बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥संबंधभाष्यवार्तिकम् ॥ (३)
भेदस्य चापुमर्थत्वात्तादर्थ्ये स्यादमानता ।।
पुमर्थत्वेन चास्येष्टं प्रामाण्यं वेदवादिभिः ।। ९१८ ।।
वस्तुस्वरूपसंस्पर्शिचक्षुरादिभ्य उत्थितम् ।।
भेदस्पृङ्नाक्षजाद्येवं न तेनैकात्म्यबाधनम् ।। ९१९ ।।
प्रमेयविषयं मानं वस्तुनश्च प्रमेयता ।।
न च भेदस्य वस्तुत्वं वस्तुतत्त्वानपेक्षणात् ।। ९२० ।।
लब्धे हि भूतलेऽलब्धो घटस्तत्र निषिध्यते ।।
मानान्तरेण विज्ञातो नाज्ञातो नाज्ञातः शून्यताप्तितः ।। ९२१ ।।
व्यञ्जकस्य समायोगो वस्तुनो वस्तुनैव हि ।।
नाभावेन निरात्मत्वाद्व्यावृत्त्या वा मितेर्भवेत् ।। ९२२ ।।
नातो वस्तुनि संभेदो वस्तुनोऽभेदरूपतः ।।
न प्रमाणाद्बहिर्वस्तु न मानं वस्तुनो बहिः ।। ९२३ ।।
नाभावयोर्मिथो योगोऽवस्तुत्वाभेदतस्तयोः ।।
अभावभावयोस्तद्वद्भावरूपेषु का भिदा ।। ९२४ ।।
अनित्यत्वस्य धर्मस्य घटादेर्धर्मिणस्तयोः ।।
संयोगः समवायो वा तादात्म्यं वेह संगतिः ।। ९२५ ।।
आधाराधेययोगेषु घटोऽत्रेति यथा मतिः।।
नाभावभावयोगेषु मितेर्धीः कस्यचित्तथा ।। ९२६ ।।
नहि भावातिरेकेण भावाभावः प्रमणभाक् ।।
भावात्मनाऽप्यतो भावो व्यवहाराय कल्पते ।। ९२७ ।।
अथाभावोऽपि वस्त्वेव नास्तीतिमितिजन्मतः ।।
द्वयोर्भावैकरूपत्वात्काऽतिशीतिर्मितेस्तयोः ।। ९२८ ।।
विश्वं सदेव यस्येष्टं तस्याभावः कुतो मितेः ।।
न च भावातिरेकेण भाववत्सिद्धिमश्नुते ।। ९२९ ।।
अभावयोगं भावश्चेत्सहवे नीलयोगवत् ।।
अविरोधादभावेन न भावापह्नुतिर्भवेत् ।। ९३० ।।
योगोऽयं वस्तुनोर्दृष्टः पृथक्सिद्धौ परस्परम् ।।
मेषयोर्मल्लयोर्यद्वन्न भावाभावयोस्तथा ।। ९३१ ।।
न योगोऽभावयोर्दृष्टो वन्ध्यासूनुखपुष्पयोः ।।
न भावाभावयोरेवं विरोधादितरेतरम् ।। ९३२ ।।
क्षितिदेशे घटाभावो घटवन्न प्रमीयते ।।
योगो वा समवायो वा नाभावक्षितिदेशयोः ।। ९३३ ।।
सदात्मतैवं सर्वस्य, नाभावात्मकता सतः ।। ९३४ ।।
अप्यभावात्मकत्वेऽपि सतोऽभावात्मकत्वतः ।।
कुतो भेदावकाशः स्याद्भेदेऽसति कुतो युतिः ।। ९३५ ।।
यावत्किंचिज्जगत्यस्मिन्भेदकं वस्तु लक्ष्यते ।।
अनापन्नादिमध्यान्तं सदेव तदितीष्यते ।। ९३६ ।।
सदेवेदमिति स्पष्टं सन्मूला इति चापरम् ।।
श्रुत्योदाहारि नः साक्षात्सदैकात्म्यावबुद्धये ।। ९३७ ।।
मानाभावस्य मानत्वं मेयाभावस्य मेयता ।।
न्यायं न सहतेऽतीव यथा तदधुनोच्यते ।। ९३८ ।।
बोधकं यदबुद्धस्य तन्मानमिति हि स्थितिः ।।
न च प्रमाणनास्तित्वमीदृक्तस्मान्न युज्यते ।। ९३९ ।।
मेयाभावः प्रमाणानां यद्यभावेन गम्यते ।।
प्रमाणानामभावस्य गमकः को भविष्यति ।। ९४० ।।
नाक्षादिपञ्चकं तस्य बोधकं सत्समन्वयात् ।।
नयतस्तदभावो वा, मेयत्वेनैव तत्स्थितेः ।। ९४१ ।।
नीलादिवदभावस्य यद्यक्षादिविशेषणम् ।।
विशेषणेन तद्व्याप्तेस्तदभावः कुतो मितेः ।। ९४२ ।।
अथाविशेषणोऽभावो भवद्भिरभिधीयते ।।
मेयाभावस्य मानत्वमविशेषात्प्रसज्यते ।। ९४३ ।।
घटाद्यभाव इत्युक्तिर्न सम्यगिति मे मतिः ।।
पदानामसमर्थत्वाद्विरोधाद्वस्तुनोर्मिथः ।। ९४४ ।।
भावाभावाख्यपदयोः सामर्थ्ये चेत्समासता ।।
घटादिनाऽनपेक्षत्वान्न समासः प्रसिध्यति ।। ९४५ ।।
भावस्याभाव इत्यत्र षष्ठ्यर्थः कतमो मतः।।
न कश्चिदपि संबन्धो नीरूपस्यासदात्मनः ।। ९४६ ।।
वस्त्वन्तरमभावश्चेदन्यदन्यद्भवेत्कथम् ।।
अन्योऽपि च्चेद्भवेदन्योऽविरोधो नीलवद्भवेत् ।। ९४७ ।।
संगतावविरोधी चेन्न संबन्धिनिवृत्तिकृत् ।।
न संबन्धिग्रहाभावे संबन्धोऽयं प्रसिध्यति ।। ९४८ ।।
संबन्धिविरहेऽसिद्धौ षष्ठ्यर्थत्वं न सिध्यति ।।
विरोधाद्युगपन्नापि विधानप्रतिषेधनम् ।। ९४९ ।।
क्षणिकत्वाद्धियां नापि स्थायिधर्मः क्रमो भवेत् ।।
अनीलाभावपृष्टेन नापि नीलस्य वेदनम् ।। ९५० ।।
नाह्यदृश्यनिषेधः स्याद्धटादेरिव भूतले ।।
नान्याभावविशिष्टत्वं कृत्स्नाभावगतौ भवेत् ।। ९५१ ।।
अन्याभावस्य भावत्वे स्यादभावः खपुष्पवत् ।।
भावान्तरमभावश्चेत्सिद्धं वस्तु ततः स्वतः ।। ९५२ ।।
तद्ग्राहीणि च मानानि व्यावृत्तिः केन गम्यते ।।
चित्रेऽपि विषये चित्रमेकं वस्त्वेकमानतः ।। ९५३ ।।
प्रत्येकं नीलपीतादिग्रहणे चित्रता कुतः ।।
घस्तुनो भेगरूपत्वे वस्त्वभावः प्रसज्यते ।। ९५४ ।।
अन्यधर्मे त्वभिन्नं स्यात्स्वतो वस्तु प्रमाश्रयम् ।।
भिन्नाभिन्नं विरुद्धत्वान्नैकमानस्य गोचरः ।। ९५५ ।।
वस्त्वात्मनाऽविरोधश्चेद्वस्त्वेव विषयस्ततः ।।
सत्यं वस्तु कथं भिन्द्यात्पुंव्यपेक्षाविनिर्मितः ।।
भेदः, पुत्रादिभावे तु जन्यत्वं वस्तुकल्पितम् ।। ९५६ ।।
दाहपाकप्रकाशादिभेदेऽप्यग्नेरभिन्नता ।।
कार्यतोऽपि न भेदः स्याद्वस्त्वभेदव्यवस्थितेः ।। ९५७ ।।
विभिन्नकार्यकर्त्रीणां शक्तीनां यद्वदाश्रयः ।।
न विरुद्धोऽग्निरेकोऽपि तद्वत्कार्येऽपि किं न ते ।। ९५८ ।।
घटाभावे घटः सिध्येत्पटाभावे पटस्तथा ।।
अन्योन्याभावदृष्टेः स्यादन्योन्याश्रयता तव ।। ९५९ ।।
प्रत्यक्षत्वं पृथक्त्वस्य गुणत्वाद्यैरपीष्यते ।।
तेषामपि गुणे मानं नीलवन्न त्ववस्तुनि ।। ९६० ।।
अथ वस्तु पृथक्त्वेन विशिष्टं गम्यते तदा ।।
शुक्लो शौरितिवन्मानं वस्तुन्येव न भेदगम् ।। ९६१ ।।
अभेदेनैव वर्तेत पृथक्ता यदि वस्तुषु।।
वस्त्वेव तत्ततोऽन्या चेदपृथग्वस्तु तर्हि ते ।। ९६२ ।।
भावाभावपृथक्ताऽपि यद्यभिन्ना ततोऽपृथक् ।।
भावाभावविभिन्ना चेत्पृथक्ता न परस्परम् ।। ९६३ ।।
अन्यापेक्षं पृथक्त्वं चेत्स्वयं तर्ह्यपृथग्घटः ।।
द्विधर्मत्वेऽपि वस्त्वेतदेकं स्यादुत्पलादिवत् ।। ९६४ ।।
धर्मबुद्धिप्रभेदेऽपि धर्म्यभेदः सदेष्यते ।।
अतो गवादेर्भेदेऽपि सन्मात्रमवसीयते ।। ९६५ ।।
गोत्वादिमेयपक्षेऽपि सद्रूपस्यानपायतः ।।
वस्त्वेव मेयं गोत्वादि शाबलेयादिवत्स्फुटम् ।। ९६६ ।।
सद्रूपत्वापरित्यागादवान्तरनिबन्धनाः ।।
व्यवहाराः प्रतीयन्ते सत्तत्त्वं तेष्ववस्थितम् ।। ९६७ ।।
सत्तातोऽपि न भेदः स्याट्ट्रव्यत्वादेः कुतोऽन्यतः ।।
एकाकारा हि संवित्तिः सट्ट्रव्यं सन्गुणस्तथा ।। ९६८ ।।
समवायाच्च संबन्धे नैकरूप्यं विभिन्नयोः ।।
तच्चेत्ततो न विश्वासो, जातावप्येकबुद्धितः ।। ९६९ ।।
संसर्गधर्मता नापि भेदेनानुपलम्भनात् ।।
समवायेन संबन्धे को हेतुरिति नेष्यते ।। ९७० ।।
संयोगश्चेद्वियोगोऽपि समवायेऽनवस्थितिः ।।
स्वतश्चेत्कल्पना व्यर्था द्रव्यस्याप्येकता स्वतः ।। ९७१ ।।
सत्तावगुण्ठिताश्चैते सर्वे भावाः सदैव हि ।।
व्यवहाराय कल्पन्ते भ्रान्तो भेदः सदैव तु ।। ९७२ ।।
येषामपि हि सामान्यभेदवद्वस्तु गृह्यते ।।
तेषामपि कुतो भेदो वस्त्वैक्याद्धर्म्यभेदतः ।। ९७३ ।।
अपि भेदेन या बुद्धिः स्यात्सामान्यविशेषयोः ।।
साऽपि तन्मात्रनिष्ठत्वान्नैव भेदस्पृगिष्यते ।। ९७४ ।।
एकं चेद्भिन्नता नास्ति भेदश्चेदेकता कुतः ।।
