अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यम्

षष्ठोऽध्यायः

व्याख्याः

प्रथमं ब्राह्मणम्

ओं यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति प्राणो वै ज्येष्ठश्च श्रेष्ठश्च ज्येष्ठश्च श्रेष्ठश्च स्वानां भवत्यपि च येषां बुभूषति य एवं वेद ॥ १ ॥

ओं प्राणो गाय­त्री­त्यु­क्तम् । कस्मात्पुनः कारणात् प्राणभावः गायत्र्याः, न पुनर्वागादिभाव इति, यस्मात् ज्येष्ठश्च श्रेष्ठश्च प्राणः, न वागादयो ज्यैष्ठ्य­श्रै­ष्ठ्य­भाजः ; कथं ज्येष्ठत्वं श्रेष्ठत्वं च प्राणस्येति तन्नि­र्दि­धा­र­यि­षया इदमारभ्यते । अथवा उक्थ­य­जुः­सा­म­क्ष­त्त्रा­दि­भावैः प्राणस्यैव उपासनमभिहितम् , सत्स्वपि अन्येषु चक्षुरादिषु ; तत्र हेतुमात्रमिह आनन्तर्येण सम्बध्यते ; न पुनः पूर्वशेषता । विवक्षितं तु खिलत्वादस्य काण्डस्य पूर्वत्र यदनुक्तं विशिष्टफलं प्राण­वि­ष­य­मु­पा­सनं तद्वक्तव्यमिति । यः कश्चित् , ह वै इत्यवधारणार्थौ ; यो ज्येष्ठ­श्रे­ष्ठ­गुणं वक्ष्यमाणं यो वेद असौ भवत्येव ज्येष्ठश्च श्रेष्ठश्च ; एवं फलेन प्रलोभितः सन् प्रश्नाय अभिमुखीभूतः ; तस्मै चाह — प्राणो वै ज्येष्ठश्च श्रेष्ठश्च । कथं पुनरवगम्यते प्राणो ज्येष्ठश्च श्रेष्ठश्चेति, यस्मात् निषेककाल एव शुक्र­शो­णि­त­स­म्बन्धः प्राणा­दि­क­ला­प­स्या­वि­शिष्टः ? तथापि न अप्राणं शुक्रं विरोहतीति प्रथमो वृत्तिलाभः प्राणस्य चक्षुरादिभ्यः ; अतो ज्येष्ठो वयसा प्राणः ; निषेककालादारभ्य गर्भं पुष्यति प्राणः ; प्राणे हि लब्धवृत्तौ पश्चा­च्च­क्षु­रा­दीनां वृत्तिलाभः ; अतो युक्तं प्राणस्य ज्येष्ठत्वं चक्षुरादिषु ; भवति तु कश्चित्कुले ज्येष्ठः, गुणहीनत्वात्तु न श्रेष्ठः ; मध्यमः कनिष्ठो वा गुणाढ्यत्वात् भवेत् श्रेष्ठः, न ज्येष्ठः ; न तु तथा इहेत्याह — प्राण एव तु ज्येष्ठश्च श्रेष्ठश्च । कथं पुनः श्रैष्ठ्य­म­व­ग­म्यते प्राणस्य ? तदिह संवादेन दर्शयिष्यामः । सर्वथापि तु प्राणं ज्येष्ठ­श्रे­ष्ठ­गुणं यो वेद उपास्ते, स स्वानां ज्ञातीनां ज्येष्ठश्च श्रेष्ठश्च भवति, ज्येष्ठ­श्रे­ष्ठ­गु­णो­पा­स­न­सा­म­र्थ्यात् ; स्वव्य­ति­रे­के­णापि च येषां मध्ये ज्येष्ठश्च श्रेष्ठश्च भविष्यामीति बुभूषति भवितुमिच्छति, तेषामपि ज्येष्ठ­श्रे­ष्ठ­प्रा­ण­दर्शी ज्येष्ठश्च श्रेष्ठश्च भवति । ननु वयोनिमित्तं ज्येष्ठत्वम् , तत् इच्छातः कथं भवतीत्युच्यते — नैष दोषः, प्राणवत् वृत्तिलाभस्यैव ज्येष्ठत्वस्य विवक्षितत्वात् ॥

यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति वाग्वै वसिष्ठा वसिष्ठः स्वानां भवत्यपि च येषां बुभूषति य एवं वेद ॥ २ ॥

यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति । तद्द­र्श­ना­नु­रू­प्येण फलम् । येषां च ज्ञाति­व्य­ति­रे­केण वसिष्ठो भवितुमिच्छति, तेषां च वसिष्ठो भवति । उच्यतां तर्हि, कासौ वसिष्ठेति ; वाग्वै वसिष्ठा ; वासयत्यतिशयेन वस्ते वेति वसिष्ठा ; वाग्ग्मिनो हि धनवन्तो वसन्त्यतिशयेन ; आच्छादनार्थस्य वा वसेर्वसिष्ठा ; अभिभवन्ति हि वाचा वाग्ग्मिनः अन्यान् । तेन वसि­ष्ठ­गु­ण­व­त्प­रि­ज्ञा­नात् वसिष्ठगुणो भवतीति दर्शनानुरूपं फलम् ॥

यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे चक्षुर्वै प्रतिष्ठा चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे य एवं वेद ॥ ३ ॥

यो ह वै प्रतिष्ठां वेद, प्रति­ति­ष्ठ­त्य­न­येति प्रतिष्ठा, तां प्रतिष्ठां प्रति­ष्ठा­गु­ण­वतीं यो वेद, तस्य एतत्फलम् ; प्रतितिष्ठति समे देशे काले च ; तथा दुर्गे विषमे च दुर्गमने च देशे दुर्भिक्षादौ वा काले विषमे । यद्येवमुच्यताम् , कासौ प्रतिष्ठा ; चक्षुर्वै प्रतिष्ठा ; कथं चक्षुषः प्रति­ष्ठा­त्व­मि­त्याह — चक्षुषा हि समे च दुर्गे च दृष्ट्वा प्रतितिष्ठति । अतोऽनुरूपं फलम् , प्रतितिष्ठति समे, प्रतितिष्ठति दुर्गे, य एवं वेदेति ॥

यो ह वै सम्पदं वेद सं हास्मै पद्यते यं कामं कामयते श्रोत्रं वै सम्पच्छ्रोत्रे हीमे सर्वे वेदा अभिसम्पन्नाः सं हास्मै पद्यते यं कामं कामयते य एवं वेद ॥ ४ ॥

यो ह वै सम्पदं वेद, सम्पद्गुणयुक्तं यो वेद, तस्य एतत्फलम् ; अस्मै विदुषे सम्पद्यते ह ; किम् ? यं कामं कामयते, स कामः । किं पुनः सम्पद्गुणकम् ? श्रोत्रं वै सम्पत् । कथं पुनः श्रोत्रस्य सम्प­द्गु­ण­त्व­मि­त्यु­च्यते — श्रोत्रे सति हि यस्मात् सर्वे वेदा अभिसम्पन्नाः, श्रोत्रे­न्द्रि­य­व­तोऽ­ध्ये­य­त्वात् ; वेद­वि­हि­त­क­र्मा­य­त्ताश्च कामाः ; तस्मात् श्रोत्रं सम्पत् । अतो विज्ञानानुरूपं फलम् , सं हास्मै पद्यते, यं कामं कामयते, य एवं वेद ॥

यो ह वा आयतनं वेदायतनं स्वानां भवत्यायतनं जनानां मनो वा आयतनमायतनं स्वानां भवत्यायतनं जनानां य एवं वेद ॥ ५ ॥

यो ह वा आयतनं वेद ; आयतनम् आश्रयः, तत् यो वेद, आयतनं स्वानां भवति, आयतनं जनानामन्येषामपि । किं पुनः तत् आयतनमित्युच्यते — मनो वै आयतनम् आश्रयः इन्द्रियाणां विषयाणां च ; मनआश्रिता हि विषया आत्मनो भोग्यत्वं प्रतिपद्यन्ते ; मनःसङ्कल्पवशानि च इन्द्रियाणि प्रवर्तन्ते निवर्तन्ते च ; अतो मन आयतनम् इन्द्रियाणाम् । अतो दर्शनानुरूप्येण फलम् , आयतनं स्वानां भवति, आयतनं जनानाम् , य एवं वेद ॥

यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभी रेतो वै प्रजातिः प्रजायते ह प्रजया पशुभिर्य एवं वेद ॥ ६ ॥

यो ह वै प्रजातिं वेद, प्रजायते ह प्रजया पशुभिश्च सम्पन्नो भवति । रेतो वै प्रजातिः ; रेतसा प्रज­न­ने­न्द्रि­य­मु­प­ल­क्ष्यते । तद्वि­ज्ञा­ना­नु­रूपं फलम् , प्रजायते ह प्रजया पशुभिः, य एवं वेद ॥

ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुस्तद्धोचुः को नो वसिष्ठ इति तद्धोवाच यस्मिन्व उत्क्रान्त इदं शरीरं पापीयो मन्यते स वो वसिष्ठ इति ॥ ७ ॥

ते हेमे प्राणा वागादयः, अहंश्रेयसे अहं श्रेया­नि­त्ये­तस्मै प्रयोजनाय, विवदमानाः विरुद्धं वदमानाः, ब्रह्म जग्मुः ब्रह्म गतवन्तः, ब्रह्म­श­ब्द­वाच्यं प्रजापतिम् ; गत्वा च तद्ब्रह्म ह ऊचुः उक्तवन्तः — कः नः अस्माकं मध्ये, वसिष्ठः, कोऽस्माकं मध्ये वसति च वासयति च । तद्ब्रह्म तैः पृष्टं सत् ह उवाच उक्तवत् — यस्मिन् वः युष्माकं मध्ये उत्क्रान्ते निर्गते शरीरात् , इदं शरीरं पूर्व­स्मा­द­ति­श­येन पापीयः पापतरं मन्यते लोकः ; शरीरं हि नाम अने­का­शु­चि­स­ङ्घा­त­त्वात् जीवतोऽपि पापमेव, ततोऽपि कष्टतरं यस्मिन् उत्क्रान्ते भवति ; वैरा­ग्या­र्थ­मि­द­मु­च्यते — पापीय इति ; स वः युष्माकं मध्ये वसिष्ठो भविष्यति । जानन्नपि वसिष्ठं प्रजापतिः नोवाच अयं वसिष्ठ इति इतरेषाम् अप्रियपरिहाराय ॥

वाग्घोच्चक्राम सा संवत्सरं प्रोष्या­ग­त्यो­वाच कथमशकत मदृते जीवितुमिति ते होचुर्यथाकला अवदन्तो वाचा प्राणन्तः प्राणेन पश्य­न्त­श्च­क्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेत­सै­व­म­जी­वि­ष्मेति प्रविवेश ह वाक् ॥ ८ ॥

ते एवमुक्ता ब्रह्मणा प्राणाः आत्मनो वीर्यपरीक्षणाय क्रमेण उच्चक्रमुः । तत्र वागेव प्रथमं ह अस्मात् शरीरात् उच्चक्राम उत्क्रान्तवती ; सा चोत्क्रम्य, संवत्सरं प्रोष्य प्रोषिता भूत्वा, पुनरागत्योवाच — कथम् अशकत शक्तवन्तः यूयम् , मदृते मां विना, जीवितुमिति । ते एवमुक्ताः ऊचुः — यथा लोके अकलाः मूकाः, अवदन्तः वाचा, प्राणन्तः प्राणनव्यापारं कुर्वन्तः प्राणेन, पश्यन्तः दर्शनव्यापारं चक्षुषा कुर्वन्तः, तथा शृण्वन्तः श्रोत्रेण, विद्वांसः मनसा कार्या­का­र्या­दि­वि­ष­यम् , प्रजायमानाः रेतसा पुत्रान् उत्पादयन्तः, एवमजीविष्म वयम् — इत्येवं प्राणैः दत्तोत्तरा वाक् आत्मनः अस्मिन् अवसिष्ठत्वं बुद्ध्वा, प्रविवेश ह वाक् ॥

चक्षु­र्हो­च्च­क्राम तत्संवत्सरं प्रोष्या­ग­त्यो­वाच कथमशकत मदृते जीवितुमिति ते होचुर्यथान्धा अप­श्य­न्त­श्च­क्षुषा प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेत­सै­व­म­जी­वि­ष्मेति प्रविवेश ह चक्षुः ॥ ९ ॥

श्रोत्रं होच्चक्राम तत्संवत्सरं प्रोष्या­ग­त्यो­वाच कथमशकत मदृते जीवितुमिति ते होचुर्यथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणान्तः प्राणेन वदन्तो वाचा पश्य­न्त­श्च­क्षुषा विद्वांसो मनसा प्रजायमाना रेत­सै­व­म­जी­वि­ष्मेति प्रविवेश ह श्रोत्रम् ॥ १० ॥

१०

मनो होच्चक्राम तत्संवत्सरं प्रोष्या­ग­त्यो­वाच कथमशकत मदृते जीवितुमिति ते होचुर्यथा मुग्धा अविद्वांसो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्य­न्त­श्च­क्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेत­सै­व­म­जी­वि­ष्मेति प्रविवेश ह मनः ॥ ११ ॥

११

रेतो होच्चक्राम तत्संवत्सरं प्रोष्या­ग­त्यो­वाच कथमशकत मदृते जीवितुमिति ते होचुर्यथा क्लीबा अप्रजायमाना रेतसा प्राणन्तः प्राणेन वदन्तो वाचा पश्य­न्त­श्च­क्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मन­सै­व­म­जी­वि­ष्मेति प्रविवेश ह रेतः ॥ १२ ॥

१२

तथा चक्षु­र्हो­च्च­क्रा­मे­त्यादि पूर्ववत् । श्रोत्रं मनः प्रजातिरिति ॥

अथ ह प्राण उत्क्र­मि­ष्य­न्यथा महासुहयः सैन्धवः पड्वी­श­श­ङ्कू­न्सं­वृ­हे­देवं हैवे­मा­न्प्रा­णा­न्सं­व­वर्ह ते होचुर्मा भगव उत्क्रमीर्न वै शक्ष्या­म­स्त्व­दृते जीवितुमिति तस्यो मे बलिं कुरुतेति तथेति ॥ १३ ॥

१३

अथ ह प्राण उत्क्रमिष्यन् उत्क्रमणं करिष्यन् ; तदानीमेव स्वस्था­ना­त्प्र­च­लिता वागादयः । किमिवेत्याह — यथा लोके, महांश्चासौ सुहयश्च महासुहयः, शोभनो हयः लक्षणोपेतः, महान् परिमाणतः, सिन्धुदेशे भवः सैन्धवः अभिजनतः, पड्वीशशङ्कून् पादबन्धनशङ्कून् , पड्वीशाश्च ते शङ्कवश्च तान् , संवृहेत् उद्यच्छेत् युगपदुत्खनेत् अश्वारोहे आरूढे परीक्षणाय ; एवं ह एव इमान् वागादीन् प्राणान् संववर्ह उद्यतवान् स्वस्थानात् भ्रंशितवान् । ते वागादयः ह ऊचुः — हे भगवः भगवन् मा उत्क्रमीः ; यस्मात् न वै शक्ष्यामः त्वदृते त्वां विना जीवितुमिति । यद्येवं मम श्रेष्ठता विज्ञाता भवद्भिः, अहमत्र श्रेष्ठः, तस्य उ मे मम बलिं करं कुरुत करं प्रयच्छतेति । अयं च प्राणसंवादः कल्पितः विदुषः श्रेष्ठ­प­री­क्ष­ण­प्र­का­रो­प­देशः ; अनेन हि प्रकारेण विद्वान् को नु खलु अत्र श्रेष्ठ इति परीक्षणं करोति ; स एष परीक्षणप्रकारः संवादभूतः कथ्यते ; न हि अन्यथा संहत्यकारिणां सताम् एषाम् अञ्जसैव संवत्सरमात्रमेव एकैकस्य निर्गमनादि उपपद्यते ; तस्मात् विद्वानेव अनेन प्रकारेण विचारयति वागादीनां प्रधानबुभुत्सुः उपासनाय ; बलिं प्रार्थिताः सन्तः प्राणाः, तथेति प्रतिज्ञातवन्तः ॥

