अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥संबंधभाष्यवार्तिकम् ॥ (१)

स्वावि­द्या­वि­भ­व­प्र­सू­त­वि­पु­ल­द्वै­त­प्र­प­ञ्चा­हित-
स्पष्ट­भ्रा­न्ति­ति­रो­हि­ता­त्म­म­तयो यं भागशो मन्वते ।।
निर्भागं सक­ला­भि­धा­न­म­न­न­व्या­पा­र­दू­र­स्थितं
वन्दे नन्दि­त­वि­श्च­म­व्य­य­मजं भक्त्या तमेकं विभुम् ।। १ ।।

यां काण्वो­प­नि­ष­च्छ­लेन सक­ला­म्ना­या­र्थ­सं­शो­धिर्नी
संच­क्रु­र्गु­र­वोऽ­नु­वृ­त्त­गु­रवो वृत्तिं सतां शान्तये ।।
अर्थाविष्करणं कुता­र्कि­क­कृ­ता­श­ङ्का­स­मु­च्छि­त्तये
तस्या न्यायसमाश्रितेन वचसा प्रक्रम्यते लेशतः ।। २ ।।

अत्र षोपनिषच्छब्दो ब्रह्म­वि­द्यै­क­गो­चरः।।
तत्रैव चास्य सद्भा­वा­द­भि­धा­र्थस्य तत्कुतः।। ३ ।।

उपोपसर्गः सामीप्ये तत्प्रतीचि समाप्यते ।।
त्रिविधस्य सदर्थस्य निशब्दोऽपि विशेषणम् ।। ४ ।।

उपनीयेममात्मानं ब्रह्मा­पा­स्त­द्वयं यतः।।
निहन्त्यविद्यं तज्जं त तस्मा­दु­प­नि­ष­द्भ­वेत् ।। ५ ।।

निहत्यानर्थमूलं स्वाविद्यां प्रत्यक्तया परम् ।।
गम­य­त्य­स्त­सं­भे­द­मतो वोपनिषद्भवेत् ।। ६ ।।

प्रवृ­त्ति­हे­तू­न्निः­शे­षां­स्त­न्मू­लो­च्छे­द­क­त्वतः।।
यतोऽ­व­सा­द­ये­द्विद्या तस्मा­दु­प­नि­ष­न्मता ।। ७ ।।

यथो­क्त­वि­द्या­बो­धि­त्वा­द्ग्र­न्थोऽपि तदभेदतः।।
भवेदुपनिषन्नामा लाङ्गलं जीवनं यथा ।। ८ ।।

अर­ण्या­ध्य­य­ना­च्चै­त­दा­र­ण्य­क­मि­ती­र्यते ।।
बृह­त्त्वा­द्ग्र­न्थ­तोऽ­र्थाच्च बृहदारण्यकं मतम् ।। ९ ।।

इत्या­दि­ना­म­व्यु­त्प­त्ति­च्छ­द्मना प्रकृतोचितम् ।।
सर्वोपनिषदामाह मुक्तिमात्रं प्रयोजनम् ।। १० ।।

मिथो­वि­रो­ध­सि­द्ध्यर्थं कर्म­ज्ञा­ना­धि­का­रिणोः।।
संसा­र्र­व्या­वि­वृ­त्सुभ्य इत्युक्तिं भाष्यकृज्जगौ ।। ११ ।।

त्यक्ता­शे­ष­क्रि­य­स्यैब संसारं प्रजिहासतः।।
जिज्ञासोरेव चैकात्म्यं त्रय्य­न्ते­ष्व­धि­का­रिता ।। १२ ।।

``एत­मेवे''ति च तथा प्रत्य­ग्या­था­त्म्य­वि­त्तेये ।।
सर्वकर्मत्यजं प्राह श्रुति­र्वि­द्या­धि­का­रि­णम् ।। १३ ।।

प्रत्य­ग्वि­वि­दि­षा­सिद्ध्यै वेदानुवचनादयः।।
ब्रह्मावाप्त्यै तु तत्त्याग ईप्स­न्ती­ति­श्रु­ते­र्ब­लात् ।। १४ ।।

उक्ता­धि­का­र­वि­ष­य­प्र­ति­प­त्त्य­र्थ­मी­रि­तम् ।।
संसा­र­हे­त्वि­ति­वचः स्फुट­न्या­यो­प­बृं­हि­तम् ।। १५ ।।

ऐका­त्म्य­वि­ष­या­न्नान्यो वेदान्तवचसां यतः।।
लभ्यते विषयः कश्चि­त्त­द्धी­स्त­स्मा­त्त­मो­प­नुत् ।। १६ ।।

संसा­र­का­र­णा­वि­द्या­ध्वं­स­कृ­ज्ज्ञा­न­ल­ब्धये ।।
प्रारब्धेयं प्रयत्नेन वेदा­न्तो­प­नि­ष­त्परा ।। १७ ।।

प्रत्य­ग्या­था­त्म्य­धी­रेव प्रत्य­ग­ज्ञा­न­हा­नि­कृत् ।।
सा चाऽऽत्मो­त्प­त्तितो नान्य­द्ध्वा­न्त­ध्व­स्ता­व­पे­क्षते ।। १८ ।।

साधनं चाधिकारी च कर्म­वि­ज्ञा­न­का­ण्डयोः।।
मिथो विरोधतः सिद्धावधुना तत्र चोद्यते ।। १९ ।।

नन्व­भ्यु­द­य­व­न्मुक्तिं गृह्णीमो विधेलक्षणाम् ।।
कार्यं विना नाधिकारी नापी­ज्या­फ­ल­सं­गमः।।
लभ्यते लौकिकोऽपीह, किम­ङ्गाऽऽ­ग­म­सं­श्रयः ।। २० ।।

विधि­ल­क्ष­ण­सि­द्ध्यर्थं सन्ति वाक्यानि च श्रुतौ ।। २१ ।।
कुर्वाीत क्रतु­मि­त्या­दि­र्वि­धि­र­भ्यु­दये यथा ।।
उपासीतेति च तथा मुक्तावपि समीक्ष्यते ।। २२ ।।

नाभ्युदयस्य मुक्तेश्च साध्यासोध्ये ध्रुवाध्रुवे ।।
वैलक्षण्यान्न युक्तेयं तुल्यसाधनता तयोः ।। २३ ।।

अन्य­च्छ्रे­योऽ­न्य­दु­तैव प्रेयस्ते उभे नानार्थे पुरुषं सीनीतः।।
तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ।। २४ ।।

परीक्ष्य लोका­न्क­र्म­चि­ता­न्ब्रा­ह्मणो निर्वे­द­मा­या­न्ना­स्त्य­कृतः कृतेन ।।
तद्विज्ञानार्थं स गुरु­मे­वा­भि­ग­च्छे­त्स­मि­त्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ।। २५ ।।

नन्व­भ्यु­द­य­व­त्साध्या मुक्ति­र­प्रा­प्त­रू­पतः।।
मैवं, साध्याऽपि नो मुक्तिर्न त्वभ्युदयवद्यतः ।। २६ ।।

स्वतो­मु­क्ता­न्त­रा­यस्य तमसो विद्यया हतेः।।
तत्कैवल्यमतः साध्य­मु­प­चा­रा­त्प्र­च­क्षते ।। २७ ।।

चिकित्सयेव संप्राप्यं स्वास्थ्यं रोगार्दितस्य तु ।।
आत्मा­वि­द्या­ह­ते­र्बो­धा­त्त­त्कै­व­ल्य­म­वा­प्यते ।। २८ ।।

ब्रह्म वा इद­मि­त्या­दि­र्ब्र­ह्मै­वेति तथा श्रुतिः।।
सुषु­प्त­न­र­व­च्छ्रुत्या बोध्योऽतोऽयं न कार्यते ।। २९ ।।

किमत्र विधिना कार्य­म­नृ­त­त्र­त्व­हे­तुतः।।
श्रुतोऽ­प्य­न­र्थ­कोऽत्र स्याद्वि­ध्य­र्था­सं­भ­व­त्वतः।। ३० ।।

यच्चास्यासति कर्तव्ये नाधिकारो निरूप्यते ।।
तद­प्य­शे­ष­त­श्चो­द्य­मू­र्ध्व­मु­न्मू­ल­यि­ष्यते ।। ३१ ।।

पर आहाऽऽत्मनः स्वास्थ्यं श्रेयो यद्यभिवाञ्छसि ।।
कर्मभ्य एव तत्सि­ध्ये­च्छ्रु­त­त्वा­त्क­र्मणः श्रुतौ ।। ३२ ।।

श्रुतौ स्मृतौ च विहितं कर्मैव श्रूयते यतः।।
न च कर्मातिरेकेण मुक्त्य­भ्यु­द­य­सा­ध­नम् ।। ३३ ।।

यत्नतो न्यायतः किंचित्पश्यामो वेदचक्षुषा।।
निषे­ध­वि­धि­मा­त्र­त्वा­द्वे­दा­र्थ­स्येह सेर्वतः ।। ३४ ।।

ननु श्रुतौ पुरोक्तानि वाक्यानि बहुशो मया ।।
अवि­धा­यि­त्व­त­स्तेषां न न्याय्यं भवतोदितम् ।। ३५ ।।

आम्नायस्य क्रिया­र्थ­त्वा­द्वि­धि­नेति च सूत्रणात् ।।
विधिशेषतया तेषा­मे­क­वा­क्य­त्व­सं­भवे ।।३६ ।।

वच­सा­म­क्रि­या­र्थानां वाक्य­भे­द­प्र­क­ल्पना ।।
गुर्वी स्यान्ननु कैवल्यं फलं नित्यमिहेष्यते ।। ३७ ।।

कथं नित्यं भवेत्तन्नो यदि स्यात्कर्मणः फलम् ।।
कर्मोत्थं न यतः किंचिद्ध्रुवं जगति वीक्ष्यते ।। ३८ ।।

तत्साधनेन चावश्यं भवितव्यमतो भवेत् ।।
पारिशेष्यादिह ज्ञानं वेदान्ते तत्प्रसिद्धितः ।। ३९ ।।

नैवं क्रियाभ्य एवास्या मुक्तेः सिद्ध­त्व­हे­तुतः।।
कुतः क्रियाभ्यः सिद्धि­श्चे­च्छृणु तद्भण्यते यतः ।। ४० ।।

निषि­द्ध­का­म्य­यो­स्त्या­गा­त्क­र्म­णो­र्नि­त्य­क­र्मणः ।।
करणा, त्प्रत्यवायस्य हते,र्भोगेन च क्षयात् ।। ४१ ।।

शरी­रा­र­म्भ­कस्यै,वं मुक्तिः सिद्धाऽ­न्त­रा­त्मनः ।।
विनाऽ­प्यै­का­त्म्य­सं­बो­धा­त्क­र्म­णै­वो­क्त­व­र्त्मना ।। ४२ ।।

ननु चाऽऽत्मावबोधस्य ``निचाय्यो''ति फलं श्रुतम् ।।
``ब्रह्म वेदे''ति च तथानैवं तस्यार्थवादतः ।। ४३ ।।

फलो­क्ते­र­र्थ­वा­दत्वं द्रव्य­सं­स्का­र­क­र्मसु।।
सर्वत्र दर्शनाच्छास्रे पर्णमय्यां फलोक्तिवत् ।। ४४ ।।

आत्मनः कर्म­शे­ष­त्वा­त्त­द्धियः कर्मशेषता ।।
विधिं त्वयाऽ­नि­च्छ­ताऽपि ह्यभ्यु­पे­याऽ­र्थ­वा­दता ।। ४५ ।।

नैवं तद्धे­तु­त­द्रू­प­वि­रो­धा­दि­त­रे­त­रम् ।।
मुक्त्य­भ्यु­द­य­यो­स्त­स्मान्न सम्यग्भवतोदितम् ।। ४६ ।।

स्वरू­पेऽ­व­स्थि­ति­र्मु­क्ति­रा­त्मनो भवतोच्यते ।।
काम्या­दि­व­र्ज­ना­दि­भ्य­स्तस्याः सिद्धिश्च वर्ण्यते ।। ४७ ।।

तत्राऽऽत्मा किं स्वरूपे प्राङ्न स्थितो येन तत्स्थितौ ।।
हेतु व्यपेक्षते यत्नात्स्वरूपं हि न तद्भवेत् ।। ४८ ।।

स्वतोऽनवस्थितो यत्र हेतुना स्थाप्यते बलात् ।।
अथावस्थित एवायं किमर्थं हेतुमार्गणम् ।। ४९ ।।

कैवल्पेऽपि च तत्स­क्ते­र­नि­र्मोक्षः प्रसज्यते ।।
अतो निषि­द्ध­का­म्या­दि­व­र्ज­ना­न्नाऽऽ­त्म­मु­क्तता ।। ५० ।।

विष­या­भ्या­स­जा­स्वा­स्थ्य­नु­त्त्य­र्थ­मिति चेन्मतम् ।।
स तु विषयसंपर्कः कस्माद्भवति कारणात् ।। ५१ ।।

अकस्माद्भवतः सक्ते­र्मु­क्ता­व­प्य­नि­षे­धतः।।
अनि­र्मो­क्ष­प्र­स­क्ति­र्व­स्तथा सति समापतेत् ।। ५२ ।।

धर्मा­ध­र्म­नि­मि­त्त­श्चेत्किं पुनर्धर्मपातके ।।
अप्य­स­ङ्ग­स्व­भा­वस्य संपर्कं कुरुतो बलात् ।। ५३ ।।

भल्ला­त­का­ङ्क­व­द्वस्त्रे न हि लोके स्फुरन्नपि ।।
कुशलोऽपि कुलालः सन्न­घ­टा­दि­स्व­भा­व­कम् ।। ५४ ।।

मृद्वद्व्योम धटी कुर्या­न्म­रु­द्वाऽ­ग्नेश्च शीतताम् ।।
आत्मा कर्त्रा­दि­रू­प­श्चेन्मा काङ्क्षीस्तर्हि मुक्तताम् ।। ५५ ।।