चित्रेऽप्यनुगमाभावान्न सामान्यविशेषता ।। ९७५ ।।
स्वरूपपररूपाभ्यां यदा सदसदात्मकम् ।।
वस्त्वेकं मानविषयभावस्ते तदा कुतः ।। ९७६ ।।
प्रत्यक्षादिनिवृत्तिश्चेत्तस्याः किं रूपमुच्यताम् ।।
स्तैमित्यमात्मनश्चेत्स्यात्तद्वस्त्वेवास्मदीहितम् ।। ९७७ ।।
अथ वस्त्वन्तरज्ञानं नितरां तस्य वस्तुता ।।
भावान्तरमभावोऽपि निरूपाख्यः स नेष्यते ।।
तस्माद्वस्त्वेकनिष्ठत्वान्न भेदोऽक्षादिगोचरः ।। ९७८ ।।
घटोऽयमिति संवित्तेर्घटो मेयः प्रतीयते ।।
न व्यावृत्तिः पटादीनामताद्रूप्यात्तथा पटे ।। ९७९ ।।
घटाभावो विरोधित्वान्न घटेऽर्थान्तरेऽपि न ।।
अषष्ठ्यर्थतया तस्माद्विकल्पोऽयं, न वस्तुगः ।। ९८० ।।
घटो हि संविदं कुर्वन्नात्माकारविशेषणम् ।।
आत्मानं लभते तद्वद्व्यावृत्तिं न पटादितः ।। ९८१ ।।
पटसंवेदनेऽप्येवं पटमात्रं विशेषणम् ।।
ईक्षतेऽत्राधिकं नान्यदभावादि यदुच्यते ।। ९८२ ।।
संदिग्धनिश्चयाद्येवं ज्ञानधर्मो विशेषयन् ।।
संविदं भिद्यते मेयात्प्रत्येकं भेदधीर्न तु ।। ९८३ ।।
तथाऽहमेव जानामि माता नान्य इतीदृशाः ।।
मातृधर्माः प्रसिध्यन्ति विशिषन्तः स्वसंविदम् ।। ९८४ ।।
संविदेका स्वतःसिद्धआ प्रत्यग्रूपैकलक्षणा ।।
भावाभावदिरूपाय व्यवहाराय कल्पते ।। ९८५ ।।
अतोऽनुभवमुल्लङ्ध्य न भेदो नाप्यभिन्नता ।।
तत्पृष्ठेन तु मानानि विरोधः किंसमाश्रयः ।। ९८६ ।।
अविज्ञातः प्रमाणानांं विषयो वादिनां मतः ।।
न तस्य मानतः सिद्धिस्तत्सिद्धेः प्राक्प्रमागमात् ।। ९८७ ।।
अमानकं कथं च स्यादज्ञातत्वमिहोच्यताम् ।।
कथं वा तद्विना मानं विषयासंभवाद्भवेत् ।। ९८८ ।।
अज्ञातत्वक्षतिं कुर्वन्मानं मानत्वमश्नुते ।।
मानादज्ञातता चेत्स्यान्न सा तत्फलमिष्यते ।। ९८९ ।।
अतोऽनुभवतो लब्धमज्ञानं ज्ञापयत्सदा ।।
प्रत्यक्षादि प्रमाणं स्यान्न स्वतो नापि चान्यतः ।। ९९० ।।
नाज्ञासिषमहं पूर्वमित्येवं प्रमिते घटे ।।
पूर्वाज्ञातत्वविषयो भूयोऽप्यनुभवो यतः ।। ९९१ ।।
प्रवृत्तं विषये मानमवच्छेदफलं मतम् ।।
ज्ञाताज्ञाते प्रति त्वस्य न व्यापारोऽप्रमाणतः ।। ९९२ ।।
सर्वोऽप्यनुभवात्सिद्धां बालोऽप्यज्ञाततां स्वतः।।
न किंचिज्जान इत्यवं पृष्टो वक्ति प्रमां विना ।। ९९३ ।।
निःशेषकरणग्रामलयेऽप्यनुभवः स्वतः ।।
अलुप्तदृक्सुषुप्तेऽपि जाग्रद्बोधाविशेषतः ।। ९९४ ।।
अत्यन्ताननुभूतेषु हिमवत्पृष्ठवस्तुषु ।।
जाग्रतोऽनुभवोऽप्येवं सुषुप्तान्न विशिष्यते ।। ९९५ ।।
न चात्रानुभवो लुप्तो न जानामीति बोधनात् ।।
अदृष्टमपि दृष्ट्वाऽस्ति बोधो नाज्ञासिषं त्विति ।। ९९६ ।।
पुमान्सुप्तोत्थितोऽप्येवं प्रमात्रादिलयं स्वतः ।।
अनुभूत्यैव संधत्ते नान्तराऽतोऽस्य लुप्तता ।। ९९७ ।।
न चेदानींतनाद्बोधाद्बोधाभावगतिर्भवेत् ।।
सौषुप्ती, नहि बोधस्य कालभेदेन भिन्नता ।। ९९८ ।।
बोधादेव प्रसिध्यन्ति कालावस्थादयो यतः ।।
मातृमानादयश्चापि कुतस्तैरस्य विक्रिया ।। ९९९ ।।
प्रमातृमानतन्मेयेष्वागमापायिषु त्रिषु ।।
अलुप्तानुदितो बोधः प्रथते प्रत्यगेकलः ।। १००० ।।
अभितोऽनुभवाक्रान्ता ज्ञाताज्ञातत्वभूमिषु ।।
नान्यत्रार्थाः प्रसिध्यन्ति लीयन्ते नाप्यनात्मनि ।। १००१ ।।
अतोऽनुभव एवैको विषयोऽज्ञातलक्षणः ।।
अक्षादीनां स्वतःसिद्धो यत्र तेषां प्रमाणता ।। १००२ ।।
तेनानुभवसिद्धानां लोकेऽज्ञानविघातिनाः ।।
मात्वमक्षादयो यान्ति नाज्ञातज्ञाततोऽन्यथा ।। १००३ ।।
घटादयः प्रमासिद्धा मुञ्चन्त्यज्ञाततां न तु ।।
स्वतःसिद्धोऽपि वस्तुत्वान्मुञ्चत्यात्मा प्रमां विना ।। १००४ ।।
प्राग्बाधकागमात्सिद्धिर्लौकिकस्यापि वस्तुनः ।।
वस्तुतत्त्वबलादेव तत्तमोव्यवधानतः ।। १००५ ।।
कृतस्नमात्राद्युपादानतमोबोधस्तु बोधतः ।।
तत्त्वमस्यादिवाक्योत्थात्पूर्णैकात्म्यस्वलक्षणात् ।। १००६ ।।
तेनाऽऽगमस्य तत्र स्यादज्ञातत्वविघातिनः ।।
प्रमाणत्वं पुमर्थश्च स एऴ विदुषां मतः ।। १००७ ।।
ननु दुर्वारसंसारदुःखसंदर्भहानतः ।।
किमन्यत्सुखमिष्टं स्याद्यस्याऽऽप्तेः पुरुषार्थता ।। १००८ ।।
लोकेऽपि व्याधिसंतापविच्छित्तौ सुखितेक्ष्यते ।।
व्यतिरिक्तसुखार्था च न प्रवृत्तिर्विरागिणाम् ।। १००९ ।।
असंवेद्यं सुखं नापि पुमर्थो न च कर्मता ।।
स्वरूपे वेद्यवेत्तृत्वायोगाद्दूैतप्रसङ्गतः ।। १०१० ।।
नैवं भेदेन संसिद्धे सुखदुःखे कथं तयोः ।।
ऐक्यं सुखस्य विच्छेदो दुःखं वा किं न कल्प्यते ।। १०११ ।।
अदुःखिनोऽपि दृश्यन्ते सुखप्राप्तीच्छया यतः ।।
तदुपाये प्रवर्तन्तस्तदभेदे न युज्यते ।। १०१२ ।।
चन्दनादिसुखोपायसंपन्नाः सुखिनोऽप्यलम् ।।
पुत्रजन्मादिवार्ताभिः प्राप्नुवन्ति सुखान्तरम् ।। १०१३ ।।
पुत्राद्यप्राप्तिरूपं च दुःखं तत्र न कल्प्यते ।।
असंवित्तेरवेद्यं हि न दुःखं वैरिदुःखवत् ।। १०१४ ।।
तिर्यञ्चोऽप्यत एवेह कामयन्ते सुखं तथा ।।
अप्रियं विजिहासन्ति न तु जानन्ति साधनम् ।। १०१५ ।।
वेदोऽपि शुद्धमात्मानं सुखं मुख्यं प्रदर्शयन् ।।
अनात्मानं तथा दुःखं पुमर्थत्वेन संमतः ।। १०१६ ।।
तदेतत्प्रेय इत्यादिवाक्येभ्योऽनेकधा श्रुतम् ।।
तथाऽऽत्मनस्तु कामाय तस्मान्नान्यत्सुखं भवेत् ।। १०१७ ।।
पुरुषार्थाभिसंबन्धाद्विरागित्वं यथाऽऽश्रितम् ।।
परानन्दाभिलाषोऽपि तथा चेत्किं निषिध्यते ।। १०१८ ।।
आत्यन्तिकसुखेच्छायां यदि रागित्वमुच्यते ।।
विविक्तदेशसेवादाविच्छायां किं न रागिता ।। १०१९ ।।
अथ ये शतमित्यादिवाक्यैरेतत्प्रपञ्चितम् ।।
एष ह्येवेति च व्यक्तं तैत्तिरीयश्रुतावपि ।। १०२० ।।
स्वानन्दाभिमुखः स्वापे वोध्यमानोऽत एव च ।।
पीड्यते स्त्र्यादिसंपर्कसुखविच्छेदतो यथा ।। १०२१ ।।
आनन्दैकस्वभावत्वाद्वेद्यता तत्र नार्थ्यते ।।
निःसंबोधेऽर्थ्यते सा हि न तु बोधैकलक्षणे ।। १०२२ ।।
अधिकारस्य सौलभ्यप्रतिपत्त्यर्थमीरणम् ।।
सर्वपुंसामिति तथा पूर्वमेव प्रपञ्चितम् ।। १०२३ ।।
स्वर्गादिकाम्यपि यतो मुक्तिं कामयते न तु ।।
मुक्तिं कामयमानोऽन्यत्कटाक्षेणापि वीक्षते ।। १०२४ ।।
सर्वेषामपि च नृणामधिकारोऽनिवारितः ।।
यतोऽतः सर्वतो ऩ़ृणामिति भाष्यकृदब्रवीत् ।। १०२५ ।।
शुक्लां गामानयेत्युक्ते कांचिद्गोकर्मिकां क्रियाम् ।।
कुर्वाणमभिवीक्ष्याज्ञः कुरुते कारणानुमाम् ।। १०२६ ।।
ज्ञातं ध्रुवमनेनैतद्यद्गोकर्मकमीक्ष्यते ।।
प्रागज्ञातस्य निर्वत्तिर्न यतो विक्ष्यते कच्चित् ।। १०२७ ।।
यद्यर्थं कारकाधीनं दृष्ट्वा तत्कारणानुमा ।।
प्रमाणान्तरगम्यत्वाल्लोकिकत्वं तदाऽऽपतेत् ।। १०२८ ।।
न चेत्कारकतन्रोऽर्थो ज्ञातस्यानुष्ठितिः कथम् ।।
न सिद्धो नापि चाभावः कारकापेक्ष ईक्ष्यते ।। १०२९ ।।
आरभ्ये कारकत्वे न बलात्प्रामाण्यमापतेत् ।।
व्यङ्ग्ये तु कार्ये वेदस्य सिद्धेऽर्थे मानता भवेत् ।। १०३० ।।
वाक्यस्य च प्रमाणत्वं नाप्यभावैकगोचरम् ।।
