अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यम्

पञ्चमोऽध्यायः

व्याख्याः

प्रथमं ब्राह्मणम्

ओं खं ब्रह्म । खं पुराणं वायुरं खमिति ह स्माह कौर­व्या­य­णी­पुत्रो वेदोऽयं ब्राह्मणा विदुर्वेदैनेन यद्वेदितव्यम् ॥ १ ॥

पूर्णमद इत्यादि खिल­का­ण्ड­मा­र­भ्यते । अध्यायचतुष्टयेन यदेव साक्षा­द­प­रो­क्षा­द्ब्रह्म, य आत्मा सर्वान्तरः निरुपाधिकः अशनायाद्यतीतः नेति नेतीति व्यपदेश्यः निर्धारितः, यद्विज्ञानं केव­ल­म­मृ­त­त्व­सा­ध­नम् — अधुना तस्यैव आत्मनः सोपाधिकस्य शब्दा­र्था­दि­व्य­व­हा­र­वि­ष­या­प­न्नस्य पुर­स्ता­द­नु­क्तानि उपासनानि कर्म­भि­र­वि­रु­द्धानि प्रकृ­ष्टा­भ्यु­द­य­सा­ध­नानि क्रम­मु­क्ति­भाञ्जि च ; तानि वक्तव्यानीति परः सन्दर्भः ; सर्वो­पा­स­न­शे­ष­त्वेन ओङ्कारो दमं दानं दयाम् इत्येतानि च विधित्सितानि । पूर्णमदः — पूर्णम् न कुतश्चित् व्यावृत्तं व्यापीत्येतत् ; निष्ठा च कर्तरि द्रष्टव्या ; अद इति परोक्षाभिधायि सर्वनाम, तत् परं ब्रह्मेत्यर्थः ; तत् सम्पूर्णम् आकाशवद्व्यापि निरन्तरं निरुपाधिकं च ; तदेव इदं सोपाधिकं नामरूपस्थं व्यवहारापन्नं पूर्णं स्वेन रूपेण परमात्मना व्याप्येव, न उपा­धि­प­रि­च्छि­न्नेन विशेषात्मना ; तदिदं विशेषापन्नं कार्यात्मकं ब्रह्म पूर्णा­त्का­र­णा­त्मनः उदच्यते उद्रिच्यते, उद्ग­च्छ­ती­त्ये­तत् । यद्यपि कार्यात्मना उद्रिच्यते तथापि यत्स्वरूपं पूर्णत्वम् परमात्मभावं तन्न जहाति, पूर्णमेव उद्रिच्यते । पूर्णस्य कार्यात्मनो ब्रह्मणः, पूर्णं पूर्णत्वम् , आदाय गृहीत्वा आत्म­स्व­रू­पै­क­र­स­त्व­मा­पद्य विद्यया, अविद्याकृतं भूत­मा­त्रो­पा­धि­सं­स­र्ग­जम् अन्यत्वावभासं तिरस्कृत्य, पूर्णमेव अनन्तरमबाह्यं प्रज्ञा­न­घ­नै­क­र­स­स्व­भावं केवलं ब्रह्म अवशिष्यते । यदुक्तम् — ‘ब्रह्म वा इदमग्र आसीत् तदा­त्मा­न­मे­वा­वेत् तस्मा­त्त­त्स­र्व­म­भ­वत्’(बृ. उ. १ । ४ । १०) इति — एषः अस्य मन्त्रस्यार्थः ; तत्र ‘ब्रह्म’ इत्यस्यार्थः ‘पूर्णमदः’ इति ; इदं पूर्णम् इति ‘ब्रह्म वा इदमग्र आसीत्’ इत्यस्यार्थः ; तथा च श्रुत्यन्तरम् — ‘यदेवेह तदमुत्र यदमुत्र तदन्विह’(क. उ. २ । १ । १०) इति ; अतः अदःशब्दवाच्यं पूर्णं ब्रह्म, तदेव इदं पूर्णं कार्यस्थं नाम­रू­पो­पा­धि­सं­यु­क्तम् अविद्यया उद्रिक्तम् तस्मादेव पर­मा­र्थ­स्व­रू­पात् अन्यदिव प्रत्यवभासमानम् — तत् , यत् आत्मानमेव परं पूर्णं ब्रह्म विदित्वा — अहम् अदः पूर्णं ब्रह्मास्मि इत्येवम् , पूर्णमादाय, तिरस्कृत्य अपू­र्ण­स्व­रू­प­ताम् अविद्याकृतां नाम­रू­पो­पा­धि­स­म्प­र्क­जाम् एतया ब्रह्मविद्यया पूर्णमेव केवलम् अवशिष्यते ; तथा चोक्तम् ‘तस्मा­त्त­त्स­र्व­म­भ­वत्’ इति । यः सर्वोपनिषदर्थो ब्रह्म, स एषः अनेन मन्त्रेण अनूद्यते, उत्त­र­स­म्ब­न्धा­र्थम् । ब्रह्म­वि­द्या­सा­ध­न­त्वेन हि वक्ष्यमाणानि साधनानि ओङ्का­र­द­म­दा­न­द­या­ख्यानि विधित्सितानि, खिल­प्र­क­र­ण­स­म्ब­न्धात् सर्वो­पा­स­ना­ङ्ग­भू­तानि च ॥

अत्रैके वर्णयन्ति — पूर्णात् कारणात् पूर्णं कार्यम् उद्रिच्यते ; उद्रिक्तं कार्यं वर्तमानकालेऽपि पूर्णमेव पर­मा­र्थ­व­स्तु­भूतं द्वैतरूपेण ; पुनः प्रलयकाले पूर्णस्य कार्यस्य पूर्णताम् आदाय आत्मनि धित्वा पूर्णमेव अवशिष्यते कारणरूपम् ; एवम् उत्प­त्ति­स्थि­ति­प्र­ल­येषु त्रिष्वपि कालेषु कार्यकारणयोः पूर्णतैव ; सा च एकैव पूर्णता कार्य­का­र­ण­यो­र्भे­देन व्यपदिश्यते ; एवं च द्वैता­द्वै­ता­त्म­क­मेकं ब्रह्म । यथा किल समुद्रो जल­त­र­ङ्ग­फे­न­बु­द्बु­दा­द्या­त्मक एव, यथा च जलं सत्यं तदुद्भवाश्च तर­ङ्ग­फे­न­बु­द्बु­दा­दयः समुद्रात्मभूता एव आवि­र्भा­व­ति­रो­भा­व­ध­र्माणः परमार्थसत्या एव — एवं सर्वमिदं द्वैतं परमार्थसत्यमेव जल­त­र­ङ्गा­दि­स्था­नी­यम् , समु­द्र­ज­ल­स्था­नीयं तु परं ब्रह्म । एवं च किल द्वैतस्य सत्यत्वे कर्मकाण्डस्य प्रामाण्यम् , यदा पुनर्द्वैतं द्वैत­मि­वा­वि­द्या­कृतं मृग­तृ­ष्णि­का­व­द­नृ­तम् , अद्वैतमेव परमार्थतः, तदा किल कर्मकाण्डं विषयाभावात् अप्रमाणं भवति ; तथा च विरोध एव स्यात् । वेदैकदेशभूता उपनिषत् प्रमाणम् , पर­मा­र्था­द्वै­त­व­स्तु­प्र­ति­पा­द­क­त्वात् ; अप्रमाणं कर्मकाण्डम् , अस­द्द्वै­त­वि­ष­य­त्वात् । तद्वि­रो­ध­प­रि­जि­ही­र्षया श्रुत्या एतदुक्तं कार्यकारणयोः सत्यत्वं समुद्रवत् ‘पूर्णमदः’ इत्यादिना इति । तदसत् , विशि­ष्ट­वि­ष­या­प­वा­द­वि­क­ल्प­यो­र­स­म्भ­वात् । न हि इयं सुविवक्षिता कल्पना । कस्मात् ? यथा क्रियाविषये उत्स­र्ग­प्रा­प्तस्य एकदेशे अपवादः क्रियते, यथा ‘अहिं­स­न्स­र्व­भू­ता­न्य­न्यत्र तीर्थेभ्यः’(छा. उ. ८ । १५ । १) इति हिंसा सर्वभूतविषया उत्सर्गेण निवारिता तीर्थे विशिष्टविषये ज्योति­ष्टो­मा­दा­व­नु­ज्ञा­यते, न च तथा वस्तुविषये इह अद्वैतं ब्रह्म उत्सर्गेण प्रतिपाद्य पुनः तदेकदेशे अपवदितुं शक्यते, ब्रह्मणः अद्वैतत्वादेव एकदेशानुपपत्तेः । तथा विक­ल्पा­नु­प­प­त्तेश्च ; यथा ‘अतिरात्रे षोडशिनं गृह्णाति’(?) ‘नातिरात्रे षोडशिनं गृह्णाति’(?) इति ग्रहणाग्रहणयोः पुरुषाधीनत्वात् विकल्पो भवति ; न त्विह तथा वस्तुविषये द्वैतं वा स्यात् अद्वैतं वेति विकल्पः सम्भवति, अपु­रु­ष­त­न्त्र­त्वा­दा­त्म­व­स्तुनः, विरोधाच्च द्वैता­द्वै­त­त्व­यो­रे­कस्य । तस्मात् न सुविवक्षिता इयं कल्पना । श्रुति­न्या­य­वि­रो­धाच्च । सैन्धवघनवत् प्रज्ञानैकरसघनं निरन्तरं पूर्वा­प­र­बा­ह्या­भ्य­न्त­र­भे­द­वि­व­र्जितं सबा­ह्या­भ्य­न्त­रम् अजं नेति नेति अस्थू­ल­म­न­ण्व­ह्र­स्व­म­ज­र­म­भ­य­म­मृ­तम् — इत्येवमाद्याः श्रुतयः निश्चितार्थाः संश­य­वि­प­र्या­सा­श­ङ्का­र­हिताः सर्वाः समुद्रे प्रक्षिप्ताः स्युः, अकि­ञ्चि­त्क­र­त्वात् । तथा न्यायविरोधोऽपि, साव­य­व­स्या­ने­का­त्म­कस्य क्रियावतो नित्य­त्वा­नु­प­पत्तेः ; नित्यत्वं च आत्मनः स्मृत्या­दि­द­र्श­नात् अनुमीयते ; तद्विरोधश्च प्राप्नोति अनित्यत्वे ; भव­त्क­ल्प­ना­न­र्थक्यं च ; स्फुटमेव च अस्मिन्पक्षे कर्म­का­ण्डा­न­र्थ­क्यम् , अकृ­ता­भ्या­ग­म­कृ­त­वि­प्र­णा­श­प्र­स­ङ्गात् । ननु ब्रह्मणो द्वैता­द्वै­ता­त्म­कत्वे समु­द्रा­दि­दृ­ष्टान्ता विद्यन्ते ; कथमुच्यते भवता एकस्य द्वैताद्वैतत्वं विरुद्धमिति ? न, अन्यविषयत्वात् ; नित्य­नि­र­व­य­व­व­स्तु­वि­षयं हि विरुद्धत्वम् अवोचाम द्वैता­द्वै­त­त्वस्य, न कार्यविषये सावयवे । तस्मात् श्रुति­स्मृ­ति­न्या­य­वि­रो­धात् अनुपपन्नेयं कल्पना । अस्याः कल्पनायाः वरम् उपनिषत्परित्याग एव । अध्येयत्वाच्च न शास्त्रार्था इयं कल्पना ; न हि जन­न­म­र­णा­द्य­न­र्थ­श­त­स­ह­स्र­भे­द­स­मा­कुलं समुद्रवनादिवत् सावयवम् अनेकरसं ब्रह्म ध्येयत्वेन विज्ञेयत्वेन वा श्रुत्या उपदिश्यते ; प्रज्ञानघनतां च उपदिशति ; ‘एक­धै­वा­नु­द्र­ष्ट­व्यम्’(बृ. उ. ४ । ४ । २०) इति च ; अने­क­धा­द­र्श­ना­प­वा­दाच्च ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’(बृ. उ. ४ । ४ । १९) इति ; यच्च श्रुत्या निन्दितम् , तन्न कर्तव्यम् ; यच्च न क्रियते, न स शास्त्रार्थः ; ब्रह्म­णोऽ­ने­क­र­स­त्वम् अनेकधात्वं च द्वैतरूपं निन्दितत्वात् न द्रष्टव्यम् ; अतो न शास्त्रार्थः ; यत्तु एकरसत्वं ब्रह्मणः तत् द्रष्टव्यत्वात् प्रशस्तम् , प्रशस्तत्वाच्च शास्त्रार्थो भवितुमर्हति । यत्तूक्तं वेदैकदेशस्य अप्रामाण्यं कर्मविषये द्वैताभावात् , अद्वैते च प्रामाण्यमिति — तन्न, यथा­प्रा­प्तो­प­दे­शा­र्थ­त्वात् ; न हि द्वैतम् अद्वैतं वा वस्तु जातमात्रमेव पुरुषं ज्ञापयित्वा पश्चात्कर्म वा ब्रह्मविद्यां वा उपदिशति शास्त्रम् ; न च उपदेशार्हं द्वैतम् , जात­मा­त्र­प्रा­णि­बु­द्धि­ग­म्य­त्वात् ; न च द्वैतस्य अनृतत्वबुद्धिः प्रथममेव कस्यचित् स्यात् , येन द्वैतस्य सत्यत्वमुपदिश्य पश्चात् आत्मनः प्रामाण्यं प्रतिपादयेत् शास्त्रम् । नापि पाषण्डिभिरपि प्रस्थापिताः शास्त्रस्य प्रामाण्यं न गृह्णीयुः । तस्मात् यथाप्राप्तमेव द्वैतम् अविद्याकृतं स्वाभाविकम् उपादाय स्वाभाविक्यैव अविद्यया युक्ताय राग­द्वे­षा­दि­दो­ष­वते यथा­भि­म­त­पु­रु­षा­र्थ­सा­धनं कर्म उपदिशत्यग्रे ; पश्चात् प्रसि­द्ध­क्रि­या­का­र­क­फ­ल­स्व­रू­प­दो­ष­द­र्श­न­वते तद्वि­प­री­तौ­दा­सी­न्य­स्व­रू­पा­व­स्था­न­फ­ला­र्थिने तदुपायभूताम् आत्मै­क­त्व­द­र्श­ना­त्मिकां ब्रह्मविद्याम् उपदिशति । अथैवं सति तदौ­दा­सी­न्य­स्व­रू­पा­व­स्थाने फले प्राप्ते शास्त्रस्य प्रामाण्यं प्रति अर्थित्वं निवर्तते ; तदभावात् शास्त्रस्यापि शास्त्रत्वं तं प्रति निवर्तत एव । तथा प्रतिपुरुषं परिसमाप्तं शास्त्रम् इति न शास्त्र­वि­रो­ध­ग­न्धोऽपि अस्ति, अद्वै­त­ज्ञा­ना­व­सा­न­त्वात् शास्त्र­शि­ष्य­शा­स­ना­दि­द्वै­त­भे­दस्य ; अन्यतमावस्थाने हि विरोधः स्यात् अवस्थितस्य ; इत­रे­त­रा­पे­क्ष­त्वात्तु शास्त्र­शि­ष्य­शा­स­नानां नान्यतमोऽपि अवतिष्ठते ; सर्वसमाप्तौ तु कस्य विरोध आशङ्क्येत अद्वैते केवले शिवे सिद्धे ; नाप्यविरोधता, अत एव । अथापि अभ्युपगम्य ब्रूमः — द्वैता­द्वै­ता­त्म­क­त्वेऽपि शास्त्रविरोधस्य तुल्यत्वात् ; यदापि समुद्रादिवत् द्वैता­द्वै­ता­त्म­क­मेकं ब्रह्म अभ्युपगच्छामः नान्य­द्व­स्त्व­न्त­रम् , तदापि भवदुक्तात् शास्त्रविरोधात् न मुच्यामहे ; कथम् ? एकं हि परं ब्रह्म द्वैता­द्वै­ता­त्म­कम् ; तत् शोक­मो­हा­द्य­ती­त­त्वात् उपदेशं न काङ्क्षति ; न च उपदेष्टा अन्यः ब्रह्मणः ; द्वैता­द्वै­त­रू­पस्य ब्रह्मणः एकस्यैव अभ्युपगमात् । अथ द्वैतविषयस्य अनेकत्वात् अन्योन्योपदेशः, न ब्रह्मविषय उपदेश इति चेत् — तदा द्वैता­द्वै­ता­त्म­कम् एकमेव ब्रह्म, नान्यदस्ति इति विरुध्यते । यस्मि­न्द्वै­त­वि­षये अन्योन्योपदेशः, सः अन्यः द्वैतं च अन्यदेव इति समु­द्र­दृ­ष्टान्तो विरुद्धः । न च समु­द्रो­द­कै­क­त्व­वत् विज्ञानैकत्वे ब्रह्मणः अन्यत्र उप­दे­श­ग्र­ह­णा­दि­क­ल्पना सम्भवति ; न हि हस्ता­दि­द्वै­ता­द्वै­ता­त्मके देवदत्ते वाक्कर्णयोः देव­द­त्तै­क­दे­श­भू­तयोः वाक् उपदेष्ट्री कर्णः केवल उपदेशस्य ग्रहीता, देवदत्तस्तु न उपदेष्टा नाप्युपदेशस्य ग्रहीता — इति कल्पयितुं शक्यते, समु­द्रै­को­द­का­त्म­त्व­वत् एक­वि­ज्ञा­न­व­त्त्वात् देवदत्तस्य । तस्मात् श्रुति­न्या­य­वि­रो­धश्च अभि­प्रे­ता­र्था­सि­द्धिश्च एवंकल्पनायां स्यात् । तस्मात् यथाव्याख्यात एव अस्माभिः पूर्णमदः इत्यस्य मन्त्रस्य अर्थः ॥