सा ह वागुवाच यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसीति यद्वा अहं प्रतिष्ठास्मि त्वं तत्प्र­ति­ष्ठोऽ­सीति चक्षुर्यद्वा अहं सम्पदस्मि त्वं तत्सम्पदसीति श्रोत्रं यद्वा अहमायतनमस्मि त्वं तदायतनमसीति मनो यद्वा अहं प्रजातिरस्मि त्वं तत्प्रजातिरसीति रेतस्तस्यो मे किमन्नं किं वास इति यदिदं किञ्चाश्वभ्य आ कृमिभ्य आ कीट­प­त­ङ्गे­भ्य­स्त­त्तेऽ­न्न­मापो वास इति न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं य एवमेतदनस्यान्नं वेद तद्विद्वांसः श्रोत्रिया अशिष्यन्त आचा­म­न्त्य­शि­त्वा­चा­म­न्त्ये­त­मेव तदनमनग्नं कुर्वन्तो मन्यन्ते ॥ १४ ॥

१४

सा ह वाक् प्रथमं बलिदानाय प्रवृत्ता ह किल उवाच उक्तवती — यत् वै अहं वसिष्ठास्मि, यत् मम वसिष्ठत्वम् , तत् तवैव ; तेन वसिष्ठगुणेन त्वं तद्वसिष्ठोऽसीति । यत् वै अहं प्रतिष्ठास्मि, त्वं तत्प्र­ति­ष्ठोऽसि, या मम प्रतिष्ठा सा त्वमसीति चक्षुः । समानम् अन्यत् । सम्प­दा­य­त­न­प्र­जा­ति­त्व­गु­णान् क्रमेण समर्पितवन्तः । यद्येवम् , साधु बलिं दत्तवन्तो भवन्तः ; ब्रूत — तस्य उ मे एवं­गु­ण­वि­शि­ष्टस्य किमन्नम् , किं वास इति ; आहुरितरे — यदिदं लोके किञ्च किञ्चित् अन्नं नाम आ श्वभ्यः आ कृमिभ्यः आ कीटपतङ्गेभ्यः, यच्च श्वान्नं कृम्यन्नं कीटपतङ्गान्नं च, तेन सह सर्वमेव यत्किञ्चित् प्राणि­भि­र­द्य­मा­नम् अन्नम् , तत्सर्वं तवान्नम् । सर्वं प्राण­स्या­न्न­मिति दृष्टिः अत्र विधीयते ॥

केचित्तु सर्वभक्षणे दोषाभावं वदन्ति प्राणान्नविदः ; तत् असत् , शास्त्रान्तरेण प्रति­षि­द्ध­त्वात् । तेनास्य विकल्प इति चेत् , न, अविधायकत्वात् । न ह वा अस्यानन्नं जग्धं भवतीति — सर्वं प्राण­स्या­न्न­मि­त्ये­तस्य विज्ञानस्य विहितस्य स्तुत्यर्थमेतत् ; तेनै­क­वा­क्य­ता­पत्तेः ; न तु शास्त्रा­न्त­र­वि­हि­तस्य बाधने सामर्थ्यम् , अन्यपरत्वादस्य । प्राणमात्रस्य सर्वमन्नम् इत्येतदृर्शनम् इह विधित्सितम् , न तु सर्वं भक्षयेदिति । यत्तु सर्वभक्षणे दोषाभावज्ञानम् , तत् मिथ्यैव, प्रमाणाभावात् । विदुषः प्राणत्वात् सर्वा­न्नो­प­पत्तेः सामर्थ्यात् अदोष एवेति चेत् , न, अशे­षा­न्न­त्वा­नु­प­पत्तेः ; सत्यं यद्यपि विद्वान् प्राणः, येन कार्य­क­र­ण­स­ङ्घा­तेन विशिष्टस्य विद्वत्ता तेन कार्य­क­र­ण­स­ङ्घा­तेन कृमि­की­ट­दे­वा­द्य­शे­षा­न्न­भ­क्षणं नोपपद्यते ; तेन तत्र अशेषान्नभक्षणे दोषा­भा­व­ज्ञा­प­न­म­न­र्थ­कम् , अप्रा­प्त­त्वा­द­शे­षा­न्न­भ­क्ष­ण­दो­षस्य । ननु प्राणः सन् भक्षयत्येव कृमि­की­टा­द्य­न्न­मपि ; बाढम् , किन्तु न तद्विषयः प्रतिषेधोऽस्ति ; तस्मात् — दैवरक्तं किंशुकम् — तत्र दोषाभावः ; अतः तद्रूपेण दोषा­भा­व­ज्ञा­प­न­म­न­र्थ­कम् , अप्राप्तत्वात् अशे­षा­न्न­भ­क्ष­ण­दो­षस्य । येन तु कार्य­क­र­ण­स­ङ्घा­त­स­म्ब­न्धेन प्रतिषेधः क्रियते, तत्सम्बन्धेन तु इह नैव प्रति­प्र­स­वोऽस्ति । तस्मात् तत्प्र­ति­षे­धा­ति­क्रमे दोष एव स्यात् , अन्यविषयत्वात् ‘न ह वै’ इत्यादेः । न च ब्राह्म­णा­दि­श­री­रस्य सर्वा­न्न­त्व­द­र्श­न­मिह विधीयते, किन्तु प्राणमात्रस्यैव । यथा च सामान्येन सर्वान्नस्य प्राणस्य किञ्चित् अन्नजातं कस्यचित् जीवनहेतुः, यथा विषं विषजस्य क्रिमेः, तदेव अन्यस्य प्राणान्नमपि सत् दृष्टमेव दोषमुत्पादयति मरणादिलक्षणम् — तथा सर्वान्नस्यापि प्राणस्य प्रति­षि­द्धा­न्न­भ­क्षणे ब्राह्म­ण­त्वा­दि­दे­ह­स­म्ब­न्धात् दोष एव स्यात् । तस्मात् मिथ्याज्ञानमेव अभक्ष्यभक्षणे दोषाभावज्ञानम् ॥

आपो वास इति ; आपः भक्ष्यमाणाः वासः­स्था­नी­या­स्तव । अत्र च प्राणस्य आपो वास इत्येतद्दर्शनं विधीयते ; न तु वासःकार्ये आपो विनियोक्तुं शक्याः ; तस्मात् यथाप्राप्ते अब्भक्षणे दर्शनमात्रं कर्तव्यम् । न ह वै अस्य सर्वं प्राण­स्या­न्न­मि­त्ये­वं­विदः अनन्नम् अनदनीयं जग्धं भुक्तं न भवति ह ; यद्यपि अनेन अनदनीयं भुक्तम् , अदनीयमेव भुक्तं स्यात् , न तु तत्कृतदोषेण लिप्यते — इत्येतत् विद्या­स्तु­ति­रि­त्य­वो­चाम । तथा न अनन्नं प्रतिगृहीतम् ; यद्यपि अप्रतिग्राह्यं हस्त्यादि प्रतिगृहीतं स्यात् तदपि अन्नमेव प्रतिग्राह्यं प्रतिगृहीतं स्यात् , तत्रापि अप्र­ति­ग्रा­ह्य­प्र­ति­ग्र­ह­दो­षेण न लिप्यत इति स्तुत्यर्थमेव ; य एवम् एतत् अनस्य प्राणस्य अन्नं वेद ; फलं तु प्राणात्मभाव एव ; न त्वेतत् फलाभिप्रायेण, किं तर्हि स्तुत्य­भि­प्रा­ये­णेति । ननु एतदेव फलं कस्मान्न भवति ? न, प्राणा­त्म­द­र्शिनः प्राणात्मभाव एव फलम् ; तत्र च प्राणात्मभूतस्य सर्वात्मनः अनदनीयमपि आद्यमेव, तथा अप्र­ति­ग्रा­ह्य­मपि प्रतिग्राह्यमेव — इति यथाप्राप्तमेव उपादाय विद्या स्तूयते ; अतो नैव फलविधिसरूपता वाक्यस्य । यस्मात् आपो वासः प्राणस्य, तस्मात् विद्वांसः ब्राह्मणाः श्रोत्रिया अधीतवेदाः, अशिष्यन्तः भोक्ष्यमाणाः, आचामन्ति अपः ; अशित्वा आचामन्ति भुक्त्वा च उत्तरकालम् अपः भक्षयन्ति ; तत्र तेषामाचामतां कोऽभिप्राय इत्याह — एतमेवानं प्राणम् अनग्नं कुर्वन्तो मन्यन्ते ; अस्ति चैतत् — यो यस्मै वासो ददाति, स तम् अनग्नं करोमीति हि मन्यते ; प्राणस्य च आपो वास इति ह्युक्तम् । यदपः पिबामि तत्प्राणस्य वासो ददामि इति विज्ञानं कर्त­व्य­मि­त्ये­व­म­र्थ­मे­तत् । ननु भोक्ष्यमाणः भुक्तवांश्च प्रयतो भवि­ष्या­मी­त्या­चा­मति ; तत्र च प्राण­स्या­न­ग्न­ता­क­र­णा­र्थत्वे च द्विकार्यता आचमनस्य स्यात् ; न च कार्यद्वयम् आचमनस्य एकस्य युक्तम् ; यदि प्रायत्यार्थम् , न अनग्नतार्थम् ; अथ अनग्नतार्थम् , न प्रायत्यार्थम् ; यस्मादेवम् , तस्मात् द्वितीयम् आचमनान्तरं प्राण­स्या­न­ग्न­ता­क­र­णाय भवतु — न, क्रिया­द्वि­त्वो­प­पत्तेः ; द्वे ह्येते क्रिये ; भोक्ष्यमाणस्य भुक्तवतश्च यत् आचमनं स्मृतिविहितम् , तत् प्रायत्यार्थं भवति क्रियामात्रमेव ; न तु तत्र प्रायत्यं दर्शनादि अपेक्षते ; तत्र च आच­म­ना­ङ्ग­भू­ता­स्वप्सु वासोविज्ञानं प्राणस्य इतिकर्तव्यतया चोद्यते ; न तु तस्मि­न्क्रि­य­माणे आचमनस्य प्रायत्यार्थता बाध्यते, क्रिया­न्त­र­त्वा­दा­च­म­नस्य । तस्मात् भोक्ष्यमाणस्य भुक्तवतश्च यत् आचमनम् , तत्र आपो वासः प्राणस्येति दर्शनमात्रं विधीयते, अप्रा­प्त­त्वा­द­न्यतः ॥

इति षष्ठाध्यायस्य प्रथमं ब्राह्मणम् ॥

द्वितीयं ब्राह्मणम्

श्वेतकेतुर्ह वा आरुणेय इत्यस्य सम्बन्धः । खिलाधिकारोऽयम् ; तत्र यदनुक्तं तदुच्यते । सप्त­मा­ध्या­यान्ते ज्ञान­क­र्म­स­मु­च्च­य­का­रिणा अग्ने­र्मा­र्ग­या­चनं कृतम् — अग्ने नय सुपथेति । तत्र अनेकेषां पथां सद्भावः मन्त्रेण साम­र्थ्या­त्प्र­द­र्शितः, सुपथेति विशेषणात् । पन्थानश्च कृत­वि­पा­क­प्र­ति­प­त्ति­मार्गाः ; वक्ष्यति च ‘यत्कृत्वा’(बृ. उ. ६ । २ । २) इत्यादि । तत्र च कति कर्म­वि­पा­क­प्र­ति­प­त्ति­मार्गा इति सर्व­सं­सा­र­ग­त्यु­प­सं­हा­रा­र्थोऽ­य­मा­रम्भः — एतावती हि संसारगतिः, एतावान् कर्मणो विपाकः स्वाभाविकस्य शास्त्रीयस्य च सविज्ञानस्येति । यद्यपि ‘द्वया ह प्राजापत्याः’(बृ. उ. १ । ३ । १) इत्यत्र स्वाभाविकः पाप्मा सूचितः, न च तस्येदं कार्यमिति विपाकः प्रदर्शितः ; शास्त्रीयस्यैव तु विपाकः प्रदर्शितः त्र्यन्ना­त्म­प्र­ति­प­त्त्य­न्तेन, ब्रह्म­वि­द्या­रम्भे तद्वैराग्यस्य विवक्षितत्वात् । तत्रापि केवलेन कर्मणा पितृलोकः, विद्यया विद्यासंयुक्तेन च कर्मणा देवलोक इत्युक्तम् । तत्र केन मार्गेण पितृलोकं प्रतिपद्यते, केन वा देवलोकमिति नोक्तम् । तच्च इह खिलप्रकरणे अशेषतो वक्तव्यमित्यत आरभ्यते । अन्ते च सर्वोपसंहारः शास्त्रस्येष्टः । अपि च एता­व­द­मृ­त­त्व­मि­त्यु­क्तम् , न कर्मणः अमृतत्वाशा अस्तीति च ; तत्र हेतुः नोक्तः ; तद­र्थ­श्चा­य­मा­रम्भः । यस्मात् इयं कर्मणो गतिः, न नित्येऽमृतत्वे व्यापारोऽस्ति, तस्मात् एता­व­दे­वा­मृ­त­त्व­सा­ध­न­मिति सामर्थ्यात् हेतुत्वं सम्पद्यते । अपि च उक्तमग्निहोत्रे — न त्वेवै­त­यो­स्त्व­मु­त्क्रान्तिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकं प्रत्युत्थायिनं वेत्थेति ; तत्र प्रतिवचने ‘ते वा एते आहुती हुते उत्क्रामतः’(शत. ब्रा. ११ । ६ । २ । ४) इत्यादिना आहुतेः कार्यमुक्तम् ; तच्चैतत् कर्तुः आहुतिलक्षणस्य कर्मणः फलम् ; न हि कर्ता­र­म­ना­श्रित्य आहुतिलक्षणस्य कर्मणः स्वातन्त्र्येण उत्क्रा­न्त्या­दि­का­र्या­रम्भ उपपद्यते, कर्त्र­र्थ­त्वा­त्क­र्मणः कार्यारम्भस्य, साध­ना­श्र­य­त्वाच्च कर्मणः ; तत्र अग्नि­हो­त्र­स्तु­त्य­र्थ­त्वात् अग्निहोत्रस्यैव कार्यमित्युक्तं षट्प्रकारमपि ; इह तु तदेव कर्तुः फल­मि­त्यु­प­दि­श्यते षट्प्रकारमपि, कर्म­फ­ल­वि­ज्ञा­नस्य विवक्षितत्वात् । तद्द्वारेण च पञ्चा­ग्नि­द­र्श­नम् इह उत्त­र­मा­र्ग­प्र­ति­प­त्ति­सा­धानं विधित्सितम् । एवम् , अशे­ष­सं­सा­र­ग­त्यु­प­सं­हारः, कर्मकाण्डस्य एषा निष्ठा — इत्येतद्द्वयं दिदर्शयिषुः आख्यायिकां प्रणयति ॥

श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदमाजगाम स आजगाम जैवलिं प्रवाहणं परिचारयमाणं तमु­दी­क्ष्या­भ्यु­वाद कुमारा३ इति स भो३ इति प्रति­शु­श्रा­वा­नु­शि­ष्टोऽ­न्वसि पित्रेत्योमिति होवाच ॥ १ ॥

श्वेतकेतुः नामतः, अरुणस्यापत्यम् आरुणिः, तस्यापत्यम् आरुणेयः ; ह - शब्दः ऐतिह्यार्थः ; वै निश्चयार्थः ; पित्रा अनुशिष्टः सन् आत्मनो यशःप्रथनाय पञ्चालानां परिषदमाजगाम ; पञ्चालाः प्रसिद्धाः ; तेषां परिषदमागत्य, जित्वा, राज्ञोऽपि परिषदं जेष्यामीति गर्वेण स आजगाम ; जीवलस्यापत्यं जैवलिं पञ्चालराजं प्रवाहणनामानं स्वभृत्यैः परिचारयमाणम् आत्मनः परिचरणं कार­य­न्त­मि­त्ये­तत् ; स राजा पूर्वमेव तस्य विद्या­भि­मा­न­गर्वं श्रुत्वा, विनेतव्योऽयमिति मत्वा, तमुदीक्ष्य उत्प्रेक्ष्य आगतमात्रमेव अभ्युवाद अभ्युक्तवान् , कुमारा३ इति सम्बोध्य ; भर्त्सनार्था प्लुतिः । एवमुक्तः सः प्रतिशुश्राव — भो३ इति । भो३ इति अप्रतिरूपमपि क्षत्त्रियं प्रति उक्तवान् क्रुद्धः सन् । अनुशिष्टः अनुशासितोऽसि भवसि किं पित्रा — इत्युवाच राजा । प्रत्याह इतरः — ओमिति, बाढ­म­नु­शि­ष्टोऽस्मि, पृच्छ यदि संशयस्ते ॥

वेत्थ यथेमाः प्रजाः प्रयत्यो विप्र­ति­प­द्यन्ता३ इति नेति होवाच वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति नेति हैवोवाच वेत्थो यथासौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर्न सम्पूर्यता३ इति नेति हैवोवाच वेत्थो यति­थ्या­मा­हुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति नेति हैवोवाच वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वापि हि न ऋषेर्वचः श्रुतं द्वे सृती अशृणवं पितृणामहं देवानामुत मर्त्यानां ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं चेति नाहमत एकञ्चन वेदेति होवाच ॥ २ ॥