न हि स्वभावो भावानां व्याव­र्त्ये­तौ­ष्ण्य­व­द्रवेः ।।
स्वभा­वा­द्वि­नि­वृ­त्तोऽर्थो निःस्वभावः खपुष्पवत् ।। ५६ ।।

नाविनश्यन्यतो वह्नि­र्व्या­व­र्त्ये­तौ­ष्ण्यतः क्कचित् ।।
न च कर्त्रा­द्य­नि­र्मुक्तौ मुक्तिः संभाव्यतेऽन्यतः ।। ५७ ।।

ननु कर्तृ­त्व­भो­क्तृ­त्व­का­र्य­मे­वाऽऽ­त्म­सं­सृतिः ।।
न तु तच्छ­क्ति­रि­त्येवं शक्तिमात्रतया स्थितौ ।। ५८ ।।

सर्वा­न­र्थ­वि­नि­र्मु­क्ते­रू­प­प­न्नाऽऽ­त्म­मु­क्तता ।।
मैवं भेदे तथाऽभेदे दोषः स्याच्छ­क्ति­का­र्ययोः ।। ५९ ।।

शक्ति­त­त्का­र्य­यो­र्य­स्मा­द्व्य­ति­रेको न विद्यते ।।
नियमासंभवः प्राप­द्व्य­ति­रे­क­स्त­यो­र्यदि ।। ६० ।।

कार्यकारणता न स्यात्स्वतो भेदेन सिद्धयोः।।
अभेदे च तयो­रै­क्या­त्का­र्य­का­र­णता कुतः ।। ६१ ।।

नाकुर्वत्कारणं दृष्टं कार्यं चाक्रियमाणकम् ।।
अथा­भे­द­स्त­यो­रिष्टः कार्यध्वस्तौ प्रसज्यते ।। ६२ ।।

तच्छक्तेरपि विध्वं­स­स्त­यो­र­व्य­ति­रे­कतः।।
शक्तिस्वरूपहाने च शक्ति­म­द्रू­प­नि­ह्नुतिः।। ६३ ।।

तयो­र­व्य­ति­रे­क­त्वात्स एवाऽऽ­या­त्य­नी­प्सितः।।
निरात्मवादः पूर्वो­क्त­स्त­स्मा­न्नैवं प्रकल्पयेत् ।। ६४ ।।

मतं कार्या­न­भि­व्य­क्ति­र्नि­मि­त्ता­सं­भ­वा­द्यदि ।।
शक्तेरिति, न तद्युक्तं शक्ति­त­द्धे­तु­सं­भ­वात् ।। ६५ ।।

शक्तिरूपेण संबन्धो निमि­त्ता­ना­म­पी­ष्यते ।।
नैमित्तिकैरिति ततो वह्न्यौ­ष्ण्या­दि­स­मा­नता ।। ६६ ।।

कार्यस्य शक्तितत्रत्वे सर्वदा कारणस्थितेः ।।
कार्योत्पत्तिः सदैव स्यान्निदाघे घर्मवद्यतः ।। ६७ ।।

तथैव शक्त्य­त­त्र­त्वेऽ­प्येष दोषो यतो भवेत् ।।
सदा कार्यं न जायेत कारणासंभवात्सदा ।। ६८ ।।

निदाधे शीत­व­द्य­स्मो­द­तोऽ­स­म्य­गिदं वचः।।
निष्कारणस्य चोद्भूतौ कार्यजन्म सदा भवेत् ।। ६९ ।।

कायर्ता वा कुतोऽस्य स्यान्न चेत्कारणतत्रता ।।
न च शक्यं प्रतिज्ञातुं जन्माऽऽरभ्याऽऽ मृतेर्नृभिः।। ७० ।।

निषि­द्ध­का­म्य­क­र्मा­दि­व­र्जनं निपुणैरपि ।।
सूक्ष्मा­प­रा­ध­सं­दृ­ष्टे­र­ति­य­त्न­व­ता­मपि ।। ७१ ।।

संशयस्तु भवत्येव पक्षासिद्धिस्तु तावता ।।
अथ चेन्मोक्ष्यते सोऽत्र यस्य संपत्स्यते तथा ।। ७२ ।।

त्वदुक्तं नैतदेवं स्याद­व­क्त­व्य­त्व­हे­तुतः।।
निश्चितं साधनं वाच्यं ज्ञानं निःश्रेयसं प्रति ।। ७३ ।।

न तु यादृच्छिकी सिद्धि­र्व­क्त­व्येह विपश्चिता ।।
दैवगोचर एवैष न तु मानुषगोचरः ।। ७४ ।।

सहकर्त्री भवेच्छक्तिरिति न्याया­द्भ­वे­द्यदि ।।
मनु­ष्य­गो­च­रोऽ­पीति नाऽऽख्या­ता­सं­भ­वा­त्तथा ।। ७५ ।।

मुक्त्यर्थाी न हि काम्यादि वर्जयेदिति चोदना ।।
अस्ति वेदे क्कचिद्येन शक्ते­र्वि­ध्ये­क­दे­शता ।। ७६ ।।

काम्यादिवर्जनं त्वेत­त्स्व­म­ति­प्र­भवं यतः।।
नातः शक्तेस्तदंशत्वं कथंचिदपि युज्यते ।। ७७ ।।

नित्या­दि­क­र­णा­न्नापि काम्यादेश्तापि वर्जनात् ।।
श्रेयः संभाव्यते विद्या­नि­ष्फ­ल­त्व­प्र­स­ङ्गतः ।। ७८ ।।

काम्या­त्स्व­र्गा­दिकं मा भूदक्रियायां तदुद्भवम् ।।
अर्था­न्त­रा­त्स्व­भा­वाद्वा भवन्न तु निवार्यते ।। ७९ ।।

अन्यतो भवने मानं न चेदस्त्विह संशयः।।
एतावताऽपि पक्षस्ते प्रतिबद्धो न सिध्यति ।। ८० ।।

अथैतयोरिति तथा चोद­ना­र्था­ति­ल­ङ्घि­नाम् ।।
सुख­दुः­खा­दि­सं­दृ­र्ष्टर्न चाप्यस्तीह संसयः ।। ८१ ।।

नित्यस्याकरणे दोषस्तत्कियायां न यद्यपि ।।
अन्यतोऽसौ स्वाभावाद्वा न तु मानेन वार्यते ।। ८२ ।।

नित्यादेः फलमिष्टं चेदु­पा­त्त­दु­रि­त­क्षयः ।।
तथाऽ­प्या­गा­मि­दो­षे­ष्वा­शङ्का पूर्ववदुद्भवेत् ।। ८३ ।।

अनभीष्टफलानां च दुरि­त­त्वा­त्क्षयो भवेत् ।।
नत्वा­भ्य़ु­द­यि­कानां स्याद­भी­ष्ट­त्वा­त्क्ष­यस्त्व ।। ८४ ।।

सर्वेषां दुष्टता चेत्स्यान्न विधानाददुष्टता ।।
नापि श्येना­दि­तु­ल्यत्वं फलदोषेण दुष्टता ।। ८५ ।।

ऐका­त्म्य­ज्ञा­न­त­श्चे­त्स्या­द्व्यर्था कर्मप्रधानता ।।
प्रधानत्वं च विद्या­या­स्त­मे­त­मिति दर्शितम् ।। ८६ ।।

तत उक्तेन मार्गेण कर्तृ­सं­स्का­र­का­रि­णाम् ।।
ऐका­त्म्य­ज्ञा­न­ता­त्पर्यं कर्मणामिति निश्चितम् ।। ८७ ।।

तेन निःसारतां बुद्ध्वा कर्मणां वेदतत्त्ववित् ।।
ऐका­त्म्य­ज्ञा­न­म­न्वेति तपोमुषितकल्मषः ।। ८८ ।।

यस्तु जन्मा­न्त­रा­भ्या­सा­त्क्ष­पि­ता­शे­ष­का­मनः।।
आदावेवाधिकारी स पुनः कर्म न वीक्षते ।। ८९ ।।

विरक्तस्य तु जिज्ञा­सो­र्मा­ना­न्ना­न्य­व्य­पे­क्ष­णम् ।।
कर्मापेक्षा हि साध्येऽर्थे सिद्धेऽर्थे तदनर्थकम् ।। ९० ।।

वामदेवस्य मैत्रेय्या गार्ग्याश्चैव समञ्जसम् ।।
दर्शनं, ब्रह्म­च­र्या­दे­स्तथा प्राव्रा­ज्य­शा­स­नात् ।। ९१ ।।

इष्टा­पू­र्ता­दि­हे­तू­ना­मा­न­न्त्या­त्स्व­र्ग­सि­द्धये ।।
हेत्व­न्त­रा­सं­भ­वोऽतो दुर्ज्ञानः संभवाद्भवेत् ।। ९२ ।।

एवं निषिद्धवाक्येषु यथोक्तं न्यायमादिशेत् ।।
नित्य­क­र्म­व­चः­स्वेवं नातो मुक्तिविनिश्चयः ।। ९३ ।।

अने­क­ज­न्मो­पा­त्तस्य पुण्यापुण्यस्य कर्मणः।।
अनन्तदेहहेतोश्च विप्रघातस्य संभावत् ।। ९४ ।।

ततः शेषेण वचनात्तथा तद्य इहेत्यतः।।
अनारब्धफलेहानां गम्येते संस्थितिस्ततः ।। ९५ ।।

फलं नित्यस्य नापीह दुरि­त­क्ष­य­मा­त्र­कम् ।।
फलान्तरश्रुतेः साक्षा­त्त­द्य­थाऽऽ­म्र­स्मृ­ते­स्तथा ।। ९६ ।।

आम्रे निमित्त इत्यादि ह्याप­स्त­म्ब­स्मृ­ते­र्वचः।।
फलवत्त्वं समाचष्टे नित्यानामपि कर्मणाम् ।। ९७ ।।

उक्तमेव तु संशीतावियं त्वत्र विनिश्चितिः।।
कार्यमारभते शक्ति­र्य­त्किं­चेह व्यवस्थिता ।। ९८ ।।

यस्मादसति कार्येऽसौ शक्तिरेव न सिध्यति ।।
कार्यकारणयोः सिद्धि­र­न्यो­न्या­व्य­ति­रे­कतः ।। ९९ ।।

कर्तृ­भो­क्तृ­स्व­रू­पेऽतो ह्यभ्यु­पे­तेऽ­न्त­रा­त्मनि ।।
न मुक्त्याशाऽस्ति पूर्वो­क्त­न्या­य­मा­र्ग­स­मा­श्र­यात् ।। १०० ।।

सापराधत्वतो मुक्तिः संदिग्धैव प्रसज्यते ।।
द्विजातीनां खरादेस्तु त्वदुक्त्या स्यादसंशयात् ।। १०१ ।।

ननूक्तं कर्म­शे­ष­त्व­मा­त्मनो यागकर्तृता ।।
नैतदेवं यतो नैतत्कर्माङ्गं ज्ञानमिष्यते ।। १०२ ।।

कर्तृत्वमात्मनः सिद्धं यतोऽन्यत्रापि यागतः ।।
निःशे­ष­क­र्म­का­रि­त्वा­त्त­स्मा­दु­क्त­म­पे­श­लम् ।। १०३ ।।

न ह्यात्म­ज्ञा­न­वि­र­हा­त्कर्म कर्तुं न शक्यते ।।
पर्णज्ञानमृते यद्व­ज्जु­हू­र्लातुं न शक्यते ।। १०४ ।।

देहा­न्त­रा­भि­सं­बन्धी नत्वा­त्माऽ­स्ती­त्य­जा­नतः।।
विवेकिनो न युक्तेयं प्रवृत्तिः पारलैाकिकी।। १०५ ।।

एवं तर्हि न कर्माङ्गं कर्तु­श्चे­ष्टै­क­हे­तुतः ।।
फलार्थिवन्न च ज्ञानं क्रियाङ्गत्वेन चोदितम् ।। १०६ ।।

नन्वेवमपि सिद्धः स्यात्प्रवेशः सर्वकर्मसु ।।
आत्मज्ञानस्य सामर्थ्यान्न नाम विधिसंश्रयात् ।। १०७ ।।

नैत­दे­व­म­वि­ज्ञा­त­त­त्त्व­स्यै­वेह कर्मसु ।।
अना­त्मा­र्थ­वि­शि­ष्टस्य ह्यधि­का­रि­त्व­हे­तुतः।। १०८ ।।

स्वरूपे आत्मनः स्थान­मा­हु­र्निः­श्रे­यसं बुधाः ।।
ततोऽ­न्ये­ना­भि­सं­बन्ध आत्म­नोऽ­ज्ञा­न­हे­तुकः ।। १०९ ।।

आगनत्वनात्मरूपं तत्स्व­सं­वि­त्त्यैव गम्यताम् ।।
नातोऽ­वा­प्त­पु­र्थस्य स्वरूपावस्थिस्य तु ।। ११० ।।

कर्तृ­भो­क्त्रा­दि­रू­पत्वं प्रत्य­ग­ज्ञा­न­तोऽ­न्यतः ।।
कर्म तत्फलभोगश्च बाह्यानि करणानि च ।। १११ ।।

ततोऽपि बाह्यो देहश्च जाति­स्त­त्स­म­वा­यिनी ।।
जरामरणजन्मानि देहाधिकरणानि च ।। ११२ ।।

दारपुत्रधनादीनि देहवाह्यानि यानि च ।।
कर्मा­धि­का­र­हे­तूनि स्वतोऽ­स्या­न­धि­का­रिणः ।। ११३ ।।

अभि­न्न­स्याऽऽ­त्मनो मोहाद्भेदकानीति मन्वते ।।
विशेषणं स्वरूपं वा नान्योन्यस्य स्वतो यतः ।। ११४ ।।