न चेदभावः कार्योऽर्थेः सिद्धेऽर्थे मानता भवेत् ।। १०३१ ।।
अथोभयात्मकं कार्यं सिद्धासिद्धस्वभावकम् ।।
उक्तदोषद्वयासक्तिर्न च वस्तवीदृशं क्वचित् ।। १०३२ ।।
सिद्धस्य व्यञ्जकं मानं न मानं कारकं क्वचित् ।।
चोदना मानकं चेत्तत्कथं कार्यं तदुच्यताम् ।। १०३३ ।।
मतं विषयसंसिद्ध्या कार्यमित्याभिधीयते ।।
यागसिद्धेः पुराऽसिद्धेः कथं चोदनया मितम् ।। १०३४ ।।
प्राक्प्रयोक्त्रभिसंसिद्धौ किं फलं यागसिद्धितः ।।
यागसिद्ध्याऽपि तत्सिद्धौ प्रयोज्यत्वं कुतो यजेः ।। १०३५ ।।
यागाद्यनुष्ठितेरस्य घटादेरिव चेन्मतः ।।
उपकारो नियोगस्य कथं न घटतुल्यता ।। १०३६ ।।
अपुमर्थे नियोगे च तात्पर्यं स्यात्तथा सति ।।
प्रतिर्थिनि पुमर्थे तत्सुधीभिर्गृह्यते कथम् ।। १०३७ ।।
लिङादिश्रवणात्पुंसः कार्यं यत्प्रसमीक्ष्यते ।।
उपकाराद्यपेक्षं तद्वक्तृकर्त्रोः प्रसिध्यति ।। १०३८ ।।
न चेत्संभाव्यते कर्त्रा पुमर्थः कस्यचिद्विधेः ।।
आज्ञोक्तेरेव न तदा कश्चिज्जगति चेष्टते ।। १०३९ ।।
आज्ञार्थमात्रसिद्ध्यर्थं न कश्चित्स्ववशो नरः ।।
दुःखात्मके मनो धत्ते यागादौ चोदनावशात् ।। १०४० ।।
पुमर्थमभिसंधाय यागादावथ चेष्टते ।।
फलं प्रवर्तकं प्रापन्न नियोगस्तथा सति ।। १०४१ ।।
मन्त्रोक्तेरिव लोडादेः प्रवृत्तिरिति चेन्मतम् ।।
प्रायश्चित्ती भवेन्नैव तत्पराधीनवृत्तितः ।। १०४२ ।।
प्रवर्तकत्वं मन्त्रस्य न प्रवर्त्यवशाद्यथा ।।
स्वत एव न यागादेः कार्यासिद्धिस्तथा भवेत् ।। १०४३ ।।
कारकं वा क्रिया वा स्याद्यदि वा स्यात्क्रियाफलम् ।।
तस्य लौकिकमासिद्धेर्लौकिकत्वं प्रसज्यते ।। १०४४ ।।
ऐकात्म्यवस्तुनिष्ठे तु यथोक्तन्यायवर्त्मना ।।
न कश्चिदपि दोषः स्याद्वचस्यस्मिन्मनागपि ।। १०४५ ।।
नेति नेत्यादिवाक्येभ्यो योऽर्थोऽनन्यानुभूतिगः ।।
लौकिकत्वं कथं तस्य सर्वमेयातिलङ्धिनः ।। १०४६ ।।
इत्युक्तमभिसंधाय दृष्टादिवचनं जगौ ।।
लोकिकत्वप्रसिद्धर्यर्थं नियोगस्य घटादिवत् ।। १०४७ ।।
आस्तां वेदान्तमानत्वं त्यक्तं तत्कामतस्तव ।।
वस्तुन्युक्तेर्न चेन्मात्वं कर्मकाण्डेऽपि तद्भवेत् ।। १०४८ ।।
भविष्यद्देहसंबन्धी वाक्यादात्मा न चेन्मितः ।।
मानान्तराच्च कः कुर्याददृष्टार्थाः क्रियाः सुधीः ।। १०४९ ।।
नापि सांख्यप्रमासिद्धमात्मानमवगच्छतः ।।
देहाद्यनभिसंबन्धात्प्रवृत्तिः स्यात्क्रियास्विह ।। १०५० ।।
कर्मकाण्डेऽधिकार्यस्मिन्याट्टक्संभाव्यतेऽञ्चसा ।।
ताट्टक्संप्रतिपत्त्यर्थं न चासतीति भण्यते ।। १०५१ ।।
कर्मभ्यः फलमिच्छद्भिरट्टष्टं ट्टष्टमेव वा ।।
देहावस्थान्तरावेशे प्रमाणं वाच्यमात्मनः ।। १०५२ ।।
कथं च तस्य कर्तृत्वं व्यापित्वान्निष्क्रियत्वतः ।।
न चाकर्तुः फलं गौण्या वृत्या चेत्सुतरां न तत् ।। १०५३ ।।
मुख्यकर्तृत्वपक्षेऽपि ह्यनिर्मोक्षः प्रसज्यते ।।
मानेन नाश्यतेऽज्ञानं, ज्ञापकं हि न कारकम् ।। १०५४ ।।
देहान्तराभिसंबन्धो भावित्वान्नाक्षगोचरः ।।
लिङ्गसाट्टश्यविराहान्नानुमा नोपमा तथा ।। १०५५ ।।
शब्दादात्मनि संसिद्धे पूर्वोक्तन्यायतो न च।।
श्रुतार्थापत्तिरप्यत्र नाभावो मानभावतः ।। १०५६ ।।
न चाहंप्रत्ययात्सिद्धिरात्मनः स्यात्कदाचन ।।
बोधानुभवसंवित्तिवित्तयो ह्यात्मवाचिनः ।। १०५७ ।।
यस्यानुभवसिद्ध्यैव सिद्धिः स्याद्वटसिद्धिवत् ।।
ततोऽहंप्रत्ययात्सिद्धिमीक्षतेऽनुभवः ।। कथम् ।। १०५८ ।।
मानादनुभवः सिद्धो जडः स्याद्धटवन्न चेत् ।।
नैरपेक्ष्यं चिदात्मत्वे,स्याच्चान्योन्यसमाश्रयः ।। १०५९ ।।
आत्मनोऽहंधियः सिद्धिरात्मसिद्धिरहंमते ।।
अन्योन्याश्रयतैवं स्यादहंबुद्ध्यात्मनोर्ध्रुवम् ।। १०६० ।।
अहंधीरात्मनः कार्यं कारणेनाऽऽप्यते सदा ।।
तया तस्य कथं व्याप्तिरव्याप्तौ मेयता कथम् ।। १०६१ ।।
क्रियाकाले गुणीभावात्क्रियासिद्धावसंभवात् ।।
कर्तुः प्रमेयता न स्यादहंबुद्ध्या कथंचन ।। १०६२ ।।
संविद्रूपे प्रमेये च संविदन्या फलं भवेत् ।।
न च संविद्धूयाभासो नानुमेयं फलं क्वचित् ।। १०६३ ।।
घटाद्याकारसंविद्वच्छुद्धायामपि संविदि।।
संविद्विशिष्टा संवित्स्यान्न चासावात्मनीक्ष्यते ।। १०६४ ।।
प्रमातरि च मेये स्यात्फलं कस्येति भण्यताम् ।।
न मातुस्तस्य मेयत्वान्नापि मेये फलं क्वचित् ।। १०६५ ।।
जडत्वात्तत्र मेयस्य फलं मातरि चेन्मतम् ।।
मेयतो जडताऽत्रापि संविच्चेन्न प्रमाणजा ।। १०६६ ।।
धर्मत्वेनाप्यहंबुद्धेर्न भेदो धर्मिणाऽऽत्मना ।।
रूपं द्रव्यात्मनो नान्यट्ट्रसादेस्तद्विभिद्यते ।। १०६७ ।।
द्रव्यादि चाऽऽत्मनो रूपं प्रमेयं यदुदीरितम् ।।
घटवत्तदहंबुद्धेः प्रत्यग्वृत्तेर्न गोचरः ।। १०६८ ।।
अस्मत्प्रत्ययसंभिन्नं प्रत्यक्कर्तरि वेदनम् ।।
ज्ञानस्य यदुपन्यस्तं विशेषस्तत्र नेक्ष्यते ।। १०६९ ।।
ज्ञानबोधेन नैवाऽऽत्मा मितो, नाप्यात्मसंविदा ।।
ज्ञानं, न च द्वयंं, भेदादभेदेऽनुभवः स्वतः ।। १०७० ।।
किं प्रमाणमहंरूपमुताऽऽत्मैवेति कथ्यताम् ।।
प्रत्यक्षत्वान्न तन्मानं नाऽऽत्मा, स्वार्थजडत्वतः ।। १०७१ ।।
न चाप्यात्मन्यविज्ञातेऽहंबुद्धेः सिद्धता तव ।।
येनाऽऽत्मा स्यादहंबुद्धेरनुमेया हि सा स्थिता ।। १०७२ ।।
निरंशस्य न चाप्यंशकल्पनाऽप्युपपद्यते ।।
स्वात्मतन्रे च विषये मानबोधः सदा भवेत् ।। १०७३ ।।
अज्ञातत्वं विना मानं नाहंप्रत्यय आत्मनः ।।
अज्ञातत्वमतो वाच्यमात्मनोऽत्र घटादिवत् ।। १०७४ ।।
तस्याप्यनुभवात्सिद्धिर्यद्युच्येत घटादिवत् ।।
सिद्ध आत्मा पृथङ्यातुर्नो चेन्माता न सिध्यति ।। १०७५ ।।
प्रमाणसंप्लवोऽप्युक्तो दूरादेव निवर्तितः ।।
अन्यत्रापि हि मानानां नैव संप्लवं इष्यते ।। १०७६ ।।
अज्ञातावगमे यद्वत्प्रमातर्यर्पितं फलम् ।।
न मेये पूर्वमानेन तद्वन्मानान्तरैरपि ।। १०७७ ।।
अतोऽनधिगतावेशात्सर्वेषां संप्लवः कुतः ।।
मान्तरैरवबुद्धेऽपि ज्ञातेऽप्यज्ञाततोऽन्यतः ।। १०७८ ।।
अथाप्यवगमो मेये तथाऽपि स्यान्न संप्लवः ।।
पूर्वोऽनधिगते वृत्तः प्रत्ययोऽधिगते परः ।। १०७९ ।।
पूर्वेण निश्चिते चेत्स्यान्नोत्तरस्य प्रमाणता ।।
तथा संदेह एकस्मादन्यस्माद्धि विनिश्चयः ।। १०८० ।।
निःसामान्यविशेषेषु नातः संप्लव इष्यते ।।
यथाऽन्यत्र तथेहापि वेदान्तेष्वभ्युपेयताम् ।। १०८१ ।।
यतो मानानि सिध्यन्ति जाग्रदादित्रयं तथा ।।
भावाभावविभगश्च स ब्रह्मास्मीति बोध्यते ।। १०८२ ।।
यतोऽसिद्धानि सिध्यन्ति, भावाभावौ यदाश्रयौ, ।।
योऽनन्यार्थो यदर्थं च सर्वं, योऽनन्यट्टक्सदा ।। १०८३ ।।
प्रमेयादित्रयं यस्मात्परस्परविलक्षणम् ।।
आत्मानं लभते सत्यः सोऽध्यक्षोत्राभ्युपेयताम् ।। १०८४ ।।
असंकुचितचित्पद्मः प्राज्ञे स्वप्नप्रबोधवत् ।।
तथा प्रफुल्लबोधाब्जः प्राज्ञवत्स्वप्नबोधयोः ।। १०८५ ।।
साक्ष्यसंबन्धतः साक्षी न स्वतः साक्षिताऽऽत्मनः ।।
प्रत्यङ्यात्रैकट्टष्टित्वाद्धियां वाचामगोचरः ।। १०८६ ।।