यद्येवम् , वेत्थ विजानासि किम् , यथा येन प्रकारेण इमाः प्रजाः प्रसिद्धाः, प्रयत्यः म्रियमाणाः, विप्र­ति­प­द्यन्ता३ इति विप्रतिपद्यन्ते ; विचारणार्था प्लुतिः ; समानेन मार्गेण गच्छन्तीनां मार्गद्वैविध्यं यत्र भवति, तत्र काश्चित्प्रजा अन्येन मार्गेण गच्छन्ति काश्चिदन्येनेति विप्रतिपत्तिः ; यथा ताः प्रजा विप्र­ति­प­द्यन्ते, तत् किं वेत्थेत्यर्थः । नेति होवाच इतरः । तर्हि वेत्थ उ यथा इमं लोकं पुनः आपद्यन्ता३ इति, पुनरापद्यन्ते, यथा पुनरागच्छन्ति इमं लोकम् । नेति हैवोवाच श्वेतकेतुः । वेत्थ उ यथा असौ लोक एवं प्रसिद्धेन न्यायेन पुनः पुनरसकृत् प्रयद्भिः म्रियमाणैः यथा येन प्रकारेण न सम्पूर्यता३ इति, न सम्पूर्यतेऽसौ लोकः, तत्किं वेत्थ । नेति हैवोवाच । वेत्थ उ यतिथ्यां यत्स­ङ्ख्या­का­याम् आहुत्याम् आहुतौ हुतायम् आपः पुरुषवाचः, पुरुषस्य या वाक् सैव यासां वाक् , ताः पुरुषवाचो भूत्वा पुरुषशब्दवाच्या वा भूत्वा ; यदा पुरु­षा­का­र­प­रि­णताः, तदा पुरुषवाचो भवन्ति ; समुत्थाय सम्यगुत्थाय उद्भूताः सत्यः वदन्ती३ इति । नेति हैवोवाच । यद्येवं वेत्थ उ देवयानस्य पथो मार्गस्य प्रतिपदम् , प्रतिपद्यते येन सा प्रतिपत् तां प्रतिपदम् , पितृयाणस्य वा प्रतिपदम् ; प्रति­प­च्छ­ब्द­वा­च्य­म­र्थ­माह — यत्कर्म कृत्वा यथाविशिष्टं कर्म कृत्वेत्यर्थः, देवयानं वा पन्थानं मार्गं प्रतिपद्यन्ते, पितृयाणं वा यत्कर्म कृत्वा प्रतिपद्यन्ते, तत्कर्म प्रतिपदुच्यते ; तां प्रतिपदं किं वेत्थ, देव­लो­क­पि­तृ­लो­क­प्र­ति­प­त्ति­सा­धनं किं वेत्थेत्यर्थः । अप्यत्र अस्यार्थस्य प्रकाशकम् ऋषेः मन्त्रस्य वचः वाक्यम् नः श्रुतमस्ति, मन्त्रोऽपि अस्यार्थस्य प्रकाशको विद्यत इत्यर्थः । कोऽसौ मन्त्र इत्युच्यते — द्वे सृती द्वौ मार्गावशृणवं श्रुतवानस्मि ; तयोः एका पितृणां प्रापिका पितृ­लो­क­स­म्बद्धा, तया सृत्या पितृलोकं प्राप्नो­ती­त्यर्थः ; अहमशृणवमिति व्यवहितेन सम्बन्धः ; देवानाम् उत अपि देवानां सम्बन्धिनी अन्या, देवान्प्रापयति सा । के पुनः उभाभ्यां सृतिभ्यां पितॄन् देवांश्च गच्छ­न्ती­त्यु­च्यते — उत अपि मर्त्यानां मनुष्याणां सम्बन्धिन्यौ ; मनुष्या एव हि सृतिभ्यां गच्छन्तीत्यर्थः । ताभ्यां सृतिभ्याम् इदं विश्वं समस्तम् एजत् गच्छत् समेति सङ्गच्छते । ते च द्वे सृती यदन्तरा ययोरन्तरा यदन्तरा, पितरं मातरं च, मातापित्रोः अन्तरा मध्ये इत्यर्थः । कौ तौ मातापितरौ ? द्यावापृथिव्यौ अण्डकपाले ; ‘इयं वै माता असौ पिता’(शत. ब्रा. १३ । ३ । ९ । ७) इति हि व्याख्यातं ब्राह्मणेन । अण्ड­क­पा­ल­यो­र्मध्ये संसारविषये एव एते सृती, न आत्य­न्ति­का­मृ­त­त्व­ग­म­नाय । इतर आह — न अहम् अतः अस्मात् प्रश्नसमुदायात् एकञ्चन एकमपि प्रश्नम् , न वेद, नाहं वेदेति होवाच श्वेतकेतुः ॥

अथैनं वस­त्यो­प­म­न्त्र­या­ञ्च­क्रेऽ­ना­दृत्य वसतिं कुमारः प्रदुद्राव स आजगाम पितरं तं होवाचेति वाव किल नो भवा­न्पु­रा­नु­शि­ष्टा­न­वोच इति कथं सुमेध इति पञ्च मा प्रश्ना­न्रा­ज­न्य­ब­न्धु­र­प्रा­क्षी­त्ततो नैकञ्चन वेदेति कतमे त इतीम इति ह प्रती­का­न्यु­दा­ज­हार ॥ ३ ॥

अथ अनन्तरम् अपनीय विद्या­भि­मा­न­ग­र्वम् एनं प्रकृतं श्वेतकेतुम् , वसत्या वसतिप्रयोजनेन उप­म­न्त्र­या­ञ्चक्रे ; इह वसन्तु भवन्तः, पाद्यमर्घ्यं च आनीयताम् — इत्युपमन्त्रणं कृतवान्राजा । अनादृत्य तां वसतिं कुमारः श्वेतकेतुः प्रदुद्राव प्रतिगतवान् पितरं प्रति । स च आजगाम पितरम् , आगत्य च उवाच तम् , कथमिति — वाव किल एवं किल, नः अस्मान् भवान् पुरा समावर्तनकाले अनुशिष्टान् सर्वा­भि­र्वि­द्याभिः अवोचः अवोचदिति । सोपालम्भं पुत्रस्य वचः श्रुत्वा आह पिता — कथं केन प्रकारेण तव दुःखमुपजातम् , हे सुमेधः, शोभना मेधा यस्येति सुमेधाः । शृणु, मम यथा वृत्तम् ; पञ्च पञ्चसङ्ख्याकान् प्रश्नान् मा मां राजन्यबन्धुः राजन्या बन्धवो यस्येति ; परिभववचनमेतत् राजन्यबन्धुरिति ; अप्राक्षीत् पृष्टवान् ; ततः तस्मात् न एकञ्चन एकमपि न वेद न विज्ञातवानस्मि । कतमे ते राज्ञा पृष्टाः प्रश्ना इति पित्रा उक्तः पुत्रः ‘इमे ते’ इति ह प्रतीकानि मुखानि प्रश्नानाम् उदाजहार उदाहृतवान् ॥

स होवाच तथा नस्त्वं तात जानीथा यथा यदहं किञ्च वेद सर्वमहं तत्तुभ्यमवोचं प्रेहि तु तत्र प्रतीत्य ब्रह्मचर्यं वत्स्याव इति भवानेव गच्छत्विति स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेरास तस्मा आस­न­मा­हृ­त्यो­द­क­मा­हा­र­या­ञ्च­का­राथ हास्मा अर्घ्यं चकार तं होवाच वरं भगवते गौतमाय दद्म इति ॥ ४ ॥

स होवाच पिता पुत्रं क्रुद्धमुपशमयन् — तथा तेन प्रकारेण नः अस्मान् त्वम् , हे तात वत्स, जानीथा गृह्णीथाः, यथा यदहं किञ्च विज्ञानजातं वेद सर्वं तत् तुभ्यम् अवोचम् इत्येव जानीथाः ; कोऽन्यो मम प्रियतरोऽस्ति त्वत्तः, यदर्थं रक्षिष्ये ; अहमपि एतत् न जानामि, यत् राज्ञा पृष्टम् ; तस्मात् प्रेहि आगच्छ ; तत्र प्रतीत्य गत्वा राज्ञि ब्रह्मचर्यं वत्स्यावो विद्यार्थमिति । स आह — भवानेव गच्छत्विति, नाहं तस्य मुखं निरी­क्षि­तु­मु­त्सहे । स आजगाम, गौतमः गोत्रतो गौतमः, आरुणिः, यत्र प्रवाहणस्य जैवलेरास आसनम् आस्थायिका ; षष्ठीद्वयं प्रथमास्थाने ; तस्मै गौतमाय आगताय आसनम् अनुरूपम् आहृत्य उदकं भृत्यै­रा­हा­र­या­ञ्च­कार ; अथ ह अस्मै अर्घ्यं पुरोधसा कृतवान् मन्त्रवत् , मधुपर्कं च । कृत्वा चैवं पूजां तं होवाच — वरं भगवते गौतमाय तुभ्यं दद्म इति गोश्वादिलक्षणम् ॥

स होवाच प्रतिज्ञातो म एष वरो यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति ॥ ५ ॥

स होवाच गौतमः — प्रतिज्ञातः मे मम एष वरः त्वया ; अस्यां प्रतिज्ञायां दृढीकुरु आत्मानम् ; यां तु वाचं कुमारस्य मम पुत्रस्य अन्ते समीपे वाचमभाषथाः प्रश्नरूपाम् , तामेव मे ब्रूहि ; स एव नो वर इति ॥

स होवाच दैवेषु वै गौतम तद्वरेषु मानुषाणां ब्रूहीति ॥ ६ ॥

स होवाच राजा — दैवेषु वरेषु तद्वै गौतम, यत् त्वं प्रार्थयसे ; मानुषाणामन्यतमं प्रार्थय वरम् ॥

स होवाच विज्ञायते हास्ति हिर­ण्य­स्या­पात्तं गोअश्वानां दासीनां प्रवाराणां परिदानस्य मा नो भवा­न्ब­हो­र­न­न्त­स्या­प­र्य­न्त­स्या­भ्य­व­दान्यो भूदिति स वै गौतम तीर्थेनेच्छासा इत्युपैम्यहं भवन्तमिति वाचा ह स्मैव पूर्व उपयन्ति स होपा­य­न­की­र्त्यो­वास ॥ ७ ॥

स होवाच गौतमः — भवतापि विज्ञायते ह ममास्ति सः ; न तेन प्रार्थितेन कृत्यं मम, यं त्वं दित्ससि मानुषं वरम् ; यस्मात् ममाप्यस्ति हिरण्यस्य प्रभूतस्य अपात्तं प्राप्तम् ; गोअश्वानाम् अपात्तमस्तीति सर्वत्रानुषङ्गः ; दासीनाम् , प्रवाराणां परिवाराणाम् , परिधानस्य च ; न च यत् मम विद्यमानम् , तत् त्वत्तः प्रार्थनीयम् , त्वया वा देयम् ; प्रतिज्ञातश्च वरः त्वया ; त्वमेव जानीषे, यदत्र युक्तम् , प्रतिज्ञा रक्षणीया तवेति ; मम पुनः अयमभिप्रायः — मा भूत् नः अस्मान् अभि, अस्मानेव केवलान्प्रति, भवान् सर्वत्र वदान्यो भूत्वा, अवदान्यो मा भूत् कदर्यो मा भूदित्यर्थः ; बहोः प्रभूतस्य, अनन्तस्य अन­न्त­फ­ल­स्ये­त्ये­तत् , अपर्यन्तस्य अपरिसमाप्तिकस्य पुत्र­पौ­त्रा­दि­गा­मि­क­स्ये­त्ये­तत् , ईदृशस्य वित्तस्य, मां प्रत्येव केवलम् अदाता मा भूद्भवान् ; न च अन्यत्र अदेयमस्ति भवतः । एवमुक्त आह — स त्वं वै हे गौतम तीर्थेन न्यायेन शास्त्रविहितेन विद्यां मत्तः इच्छासै इच्छ अन्वाप्तुम् ; इत्युक्तो गौतम आह — उपैमि उपगच्छामि शिष्यत्वेन अहं भवन्तमिति । वाचा ह स्मैव किल पूर्वे ब्राह्मणाः क्षत्त्रियान् विद्यार्थिनः सन्तः वैश्यान्वा, क्षत्त्रिया वा वैश्यान् आपदि उपयन्ति शिष्यवृत्त्या हि उपगच्छन्ति, न उपा­य­न­शु­श्रू­षा­दिभिः ; अतः स गौतमः ह उपायनकीर्त्या उप­ग­म­न­की­र्त­न­मा­त्रे­णैव उवास उषितवान् , न उपायनं चकार ॥

स होवाच तथा नस्त्वं गौतम मापराधास्तव च पितामहा यथेयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मण उवास तां त्वहं तुभ्यं वक्ष्यामि को हि त्वैवं ब्रुवन्तमर्हति प्रत्या­ख्या­तु­मिति ॥ ८ ॥

एवं गौतमेन आपदन्तरे उक्ते, स होवाच राजा पीडित मत्वा क्षामयन् — तथा नः अस्मान् प्रति, मा अपराधाः अपराधं मा कार्षीः, अस्मदीयोऽपराधः न ग्रहीतव्य इत्यर्थः ; तव च पितामहाः अस्मा­त्पि­ता­म­हेषु यथा अपराधं न जगृहुः, तथा पितामहानां वृत्तम् अस्मास्वपि भवता रक्ष­णी­य­मि­त्यर्थः । यथा इयं विद्या त्वया प्रार्थिता इतः त्वत्स­म्प्र­दा­ना­त्पू­र्वम् प्राक् न कस्मिन्नपि ब्राह्मणे उवास उषितवती, तथा त्वमपि जानीषे ; सर्वदा क्षत्त्रि­य­प­र­म्प­रया इयं विद्या आगता ; सा स्थितिः मयापि रक्षणीया, यदि शक्यते इति — उक्तम् ‘दैवेषु गौतम तद्वरेषु मानुषाणां ब्रूहि’ इति ; न पुनः तव अदेयो वर इति ; इतः परं न शक्यते रक्षितुम् ; तामपि विद्याम् अहं तुभ्यं वक्ष्यामि । को हि अन्योऽपि हि यस्मात् एवं ब्रूवन्तं त्वाम् अर्हति प्रत्याख्यातुम् — न वक्ष्यामीति ; अहं पुनः कथं न वक्ष्ये तुभ्यमिति ॥

असौ वै लोकोऽग्निर्गौतम तस्यादित्य एव समिद्रश्मयो धूमोऽ­ह­र­र्चि­र्दि­शोऽ­ङ्गारा अवान्तरदिशो विस्फु­लि­ङ्गा­स्त­स्मि­न्ने­त­स्मि­न्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुत्यै सोमो राजा सम्भवति ॥ ९ ॥

