन — इत्यत्रोच्यते — अस्य आत्मलोकस्य कर्मभिरसम्बन्धात् ; यमात्मानमिच्छन्तः प्रव्रजेयुः, स आत्मा साधनत्वेन फलत्वेन च उत्पाद्यत्वादिप्रकाराणामन्यतमत्वेनापि कर्मभिः न सम्बध्यते ; तस्मात् — स एष नेति नेत्यात्मागृह्यो न हि गृह्यते — इत्यादिलक्षणः ; यस्मात् एवंलक्षण आत्मा कर्मफलसाधनासम्बन्धी सर्वसंसारधर्मविलक्षणः अशनायाद्यतीतः अस्थूलादिधर्मवान् अजोऽजरोऽमरोऽमृतोऽभयः सैन्धवघनवद्विज्ञानैकरसस्वभावः स्वयं ज्योतिः एक एवाद्वयः अपूर्वोऽनपरोऽनन्तरोऽबाह्यः — इत्येतत् आगमतस्तर्कतश्च स्थापितम् , विशेषतश्चेह जनकयाज्ञवल्क्यसंवादे अस्मिन् ; तस्मात् एवंलक्षणे आत्मनि विदिते आत्मत्वेन नैव कर्मारम्भ उपपद्यते । तस्मादात्मा निर्विशेषः । न हि चक्षुष्मान् पथि प्रवृत्तः अहनि कूपे कण्टके वा पतति ; कृत्स्नस्य च कर्मफलस्य विद्याफलेऽन्तर्भावात् ; न च अयत्नप्राप्ये वस्तुनि विद्वान् यत्नमातिष्ठति ; ‘अत्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् । इष्टस्यार्थस्य सम्प्राप्तौ को विद्वान्यत्नमाचरेत्’ ‘सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते —’(भ. गी. ४ । ३३) इति गीतासु । इहापि च एतस्यैव परमानन्दस्य ब्रह्मवित्प्राप्यस्य अन्यानि भूतानि मात्रामुपजीवन्तीत्युक्तम् । अतो ब्रह्मविदां न कर्मारम्भः ॥
यस्मात् सर्वैषणाविनिवृत्तः स एष नेति नेत्यात्मानमात्मत्वेनोपगम्य तद्रूपेणैव वर्तते, तस्मात् एतम् एवंविदं नेति नेत्यात्मभूतम् , उ ह एव एते वक्ष्यमाणे न तरतः न प्राप्नुतः — इति युक्तमेवेति वाक्यशेषः । के ते इत्युच्यते — अतः अस्मान्निमित्तात् शरीरधारणादिहेतोः, पापम् अपुण्यं कर्म अकरवं कृतवानस्मि — कष्टं खलु मम वृत्तम् , अनेन पापेन कर्मणा अहं नरकं प्रतिपत्स्ये — इति योऽयं पश्चात् पापं कर्म कृतवतः — परितापः स एवं नेति नेत्यात्मभूतं न तरति ; तथा अतः कल्याणं फलविषयकामान्निमित्तात् यज्ञदानादिलक्षणं पुण्यं शोभनं कर्म कृतवानस्मि, अतोऽहम् अस्य फलं सुखमुपभोक्ष्ये देहान्तरे — इत्येषोऽपि हर्षः तं न तरति । उभे उ ह एव एषः ब्रह्मवित् एते कर्मणी तरति पुण्यपापलक्षणे । एवं ब्रह्मविदः सन्न्यासिन उभे अपि कर्मणी क्षीयेते — पूर्वजन्मनि कृते ये ते, इह जन्मनि कृते ये ते च ; अपूर्वे च न आरभ्येते । किं च नैनं कृताकृते, कृतं नित्यानुष्ठानम् , अकृतं तस्यैव अक्रिया, ते अपि कृताकृते एनं न तपतः ; अनात्मज्ञं हि, कृतं फलदानेन, अकृतं प्रत्यवायोत्पादनेन, तपतः ; अयं तु ब्रह्मवित् आत्मविद्याग्निना सर्वाणि कर्माणि भस्मीकरोति, ‘यथैधांसि समिद्धोऽग्निः’(भ. गी. ४ । ३७) इत्यादिस्मृतेः ; शरीरारम्भकयोस्तु उपभोगेनैव क्षयः । अतो ब्रह्मवित् अकर्मसम्बन्धी ॥
तदेतदृचाभ्युक्तम् । एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान् । तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति । तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति सर्वमात्मानं पश्यति नैनं पाप्मा तरति सर्वं पाप्मानं तरति नैनं पाप्मा तपति सर्वं पाप्मानं तपति विपापो विरजोऽविचिकित्सो ब्राह्मणो भवत्येष ब्रह्मलोकः सम्राडेनं प्रापितोऽसीति होवाच याज्ञवल्क्यः सोऽहं भगवते विदेहान्ददामि मां चापि सह दास्यायेति ॥ २३ ॥
२३तदेतद्वस्तु ब्राह्मणेनोक्तम् ऋचा मन्त्रेण अभ्युक्तम् प्रकाशितम् । एषः नेति नेत्यादिलक्षणः नित्यो महिमा ; अन्ये तु महिमानः कर्मकृता इत्यनित्याः ; अयं तु तद्विलक्षणो महिमा स्वाभाविकत्वान्नित्यः ब्रह्मविदः ब्राह्मणस्य त्यक्तसर्वैषणस्य । कुतोऽस्य नित्यत्वमिति हेतुमाह — कर्मणा न वर्धते शुभलक्षणेन कृतेन वृद्धिलक्षणां विक्रियां न प्राप्नोति ; अशुभेन कर्मणा नो कनीयान् नाप्यपक्षयलक्षणां विक्रियां प्राप्नोति ; उपचयापचयहेतुभूता एव हि सर्वा विक्रिया इति एताभ्यां प्रतिषिध्यन्ते ; अतः अविक्रियात्वात् नित्य एष महिमा । तस्मात् तस्यैव महिम्नः, स्यात् भवेत् , पदवित् — पदस्य वेत्ता, पद्यते गम्यते ज्ञायत इति महिम्नः स्वरूपमेव