लोके दृष्टं विनाऽविद्यां मोहादृष्टं तु सर्वतः।।
चोरोऽसौ माम­भि­प्रै­ती­त्येवं चोरविशेषणम् ।। ११५ ।।

स्थाणुं संभावयत्यज्ञो न तु दृष्टं तमो विना ।।
नन्व­वि­द्या­मृ­तेऽ­प्य­न्य­दृ­ष्ट­म­न्य­वि­शे­ष­णम् ।। ११६ ।।

औपगवो नृपहयस्तथा श्येनचिदादयः ।।
नैतदेवं यतस्तत्र नैवं प्रत्य­क्त­ये­ष्यते ।।
अगन्यस्य संबन्धः कृशोऽ­ह­मि­ति­व­त्क्क­चित् ।। ११७ ।।

उपग्वादिर्हि पित्रादिः प्रकृत्यर्थो विशेषणम् ।।
भिन्न­स्यौ­प­ग­वा­प­त्य­प्र­त्य­या­र्थस्य गम्यते ।। ११८ ।।

नैवं कर्त्रा­दि­दे­हा­न्ता­ञ्जा­त्या­दी­न्दे­ह­गां­स्तथा ।।
व्यतिरेकतया कश्चि­द्वि­शि­न­ष्टीह मानवः ।। ११९ ।।

यत आत्म­त­यै­वै­तै­र्वि­शि­न­ष्ट्य­वि­शे­ष­णम् ।।
करोम्यन्धो द्विजो बालो दग्ध­श्छि­न्नोऽ­ह­मि­त्यपि ।। १२० ।।

नावि­द्या­म­न्त­रे­णैषां विशेषणविशेष्यता ।।
इयमेवाऽऽत्मनो ज्ञेया कर्मा­धि­कृ­ति­का­र­णम् ।। १२१ ।।

अधिक्रियन्ते येनैते बृहस्पतिसवादिषु ।।
अतोऽ­न­व­ग­तै­का­त्म्य­क­र्मा­धि­कृ­ति­हे­तुतः ।। १२२ ।।

श्रुत्या­दि­मा­न­प्र­मि­त­प्र­त्य­ग्या­था­त्म्य­नि­ष्ठि­तम् ।।
सर्व­क­र्म­स­मु­च्छेदि ज्ञानं वेदान्तमानजम् ।। १२३ ।।
तन्मू­ला­ज्ञा­न­घा­ति­त्वा­ज्ज्ञा­न­स्येह प्रसिद्धितः ।। १२४ ।।

न तु प्रवर्तकं तस्मा­न्ना­र्थ­वा­द­त्व­सं­भवः ।।
फलोक्तेः पर्णमय्यां तु युज्यते कर्मशेषतः।। १२५ ।।

यत्त्वचोदि त्वयाऽ­पी­य­म­भ्यु­पे­याऽ­र्थ­वा­दता।।
अनिच्छताऽपि विध्यर्थमत्र प्रतिविधीयते ।। १२६ ।।

इच्छा­म्ये­वा­र्थ­वा­दत्वं वच­सोऽ­न्य­प­र­त्वतः।।
यथा­श्रु­ता­र्थ­वा­दि­त्वान्न त्वभूतार्थवादता ।। १२७ ।।

इज्येते स्वर्गलोकाय दर्शादर्शौ यथा तथा ।।
न त्वभू­ता­र्थ­वा­दित्वं पाप­श्लो­का­श्रु­ते­र्यथा ।। १२८ ।।

कुतः प्राप्तं फलमिति प्रत्यक्षं ह्यात्मधीफलम् ।।
यतोऽवगम्यते तेन ज्ञानं कर्म न ढौकते ।। १२९ ।।

प्रवृत्तेः प्रति­कू­ल­त्वा­न्मुक्तिं प्रति विरोधतः ।।
मुमु­क्षो­र­धि­का­रोऽतो निवृत्तौ सर्वकर्मणाम् ।। १३० ।।

प्रवृ­त्ति­हे­तु­प्र­ध्व­स्तेर्न प्रवृत्तौ कथंचन ।।
नाभि­प्रे­त­पु­र­प्रा­प्ति­स­मर्थं सुगमं शिवम् ।। १३१ ।।

वारिपथ्यदनोपेतं सर्वा­न­र्थ­वि­व­र्जि­तम् ।।
प्राप्तं मार्गं समुत्सृज्य तद्विरुद्धेन वर्त्मना ।।
यियासति सुधीः कश्चिद्यथा भ्रान्तोऽ­ध्व­ग­स्तथा ।। १३२ ।।

तथाऽ­वि­द्यो­त्थ­क­र्त्रा­दि­ध­र्म­शू­न्य­म­वि­क्रि­यम् ।।
अक्रियाकारकं ज्ञात्वा निःशे­ष­पु­रु­षा­र्थ­दम् ।। १३३ ।।

आत्म­प्र­त्य­य­मा­ग­म्य­मा­त्मानं देवमञ्जसा ।।
तत्स्थितौ च फलेऽभीष्टे नित्ये साधनवर्जिते ।। १३४ ।।

तद्विरूद्धफले बाह्य­सा­ध­नेऽ­ने­क­का­रके ।।
कथं कर्मणि सर्वज्ञो मनो दध्याद्धसन्नपि ।। १३५ ।।

सम्य­ग्धी­मृ­दि­ता­शे­ष­ध्वा­न्तस्य च न पूर्ववत् ।।
अज्ञानादि पुनः कर्तुं शक्य­तेऽ­का­र­क­त्वतः ।। १३६ ।।

श्रुत्या­दि­मा­न­प्र­मि­त­या­था­त्म्य­ज्ञा­न­त­त्फलः।।
प्रतिकूलत्वतो विद्वान्यतः कर्मसु नेहते ।। १३७ ।।

अतोऽज्ञस्यैव निःशे­ष­मु­मु­क्षु­प्र­जि­हा­सितः ।।
कर्त्रा­द्य­ना­त्म­ध­र्मस्य कर्मा­धि­कृ­ति­रा­त्मनः ।। १३८ ।।

विद्या­त्म­मो­ह­त­त्का­र्य­वि­रो­धाच्च परस्परम् ।।
रोगा­दि­व­द­न­र्थ­त्वा­त्क­त्रीदिः प्रजिहासितः ।। १३९ ।।

जिहासितुः स्वभा­वोऽ­सा­वि­त्युक्तिः शिशुवक्तृका ।।
कर्त्रा­दि­श्चे­त्स्व­भावः स्यात्प्र­त्य­क्षा­क­र्तृ­रू­पिणः ।। १४० ।।

प्रत्य­क्षा­दि­वि­रोधः स्याद­नि­र्मो­क्ष­स्त­थैव च ।।
अस्तु काममनिर्मोक्षो विक्रि­या­व­त्त्वतो दृशेः।। १४१ ।।

अग्नि­व­त्फ­ल­भो­क्तृ­त्वान्नो चेदाकाशकल्पता ।।
इति चेन्नाऽऽत्मनो ध्रौव्या­द्वि­क्रि­या­नु­प­प­त्तितः।। १४२ ।।

मूर्ता­मू्र्त­त्व­ही­नस्य प्रतीचो विक्रिया कुतः।।
प्रमायोगो हि भोक्तृत्वं प्रमा चैवाऽऽत्मनः सदा ।। १४३ ।।

वाय्व­ग्नि­व­द्वि­कारो न प्राग­भा­वा­द्य­सं­भ­वात् ।।
अग्नयादीनां तु सांश­त्वा­द्व­ल­व­द्भि­स्त­दि­न्धनैः ।। १४४ ।।

अभि­भू­त­स्व­रू­पाणां काष्ठ­नि­र्म­थ­ना­दिना ।।
युक्तै­वाऽऽ­बि­ष्कृ­ति­र्नित्यं तेषां कार्यात्मकत्वतः ।। १४५ ।।

न त्वात्मनो निरं­श­त्वा­न्मुख्यै संभवतः क्कचित् ।।
अवि­र्भा­व­ति­रो­भावौ स्वतःसिद्धेश्च कारणात् ।। १४६ ।।

अभ्यु­पे­ताऽ­प्य­भि­व्य­क्ति­र्ना­भि­व्य­ङ्ग्यस्य विक्रिया ।।
यथा तथाऽनभिव्यक्तिः सर्वेषामपि वादिनाम् ।। १४७ ।।

अतोऽ­न­भ्यु­प­ग­च्छ­द्भि­र्मुक्तौ कर्त्रा­दि­रा­त्मनः।।
अविद्याकल्पितो ज्ञेयो न ह्यसौ परमार्थतः ।। १४८ ।।

कर्त्रा­द्या­त्म­स्व­भा­वस्य प्रात्य­क्ष्यान्न तदान्मनि ।। १४९ ।।
मात्रादिबोधकं मानं प्रत्यगात्मनि साक्षिणि ।।
न व्यापारयितुं शक्यं वह्रि दग्धु­मि­वो­ल्मु­कम् ।। १५० ।।

साक्षि­सा­क्ष्या­भि­सं­बन्धः प्रमात्रादौ यथा तथा ।।
साक्षिवस्तुनि नैव स्यात्के­व­ला­नु­भ­वा­त्मनि ।। १४१ ।।

परा­र्थ­सं­ह­ता­ना­त्म­भो­ग्य­क­र्त्रा­दि­बो­धिना ।।
विरो­धा­त्त­द्वि­रु­द्धोऽर्थः प्रत्य­ये­ने­क्ष्यते कथम् ।। १५२ ।।

इच्छा­द्वे­षा­दि­र­प्येवं नाऽऽत्मनो धर्म इष्यताम् ।।
कामः संकल्प इत्येवं मनो­ध­र्म­त्व­सं­श्र­वात् ।। १५३ ।।

स्वप­रो­भ­य­हे­तुत्वे ह्यनि­र्मो­क्ष­प्र­स­ङ्गतः ।।
सम्यग्निरूपणे चैषा­म­वि­द्या­का­र्य­तैव हि ।। १५४ ।।

इच्छादीनां स्वहे­तु­त्वेऽ­नर्थं कुर्यात्कथं स्वयम् ।।
आत्मा जानन्यथा शत्रोरात्मनोऽतो न युज्यते ।। १५५ ।।

तथा पर­नि­मि­त्त­त्वेऽ­न­र्थ­स्या­प­रि­हा­रतः ।।
नैकान्तिकफलत्वं स्याद्रो­गा­दि­प­रि­ह­र­वत् ।। १५६ ।।

करणैः संहतिं चर्ते परिहारः कुतो दृशेः।।
तथो­भ­य­नि­मि­त्तत्वे नैकान्तिकफलोदयः ।। १५७ ।।

परा­भि­प्रा­या­नि­य­मा­न्नैव स्यान्मो­क्ष­नि­श्चितिः।
निर्हे­त्व­वि­द्या­कृप्तौ तु दोषः कश्चिन्न विद्यते ।। १५८ ।।

तद्वर्जनस्य संसिद्धेः प्रसि­द्धो­पा­य­सं­श्र­यात् ।।
परा­ग­र्थ­प्र­मे­येषु या फलत्वेन संमता ।।
संवित्सैवेह मेयोऽर्थो वेदा­न्तो­क्ति­प्र­मा­णतः।। १५९ ।।

अप्रा­मा­ण्य­प्र­स­क्तिश्च स्यादि­तोऽ­न्या­र्थ­क­ल्पने ।।
वेदा­न्ता­ना­म­त­स्त­स्मा­न्ना­न्य­मर्थं प्रकल्पयेत् ।। १६० ।।

नन्वेवमपि मानत्वव्याघातः स्यात्क्रि­या­विधेः।।
वेदा­न्ते­ष्व­प्य­ना­श्वा­स­स्तथा च प्रसजेद्ध्रुवम् ।। १६१ ।।

नैतदेवं यतोऽ­शे­ष­मा­ना­ना­मपि मानता ।।
आ परा­त्मा­व­बो­धा­त्स्या­त्तत्र सर्वसमाप्तितः।। १६२ ।।

नातोऽवतारो माना­ना­मै­का­त्म्ये­नैव संक्षयात् ।।
श्येना­दि­वि­धि­बाधः स्याद­हिं­सा­वि­धिना यथा ।। १६३ ।।

कर्माण्यतो विधी­य­न्तेऽ­वि­द्या­वन्तं नरं प्रति ।।
न तु विध्व­स्त­स­क­ल­क­र्म­हेतुं द्विजं प्रति ।। १६४ ।।

सर्व­क­र्म­नि­रा­सेऽतो ह्यधिकारो विवेकिनः।।
यथोक्तन्यायतः सिद्धो न तु कर्मसु कर्हिचित् ।। १६५ ।।

कारकव्यवहारे हि शुद्धं वस्तु न वीक्ष्यते ।।
शुद्धे वस्तुनि सिद्धे च कार­क­व्या­पृ­ति­स्तथा ।। १६६ ।।

कार­का­का­र­क­धि­यो­र्नै­क­दै­कत्र वस्तुनि ।।
विरो­धा­त्सं­भ­वोऽ­स्तीह प्रकाशतमसोरिव ।। १६७ ।।

अविरोधः क्रमेण स्यात्स्थि­ग­त्यो­रि­वेति चेत् ।।
नाऽऽत्मज्ञानस्य कूट­स्थ­व­स्तु­त­त्र­त्व­हे­तुतः ।। १६८ ।।

नौष्ण्यात्मको मितो वह्रिः क्रमशोऽक्रमशोऽथ वा ।।
वस्तुतः शीततामेति, कर्तृतत्रं तथा भवेत् ।। १६९ ।।

भेदा­भे­दा­त्म­का­त्वा­च्चे­दे­क­स्या­पीह वस्तुनः।।
अविरोधो, न तन्न्याय्यं त्वदु­क्ता­र्थ­वि­रो­धतः।। १७० ।।

नानेकस्यैकता न्याय्या तथै­क­स्या­प्य­ने­कता ।।
वस्तुतत्रत्वतो बुद्धेर्न चेदेवं मृषा मतिः ।। १७१ ।।