असौ वै लोकोऽ­ग्नि­र्गौ­त­मे­त्यादि — चतुर्थः प्रश्नः प्राथम्येन निर्णीयते ; क्रमभङ्गस्तु एत­न्नि­र्ण­या­य­त्त­त्वा­दि­त­र­प्र­श्न­नि­र्ण­यस्य । असौ द्यौर्लोकः अग्निः हे, गौतम ; द्युलोके अग्निदृष्टिः अनग्नौ विधीयते, यथा योषित्पुरुषयोः ; तस्य द्युलोकाग्नेः आदित्य एव समित् , समिन्धनात् ; आदित्येन हि समिध्यते असौ लोकः ; रश्मयो धूमः, समिध उत्था­न­सा­मा­न्यात् ; आदित्याद्धि रश्मयो निर्गताः, समिधश्च धूमो लोके उत्तिष्ठति ; अहः अर्चिः, प्रका­श­सा­मा­न्यात् ; दिशः अङ्गाराः, उपशमसामान्यात् ; अवान्तरदिशो विस्फुलिङ्गाः, विस्फु­लि­ङ्ग­व­द्वि­क्षे­पात् ; तस्मिन् एतस्मिन् एवंगुणविशिष्टे द्युलोकाग्नौ, देवाः इन्द्रादयः, श्रद्धां जुह्वति आहु­ति­द्र­व्य­स्था­नीयां प्रक्षिपन्ति ; तस्या आहुत्याः आहुतेः सोमो राजा पितृणां ब्राह्मणानां च सम्भवति । तत्र के देवाः कथं जुह्वति किं वा श्रद्धाख्यं हविरित्यतः उक्तमस्माभिः सम्बन्धे ; ‘नत्वे­वै­न­यो­स्त्व­मु­त्क्रा­न्तिम्’(शत. ब्रा. ११ । ६ । २ । ४) इत्या­दि­प­दा­र्थ­ष­ट्क­नि­र्ण­या­र्थम् अग्निहोत्रे उक्तम् ; ‘ते वा एते अग्निहोत्राहुती हुते सत्या­वु­त्क्रा­मतः’(शत. ब्रा. ११ । ६ । २ । ६, ७) , ‘ते अन्त­रि­क्ष­मा­वि­शतः’(शत. ब्रा. ११ । ६ । २ । ६) , ‘ते अन्त­रि­क्ष­मा­ह­व­नीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्रा­मा­हु­तिम्’, ‘ते अन्तरिक्षं तर्पयतः’(शत. ब्रा. ११ । ६ । २ । ६) , ‘ते तत उत्क्रामतः’(शत. ब्रा. ११ । ६ । २ । ६) , ‘ते दिवमाविशतः’(शत. ब्रा. ११ । ६ । २ । ७) , ‘ते दिवमाहवनीयं कुर्वाते आदित्यं समिधम्’(शत. ब्रा. ११ । ६ । २ । ७) इत्येवमादि उक्तम् । तत्र अग्निहोत्राहुती ससाधने एव उत्क्रामतः । यथा इह यैः साधनैर्विशिष्टे ये ज्ञायेते आह­व­नी­या­ग्नि­स­मि­द्धू­मा­ङ्गा­र­वि­स्फु­लि­ङ्गा­हु­ति­द्रव्यैः, ते तथैव उत्क्रामतः अस्माल्लोकात् अमुं लोकम् । तत्र अग्निः अग्नित्वेन, समित् समित्त्वेन, धूमो धूमत्वेन, अङ्गाराः अङ्गारत्वेन, विस्फुलिङ्गा विस्फु­लि­ङ्ग­त्वेन, आहुतिद्रव्यमपि पय­आ­द्या­हु­ति­द्र­व्य­त्वे­नैव सर्गादौ अव्या­कृ­ता­व­स्था­या­मपि परेण सूक्ष्मेण आत्मना व्यवतिष्ठते । तत् विद्यमानमेव ससाधनम् अग्नि­हो­त्र­ल­क्षणं कर्म अपूर्वेणात्मना व्यवस्थितं सत् , तत्पुनः व्याकरणकाले तथैव अन्त­रि­क्षा­दी­नाम् आह­व­नी­या­द्य­ग्न्या­दि­भावं कुर्वत् विपरिणमते । तथैव इदानीमपि अग्निहोत्राख्यं कर्म । एवम् अग्नि­हो­त्रा­हु­त्य­पू­र्व­प­रि­णा­मा­त्मकं जगत् सर्वमिति आहुत्योरेव स्तुत्यर्थत्वेन उत्क्रा­न्त्याद्याः लोकं प्रत्यु­त्था­यि­तान्ताः षट् पदार्थाः कर्मप्रकरणे अध­स्ता­न्नि­र्णीताः । इह तु कर्तुः कर्म­वि­पा­क­वि­व­क्षायां द्युलो­का­ग्न्या­द्या­रभ्य पञ्चा­ग्नि­द­र्श­नम् उत्त­र­मा­र्ग­प्र­ति­प­त्ति­सा­धनं विशि­ष्ट­क­र्म­फ­लो­प­भो­गाय विधित्सितमिति द्युलो­का­ग्न्या­दि­द­र्शनं प्रस्तूयते । तत्र ये आध्यात्मिकाः प्राणाः इह अग्निहोत्रस्य होतारः, ते एव आधिदैविकत्वेन परिणताः सन्तः इन्द्रादयो भवन्ति ; त एव तत्र होतारो द्युलोकाग्नौ ; ते च इह अग्निहोत्रस्य फलभोगाय अग्निहोत्रं हुतवन्तः ; ते एव फलपरिणामकालेऽपि तत्फ­ल­भो­क्तृ­त्वात् तत्र तत्र होतृत्वं प्रतिपद्यन्ते, तथा तथा विपरिणममाना देवशब्दवाच्याः सन्तः । अत्र च यत् पयोद्रव्यम् अग्नि­हो­त्र­क­र्मा­श्र­य­भू­तम् इह आहवनीये प्रक्षिप्तम् अग्निना भक्षितम् अदृष्टेन सूक्ष्मेण रूपेण विपरिणतम् सह कर्त्रा यजमानेन अमुं लोकम् धूमादिक्रमेण अन्तरिक्षम् अन्तरिक्षात् द्युलोकम् आविशति ; ताः सूक्ष्मा आपः आहुतिकार्यभूता अग्नि­हो­त्र­स­म­वा­यिन्यः कर्तृसहिताः श्रद्धा­श­ब्द­वाच्याः सोमलोके कर्तुः शरी­रा­न्त­रा­र­म्भाय द्युलोकं प्रविशन्त्यः हूयन्त इत्युच्यन्ते ; ताः तत्र द्युलोकं प्रविश्य सोममण्डले कर्तुः शरीरमारभन्ते । तदेतदुच्यते — ‘देवाः श्रद्धां जुह्वति, तस्या आहुत्यै सोमो राजा सम्भवति’ इति, ‘श्रद्धा वा आपः’(तै. सं. १ । ६ । ८) इति श्रुतेः । ‘वेत्थ यति­थ्या­मा­हुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ति’(बृ. उ. ६ । २ । २) इति प्रश्नः ; तस्य च निर्णयविषये ‘असौ वै लोकोऽग्निः’ इति प्रस्तुतम् ; तस्मात् आपः कर्मसमवायिन्यः कर्तुः शरीरारम्भिकाः श्रद्धा­श­ब्द­वाच्या इति निश्चीयते । भूयस्त्वात् ‘आपः पुरुषवाचः’ इति व्यपदेशः, न तु इतराणि भूतानि न सन्तीति ; कर्मप्रयुक्तश्च शरीरारम्भः ; कर्म च अप्समवायि ; ततश्च अपां प्राधान्यं शरीरकर्तृत्वे ; तेन च ‘आपः पुरुषवाचः’ इति व्यपदेशः ; कर्मकृतो हि जन्मारम्भः सर्वत्र । तत्र यद्यपि अग्नि­हो­त्रा­हु­ति­स्तु­ति­द्वा­रेण उत्क्रा­न्त्या­दयः प्रस्तुताः षट्पदार्था अग्निहोत्रे, तथापि वैदिकानि सर्वाण्येव कर्माणि अग्नि­हो­त्र­प्र­भृ­तीनि लक्ष्यन्ते ; दारा­ग्नि­स­म्बद्धं हि पाङ्क्तं कर्म प्रस्तु­त्यो­क्तम् — ‘कर्मणा पितृलोकः’(बृ. उ. १ । ५ । १६) इति ; वक्ष्यति च — ‘अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति’(बृ. उ. ६ । २ । १५) इति ॥

पर्जन्यो वा अग्निर्गौतम तस्य संवत्सर एव समिदभ्राणि धूमो विद्यु­द­र्चि­र­श­नि­र­ङ्गारा ह्रादुनयो विस्फु­लि­ङ्गा­स्त­स्मि­न्ने­त­स्मि­न्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुत्यै वृष्टिः सम्भवति ॥ १० ॥

१०

पर्जन्यो वा अग्निर्गौतम, द्वितीय आहुत्याधारः आहु­त्यो­रा­वृ­त्ति­क्र­मेण । पर्जन्यो नाम वृष्ट्यु­प­क­र­णा­भि­मानी देवतात्मा । तस्य संवत्सर एव समित् ; संवत्सरेण हि शर­दा­दि­भि­र्ग्री­ष्मान्तैः स्वाव­य­वै­र्वि­प­रि­व­र्त­मा­नेन पर्ज­न्योऽ­ग्नि­र्दी­प्यते । अभ्राणि धूमः, धूमप्रभवत्वात् धूम­व­दु­प­ल­क्ष्य­त्वाद्वा । विद्युत् अर्चिः, प्रका­श­सा­मा­न्यात् । अशनिः अङ्गाराः, उप­शा­न्त­का­ठि­न्य­सा­मा­न्या­भ्याम् । ह्रादुनयः ह्लादुनयः स्तन­यि­त्नु­शब्दाः विस्फुलिङ्गाः, विक्षे­पा­ने­क­त्व­सा­मा­न्यात् । तस्मि­न्ने­त­स्मि­न्निति आहु­त्य­धि­क­र­ण­नि­र्देशः । देवा इति, ते एव होतारः सोमं राजानं जुह्वति ; योऽसौ द्युलोकाग्नौ श्रद्धायां हुता­या­म­भि­नि­र्वृत्तः सोमः, स द्वितीये पर्जन्याग्नौ हूयते ; तस्याश्च सोमा­हु­ते­र्वृष्टिः सम्भवति ॥

अयं वै लोकोऽग्निर्गौतम तस्य पृथिव्येव समिदग्निर्धूमो रात्रि­र­र्चि­श्च­न्द्रमा अङ्गारा नक्षत्राणि विस्फु­लि­ङ्गा­स्त­स्मि­न्ने­त­स्मि­न्नग्नौ देवा वृष्टिं जुह्वति तस्या आहुत्या अन्नं सम्भवति ॥ ११ ॥

११

अयं वै लोकोऽग्निर्गौतम । अयं लोक इति प्राणि­ज­न्मो­प­भो­गा­श्रयः क्रिया­का­र­क­फ­ल­वि­शिष्टः, स तृतीयोऽग्निः । तस्याग्नेः पृथिव्येव समित् ; पृथिव्या हि अयं लोकः अने­क­प्रा­ण्यु­प­भो­ग­स­म्प­न्नया समिध्यते । अग्निः धूमः, पृथि­व्या­श्र­यो­त्था­न­सा­मा­न्यात् ; पार्थिवं हि इन्धनद्रव्यम् आश्रित्य अग्निः उत्तिष्ठति, यथा समिदाश्रयेण धूमः । रात्रिः अर्चिः, समि­त्स­म्ब­न्ध­प्र­भ­व­सा­मा­न्यात् ; अग्नेः समित्सम्बन्धेन हि अर्चिः सम्भवति, तथा पृथि­वी­स­मि­त्स­म्ब­न्धेन शर्वरी ; पृथिवीछायां हि शार्वरं तम आचक्षते । चन्द्रमा अङ्गाराः, तत्प्र­भ­व­त्व­सा­मा­न्यात् ; अर्चिषो हि अङ्गाराः प्रभवन्ति, तथा रात्रौ चन्द्रमाः ; उप­शा­न्त­त्व­सा­मा­न्याद्वा । नक्षत्राणि विस्फुलिङ्गाः, विस्फु­लि­ङ्ग­व­द्वि­क्षे­प­सा­मा­न्यात् । तस्मि­न्ने­त­स्मि­न्नि­त्यादि पूर्ववत् । वृष्टिं जुह्वति, तस्या आहुतेः अन्नं सम्भवति, वृष्टि­प्र­भ­व­त्वस्य प्रसिद्धत्वात् व्रीहि­य­वा­दे­र­न्नस्य ॥

पुरुषो वा अग्निर्गौतम तस्य व्यात्तमेव समित्प्राणो धूमो वाग­र्चि­श्च­क्षु­र­ङ्गाराः श्रोत्रं विस्फु­लि­ङ्गा­स्त­स्मि­न्ने­त­स्मि­न्नग्नौ देवा अन्नं जुह्वति तस्या आहुत्यै रेतः सम्भवति ॥ १२ ॥

१२

पुरुषो वा अग्निर्गौतम ; प्रसिद्धः शिरः­पा­ण्या­दि­मान् पुरुषः चतुर्थोऽग्निः तस्य व्यात्तं विवृतं मुखं समित् ; विवृतेन हि मुखेन दीप्यते पुरुषः वच­न­स्वा­ध्या­यादौ, यथा समिधा अग्निः । प्राणो धूमः तदु­त्था­न­सा­मा­न्यात् ; मुखाद्धि प्राण उत्तिष्ठति । वाक् शब्दः अर्चिः व्यञ्ज­क­त्व­सा­मा­न्यात् ; अर्चिश्च व्यञ्जकम् , तथा वाक् शब्दः अभिधेयव्यञ्जकः । चक्षुः अङ्गाराः, उपशमसामान्यात् प्रका­शा­श्र­य­त्वाद्वा । श्रोत्रं विस्फुलिङ्गाः, विक्षे­प­सा­मा­न्यात् । तस्मिन् अन्नं जुह्वति । ननु नैव देवा अन्नमिह जुह्वतो दृश्यन्ते — नैष दोषः, प्राणानां देवत्वोपपत्तेः ; अधिदैवम् इन्द्रादयो देवाः ; ते एव अध्यात्मं प्राणाः ; ते च अन्नस्य पुरुषे प्रक्षेप्तारः ; तस्या आहुतेः रेतः सम्भवति ; अन्नपरिणामो हि रेतः ॥

योषा वा अग्निर्गौतम तस्या उपस्थ एव समिल्लोमानि धूमो योनि­र­र्चि­र्य­दन्तः करोति तेऽङ्गारा अभिनन्दा विस्फु­लि­ङ्गा­स्त­स्मि­न्ने­त­स्मि­न्नग्नौ देवा रेतो जुह्वति तस्या आहुत्यै पुरुषः सम्भवति स जीवति यावज्जीवत्यथ यदा म्रियते ॥ १३ ॥

१३

योषा वा अग्निर्गौतम । योषेति स्त्री पञ्चमो होमाधिकरणम् अग्निः तस्याः उपस्थ एव समित् ; तेन हि सा समिध्यते । लोमानि धूमः, तदु­त्था­न­सा­मा­न्यात् । योनिः अर्चिः, वर्णसामान्यात् । यदन्तः करोति, तेऽङ्गाराः ; अन्तःकरणं मैथुनव्यापारः, तेऽङ्गाराः, वीर्यो­प­श­म­हे­तु­त्व­सा­मा­न्यात् ; वीर्या­द्यु­प­श­म­का­रणं मैथुनम् , तथा अङ्गारभावः अग्ने­रु­प­श­म­का­र­णम् । अभिनन्दाः सुखलवाः क्षुद्र­त्व­सा­मा­न्यात् विस्फुलिङ्गाः । तस्मिन् रेतो जुह्वति । तस्या आहुतेः पुरुषः सम्भवति । एवं द्युप­र्ज­न्या­यं­लो­क­पु­रु­ष­यो­षा­ग्निषु क्रमेण हूयमानाः श्रद्धा­सो­म­वृ­ष्ट्य­न्न­रे­तो­भा­वेन स्थूल­ता­र­त­म्य­क्र­म­मा­प­द्य­मानाः श्रद्धा­श­ब्द­वाच्या आपः पुरु­ष­श­ब्द­मा­र­भन्ते । यः प्रश्नः चतुर्थः ‘वेत्थ यति­थ्या­मा­हुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३’(बृ. उ. ६ । २ । २) इति, स एष निर्णीतः — पञ्चम्यामाहुतौ योषाग्नौ हुतायां रेतोभूता आपः पुरुषवाचो भवन्तीति । स पुरुषः एवं क्रमेण जातो जीवति ; कियन्तं कालमित्युच्यते — यावज्जीवति यावदस्मिन् शरीरे स्थितिनिमित्तं कर्म विद्यते, तावदित्यर्थः । अथ तत्क्षये यदा यस्मिन्काले म्रियते ॥

अथैनमग्नये हरन्ति तस्या­ग्नि­रे­वा­ग्नि­र्भ­वति समित्समिद्धूमो धूमोऽ­र्चि­र­र्चि­र­ङ्गारा विस्फुलिङ्गा विस्फु­लि­ङ्गा­स्त­स्मि­न्ने­त­स्मि­न्नग्नौ देवाः पुरुषं जुह्वति तस्या आहुत्यै पुरुषो भास्वरवर्णः सम्भवति ॥ १४ ॥

१४

अथ तदा एनं मृतम् अग्नये अग्न्यर्थमेव अन्त्याहुत्यै हरन्ति ऋत्विजः ; तस्य आहुतिभूतस्य प्रसिद्धः अग्निरेव होमाधिकरणम् , न परि­क­ल्प्योऽग्निः ; प्रसिद्धैव समित् समित् ; धूमो धूमः ; अर्चिः अर्चिः ; अङ्गारा अङ्गाराः ; विस्फुलिङ्गा विस्फुलिङ्गाः ; यथाप्रसिद्धमेव सर्वमित्यर्थः । तस्मिन् पुरुषम् अन्त्याहुतिं जुह्वति ; तस्यै आहुत्यै आहुतेः, पुरुषः भास्वरवर्णः अतिशयदीप्तिमान् , निषे­का­दि­भि­र­न्त्या­हु­त्यन्तैः कर्मभिः संस्कृतत्वात् , सम्भवति निष्पद्यते ॥

ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चि­र­भि­स­म्भ­व­न्त्य­र्चि­षोऽ­ह­रह्न आपू­र्य­मा­ण­प­क्ष­मा­पू­र्य­मा­ण­प­क्षा­द्या­न्ष­ण्मा­सा­नु­द­ङ्ङा­दित्य एति मासेभ्यो देवलोकं देव­लो­का­दा­दि­त्य­मा­दि­त्या­द्वै­द्युतं तान्वै­द्यु­ता­न्पु­रुषो मानस एत्य ब्रह्म­लो­का­न्ग­म­यति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति तेषां न पुनरावृत्तिः ॥ १५ ॥

१५

इदानीं प्रथ­म­प्र­श्न­नि­रा­क­र­णा­र्थ­माह — ते ; के ? ये एवं यथोक्तं पञ्चा­ग्नि­द­र्श­न­मे­तत् विदुः ; एवंशब्दात् अग्नि­स­मि­द्धू­मा­र्चि­र­ङ्गा­र­वि­स्फु­लि­ङ्ग­श्र­द्धा­दि­वि­शिष्टाः पञ्चाग्नयो निर्दिष्टाः ; तान् एवम् एतान् पञ्चाग्नीन् विदुरित्यर्थः ॥

ननु अग्नि­हो­त्रा­हु­ति­द­र्श­न­वि­ष­य­मेव एतद्दर्शनम् ; तत्र हि उक्तम् उत्क्रा­न्त्या­दि­प­दा­र्थ­ष­ट्क­नि­र्णये ‘दिवमेवाहवनीयं कुर्वाते’(शत. ब्रा. ११ । ६ । २ । ७) इत्यादि ; इहापि अमुष्य लोक­स्या­ग्नि­त्वम् , आदित्यस्य च समि­त्त्व­मि­त्यादि बहु साम्यम् ; तस्मात् तच्छेषमेव एतद्दर्शनमिति — न, यतिथ्यामिति प्रश्न­प्र­ति­व­च­न­प­रि­ग्र­हात् ; यतिथ्यामित्यस्य प्रश्नस्य प्रतिवचनस्य यावदेव परिग्रहः, तावदेव एवंशब्देन पराम्रष्टुं युक्तम् , अन्यथा प्रश्ना­न­र्थ­क्यात् ; निर्ज्ञा­त­त्वाच्च सङ्ख्यायाः अग्नय एव वक्तव्याः ; अथ निर्ज्ञा­त­म­प्य­नू­द्यते, यथाप्राप्तस्यैव अनुवदनं युक्तम् , न तु ‘असौ लोकोऽग्निः’ इति ; अथ उपलक्षणार्थः, तथापि आद्येन अन्त्येन च उपलक्षणं युक्तम् । श्रुत्यन्तराच्च ; समाने हि प्रकरणे छान्दोग्यश्रुतौ ‘पञ्चा­ग्नी­न्वेद’(छा. उ. ५ । १० । १०) इति पञ्चसङ्ख्याया एवोपादानात् अन­ग्नि­हो­त्र­शे­षम् एतत् पञ्चा­ग्नि­द­र्श­नम् । यत्तु अग्नि­स­मि­दा­दि­सा­मा­न्यम् , तत् अग्नि­हो­त्र­स्तु­त्य­र्थ­मि­त्य­वो­चाम ; तस्मात् न उत्क्रा­न्त्या­दि­प­दा­र्थ­ष­ट्क­प­रि­ज्ञा­नात् अर्चि­रा­दि­प्र­ति­पत्तिः, एवमिति प्रकृतोपादानेन अर्चि­रा­दि­प्र­ति­प­त्ति­वि­धा­नात् ॥

के पुनस्ते, ये एवं विदुः ? गृहस्था एव । ननु तेषां यज्ञादिसाधनेन धूमा­दि­प्र­ति­पत्तिः विधित्सिता — न, अनेवंविदामपि गृहस्थानां यज्ञा­दि­सा­ध­नो­प­पत्तेः, भिक्षु­वा­न­प्र­स्थ­योश्च अरण्यसम्बन्धेन ग्रहणात् , गृह­स्थ­क­र्म­स­म्ब­द्ध­त्वाच्च पञ्चा­ग्नि­द­र्श­नस्य । अतः नापि ब्रह्मचारिणः ‘एवं विदुः’ इति गृह्यन्ते ; तेषां तु उत्तरे पथि प्रवेशः स्मृति­प्रा­मा­ण्यात् — ‘अष्टा­शी­ति­स­ह­स्रा­णा­मृ­षी­णा­मू­र्ध्व­रे­त­साम् । उत्तरेणार्यम्णः पन्था­स्तेऽ­मृ­तत्वं हि भेजिरे’(?) इति । तस्मात् ये गृहस्थाः एवम् — अग्निजोऽहम् , अग्न्यपत्यम् — इति, एवम् क्रमेण अग्निभ्यो जातः अग्निरूपः इत्येवम् , ये विदुः, ते च, ये च अमी अरण्ये वानप्रस्थाः परि­व्रा­ज­का­श्चा­र­ण्य­नित्याः, श्रद्धां श्रद्धायुक्ताः सन्तः, सत्यं ब्रह्म हिर­ण्य­ग­र्भा­त्मा­न­मु­पा­सते, न पुनः श्रद्धां च उपासते, ते सर्वेऽ­र्चि­र­भि­स­म्भ­वन्ति । यावत् गृहस्थाः पञ्चा­ग्नि­विद्यां सत्यं वा ब्रह्म न विदुः, तावत् श्रद्धा­द्या­हु­ति­क्र­मेण पञ्चम्यामाहुतौ हुतायां ततो योषा­ग्ने­र्जाताः, पुनर्लोकं प्रत्युत्थायिनः अग्नि­हो­त्रा­दि­क­र्मा­नु­ष्ठा­तारो भवन्ति ; तेन कर्मणा धूमादिक्रमेण पुनः पितृलोकम् , पुनः पर्ज­न्या­दि­क्र­मेण इमम् आवर्तन्ते । ततः पुन­र्यो­षा­ग्ने­र्जाताः पुनः कर्म कृत्वा — इत्येवमेव घटीयन्त्रवत् गत्यागतिभ्यां पुनः पुनः आवर्तन्ते । यदा तु एवं विदुः, ततो घटी­य­न्त्र­भ्र­म­णा­द्वि­नि­र्मुक्ताः सन्तः अर्चि­र­भि­स­म्भ­वन्ति ; अर्चिरिति न अग्नि­ज्वा­ला­मा­त्रम् , किं तर्हि अर्चिरभिमानिनी अर्चिः­श­ब्द­वाच्या देवता उत्त­र­मा­र्ग­ल­क्षणा व्यवस्थितैव ; तामभिसम्भवन्ति ; न हि परिव्राजकानाम् अग्न्यर्चिषैव साक्षा­त्स­म्ब­न्धोऽस्ति ; तेन देवतैव परिगृह्यते अर्चिः­श­ब्द­वाच्या । अतः अहर्देवताम् ; मर­ण­का­ल­नि­य­मा­नु­प­पत्तेः अहःशब्दोऽपि देवतैव ; आयुषः क्षये हि मरणम् ; न हि एवंविदा अहन्येव मर्तव्यमिति अहः मरणकालो नियन्तुं शक्यते ; न च रात्रौ प्रेताः सन्तः अहः प्रतीक्षन्ते, ‘स याव­त्क्षि­प्ये­त्म­न­स्ता­व­दा­दित्यं गच्छति’(छा. उ. ८ । ६ । ५) इति श्रुत्यन्तरात् । अह्न आपूर्यमाणपक्षम् , अहर्देवतया अतिवाहिता आपू­र्य­मा­ण­प­क्ष­दे­वतां प्रतिपद्यन्ते, शुक्ल­प­क्ष­दे­व­ता­मि­त्ये­तत् । आपू­र्य­मा­ण­प­क्षात् यान् षण्मासान् उदङ् उत्तरां दिशम् आदित्यः सविता एति, तान्मा­सा­न्प्र­ति­प­द्यन्ते शुक्लपक्षदेवतया अतिवाहिताः सन्तः ; मासानिति बहुवचनात् सङ्घचारिण्यः षट् उत्तरायणदेवताः ; तेभ्यो मासेभ्यः षण्मा­स­दे­व­ता­भि­र­ति­वा­हिताः देव­लो­का­भि­मा­निनीं देवतां प्रतिपद्यन्ते । देवलोकात् आदित्यम् ; आदित्यात् वैद्युतं विद्यु­द­भि­मा­निनीं देवतां प्रतिपद्यन्ते । विद्युद्देवतां प्राप्तान् ब्रह्मलोकवासी पुरुषः ब्रह्मणा मनसा सृष्टो मानसः कश्चित् एत्य आगत्य ब्रह्म­लो­का­न्ग­म­यति ; ब्रह्मलोकानिति अध­रो­त्त­र­भू­मि­भे­देन भिन्ना इति गम्यन्ते, बहुवचनप्रयोगात् , उपा­स­न­ता­र­त­म्यो­प­प­त्तेश्च । ते तेन पुरुषेण गमिताः सन्तः, तेषु ब्रह्मलोकेषु पराः प्रकृष्टाः सन्तः, स्वयं परावतः प्रकृष्टाः समाः संवत्सराननेकान् वसन्ति, ब्रह्म­णोऽ­ने­का­न्क­ल्पा­न्व­स­न्ती­त्यर्थः । तेषां ब्रह्मलोकं गतानां नास्ति पुनरावृत्तिः अस्मिन्संसारे न पुनरागमनम् , ‘इह’ इति शाखान्तरपाठात् ; इहेति आकृ­ति­मा­त्र­ग्र­ह­ण­मिति चेत् , ‘श्वोभूते पौर्णमासीम्’(?)‘श्वोभूते पौर्णमासीम्’(?) इति यद्वत् — न, इहे­ति­वि­शे­ष­णा­न­र्थ­क्यात् , यदि हि नावर्तन्त एव इह­ग्र­ह­ण­म­न­र्थ­क­मेव स्यात् ; ‘श्वोभूते पौर्णमासीम्’ इत्यत्र पौर्णमास्याः श्वोभू­त­त्व­म­नुक्तं न ज्ञायत इति युक्तं विशेषयितुम् ; न हि तत्र श्वआकृतिः शब्दार्थो विद्यत इति श्वःशब्दो निरर्थक एव प्रयुज्यते ; यत्र तु विशेषणशब्दे प्रयुक्ते अन्विष्यमाणे विशेषणफलं चेन्न गम्यते, तत्र युक्तो निरर्थकत्वेन उत्स्रष्टुं विशेषणशब्दः ; न तु सत्यां विशेषणफलागतौ । तस्मात् अस्मा­त्क­ल्पा­दू­र्ध्वम् आवृत्तिर्गम्यते ॥

अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रे­र­प­क्षी­य­मा­ण­प­क्ष­म­प­क्षी­य­मा­ण­प­क्षा­द्या­न्ष­ण्मा­सा­न्द­क्षि­णा­दित्य एति मासेभ्यः पितृलोकं पितृ­लो­का­च्चन्द्रं ते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्र देवा यथा सोमं राजा­न­मा­प्या­य­स्वा­प­क्षी­य­स्वे­त्ये­व­मे­नां­स्तत्र भक्षयन्ति तेषां यदा तत्प­र्य­वै­त्य­थे­म­मे­वा­का­श­म­भि­नि­ष्प­द्यन्त आकाशाद्वायुं वायोर्वृष्टिं वृष्टेः पृथिवीं ते पृथिवीं प्राप्यान्नं भवन्ति ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते लोका­न्प्र­त्यु­त्था­यि­नस्य एव­मे­वा­नु­प­रि­व­र्त­न्तेऽथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम् ॥ १६ ॥

१६

अथ पुनः ये नैवं विदुः, उत्क्रा­न्त्या­द्य­ग्नि­हो­त्र­स­म्ब­द्ध­प­दा­र्थ­ष­ट्क­स्यैव वेदितारः केवलकर्मिणः, यज्ञे­ना­ग्नि­हो­त्रा­दिना, दानेन बहिर्वेदि भिक्षमाणेषु द्रव्य­सं­वि­भा­ग­ल­क्ष­णेन, तपसा बहिर्वेद्येव दीक्षा­दि­व्य­ति­रि­क्तेन कृच्छ्र­चा­न्द्रा­य­णा­दिना, लोकान् जयन्ति ; लोकानिति बहुवचनात् तत्रापि फल­ता­र­त­म्य­म­भि­प्रे­तम् । ते धूममभिसम्भवन्ति ; उत्तरमार्ग इव इहापि देवता एव धूमा­दि­श­ब्द­वाच्याः, धूमदेवतां प्रतिपद्यन्त इत्यर्थः ; आतिवाहिकत्वं च देवतानां तद्वदेव । धूमात् रात्रिं रात्रिदेवताम् , ततः अप­क्षी­य­मा­ण­प­क्षम् अप­क्षी­य­मा­ण­प­क्ष­दे­व­ताम् , ततो यान्षण्मासान् दक्षिणां दिशमादित्य एति तान् मास­दे­व­ता­वि­शे­षान् प्रतिपद्यन्ते । मासेभ्यः पितृलोकम् , पितृ­लो­का­च्च­न्द्रम् । ते चन्द्रं प्राप्य अन्नं भवन्ति ; तान् तत्रान्नभूतान् , यथा सोमं राजानमिह यज्ञे ऋत्विजः आप्यायस्व अपक्षीयस्वेति भक्षयन्ति, एवम् एनान् चन्द्रं प्राप्तान् कर्मिणः भृत्यानिव स्वामिनः भक्षयन्ति उपभुञ्जते देवाः ; ‘आप्या­य­स्वा­प­क्षी­यस्व’ इति न मन्त्रः ; किं तर्हि आप्याय्य आप्याय्य चमसस्थम् , भक्षणेन अपक्षयं च कृत्वा, पुनः पुन­र्भ­क्ष­य­न्ती­त्यर्थः ; एवं देवा अपि सोमलोके लब्धशरीरान् कर्मिणः उपकरणभूतान् पुनः पुनः विश्रामयन्तः कर्मानुरूपं फलं प्रयच्छन्तः — तद्धि तेषामाप्यायनं सोमस्य आप्यायनमिव उपभुञ्जते उपकरणभूतान् देवाः । तेषां कर्मिणाम् यदा यस्मिन्काले, तत् यज्ञ­दा­ना­दि­ल­क्षणं सोमलोकप्रापकं कर्म, पर्यवैति परिगच्छति परिक्षीयत इत्यर्थः, अथ तदा इममेव प्रसि­द्ध­मा­का­श­म­भि­नि­ष्प­द्यन्ते ; यास्ताः श्रद्धा­श­ब्द­वाच्या द्युलोकाग्नौ हुता आपः सोमाकारपरिणताः, याभिः सोमलोके कर्मिणामुपभोगाय शरीरमारब्धम् अम्मयम् , ताः कर्मक्षयात् हिमपिण्ड इवातपसम्पर्कात् प्रविलीयन्ते ; प्रविलीनाः सूक्ष्मा आकाशभूता इव भवन्ति ; तदिदमुच्यते — ‘इम­मे­वा­का­श­म­भि­नि­ष्प­द्यन्ते’ इति । ते पुनरपि कर्मिणः तच्छरीराः सन्तः पुरोवातादिना इतश्च अमुतश्च नीयन्ते अन्तरिक्षगाः ; तदाह — आकाशाद्वायुमिति । वायोर्वृष्टिं प्रतिपद्यन्ते ; तदुक्तम् — पर्जन्याग्नौ सोमं राजानं जुह्वतीति । ततो वृष्टिभूता इमां पृथिवीं पतन्ति । ते पृथिवीं प्राप्य व्रीहियवादि अन्नं भवन्ति ; तदुक्तम् — अस्मिं­ल्लो­केऽग्नौ वृष्टिं जुह्वति तस्या आहुत्या अन्नं सम्भवतीति । ते पुनः पुरुषाग्नौ हूयन्ते अन्नभूता रेतःसिचि ; ततो रेतोभूता योषाग्नौ हूयन्ते ; ततो जायन्ते ; लोकं प्रत्युत्थायिनः ते लोकं प्रत्यु­त्ति­ष्ठन्तः अग्नि­हो­त्रा­दि­कर्म अनुतिष्ठन्ति । ततो धूमादिना पुनः पुनः सोमलोकम् , पुनरिमं लोकमिति — ते एवं कर्मिणः अनुपरिवर्तन्ते घटीयन्त्रवत् चक्रीभूता बम्भ्र­म­ती­त्यर्थः, उत्तरमार्गाय सद्योमुक्तये वा यावद्ब्रह्म न विदुः ; ‘इति नु कामयमानः संसरति’(बृ. उ. ४ । ४ । ६) इत्युक्तम् । अथ पुनः ये उत्तरं दक्षिणं च एतौ पन्थानौ न विदुः, उत्तरस्य दक्षिणस्य वा पथः प्रतिपत्तये ज्ञानं कर्म वा नानु­ति­ष्ठ­न्ती­त्यर्थः ; ते किं भवन्तीत्युच्यते — ते कीटाः पतङ्गाः, यदिदं यच्चेदं दन्दशूकं दंशमशकमित्येतत् , भवन्ति । एवं हि इयं संसारगतिः कष्टा, अस्यां निमग्नस्य पुनरुद्धार एव दुर्लभः । तथा च श्रुत्यन्तरम् — ‘तानीमानि क्षुद्रा­ण्य­स­कृ­दा­व­र्तीनि भूतानि भवन्ति जायस्व म्रियस्व’(छा. उ. ५ । १ । ८) इति । तस्मा­त्स­र्वो­त्सा­हेन यथाशक्ति स्वाभा­वि­क­क­र्म­ज्ञा­न­हा­नेन दक्षि­णो­त्त­र­मा­र्ग­प्र­ति­प­त्ति­सा­धनं शास्त्रीयं कर्म ज्ञानं वा अनुतिष्ठेदिति वाक्यार्थः ; तथा चोक्तम् — ‘अतो वै खलु दुर्निष्प्रपतरं तस्मा­ज्जु­गु­प्सेत’(छा. उ. ५ । १० । ६) इति श्रुत्यन्तरात् मोक्षाय प्रयतेतेत्यर्थः । अत्रापि उत्त­र­मा­र्ग­प्र­ति­प­त्ति­सा­धन एव महान् यत्नः कर्तव्य इति गम्यते, ‘एव­मे­वा­नु­प­रि­व­र्तन्ते’ इत्युक्तत्वात् । एवं प्रश्नाः सर्वे निर्णीताः ; ‘असौ वै लोकः’(बृ. उ. ६ । २ । ९) इत्यारभ्य ‘पुरुषः सम्भवति’(बृ. उ. ६ । २ । १३) इति चतुर्थः प्रश्नः ‘यति­थ्या­मा­हु­त्याम्’(बृ. उ. ६ । २ । २) इत्यादिः प्राथम्येन ; पञ्चमस्तु द्वितीयत्वेन देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वेति दक्षि­णो­त्त­र­मा­र्ग­प्र­ति­प­त्ति­सा­ध­न­क­थ­नेन ; तेनैव च प्रथमोऽपि — अग्नेरारभ्य केचिदर्चिः प्रतिपद्यन्ते केचिद्धूममिति विप्रतिपत्तिः ; पुनरावृत्तिश्च द्वितीयः प्रश्नः — आका­शा­दि­क्र­मे­णेमं लोकमागच्छन्तीति ; तेनैव — असौ लोको न सम्पूर्यते कीट­प­त­ङ्गा­दि­प्र­ति­प­त्तेश्च केषाञ्चिदिति, तृतीयोऽपि प्रश्नो निर्णीतः ॥