अस्मत्पक्षे हि कर्तव्यमविद्यामात्रकल्पितम् ।।
तदभावान्न संसारो भूतो भावी न वर्तते ।। १०८७ ।।
स्वाभाविक्यप्यविद्येयमनुभूत्याऽवभासिता ।।
तमः सूर्योदयेनेव ज्ञानेनोत्कृत्य नाश्यते ।। १०८८ ।।
अनादिकालमज्ञानं ज्ञानेनाऽऽदिमता क्षणात् ।।
दृश्यते नाश्यमानं हि न चास्याऽऽवृत्तिरीक्ष्यते ।। १०८९ ।।
एवंभूतोऽप्ययं प्रत्यक्स्वात्मानुभवसंश्रयात् ।।
व्युत्पत्तेः प्रागविज्ञातः सर्वाज्ञानादिसाक्ष्यपि ।। १०९० ।।
तत्त्वमस्यादितस्तस्मादागमादेव नान्यतः ।।
ऐकात्म्यवस्तुनः साक्षाद्व्युत्पत्तिरविचीलिनी ।। १०९१ ।।
तस्यास्य कर्मकाण्डेन संबन्ध इति यः पुरा ।।
प्रश्नस्तन्निर्णयार्थाय सर्वथेत्यादिरुत्तरः ।। १०९२ ।।
ननु सिद्धे यथोक्तार्थे नाऽऽरम्भे हेतुरीक्ष्यते ।।
कृत्स्नप्रयोजनावाप्तेः पूर्वोक्तैरेव कर्मभिः ।। १०९३ ।।
नैतदेवं सुखेप्साया जिहासायाश्च दुःखतः ।।
निदानस्यानिषिद्धत्वात्पूर्वोक्तैः कर्मभिः पुरा ।। १०९४ ।।
निःशेषाहलादसंप्राप्तिः सर्वानर्थनुतिस्तथा ।।
सर्वेषां प्राणिनामेतत्स्वत इष्टं प्रयोजनम् ।। १०९५ ।।
आत्मनस्तचत्त्वमेतच्च सिद्धं चैतन्यवद्यतः ।।
अथैष, यो वै भूमेतिश्रुतिमानानुभूतितः ।। १०९६ ।।
स्वर्गशब्दाभिधश्चायं पुमर्थो यो यथोदितः ।।
स्वर्गमित्यादिभिर्वाक्यैस्रय्यन्तेष्वपि गीयते ।। १०९७ ।।
स्वर्गं पुमर्थमुद्दिश्य सर्वप्राणभृतामियम् ।।
वाङ्यनःकायचेष्टा स्याद्याऽपि तत्साधनोपगा ।। १०९८ ।।
उत्पत्त्याद्यर्थनिष्ठानां सर्वेपामपि कर्मणाम् ।।
स्वर्गे नैवाधिकारोऽस्ति तस्य सिद्धत्वतः स्वतः ।। १०९९ ।।
स्वात्मसाध्यातिरेकेण सर्वमेव हि साधनम् ।।
नालं साध्यान्तरायेह किम्वसाध्यार्थसिद्ध्ये ।। ११०० ।।
यथोक्तपुरुषार्थस्य यद्यप्याप्तस्वभावता ।।
आत्मस्वभावतो नाऽऽप्तिस्तथाऽप्यज्ञानहेतुतः ।। ११०१ ।।
अविद्याव्यवधानस्य नाऽऽत्मज्ञानातिरेकतः ।।
प्रध्वस्तिः कर्मभिः कर्तुं शक्या तेषाममानतः ।। ११०२ ।।
व्यञ्जकं विरहय्यान्यत्साधनं कारकात्मकम् ।।
तदभिव्यक्तये नालं स्वतःसिद्धस्य वस्तुनः ।। ११०३ ।।
कर्मभिर्नापनीतोऽतः प्रत्यङ्भ्योहोऽप्रमाणतः ।। ११०४ ।।
यावच्च सम्यग्विज्ञानवह्निनाऽसौ न दह्यते ।।
न तावत्किं चिदप्याप्तं सुखं दुःखविवर्जितम् ।। ११०५ ।।
नालं विमुक्तये काम्यं यदि नाम तथाऽपि तु ।।
पुंसो वैराग्यहेतुत्वादुपकार्येव तन्मतम् ।। ११०६ ।।
असह्यदुःखफलतः स्वकार्यविनिवृत्तिकृत् ।।
विरक्तिहेतुतः कर्म प्रतिषिद्धं यथा तथा ।। ११०७ ।।
अपि काम्यं कृतं सर्वं दुःखात्मकफलत्वतः ।।
आविरिञ्च्यात्स्वकार्येभ्यः स्यादेव विनिवृत्तये ।। ११०८ ।।
इ्त्युक्तप्रतिपत्त्यर्थमाजगामोत्तरं वचः ।।
एकवाक्यत्वमेवं च वेदस्य स्यादसंशयम् ।। ११०९ ।।
दक्षिणोदगधोगत्या प्रत्यगज्ञानमूढधीः ।।
ब्रम्भ्रमीत्यनिशं दुःखी पुमान्कर्मपुरःसरः ।। १११० ।।
काम्यैर्दक्षिणमन्वेति ज्ञानयुक्तैस्तथोत्तरम् ।।
निषिद्धैश्चाप्यधोजन्म कर्मसंभारसंभृतकः ।। ११११ ।।
धर्माधर्मांशसाम्ये च मनुष्यत्वं प्रपद्यते ।।
ब्रह्माद्या स्थावरान्तैवं प्रत्यगज्ञानहेतुजा ।।
नामरूपेहचित्राऽऽद्या स्वप्नमायेन्द्रजालवत् ।। १११२ ।।
धर्माधर्माद्युपादानसाधना नश्वरी गतिः ।। १११३ ।।
व्याकृतं नामरूपाभ्यां यद्यपीदं श्रुतौ श्रुतम् ।।
आत्मतत्त्वानभिव्यक्तेर्नाभिव्यक्तं तदुच्यते ।। १११४ ।।
अविद्यातिमिरोच्छित्तौ नानाविष्कृतमण्वपि ।।
कार्यकारणवद्वस्तु नानपास्तं तमोऽप्यतः ।। १११५ ।।
यत एवमतः प्रत्यग्याथात्म्यप्रतिपत्तये ।।
प्रारब्धेयं प्रयत्नेन वेदान्तोपनिषत्परा ।। १११६ ।।
यथोक्तफलसिद्ध्यर्थमारब्धोपनिषद्यदि ।।
ब्रह्म वा इदमित्यादि कस्मान्नाऽऽरभ्यतेऽधुना ।। १११७ ।।
येषामनधिकारोऽत्र ह्यश्वमेधक्रतौ भवेत् ।।
इत एव तु विज्ञानातेषां तत्फलकीर्तनम् ।। १११८ ।।
कर्मगोचरतैवात्र विज्ञानस्यापि चेन्मतम् ।।
विकल्पश्रवणान्मैवं कर्मणा विद्ययाऽथवा ।। १११९ ।।
यजते योऽश्वमेधेन यश्चैवं वेद तं क्रतुम् ।।
फलं तुल्यं तयोर्युक्तं कर्मिणो विदुषस्तथा ।। ११२० ।।
उपास्तेरपि कर्मत्वादश्वमेधक्रतोरिव ।।
नातो धियोऽर्थवादत्वं तद्विधेर्नितरां न च ।। ११२१ ।।
एतावदेव चेदत्र भवतैवं विवक्षितम् ।। ११२२ ।।
प्रयोजनं तत्सुकरं विध्युद्देशेऽपि भाषितुम् ।।
विद्याप्रकरणे तस्य त्वाम्नायः किमितीर्यताम् ।। ११२३ ।।
सोऽपि ज्ञानेन संयुक्तो हयमेधो महाक्रतुः ।।
संसारफल एवेति प्रवृत्त्यङ्गतयोच्यते ।। ११२४ ।।
प्रत्यग्बोधातिरेकेण साधनान्तरनिस्पृहाः ।।
निर्ज्ञाताशेषकर्मोत्थफलफल्गुत्वबुद्धयः ।। ११२५ ।।
मुमुक्षवः प्रवर्तेरन्कथं नामाऽऽत्मवेदने ।। ११२६ ।।
संसारफलता काममस्तु काम्यस्य कर्मणः ।।
नित्यानामफलत्वात्तु मुक्तिरेवास्तु तत्फलम् ।। ११२७ ।।
न ह्युत्सर्गेण सर्वेषां फलवत्त्वस्य संश्रवात् ।।
कर्मणा पितृलोकादि नित्यानामेव तत्फलम् ।। ११२८ ।।
फलवत्त्वे हि नित्यानां काम्यत्वमिति चेन्मतम् ।।
नैवं शुद्धिप्रमाणत्वाद्भोगनिष्ठस्य काम्यता ।। ११२९ ।।
काम्येऽपि शुद्धिरस्त्येव भोगसिद्धर्यर्थमेव सा ।।
विड्वराहादिदेहेन न ह्यैन्द्रं भुज्यते फवम् ।। ११३० ।।
नित्येषु शुद्धेः प्राधान्याद्भोगोऽप्यप्रतिबन्धकः ।।
भोगं भङ्गुरमीक्षन्ते बुद्धिशुद्ध्यनुरोधतः ।। ११३१ ।।
तमेतमित्यतश्चोच्चैर्वेदानुवचनादिना ।।
विरक्ताः सर्वसंसाराज्जिज्ञासन्ते परं पदम् ।। ११३२ ।।
आरादेवोपकुर्वन्ति नित्यान्यात्मविशुद्धितः ।।
आत्माज्ञानाविरोधित्वात्साक्षान्न त्वात्मबोधवत् ।। ११३३ ।।
त्यक्त्वा कर्माण्यतोऽसङ्गाः प्रत्यक्प्रवणबुद्धयः ।।
अपास्तरागादिमला ईक्षन्ते ज्ञं स्वमात्मनि ।। ११३४ ।।
अतोऽशेषमहानर्थहेत्वात्माज्ञानहानिकृत् ।।
प्रत्यग्याथात्म्यविज्ञानभास्करोदयहेतवे ।।
आरब्धेयं प्रयत्नेन वेदान्तोपनिषत्परा ।। ११३५ ।।
शतानि दश चैकं च चत्वारिंशत्तथाऽष्ट च ।।
श्लोकाः संबन्धभाष्येऽस्मिन्संख्याताः संख्ययाऽखिलाः ।। ११३६ ।।
तत्राश्वविषयं तावदादौ दर्शनमुच्यते ।।
प्राजापत्यत्वहेतोश्चाप्यश्वनामाङ्कितत्वतः ।। १ ।।
अश्वस्य यच्छिरः साक्षात्तदुषा इति चिन्तयेत् ।।
हरेरवयवेष्वेवं योज्या कालादिदृष्टयः ।। २ ।।
संस्कार्यत्वात्पशोरेवं दृष्टीरङ्गेषु योज्येत् ।।
कालादावमरवाङ्गत्वान्नाश्वदृष्टिर्विधित्स्यते ।। ३ ।।
सत्स्वश्वादिषु कालादिदृष्टीरङ्गेषु योजयेत् ।।
असत्स्वात्मानमेवाश्वं कल्पयित्वा नियोजयेत् ।। ४ ।।
कर्तारमश्वमग्निं च चित्यं सर्वं प्रजापतिम् ।।
अश्चमेधफलं चार्कं वेत्ति मृत्युं यथोदितम् ।। ५ ।।
अकर्ताऽप्यश्चमेधस्य ब्राह्मणश्चेह बुद्धिमान् ।।
क्रत्वात्मा मृत्युरस्मीति तादात्म्यं सोऽधिगच्छति ।। ६ ।।
अश्वसंज्ञपनात्पूर्वं तथोर्ध्वं चापि हाटक -
राजतात्मकपात्राभ्यां गृह्येते तत्र यौ ग्रहौ ।।