ओं खं ब्रह्म इति मन्त्रः ; अयं च अन्यत्र अविनियुक्तः इह ब्राह्मणेन ध्यानकर्मणि विनियुज्यते । अत्र च ब्रह्मेति विशेष्याभिधानम् , खमिति विशेषणम् । विशे­ष­ण­वि­शे­ष्य­योश्च सामानाधिकरण्येन निर्देशः नीलोत्पलवत् — खं ब्रह्मेति ब्रह्मशब्दो बृह­द्व­स्तु­मा­त्रा­स्पदः अविशेषितः, अतः विशेष्यते — खं ब्रह्मेति ; यत्तत् खं ब्रह्म, तत् ओंशब्दवाच्यम् , ओंशब्दस्वरूपमेव वा ; उभयथापि सामानाधिकरण्यम् अविरुद्धम् । इह च ब्रह्मो­पा­स­न­सा­ध­न­त्वा­र्थम् ओंशब्दः प्रयुक्तः, तथा च श्रुत्यन्तरात् ‘एतदालम्बनं श्रेष्ठ­मे­त­दा­ल­म्बनं परम्’(क. उ. १ । २ । १७) ‘ओमित्यात्मानं युञ्जीत’(तै. ना. २४ । १) ‘ओमि­त्ये­ते­नै­वा­क्ष­रेण परं पुरु­ष­म­भि­ध्या­यीत’(प्र. उ. ५ । ५) ‘ओमित्येवं ध्यायथ आत्मानम्’(मु. उ. २ । २ । ६) इत्यादेः । अन्या­र्था­स­म्भ­वाच्च उपदेशस्य । यथा अन्यत्र ‘ओमिति शंसति ओमित्युद्गायति’(छा. उ. १ । १ । ९) इत्येवमादौ स्वाध्या­या­र­म्भा­प­व­र्ग­योश्च ओङ्कारप्रयोगः विनि­यो­गा­द­व­ग­म्यते, न च तथा अर्थान्तरम् इह अवगम्यते । तस्मात् ध्यान­सा­ध­न­त्वे­नैव इह ओङ्कारशब्दस्य उपदेशः । यद्यपि ब्रह्मा­त्मा­दि­शब्दा ब्रह्मणो वाचकाः, तथापि श्रुति­प्रा­मा­ण्यात् ब्रह्मणो नेदिष्ठमभिधानम् ओङ्कारः । अत एव ब्रह्म­प्र­ति­पत्तौ इदं परं साधनम् । तच्च द्विप्रकारेण, प्रतीकत्वेन अभिधानत्वेन च । प्रतीकत्वेन — यथा विष्ण्वा­दि­प्र­तिमा अभेदेन, एवम् ओङ्कारः ब्रह्मेति प्रतिपत्तव्यः । तथा ह्योङ्का­रा­ल­म्ब­नस्य ब्रह्म प्रसीदति, ‘एतदालम्बनं श्रेष्ठ­मे­त­दा­ल­म्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते’(क. उ. १ । २ । १७) इति श्रुतेः ॥

तत्र खमिति भौतिके खे प्रतीतिर्मा भूत् इत्याह — खं पुराणं चिरन्तनं खं पर­मा­त्मा­का­श­मि­त्यर्थः । यत्त­त्प­र­मा­त्मा­काशं पुराणं खम् , तत् चक्षु­रा­द्य­वि­ष­य­त्वात् निरालम्बनम् अशक्यं ग्रहीतुमिति श्रद्धा­भ­क्तिभ्यां भावविशेषेण च ओङ्कारे आवेशयति — यथा विष्ण्व­ङ्गा­ङ्कि­तायां शिला­दि­प्र­ति­मायां विष्णुं लोकः, एवम् । वायुरं खम् , वायुः अस्मिन्विद्यत इति वायुरम् , खं खमात्रं खमित्युच्यते, न पुराणं खम् — इत्येवम् आह स्म । कोऽसौ ? कौर­व्या­य­णी­पुत्रः । वायुरे हि खे मुख्यः खशब्दव्यवहारः ; तस्मान्मुख्ये संप्रत्ययो युक्त इति मन्यते । तत्र यदि पुराणं खं ब्रह्म निरु­पा­धि­स्व­रू­पम् , यदि वा वायुरं खं सोपाधिकं ब्रह्म, सर्वथापि ओङ्कारः प्रतीकत्वेनैव प्रतिमावत् साधनत्वं प्रतिपद्यते, ‘एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः’(प्र. उ. ५ । २) इति श्रुत्यन्तरात् । केवलं खशब्दार्थे विप्रतिपत्तिः । वेदोऽयम् ओङ्कारः, वेद विजानाति अनेन यद्वेदितव्यम् तस्माद्वेदः ओङ्कारः वाचकः अभिधानम् ; तेनाभिधानेन यद्वेदितव्यं ब्रह्म प्रकाश्यमानम् अभिधीयमानं वेद साधको विजानाति उपलभते, तस्मात् वेदोऽयमिति ब्राह्मणा विदुः ; तस्मात् ब्राह्म­णा­ना­म­भि­धा­न­त्वेन साध­न­त्व­म­भि­प्रे­तम् ओङ्कारस्य । अथवा वेदोऽयमित्यादि अर्थवादः ; कथम् ओङ्कारः ब्रह्मणः प्रतीकत्वेन विहितः ; ओं खं ब्रह्म इति सामा­ना­धि­क­र­ण्यात् तस्य स्तुतिः इदानीं वेदत्वेन ; सर्वो हि अयं वेद ओङ्कार एव ; एतत्प्रभवः एतदात्मकः सर्वः ऋग्य­जुः­सा­मा­दि­भे­द­भिन्नः एष ओङ्कारः, ‘तद्यथा शङ्कुना सर्वाणि पर्णानि’(छा. उ. २ । २३ । ३) इत्या­दि­श्रु­त्य­न्त­रात् ; इतश्चायं वेदः ओङ्कारः, यद्वेदितव्यम् , तत्सर्वं वेदितव्यम् ओङ्कारेणैव वेद एनेन ; अतः अयमोङ्कारो वेदः ; इतरस्यापि वेदस्य वेदत्वम् अत एव ; तस्मात् विशि­ष्टोऽ­य­मो­ङ्कारः साधनत्वेन प्रतिपत्तव्य इति । अथवा वेदः सः ; कोऽसौ ? यं ब्राह्मणा विदुः ओङ्कारम् ; ब्राह्मणानां हि असौ प्रण­वो­द्गी­था­दि­वि­क­ल्पै­र्वि­ज्ञेयः ; तस्मिन्हि प्रयुज्यमाने साधनत्वेन सर्वो वेदः प्रयुक्तो भवतीति ॥

इति पञ्चमाध्यायस्य प्रथमं ब्राह्मणम् ॥

द्वितीयं ब्राह्मणम्

त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्म­च­र्य­मू­षु­र्देवा मनुष्या असुरा उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ १ ॥