इति षष्ठाध्यायस्य द्वितीयं ब्राह्मणम् ॥

तृतीयं ब्राह्मणम्

स यः कामयेत मह­त्प्रा­प्नु­या­मि­त्यु­द­ग­यन आपू­र्य­मा­ण­प­क्षस्य पुण्याहे द्वाद­शा­ह­मु­प­स­द्व्रती भूत्वौदुम्बरे कंसे चमसे वा सर्वौषधं फलानीति सम्भृत्य परिसमुह्य परि­लि­प्या­ग्नि­मु­प­स­मा­धाय परि­स्ती­र्या­वृ­ताज्यं संस्कृत्य पुंसा नक्षत्रेण मन्थं सन्नीय जुहोति । यावन्तो देवास्त्वयि जात­वे­द­स्ति­र्यञ्चो घ्नन्ति पुरुषस्य कामान् । तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः सर्वैः कामैस्तर्पयन्तु स्वाहा । या तिरश्ची निपद्यतेऽहं विधरणी इति तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा ॥ १ ॥

स यः कामयेत । ज्ञान­क­र्म­णो­र्ग­ति­रुक्ता ; तत्र ज्ञानं स्वतन्त्रम् ; कर्म तु दैव­मा­नु­ष­वि­त्त­द्व­या­य­त्तम् ; तेन कर्मार्थं वित्त­मु­पा­र्ज­नी­यम् ; तच् च अप्र­त्य­वा­य­का­रि­णो­पा­ये­नेति तदर्थं मन्थाख्यं कर्म आरभ्यते मह­त्त्व­प्रा­प्तये ; महत्त्वे च सति अर्थसिद्धं हि वित्तम् । तदुच्यते — स यः कामयेत, स यो वित्तार्थी कर्मण्यधिकृतः यः कामयेत ; किम् ? महत् महत्त्वम् प्राप्नुयाम् , महा­न्स्या­मि­ती­त्यर्थः । तत्र मन्थकर्मणो विधित्सितस्य कालोऽभिधीयते — उदगयने आदित्यस्य ; तत्र सर्वत्र प्राप्तौ आपू­र्य­मा­ण­प­क्षस्य शुक्लपक्षस्य ; तत्रापि सर्वत्र प्राप्तौ, पुण्याहे अनुकूले आत्मनः कर्मसिद्धिकर इत्यर्थः ; द्वादशाहम् , यस्मि­न्पु­ण्येऽ­नु­कूले कर्म चिकीर्षति ततः प्राक् पुण्याहमेवारभ्य द्वादशाहम् , उपसद्व्रती, उपसत्सु व्रतम् , उपसदः प्रसिद्धा ज्योतिष्टोमे, तत्र च स्तनो­प­च­या­प­च­य­द्वा­रेण पयोभक्षणं तद्व्रतम् ; अत्र च तत्क­र्मा­नु­प­सं­हा­रात् केव­ल­मि­ति­क­र्त­व्य­ता­शून्यं पयो­भ­क्ष­ण­मा­त्र­मु­पा­दी­यते ; ननु उपसदो व्रतमिति यदा विग्रहः, तदा सर्व­मि­ति­क­र्त­व्य­ता­रूपं ग्राह्यं भवति, तत् कस्मात् न परिगृह्यत इत्युच्यते — स्मार्त­त्वा­त्क­र्मणः ; स्मार्तं हीदं मन्थकर्म । ननु श्रुतिविहितं सत् कथं स्मार्तं भवितुमर्हति — स्मृत्यनुवादिनी हि श्रुतिरियम् ; श्रौतत्वे हि प्रकृ­ति­वि­का­र­भावः ; ततश्च प्राकृ­त­ध­र्म­ग्रा­हित्वं विकारकर्मणः ; न तु इह श्रौतत्वम् ; अत एव च आवसथ्याग्नौ एतत्कर्म विधीयते, सर्वा च आवृत् स्मार्तैवेति । उपसद्व्रती भूत्वा पयोव्रती सन्नित्यर्थः औदुम्बरे उदु­म्ब­र­वृ­क्ष­मये, कंसे चमसे वा, तस्यैव विशेषणम् — कंसाकारे चमसाकरे वा औदुम्बर एव ; आकारे तु विकल्पः, न औदुम्बरत्वे । अत्र सर्वौषधं सर्वासामोषधीनां समूहं यथासम्भवं यथाशक्ति च सर्वा ओषधीः समाहृत्य ; तत्र ग्राम्याणां तु दश नियमेन ग्राह्या व्रीहियवाद्या वक्ष्यमाणाः ; अधिकग्रहणे तु न दोषः ; ग्राम्याणां फलानि च यथासम्भवं यथाशक्ति च ; इतिशब्दः सम­स्त­स­म्भा­रो­प­च­य­प्र­द­र्श­नार्थः ; अन्यदपि यत्सम्भरणीयं तत्सर्वं सम्भृ­त्ये­त्यर्थः ; क्रमस्तत्र गृह्योक्तो द्रष्टव्यः । परि­स­मू­ह­न­प­रि­ले­पने भूमिसंस्कारः । अग्नि­मु­प­स­मा­धा­येति वचनात् आव­स­थ्येऽ­ग्ना­विति गम्यते, एकवचनात् उप­स­मा­धा­न­श्र­व­णाच्च ; विद्यमानस्यैव उपसमाधानम् ; परिस्तीर्य दर्भान् ; आवृता — स्मार्त­त्वा­त्क­र्मणः स्थालीपाकावृत् परिगृह्यते — तया आज्यं संस्कृत्य ; पुंसा नक्षत्रेण पुन्नाम्ना नक्षत्रेण पुण्या­ह­सं­यु­क्तेन, मन्थं सर्वौषधफलपिष्टं तत्रौदुम्बरे चमसे दधनि मधुनि घृते च उपसिच्य एकया उपमन्थन्या उपसम्मथ्य, सन्नीय मध्ये संस्थाप्य, औदुम्बरेण स्रुवेण आवापस्थाने आज्यस्य जुहोति एतैर्मन्त्रैः ‘यावन्तो देवाः’ इत्याद्यैः ॥

ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति चक्षुषे स्वाहा सम्पदे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति श्रोत्राय स्वाहायतनाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति रेतसे स्वाहेत्यग्नौ हुत्वा संस्रवमवनयति ॥ २ ॥

अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति सोमाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भूः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भुवः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भूर्भुवःस्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ब्रह्मणे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति क्षत्त्राय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भूताय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ ३ ॥

ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यारभ्य द्वे द्वे आहुती हुत्वा मन्थे संस्रवमवनयति, स्रुवा­व­ले­प­न­माज्यं मन्थे संस्रावयति । एतस्मादेव ज्येष्ठाय श्रेष्ठा­ये­त्या­दि­प्रा­ण­लि­ङ्गात् ज्येष्ठ­श्रे­ष्ठा­दि­प्रा­ण­विद एव अस्मिन् कर्मण्यधिकारः । ‘रेतसे’ इत्यारभ्य एकैकामाहुतिं हुत्वा मन्थे संस्रवमवनयति, अपरया उपमन्थन्या पुनर्मथ्नाति ॥

अथैनमभिमृशति भ्रमदसि ज्वलदसि पूर्णमसि प्रस्त­ब्ध­म­स्ये­क­स­भ­मसि हिङ्कृतमसि हिङ्क्रि­य­मा­ण­म­स्यु­द्गी­थ­म­स्यु­द्गी­य­मा­न­मसि श्रावितमसि प्रत्या­श्रा­वि­त­म­स्यार्द्रे सन्दीप्तमसि विभूरसि प्रभूरस्यन्नमसि ज्योतिरसि निधनमसि संवर्गोऽसीति ॥ ४ ॥

अथैनमभिमृशति ‘भ्रमदसि’ इत्यनेन मन्त्रेण ॥

अथै­न­मु­द्य­च्छ­त्यामं स्यामं हि ते महि स हि राजेशानोऽधिपतिः स मां राजेशानोऽधिपतिं करोत्विति ॥ ५ ॥

अथैनमुद्यच्छति सह पात्रेण हस्ते गृह्णाति ‘आमंस्यामंहि ते महि’ इत्यनेन ॥

अथैनमाचामति तत्स­वि­तु­र्व­रे­ण्यम् । मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः । भूः स्वाहा । भर्गो देवस्य धीमहि । मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः । मधु द्यौरस्तु नः पिता । भुवः स्वाहा । धियो यो नः प्रचोदयात् । मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः । स्वः स्वाहेति । सर्वां च सावित्रीमन्वाह सर्वाश्च मधुमतीरहमेवेदं सर्वं भूयासं भूर्भुवः स्वः स्वाहेत्यन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्शिराः संविशति प्रात­रा­दि­त्य­मु­प­ति­ष्ठते दिशा­मे­क­पु­ण्ड­री­क­म­स्यहं मनु­ष्या­णा­मे­क­पु­ण्ड­रीकं भूयासमिति यथेतमेत्य जघ­ने­ना­ग्नि­मा­सीनो वंशं जपति ॥ ६ ॥

अथैनम् आचामति भक्षयति, गायत्र्याः प्रथमपादेन मधुमत्या एकया व्याहृत्या च प्रथमया प्रथ­म­ग्रा­स­मा­चा­मति ; तथा गाय­त्री­द्वि­ती­य­पा­देन मधुमत्या द्वितीयया द्वितीयया च व्याहृत्या द्वितीयं ग्रासम् ; तथा तृतीयेन गायत्रीपादेन तृतीयया मधुमत्या तृतीयया च व्याहृत्या तृतीयं ग्रासम् । सर्वां सावित्रीं सर्वाश्च मधुमतीरुक्त्वा ‘अहमेवेदं सर्वं भूयासम्’ इति च अन्ते ‘भूर्भुवःस्वः स्वाहा’ इति समस्तं भक्षयति । यथा चतु­र्भि­र्ग्रासैः तद्द्रव्यं सर्वं परिसमाप्यते, तथा पूर्वमेव निरूपयेत् । यत् पात्रावलिप्तम् , तत् पात्रं सर्वं निर्णिज्य तूष्णीं पिबेत् । पाणी प्रक्षाल्य आप आचम्य जघनेनाग्निं पश्चादग्नेः प्राक्शिराः संविशति । प्रातः­स­न्ध्या­मु­पास्य आदि­त्य­मु­प­ति­ष्ठते ‘दिशा­मे­क­पु­ण्ड­री­कम्’ इत्यनेन मन्त्रेण । यथेतं यथागतम् , एत्य आगत्य जघनेनाग्निम् आसीनो वंशं जपति ॥

तं हैतमुद्दालक आरु­णि­र्वा­ज­स­ने­याय याज्ञ­व­ल्क्या­या­न्ते­वा­सिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषि­ञ्चे­ज्जा­ये­र­ञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ७ ॥

एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैङ्ग्या­या­न्ते­वा­सिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषि­ञ्चे­ज्जा­ये­र­ञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ८ ॥

एतमु हैव मधुकः पैङ्ग्यश्चूलाय भाग­वि­त्त­येऽ­न्ते­वा­सिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषि­ञ्चे­ज्जा­ये­र­ञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ९ ॥

एतमु हैव चूलो भाग­वि­त्ति­र्जा­न­काय आय­स्थू­णा­या­न्ते­वा­सिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषि­ञ्चे­ज्जा­ये­र­ञ्छाखाः प्ररोहेयुः पलाशानीति ॥ १० ॥

१०

एतमु हैव जानकिरायस्थूणः सत्यकामाय जाबा­ला­या­न्ते­वा­सिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषि­ञ्चे­ज्जा­ये­र­ञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ११ ॥

११

एतमु हैव सत्यकामो जाबा­लोऽ­न्ते­वा­सिभ्य उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषि­ञ्चे­ज्जा­ये­र­ञ्छाखाः प्ररोहेयुः पलाशानीति तमेतं नापुत्राय वान्तेवासिने वा ब्रूयात् ॥ १२ ॥

१२

‘तं हैतमुद्दालकः’ इत्यादि सत्यकामो जाबा­लो­न्ते­वा­सिभ्य उक्त्वा उवाच — अपि यः एनं शुष्के स्थाणौ निषिञ्चेत् , जायेरन्नेव अस्मिन् शाखाः प्ररोहेयुः पलाशानि — इत्येवमन्तम् एनं मन्थम् उद्दा­ल­का­त्प्र­भृति एकै­का­चा­र्य­क्र­मा­गतं सत्यकाम आचार्यो बहु­भ्योऽ­न्ते­वा­सिभ्य उक्त्वोवाच । किम­न्य­दु­वा­चे­त्यु­च्यते — अपि यः एनं शष्के स्थाणौ गतप्राणेऽपि एनं मन्थं भक्षणाय संस्कृतं निषिञ्चेत् प्रक्षिपेत् , जायेरन् उत्पद्येरन्नेव अस्मिन् स्थाणौ शाखा अवयवा वृक्षस्य, प्ररोहेयुश्च पलाशानि पर्णानि, यथा जीवतः स्थाणोः ; किमुत अनेन कर्मणा कामः सिध्येदिति ; ध्रुवफलमिदं कर्मेति कर्म­स्तु­त्य­र्थ­मे­तत् । विद्याधिगमे षट् तीर्थानि ; तेषामिह सप्राणदर्शनस्य मन्थ­वि­ज्ञा­न­स्या­धि­गमे द्वे एव तीर्थे अनुज्ञायेते, पुत्र­श्चा­न्ते­वासी च ॥

