अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥संबंधभाष्यवार्तिकम् ॥ (२)

स्वानु­भू­ति­ब­ला­देव भवताऽपि विभाव्यते ।।
नियोगादिः प्रमाणार्थो नानु­भू­ति­र्नि­यो­गतः ।। ४६६ ।।

यस्या­प्र­सि­द्धि­र्ना­ज्ञा­ना­त्प्र­सि­द्धि­र्नापि मानतः।।
तस्या­नु­भ­व­त­त्त्वस्य कुतः सापेक्षतोच्यते ।। ४६७ ।।

स्वप्र­धा­ना­त्म­बु­द्ध्यैव तदन्यस्य प्रसिद्धितः ।।
कार्य­बु­द्धि­व्य­पे­क्षातो नानु­भू­त्या­त्म­व­स्तुनः ।। ४६८ ।।

क्व नु प्रतीयमानस्य पुमर्थत्वं समीक्षितम् ।।
माना­न्मा­न­फ­ल­स्यैव पुम­र्थ­त्व­स­म­न्व­यात् ।। ४६९ ।।

प्रती­ते­र्मा­फ­ल­त्वाच्च कथं मेयैकनिष्ठता ।।
माक्रि­या­फ­ल­यो­गोऽयं यतो मातरि भोक्तरि ।। ४७० ।।

न चाऽऽत्मा­नु­भा­व­दन्यो विषयः किश्चिदिष्यते ।।
अपि सर्वप्रमाणानां, किमु वेदान्तशासने ।। ४७१ ।।

लौकिको वैदिकः सर्वो व्यवहारो जगत्यपि ।।
भोक्त्रर्थ एऴ नान्योऽतः प्रधानं भोक्तुरिष्यते ।। ४७२ ।।

न वा अरे पत्युरिति तदेतत्प्रेय इत्यपि ।।
निखिलेऽपि जग­त्य­स्मि­न्प्र­धानं नाऽऽत्मनोऽपरः ।। ४७३ ।।

न प्रमाता प्रमाणं वा क्रियामेयफलानि वा।।
प्राधान्यायेन कल्पन्ते भोक्तुरेव प्रधानतः ।। ४७४ ।।

आत्मनः कर्त्रवस्थाऽपि भोक्त्रर्थमिति निश्चयः ।।
यतोऽ­तोऽ­प­र­म­प्ये­त­द्भो­क्त्रर्थं विनियुज्यते ।। ४७५ ।।

नापि चाऽऽत्मातिरेकेण वस्त्व­न्य­न्मा­न­भू­भि­गम् ।।
संभाव्यते यथा चैतत्तथोदर्के प्रवक्ष्यते ।। ४७६ ।।

अनादृत्य यथोक्तार्थं नियो­गा­र्थै­क­रा­गतः ।।
केचि­त्का­र्यै­क­नि­ष्ठत्वं वेदान्तानां प्रचक्षते ।। ४७७ ।।

कार्यै­क­मा­त्र­नि­ष्ठ­त्वा­त्प्र­मा­ण­स्याऽऽ­ग­मा­त्मनः ।।
कुत ऐका­त्म्य­नि­ष्ठत्वं त्वया यदुदितं पुरा ।। ४७८ ।।

नहि तस्यानपेक्षत्वं सिद्ध­व­स्त्व­बो­ध­नात् ।।
यतो मानान्तरमितं सिद्धं वस्त्विति भण्यते ।। ४७९ ।।

शब्द­सा­म­र्थ्य­नि­यमो लोकादेवावगम्यते ।।
लोके मान्त­र­सि­द्धोऽर्थः कार्या­यै­वा­भि­धी­यते ।। ४८० ।।

न प्रवृ­त्ति­नि­वृ­त्तिभ्यां शून्यस्य वचसो यतः ।।
कश्चिदर्थोऽत्र दृष्टोऽतो वस्तुनि स्यान्न मानता ।। ४८१ ।।

संबन्धावगमो नापि शब्दा­द्भू­ता­र्थ­वा­चिनः ।।
प्रव­र्त­का­त्प्र­वृ­त्त्याऽर्थे प्रत्ययो ह्यनुमीयते ।। ४८२ ।।

ततः शब्दस्य सामर्थ्यं प्रती­ते­र­व­धा­र्यते ।।
कार्यै­क­वि­ष­यै­वेयं वाक्यस्यातः प्रमाणतः ।। ४८३ ।।

क्रिया­का­र­क­सं­बन्धो वाक्यार्थो यैरपीष्यते ।।
अनु­वा­द­वि­सं­वा­दा­त्ते­षा­मु­क्ते­र­मा­नता ।। ४८४ ।।

मान्त­रा­नु­प्र­वे­शित्वं कार्यस्य तु न शङ्क्यते ।।
शब्दादेव हि कार्या­र्थ­प्र­ति­प­त्तिर्न लोकतः ।। ४८५ ।।

प्रवर्तनां वदञ्शब्दः प्रवर्तनां वदञ्शब्दः प्रवर्तक इतीर्यते ।।
ज्ञाप­क­त्वा­त्प्र­मा­णस्य प्रेरयन्कारको भवेत् ।। ४८६ ।।

शब्दा­त्प्र­व­र्त­ना­बुद्धौ रागादिर्न च शङ्क्यते ।।
रागादिः प्रेरणाकारी प्रेरणाज्ञापको ध्वनिः ।। ४८७ ।।

आज्ञा­पि­ता­र्थ­नि­ष्पत्तौ कृति­म­त्त्वे­क्ष­णा­त्प्रभोः ।।
रागाद्यर्थस्य चासिद्धौ कर्तृवृत्तिर्न रागतः ।। ४८८ ।।

स्वामि­को­प­प्र­सा­दा­दि­हृ­द­या­कू­त­वे­द­नात् ।।
नापि श्रोतुः प्रवृत्तिः स्याच्छ­ब्दा­त्को­पा­द्य­वे­द­नात् ।। ४८९ ।।

लिङादयो न कोपादेः स्मर्यन्ते प्रतिपादकाः ।।
मानान्तरमिताः सन्तस्ते हि पुंसां प्रवर्तकाः ।। ४९० ।।

धिग­ङ्गा­द्य­भि­धा­नैस्तु लिङ्ग­भू­तै­रि­हे­ङ्गिताः ।।
रागादयो नियोगस्य सिद्ध्यै विषयसाधनाः ।। ४९१ ।।

अत एव च रागा­दि­सं­सृ­ष्टोऽपि विविच्यते ।।
लोडाद्यर्थो व्रजेत्युक्तो याति स्वर्थं विना यतः ।। ४९२ ।।

ननु दाना­दि­सं­ब­द्ध­म­हा­वा­क्या­नु­मा­नतः ।।
गच्छे­त्या­द्ये­क­दे­शोक्तौ लोभादेव प्रवर्तते ।। ४९३ ।।

महा­वा­क्य­प्र­यो­गेऽपि पदा­र्थ­प्र­वि­वे­चने ।।
पुंस्प्र­वृ­त्तिस्तु दृष्टेयं लोडादेरेव नान्यतः ।। ४९४ ।।

लोडादेरेव श्रवणाद्यत्र रागाद्यसंभवः ।।
बालः प्रवर्तते तत्र ज्ञायते प्रेरणार्थता ।। ४९५ ।।

आह मानान्तरेणासौ किल नार्थोऽवगम्यते ।।
शब्दाच्च ज्ञाय­तेऽ­ज्ञा­त­सं­ब­न्धा­दिति चित्रता ।। ४९६ ।।

यद्य­नि­र्ज्ञा­त­सं­ब­न्धोऽ­प्यर्थं शब्दः प्रबोधयेत् ।।
को द्वेषोऽस्मासु भवतो येनोपालम्भ ईर्यते ।। ४९७ ।।

यदाऽवगम्यते नान्य­त्प्र­वृत्तेः कारणान्तरम् ।।
शब्दश्च गम्यते स्पष्ट­स्त­दाऽर्थः प्रविविच्यते ।। ४९८ ।।

अन्वयव्यतिरेकौ तु वाक्या­र्थ­ज्ञा­न­पू­र्वकौ ।।
वाक्यार्थस्तु तदायत्तो नेत्यन्येभ्यो विशिष्टता ।। ४९९ ।।

कर्त­व्य­ता­वि­व­क्षैव नृवाक्येभ्योऽपि गम्यते ।।
विवक्षाया न कार्यत्वं शब्दार्थविषया हि सा ।। ५०० ।।

तद्वशान्न तु शब्दार्थः स हि पूर्वं प्रतीयते ।।
अतः प्रैषा­दि­सं­सृ­ष्टोऽ­प्यर्थः सिद्धो विवेकतः ।। ५०१ ।।

शब्दार्थोपाधयो ह्येते पुरुषाशयपातिनः ।।
प्रैषादयो न शब्दार्था न चानेकार्थता मता ।। ५०२ ।।

अभि­प्रा­य­व­तोऽ­भा­वा­द­भि­प्रा­या­नु­पा­तिनः ।।
शङ्क्यतेऽपि न वेदे तु कार्यं वाच्यमिति स्थितम् ।। ५०३ ।।

प्रयो­ग­वि­धि­शे­ष­त्वा­त्त­न्मूला एव नाऽऽशयात् ।।
वेदे प्रैषास्तु ये दृष्टा अग्नी­द­ग्नी­नि­ती­दृशाः ।। ५०४ ।।

प्रैषादिभ्यो यथैवेयं भिन्ना कर्त­व्य­ते­क्ष्यते ।।
शब्द­श­क्ति­व­शा­त्त­द्व­त्क्रि­या­दे­रपि वीक्ष्यताम् ।। ५०५ ।।

नानि­ष्प­न्न­स्व­भा­वोऽपि भावः कर्तव्यता यतः ।।
लडा­दि­श्र­व­णा­त्तस्या अप्र­ती­ति­र्लि­ङा­दि­वत् ।। ५०६ ।।

ननु कालोपबन्धोऽत्र कार्य­बु­द्धि­वि­घा­त­कृत् ।।
नैतत्संदेह एवात्र विवेकाभावतस्तव ।। ५०७ ।।

कालोपबन्धः किंत्वत्र कार्य­बु­द्धि­वि­घा­त­कृत् ।।
किं भावात्कार्यता भिन्ना लडादिर्यां न भाषते ।। ५०८ ।।

कर्तव्यः कट इत्या­दा­व­व्या­पा­रेऽपि कार्यता ।।
वीक्ष्यतेऽतः पृथ­ग्भा­वा­त्फ­लाच्च प्राक्प्रतीतितः ।। ५०९ ।।

ननु कर्मणि कृत्योऽयं तयोरेवेति शासनात् ।।
मैवं प्रैषा­दि­व­द्य­स्मा­दु­पा­धि­त्वा­द­वा­च्यता ।। ५१० ।।

प्रैषादिष्वपि कृत्यानां तथाच स्मरणं मुनेः ।।
कृत्यानां युक्तितोऽपि स्यान्नैव कर्माभिधायिता ।। ५११ ।।

यथा कटं करोतीति कर्म­मा­त्रा­व­बो­ध­नम् ।।
कर्तव्यः कट इत्यत्र तथैव स्यान्न चेक्ष्यते ।। ५१२ ।।

कर्त­व्य­त्वा­द­भी­ष्ट­त्व­सिद्धौ कर्मार्थलाभतः ।।
साक्षा­द­न­भि­धा­नेऽपि न द्वितीया प्रसज्यते ।। ५१३ ।।

न चाभी­ष्ट­त्व­का­र्य­त्व­म­भिन्नं व्यतिरेकतः ।।
इच्छे­दे­ष्ट­व्य­मि­त्येवं तत्रापि प्रत्ययो यतः ।। ५१४ ।।

तस्मा­त्क­र्त­व्य­ता­वे­शा­त्क्रिया वा यदि वा फलम् ।।
कारकं वाऽपि कार्यत्वं लभते न स्वतन्त्रतः ।। ५१५ ।।

लोकवन्ननु वेदेऽपि कार्यमात्रं न गम्यते ।।
साध­ने­हा­नु­ब­न्धस्य वेदे कार्यस्य बोधनात् ।। ५१६ ।।

तत­श्चोऽऽ­रो­ग्य­का­मस्य पथ्य­भो­ज­न­वा­क्य­वत् ।।
माना­न्त­र­प्र­वे­शेन सापेक्षत्वं प्रसज्यते ।। ५१७ ।।

अतः प्रैषा­दि­तु­ल्योऽयं क्रिया­फ­ल­नि­व­न्धनः ।।
नियो­ग­स्त­द­सं­वा­दा­च्चि­त्रादौ ते विहन्यते ।। ५१८ ।।

मैवं माना­न्त­रा­वे­शा­ल्लोके प्रैषा­द्यु­पा­धि­कम् ।।
कार्यं प्रयोजनार्था च प्रवृत्तिरिति युज्यते ।। ५१९ ।।

साध्य­सा­ध­न­सं­ब­न्ध­वि­ष­यत्वं पुमर्थतः ।।
नियोगस्यात एवात्र कर्तृत्वेन नियुज्यते ।। ५२० ।।

स्वत एव प्रवृ­त्त­त्वा­त्क­र्तु­रे­वा­धि­का­रिता ।।
पदं चाऽऽरोग्यकामादि भवे­त्क­र्तृ­वि­शे­ष­णम् ।। ५२१ ।।

वेदे तु सक­ला­क्षा­दि­प्र­मा­णा­गो­च­र­त्वतः ।।
साध्य­सा­ध­न­ता­ज्ञानं नियोगादेव नान्यतः ।। ५२२ ।।