यथा चास्य विरुद्धत्वं तथोदर्के प्रवक्ष्यते ।।
ऐकात्म्यस्यैव मेयत्वं तस्यै­वा­प्र­ति­बो­धतः ।। १७२ ।।

वस्तूनीह प्रमीयन्ते व्यावृत्तानि परस्परम् ।।
अभावेन प्रमाणेन तेनोक्तं ते विरुध्यते ।। १७३ ।।

भेदे वा यदि वाऽभेदे संसृ­ते­र्ब्र­ह्मणा सह ।।
ब्रह्म­णोऽ­ब्र­ह्मता तद्व­द्वि­द्या­न­र्थ­क्य­सं­शते ।। १७४ ।।

ब्रह्मा­वि­द्या­व­दिष्टं चेन्ननु दोषो महानयम् ।।
निरविद्ये च, विद्याया आनर्थक्यं प्रसज्यते ।। १७५ ।।

नावि­द्याऽ­स्ये­त्य­वि­द्या­या­मे­वाऽऽ­सित्वा प्रकल्प्यते ।।
ब्रह्मटृष्ट्या त्वविद्येयं न कथंचन युज्यते ।। १७६ ।।

यतोऽ­नु­भ­व­तोऽ­विद्या ब्रह्मा­स्मी­त्य­नु­भू­ति­वत् ।।
अतो मानो­त्थ­वि­ज्ञा­न­ध्वस्ता साऽप्ये­त्य­थाऽऽ­त्म­ताम् ।। १७७ ।।

ब्रह्मण्यविदिते वोधा­न्ना­वि­द्ये­त्यु­प­प­द्यते ।।
नितरां चापि विज्ञाते मृषा­धी­र्ना­स्त्य­बा­धिता ।। १७८ ।।

अवि­द्या­वा­न­विद्यां तां न निरूपयितुं क्षमः।।
वस्तु­वृ­त्त­म­तोऽ­पेक्ष्य नाविद्येति निरूप्यते ।। १७९ ।।

वस्तुनोऽन्यत्र मानानां व्यापृतिर्न हि युज्यते ।।
अविद्या च न वस्त्वष्टं माना­घा­ता­स­हि­ष्णुतः ।। १८० ।।

अविद्याया अविद्यात्व इदमेव तु लक्षणम् ।।
माना­घा­ता­स­हि­ष्णु­त्व­म­सा­धा­र­ण­मि­ष्यते ।। १८१ ।।

त्वत्पक्षे बहु कल्प्यं स्यात्सर्वं मानविरोधि च ।।
कल्प्याऽविद्यैव मत्पक्षे सा चानुभवसंश्रया ।। १८२ ।।

तत्त्व­म­स्या­दि­वा­क्यो­त्थ­स­म्य­ग्धी­ज­न्म­मा­त्रतः।।
अविद्या सह कार्येण नाऽऽसीदस्ति भविष्यति ।। १८३ ।।

अतः प्रमा­ण­तोऽ­श­क्याऽ­वि­द्याऽ­स्येति निरीक्षितुम् ।।
कीद्दशी वा कुतो वाऽसा­व­नु­भू­त्ये­क­रू­पतः ।। १८४ ।।

देव­ता­द्र­व्य­क­र्त्रादि ननु वस्त्वस्तु नाद्वयम् ।।
सर्व­लो­क­प्र­सि­द्ध­त्वा­द­द्व­य­स्या­प्य­सि­द्धितः ।। १८५ ।।

नैतत्साधु, प्रमाणानां सर्वलोकाभिधं न हि ।।
प्रमाणमस्ति यत्प्रा­णा­द्भ­वा­नेवं प्रभाषते ।। १८६ ।।

अभिमानश्च यत्रायं सर्वलोकास्य गम्यते ।।
प्रत्य­क्षोऽ­र्थोऽ­य­मि­त्येवं मिथ्यात्वं तस्य चोदितम् ।। १८७ ।।

प्रत्यक्षं च यथाऽऽसन्नं परो­क्षा­द्व­स्तुनो मतम् ।।
सर्व­प्र­त्य­क्त­म­स्त­द्व­द्बोधो वाक्योत्थ आत्मनि ।। १८८ ।।

आत्मा­नु­भ­व­मा­श्रित्य प्रत्यक्षादि प्रसिध्यति ।।
अनुभूतेः स्वतः सिद्धेः काऽपेक्षा ह्यात्मसिद्धये ।। १८९ ।।

आत्मा­नु­भ­व­पू­र्व­त्वा­त्प्र­त्य­क्ष­त्वस्य न स्वतः।।
आत्मै­क­ग­म्य­मै­कात्म्यं वेदा­न्ते­ष्व­व­ग­म्यते ।। १९० ।।

यच्चाप्युक्तं श्रुतिस्मृत्योः क्रियाया एव सिद्धितः ।।
अतः क्रियातिरेकेण नास्त्य­न्य­न्मु­क्ति­सा­ध­नम् ।। १९१ ।।

केन चोक्तं क्रिया मुक्तेः साधनत्वं न गच्छति ।।
तमेतामिति नाश्रौषीः संस्कारा इति च स्मृतिम् ।। १९२ ।।

यद्य­प्यै­का­त्म्यधीः साक्षा­च्छ्रु­ति­स्मृ­त्योर्न चोद्यते ।।
तथाऽप्यसौ न तद्बाह्या ताभ्या­मे­वाऽऽ­त्म­बो­ध­नात् ।। १९३ ।।

यच्च न ज्ञाप्यते वेदे वस्त्वि­त्ये­त­द­चू­चुदः।।
तच्चापहस्तितं चोद्यं वक्ष्यते च निराकृतिः।। १९४ ।।

विधावसति वाक्यस्य यच्चा­वो­चोऽ­प्र­मा­ण­ताम् ।।
स्फृट­न्या­यो­क्ति­भि­स्तच्च यत्ना­त्प­रि­ह­रि­ष्यति ।। १९५ ।।

यच्चोक्तं न पुमर्थोऽस्ति वस्तु­मा­त्रा­व­बो­ध­नात् ।।
आख्यानप्रचुरा यस्मात्रय्यन्ता इह लक्षिताः ।। १९६ ।।

रामो राजा बभूवेति न ह्येता­व­त्प्र­बो­धतः।।
संभाव्यते पुमर्थोऽतो विध्य­र्थ­वि­र­हा­त्क­चित् ।। १९७ ।।

परार्थतैव सर्वत्र ज्ञान­स्ये­हो­प­ल­क्ष्यते ।।
ज्ञात्वाऽ­नु­ष्टा­न­व­च­ना­द्वि­द्वा­न्य­जत इत्यपि ।। १९८ ।।

उक्तोऽत्र परिहारः प्रागूर्ध्वं चापि प्रवक्ष्यते ।।
विद्याफलस्य प्रात्य­क्ष्या­दि­ति­हे­तु­स­मा­श्र­यात् ।। १९९ ।।

ननु निर्धूतशोकादि फलं यच्छ्रूयते श्रुतौ ।।
आत्मस्तुतिरसौ तस्मा­त्त्व­न्म­नो­र­थ­क­ल्पि­तम् ।। २०० ।।

अत्रोच्यते ह्यभिप्रेतं गम्यमानं प्रमाणतः ।। २०१ ।।
फलं तत्संपरित्यज्य कस्माल्लक्षणया स्तुतिम् ।।
अश्रु­ता­म­न­भि­प्रेतां कल्पयस्यबुधो यथा ।। २०२ ।।

न चास्त्ये­क­वि­प­यत्वं प्रत्य­क्ष­व­च­सो­र्यतः ।।
श्रुत्यैव परिहारोक्तेः स्वप्ना­दि­स्था­न­सं­च­रात् ।। २०३ ।।

वहुशोऽसङ्गवचसा निःसङ्गत्वं ब्रुवाणया ।।
मनोराज्यसमं मन्ये सर्व­मे­त­त्त्व­यो­दि­तम् ।। २०४ ।।

न प्रत्येमि यतः साक्षा­त्प्र­त्यक्षं ज्ञानतः फलम् ।।
श्रुतादपि न चेद्वा­क्या­ज्जा­येत फलवन्मतिः।।
आशङ्क्येत तदै­वै­त­द्य­दे­त­द्भ­व­तो­दि­तम् ।। २०५ ।।

नित्य­मु­क्त­त्व­वि­ज्ञानं वाक्याद्भवति नान्यतः ।।
वाक्यार्थस्यापि विज्ञानं पदा­र्थ­स्मृ­ति­पू­र्व­कम् ।। २०६ ।।

अन्व­य­व्य­ति­रे­काभ्यां पदार्थः स्मर्यते ध्रुवम् ।।
एवं निर्दुः­ख­मा­त्मा­न­म­क्रियं प्रतिपद्यते ।। २०७ ।।

सदे­वे­त्या­दि­वा­क्येभ्यः प्रमा स्फुटतरा भवेत् ।।
दश­म­स्त्व­म­सी­त्य­स्मा­द्य­थैवं प्रत्यगात्मनि ।। २०८ ।।

अमा­त्वा­श­ङ्का­स­द्भा­वा­न्मा­न्त­रै­श्चा­वि­रो­धतः ।।
वक्ष्यत्येतच्च यत्नेन लोक­सि­द्धो­प­प­त्तिभिः ।। २०९ ।।

चतु­ष्पा­न्मा­नि­रा­सेन साक्षा­ज्ज्ञा­न­फलं ततः ।। २१० ।।
नव­सं­ख्या­हृ­त­ज्ञानो दशमो विभ्रमाद्यथा ।।
न वेत्ति दशमोऽस्मीति वीक्षमाणोऽपि तान्नव ।। २११ ।।

अप­वि­द्ध­द्व­योऽ­प्येवं तत्त्व­मि­त्या­दिना विना ।।
वेत्ति नैकलमात्मानं प्रत्य­ड्भो­हा­प्र­बो­धतः।। २१२ ।।

वुभु­त्सो­च्छे­दि­नै­वास्य सदसीत्यादिना टृढा ।।
प्रतीचि प्रतिपत्तिः स्यात्प्र­त्य­ग­ज्ञा­न­बा­धया ।। २१३ ।।

निःशे­ष­क­र्म­सं­न्यासो वाक्य­र्थ­ज्ञा­न­ज­न्मने ।।
तस्याऽऽ­रा­दु­प­का­रि­त्वा­त्स­हा­य­त्वाय केल्प्यते ।। २१४ ।।

त्याग एव हि सर्वेषां मोक्ष­सा­ध­न­मु­त्त­मम् ।।
त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम् ।। २१५ ।।

शान्तो दान्त इति तथा सर्व­त्या­ग­पु­रः­स­रम् ।।
उपा­य­मा­त्म­वि­ज्ञाने श्रुति­रे­वा­ब्र­वी­त्स्व­यम् ।। २१६ ।।

प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् ।।
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ।। २१७ ।।

मुक्तेश्च विभ्यतो देवा मोहे­ना­पि­द­धु­र्न­रान् ।।
ततस्ते कर्मसूद्युक्ताः प्राव­र्त­न्ता­वि­च­क्षणाः ।। २१८ ।।

अतः संन्यस्य कर्माणि सर्वा­ण्या­त्मा­व­बो­धतः ।।
हत्वाऽविद्यां धियै­वे­या­त्त­द्विष्णोः परमं पदम् ।। २१९ ।।

इति भाल्लविशाखायां श्रुति­वा­क्य­म­धी­यते ।।
सर्वकर्मनिरासेन तस्मादात्मधियो जनिः ।। २२० ।।

सत्यानृते इति तथा सर्व­सं­न्या­स­पू­र्व­कम् ।।
आत्मनोऽन्वेषणं साक्षा­दा­प­स्त­म्बोऽ­ब्र­वी­न्मुनिः ।। २२१ ।।

``नाविरतो दुश्च­रि­ता­न्ना­शान्तो नासमाहितः ।।
नाशान्तमानसो वाऽपि प्रज्ञा­ने­नै­न­मा­प्नु­यात् '' ।। २२२ ।।

वेदानुवचनादीनां विनि­यो­गो­क्ति­य­त्नतः।।
भिन्ना­धि­का­रि­ता­लिङ्गं कर्म­वि­ज्ञा­न­का­ण्डयोः ।। २२३ ।।

ज्ञानो­त्प­त्त्या­दि­का­ल्लि­ङ्गा­द्य­त­स्त­द्धे­तु­मा­त्र­कम् ।।
गम्यते न विशेषोऽतः कर्मैवेति न गम्यते ।। २२४ ।।

मुण्डोऽ­प­रि­ग्र­होऽ­सङ्गो बहिरन्तःशुचिः सदा ।।
ब्रह्मभूयाय भवति परिव्राडिति च श्रुतिः ।। २२५ ।।

इत्या­दि­श्रु­ति­वा­क्यानि स्मृतिभिः सह कोटिशः ।।
ज्ञानाय विदधत्युच्चैः संन्यासं सर्वकर्मणाम् ।। २२६ ।।

यच्चाभाणि विना कार्यं नाधिकारो निरूप्यते ।।
दोषोऽयमपि नैव स्याज्ज्ञा­नो­पाये यथोदिते ।। २२७ ।।

विधि­मा­र्गेऽ­धि­का­रस्य परीक्षा वेर्तते यतः ।।
फलभूते तु विज्ञाने नाधिकारो निरूप्यते ।। २२८ ।।

अधिकारविचारो हि नृतन्त्रे वस्तुनीष्यते ।।
वस्तुतन्त्रे न युक्तोऽसौ स्वयं चैव पुमर्थतः ।। २२९ ।।

अनात्मनि प्रमेयेऽर्थे या फलत्वेन संमता ।।
प्रमेया सैव वेदा­न्ते­ष्व­नु­भू­ति­रि­हाऽऽ­त्मनः ।। २३० ।।

विज्ञा­न­मा­न­न्द­मिति ह्यात्मैवेति श्रुतेस्तथा ।।
पुमर्थस्यैव मेयत्वं मातृ­त्वा­द्य­न­पे­क्षिणः ।। २३१ ।।