चतुरौदुम्बरो भवत्यौदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर इध्म औदुम्बर्या उपमन्थन्यौ दश ग्राम्याणि धान्यानि भवन्ति व्रीहि­य­वा­स्ति­ल­माषा अणुप्रियङ्गवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च तान्पि­ष्टा­न्द­धनि मधुनि घृत उप­सि­ञ्च­त्या­ज्यस्य जुहोति ॥ १३ ॥

१३

चतुरौदुम्बरो भवतीति व्याख्यातम् । दश ग्राम्याणि धान्यानि भवन्ति, ग्राम्याणां तु धान्यानां दश नियमेन ग्राह्या इत्यवोचाम । के त इति निर्दिश्यन्ते — व्रीहियवाः, तिलमाषाः, अणुप्रियङ्गवः अणवश्च अणुशब्दवाच्याः, क्वचिद्देशे प्रियङ्गवः प्रसिद्धाः कङ्गुशब्देन, खल्वा निष्पावाः वल्लशब्दवाच्या लोके, खलकुलाः कुलत्थाः । एतद्व्यतिरेकेण यथाशक्ति सर्वौषधयो.. ग्राह्याः फलानि च — इत्यवोचाम, अयाज्ञिकानि वर्जयित्वा ॥

इति षष्ठाध्यायस्य तृतीयं ब्राह्मणम् ॥

चतुर्थं ब्राह्मणम्

एषां वै भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय ओषधीनां पुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेतः ॥ १ ॥

यादृग्जन्मा यथोत्पादितः यैर्वा गुणैर्विशिष्टः पुत्र आत्मनः पितुश्च लोक्यो भवतीति, तत्सम्पादनाय ब्राह्म­ण­मा­र­भ्यते । प्राणदर्शिनः श्रीमन्थं कर्म कृतवतः पुत्र­म­न्थेऽ­धि­कारः । यदा पुत्रमन्थं चिकीर्षति तदा श्रीमन्थं कृत्वा ऋतुकालं पत्न्याः प्रतीक्षत इत्येतत् रेतस ओष­ध्या­दि­र­स­त­म­त्व­स्तुत्या अवगम्यते । एषां वै चराचराणां भूतानां पृथिवी रसः सारभूतः, सर्वभूतानां मध्विति ह्युक्तम् । पृथिव्या आपो रसः, अप्सु हि पृथिव्योता च प्रोता च अपामोषधयो रसः, कार्यत्वात् रस­त्व­मो­ष­ध्या­दीनां । ओषधीनां पुष्पाणि । पुष्पाणां फलानि । फलानां पुरुषः । पुरुषस्य रेतः, ‘सर्वे­भ्योऽ­ङ्गे­भ्य­स्तेजः सम्भूतम्’(ऐ. उ. २ । १ । १) इति श्रुत्यन्तरात् ॥

स ह प्रजा­प­ति­री­क्षा­ञ्चक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स स्त्रियं ससृजे तां सृष्ट्वाध उपास्त तस्मा­त्स्त्रि­य­मध उपासीत स एतं प्राञ्चं ग्रावाणमात्मन एव समु­द­पा­र­य­त्ते­नै­ना­म­भ्य­सृ­जत् ॥ २ ॥

यत एवं सर्वभूतानां सारतमम् एतत् रेतः, अतः कानु खल्वस्य योग्या प्रतिष्टेति स ह स्रष्टा प्रजा­प­ति­री­क्षा­ञ्चक्रे । ईक्षां कृत्वा स स्त्रियं ससृजे । तां च सृष्ट्वा अध उपास्त मैथुनाख्यं कर्म अधउपासनं नाम कृतवान् । तस्मा­त्स्त्रि­य­मध उपासीत ; श्रेष्ठा­नु­श्र­यणा हि प्रजाः । अत्र वाज­पे­य­सा­मा­न्य­क्लृ­प्ति­माह — स एनं प्राञ्चं प्रकृ­ष्ट­ग­ति­यु­क्तम् आत्मनो ग्रावाणं सोमा­भि­ष­वो­प­ल­स्था­नीयं काठि­न्य­सा­मा­न्यात् प्रज­न­ने­न्द्रि­यम् , उदपारयत् उत्पूरितवान् स्त्रीव्यञ्जनं प्रति ; तेन एनां स्त्रियम् अभ्यसृजत् अभिसंसर्गं कृतवान् ॥

तस्या वेदिरुपस्थो लोमानि बर्हि­श्च­र्मा­धि­ष­वणे समिद्धो मध्यतस्तौ मुष्कौ स यावान्ह वै वाजपेयेन यजमानस्य लोको भवति तावानस्य लोको भवति य एवं विद्वानधोपहासं चरत्यासां स्त्रीणां सुकृतं वृङ्क्तेऽथ य इद­म­वि­द्वा­न­धो­प­हासं चरत्यास्य स्त्रियः सुकृतं वृञ्जते ॥ ३ ॥

तस्या वेदिरित्यादि सर्वं सामान्यं प्रसिद्धम् । समिद्धोऽग्निः मध्यतः स्त्रीव्य­ञ्ज­नस्य ; तौ मुष्कौ अधिषवणफलके इति व्यवहितेन सम्बध्यते । वाजपेययाजिनो यावान् लोकः प्रसिद्धः, तावान् विदुषः मैथुनकर्मणो लोकः फलमिति स्तूयते । तस्मात् बीभत्सा नो कार्येति । य एवं विद्वानधोपहासं चरति आसां स्त्रीणां सुकृतं वृङ्क्ते आवर्जयति । अथ पुनः यः वाजपेयसम्पत्तिं न जानाति अविद्वान् रेतसो रसतमत्वं च अधोपहासं चरति, आ अस्य स्त्रियः सुकृतम् आवृञ्जते अविदुषः ॥

एतदद्ध स्म वै तद्वि­द्वा­नु­द्दा­लक आरुणिराहैतद्ध स्म वै तद्विद्वान्नाको मौद्गल्य आहैतद्ध स्म वै तद्वि­द्वा­न्कु­मा­र­हा­रित आह बहवो मर्या ब्राह्मणायना निरिन्द्रिया विसु­कृ­तोऽ­स्मा­ल्लो­का­त्प्र­यन्ति य इद­म­वि­द्वां­सोऽ­धो­प­हासं चरन्तीति बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ ४ ॥

एतद्ध स्म वै तत् विद्वान् उद्दालक आरुणिः आह अधोपहासाख्यं मैथुनकर्म वाजपेयसम्पन्नं विद्वानित्यर्थः । तथा नाको मौद्गल्यः कुमारहारितश्च । किं त आहुरित्युच्यते — बहवो मर्या मरणधर्मिणो मनुष्याः, ब्राह्मणा अयनं येषां ते ब्राह्मणायनाः ब्रह्मबन्धवः जाति­मा­त्रो­प­जी­विन इत्येतत् , निरिन्द्रियाः विश्लि­ष्टे­न्द्रियाः, विसुकृतः विग­त­सु­कृ­त­क­र्माणः, अविद्वांसः मैथुनकर्मासक्ता इत्यर्थः ; ते किम् ? अस्मात् लोकात् प्रयन्ति परलोकात् परिभ्रष्टा इति । मैथु­न­क­र्म­णोऽ­त्य­न्त­पा­प­हे­तुत्वं दर्शयति — य इद­म­वि­द्वां­सोऽ­धो­प­हासं चरन्तीति । श्रीमन्थं कृत्वा पत्न्या ऋतुकालं ब्रह्मचर्येण प्रतीक्षते ; यदि इदं रेतः स्कन्दति, बहु वा अल्पं वा, सुप्तस्य वा जाग्रतो वा, रागप्राबल्यात् ॥४॥

तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथि­वी­म­स्का­न्त्सी­द्य­दो­ष­धी­र­प्य­स­र­द्य­दपः । इदमहं तद्रेत आददे पुन­र्मा­मै­त्वि­न्द्रियं पुनस्तेजः पुनर्भगः । पुन­र­ग्नि­र्धिष्ण्या यथास्थानं कल्प­न्ता­मि­त्य­ना­मि­का­ङ्गु­ष्ठा­भ्या­मा­दा­या­न्त­रेण स्तनौ वा भ्रुवौ वा निमृज्यात् ॥ ५ ॥

तदभिमृशेत् , अनुमन्त्रयेत वा अनुजपेदित्यर्थः । यदा अभिमृशति, तदा अना­मि­का­ङ्गु­ष्ठाभ्यां तद्रेत आदत्ते ‘आददे’ इत्येवमन्तेन मन्त्रेण ; ‘पुनर्माम्’ इत्येतेन निमृज्यात् अन्तरेण मध्ये भ्रुवौ भ्रुवोर्वा, स्तनौ स्तनयोर्वा ॥

अथ यद्युदक आत्मानं पश्ये­त्त­द­भि­म­न्त्र­येत मयि तेज इन्द्रियं यशो द्रविणं सुकृतमिति श्रीर्ह वा एषा स्त्रीणां यन्म­लो­द्वा­सा­स्त­स्मा­न्म­लो­द्वा­ससं यश­स्वि­नी­म­भि­क्र­म्यो­प­म­न्त्र­येत ॥ ६ ॥

अथ यदि कदाचित् उदके आत्मानम् आत्मच्छायां पश्येत् , तत्रापि अभिमन्त्रयेत अनेन मन्त्रेण ‘मयि तेजः’ इति । श्रीर्ह वा एषा पत्नी स्त्रीणां मध्ये यत् यस्मात् मलोद्वासाः उद्ग­त­म­ल­व­द्वासाः, तस्मात् तां मलोद्वाससं यशस्विनीं श्रीम­ती­म­भि­क्रम्य अभिगत्य उपमन्त्रयेत इदम् — अद्य आवाभ्यां कार्यं यत्पु­त्रो­त्पा­द­न­मिति, त्रिरात्रान्ते आप्लुताम् ॥

सा चेदस्मै न दद्या­त्का­म­मे­ना­म­व­क्री­णी­यात्सा चेदस्मै नैव दद्यात्काममेनां यष्ट्या वा पाणिना वोप­ह­त्या­ति­क्रा­मे­दि­न्द्रि­येण ते यशसा यश आदद इत्ययशा एव भवति ॥ ७ ॥

सा चेदस्मै न दद्यात् मैथुनं कर्तुम् , कामम् एनाम् अवक्रीणीयात् आभरणादिना ज्ञापयेत् । तथापि सा नैव दद्यात् , काममेनां यष्ट्या वा पाणिना वा उपहत्य अतिक्रामेत् मैथुनाय । शप्स्यामि त्वां दुर्भगां करिष्यामीति प्रख्याप्य, तामनेन मन्त्रे­णो­प­ग­च्छेत् — ‘इन्द्रियेण ते यशसा यश आददे’ इति । सा तस्मात् तदभिशापात् वन्ध्या दुर्भगेति ख्याता अयशा एव भवति ॥

सा चेदस्मै दद्या­दि­न्द्रि­येण ते यशसा यश आदधामीति यशस्विनावेव भवतः ॥ ८ ॥

सा चेदस्मै दद्यात् , अनुगुणैव स्याद्भर्तुः, तदा अनेन मन्त्रेण उपगच्छेत् ‘इन्द्रियेण ते यशसा यश आदधामि’ इति ; तदा यशस्विनावेव उभावपि भवतः ॥

स यामि­च्छे­त्का­म­येत मेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धा­यो­प­स्थ­मस्या अभिमृश्य जपे­द­ङ्गा­द­ङ्गा­त्स­म्भ­वसि हृदयादधिजायसे । स त्वमङ्गकषायोऽसि दिग्धविद्धमिव मादयेमाममूं मयीति ॥ ९ ॥

स यां स्वभा­र्या­मि­च्छेत् — इयं मां कामयेतेति, तस्याम् अर्थं प्रज­न­ने­न्द्रि­यम् निष्ठाय निक्षिप्य, मुखेन मुखं सन्धाय, उपस्थमस्या अभिमृश्य, जपेदिमं मन्त्रम् — ‘अङ्गादङ्गात्’ इति ॥

अथ यामिच्छेन्न गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धा­या­भि­प्रा­ण्या­पा­न्या­दि­न्द्रि­येण ते रेतसा रेत आदद इत्यरेता एव भवति ॥ १० ॥

१०

अथ यामिच्छेत् — न गर्भं दधीत न धारयेत् गर्भिणी मा भूदिति, तस्याम् अर्थमिति पूर्ववत् । अभिप्राण्य अभिप्राणनं प्रथमं कृत्वा, पश्चात् अपान्यात् — ‘इन्द्रियेण ते रेतसा रेत आददे’ इत्यनेन मन्त्रेण ; अरेता एव भवति, न गर्भिणी भवतीत्यर्थः ॥

अथ यामि­च्छे­द्द­धी­तेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धा­या­पा­न्या­भि­प्रा­ण्या­दि­न्द्रि­येण ते रेतसा रेत आदधामीति गर्भिण्येव भवति ॥ ११ ॥

११

अथ यामिच्छेत् — दधीत गर्भमिति, तस्या­म­र्थ­मि­त्यादि पूर्ववत् । पूर्वविपर्ययेण अपान्य अभिप्राण्यात् ‘इन्द्रियेण ते रेतसा रेत आदधामि’ इति ; गर्भिण्येव भवति ॥

अथ यस्य जायायै जारः स्यात्तं चेद्द्वि­ष्या­दा­म­पा­त्रेऽ­ग्नि­मु­प­स­मा­धाय प्रतिलोमं शर­ब­र्हि­स्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयान्मम समिद्धेऽहौषीः प्राणापानौ त आददेऽसाविति मम समिद्धेऽहौषीः पुत्रपशूंस्त आददेऽसाविति मम समि­द्धेऽ­हौ­षी­रि­ष्टा­सु­कृते त आददेऽसाविति मम समि­द्धेऽ­हौ­षी­रा­शा­प­रा­काशौ त आददेऽसाविति स वा एष निरिन्द्रियो विसु­कृ­तोऽ­स्मा­ल्लो­का­त्प्रैति यमे­वं­वि­द्ब्रा­ह्मणः शपति तस्मा­दे­वं­वि­च्छ्रो­त्रि­यस्य दारेण नोपहासमिच्छेदुत ह्येवंवित्परो भवति ॥ १२ ॥

१२

अथ पुनर्यस्य जायायै जारः उपपतिः स्यात् , तं चेत् द्विष्यात् , अभि­च­रि­ष्या­म्ये­न­मिति मन्येत, तस्येदं कर्म । आमपात्रे अग्निमुपसमाधाय सर्वं प्रतिलोमं कुर्यात् ; तस्मिन् अग्नौ एताः शरभृष्टीः शरेषीकाः प्रतिलोमाः सर्पिषा अक्ताः घृताभ्यक्ताः जुहुयात् ‘मम समिद्धेऽहौषीः’ इत्याद्या आहुतीः ; अन्ते सर्वासाम् असाविति नामग्रहणं प्रत्येकम् ; स एषः एवंवित् , यं ब्राह्मणः शपति, सः विसुकृतः विगतपुण्यकर्मा प्रैति । तस्मात् एवंवित् श्रोत्रियस्य दारेण नोपहासमिच्छेत् नर्मापि न कुर्यात् , किमुत अधोपहासम् ; हि यस्मात् एवंविदपि तावत् परो भवति शत्रु­र्भ­व­ती­त्यर्थः ॥

अथ यस्य जायामार्तवं विन्देत्त्र्यहं कंसेन पिबेदहतवासा नैनां वृषलो न वृष­ल्यु­प­ह­न्या­त्त्रि­रा­त्रान्त आप्लुत्य व्रीहीनवघातयेत् ॥ १३ ॥

१३

अथ यस्य जायाम् आर्तवं विन्देत् ऋतुभावं प्राप्नुयात् — इत्ये­व­मा­दि­ग्रन्थः ‘श्रीर्ह वा एषा स्त्रीणाम्’ इत्यतः पूर्वं द्रष्टव्यः, सामर्थ्यात् । त्र्यहं कंसेन पिबेत् , अहतवासाश्च स्यात् ; नैनां स्नाताम् अस्नातां च वृषलो वृषली वा नोपहन्यात् नोपस्पृशेत् । त्रिरात्रान्ते त्रिरा­त्र­व्र­त­स­माप्तौ आप्लुत्य स्नात्वा अहतवासाः स्यादिति व्यवहितेन सम्बन्धः ; ताम् आप्लुतां व्रीहन् अवघातयेत् व्रीह्यवघाताय तामेव विनियुञ्ज्यात् ॥

स य इच्छेत्पुत्रो मे शुक्लो जायेत वेदमनुब्रुवीत सर्व­मा­यु­रि­या­दिति क्षीरौदनं पाचयित्वा सर्पि­ष्म­न्त­म­श्नी­या­ता­मी­श्वरौ जनयितवै ॥ १४ ॥

