बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥संबंधभाष्यवार्तिकम् ॥ (१)
स्वाविद्याविभवप्रसूतविपुलद्वैतप्रपञ्चाहित-
स्पष्टभ्रान्तितिरोहितात्ममतयो यं भागशो मन्वते ।।
निर्भागं सकलाभिधानमननव्यापारदूरस्थितं
वन्दे नन्दितविश्चमव्ययमजं भक्त्या तमेकं विभुम् ।। १ ।।
यां काण्वोपनिषच्छलेन सकलाम्नायार्थसंशोधिर्नी
संचक्रुर्गुरवोऽनुवृत्तगुरवो वृत्तिं सतां शान्तये ।।
अर्थाविष्करणं कुतार्किककृताशङ्कासमुच्छित्तये
तस्या न्यायसमाश्रितेन वचसा प्रक्रम्यते लेशतः ।। २ ।।
अत्र षोपनिषच्छब्दो ब्रह्मविद्यैकगोचरः।।
तत्रैव चास्य सद्भावादभिधार्थस्य तत्कुतः।। ३ ।।
उपोपसर्गः सामीप्ये तत्प्रतीचि समाप्यते ।।
त्रिविधस्य सदर्थस्य निशब्दोऽपि विशेषणम् ।। ४ ।।
उपनीयेममात्मानं ब्रह्मापास्तद्वयं यतः।।
निहन्त्यविद्यं तज्जं त तस्मादुपनिषद्भवेत् ।। ५ ।।
निहत्यानर्थमूलं स्वाविद्यां प्रत्यक्तया परम् ।।
गमयत्यस्तसंभेदमतो वोपनिषद्भवेत् ।। ६ ।।
प्रवृत्तिहेतून्निःशेषांस्तन्मूलोच्छेदकत्वतः।।
यतोऽवसादयेद्विद्या तस्मादुपनिषन्मता ।। ७ ।।
यथोक्तविद्याबोधित्वाद्ग्रन्थोऽपि तदभेदतः।।
भवेदुपनिषन्नामा लाङ्गलं जीवनं यथा ।। ८ ।।
अरण्याध्ययनाच्चैतदारण्यकमितीर्यते ।।
बृहत्त्वाद्ग्रन्थतोऽर्थाच्च बृहदारण्यकं मतम् ।। ९ ।।
इत्यादिनामव्युत्पत्तिच्छद्मना प्रकृतोचितम् ।।
सर्वोपनिषदामाह मुक्तिमात्रं प्रयोजनम् ।। १० ।।
मिथोविरोधसिद्ध्यर्थं कर्मज्ञानाधिकारिणोः।।
संसार्रव्याविवृत्सुभ्य इत्युक्तिं भाष्यकृज्जगौ ।। ११ ।।
त्यक्ताशेषक्रियस्यैब संसारं प्रजिहासतः।।
जिज्ञासोरेव चैकात्म्यं त्रय्यन्तेष्वधिकारिता ।। १२ ।।
``एतमेवे''ति च तथा प्रत्यग्याथात्म्यवित्तेये ।।
सर्वकर्मत्यजं प्राह श्रुतिर्विद्याधिकारिणम् ।। १३ ।।
प्रत्यग्विविदिषासिद्ध्यै वेदानुवचनादयः।।
ब्रह्मावाप्त्यै तु तत्त्याग ईप्सन्तीतिश्रुतेर्बलात् ।। १४ ।।
उक्ताधिकारविषयप्रतिपत्त्यर्थमीरितम् ।।
संसारहेत्वितिवचः स्फुटन्यायोपबृंहितम् ।। १५ ।।
ऐकात्म्यविषयान्नान्यो वेदान्तवचसां यतः।।
लभ्यते विषयः कश्चित्तद्धीस्तस्मात्तमोपनुत् ।। १६ ।।
संसारकारणाविद्याध्वंसकृज्ज्ञानलब्धये ।।
प्रारब्धेयं प्रयत्नेन वेदान्तोपनिषत्परा ।। १७ ।।
प्रत्यग्याथात्म्यधीरेव प्रत्यगज्ञानहानिकृत् ।।
सा चाऽऽत्मोत्पत्तितो नान्यद्ध्वान्तध्वस्तावपेक्षते ।। १८ ।।
साधनं चाधिकारी च कर्मविज्ञानकाण्डयोः।।
मिथो विरोधतः सिद्धावधुना तत्र चोद्यते ।। १९ ।।
नन्वभ्युदयवन्मुक्तिं गृह्णीमो विधेलक्षणाम् ।।
कार्यं विना नाधिकारी नापीज्याफलसंगमः।।
लभ्यते लौकिकोऽपीह, किमङ्गाऽऽगमसंश्रयः ।। २० ।।
विधिलक्षणसिद्ध्यर्थं सन्ति वाक्यानि च श्रुतौ ।। २१ ।।
कुर्वाीत क्रतुमित्यादिर्विधिरभ्युदये यथा ।।
उपासीतेति च तथा मुक्तावपि समीक्ष्यते ।। २२ ।।
नाभ्युदयस्य मुक्तेश्च साध्यासोध्ये ध्रुवाध्रुवे ।।
वैलक्षण्यान्न युक्तेयं तुल्यसाधनता तयोः ।। २३ ।।
अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सीनीतः।।
तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ।। २४ ।।
परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन ।।
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ।। २५ ।।
नन्वभ्युदयवत्साध्या मुक्तिरप्राप्तरूपतः।।
मैवं, साध्याऽपि नो मुक्तिर्न त्वभ्युदयवद्यतः ।। २६ ।।
स्वतोमुक्तान्तरायस्य तमसो विद्यया हतेः।।
तत्कैवल्यमतः साध्यमुपचारात्प्रचक्षते ।। २७ ।।
चिकित्सयेव संप्राप्यं स्वास्थ्यं रोगार्दितस्य तु ।।
आत्माविद्याहतेर्बोधात्तत्कैवल्यमवाप्यते ।। २८ ।।
ब्रह्म वा इदमित्यादिर्ब्रह्मैवेति तथा श्रुतिः।।
सुषुप्तनरवच्छ्रुत्या बोध्योऽतोऽयं न कार्यते ।। २९ ।।
किमत्र विधिना कार्यमनृतत्रत्वहेतुतः।।
श्रुतोऽप्यनर्थकोऽत्र स्याद्विध्यर्थासंभवत्वतः।। ३० ।।
यच्चास्यासति कर्तव्ये नाधिकारो निरूप्यते ।।
तदप्यशेषतश्चोद्यमूर्ध्वमुन्मूलयिष्यते ।। ३१ ।।
पर आहाऽऽत्मनः स्वास्थ्यं श्रेयो यद्यभिवाञ्छसि ।।
कर्मभ्य एव तत्सिध्येच्छ्रुतत्वात्कर्मणः श्रुतौ ।। ३२ ।।
श्रुतौ स्मृतौ च विहितं कर्मैव श्रूयते यतः।।
न च कर्मातिरेकेण मुक्त्यभ्युदयसाधनम् ।। ३३ ।।
यत्नतो न्यायतः किंचित्पश्यामो वेदचक्षुषा।।
निषेधविधिमात्रत्वाद्वेदार्थस्येह सेर्वतः ।। ३४ ।।
ननु श्रुतौ पुरोक्तानि वाक्यानि बहुशो मया ।।
अविधायित्वतस्तेषां न न्याय्यं भवतोदितम् ।। ३५ ।।
आम्नायस्य क्रियार्थत्वाद्विधिनेति च सूत्रणात् ।।
विधिशेषतया तेषामेकवाक्यत्वसंभवे ।।३६ ।।
वचसामक्रियार्थानां वाक्यभेदप्रकल्पना ।।
गुर्वी स्यान्ननु कैवल्यं फलं नित्यमिहेष्यते ।। ३७ ।।
कथं नित्यं भवेत्तन्नो यदि स्यात्कर्मणः फलम् ।।
कर्मोत्थं न यतः किंचिद्ध्रुवं जगति वीक्ष्यते ।। ३८ ।।
तत्साधनेन चावश्यं भवितव्यमतो भवेत् ।।
पारिशेष्यादिह ज्ञानं वेदान्ते तत्प्रसिद्धितः ।। ३९ ।।
नैवं क्रियाभ्य एवास्या मुक्तेः सिद्धत्वहेतुतः।।
कुतः क्रियाभ्यः सिद्धिश्चेच्छृणु तद्भण्यते यतः ।। ४० ।।
निषिद्धकाम्ययोस्त्यागात्कर्मणोर्नित्यकर्मणः ।।
करणा, त्प्रत्यवायस्य हते,र्भोगेन च क्षयात् ।। ४१ ।।
शरीरारम्भकस्यै,वं मुक्तिः सिद्धाऽन्तरात्मनः ।।
विनाऽप्यैकात्म्यसंबोधात्कर्मणैवोक्तवर्त्मना ।। ४२ ।।
ननु चाऽऽत्मावबोधस्य ``निचाय्यो''ति फलं श्रुतम् ।।
``ब्रह्म वेदे''ति च तथानैवं तस्यार्थवादतः ।। ४३ ।।
फलोक्तेरर्थवादत्वं द्रव्यसंस्कारकर्मसु।।
सर्वत्र दर्शनाच्छास्रे पर्णमय्यां फलोक्तिवत् ।। ४४ ।।
आत्मनः कर्मशेषत्वात्तद्धियः कर्मशेषता ।।
विधिं त्वयाऽनिच्छताऽपि ह्यभ्युपेयाऽर्थवादता ।। ४५ ।।
नैवं तद्धेतुतद्रूपविरोधादितरेतरम् ।।
मुक्त्यभ्युदययोस्तस्मान्न सम्यग्भवतोदितम् ।। ४६ ।।
स्वरूपेऽवस्थितिर्मुक्तिरात्मनो भवतोच्यते ।।
काम्यादिवर्जनादिभ्यस्तस्याः सिद्धिश्च वर्ण्यते ।। ४७ ।।
तत्राऽऽत्मा किं स्वरूपे प्राङ्न स्थितो येन तत्स्थितौ ।।
हेतु व्यपेक्षते यत्नात्स्वरूपं हि न तद्भवेत् ।। ४८ ।।
स्वतोऽनवस्थितो यत्र हेतुना स्थाप्यते बलात् ।।
अथावस्थित एवायं किमर्थं हेतुमार्गणम् ।। ४९ ।।
कैवल्पेऽपि च तत्सक्तेरनिर्मोक्षः प्रसज्यते ।।
अतो निषिद्धकाम्यादिवर्जनान्नाऽऽत्ममुक्तता ।। ५० ।।
विषयाभ्यासजास्वास्थ्यनुत्त्यर्थमिति चेन्मतम् ।।
स तु विषयसंपर्कः कस्माद्भवति कारणात् ।। ५१ ।।
अकस्माद्भवतः सक्तेर्मुक्तावप्यनिषेधतः।।
अनिर्मोक्षप्रसक्तिर्वस्तथा सति समापतेत् ।। ५२ ।।
धर्माधर्मनिमित्तश्चेत्किं पुनर्धर्मपातके ।।
अप्यसङ्गस्वभावस्य संपर्कं कुरुतो बलात् ।। ५३ ।।
भल्लातकाङ्कवद्वस्त्रे न हि लोके स्फुरन्नपि ।।
कुशलोऽपि कुलालः सन्नघटादिस्वभावकम् ।। ५४ ।।
मृद्वद्व्योम धटी कुर्यान्मरुद्वाऽग्नेश्च शीतताम् ।।
आत्मा कर्त्रादिरूपश्चेन्मा काङ्क्षीस्तर्हि मुक्तताम् ।। ५५ ।।
न हि स्वभावो भावानां व्यावर्त्येतौष्ण्यवद्रवेः ।।