तथा ह्यकारकः कामी स्वर्ग­का­म­प­दा­र्पितः।।
नियो­गा­त्क­र्म­सं­बन्धे पश्चाद्यातीह कर्तृताम् ।। ५२३ ।।

कामस्य च प्रधा­न­त्वा­त्त­त्प्रा­धा­न्या­न­पा­यतः ।।
पुंविशेषणता तस्माद्भोगी कामी न कारकः ।। ५२४ ।।

अप्र­वृ­त्त­प्र­वृ­त्तेश्च कारकत्वं न युज्यते ।।
प्रवृत्तस्य णिचोक्तिः स्यात्पचन्तं पाचयेद्यथा ।। ५२५ ।।

अक्रि­या­क­र्तृ­सं­बन्धे ननु षष्ठी प्रसज्जते ।।
नैवं नाम्नोः सदा योगे षष्ठीयं शैषिकी यतः ।। ५२६ ।।

क्रियाकारकयोगे च द्विती­या­दि­र्ल­डादि तु ।।
स्यात्प्रा­ति­प­दि­का­र्थस्य भावा­र्थे­ने­त्य­सं­करः ।। ५२७ ।।

नीलोन्पले तु नामार्थावपहाय परस्परम् ।।
भेदमेकात्मतां याताविति षष्ठी न संमता ।। ५२८ ।।

लिङर्थे युज्यमानस्य कर्मत्वं न च कामिनः ।।
अक्रि­या­त्वा­न्नि­यो­गस्य द्वितीया चेद्भवेत्तथा ।। ५२९ ।।

तस्मादकारकः कामी स्वनि­यो­ग­प्र­सि­द्धये ।।
नियुज्यमान एवेह विषयं साध्यमीक्षते ।। ५३० ।।

राजादिषु प्रसिद्धश्च नियोगः साध्यगोचरः ।।
भावार्थस्य च साध्यत्वमिति तेनापि युज्यते ।। ५३१ ।।

अवि­व­क्षि­त­म­प्येवं लिङ्गसंख्यं विवक्ष्यते ।।
पश्चा­द्वि­ष­या­सि­द्ध्यर्थं कारकादि च यच्छ्रुतम् ।। ५३२ ।।

ततश्च स्वर्गकामो यः स्वनियोगं स साधयेत् ।।
केन यागा­दि­नि­र्वृ­त्त्ये­त्ये­त­च्छा­स्रा­त्प्र­ती­यते ।। ५३३ ।।

न चानपनयन्यागः कामिनः स्वर्गकामिताम् ।।
साधनं स्वाधिकारस्य भवतीह कथंचन ।। ५३४ ।।

अनुन्मृदितकामो हि पूर्वा­व­स्था­वि­शे­षतः ।।
निष्पा­दि­ता­धि­का­रोऽपि नियोगार्हः पुनर्भवेत् ।। ५३५ ।।

अधिकारः स्वसि­द्ध्य­र्थ­मतः कामस्य साध्यताम् ।।
यागेनाऽऽपाद्य संसि­ध्य­न्वि­ष­य­स्यैति साध्यताम् ।। ५३६ ।।

नानन्तरफलाभावे विसंवादोऽत्र शङ्क्यते ।।
क्रियासाध्ये फले स स्याल्लि­ङ­र्थ­स्त्व­क्रि­या­त्मकः ।। ५३७ ।।

प्रत्यर्थिनि च शब्देऽ­स्मि­न्ना­भा­वोऽ­नु­प­ल­ब्धितः ।।
मानाभावे ह्यसौ मानमानन्तर्यं त्वचोदितम् ।। ५३८ ।।

अतः कृताधिकारोऽपि यो विद्या­द­कृ­ता­र्थ­ताम् ।।
तस्य शास्त्रा­न­भि­ज्ञ­त्वा­न्ना­धि­का­रोऽत्र वैदिके ।। ५३९ ।।

मत्रा­र्थ­वा­द­नाम्नां च कार्या­र्था­नु­प्र­वे­शतः ।।
प्रामाण्यं न स्वत­स्त­स्मा­त्कार्ये वेदस्य मानता ।। ५४० ।।

वेदान्तानामतो वाच्यं कार्या­र्था­नु­प्र­वे­श­नम् ।।
प्रामाण्यं वा निषेद्धव्यमत्र प्रतिविधीयते ।। ५४१ ।।

निःशे­ष­मा­तृ­त­द्वृ­त्ति­ज­न्मनां तद्विलक्षण-
स्वतः­सि­द्धा­त्म­सं­बो­ध­व्या­प्ति­र्व­स्त्व­नु­रो­धतः ।। ५४२ ।।

विय­द्व­स्तु्स्व­भा­वा­नु­रो­धा­देव न कारकात् ।।
विय­त्सं­पू­र्ण­तो­त्पत्तौ कुम्भस्येव दृशा धियाम् ।। ५४३ ।।

घट­दुः­खा­दि­रू­पत्वं धियां धर्मादिहेतुतः ।।
निर्हे­तु­त्वा­त्म­सं­बो­ध­रू­पित्वं वस्तुरूपतः ।। ५४४ ।।

बुद्धि­त­द्वृ­त्ति­भा­वोऽ­य­म­भा­व­श्चा­प्य­न­न्य­मात् ।।
यतः सिद्धायते सोऽर्थो ज्ञेयः सिद्धः स्वतः सदा ।। ५४५ ।।

ननु प्रमा­ण­वि­र­हा­त्स्व­तः­सिद्धो यदीष्यते ।।
वचसो बुद्ध­बो­धि­त्वा­द­प्र­माण्यं प्रसज्यते ।। ५४६ ।।

मैव­म­प्र­ति­प­न्न­त्वा­द­नु­भू­त्यैव वस्तुनः ।।
तद्द्व­यु­त्पत्तेः पुरा साक्षाद्बोधो व्युत्प­त्ति­मा­त्रतः ।। ५४७ ।।

बोधाबोधौ यतो दृष्टौ स्वानु­भू­त्य­नु­सा­रतः ।।
दृष्टे चानुपपन्नत्वं किंबलादभिधीयते ।। ५४८ ।।

सुषुप्तादेश्च संसि­द्धि­र्मा­त्रा­दि­वि­र­हेऽपि या ।।
साऽपी­हा­न्त­र­सं­बु­द्ध­मे­य­मा­त्र­व्य­पा­श्र­यात् ।। ५४९ ।।

न चाभा­व­प्र­मा­णात्सा सति मातर्यभावमा ।।
मात्रा­द्य­भा­व­सं­सिद्धिः कथं मात्रा­दि­पू­र्विका ।। ५५० ।।

यमप्रमीयमाणानि नानात्मानं प्रमिण्वते ।।
वस्तु­वृ­त्ता­नु­रो­धेन कथं तत्राप्रमा वचः ।। ५५१ ।।

अमीमांसक इत्यु­च्चै­र­मी­मां­सक इत्यतः ।।
आक्षिपन्ति यद­ज्ञा­ना­त्त­च्छान्त्या उत्तरं वचः ।। ५५२ ।।

सर्वोऽपि वेद इत्यादि यथो­क्त­प­रि­हा­र­कृत् ।।
गुरुराह वचः स्पष्टं दृढ­न्या­यो­प­बृं­हि­तम् ।। ५५३ ।।

मान­स्व­भा­व­मा­श्रित्य सर्वोऽ­पी­त्या­द्यु­दी­र­णम् ।।
काण्ड­द्व­य­स­माख्या हि तत्प्र­मे­या­नु­रो­धतः ।। ५५४ ।।

मानं हि व्य़ञ्जकं लोके सिद्धे तच्च स्वकारणात् ।।
स्वतः सिद्धेऽथ वा नित्यं मेयमात्रं विशिष्यते ।। ५५५ ।।

अतः सर्वोऽपि वेदोऽयं प्रमा­ण­त्वै­क­हे­तुतः ।।
प्रकाशनपरो ज्ञेयः सिद्ध­सा­ध्या­त्म­व­स्तुनः ।। ५५६ ।।

एकवाक्यत्वतो यद्वा सर्वोऽपीत्यादि भण्यते ।।
पुरु­षा­र्था­व­सा­यि­त्वा­द्वे­दा­धी­ति­वि­धे­रिति ।। ५५७ ।।

निःशे­ष­सु­ख­सं­प्राप्तेः सर्वा­न­र्थ­इ­नु­ते­स्तथा ।।
मुक्ते­र­र्वा­क्पु­म­र्थोऽन्यो नेह कश्चि­त्स­मी­क्ष्यते ।। ५५८ ।।

असिद्धार्थस्य वा सिद्धि­र­नु­भू­त्ये­क­मा­त्रतः ।।
सर्वोऽपीति वचः सिद्धिः सर्वा ह्यात्मैकसंविदः ।। ५५९ ।।

यद्वाऽ­न­व­ग­तोऽ­तोन्यः संभाव्यो नाऽऽत्मनस्ततः ।।
सर्वोऽपीति वचः प्राह तथा चोर्ध्वं प्रवक्ष्यते ।। ५६० ।।

यद्धेतुकं प्रमाणत्वं वेदान्तानां समर्थ्यते ।।
तेनैव हेतुना कर्मकाण्डस्यापि प्रमाणता ।। ५६१ ।।

वेदा­न्ता­ना­म­मा­नत्वं येन वा हेतुनोच्यते ।।
तेनैव हेतुना कर्मकाण्डस्यापि प्रसज्यते ।। ५६२ ।।

अपि सर्वप्रमाणानि स्वप्र­मे­या­भि­सं­गतेः ।।
प्रमामेवेह कुर्वन्ति प्रामाण्यं यान्ति नान्यथा ।। ५६३।।

विधि­नै­वै­क­वा­क्यत्वं यतो मत्रार्थवादयोः ।।
ततो दर्शननिष्ठत्वं न तयोरुपपद्यते ।। ५६४ ।।

अर्थवादोक्तितो याऽपि प्रति­ष्ठा­का­मि­क­ल्पना ।।
विध्य­र्थ­सं­ग­ता­वेव साऽपि नैव ततोऽन्यतः ।। ५६५ ।।

विध्य­र्थ­शे­ष­भा­वश्च तत­श्चा­र्था­न्त­रो­क्तिता ।।
ऐका­र्थ्या­द्व­च­सोऽ­शक्या विरु­द्ध­द्व्य­र्थ­क­ल्पना ।। ५६६ ।।

विरोधे गुणवादः स्याद­नु­वा­दोऽ­व­धा­रिते ।।
भूता­र्थ­वा­द­स्त­द्धा­ना­द­र्थ­वा­द­स्रिधा मतः ।। ५६७ ।।

विधिशेषोऽपि यद्यर्थमर्थवादः समर्पयेत् ।।
अद्वै­त­वि­धि­नाऽऽ­क्षिप्ता वेदान्ता नेति का मितिः ।। ५६८ ।।

प्रत्य­क्षा­द्य­भि­धा­नेन सर्व­मा­नो­प­ल­क्ष­णम् ।।
मान्तरं नाऽऽग­मा­द­न्य­द्य­दै­का­त्म्या­व­बो­ध­कृत् ।। ५६९ ।।

सिद्धेऽनवगते यस्मा­त्पु­र­स्ता­द्व्या­पृ­ति­र्मितेः ।।
माना­द­ज्ञा­त­ता­सिद्धौ स्याद­न्यो­न्य­स­मा­श्रयः ।। ५७० ।।

तत्त्व­म­स्या­दि­क्यस्य विरोधोऽतो न केनचित् ।।
सर्वा­श्र­य­त्वा­त्सं­वि­त्ते­स्त­थाऽऽ­त्म­न्य­प्र­वृ­त्तितः ।। ५७१ ।।

कृत्स्रे­ष्टा­र्थस्य संप्राप्तिः कृत्स्रा­न­र्थ­इ­नु­ति­स्तथा ।।
आत्म­स्व­रू­पा­न्ना­न्यत्र संभाव्या सा हि मानतः ।।। ५७२ ।।

इत्ये­व­मा­दि­भा­ष्यार्थः क्रमे­णै­का­त्म्य­व­स्तुनि ।।
यत्नेन वक्ष्यते न्याया­त्पू­र्व­प­क्ष­नि­रा­सतः ।। ५७३ ।।

वेदान्तवचसां स्वार्थे प्रामाण्यं न विहन्यते ।।
मान­ल­क्ष­ण­स­द्भा­वा­ज्ज्यो­ति­ष्टो­मा­दि­वा­क्य­वत् ।। ५७४ ।।

नैव कार्यैकनिष्ठानि व्यवहारे वचांसि हि ।।
नियमेन प्रयुज्यन्त इत्यत्र मितिरस्ति ते ।। ५७५ ।।

दिष्ट्या त्वं वर्धसे भद्र जातः पुत्र­स्त­व­र्धि­मान् ।।
इति नेदं प्रवृत्त्यर्थं वचो नापि निवृत्तये ।। ५७६ ।।

सुखा­द्यु­त्प­त्ति­हे­तूनि दृश्य­न्तेऽ­का­र्य­व­न्त्यपि ।।
वचनानि व्रज ग्राममित्यादिनि यथा तथा ।। ५७७ ।।

सुख्येधीति न चानेन प्रवृ­त्ति­रु­प­दि­श्यते ।।
सुखी­भ­व­न­म­स्या­र्था­न्नो­प­दे­श­व्य­पे­क्षया ।। ५७८ ।।

विशेषोऽस्ति प्रवृ­त्ते­श्चे­त्ता­त्पर्यं वचसोऽपि च ।।
नैवं सुखा­दि­सं­भू­ता­व­र्थ­व­त्त्वो­प­प­त्तितः ।। ५७९ ।।