पदम् , तस्य पदस्य वेदिता । किं तत्पदवेदनेन स्यादित्युच्यते — तं विदित्वा महिमानम् , न लिप्यते न सम्बध्यते कर्मणा पापकेन धर्माधर्मलक्षणेन, उभयमपि पापकमेव विदुषः । यस्मादेवम् अकर्मसम्बन्धी एष ब्राह्मणस्य महिमा नेति नेत्यादिलक्षणः, तस्मात् एवंवित् शान्तः बाह्येन्द्रियव्यापारत उपशान्तः, तथा दान्तः अन्तःकरणतृष्णातो निवृत्तः, उपरतः सर्वैषणाविनिर्मुक्तः सन्न्यासी, तितिक्षुः द्वन्द्वसहिष्णुः, समाहितः इन्द्रियान्तःकरणचलनरूपाद्व्यावृत्त्या ऐकाग्र्यरूपेण समाहितो भूत्वा ; तदेतदुक्तं पुरस्तात् ‘बाल्यं च पाण्डित्यं च निर्विद्य’(बृ. उ. ३ । ५ । १) इति ; आत्मन्येव स्वे कार्यकरणसङ्घाते आत्मानं प्रत्यक्चेतयितारं पश्यति । तत्र किं तावन्मात्रं परिच्छिन्नम् ? नेत्युच्यते — सर्वं समस्तम् आत्मानमेव पश्यति, नान्यत् आत्मव्यतिरिक्तं वालाग्रमात्रमप्यस्तीत्येवं पश्यति ; मननात् मुनिर्भवति जाग्रत्स्वप्नसुषुप्ताख्यं स्थानत्रयं हित्वा । एवं पश्यन्तं ब्राह्मणं नैनं पाप्मा पुण्यपापलक्षणः तरति, न प्राप्नोति ; अयं तु ब्रह्मवित् सर्वं पाप्मानं तरति आत्मभावेनैव व्याप्नोति अतिक्रामति । नैनं पाप्मा कृताकृतलक्षणः तपति इष्टफलप्रत्यवायोत्पादनाभ्याम् ; सर्वं पाप्मानम् अयं तपति ब्रह्मवित् सर्वात्मदर्शनवह्निना भस्मीकरोति । स एष एवंवित् विपापः विगतधर्माधर्मः, विरजः विगतरजः, रजः कामः, विगतकामः, अविचिकित्सः छिन्नसंशयः, अहमस्मि सर्वात्मा परं ब्रह्मेति निश्चितमतिः ब्राह्मणो भवति — अयं तु एवंभूतः एतस्यामवस्थायां मुख्यो ब्राह्मणः, प्रागेतस्मात् ब्रह्मस्वरूपावस्थानात् गौणमस्य ब्राह्मण्यम् । एष ब्रह्मलोकः — ब्रह्मैव लोको ब्रह्मलोकः मुख्यो निरुपचरितः सर्वात्मभावलक्षणः, हे सम्राट् । एनं ब्रह्मलोकं परिप्रापितोऽसि अभयं नेति नेत्यादिलक्षणम् — इति होवाच याज्ञवल्क्यः । एवं ब्रह्मभूतो जनकः याज्ञवल्क्येन ब्रह्मभावमापादितः प्रत्याह — सोऽहं त्वया ब्रह्मभावमापादितः सन् भगवते तुभ्यम् विदेहान् देशान् मम राज्यं समस्तं ददामि, मां च सह विदेहैः दास्याय दासकर्मणे — ददामीति च - शब्दात्सम्बध्यते । परिसमापिता ब्रह्मविद्या सह सन्न्यासेन साङ्गा सेतिकर्तव्यताका ; परिसमाप्तः परमपुरुषार्थः ; एतावत् पुरुषेण कर्तव्यम् , एष निष्ठा, एषा परा गतिः, एतन्निःश्रेयसम् , एतत्प्राप्य कृतकृत्यो ब्राह्मणो भवति, एतत् सर्ववेदानुशासनमिति ॥
स वा एष महानज आत्मान्नादो वसुदानो विन्दते वसु य एवं वेद ॥ २४ ॥
२४योऽयं जनकयाज्ञवल्क्याख्यायिकायां व्याख्यात आत्मा स वै एषः महान् अजः आत्मा अन्नादः सर्वभूतस्थः सर्वान्नानामत्ता, वसुदानः — वसु धनं सर्वप्राणिकर्मफलम् — तस्य दाता, प्राणिनां यथाकर्म फलेन योजयितेत्यर्थः ; तमेतत् अजमन्नादं वसुदानमात्मानम् अन्नादवसुदानगुणाभ्यां युक्तम् यो वेद, सः सर्वभूतेष्वात्मभूतः अन्नमत्ति, विन्दते च वसु सर्वं कर्मफलजातं लभते सर्वात्मत्वादेव, य एवं यथोक्तं वेद । अथवा दृष्टफलार्थिभिरपि एवंगुण उपास्यः ; तेन अन्नादः वसोश्च लब्धा, दृष्टेनैव फलेन अन्नात्तृत्वेन गोश्वादिना च अस्य योगो भवतीत्यर्थः ॥
स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्माभयं वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेद ॥ २५ ॥
२५इदानीं समस्तस्यैव आरण्यकस्य योऽर्थ उक्तः, स समुच्चित्य अस्यां कण्डिकायां निर्दिश्यते, एतावान्समस्तारण्यकार्थ इति । स वा एष महानज आत्मा अजरः न जीर्यत इति, न विपरिणमत इत्यर्थः ; अमरः — यस्माच्च अजरः, तस्मात् अमरः, न म्रियत इत्यमरः ; यो हि जायते जीर्यते च, स विनश्यति म्रियते वा ; अयं तु अजत्वात् अजरत्वाच्च अविनाशी यतः, अत एव अमृतः । यस्मात् जनिप्रभृतिभिः त्रिभिर्भावविकारैः वर्जितः, तस्मात् इतरैरपि भावविकारैस्त्रिभिः तत्कृतैश्च कामकर्ममोहादिभिर्मृत्युरूपैर्वर्जित इत्येतत् । अभयः अत एव ; यस्माच्च एवं पूर्वोक्तविशेषणः, तस्माद्भयवर्जितः ; भयं च हि नाम अविद्याकार्यम् ; तत्कार्यप्रतिषेधेन भावविकारप्रतिषेधेन