अधुना दमा­दि­सा­ध­न­त्र­य­वि­धा­ना­र्थोऽ­य­मा­रम्भः — त्रयाः, त्रिसङ्ख्याकाः प्राजापत्याः प्रजा­प­ते­र­प­त्यानि प्राजापत्याः, ते किम् ? प्रजापतौ पितरि ब्रह्मचर्यं शिष्य­त्व­वृ­त्ते­र्ब्र­ह्म­च­र्यस्य प्राधान्यात् शिष्याः सन्तो ब्रह्मचर्यम् ऊषुः उषितवन्त इत्यर्थः । के ते ? विशेषतः देवा मनुष्या असुराश्च । ते च उषित्वा ब्रह्मचर्यं किम­कु­र्व­न्नि­त्यु­च्यते — तेषां देवा ऊचुः पितरं प्रजापतिम् । किमिति ? ब्रवीतु कथयतु, नः अस्मभ्यम् यदनुशासनं भवानिति । तेभ्यः एवमर्थिभ्यः ह एतदक्षरं वर्णमात्रम् उवाच — द इति । उक्त्वा च तान् पप्रच्छ पिता — किं व्यज्ञासिष्टा३ इति, मया उप­दे­शा­र्थ­म­भि­हि­त­स्या­क्ष­रस्य अर्थं विज्ञातवन्तः आहोस्विन्नेति । देवा ऊचुः — व्यज्ञा­सि­ष्मेति, विज्ञातवन्तो वयम् । यद्येवम् , उच्यतां किं मयोक्तमिति । देवा ऊचुः — दाम्यत, अदान्ता यूयं स्वभावतः अतो दान्ता भवतेति नः अस्मान् आत्थ कथयसि । इतर आह — ओमिति सम्य­ग्व्य­ज्ञा­सि­ष्टेति ॥

अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैत­दे­वा­क्ष­र­मु­वाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दत्तेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ २ ॥

समानमन्यत् । स्वभावतो लुब्धा यूयम् , अतो यथाशक्ति संविभजत दत्तेति नः अस्मान् आत्थ, किम­न्य­द्ब्रू­यात् नो हितमिति मनुष्याः ॥

अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैत­दे­वा­क्ष­र­मु­वाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दयध्वमिति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमिति तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति ॥ ३ ॥

तथा असुराः दयध्वमिति ; क्रूरा यूयं हिंसादिपराः, अतो दयध्वं प्राणिषु दयां कुरुतेति । तदे­त­त्प्र­जा­प­ते­र­नु­शा­स­नम् अद्याप्यनुवर्तत एव । यः पूर्वं प्रजा­प­ति­र्दे­वा­दी­न­नु­श­शास सोऽद्यापि अनुशास्त्येव दैव्या स्तन­यि­त्नु­ल­क्ष­णया वाचा । कथमेषा श्रूयते दैवी वाक् ? कासौ स्तनयित्नुः ? द द द इति, दाम्यत दत्त दयध्वमिति — एषां वाक्या­ना­मु­प­ल­क्ष­णाय त्रिर्दकार उच्चार्यते अनुकृतिः ; न तु स्तनयित्नुशब्दः त्रिरेव, सङ्ख्यानियमस्य लोके अप्रसिद्धत्वात् । यस्मात् अद्यापि प्रजापतिः दाम्यत दत्त दय­ध्व­मि­त्य­नु­शा­स्त्येव, तस्मात्कारणात् एतत्त्रयम् ; किं तत् त्रयमित्युच्यते — दमं दानं दयामिति शिक्षेत् उपादद्यात् प्रजा­प­ते­र­नु­शा­स­न­म­स्माभिः कर्तव्यमित्येवं मतिं कुर्यात् । तथा च स्मृतिः — ‘त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभ­स्त­स्मा­दे­त­त्त्रयं त्यजेत्’(भ. गी. १६ । २१) इति । अस्य हि विधेः शेषः पूर्वः । तथापि देवादीनुद्दिश्य किमर्थं दका­र­त्र­य­मु­च्चा­रि­त­वान् प्रजापतिः पृथ­ग­नु­शा­स­ना­र्थिभ्यः ; ते वा कथं विवेकेन प्रतिपन्नाः प्रजा­प­ते­र्म­नो­गतं समानेनैव दका­र­व­र्ण­मा­त्रे­णेति पराभिप्रायज्ञा विकल्पयन्ति । अत्रैके आहुः — अदा­न्त­त्वा­दा­तृ­त्वा­द­या­लुत्वैः अप­रा­धि­त्व­मा­त्मनो मन्यमानाः शङ्किता एव प्रजापतावूषुः, किं नो वक्ष्यतीति ; तेषां च दका­र­श्र­व­ण­मा­त्रा­देव आत्माशङ्कावशेन तद­र्थ­प्र­ति­प­त्ति­र­भूत् ; लोकेऽपि हि प्रसिद्धम् — पुत्राः शिष्या­श्चा­नु­शास्याः सन्तो दोषात् निवर्तयितव्या इति ; अतो युक्तं प्रजा­प­ते­र्द­का­र­मा­त्रो­च्चा­र­णम् ; दमादित्रये च दकारान्वयात् आत्मनो दोषानुरूप्येण देवादीनां विवेकेन प्रतिपत्तुं चेति ; फलं तु एतत् आत्मदोषज्ञाने सति दोषात् निवर्तयितुं शक्यते अल्पे­ना­प्यु­प­दे­शेन, यथा देवादयो दकारमात्रेणेति । ननु एतत् त्रयाणां देवा­दी­ना­म­नु­शा­सनं देवादिभिरपि एकैकमेव उपादेयम् , अद्यत्वेऽपि न तु त्रयं मनुष्यैः शिक्षितव्यमिति । अत्रोच्यते — पूर्वै­र्दे­वा­दि­भि­र्वि­शि­ष्टै­र­नु­ष्ठि­तम् एतत्त्रयम् , तस्मात् मनुष्यैरेव शिक्षितव्यमिति । तत्र दया­लु­त्व­स्या­न­नु­ष्ठे­यत्वं स्यात् , कथम् ? असु­रै­र­प्र­श­स्तै­र­नु­ष्ठि­त­त्वा­दिति चेत् — न, तुल्यत्वात् त्रयाणाम् ; अतः अन्योऽ­त्रा­भि­प्रायः — प्रजापतेः पुत्रा देवादयस्त्रयः ; पुत्रेभ्यश्च हितमेव पित्रा उपदेष्टव्यम् ; प्रजापतिश्च हितज्ञः नान्यथा उपदिशति ; तस्मात् पुत्रानुशासनं प्रजापतेः परमम् एतत् हितम् ; अतो मनुष्यैरेव एतत् त्रयं शिक्षितव्यमिति । अथवा न देवाः असुरा वा अन्ये केचन विद्यन्ते मनुष्येभ्यः ; मनुष्याणामेव अदान्ताः ये अन्यै­रु­त्त­मै­र्गुणैः सम्पन्नाः ; ते देवाः ; लोभप्रधाना मनुष्याः ; तथा हिंसापराः क्रूरा असुराः ; ते एव मनुष्याः अदा­न्त­त्वा­दि­दो­ष­त्र­य­म­पेक्ष्य देवादिशब्दभाजो भवन्ति, इतरांश्च गुणान् सत्त्व­र­ज­स्त­मांसि अपेक्ष्य ; अतः मनुष्यैरेव शिक्षितव्यम् एतत्त्रयमिति, तदपेक्षयैव प्रजा­प­ति­नो­प­दि­ष्ट­त्वात् ; तथा हि मनुष्या अदान्ता लुब्धाः क्रूराश्च दृश्यन्ते ; तथा च स्मृतिः — ‘कामः क्रोधस्तथा लोभ­स्त­स्मा­दे­त­त्त्रयं त्यजेत्’(भ. गी. १६ । २१) इति ॥

इति पञ्चमाध्यायस्य द्वितीयं ब्राह्मणम् ॥

तृतीयं ब्राह्मणम्

दमादिसाधनत्रयं सर्वोपासनशेषं विहितम् ; दान्तः अलुब्धः दयालुः सन् सर्वो­पा­स­ने­ष्व­धि­क्रि­यते । तत्र निरुपाधिकस्य ब्रह्मणो दर्शनम् अतिक्रान्तम् ; अथ अधुना सोपाधिकस्य तस्यैव अभ्युदयफलानि वक्त­व्या­नी­त्ये­व­म­र्थोऽ­य­मा­रम्भः —

एष प्रजा­प­ति­र्य­द्धृ­द­य­मे­त­द्ब्र­ह्मै­त­त्सर्वं तदे­त­त्त्र्य­क्षरं हृदयमिति हृ इत्ये­क­म­क्ष­र­म­भि­ह­र­न्त्यस्मै स्वाश्चान्ये च य एवं वेद द इत्येकमक्षरं ददत्यस्मै स्वाश्चान्ये च य एवं वेद यमि­त्ये­क­म­क्ष­र­मेति स्वर्गं लोकं य एवं वेद ॥ १ ॥

एष प्रजापतिः यद्धृदयं प्रजापतिः अनु­शा­स्ती­त्य­न­न्त­र­मे­वा­भि­हि­तम् । कः पुनरसौ अनुशास्ता प्रजा­प­ति­रि­त्यु­च्यते — एष प्रजापतिः ; कोसौ ? यद्धृदयम् , हृदयमिति हृदयस्था बुद्धिरुच्यते ; यस्मिन् शाक­ल्य­ब्रा­ह्म­णान्ते नाम­रू­प­क­र्म­णा­मु­प­सं­हार उक्तो दिग्वि­भा­ग­द्वा­रेण, तदेतत् सर्व­भू­त­प्र­तिष्ठं सर्वभूतात्मभूतं हृदयं प्रजापतिः प्रजानां स्रष्टा ; एतत् ब्रह्म, बृहत्त्वात् सर्वात्मत्वाच्च ब्रह्म ; एतत्सर्वम् ; उक्तं पञ्चमाध्याये हृदयस्य सर्वत्वम् ; तत्सर्वं यस्मात् तस्मादुपास्यं हृदयं ब्रह्म । तत्र हृद­य­ना­मा­क्ष­र­वि­ष­य­मेव तावत् उपासनमुच्यते ; तदेतत् हृदयमिति नाम त्र्यक्षरम् , त्रीणि अक्षराणि अस्येति त्र्यक्षरम् ; कानि पुनस्तानि त्रीण्य­क्ष­रा­ण्यु­च्यन्ते ; हृ इत्येकमक्षरम् ; अभिहरन्ति, हृते­रा­हृ­ति­क­र्मणः हृ इत्येतद्रूपमिति यो वेद, यस्मात् हृदयाय ब्रह्मणे स्वाश्च इन्द्रियाणि अन्ये च विषयाः शब्दादयः स्वं स्वं कार्यमभिहरन्ति, हृदयं च भोक्त्र­र्थ­म­भि­ह­रति — अतः हृदयनाम्नः हृ इत्येतदक्षरमिति यो वेद — अस्मै विदुषे अभिहरन्ति स्वाश्च ज्ञातयः अन्ये चासम्बद्धाः, बलिमिति वाक्यशेषः । विज्ञा­ना­नु­रू­प्येण एतत्फलम् । तथा द इत्ये­त­द­प्ये­क­म­क्ष­रम् ; एतदपि दानार्थस्य ददातेः द इत्येतद्रूपं हृद­य­ना­मा­क्ष­र­त्वेन निबद्धम् । अत्रापि — हृदयाय ब्रह्मणे स्वाश्च करणानि अन्ये च विषयाः स्वं स्वं वीर्यं ददति, हृदयं भोक्त्रे ददाति स्वं वीर्यम् , अतो दकार इत्येवं यो वेद, अस्मै ददति स्वाश्च अन्ये च । तथा यमि­त्ये­त­द­प्ये­क­म­क्ष­रम् ; इणो गत्यर्थस्य यमित्येतद्रूपम् अस्मिन्नाम्नि निबद्धमिति यो वेद, स स्वर्गं लोकमेति । एवं नामाक्षरादपि ईदृशं विशिष्टं फलं प्राप्नोति, किमु वक्तव्यं हृद­य­स्व­रू­पो­पा­स­नात् — इति हृदयस्तुतये नामा­क्ष­रो­प­न्यासः ॥

इति पञ्चमाध्यायस्य तृतीयं ब्राह्मणम् ॥

चतुर्थं ब्राह्मणम्

तद्वै तदेतदेव तदास सत्यमेव स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जय­ती­मां­ल्लो­का­ञ्जित इन्न्वसावसद्य एव­मे­त­न्म­ह­द्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म ॥ १ ॥