आनर्थक्यभयादेव श्रुतादन्यत्र कल्प्यते ।।
तात्पर्यं प्रोक्ष­णा­द्यु­क्तेर्न स्वत­त्रेऽ­धि­का­र­वत् ।। ५८० ।।

किंचो­पा­येऽ­प्र­वृत्तः सन्पुरुषोऽयं प्रवर्त्यते ।।
ज्ञातोपायत्वतो यद्वा विधि­नो­पे­य­सि­द्धये ।। ५८१ ।।

तत्रेह तावन्नोपाये पुत्र­ज­न्मा­दि­ल­क्षणे ।।
तस्य निष्प­न्न­रू­प­त्वा­न्ना­प्यु­पेये सुखे तथा ।। ५८२ ।।

न व्यापारान्तरं यस्मात्सुखार्थं किंचिदीक्ष्यते ।।
पुत्र­ज­न्मो­क्ति­मा­त्रेण पुरु­षा­र्था­व­सा­नतः ।। ५८३ ।।

किं चाध्य­स्ता­हि­दृ­ष्टस्य तद्वि­प­व्या­प्त­चे­तसः ।।
स्रगियं न फणीत्युक्ते दृष्टा विषनिराक्रिया ।। ५८४ ।।

मा भैषीरिति चोक्तेऽपि न नियोगः प्रतीयते ।।
स्रगुक्तेरेव निःशे­ष­सा­ध्व­स­ध्वं­स­ला­भतः ।। ५८५ ।।

न्याय्यो नियोगस्तत्रैव यत्र बुद्धाऽस्य कार्यताम् ।।
अनन्तंर प्रवृ्त्तिः स्याद्विषये तस्य सिद्धये ।। ५८६ ।।

इह त्वैका­त्म्य­वा­क्येषु तत्त्व­मा­त्रा­व­बो­धतः ।।
सद्यः पुमर्थसंसिद्धेः कार्यसिद्धिर्न वीक्ष्यते ।। ५८७ ।।

कुतूहलवतां तद्व­न्नि­र्वृ­त्ता­ख्या­न­मा­त्रतः ।।
दृष्टा नराणां निःशे­ष­कु­तू­ह­ल­नि­रा­क्रिया ।। ५८८ ।।

वस्तु­मा­त्रा­व­सा­यि­त्वा­त्त­द्व­चांसि न कनिचित् ।।
उपादानाय वाऽलं स्युर्नापि हानाय तद्विदः ।। ५८९ ।।

यत्रापि च प्रतीयेते हानादाने वचःश्रवात ।।
अयं चोराकुलः पन्था देशोऽयं निधिमानिति ।। ५९० ।।

तत्रापि नैव शब्दस्य व्यापारः सिद्धवेदनात् ।।
कृता­र्थ­त्वा­न्न­र­स्यापि रागादेव प्रवृत्तितः ।। ५९१ ।।

कामैकपाशाकृष्टः सन्निच्छयैव प्रवर्तते ।।
निवर्तते च तद्दूेषान्न शब्द­व्या­पृ­ते­र्नरः ।। ५९२ ।।

नन्व­प्र­यु­क्त­म­प्ये­त­द्वक्त्रा वाक्यं विवक्षितम् ।।
न गन्तव्यं पथाऽनेन, गृहाणेमं निधिं तथा ।। ५९३ ।।

मैवं, न वक्त्र­भि­प्रा­या­च्छ­ब्दा­र्थत्वं प्रकल्पते ।।
शब्दसामर्थ्यतो यस्मा­त्ता­दर्थ्यं, नान्यहेतुकम् ।। ५९४ ।।

भवद्भिरपि चैवैतदभ्युपेयं प्रयत्नतः ।।
वक्तृतत्रे हि शब्दार्थे न विश्वासः श्रुतेर्भवेत् ।। ५९५ ।।

नाना­वि­ध­पु­म­र्था­प्ति­रपि वक्तुः समीहिता ।।
तस्या अपि त्वदुक्त्यैवं शब्दार्थत्वं प्रसज्यते ।। ५९६ ।।

प्रवृत्तिं वा निवृत्तिं वा यदाऽभिप्रेत्य चेतसा ।।
किंचि­ज्जि­ज्ञा­स्यते ज्ञात्रा प्रत्य­क्षा­दि­प्र­मा­णतः ।। ५९७ ।।

अभिप्रेताऽपि न तदा प्रवृत्तिर्यदि वेतरा ।।
प्रत्य­क्षा­दि­प्र­मे­येति शक्या वक्तुं विपश्चिता ।। ५९८ ।।

इत­श्चा­भ्यु­प­ग­न्त­व्य­मे­त­तु­ल्येऽपि वस्तुनि ।।
एकस्य हान­धी­स्त­स्मि­न्नु­पा­दित्सा परस्य च ।। ५९९ ।।

शब्दार्थत्वे हि सर्वे­षा­मा­दा­ना­यैव धीर्भवेत् ।।
नोपेक्षायां, प्रहाणे वा, न चानेकार्थता मता ।। ६०० ।।

न च प्रवर्तकत्वेऽपि वाक्य­स्या­ङ्गी­कृते त्वया ।।
शक्यो विधा­यि­नोऽ­न्येषां पदानां वक्तुमन्वयः ।। ६०१ ।।

किं स्वार्थ­मा­त्र­नि­ष्ठ­त्व­मुत कार्यै कनिष्ठता ।।
पदा­र्थ­मा­त्र­सं­स­र्ग­प­रता किं त्वितीर्यताम् ।। ६०२ ।।

स्वार्थ­मा­त्रा­व­सा­यित्वे वाक्या­र्थ­प्र­त्ययः कुतः ।।
वैयर्थ्यं त प्रयोगस्य व्यव­हा­रा­क्ष­म­त्वतः ।। ६०३ ।।

पदा­र्थ­मा­त्र­सं­सर्गे कार्या­र्थ­वि­र­हेऽपि ते ।।
व्यवहारस्य संसि­द्धे­र्व्यर्था कार्यप्रकल्पना ।। ६०४ ।।

कार्यै­क­व्य­ति­षङ्गे च वाक्या­द्भू­ता­नु­वा­द­कात् ।।
प्रतीतिः स्यान्न वाक्यार्थे स्यादु­क्ते­र्व्य­र्थ­ताऽपि च ।। ६०५ ।।

कार्यान्तरस्य चाभा­वा­त्का­र्या­र्थै­का­भि­धा­यिनः ।।
संबन्धो न भवेदन्यैः साध­ना­द्य­भि­द्या­यिभिः ।। ६०६ ।।

कार्यान्वयित्वे सर्वेषामपि चेह परस्परम् ।।
पदा­र्था­ना­म­सं­ब­न्धोऽ­न­पे­क्ष­त्वा­द्भ­वेद् ध्रुवम् ।। ६०७ ।।

नियोगो न प्रतीयेत विशि­ष्ट­वि­ष­य­स्तथा ।।
तदा चैकपदार्थस्य नियोगः साध्यतामियात् ।। ६०८ ।।

अथ सोमादिसंबद्धे यागादौ विपये मतः ।।
नियोगः कस्ततः पूर्वं संबन्धे हेतुरुच्यताम् ।। ६०९ ।।

सिद्धेऽसति विशिष्टे न विपये कार्यमिष्यते।।
अथ क्रियैव प्राक्का­र्या­त्सिद्धं नो यत्समीहितम् ।। ६१० ।।

तदे­त­र­त्त­द­र्थ­मि­त्येवं चैतत्समञ्जसम् ।।
विषये यदि कार्यत्वं कार्या­व­ग­म­पू­र्व­कम् ।। ६११ ।।

कार्ये कार्या­न्त­रा­भा­वा­त्का­र्य­वुद्धिः कुतो भवेत् ।।
तदभावादनुष्ठेयो विषयोऽपि न ते भवेत् ।। ६१२ ।।

कार्यार्थता ततश्चेष्टा हीयेतानुष्ठितिं विना ।।
अथ कार्या­न्त­रा­भा­वेऽ­प्यस्य कार्यत्वमिष्यते ।। ६१३ ।।

विषयस्यापि कार्यत्वं स्वत एव भवेत्तथा ।।
विष­योऽ­का­र्य­रू­प­त्वा­त्स्व­सिद्ध्यै यद्यपेक्षते ।। ५१४ ।।

कार्यं तदपि विष­य­मी­क्षे­ता­सा­ध्य­रू­पतः ।।
कार्येऽपि कार्यतैवं च भवेद्विषयहेतुका ।। ६१५ ।।

अन्योन्याश्रयता च स्यान्न च कार्यप्रधानता ।।
पुंव्या­पा­र­व्य­पे­क्षायं स्वासिद्धौ कार्यमुच्यते ।। ६१६ ।।

यागादिः स च नो कार्यं स्वतः­का­र्यै­क­रू­पतः ।।
कार्यस्यैव न कार्यत्वमकार्थे कार्यतेष्यते ।। ६१७ ।।

न शौक्ल्ये शुक्लतापत्तिः पटादेः सा विधीयते ।।
घटकार्ययजत्यादि स्वस्वभावतया स्थितम् ।। ६१८ ।।

सिद्ध­सा­ध्या­दि­भे­देन स्वश­ब्दे­ना­भि­धी­यते ।।
यदा तदा ध्वनेर्न स्याद­ज्ञा­ता­र्था­व­बो­धने ।।
विशेषः कश्चिदित्येवं न प्रवृ­त्ति­र्वि­धे­र्भ­वेत् ।। ६१९ ।।

अवबुद्धे तु शब्दार्थे पुरु­षा­र्थ­नु­रो­धतः ।।
स्वत एव प्रवृत्तिः स्यान्न शब्दा­न्ना­र्थ­त­स्तथा ।। ६२० ।।

साध­ना­दि­त्र­या­द्वाह्यं पुरु­षा­र्थ­ब­हि­ष्कृ­तम् ।।
क एत­त्सा­ध­येे­द्धी­मान्किं वा रूपमितीर्यताम् ।। ६२१ ।।

न तावत्प्रेरणा कार्यं, कार्या­र्थ­वि­प्रया हि सा ।।
नाऽऽन्तरोऽपि प्रयत्नः स्यान्मा­ना­न्त­र­ग­ते­स्तथा ।। ६२२ ।।

न क्रिया कर्तृ­सं­ब­न्धा­त्फलं नानिष्टरूपतः ।।
कारकं नाप्य­सि­द्ध­त्वा­न्ना­प्य­न्य­द­नि­रू­प­णात् ।। ६२३ ।।

न च काल­त्र­या­स्प­र्श­वा­च्यत्वं कार्यलक्षणम् ।।
घटशब्दाद्धटे मा भूत्का­ला­स्प­र्शेन कार्यता ।। ६२४ ।।

नियोगोऽपि नियोज्यस्य व्यापारः, स कथं भवेत् ।।
अतीन्द्रियो लिङाद्यर्थः सिद्धिश्चास्य कथं भवेत् ।। ६२५ ।।

सिद्धि­र्वि­ष­य­सिद्धौ चेन्नैवं स्यात्कर्मणा न हि ।।
आप्त्यु­त्प­त्त्या­दिकं शक्य­म­ना­रो­प्य­स्व­भा­वतः ।। ६२६ ।।

कार्यं स्वेनाऽऽत्मना सिद्धं पुमर्थं साधयेद्यदि ।।
सर्वदा तस्य तादृ­क्त्वा­त्पु­मर्थः सर्वदा भवेत् ।। ६२७ ।।

पुंव्या­पा­र­प्र­सि­द्ध्याऽथ सिद्धं स्वार्थकरं मतम् ।।
तस्या­ना­धे­य­रू­प­त्वान्न कदाचित्फलं भवेत् ।।। ६२८ ।।

संभा­व्य­मा­न­सि­द्धेर्हि यागादेः कार्यता मता ।।
व्योम­त­त्पु­ष्प­योर्न स्यात्सि­द्धा­त्य­न्ता­प्र­सि­द्धयोः ।। ६२९ ।।

कर्तव्यो याग इत्येवं यागाद्भिन्ना यथेक्ष्यते ।।
कर्तव्यं कार्यमित्येवं ततोऽपि व्यतिरिच्यते ।। ६३० ।।

कार्यकर्तव्यता कार्ये­त्ये­व­मे­वा­ति­रि­च्यते ।।
तस्मान्न वस्तुधर्मोऽयं शब्दादेव प्रकर्षतः ।। ६३१ ।।

अतो यदेव साध्या­र्थ­सा­ध­न­त्वेन गम्यते ।।
वेदात्तदेव साध्य­त्वा­त्कार्यं नान्यत्ततः पृथक् ।। ६३२ ।।

लिङादिः प्रेरणावाची कुतः कार्य­मि­ती­र्य­ताम् ।।
विषयत्वेन नाऽऽक्षेपो भावार्थो विषयो मतः ।। ६३३ ।।

प्रेरणाऽपीह नैव स्याद­ज्ञा­त­ज्ञा­प­ना­त्पृ­थक् ।।
सम­स्त­का­र्य­दो­षो­क्ति­प्र­स­ङ्गा­न्मि­त्य­भा­वतः ।। ६३४ ।।

न स्वरूपं लिङादीनां प्रेर­णा­ज्ञा­प­क­त्वतः ।।
अन्यो­न्य­रू­प­भे­देऽपि प्रेर­णा­नु­ग­मा­त्तथा ।। ६३५ ।।