स्वभावाद्विनिवृत्तोऽर्थो निःस्वभावः खपुष्पवत् ।। ५६ ।।
नाविनश्यन्यतो वह्निर्व्यावर्त्येतौष्ण्यतः क्कचित् ।।
न च कर्त्राद्यनिर्मुक्तौ मुक्तिः संभाव्यतेऽन्यतः ।। ५७ ।।
ननु कर्तृत्वभोक्तृत्वकार्यमेवाऽऽत्मसंसृतिः ।।
न तु तच्छक्तिरित्येवं शक्तिमात्रतया स्थितौ ।। ५८ ।।
सर्वानर्थविनिर्मुक्तेरूपपन्नाऽऽत्ममुक्तता ।।
मैवं भेदे तथाऽभेदे दोषः स्याच्छक्तिकार्ययोः ।। ५९ ।।
शक्तितत्कार्ययोर्यस्माद्व्यतिरेको न विद्यते ।।
नियमासंभवः प्रापद्व्यतिरेकस्तयोर्यदि ।। ६० ।।
कार्यकारणता न स्यात्स्वतो भेदेन सिद्धयोः।।
अभेदे च तयोरैक्यात्कार्यकारणता कुतः ।। ६१ ।।
नाकुर्वत्कारणं दृष्टं कार्यं चाक्रियमाणकम् ।।
अथाभेदस्तयोरिष्टः कार्यध्वस्तौ प्रसज्यते ।। ६२ ।।
तच्छक्तेरपि विध्वंसस्तयोरव्यतिरेकतः।।
शक्तिस्वरूपहाने च शक्तिमद्रूपनिह्नुतिः।। ६३ ।।
तयोरव्यतिरेकत्वात्स एवाऽऽयात्यनीप्सितः।।
निरात्मवादः पूर्वोक्तस्तस्मान्नैवं प्रकल्पयेत् ।। ६४ ।।
मतं कार्यानभिव्यक्तिर्निमित्तासंभवाद्यदि ।।
शक्तेरिति, न तद्युक्तं शक्तितद्धेतुसंभवात् ।। ६५ ।।
शक्तिरूपेण संबन्धो निमित्तानामपीष्यते ।।
नैमित्तिकैरिति ततो वह्न्यौष्ण्यादिसमानता ।। ६६ ।।
कार्यस्य शक्तितत्रत्वे सर्वदा कारणस्थितेः ।।
कार्योत्पत्तिः सदैव स्यान्निदाघे घर्मवद्यतः ।। ६७ ।।
तथैव शक्त्यतत्रत्वेऽप्येष दोषो यतो भवेत् ।।
सदा कार्यं न जायेत कारणासंभवात्सदा ।। ६८ ।।
निदाधे शीतवद्यस्मोदतोऽसम्यगिदं वचः।।
निष्कारणस्य चोद्भूतौ कार्यजन्म सदा भवेत् ।। ६९ ।।
कायर्ता वा कुतोऽस्य स्यान्न चेत्कारणतत्रता ।।
न च शक्यं प्रतिज्ञातुं जन्माऽऽरभ्याऽऽ मृतेर्नृभिः।। ७० ।।
निषिद्धकाम्यकर्मादिवर्जनं निपुणैरपि ।।
सूक्ष्मापराधसंदृष्टेरतियत्नवतामपि ।। ७१ ।।
संशयस्तु भवत्येव पक्षासिद्धिस्तु तावता ।।
अथ चेन्मोक्ष्यते सोऽत्र यस्य संपत्स्यते तथा ।। ७२ ।।
त्वदुक्तं नैतदेवं स्यादवक्तव्यत्वहेतुतः।।
निश्चितं साधनं वाच्यं ज्ञानं निःश्रेयसं प्रति ।। ७३ ।।
न तु यादृच्छिकी सिद्धिर्वक्तव्येह विपश्चिता ।।
दैवगोचर एवैष न तु मानुषगोचरः ।। ७४ ।।
सहकर्त्री भवेच्छक्तिरिति न्यायाद्भवेद्यदि ।।
मनुष्यगोचरोऽपीति नाऽऽख्यातासंभवात्तथा ।। ७५ ।।
मुक्त्यर्थाी न हि काम्यादि वर्जयेदिति चोदना ।।
अस्ति वेदे क्कचिद्येन शक्तेर्विध्येकदेशता ।। ७६ ।।
काम्यादिवर्जनं त्वेतत्स्वमतिप्रभवं यतः।।
नातः शक्तेस्तदंशत्वं कथंचिदपि युज्यते ।। ७७ ।।
नित्यादिकरणान्नापि काम्यादेश्तापि वर्जनात् ।।
श्रेयः संभाव्यते विद्यानिष्फलत्वप्रसङ्गतः ।। ७८ ।।
काम्यात्स्वर्गादिकं मा भूदक्रियायां तदुद्भवम् ।।
अर्थान्तरात्स्वभावाद्वा भवन्न तु निवार्यते ।। ७९ ।।
अन्यतो भवने मानं न चेदस्त्विह संशयः।।
एतावताऽपि पक्षस्ते प्रतिबद्धो न सिध्यति ।। ८० ।।
अथैतयोरिति तथा चोदनार्थातिलङ्घिनाम् ।।
सुखदुःखादिसंदृर्ष्टर्न चाप्यस्तीह संसयः ।। ८१ ।।
नित्यस्याकरणे दोषस्तत्कियायां न यद्यपि ।।
अन्यतोऽसौ स्वाभावाद्वा न तु मानेन वार्यते ।। ८२ ।।
नित्यादेः फलमिष्टं चेदुपात्तदुरितक्षयः ।।
तथाऽप्यागामिदोषेष्वाशङ्का पूर्ववदुद्भवेत् ।। ८३ ।।
अनभीष्टफलानां च दुरितत्वात्क्षयो भवेत् ।।
नत्वाभ्य़ुदयिकानां स्यादभीष्टत्वात्क्षयस्त्व ।। ८४ ।।
सर्वेषां दुष्टता चेत्स्यान्न विधानाददुष्टता ।।
नापि श्येनादितुल्यत्वं फलदोषेण दुष्टता ।। ८५ ।।
ऐकात्म्यज्ञानतश्चेत्स्याद्व्यर्था कर्मप्रधानता ।।
प्रधानत्वं च विद्यायास्तमेतमिति दर्शितम् ।। ८६ ।।
तत उक्तेन मार्गेण कर्तृसंस्कारकारिणाम् ।।
ऐकात्म्यज्ञानतात्पर्यं कर्मणामिति निश्चितम् ।। ८७ ।।
तेन निःसारतां बुद्ध्वा कर्मणां वेदतत्त्ववित् ।।
ऐकात्म्यज्ञानमन्वेति तपोमुषितकल्मषः ।। ८८ ।।
यस्तु जन्मान्तराभ्यासात्क्षपिताशेषकामनः।।
आदावेवाधिकारी स पुनः कर्म न वीक्षते ।। ८९ ।।
विरक्तस्य तु जिज्ञासोर्मानान्नान्यव्यपेक्षणम् ।।
कर्मापेक्षा हि साध्येऽर्थे सिद्धेऽर्थे तदनर्थकम् ।। ९० ।।
वामदेवस्य मैत्रेय्या गार्ग्याश्चैव समञ्जसम् ।।
दर्शनं, ब्रह्मचर्यादेस्तथा प्राव्राज्यशासनात् ।। ९१ ।।
इष्टापूर्तादिहेतूनामानन्त्यात्स्वर्गसिद्धये ।।
हेत्वन्तरासंभवोऽतो दुर्ज्ञानः संभवाद्भवेत् ।। ९२ ।।
एवं निषिद्धवाक्येषु यथोक्तं न्यायमादिशेत् ।।
नित्यकर्मवचःस्वेवं नातो मुक्तिविनिश्चयः ।। ९३ ।।
अनेकजन्मोपात्तस्य पुण्यापुण्यस्य कर्मणः।।
अनन्तदेहहेतोश्च विप्रघातस्य संभावत् ।। ९४ ।।
ततः शेषेण वचनात्तथा तद्य इहेत्यतः।।
अनारब्धफलेहानां गम्येते संस्थितिस्ततः ।। ९५ ।।
फलं नित्यस्य नापीह दुरितक्षयमात्रकम् ।।
फलान्तरश्रुतेः साक्षात्तद्यथाऽऽम्रस्मृतेस्तथा ।। ९६ ।।
आम्रे निमित्त इत्यादि ह्यापस्तम्बस्मृतेर्वचः।।
फलवत्त्वं समाचष्टे नित्यानामपि कर्मणाम् ।। ९७ ।।
उक्तमेव तु संशीतावियं त्वत्र विनिश्चितिः।।
कार्यमारभते शक्तिर्यत्किंचेह व्यवस्थिता ।। ९८ ।।
यस्मादसति कार्येऽसौ शक्तिरेव न सिध्यति ।।
कार्यकारणयोः सिद्धिरन्योन्याव्यतिरेकतः ।। ९९ ।।
कर्तृभोक्तृस्वरूपेऽतो ह्यभ्युपेतेऽन्तरात्मनि ।।
न मुक्त्याशाऽस्ति पूर्वोक्तन्यायमार्गसमाश्रयात् ।। १०० ।।
सापराधत्वतो मुक्तिः संदिग्धैव प्रसज्यते ।।
द्विजातीनां खरादेस्तु त्वदुक्त्या स्यादसंशयात् ।। १०१ ।।
ननूक्तं कर्मशेषत्वमात्मनो यागकर्तृता ।।
नैतदेवं यतो नैतत्कर्माङ्गं ज्ञानमिष्यते ।। १०२ ।।
कर्तृत्वमात्मनः सिद्धं यतोऽन्यत्रापि यागतः ।।
निःशेषकर्मकारित्वात्तस्मादुक्तमपेशलम् ।। १०३ ।।
न ह्यात्मज्ञानविरहात्कर्म कर्तुं न शक्यते ।।
पर्णज्ञानमृते यद्वज्जुहूर्लातुं न शक्यते ।। १०४ ।।
देहान्तराभिसंबन्धी नत्वात्माऽस्तीत्यजानतः।।
विवेकिनो न युक्तेयं प्रवृत्तिः पारलैाकिकी।। १०५ ।।
एवं तर्हि न कर्माङ्गं कर्तुश्चेष्टैकहेतुतः ।।
फलार्थिवन्न च ज्ञानं क्रियाङ्गत्वेन चोदितम् ।। १०६ ।।
नन्वेवमपि सिद्धः स्यात्प्रवेशः सर्वकर्मसु ।।
आत्मज्ञानस्य सामर्थ्यान्न नाम विधिसंश्रयात् ।। १०७ ।।
नैतदेवमविज्ञाततत्त्वस्यैवेह कर्मसु ।।
अनात्मार्थविशिष्टस्य ह्यधिकारित्वहेतुतः।। १०८ ।।
स्वरूपे आत्मनः स्थानमाहुर्निःश्रेयसं बुधाः ।।
ततोऽन्येनाभिसंबन्ध आत्मनोऽज्ञानहेतुकः ।। १०९ ।।
आगनत्वनात्मरूपं तत्स्वसंवित्त्यैव गम्यताम् ।।
नातोऽवाप्तपुर्थस्य स्वरूपावस्थिस्य तु ।। ११० ।।
कर्तृभोक्त्रादिरूपत्वं प्रत्यगज्ञानतोऽन्यतः ।।
कर्म तत्फलभोगश्च बाह्यानि करणानि च ।। १११ ।।
ततोऽपि बाह्यो देहश्च जातिस्तत्समवायिनी ।।
जरामरणजन्मानि देहाधिकरणानि च ।। ११२ ।।
दारपुत्रधनादीनि देहवाह्यानि यानि च ।।
कर्माधिकारहेतूनि स्वतोऽस्यानधिकारिणः ।। ११३ ।।
अभिन्नस्याऽऽत्मनो मोहाद्भेदकानीति मन्वते ।।
विशेषणं स्वरूपं वा नान्योन्यस्य स्वतो यतः ।। ११४ ।।
लोके दृष्टं विनाऽविद्यां मोहादृष्टं तु सर्वतः।।
