अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥संबंधभाष्यवार्तिकम् ॥ (३)

भेदस्य चापु­म­र्थ­त्वा­त्ता­दर्थ्ये स्यादमानता ।।
पुमर्थत्वेन चास्येष्टं प्रामाण्यं वेदवादिभिः ।। ९१८ ।।

वस्तु­स्व­रू­प­सं­स्प­र्शि­च­क्षु­रा­दिभ्य उत्थितम् ।।
भेद­स्पृ­ङ्ना­क्ष­जा­द्येवं न तेनै­का­त्म्य­बा­ध­नम् ।। ९१९ ।।

प्रमेयविषयं मानं वस्तुनश्च प्रमेयता ।।
न च भेदस्य वस्तुत्वं वस्तु­त­त्त्वा­न­पे­क्ष­णात् ।। ९२० ।।

लब्धे हि भूतलेऽलब्धो घटस्तत्र निषिध्यते ।।
मानान्तरेण विज्ञातो नाज्ञातो नाज्ञातः शून्यताप्तितः ।। ९२१ ।।

व्यञ्जकस्य समायोगो वस्तुनो वस्तुनैव हि ।।
नाभावेन निरा­त्म­त्वा­द्व्या­वृत्त्या वा मितेर्भवेत् ।। ९२२ ।।

नातो वस्तुनि संभेदो वस्तु­नोऽ­भे­द­रू­पतः ।।
न प्रमा­णा­द्ब­हि­र्वस्तु न मानं वस्तुनो बहिः ।। ९२३ ।।

नाभावयोर्मिथो योगोऽ­व­स्तु­त्वा­भे­द­त­स्तयोः ।।
अभा­व­भा­व­यो­स्त­द्व­द्भा­व­रू­पेषु का भिदा ।। ९२४ ।।

अनित्यत्वस्य धर्मस्य घटा­दे­र्ध­र्मि­ण­स्तयोः ।।
संयोगः समवायो वा तादात्म्यं वेह संगतिः ।। ९२५ ।।

आधाराधेययोगेषु घटोऽत्रेति यथा मतिः।।
नाभावभावयोगेषु मितेर्धीः कस्यचित्तथा ।। ९२६ ।।

नहि भावातिरेकेण भावाभावः प्रमणभाक् ।।
भावात्मनाऽप्यतो भावो व्यवहाराय कल्पते ।। ९२७ ।।

अथाभावोऽपि वस्त्वेव नास्ती­ति­मि­ति­ज­न्मतः ।।
द्वयो­र्भा­वै­क­रू­प­त्वा­त्काऽ­ति­शी­ति­र्मि­ते­स्तयोः ।। ९२८ ।।

विश्वं सदेव यस्येष्टं तस्याभावः कुतो मितेः ।।
न च भावातिरेकेण भाव­व­त्सि­द्धि­म­श्नुते ।। ९२९ ।।

अभावयोगं भावश्चेत्सहवे नीलयोगवत् ।।
अविरोधादभावेन न भावा­प­ह्नु­ति­र्भ­वेत् ।। ९३० ।।

योगोऽयं वस्तुनोर्दृष्टः पृथक्सिद्धौ परस्परम् ।।
मेष­यो­र्म­ल्ल­यो­र्य­द्वन्न भावाभावयोस्तथा ।। ९३१ ।।

न योगोऽ­भा­व­यो­र्दृष्टो वन्ध्या­सू­नु­ख­पु­ष्पयोः ।।
न भावाभावयोरेवं विरोधादितरेतरम् ।। ९३२ ।।

क्षितिदेशे घटाभावो घटवन्न प्रमीयते ।।
योगो वा समवायो वा नाभा­व­क्षि­ति­दे­शयोः ।। ९३३ ।।

सदात्मतैवं सर्वस्य, नाभावात्मकता सतः ।। ९३४ ।।
अप्य­भा­वा­त्म­क­त्वेऽपि सतोऽ­भा­वा­त्म­क­त्वतः ।।
कुतो भेदावकाशः स्याद्भेदेऽसति कुतो युतिः ।। ९३५ ।।

याव­त्किं­चि­ज्ज­ग­त्य­स्मि­न्भे­दकं वस्तु लक्ष्यते ।।
अना­प­न्ना­दि­म­ध्यान्तं सदेव तदितीष्यते ।। ९३६ ।।

सदेवेदमिति स्पष्टं सन्मूला इति चापरम् ।।
श्रुत्योदाहारि नः साक्षा­त्स­दै­का­त्म्या­व­बु­द्धये ।। ९३७ ।।

मानाभावस्य मानत्वं मेयाभावस्य मेयता ।।
न्यायं न सहतेऽतीव यथा तदधुनोच्यते ।। ९३८ ।।

बोधकं यदबुद्धस्य तन्मानमिति हि स्थितिः ।।
न च प्रमा­ण­ना­स्ति­त्व­मी­दृ­क्त­स्मान्न युज्यते ।। ९३९ ।।

मेयाभावः प्रमाणानां यद्यभावेन गम्यते ।।
प्रमा­णा­ना­म­भा­वस्य गमकः को भविष्यति ।। ९४० ।।

नाक्षादिपञ्चकं तस्य बोधकं सत्समन्वयात् ।।
नयतस्तदभावो वा, मेयत्वेनैव तत्स्थितेः ।। ९४१ ।।

नीलादिवदभावस्य यद्य­क्षा­दि­वि­शे­ष­णम् ।।
विशेषणेन तद्व्या­प्ते­स्त­द­भावः कुतो मितेः ।। ९४२ ।।

अथाविशेषणोऽभावो भवद्भिरभिधीयते ।।
मेयाभावस्य मान­त्व­म­वि­शे­षा­त्प्र­स­ज्यते ।। ९४३ ।।

घटाद्यभाव इत्युक्तिर्न सम्यगिति मे मतिः ।।
पदा­ना­म­स­म­र्थ­त्वा­द्वि­रो­धा­द्व­स्तु­नो­र्मिथः ।। ९४४ ।।

भावा­भा­वा­ख्य­प­दयोः सामर्थ्ये चेत्समासता ।।
घटा­दि­नाऽ­न­पे­क्ष­त्वान्न समासः प्रसिध्यति ।। ९४५ ।।

भावस्याभाव इत्यत्र षष्ठ्यर्थः कतमो मतः।।
न कश्चिदपि संबन्धो नीरू­प­स्या­स­दा­त्मनः ।। ९४६ ।।

वस्त्व­न्त­र­म­भा­व­श्चे­द­न्य­द­न्य­द्भ­वे­त्क­थम् ।।
अन्योऽपि च्चेद्भ­वे­द­न्योऽ­वि­रोधो नीलवद्भवेत् ।। ९४७ ।।

संगतावविरोधी चेन्न संब­न्धि­नि­वृ­त्ति­कृत् ।।
न संब­न्धि­ग्र­हा­भावे संबन्धोऽयं प्रसिध्यति ।। ९४८ ।।

संब­न्धि­वि­र­हेऽ­सिद्धौ षष्ठ्यर्थत्वं न सिध्यति ।।
विरो­धा­द्यु­ग­प­न्नापि विधा­न­प्र­ति­षे­ध­नम् ।। ९४९ ।।

क्षणि­क­त्वा­द्धियां नापि स्थायिधर्मः क्रमो भवेत् ।।
अनीलाभावपृष्टेन नापि नीलस्य वेदनम् ।। ९५० ।।

नाह्य­दृ­श्य­नि­षेधः स्याद्धटादेरिव भूतले ।।
नान्या­भा­व­वि­शि­ष्टत्वं कृत्स्नाभावगतौ भवेत् ।। ९५१ ।।

अन्याभावस्य भावत्वे स्यादभावः खपुष्पवत् ।।
भावा­न्त­र­म­भा­व­श्चे­त्सिद्धं वस्तु ततः स्वतः ।। ९५२ ।।