शक्ते­र­न­भि­धे­य­त्वा­त्त­द्व्या­पा­रोऽपि नेष्यते ।।
प्रेरकाभावतो वेदे तद्व्यापारोऽपि नेरणा ।। ६३६ ।।

अतः समीहितोपायतया वस्त्ववबोधयन् ।।
अबुद्धं प्रेरको वेदो ज्ञापना प्रेरणा मता ।। ६३७ ।।

तथा च वस्तु­या­था­त्म्य­ज्ञा­प­नेन प्रमाणता ।।
न प्रेरकतया सा स्यात्प्र­त्य­क्षा­दे­र­नी­क्ष­णात् ।। ६३८ ।।

निष्पा­दि­त­नि­यो­गस्य वेदप्रामाण्यतो यथा ।।
नियमेन फलं तद्व­त्सा­ध­ना­नु­ष्ठि­ते­र्भ­वेत् ।। ६३९ ।।

विसंवादोऽपि नाऽऽशङ्क्यो नियोगार्थे यथा तथा ।।
वैदि­क­त्वा­दु­पा­येऽपि नृतत्रे व्यभिचारिता ।। ६४० ।।

नानन्तरफलो यागो दृष्टो लोकेऽपि हि क्वचित् ।।
अतः सामान्यतो दृष्टं क्रिया­त्वा­दि­त्य­दू­ष­णम् ।। ६४१ ।।

स्वसा­म­र्थ्या­द्यथा कार्यं कालास्पृष्टं प्रभाषते ।।
लिङा­दि­र्या­ग­म­प्येवं वक्ष्य­ती­त्य­वि­शि­ष्टता ।। ६४२ ।।

साक्षादेवं च संबन्धः साध्य­सा­ध­न­यो­र्भ­वेत् ।।
नाति­रि­क्त­लि­ङा­द्य­र्थ­व्य­व­धा­न­वि­ड­म्बना ।। ६४३ ।।

साक्षादसति संबन्धे पारंपर्यं, न तु क्वचित् ।।
गतौ सत्यां, तदप्यत्र नान्य­त्रे­वो­प­ल­भ्यते ।। ६४४ ।।

श्रुत्या क्रयाभिसंबन्धो व्यवच्छिद्यैव साधनम् ।।
अरुणः साधको दृष्टो नानपेक्षो वृथा च सः ।। ६४५ ।।

यागः कार्या­भि­सं­ब­न्धोऽ­प्य­नु­त्पाद्य फलं न ते ।।
कथं­चि­त्सा­ध­ये­त्कार्यं तच्च नास्तीत्यसाधकः ।। ६४६ ।।

नचान्या व्यापृतिस्तस्य कार्यसिद्धौ त्वयेष्यते ।।
फला­नु­त्प­त्ति­त­स्त­स्मान्न कार्येणापि संगाति ।। ६४७ ।।

अथ शास्र­प्र­मा­ण­त्वा­द­दृ­ष्टाऽ­प्य­भ्यु­पे­यते ।।
फलो­त्प­त्ति­र्म­मा­प्येवं तथा सति भविष्यति ।। ६४८ ।।

मम शास्र­प्र­मा­ण­त्वा­त्प­श्चा­दपि भवेत्फलम् ।।
पूर्वं तु भवतो न्याय्यं तदभावे ह्यसाधकम् ।। ३४९ ।।

कार्यसिद्ध्या फला­वा­प्ता­व­शे­ष­फ­ल­सं­भवः ।।
सकृत्करण एव स्यात्का­र्य­स्या­भे­द­त­स्तव ।। ६५० ।।

अनु­ब­न्धा­भि­सं­ब­न्धा­त्फलं चेत्स्या­द्व्य­व­स्थया ।।
तत एव न कार्या­त्स्या­त्तदा तद्भावभावतः ।। ६५१ ।।

औपाधिकश्च मिथ्या स्यात्सा­ध्य­सा­ध­न­ल­क्षणः ।।
व्यवहारः श्रुतेर्ज्ञातः परमार्थैकवादिनः ।। ६५२ ।।

एवं ते कर्मकाण्डेऽपि कार्यं तावन्न युज्यते ।।
ऐकात्म्ये तु यथा नास्ति विशेषेणोच्यते तथा ।। ६५३ ।।

प्रति­प­त्ति­वि­धि­स्ता­व­न्नाऽऽत्मा द्रष्टव्य इत्ययम् ।।
तस्य भावा­र्थ­नि­ष्ठ­त्वा­द्व­स्तु­न्य­नु­प­प­त्तितः ।। ६५४ ।।

सिद्धेऽसिद्धेऽथ वैकात्म्ये विधि­र्नै­वो­प­प­द्यते ।।
नाऽऽकाशे नापि तत्पुष्पे पुंव्या­पा­रा­न­पे­क्षता ।। ६५५ ।।

न विधिर्दर्शनेऽपि स्याद­न्यो­न्या­श्र­य­दो­षतः ।।
दर्श­ना­द्वि­धि­सं­सि­द्धे­र्वि­धे­र्द­र्श­न­सि­द्धितः ।। ६५६ ।।

न च यूपादिवच्छक्यं वेदेनैव समर्पणम् ।।
ऐकात्म्यस्य स्वतः सिद्धेः साध्य­त्वा­द्यू­प­व­स्तुनः ।। ६५७ ।।

सिद्धं चेद्द­र्श­ये­द्वेदः प्रसिद्धं दर्शनं तथा ।।
तन्निष्ठं च भवेद्वाक्यं व्यर्थता च विधेस्तदा ।। ६५८ ।।

सर्वमात्मेति वाक्यास्य न च वस्तुन्यसंभवः ।।
येना­र्थ­स्या­स­मा­प्ता­त्वा­त्क्रि­ये­ता­ध्या­हृतिः पदे ।। ६५९ ।।

आत्मा ब्रह्मेति विज्ञानं विधिं नैव व्यपेक्षतेः ।।
यस्मा­त्त­च्छ्रु­त­वा­क्यस्य स्वयमेवोपजायते ।। ६६० ।।

यजे­ते­ति­वि­धि­ज्ञानं न विध्य­न्त­र­मी­क्षते ।।
विध्य­न्त­रेऽ­न­वस्था स्यान्न चायं कर्मणि स्थितेः ।। ६६१ ।।

प्रतिपन्ने विधेयार्थे प्रवृत्तिः फलमिष्यते ।।
प्रवृत्तेश्च विधि­ज्ञा­न­मे­व­म­न्यो­सं­श्रयः ।। ६६२ ।।

बोधेऽ­स्मि­ञ्श­ब्दतो जाते न प्रव­र्त्योऽ­क­ल­त्वतः ।।
अऩुत्पन्ने च नितरां प्रवृ­त्ते­र्हे­त्व­सं­भ­वात् ।। ६६३ ।।

अथ निश्च­य­सि­द्ध्य­र्थ­मु­त्प­न्नेऽपि प्रवर्त्यते ।।
स निश्चयो वः किं शब्दा­द­था­न्य­स्मा­दि­ती­र्य­ताम् ।। ६६४ ।।

शब्दाद्यदि तदेदेदमायातं पूर्वदूषणम् ।।
अन्य­स्मि­न्नि­ष्य­माणे च सापेक्षत्वं प्रसज्यते ।। ६६५ ।।

अवि­व­क्षि­त­नु­त्त्य­र्थ­म­थात्र विधिरिष्यते ।।
अयं ज्ञेयोऽर्थ इत्युक्तौ स्याद्वि­व­क्षि­त­धी­र्यतः ।। ६६६ ।।

नैवमुत्सर्गतो यस्माच्छब्दानां लोकवेदयोः ।।
विशि­ष्टा­र्थै­क­नि­ष्ठत्वं स्वतो न विधिहेतुतः ।। ६६७ ।।

अविशिष्टश्च वाक्यार्थस्तथा लौकिकवैदिक -
वाक्ययोर्गम्यते यस्मा­द्वि­धि­र्नातो विवक्षितः ।। ६६८ ।।

अपि दृष्टा­र्थ­तै­कात्म्ये कर्मस्विव न भिद्यते ।।
वेदा­धी­ति­वि­धे­स्त­स्मा­द्वि­धि­रत्र निरर्थकः ।। ६६९ ।।

विधे­र्वि­ध्य­न्त­रेऽ­भीष्टे कृत्स्नोऽ­र्थोऽ­प्य­वि­व­क्षितः ।।
पूर्वोक्तेनैव न्यायेन नैव कल्प्यो विधिस्ततः ।। ६७० ।।

मतं पुम­र्थ­सि­द्ध्यर्थः ज्ञानस्य विधिरिष्यते ।।
फलस्य विध्य­धी­न­त्वा­दु­पे­क्षा­फ­ल­ताऽ­न्यथा ।। ६७१ ।।

ज्ञेय­व्या­प्त्य­ति­रे­केण न विज्ञा­ना­त्फ­ला­न्त­रम् ।।
इष्यते कर्म­व­न्ना­त­स्त­दर्थं विधिकल्पना ।। ६७२ ।।

यदाऽपि मातरि फलं तदाऽपि विधिनाऽत्र किम् ।।
मातृ­मा­न­प्र­मे­यादौ तत्सि­द्धे­र्वि­धिना विना ।। ६७३ ।।

अथापि कार्य­वि­र­हा­त्सि­द्धा­र्थ­म­नु­वा­द­कम् ।।
वचो नैव प्रमाणं स्यात्तस्य मान्तरसंगतेः ।। ६७४ ।।

विध्य­र्था­ङ्गी­कृतौ त्वेतदनपेक्षं प्रमाणताम् ।।
अश्नुते मान्त­रा­भा­वा­ज्ज्यो­ति­ष्टो­मा­दि­वा­क्य­वत् ।। ६७५ ।।

वस्तु मान्तरयोग्यं चेद्विधौ सत्यपि तत्तथा ।।
अथ तन्मा­न्त­रा­योग्यं विध्यभावेऽपि तत्तथा ।। ६७६ ।।

किं वाक्य­स्या­नु­वा­दत्वं सिद्धेऽर्थे मान्तरेण वा ।।
मिते तत्र न पूर्व­स्मि­न्सि­द्धेऽ­प्य­र्थेऽ­नु­वा­दता ।। ६७७ ।।

मानान्तरानधिगतं सिद्धं वस्त्ववबोधयत् ।।
मानं किं नानपेक्षं स्यात्पुमर्थश्च स्वरूपतः ।। ६७८ ।।

पुंबुद्धिविषयो ह्यर्थो माना­न्त­र­म­पे­क्षते ।।
अभा­वा­त्पु­रु­ष­स्येह न तु सिद्धोऽपि वैदिकः ।। ६७९ ।।

न च सिद्धत्वमात्रेण शङ्क्यते मान्तरं क्वचित् ।।
शङ्क्य़मानस्य मानस्य तुल्या सापेक्षता यतः ।। ६८० ।।

न च सापे­क्ष­ताऽ­प्यस्ति मितेर्मानत्वतः क्वचित् ।।
मान्तरानवबुद्धं हि बोध­य­न्मा­न­मु­च्यते ।। ६८१ ।।

माना­न्त­रा­न­पेक्षं चेन्मानं मेयं ज्ञबोधयेत् ।।
मानमेव तदा तत्स्या­न्ना­तोऽ­न्य­न्मा­न­ल­क्ष­णम् ।। ६८२ ।।

अथ मानान्तरापेक्षं तन्मानं मेयबोधकम् ।।
द्वयो­रे­क­क्रि­या­वे­शा­त्त­थाऽ­प्य­न्या­न­पे­क्षता ।। ६८३ ।।

अथा­न­धि­ग­ता­भा­वा­दु­त्त­र­स्या­प्र­मा­णता ।।
तत्सद्भावात्तु पूर्वस्य ज्ञानस्यास्तु प्रमाणता ।। ६८४ ।।

मातोऽ­न­धि­ग­त­त्वस्य सिद्धिः स्यादथवाऽन्यतः ।।
स्वतो वा ज्ञाततायाश्च कुतः सिद्धि­रि­ती­र्य­ताम् ।। ६८५ ।।

अज्ञातत्वस्य माव्याप्तेः पूर्वमेव प्रसिद्धितः ।।
ततश्च मानतः सिद्धि­र्ना­ज्ञा­त­त्वस्य कुत्रचित् ।। ६८६ ।।

मान­व्या­प्ति­क्षमं चेत्स्या­द­ज्ञा­तत्वं घटादिवत् ।।
वास्तवं स्यात्तदा रूपमज्ञातं च सदा भवेत् ।। ६८७ ।।

तथा संश­य­मि­थ्या­त्व­बु­द्ध्यो­रेष यथोदितः ।।
न्यायो वाच्यस्ततः सर्वो व्यवहारो न सिध्यति ।। ६८८ ।।

अज्ञा­त­त्वा­वि­शे­षेऽपि मानानां यदि मानता ।।
ज्ञात­स्या­ज्ञा­त­तोऽ­न्य­त्वा­त्तत्र स्यात्किं न मानता ।। ६८९ ।।

एका­र्थो­प­नि­पा­ति­त्वा­त्सा­पे­क्षत्वं यदीष्यते ।।
तथाच सर्वमानानां सापेक्षत्वं प्रसज्यते ।। ६९० ।।

एकस्यामपि सत्तायां सर्वाक्षाणां प्रमाणता ।।
द्रव्ये त्वक्च­क्षु­षो­स्त­द्व­त्प्र­स­ज्ये­ता­प्र­मा­णता ।। ६९१ ।।

नियोगे लोकिके चाऽपि हरी­त­क्या­दि­भ­क्षणे ।।
मानान्तरासंभवेन प्रस­ज्ये­ता­न­पे­क्षता ।। ६९२ ।।