चोरोऽसौ मामभिप्रैतीत्येवं चोरविशेषणम् ।। ११५ ।।
स्थाणुं संभावयत्यज्ञो न तु दृष्टं तमो विना ।।
नन्वविद्यामृतेऽप्यन्यदृष्टमन्यविशेषणम् ।। ११६ ।।
औपगवो नृपहयस्तथा श्येनचिदादयः ।।
नैतदेवं यतस्तत्र नैवं प्रत्यक्तयेष्यते ।।
अगन्यस्य संबन्धः कृशोऽहमितिवत्क्कचित् ।। ११७ ।।
उपग्वादिर्हि पित्रादिः प्रकृत्यर्थो विशेषणम् ।।
भिन्नस्यौपगवापत्यप्रत्ययार्थस्य गम्यते ।। ११८ ।।
नैवं कर्त्रादिदेहान्ताञ्जात्यादीन्देहगांस्तथा ।।
व्यतिरेकतया कश्चिद्विशिनष्टीह मानवः ।। ११९ ।।
यत आत्मतयैवैतैर्विशिनष्ट्यविशेषणम् ।।
करोम्यन्धो द्विजो बालो दग्धश्छिन्नोऽहमित्यपि ।। १२० ।।
नाविद्यामन्तरेणैषां विशेषणविशेष्यता ।।
इयमेवाऽऽत्मनो ज्ञेया कर्माधिकृतिकारणम् ।। १२१ ।।
अधिक्रियन्ते येनैते बृहस्पतिसवादिषु ।।
अतोऽनवगतैकात्म्यकर्माधिकृतिहेतुतः ।। १२२ ।।
श्रुत्यादिमानप्रमितप्रत्यग्याथात्म्यनिष्ठितम् ।।
सर्वकर्मसमुच्छेदि ज्ञानं वेदान्तमानजम् ।। १२३ ।।
तन्मूलाज्ञानघातित्वाज्ज्ञानस्येह प्रसिद्धितः ।। १२४ ।।
न तु प्रवर्तकं तस्मान्नार्थवादत्वसंभवः ।।
फलोक्तेः पर्णमय्यां तु युज्यते कर्मशेषतः।। १२५ ।।
यत्त्वचोदि त्वयाऽपीयमभ्युपेयाऽर्थवादता।।
अनिच्छताऽपि विध्यर्थमत्र प्रतिविधीयते ।। १२६ ।।
इच्छाम्येवार्थवादत्वं वचसोऽन्यपरत्वतः।।
यथाश्रुतार्थवादित्वान्न त्वभूतार्थवादता ।। १२७ ।।
इज्येते स्वर्गलोकाय दर्शादर्शौ यथा तथा ।।
न त्वभूतार्थवादित्वं पापश्लोकाश्रुतेर्यथा ।। १२८ ।।
कुतः प्राप्तं फलमिति प्रत्यक्षं ह्यात्मधीफलम् ।।
यतोऽवगम्यते तेन ज्ञानं कर्म न ढौकते ।। १२९ ।।
प्रवृत्तेः प्रतिकूलत्वान्मुक्तिं प्रति विरोधतः ।।
मुमुक्षोरधिकारोऽतो निवृत्तौ सर्वकर्मणाम् ।। १३० ।।
प्रवृत्तिहेतुप्रध्वस्तेर्न प्रवृत्तौ कथंचन ।।
नाभिप्रेतपुरप्राप्तिसमर्थं सुगमं शिवम् ।। १३१ ।।
वारिपथ्यदनोपेतं सर्वानर्थविवर्जितम् ।।
प्राप्तं मार्गं समुत्सृज्य तद्विरुद्धेन वर्त्मना ।।
यियासति सुधीः कश्चिद्यथा भ्रान्तोऽध्वगस्तथा ।। १३२ ।।
तथाऽविद्योत्थकर्त्रादिधर्मशून्यमविक्रियम् ।।
अक्रियाकारकं ज्ञात्वा निःशेषपुरुषार्थदम् ।। १३३ ।।
आत्मप्रत्ययमागम्यमात्मानं देवमञ्जसा ।।
तत्स्थितौ च फलेऽभीष्टे नित्ये साधनवर्जिते ।। १३४ ।।
तद्विरूद्धफले बाह्यसाधनेऽनेककारके ।।
कथं कर्मणि सर्वज्ञो मनो दध्याद्धसन्नपि ।। १३५ ।।
सम्यग्धीमृदिताशेषध्वान्तस्य च न पूर्ववत् ।।
अज्ञानादि पुनः कर्तुं शक्यतेऽकारकत्वतः ।। १३६ ।।
श्रुत्यादिमानप्रमितयाथात्म्यज्ञानतत्फलः।।
प्रतिकूलत्वतो विद्वान्यतः कर्मसु नेहते ।। १३७ ।।
अतोऽज्ञस्यैव निःशेषमुमुक्षुप्रजिहासितः ।।
कर्त्राद्यनात्मधर्मस्य कर्माधिकृतिरात्मनः ।। १३८ ।।
विद्यात्ममोहतत्कार्यविरोधाच्च परस्परम् ।।
रोगादिवदनर्थत्वात्कत्रीदिः प्रजिहासितः ।। १३९ ।।
जिहासितुः स्वभावोऽसावित्युक्तिः शिशुवक्तृका ।।
कर्त्रादिश्चेत्स्वभावः स्यात्प्रत्यक्षाकर्तृरूपिणः ।। १४० ।।
प्रत्यक्षादिविरोधः स्यादनिर्मोक्षस्तथैव च ।।
अस्तु काममनिर्मोक्षो विक्रियावत्त्वतो दृशेः।। १४१ ।।
अग्निवत्फलभोक्तृत्वान्नो चेदाकाशकल्पता ।।
इति चेन्नाऽऽत्मनो ध्रौव्याद्विक्रियानुपपत्तितः।। १४२ ।।
मूर्तामू्र्तत्वहीनस्य प्रतीचो विक्रिया कुतः।।
प्रमायोगो हि भोक्तृत्वं प्रमा चैवाऽऽत्मनः सदा ।। १४३ ।।
वाय्वग्निवद्विकारो न प्रागभावाद्यसंभवात् ।।
अग्नयादीनां तु सांशत्वाद्वलवद्भिस्तदिन्धनैः ।। १४४ ।।
अभिभूतस्वरूपाणां काष्ठनिर्मथनादिना ।।
युक्तैवाऽऽबिष्कृतिर्नित्यं तेषां कार्यात्मकत्वतः ।। १४५ ।।
न त्वात्मनो निरंशत्वान्मुख्यै संभवतः क्कचित् ।।
अविर्भावतिरोभावौ स्वतःसिद्धेश्च कारणात् ।। १४६ ।।
अभ्युपेताऽप्यभिव्यक्तिर्नाभिव्यङ्ग्यस्य विक्रिया ।।
यथा तथाऽनभिव्यक्तिः सर्वेषामपि वादिनाम् ।। १४७ ।।
अतोऽनभ्युपगच्छद्भिर्मुक्तौ कर्त्रादिरात्मनः।।
अविद्याकल्पितो ज्ञेयो न ह्यसौ परमार्थतः ।। १४८ ।।
कर्त्राद्यात्मस्वभावस्य प्रात्यक्ष्यान्न तदान्मनि ।। १४९ ।।
मात्रादिबोधकं मानं प्रत्यगात्मनि साक्षिणि ।।
न व्यापारयितुं शक्यं वह्रि दग्धुमिवोल्मुकम् ।। १५० ।।
साक्षिसाक्ष्याभिसंबन्धः प्रमात्रादौ यथा तथा ।।
साक्षिवस्तुनि नैव स्यात्केवलानुभवात्मनि ।। १४१ ।।
परार्थसंहतानात्मभोग्यकर्त्रादिबोधिना ।।
विरोधात्तद्विरुद्धोऽर्थः प्रत्ययेनेक्ष्यते कथम् ।। १५२ ।।
इच्छाद्वेषादिरप्येवं नाऽऽत्मनो धर्म इष्यताम् ।।
कामः संकल्प इत्येवं मनोधर्मत्वसंश्रवात् ।। १५३ ।।
स्वपरोभयहेतुत्वे ह्यनिर्मोक्षप्रसङ्गतः ।।
सम्यग्निरूपणे चैषामविद्याकार्यतैव हि ।। १५४ ।।
इच्छादीनां स्वहेतुत्वेऽनर्थं कुर्यात्कथं स्वयम् ।।
आत्मा जानन्यथा शत्रोरात्मनोऽतो न युज्यते ।। १५५ ।।
तथा परनिमित्तत्वेऽनर्थस्यापरिहारतः ।।
नैकान्तिकफलत्वं स्याद्रोगादिपरिहरवत् ।। १५६ ।।
करणैः संहतिं चर्ते परिहारः कुतो दृशेः।।
तथोभयनिमित्तत्वे नैकान्तिकफलोदयः ।। १५७ ।।
पराभिप्रायानियमान्नैव स्यान्मोक्षनिश्चितिः।
निर्हेत्वविद्याकृप्तौ तु दोषः कश्चिन्न विद्यते ।। १५८ ।।
तद्वर्जनस्य संसिद्धेः प्रसिद्धोपायसंश्रयात् ।।
परागर्थप्रमेयेषु या फलत्वेन संमता ।।
संवित्सैवेह मेयोऽर्थो वेदान्तोक्तिप्रमाणतः।। १५९ ।।
अप्रामाण्यप्रसक्तिश्च स्यादितोऽन्यार्थकल्पने ।।
वेदान्तानामतस्तस्मान्नान्यमर्थं प्रकल्पयेत् ।। १६० ।।
नन्वेवमपि मानत्वव्याघातः स्यात्क्रियाविधेः।।
वेदान्तेष्वप्यनाश्वासस्तथा च प्रसजेद्ध्रुवम् ।। १६१ ।।
नैतदेवं यतोऽशेषमानानामपि मानता ।।
आ परात्मावबोधात्स्यात्तत्र सर्वसमाप्तितः।। १६२ ।।
नातोऽवतारो मानानामैकात्म्येनैव संक्षयात् ।।
श्येनादिविधिबाधः स्यादहिंसाविधिना यथा ।। १६३ ।।
कर्माण्यतो विधीयन्तेऽविद्यावन्तं नरं प्रति ।।
न तु विध्वस्तसकलकर्महेतुं द्विजं प्रति ।। १६४ ।।
सर्वकर्मनिरासेऽतो ह्यधिकारो विवेकिनः।।
यथोक्तन्यायतः सिद्धो न तु कर्मसु कर्हिचित् ।। १६५ ।।
कारकव्यवहारे हि शुद्धं वस्तु न वीक्ष्यते ।।
शुद्धे वस्तुनि सिद्धे च कारकव्यापृतिस्तथा ।। १६६ ।।
कारकाकारकधियोर्नैकदैकत्र वस्तुनि ।।
विरोधात्संभवोऽस्तीह प्रकाशतमसोरिव ।। १६७ ।।
अविरोधः क्रमेण स्यात्स्थिगत्योरिवेति चेत् ।।
नाऽऽत्मज्ञानस्य कूटस्थवस्तुतत्रत्वहेतुतः ।। १६८ ।।
नौष्ण्यात्मको मितो वह्रिः क्रमशोऽक्रमशोऽथ वा ।।
वस्तुतः शीततामेति, कर्तृतत्रं तथा भवेत् ।। १६९ ।।
भेदाभेदात्मकात्वाच्चेदेकस्यापीह वस्तुनः।।
अविरोधो, न तन्न्याय्यं त्वदुक्तार्थविरोधतः।। १७० ।।
नानेकस्यैकता न्याय्या तथैकस्याप्यनेकता ।।
वस्तुतत्रत्वतो बुद्धेर्न चेदेवं मृषा मतिः ।। १७१ ।।
यथा चास्य विरुद्धत्वं तथोदर्के प्रवक्ष्यते ।।
ऐकात्म्यस्यैव मेयत्वं तस्यैवाप्रतिबोधतः ।। १७२ ।।
वस्तूनीह प्रमीयन्ते व्यावृत्तानि परस्परम् ।।
अभावेन प्रमाणेन तेनोक्तं ते विरुध्यते ।। १७३ ।।