तद्ग्राहीणि च मानानि व्यावृत्तिः केन गम्यते ।।
चित्रेऽपि विषये चित्रमेकं वस्त्वेकमानतः ।। ९५३ ।।

प्रत्येकं नीलपीतादिग्रहणे चित्रता कुतः ।।
घस्तुनो भेगरूपत्वे वस्त्वभावः प्रसज्यते ।। ९५४ ।।

अन्यधर्मे त्वभिन्नं स्यात्स्वतो वस्तु प्रमाश्रयम् ।।
भिन्नाभिन्नं विरु­द्ध­त्वा­न्नै­क­मा­नस्य गोचरः ।। ९५५ ।।

वस्त्वा­त्म­नाऽ­वि­रो­ध­श्चे­द्व­स्त्वेव विषयस्ततः ।।
सत्यं वस्तु कथं भिन्द्या­त्पुं­व्य­पे­क्षा­वि­नि­र्मितः ।।
भेदः, पुत्रादिभावे तु जन्यत्वं वस्तुकल्पितम् ।। ९५६ ।।

दाह­पा­क­प्र­का­शा­दि­भे­देऽ­प्य­ग्ने­र­भि­न्नता ।।
कार्यतोऽपि न भेदः स्याद्व­स्त्व­भे­द­व्य­व­स्थितेः ।। ९५७ ।।

विभि­न्न­का­र्य­क­र्त्रीणां शक्तीनां यद्वदाश्रयः ।।
न विरु­द्धोऽ­ग्नि­रे­कोऽपि तद्वत्कार्येऽपि किं न ते ।। ९५८ ।।

घटाभावे घटः सिध्येत्पटाभावे पटस्तथा ।।
अन्यो­न्या­भा­व­दृष्टेः स्याद­न्यो­न्या­श्र­यता तव ।। ९५९ ।।

प्रत्यक्षत्वं पृथक्त्वस्य गुण­त्वा­द्यै­र­पी­ष्यते ।।
तेषामपि गुणे मानं नीलवन्न त्ववस्तुनि ।। ९६० ।।

अथ वस्तु पृथक्त्वेन विशिष्टं गम्यते तदा ।।
शुक्लो शौरितिवन्मानं वस्तुन्येव न भेदगम् ।। ९६१ ।।

अभेदेनैव वर्तेत पृथक्ता यदि वस्तुषु।।
वस्त्वेव तत्ततोऽन्या चेदपृथग्वस्तु तर्हि ते ।। ९६२ ।।

भावा­भा­व­पृ­थ­क्ताऽपि यद्यभिन्ना ततोऽपृथक् ।।
भावाभावविभिन्ना चेत्पृथक्ता न परस्परम् ।। ९६३ ।।

अन्यापेक्षं पृथक्त्वं चेत्स्वयं तर्ह्यपृथग्घटः ।।
द्विधर्मत्वेऽपि वस्त्वेतदेकं स्यादु­त्प­ला­दि­वत् ।। ९६४ ।।

धर्म­बु­द्धि­प्र­भे­देऽपि धर्म्यभेदः सदेष्यते ।।
अतो गवादेर्भेदेऽपि सन्मात्रमवसीयते ।। ९६५ ।।

गोत्वा­दि­मे­य­प­क्षेऽपि सद्रू­प­स्या­न­पा­यतः ।।
वस्त्वेव मेयं गोत्वादि शाब­ले­या­दि­व­त्स्फु­टम् ।। ९६६ ।।

सद्रू­प­त्वा­प­रि­त्या­गा­द­वा­न्त­र­नि­ब­न्धनाः ।।
व्यवहाराः प्रतीयन्ते सत्तत्त्वं तेष्ववस्थितम् ।। ९६७ ।।

सत्तातोऽपि न भेदः स्याट्ट्र­व्य­त्वादेः कुतोऽन्यतः ।।
एकाकारा हि संवित्तिः सट्ट्रव्यं सन्गुणस्तथा ।। ९६८ ।।

समवायाच्च संबन्धे नैकरूप्यं विभिन्नयोः ।।
तच्चेत्ततो न विश्वासो, जाता­व­प्ये­क­बु­द्धितः ।। ९६९ ।।

संसर्गधर्मता नापि भेदे­ना­नु­प­ल­म्भ­नात् ।।
समवायेन संबन्धे को हेतुरिति नेष्यते ।। ९७० ।।

संयो­ग­श्चे­द्वि­यो­गोऽपि सम­वा­येऽ­न­व­स्थितिः ।।
स्वत­श्चे­त्क­ल्पना व्यर्था द्रव्य­स्या­प्ये­कता स्वतः ।। ९७१ ।।

सत्ता­व­गु­ण्ठि­ता­श्चैते सर्वे भावाः सदैव हि ।।
व्यवहाराय कल्पन्ते भ्रान्तो भेदः सदैव तु ।। ९७२ ।।

येषामपि हि सामा­न्य­भे­द­व­द्वस्तु गृह्यते ।।
तेषामपि कुतो भेदो वस्त्वै­क्या­द्ध­र्म्य­भे­दतः ।। ९७३ ।।

अपि भेदेन या बुद्धिः स्यात्सा­मा­न्य­वि­शे­षयोः ।।
साऽपि तन्मा­त्र­नि­ष्ठ­त्वा­न्नैव भेदस्पृगिष्यते ।। ९७४ ।।

एकं चेद्भिन्नता नास्ति भेदश्चेदेकता कुतः ।।
चित्रेऽ­प्य­नु­ग­मा­भा­वान्न सामान्यविशेषता ।। ९७५ ।।

स्वरू­प­प­र­रू­पाभ्यां यदा सदसदात्मकम् ।।
वस्त्वेकं मानविषयभावस्ते तदा कुतः ।। ९७६ ।।

प्रत्य­क्षा­दि­नि­वृ­त्ति­श्चे­त्तस्याः किं रूपमुच्यताम् ।।
स्तैमि­त्य­मा­त्म­न­श्चे­त्स्या­त्त­द्व­स्त्वे­वा­स्म­दी­हि­तम् ।। ९७७ ।।

अथ वस्त्व­न्त­र­ज्ञानं नितरां तस्य वस्तुता ।।
भावा­न्त­र­म­भा­वोऽपि निरूपाख्यः स नेष्यते ।।
तस्मा­द्व­स्त्वे­क­नि­ष्ठ­त्वान्न भेदोऽ­क्षा­दि­गो­चरः ।। ९७८ ।।

घटोऽयमिति संवित्तेर्घटो मेयः प्रतीयते ।।
न व्यावृत्तिः पटा­दी­ना­म­ता­द्रू­प्या­त्तथा पटे ।। ९७९ ।।

घटाभावो विरोधित्वान्न घटेऽ­र्था­न्त­रेऽपि न ।।
अषष्ठ्यर्थतया तस्मा­द्वि­क­ल्पोऽयं, न वस्तुगः ।। ९८० ।।

घटो हि संविदं कुर्व­न्ना­त्मा­का­र­वि­शे­ष­णम् ।।
आत्मानं लभते तद्व­द्व्या­वृत्तिं न पटादितः ।। ९८१ ।।

पट­सं­वे­द­नेऽ­प्येवं पटमात्रं विशेषणम् ।।
ईक्षतेऽत्राधिकं नान्यदभावादि यदुच्यते ।। ९८२ ।।

संदि­ग्ध­नि­श्च­या­द्येवं ज्ञानधर्मो विशेषयन् ।।
संविदं भिद्यते मेयात्प्रत्येकं भेदधीर्न तु ।। ९८३ ।।

तथाऽहमेव जानामि माता नान्य इतीदृशाः ।।
मातृधर्माः प्रसिध्यन्ति विशिषन्तः स्वसंविदम् ।। ९८४ ।।

संविदेका स्वतःसिद्धआ प्रत्य­ग्रू­पै­क­ल­क्षणा ।।
भावाभावदिरूपाय व्यवहाराय कल्पते ।। ९८५ ।।