तस्यैव हृदयाख्यस्य ब्रह्मणः सत्यमित्युपासनं विधित्सन्नाह — तत् , तदिति हृदयं ब्रह्म परामृष्टम् ; वै इति स्मरणार्थम् ; तत् यत् हृदयं ब्रह्म स्मर्यत इत्येकः तच्छब्दः ; तदेतदुच्यते प्रका­रा­न्त­रे­णेति द्वितीयः तच्छब्दः । किं पुनः तत्प्र­का­रा­न्त­रम् ? एतदेव तदिति एतच्छब्देन सम्बध्यते तृतीयस्तच्छब्दः ; एतदिति वक्ष्यमाणं बुद्धौ सन्निधीकृत्य आह ; आस बभूव ; किं पुनः एतदेव आस ? यदुक्तं हृदयं ब्रह्मेति, तत् इति, तृतीयः तच्छब्दो विनियुक्तः । किं तदिति विशेषतो निर्दिशति ; सत्यमेव, सच्च त्यच्च मूर्तं चामूर्तं च सत्यं ब्रह्म, पञ्च­भू­ता­त्म­क­मि­त्ये­तत् । स यः कश्चित् सत्यात्मानम् एतम् , महत् महत्त्वात् , यक्षं पूज्यम् , प्रथमजं प्रथमजातम् , सर्व­स्मा­त्सं­सा­रिण एतदेवाग्रे जातं ब्रह्म अतः प्रथमजम् , वेद विजानाति सत्यं ब्रह्मेति ; तस्येदं फलमुच्यते — यथा सत्येन ब्रह्मणा इमे लोका आत्मसात्कृता जिताः, एवं सत्यात्मानं ब्रह्म महद्यक्षं प्रथमजं वेद, स जयति इमान् लोकान् ; किं च जितो वशीकृतः, इन्नु इत्थम् , यथा ब्रह्मणा असौ शत्रुरिति वाक्यशेषः । असच्च असद्भवेत् असौ शत्रुः जितो भवेदित्यर्थः । कस्य एतत्फलमिति पुनर्निगमयति — य एव­मे­त­न्म­ह­द्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति । अतो विद्यानुरूपं फलं युक्तम् , सत्यं ह्येव यस्माद्ब्रह्म ॥

इति पञ्चमाध्यायस्य चतुर्थं ब्राह्मणम् ॥

पञ्चमं ब्राह्मणम्

आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्त सत्यं ब्रह्म ब्रह्म प्रजापतिं प्रजा­प­ति­र्दे­वांस्ते देवाः सत्यमेवोपासते तदे­त­त्त्र्य­क्षरं सत्यमिति स इत्येकमक्षरं तीत्येकमक्षरं यमित्येकमक्षरं प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं तदेतदनृतमुभयतः सत्येन परिगृहीतं सत्यभूयमेव भवति नैवं विद्वांसमनृतं हिनस्ति ॥ १ ॥

सत्यस्य ब्रह्मणः स्तुत्य­र्थ­मि­द­माह । महद्यक्षं प्रथ­म­ज­मि­त्यु­क्तम् , तत्कथं प्रथ­म­ज­त्व­मि­त्यु­च्यते — आप एवेदमग्र आसुः ; आप इति कर्मसमवायिन्यः अग्नि­हो­त्रा­द्या­हु­तयः ; अग्नि­हो­त्रा­द्या­हुतेः द्रवात्मकत्वात् अप्त्वम् ; ताश्च आपः अग्नि­हो­त्रा­दि­क­र्मा­प­व­र्गो­त्त­र­कालं केनचिददृष्टेन सूक्ष्मेण आत्मना कर्म­स­म­वा­यि­त्व­म­प­रि­त्य­जन्त्यः इतरभूतसहिता एव न केवलाः, कर्म­स­म­वा­यि­त्वात्तु प्राधान्यमपाम् — इति सर्वाण्येव भूतानि प्रागुत्पत्तेः अव्या­कृ­ता­व­स्थानि कर्तृसहितानि निर्दिश्यन्ते ‘आपः’ इति ; ता आपः बीजभूता जगतः अव्याकृतात्मना अवस्थिताः ; ता एव इदं सर्वं नामरूपविकृतं जगत् अग्रे आसुः, नान्य­त्कि­ञ्चि­द्वि­का­र­जा­त­मा­सीत् ; ताः पुनः आपः सत्यमसृजन्त ; तस्मात्सत्यं ब्रह्म प्रथमजम् ; तदेतत् हिरण्यगर्भस्य सूत्रात्मनो जन्म, यदव्याकृतस्य जगतो व्याकरणम् , तत् सत्यं ब्रह्म कुतः ? महत्त्वात् ; कथं महत्त्वमित्याह — यस्मात् सर्वस्य स्रष्टृ ; कथम् ? यत्सत्यं ब्रह्म, तत् प्रजापतिं प्रजानां पतिं विराजं सूर्यादिकरणम् असृ­ज­ते­त्य­नु­षङ्गः ; प्रजापतिः देवान् , स विराट् प्रजापतिः देवानसृजत ; यस्मात् सर्वमेवं क्रमेण सत्याद्ब्रह्मणो जातम् , तस्मा­न्म­ह­त्सत्यं ब्रह्म । कथं पुन­र्य­क्ष­मि­त्यु­च्यते — ते एवं सृष्टा देवाः पितरमपि विराजमतीत्य, तदेव सत्यं ब्रह्म उपासते ; अत एतत् प्रथमजं महत् यक्षम् ; तस्मात् सर्वात्मना उपास्यं तत् ; तस्यापि सत्यस्य ब्रह्मणो नाम सत्यमिति ; तदेतत् त्र्यक्षरम् ; कानि तान्य­क्ष­रा­णी­त्याह — स इत्येकमक्षरम् ; तीत्येकमक्षरम् , तीति ईकारानुबन्धो निर्देशार्थः ; यमित्येकमक्षरम् ; तत्र तेषां प्रथमोत्तमे अक्षरे सकारयकारौ सत्यम् , मृत्यु­रू­पा­भा­वात् ; मध्यतः मध्ये अनृतम् ; अनृतं हि मृत्युः मृत्य्वनृतयोः तकारसामान्यात् । तदेतत् अनृतं तकाराक्षरं मृत्युरूपम् उभयतः सत्येन सकारयकारलक्षणेन परिगृहीतं व्याप्तम् अन्तर्भावितं सत्यरूपाभ्याम् , अतः अकिञ्चित्करं तत् , सत्यभूयमेव सत्यबाहुल्यमेव भवति ; एवं सत्यबाहुल्यं सर्वस्य मृत्योरनृतस्य अकिञ्चित्करत्वं च यो विद्वान् , तमेवं विद्वांसम् अनृतं कदाचित् प्रमादोक्तं न हिनस्ति ॥

तद्य­त्त­त्स­त्य­मसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षि­णेऽ­क्ष­न्पु­रु­ष­स्ता­वे­ता­व­न्यो­न्य­स्मि­न्प्र­ति­ष्ठितौ रश्मि­भि­रे­षोऽ­स्मि­न्प्र­ति­ष्ठितः प्राणै­र­य­म­मु­ष्मिन्स यदो­त्क्र­मि­ष्य­न्भ­वति शुद्ध­मे­वै­त­न्म­ण्डलं पश्यति नैनमेते रश्मयः प्रत्यायन्ति ॥ २ ॥

अस्याधुना सत्यस्य ब्रह्मणः संस्थानविशेषे उपासनमुच्यते — तद्यत् ; किं तत् ? सत्यं ब्रह्म प्रथमजम् ; किम् ? असौ सः ; कोऽसौ ? आदित्यः ; कः पुनरसावादित्यः ? य एषः ; क एषः ? यः एतस्मिन् आदित्यमण्डले पुरुषः अभिमानी, सोऽसौ सत्यं ब्रह्म । यश्चायम् अध्यात्मम् योऽयं दक्षिणेऽक्षन् अक्षणि पुरुषः ; च - शब्दात् स च सत्यं ब्रह्मेति सम्बन्धः । तावेतौ आदित्याक्षिस्थौ पुरुषौ एकस्य सत्यस्य ब्रह्मणः संस्थानविशेषौ यस्मात् , तस्मात् अन्योन्यस्मिन् इतरेतरस्मिन् आदि­त्य­श्चा­क्षुषे चाक्षुषश्च आदित्ये प्रतिष्ठितौ, अध्या­त्मा­धि­दै­व­तयोः अन्यो­न्यो­प­का­र्यो­प­का­र­क­त्वात् ; कथं प्रति­ष्ठि­ता­वि­त्यु­च्यते — रश्मिभिः प्रकाशेन अनुग्रहं कुर्वन् एष आदित्यः अस्मिं­श्चा­क्षुषे अध्यात्मे प्रतिष्ठितः ; अयं च चाक्षुषः प्राणै­रा­दि­त्य­म­नु­गृ­ह्णन् अमुष्मिन् आदित्ये अधिदैवे प्रतिष्ठितः ; सः अस्मिन् शरीरे विज्ञानमयो भोक्ता यदा यस्मिन्काले उत्क्र­मि­ष्य­न्भ­वति, तदा असौ चाक्षुष आदित्यपुरुषः रश्मीनुपसंहृत्य केवलेन औदासीन्येन रूपेण व्यवतिष्ठते ; तदा अयं विज्ञानमयः पश्यति शुद्धमेव केवलं विरश्मि एतन्मण्डलं चन्द्रमण्डलमिव ; तदेतत् अरिष्टदर्शनम् प्रासङ्गिकं प्रदर्श्यते, कथं नाम पुरुषः करणीये यत्न­वा­न्स्या­दिति ; न — एवं चाक्षुषं पुरुषमुररीकृत्य तं प्रत्यनुग्रहाय एते रश्मयः स्वामि­क­र्त­व्य­व­शा­त्पू­र्व­मा­ग­च्छ­न्तोऽपि, पुनः तत्क­र्म­क्ष­य­म­नु­रु­ध्य­माना इव नोपयन्ति न प्रत्यागच्छन्ति एनम् । अतोऽवगम्यते पर­स्प­रो­प­का­र्यो­प­का­र­क­भा­वात् सत्यस्यैव एकस्य आत्मनः अंशौ एताविति ॥

य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहरिति हन्ति पाप्मानं जहाति च य एवं वेद ॥ ३ ॥

तत्र यः, असौ कः ? यः एषः एतस्मिन्मण्डले पुरुषः सत्यनामा ; तस्य व्याहृतयः अवयवाः ; कथम् ? भूरिति येयं व्याहृतिः, सा तस्य शिरः, प्राथम्यात् ; तत्र सामान्यं स्वयमेवाह श्रुतिः — एकम् एकसङ्ख्यायुक्तं शिरः, तथा एतत् अक्षरम् एकं भूरिति । भुव इति बाहू, द्वित्व­सा­मा­न्यात् ; द्वौ बाहू, द्वे एते अक्षरे । तथा स्वरिति प्रतिष्ठा ; द्वे प्रतिष्ठे द्वे एते अक्षरे ; प्रतिष्ठे पादौ प्रति­ति­ष्ठ­त्या­भ्या­मिति । तस्यास्य व्याहृत्यवयवस्य सत्यस्य ब्रह्मण उपनिषत् रहस्यम् अभिधानम् , येनाभिधानेन अभिधीयमानं तद्ब्रह्म अभिमुखी भवति लोकवत् ; कासावित्याह — अहरिति ; अहरिति चैतत् रूपं हन्ते­र्ज­हा­ते­श्चेति यो वेद, स हन्ति जहाति च पाप्मानं य एवं वेद ॥

योऽयं दक्षि­णेऽ­क्ष­न्पु­रु­ष­स्तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहमिति हन्ति पाप्मानं जहाति च य एवं वेद ॥ ४ ॥

एवं योऽयं दक्षि­णेऽ­क्ष­न्पु­रुषः, तस्य भूरिति शिर इत्यादि सर्वं समानम् । तस्योपनिषत् — अहमिति, प्रत्य­गा­त्म­भू­त­त्वात् । पूर्ववत् हन्तेः जहातेश्चेति ॥

इति पञ्चमाध्यायस्य पञ्चमं ब्राह्मणम् ॥

षष्ठं ब्राह्मणम्

उपा­धी­ना­म­ने­क­त्वा­द­ने­क­वि­शे­ष­ण­त्वाच्च तस्यैव प्रकृतस्य ब्रह्मणो मन­उ­पा­धि­वि­शि­ष्ट­स्यो­पा­सनं विधित्सन्नाह —