भेदे वा यदि वाऽभेदे संसृतेर्ब्रह्मणा सह ।।
ब्रह्मणोऽब्रह्मता तद्वद्विद्यानर्थक्यसंशते ।। १७४ ।।
ब्रह्माविद्यावदिष्टं चेन्ननु दोषो महानयम् ।।
निरविद्ये च, विद्याया आनर्थक्यं प्रसज्यते ।। १७५ ।।
नाविद्याऽस्येत्यविद्यायामेवाऽऽसित्वा प्रकल्प्यते ।।
ब्रह्मटृष्ट्या त्वविद्येयं न कथंचन युज्यते ।। १७६ ।।
यतोऽनुभवतोऽविद्या ब्रह्मास्मीत्यनुभूतिवत् ।।
अतो मानोत्थविज्ञानध्वस्ता साऽप्येत्यथाऽऽत्मताम् ।। १७७ ।।
ब्रह्मण्यविदिते वोधान्नाविद्येत्युपपद्यते ।।
नितरां चापि विज्ञाते मृषाधीर्नास्त्यबाधिता ।। १७८ ।।
अविद्यावानविद्यां तां न निरूपयितुं क्षमः।।
वस्तुवृत्तमतोऽपेक्ष्य नाविद्येति निरूप्यते ।। १७९ ।।
वस्तुनोऽन्यत्र मानानां व्यापृतिर्न हि युज्यते ।।
अविद्या च न वस्त्वष्टं मानाघातासहिष्णुतः ।। १८० ।।
अविद्याया अविद्यात्व इदमेव तु लक्षणम् ।।
मानाघातासहिष्णुत्वमसाधारणमिष्यते ।। १८१ ।।
त्वत्पक्षे बहु कल्प्यं स्यात्सर्वं मानविरोधि च ।।
कल्प्याऽविद्यैव मत्पक्षे सा चानुभवसंश्रया ।। १८२ ।।
तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः।।
अविद्या सह कार्येण नाऽऽसीदस्ति भविष्यति ।। १८३ ।।
अतः प्रमाणतोऽशक्याऽविद्याऽस्येति निरीक्षितुम् ।।
कीद्दशी वा कुतो वाऽसावनुभूत्येकरूपतः ।। १८४ ।।
देवताद्रव्यकर्त्रादि ननु वस्त्वस्तु नाद्वयम् ।।
सर्वलोकप्रसिद्धत्वादद्वयस्याप्यसिद्धितः ।। १८५ ।।
नैतत्साधु, प्रमाणानां सर्वलोकाभिधं न हि ।।
प्रमाणमस्ति यत्प्राणाद्भवानेवं प्रभाषते ।। १८६ ।।
अभिमानश्च यत्रायं सर्वलोकास्य गम्यते ।।
प्रत्यक्षोऽर्थोऽयमित्येवं मिथ्यात्वं तस्य चोदितम् ।। १८७ ।।
प्रत्यक्षं च यथाऽऽसन्नं परोक्षाद्वस्तुनो मतम् ।।
सर्वप्रत्यक्तमस्तद्वद्बोधो वाक्योत्थ आत्मनि ।। १८८ ।।
आत्मानुभवमाश्रित्य प्रत्यक्षादि प्रसिध्यति ।।
अनुभूतेः स्वतः सिद्धेः काऽपेक्षा ह्यात्मसिद्धये ।। १८९ ।।
आत्मानुभवपूर्वत्वात्प्रत्यक्षत्वस्य न स्वतः।।
आत्मैकगम्यमैकात्म्यं वेदान्तेष्ववगम्यते ।। १९० ।।
यच्चाप्युक्तं श्रुतिस्मृत्योः क्रियाया एव सिद्धितः ।।
अतः क्रियातिरेकेण नास्त्यन्यन्मुक्तिसाधनम् ।। १९१ ।।
केन चोक्तं क्रिया मुक्तेः साधनत्वं न गच्छति ।।
तमेतामिति नाश्रौषीः संस्कारा इति च स्मृतिम् ।। १९२ ।।
यद्यप्यैकात्म्यधीः साक्षाच्छ्रुतिस्मृत्योर्न चोद्यते ।।
तथाऽप्यसौ न तद्बाह्या ताभ्यामेवाऽऽत्मबोधनात् ।। १९३ ।।
यच्च न ज्ञाप्यते वेदे वस्त्वित्येतदचूचुदः।।
तच्चापहस्तितं चोद्यं वक्ष्यते च निराकृतिः।। १९४ ।।
विधावसति वाक्यस्य यच्चावोचोऽप्रमाणताम् ।।
स्फृटन्यायोक्तिभिस्तच्च यत्नात्परिहरिष्यति ।। १९५ ।।
यच्चोक्तं न पुमर्थोऽस्ति वस्तुमात्रावबोधनात् ।।
आख्यानप्रचुरा यस्मात्रय्यन्ता इह लक्षिताः ।। १९६ ।।
रामो राजा बभूवेति न ह्येतावत्प्रबोधतः।।
संभाव्यते पुमर्थोऽतो विध्यर्थविरहात्कचित् ।। १९७ ।।
परार्थतैव सर्वत्र ज्ञानस्येहोपलक्ष्यते ।।
ज्ञात्वाऽनुष्टानवचनाद्विद्वान्यजत इत्यपि ।। १९८ ।।
उक्तोऽत्र परिहारः प्रागूर्ध्वं चापि प्रवक्ष्यते ।।
विद्याफलस्य प्रात्यक्ष्यादितिहेतुसमाश्रयात् ।। १९९ ।।
ननु निर्धूतशोकादि फलं यच्छ्रूयते श्रुतौ ।।
आत्मस्तुतिरसौ तस्मात्त्वन्मनोरथकल्पितम् ।। २०० ।।
अत्रोच्यते ह्यभिप्रेतं गम्यमानं प्रमाणतः ।। २०१ ।।
फलं तत्संपरित्यज्य कस्माल्लक्षणया स्तुतिम् ।।
अश्रुतामनभिप्रेतां कल्पयस्यबुधो यथा ।। २०२ ।।
न चास्त्येकविपयत्वं प्रत्यक्षवचसोर्यतः ।।
श्रुत्यैव परिहारोक्तेः स्वप्नादिस्थानसंचरात् ।। २०३ ।।
वहुशोऽसङ्गवचसा निःसङ्गत्वं ब्रुवाणया ।।
मनोराज्यसमं मन्ये सर्वमेतत्त्वयोदितम् ।। २०४ ।।
न प्रत्येमि यतः साक्षात्प्रत्यक्षं ज्ञानतः फलम् ।।
श्रुतादपि न चेद्वाक्याज्जायेत फलवन्मतिः।।
आशङ्क्येत तदैवैतद्यदेतद्भवतोदितम् ।। २०५ ।।
नित्यमुक्तत्वविज्ञानं वाक्याद्भवति नान्यतः ।।
वाक्यार्थस्यापि विज्ञानं पदार्थस्मृतिपूर्वकम् ।। २०६ ।।
अन्वयव्यतिरेकाभ्यां पदार्थः स्मर्यते ध्रुवम् ।।
एवं निर्दुःखमात्मानमक्रियं प्रतिपद्यते ।। २०७ ।।
सदेवेत्यादिवाक्येभ्यः प्रमा स्फुटतरा भवेत् ।।
दशमस्त्वमसीत्यस्माद्यथैवं प्रत्यगात्मनि ।। २०८ ।।
अमात्वाशङ्कासद्भावान्मान्तरैश्चाविरोधतः ।।
वक्ष्यत्येतच्च यत्नेन लोकसिद्धोपपत्तिभिः ।। २०९ ।।
चतुष्पान्मानिरासेन साक्षाज्ज्ञानफलं ततः ।। २१० ।।
नवसंख्याहृतज्ञानो दशमो विभ्रमाद्यथा ।।
न वेत्ति दशमोऽस्मीति वीक्षमाणोऽपि तान्नव ।। २११ ।।
अपविद्धद्वयोऽप्येवं तत्त्वमित्यादिना विना ।।
वेत्ति नैकलमात्मानं प्रत्यड्भोहाप्रबोधतः।। २१२ ।।
वुभुत्सोच्छेदिनैवास्य सदसीत्यादिना टृढा ।।
प्रतीचि प्रतिपत्तिः स्यात्प्रत्यगज्ञानबाधया ।। २१३ ।।
निःशेषकर्मसंन्यासो वाक्यर्थज्ञानजन्मने ।।
तस्याऽऽरादुपकारित्वात्सहायत्वाय केल्प्यते ।। २१४ ।।
त्याग एव हि सर्वेषां मोक्षसाधनमुत्तमम् ।।
त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम् ।। २१५ ।।
शान्तो दान्त इति तथा सर्वत्यागपुरःसरम् ।।
उपायमात्मविज्ञाने श्रुतिरेवाब्रवीत्स्वयम् ।। २१६ ।।
प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् ।।
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ।। २१७ ।।
मुक्तेश्च विभ्यतो देवा मोहेनापिदधुर्नरान् ।।
ततस्ते कर्मसूद्युक्ताः प्रावर्तन्ताविचक्षणाः ।। २१८ ।।
अतः संन्यस्य कर्माणि सर्वाण्यात्मावबोधतः ।।
हत्वाऽविद्यां धियैवेयात्तद्विष्णोः परमं पदम् ।। २१९ ।।
इति भाल्लविशाखायां श्रुतिवाक्यमधीयते ।।
सर्वकर्मनिरासेन तस्मादात्मधियो जनिः ।। २२० ।।
सत्यानृते इति तथा सर्वसंन्यासपूर्वकम् ।।
आत्मनोऽन्वेषणं साक्षादापस्तम्बोऽब्रवीन्मुनिः ।। २२१ ।।
``नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।।
नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् '' ।। २२२ ।।
वेदानुवचनादीनां विनियोगोक्तियत्नतः।।
भिन्नाधिकारितालिङ्गं कर्मविज्ञानकाण्डयोः ।। २२३ ।।
ज्ञानोत्पत्त्यादिकाल्लिङ्गाद्यतस्तद्धेतुमात्रकम् ।।
गम्यते न विशेषोऽतः कर्मैवेति न गम्यते ।। २२४ ।।
मुण्डोऽपरिग्रहोऽसङ्गो बहिरन्तःशुचिः सदा ।।
ब्रह्मभूयाय भवति परिव्राडिति च श्रुतिः ।। २२५ ।।
इत्यादिश्रुतिवाक्यानि स्मृतिभिः सह कोटिशः ।।
ज्ञानाय विदधत्युच्चैः संन्यासं सर्वकर्मणाम् ।। २२६ ।।
यच्चाभाणि विना कार्यं नाधिकारो निरूप्यते ।।
दोषोऽयमपि नैव स्याज्ज्ञानोपाये यथोदिते ।। २२७ ।।
विधिमार्गेऽधिकारस्य परीक्षा वेर्तते यतः ।।
फलभूते तु विज्ञाने नाधिकारो निरूप्यते ।। २२८ ।।
अधिकारविचारो हि नृतन्त्रे वस्तुनीष्यते ।।
वस्तुतन्त्रे न युक्तोऽसौ स्वयं चैव पुमर्थतः ।। २२९ ।।
अनात्मनि प्रमेयेऽर्थे या फलत्वेन संमता ।।
प्रमेया सैव वेदान्तेष्वनुभूतिरिहाऽऽत्मनः ।। २३० ।।
विज्ञानमानन्दमिति ह्यात्मैवेति श्रुतेस्तथा ।।