अतोऽ­नु­भ­व­मु­ल्लङ्ध्य न भेदो नाप्यभिन्नता ।।
तत्पृष्ठेन तु मानानि विरोधः किंसमाश्रयः ।। ९८६ ।।

अविज्ञातः प्रमाणानांं विषयो वादिनां मतः ।।
न तस्य मानतः सिद्धि­स्त­त्सिद्धेः प्राक्प्र­मा­ग­मात् ।। ९८७ ।।

अमानकं कथं च स्याद­ज्ञा­त­त्व­मि­हो­च्य­ताम् ।।
कथं वा तद्विना मानं विष­या­सं­भ­वा­द्भ­वेत् ।। ९८८ ।।

अज्ञातत्वक्षतिं कुर्वन्मानं मानत्वमश्नुते ।।
मानादज्ञातता चेत्स्यान्न सा तत्फलमिष्यते ।। ९८९ ।।

अतोऽनुभवतो लब्धमज्ञानं ज्ञापयत्सदा ।।
प्रत्यक्षादि प्रमाणं स्यान्न स्वतो नापि चान्यतः ।। ९९० ।।

नाज्ञासिषमहं पूर्वमित्येवं प्रमिते घटे ।।
पूर्वा­ज्ञा­त­त्व­वि­षयो भूयोऽप्यनुभवो यतः ।। ९९१ ।।

प्रवृत्तं विषये मानमवच्छेदफलं मतम् ।।
ज्ञाताज्ञाते प्रति त्वस्य न व्यापा­रोऽ­प्र­मा­णतः ।। ९९२ ।।

सर्वोऽ­प्य­नु­भ­वा­त्सिद्धां बालोऽ­प्य­ज्ञा­ततां स्वतः।।
न किंचिज्जान इत्यवं पृष्टो वक्ति प्रमां विना ।। ९९३ ।।

निःशे­ष­क­र­ण­ग्रा­म­ल­येऽ­प्य­नु­भवः स्वतः ।।
अलु­प्त­दृ­क्सु­षु­प्तेऽपि जाग्र­द्बो­धा­वि­शे­षतः ।। ९९४ ।।

अत्य­न्ता­न­नु­भू­तेषु हिम­व­त्पृ­ष्ठ­व­स्तुषु ।।
जाग्र­तोऽ­नु­भ­वोऽ­प्येवं सुषुप्तान्न विशिष्यते ।। ९९५ ।।

न चात्रानुभवो लुप्तो न जानामीति बोधनात् ।।
अदृष्टमपि दृष्ट्वाऽस्ति बोधो नाज्ञासिषं त्विति ।। ९९६ ।।

पुमा­न्सु­प्तो­त्थि­तोऽ­प्येवं प्रमात्रादिलयं स्वतः ।।
अनुभूत्यैव संधत्ते नान्तराऽतोऽस्य लुप्तता ।। ९९७ ।।

न चेदा­नीं­त­ना­द्बो­धा­द्बो­धा­भा­व­ग­ति­र्भ­वेत् ।।
सौषुप्ती, नहि बोधस्य कालभेदेन भिन्नता ।। ९९८ ।।

बोधादेव प्रसिध्यन्ति कालावस्थादयो यतः ।।
मातृ­मा­ना­द­य­श्चापि कुतस्तैरस्य विक्रिया ।। ९९९ ।।

प्रमा­तृ­मा­न­त­न्मे­ये­ष्वा­ग­मा­पा­यिषु त्रिषु ।।
अलुप्तानुदितो बोधः प्रथते प्रत्यगेकलः ।। १००० ।।

अभि­तोऽ­नु­भ­वा­क्रान्ता ज्ञाता­ज्ञा­त­त्व­भू­मिषु ।।
नान्यत्रार्थाः प्रसिध्यन्ति लीयन्ते नाप्यनात्मनि ।। १००१ ।।

अतोऽनुभव एवैको विष­योऽ­ज्ञा­त­ल­क्षणः ।।
अक्षादीनां स्वतःसिद्धो यत्र तेषां प्रमाणता ।। १००२ ।।

तेना­नु­भ­व­सि­द्धानां लोकेऽ­ज्ञा­न­वि­घा­तिनाः ।।
मात्वमक्षादयो यान्ति नाज्ञा­त­ज्ञा­त­तोऽ­न्यथा ।। १००३ ।।

घटादयः प्रमासिद्धा मुञ्च­न्त्य­ज्ञा­ततां न तु ।।
स्वतःसिद्धोऽपि वस्तु­त्वा­न्मु­ञ्च­त्यात्मा प्रमां विना ।। १००४ ।।

प्राग्बा­ध­का­ग­मा­त्सि­द्धि­र्लौ­कि­क­स्यापि वस्तुनः ।।
वस्तु­त­त्त्व­ब­ला­देव तत्तमोव्यवधानतः ।। १००५ ।।

कृत­स्न­मा­त्रा­द्यु­पा­दा­न­त­मो­बो­धस्तु बोधतः ।।
तत्त्व­म­स्या­दि­वा­क्यो­त्था­त्पू­र्णै­का­त्म्य­स्व­ल­क्ष­णात् ।। १००६ ।।

तेनाऽऽगमस्य तत्र स्याद­ज्ञा­त­त्व­वि­घा­तिनः ।।
प्रमाणत्वं पुमर्थश्च स एऴ विदुषां मतः ।। १००७ ।।

ननु दुर्वा­र­सं­सा­र­दुः­ख­सं­द­र्भ­हा­नतः ।।
किम­न्य­त्सु­ख­मिष्टं स्याद्य­स्याऽऽप्तेः पुरुषार्थता ।। १००८ ।।

लोकेऽपि व्याधि­सं­ता­प­वि­च्छित्तौ सुखितेक्ष्यते ।।
व्यति­रि­क्त­सु­खार्था च न प्रवृ­त्ति­र्वि­रा­गि­णाम् ।। १००९ ।।

असंवेद्यं सुखं नापि पुमर्थो न च कर्मता ।।
स्वरूपे वेद्य­वे­त्तृ­त्वा­यो­गा­द्दूै­त­प्र­स­ङ्गतः ।। १०१० ।।

नैवं भेदेन संसिद्धे सुखदुःखे कथं तयोः ।।
ऐक्यं सुखस्य विच्छेदो दुःखं वा किं न कल्प्यते ।। १०११ ।।

अदुःखिनोऽपि दृश्यन्ते सुख­प्रा­प्ती­च्छया यतः ।।
तदुपाये प्रव­र्त­न्त­स्त­द­भेदे न युज्यते ।। १०१२ ।।

चन्द­ना­दि­सु­खो­पा­य­सं­पन्नाः सुखिनोऽप्यलम् ।।
पुत्र­ज­न्मा­दि­वा­र्ताभिः प्राप्नुवन्ति सुखान्तरम् ।। १०१३ ।।

पुत्रा­द्य­प्रा­प्ति­रूपं च दुःखं तत्र न कल्प्यते ।।
असं­वि­त्ते­र­वेद्यं हि न दुःखं वैरिदुःखवत् ।। १०१४ ।।

तिर्यञ्चोऽप्यत एवेह कामयन्ते सुखं तथा ।।
अप्रियं विजिहासन्ति न तु जानन्ति साधनम् ।। १०१५ ।।

वेदोऽपि शुद्धमात्मानं सुखं मुख्यं प्रदर्शयन् ।।
अनात्मानं तथा दुःखं पुमर्थत्वेन संमतः ।। १०१६ ।।

तदेतत्प्रेय इत्या­दि­वा­क्ये­भ्योऽ­ने­कधा श्रुतम् ।।
तथाऽऽत्मनस्तु कामाय तस्मा­न्ना­न्य­त्सुखं भवेत् ।। १०१७ ।।

पुरु­षा­र्था­भि­सं­ब­न्धा­द्वि­रा­गित्वं यथाऽऽश्रितम् ।।
परा­न­न्दा­भि­ला­षोऽपि तथा चेत्किं निषिध्यते ।। १०१८ ।।