महिमाख्यौ तयोरेतदहर्वा इति दर्शनम् ।। ७ ।।
व्यत्ययेनाववोद्धव्या प्रथमार्थे च सप्तमी ।। ८ ।।
समुद्र ईश्वरो ज्ञेयो योनिः कारंणमुच्यते ।।
सर्वस्य जगतो यंस्मादीश एवेह कारणम् ।। ९ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके प्रथमं ब्राह्मणम्
अथाग्नेरुच्यते जन्म हयमेधोपयोगिनः ।।
तद्दर्शनविधित्सायैस्तुत्यर्थोत्पत्तिरिष्यते ।। १ ।।
नामवद्रूपवच्चेह कारणं यावदीक्ष्यते ।।
नाभूत्तत्प्राक्समुत्पत्तेः प्राणाद्युत्पत्तिसंश्रवात् ।। २ ।।
कार्यमुत्पत्तिमत्त्वाच्चेत्प्रागुत्पत्तेर्निषिध्यते ।।
कारणस्य त्वनुत्पत्तेरनिषेधस्तथा सति ।। ३ ।।
तथा चानुपलब्धेश्च कार्यस्यैवास्तु नास्तिता ।।
कारणस्य न नास्तित्वमुक्तहेत्वोरसंभवात् ।। ४ ।।
सर्वस्यानुपलब्धेस्तु मैवं वोचो यतः श्रुतिः ।।
नैवेह किंचनेत्याह कारणेतरनिहनुतिम् ।। ५ ।।
नैवं यतः श्रुतिः साक्षात्सत्त्वमेवावदत्स्वयम् ।।
कार्यकारणयोः स्पष्टं मृत्युनैवेति सादरा ।। ६ ।।
मृत्युना कारणेनेदं कार्यं सर्वं समावृतम् ।।
इति नावक्ष्यद्यद्येतदुभयं नाभवत्पुरा ।। ७ ।।
प्राणपिण्डादिकार्याणां समुद्रः परमेश्वरः ।।
बन्धुः कारणमात्मोक्तो मृत्युरत्र स एव तु ।। ८ ।।
ज्ञानमात्रसतत्त्वं यह्ब्रह्माज्ञातसतत्त्वकम् ।।
मृत्युर्जनिमतः साक्षात्तत्र कार्याप्ययत्वतः ।। ९ ।।
सद्बीजं सत्प्रतिष्ठं च सदायतनमेव च ।।
प्रत्यक्षमेत्र सत्सिद्धं सदन्यस्याप्रसिद्धितः ।। १० ।।
असत्सदतिरेकेण यदि वाऽव्यतिरेकतः ।।
व्यतिरेके सदेवासदसद्वा तत्किमुच्यते ।। ११ ।।
नेह सद्व्यतिरेकेण स्वमहिम्ना प्रसिध्यति ।।
सर्वस्य सदपेक्षत्वात्सत्तु नान्यदपेक्षते ।। १२ ।।
मतमव्यतिरेकेण सतोऽसत्सत्तदिष्यताम् ।।
कुतोऽदो लभतेऽसत्त्वं यत्सदात्मनि निष्ठितम् ।। १३ ।।
अन्योन्यव्यतिरेकित्वान्नान्योन्यात्मकता तयोः ।।
विरोधित्वाच्च नान्योन्यं संबन्धस्तापशीतवत् ।। १४ ।।
स्फुरताऽपि सतो नान्यदभिधातुं घटादिवत् ।।
शक्यते नाभिधानेन ह्यसद्वस्तु निरुच्यते ।। १५ ।।
वस्तुनोऽतिशयः कश्चिदभाववचसोच्यते ।।
तस्य तेनाभिसंव्याप्तेर्न कथंचिदपहनुतिः ।। १६ ।।
क्रिया वा तत्फलं वा स्यादभावो नाऽऽत्महेतुहा ।।
यो यतो लभते सत्तां निरुणद्धि स तं कथम् ।। १७ ।।
न नाशो हन्ति नष्टारं गन्तारमिव तद्नतिः ।।
यो यतो लिप्सते सिद्धिं स तं हन्ति कथं वद ।। १८ ।।
विज्ञानाव्यतिरेकी चेदभावः स्यात्सहेतुकः ।।
ध्वंसादव्यतिरेकेऽपि धियो नित्यत्वमापतेत् ।। १९ ।।
अतोऽभावत्वसिद्ध्यर्थमभावेनाप्यपेक्ष्यते ।।
स्वहेतुसिद्धिः कार्योऽर्थो न दृष्टः कारणं विना ।। २० ।।
धर्म्यसिद्धिः प्रतिज्ञायां हेतुश्चानाश्रयो भवेत् ।।
न चास्ति कश्चिहृष्टान्तः सर्वशून्यत्ववादिनः ।। २१ ।।
विज्ञानमात्रं यस्यापि जगदेतश्चराचरम् ।।
प्रतिज्ञाहेतुदृष्टान्तैर्ज्ञानं तेनापि दूष्यते ।। २२ ।।
मानाभेदाच्च मेयस्य नाज्ञातार्थः प्रसिध्यति ।।
तादात्म्येऽपि न चेज्ज्ञातो मानात्कोऽतिशयो मतः ।। २३ ।।
अज्ञाताधिगमं कुर्वन्मानं स्यात्सर्ववादिनाम् ।।
न चेच्छुक्तितमोजस्य ज्ञानस्यापि प्रमाणता ।। २४ ।।
विज्ञानाव्यतिरेकित्वादसिद्धादेस्तथैव च ।।
प्रामाण्यवत्प्रसङ्गः स्यादप्रमात्वेऽपि ते ध्रुवम् ।। २५ ।।
अजमेकं स्वतःसिद्धं प्रत्यंग्रूपमनन्यदृक् ।।
वस्त्वेवं चेदिहाभीष्टं किमर्थं साध्यतेऽपरम् ।। २६ ।।
एवंभूतात्मसिद्ध्यर्थं कारणादि प्रसाध्यते ।।
उपायः सोऽवताराय तथा तज्ज्ञैश्च सूत्रितम् ।। २७ ।।
कारणादिनिषेधेन न चाद्वैतमभीप्सितम् ।।
ऐकात्म्यबोधमात्रेण निषेधस्याप्यपहवात् ।। २८ ।।
सतत्त्वकमिदं सर्वमिति संसाध्य यत्नतः ।।
तस्यापि संविन्मात्रेण पूर्णतैवोच्यते सतः ।। २९ ।।
सदेवाऽऽगमतः सर्वं प्रत्यक्षाच्च सदीक्ष्यते ।।
अनुमानाच्च सत्सर्वं यथा तदधुनोच्यते ।। ३० ।।
अनुमेयं च सत्पूर्वं कारणं कार्यमेव च ।।
जगत्प्रसूतेस्तच्चेह प्रयोगेण प्रदर्श्यते ।। ३१ ।।
विवादगोचरापन्नं सत्कारणमिदं भवेत् ।।
कार्यात्मकं मनोऽवादि कार्यत्वात्कटकुम्भवत् ।। ३२ ।।
हेतुमज्जनिमत्सर्वं कार्यत्वात्पटकुम्भवत् ।।
वियदादि च नः कार्यं तदप्येवं प्रतीयताम् ।। ३३ ।।
असत्कारणकं कार्यं तद्विनाश्यास्य जन्मतः ।।
सर्वं स्वहेतुमुन्मूल्य जायतेऽङ्कुरकुम्भवत् ।। ३४ ।।
स्वकारणं चेदुत्साद्य कार्यं सर्वं प्रजायते ।।
तत्कारणविनाशाय तत्सूतेः प्राक्क्व ईर्यताम् ।। ३५ ।।
स्वहेतूच्छित्तयेऽलं चेदजातमपि सद्यदि ।।
द्वयमप्यभ्युपेतं स्यान्न ह्यसद्धन्यतेऽसता ।। ३६ ।।
विनाशस्यापि कार्यत्वात्सोऽपि सत्कारणो मम ।।
न चेत्कार्यो विनाशः स्यान्नाशोऽकार्येण नेष्यते ।। ३७ ।।
स्वकारणविनाशाय सिद्धं घाऽसिद्धमेव वा ।।
अङ्कुरादि मतं कार्यं नोभयत्रापि युज्यते ।। ३८ ।।
सिद्धं चेत्कारणात्सिद्धमुपमर्दे विनैव तु ।।
उत्पन्नेन च तन्नाश उत्पन्नत्वादनर्थकः ।। ३९ ।।
उपमृद्गाति चेत्कार्यमथासिद्धं स्वकारणम् ।।
तत्कारणं कथं तत्स्यान्न चेत्तस्मात्प्रजायते ।। ४० ।।
उपमर्दोऽपि कार्यत्वात्किं न हन्यात्स्वकारणम् ।।
हन्तर्यसति हानोक्तिर्लक्ष्यते शिशुवक्तृका ।। ४१ ।।
नंष्ट्टतत्रो विनाशोऽपि गन्तृतन्त्र गतिर्यथा ।।
नास्तीह कश्चिद्धात्वर्थो यः स्वहेतुं विनाशयेत् ।। ४२ ।।
निर्हेतुनाशसंव्याप्तेर्न स्यात्कुम्भजनिर्मृदः ।।
न वीजादग्निसंव्याप्तादङकुरोद्भूतिरीक्ष्यते ।। ४३ ।।
घटादेः कारणं पिण्ड इति नाभ्युपगम्यते ।।
मृदेव कारणं यस्मात्पिण्डादेरवगम्यते ।। ४४ ।।
यदेव कारणं मानैरिह साक्षाद्विनिश्चितम् ।।
तदेवोत्तरकार्येषु, न कार्यं कारणं मितेः ।। ४५ ।।
विनाशोऽतिशयः कश्चिद्यदि पिण्डादिवन्मतः ।।
प्रत्यक्षात्तद्द्वयं सत्स्यान्नो चेदस्तु ध्रुवो घटः ।। ४६ ।।
क्रिया वा तत्फलं वा स्याद्वस्त्वन्तरमथापि वा ।।
नाशोऽथ वा न किंचित्स्यात्सत्त्वं नैवमपोद्यते ।। ४७ ।।
क्रियाऽप्यस्ति फलं चास्ति तद्वद्वस्त्वन्तरं च सत् ।।
अथ नाशोऽपि नैवास्ति तं विना सदिदं जगत् ।। ४८ ।।
सन्नेव नाशोऽपीष्टश्चेत्सत्सता न विरुध्यते ।।
ऐकात्म्येऽपि विरोधश्चेन्नाशो नाशेऽपि शङ्क्यते ।। ४९ ।।
पिण्डादिना विनाऽपीदं मृदादेः केवलादपि ।।
घटाद्युत्पद्यमानं तु कार्यं दृष्टमतो ध्रुवम् ।। ५० ।।
मृदाद्येव ततो ग्राह्यं कारणं ह्यन्वयान्मृदः ।।
कार्यमेव तु पिण्डादि तस्य कार्येष्वनन्नयात् ।। ५१ ।।
विरुद्धानेककार्याणां युगपज्जन्म नेष्यते ।।
एकस्मात्कारणात्तस्मात्पिण्डाभावे घटोद्बवः ।। ५२ ।।
पिण्डादिव्यतिरेकेण कारणानुपलब्धितः ।।
असत्त्वं चेन्मृदादेः स्यान्न मानानुपपत्तितः ।। ५३ ।।
पिण्डादिव्यतिरेकेण यदि मानं भवेत्ततः ।।
मृदादि कारणं लब्धं न मानं स्यान्मृदा विना ।। ५४ ।।
पिण्डादिव्यतिरेकेण पिण्डादाविव चेत्प्रमा ।।
सिद्धं कारणमेवं स्यान्न मा मेयं विना यतः ।। ५५ ।।