पुमर्थस्यैव मेयत्वं मातृत्वाद्यनपेक्षिणः ।। २३१ ।।
तज्ज्ञानं यस्य संजातं जातमेवास्य नान्यथा ।।
कुक्षिस्थस्यापि हि सतो वामदेवस्य तद्यथा ।। २३२ ।।
तच्चाविद्यानिरास्येव व्याधभावनयाऽञ्जितः ।।
राजसूनोः स्मृतिप्राप्तौ व्याधभावो निवर्तते ।। २३३ ।।
यथैवमात्मनोऽज्ञस्य तत्त्वमस्यादिवाक्यतः ।।
लब्धैकात्म्यस्मृतेर्व्येति सर्वाऽविद्या सकार्यका ।। २३४ ।।
यत एवमतो नात्र विधिः कल्प्यः कथंचन ।।
अनर्थकः कल्पितोऽपि तस्येहानुपयोगतः ।। २३५ ।।
उत्पत्तिराप्तिः संस्कारो विकारश्च विधेः फलम् ।।
मुक्तिर्विलक्षणैतेभ्यस्तेनेहानर्थको विधिः ।। २३६ ।।
अनन्यायत्तसंसिद्धेर्निरविद्यात्मवस्तुनः ।।
न क्रियात्वं फलत्वं वा नापि कारकरूपता ।। २३७ ।।
अतोऽत्र विध्यभावोऽयं न कथंचन दूषणम् ।।
अलंकृतिरियं साध्वी वेदान्तेषु प्रशस्यते ।। २३८ ।।
चोदनाभिर्नियुक्तोऽहं तथा ब्रह्महमित्यपि ।।
परस्परविरुद्धत्वादेकदैकत्र न द्वयम् ।। २३९ ।।
स्वामी सन्न हि भृत्येन स्वामिनेव नियुज्यते ।।
संबोधनीय एवासौ सुप्तो राजेव बन्दिभिः ।। २४० ।।
चोदनालक्षणत्वादि धर्मं प्रत्येव गृह्यताम् ।।
धर्मस्यैव प्रतिज्ञोक्तेर्न तु ब्रह्म प्रतीष्यते ।। २४१ ।।
अथातो धर्मइत्युक्तेश्चोदनालक्षणोक्तितः ।।
तद्भूतानां क्रियार्थेन ह्याम्नायस्य क्रियार्थतः ।। २४२ ।।
भावार्थाः कर्मशब्दा ये प्रतीयेत क्रिया ततः ।।
इत्येवं नरतन्त्रेऽर्थे ज्ञेया द्वादशलक्षणी ।। २४३ ।।
वेदान्तार्थापवादाय नालं साऽतत्प्रमाणतः ।।
मानं नालं निराकर्तुं वस्तु यन्मान्तरैर्मितम् ।। २४४ ।।
स्वमेयमात्रशूरत्वान्मितेर्नान्यत्र मानता ।।
अथातो ब्रह्मजिज्ञासा इत्याद्युक्तं नयान्वितम् ।। २४५ ।।
मीमांसान्यायवत्त्वाभ्यां धर्ममीमांसनोक्तिवत् ।।
एवं सत्यनुकूलार्थं तत्त्वमित्यादिकं वचः ।। २४६ ।।
सर्ववेदान्तविषयमन्यथा तद्विरुध्यते ।। २४७ ।।
न तत्र करणापेक्षा नेतिकर्तव्यता तथा ।।
यत्र यत्राऽऽत्मभावेन श्रुत्या ब्रह्मावबोध्यते ।। २४८ ।।
इतिकर्तव्यतादानं करणादानमेव च ।।
तत्र तत्र विधिः स्थाने प्रहितस्य फलेच्छया ।। २४९ ।।
आप्ताशेषपुमर्थत्वात्त्यक्तानर्थस्य च स्वतः ।।
अनात्मनीव नेच्छेयं कथंचित्स्यादिहाऽऽत्मनि ।।
तन्निवृत्तौ निवर्तेते इतिकर्तव्यसाधने ।। २५० ।।
निरन्तरायतोऽशेषपुमर्थस्याऽऽत्मरूपतः ।।
न चांशत्रयशून्येह भावनेष्टा परीक्षकैः ।। २५१ ।।
भावनातो न चान्यत्र विधिरभ्युपगम्यते ।।
मोहमात्रान्तरायायां मुक्तावस्तु यथोदितम् ।। २५२ ।।
एकदेशो विकारो वा संसारी त्वात्मनो यदा ।।
किं तदाऽप्युक्तमार्गेण मुक्तिः किंवा क्रियाश्रयात् ।। २५३ ।।
निवृत्तावेव निःशेपसंसारस्य तदाऽपि तु।।
आगन्तोरधिकारः स्यान्न प्रवृत्तौ कथंचन ।। २५४ ।।
आत्माज्ञाननिमित्तस्य ह्यन्यत्वानुपपत्तितः ।।
तदाऽप्यविद्याविध्वस्तावधिकारो न कर्मणि ।। २५५ ।।
कर्तव्याभावतेस्त्वेवं विकारेऽपि न कर्मणि ।।
कारणैकत्वसंपत्तेः स्वतःसिद्धत्वहेतुतः ।। २५६ ।।
मृदापत्तिर्घटस्येव विकारस्याऽऽत्मनो ध्रुवम् ।।
अविकारात्मसंपत्तिः सा च तत्त्वावबोधतः ।। २५७ ।।
कार्यकारणयोर्भित्तौ कार्यकारणता कुतः।।
अभित्तौ च तयोरैक्यात्कार्यकारणता कुतः ।। २५८ ।।
विज्ञानात्मविकारस्य कारणैक्यं विमुक्तता ।। २५९ ।।
स्वतस्तस्य च संसिद्धेः कार्यता नोपपद्यते ।।
कर्मानोऽनर्थकं मुक्तावेकदेशविकारयोः ।। २६० ।।
अप्यनर्थाय कर्म स्यात्क्रियमाणं न मुक्तये ।।
प्रतिकूलं विमुक्तेश्चं क्रियमाणमसंशयम् ।।
कर्माऽऽरभेत तेनैतन्मुक्तौ कर्म निरर्थकम् ।। २६१ ।।
विकारोऽत्यान्तेनिर्भिन्नो यदा तु स्याद्विकारिणः ।।
तदाऽपि विकृतेर्नाशो मुक्तिरित्यभिधीयते ।। २६२ ।।
अत्राप्यनर्थकं कर्म तत्फलासंभवत्वतः ।।
कर्मेण ज्ञानमप्यत्र फलाभावादनर्थकम् ।। २६३ ।।
नैवाविद्याकृतैवासौ वास्तवी यदि संसृतिः ।।
स्वरूपनाशदोषः स्यादेकदेशेऽपि पूर्ववत् ।। २६४ ।।
यदा त्वविद्ययाऽध्यस्तं संसारित्वं न वस्तुतः ।। २६५ ।।
विकारेऽवयवे चैव तदा पूर्वोक्त एव तु ।।
पक्षो निर्वहणीयः स्यादस्माभिरपि संमतः ।। २६६ ।।
सर्ववादाविरोधी च नातो विधिरिहेष्यते ।।
तदा हि कल्पनाः सर्वा विकारावयवादिकाः ।।
तृथैवेमा ह्यविद्यैव सर्वाः संपादयिष्यति ।। २६७ ।।
पूर्णं निःश्रेयसं तस्मात्तदपूर्णमविद्यया ।। २६८ ।।
आभासते मृषैवातो यथाभूतात्मविद्यया ।।
प्रध्वस्तायामविद्यायां पूर्णमेवावशिप्यते ।। २६९ ।।
अनर्थको विधिस्तस्मात्सर्वो निःश्रेयसं प्रति ।।
इत्येतन्न्यायतः सिद्धं यत्तु प्राक्चोदितं त्वया ।।
आम्नायस्य क्रियार्थत्वादित्यत्राप्यभिधीयते ।। २७० ।।
तत्राऽऽम्नायाभिधानस्य ह्याम्नायांशाभिधानतः ।।
विध्युक्तीनां क्रियार्थत्वं सिद्धं हेतुतयोच्यते ।। २७१ ।।
क्रियाप्रकरणस्थानां विधिशेषात्मनां सताम् ।।
वचसामक्रियार्थानामानर्थक्याय तद्वचः ।। २७२ ।।
न तूपनिषदां न्याप्यं पार्थनर्थ्यस्य संभवात् ।।
पूर्वोक्तेनैव न्यायेन नातस्तद्विधिशेषता ।। २७३ ।।
विधिना त्वेकवाक्यत्वादिति यच्चापि चोदितम् ।।
तेषामेव तदप्यस्तु तदानर्थक्यचोदनात् ।। २७४ ।।
न तु वेदान्तवचसां दृष्टार्थत्वेन हेतुना ।।
तद्बुद्धेः पृथगर्थत्वमुक्तमेवातिविस्तरात् ।। २७५ ।।
अन्यार्थानुपपत्तेश्च वेदान्तवचसां तथा ।।
अर्थैकत्वगतौ सत्यां वाक्यभेदप्रकल्पना ।।
न न्याय्या सेति दृष्टत्वाद्देवस्य त्वादिवाक्यवत् ।। २७६ ।।
तथैव पृथगर्थत्वगतौ भिन्नवचस्त्वतः ।।
इषे त्वादिषु दृष्टत्वान्न न्याय्यैकार्थकल्पना ।। २७७ ।।
ज्ञानकाण्डार्थशेषत्वं कर्मकण्डस्य यत्पुनः ।।
विनियोजकहेत्वेतत्तयोर्वाक्यैकवाक्यतः ।। २७८ ।।
न्यायेन वक्ष्यमाणेन भूयोऽप्येतत्प्रवक्ष्यते ।। २७९ ।।
पार्थगर्थ्यमतः सिद्धमपास्तविधिलक्षणम् ।।
सर्वोपनिषदां चाऽऽत्मज्ञानं कैवल्यसाधनम् ।। २८० ।।
निःशेषवाङ्भनःकायप्रवृत्त्युपरमात्मिका ।।
तन्निष्ठा चेह विज्ञेया यथोक्तन्यायवर्त्मना ।। २८१ ।।
अधिकारोऽपि तस्यां च सिद्धोऽशेषक्रियात्यजः।।
जिज्ञासोरेव, कर्तुस्तु न सिषाधयिषोः सदा ।। २८२ ।।
ब्रह्मात्मतत्त्वव्युत्पत्तिमात्रेणाप्यधिकारिता ।।
भवत्येवात्र जिज्ञासोरज्ञस्यापि मुमुक्षुतः ।। २८३ ।।
मैवं प्रक्रमसंहारपर्यालोचनया पुरा ।।
वेदस्यैकार्थ्यतात्पर्यमेकवाक्यतयोदितम् ।। २८४ ।।
तेन निःशेषवेदोक्तकारिणोऽत्राधिकारिता ।।
सिद्धे ह्यनेकवाक्यत्वे कल्प्या भिन्नाधिकारिता ।। २८५ ।।
मैवं भिन्नैकवाक्यत्वे प्रागस्माभिः समर्थिते ।।
ततश्च भवदुक्तस्य चोद्यस्येह न संभवः।। २८६ ।।
नापि निःशेषवेदार्थमनुष्ठातुं क्षमो नरः ।।
पुमायुषाऽपि येन स्यादात्मज्ञानेऽधिकारिता ।। २८७ ।।
संपदां चार्थवादत्वं तेन वेदान्तगोचरे ।।
ज्ञानेऽधिकारिणोऽभावात्प्रामाण्यं क्षिप्यते स्वतः ।। २८८ ।।
किंच मानादविज्ञाता विमुक्तिः काम्यते न च ।।
ज्ञातायां स्वात्मरूपत्वात्सुतरां नास्ति कामना ।। २८९ ।।
न युक्तं कामना मुक्तौ पुंसां नास्तीति भाषितुम् ।।
देशकालानवच्छिन्नसुखाद्यर्थित्वदर्शनात् ।। २९० ।।