च अविद्यायाः प्रतिषेधः सिद्धो वेदितव्यः । अभय आत्मा एवंगुणविशिष्टः किमसौ ? ब्रह्म परिवृढं निरतिशयं महदित्यर्थः । अभयं वै ब्रह्म ; प्रसिद्धमेतत् लोके — अभयं ब्रह्मेति । तस्माद्युक्तम् एवंगुणविशिष्ट आत्मा ब्रह्मेति । य एवं यथोक्तमात्मानमभयं ब्रह्म वेद, सः अभयं हि वै ब्रह्म भवति । एष सर्वस्या उपनिषदः सङ्क्षिप्तोऽर्थ उक्तः । एतस्यैवार्थस्य सम्यक्प्रबोधाय उत्पत्तिस्थितिप्रलयादिकल्पना क्रियाकारकफलाध्यारोपणा च आत्मनि कृता ; तदपोहेन च नेति नेतीत्यध्यारोपितविशेषापनयद्वारेण पुनः तत्त्वमावेदितम् । यथा एकप्रभृत्यापरार्धसङ्ख्यास्वरूपपरिज्ञानाय रेखाध्यारोपणं कृत्वा — एकेयं रेखा, दशेयम् , शतेयम् , सहस्रेयम् — इति ग्राहयति, अवगमयति सङ्ख्यास्वरूपं केवलम् , न तु सङ्ख्याया रेखात्मत्वमेव ; यथा च अकारादीन्यक्षराणि विजिग्राहयिषुः पत्रमषीरेखादिसंयोगोपायमास्थाय वर्णानां सतत्त्वमावेदयति, न पत्रमष्याद्यात्मतामक्षराणां ग्राहयति — तथा चेह उत्पत्त्याद्यनेकोपायमास्थाय एकं ब्रह्मतत्त्वमावेदितम् , पुनः तत्कल्पितोपायजनितविशेषपरिशोधनार्थं नेति नेतीति तत्त्वोपसंहारः कृतः । तदुपसंहृतं पुनः परिशुद्धं केवलमेव सफलं ज्ञानम् अन्तेऽस्यां कण्डिकायामिति ॥
इति चतुर्थाध्यायस्य चतुर्थं ब्राह्मणम् ॥
पञ्चमं ब्राह्मणम्
आगमप्रधानेन मधुकाण्डेन ब्रह्मतत्त्वं निर्धारितम् । पुनः तस्यैव उपपत्तिप्रधानेन याज्ञवल्कीयेन काण्डेन पक्षप्रतिपक्षपरिग्रहं कृत्वा विगृह्यवादेन विचारितम् । शिष्याचार्यसम्बन्धेन च षष्ठे प्रश्नप्रतिवचनन्यायेन सविस्तरं विचार्योपसंहृतम् । अथेदानीं निगमनस्थानीयं मैत्रेयीब्राह्मणमारभ्यते ; अयं च न्यायः वाक्यकोविदैः परिगृहीतः — ‘हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्’(न्या. सू. १ । १ । ३९) इति । अथवा आगमप्रधानेन मधुकाण्डेन यत् अमृतत्वसाधनं ससन्न्यासमात्मज्ञानमभिहितम् , तदेव तर्केणापि अमृतत्वसाधनं ससन्न्यासमात्मज्ञानमधिगम्यते ; तर्कप्रधानं हि याज्ञवल्कीयं काण्डम् ; तस्मात् शास्त्रतर्काभ्यां निश्चितमेतत् — यदेतत् आत्मज्ञानं ससन्न्यासम् अमृतत्वसाधनमिति ; तस्मात् शास्त्रश्रद्धावद्भिः अमृतत्वप्रतिपित्सुभिः एतत् प्रतिपत्तव्यमिति ; आगमोपपत्तिभ्यां हि निश्चितोऽर्थः श्रद्धेयो भवति अव्यभिचारादिति । अक्षराणां तु चतुर्थे यथा व्याख्यातोऽर्थः, तथा प्रतिपत्तव्योऽत्रापि ; यान्यक्षराणि अव्याख्यातानि तानि व्याख्यास्यामः ॥
अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव स्त्रीप्रज्ञैव तर्हि कात्यायन्यथ ह याज्ञवल्क्योऽन्यद्वृत्तमुपाकरिष्यन् ॥ १ ॥
१अथेति हेतूपदेशानन्तर्यप्रदर्शनार्थः । हेतुप्रधानानि हि वाक्यानि अतीतानि । तदनन्तरम् आगमप्रधानेन प्रतिज्ञातोऽर्थः निगम्यते मैत्रेयीब्राह्मणेन । ह - शब्दः वृत्तावद्योतकः । याज्ञवल्क्यस्य ऋषेः किल द्वे भार्ये पत्न्यौ बभूवतुः आस्ताम् — मैत्रेयी च नामत एका, अपरा कात्यायनी नामतः । तयोर्भार्ययोः मैत्रेयी ह किल ब्रह्मवादिनी ब्रह्मवदनशीला बभूव आसीत् ; स्त्रीप्रज्ञा - स्त्रियां या उचिता सा स्त्रीप्रज्ञा — सैव यस्याः प्रज्ञा गृहप्रयोजनान्वेषणालक्षणा, सा स्त्रीप्रज्ञैव तर्हि तस्मिन्काले आसीत् कात्यायनी । अथ एवं सति ह किल याज्ञवल्क्यः अन्यत् पूर्वस्माद्गार्हस्थ्यलक्षणाद्वृत्तात् पारिव्राज्यलक्षणं वृत्तम् उपाकरिष्यन् उपाचिकीर्षुः सन् ॥
मैत्रेयीति होवाच याज्ञवल्क्यः प्रव्रजिष्यन्वा अरेऽहमस्मात्स्थानादस्मि हन्त तेऽनया कात्यायन्यान्तं करवाणीति ॥ २ ॥
२हे मैत्रेयीति ज्येष्ठां भार्यामामन्त्रयामास ; आमन्त्र्य चोवाच ह — प्रव्रजिष्यन् पारिव्राज्यं करिष्यन् वै अरे मैत्रेयि अस्मात् स्थानात् गार्हस्थ्यात् अहम् अस्मि भवामि । मैत्रेयि अनुजानीहि माम् ; हन्त इच्छसि यदि, ते अनया कात्यायन्या अन्तम् करवाणि — इत्यादि व्याख्यातम् ॥
सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्स्यां न्वहं तेनामृताहो३ नेति नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ ३ ॥
३सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहीति ॥ ४ ॥
४सा एवमुक्ता उवाच मैत्रेयी — सर्वेयं पृथिवी वित्तेन पूर्णा स्यात् , नु किम् स्याम् , किमहं वित्तसाध्येन कर्मणा अमृता, आहो न स्यामिति । नेति होवाच याज्ञवल्क्य इत्यादि समानमन्यत् ॥
स होवाच याज्ञवल्क्यः प्रिया वै खलु नो भवती सती प्रियमवृधद्धन्त तर्हि भवत्येतद्व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ५ ॥
५सः ह उवाच — प्रियैव पूर्वं खलु नः अस्मभ्यम् भवती, भवन्ती सती, प्रियमेव अवृधत् वर्धितवती निर्धारितवती असि ; अतः तुष्टोऽहम् ; हन्त इच्छसि चेत् अमृतत्वसाधनं ज्ञातुम् , हे भवति, ते तुभ्यं तत् अमृत्वसाधनं व्याख्यास्यामि ॥
स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरे पशूनां कामाय पशवः प्रिया भवन्त्यात्मनस्तु कामाय पशवः प्रिया भवन्ति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्त्रस्य कामाय क्षत्त्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्त्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति । न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्यात्मनस्तु कामाय वेदाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम् ॥ ६ ॥
६आत्मनि खलु अरे मैत्रेयि दृष्टे ; कथं दृष्ट आत्मनीति, उच्यते — पूर्वम् आचार्यागमाभ्यां श्रुते, पुनः तर्केणोपपत्त्या मते विचारिते, श्रवणं तु आगममात्रेण, मते उपपत्त्या, पश्चात् विज्ञाते — एवमेतत् नान्यथेति निर्धारिते ; किं भवतीत्युच्यते — इदं विदितं भवति ; इदं सर्वमिति यत् आत्मनोऽन्यत् , आत्मव्यतिरेकेणाभावात् ॥
ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद क्षत्त्रं तं परादाद्योऽन्यत्रात्मनः क्षत्त्रं वेद लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान्वेद देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद वेदास्तं परादुर्योऽन्यत्रात्मनो वेदान्वेद भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेदेदं ब्रह्मेदं क्षत्त्रमिमे लोका इमे देवा इमे वेदा इमानि भूतानीदं सर्वं यदयमात्मा ॥ ७ ॥
७स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ८ ॥
८स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ९ ॥
९स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ १० ॥
१०तम् अयथार्थदर्शिनं परादात् पराकुर्यात् , कैवल्यासम्बन्धिनं कुर्यात् — अयमनात्मस्वरूपेण मां पश्यतीत्यपराधादिति भावः ॥
स यथार्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतान्यस्यैवैतानि सर्वाणि निश्वसितानि ॥ ११ ॥
११स यथा सर्वासामपां समुद्र एकायनमेवं सर्वेषां स्पर्शानां त्वगेकायनमेवं सर्वेषां गन्धानां नासिके एकायनमेवं सर्वेषां रसानां जिह्वैकायनमेवं सर्वेषां रूपाणां चक्षुरेकायनमेवं सर्वेषां शब्दानां श्रोत्रमेकायनमेवं सर्वेषां सङ्कल्पानां मन एकायनमेवं सर्वासां विद्यानां हृदयमेकायनमेवं सर्वेषां कर्मणा हस्तावेकायनमेवं सर्वेषामानन्दानामुपस्थ एकायनमेवं सर्वेषां विसर्गाणां पायुरेकायनमेवं सर्वेषामध्वनां पादावेकायनमेवं सर्वेषां वेदानां वागेकायनम् ॥ १२ ॥
१२चतुर्थे शब्दनिश्वासेनैव लोकाद्यर्थनिश्वासः सामर्थ्यात् उक्तो भवतीति पृथक् नोक्तः । इह तु सर्वशास्त्रार्थोपसंहार इति कृत्वा अर्थप्राप्तोऽप्यर्थः स्पष्टीकर्तव्य इति पृथगुच्यते ॥
स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥ १३ ॥
१३सर्वकार्यप्रलये विद्यानिमित्ते, सैन्धवघनवत् अनन्तरः अबाह्यः कृत्स्नः प्रज्ञानघन एक आत्मा अवतिष्ठते ; पूर्वं तु भूतमात्रासंसर्गविशेषात् लब्धविशेषविज्ञानः सन् ; तस्मिन् प्रविलापिते विद्यया विशेषविज्ञाने तन्निमित्ते च भूतसंसर्गे न प्रेत्य संज्ञा अस्ति — इत्येवं याज्ञवल्क्येनोक्ता ॥
सा होवाच मैत्रेय्यत्रैव मा भगवान्मोहान्तमापीपिपन्न वा अहमिमं विजानामीति स होवाच न वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा ॥ १४ ॥