नैष दोषो नरज्ञानपूर्विका विनियोगधीः।।
येन लोकेऽ­स्त्य­तोऽ­पेक्षा वेदे तु स्याद्विपर्ययः ।। ६९३ ।।

नैवं सत्यनपेक्षत्वं वचसः कार्यसंश्रयात् ।।
पुंबु­द्धि­पू­र्व­क­त्वेन यतः सापेक्षतोच्यते ।। ६९४ ।।

नैवं नियो­ग­नि­ष्ठ­त्वा­द्वेदे तेनानपेक्षता ।।
सापेक्षत्वं च लोके स्याद्वि­नि­यो­ग­प्र­धा­नतः ।। ६९५ ।।

नैवं शब्दा­र्थ­यो­रैक्यं यदा स्याल्लो­क­वे­दयोः।।
तदा न शक्यते वक्तुं वैलक्षण्यं तयोरिति ।। ६९६ ।।

स्वरूपलाभः सिद्ध­श्चे­त्स्वतो वा यदि वाऽन्यतः ।।
स्वरू­पेऽ­नु­प­यो­गि­त्वान्न प्रम­ण­व्य­पे­क्ष­णम् ।। ६९७ ।।

अभिव्यक्तोऽथ सिद्धोऽयं स्वतो वा यदि वाऽन्यतः ।।
अभिव्यक्तस्य भूयोऽपि निष्फलं मान्तरेक्षणम् ।। ६९८ ।।

तस्मान्न सिद्ध इत्येव संभाव्येत प्रमान्तरम् ।।
नरोक्तौ मान्तरापेक्षा तेन मान्तरसंभवः ।। ६९९ ।।

क्रियां विना न संसर्गः पदा­र्था­ना­म­थो­च्यते ।।
क्रियै­वा­पे­क्ष्यतां तर्हि किं न सिद्धं विधिं विना ।। ७०० ।।

क्रिया चापे­क्ष्य­मा­णाऽपि न या काचिदपेक्ष्यते ।।
योग्य­त्व­हे­तु­त­स्तर्हि साऽस्त्ये­वा­स्या­दिका श्रुतौ ।। ७०१ ।।

अक­र्म­क­त्वा­द­स्या­देर्न तावत्कर्म विद्यते ।।
अभूतभवनं चार्थे नित्य­त्वा­दा­त्म­नश्च न ।। ७०२ ।।

असं­सृ­ष्टा­त्म­बो­धि­त्वा­न्नापि संसर्गधीरतः ।।
स आत्मे­त्य­भि­सं­ब­न्धा­न्नापि सत्ता सतोच्यते ।। ७०३ ।।

शब्दा­द्य­गो­च­रोऽ­र्थोऽतो लक्ष­णा­पा­श्र­या­च्छ्रुतौ ।।
सदि­त्या­दि­प­दै­रात्मा साक्षान्नः प्रतिपाद्यते ।। ७०४ ।।

यदाऽपि मानयोग्यत्वं सत्त्वं तच्च प्रतीयते ।।
तदाऽपि वस्तुपरता नाऽऽगमस्य विहन्यते ।। ७०५ ।।

मान्तरेणापि संबद्धमर्थं वाक्यं प्रबोधयत् ।।
मानतां न जहात्येव जगत्याप्तवचो यथा ।। ७०६ ।।

ज्ञातः सोऽर्थो मयेत्यत्र नाऽऽप्तवाक्यं विहन्यते ।।
माना­न्त­र­व्य­पे­क्ष­त्वा­द्वि­ह­न्ये­ता­र्थ­नि­श्चितौ ।। ७०७ ।।

मायोगेऽपि न मान­त्व­म­ना­प्त­व­चसः क्वचित् ।।
तेनाऽऽप्तवाक्यं मायोगे मानादर्थेऽपि निष्ठितम् ।। ७०८ ।।

एवं च सति वेदान्ता यदि मानमलौकिकम् ।।
प्रबोधयन्ति विध्व­स्त­नि­खि­ल­द्वै­त­गौ­च­रम् ।। ७०९ ।।

कथं तेषाममानत्वं तदा स्यादा­प्त­वा­क्य­वत् ।।
अर्थसिद्धिश्च मासिद्धौ सिद्धैवेति न साध्यते ।। ७१० ।।

किंच सिद्ध­त्व­सं­ब­न्धा­दै­कात्म्ये मान्तरानुमा ।।
यथैवं कार्य­ता­यो­गा­न्नि­यो­गेऽ­प्य­नुमा न किम् ।। ७११ ।।

नियोगस्यापि कार्यत्वं प्रेष­णा­ध्ये­ष­णा­दिभिः ।।
समं तद्व­र्त्म­नै­वास्य संबन्धग्रहणं यतः ।। ७१२ ।।

परा­य­त्ता­त्म­ला­भत्वं नियोगस्येह कार्यता ।।
कार्यै­र्मा­न्त­र­गम्यैः सा न कथं­चि­द्वि­शि­ष्यते ।। ७१३ ।।

यत्त्वसाधारणं तस्य कार्यत्वमिति भण्यते ।।
लौकिकेष्वपि कार्येषु तन्नेैव विनिवार्यते ।। ७१४ ।।

अथा­सा­धा­र­ण­ज्ञा­न­प­रि­च्छे­द्य­त्व­मि­ष्यते ।।
तच्च सर्वपदार्थानां न दण्डै­र्वि­नि­वा­र्यते ।। ७१५ ।।

प्रमा­णा­य­त्त­मे­ता­व­त्स्व­प्र­मे­या­व­भा­स­नम् ।।
कार्य­ताऽ­का­र्य­ता­व­त्स्व­प्र­मे­या­व­भा­स­नम् ।।
कार्यताऽकार्यता वाऽत्र मेयायत्ता, न मानतः ।। ७१६ ।।

सिद्धत्वहेतुको योऽपि दोष ऐकात्म्य उच्यते ।।
नियोगस्यापि संसिद्धौ स दोषो नापनुद्यते ।। ७१७ ।।

यागा­दि­वि­ष­या­सिद्ध्या न चासौ न प्रसिध्यति ।।
विध्यु­क्ते­स्त­द­सं­सिद्धौ निष्फलत्वं प्रसज्यते ।। ७१८ ।।

ऐका­त्म्य­व­स्तु­या­था­त्म्य­प्र­का­श­न­प­टी­यतः ।।
वचसस्त्वतिरेकेण किं मानं तद्धुरं वहेत् ।। ७१९ ।।

मात्रा­दि­स­व्य­पेक्षं सद्यत्र ज्ञानं प्रजायते ।।
तत्रैव मान्तरापेक्षा न तु विध्वस्तभेदके ।। ७२० ।।

विध्य­र्था­धी­न­सं­सर्गाः पदार्था वैदिकोक्तिषु ।।
लोके मान्त­र­सं­सि­द्ध­सं­सर्गा रचनाबलात् ।। ७२१ ।।

रचना च पदार्थानां विव­क्षा­पू­र्वि­कैव तु ।।
प्रमा­णा­न्त­र­ग­म्येऽर्थे विवक्षा च व्यवस्थिता ।। ७२२ ।।

एवं च सति वेेदा­न्त­वा­क्या­र्थ­प्र­त्ययो भ्रमः ।।
उत्खातविधिको लोके तोय­बु­द्धि­रि­वो­षरे ।। ७२३ ।।

इत्युक्ते परिहाराय शृणु यद्भण्यतेऽधुना ।। ७२४ ।।
पदार्थसंगतेः कस्मा­द्वि­ध्य­धी­न­त्व­मा­दृ­तम् ।।
पदा­र्था­न्त­र­त­त्रत्वं कस्माद्धेतोर्न कल्प्यते ।। ७२५ ।।

संस­र्ग­श्चे­त्प­दा­र्थानां विनाऽपि विधिना भवेत् ।।
अनर्थको भवेदेवं विधि­र्नि­र्वि­ष­य­त्वतः ।। ७२६ ।।

ननु दोषः समानोऽयं विधे­र­न्य­प­दे­ष्वपि ।।
विशि­ष्टा­र्था­व­ग­त्यर्थं प्रयु­ज्य­न्तेऽ­प­रा­ण्यपि ।। ७२७ ।।

एवं सति विधिः कस्मान्नानर्थक इतीर्यताम् ।।
योग­क्षे­म­स­मा­न­त्वा­द­वि­ध्य­र्थ­प­दा­न्तरैः ।। ७२८ ।।

उच्यते विधिशब्दो हि मान्त­रा­ज्ञा­त­गो­चरः।।
न तस्य विषयाक्षेपं मुक्त्वाऽन्यत्र कृतार्थता ।। ७२९ ।।

माना­न्त­र­प्र­सि­द्धा­र्थ­वा­दि­त्वा­द­नु­वा­द­कम् ।।
विधेरन्यपदं यस्मा­न्नाऽऽ­क्षे­पोऽतः प्रतीयते ।। ७३० ।।

अव्युत्पन्नेऽपि संबन्धे विध्य­र्था­व­ग­म­स्तथा ।।
अथ विज्ञातसंबन्धं सिद्धार्थं स्याद्विधायकम् ।। ७३१ ।।

स्वधर्मं च पदं जह्या­त्सं­ब­न्ध­ज्ञा­न­नि­ह्नुतौ।।
तस्मा­द्वि­ज्ञा­त­सं­बन्धं पदं सर्वत्र बोधकम् ।। ७३२ ।।

इतोऽन्यथा कल्प्यमाने सर्वं स्यादसमञ्जसम् ।।
वाक्य­वा­क्या­र्थ­यो­ग­श्चे­द्वा­च्य­वा­च­क­ल­क्षणः ।। ७३३ ।।

तद्वि­शे­षै­क­नि­ष्ठ­त्वान्न वः संबन्धधीर्भवेत् ।।
न विशेषान्तरे वृत्ति­र्वि­शे­ष­स्यास्ति गोत्ववत् ।।
नैराकाङक्ष्येण तत्सिद्धेः संबन्धोऽतो न गृह्यते ।। ७३४ ।।

संबन्धं मन्यते योऽपि शाब्द­बो­धा­नु­सा­रि­णीम् ।। ७३५ ।।
दृष्ट्वेहां श्रोतृगां सोऽपि न सम्यगभिमन्यते ।।
श्रोतृ­स्थ­का­र्य­लि­ङ्ग­त्वा­त्कथं शब्दैकगोचरः ।। ७३६ ।।

तस्यापि शब्द­पू­र्व­त्वा­दिति चेल्लि­ङ्ग­पू­र्वतः ।।
कस्मान्न शब्दबोधोऽपि ह्यनुमानपुरःसरः ।। ७३७ ।।

नियोग शब्दतो बुद्ध्वा योऽपि श्रोता प्रवर्तते ।।
तस्या­प्य­नु­मि­ते­रेव शब्दा­र्थ­प्र­त्ययो भवेत् ।। ७३८ ।।

प्रत्य­क्ष­ग­म्य­का­र्येण नियो­ग­स्या­नु­मे­यतः ।।
प्रत्थ­क्ष­का­र्य­व­त्तस्य लौकिकत्वं प्रसज्यते ।। ७३९ ।।

न चेत्कार्यं नियोगः स्यात्कोऽर्थो यागादिसिद्धितः ।।
सिद्ध­व­स्त्व­व­बो­धत्वं विधेरपि तदा भवेत् ।। ७४० ।।

प्राथम्यं चात्र दुर्लक्ष्यं बीज­त­त्का­र्य­यो­रिव ।।
शब्दा­नु­मा­न­यो­र्नातः शब्द­प्र­थ­म­ते­ष्यते ।। ७४१ ।।

यद्वाऽ­नु­मा­न­मे­वात्र शब्दात्पूर्वं हि युज्यते ।।
नावित्तसंगतिः शब्दो गमकोऽतोऽनुवादकः ।। ७४२ ।।

बुध्यते योऽनुमानेन शब्दबुद्धं न वेत्ति सः ।
भिन्ने भिन्नेऽपि मेये धीर्ना­नु­वा­दोऽ­न्य­बो­द्धरि ।। ७४३ ।।

प्रवृ­त्ति­हे­तु­मात्रं च प्रवृ­त्त्याऽ­त्रा­नु­मी­यते ।।
लोकिकेनापि तत्सि­द्धे­र्नास्ति मानमलौकिके ।। ७४४ ।।

कार्यबुद्ध्यैव संव्याप्तिः प्रवृत्तेर्न च गम्यते ।।
सर्पा­दि­व­स्तु­बो­धेऽपि प्रवृ­त्ति­र्वी­क्ष्यते यतः ।। ७४५ ।।

पुंस्प्रवृत्तेः फलं कार्यं विध्यर्थश्चापि कारणम् ।।
प्रवृ­त्ति­हे­तुर्न फलं भवतैवाभिधीयते ।। ७४६ ।।

अपसर्प्यस्य सर्पादेर्न च कार्यं फलं मतम् ।।
अम­र्था­भा­व­मा­त्र­त्वा­न्न­चा­भावः फलं क्वचित् ।। ७४७ ।।

नियोगोऽथ प्रमारूपो विधि­श­ब्द­प्र­का­शितः ।।
माना­न्त­रा­न­पेक्षः सन्नाक्षेपकतया प्रमा ।। ७४८ ।।

आक्षेप्तृत्वं न शब्दोत्थं न च मानान्तरात्तथा ।।
अव्यु­त्प­न्न­प्र­वृ­त्ति­श्चे­त्यु­क्त­दो­ष­प्र­स­ङ्गतः ।। ७४९ ।।