मनोमयोऽयं पुरुषो भाः सत्य­स्त­स्मि­न्न­न्त­र्हृ­दये यथा व्रीहिर्वा यवो वा स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किं च ॥ १ ॥

मनोमयः मनःप्रायः, मनसि उपलभ्यमानत्वात् ; मनसा चोपलभत इति मनोमयोऽयं पुरुषः ; भाःसत्यः, भा एव सत्यं सद्भावः स्वरूपं यस्य सोऽयं भाःसत्यः, भास्वर इत्येतत् ; मनसः सर्वा­र्था­व­भा­स­क­त्वात् मनोमयत्वाच्च अस्य भास्वरत्वम् ; तस्मिन् अन्तर्हृदये हृदयस्यान्तः तस्मि­न्नि­त्ये­तत् ; यथा व्रीहिर्वा यवो वा परिमाणतः, एवंपरिमाणः तस्मि­न्न­न्त­र्हृ­दये योगिभिर्दृश्यत इत्यर्थः । स एषः सर्वस्येशानः सर्वस्य स्वभेदजातस्य ईशानः स्वामी ; स्वामित्वेऽपि सति कश्चि­द­मा­त्या­दि­तन्त्रः, अयं तु न तथा ; किं तर्हि अधिपतिः अधिष्ठाय पालयिता ; सर्वमिदं प्रशास्ति, यदिदं किञ्च यत्कि­ञ्चि­त्सर्वं जगत् , तत्सर्वं प्रशास्ति । एवं मनो­म­य­स्यो­पा­स­नात् तथारूपापत्तिरेव फलम् । ‘तं यथा यथोपासते तदेव भवति’(शत. ब्रा. १० । ५ । २ । २०) इति ब्राह्मणम् ॥

इति पञ्चमाध्यायस्य षष्ठं ब्राह्मणम् ॥

सप्तमं ब्राह्मणम्

विद्यु­द्ब्र­ह्मे­त्या­हु­र्वि­दा­ना­द्वि­द्यु­द्वि­द्य­त्येनं पाप्मनो य एवं वेद विद्यु­द्ब्र­ह्मेति विद्युद्ध्येव ब्रह्म ॥ १ ॥

तथैव उपासनान्तरं सत्यस्य ब्रह्मणो विशि­ष्ट­फ­ल­मा­र­भ्यते — विद्यु­द्ब्र­ह्मे­त्याहुः । विद्युतो ब्रह्मणो निर्वचनमुच्यते — विदानात् अवखण्डनात् तमसो मेघान्धकारं विदार्य हि अवभासते, अतो विद्युत् ; एवंगुणं विद्युत् ब्रह्मेति यो वेद, असौ विद्यति अवखण्डयति विनाशयति पाप्मनः, एनमात्मानं प्रति प्रतिकूलभूताः पाप्मानो ये तान् सर्वान् पाप्मनः अव­ख­ण्ड­य­ती­त्यर्थः । य एवं वेद विद्यु­द्ब्र­ह्मेति तस्यानुरूपं फलम् , विद्युत् हि यस्मात् ब्रह्म ॥

इति पञ्चमाध्यायस्य सप्तमं ब्राह्मणम् ॥

अष्टमं ब्राह्मणम्

वाचं धेनुमुपासीत तस्याश्चत्वारः स्तनाः स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारस्तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च हन्तकारं मनुष्याः स्वधाकारं पितरस्तस्याः प्राण ऋषभो मनो वत्सः ॥ १ ॥

पुनः उपासनान्तरम् तस्यैव ब्रह्मणः वाग्वै ब्रह्मेति ; वागिति शब्दः त्रयी ; तां वाचं धेनुम् , धेनुरिव धेनुः, यथा धेनुः चतुर्भिः स्तनैः स्तन्यं पयः क्षरति वत्साय एवं वाग्धेनुः वक्ष्यमाणैः स्तनैः पय इव अन्नं क्षरति देवादिभ्यः । के पुनः ते स्तनाः ? के वा ते, येभ्यः क्षरति ? तस्याः एतस्या वाचो धेन्वाः, द्वौ स्तनौ देवा उपजीवन्ति वत्सस्थानीयाः ; कौ तौ ? स्वाहाकारं च वषट्कारं च ; आभ्यां हि हविः दीयते देवेभ्यः । हन्तकारं मनुष्याः ; हन्तेति मनुष्येभ्यः अन्नं प्रयच्छन्ति । स्वधाकारं पितरः ; स्वधाकारेण हि पितृभ्यः स्वधां प्रयच्छन्ति । तस्या धेन्वा वाचः प्राणः ऋषभः ; प्राणेन हि वाक्प्रसूयते ; मनो वत्सः ; मनसा हि प्रस्राव्यते ; मनसा ह्यालोचिते विषये वाक् प्रवर्तते ; तस्मात् मनः वत्सस्थानीयम् । एवं वाग्धेनूपासकः ताद्भाव्यमेव प्रतिपद्यते ॥

इति पञ्चमाध्यायस्य अष्टमं ब्राह्मणम् ॥

नवमं ब्राह्मणम्

अय­म­ग्नि­र्वै­श्वा­नरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते तस्यैष घोषो भवति यमे­त­त्क­र्णा­व­पि­धाय शृणोति स यदो­त्क्र­मि­ष्य­न्भ­वति नैनं घोषं शृणोति ॥ १ ॥

अय­म­ग्नि­र्वै­श्वा­नरः, पूर्व­व­दु­पा­स­ना­न्त­रम् ; अयम् अग्निः वैश्वानरः ; कोऽय­म­ग्नि­रि­त्याह — योऽयमन्तः पुरुषे । किं शरीरारम्भकः ? नेत्युच्यते — येन अग्निना वैश्वानराख्येन इदमन्नं पच्यते । किं तदन्नम् ? यदिदम् अद्यते भुज्यते अन्नं प्रजाभिः, जाठ­रोऽ­ग्नि­रि­त्यर्थः । तस्य साक्षा­दु­प­ल­क्ष­णा­र्थ­मि­द­माह — तस्याग्नेः अन्नं पचतः जाठरस्य एष घोषो भवति ; कोऽसौ ? यं घोषम् , एतदिति क्रियाविशेषणम् , कर्णावपिधाय अङ्गु­ली­भ्या­म­पि­धानं कृत्वा शृणोति । तं प्रजापतिमुपासीत वैश्वानरमग्निम् । अत्रापि ताद्भाव्यं फलम् । तत्र प्रास­ङ्गि­क­मि­द­म­रि­ष्ट­ल­क्ष­ण­मु­च्यते — सोऽत्र शरीरे भोक्ता यदा उत्क्र­मि­ष्य­न्भ­वति, नैनं घोषं शृणोति ॥

इति पञ्चमाध्यायस्य नवमं ब्राह्मणम् ॥

दशमं ब्राह्मणम्

यदा वै पुरु­षोऽ­स्मा­ल्लो­का­त्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहिते यथा रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथा लम्बरस्य खं तेन स ऊर्ध्व आक्रमते स चन्द्र­म­स­मा­ग­च्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खं तेन स ऊर्ध्व आक्रमते स लोक­मा­ग­च्छ­त्य­शो­क­म­हिमं तस्मिन्वसति शाश्वतीः समाः ॥ १ ॥

सर्वे­षा­म­स्मि­न्प्र­क­रणे उपासनानां गतिरियं फलं चोच्यते — यदा वै पुरुषः विद्वान् अस्मात् लोकात् प्रैति शरीरं परित्यजति, सः तदा वायुम् आगच्छति, अन्तरिक्षे तिर्यग्भूतो वायुः स्तिमितः अभेद्यस्तिष्ठति ; स वायुः तत्र स्वात्मनि तस्मै सम्प्राप्ताय विजिहीते स्वात्मावयवान् विगमयति छिद्री­क­रो­त्या­त्मा­न­मि­त्यर्थः । किम्परिमाणं छिद्र­मि­त्यु­च्यते — यथा रथचक्रस्य खं छिद्रं प्रसि­द्ध­प­रि­मा­णम् ; तेन छिद्रेण स विद्वान् ऊर्ध्वः आक्रमते ऊर्ध्वः सन् गच्छति । स आदित्यमागच्छति ; आदित्यः ब्रह्मलोकं जिग­मि­षो­र्मा­र्ग­नि­रोधं कृत्वा स्थितः ; सोऽपि एवंविदे उपासकाय द्वारं प्रयच्छति ; तस्मै स तत्र विजिहीते ; यथा लम्बरस्य खं वादित्रविशेषस्य छिद्रपरिमाणम् ; तेन स ऊर्ध्व आक्रमते । स चन्द्रमसम् आगच्छति ; सोऽपि तस्मै तत्र विजिहीते ; यथा दुन्दुभेः खं प्रसिद्धम् ; तेन स ऊर्ध्व आक्रमते । स लोकं प्रजापतिलोकम् आगच्छति ; किंविशिष्टम् ? अशोकं मानसेन दुःखेन विव­र्जि­त­मि­त्ये­तत् ; अहिमं हिमवर्जितं शारी­र­दुः­ख­व­र्जि­त­मि­त्यर्थः ; तं प्राप्य तस्मिन् वसति शाश्वतीः नित्याः समाः संव­त्स­रा­नि­त्यर्थः ; ब्रह्मणो बहून्कल्पान् वसतीत्येतत् ॥

इति पञ्चमाध्यायस्य दशमं ब्राह्मणम् ॥

एकादशं ब्राह्मणम्

एतद्वै परमं तपो यद्व्या­हि­त­स्त­प्यते परमं हैव लोकं जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमरण्यं हरन्ति परमं हैव लोकं जयति य एवं वेदैतद्वै परमं तपो यं प्रेत­म­ग्ना­व­भ्या­द­धति परमं हैव लोकं जयति य एवं वेद ॥ १ ॥

एतद्वै परमं तपः ; किं तत् ? यत् व्याहितः व्याधितः ज्वरा­दि­प­रि­गृ­हीतः सन् यत् तप्यते तदेतत् परमं तप इत्येवं चिन्तयेत् , दुःखसामान्यात् । तस्य एवं चिन्तयतो विदुषः कर्मक्षयहेतुः तदेव तपो भवति अनिन्दतः अविषीदतः । स एव च तेन विज्ञानतपसा दग्धकिल्बिषः परमं हैव लोकं जयति, य एवं वेद । तथा मुमूर्षुः आदावेव कल्पयति ; किम् ? एतद्वै परमं तपः, यं प्रेतं मां ग्रामादरण्यं हरन्ति ऋत्विजः अन्त्यकर्मणे, तत् ग्रामा­द­र­ण्य­ग­म­न­सा­मा­न्यात् परमं मम तत् तपो भविष्यति ; ग्रामादरण्यगमनं परमं तप इति हि प्रसिद्धम् । परमं हैव लोकं जयति, य एवं वेद । तथा एतद्वै परमं तपः यं प्रेत­म­ग्ना­व­भ्या­द­धति, अग्नि­प्र­वे­श­सा­मा­न्यात् । परमं हैव लोकं जयति य एवं वेद ॥

इति पञ्चमाध्यायस्य एकादशं ब्राह्मणम् ॥

द्वादशं ब्राह्मणम्

अन्नं ब्रह्मेत्येक आहुस्तन्न तथा पूयति वा अन्नमृते प्राणात्प्राणो ब्रह्मेत्येक आहुस्तन्न तथा शुष्यति वै प्राण ऋतेऽन्नादेते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतस्तद्ध स्माह प्रातृदः पितरं किंस्विदेवैवं विदुषे साधु कुर्यां किमेवास्मा असाधु कुर्यामिति स ह स्माह पाणिना मा प्रातृद कस्त्वे­न­यो­रे­क­धा­भूयं भूत्वा परमतां गच्छतीति तस्मा उ हैतदुवाच वीत्यन्नं वै व्यन्ने हीमानि सर्वाणि भूतानि विष्टानि रमिति प्राणो वै रं प्राणे हीमानि सर्वाणि भूतानि रमन्ते सर्वाणि ह वा अस्मिन्भूतानि विशन्ति सर्वाणि भूतानि रमन्ते य एवं वेद ॥ १ ॥