१४सा होवाच — अत्रैव मा भगवान् एतस्मिन्नेव वस्तुनि प्रज्ञानघन एव, न प्रेत्य संज्ञास्तीति, मोहान्तं मोहमध्यम् , आपीपिपत् आपीपदत् अवगमितवानसि, सम्मोहितवानसीत्यर्थः ; अतः न वा अहम् इममात्मानम् उक्तलक्षणं विजानामि विवेकत इति । स होवाच — नाहं मोहं ब्रवीमि, अविनाशी वा अरेऽयमात्मा यतः ; विननं शीलमस्येति विनाशी, न विनाशी अविनाशी, विनाशशब्देन विक्रिया, अविनाशीति अविक्रिय आत्मेत्यर्थः ; अरे मैत्रेयि, अयमात्मा प्रकृतः अनुच्छित्तधर्मा ; उच्छित्तिरुच्छेदः, उच्छेदः अन्तः विनाशः, उच्छित्तिः धर्मः अस्य इति उच्छित्तिधर्मा, न उच्छित्तिधर्मा अनुच्छित्तिधर्मा, नापि विक्रियालक्षणः, नाप्युच्छेदलक्षणः विनाशः अस्य विद्यत इत्यर्थः ॥
यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति तदितर इतरं रसयते तदितर इतरमभिवदति तदितर इतरं शृणोति तदितर इतरं मनुते तदितर इतरं स्पृशति तदितर इतरं विजानाति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्तत्केन कं रसयेत्तत्केन कमभिवदेत्तत्केन कं शृणुयात्तत्केन कं मन्वीत तत्केन कं स्पृशेत्तत्केन कं विजानीयाद्येनेदं सर्वं विजानाति तं केन विजानीयात्स एष नेति नेत्यात्मागृह्यो न गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यति विज्ञातारमरे केन विजानीयादित्युक्तानुशासनासि मैत्रेय्येतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार ॥ १५ ॥
१५चतुर्ष्वपि प्रपाठकेषु एक आत्मा तुल्यो निर्धारितः परं ब्रह्म ; उपायविशेषस्तु तस्याधिगमे अन्यश्चान्यश्च ; उपेयस्तु स एव आत्मा, यः चतुर्थे — ‘अथात आदेशो नेति नेति’(बृ. उ. २ । ३ । ६) इति निर्दिष्टः ; स एव पञ्चमे प्राणपणोपन्यासेन शाकल्ययाज्ञवल्क्यसंवादे निर्धारितः, पुनः पञ्चमसमाप्तौ, पुनर्जनकयाज्ञवल्क्यसंवादे, पुनः इह उपनिषत्समाप्तौ । चतुर्णामपि प्रपाठकानाम् एतदात्मनिष्ठता, नान्योऽन्तराले कश्चिदपि विवक्षितोऽर्थः — इत्येतत्प्रदर्शनाय अन्ते उपसंहारः — स एष नेति नेत्यादिः । यस्मात् प्रकारशतेनापि निरूप्यमाणे तत्त्वे, नेति नेत्यात्मैव निष्ठा, न अन्या उपलभ्यते तर्केण वा आगमेन वा ; तस्मात् एतदेवामृतत्वसाधनम् , यदेतत् नेति नेत्यात्मपरिज्ञानं सर्वसन्न्यासश्च इत्येतमर्थमुपसञ्जिहीर्षन्नाह — एतावत् एतावन्मात्रम् यदेतत् नेति नेत्यद्वैतात्मदर्शनम् ; इदं च अन्यसहकारिकारणनिरपेक्षमेव अरे मैत्रेयि अमृतत्वसाधनम् । यत्पृष्टवत्यसि — यदेव भगवान्वेद तदेव मे ब्रूह्यमृतत्वसाधनमिति, तत् एतावदेवेति विज्ञेयं त्वया — इति ह एवं किल अमृतत्वसाधनमात्मज्ञानं प्रियायै भार्यायै उक्त्वा याज्ञवल्क्यः — किं कृतवान् ? यत्पूर्वं प्रतिज्ञातम् ‘प्रव्रजिष्यन्नस्मि’(बृ. उ. ४ । ५ । २) इति, तच्चकार, विजहार प्रव्रजितवानित्यर्थः । परिसमाप्ता ब्रह्मविद्या सन्न्यासपर्यवसाना । एतावान् उपदेशः, एतत् वेदानुशासनम् , एषा परमनिष्ठा, एष पुरुषार्थकर्तव्यतान्त इति ॥
इदानीं विचार्यते शास्त्रार्थविवेकप्रतिपत्तये । यत आकुलानि हि वाक्यानि दृश्यन्ते — ‘यावज्जीवमग्निहोत्रं जुहुयात्’(?) ‘यावज्जीवं दर्शपूर्णमासाभ्यां यजेत’(?) ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’(ई. उ. २) ‘एतद्वै जरामर्यं सत्रं यदग्निहोत्रम्’(शत. ब्रा. १२ । ४ । १ । १) इत्यादीनि ऐकाश्रम्यज्ञापकानि ; अन्यानि च आश्रमान्तरप्रतिपादकानि वाक्यानि ‘विदित्वा व्युत्थाय प्रव्रजन्ति’(बृ. उ. ३ । ५ । १) ‘ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत् यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा’(जा. उ. ४) इति, ‘द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः, क्रियापथश्चैव पुरस्तात्सन्न्यासश्च, तयोः सन्न्यास एवातिरेचयति’(?) इति, ‘न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः’(तै. ना. १० । ५) इत्यादीनि । तथा स्मृतयश्च — ‘ब्रह्मचर्यवान्प्रव्रजति’(आ. ध. २ । २१ । ८ । १०) ‘अविशीर्णब्रह्मचर्यो यमिच्छेत्तमावसेत्’(व. ८ । २ ?) ‘तस्याश्रमविकल्पमेके ब्रुवते’(गौ. ध. ३ । १) ; तथा ‘वेदानधीत्य ब्रह्मचर्येण पुत्रपौत्रानिच्छेत्पावनार्थं पितॄणाम् । अग्नीनाधाय विधिवच्चेष्टयज्ञो वनं प्रविश्याथ मुनिर्बुभूषेत्’(मो. ध. १७५ । ६) । ‘प्राजापत्यां निरूप्येष्टिं सर्ववेदसदक्षिणाम् । आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्’(मनु. ६ । ३८) इत्याद्याः । एवं व्युत्थानविकल्पक्रमयथेष्टाश्रमप्रतिपत्तिप्रतिपादकानि हि श्रुतिस्मृतिवाक्यानि शतश उपलभ्यन्त इतरेतरविरुद्धानि । आचारश्च तद्विदाम् । विप्रतिपत्तिश्च शास्त्रार्थप्रतिपत्तॄणां बहुविदामपि । अतो न शक्यते शास्त्रार्थो मन्दबुद्धिभिर्विवेकेन प्रतिपत्तुम् । परिनिष्ठितशास्त्रन्यायबुद्धिभिरेव हि एषां वाक्यानां विषयविभागः शक्यते अवधारयितुम् । तस्मात् एषां विषयविभागज्ञापनाय यथाबुद्धिसामर्थ्यं विचारयिष्यामः ॥
यावज्जीवश्रुत्यादिवाक्यानामन्यार्थासम्भवात् क्रियावसान एव वेदार्थः ; ‘तं यज्ञपात्रैर्दहन्ति’(?) इत्यन्त्यकर्मश्रवणात् ; जरामर्यश्रवणाच्च ; लिङ्गाच्च ‘भस्मान्तं शरीरम्’(ई. उ. १७) इति ; न हि पारिव्राज्यपक्षे भस्मान्तता शरीरस्य स्यात् । स्मृतिश्च — ‘निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः । तस्य शास्त्रेऽधिकारोऽस्मिंज्ञेयो नान्यस्य कस्यचित्’(मनु. २ । १६) इति ; स मन्त्रकं हि यत्कर्म वेदेन इह विधीयते, तस्य श्मशानान्ततां दर्शयति स्मृतिः ; अधिकाराभावप्रदर्शनाच्च — अत्यन्तमेव श्रुत्यधिकाराभावः अकर्मिणो गम्यते । अग्न्युद्वासनापवादाच्च, ‘वीरहा वा एष देवानां योऽग्निमुद्वासयते’(तै. सं. १ । ५ । २ । १) इति । ननु व्युत्थानादिविधानात् वैकल्पिकं क्रियावसानत्वं वेदार्थस्य — न, अन्यार्थत्वात् व्युत्थानादिश्रुतीनाम् ; ‘यावज्जीवमग्निहोत्रं जुहोति’(?) ‘यावज्जीवं दर्शपूर्णमासाभ्यां यजेत’(?) इत्येवमादीनां श्रुतीनां जीवनमात्रनिमित्तत्वात् यदा न शक्यते अन्यार्थता कल्पयितुम् , तदा व्युत्थानादिवाक्यानां कर्मानधिकृतविषयत्वसम्भवात् ; ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’(ई. उ. २) इति च मन्त्रवर्णात् , जरया वा ह्येवास्मान्मुच्यते मृत्युना वा — इति च जरामृत्युभ्यामन्यत्र कर्मवियोगच्छिद्रासम्भवात् कर्मिणां श्मशानान्तत्वं न वैकल्पिकम् ; काणकुब्जादयोऽपि कर्मण्यनधिकृता अनुग्राह्या एव श्रुत्येति व्युत्थानाद्याश्रमान्तरविधानं नानुपपन्नम् । पारिव्राज्यक्रमविधानस्य अनवकाशत्वमिति चेत् , न, विश्वजित्सर्वमेधयोः यावज्जीवविध्यपवादत्वात् ; यावज्जीवाग्निहोत्रादिविधेः विश्वजित्सर्वमेधयोरेव अपवादः, तत्र च क्रमप्रतिपत्तिसम्भवः — ‘ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत्’(जा. उ. ४) इति । विरोधानुपपत्तेः ; न हि एवंविषयत्वे पारिव्राज्यक्रमविधानवाक्यस्य, कश्चिद्विरोधः क्रमप्रतिपत्तेः ; अन्यविषयपरिकल्पनायां तु यावज्जीवविधानश्रुतिः स्वविषयात्सङ्कोचिता स्यात् ; क्रमप्रतिपत्तेस्तु विश्वजित्सर्वमेधविषयत्वात् न कश्चिद्बाधः ॥
न, आत्मज्ञानस्य अमृतत्वहेतुत्वाभ्युपगमात् । यत्तावत् ‘आत्मेत्येवोपासीत’(बृ. उ. १ । ४ । ७) इत्यारभ्य स एष नेति नेत्येतदन्तेन ग्रन्थेन यदुपसंहृतम् आत्मज्ञानम् , तत् अमृतत्वसाधनमित्यभ्युपगतं भवता ; तत्र एतावदेवामृतत्वसाधनम् अन्यनिरपेक्षमित्येतत् न मृष्यते । तत्र भवन्तं पृच्छामि, किमर्थमात्मज्ञानं मर्षयति भवानिति । शृणु तत्र कारणम् — यथा स्वर्गकामस्य स्वर्गप्राप्त्युपायमजानतः अग्निहोत्रादि स्वर्गप्राप्तिसाधनं ज्ञापयति, तथा इहाप्यमृतत्वप्रतिपित्सोः अमृतत्वप्राप्त्युपायमजानतः ‘यदेव भगवान्वेद तदेव मे ब्रूहि’(बृ. उ. ४ । ५ । ४) इत्येवमाकाङ्क्षितम् अमृतत्वसाधनम् ‘एतावदरे’(बृ. उ. ४ । ५ । १५) इत्येवमादौ वेदेन ज्ञाप्यत इति । एवं तर्हि, यथा ज्ञापितमग्निहोत्रादि स्वर्गसाधनमभ्युपगम्यते, तथा इहापि आत्मज्ञानम् — यथा ज्ञाप्यते तथाभूतमेव अमृतत्वसाधनमात्मज्ञानमभ्युपगन्तुं युक्तम् ; तुल्यप्रामाण्यादुभयत्र । यद्येवं किं स्यात् ? सर्वकर्महेतूपमर्दकत्वादात्मज्ञानस्य विद्योद्भवे कर्मनिवृत्तिः स्यात् ; दाराग्निसम्बद्धानां तावत् अग्निहोत्रादिकर्मणां भेदबुद्धिविषयसम्प्रदानकारकसाध्यत्वम् ; अन्यबुद्धिपरिच्छेद्यां हि अन्यादिदेवतां सम्प्रदानकारकभूतामन्तरेण, न हि तत्कर्म निर्वर्त्यते ; यया हि सम्प्रदानकारकबुद्ध्या सम्प्रदानकारकं कर्मसाधनत्वेनोपदिश्यते, सा इह विद्यया निवर्त्यते — ‘अन्योऽसावन्योऽहमस्मीति न स वेद’(बृ. उ. १ । ४ । १०) ‘देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद’(बृ. उ. ४ । ५ । १२) ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’(बृ. उ. ४ । ४ । १९) ‘एकधैवानुद्रष्टव्यं सर्वमात्मानं पश्यति’(बृ. उ. ४ । ४ । २०) इत्यादिश्रुतिभ्यः । न च देशकालनिमित्ताद्यपेक्षत्वम् , व्यवस्थितात्मवस्तुविषयत्वात् आत्मज्ञानस्य । क्रियायास्तु पुरुषतन्त्रत्वात् स्यात् देशकालनिमित्ताद्यपेक्षत्वम् ; ज्ञानं तु वस्तुतन्त्रत्वात् न देशकालनिमित्तादि अपेक्षते ; यथा अग्निः उष्णः, आकाशः अमूर्तः — इति, तथा आत्मविज्ञानमपि । ननु एवं सति प्रमाणभूतस्य कर्मविधेः निरोधः स्यात् ; न च तुल्यप्रमाणयोः इतरेतरनिरोधो युक्तः — न, स्वाभाविकभेदबुद्धिमात्रनिरोधकत्वात् ; न हि विध्यन्तरनिरोधकम् आत्मज्ञानम् , स्वाभाविकभेदबुद्धिमात्रं निरुणद्धि । तथापि हेत्वपहारात् कर्मानुपपत्तेः विधिनिरोध एव स्यादिति चेत् — न, कामप्रतिषेधात् काम्यप्रवृत्तिनिरोधवत् अदोषात् ; यथा ‘स्वर्गकामो यजेत’ (बृ. उ. ४ । ४ । २३) इति स्वर्गसाधने यागे प्रवृत्तस्य कामप्रतिषेधविधेः कामे विहते काम्ययागानुष्ठानप्रवृत्तिः निरुध्यते ; न च एतावता काम्यविधिर्निरुद्धो भवति । कामप्रतिषेधविधिना काम्यविधेः अनर्थकत्वज्ञानात् प्रवृत्त्यनुपपत्तेः निरुद्ध एव स्यादिति चेत् — भवतु एवं कर्मविधिनिरोधोऽपि । यथा कामप्रतिषेधे काम्यविधेः, एवं प्रामाण्यानुपपत्तिरिति चेत् — अननुष्ठेयत्वे अनुष्ठातुरभावात् अनुष्ठानविध्यानर्थक्यात् अप्रामाण्यमेव कर्मविधीनामिति चेत् — न, प्रागात्मज्ञानात् प्रवृत्त्युपपत्तेः ; स्वाभाविकस्य क्रियाकारकफलभेदविज्ञानस्य प्रागात्मज्ञानात् कर्महेतुत्वमुपपद्यत एव ; यथा कामविषये दोषविज्ञानोत्पत्तेः प्राक् काम्यकर्मप्रवृत्तिहेतुत्वं स्यादेव स्वर्गादीच्छायाः स्वाभाविक्याः, तद्वत् । तथा सति अनर्थार्थो वेद इति चेत् — न, अर्थानर्थयोः अभिप्रायतन्त्रत्वात् ; मोक्षमेकं वर्जयित्वा अन्यस्याविद्याविषयत्वात् ; पुरुषाभिप्रायतन्त्रौ हि अर्थानर्थौ, मरणादिकाम्येष्टिदर्शनात् । तस्मात् यावदात्मज्ञानविधेराभिमुख्यम् , तावदेव कर्मविधयः ; तस्मात् न आत्मज्ञानसहभावित्वं कर्मणामित्यतः सिद्धम् आत्मज्ञानमेव अमृतत्वसाधनम् ‘एतावदरे खल्वमृतत्वम्’(बृ. उ. ४ । ५ । १५) इति, कर्मनिरपेक्षत्वात् ज्ञानस्य । अतो विदुषस्तावत् पारिव्राज्यं सिद्धम् , सम्प्रदानादिकर्मकारकजात्यादिशून्याविक्रियब्रह्मात्मदृढप्रतिपत्तिमात्रेण वचनमन्तरेणापि उक्तन्यायतः । तथा च व्याख्यातमेतत् — ‘येषां नोऽयमात्माऽयं लोकः’(बृ. उ. ४ । ४ । २२) इति हेतुवचनेन, पूर्वेविद्वांसः प्रजामकामयमाना व्युत्तिष्ठन्तीति — पारिव्राज्यम् विदुषाम् आत्मलोकावबोधादेव । तथा च विविदिषोरपि सिद्धं पारिव्राज्यम् , ‘एतमेवात्मानं लोकमिच्छन्तः प्रव्रजन्ति’(बृ. उ. ४ । ४ । २२) इति वचनात् ; कर्मणां च अविद्वद्विषयत्वमवोचाम ; अविद्याविषये च उत्पत्त्यादिविकारसंस्कारार्थानि कर्माणीत्यतः — आत्मसंस्कारद्वारेण आत्मज्ञानसाधनत्वमपि कर्मणामवोचाम — यज्ञादिभिर्विविदिषन्तीति । अथ एवं सति अविद्वद्विषयाणाम् आश्रमकर्मणां बलाबलविचारणायाम् , आत्मज्ञानोत्पादनं प्रति यमप्रधानानाम् अमानित्वादीनाम् मानसानां च ध्यानज्ञानवैराग्यादीनाम् सन्निपत्योपकारकत्वम् ; हिंसारागद्वेषादिबाहुल्यात् बहुक्लिष्टकर्मविमिश्रिता इतरे — इति ; अतः पारिव्राज्यं मुमुक्षूणां प्रशंसन्ति — ‘त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् । वैराग्यं