आत्य­न्ति­क­सु­खे­च्छायां यदि रागित्वमुच्यते ।।
विवि­क्त­दे­श­से­वा­दा­वि­च्छायां किं न रागिता ।। १०१९ ।।

अथ ये शत­मि­त्या­दि­वा­क्यै­रे­त­त्प्र­प­ञ्चि­तम् ।।
एष ह्येवेति च व्यक्तं तैत्ति­री­य­श्रु­ता­वपि ।। १०२० ।।

स्वानन्दाभिमुखः स्वापे वोध्यमानोऽत एव च ।।
पीड्यते स्त्र्यादि­सं­प­र्क­सु­ख­वि­च्छे­दतो यथा ।। १०२१ ।।

आन­न्दै­क­स्व­भा­व­त्वा­द्वे­द्यता तत्र नार्थ्यते ।।
निःसं­बो­धेऽ­र्थ्यते सा हि न तु बोधैकलक्षणे ।। १०२२ ।।

अधिकारस्य सौल­भ्य­प्र­ति­प­त्त्य­र्थ­मी­र­णम् ।।
सर्वपुंसामिति तथा पूर्वमेव प्रपञ्चितम् ।। १०२३ ।।

स्वर्गा­दि­का­म्यपि यतो मुक्तिं कामयते न तु ।।
मुक्तिं काम­य­मा­नोऽ­न्य­त्क­टा­क्षे­णापि वीक्षते ।। १०२४ ।।

सर्वेषामपि च नृणा­म­धि­का­रोऽ­नि­वा­रितः ।।
यतोऽतः सर्वतो ऩ़ृणामिति भाष्यकृदब्रवीत् ।। १०२५ ।।

शुक्लां गामानयेत्युक्ते कांचि­द्गो­क­र्मिकां क्रियाम् ।।
कुर्वा­ण­म­भि­वी­क्ष्याज्ञः कुरुते कारणानुमाम् ।। १०२६ ।।

ज्ञातं ध्रुव­म­ने­नै­त­द्य­द्गो­क­र्म­क­मी­क्ष्यते ।।
प्रागज्ञातस्य निर्वत्तिर्न यतो विक्ष्यते कच्चित् ।। १०२७ ।।

यद्यर्थं कारकाधीनं दृष्ट्वा तत्कारणानुमा ।।
प्रमा­णा­न्त­र­ग­म्य­त्वा­ल्लो­कि­कत्वं तदाऽऽपतेत् ।। १०२८ ।।

न चेत्का­र­क­त­न्रोऽर्थो ज्ञात­स्या­नु­ष्ठितिः कथम् ।।
न सिद्धो नापि चाभावः कारकापेक्ष ईक्ष्यते ।। १०२९ ।।

आरभ्ये कारकत्वे न बला­त्प्रा­मा­ण्य­मा­प­तेत् ।।
व्यङ्ग्ये तु कार्ये वेदस्य सिद्धेऽर्थे मानता भवेत् ।। १०३० ।।

वाक्यस्य च प्रमाणत्वं नाप्य­भा­वै­क­गो­च­रम् ।।
न चेदभावः कार्योऽर्थेः सिद्धेऽर्थे मानता भवेत् ।। १०३१ ।।

अथोभयात्मकं कार्यं सिद्धा­सि­द्ध­स्व­भा­व­कम् ।।
उक्त­दो­ष­द्व­या­स­क्तिर्न च वस्तवीदृशं क्वचित् ।। १०३२ ।।

सिद्धस्य व्यञ्जकं मानं न मानं कारकं क्वचित् ।।
चोदना मानकं चेत्तत्कथं कार्यं तदुच्यताम् ।। १०३३ ।।

मतं विषयसंसिद्ध्या कार्य­मि­त्या­भि­धी­यते ।।
यागसिद्धेः पुराऽसिद्धेः कथं चोदनया मितम् ।। १०३४ ।।

प्राक्प्र­यो­क्त्र­भि­सं­सिद्धौ किं फलं यागसिद्धितः ।।
यागसिद्ध्याऽपि तत्सिद्धौ प्रयोज्यत्वं कुतो यजेः ।। १०३५ ।।

यागा­द्य­नु­ष्ठि­ते­रस्य घटादेरिव चेन्मतः ।।
उपकारो नियोगस्य कथं न घटतुल्यता ।। १०३६ ।।

अपुमर्थे नियोगे च तात्पर्यं स्यात्तथा सति ।।
प्रतिर्थिनि पुमर्थे तत्सु­धी­भि­र्गृ­ह्यते कथम् ।। १०३७ ।।

लिङा­दि­श्र­व­णा­त्पुंसः कार्यं यत्प्र­स­मी­क्ष्यते ।।
उपकाराद्यपेक्षं तद्व­क्तृ­कर्त्रोः प्रसिध्यति ।। १०३८ ।।

न चेत्संभाव्यते कर्त्रा पुमर्थः कस्यचिद्विधेः ।।
आज्ञोक्तेरेव न तदा कश्चिज्जगति चेष्टते ।। १०३९ ।।

आज्ञा­र्थ­मा­त्र­सि­द्ध्यर्थं न कश्चित्स्ववशो नरः ।।
दुःखात्मके मनो धत्ते यागादौ चोदनावशात् ।। १०४० ।।

पुमर्थमभिसंधाय यागादावथ चेष्टते ।।
फलं प्रवर्तकं प्रापन्न नियोगस्तथा सति ।। १०४१ ।।

मन्त्रोक्तेरिव लोडादेः प्रवृत्तिरिति चेन्मतम् ।।
प्रायश्चित्ती भवेन्नैव तत्प­रा­धी­न­वृ­त्तितः ।। १०४२ ।।

प्रवर्तकत्वं मन्त्रस्य न प्रव­र्त्य­व­शा­द्यथा ।।
स्वत एव न यागादेः कार्या­सि­द्धि­स्तथा भवेत् ।। १०४३ ।।

कारकं वा क्रिया वा स्याद्यदि वा स्यात्क्रि­या­फ­लम् ।।
तस्य लौकि­क­मा­सि­द्धे­र्लौ­कि­कत्वं प्रसज्यते ।। १०४४ ।।

ऐका­त्म्य­व­स्तु­निष्ठे तु यथो­क्त­न्या­य­व­र्त्मना ।।
न कश्चिदपि दोषः स्याद्व­च­स्य­स्मि­न्म­ना­गपि ।। १०४५ ।।

नेति नेत्या­दि­वा­क्येभ्यो योऽर्थोऽ­न­न्या­नु­भू­तिगः ।।
लौकिकत्वं कथं तस्य सर्व­मे­या­ति­ल­ङ्धिनः ।। १०४६ ।।

इत्यु­क्त­म­भि­सं­धाय दृष्टादिवचनं जगौ ।।
लोकि­क­त्व­प्र­सि­द्ध­र्यर्थं नियोगस्य घटादिवत् ।। १०४७ ।।

आस्तां वेदान्तमानत्वं त्यक्तं तत्कामतस्तव ।।
वस्तु­न्यु­क्तेर्न चेन्मात्वं कर्मकाण्डेऽपि तद्भवेत् ।। १०४८ ।।

भवि­ष्य­द्दे­ह­सं­बन्धी वाक्यादात्मा न चेन्मितः ।।
मानान्तराच्च कः कुर्या­द­दृ­ष्टार्थाः क्रियाः सुधीः ।। १०४९ ।।

नापि सांख्य­प्र­मा­सि­द्ध­मा­त्मा­न­म­व­ग­च्छतः ।।
देहा­द्य­न­भि­सं­ब­न्धा­त्प्र­वृत्तिः स्यात्क्रि­या­स्विह ।। १०५० ।।

कर्म­का­ण्डेऽ­धि­का­र्य­स्मि­न्या­ट्ट­क्सं­भा­व्य­तेऽ­ञ्चसा ।।
ताट्ट­क्सं­प्र­ति­प­त्त्यर्थं न चासतीति भण्यते ।। १०५१ ।।