१४

स य इच्छेत् — पुत्रो मे शुक्लो वर्णतो जायेत, वेद­मे­क­म­नु­ब्रु­वीत, सर्वमायुरियात् — वर्षशतं क्षीरौदनं पाचयित्वा सर्पि­ष्म­न्त­म­श्नी­या­ताम् ईश्वरौ समर्थौ जनयितवै जनयितुम् ॥

अथ य इच्छेत्पुत्रो मे कपिलः पिङ्गलो जायते द्वौ वेदावनुब्रुवीत् सर्व­मा­यु­रि­या­दिति दध्योदनं पाचयित्वा सर्पि­ष्म­न्त­म­श्नी­या­ता­मी­श्वरौ जनयितवै ॥ १५ ॥

१५

दध्योदनं दध्ना चरुं पाचयित्वा ; द्विवेदं चेदिच्छति पुत्रम् , तदा एवमशननियमः ॥

अथ य इच्छेत्पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन्वे­दा­न­नु­ब्रु­वीत सर्व­मा­यु­रि­या­दि­त्यु­दौ­दनं पाचयित्वा सर्पि­ष्म­न्त­म­श्नी­या­ता­मी­श्वरौ जनयितवै ॥ १६ ॥

१६

केवलमेव स्वाभाविकमोदनम् । उदग्रहणम् अन्य­प्र­स­ङ्ग­नि­वृ­त्त्य­र्थम् ॥

अथ य इच्छेद्दुहिता मे पण्डिता जायेत सर्व­मा­यु­रि­या­दिति तिलौदनं पाचयित्वा सर्पि­ष्म­न्त­म­श्नी­या­ता­मी­श्वरौ जनयितवै ॥ १७ ॥

१७

दुहितुः पाण्डित्यं गृह­त­न्त्र­वि­ष­य­मेव, वेदेऽनधिकारात् । तिलौदनं कृशरम् ॥

अथ य इच्छेत्पुत्रो मे पण्डितो विगीतः समितिङ्गमः शुश्रूषितां वाचं भाषिता जायेत सर्वा­न्वे­दा­न­नु­ब्रु­वीत सर्व­मा­यु­रि­या­दिति मांसौदनं पाचयित्वा सर्पि­ष्म­न्त­म­श्नी­या­ता­मी­श्वरौ जनयितवा औक्षेण वार्षभेण वा ॥ १८ ॥

१८

विविधं गीतो विगीतः प्रख्यात इत्यर्थः ; समितिङ्गमः सभां गच्छतीति प्रगल्भ इत्यर्थः, पाण्डित्यस्य पृथग्ग्रहणात् ; शुश्रूषितां श्रोतुमिष्टां रमणीयां वाचं भाषिता संस्कृताया अर्थवत्या वाचो भाषितेत्यर्थः । मांसमिश्रमोदनं मांसौदनम् । तन्मां­स­नि­य­मा­र्थ­माह — औक्षेण वा मांसेन ; उक्षा सेचनसमर्थः पुङ्गवः, तदीयं मांसम् ; ऋषभः ततोऽप्यधिकवयाः, तदीयम् आर्षभं मांसम् ॥

अथाभिप्रातरेव स्थाली­पा­का­वृ­ताज्यं चेष्टित्वा स्थाली­पा­क­स्यो­प­घातं जुहोत्यग्नये स्वाहानुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति हुत्वोद्धृत्य प्राश्नाति प्राश्येतरस्याः प्रयच्छति प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रिर­भ्यु­क्ष­त्यु­त्ति­ष्ठातो विश्वा­व­सोऽ­न्या­मिच्छ प्रपूर्व्यां सं जायां पत्या सहेति ॥ १९ ॥

१९

अथाभिप्रातरेव काले अव­घा­त­नि­र्वृ­त्तान् तण्डुलानादाय स्थालीपाकावृता स्थाली­पा­क­वि­धिना, आज्यं चेष्टित्वा, आज्यसंस्कारं कृत्वा, चरुं श्रपयित्वा, स्थालीपाकस्य आहुतीः जुहोति, उपघातम् उपहत्योपहत्य ‘अग्नये स्वाहा’ इत्याद्याः । गार्ह्यः सर्वो विधिः द्रष्टव्यः अत्र ; हुत्वा उद्धृत्य चरुशेषं प्राश्नाति ; स्वयं प्राश्य इतरस्याः पत्न्यै प्रयच्छति उच्छिष्टम् । प्रक्षाल्य पाणी आचम्य उदपात्रं पूरयित्वा तेनोदकेन एनां त्रिरभ्युक्षति अनेन मन्त्रेण ‘उत्तिष्ठातः’ इति, सकृ­न्म­न्त्रो­च्चा­र­णम् ॥

अथै­ना­म­भि­प­द्य­तेऽ­मोऽ­ह­मस्मि सा त्वं सा त्वमस्यमोऽहं सामाहमस्मि ऋक्त्वं द्यौरहं पृथिवी त्वं तावेहि संरभावहै सह रेतो दधावहै पुंसे पुत्राय वित्तय इति ॥ २० ॥

२०

अथै­ना­म­भि­मन्त्र्य क्षीरौदनादि यथापत्यकामं भुक्त्वेति क्रमो द्रष्टव्यः । संवेशनकाले — ‘अमोऽहमस्मि’ इत्या­दि­म­न्त्रे­णा­भि­प­द्यते ॥

अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धाय त्रिरे­ना­म­नु­लो­मा­म­नु­मार्ष्टि विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते । गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके । गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ २१ ॥

२१

अथास्या ऊरू विहापयति ‘विजिहीथां द्यावापृथिवी’ इत्यनेन । तस्या­म­र्थ­मि­त्यादि पूर्ववत् । त्रिः एनां शिरःप्रभृति अनु­लो­मा­म­नु­मार्ष्टि ‘विष्णु­र्यो­निम्’ इत्यादि प्रतिमन्त्रम् ॥

हिरण्मयी अरणी याभ्यां निर्म­न्थ­ता­म­श्विनौ । तं ते गर्भं हवामहे दशमे मासि सूतये । यथाग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण गर्भिणी । वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति ॥ २२ ॥

२२

अन्ते नाम गृह्णाति — असाविति तस्याः ॥

सोष्य­न्ती­म­द्भि­र­भ्यु­क्षति । यथा वायुः पुष्करिणीं समिङ्गयति सर्वतः । एवा ते गर्भ एजतु सहावैतु जरायुणा । इन्द्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयः । तमिन्द्र निर्जहि गर्भेण सावरां सहेति ॥ २३ ॥

२३

सोष्यन्तीम् अद्भिरभ्युक्षति प्रसवकाले सुखप्रसवनार्थम् अनेन मन्त्रेण — ‘यथा वायुः पुष्करिणीं समिङ्गयति सर्वतः । एवा ते गर्भ एजतु’ इति ॥

जातेऽ­ग्नि­मु­प­स­मा­धा­याङ्क आधाय कंसे पृषदाज्यं सन्नीय पृष­दा­ज्य­स्यो­प­घातं जुहो­त्य­स्मि­न्स­हस्रं पुष्यासमेधमानः स्वे गृहे । अस्योपसन्द्यां मा च्छैत्सी­त्प्र­जया च पशुभिश्च स्वाहा । मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा । यत्क­र्म­णा­त्य­री­रिचं यद्वा न्यूनमिहाकरम् । अग्नि­ष्ट­त्स्वि­ष्ट­कृ­द्वि­द्वा­न्स्विष्टं सुहुतं करोतु नः स्वाहेति ॥ २४ ॥

२४

अथ जातकर्म । जातेऽ­ग्नि­मु­प­स­मा­धाय अङ्के आधाय पुत्रम् , कंसे पृषदाज्यं सन्नीय संयोज्य दधिघृते, पृषदाज्यस्य उपघातं जुहोति ‘अस्मि­न्स­ह­स्रम्’ इत्या­द्या­वा­प­स्थाने ॥

अथास्य दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिरथ दधि मधु घृतं सन्नी­या­न­न्त­र्हि­तेन जातरूपेण प्राशयति । भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवःस्वः सर्वं त्वयि दधामीति ॥ २५ ॥

२५

अथास्य दक्षिणं कर्णमभिनिधाय स्वं मुखम् ‘वाग्वाक्’ इति त्रिर्जपेत् । अथ दधि मधु घृतं सन्नीय अनन्तर्हितेन अव्यवहितेन जातरूपेण हिरण्येन प्राशयति एतैर्मन्त्रैः प्रत्येकम् ॥

अथास्य नाम करोति वेदोऽसीति तदस्य तद्गुह्यमेव नाम भवति ॥ २६ ॥

२६

अथास्य नामधेयं करोति ‘वेदोऽसि’ इति । तदस्य तद्गुह्यं नाम भवति — वेद इति ॥

अथैनं मात्रे प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रः । येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करिति ॥ २७ ॥

२७

अथैनं मात्रे प्रदाय स्वाङ्कस्थम् , स्तनं प्रयच्छति ‘यस्ते स्तनः’ इत्यादिमन्त्रेण ॥

अथास्य मात­र­म­भि­म­न्त्र­यते । इलासि मैत्रावरुणी वीरे वीरमजीजनत् । सा त्वं वीरवती भव यास्मा­न्वी­र­व­तोऽ­क­र­दिति । तं वा एतमाहुरतिपिता बताभूरतिपितामहो बताभूः परमां बत काष्ठां प्रापच्छ्रिया यशसा ब्रह्मवर्चसेन य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥ २८ ॥

२८

अथास्य मात­र­म­भि­म­न्त्र­यते ‘इलासि’ इत्यनेन । तं वा एतमाहुरिति — अनेन विधिना जातः पुत्रः पितरं पितामहं च अतिशेते इति श्रिया यशसा ब्रह्मवर्चसेन परमां निष्ठां प्रापत् — इत्येवं स्तुत्यो भवतीत्यर्थः । यस्य च एवंविदो ब्राह्मणस्य पुत्रो जायते, स च एवं स्तुत्यो भव­ती­त्य­ध्या­हा­र्यम् ॥

इति षष्ठाध्यायस्य चतुर्थं ब्राह्मणम् ॥

पञ्चमं ब्राह्मणम्

अथ वंशः । पौतिमाषीपुत्रः कात्या­य­नी­पु­त्रा­त्का­त्या­य­नी­पुत्रो गौत­मी­पु­त्रा­द्गौ­त­मी­पुत्रो भार­द्वा­जी­पु­त्रा­द्भा­र­द्वा­जी­पुत्रः पारा­श­री­पु­त्रा­त्पा­रा­श­री­पुत्र औप­स्व­स्ती­पु­त्रा­दौ­प­स्व­स्ती­पुत्रः पारा­श­री­पु­त्रा­त्पा­रा­श­री­पुत्रः कात्या­य­नी­पु­त्रा­त्का­त्या­य­नी­पुत्रः कौशि­की­पु­त्रा­त्कौ­शि­की­पुत्र आलम्बीपुत्राच्च वैया­घ्र­प­दी­पु­त्राच्च वैया­घ्र­प­दी­पुत्रः काण्वीपुत्राच्च कापीपुत्राच्च कापीपुत्रः ॥ १ ॥

अथेदानीं समस्तप्रवचनवंशः स्त्रीप्रा­धा­न्यात् । गुणवान्पुत्रो भवतीति प्रस्तुतम् ; अतः स्त्रीवि­शे­ष­णे­नैव पुत्रविशेषणात् आचार्यपरम्परा कीर्त्यते । तानीमानि शुक्लानीति अव्यामिश्राणि ब्राह्मणेन । अथवा यानीमानि यजूंषि तानि शुक्लानि शुद्धानीत्येतत् । प्रजापतिमारभ्य याव­त्पौ­ति­मा­षी­पुत्रः तावत् अधोमुखो निय­ता­चा­र्य­पू­र्व­क्रमो वंशः समानम् आ साञ्जी­वी­पु­त्रात् ; ब्रह्मणः प्रवचनाख्यस्य ; तच्चैतत् ब्रह्म प्रजा­प­ति­प्र­ब­न्ध­प­र­म्प­रया आगत्य अस्मास्वनेकधा विप्रसृतम् अनाद्यनन्तं स्वयम्भु ब्रह्म नित्यम् ; तस्मै ब्रह्मणे नमः । नम­स्त­द­नु­व­र्तिभ्यो गुरुभ्यः ॥१-२-३-४॥

आत्रे­यी­पु­त्रा­दा­त्रे­यी­पुत्रो गौत­मी­पु­त्रा­द्गौ­त­मी­पुत्रो भार­द्वा­जी­पु­त्रा­द्भा­र­द्वा­जी­पुत्रः पारा­श­री­पु­त्रा­त्प­रा­श­री­पुत्रो वात्सी­पु­त्रा­द्वा­त्सी­पुत्रः पारा­श­री­पु­त्रा­त्पा­रा­श­री­पुत्रो वार्का­रु­णी­पु­त्रा­द्वा­र्का­रु­णी­पुत्रो वार्का­रु­णी­पु­त्रा­द्वा­र्का­रु­णी­पुत्र आर्त­भा­गी­पु­त्रा­दा­र्त­भा­गी­पुत्रः शौङ्गी­पु­त्रा­च्छौ­ङ्गी­पुत्रः साङ्कृ­ती­पु­त्रा­त्सा­ङ्कृ­ती­पुत्र आल­म्बा­य­नी­पु­त्रा­दा­ल­म्बा­य­नी­पुत्र आल­म्बी­पु­त्रा­दा­ल­म्बी­पुत्रो जाय­न्ती­पु­त्रा­ज्जा­य­न्ती­पुत्रो माण्डू­का­य­नी­पु­त्रा­न्मा­ण्डू­का­य­नी­पुत्रो माण्डू­की­पु­त्रा­न्मा­ण्डूकी पुत्रः शाण्ड­ली­पु­त्रा­च्छा­ण्ड­ली­पुत्रो राथी­त­री­पु­त्रा­द्रा­थी­त­री­पुत्रो भालु­की­पु­त्रा­द्भा­लु­की­पुत्रः क्रौञ्चि­की­पु­त्राभ्यां क्रौञ्चि­की­पुत्रौ वैद­भृ­ती­पु­त्रा­द्वै­द­भृ­ती­पुत्रः कार्श­के­यी­पु­त्रा­त्का­र्श­के­यी­पुत्रः प्राची­न­यो­गी­पु­त्रा­त्प्रा­ची­न­यो­गी­पुत्रः साञ्जी­वी­पु­त्रा­त्सा­ञ्जी­वी­पुत्रः प्राश्नी­पु­त्रा­दा­सु­रि­वा­सिनः प्राश्नीपुत्र आसु­रा­य­णा­दा­सु­रा­यण आसुरेरासुरिः ॥ २ ॥

याज्ञ­व­ल्क्या­द्या­ज्ञ­वल्क्य उद्दा­ल­का­दु­द्दा­ल­कोऽ­रु­णा­द­रुण उपवेशेरुपवेशिः कुश्रेः कुश्रि­र्वा­ज­श्र­वसो वाजश्रवा जिह्वावतो बाध्यो­गा­ज्जि­ह्वा­वा­न्बा­ध्यो­गोऽ­सि­ता­द्वा­र्ष­ग­णा­द­सितो वार्षगणो हरि­ता­त्क­श्य­पा­द्ध­रितः कश्यपः शिल्पा­त्क­श्य­पा­च्छिल्पः कश्यपः कश्य­पा­न्नै­ध्रुवेः कश्यपो नैध्रुविर्वाचो वागम्भिण्या अम्भि­ण्या­दि­त्या­दा­दि­त्या­नी­मानि शुक्लानि यजूंषि वाजसनेयेन याज्ञ­व­ल्क्ये­ना­ख्या­यन्ते ॥ ३ ॥

समानमा साञ्जी­वी­पु­त्रा­त्सा­ञ्जी­वी­पुत्रो माण्डू­का­य­ने­र्मा­ण्डू­का­य­नि­र्मा­ण्ड­व्या­न्मा­ण्डव्यः कौत्सात्कौत्सो माहि­त्थे­र्मा­हि­त्थि­र्वा­म­क­क्षा­य­णा­द्वा­म­क­क्षा­यणः शाण्डि­ल्या­च्छ­ण्डिल्यो वात्स्या­द्वात्स्यः कुश्रेः कुश्रि­र्य­ज्ञ­व­चसो राज­स्त­म्बा­य­ना­द्य­ज्ञ­वचा राज­स्त­म्बा­य­न­स्तु­रा­त्का­व­षे­या­त्तुरः कावषेयः प्रजापतेः प्रजा­प­ति­र्ब्र­ह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः ॥ ४ ॥

इति षष्ठाध्यायस्य पञ्चमं ब्राह्मणम् ॥