अन्नं ब्रह्मेति, तथा एतत् उपासनान्तरं विधित्सन्नाह — अन्नं ब्रह्म, अन्नम् अद्यते यत् तत् ब्रह्मेत्येक आचार्या आहुः ; तत् न तथा ग्रहीतव्यम् अन्नं ब्रह्मेति । अन्ये चाहुः — प्राणो ब्रह्मेति ; तच्च तथा न ग्रहीतव्यम् । किमर्थं पुनः अन्नं ब्रह्मेति न ग्राह्यम् ? यस्मात् पूयति क्लिद्यते पूतिभावमापद्यते ऋते प्राणात् , तत्कथं ब्रह्म भवितुमर्हति ; ब्रह्म हि नाम तत् , यदविनाशि । अस्तु तर्हि प्राणो ब्रह्म ; नैवम् ; यस्मात् शुष्यति वै प्राणः शोषमुपैति ऋते अन्नात् ; अत्ता हि प्राणः ; अतः अन्नेन आद्येन विना न शक्नोति आत्मानं धारयितुम् ; तस्मात् शुष्यति वै प्राणः ऋतेऽन्नात् ; अतः एकैकस्य ब्रह्मता नोपपद्यते यस्मात् , तस्मात् एते ह तु एव अन्नप्राणदेवते एकधाभूयम् एकधाभावं भूत्वा गत्वा परमतां परमत्वं गच्छतः ब्रह्मत्वं प्राप्नुतः । तदेतत् एवमध्यवस्य ह स्म आह — स्म प्रातृदो नाम पितरमात्मनः ; किंस्वित् स्विदिति वितर्के ; यथा मया ब्रह्म परिकल्पितम् , एवं विदुषे किंस्वित् साधु कुर्याम् , साधु शोभनं पूजाम् , कां तु अस्मै पूजां कुर्या­मि­त्य­भि­प्रायः ; किमेव अस्मै विदुषे असाधु कुर्याम् , कृतकृत्योऽसौ इत्यभिप्रायः । अन्नप्राणौ सहभूतौ ब्रह्मेति विद्वान् नासौ असाधुकरणेन खण्डितो भवति, नापि साधुकरणेन महीकृतः । तम् एवंवादिनं स पिता ह स्म आह पाणिना हस्तेन निवारयन् , मा प्रातृद मैवं वोचः । कस्तु एनयोः अन्नप्राणयोः एकधाभूयं भूत्वा परमतां कस्तु गच्छति ? न कश्चिदपि विद्वान् अनेन ब्रह्मदर्शनेन परमतां गच्छति ; तस्मात् नैवं वक्तुमर्हसि कृत­कृ­त्योऽ­सा­विति ; यद्येवम् , ब्रवीतु भवान् कथं परमतां गच्छतीति । तस्मै उ ह एतत् वक्ष्यमाणं वच उवाच । किं तत् ? वीति ; किं तत् वि इत्युच्यते — अन्नं वै वि ; अन्ने हि यस्मात् इमानि सर्वाणि भूतानि विष्टानि आश्रितानि, अतः अन्नं वि इत्युच्यते । किञ्च रम् इति ; रमिति च उक्तवान्पिता ; किं पुनस्तत् रम् ? प्राणो वै रम् ; कुत इत्याह ; प्राणे हि यस्मात् बलाश्रये सति सर्वाणि भूतानि रमन्ते, अतो रं प्राणः । सर्व­भू­ता­श्र­य­गु­ण­म­न्नम् , सर्व­भू­त­र­ति­गु­णश्च प्राणः । न हि कश्चिदनायतनः निराश्रयः रमते ; नापि सत्यप्यायतने अप्राणो दुर्बलो रमते ; यदा तु आयतनवान्प्राणी बलवांश्च तदा कृतार्थमात्मानं मन्यमानो रमते लोकः ; ‘युवा स्यात्सा­धु­यु­वा­ध्या­यकः’(तै. उ. २ । ८ । ३) इत्यादिश्रुतेः । इदानीम् एवंविदः फलमाह — सर्वाणि ह वै अस्मिन् भूतानि विशन्ति अन्नगुणज्ञानात् , सर्वाणि भूतानि रमन्ते प्राण­गु­ण­ज्ञा­नात् , य एवं वेद ॥

इति पञ्चमाध्यायस्य द्वादशं ब्राह्मणम् ॥

त्रयोदशं ब्राह्मणम्

उक्थं प्राणो वा उक्थं प्राणो हीदं सर्व­मु­त्था­प­य­त्यु­द्धा­स्मा­दु­क्थ­वि­द्वी­र­स्ति­ष्ठ­त्यु­क्थस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ १ ॥

उक्थम् — तथा उपासनान्तरम् ; उक्थं शस्त्रम् ; तद्धि प्रधानं महाव्रते क्रतौ ; किं पुनस्तदुक्थम् ; प्राणो वै उक्थम् ; प्राणश्च प्रधान इन्द्रियाणाम् , उक्थं च शस्त्राणाम् , अत उक्थमित्युपासीत । कथं प्राण उक्थमित्याह — प्राणः हि यस्मात् इदं सर्वम् उत्थापयति ; उत्थापनात् उक्थं प्राणः ; न हि अप्राणः कश्चि­दु­त्ति­ष्ठति ; तदुपासनफलमाह — उत् ह अस्मात् एवंविदः उक्थवित् प्राणवित् वीरः पुत्रः उत्तिष्ठति ह — दृष्टम् एतत्फलम् ; अदृष्टं तु उक्थस्य सायुज्यं सलोकतां जयति, य एवं वेद ॥

यजुः प्राणो वै यजुः प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय यजुषः सायुज्यं सलोकतां जयति य एवं वेद ॥ २ ॥

यजुरिति चोपासीत प्राणम् ; प्राणो वै यजुः ; कथं यजुः प्राणः ? प्राणे हि यस्मात् सर्वाणि भूतानि युज्यन्ते ; न हि असति प्राणे केनचित् कस्यचित् योगसामर्थ्यम् ; अतो युनक्तीति प्राणो यजुः । एवंविदः फलमाह — युज्यन्ते उद्यच्छन्ते इत्यर्थः, ह अस्मै एवंविदे, सर्वाणि भूतानि, श्रैष्ठ्यं श्रेष्ठभावः तस्मै श्रैष्ठ्याय श्रेष्ठभावाय, अयं नः श्रेष्ठो भवेदिति ; यजुषः प्राणस्य सायुज्यमित्यादि सर्वं समानम् ॥

साम प्राणो वै साम प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते साम्नः सायुज्यं सलोकतां जयति य एवं वेद ॥ ३ ॥

सामेति चोपासीत प्राणम् । प्राणो वै साम ; कथं प्राणः साम ? प्राणे हि यस्मात् सर्वाणि भूतानि सम्यञ्चि सङ्गच्छन्ते, सङ्गमनात् साम्या­प­त्ति­हे­तु­त्वात् साम प्राणः ; सम्यञ्चि सङ्गच्छन्ते ह अस्मै सर्वाणि भूतानि ; न केवलं सङ्गच्छन्त एव, श्रेष्ठभावाय च अस्मै कल्पन्ते समर्थ्यन्ते ; साम्नः सायुज्यमित्यादि पूर्ववत् ॥

क्षत्त्रं प्राणो वै क्षत्त्रं प्राणो हि वै क्षत्त्रं त्रायते हैनं प्राणः क्षणितोः प्र क्षत्त्र­म­त्र­मा­प्नोति क्षत्त्रस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ ४ ॥

तं प्राणं क्षत्त्र­मि­त्यु­पा­सीत । प्राणो वै क्षत्त्रम् ; प्रसिद्धम् एतत् — प्राणो हि वै क्षत्त्रम् । कथं प्रसिद्धतेत्याह — त्रायते पालयति एवं पिण्डं देहं प्राणः, क्षणितोः शस्त्रा­दि­हिं­सि­तात् पुनः मांसेन आपूरयति यस्मात् , तस्मात् क्षतत्राणात् प्रसिद्धं क्षत्त्रत्वं प्राणस्य । विद्वत्फलमाह — प्र क्षत्त्रमत्रम् , न त्रायते अन्येन केनचिदित्यत्रम् , क्षत्त्रं प्राणः, तम् अत्रं क्षत्त्रं प्राणं प्राप्नो­ती­त्यर्थः । शाखान्तरे वा पाठात् क्षत्त्रमात्रं प्राप्नोति, प्राणो भवतीत्यर्थः । क्षत्त्रस्य सायुज्यं सलोकतां जयति, य एवं वेद ॥

इति पञ्चमाध्यायस्य त्रयोदशं ब्राह्मणम् ॥

चतुर्दशं ब्राह्मणम्

भूमिरन्तरिक्षं द्यौरि­त्य­ष्टा­व­क्ष­रा­ण्य­ष्टा­क्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत्स यावदेषु त्रिषु लोकेषु तावद्धजयति योऽस्या एतदेवं पदं वेद ॥ १ ॥

ब्रह्मणो हृद­या­द्य­ने­को­पा­धि­वि­शि­ष्टस्य उपासनमुक्तम् ; अथ इदानीं गाय­त्र्यु­पा­धि­वि­शि­ष्टस्य उपासनं वक्त­व्य­मि­त्या­र­भ्यते । सर्वच्छन्दसां हि गायत्रीछन्दः प्रधानभूतम् ; तत्प्र­यो­क्तृ­ग­य­त्रा­णात् गायत्रीति वक्ष्यति ; न च अन्येषां छन्दसां प्रयो­क्तृ­प्रा­ण­त्रा­ण­सा­म­र्थ्यम् ; प्राणात्मभूता च सा ; सर्वच्छन्दसां च आत्मा प्राणः ; प्राणश्च क्षतत्राणात् क्षत्त्र­मि­त्यु­क्तम् ; प्राणश्च गायत्री ; तस्मात् तदुपासनमेव विधित्स्यते ; द्विजो­त्त­म­ज­न्म­हे­तु­त्वाच्च — ‘गायत्र्या ब्राह्मणमसृजत त्रिष्टुभा राजन्यं जगत्या वैश्यम्’(?) इति द्विजोत्तमस्य द्वितीयं जन्म गाय­त्री­नि­मि­त्तम् ; तस्मात् प्रधाना गायत्री ; ‘ब्रह्मणा व्युत्थाय ब्राह्मणा अभिवदन्ति, स ब्राह्मणो विपापो विर­जोऽ­वि­चि­कित्सो ब्राह्मणो भवति’(बृ. उ. ३ । ५ । १) , , , इत्यु­त्त­म­पु­रु­षा­र्थ­स­म्बन्धं ब्राह्मणस्य दर्शयति ; तच्च ब्राह्मणत्वं गाय­त्री­ज­न्म­मू­लम् ; अतो वक्तव्यं गायत्र्याः सतत्त्वम् । गायत्र्या हि यः सृष्टो द्विजोत्तमः निरङ्कुश एव उत्त­म­पु­रु­षा­र्थ­सा­धने अधिक्रियते ; अतः तन्मूलः पर­म­पु­रु­षा­र्थ­स­म्बन्धः । तस्मात् तदुपासनविधानाय आह — भूमिरन्तरिक्षं द्यौरित्येतानि अष्टावक्षराणि ; अष्टाक्षरम् अष्ठावक्षराणि यस्य तत् इदमष्टाक्षरम् ; ह वै प्रसि­द्धा­व­द्यो­तकौ ; एकं प्रथमम् , गायत्र्यै गायत्र्याः, पदम् ; यकारेणैव अष्टत्वपूरणम् । एतत् उ ह एव एतदेव अस्या गायत्र्याः पदं पादः प्रथमः भूम्यादिलक्षणः त्रैलोक्यात्मा, अष्टा­क्ष­र­त्व­सा­मा­न्यात् । एवम् एतत् त्रैलोक्यात्मकं गायत्र्याः प्रथमं पदं यो वेद, तस्यैतत्फलम् — स विद्वान् यावत्किञ्चित् एषु त्रिषु लोकेषु जेतव्यम् , तावत्सर्वं ह जयति, यः अस्यै एतदेवं पदं वेद ॥

ऋचो यजूंषि सामा­नी­त्य­ष्टा­व­क्ष­रा­ण्य­ष्टा­क्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत्स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ २ ॥

तथा ऋचः यजूंषि सामानीति त्रयी­वि­द्या­ना­मा­क्ष­राणि एतान्यपि अष्टावेव ; तथैव अष्टाक्षरं ह वै एकं गायत्र्यै पदं द्वितीयम् , एतत् उ ह एव अस्या एतत् ऋग्य­जुः­सा­म­ल­क्ष­णम् अष्टा­क्ष­र­त्व­सा­मा­न्या­देव । सः यावती इयं त्रयी विद्या त्रय्या विद्यया यावत्फलजातम् आप्यते, तावत् ह जयति, योऽस्या एतत् गायत्र्याः त्रैविद्यलक्षणं पदं वेद ॥