कर्मभ्यः फल­मि­च्छ­द्भि­र­ट्टष्टं ट्टष्टमेव वा ।।
देहा­व­स्था­न्त­रा­वेशे प्रमाणं वाच्यमात्मनः ।। १०५२ ।।

कथं च तस्य कर्तृत्वं व्यापि­त्वा­न्नि­ष्क्रि­य­त्वतः ।।
न चाकर्तुः फलं गौण्या वृत्या चेत्सुतरां न तत् ।। १०५३ ।।

मुख्य­क­र्तृ­त्व­प­क्षेऽपि ह्यनिर्मोक्षः प्रसज्यते ।।
मानेन नाश्यतेऽज्ञानं, ज्ञापकं हि न कारकम् ।। १०५४ ।।

देहा­न्त­रा­भि­सं­बन्धो भावि­त्वा­न्ना­क्ष­गो­चरः ।।
लिङ्ग­सा­ट्ट­श्य­वि­रा­हा­न्ना­नुमा नोपमा तथा ।। १०५५ ।।

शब्दादात्मनि संसिद्धे पूर्वो­क्त­न्या­यतो न च।।
श्रुता­र्था­प­त्ति­र­प्यत्र नाभावो मानभावतः ।। १०५६ ।।

न चाहं­प्र­त्य­या­त्सि­द्धि­रा­त्मनः स्यात्कदाचन ।।
बोधा­नु­भ­व­सं­वि­त्ति­वि­त्तयो ह्यात्मवाचिनः ।। १०५७ ।।

यस्या­नु­भ­व­सि­द्ध्यैव सिद्धिः स्याद्व­ट­सि­द्धि­वत् ।।
ततोऽ­हं­प्र­त्य­या­त्सि­द्धि­मी­क्ष­तेऽ­नु­भवः ।। कथम् ।। १०५८ ।।

मानादनुभवः सिद्धो जडः स्याद्धटवन्न चेत् ।।
नैरपेक्ष्यं चिदा­त्म­त्वे,स्या­च्चा­न्यो­न्य­स­मा­श्रयः ।। १०५९ ।।

आत्मनोऽहंधियः सिद्धि­रा­त्म­सि­द्धि­र­हं­मते ।।
अन्यो­न्या­श्र­य­तैवं स्याद­हं­बु­द्ध्या­त्म­नो­र्ध्रु­वम् ।। १०६० ।।

अहंधीरात्मनः कार्यं कारणेनाऽऽप्यते सदा ।।
तया तस्य कथं व्याप्ति­र­व्याप्तौ मेयता कथम् ।। १०६१ ।।

क्रियाकाले गुणी­भा­वा­त्क्रि­या­सि­द्धा­व­सं­भ­वात् ।।
कर्तुः प्रमेयता न स्यादहंबुद्ध्या कथंचन ।। १०६२ ।।

संविद्रूपे प्रमेये च संविदन्या फलं भवेत् ।।
न च संविद्धूयाभासो नानुमेयं फलं क्वचित् ।। १०६३ ।।

घटा­द्या­का­र­सं­वि­द्व­च्छु­द्धा­या­मपि संविदि।।
संविद्विशिष्टा संवित्स्यान्न चासा­वा­त्म­नी­क्ष्यते ।। १०६४ ।।

प्रमातरि च मेये स्यात्फलं कस्येति भण्यताम् ।।
न मातुस्तस्य मेयत्वान्नापि मेये फलं क्वचित् ।। १०६५ ।।

जडत्वात्तत्र मेयस्य फलं मातरि चेन्मतम् ।।
मेयतो जडताऽत्रापि संविच्चेन्न प्रमाणजा ।। १०६६ ।।

धर्म­त्वे­ना­प्य­हं­बु­द्धेर्न भेदो धर्मिणाऽऽत्मना ।।
रूपं द्रव्यात्मनो नान्य­ट्ट्र­सा­दे­स्त­द्वि­भि­द्यते ।। १०६७ ।।

द्रव्यादि चाऽऽत्मनो रूपं प्रमेयं यदुदीरितम् ।।
घट­व­त्त­द­हं­बुद्धेः प्रत्य­ग्वृ­त्तेर्न गोचरः ।। १०६८ ।।

अस्म­त्प्र­त्य­य­सं­भिन्नं प्रत्यक्कर्तरि वेदनम् ।।
ज्ञानस्य यदुपन्यस्तं विशेषस्तत्र नेक्ष्यते ।। १०६९ ।।

ज्ञानबोधेन नैवाऽऽत्मा मितो, नाप्यात्मसंविदा ।।
ज्ञानं, न च द्वयंं, भेदादभेदेऽनुभवः स्वतः ।। १०७० ।।

किं प्रमा­ण­म­हं­रू­प­मु­ताऽऽ­त्मै­वेति कथ्यताम् ।।
प्रत्य­क्ष­त्वान्न तन्मानं नाऽऽत्मा, स्वार्थजडत्वतः ।। १०७१ ।।

न चाप्या­त्म­न्य­वि­ज्ञा­तेऽ­हं­बुद्धेः सिद्धता तव ।।
येनाऽऽत्मा स्याद­हं­बु­द्धे­र­नु­मेया हि सा स्थिता ।। १०७२ ।।

निरंशस्य न चाप्यं­श­क­ल्प­नाऽ­प्यु­प­प­द्यते ।।
स्वात्मतन्रे च विषये मानबोधः सदा भवेत् ।। १०७३ ।।

अज्ञातत्वं विना मानं नाहंप्रत्यय आत्मनः ।।
अज्ञातत्वमतो वाच्य­मा­त्म­नोऽत्र घटादिवत् ।। १०७४ ।।

तस्या­प्य­नु­भ­वा­त्सि­द्धि­र्य­द्यु­च्येत घटादिवत् ।।
सिद्ध आत्मा पृथङ्यातुर्नो चेन्माता न सिध्यति ।। १०७५ ।।

प्रमा­ण­सं­प्ल­वोऽ­प्युक्तो दूरादेव निवर्तितः ।।
अन्यत्रापि हि मानानां नैव संप्लवं इष्यते ।। १०७६ ।।

अज्ञातावगमे यद्व­त्प्र­मा­त­र्य­र्पितं फलम् ।।
न मेये पूर्वमानेन तद्व­न्मा­ना­न्त­रै­रपि ।। १०७७ ।।

अतोऽ­न­धि­ग­ता­वे­शा­त्स­र्वेषां संप्लवः कुतः ।।
मान्त­रै­र­व­बु­द्धेऽपि ज्ञातेऽ­प्य­ज्ञा­त­तोऽ­न्यतः ।। १०७८ ।।

अथाप्यवगमो मेये तथाऽपि स्यान्न संप्लवः ।।
पूर्वोऽनधिगते वृत्तः प्रत्ययोऽधिगते परः ।। १०७९ ।।

पूर्वेण निश्चिते चेत्स्या­न्नो­त्त­रस्य प्रमाणता ।।
तथा संदेह एक­स्मा­द­न्य­स्माद्धि विनिश्चयः ।। १०८० ।।

निःसा­मा­न्य­वि­शे­षेषु नातः संप्लव इष्यते ।।
यथाऽन्यत्र तथेहापि वेदा­न्ते­ष्व­भ्यु­पे­य­ताम् ।। १०८१ ।।

यतो मानानि सिध्यन्ति जाग्रदादित्रयं तथा ।।
भावाभावविभगश्च स ब्रह्मास्मीति बोध्यते ।। १०८२ ।।

यतोऽसिद्धानि सिध्यन्ति, भावाभावौ यदाश्रयौ, ।।
योऽनन्यार्थो यदर्थं च सर्वं, योऽनन्यट्टक्सदा ।। १०८३ ।।

प्रमेयादित्रयं यस्मा­त्प­र­स्प­र­वि­ल­क्ष­णम् ।।
आत्मानं लभते सत्यः सोऽध्य­क्षो­त्रा­भ्यु­पे­य­ताम् ।। १०८४ ।।