असाधारणरूपेषु व्यावृत्तेष्वितरेतरम् ।।
बहुष्वेकं यदाभाति प्रत्यक्षं कारणं तु तत् ।। ५६ ।।
सादृश्यादन्वयभ्रन्तिस्तन्निवृत्तावपीति चेत् ।।
नैवं पिण्डस्थदृष्टानां घटादावपि दर्शनात् ।। ५७ ।।
प्रत्यभिज्ञायमानेऽर्थे तदेवेदमिति ध्रुवे ।।
लिङ्गमाभासतामेति प्रत्यक्षार्थविरुद्धमित् ।। ५८ ।।
विरुद्धाव्यभिचारित्वं न च प्रत्यक्षलिङ्गयोः ।।
प्रत्यक्षापाश्रयान्नित्यं नानपेक्षं तदक्षवत् ।। ५९ ।।
विरुद्धाव्यभिचारित्वं समानबलयोर्यतः ।।
दृष्टं सर्वत्र लोकेऽस्मिन्न तु सिंहशृगालयोः ।। ६० ।।
क्षणिकत्वे च भावानां प्रत्यभिज्ञाद्यसंभवः ।।
न ह्यन्यदृष्टं वस्त्वन्यैः प्रत्यभिज्ञायते क्वचित् ।। ६१ ।।
क्षणिकं चेदिदं सर्वं प्रत्यभिज्ञाप्रमाणकम् ।।
अन्यतद्बुद्ध्यपेक्षत्वं तद्बुद्धेर्वः प्रसज्यते ।। ६२ ।।
इदं क्षणिकमित्येतत्क्षणिकत्वे न सिध्यति ।।
इदंक्षणिकताबुद्ध्योर्भिन्नाधिकरणत्वतः ।। ६३ ।।
अज्ञातं ज्ञायते यस्य तथाऽजातं च जायते ।।
प्रत्यभिज्ञामृते तस्य प्रतिज्ञार्थो न सिध्यति ।। ६४ ।।
अनवस्था च दुर्वारा ह्यविश्चासश्च जायते ।।
मृपात्वात्सर्वबुद्धीनां न क्वचिन्निश्चितिर्भवेत् ।। ६५ ।।
संबन्धानुपपत्तिश्च तदिदंज्ञानयोर्ध्रुवम् ।।
संबन्धकर्तर्यसति न च सादृश्यसंश्रयात् ।। ६६ ।।
ध्वंसिनोरिव सादृश्यं स्थायिनोरपि नेष्यते ।।
ग्राहकेऽसति तद्भिन्ने बुद्धीनां चैकरूपतः ।। ६७ ।।
नाशभेदविरुद्धार्थप्रमेये च व्यवस्थिते ।।
प्रत्यर्थिनि हि प्रत्यक्षे तद्विरुद्धः कुतोऽमितेः ।। ६८ ।।
अनुत्पन्नोत्पित्सूत्पन्नोऽनष्टो नाशादिकृत्तथा ।।
एवमष्टक्षणावस्थो भावोऽवश्यं त्वयेष्यते ।। ६९ ।।
अन्योन्याविषयत्वे तु कुतः सादृश्यधीरियम् ।।
सदृशार्थे विनैवेयं क्लृप्ता सादृश्यधीर्यदि ।। ७० ।।
मृगाम्बुधीवन्मिथ्यात्वं स्यादेवं तदिदांधियोः ।।
असद्विषयतैवेह सर्वासमपि चेद्धियाम् ।। ७१ ।।
नैवं बुद्धेरपि तथा ह्यसद्विषयता भवेत् ।।
अस्त्वेवं सर्ववुद्धीनां मृषात्वमिति चेन्मतम्स।। ७२ ।।
नैवं स्यात्सर्वबुद्धीनां मृषात्वे मित्यसंभवात् ।।
कारणस्यास्तिता तस्मात्सिद्धा कार्योद्भवात्पुरा ।। ७३ ।।
कार्यस्यापि यथाऽस्तित्वं तथेदानीं प्रपञ्चयते ।।
सत्त्वपूर्वमिदं कार्यं तमोन्तस्थघटादिवत् ।।
तस्याभिव्यक्तिधर्मत्वादन्यथा स्यान्नृशृङ्गवत् ।। ७४ ।।
सत्यामपि च सामग्र्यां वन्ध्यापुत्राद्यसत्त्वतः ।।
विज्ञानालम्वनत्वं नो न कदाचित्प्रपद्यते ।। ७५ ।।
सर्वं सदेव चेदिष्टमुपलभ्येत ते सदा ।।
सामग्र्यां घटवत्सत्यां सर्वं सद्वादिनो ध्रुवम् ।। ७६ ।।
न विद्यमानमात्रेण ह्यभिव्यक्तिरपीष्यते ।।
सदेव वस्त्वभिव्यक्तं तथाऽव्यक्तं च लक्ष्यते ।। ७७ ।।
अङ्गीकर्तव्यमेतच्च भवद्भिरविशङ्कितैः ।।
न चेद्वः सर्वसिद्धान्तो नश्येत्सैकतकूपवत् ।। ७८ ।।
प्रमाणव्यतिरेकेण प्रमेयोऽर्थो भवन्भवेत् ।।
मानादव्यतिरेके हि मानमेयौ न सिध्यतः ।। ७९ ।।
कारणस्यापि नास्तित्वं कार्यासत्त्वे प्रसज्यते ।।
न हि कार्यमनाश्रित्यं कारणं जगतीक्ष्यते ।। ८० ।।
सत्तामात्रेण किं कार्यं समवाय्यादिकारणम् ।।
साधयेद्व्यापृतं वेदं तथाऽपीष्टं न सिध्यति ।। ८१ ।।
सत्तामात्रेण चेत्कुर्यात्कारणत्रितयं तदा ।।
कार्योत्पत्तिस्थितिलयाः प्राप्नुयुर्युगपत्सदा ।। ८२ ।।
अविशेषाच्च सत्तायाः सर्वतः सर्वसंभवः ।।
सर्व एव न संसिध्येद्व्यवहारश्च लौकिकः ।। ८३ ।।
त्रीण्येव कारणानीति निष्फलाऽवधृतिर्भवेत् ।।
यथा त्रयं तथा सर्वं सत्तया किं न कारणम् ।। ८४ ।।
संभूय कार्यं कुर्याच्चेत्कारणत्रितयं तदा ।।
मेलनस्यापि कार्यत्वात्कथं तत्स्यात्रयं विना ।। ८५ ।।
कारणत्रितये नाथ एकैकस्य प्रसिध्यति ।।
तस्य तस्य तथैवेति साऽनवस्था प्रसज्यते ।। ८६ ।।
वस्तुनः सदसत्त्वाय ह्यभिव्यक्त्येकहेतुतः ।।
ऐश्वर्यं न प्रमाणस्य सत्त्वं वस्तुबलाद्यतः ।। ८७ ।।
द्वैविध्यादावृतेः कार्यं नेक्षते तेन संवृतम् ।।
लब्धात्मकस्य कुड्यादि, प्राक्सूतेः कारणावृतिः ।। ८८ ।।
मृदात्मनोपसंश्लिष्टं कार्यं कारणतामितम् ।।
कारणत्वाद्धि तत्स्थं तत्तदृते कराणं कथम् ।। ८९ ।।
यदि कारणसंस्थं सत्तन्निमित्तं च कारणम् ।।
व्यवधानान्तराभावात्किमर्थं नोपलभ्यते ।। ९० ।।
कार्यान्तरेण संस्थानान्मृदादेर्नोपलभ्यते ।।
सदात्मनोपलब्धिस्तु न कदाचन हीयते ।। ९१ ।।
नष्टोत्पन्नसदभावशब्दप्तत्ययभेदधीः ।।
अभिव्यक्तितिरोभूतिद्वैविध्यापेक्षयैव तु ।। ९२ ।।
कुड्याद्यावरणं दृष्टं भिन्नदेशं सदाऽऽवृतात् ।।
कुम्भाद्यभिन्नदेशस्थं पिण्डाद्यावरणं कथम् ।। ९३ ।।
नैवं पयोघृतादीनामेकदेशत्वदर्शनात् ।। ९४ ।।
अनावरणता चेत्स्यात्कपालादेर्घटात्मनि ।।
अन्तर्भावान्न साध्वेतद्विभक्तानां भवेद्यतः ।। ९५ ।।
आवृतत्वमथ मतं भङ्ग एव प्रसज्यते ।।
यत्नो न तु घटोत्पत्तौ नैवमप्युपपद्यते ।। ९६ ।।
न हि लोकेऽस्ति नियसो र्घटाभिव्यक्तिहेतुकः ।।
अनेकसाधना यस्मादभिव्यक्तिरिहेक्ष्यते ।। ९७ ।।
दीपेनान्यो, मथा चान्यस्तथा चक्रादिना परः ।।
अभिव्यक्तिं प्रयात्यर्थः पुरा सन्नेव सर्वदा ।। ९८ ।।
तमोविनाशनायैव प्रदीपोऽपीति चेन्मतम् ।।
नष्टे तमसि कुम्भोऽपि स्वयमेवोपलभ्य़ते ।। ९९ ।।
किमेवं भवतः सिद्धं यदि नाम तमोहनुतिः ।।
सदेव व्यज्यते सर्वमिति नैवापनुद्यते ।। १०० ।।
अज्ञातत्वापमार्ष्ट्यर्थमुपादित्सन्ति मानिनः ।।
मानानि, मानसंबन्धादज्ञातत्वं च नश्यति ।। १०१ ।।
यतः सति क्रियाभेदे किं पूर्वमिति चोदना ।।
क्रियाभेदे न च न्याय्यं ध्वान्तनाशः क्रियाफलम् ।। १०२ ।।
ज्ञातुर्ज्ञानाभिनिष्पत्तिर्निष्पन्नं मेयमेति सत् ।।
मेयाभिसंगतं तच्च मेयाभत्वं प्रपद्यते ।। १०३ ।।
व्यवधानं तमो यस्माद्धटोऽयमिति संविदः ।।
प्रकाशवद्धटं चर्ते कुतस्तत्तममो हनुतिः ।। १०४ ।।
प्रमाणव्यापृतेर्ज्ञातोऽज्ञातोऽज्ञातत्वहानिकृत् ।।
घटोऽवगत इत्येतत्ततः संपद्यते फलम् ।। १०५ ।।
यद्यावरणभङ्गाय यत्नः स्याद्धटवित्तये ।।
कार्यान्तरं भवेद्भङ्गात्तेनाप्यावृतता घटे ।। १०६ ।।
व्यवधानान्तरं तस्मादन्यदप्यापतेत्तदा ।।
अतो नियत एवात्र व्यापारः फलवान्भवेत् ।। १०७ ।।
अतीतैष्यद्धटज्ञानं सद्धटालम्बनं भवेत् ।।
घटज्ञानत्वतः साक्षादिहत्यघटबोधवत् ।। १०८ ।।
अतीतोऽनागतोऽर्थोऽसन्यदि वाऽभ्युपगम्यते ।।
अतीतानागतज्ञानं मिथ्येशस्य प्रसज्यते ।। १०९ ।।
प्रत्यक्षं नापि चेशस्य केनचित्प्रतिहन्यते ।।
अपविद्धातिशीत्येव तज्ज्ञानं केन हन्यते ।। ११० ।।
घटसत्त्वे पुरोत्पत्तेरनुमा च प्रदर्शिता ।।
तस्मात्सदेव कार्यं स्यात्प्रगुत्पत्तेरपि त्रुवम् ।। १११ ।।
एष्यद्धटनिषेधे च विरोधोऽपि प्रसज्यते ।।
भविप्याति न भाव्यर्थो वर्तमाननिषेधवत् ।। ११२ ।।
गृह्यमाणो घटो नासन्निति यद्वद्विरुध्यते ।।
अतीतैष्यन्मितघटप्रतिषेधस्तथाविधः ।। ११३ ।।