प्राणोऽपानो व्यान इत्य­ष्टा­व­क्ष­रा­ण्य­ष्टा­क्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत्स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेदाथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एषतपति यद्वै चतुर्थं तत्तुरीयं दर्शतं पदमिति ददृश इव ह्येष परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपत्येवं हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ ३ ॥

तथा प्राणः अपानः व्यानः एतान्यपि प्राणा­द्य­भि­धा­ना­क्ष­राणि अष्टौ ; तच्च गाय­त्र्या­स्तृ­तीयं पदम् ; यावदिदं प्राणिजातम् , तावत् ह जयति, योऽस्या एतदेवं गाय­त्र्या­स्तृ­तीयं पदं वेद । अथ अनन्तरं गाय­त्र्या­स्त्रि­प­दायाः शब्दा­त्मि­का­या­स्तु­रीयं पदमुच्यते अभिधेयभूतम् , अस्याः प्रकृताया गायत्र्याः एतदेव वक्ष्यमाणं तुरीयं दर्शतं पदं परोरजा य एष तपति ; तुरी­य­मि­त्या­दि­वा­क्य­प­दार्थं स्वयमेव व्याचष्टे श्रुतिः — यद्वै चतुर्थं प्रसिद्धं लोके, तदिह तुरी­य­श­ब्दे­ना­भि­धी­यते ; दर्शतं पदमित्यस्य कोऽर्थ इत्युच्यते — ददृशे इव दृश्यते इव हि एषः मण्डलान्तर्गतः पुरुषः ; अतो दर्शतं पदमुच्यते ; परोरजा इत्यस्य पदस्य कोऽर्थ इत्युच्यते — सर्वं समस्तम् उ हि एव एषः मण्डलस्थः पुरुषः रजः रजोजातं समस्तं लोकमित्यर्थः, उपर्युपरि आधिपत्यभावेन सर्वं लोकं रजोजातं तपति ; उपर्युपरीति वीप्सा सर्व­लो­का­धि­प­त्य­ख्या­प­नार्था ; ननु सर्वशब्देनैव सिद्धत्वात् वीप्सा अनर्थिका — नैष दोषः ; येषाम् उपरिष्टात् सविता दृश्यते तद्विषय एव सर्वशब्दः स्यादि­त्या­श­ङ्का­नि­वृ­त्त्यर्था वीप्सा, ‘ये चामु­ष्मा­त्प­राञ्चो लोकास्तेषां चेष्टे देवकामानां च’(छा. उ. १ । ६ । ८) इति श्रुत्यन्तरात् ; तस्मात् सर्वावरोधार्था वीप्सा ; यथा असौ सविता सर्वा­धि­प­त्य­ल­क्ष­णया श्रिया यशसा च ख्यात्या तपति, एवं हैव श्रिया यशसा च तपति, योऽस्या एतदेवं तुरीयं दर्शतं पदं वेद ॥

सैषा गाय­त्र्ये­त­स्मिं­स्तु­रीये दर्शते पदे परोरजसि प्रतिष्ठिता तद्वै तत्सत्ये प्रतिष्ठितं चक्षुर्वै सत्यं चक्षुर्हि वै सत्यं तस्माद्यदिदानीं द्वौ विव­द­मा­ना­वे­या­ता­म­ह­म­द­र्श­म­ह­म­श्रौ­ष­मिति य एवं ब्रूया­द­ह­म­द­र्श­मिति तस्मा एव श्रद्दध्याम तद्वै तत्सत्यं बले प्रतिष्ठितं प्राणो वै बलं तत्प्राणे प्रतिष्ठितं तस्मादाहुर्बलं सत्यादोगीय इत्येवंवेषा गाय­त्र्य­ध्यात्मं प्रतिष्ठिता सा हैषा गयांस्तत्रे प्राणा वै गया­स्त­त्प्रा­णां­स्तत्रे तद्य­द्ग­यां­स्तत्रे तस्माद्गायत्री नाम स यामेवामूं सावि­त्री­म­न्वा­है­षैव सा स यस्मा अन्वाह तस्य प्राणां­स्त्रा­यते ॥ ४ ॥

सैषा त्रिपदा उक्ता या त्रैलो­क्य­त्रै­वि­द्य­प्रा­ण­ल­क्षणा गायत्री एतस्मिन् चतुर्थे तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता, मूर्ता­मू­र्त­र­स­त्वात् आदित्यस्य ; रसापाये हि वस्तु नीरसम् अप्रतिष्ठितं भवति, यथा काष्ठादि दग्धसारम् , तद्वत् ; तथा मूर्ता­मू­र्ता­त्मकं जगत् त्रिपदा गायत्री आदित्ये प्रतिष्ठिता तद्रसत्वात् सह त्रिभिः पादैः ; तद्वै तुरीयं पदं सत्ये प्रतिष्ठितम् ; किं पुनः तत् सत्यमित्युच्यते — चक्षुर्वै सत्यम् । कथं चक्षुः सत्यमित्याह — प्रसिद्धमेतत् , चक्षुर्हि वै सत्यम् । कथं प्रसिद्धतेत्याह — तस्मात् — यत् यदि इदानीमेव द्वौ विवदमानौ विरुद्धं वदमानौ एयाताम् आगच्छेयाताम् ; अहम् अदर्शं दृष्टवानस्मीति अन्य आह ; अहम् अश्रौषम् — त्वया दृष्टं न तथा तद्वस्त्विति ; तयोः य एवं ब्रूयात् — अहमद्राक्षमिति, तस्मै एव श्रद्दध्याम ; न पुनः यः ब्रूयात् अहमश्रौषमिति ; श्रोतुः मृषा श्रवणमपि सम्भवति ; न तु चक्षुषो मृषा दर्शनम् ; तस्मात् न अश्रौ­ष­मि­त्यु­क्त­वते श्रद्दध्याम ; तस्मात् सत्य­प्र­ति­प­त्ति­हे­तु­त्वात् सत्यं चक्षुः ; तस्मिन् सत्ये चक्षुषि सह त्रिभिः इतरैः पादैः तुरीयं पदं प्रति­ष्ठि­त­मि­त्यर्थः । उक्तं च ‘स आदित्यः कस्मि­न्प्र­ति­ष्ठित इति चक्षुषीति’(बृ. उ. ३ । ९ । २०) । तद्वै तुरीयपदाश्रयं सत्यं बले प्रतिष्ठितम् ; किं पुनः तत् बलमित्याह — प्राणो वै बलम् ; तस्मिन्प्राणे बले प्रतिष्ठितं सत्यम् । तथा चोक्तम् — ‘सूत्रे तदोतं च प्रोतं च’(बृ. उ. ३ । ७ । २) इति । यस्मात् बले सत्यं प्रतिष्ठितम् , तस्मादाहुः — बलं सत्यादोगीयः ओजीयः ओजस्तरमित्यर्थः ; लोकेऽपि यस्मिन्हि यदाश्रितं भवति, तस्मादाश्रितात् आश्रयस्य बलवत्तरत्वं प्रसिद्धम् ; न हि दुर्बलं बलवतः क्वचित् आश्रयभूतं दृष्टम् ; एवं उक्तन्यायेन उ एषा गायत्री अध्यात्मम् अध्यात्मे प्राणे प्रतिष्ठिता ; सैषा गायत्री प्राणः ; अतो गायत्र्यां जग­त्प्र­ति­ष्ठि­तम् ; यस्मिन्प्राणे सर्वे देवा एकं भवन्ति, सर्वे वेदाः, कर्माणि फलं च ; सैवं गायत्री प्राणरूपा सती जगत आत्मा । सा ह एषा गयान् तत्रे त्रातवती ; के पुनर्गयाः ? प्राणाः वागादयः वै गयाः, शब्दकरणात् ; तान् तत्रे सैषा गायत्री । तत् तत्र यत् यस्मात् गयान् तत्रे, तस्मात् गायत्री नाम ; गयत्राणात् गायत्रीति प्रथिता । सः आचार्यः उप­नी­य­मा­ण­व­क­म­ष्ट­वर्षं यामेव अमूं गायत्रीं सावित्रीं सवितृदेवताकाम् अन्वाह पच्छः अर्धर्चशः समस्तां च, एषैव स साक्षात् प्राणः जगत आत्मा माणवकाय समर्पिता इह इदानीं व्याख्याता, नान्या ; स आचार्यः यस्मै माणवकाय अन्वाह अनुवक्ति, तस्य माणवकस्य गयान् प्राणान् त्रायते नरकादिपतनात् ॥

तां हैतामेके सावि­त्री­म­नु­ष्ठु­भ­म­न्वा­हु­र्वा­ग­नु­ष्टु­बे­त­द्वा­च­म­नु­ब्रूम इति न तथा कुर्या­द्गा­य­त्री­मेव सावि­त्री­म­नु­ब्रू­या­द्यदि ह वा अप्ये­वं­वि­द्ब­ह्विव प्रतिगृह्णाति न हैव तद्गायत्र्या एकञ्चन पदं प्रति ॥ ५ ॥

तामेतां सावित्रीं ह एके शाखिनः अनुष्टुभम् अनु­ष्टु­प्प्र­भ­वाम् अनु­ष्टु­प्छ­न्द­स्काम् अन्वाहुरुपनीताय । तदभिप्रायमाह — वाक् अनुष्टुप् , वाक्च शरीरे सरस्वती, तामेव हि वाचं सरस्वतीं माणवकायानुब्रूम इत्येतद्वदन्तः । न तथा कुर्यात् न तथा विद्यात् , यत् ते आहुः मृषैव तत् ; किं तर्हि गायत्रीमेव सावि­त्री­म­नु­ब्रू­यात् ; कस्मात् ? यस्मात् प्राणो गाय­त्री­त्यु­क्तम् ; प्राणे उक्ते, वाक्च सरस्वती च अन्ये च प्राणाः सर्वं माणवकाय समर्पितं भवति । किञ्चेदं प्रास­ङ्गि­क­मुक्त्वा गायत्रीविदं स्तौति — यदि ह वै अपि एवंवित् बह्विव — न हि तस्य सर्वात्मनो बहु नामास्ति किञ्चित् , सर्वा­त्म­क­त्वा­द्वि­दुषः — प्रतिगृह्णाति, न हैव तत् प्रतिग्रहजातं गायत्र्या एकञ्चन एकमपि पदं प्रति पर्याप्तम् ॥

स य इमां­स्त्रीं­ल्लो­का­न्पू­र्णा­न्प्र­ति­गृ­ह्णी­या­त्सोऽस्या एतत्प्रथमं पदमाप्नुयादथ यावतीयं त्रयी विद्या यस्ता­व­त्प्र­ति­गृ­ह्णी­या­त्सोऽस्या एतद्द्वितीयं पदमाप्नुयादथ यावदिदं प्राणि यस्ता­व­त्प्र­ति­गृ­ह्णी­या­त्सोऽस्या एतत्तृतीयं पद­मा­प्नु­या­द­थास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति नैव केनचनाप्यं कुत उ एता­व­त्प्र­ति­गृ­ह्णी­यात् ॥ ६ ॥

स य इमांस्त्रीन् — स यः गायत्रीवित् इमान् भूरादीन् त्रीन् गोश्वा­दि­ध­न­पू­र्णान् लोकान् प्रतिगृह्णीयात् , स प्रतिग्रहः, अस्या गायत्र्या एतत्प्रथमं पदं यद्व्याख्यातम् आप्नुयात् प्रथ­म­प­द­वि­ज्ञा­न­फ­लम् , तेन भुक्तं स्यात् , न त्वधि­क­दो­षो­त्पा­दकः स प्रतिग्रहः । अथ पुनः यावती इयं त्रयी विद्या, यस्तावत् प्रतिगृह्णीयात् , सोऽस्या एतद्द्वितीयं पदमाप्नुयात् , द्वितीयपद विज्ञानफलं तेन भुक्तं स्यात् । तथा यावदिदं प्राणि, यस्ता­व­त्प्र­ति­गृ­ह्णी­यात् , सोऽस्या एतत्तृतीयं पदमाप्नुयात् , तेन तृती­य­प­द­वि­ज्ञा­न­फलं भुक्तं स्यात् । कल्प­यि­त्वे­द­मु­च्यते ; पादत्रयसममपि यदि कश्चि­त्प्र­ति­गृ­ह्णी­यात् , तत्पा­द­त्र­य­वि­ज्ञा­न­फ­ल­स्यैव क्षयकारणम् , न त्वन्यस्य दोषस्य कर्तृत्वे क्षमम् ; न चैवं दाता प्रतिग्रहीता वा ; गाय­त्री­वि­ज्ञा­न­स्तु­तये कल्प्यते ; दाता प्रतिग्रहीता च यद्यप्येवं सम्भाव्यते, नासौ प्रतिग्रहः अपराधक्षमः ; कस्मात् ? यतः अभ्यधिकमपि पुरु­षा­र्थ­वि­ज्ञा­नम् अवशिष्टमेव चतुर्थपादविषयं गायत्र्याः ; तद्दर्शयति — अथ अस्याः एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति ; यद्यैतत् नैव केनचन केनचिदपि प्रतिग्रहेण आप्यं नैव प्राप्य­मि­त्यर्थः, यथा पूर्वोक्तानि त्रीणि पदानि ; एतान्यपि नैव आप्यानि केनचित् ; कल्पयित्वा एवमुक्तम् ; परमार्थतः कुत उ एतावत् प्रतिगृह्णीयात् त्रैलो­क्या­दि­स­मम् । तस्मात् गायत्री एवंप्रकारा उपास्येत्यर्थः ॥