किंच ज्ञानमदृष्टार्थमग्निहोत्रादिवद्यदि ।।
ततोऽधिकारिचिन्ता स्यात्कृतेऽप्यफलशङ्क्या ।। २९१ ।।
कामिनाऽप्यग्निहोत्रादि शूद्रेणानधिकारिणा ।।
कृतमप्यफलं तेन यत्नात्तत्र निरूप्यते ।। २९२ ।।
अविद्याघस्मरज्ञानजन्ममात्रावलम्बिनः।।
पुमर्थस्याधिकं शास्त्रात्किंचिदत्र तु नार्थ्यते ।। २९३ ।।
कुतस्तज्ज्ञानमिति चेत्तद्धि बन्धपरिक्षयात् ।।
असावपि च भूतो वा भावी वा वर्ततेऽथवा ।। २९४ ।।
अधीतवेदवेदार्थोऽप्यत एव न मुच्यते ।।
हिरण्यनिधिदृष्टान्तादिदमेव च दर्शितम् ।। २९५ ।।
भिद्यते हृदयग्रन्थिद्रिछद्यन्ते सर्वसंशयाः।।
क्षीयन्ते चास्य कर्मणि तस्मिन्दृष्टे परावरे ।। २९६ ।।
इत्यादिनाऽपि विज्ञानं नादृष्टार्थमितीरितम् ।।
तथा स ब्रह्मणः केन स्याद्येनेति प्रदर्शितम् ।। २९७ ।।
आत्यान्तिकसुरवानर्थप्राप्तिविच्छेकाङ्क्षिणः ।।
प्रीत्युत्कर्षोऽपि लोकेऽस्मिन्दृष्टाः स किं न काम्यते ।। २९८ ।।
दृष्टादृष्टार्थसंवन्धिप्रीत्युत्कर्षाविशेषतः।।
नाऽऽनन्दादन्यतो मुख्यात्पण्डितः पर्यवस्यति ।। २९९ ।।
किंतु साधनसाध्यत्वादनित्यं कर्मजं सुखम् ।।
अभिव्यञ्जकतत्रस्तु मोक्षस्तेनाक्षयो मतः ।। ३०० ।।
संस्कारमात्रकारित्वं सर्वेषामपि कर्मणाम् ।।
ज्ञानकाण्डे प्रवेशो वा तेषां नार्थान्तरं ततः ।। ३०१ ।।
एवमत्रैकवाक्यत्वं नानुष्ठेयसमाप्तितः ।। ३०२ ।।
असारफलसंप्राप्तिः पुमर्थो नेष्यते यतः।।
तृष्णया साधयन्प्रीतिं न प्रीतिलवमिच्छति ।। ३०३ ।।
प्रीतेः श्रुतः प्रकर्षोऽपि स्वर्गस्वाराज्यभेदतः ।।
नापि प्रीतेरियत्तायाः स्वर्गशब्दोऽस्ति वाचकः ।। ३०४ ।।
न चाजानन्स्वसाध्यार्थं विद्वान्कश्चित्प्रवर्तते ।।
प्रीतिर्या काचिदिष्टा चेत्स्वर्गशब्देन भण्यते ।। ३०५ ।।
चित्राग्निष्टोमयागादेः पश्वादिफलसंकरः ।।
विशेषो वाञ्छितश्चेत्स्यात्पुत्रपश्वाद्युपाधितः ।। ३०६ ।।
न तावत्संभवेत्स्वर्गो ज्ञातोपाधिवियोगतः ।।
मुक्तौ काम्यफलेऽभीष्टे सकृत्करण एव च ।।
अनवच्छिन्नरूपायाः प्रीतेराप्तौ कृतार्थता ।। ३०७ ।।
प्लवा ह्येते परीक्ष्येति तथा तद्य इहेति च ।।
कर्मभ्यो निर्वृतिर्नास्तीत्यादिवाक्यैः प्रदर्शितम् ।। ३०८ ।।
प्रत्यक्षश्रुतिविध्यन्तविहितानामकारणात् ।।
त्यागोऽतिसाहसं मन्ये ननु यागादिकर्मणाम् ।। ३०९ ।।
प्रत्यक्षोपनिषद्वाक्यविहितायास्ततोऽपि तु ।।
ऐकात्म्यज्ञाननिष्ठायास्त्यागोऽतीव हि साहसम् ।। ३१० ।।
विचार्यमाणे यत्नेन त्वधिकारे यथाश्रुति ।। ३११ ।।
न किंचित्साहसं त्वत्र प्रत्यक्षश्रुतिवाक्यतः ।।
अधिकारविभागस्य प्रसिद्धेरेव कारणात् ।। ३१२ ।।
तस्मात्सिद्धोऽधिकारोऽत्र ब्रह्मरूपं विविक्षिताम् ।।
तस्यास्य कर्मकाण्डेन संबन्ध इति भाष्यकृत् ।।
प्रतिज्ञायापि संबन्धं कस्मात्तन्नोक्तवान्स्फुटम् ।। ३१३ ।।
अभिधीयत इत्यादिवचसाऽपि स नोच्यते ।।
सिद्धे वस्तुनि वेदस्य मानत्वं तेन भण्यते ।।। ३१४ ।।
वेदान्तोक्तेः प्रमाणत्वे सति संबन्ध उच्यते ।।
प्रामाण्यायैव तेनाऽऽदौ सर्वोऽपीत्यादि भण्यते ।। ३१५ ।।
आक्षिप्यते वा संबन्धः संवन्धो नाभिधीयते ।।
सप्तम्यन्तपदच्छेदात्कथं चेदिति भण्यते ।। ३१६ ।।
भिन्नार्थयोर्न संबन्धो ह्यन्योन्यार्थानपेक्षतः ।।
ऐकार्थ्ये चैकवाक्यत्वात्कर्मविज्ञानकाण्डयोः ।। ३१७ ।।
तथा तयोरमानत्वे संबन्धोक्तिर्न युज्यते ।।
द्वयोरेकस्य वा मात्वे न संबन्धादि शस्यते ।। ३१८ ।।
श्रुत्यैव तस्य चोक्तत्वात्तमेतमिति यत्नतः।।
इति चेतसि संधाय संबन्धं नोक्तवान्गुरुः ।। ३१९ ।।
प्रसाध्य वा प्रमाणत्वं वेदान्तानां प्रयत्नतः ।।
संबन्धं कर्मकाण्डेन पश्चात्सम्यक्प्रवक्ष्यते ।। ३२० ।।
वेदानुवचनादीनामैकात्म्यज्ञानजन्मने ।।
तमेतमिति वाक्येन नित्यानां वक्ष्यते विधिः।। ३२१ ।।
यद्वा विविदिपार्थत्वं सर्वेपामपि कर्मणाम् ।।
तमेतमिति। वाक्येन संयोगस्य पृथक्त्वतः ।। ३२२ ।।
लोकतः सिद्धमादाय पशुव्रीह्यादिसाधनम् ।।
इदं कार्यमिदं नेति कर्मकाण्डश्रुतेर्गतिः ।। ३२३ ।।
मानान्तरेण संप्राप्तां साध्यसाधनसंगतिम् ।।
कर्मशास्रं व्यनक्तीति न तु वस्त्ववबोधकृत् ।। ३२४ ।।
वेदो हि सर्व एवायमैकात्म्यज्ञानसिद्धये ।।
अतो नान्याोऽभिसंबन्धः कर्मविज्ञानकाण्डयोः ।। ३२५ ।।
नित्यनैमित्तिकानीह कर्तृसंस्कारतो यतः।।
नान्यत्र पर्यवस्यन्ति ज्ञानादैकात्म्यगोचरात् ।। ३२६ ।।
``प्लवां ह्येते'' ``परीक्ष्येति'' तथा ``तद्य इहेति'' च ।।
निन्दाश्रुतेर्न काम्यानां कार्यताऽध्यवसीयते ।। ३२७ ।।
विधिनिन्दासमावेशो नैवमप्युपपद्यते ।।
फलाभिसंधिमात्रे तु निन्दायामेव युज्यते ।। ३२८ ।।
उपासनं च यत्किंचिद्विद्याप्रकरणे श्रुतम् ।।
तदप्यैकात्म्यविज्ञानयोग्यत्वायैव कल्प्यते ।। ३२९ ।।
विमुच्यमान इत्युक्तेरर्चिराद्युक्तितस्तथा ।।
स्वार्थमात्रावसायित्वं नोपास्तीनां प्रतीयते ।। ३३० ।।
इत्येवमभिसंबन्धः कर्मकाण्डस्य युज्यते ।।
इतोऽन्यथाऽभिसंबन्धे न किंचिन्मानमीक्ष्यते ।। ३३१ ।।
न चोद्गीथादिविषयज्ञानवत्कर्मसंगतिः ।।
ऐकात्म्यबुद्धेस्तद्वुद्धिद्वारं नैव निरीक्ष्यते ।। ३३२ ।।
श्रुत्या नैकात्म्यविज्ञानं विनियुक्तं श्रुतौ क्कचित् ।।
उपस्थानं यथैन्द्र्या स्यान्नापि लिङ्गेन संगतिः ।।
बर्हिर्देवसदनं दामीत्यादौ च यथा तथा ।।। ३३३ ।।
न चापि वाक्याद्विज्ञानं कर्तृद्वारेण गच्छति ।।
कर्मण्यप्रक्रियास्थं सज्जुहूपर्णमयीत्ववत् ।। ३३४ ।।
डुह्वाद्याकृतिसंपत्तिव्यपेक्षापूरणक्षमम् ।।
विशेत्पर्णमयीत्वादि प्रकृत्युपनयात्क्रतुम् ।। ३३५ ।।
कर्मापेक्षितकर्त्रादिरूपविध्वंसकृन्न तु ।।
ऐकात्म्यज्ञानमन्वेति स्वातन् त्र्येऽप्यर्थत्त्वतः ।। ३३६ ।।
जुह्वाद्यव्यभिचारित्वात्प्रत्युपस्थापयेत्क्रतुम् ।।
कर्ताऽन्यत्रापि सद्भावान्नाऽऽक्षेप्ता व्यभिचारतः ।। ३३७ ।।
अऩारभ्योक्तितश्चापि नेह प्रकरणग्रहः ।। ३३८ ।।
सिद्धे सामान्यतो लिङ्गात्संबन्धे कर्मभिस्ततः ।।
विशेषावगतिर्नाम्नः क्रमाच्चेति व्यवस्थितम् ।। ३३९ ।।
इह त्वैकात्म्यधीयोगः काम्ययाज्येष्टिवन्न हि ।।
तस्मात्कर्माभिसंवन्धो नैवैकात्म्यधियोऽमितेः ।। ३४० ।।
न चाप्यस्यार्थवादत्वं विधिना वाक्यभेदतः ।।
दृष्टार्थत्वाच्च तद्वुद्धेः पाठान्नादृष्टकल्पना ।। ३४१ ।।
तमेतमिति वाक्यात्तु यागादेः प्रत्युताङ्गता ।। ३४२ ।।
अन्ये त्वाहुर्न शक्नोति कामसंदूषिताशयः ।।
द्रष्टुं तत्परमद्वैतं सर्वकामासमाप्तितः ।। ३४३ ।।
द्वैतैकत्वमतीहाभिः सूत्रान्तं फलमाप्यना ।।
प्राजापत्यं पदं भुक्त्वा तदैकात्म्यं प्रपद्यते ।। ३४४ ।।
नैवं, न कामसंप्रप्त्या तन्नाशोऽब्दशतैरपि ।।
तत्सेवातोऽतिवृद्धिः स्यान्निवृत्तिर्दोषदर्शनात् ।। ३४५ ।।
न जातु कामः कामानामुपभोगेन शाम्यति ।।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ।। ३४६ ।।
निवर्तेतापि कामेभ्यस्तदुपायाप्रसिद्धितः।।
सर्वक्लेशोपशान्त्यात्मज्ञानं चापि समाश्रयेत् ।। ३४७ ।।
अथाऽऽनन्दः श्रुतः साक्षान्मानेनाविषयीकृतः।।