असं­कु­चि­त­चि­त्पद्मः प्राज्ञे स्वप्नप्रबोधवत् ।।
तथा प्रफु­ल्ल­बो­धाब्जः प्राज्ञ­व­त्स्व­प्न­बो­धयोः ।। १०८५ ।।

साक्ष्यसंबन्धतः साक्षी न स्वतः साक्षिताऽऽत्मनः ।।
प्रत्य­ङ्या­त्रै­क­ट्ट­ष्टि­त्वा­द्धियां वाचामगोचरः ।। १०८६ ।।

अस्मत्पक्षे हि कर्त­व्य­म­वि­द्या­मा­त्र­क­ल्पि­तम् ।।
तदभावान्न संसारो भूतो भावी न वर्तते ।। १०८७ ।।

स्वाभा­वि­क्य­प्य­वि­द्ये­य­म­नु­भू­त्याऽ­व­भा­सिता ।।
तमः सूर्योदयेनेव ज्ञानेनोत्कृत्य नाश्यते ।। १०८८ ।।

अनादिकालमज्ञानं ज्ञानेनाऽऽदिमता क्षणात् ।।
दृश्यते नाश्यमानं हि न चास्याऽऽ­वृ­त्ति­री­क्ष्यते ।। १०८९ ।।

एवंभूतोऽप्ययं प्रत्य­क्स्वा­त्मा­नु­भ­व­सं­श्र­यात् ।।
व्युत्पत्तेः प्रागविज्ञातः सर्वा­ज्ञा­ना­दि­सा­क्ष्यपि ।। १०९० ।।

तत्त्व­म­स्या­दि­त­स्त­स्मा­दा­ग­मा­देव नान्यतः ।।
ऐकात्म्यवस्तुनः साक्षा­द्व्यु­त्प­त्ति­र­वि­ची­लिनी ।। १०९१ ।।

तस्यास्य कर्मकाण्डेन संबन्ध इति यः पुरा ।।
प्रश्न­स्त­न्नि­र्ण­या­र्थाय सर्व­थे­त्या­दि­रु­त्तरः ।। १०९२ ।।

ननु सिद्धे यथोक्तार्थे नाऽऽरम्भे हेतुरीक्ष्यते ।।
कृत्स्न­प्र­यो­ज­ना­वाप्तेः पूर्वोक्तैरेव कर्मभिः ।। १०९३ ।।

नैतदेवं सुखेप्साया जिहासायाश्च दुःखतः ।।
निदा­न­स्या­नि­षि­द्ध­त्वा­त्पू­र्वोक्तैः कर्मभिः पुरा ।। १०९४ ।।

निःशे­षा­ह­ला­द­सं­प्राप्तिः सर्वा­न­र्थ­नु­ति­स्तथा ।।
सर्वेषां प्राणि­ना­मे­त­त्स्वत इष्टं प्रयोजनम् ।। १०९५ ।।

आत्म­न­स्त­च­त्त्व­मे­तच्च सिद्धं चैतन्यवद्यतः ।।
अथैष, यो वै भूमे­ति­श्रु­ति­मा­ना­नु­भू­तितः ।। १०९६ ।।

स्वर्ग­श­ब्दा­भि­ध­श्चायं पुमर्थो यो यथोदितः ।।
स्वर्ग­मि­त्या­दि­भि­र्वा­क्यै­स्र­य्य­न्ते­ष्वपि गीयते ।। १०९७ ।।

स्वर्गं पुमर्थमुद्दिश्य सर्व­प्रा­ण­भृ­ता­मि­यम् ।।
वाङ्य­नः­का­य­चेष्टा स्याद्याऽपि तत्साधनोपगा ।। १०९८ ।।

उत्प­त्त्या­द्य­र्थ­नि­ष्ठानां सर्वेपामपि कर्मणाम् ।।
स्वर्गे नैवाधिकारोऽस्ति तस्य सिद्धत्वतः स्वतः ।। १०९९ ।।

स्वात्म­सा­ध्या­ति­रे­केण सर्वमेव हि साधनम् ।।
नालं साध्यान्तरायेह किम्व­सा­ध्या­र्थ­सिद्ध्ये ।। ११०० ।।

यथो­क्त­पु­रु­षा­र्थस्य यद्य­प्या­प्त­स्व­भा­वता ।।
आत्मस्वभावतो नाऽऽप्ति­स्त­थाऽ­प्य­ज्ञा­न­हे­तुतः ।। ११०१ ।।

अवि­द्या­व्य­व­धा­नस्य नाऽऽत्म­ज्ञा­ना­ति­रे­कतः ।।
प्रध्वस्तिः कर्मभिः कर्तुं शक्या तेषाममानतः ।। ११०२ ।।

व्यञ्जकं विर­ह­य्या­न्य­त्सा­धनं कारकात्मकम् ।।
तदभिव्यक्तये नालं स्वतःसिद्धस्य वस्तुनः ।। ११०३ ।।

कर्म­भि­र्ना­प­नी­तोऽतः प्रत्य­ङ्भ्यो­होऽ­प्र­मा­णतः ।। ११०४ ।।
यावच्च सम्य­ग्वि­ज्ञा­न­व­ह्नि­नाऽसौ न दह्यते ।।
न तावत्किं चिदप्याप्तं सुखं दुःखविवर्जितम् ।। ११०५ ।।

नालं विमुक्तये काम्यं यदि नाम तथाऽपि तु ।।
पुंसो वैरा­ग्य­हे­तु­त्वा­दु­प­का­र्येव तन्मतम् ।। ११०६ ।।

असह्यदुःखफलतः स्वका­र्य­वि­नि­वृ­त्ति­कृत् ।।
विरक्तिहेतुतः कर्म प्रतिषिद्धं यथा तथा ।। ११०७ ।।

अपि काम्यं कृतं सर्वं दुःखा­त्म­क­फ­ल­त्वतः ।।
आवि­रि­ञ्च्या­त्स्व­का­र्येभ्यः स्यादेव विनिवृत्तये ।। ११०८ ।।

इ्त्युक्त­प्र­ति­प­त्त्य­र्थ­मा­ज­गा­मो­त्तरं वचः ।।
एकवाक्यत्वमेवं च वेदस्य स्यादसंशयम् ।। ११०९ ।।

दक्षि­णो­द­ग­धो­गत्या प्रत्य­ग­ज्ञा­न­मू­ढधीः ।।
ब्रम्भ्र­मी­त्य­निशं दुःखी पुमा­न्क­र्म­पु­रः­सरः ।। १११० ।।

काम्यै­र्द­क्षि­ण­म­न्वेति ज्ञान­यु­क्तै­स्त­थो­त्त­रम् ।।
निषि­द्धै­श्चा­प्य­धो­जन्म कर्म­सं­भा­र­सं­भृ­तकः ।। ११११ ।।

धर्मा­ध­र्मां­श­साम्ये च मनुष्यत्वं प्रपद्यते ।।
ब्रह्माद्या स्थावरान्तैवं प्रत्य­ग­ज्ञा­न­हे­तुजा ।।
नाम­रू­पे­ह­चि­त्राऽऽद्या स्वप्न­मा­ये­न्द्र­जा­ल­वत् ।। १११२ ।।

धर्मा­ध­र्मा­द्यु­पा­दा­न­सा­धना नश्वरी गतिः ।। १११३ ।।
व्याकृतं नामरूपाभ्यां यद्यपीदं श्रुतौ श्रुतम् ।।
आत्म­त­त्त्वा­न­भि­व्य­क्ते­र्ना­भि­व्यक्तं तदुच्यते ।। १११४ ।।

अवि­द्या­ति­मि­रो­च्छित्तौ नाना­वि­ष्कृ­त­म­ण्वपि ।।
कार्य­का­र­ण­व­द्वस्तु नानपास्तं तमोऽप्यतः ।। १११५ ।।

यत एवमतः प्रत्य­ग्या­था­त्म्य­प्र­ति­प­त्तये ।।
प्रारब्धेयं प्रयत्नेन वेदा­न्तो­प­नि­ष­त्परा ।। १११६ ।।