तज्ज्ञानं यस्य संजातं जातमेवास्य नान्यथा ।।
कुक्षिस्थस्यापि हि सतो वामदेवस्य तद्यथा ।। २३२ ।।

तच्चा­वि­द्या­नि­रा­स्येव व्याध­भा­व­न­याऽ­ञ्जितः ।।
राजसूनोः स्मृतिप्राप्तौ व्याधभावो निवर्तते ।। २३३ ।।

यथै­व­मा­त्म­नोऽ­ज्ञस्य तत्त्व­म­स्या­दि­वा­क्यतः ।।
लब्धै­का­त्म्य­स्मृ­ते­र्व्येति सर्वाऽविद्या सकार्यका ।। २३४ ।।

यत एवमतो नात्र विधिः कल्प्यः कथंचन ।।
अनर्थकः कल्पितोऽपि तस्येहानुपयोगतः ।। २३५ ।।

उत्पत्तिराप्तिः संस्कारो विकारश्च विधेः फलम् ।।
मुक्ति­र्वि­ल­क्ष­णै­ते­भ्य­स्ते­ने­हा­न­र्थको विधिः ।। २३६ ।।

अन­न्या­य­त्त­सं­सि­द्धे­र्नि­र­वि­द्या­त्म­व­स्तुनः ।।
न क्रियात्वं फलत्वं वा नापि कारकरूपता ।। २३७ ।।

अतोऽत्र विध्यभावोऽयं न कथंचन दूषणम् ।।
अलंकृतिरियं साध्वी वेदान्तेषु प्रशस्यते ।। २३८ ।।

चोद­ना­भि­र्नि­यु­क्तोऽहं तथा ब्रह्महमित्यपि ।।
पर­स्प­र­वि­रु­द्ध­त्वा­दे­क­दै­कत्र न द्वयम् ।। २३९ ।।

स्वामी सन्न हि भृत्येन स्वामिनेव नियुज्यते ।।
संबोधनीय एवासौ सुप्तो राजेव बन्दिभिः ।। २४० ।।

चोद­ना­ल­क्ष­ण­त्वादि धर्मं प्रत्येव गृह्यताम् ।।
धर्मस्यैव प्रति­ज्ञो­क्तेर्न तु ब्रह्म प्रतीष्यते ।। २४१ ।।

अथातो धर्म­इ­त्यु­क्ते­श्चो­द­ना­ल­क्ष­णो­क्तितः ।।
तद्भूतानां क्रियार्थेन ह्याम्नायस्य क्रियार्थतः ।। २४२ ।।

भावार्थाः कर्मशब्दा ये प्रतीयेत क्रिया ततः ।।
इत्येवं नरतन्त्रेऽर्थे ज्ञेया द्वादशलक्षणी ।। २४३ ।।

वेदा­न्ता­र्था­प­वा­दाय नालं साऽतत्प्रमाणतः ।।
मानं नालं निराकर्तुं वस्तु यन्मा­न्त­रै­र्मि­तम् ।। २४४ ।।

स्वमे­य­मा­त्र­शू­र­त्वा­न्मि­ते­र्ना­न्यत्र मानता ।।
अथातो ब्रह्मजिज्ञासा इत्याद्युक्तं नयान्वितम् ।। २४५ ।।

मीमां­सा­न्या­य­व­त्त्वाभ्यां धर्म­मी­मां­स­नो­क्ति­वत् ।।
एवं सत्यनुकूलार्थं तत्त्व­मि­त्या­दिकं वचः ।। २४६ ।।

सर्व­वे­दा­न्त­वि­ष­य­म­न्यथा तद्विरुध्यते ।। २४७ ।।
न तत्र करणापेक्षा नेतिकर्तव्यता तथा ।।

यत्र यत्राऽऽत्मभावेन श्रुत्या ब्रह्मावबोध्यते ।। २४८ ।।
इति­क­र्त­व्य­ता­दानं करणादानमेव च ।।
तत्र तत्र विधिः स्थाने प्रहितस्य फलेच्छया ।। २४९ ।।

आप्ता­शे­ष­पु­म­र्थ­त्वा­त्त्य­क्ता­न­र्थस्य च स्वतः ।।
अनात्मनीव नेच्छेयं कथं­चि­त्स्या­दि­हाऽऽ­त्मनि ।।
तन्निवृत्तौ निवर्तेते इतिकर्तव्यसाधने ।। २५० ।।

निर­न्त­रा­य­तोऽ­शे­ष­पु­म­र्थ­स्याऽऽ­त्म­रू­पतः ।।
न चांशत्रयशून्येह भावनेष्टा परीक्षकैः ।। २५१ ।।

भावनातो न चान्यत्र विधि­र­भ्यु­प­ग­म्यते ।।
मोह­मा­त्रा­न्त­रा­यायां मुक्तावस्तु यथोदितम् ।। २५२ ।।

एकदेशो विकारो वा संसारी त्वात्मनो यदा ।।
किं तदाऽ­प्यु­क्त­मा­र्गेण मुक्तिः किंवा क्रियाश्रयात् ।। २५३ ।।

निवृत्तावेव निःशेपसंसारस्य तदाऽपि तु।।
आगन्तोरधिकारः स्यान्न प्रवृत्तौ कथंचन ।। २५४ ।।

आत्मा­ज्ञा­न­नि­मि­त्तस्य ह्यन्य­त्वा­नु­प­प­त्तितः ।।
तदाऽ­प्य­वि­द्या­वि­ध्व­स्ता­व­धि­कारो न कर्मणि ।। २५५ ।।

कर्त­व्या­भा­व­ते­स्त्वेवं विकारेऽपि न कर्मणि ।।
कार­णै­क­त्व­सं­पत्तेः स्वतः­सि­द्ध­त्व­हे­तुतः ।। २५६ ।।

मृदा­प­त्ति­र्घ­ट­स्येव विका­र­स्याऽऽ­त्मनो ध्रुवम् ।।
अवि­का­रा­त्म­सं­पत्तिः सा च तत्त्वावबोधतः ।। २५७ ।।

कार्य­का­र­ण­यो­र्भित्तौ कार्यकारणता कुतः।।
अभित्तौ च तयो­रै­क्या­त्का­र्य­का­र­णता कुतः ।। २५८ ।।

विज्ञा­ना­त्म­वि­का­रस्य कारणैक्यं विमुक्तता ।। २५९ ।।
स्वतस्तस्य च संसिद्धेः कार्यता नोपपद्यते ।।
कर्मानोऽनर्थकं मुक्ता­वे­क­दे­श­वि­का­रयोः ।। २६० ।।

अप्यनर्थाय कर्म स्यात्क्रियमाणं न मुक्तये ।।
प्रतिकूलं विमुक्तेश्चं क्रियमाणमसंशयम् ।।
कर्माऽऽरभेत तेनैतन्मुक्तौ कर्म निरर्थकम् ।। २६१ ।।

विका­रोऽ­त्या­न्ते­नि­र्भिन्नो यदा तु स्याद्विकारिणः ।।
तदाऽपि विकृतेर्नाशो मुक्ति­रि­त्य­भि­धी­यते ।। २६२ ।।

अत्राप्यनर्थकं कर्म तत्फलासंभवत्वतः ।।
कर्मेण ज्ञानमप्यत्र फलाभावादनर्थकम् ।। २६३ ।।

नैवा­वि­द्या­कृ­तै­वासौ वास्तवी यदि संसृतिः ।।
स्वरूपनाशदोषः स्यादेकदेशेऽपि पूर्ववत् ।। २६४ ।।

यदा त्ववि­द्य­याऽ­ध्यस्तं संसारित्वं न वस्तुतः ।। २६५ ।।
विकारेऽवयवे चैव तदा पूर्वोक्त एव तु ।।
पक्षो निर्वहणीयः स्यादस्माभिरपि संमतः ।। २६६ ।।

सर्ववादाविरोधी च नातो विधिरिहेष्यते ।।
तदा हि कल्पनाः सर्वा विकारावयवादिकाः ।।
तृथैवेमा ह्यविद्यैव सर्वाः संपादयिष्यति ।। २६७ ।।

पूर्णं निःश्रेयसं तस्मा­त्त­द­पू­र्ण­म­वि­द्यया ।। २६८ ।।
आभासते मृषैवातो यथा­भू­ता­त्म­वि­द्यया ।।
प्रध्व­स्ता­या­म­वि­द्यायां पूर्ण­मे­वा­व­शि­प्यते ।। २६९ ।।

अनर्थको विधि­स्त­स्मा­त्सर्वो निःश्रेयसं प्रति ।।
इत्येतन्न्यायतः सिद्धं यत्तु प्राक्चोदितं त्वया ।।
आम्नायस्य क्रिया­र्थ­त्वा­दि­त्य­त्रा­प्य­भि­धी­यते ।। २७० ।।

तत्राऽऽ­म्ना­या­भि­धा­नस्य ह्याम्ना­यां­शा­भि­धा­नतः ।।
विध्युक्तीनां क्रियार्थत्वं सिद्धं हेतुतयोच्यते ।। २७१ ।।

क्रिया­प्र­क­र­ण­स्थानां विधिशेषात्मनां सताम् ।।
वच­सा­म­क्रि­या­र्था­ना­मा­न­र्थ­क्याय तद्वचः ।। २७२ ।।

न तूपनिषदां न्याप्यं पार्थनर्थ्यस्य संभवात् ।।
पूर्वोक्तेनैव न्यायेन नात­स्त­द्वि­धि­शे­षता ।। २७३ ।।

विधिना त्वेक­वा­क्य­त्वा­दिति यच्चापि चोदितम् ।।
तेषामेव तदप्यस्तु तदा­न­र्थ­क्य­चो­द­नात् ।। २७४ ।।

न तु वेदान्तवचसां दृष्टार्थत्वेन हेतुना ।।
तद्बुद्धेः पृथ­ग­र्थ­त्व­मु­क्त­मे­वा­ति­वि­स्त­रात् ।। २७५ ।।

अन्या­र्था­नु­प­प­त्तेश्च वेदान्तवचसां तथा ।।
अर्थैकत्वगतौ सत्यां वाक्य­भे­द­प्र­क­ल्पना ।।
न न्याय्या सेति दृष्ट­त्वा­द्दे­वस्य त्वादिवाक्यवत् ।। २७६ ।।

तथैव पृथगर्थत्वगतौ भिन्नवचस्त्वतः ।।
इषे त्वादिषु दृष्टत्वान्न न्याय्यै­का­र्थ­क­ल्पना ।। २७७ ।।

ज्ञान­का­ण्डा­र्थ­शे­षत्वं कर्मकण्डस्य यत्पुनः ।।
विनि­यो­ज­क­हे­त्वे­त­त्त­यो­र्वा­क्यै­क­वा­क्यतः ।। २७८ ।।

न्यायेन वक्ष्यमाणेन भूयोऽ­प्ये­त­त्प्र­व­क्ष्यते ।। २७९ ।।
पार्थगर्थ्यमतः सिद्ध­म­पा­स्त­वि­धि­ल­क्ष­णम् ।।
सर्वोपनिषदां चाऽऽत्मज्ञानं कैवल्यसाधनम् ।। २८० ।।

निःशे­ष­वा­ङ्भ­नः­का­य­प्र­वृ­त्त्यु­प­र­मा­त्मिका ।।
तन्निष्ठा चेह विज्ञेया यथो­क्त­न्या­य­व­र्त्मना ।। २८१ ।।

अधिकारोऽपि तस्यां च सिद्धोऽ­शे­ष­क्रि­या­त्यजः।।
जिज्ञासोरेव, कर्तुस्तु न सिषाधयिषोः सदा ।। २८२ ।।

ब्रह्मा­त्म­त­त्त्व­व्यु­त्प­त्ति­मा­त्रे­णा­प्य­धि­का­रिता ।।
भवत्येवात्र जिज्ञा­सो­र­ज्ञ­स्यापि मुमुक्षुतः ।। २८३ ।।

मैवं प्रक्र­म­सं­हा­र­प­र्या­लो­च­नया पुरा ।।
वेद­स्यै­का­र्थ्य­ता­त्प­र्य­मे­क­वा­क्य­त­यो­दि­तम् ।। २८४ ।।

तेन निःशे­ष­वे­दो­क्त­का­रि­णोऽ­त्रा­धि­का­रिता ।।
सिद्धे ह्यनेकवाक्यत्वे कल्प्या भिन्नाधिकारिता ।। २८५ ।।

मैवं भिन्नै­क­वा­क्यत्वे प्रागस्माभिः समर्थिते ।।
ततश्च भवदुक्तस्य चोद्यस्येह न संभवः।। २८६ ।।

नापि निःशे­ष­वे­दा­र्थ­म­नु­ष्ठातुं क्षमो नरः ।।
पुमायुषाऽपि येन स्यादा­त्म­ज्ञा­नेऽ­धि­का­रिता ।। २८७ ।।

संपदां चार्थवादत्वं तेन वेदान्तगोचरे ।।
ज्ञानेऽ­धि­का­रि­णोऽ­भा­वा­त्प्रा­माण्यं क्षिप्यते स्वतः ।। २८८ ।।

किंच मानादविज्ञाता विमुक्तिः काम्यते न च ।।
ज्ञातायां स्वात्म­रू­प­त्वा­त्सु­तरां नास्ति कामना ।। २८९ ।।

न युक्तं कामना मुक्तौ पुंसां नास्तीति भाषितुम् ।।
देश­का­ला­न­व­च्छि­न्न­सु­खा­द्य­र्थि­त्व­द­र्श­नात् ।। २९० ।।

किंच ज्ञान­म­दृ­ष्टा­र्थ­म­ग्नि­हो­त्रा­दि­व­द्यदि ।।
ततोऽ­धि­का­रि­चिन्ता स्यात्कृ­तेऽ­प्य­फ­ल­शङ्क्या ।। २९१ ।।