स्वाभ्यु­पे­त­न­य­स्यैव त्यागः प्राप्नो­त्य­नी­प्सितः ।।
प्रामाण्यं चास्य यत्रेष्टं श्रुते­स्त­त्रा­स्त्व­नेन किम् ।। ७५० ।।

क्व चेष्टमस्य मानत्वं न यागादौ स्वशब्दमे ।।
लोकिकोऽपि न संसर्गो विध्यायत्तः स्थितो यतः ।।
विध्यभावे हि संसर्गः श्रोतु­र­स्त्य­वि­धा­वपि ।। ७५१ ।।

फल­सा­ध­न­श­क्ति­श्चे­द्वि­ध्या­यत्ता भविष्यति ।।
नैवं तत्रापि शब्दस्य सामर्थ्यं केन वार्यते ।। ७५२ ।।

तस्मा­दि­त­र­तु­ल्य­त्वान्न विध्य­र्थ­नि­ब­न्धनः ।।
संसर्गः स्यात्प­दा­र्थानां सुस्थमेवं विधिं विना ।। ७५३ ।।

तस्मा­त्स­र्व­प­दा­र्था­ना­मा­का­ङ्क्षा­यो­ग्य­सं­निधेः ।।
पर­स्प­रा­भि­सं­ब­न्धा­द्वि­शि­ष्टा­र्था­व­बो­धिता ।। ७५४ ।।

ननू­त्प­त्ति­वि­धि­र्य­द्व­त्क­र्म­बोधे व्यवस्थितः ।।
आत्म­ज्ञा­न­वि­धि­स्त­द्व­दा­त्म­बो­धेऽ­व­ति­ष्ठ­ताम् ।। ७५५ ।।

कर्मा­धि­का­र­व­च्चात्र प्रवृत्तिरपि सेत्स्यति ।।
अप्र­वृ­त्त­प्र­वृ­त्तिश्च तथा बुद्धार्थबोधनम् ।। ७५६ ।।

एवं विधिमिहेच्छन्ति विध्ययोग्येऽपि वस्तुनि ।।
विधि­रा­ग­व­शा­त्के­चि­त्ता­न्प्र­ती­द­म­थो­च्यते ।। ७५७ ।।

कर्मस्वरूपबोधे हि व्यापारो नेष्यते विधेः ।।
किं तूत्पन्नस्य सापे­क्ष्या­द­धि­का­रेण संगतिः ।। ७५८ ।।

अधि­का­र­प्र­वे­शित्वं नाऽऽत्मज्ञानस्य युज्यते ।।
यस्या­धि­का­र­सं­बन्धः स आत्मा न विधीयते ।। ७५९ ।।

व्रीह्यादिविषयं यद्वद्यत्नेनापि निरूपितम् ।।
प्रत्यक्षं नाधि­का­रा­नु­प्र­वेशंं प्रतिपद्यते ।। ७६० ।।

अन्योऽ­प्य­नु­भ­वो­पायो मननध्यानलक्षणः ।।
सोपायो विहितोऽस्त्येव प्रतिपत्तिविधिं विना ।। ७६१ ।।

दर्शनस्य विधे­य­त्वा­त्त­त्सं­ब­न्धो­प­ल­क्षितः ।।
प्रसं­ख्या­ना­त्म­कोऽ­त्रापि प्रयत्नोऽनुभवंं प्रति ।। ७६२ ।।

शमा­द्य­ङ्गा­न्वितः सर्व­मा­त्मे­ति­स्तु­ति­भू­षणः ।।
मन­ना­द्य­र्थ­व­त्त्वाय पश्येदिति विधीयते ।। ७६३ ।।

पश्येदिति प्रय­त्न­श्चे­त्फलं स्याद्दर्शनं तदा ।।
लक्षणं न प्रयत्नस्य लक्षणं चेत्कथं फलम् ।। ७६४ ।।

लोके दर्शनसंबद्धं प्रसंख्यानं समीक्षितम् ।।
वेदेऽपि किं तथा तत्स्यान्न वाऽत­स्त­द्वि­धी­यते ।। ७६५ ।।

सामान्येनौषधं यद्व­ज्ज्व­र­ना­शो­प­ल­क्षि­तम् ।।
दृष्टं कष्ट­ज्व­रेऽ­प्येवं विशे­षे­णो­प­दि­श्यते ।। ७६६ ।।

अप्यज्ञातफलं साक्षा­न्मा­न्त­रै­र्वि­धि­सं­श्र­यात् ।।
अभा­व­नि­श्च­या­भा­वा­त्प्र­सं­ख्यानं फलाय नः ।। ७६७ ।।

पश्चादावेवमेव स्यात्सं­दि­ग्धेऽपि विनिश्चयः ।।
खपुष्पे त्वनु­पा­य­त्वा­न्नि­श्च­योऽस्ति विपर्यये ।। ७६८ ।।

एवं केचि­द्व्य­व­स्थाप्य प्रसंख्यानविधिं पुनः ।।
ऐका­त्म्य­ज्ञा­न­ता­त्पर्यं तस्यापीच्छन्ति युक्तिभिः ।। ७६९ ।।

विधि­स्वा­त­त्र­य­पक्षे हि किलैकात्म्यं न सिध्यति ।।
तच्छास्रं विधि­नि­ष्ठ­त्वान्न स्वरू­पेऽ­र्थ­वा­दतः ।। ७७० ।।

अपि शास्रा­त्प्र­प­न्नोऽ­स्मि­न्पा­रो­क्ष्या­न­प­हा­रतः ।।
तत्सा­क्षा­त्क­र­णा­यैव प्रसंख्यानं विधीयते ।। ७७१ ।।

मानेन विषयासिद्धौ तद्दि­दृ­क्षा­वि­यो­गतः ।।
प्रसं­ख्या­न­वि­धिर्न स्यात्सहापि मननादिभिः ।। ७७२ ।।

श्रुते­र्ज्ञा­ता­त्म­वृ­त्ता­न्तोऽ­न­नु­भू­त­मपि स्वकम् ।।
स्थानकं वाञ्छतः शास्रा­त्प्र­सं­ख्यानं विधीयते ।। ७७३ ।।

स्वव्या­पा­र­मु­खे­नैव शास्रं स्वार्था­व­बो­ध­कृत् ।।
न तु व्यापा­र­वि­र­हा­न्नातो द्विकरता श्रुतेः ।। ७७४ ।।

स्वव्या­पा­र­ति­रो­धानं कारकाणां न च स्थितम् ।।
तस्मा­दै­का­त्म्य­ता­त्पर्ये प्रसंख्यानादि सुस्थितम् ।। ७७५ ।।

बोधयित्वाऽपि चैकात्म्यं नान्तरा पर्यवस्यति ।।
आ पुमर्थावधेः शास्र­म­प्रा­मा­ण्य­भ­या­त्स्फु­टम् ।। ७७६ ।।

परोक्षवृत्त्या शब्दो हि वदन्स्वार्थं स्वभावतः ।।
संभा­व­य­न्प्र­मा­णत्वं युक्तिं स्वीकृत्य वर्तते ।। ७७७ ।।

याथा­त्म्या­व­ग­मेऽ­शक्ता धूमोऽग्नाविव साऽपि च ।।
स्वीकृत्यैव प्रसंख्यानं युक्तिर्वस्तुनि वर्तते ।। ७७८ ।।

इत्यादिवर्त्मना शास्रं साक्षाद्वस्तु प्रसाधयत् ।।
विधिं प्रति प्रधानत्वं स्वीकृ­त्या­भ्येति मानताम् ।। ७७९ ।।

संस­र्ग­क­ल्प­ना­शू­न्य­म­प्यै­कात्म्यं प्रबोधयेत् ।।
अनयैव दिशा शास्त्रं संसृ­ष्टा­र्था­भि­धा­य्यपि ।। ७८० ।।

यतो वाचो निवर्तन्त इति श्रुत्यैव दर्शितम् ।।
व्यपा­स्ता­शे­ष­सं­स­र्ग­क­ल्पनं ब्रह्म निर्भयम् ।। ७८१ ।।

शास्त्रे­णा­न­भि­धाने तु नियोगेऽपि न युज्यते ।।
प्रवेशो विषयत्वेन तुल्यं चोद्यमतो द्वयोः ।। ७८२ ।।

विधिं विना श्रुतै­का­त्म्य­स्त­द­र्था­नु­भ­वा­दृते ।।
उपायाज्ञतया कुर्या­त्त­च्छा­स्र­स्या­र्थ­वा­द­ताम् ।। ७८३ ।।

विधिनिष्ठेंऽपि शास्रे स्याद­सि­द्धे­र्व­स्तुनो मितेः ।।
देव­ता­ध्या­न­व­त्कल्प्यं फल­मै­का­त्म्य­वे­द­नम् ।। ७८४ ।।

प्रति­प­न्ना­त्म­या­थात्म्यः प्रसंख्यानादि नेक्षते ।।
अज्ञस्तु श्रावि­तोऽ­प्य­स्मा­द्विना नाऽऽप्नोति तत्फलम् ।। ७८५ ।।

शास्रेऽ­स्मि­न्व­स्तु­नि­ष्ठेऽपि प्रसंख्यानविधिं विना ।।
पुमर्थो लभ्यते नैवेत्यसावपि समाश्रितः ।। ७८६ ।।

नान्व­य­व्य­ति­रे­का­भ्या­मै­का­त्म्या­नु­भवो भवेत् ।।
तत्सिद्धावेव तौ स्यातां स च ताभ्यामिति श्रयः ।। ७८७ ।।

यथैव विश्वजिद्यागपदे स्वार्था­नु­पा­ल­नम् ।।
कुर्वती स्वर्गकामेन गच्छतः सह मानताम् ।। ७८८ ।।

तथैव शास्रतद्युक्ती स्वाभि­धे­या­र्थ­पा­ल­नम् ।।
कुर्वत्यै मानतां यातः प्रसंख्यानेन नान्यथा ।। ७८९ ।।

एव­मै­का­त्म्य­ता­त्पर्ये शास्र­स्ये­ष्टेऽपि युक्तिभिः ।।
केेचि­त्क­र्य­म­पी­च्छन्ति तदर्थं, तन्न युज्यते ।। ७९० ।।

प्रमा­त्रा­दि­त्रयं यस्मा­त्सं­वि­न्मा­त्र­व­पु­र्भुतः ।।
सिद्धा­य­तेऽ­प्र­सिद्धं सत्तत्सिद्धौ किमपेक्षते ।। ७९१ ।।

परोक्षमपि सद्वस्तु यत्सा­क्ष्या­त्म­स्व­रू­पतः ।।
साक्षादात्मेव चाऽऽभाति तस्मि­न्पा­रो­क्ष्यधीः कथम् ।। ७९२ ।।

अप्यज्ञानादि निःशे­ष­प्र­मे­य­व्य­व­धा­न­कृत् ।।
स्वतः प्रसि­द्धा­त्सं­सि­ध्ये­त्त­द­सिद्धिः कुतो भवेत् ।। ७९३ ।।

स्वमहिम्नैव यः सिद्धः सर्व­प्र­त्य­क्त­मश्च यः ।।
तत्तमोहतितः कार्यं किम­न्य­त्त­त्प्र­मा­ण­जम् ।। ७९४ ।।

मात्रा­दि­त्र­य­हा­नेऽपि हान­सा­क्षि­त­ये­क्ष्यते ।।
येना­सा­व­वि­लु­प्ता­क्ष­स्त­त्पा­रोक्ष्यं कथं भवेत् ।। ७९५ ।।

नियो­ग­प­क्ष­मा­श्रित्य विध्यर्थासंभवो यथा ।।
ऐकात्म्यसिद्धौ यत्नेन तथाऽत्र प्रतिपाद्यते ।। ७९७ ।।

ऐकात्म्यस्य स्वतो मुक्ते­र­ज्ञा­ना­त्तस्य बद्धता ।।
साध्येऽर्थे साधनापेक्षा सिद्धे तन्न व्यपेक्षते ।। ७९८ ।।

तमो­मा­त्रा­न्त­रा­य­त्वा­दै­का­त्म्या­ख्यस्य वस्तुनः ।।
असाध्यसाधने तस्मि­न्काऽ­पेक्षा भावनां प्रति ।। ७९९ ।।

यदाऽनुभवकामस्य कार्यं साध्यं प्रतीयते ।।
प्रसंख्याने तदै­का­त्म्य­ता­त्पर्यं कथमुच्यते ।। ८०० ।।

कार्यं चान्यपरं चेति द्वय­मे­त­द्वि­रु­ध्यते ।।
साध्यं हि सर्वदा कार्यमन्यत्तस्य प्रसिद्धये ।। ८०१ ।।

विशेषणं नियोज्यस्य भवन्ननुभवः फलम् ।।
विषयः सत्प्र­सं­ख्या­न­म­नु­भू­तेर्न साधनम् ।। ८०२ ।।

भावार्थविषयं कार्यं प्रसंख्याने कथं भवेत् ।।
आवृत्तिर्हि प्रसंख्यानं शब्द­यु­क्त्यो­रिति स्थितम् ।। ८०३ ।।

अथ श्रव­ण­भा­वा­र्थ­वि­षयं कार्यमिष्यते ।।
तदा श्रवणमेव स्याद्विशिष्टो विषयस्तव ।। ८०४ ।।

दाक्षा­य­णा­दा­वा­वृ­त्ते­र्य­त्रापि फलमुच्यते ।।
सगु­णा­त्पै­र्ण­मा­सादेः फलं तत्रापि नो गुणात् ।। ८०५ ।।