प्रागभावादयोऽभावाः सन्तः स्युरतिरेकिणः ।।
व्यपदेशाद्धटेनैषामन्योन्याभाववद्ध्रुवम् ।। ११४ ।।
एवं च सति संबन्धो न भावाभावयोर्मिथः ।।
विरोधाद्भावयोर्यद्वदेकत्वान्नाप्यभावयोः ।। ११५ ।।
असतश्च न संबन्धोऽकारकत्वात्कथंचन ।।
संबन्धश्च क्रियात्मत्वान्न सिध्येत्कारकं विना ।। ११६ ।।
प्रागभावो घटस्येति घटं एवोच्यते यदि ।।
घट एव घटस्येति व्यपदेशो न युज्यते ।। ११७ ।।
न चासत्त्वं घटस्यैवं, प्रागभावो घटो न च ।।
अवध्यवधिमद्भेदे प्रागभावोऽपि सिध्यति ।। ११८ ।।
अथ प्रकल्प्य संबन्धं घटस्येत्यभिधीयते ।।
क्लृप्तस्यैव ह्यभावस्य व्यपदेशः प्रसज्यते ।। ११९ ।।
अर्थान्तरमभावश्चेदुक्तं संस्मर्तुमर्हसि ।।
शशशृङ्गादिकल्पस्य घटस्य स न युज्यते ।। १२० ।।
स्वहेतुसत्तासंबन्धः संबन्धस्य सदाश्रयात् ।।
अथास्त्वयुतसिद्धानां नासतोऽयुतसिद्धता ।। १२१ ।।
न भावाभावयोर्योगो नापि चायमभावयोः ।।
सतोरेव यतो योगः सिद्ध कार्यमतः सदा ।। १२२ ।।
द्वैतैकत्वात्मकं रूपं वैराजं कार्यमात्मनः ।।
समुद्र एव ह्यस्येति विराट्कारणमब्रवीत् ।। १२३ ।।
संभूय कार्यभूतानि भूतयोनिं यतो विभुम् ।।
जन्मस्थितिलयान्यान्ति समुद्रस्तेन विश्वकृत् ।। १२४ ।।
तत्समुद्रं परं ब्रह्म संविन्मात्रसतत्त्वकम् ।।
अविज्ञातात्मयाथात्म्यं हेतुत्वेनेह शब्द्यते ।। १२५ ।।
इदं जगदुपादानं सर्वशक्त्यजमव्ययम् ।।
स्वात्मैकाज्ञानवृत्तेन ग्रसिष्णु प्रभविष्णु च ।। १२६ ।।
स्वाभासवर्त्मनैवैतत्स्वात्माज्ञानजभूमिषु ।।
इतं बहुत्वमेकं सद्वियद्यद्वद्धटादिषु ।। १२७ ।।
अकारणं सदज्ञानात्कारणत्वं यथैत्यजम् ।।
सर्वकारकतामेवं क्रियातत्फलतामपि ।। १२८ ।।
साध्यसाधनता तस्मादज्ञानैकव्यपाश्रयाम् ।।
उच्चैरनूद्य तत्तत्त्वं वेदान्ताः प्रत्यपीपदन् ।। १२९ ।।
अकारणमकार्ये सत्कार्यकारणतामगात् ।।
मोहादेव ततः शास्रं तदुच्छित्तौ प्रवर्तते ।। १३० ।।
अपीताशेषसंसारं शुद्धसंस्कारसंश्रयम् ।।
अव्याकृतमिदं ब्रह्मह्यन्तर्यामीति चोच्यते ।। १३१ ।।
अज्ञानानुपमर्देन व्याकृतिर्याऽस्य जायते ।।
स्वप्नविज्ञानवन्नासौ सत्यमेयव्यपाश्रया ।। १३२ ।।
सम्यग्ज्ञानसमुत्पत्तौ हेतुत्वं तु निगच्छति ।।
निद्रं हत्वा यतः स्वप्नज्ञानादपि विबुध्यते ।। १३३ ।।
उपेयप्रतिपत्त्यैव प्रमाणानां प्रमाणता ।।
वस्तुस्थित्या न सत्यत्वमिति पूर्वमवादिषम् ।। १३४ ।।
नामरूपादिना येयमविद्या प्रथतेऽसती ।।
माया तस्याः परं सौक्ष्म्वं मृत्युनैवेति भण्यते ।। १३५ ।।
मृत्युर्वै तम इत्येवमाप एवेदमित्यपि ।।
अविद्या प्रथते मौली व्यक्ताव्यक्तात्मनाऽनिशम् ।। १३६ ।।
एतेभ्योऽसौ समुत्थाय स्वाभासानात्मजन्मना ।।
याति क्षेत्रज्ञतामीशः कूटलस्थोऽपि ह्यविद्यया ।। १३७ ।।
आपो ह्यणुतराः सत्यमसृजन्तेति हि श्रुतिः ।।
क्रियाविज्ञानशक्त्यात्मा सोऽपि ब्रह्मासृजत्परः ।। १३८ ।।
विराड्व्रह्माथ ससृजे मनुं देवं प्रजापतिम् ।।
मनुर्देवान्मनुष्यांश्च स्थास्नु कृत्स्नं चरिष्णु च ।। १३९ ।।
साध्यसाधनवत्कृत्स्नकार्यरूपविवक्षया ।।
श्रुतिः प्रववृते सेयं नैवेहेतीह यत्नतः ।। १४० ।।
अशनायापिपासाभ्यां मृत्याो रूपं प्रचक्षते ।।
प्राणस्य तत्र संवर्गाद्वागादध्यात्मदैवयोः ।। १४१ ।।
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।।
स्वं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी ।। १४२ ।।
सृष्टिमेतां समुद्दिश्य तन्मनोऽकुरुतेति या ।।
श्रुतिः प्रवृत्ता निर्वक्तुं यावदव्याकृतं परा ।। १४३ ।।
यद्वा विराजमुद्दिश्य संकल्पमकरोन्मनः।।
आत्मन्वी स्यामिति तथा साकूतः सृष्टिकारणः ।। १४४ ।।
स्वविभूतीक्षणं सृष्टौ विभोरर्चनमुच्यते ।।
आपोऽजायन्त इति च सर्वभूतोपलक्षणम् ।। १४५ ।।
विद्योत्पत्तिप्रधानत्वात्सृष्टिर्वा न विवक्ष्यते ।।
तथाच प्रतिवेदान्तं सृष्टिर्नानाविधेक्ष्यते ।। १४६ ।।
अर्चतो मे यतो जज्ञे कमम्भः सुखकृत्ततः ।।
अर्काभिधोऽथ संवृत्तः प्राणो मृत्युः प्रजापतिः ।। १४७ ।।
उपासनमतोऽस्यापि नाग्नेरेवेति निश्चितिः ।।
अर्कनामाभिसंबन्धो नोपासनमृते यतः ।। १४८ ।।
यदि वाऽग्नेरिदं नाम तस्य प्रकरणित्वतः ।।
आपो वा अर्क इति तु चित्यनामार्थमेव तत् ।। १४९ ।।
शर असीदिति गिरा शक्त्यवस्था विवक्ष्यते ।।
सा पृथिव्यभवच्चेति विराजो जन्मशब्दनम् ।। १५० ।।
तपोऽप्सु तप्यमानासु ह्यण्डं जज्ञे हिरण्मयम् ।।
इति श्रुतिर्जगादार्थं यथैवेह प्रपञ्चयते ।। १५१ ।।
एवं व्यष्टिसमष्ट्यात्मा वैराजं देहमात्मनः ।।
प्राचीक्लृपदथेदानीं सृष्टिस्तस्य विवक्ष्यते ।। १५२ ।।
श्रान्तस्येति तु देहस्य कर्मायोग्यत्वमुच्यते ।।
श्रमहेतुरतस्तापस्तप्तस्येत्यभिशब्द्यते ।। १५३ ।।
भास्वज्ज्ञानं भवेत्तेजो रसः प्राणो विवक्षितः ।।
क्रियाविज्ञानशक्तित्वात्प्रकृतस्य प्रजापतेः ।। १५४ ।।
अनवच्छिन्नवपुषः पिण्डावच्छेदहेतुतः ।।
रवस्य कुम्भादिनेवासोर्निरवर्तत शब्दनम् ।। १५५ ।।
नामरूपादिमद्देहसंबन्धात्तद्विधर्मकः ।।
अरूपोऽपि हि सूत्रात्मां लक्ष्यते रूपवानिव ।। १५६ ।।
सूक्ष्मस्थूलशरीराभ्यां चिदाभाभ्यामविद्यया ।।
संवृतः परमेशोऽपि त्रैलोक्यात्माग्निरूच्यते ।। १५७ ।।
अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् ।।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ।। १५८ ।।
विराडदेहावनद्धोऽसुरध्यात्माद्याधिगः रववत् ।।
व्यष्टितामेति तद्धीनः समष्टित्वेन तिष्ठति ।। १५९ ।।
उर्व्यामुत्पादितायां तु श्रमात्तापात्प्रजापतेः ।।
निरवर्ततेवास्याऽऽत्सा परिच्छेदाभिमानतः ।। १६० ।।
स्थूलदेहपरिच्छिन्नः स एवाऽऽद्यः प्रजापतिः ।।
अग्निरेष यतस्तस्मादुपास्योऽयं प्रयत्नतः ।। १६१ ।।
स वै शरीरी प्रथमः स वै पुरुष उच्यते ।।
आदिकर्ता स भूतानां ब्रह्माऽग्रे समवर्तत ।। १६२ ।।
अनुपारल्यतनुः सोऽयंं व्यवहारप्रसिद्धये ।।
आत्मानं व्यभजत्स्थूलैस्रिधा वाय्वग्निभानुभिः ।। १६३ ।।
स्वरूपानुपमर्देन स विराड्देवतात्मभिः ।।
उपासनादिसिद्ध्यर्थमात्मानं व्यभजत्स्वयम् ।। १६४ ।।
मूलात्मैव त्रिधाऽऽत्मानमभिनत्स प्रजापतिः ।।
इत्यस्य प्रतिपत्त्यर्थे स एष इति भण्यते ।। १६५ ।।
तस्य प्रथमजस्यागेर्विराजोऽर्कस्य वाजिवत् ।।
दर्शनस्य विधानार्थं तस्य प्राचीति कीर्त्यते ।। १६६ ।।
यस्मात्कारणमुलङ्ध्य कार्यं नान्यत्र वर्तते ।।
अप्सु कारणभूतासु तस्मादग्निः प्रतिष्ठितः ।। १६७ ।।
अप्प्रतिष्ठागुणं देवमुपास्ते योऽनिशं नरः ।।
यत्र क्व चैति तत्रासौ प्रतिष्ठां लभते शूभाम् ।। १६८ ।।
योऽबादिपरिपाठ्यैवं विराजमसृजत्स्वयम् ।।
कीदृग्व्यापारसंयुक्तः सोऽस्राक्षीदिति भण्यते ।। १६९ ।।
अत्तृसर्गोऽथवोक्तः प्रागन्नसर्गोऽधुनोच्यते ।।
अशनायावतो यस्मान्नास्त्यन्नविरहात्स्थितिः ।। १७० ।।
त्रेधा व्यभजदात्मानमित्येतद्वा प्रदर्श्यते ।।