यथो­क्त­फ­ल­सि­द्ध्य­र्थ­मा­र­ब्धो­प­नि­ष­द्यदि ।।
ब्रह्म वा इदमित्यादि कस्मा­न्नाऽऽ­र­भ्य­तेऽ­धुना ।। १११७ ।।

येषा­म­न­धि­का­रोऽत्र ह्यश्वमेधक्रतौ भवेत् ।।
इत एव तु विज्ञानातेषां तत्फलकीर्तनम् ।। १११८ ।।

कर्मगोचरतैवात्र विज्ञानस्यापि चेन्मतम् ।।
विक­ल्प­श्र­व­णा­न्मैवं कर्मणा विद्ययाऽथवा ।। १११९ ।।

यजते योऽश्वमेधेन यश्चैवं वेद तं क्रतुम् ।।
फलं तुल्यं तयोर्युक्तं कर्मिणो विदुषस्तथा ।। ११२० ।।

उपास्तेरपि कर्म­त्वा­द­श्व­मे­ध­क्र­तो­रिव ।।
नातो धियोऽर्थवादत्वं तद्विधेर्नितरां न च ।। ११२१ ।।

एतावदेव चेदत्र भवतैवं विवक्षितम्‌ ।। ११२२ ।।
प्रयोजनं तत्सुकरं विध्युद्देशेऽपि भाषितुम् ।।
विद्याप्रकरणे तस्य त्वाम्नायः किमितीर्यताम् ।। ११२३ ।।

सोऽपि ज्ञानेन संयुक्तो हयमेधो महाक्रतुः ।।
संसारफल एवेति प्रवृ­त्त्य­ङ्ग­त­यो­च्यते ।। ११२४ ।।

प्रत्य­ग्बो­धा­ति­रे­केण साध­ना­न्त­र­नि­स्पृहाः ।।
निर्ज्ञा­ता­शे­ष­क­र्मो­त्थ­फ­ल­फ­ल्गु­त्व­बु­द्धयः ।। ११२५ ।।

मुमुक्षवः प्रवर्तेरन्कथं नामाऽऽत्मवेदने ।। ११२६ ।।
संसारफलता काममस्तु काम्यस्य कर्मणः ।।
नित्या­ना­म­फ­ल­त्वात्तु मुक्तिरेवास्तु तत्फलम् ।। ११२७ ।।

न ह्युत्सर्गेण सर्वेषां फलवत्त्वस्य संश्रवात् ।।
कर्मणा पितृलोकादि नित्यानामेव तत्फलम् ।। ११२८ ।।

फलवत्त्वे हि नित्यानां काम्यत्वमिति चेन्मतम् ।।
नैवं शुद्धि­प्र­मा­ण­त्वा­द्भो­ग­नि­ष्ठस्य काम्यता ।। ११२९ ।।

काम्येऽपि शुद्धिरस्त्येव भोग­सि­द्ध­र्य­र्थ­मेव सा ।।
विड्व­रा­हा­दि­दे­हेन न ह्यैन्द्रं भुज्यते फवम् ।। ११३० ।।

नित्येषु शुद्धेः प्राधा­न्या­द्भो­गोऽ­प्य­प्र­ति­ब­न्धकः ।।
भोगं भङ्गुरमीक्षन्ते बुद्धि­शु­द्ध्य­नु­रो­धतः ।। ११३१ ।।

तमे­त­मि­त्य­त­श्चो­च्चै­र्वे­दा­नु­व­च­ना­दिना ।।
विरक्ताः सर्व­सं­सा­रा­ज्जि­ज्ञा­सन्ते परं पदम् ।। ११३२ ।।

आरा­दे­वो­प­कु­र्वन्ति नित्या­न्या­त्म­वि­शु­द्धितः ।।
आत्मा­ज्ञा­ना­वि­रो­धि­त्वा­त्सा­क्षान्न त्वात्मबोधवत् ।। ११३३ ।।

त्यक्त्वा कर्मा­ण्य­तोऽ­सङ्गाः प्रत्य­क्प्र­व­ण­बु­द्धयः ।।
अपास्तरागादिमला ईक्षन्ते ज्ञं स्वमात्मनि ।। ११३४ ।।

अतोऽ­शे­ष­म­हा­न­र्थ­हे­त्वा­त्मा­ज्ञा­न­हा­नि­कृत् ।।
प्रत्य­ग्या­था­त्म्य­वि­ज्ञा­न­भा­स्क­रो­द­य­हे­तवे ।।
आरब्धेयं प्रयत्नेन वेदा­न्तो­प­नि­ष­त्परा ।। ११३५ ।।

शतानि दश चैकं च चत्वा­रिं­श­त्त­थाऽष्ट च ।।
श्लोकाः संब­न्ध­भा­ष्येऽ­स्मि­न्सं­ख्याताः संख्ययाऽखिलाः ।। ११३६ ।।

तत्राश्वविषयं तावदादौ दर्शनमुच्यते ।।
प्राजा­प­त्य­त्व­हे­तो­श्चा­प्य­श्व­ना­मा­ङ्कि­त­त्वतः ।। १ ।।

अश्वस्य यच्छिरः साक्षात्तदुषा इति चिन्तयेत् ।।
हरेरवयवेष्वेवं योज्या कालादिदृष्टयः ।। २ ।।

संस्का­र्य­त्वा­त्प­शो­रेवं दृष्टीरङ्गेषु योज्येत् ।।
काला­दा­व­म­र­वा­ङ्ग­त्वा­न्ना­श्व­दृ­ष्टि­र्वि­धि­त्स्यते ।। ३ ।।

सत्स्वश्वादिषु काला­दि­दृ­ष्टी­र­ङ्गेषु योजयेत् ।।
अस­त्स्वा­त्मा­न­मे­वाश्वं कल्पयित्वा नियोजयेत् ।। ४ ।।

कर्ता­र­म­श्व­मग्निं च चित्यं सर्वं प्रजापतिम् ।।
अश्चमेधफलं चार्कं वेत्ति मृत्युं यथोदितम् ।। ५ ।।

अक­र्ताऽ­प्य­श्च­मे­धस्य ब्राह्मणश्चेह बुद्धिमान् ।।
क्रत्वात्मा मृत्युरस्मीति तादात्म्यं सोऽधिगच्छति ।। ६ ।।

अश्व­सं­ज्ञ­प­ना­त्पूर्वं तथोर्ध्वं चापि हाटक -
राज­ता­त्म­क­पा­त्राभ्यां गृह्येते तत्र यौ ग्रहौ ।।

महिमाख्यौ तयोरेतदहर्वा इति दर्शनम् ।। ७ ।।
व्यत्य­ये­ना­व­वो­द्धव्या प्रथमार्थे च सप्तमी ।। ८ ।।

समुद्र ईश्वरो ज्ञेयो योनिः कारंणमुच्यते ।।
सर्वस्य जगतो यंस्मादीश एवेह कारणम् ।। ९ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके प्रथमं ब्राह्मणम्

अथाग्नेरुच्यते जन्म हयमेधोपयोगिनः ।।
तद्द­र्श­न­वि­धि­त्सा­यै­स्तु­त्य­र्थो­त्प­त्ति­रि­ष्यते ।। १ ।।

नामवद्रूपवच्चेह कारणं यावदीक्ष्यते ।।
नाभू­त्त­त्प्रा­क्स­मु­त्पत्तेः प्राणा­द्यु­त्प­त्ति­सं­श्र­वात् ।। २ ।।

कार्य­मु­त्प­त्ति­म­त्त्वा­च्चे­त्प्रा­गु­त्प­त्ते­र्नि­षि­ध्यते ।।
कारणस्य त्वनु­त्प­त्ते­र­नि­षे­ध­स्तथा सति ।। ३ ।।

तथा चानुपलब्धेश्च कार्यस्यैवास्तु नास्तिता ।।
कारणस्य न नास्ति­त्व­मु­क्त­हे­त्वो­र­सं­भ­वात् ।। ४ ।।