गुणो यत्रापि दध्यादिः कार्यावच्छेदको मतः।।
धात्वर्थावेशतः सोऽपि प्राप्ते चास्मिन्न तु स्वतः ।। ८०६ ।।

श्रवणादेर्न च प्राप्ति­र्गु­णान्न च फलं श्रुतम् ।।
पश्येदिति हि धात्वर्थः केवलो विषयः श्रुतः।। ८०७ ।।

नापि तल्ल­क्षि­ता­वृ­त्ति­र्वि­धेया श्रुतहानतः ।।
कार्यं यन्नापि भावा­र्था­त्त­दा­वृ­त्ति­गु­णा­त्क­थम् ।। ८०८।।

स्वयं प्रबो­धि­तेऽ­प्यर्थे यदि युक्त्या­द्य­पे­क्षते ।।
शास्रं सापेक्षमेवं स्यात्स्वतः प्रामा­ण्य­व­र्ज­नात् ।। ८०९ ।।

युक्त्यादि मान्तरं नो चेन्मानांशत्वेन तत्स्थितेः ।।
संभूय पादाः सर्वेऽपि ह्यैकात्म्यं बोधयन्ति नः ।। ८१० ।।

न संभूय यतः पादा­स्तै­ल­व­र्त्य­ग्नयो यथा ।।
मितेः स्वरूपलाभाय न तु मेयोपलब्धये ।। ८११ ।।

संभूय यदि सर्वाणि फलमेकं प्रतन्वते ।।
प्रत्येकं प्रमि­ते­र्वृ­द्धि­रि­त्ये­त­स्या­त्तदा मृषा ।। ८१२ ।।

संभूय फलकारित्वं क्रिया­का­र­क­सं­गतेः ।।
स्वरूपलाभतो नान्य­द­भि­व्य­क्ता­व­पे­क्षते ।। ८१३ ।।

तैलवर्त्यग्नयो यस्मा­त्प्र­दी­पो­त्प­त्ति­का­र­णम् ।।
लब्धात्मलाभो दीपोऽर्थं स्वयमेव प्रकाशयेत् ।। ८१४ ।।

शब्देन ज्ञाप्यते यद्वत्तथैव यदि युक्तिभिः।।
व्यर्थताऽथ विशे­ष­श्चे­त्सं­प्राप्ता भिन्नमानता ।। ८१५ ।।

स्वप्ना­दि­यु­क्ति­भि­श्चे­त्त­ल्लौ­कि­कीभिः प्रसाध्यते ।।
अवैदिकं भवेद्वस्तु स्याच्च शास्रानुवादता ।। ८१६ ।।

वैदिकत्वेऽपि युक्ती­ना­मा­ग­मा­र्थ­प्र­बो­धतः ।।
अनुवादत्वमेव स्यात्स्याच्च शास्रादभिन्नता ।। ८१७ ।।

आवृत्तिश्च प्रसंख्यानं कुर्यात्सातिशयं कथम् ।।
न ह्यावृत्तौ प्रमाणस्य प्रमेयेऽतिशयो यतः ।। ८१८ ।।

यत्रापि चान्ध­का­रा­दि­दो­षा­त्क्र­म­वि­नि­श्चयः ।।
तत्रापि भिन्न­मे­य­त्वा­न्नैव संभूयमानता ।। ८१९ ।।

पूर्वं वस्त्वति विज्ञानं प्राण्ययं मानुषस्तथा ।।
पुरुषोऽयमथ श्यामो डित्थ इत्यर्थभिन्नता ।। ८२० ।।

परिच्छेदफलत्वं हि मानत्वं तच्च भिद्यते ।।
तदभावे तु पूर्वे­षा­मु­त्त­र­स्यैव मानता ।। ८२१ ।।

अथ मेयप्रभेदेऽपि प्रमा­णै­क­त्व­मि­ष्यते ।।
वस्तु­ग्रा­हि­त­याऽ­क्षा­दे­रै­का­र्थ्येऽ­भि­न्न­मा­नता ।। ८२२ ।।

साध्यमानं प्रसंख्यानं याग­व­त्सा­ध­ये­त्फ­लम् ।।
कारकं ज्ञापकं शास्रं तयोः स्यादेकता कथम् ।। ८२३ ।।

प्रमाताऽऽत्मा न मानाशो यद्ययं व्यावहारिकः ।।
परश्चेत्स प्रमेयः स्यात्कथं चानुभवः फलम् ।। ८२४ ।।

स्वरूपंं यद्यसाध्यं तस्त्वा­त­न्त्र्येण प्रसिद्धितः ।।
तज्ज्ञानं चेत्प्रमाणं तत्तच्च शास्रान्न कार्यतः ।। ८२५ ।।

शास्र­मा­व­र्त्य­मानं हि स्वभावं नैव मुञ्चति ।।
परो­क्ष­वृ­त्ति­र्यु­क्तिश्च कथं ते मितिवर्धने ।। ८२६ ।।

प्रमितेश्च प्रमेयस्य वृद्धौ वृद्धिः स्वतो न हि ।।
तस्य वृद्धि­र्मि­ते­र्वृ­द्धा­वि­त्य­न्यो­न्य­स­मा­श्रयः ।। ८२७ ।।

उत्पाद्यापि मितिं शास्रं यदि युक्त्या­द्य­पे­क्षते ।।
स्वर्गादावेवमेव स्यात्सापेक्षं च भवेत्तदा ।। ८२८ ।।

व्यपा­स्ता­न­र्थ­सं­द­र्भ­मा­त्मा­न­म­व­ग­च्छतः ।।
किमाप्यमधिकं शास्राद्येन युक्त्या­द्य­पे­क्षते ।। ८२९ ।।

का वा युक्तिः प्रदीपस्य सर्पा­द्या­क­म्प­ना­श­नम् ।।
रज्ज्वा­दि­त­त्व­वि­ज्ञानं कुर्वतः स्वेन तेजसा ।। ८३० ।।

गुणप्रधानभावो हि विना नैवैकवाक्यताम् ।।
वस्तु­का­र्या­र्थ­ता­त्प­र्य­भे­दा­न्ना­पीह सा भवेत् ।। ८३१ ।।

न च प्रयो­ज­नै­क­त्व­ल­क्ष­णाऽ­त्रै­क­वा­क्यता ।।
अङ्ग­प्र­ध­ना­व­द्येन कल्पे­ता­त्रै­क­वा­क्यता ।। ८३२ ।।

स्वतःसिद्धस्य मोक्षस्य न साध्यमुपकारकम् ।।
न चान्यथाऽङ्गता दृष्टा प्रधा­ना­नु­प­का­रिणः ।। ८३३ ।।

आत्मलाभे न शास्रं च नित्य­त्वा­त्का­र्य­मी­क्षते ।।
स्वतो­भि­धा­न­श­क्त­त्वा­न्नापि चैकात्म्यबोधने ।। ८३४ ।।

प्रसंख्याने च शास्रार्थे सकृदेव कृते भवेत् ।।
ऐकात्म्यानुभवो नो चेद्वि­सं­वा­दा­द­मा­नता ।। ८३५ ।।

न चात्र चोदितः कालः संख्या वा येन निश्चयः ।।
तद्द्वारेण भवेन्नापि संदिग्धे स्यात्पवर्तनम् ।। ८३६ ।।

आरुह्याप्यथवा दूरं विसं­वा­द­प­रा­ङ्युखः।।
यत्किंचित्कामतः कुर्या­द­कृ­ता­र्थोऽ­पवा पतेत् ।। ८३७ ।।

अदृष्टफलता वाऽपि कल्प्याऽ­ग्नि­ष्टो­म­व­द्भ­वेत् ।।
कर्माङ्गता वा क्ल्प्या स्यादु­द्गी­थ­वि­धि­व­त्तदा ।। ८३८ ।।

ततश्च प्रातिलोम्येन कार्यं स्याच्छा­स्र­बा­ध­नात् ।।
अश्रद्धा च मुमुक्षूणां कार्यबाधोऽपि च स्थितः ।। ८३९ ।।

वस्तु­त­त्त्वा­न­पे­क्ष­त्वा­त्का­र्य­मा­त्र­प्र­धा­नता ।।
शास्राच्च वस्तु­नोऽ­ला­भा­त्कार्यं किंविषयं भवेत् ।। ८४० ।।

यदि तद्व­स्तु­या­थात्म्यं शास्रं न प्रतिपादयेत् ।।
वस्त्व­सि­द्धे­स्ततः कार्य­प्रा­धा­न्या­द­र्थ­वा­दता ।। ८४१ ।।

अथै­का­त्म्या­र्थ­निष्ठं सच्छास्रं स्यात्प्र­ति­पा­द­कम् ।।
आपरोक्ष्यात्तदा कार्यं व्यर्थं पारो­क्ष्य­हा­नि­कृत् ।। ८४२ ।।

शास्रात्कथं च तत्सि­द्धि­र्या­था­त्म्या­न­व­बो­ध­कात् ।।
नानश्वरूपे सिद्धेऽपि गव्यश्वस्य प्रसिद्धता ।। ८४३ ।।

शास्रा­च्छ्र­व­ण­मा­त्रेण कार्याच्चानुभवो यदि ।।
वस्तु­न्य­नि­श्चिते वार्ता साऽर्थवादेऽपि दृश्यते ।। ८४४ ।।

ततश्च कार्यनिष्ठत्वं मुधैव परिवर्जितम् ।।
संपत्परं भवेच्छास्रं वस्तु­ता­त्प­र्य­व­र्ज­नात् ।। ८४५ ।।

न चाप्या­ख्या­यि­का­रू­प­म­नु­ग्राह्यं श्रुतौ मतम् ।।
आदि­म­त्त्वा­दि­दु­ष्ट­त्वा­त्पु­म­र्थ­त्वेन वर्ण्यते ।। ८४६ ।।

पौन­रु­क्त्य­भ­या­च्चात्र यद्य­र्था­न्त­र­क­ल्प­नम् ।।
ऐकात्म्योक्तौ विधिर्व्यर्थ इति द्वैतप्रकल्पनम् ।। ८४७ ।।

न च मानेन विषये बोधितेऽन्वेषणं पुनः ।।
कार्यमुक्त्योः क्वचिदृष्टं स्वतः­प्रा­मा­ण्य­बा­ध­नात् ।। ८४८ ।।

प्रत्यक्षेण घटे बुद्धे का युक्तिः कार्यमेव वा ।।
अदुष्टकारणत्वं षेत्सिद्धं वेदे नृवर्जनात् ।। ८४९ ।।

प्रत्य­क्षा­दि­वि­रो­धश्च कार्यपक्षेऽपि तु स्थितः ।।
ऐकात्म्यानुभवो हि स्यात्क­थ­म­क्षा­दि­बा­ध­नात् ।। ८५० ।।

तन्निषेधात्तु या सिद्धिर्न सा कार्यप्रसादतः ।।
प्रमाणादेव शास्रात्सा न मेयात्कार्यतो भवेत् ।। ८५१ ।।

का वा कार्येऽस्ति ते युक्तिः शास्रं चेदुभयोः समम् ।।
अज्ञा­त­ज्ञा­प­ना­द­न्य­च्छा­स्रा­न्नेति पुरोदितम् ।। ८५२ ।।

पुमर्थं प्रतिपाद्यापि प्रकृत्यैव श्रुतिः पुनः ।।
तमेव युक्तिभिः सार्धं वदन्ती स्वार्थमीक्षते ।। ७५३ ।।

नैतावताऽपराधेन युक्तयो मानकारणम् ।।
शब्द­मा­त्रा­द­सं­सि­द्धे­र­न­पे­क्ष­त्व­हा­नतः ।। ८५४ ।।

न वायोः क्षिप्र­का­रि­त्वा­च्छ्वे­ता­लम्भो विभूतये ।।
विध्यु­द्दे­शात्तु तत्सिद्धेः शैघ्रयं तूक्तं प्रवृत्तये ।। ८५५ ।।

जाग्र­त्स्व­प्न­सु­षु­प्तेभ्यो यदि नामातिरेकतः ।।
व्यक्तिभ्यो गोत्ववद्दृष्टं ब्रह्मत्वेऽस्य किमागतम् ।। ८५६ ।।

असिद्धं शास्र­यु­क्ति­भ्या­मा­वृ­त्त्याऽपि न सिध्यति ।।
नैव ह्यावर्तनं हेतुः प्रामा­ण्येऽ­न्ये­ष्व­नी­क्ष­णात् ।। ८५७ ।।

न चेदृशं प्रमाणत्वं दृष्टमन्यत्र कुत्रचित् ।।
अन्या­दृ­क्ष­प्र­मा­णस्य न च नास्त्यत्र संभवः ।। ८५८ ।।

अलौ­कि­का­र्थ­वा­दि­त्वा­दा­त्म­ब्र­ह्म­भि­धा­नयोः ।।
संब­न्धा­ग्र­ह­णा­दात्मा ब्रह्मेति कथमुच्यते ।। ८५९ ।।

ज्ञातार्थसंगतिः शब्दो वाक्या­र्था­व­ग­म­क्षमः ।।
ब्रह्मा­त्मा­र्थ­प्र­सिद्धौ च लोका­न्मा­न­प्र­वे­शिता ।। ८६० ।।

नाऽऽत्म­न्ये­वाऽऽ­त्म­श­ब्दस्य प्रयो­गा­त्स्या­द­लै­किकः ।।
ब्रह्मार्थेऽपि महत्त्वेन प्रसिद्धो व्यवहारतः ।। ८६१ ।।

एवं पदात्परिज्ञाते पदार्थे लोकमानतः ।।
वाक्या­र्थेऽ­ती­न्द्रियो वेदे वाक्यात्केन निवर्त्यते ।। ८६२ ।।