अग्निप्राणौ पुरैवोक्तावथ संवत्सरोद्भवः ।। १७१ ।।
मनसा ज्ञाननिर्देशस्रयी वागिति भण्यते ।।
सर्गक्रमं स वेदोक्तं ज्ञानेनाऽऽलोचयत्प्रभुः ।। १७२ ।।
ज्ञानेनाप्रतिघेनासौ वेदोक्तां सृष्टिपद्धतिम् ।।
समन्वालोचयच्छभुः सिसृक्षुर्विविधं जगत् ।। १७३ ।।
आलोच्यालोचकयोर्हि योगो मिथुनमुच्यते ।।
प्रसिद्धं मिथुनं चात्र न कथंचन युज्यते ।। १७४ ।।
अनन्तराग्निसंबन्धप्रसङ्गविनिवृत्तये ।।
अशनायेति हि प्राह मूलकारणसंगतिम् ।। १७५ ।।
जगतः प्रक्रियाबीजं यदवैषीत्पुरा गृही।।
द्वैतैकत्वात्मकं ज्ञानं कर्म च ज्ञानसंभृतम् ।।
भावना च तयोरेतत्रयं रेतोऽभिधीयते ।। १७६ ।।
सृष्ट्यालोचनहेत्वेतत्सृष्टावाविरभूद्विभोः ।।
तद्भावभाब्यपः सृष्ट्वा रेतोबीजेन स प्रभुः ।। १७७ ।।
सर्वलोकैकबीजेन गर्भ्यर्ण्डन बभूव ह ।।
अप एव ससर्जाऽऽदौ तासु वीर्यमवासृजत् ।। १७८ ।।
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ।।
इत्येवं मनुनाऽप्युक्तः श्रौतोऽयं सर्गविस्तरः ।। १७९ ।।
आपो ह वा इति तथा ह्ययमेव क्रमः श्रुतौ ।।
ज्ञानकर्मादिवीजस्य गर्भ एवं प्रजापतेः ।। १८० ।।
स संवत्सरोऽभवदिति परिमाणोऽयमुच्यते ।।
अशनायादिमत्त्वात्स स्वभावबलचोदितः ।। १८१ ।।
सृष्ठ्वाऽऽद्यं घस्मरः पुत्र तमभिव्याददात्क्षुधा ।।
भिनत्ति सर्वमर्यादां नान्वयाद्यप्यपेक्षते ।। १८२ ।।
अस्य दग्धोदरस्यार्थे को न कुर्यादसांप्रतम् ।। १८३ ।।
अन्न एव यतो वृत्तिरत्तुरन्नाद एव च ।।
अन्नस्य युक्तमेवातस्तमभिव्याददादिति ।। १८४ ।।
जन्मान्तरसमभ्यस्तविद्याकर्मादिहेतुतः ।।
जन्यकर्मप्रयुक्तः सञ्शिञुर्भाणित्यथाकरोत् ।। १८५ ।।
यथोक्तहेतुवशगः स्वभावप्रहितोऽप्यसुः ।।
कुमारोत्थरवत्रस्तः स्वभावं चिच्छिदे भयात् ।। १८६ ।।
अत्यन्तमपि शूराणां स्वस्वभावैकहेतुतः ।।
तित्तिरादिसमुत्पाते वेपथुर्जायते भयात् ।। १८७ ।।
एवं स शिशुसंरावसंलब्धालोचनक्षणः ।।
ऐक्षतेह न कामार्तः कश्चिदालोचने क्षमः ।। १८८ ।।
मन्यतिश्चाभिपूर्वोऽयं हिसार्थः स्यात्प्रसिद्धितः ।।
यदीममभिहिंसिप्ये कनीयोऽन्नं भवेद्ध्रुवम् ।। १८९ ।।
कारणादल्पमेव स्यात्तद्व्याप्तेरदितिर्यतः ।।
अन्नमल्पं ततोऽप्यल्पात्कनीयोऽन्नं भवेदतः ।। १९० ।।
लोकेऽपीदं सुप्रसिद्धमाङ्गनाबालपण्डितम् ।।
जग्धनिःशेषवीजस्य तत्फलं नाऽऽप्यतेऽण्वणि १९१ ।।
कुमारवक्त्रोद्नतया वाचर्गादीन्ससर्ज सः ।।
पश्वादींश्च कुमारेण ह्यात्मनाऽजीजनज्जमत् ।। १९२ ।।
स्रष्ट्रत्रोः कार्यभक्ष्याभ्यामन्योन्याव्यतिरेकतः।।
स्रष्ट्टत्वात्स सृजत्येव रवाद्यतेऽन्नं सदाऽऽद्यतः।। १९३ ।।
सर्वमत्ति यतः सृष्टं तस्माददितिरुच्यते ।।
नामज्ञस्तमुपासीनः सर्वस्यात्ताऽदितिर्भवेत् ।। १९४ ।।
सर्वात्तृत्वेन सिद्धेऽर्थे सर्वान्नोक्तिः किमीर्यते ।।
अन्नमेव भवेदन्नं नान्नमत्रस्य कुत्रचित् ।। १९५ ।।
प्राणात्माऽत्तैव सोऽवश्यमुपासनवलाद्भवेत् ।।
य एवमभिधानज्ञ उपासीतादितिं सदा ।। १९६ ।।
अश्वाश्वमेधनाम्नोऽथ कारणप्रतिपत्तये ।।
सोऽकामयत इत्यादिः परो ग्रन्थोऽवतार्यते ।। १९७ ।।
यज्ञेन भूयसा यक्ष्य इत्येवं स प्रजापतिः ।।
अश्वमेधो भवेद्भूयान्भूयोदक्षिणको हि सः ।। १९८ ।।
यजेय भूयोऽपीत्येवमकामयत भावितः।।
क्रत्वात्मेत्यभिमानेद्धः पूर्वजन्मन्यभूत्प्रभुः ।। १९९ ।।
पूर्वजन्माभिनिर्वृत्तप्रयोगापेक्षयोच्यते ।।
भूयो यजेयेति वचः सदा तद्भावभावनात् ।। २०० ।।
क्रत्वात्मैवाभिसंपन्नो द्वैतैकत्वात्मकः प्रभुः ।।
इह तत्फलतां यातो भूयोवाग्युज्यते ततः ।। २०१ ।।
कारणप्रवणं सर्वं कार्यं दृष्टं जगत्यपि ।।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ।। २०२ ।।
यशोवीर्यैकहेतुत्वात्प्राणा यश इहेष्यताम् ।।
यशः प्रकाशरूपेण वीर्यं तद्बलहेतुतः ।। २०३ ।।
उदक्रामद्यशो वीर्यं विराजः श्रमकर्शितात् ।।
लिङ्गात्मेह यशो वीर्यमुभयं हि तदुद्भवम् ।। २०४ ।।
पूर्वदेेहेऽभिषङ्गोऽभूदपविद्धतनोरपि ।।
सङ्गत्यागो ह्यसंभाव्यो विनैकात्म्याववोधनात् ।। २०५ ।।
जातदेहाभिषङ्गः सस्तादात्म्यप्रतिपित्सया ।।
मेध्यमित्यादिकं कामं सोऽकामयत कामुकः ।। २०६ ।।
अपविद्धयशोवीर्ये शरीरं कवियोगतः ।।
यतोऽश्वयदतोऽश्वोऽसुः संवृत्तः स प्रजापतिः ।। २०७ ।।
व्यपेतसद्यशोवीर्यममेध्यं मेध्यतामगात् ।।
तत्प्रवेशाद्यतोऽतोऽयमश्चमेधोऽभवत्प्रभुः।। २०८ ।।
अश्वाश्वमेधावेवं च प्राजापत्यात्मनाऽञ्जसा ।।
अभिष्टुतौ कथं नाम भवेतामिति भण्यते ।। २०९ ।।
काललोकादिवपुषस्त्वश्चस्याग्नेश्च सांप्रतम् ।।
समस्योपासनं वाच्यमित्यर्थो ग्रन्थ उत्तरः ।। २१० ।।
विधायकपदाभावादसंगानं परस्परम् ।।
पदानामिति मा प्रापदित्यर्थेयं परा श्रुतिः ।। २११ ।।
एष एवं यथातत्त्वमश्वमेधं विवेद यः ।।
वक्ष्यमाणेन रूपेण वेद विद्यादतस्तथा ।। २१२ ।।
आत्मानमश्वं संकल्प्य काललोकादिधर्मिणम् ।।
तथाविधशरीरः सन्सर्वलोकपितामहः ।। २१३ ।।
यजेयमश्वमेधेन भूयोऽपीत्यभ्यमन्यत ।।
भूर्लोकाद्यात्मकं सोऽश्वमात्मानं निरवग्रहम् ।। २१४ ।।
यावदब्द मुमोचाश्वं स्वच्छन्दं मुक्तबन्धनम् ।।
ततः संवत्सरादूर्ध्वं तं चाप्यालभताऽऽत्मने ।। २१५ ।।
स्वात्मावयवभूताभ्यो देवताभ्यो यथायथम् ।।
ग्राम्यारण्यान्पशून्प्रादादन्याभ्यः स प्रजापतिः ।। २१६ ।।
यतोऽकरोद्विराडेवं तस्मादेवेह याज्ञिकाः ।।
प्रोक्षितं सर्वदेवत्यं प्राजापत्यं तुरंगमम् ।। २१७ ।।
आलभन्ते यतस्तस्माद्यथाव्याख्याततत्त्ववित् ।।
कुर्यादेवं यथोक्तार्थं मृत्युत्वप्रतिपित्सया ।। २१८ ।।
कर्मोपासनमुक्त्वाऽथ तत्फलोपदिदिक्षया ।।
एष वा इति यत्नेन ह्याजगामोत्तरा श्रुतिः ।। २१९ ।।
दर्शनाद्यभिनिर्वृत्तो यस्त्वेवं हयसाधनः ।।
प्रत्यक्षं फलरूपेण स एष इति दर्श्यते ।। २२० ।।
अश्वमेधक्रियापूर्वपरिणामैकवर्त्मना ।।
अश्वमेधो रविः साक्षादुषा इत्यादिनोदितः ।। २२१ ।।
तस्य संवत्सर आत्मा तस्याऽऽदित्यैकहेतुतः ।।
तस्य क्रत्वात्मनश्चित्यो योऽङ्गभूतः पुरोदितः ।। २२२ ।।
फलात्मकः स एवैष पार्थिवोऽग्निः प्रदर्श्यते ।।
आत्मान एते तस्यापि त्रयो लोका यथोदिता ।। २२३ ।।
क्रतुतत्साधनात्मानावादित्याग्नाी यथोदितौ ।।
निर्वृत्तात्माधिकारौ तावेकैवासौ भवेदसुः ।। २२४ ।।
अशनायावती योक्ता मृत्युः सर्वान्नघस्मरा ।।
सैवाऽऽत्मा विदुषः साक्षादात्मा स्यादजरोऽमरः ।। २२५ ।।
नैनमाध्यात्मिको मृत्युस्तन्मृत्युत्वादवाप्नुयात् ।।
सकृन्मृत्वाऽसुदेहेन मुच्यते सर्वबन्धनात् ।। २२६ ।।
अग्न्यादिभेदभिन्नानां देवतानामशेषतः ।।
आत्माऽभिन्नो भवत्येष यथोक्तोपासनादुधः ।। २२७ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके द्वितीयमश्वमेधब्राह्मणम्
शास्रोक्तज्ञानयुक्तानां कर्मणां ज्ञानतस्तथा।।
सर्वत्र वेदशास्रेऽस्मिन्मृत्युभावः फलं श्रुतम् ।। १ ।।