पुनरेतस्य मोक्षस्य परमोऽवधिः’(?) ‘किं ते धनेन किमु बन्धुभिस्ते किं ते दारैर्ब्राह्मण यो मरिष्यसि । आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताः पिता च’(मो. ध. १७५ । ३८, २७७ । ३८) । एवं साङ्ख्ययोगशास्त्रेषु च सन्न्यासः ज्ञानं प्रति प्रत्यासन्न उच्यते ; कामप्रवृत्त्यभावाच्च ; कामप्रवृत्तेर्हि ज्ञानप्रतिकूलता सर्वशास्त्रेषु प्रसिद्धा । तस्मात् विरक्तस्य मुमुक्षोः विनापि ज्ञानेन ‘ब्रह्मचर्यादेव प्रव्रजेत्’(जा. उ. ४) इत्यादि उपपन्नम् । ननु सावकाशत्वात् अनधिकृतविषयमेतदित्युक्तम् , यावज्जीवश्रुत्युपरोधात् — नैष दोषः, नितरां सावकाशत्वात् यावज्जीवश्रुतीनाम् ; अविद्वत्कामिकर्तव्यतां हि अवोचाम सर्वकर्मणाम् ; न तु निरपेक्षमेव जीवननिमित्तमेव कर्तव्यं कर्म ; प्रायेण हि पुरुषाः कामबहुलाः ; कामश्च अनेकविषयः अनेककर्मसाधनसाध्यश्च ; अनेकफलसाधनानि च वैदिकानि कर्माणि दाराग्निसम्बन्धपुरुषकर्तव्यानि, पुनः पुनश्च अनुष्ठीयमानानि बहुफलानि कृष्यादिवत् , वर्षशतसमाप्तीनि च गार्हस्थ्ये वा अरण्ये वा ; अतः तदपेक्षया यावज्जीवश्रुतयः ; ‘कुर्वन्नेवेह कर्माणि’(ई. उ. २) इति च मन्त्रवर्णः । तस्मिंश्च पक्षे विश्वजित्सर्वमेधयोः कर्मपरित्यागः, यस्मिंश्च पक्षे यावज्जीवानुष्ठानम् , तदा श्मशानान्तत्वम् भस्मान्तता च शरीरस्य । इतरवर्णापेक्षया वा यावज्जीवश्रुतिः ; न हि क्षत्त्रियवैश्ययोः पारिव्राज्यप्रतिपत्तिरस्ति ; तथा ‘मन्त्रैर्यस्योदितो विधिः’(मनु. २ । १६) ‘ऐकाश्रम्यं त्वाचार्याः’(गौ. ध. १ । ३ । ३५) इत्येवमादीनां क्षत्त्रियवैश्यापेक्षत्वम् । तस्मात् पुरुषसामर्थ्यज्ञानवैराग्यकामाद्यपेक्षया व्युत्थानविकल्पक्रमपारिव्राज्यप्रतिपत्तिप्रकाराः न विरुध्यन्ते ; अनधिकृतानां च पृथग्विधानात् पारिव्राज्यस्य ‘स्नातको वास्नातको वोत्सन्नाग्निरनग्निको वा’(जा. उ. ४) इत्यादिना ; तस्मात् सिद्धानि आश्रमान्तराणि अधिकृतानामेव ॥
इति चतुर्थाध्यायस्य पञ्चमं ब्राह्मणम् ॥
षष्ठं ब्राह्मणम्
अथ वंशः पौतिमाष्यो गौपवनाद्गौपवनः पौतिमाष्यात्पौतिमाष्यो गौपवनाद्गौपवनः कौशिकात्कौशिकः कौण्डिन्यात्कौण्डिन्यः शाण्डिल्याच्छाण्डिल्यः कौशिकाच्च गौतमाच्च गौतमः ॥ १ ॥
१आग्निवेश्यादाग्निवेश्यो गार्ग्याद्गार्ग्यो गार्ग्याद्गार्ग्यो गौतमाद्गौतमः सैतवात्सैतवः पाराशर्यायणात्पाराशर्यायणो गार्ग्यायणाद्गार्ग्यायण उद्दालकायनादुद्दालकायनो जाबालायनाज्जाबालायनो माध्यन्दिनायनान्माध्यन्दिनायनः सौकरायणात्सौकरायणः काषायणात्काषायणः सायकायनात्सायकायनः कौशिकायनेः कौशिकायनिः ॥ २ ॥
२घृतकौशिकाद्घृतकौशिकः पाराशर्यायणात्पाराशर्यायणः पाराशर्यात्पाराशर्यो जातूकर्ण्याज्जातूकर्ण्य आसुरायणाच्चयास्काच्चासुरायणस्त्रैवणेस्त्रैवणिरौपजन्धनेरौपजन्धनिरासुरेरासुरिर्भारद्वाजाद्भारद्वाज आत्रेयादात्रेयो माण्टेर्माण्टिर्गौतमाद्गौतमो गौतमाद्गौतमो वात्स्याद्वात्स्यः शाण्डिल्याच्छाण्डिल्यः कैशोर्यात्काप्यात्कैशोर्यः काप्यःकुमारहारितात्कुमारहारितो गालवाद्गालवो विदर्भीकौण्डिन्याद्विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद्वत्सनपाद्बाभ्रवः पथः सौभरात्पन्थाः सौभरोऽयास्यादाङ्गिरसादयास्य आङ्गिरस आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्विश्वरूपस्त्वाष्ट्रोऽश्विभ्यामश्विनौ दधीच आथर्वणाद्दध्यङ्ङाथर्वणोऽथर्वणोर्दैवादथर्वा दैवो मृत्योः प्राध्वंसनान्मृत्युः प्राध्वंसनः प्रध्वंसनात्प्रध्वंसन एकर्षेरेकर्षिर्विप्रचित्तेर्विप्रचित्तिर्व्यष्टेर्व्यष्टिः सनारोः सनारुः सनातनात्सनातनः सनगात्सनगः परमेष्ठिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः ॥ ३ ॥
३अथ अनन्तरं याज्ञवल्कीयस्य काण्डस्य वंश आरभ्यते, यथा मधुकाण्डस्य वंशः । व्याख्यानं तु पूर्ववत् । ब्रह्म स्वयम्भु ब्रह्मणे नम ओमिति ॥
इति चतुर्थाध्यायस्य षष्ठं ब्राह्मणम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ बृहदारण्यकोपनिषद्भाष्ये चतुर्थोऽध्यायः ॥