दृष्टानन्दाभिलाषं स न मन्दीकर्तुमप्यलम् ।। ३४८ ।।
कामप्रविलयायातस्तद्विपक्षार्थभावनम् ।।
विधयस्तत्क्रियाणां स्युस्तद्विपर्ययहेतवः ।। ३४९ ।।
द्वारं न नियतं मुक्तेः प्राजापत्यं पदं भवेत् ।।
नह्युपाधिषु तत्त्वस्य विशेषः कश्चिदीक्ष्यते ।। ३५० ।।
नाऽऽकाशस्य विशेषोऽस्ति कुम्भद्रोण्याद्युपाधिषु।।
दूरान्तिकादिभिन्नेषु कल्पिताकल्पितेष्वपि ।। ३५१ ।।
सत्तत्त्वापेक्षयाऽभेदो भावानां नाभ्युपेयते ।।
स्वभावहानादन्योन्यं विशेषो बाह्य एव सः ।। ३५२ ।।
कार्यकारणपक्षेऽपि कार्यं नान्यत्र कारणात् ।।
न च तत्त्वे विशेषोऽस्ति कटकादीव हेमनि ।। ३५३ ।।
अतः प्रजापतौ तत्त्वं कृमौ वा न विशिष्यते ।।
तर्कादागमतश्चापि तद्यो य इति हीदृशात् ।। ३५४ ।।
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ।। ३५५ ।।
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ।। ३५६ ।।
विज्ञानकर्मणोस्रेधा यधुच्येत समुच्चयः ।।
पूर्वोक्तैकात्म्यतात्पर्याद्वेदस्यासौ न युज्यते ।। ३५७ ।।
एकवाक्यावशीभावात्साध्यैक्यायोगतस्तथा ।।
समुच्चयः कुतो द्रव्यगुणवज्ज्ञानकर्मणोः ।। ३५८ ।।
भेदाभेदाश्रयत्वेन ह्यैकात्म्यज्ञानकर्मणोः ।।
परस्परोपकारित्वहानात्कीदृक्समुच्चयः ।। ३५९ ।।
देवताद्रव्ययाथात्म्यज्ञानं कर्माङ्गतां गतम् ।।
तावदेव हि तत्कर्म नाज्ञातद्रव्यदैवतम् ।। ३६० ।।
तद्विशेषेऽङ्गभूयस्त्वात्फलभूयस्त्वमित्यतः ।।
समुच्चयो न तस्य स्यान्नाङ्गेनाङ्गिसमुच्चयः ।। ३६१ ।।
यच्चाप्यैकात्म्यविज्ञानं तदज्ञानैकघस्मरम् ।।
तस्मिन्सति कुतः कर्म का वाऽपेक्षाऽस्य गोचरे ।। ३६२ ।।
ब्राह्मणत्वादिविज्ञानमग्निहोत्रादिकर्मणाम् ।।
यदृष्टं साध्यसिद्ध्यै तु कर्मानुुगुणमेव तत् ।। ३६३ ।।
ऐकात्म्यवस्तुयाथात्म्यबोधे जात्यदिवाधनात् ।।
न केवलं क्रिया न स्यात्कर्मणां प्रत्युताक्रिया ।। ३६४ ।।
अयथावस्तुसर्पादिज्ञानं हेतुः पलायने ।।
रज्जुज्ञानेऽहिधीध्वस्तौ कृतम्यनुशोचति ।। ३६५ ।।
न कर्मव्यापृतिर्मुक्तावाप्त्यादीनामभावतः ।।
न च श्रुत्यादयस्तत्र तेन स्यान्न समुच्चयः ।। ३६६ ।।
अन्तरङ्गं हि विज्ञानं प्रत्यङ्भात्रैकसंश्रयात् ।।
बहिरङ्गं तु कर्म स्याद्वाह्यद्रव्याश्रयत्वतः ।। ३६७ ।।
सत्यन्तरङ्गे विज्ञाने बहिरङ्गं न सिध्यति ।।
संस्कारकं तु कर्म स्याज्ज्ञानात्त्वज्ञाननिहनुतिः ।। ३६८ ।।
यथावस्त्वात्मविज्ञानं, मोहमात्राश्रयाः क्रियाः।।
सम्यग्ज्ञाने कुतः कर्म कर्महेतूपमर्दनात् ।। ३६९ ।।
नित्यप्राप्तं त विज्ञानं प्रतीचः संनिधेः सदा ।।
कर्मानित्यं पृथग्रपं नित्यं चानित्यबाधकम् ।। ३७० ।।
क्षयी कर्मार्जितो लोकः, स्वराडब्रह्मावबोधतः ।।
लब्धे त्रैलोक्यराज्ये ना भिक्षामाद्रियते तु कः ।। ३७१ ।।
भिन्नप्रकरणं ज्ञानं काङ्क्षितं न च कर्मणा ।।
विरोधाच्च स्वतन्त्रं तद्गुणभूतं न कस्यचित् ।। ३७२ ।।
यतो वस्त्वनुरोध्येतन्न ज्ञातृवशवर्त्यतः ।।
अज्ञानोच्छित्तये ज्ञानं स्वतन्त्रं तेन भण्यते ।। ३७३ ।।
अनावृत्तिश्च कर्मभ्यो न क्वचिच्छ्रूयते स्फुटम् ।।
ज्ञानादेव त्वनावृत्तिः श्रूयते बहुशः श्रुतो ।। ३७४ ।।
एकरूपं च विज्ञानमेकरूपात्ममेयतः ।।
भिन्नरूपाणि कर्माणि बहुकारकसंश्रयात् ।। ३७५ ।।
एकरूपस्य मोक्षस्य भिन्नरूपं न साधनम् ।।
एकरूपस्य मोक्षस्य ह्ये करूपं हि साधनम् ।। ३७६ ।।
तस्मात्कर्मफलं नाना नानाकर्मसमुद्भवम् ।।
देवमानुषतिर्यक्षु कर्तुः शास्त्रैर्निदर्शितम् ।। ३७७ ।।
अन्ये तु मन्वते केचिद्गम्भीरन्यायवादिनः ।।
भेदस्य विलयो वेदे गम्यते कस्यचित्कचित् ।। ३७८ ।।
देहात्मभावविलयः स्वर्गकामपदे यथा ।।
देहाद्भिन्नोऽधिकार्यत्र स्वर्गभोग्यवगम्यते ।। ३७९ ।।
गोदोहनेनेत्यत्रापि विलयोऽन्याधिकारिणः ।।
अधिकृताधिकारित्वान्नान्योऽधिक्रियते यतः।। ३८० ।।
रागाद्युत्थप्रवृत्तीनां निषेधेषु लयोऽञ्जसा ।।
विधिष्वपि लयस्तासां कार्यान्तरनियोगतः ।। ३८१ ।।
लोकेऽपि चानभिप्रेतात्पथः साक्षान्निवारणम् ।।
मार्गान्तरोपदेशाद्वा वेदेऽप्येवं प्रतीयताम् ।। ३८२ ।।
एवं रागादिहेतूत्थप्रवृत्तिलयवर्त्मना ।।
आत्मज्ञानाधिकारार्था निःशेषा विधयः स्थिताः ।। ३८३ ।।
नैतदेवं यतोऽशेषा न कर्मविधयः श्रुतौ ।।
स्ववाक्यावगतात्कार्यादपेक्षन्ते फलनन्तरम् ।। ३८४ ।।
वेदेऽनुष्ठानतात्पर्यान्न लयो गम्यते क्वचित् ।।
फलश्रुतेरभावो हि साध्यः स्यादफलः कथम् ।। ३८५ ।।
वस्तुनोऽवगतिर्नापि लयाद्भवति कुत्रचित् ।।
अभावेऽप्युपपन्नत्वात्सुषुप्ते चाप्यनीक्षणात् ।। ३८६ ।।
स्वाभाविकः प्रपञ्चश्चेत्स निरोद्धुंं न शक्यते ।।
कार्यश्चेत्कारणोच्छेदे कार्योच्छेदः स्वतो न हि ।। ३८७ ।।
कृतस्रप्रपञ्चविलयः कर्तुं शक्यो न केनचित् ।।
स्वेन्द्रियादिलयः स्वापे स्वत एव न शास्रतः ।। ३८८ ।।
उत्थितस्य पुनर्भावादनुच्छेदोऽथ शङ्क्यते ।।
आयातस्तिर्ह्यनाश्वासस्त्वदभ्युपगतावपि ।। ३८९ ।।
प्रपञ्चनाश्नेनाथ नाश्यते भेदकारणम् ।।
नैवं न कार्यनाशेन कारणं नश्यति क्वचित् ।। ३९० ।।
कारणस्याप्यविद्याया वस्तुबोधाद्विनाशतः ।।
यतोऽतोऽविद्यानाशार्थं प्रपञ्चविलयोऽफलः ।। ३९१ ।।
रज्जुज्ञानाद्धि सर्पादिप्रपञ्चविलयो यतः ।।
सर्पाभासलयेऽपीयं रज्जुस्तमसि नेक्ष्यते ।। ३९२ ।।
लयनिष्ठे प्रमाणे नो वस्तुगोचरभेदतः ।।
अथ वस्तुनि तन्मानं न लये स्यान्न च द्वये ।। ३९३ ।।
भाव्युच्छेत्तुमशक्यस्ते, भूतोऽप्युपरतः स्वतः ।।
प्रपञ्चो वर्तमानस्तु कार्यत्वान्नश्यति स्वतः ।। ३९४ ।।
श्रुतेर्विलयतात्पर्ये फलमाकस्मिकं भवेत् ।।
फलार्था चेल्लये न स्यान्नोभयं वाक्यभेदतः ।। ३९५ ।।
प्रपञ्चविलयेनैव सर्वानर्थप्रहाणतः ।।
पुरुषार्थस्य संसिद्धेर्विद्या नैष्फल्यमापतेत् ।। ३९६ ।।
अत ऐकात्म्ययाथात्म्यज्ञानादज्ञानहानतः ।।
सिद्धे पुमर्थे विलयकल्पना निष्प्रयोजना ।। ३९७ ।।
स्वकार्योपक्षयादेव विधीनां च परस्परम् ।।
कुत एकाधिकारत्वमपेक्षाभावतो वद ।। ३९८ ।।
विधीनां चापि सर्वेषां निषेधवचसां तथा ।।
नामादिलयनिष्ठत्ये ह्यभ्युपेतेऽप्रमाणके ।।
अऩिमित्तोऽपवर्गोऽपि शास्रं चैवमनर्थकम् ।। ३९९ ।।
स्वर्गादिकार्यमार्गेण मन्यसे यदि कर्मणाम् ।।
सोपानपङ्लिगत्येव हर्म्यपृष्ठाधिरोहणम् ।।
आत्मज्ञानाधिकारानुप्रवोशित्वं भविष्यति ।। ४०० ।।
यथैव नगराध्वस्थग्रामगत्युपदेशनम् ।।
नगराध्वोपदेशस्य शेषत्वं प्रतिपद्यते ।।। ४०१ ।।
नाकामितत्वाद्ग्रामादिरातेर्युक्तैव शेषता ।।
स्वर्गादेर्न तु शेषत्वं पुरुषार्थत्वहेतुतः ।। ४०२ ।।
अथोपच्छन्दनार्थानि स्वर्गादीनि विमुक्तये ।।
नगराप्तौ तदध्वस्थग्रामादिगुणगीरिव ।। ४०३ ।।
नैवं मान्तरतः सिद्धेर्नृवाक्ये तत्समञ्जसम् ।।
वेदे तु वक्त्रभावत्वादभिप्रायाद्यसंभवः ।। ४०४ ।।
यद्वा तत्रैव तात्पर्यं यत्रोपच्छन्द्य नीयते ।।
नगराप्तौ तु माभावात्प्रयतेत पुमान्कुतः ।। ४०५ ।।
यदाऽपि वस्तुवृत्तेन नगरावाप्तिसाधनम् ।।
ग्रामाप्तिर्नगरप्राप्तिस्तदाऽप्यर्थान्न मानतः ।। ४०६ ।।