कामि­नाऽ­प्य­ग्नि­हो­त्रादि शूद्रे­णा­न­धि­का­रिणा ।।
कृतमप्यफलं तेन यत्नात्तत्र निरूप्यते ।। २९२ ।।

अवि­द्या­घ­स्म­र­ज्ञा­न­ज­न्म­मा­त्रा­व­ल­म्बिनः।।
पुमर्थस्याधिकं शास्त्रा­त्किं­चि­दत्र तु नार्थ्यते ।। २९३ ।।

कुत­स्त­ज्ज्ञा­न­मिति चेत्तद्धि बन्धपरिक्षयात् ।।
असावपि च भूतो वा भावी वा वर्ततेऽथवा ।। २९४ ।।

अधी­त­वे­द­वे­दा­र्थोऽ­प्यत एव न मुच्यते ।।
हिर­ण्य­नि­धि­दृ­ष्टा­न्ता­दि­द­मेव च दर्शितम् ।। २९५ ।।

भिद्यते हृद­य­ग्र­न्थि­द्रि­छ­द्यन्ते सर्वसंशयाः।।
क्षीयन्ते चास्य कर्मणि तस्मिन्दृष्टे परावरे ।। २९६ ।।

इत्यादिनाऽपि विज्ञानं नादृ­ष्टा­र्थ­मि­ती­रि­तम् ।।
तथा स ब्रह्मणः केन स्याद्येनेति प्रदर्शितम् ।। २९७ ।।

आत्या­न्ति­क­सु­र­वा­न­र्थ­प्रा­प्ति­वि­च्छे­का­ङ्क्षिणः ।।
प्रीत्यु­त्क­र्षोऽपि लोकेऽ­स्मि­न्दृष्टाः स किं न काम्यते ।। २९८ ।।

दृष्टा­दृ­ष्टा­र्थ­सं­व­न्धि­प्री­त्यु­त्क­र्षा­वि­शे­षतः।।
नाऽऽनन्दादन्यतो मुख्यात्पण्डितः पर्यवस्यति ।। २९९ ।।

किंतु साध­न­सा­ध्य­त्वा­द­नित्यं कर्मजं सुखम् ।।
अभि­व्य­ञ्ज­क­त­त्रस्तु मोक्ष­स्ते­ना­क्षयो मतः ।। ३०० ।।

संस्का­र­मा­त्र­का­रित्वं सर्वेषामपि कर्मणाम् ।।
ज्ञानकाण्डे प्रवेशो वा तेषां नार्थान्तरं ततः ।। ३०१ ।।

एव­म­त्रै­क­वा­क्यत्वं नानु­ष्ठे­य­स­मा­प्तितः ।। ३०२ ।।
असा­र­फ­ल­सं­प्राप्तिः पुमर्थो नेष्यते यतः।।
तृष्णया साधयन्प्रीतिं न प्रीतिलवमिच्छति ।। ३०३ ।।

प्रीतेः श्रुतः प्रकर्षोऽपि स्वर्ग­स्वा­रा­ज्य­भे­दतः ।।
नापि प्रीते­रि­य­त्तायाः स्वर्ग­श­ब्दोऽस्ति वाचकः ।। ३०४ ।।

न चाजा­न­न्स्व­सा­ध्यार्थं विद्वा­न्क­श्चि­त्प्र­व­र्तते ।।
प्रीतिर्या काचिदिष्टा चेत्स्व­र्ग­श­ब्देन भण्यते ।। ३०५ ।।

चित्रा­ग्नि­ष्टो­म­या­गादेः पश्वादिफलसंकरः ।।
विशेषो वाञ्छि­त­श्चे­त्स्या­त्पु­त्र­प­श्वा­द्यु­पा­धितः ।। ३०६ ।।

न ताव­त्सं­भ­वे­त्स्वर्गो ज्ञातो­पा­धि­वि­यो­गतः ।।
मुक्तौ काम्यफलेऽभीष्टे सकृत्करण एव च ।।
अन­व­च्छि­न्न­रू­पायाः प्रीतेराप्तौ कृतार्थता ।। ३०७ ।।

प्लवा ह्येते परीक्ष्येति तथा तद्य इहेति च ।।
कर्मभ्यो निर्वृ­ति­र्ना­स्ती­त्या­दि­वाक्यैः प्रदर्शितम् ।। ३०८ ।।

प्रत्य­क्ष­श्रु­ति­वि­ध्य­न्त­वि­हि­ता­ना­म­का­र­णात् ।।
त्यागोऽतिसाहसं मन्ये ननु यागादिकर्मणाम् ।। ३०९ ।।

प्रत्य­क्षो­प­नि­ष­द्वा­क्य­वि­हि­ता­या­स्त­तोऽपि तु ।।
ऐका­त्म्य­ज्ञा­न­नि­ष्ठा­या­स्त्या­गोऽ­तीव हि साहसम् ।। ३१० ।।

विचार्यमाणे यत्नेन त्वधिकारे यथाश्रुति ।। ३११ ।।
न किंचित्साहसं त्वत्र प्रत्य­क्ष­श्रु­ति­वा­क्यतः ।।
अधिकारविभागस्य प्रसिद्धेरेव कारणात् ।। ३१२ ।।

तस्मा­त्सि­द्धोऽ­धि­का­रोऽत्र ब्रह्मरूपं विविक्षिताम् ।।
तस्यास्य कर्मकाण्डेन संबन्ध इति भाष्यकृत् ।।
प्रतिज्ञायापि संबन्धं कस्मा­त्त­न्नो­क्त­वा­न्स्फु­टम् ।। ३१३ ।।

अभिधीयत इत्यादिवचसाऽपि स नोच्यते ।।
सिद्धे वस्तुनि वेदस्य मानत्वं तेन भण्यते ।।। ३१४ ।।

वेदान्तोक्तेः प्रमाणत्वे सति संबन्ध उच्यते ।।
प्रामाण्यायैव तेनाऽऽदौ सर्वोऽपीत्यादि भण्यते ।। ३१५ ।।

आक्षिप्यते वा संबन्धः संवन्धो नाभिधीयते ।।
सप्त­म्य­न्त­प­द­च्छे­दा­त्कथं चेदिति भण्यते ।। ३१६ ।।

भिन्नार्थयोर्न संबन्धो ह्यन्यो­न्या­र्था­न­पे­क्षतः ।।
ऐकार्थ्ये चैक­वा­क्य­त्वा­त्क­र्म­वि­ज्ञा­न­का­ण्डयोः ।। ३१७ ।।

तथा तयोरमानत्वे संबन्धोक्तिर्न युज्यते ।।
द्वयोरेकस्य वा मात्वे न संबन्धादि शस्यते ।। ३१८ ।।

श्रुत्यैव तस्य चोक्त­त्वा­त्त­मे­त­मिति यत्नतः।।
इति चेतसि संधाय संबन्धं नोक्तवान्गुरुः ।। ३१९ ।।

प्रसाध्य वा प्रमाणत्वं वेदान्तानां प्रयत्नतः ।।
संबन्धं कर्मकाण्डेन पश्चा­त्स­म्य­क्प्र­व­क्ष्यते ।। ३२० ।।

वेदा­नु­व­च­ना­दी­ना­मै­का­त्म्य­ज्ञा­न­ज­न्मने ।।
तमेतमिति वाक्येन नित्यानां वक्ष्यते विधिः।। ३२१ ।।

यद्वा विविदिपार्थत्वं सर्वेपामपि कर्मणाम् ।।
तमेतमिति। वाक्येन संयोगस्य पृथक्त्वतः ।। ३२२ ।।

लोकतः सिद्धमादाय पशु­व्री­ह्या­दि­सा­ध­नम् ।।
इदं कार्यमिदं नेति कर्म­का­ण्ड­श्रु­ते­र्गतिः ।। ३२३ ।।

मानान्तरेण संप्राप्तां साध्य­सा­ध­न­सं­ग­तिम् ।।
कर्मशास्रं व्यनक्तीति न तु वस्त्ववबोधकृत् ।। ३२४ ।।

वेदो हि सर्व एवा­य­मै­का­त्म्य­ज्ञा­न­सि­द्धये ।।
अतो नान्याोऽ­भि­सं­बन्धः कर्म­वि­ज्ञा­न­का­ण्डयोः ।। ३२५ ।।

नित्य­नै­मि­त्ति­का­नीह कर्तृसंस्कारतो यतः।।
नान्यत्र पर्यवस्यन्ति ज्ञाना­दै­का­त्म्य­गो­च­रात् ।। ३२६ ।।

``प्लवां ह्येते'' ``परी­क्ष्येति'' तथा ``तद्य इहेति'' च ।।
निन्दाश्रुतेर्न काम्यानां कार्य­ताऽ­ध्य­व­सी­यते ।। ३२७ ।।

विधि­नि­न्दा­स­मा­वेशो नैवमप्युपपद्यते ।।
फलाभिसंधिमात्रे तु निन्दायामेव युज्यते ।। ३२८ ।।

उपासनं च यत्किं­चि­द्वि­द्या­प्र­क­रणे श्रुतम् ।।
तद­प्यै­का­त्म्य­वि­ज्ञा­न­यो­ग्य­त्वा­यैव कल्प्यते ।। ३२९ ।।

विमुच्यमान इत्यु­क्ते­र­र्चि­रा­द्यु­क्ति­त­स्तथा ।।
स्वार्थ­मा­त्रा­व­सा­यित्वं नोपास्तीनां प्रतीयते ।। ३३० ।।

इत्ये­व­म­भि­सं­बन्धः कर्मकाण्डस्य युज्यते ।।
इतोऽ­न्य­थाऽ­भि­सं­बन्धे न किंचि­न्मा­न­मी­क्ष्यते ।। ३३१ ।।

न चोद्गी­था­दि­वि­ष­य­ज्ञा­न­व­त्क­र्म­सं­गतिः ।।
ऐका­त्म्य­बु­द्धे­स्त­द्वु­द्धि­द्वारं नैव निरीक्ष्यते ।। ३३२ ।।

श्रुत्या नैका­त्म्य­वि­ज्ञानं विनियुक्तं श्रुतौ क्कचित् ।।
उपस्थानं यथैन्द्र्या स्यान्नापि लिङ्गेन संगतिः ।।
बर्हिर्देवसदनं दामीत्यादौ च यथा तथा ।।। ३३३ ।।

न चापि वाक्या­द्वि­ज्ञानं कर्तृद्वारेण गच्छति ।।
कर्म­ण्य­प्र­क्रि­यास्थं सज्जु­हू­प­र्ण­म­यी­त्व­वत् ।। ३३४ ।।

डुह्वा­द्या­कृ­ति­सं­प­त्ति­व्य­पे­क्षा­पू­र­ण­क्ष­मम् ।।
विशे­त्प­र्ण­म­यी­त्वादि प्रकृ­त्यु­प­न­या­त्क्र­तुम् ।। ३३५ ।।

कर्मा­पे­क्षि­त­क­र्त्रा­दि­रू­प­वि­ध्वं­स­कृन्न तु ।।
ऐका­त्म्य­ज्ञा­न­म­न्वेति स्वातन् त्र्येऽप्य­र्थ­त्त्वतः ।। ३३६ ।।

जुह्वा­द्य­व्य­भि­चा­रि­त्वा­त्प्र­त्यु­प­स्था­प­ये­त्क्र­तुम् ।।
कर्ताऽन्यत्रापि सद्भा­वा­न्नाऽऽ­क्षेप्ता व्यभिचारतः ।। ३३७ ।।

अऩा­र­भ्यो­क्ति­त­श्चापि नेह प्रकरणग्रहः ।। ३३८ ।।
सिद्धे सामान्यतो लिङ्गात्संबन्धे कर्मभिस्ततः ।।
विशे­षा­व­ग­ति­र्नाम्नः क्रमाच्चेति व्यवस्थितम् ।। ३३९ ।।

इह त्वैका­त्म्य­धी­योगः काम्य­या­ज्ये­ष्टि­वन्न हि ।।
तस्मा­त्क­र्मा­भि­सं­वन्धो नैवै­का­त्म्य­धि­योऽ­मितेः ।। ३४० ।।

न चाप्य­स्या­र्थ­वा­दत्वं विधिना वाक्यभेदतः ।।
दृष्टा­र्थ­त्वाच्च तद्वुद्धेः पाठा­न्ना­दृ­ष्ट­क­ल्पना ।। ३४१ ।।

तमेतमिति वाक्यात्तु यागादेः प्रत्युताङ्गता ।। ३४२ ।।
अन्ये त्वाहुर्न शक्नोति कामसंदूषिताशयः ।।
द्रष्टुं तत्परमद्वैतं सर्व­का­मा­स­मा­प्तितः ।। ३४३ ।।

द्वैतै­क­त्व­म­ती­हाभिः सूत्रान्तं फलमाप्यना ।।
प्राजापत्यं पदं भुक्त्वा तदैकात्म्यं प्रपद्यते ।। ३४४ ।।

नैवं, न कामसंप्रप्त्या तन्ना­शोऽ­ब्द­श­तै­रपि ।।
तत्से­वा­तोऽ­ति­वृद्धिः स्यान्नि­वृ­त्ति­र्दो­ष­द­र्श­नात् ।। ३४५ ।।

न जातु कामः कामानामुपभोगेन शाम्यति ।।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ।। ३४६ ।।

निवर्तेतापि कामे­भ्य­स्त­दु­पा­या­प्र­सि­द्धितः।।
सर्व­क्ले­शो­प­शा­न्त्या­त्म­ज्ञानं चापि समाश्रयेत् ।। ३४७ ।।

अथाऽऽनन्दः श्रुतः साक्षा­न्मा­ने­ना­वि­ष­यी­कृतः।।
दृष्टा­न­न्दा­भि­लाषं स न मन्दी­क­र्तु­म­प्य­लम् ।। ३४८ ।।