तस्या उपस्थानं गाय­त्र्य­स्ये­क­पदी द्विपदी त्रिपदी चतुष्पद्यपदसि न हि पद्यसे । नमस्ते तुरीयाय दर्शताय पदाय परोरजसेऽसावदो मा प्रापदिति यं द्विष्या­द­सा­वस्मै कामो मा समृद्धीति वा न हैवास्मै स कामः समृध्यते यस्मा एव­मु­प­ति­ष्ठ­तेऽ­ह­मदः प्रापमिति वा ॥ ७ ॥

तस्या उपस्थानम् — तस्या गायत्र्याः उपस्थानम् उपेत्य स्थानं नमस्करणम् अनेन मन्त्रेण । कोऽसौ मन्त्र इत्याह — हे गायत्रि असि भवसि त्रैलोक्यपादेन एकपदी, त्रयी­वि­द्या­रू­पेण द्वितीयेन द्विपदी, प्राणादिना तृतीयेन त्रिपद्यसि, चतुर्थेन तुरीयेण चतुष्पद्यसि ; एवं चतुर्भिः पादैः उपासकैः पद्यसे ज्ञायसे ; अतः परं परेण निरुपाधिकेन स्वेन आत्मना अपदसि — अविद्यमानं पदं यस्यास्तव, येन पद्यसे — सा त्वं अपत् असि, यस्मात् न हि पद्यसे, नेति नेत्यात्मत्वात् । अतो व्यवहारविषयाय नमस्ते तुरीयाय दर्शताय पदाय परोरजसे । असौ शत्रुः पाप्मा त्वत्प्रा­प्ति­वि­घ्न­करः, अदः तत् आत्मनः कार्यं यत् त्वत्प्रा­प्ति­वि­घ्न­क­र्तृ­त्वम् , मा प्रापत् मैव प्राप्नोतु ; इति - शब्दो मन्त्र­प­रि­स­मा­प्त्यर्थः ; यं द्विष्यात् यं प्रति द्वेषं कुर्यात् स्वयं विद्वान् , तं प्रति अनेनोपस्थानम् ; असौ शत्रुः अमुकनामेति नाम गृह्णीयात् ; अस्मै यज्ञदत्ताय अभिप्रेतः कामः मा समृद्धि समृद्धिं मा प्राप्नोत्विति वा उपतिष्ठते ; न हैवास्मै देवदत्ताय स कामः समृध्यते ; कस्मै ? यस्मै एवमुपतिष्ठते । अहं अदः देव­द­त्ता­भि­प्रेतं प्रापमिति वा उपतिष्ठते । असावदो मा प्राप­दि­त्या­दि­त्र­याणां मन्त्रपदानां यथाकामं विकल्पः ॥

एतद्ध वै तज्जनको वैदेहो बुडि­ल­मा­श्व­त­रा­श्वि­मु­वाच यन्नु हो तद्गा­य­त्री­वि­द­ब्रूथा अथ कथं हस्तीभूतो वहसीति मुखं ह्यस्याः सम्राण्न विदाञ्चकारेति होवाच तस्या अग्निरेव मुखं यदि ह वा अपि बह्वि­वा­ग्ना­व­भ्या­द­धति सर्वमेव तत्सन्दहत्येवं हैवै­वं­वि­द्य­द्यपि बह्विव पापं कुरुते सर्वमेव तत्सम्प्साय शुद्धः पूतोऽजरोऽमृतः सम्भवति ॥ ८ ॥

गायत्र्या मुखविधानाय अर्थवाद उच्यते — एतत् ह किल वै स्मर्यते, तत् तत्र गाय­त्री­वि­ज्ञा­न­वि­षये ; जनको वैदेहः, बुडिलो नामतः, अश्व­त­रा­श्व­स्या­प­त्यम् आश्वतराश्विः, तं किल उक्तवान् ; यत् नु इति वितर्के, हो अहो इत्येतत् , तत् यत् त्वं गाय­त्री­वि­द­ब्रूथाः, गाय­त्री­वि­द­स्मीति यदब्रूथाः, किमिदं तस्य वचसोऽननुरूपम् ; अथ कथम् , यदि गायत्रीवित् , प्रतिग्रहदोषेण हस्तीभूतो वहसीति । स प्रत्याह राज्ञा स्मारितः — मुखं गायत्र्याः हि यस्मात् अस्याः, हे सम्राट् , न विदाञ्चकार न विज्ञातवानस्मि — इति होवाच ; एका­ङ्ग­वि­क­ल­त्वात् गायत्रीविज्ञानं मम अफलं जातम् ।

शृणु तर्हि ; तस्या गायत्र्या अग्निरेव मुखम् ; यदि ह वै अपि बह्विवेन्धनम् अग्नावभ्यादधति लौकिकाः, सर्वमेव तत्स­न्द­ह­त्ये­वे­न्ध­नम् अग्निः — एवं हैव एवंवित् गायत्र्या अग्नि­र्मु­ख­मि­त्येवं वेत्ती­त्ये­वं­वित् स्यात् स्वयं गायत्र्यात्मा अग्निमुखः सन् । यद्यपि बह्विव पापं कुरुते प्रति­ग्र­हा­दि­दो­षम् , तत्सर्वं पापजातं सम्प्साय भक्षयित्वा शुद्धः अग्निवत् पूतश्च तस्मा­त्प्र­ति­ग्र­ह­दो­षात् गायत्र्यात्मा अजरोऽमृतश्च सम्भवति ॥

इति पञ्चमाध्यायस्य चतुर्दशं ब्राह्मणम् ॥

पञ्चदशं ब्राह्मणम्

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये । पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् । समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि । योऽसावसौ पुरुषः सोऽहमस्मि । वायु­र­नि­ल­म­मृ­त­म­थेदं भस्मान्तं शरीरम् । ओं क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर । अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । युयो­ध्य­स्म­ज्जु­हु­रा­ण­मेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ १ ॥

यो ज्ञान­क­र्म­स­मु­च्च­य­कारी सः अन्तकाले आदित्यं प्रार्थयति ; अस्ति च प्रसङ्गः ; गाय­त्र्या­स्तु­रीयः पादो हि सः ; तदुपस्थानं प्रकृतम् ; अतः स एव प्रार्थ्यते । हिरण्मयेन ज्योतिर्मयेन पात्रेण, यथा पात्रेण इष्टं वस्तु अपिधीयते, एवमिदं सत्याख्यं ब्रह्म ज्योतिर्मयेन मण्ड­ले­ना­पि­हि­त­मिव अस­मा­हि­त­चे­त­सा­म­दृ­श्य­त्वात् ; तदुच्यते — सत्यस्यापिहितं मुखं मुख्यं स्वरूपम् ; तत् अपिधानं पात्रमपिधानमिव दर्श­न­प्र­ति­ब­न्ध­का­र­णम् , तत् त्वम् , हे पूषन् , जगतः पोषणात्पूषा सविता, अपावृणु अपावृतं कुरु दर्श­न­प्र­ति­ब­न्ध­का­र­ण­म­प­न­ये­त्यर्थः ; सत्यधर्माय सत्यं धर्मोऽस्य मम सोऽहं सत्यधर्मा, तस्मै त्वदा­त्म­भू­ता­ये­त्यर्थः ; दृष्टये दर्शनाय ; पूषन्नित्यादीनि नामानि आमन्त्रणार्थानि सवितुः ; एकर्षे, एकश्चासावृषिश्च एकर्षिः, दर्शनादृषिः ; स हि सर्वस्य जगत आत्मा चक्षुश्च सन् सर्वं पश्यति ; एको वा गच्छ­ती­त्ये­कर्षिः, ‘सूर्य एकाकी चरति’(तै. सं. ८ । ४ । १८) इति मन्त्रवर्णात् ; यम, सर्वं हि जगतः संयमनं त्वत्कृतम् ; सूर्य, सुष्ठु ईरयते रसान् रश्मीन् प्राणान् धियो वा जगत इति ; प्राजापत्य, प्रजा­प­ते­री­श्व­र­स्या­पत्यं हिरण्यगर्भस्य वा, हे प्राजापत्य ; व्यूह विगमय रश्मीन् ; समूह सङ्क्षिप आत्मनस्तेजः, येनाहं शक्नुयां द्रष्टुम् ; तेजसा ह्यपहतदृष्टिः न शक्नुयां त्वत्स्व­रू­प­म­ञ्जसा द्रष्टुम् , विद्योतन इव रूपाणाम् ; अत उपसंहर तेजः ; यत् ते तव रूपं सर्व­क­ल्या­णा­ना­म­ति­श­येन कल्याणं कल्याणतमम् ; तत् ते तव पश्यामि पश्यामो वयम् , वचनव्यत्ययेन । योऽसौ भूर्भु­वः­स्व­र्व्या­हृ­त्य­व­यवः पुरुषः, पुरु­षा­कृ­ति­त्वा­त्पु­रुषः, सोऽहमस्मि भवामि ; ‘अहरहम्’ इति च उपनिषद उक्त­त्वा­दा­दि­त्य­चा­क्षु­षयोः तदेवेदं परामृश्यते ; सोऽह­म­स्म्य­मृ­त­मिति सम्बन्धः ; ममामृतस्य सत्यस्य शरीरपाते, शरीरस्थो यः प्राणो वायुः स अनिलं बाह्यं वायुमेव प्रतिगच्छतु ; तथा अन्या देवताः स्वां स्वां प्रकृतिं गच्छन्तु ; अथ इदमपि भस्मान्तं सत् पृथिवीं यातु शरीरम् । अथेदानीम् आत्मनः सङ्कल्पभूतां मनसि व्यवस्थिताम् अग्निदेवतां प्रार्थयते — ओं क्रतो ; ओमिति क्रतो इति च सम्बोधनार्थावेव ; ओङ्का­र­प्र­ती­क­त्वात् ओं ; मनोमयत्वाच्च क्रतुः ; हे ओं, हे क्रतो, स्मर स्मर्तव्यम् ; अन्तकाले हि त्वत्स्मरणवशात् इष्टा गतिः प्राप्यते ; अतः प्रार्थ्यते — यत् मया कृतम् , तत् स्मर ; पुनरुक्तिः आदरार्था । किञ्च हे अग्ने, नय प्रापय, सुपथा शोभनेन मार्गेण, राये धनाय कर्मफलप्राप्तये इत्यर्थः ; न दक्षिणेन कृष्णेन पुन­रा­वृ­त्ति­यु­क्तेन, किं तर्हि शुक्लेनैव सुपथा ; अस्मान् विश्वानि सर्वाणि, हे देव, वयुनानि प्रज्ञानानि सर्वप्राणिनां विद्वान् ; किञ्च युयोधि अपनय वियोजय अस्मत् अस्मत्तः, जुहुराणं कुटिलम् , एनः पापं पापजातं सर्वम् ; तेन पापेन वियुक्ता वयम् एष्याम उत्तरेण पथा त्वत्प्रसादात् ; किं तु वयं तुभ्यम् परिचर्यां कर्तुं न शक्नुमः ; भूयिष्ठां बहुतमां ते तुभ्यं नमउक्तिं नमस्कारवचनं विधेम नमस्कारोक्त्या परि­च­रे­मे­त्यर्थः, अन्य­त्क­र्तु­म­शक्ताः सन्त इति ॥

इति पञ्चमाध्यायस्य पञ्चदशं ब्राह्मणम् ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ बृह­दा­र­ण्य­को­प­नि­ष­द्भाष्ये पञ्चमोऽध्यायः ॥