अर्थादपि न तात्पर्यं द्रव्यार्जनविधेरिव ।।
शब्दमात्रानुसारेण वेदे तात्पर्यधीर्यतः ।। ४०७ ।।
स्वर्गादौ यदि तात्पर्यं न स्यादैकात्म्यबोधने ।।
मुक्तौ चेन्न भवेत्स्वर्गे वाक्यभेदान्न च द्वये ।। ४०८ ।।
न च स्वर्गादिकार्याणां प्रयाजार्थसमानता ।।
अनुप्रवेशः कल्प्येत येन कार्यान्तरं प्रति ।। ४०९ ।।
वक्तव्यं च कथं त्वेते दृष्टेनैवोपकारिणः ।।
आत्मज्ञानाधिकारस्य यदि तावदिदं मतम् ।। ४१० ।।
रागाद्याक्षिप्तदृष्टार्थप्रवृत्तिप्रतिषेधतः ।।
अस्त्वेवं प्रतिषेधेषु निवृत्तेरूपकारतः ।। ४११ ।।
बिधयस्तु कथं रागं निरून्धन्तीति भण्यताम् ।।
न हि ते परिसंख्यार्था नापि चैते नियामकाः ।। ४१२ ।।
अत्यन्ताप्राप्तमर्थं हि विधयो बोधयन्ति नः ।।
प्रप्तार्थो यो विधिः सोऽन्यनिवृत्तिफल इष्यते ।। ४१३ ।।
सेवासांग्रहणीहावत्तुल्यकार्यतया न च ।।
यतोऽनियतकालीनफला वैधी क्रियेष्यते ।। ४१४ ।।
अदृष्टार्था हि दृष्टार्था रागाद्युत्थाः प्रवृत्तयः ।।
ग्रामोपयेन सेवायाः सांग्रहण्याऽविरुद्धता ।। ४१५ ।।
क्रियातः फलमित्येवं शास्त्रमेतावति प्रमा ।।
क्रमेण युगपद्वाऽतः सेवासांग्रहणीहयोः ।।
नानुष्ठाने विरोधोऽस्ति फलभूमार्थिनः क्वचित् ।। ४१६ ।।
रागाद्युत्थप्रवृत्तीनां कार्त्स्न्येन च विरोधतः ।।
नैयोगिक्योऽपि नैव स्युर्द्रव्याभावात्प्रवृ्त्तयः ।। ४१७ ।।
दृष्टादृष्टप्रवृत्त्योश्च न विशेषोऽस्ति कश्चन ।।
उपायत्वेन काम्यानां रागाद्याक्षिप्रहेतुतः ।। ४१८ ।।
प्रपञ्चाभिनिवेशित्वहेतौ तुल्येऽपि चानयोः ।।
कं विशेषमपेक्ष्यैका चेष्टा मुक्त्यनुरोधिनी ।। ४१९ ।।
कामोपायत्वमेवाथ नेष्टं यदि च कर्मणाम् ।।
उक्तो न्यायः प्रहीयेत फलं चाऽऽकस्मिकं भवेत् ।। ४२० ।।
सर्वकामाशनेनाथ कृत्स्रकामलयाध्वना ।।
यान्ति मुक्त्यानुगुण्यं चेद्विधयो वार्त्तमेव तत् ।। ४२१ ।।
यन्निमित्ता प्रवृत्तिः स्यात्सा कथं तन्निवर्तिका ।।
प्रवृत्तोऽपि निवर्तेत न कामोपायकर्मतः ।। ४२२ ।।
उद्विजेताथवा ज्ञानात्सर्वपुंभोगघस्मरात् ।।
अपि वृन्दावने शून्य इति कामिवचस्तथा ।। ४२३ ।।
उक्तं यदपि वेदेऽस्मिन्कस्यचिद्विलयः क्वचित् ।।
तन्नातत्परतस्तूक्तेर्न देहादिलयस्ततः ।। ४२४ ।।
श्रुतेऽपि स्वर्गतात्पर्ये कल्पना चेल्लयेऽर्थतः ।।
तन्न प्रत्यक्षवचनाद्देहादिलयसिद्धितः ।। ४२५ ।।
साक्षाद्धस्तिनि दृष्टेऽपि नहि हस्तिपदानुमा ।।
अस्थूलादिवचः साक्षाद्देहादिप्रतिषेधकृत् ।। ४२६ ।।
विपर्ययेण येऽप्याहुर्यथोक्तज्ञानकर्मणोः ।।
एकाधिकारितां वाच्यं मानं तैर्ज्ञानसंगतौ ।। ४२७ ।।
न तावत्प्रक्रियेहास्ति व्रूह्यादिप्रोक्षणे यथा ।।
प्रकृतापूर्वसंबन्धलक्षणापरतः स्थितेः ।। ४२८ ।।
व्रीहिशब्दस्य हि व्रीहिस्वरूपे तु निरर्थकम् ।।
प्रकृतापूर्वसंबन्धं बोधयेदिति युज्यते ।। ४२९ ।।
नापि वाक्येन संबन्धो जुहूपर्णमयीत्ववत् ।। ४३० ।।
जुह्वाद्यव्यभिचारित्वकर्मसंगतिकारणात् ।।
विनाऽपि प्रक्रियां तेन कर्मोपस्थापयेद्ध्रुवम् ।। ४३१ ।।
वाक्येनैवाभिसंबन्धस्तत्र तस्येति वर्णितम् ।।
आत्मज्ञानं तु नैवं स्यान्न तत्प्रकरणे श्रुतम् ।। ४३२ ।।
नापि चाव्यभिचारित्वमात्मनः कर्मणेक्ष्यते ।।
तेनास्य कर्मसंबन्धो न मानेनोपपद्यते ।। ४३३ ।।
एवं चाज्ञातपारार्थ्ये नार्थवादः फलश्रुतिः।।
पृथगेवाधिकारोऽतो यथोक्तज्ञानकर्मणोः ।। ४३४ ।।
अर्थाक्षेपोऽपि योग्यस्य कर्तुर्भोक्तुश्च युज्यते ।।
न तु विध्वस्तभेदस्य स्यादौपनिषदस्य सः ।। ४३५ ।।
प्रत्यक्षवेदवचनप्रामाण्याद्याश्रयत्वतः ।।
आदौ संन्याससंसिद्धेर्ऋणानीति ह्यपस्मृतिः ।। ४३६ ।।
न च केवलकर्मभ्यो मुक्तिर्युक्त्योपपद्यते ।।
तथाच वक्ष्यते स्पष्टमतो मुक्तिर्न कर्मतः ।। ४३७ ।।
न चैकात्म्यपरिज्ञानमभ्यासापेक्षमिष्यते ।।
मुक्तये भावनार्थं वा तथा चोर्ध्वं प्रवक्ष्यते ।। ४३८ ।।
स्वतोऽनुभवतः सिद्धेरैकात्म्याख्यस्य वस्तुनः।।
न स्यात्सांपादिकं ज्ञानमित्येतच्चापि वक्ष्यते ।। ४३९ ।।
अन्य आहुः पदार्थत्वात्प्रमाणान्तरगम्यताम् ।।
आत्मनो नाऽऽगमात्सिद्धिर्व्रीह्याद्यन्यपदार्थवत् ।। ४४० ।।
अऩ्वयव्यतिरेकाभ्यां जाग्रत्स्वप्नसुषुप्तितः ।।
विविच्यातः स्वमात्मानं प्रत्यभिज्ञानसस्तथा ।।
माव्यापारसमाप्तत्वान्न भूयस्तदपेक्षिता ।। ४४१ ।।
तद्वासनानिरोधेऽतः पुमाञ्श्रुत्या नियुज्यते ।। ४४२ ।।
मनसो वा निरोधेऽसौ न तु वस्त्ववबोधने ।।
मानान्तरेण तत्सिद्धेर्नात्र व्याप्रियते वचः ।। ४४३ ।।
स्वयंज्योतिःस्वभावत्वान्निरूद्धस्वान्तवासनः ।।
प्रमान्तरानपेक्षोऽपि स्वयमात्मा प्रकाशते ।। ४४४ ।।
एवं कार्यमुखेनैव ज्योतिष्टोमादिवाक्यवत् ।।
वेदान्तानां प्रमाणत्वं, नाक्षवद्वस्तुनीष्यते ।। ४४५ ।।
वासनामात्रहेतुत्वादात्मनोऽनर्थसंगतेः।।
अन्योपाये सत्यसति निरोधादेव मुक्तता ।। ४४६ ।।
संभाव्यं नानपेक्षत्वं नियोगविरहात्कचित् ।।
शब्दप्रवृत्तेः सिद्धे च न नियोगस्य संभवः ।। ४४७ ।।
न च वस्तुनि मानत्व उदाहरणमिष्यते ।।
विधर्गुणार्थस्तस्यापि व्यापारविषयत्वतः ।। ४४८ ।।
किंचानुभूयमानस्य ह्यर्थस्य पुरुषार्थता ।।
सर्वत्र गम्यते वेदे नानुभूतेः कथंचन ।। ४४९ ।।
ततश्च प्रतिभामात्रं शब्दादिति न मानतः।।
प्रतीयमान एवातः पुरुषार्थः प्रसिद्धितः ।। ४५० ।।
अप्युपादीयमानं च सिद्धं वस्तु न कर्मणि ।।
पुमर्थं साधयट्ट्टष्टमनिर्ज्ञाताङ्गभावकम् ।। ४५१ ।।
अनुपादीयमानश्च न च ज्ञाताङ्गभावकः।।
आत्मा चेन्नास्य शेषत्वं विधिं प्रत्युपपद्यते ।। ४५२ ।।
उपासीत स्वमात्मानमिति साक्षाद्वचःश्रवात् ।।
तत्राङ्गभाव इति चेन्मत्पन्थानं भवानितः ।। ४५३ ।।
क्रियाविधिपरत्वेन प्रामाण्यं वचसः स्थितम् ।।
इति व्याचक्षते केचिन्नियोगार्थौकरागिणः ।। ४५४ ।।
नैतत्साध्वभ्यधाय्युच्चैर्नियोगविरहादपि ।।
कामितार्थस्य संसिद्धेर्लौकिकादेव मानतः ।। ४५५ ।।
तद्भावभावतो लिङ्गाद्वासनैकसमाश्रयात् ।।
ज्ञातोऽनर्थेन संबन्ध आत्मनो न तु वास्तवः ।। ४५६ ।।
तस्मात्संसारसंबन्धनिदानस्य प्रसिद्धितः ।।
लिङ्गादेव ततस्तस्य ध्वंसेऽनर्थो निवर्तते ।। ४५७ ।।
अन्तरेणापि वचनं बौद्धादेरिव सिद्धितः ।।
मोक्षस्य पुरुषार्थस्य वचोऽतो निष्फलं भवेत् ।। ४५८।।
व्यतीतानेकजन्मोत्थवासनानामनन्ततः।।
तासां निरोधोऽसंभाव्यो जन्मन्येकत्र मानवै ।। ४५९ ।।
साक्षादात्मावबोधेन प्रत्यग्ध्वान्तच्छिदा न चेत् ।।
दुःखादिभावना ध्वस्ता कथं तद्भावना नुदेत् ।। ४६० ।।
नियोगवर्त्मना चेयं यथा मुक्तिर्न सिध्यति ।।
स्पष्टेन न्यायमार्गेण वक्ष्यामोऽवसरे तथा ।। ४६१ ।।
न पदार्थो न वाक्यार्थ आत्माऽयं वस्तुतो यतः ।।
तत्प्रत्याख्यानश्रुत्यैव तद्याथात्म्यावबोधनात् ।। ४६२ ।।
वासनानामभावेऽपि सुषुप्त्यादौ न मुक्तता ।।
मानव्यापारविरहात्प्रथनं वा दृगात्मनः ।। ४६३ ।।
सर्वानर्थाभिसंबन्धे ह्यविद्यैवास्य कारणम् ।।
वासनानामपि युतौ सैव यस्मादपेक्ष्यते ।। ४६४ ।।
संभाव्यतेऽनपेक्षत्वं नियोगविरहादपि ।।
यथा तथा च वक्ष्यामः स्पष्टेन न्यायवर्त्मना ।। ४६५ ।।