काम­प्र­वि­ल­या­या­त­स्त­द्वि­प­क्षा­र्थ­भा­व­नम् ।।
विध­य­स्त­त्क्रि­याणां स्युस्त­द्वि­प­र्य­य­हे­तवः ।। ३४९ ।।

द्वारं न नियतं मुक्तेः प्राजापत्यं पदं भवेत् ।।
नह्युपाधिषु तत्त्वस्य विशेषः कश्चिदीक्ष्यते ।। ३५० ।।

नाऽऽकाशस्य विशेषोऽस्ति कुम्भ­द्रो­ण्या­द्यु­पा­धिषु।।
दूरा­न्ति­का­दि­भि­न्नेषु कल्पि­ता­क­ल्पि­ते­ष्वपि ।। ३५१ ।।

सत्त­त्त्वा­पे­क्ष­याऽ­भेदो भावानां नाभ्युपेयते ।।
स्वभा­व­हा­ना­द­न्योन्यं विशेषो बाह्य एव सः ।। ३५२ ।।

कार्य­का­र­ण­प­क्षेऽपि कार्यं नान्यत्र कारणात् ।।
न च तत्त्वे विशेषोऽस्ति कटकादीव हेमनि ।। ३५३ ।।

अतः प्रजापतौ तत्त्वं कृमौ वा न विशिष्यते ।।
तर्का­दा­ग­म­त­श्चापि तद्यो य इति हीदृशात् ।। ३५४ ।।

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ।। ३५५ ।।

एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्व­भू­ता­न्त­रात्मा ।।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ।। ३५६ ।।

विज्ञा­न­क­र्म­णो­स्रेधा यधुच्येत समुच्चयः ।।
पूर्वो­क्तै­का­त्म्य­ता­त्प­र्या­द्वे­द­स्यासौ न युज्यते ।। ३५७ ।।

एक­वा­क्या­व­शी­भा­वा­त्सा­ध्यै­क्या­यो­ग­त­स्तथा ।।
समुच्चयः कुतो द्रव्य­गु­ण­व­ज्ज्ञा­न­क­र्मणोः ।। ३५८ ।।

भेदा­भे­दा­श्र­य­त्वेन ह्यैका­त्म्य­ज्ञा­न­क­र्मणोः ।।
पर­स्प­रो­प­का­रि­त्व­हा­ना­त्की­दृ­क्स­मु­च्चयः ।। ३५९ ।।

देव­ता­द्र­व्य­या­था­त्म्य­ज्ञानं कर्माङ्गतां गतम् ।।
तावदेव हि तत्कर्म नाज्ञा­त­द्र­व्य­दै­व­तम् ।। ३६० ।।

तद्वि­शे­षेऽ­ङ्ग­भू­य­स्त्वा­त्फ­ल­भू­य­स्त्व­मि­त्यतः ।।
समुच्चयो न तस्य स्यान्ना­ङ्गे­ना­ङ्गि­स­मु­च्चयः ।। ३६१ ।।

यच्चा­प्यै­का­त्म्य­वि­ज्ञानं तद­ज्ञा­नै­क­घ­स्म­रम् ।।
तस्मिन्सति कुतः कर्म का वाऽपेक्षाऽस्य गोचरे ।। ३६२ ।।

ब्राह्म­ण­त्वा­दि­वि­ज्ञा­न­म­ग्नि­हो­त्रा­दि­क­र्म­णाम् ।।
यदृष्टं साध्यसिद्ध्यै तु कर्मानुुगुणमेव तत् ।। ३६३ ।।

ऐका­त्म्य­व­स्तु­या­था­त्म्य­बोधे जात्यदिवाधनात् ।।
न केवलं क्रिया न स्यात्कर्मणां प्रत्युताक्रिया ।। ३६४ ।।

अय­था­व­स्तु­स­र्पा­दि­ज्ञानं हेतुः पलायने ।।
रज्जु­ज्ञा­नेऽ­हि­धी­ध्वस्तौ कृतम्यनुशोचति ।। ३६५ ।।

न कर्म­व्या­पृ­ति­र्मु­क्ता­वा­प्त्या­दी­ना­म­भा­वतः ।।
न च श्रुत्या­द­य­स्तत्र तेन स्यान्न समुच्चयः ।। ३६६ ।।

अन्तरङ्गं हि विज्ञानं प्रत्य­ङ्भा­त्रै­क­सं­श्र­यात् ।।
बहिरङ्गं तु कर्म स्याद्वा­ह्य­द्र­व्या­श्र­य­त्वतः ।। ३६७ ।।

सत्यन्तरङ्गे विज्ञाने बहिरङ्गं न सिध्यति ।।
संस्कारकं तु कर्म स्याज्ज्ञा­ना­त्त्व­ज्ञा­न­नि­ह­नुतिः ।। ३६८ ।।

यथा­व­स्त्वा­त्म­वि­ज्ञानं, मोहमात्राश्रयाः क्रियाः।।
सम्यग्ज्ञाने कुतः कर्म कर्म­हे­तू­प­म­र्द­नात् ।। ३६९ ।।

नित्यप्राप्तं त विज्ञानं प्रतीचः संनिधेः सदा ।।
कर्मानित्यं पृथग्रपं नित्यं चानित्यबाधकम् ।। ३७० ।।

क्षयी कर्मार्जितो लोकः, स्वरा­ड­ब्र­ह्मा­व­बो­धतः ।।
लब्धे त्रैलोक्यराज्ये ना भिक्षामाद्रियते तु कः ।। ३७१ ।।

भिन्नप्रकरणं ज्ञानं काङ्क्षितं न च कर्मणा ।।
विरोधाच्च स्वतन्त्रं तद्गुणभूतं न कस्यचित् ।। ३७२ ।।

यतो वस्त्व­नु­रो­ध्ये­तन्न ज्ञातृ­व­श­व­र्त्यतः ।।
अज्ञा­नो­च्छि­त्तये ज्ञानं स्वतन्त्रं तेन भण्यते ।। ३७३ ।।

अनावृत्तिश्च कर्मभ्यो न क्वचिच्छ्रूयते स्फुटम् ।।
ज्ञानादेव त्वनावृत्तिः श्रूयते बहुशः श्रुतो ।। ३७४ ।।

एकरूपं च विज्ञा­न­मे­क­रू­पा­त्म­मे­यतः ।।
भिन्नरूपाणि कर्माणि बहु­का­र­क­सं­श्र­यात् ।। ३७५ ।।

एकरूपस्य मोक्षस्य भिन्नरूपं न साधनम् ।।
एकरूपस्य मोक्षस्य ह्ये करूपं हि साधनम् ।। ३७६ ।।

तस्मात्कर्मफलं नाना नाना­क­र्म­स­मु­द्भ­वम् ।।
देव­मा­नु­ष­ति­र्यक्षु कर्तुः शास्त्रै­र्नि­द­र्शि­तम् ।। ३७७ ।।

अन्ये तु मन्वते केचि­द्ग­म्भी­र­न्या­य­वा­दिनः ।।
भेदस्य विलयो वेदे गम्यते कस्यचित्कचित् ।। ३७८ ।।

देहात्मभावविलयः स्वर्गकामपदे यथा ।।
देहा­द्भि­न्नोऽ­धि­का­र्यत्र स्वर्ग­भो­ग्य­व­ग­म्यते ।। ३७९ ।।

गोदो­ह­ने­ने­त्य­त्रापि विल­योऽ­न्या­धि­का­रिणः ।।
अधि­कृ­ता­धि­का­रि­त्वा­न्ना­न्योऽ­धि­क्रि­यते यतः।। ३८० ।।

रागा­द्यु­त्थ­प्र­वृ­त्तीनां निषेधेषु लयोऽञ्जसा ।।
विधिष्वपि लयस्तासां कार्या­न्त­र­नि­यो­गतः ।। ३८१ ।।

लोकेऽपि चान­भि­प्रे­ता­त्पथः साक्षा­न्नि­वा­र­णम् ।।
मार्गा­न्त­रो­प­दे­शाद्वा वेदेऽप्येवं प्रतीयताम् ।। ३८२ ।।

एवं रागा­दि­हे­तू­त्थ­प्र­वृ­त्ति­ल­य­व­र्त्मना ।।
आत्म­ज्ञा­ना­धि­का­रार्था निःशेषा विधयः स्थिताः ।। ३८३ ।।

नैतदेवं यतोऽशेषा न कर्मविधयः श्रुतौ ।।
स्ववा­क्या­व­ग­ता­त्का­र्या­द­पे­क्षन्ते फलनन्तरम् ।। ३८४ ।।

वेदेऽ­नु­ष्ठा­न­ता­त्प­र्यान्न लयो गम्यते क्वचित् ।।
फलश्रुतेरभावो हि साध्यः स्यादफलः कथम् ।। ३८५ ।।

वस्तु­नोऽ­व­ग­ति­र्नापि लयाद्भवति कुत्रचित् ।।
अभा­वेऽ­प्यु­प­प­न्न­त्वा­त्सु­षुप्ते चाप्यनीक्षणात् ।। ३८६ ।।

स्वाभाविकः प्रपञ्चश्चेत्स निरोद्धुंं न शक्यते ।।
कार्य­श्चे­त्का­र­णो­च्छेदे कार्योच्छेदः स्वतो न हि ।। ३८७ ।।

कृत­स्र­प्र­प­ञ्च­वि­लयः कर्तुं शक्यो न केनचित् ।।
स्वेन्द्रि­या­दि­लयः स्वापे स्वत एव न शास्रतः ।। ३८८ ।।

उत्थितस्य पुन­र्भा­वा­द­नु­च्छे­दोऽथ शङ्क्यते ।।
आया­त­स्ति­र्ह्य­ना­श्वा­स­स्त्व­द­भ्यु­प­ग­ता­वपि ।। ३८९ ।।

प्रप­ञ्च­ना­श्ने­नाथ नाश्यते भेदकारणम् ।।
नैवं न कार्यनाशेन कारणं नश्यति क्वचित् ।। ३९० ।।

कार­ण­स्या­प्य­वि­द्याया वस्तु­बो­धा­द्वि­ना­शतः ।।
यतोऽ­तोऽ­वि­द्या­ना­शार्थं प्रप­ञ्च­वि­ल­योऽ­फलः ।। ३९१ ।।

रज्जुज्ञानाद्धि सर्पा­दि­प्र­प­ञ्च­वि­लयो यतः ।।
सर्पा­भा­स­ल­येऽ­पीयं रज्जुस्तमसि नेक्ष्यते ।। ३९२ ।।

लयनिष्ठे प्रमाणे नो वस्तुगोचरभेदतः ।।
अथ वस्तुनि तन्मानं न लये स्यान्न च द्वये ।। ३९३ ।।

भाव्यु­च्छे­त्तु­म­श­क्यस्ते, भूतोऽप्युपरतः स्वतः ।।
प्रपञ्चो वर्तमानस्तु कार्य­त्वा­न्न­श्यति स्वतः ।। ३९४ ।।

श्रुते­र्वि­ल­य­ता­त्पर्ये फलमाकस्मिकं भवेत् ।।
फलार्था चेल्लये न स्यान्नोभयं वाक्यभेदतः ।। ३९५ ।।

प्रपञ्चविलयेनैव सर्वा­न­र्थ­प्र­हा­णतः ।।
पुरुषार्थस्य संसि­द्धे­र्विद्या नैष्फल्यमापतेत् ।। ३९६ ।।

अत ऐका­त्म्य­या­था­त्म्य­ज्ञा­ना­द­ज्ञा­न­हा­नतः ।।
सिद्धे पुमर्थे विलयकल्पना निष्प्रयोजना ।। ३९७ ।।

स्वका­र्यो­प­क्ष­या­देव विधीनां च परस्परम् ।।
कुत एका­धि­का­र­त्व­म­पे­क्षा­भा­वतो वद ।। ३९८ ।।

विधीनां चापि सर्वेषां निषेधवचसां तथा ।।
नामा­दि­ल­य­नि­ष्ठत्ये ह्यभ्यु­पे­तेऽ­प्र­मा­णके ।।
अऩि­मि­त्तोऽ­प­व­र्गोऽपि शास्रं चैवमनर्थकम् ।। ३९९ ।।

स्वर्गा­दि­का­र्य­मा­र्गेण मन्यसे यदि कर्मणाम् ।।
सोपा­न­प­ङ्लि­ग­त्येव हर्म्य­पृ­ष्ठा­धि­रो­ह­णम् ।।
आत्म­ज्ञा­ना­धि­का­रा­नु­प्र­वो­शित्वं भविष्यति ।। ४०० ।।

यथैव नग­रा­ध्व­स्थ­ग्रा­म­ग­त्यु­प­दे­श­नम् ।।
नगराध्वोपदेशस्य शेषत्वं प्रतिपद्यते ।।। ४०१ ।।

नाका­मि­त­त्वा­द्ग्रा­मा­दि­रा­ते­र्यु­क्तैव शेषता ।।
स्वर्गादेर्न तु शेषत्वं पुरु­षा­र्थ­त्व­हे­तुतः ।। ४०२ ।।

अथो­प­च्छ­न्द­ना­र्थानि स्वर्गादीनि विमुक्तये ।।
नगराप्तौ तद­ध्व­स्थ­ग्रा­मा­दि­गु­ण­गी­रिव ।। ४०३ ।।

नैवं मान्तरतः सिद्धे­र्नृ­वाक्ये तत्समञ्जसम् ।।
वेदे तु वक्त्र­भा­व­त्वा­द­भि­प्रा­या­द्य­सं­भवः ।। ४०४ ।।

यद्वा तत्रैव तात्पर्यं यत्रोपच्छन्द्य नीयते ।।
नगराप्तौ तु माभावात्प्रयतेत पुमान्कुतः ।। ४०५ ।।

यदाऽपि वस्तुवृत्तेन नग­रा­वा­प्ति­सा­ध­नम् ।।
ग्रामा­प्ति­र्न­ग­र­प्रा­प्ति­स्त­दाऽ­प्य­र्थान्न मानतः ।। ४०६ ।।