अपू­र्व­दे­व­ता­स्व­र्ग­प­दा­र्थे­ष्वपि लोकतः ।।
सिद्धे­ष्व­ती­न्द्रि­योऽ­प्यर्थो वाक्या­दे­वा­व­ग­म्यते ।। ८६३ ।।

नापे­क्षा­पू­र­णा­शक्तेः प्रयोगे समवायिता ।।
पदानां सपदार्थानां वाक्या­द्व्य­व­हृ­ति­र्यतः ।। ८६४ ।।

वाक्यार्थायैव वाक्यं हि सर्वदैव प्रयुज्यते ।।
व्यवहारेषु वुद्धानां संबन्धस्तत्र गृह्यते ।। ८६५ ।।

भागा­न्त­र­प्र­वेे­शेन भागत्यागेन च स्फुटम् ।।
वाक्य­वा­क्या­र्थ­यो­र्भेदे पदार्थानां निमित्तता ।। ८६६ ।।

यद्भा­ग­स्याऽऽ­ग­मा­द्योऽ­र्थ­भागः स्यादधिकः क्वचित् ।।
तस्य भागस्य भागोऽसौ निमित्तं स्यान्न तु प्रमा ।। ८६७ ।।

अत एव सभागत्वं वाक्य­वा­क्या­र्थ­यो­र्म­तम् ।।
वाचकत्वेऽपि वाक्यस्य संसृ­ष्टा­र्था­भि­धा­नतः ।। ८६८ ।।

ततश्चैवं समूहस्य वाच­क­त्व­म­व­स्थि­तम् ।।
भगवत्त्वं च संसिद्धं वाक्य­वा­क्या­र्थ­यो­रतः ।। ८६९ ।।

एवं च लोकतः सिद्धो वाक्यार्थः स्याच्छ्रुतावपि ।।
लौकिका एव शब्दार्था न्यायेनोक्ताः श्रुतौ यतः ।। ८७० ।।

नृवि­व­क्षा­व्य­वा­येन लोके शङ्का भवेदपि ।।
वेदे त्वपौ­रु­षे­य­त्वा­त्सा­क्षा­त्स्वार्थे प्रमाणता ।। ८७१ ।।

न च कार्यपरत्वेऽपि पदानां संहतिः स्थिता ।।
अन्यत्रावगमो न स्यात्सं­ब­न्ध­ज्ञा­न­व­र्ज­नात् ।। ८७२ ।।

यथा च कार्ये तात्पर्यं कार्यं चापि न विद्यते ।।
पूर्वमेव तथाऽ­स्मा­भि­र्यु­क्तिभिः संप्रसाधितम् ।। ८७३ ।।

अना­दि­वृ­द्ध­व्य­व­हृ­द्व्यु­त्प­त्त्यैव च तस्त्थितेः ।।
शब्दस्यार्थेन संबन्ध आदिमत्ता न शङ्क्यते ।। ८७४ ।।

प्रथमश्रवणे यत्र न शब्दा­र्था­व­धा­र­णम् ।।
तत्रा­व्यु­त्प­न्नता हेतुः शब्दानां न त्वशक्तिता ।। ८७५ ।।

चक्षु­र्द्र­ष्ट्रपि बाह्यं हि न प्रकाशं विनाऽर्थदृक् ।।
नैतावताऽस्य सामर्थ्यं हन्यतेऽन्यस्य वा भवेत् ।। ८७६ ।।

व्युत्पत्त्या न च संबन्धः क्रियते ह्व्यर्थशब्दयोः ।।
अवस्थिते हि संबन्धे वृद्धेभ्योऽसौ प्रजायते ।। ८७७ ।।

संब­न्ध­क­र­णा­श­क्ते­स्त­त्क­र्तु­श्चा­स्मृ­ते­रपि ।।
तद्विना व्यवहाराच्च सिद्धा संबन्धनित्यता ।। ८७८ ।।

जीर्ण­कू­पा­दि­व­त्क­र्तु­र्य­द­प्य­स्म­रणं न तत् ।।
अभावगमकं नापि संबन्धेनास्य तुल्यता ।। ८७९ ।।

क्वचिज्ज्ञातेषु दूरादिकारणे संशयोऽपि च ।।
नात्य­न्ता­नु­प­ल­ब्धेषु त्वभावोऽतोऽस्य निश्चितः ।। ८८० ।।

संनि­कृ­ष्टा­र्थ­सं­सृ­ष्ट­स्वा­र्थ­मा­त्रा­भि­धा­नतः ।।
तस्मा­त्सि­द्धोऽन्र वाक्यार्थो लोके वेदे प्रमाणवान् ।। ८८१ ।।

अतोऽवबोधकत्वेन दुष्ट­का­र­ण­व­र्ज­नात् ।।
अबाधाच्च प्रमाणत्वं वस्तु­न्य­क्षा­दि­व­च्छ्रुतेः ।। ८८२ ।।

पुरु­षा­र्थो­प­दे­ष्ट्ट­त्वा­द्य­द्व­त्कार्ये प्रमाणता ।।
तथैकात्म्ये विशेषाद्वा पुमर्थतिशयत्वतः ।। ८८३ ।।

पुमानिष्टस्य संप्रा­प्ति­म­नि­ष्ट­नस्य च वर्जनम् ।।
इच्छन्नपेक्षते योग्यमुपायमपि तत्परः ।। ८८४ ।।

ग्रामादि किंचिदप्राप्तं प्राप्तु­मि­ष्ट­मि­हे­च्छति ।।
हेमादि विस्मृतं किंचित्करस्थमपि लिप्सते ।। ८८५ ।।

परिहार्ये तथाऽनिष्टं कण्टकादि जिहासति ।।
रज्ज्वां सर्पादि किंचिच्च त्यक्तमेव जिहासति ।। ८८६ ।।

निय­तो­पा­य­सा­ध्य­त्वा­द­वा­प्य­प­रि­हा­र्ययोः ।।
विधितः प्रतिषेधाच्च साधनापेक्षता भवेत् ।। ८८७ ।।

अज्ञा­ना­न्त­रि­त­त्वेन संप्रा­प्त­त्य­क्तयोः पुनः ।।
याथा­त्म्य­ज्ञा­नतो नान्य­त्पु­रु­षा­र्थाय कल्पते ।। ८८८ ।।

अशे­षा­न­र्थ­वि­च्छेदं वाञ्छतः श्रुतितः श्रुतेः ।।
त्वं ब्रह्मेति हताशेषक्लेशो मोहप्रहाणतः ।। ८८९।।

वेदस्य सिद्धे प्रामाण्ये ह्यज्ञा­ता­र्था­व­बो­धतः ।।
कार्ये यथा प्रमा­ण­त्व­मै­का­त्म्येऽ­प्ये­व­मि­ष्य­ताम् ।। ८९० ।।

कार्याद्यदि तु मानत्वं मान­त्वा­त्का­र्य­नि­ष्ठता ।।
अन्यो­न्या­श्र­य­तैवं स्यादे­क­स्या­सि­द्धि­तोऽ­न्यतः ।। ८९१ ।।

औदा­सी­न्या­न्नि­षे­धेषु न लभ्येत प्रमाणता ।।
औदासीन्यं निवृत्तिर्हि स्वरूपालम्बनं च तत् ।। ८९२ ।।

सोऽरो­दी­त्या­दि­वा­क्यानां कार्या­वे­शा­त्प्र­मा­णता ।।
अपु­म­र्थो­प­दे­ष्ट्ट­त्वा­त्तच्च नात्रेत्यकारणम् ।। ८९३ ।।

न चैका­त्म्या­भ्यु­पा­यस्य मिथ्यात्वमिह शङ्क्यते ।।
उपेयाप्तौ कृता­र्थ­त्वा­दु­पायं प्रत्यनीक्षणात् ।। ८९४ ।।

ऐका­त्म्य­प्र­ति­पत्तेः प्राङ्न मिथ्या हेत्वभावतः ।।
पुरु­षा­र्था­व­सा­यि­त्वा­न्ना­प्यू­र्ध्व­म­न­पे­क्षतः ।। ८९५ ।।

उपेयबोधनं मुक्त्वा मिते­र्ना­न्याऽस्ति सत्यता ।।
सत्या­द­प्य­नु­पा­य­त्वा­द्ध­टा­न्ना­ग्निर्हि गम्यते ।। ८९६ ।।

धूमाभासात्तु बाष्पा­दे­र्य­द­ग्नि­र्ना­व­ग­म्यते ।।
हेतु­स्त­त्रा­नु­पा­य­त्व­म­स­त्यत्वं पुनर्न तु ।। ८९७ ।।

धूम­व­त्प­र­मा­र्थ­त्व­मु­पा­य­त्वान्न लभ्यते ।।
वेदान्तानां तथै­का­त्म्य­श्रु­ति­बाधः स्फुटोभवेत् ।। ८९८ ।।

बाष्पवन्नापि मिथ्या­त्वा­द­नु­पा­य­त्व­मि­ष्यते ।।
एेका­त्म्यो­बो­ध­बा­धेन सिद्धा तूपायसत्यता ।। ८९९ ।।

श्रुते­रै­का­त्म्य­सं­वित्तौ चरितार्थत्वतो मितेः ।।
वृथोपायपरीक्षा स्यादु­त्ती­र्णस्य प्लवे यथा ।। ९०० ।।

बाह्ये­ष्व­र्थे­ष्व­ना­त्म­त्वा­त्पुनः शङ्का भवेदपि ।।
अत्राऽऽ­त्म­त्वा­दु­पे­यस्य का शङ्का मानतां प्रति ।। ९०१ ।।

अन्यत्रेव न चाप्यत्र वाक्यार्थो भेदलक्षणः ।।
संसर्गलक्षणो वाऽपि ब्रह्मा­त्मा­भे­दतो भवेत् ।। ९०२ ।।

ब्रह्म­णोऽ­ना­त्म­ता­रू­प­म­ब्र­ह्मत्वं तथाऽऽत्मनः ।।
अज्ञानलक्षणं शास्राज्ज्ञानं हन्ति समुत्पतत् ।। ९०३ ।।

नेहा­न्य­त्राऽऽ­त्मनो ब्रह्म तथाऽऽत्मा ब्रह्मणोऽन्यतः ।।
तादा­त्म्य­म­न­यो­स्त­स्मा­न्नी­लो­त्प­ल­वि­ल­क्ष­णम् ।। ९०४ ।।

अब्रह्मानात्मने यद्व­द­त्रा­ज्ञा­न­नि­ब­न्धने ।।
आत्मताब्रह्मते नैव­म­न्य­स्मा­दि­त्यतः स्वतः ।। ९०५ ।।

नाम्नोरेवं च संबन्ध ऐका­त्म्या­त्स्या­त्क्रियां विना ।।
षष्ठीं च न क्रिया­ष­ष्ठ्यो­र्विना भेदा­त्प्र­व­र्त­नम् ।। ९०६ ।।

महत्ता यद्वदाकाशे घटा­का­श­व्य­पे­क्षया ।।
परा­क्त्वा­पे­क्षया तद्व­त्प्र­त्यक्ता नाऽऽत्म­नी­क्ष्यते ।। ९०७ ।।

प्रत्य­क्त्व­म­द्वि­ती­यत्वं बोध­व­न्ना­न्य­ब­न्ध­नम् ।।
अपारार्थ्यान्न बोधो हि स्यादबोधनिरासतः ।। ९०८ ।।

आत्माऽपि सदिदं ब्रह्म मोहा­त्पा­रो­क्ष्य­दू­षि­तम् ।।
ब्रह्मापि संस्तथैवाऽऽत्मा सद्वि­ती­य­त­ये­क्ष्यते ।। ९०९ ।।

आत्मा ब्रह्मेति पारो­क्ष्य­स­द्वि­ती­य­त्व­बा­ध­नात् ।।
पुमर्ये निष्ठितं शास्रमिति सिद्धं समीहितम् ।। ९१० ।।

ननु भेदा­श्रि­तै­र्वा­क्यै­र्वि­धा­य­क­नि­षे­धकैः ।।
अक्षादिभिश्च नैकात्म्यं बाधि­त­त्वा­त्प्र­मा­ण­वत् ।। ९११ ।।

न चाप्यै­का­त्म्य­शा­स्रस्य तैर्वेि­क­ल्प­स­मु­च्चयौ ।।
प्रमाण्यै नापि बाध्यत्वं तेषां तेन कथंचन ।। ९१२ ।।

विरु­द्ध­मा­न­भा­वेऽपि न हि वस्तु विकल्प्यते ।।
भेदाभेदौ न च स्यातां विरो­धा­द्यु­ग­प­त्क­चित् ।। ९१३ ।।

भिन्नाभिन्नं न वो वस्तु येन मानाविरोधिता ।।
नेह नानेति भेदानां निषेधात्कनु भेदधीः।। ९१४ ।।

वर्णा­दि­ग्र­ह­णो­पायो नापीहाक्षादि बाध्यते ।।
संस्काराय च यच्छा­स्र­मा­त्म­ज्ञा­नो­प­का­र­कम् ।। ९१५ ।।

उपचारार्थतः शास्रं सावकाशं जपेऽथवा ।।
अक्षा­दे­र­कृ­ता­र्थ­त्वा­त्कथं स्यात्तेन बाधनम् ।। ९१६ ।।

उच्यते, लोरतः सिद्धं भेदमाश्रित्य चोदना ।।
प्रवृत्ता पुरुषार्थाय न तु भेदावबुद्धये ।। ९१७ ।।