अर्थादपि न तात्पर्यं द्रव्या­र्ज­न­वि­धे­रिव ।।
शब्द­मा­त्रा­नु­सा­रेण वेदे तात्पर्यधीर्यतः ।। ४०७ ।।

स्वर्गादौ यदि तात्पर्यं न स्यादै­का­त्म्य­बो­धने ।।
मुक्तौ चेन्न भवेत्स्वर्गे वाक्यभेदान्न च द्वये ।। ४०८ ।।

न च स्वर्गा­दि­का­र्याणां प्रया­जा­र्थ­स­मा­नता ।।
अनुप्रवेशः कल्प्येत येन कार्यान्तरं प्रति ।। ४०९ ।।

वक्तव्यं च कथं त्वेते दृष्टे­नै­वो­प­का­रिणः ।।
आत्म­ज्ञा­ना­धि­का­रस्य यदि तावदिदं मतम् ।। ४१० ।।

रागा­द्या­क्षि­प्त­दृ­ष्टा­र्थ­प्र­वृ­त्ति­प्र­ति­षे­धतः ।।
अस्त्वेवं प्रतिषेधेषु निवृ­त्ते­रू­प­का­रतः ।। ४११ ।।

बिधयस्तु कथं रागं निरून्धन्तीति भण्यताम् ।।
न हि ते परिसंख्यार्था नापि चैते नियामकाः ।। ४१२ ।।

अत्य­न्ता­प्रा­प्त­मर्थं हि विधयो बोधयन्ति नः ।।
प्रप्तार्थो यो विधिः सोऽन्य­नि­वृ­त्ति­फल इष्यते ।। ४१३ ।।

सेवा­सां­ग्र­ह­णी­हा­व­त्तु­ल्य­का­र्य­तया न च ।।
यतोऽ­नि­य­त­का­ली­न­फला वैधी क्रियेष्यते ।। ४१४ ।।

अदृष्टार्था हि दृष्टार्था रागाद्युत्थाः प्रवृत्तयः ।।
ग्रामोपयेन सेवायाः सांग्र­ह­ण्याऽ­वि­रु­द्धता ।। ४१५ ।।

क्रियातः फलमित्येवं शास्त्रमेतावति प्रमा ।।
क्रमेण युगपद्वाऽतः सेवा­सां­ग्र­ह­णी­हयोः ।।
नानुष्ठाने विरोधोऽस्ति फलभूमार्थिनः क्वचित् ।। ४१६ ।।

रागा­द्यु­त्थ­प्र­वृ­त्तीनां कार्त्स्न्येन च विरोधतः ।।
नैयोगिक्योऽपि नैव स्युर्द्र­व्या­भा­वा­त्प्र­वृ्त्तयः ।। ४१७ ।।

दृष्टा­दृ­ष्ट­प्र­वृ­त्त्योश्च न विशेषोऽस्ति कश्चन ।।
उपायत्वेन काम्यानां रागा­द्या­क्षि­प्र­हे­तुतः ।। ४१८ ।।

प्रप­ञ्चा­भि­नि­वे­शि­त्व­हेतौ तुल्येऽपि चानयोः ।।
कं विशे­ष­म­पे­क्ष्यैका चेष्टा मुक्त्यनुरोधिनी ।। ४१९ ।।

कामोपायत्वमेवाथ नेष्टं यदि च कर्मणाम् ।।
उक्तो न्यायः प्रहीयेत फलं चाऽऽकस्मिकं भवेत् ।। ४२० ।।

सर्वकामाशनेनाथ कृत्स्र­का­म­ल­या­ध्वना ।।
यान्ति मुक्त्या­नु­गुण्यं चेद्विधयो वार्त्तमेव तत् ।। ४२१ ।।

यन्निमित्ता प्रवृत्तिः स्यात्सा कथं तन्निवर्तिका ।।
प्रवृत्तोऽपि निवर्तेत न कामोपायकर्मतः ।। ४२२ ।।

उद्विजेताथवा ज्ञाना­त्स­र्व­पुं­भो­ग­घ­स्म­रात् ।।
अपि वृन्दावने शून्य इति कामिवचस्तथा ।। ४२३ ।।

उक्तं यदपि वेदेऽ­स्मि­न्क­स्य­चि­द्वि­लयः क्वचित् ।।
तन्ना­त­त्प­र­त­स्तू­क्तेर्न देहादिलयस्ततः ।। ४२४ ।।

श्रुतेऽपि स्वर्गतात्पर्ये कल्पना चेल्लयेऽर्थतः ।।
तन्न प्रत्य­क्ष­व­च­ना­द्दे­हा­दि­ल­य­सि­द्धितः ।। ४२५ ।।

साक्षाद्धस्तिनि दृष्टेऽपि नहि हस्तिपदानुमा ।।
अस्थूलादिवचः साक्षा­द्दे­हा­दि­प्र­ति­षे­ध­कृत् ।। ४२६ ।।

विपर्ययेण येऽप्या­हु­र्य­थो­क्त­ज्ञा­न­क­र्मणोः ।।
एकाधिकारितां वाच्यं मानं तैर्ज्ञानसंगतौ ।। ४२७ ।।

न ताव­त्प्र­क्रि­ये­हास्ति व्रूह्या­दि­प्रो­क्षणे यथा ।।
प्रकृ­ता­पू­र्व­सं­ब­न्ध­ल­क्ष­णा­प­रतः स्थितेः ।। ४२८ ।।

व्रीहिशब्दस्य हि व्रीहिस्वरूपे तु निरर्थकम् ।।
प्रकृ­ता­पू­र्व­सं­बन्धं बोधयेदिति युज्यते ।। ४२९ ।।

नापि वाक्येन संबन्धो जुहू­प­र्ण­म­यी­त्व­वत् ।। ४३० ।।
जुह्वा­द्य­व्य­भि­चा­रि­त्व­क­र्म­सं­ग­ति­का­र­णात् ।।
विनाऽपि प्रक्रियां तेन कर्मो­प­स्था­प­ये­द्ध्रु­वम् ।। ४३१ ।।

वाक्ये­नै­वा­भि­सं­ब­न्ध­स्तत्र तस्येति वर्णितम् ।।
आत्मज्ञानं तु नैवं स्यान्न तत्प्रकरणे श्रुतम् ।। ४३२ ।।

नापि चाव्य­भि­चा­रि­त्व­मा­त्मनः कर्मणेक्ष्यते ।।
तेनास्य कर्मसंबन्धो न मानेनोपपद्यते ।। ४३३ ।।

एवं चाज्ञा­त­पा­रार्थ्ये नार्थवादः फलश्रुतिः।।
पृथ­गे­वा­धि­का­रोऽतो यथो­क्त­ज्ञा­न­क­र्मणोः ।। ४३४ ।।

अर्थाक्षेपोऽपि योग्यस्य कर्तु­र्भो­क्तुश्च युज्यते ।।
न तु विध्वस्तभेदस्य स्यादौपनिषदस्य सः ।। ४३५ ।।

प्रत्य­क्ष­वे­द­व­च­न­प्रा­मा­ण्या­द्या­श्र­य­त्वतः ।।
आदौ संन्या­स­सं­सि­द्धे­र्ऋ­णा­नीति ह्यपस्मृतिः ।। ४३६ ।।

न च केवलकर्मभ्यो मुक्ति­र्यु­क्त्यो­प­प­द्यते ।।
तथाच वक्ष्यते स्पष्टमतो मुक्तिर्न कर्मतः ।। ४३७ ।।

न चैका­त्म्य­प­रि­ज्ञा­न­म­भ्या­सा­पे­क्ष­मि­ष्यते ।।
मुक्तये भावनार्थं वा तथा चोर्ध्वं प्रवक्ष्यते ।। ४३८ ।।

स्वतोऽनुभवतः सिद्धे­रै­का­त्म्या­ख्यस्य वस्तुनः।।
न स्यात्सांपादिकं ज्ञान­मि­त्ये­त­च्चापि वक्ष्यते ।। ४३९ ।।

अन्य आहुः पदा­र्थ­त्वा­त्प्र­मा­णा­न्त­र­ग­म्य­ताम् ।।
आत्मनो नाऽऽग­मा­त्सि­द्धि­र्व्री­ह्या­द्य­न्य­प­दा­र्थ­वत् ।। ४४० ।।

अऩ्व­य­व्य­ति­रे­काभ्यां जाग्र­त्स्व­प्न­सु­षु­प्तितः ।।
विविच्यातः स्वमात्मानं प्रत्य­भि­ज्ञा­न­स­स्तथा ।।
माव्या­पा­र­स­मा­प्त­त्वान्न भूयस्तदपेक्षिता ।। ४४१ ।।

तद्वा­स­ना­नि­रो­धेऽतः पुमाञ्श्रुत्या नियुज्यते ।। ४४२ ।।
मनसो वा निरोधेऽसौ न तु वस्त्ववबोधने ।।
मानान्तरेण तत्सि­द्धे­र्नात्र व्याप्रियते वचः ।। ४४३ ।।

स्वयं­ज्यो­तिः­स्व­भा­व­त्वा­न्नि­रू­द्ध­स्वा­न्त­वा­सनः ।।
प्रमा­न्त­रा­न­पे­क्षोऽपि स्वयमात्मा प्रकाशते ।। ४४४ ।।

एवं कार्यमुखेनैव ज्योति­ष्टो­मा­दि­वा­क्य­वत् ।।
वेदान्तानां प्रमाणत्वं, नाक्ष­व­द्व­स्तु­नी­ष्यते ।। ४४५ ।।

वास­ना­मा­त्र­हे­तु­त्वा­दा­त्म­नोऽ­न­र्थ­सं­गतेः।।
अन्योपाये सत्यसति निरोधादेव मुक्तता ।। ४४६ ।।

संभाव्यं नानपेक्षत्वं नियो­ग­वि­र­हा­त्क­चित् ।।
शब्दप्रवृत्तेः सिद्धे च न नियोगस्य संभवः ।। ४४७ ।।

न च वस्तुनि मानत्व उदाहरणमिष्यते ।।
विध­र्गु­णा­र्थ­स्त­स्यापि व्यापा­र­वि­ष­य­त्वतः ।। ४४८ ।।

किंचा­नु­भू­य­मा­नस्य ह्यर्थस्य पुरुषार्थता ।।
सर्वत्र गम्यते वेदे नानुभूतेः कथंचन ।। ४४९ ।।

ततश्च प्रतिभामात्रं शब्दादिति न मानतः।।
प्रतीयमान एवातः पुरुषार्थः प्रसिद्धितः ।। ४५० ।।

अप्युपादीयमानं च सिद्धं वस्तु न कर्मणि ।।
पुमर्थं साध­य­ट्ट्ट­ष्ट­म­नि­र्ज्ञा­ता­ङ्ग­भा­व­कम् ।। ४५१ ।।

अनुपादीयमानश्च न च ज्ञाता­ङ्ग­भा­वकः।।
आत्मा चेन्नास्य शेषत्वं विधिं प्रत्युपपद्यते ।। ४५२ ।।

उपासीत स्वमात्मानमिति साक्षा­द्व­चः­श्र­वात् ।।
तत्राङ्गभाव इति चेन्मत्पन्थानं भवानितः ।। ४५३ ।।

क्रिया­वि­धि­प­र­त्वेन प्रामाण्यं वचसः स्थितम् ।।
इति व्याचक्षते केचि­न्नि­यो­गा­र्थौ­क­रा­गिणः ।। ४५४ ।।

नैत­त्सा­ध्व­भ्य­धा­य्यु­च्चै­र्नि­यो­ग­वि­र­हा­दपि ।।
कामितार्थस्य संसि­द्धे­र्लौ­कि­का­देव मानतः ।। ४५५ ।।

तद्भावभावतो लिङ्गा­द्वा­स­नै­क­स­मा­श्र­यात् ।।
ज्ञातोऽनर्थेन संबन्ध आत्मनो न तु वास्तवः ।। ४५६ ।।

तस्मा­त्सं­सा­र­सं­ब­न्ध­नि­दा­नस्य प्रसिद्धितः ।।
लिङ्गादेव ततस्तस्य ध्वंसेऽनर्थो निवर्तते ।। ४५७ ।।

अन्तरेणापि वचनं बौद्धादेरिव सिद्धितः ।।
मोक्षस्य पुरुषार्थस्य वचोऽतो निष्फलं भवेत् ।। ४५८।।

व्यती­ता­ने­क­ज­न्मो­त्थ­वा­स­ना­ना­म­न­न्ततः।।
तासां निरोधोऽसंभाव्यो जन्मन्येकत्र मानवै ।। ४५९ ।।

साक्षा­दा­त्मा­व­बो­धेन प्रत्य­ग्ध्वा­न्त­च्छिदा न चेत् ।।
दुःखादिभावना ध्वस्ता कथं तद्भावना नुदेत् ।। ४६० ।।

नियोगवर्त्मना चेयं यथा मुक्तिर्न सिध्यति ।।
स्पष्टेन न्यायमार्गेण वक्ष्यामोऽवसरे तथा ।। ४६१ ।।

न पदार्थो न वाक्यार्थ आत्माऽयं वस्तुतो यतः ।।
तत्प्र­त्या­ख्या­न­श्रु­त्यैव तद्या­था­त्म्या­व­बो­ध­नात् ।। ४६२ ।।

वासनानामभावेऽपि सुषुप्त्यादौ न मुक्तता ।।
मान­व्या­पा­र­वि­र­हा­त्प्र­थनं वा दृगात्मनः ।। ४६३ ।।

सर्वा­न­र्था­भि­सं­बन्धे ह्यविद्यैवास्य कारणम् ।।
वासनानामपि युतौ सैव यस्मादपेक्ष्यते ।। ४६४ ।।

संभा­व्य­तेऽ­न­पे­क्षत्वं नियोगविरहादपि ।।
यथा तथा च वक्ष्यामः स्पष्टेन न्यायवर्त्मना ।। ४६५ ।।