सर्व­स्या­नु­प­ल­ब्धेस्तु मैवं वोचो यतः श्रुतिः ।।
नैवेह किंचनेत्याह कार­णे­त­र­नि­ह­नु­तिम् ।। ५ ।।

नैवं यतः श्रुतिः साक्षा­त्स­त्त्व­मे­वा­व­द­त्स्व­यम् ।।
कार्यकारणयोः स्पष्टं मृत्युनैवेति सादरा ।। ६ ।।

मृत्युना कारणेनेदं कार्यं सर्वं समावृतम् ।।
इति नाव­क्ष्य­द्य­द्ये­त­दु­भयं नाभवत्पुरा ।। ७ ।।

प्राण­पि­ण्डा­दि­का­र्याणां समुद्रः परमेश्वरः ।।
बन्धुः कारणमात्मोक्तो मृत्युरत्र स एव तु ।। ८ ।।

ज्ञान­मा­त्र­स­तत्त्वं यह्ब्र­ह्मा­ज्ञा­त­स­त­त्त्व­कम् ।।
मृत्युर्जनिमतः साक्षात्तत्र कार्याप्ययत्वतः ।। ९ ।।

सद्बीजं सत्प्रतिष्ठं च सदायतनमेव च ।।
प्रत्यक्षमेत्र सत्सिद्धं सद­न्य­स्या­प्र­सि­द्धितः ।। १० ।।

असत्सदतिरेकेण यदि वाऽव्यतिरेकतः ।।
व्यतिरेके सदेवासदसद्वा तत्किमुच्यते ।। ११ ।।

नेह सद्व्यतिरेकेण स्वमहिम्ना प्रसिध्यति ।।
सर्वस्य सद­पे­क्ष­त्वा­त्सत्तु नान्यदपेक्षते ।। १२ ।।

मतमव्यतिरेकेण सतोऽ­स­त्स­त्त­दि­ष्य­ताम् ।।
कुतोऽदो लभतेऽसत्त्वं यत्सदात्मनि निष्ठितम् ।। १३ ।।

अन्यो­न्य­व्य­ति­रे­कि­त्वा­न्ना­न्यो­न्या­त्म­कता तयोः ।।
विरोधित्वाच्च नान्योन्यं संब­न्ध­स्ता­प­शी­त­वत् ।। १४ ।।

स्फुरताऽपि सतो नान्यदभिधातुं घटादिवत् ।।
शक्यते नाभिधानेन ह्यसद्वस्तु निरुच्यते ।। १५ ।।

वस्तुनोऽतिशयः कश्चि­द­भा­व­व­च­सो­च्यते ।।
तस्य तेना­भि­सं­व्या­प्तेर्न कथंचिदपहनुतिः ।। १६ ।।

क्रिया वा तत्फलं वा स्यादभावो नाऽऽत्महेतुहा ।।
यो यतो लभते सत्तां निरुणद्धि स तं कथम् ।। १७ ।।

न नाशो हन्ति नष्टारं गन्तारमिव तद्नतिः ।।
यो यतो लिप्सते सिद्धिं स तं हन्ति कथं वद ।। १८ ।।

विज्ञा­ना­व्य­ति­रेकी चेदभावः स्यात्सहेतुकः ।।
ध्वंसा­द­व्य­ति­रे­केऽपि धियो नित्यत्वमापतेत् ।। १९ ।।

अतोऽ­भा­व­त्व­सि­द्ध्य­र्थ­म­भा­वे­ना­प्य­पे­क्ष्यते ।।
स्वहेतुसिद्धिः कार्योऽर्थो न दृष्टः कारणं विना ।। २० ।।

धर्म्यसिद्धिः प्रतिज्ञायां हेतुश्चानाश्रयो भवेत् ।।
न चास्ति कश्चिहृष्टान्तः सर्व­शू­न्य­त्व­वा­दिनः ।। २१ ।।

विज्ञानमात्रं यस्यापि जगदेतश्चराचरम् ।।
प्रति­ज्ञा­हे­तु­दृ­ष्टा­न्तै­र्ज्ञानं तेनापि दूष्यते ।। २२ ।।

मानाभेदाच्च मेयस्य नाज्ञातार्थः प्रसिध्यति ।।
तादात्म्येऽपि न चेज्ज्ञातो मानात्कोऽतिशयो मतः ।। २३ ।।

अज्ञाताधिगमं कुर्वन्मानं स्यात्स­र्व­वा­दि­नाम् ।।
न चेच्छु­क्ति­त­मो­जस्य ज्ञानस्यापि प्रमाणता ।। २४ ।।

विज्ञा­ना­व्य­ति­रे­कि­त्वा­द­सि­द्धा­दे­स्त­थैव च ।।
प्रामा­ण्य­व­त्प्र­सङ्गः स्याद­प्र­मा­त्वेऽपि ते ध्रुवम् ।। २५ ।।

अजमेकं स्वतःसिद्धं प्रत्यं­ग्रू­प­म­न­न्य­दृक् ।।
वस्त्वेवं चेदिहाभीष्टं किमर्थं साध्यतेऽपरम् ।। २६ ।।

एवं­भू­ता­त्म­सि­द्ध्यर्थं कारणादि प्रसाध्यते ।।
उपायः सोऽवताराय तथा तज्ज्ञैश्च सूत्रितम् ।। २७ ।।

कारणादिनिषेधेन न चाद्वै­त­म­भी­प्सि­तम् ।।
ऐका­त्म्य­बो­ध­मा­त्रेण निषे­ध­स्या­प्य­प­ह­वात् ।। २८ ।।

सतत्त्वकमिदं सर्वमिति संसाध्य यत्नतः ।।
तस्यापि संविन्मात्रेण पूर्णतैवोच्यते सतः ।। २९ ।।

सदेवाऽऽगमतः सर्वं प्रत्यक्षाच्च सदीक्ष्यते ।।
अनुमानाच्च सत्सर्वं यथा तदधुनोच्यते ।। ३० ।।

अनुमेयं च सत्पूर्वं कारणं कार्यमेव च ।।
जग­त्प्र­सू­ते­स्त­च्चेह प्रयोगेण प्रदर्श्यते ।। ३१ ।।

विवादगोचरापन्नं सत्कारणमिदं भवेत् ।।
कार्यात्मकं मनोऽवादि कार्य­त्वा­त्क­ट­कु­म्भ­वत् ।। ३२ ।।

हेतु­म­ज्ज­नि­म­त्सर्वं कार्य­त्वा­त्प­ट­कु­म्भ­वत् ।।
वियदादि च नः कार्यं तदप्येवं प्रतीयताम् ।। ३३ ।।

असत्कारणकं कार्यं तद्विनाश्यास्य जन्मतः ।।
सर्वं स्वहे­तु­मु­न्मूल्य जाय­तेऽ­ङ्कु­र­कु­म्भ­वत् ।। ३४ ।।

स्वकारणं चेदुत्साद्य कार्यं सर्वं प्रजायते ।।
तत्कारणविनाशाय तत्सूतेः प्राक्क्व ईर्यताम् ।। ३५ ।।

स्वहे­तू­च्छि­त्त­येऽलं चेदजातमपि सद्यदि ।।
द्वय­म­प्य­भ्यु­पेतं स्यान्न ह्यस­द्ध­न्य­तेऽ­सता ।। ३६ ।।

विनाशस्यापि कार्य­त्वा­त्सोऽपि सत्कारणो मम ।।
न चेत्कार्यो विनाशः स्यान्ना­शोऽ­का­र्येण नेष्यते ।। ३७ ।।

स्वकारणविनाशाय सिद्धं घाऽसिद्धमेव वा ।।
अङ्कुरादि मतं कार्यं नोभयत्रापि युज्यते ।। ३८ ।।

सिद्धं चेत्का­र­णा­त्सि­द्ध­मु­प­मर्दे विनैव तु ।।
उत्पन्नेन च तन्नाश उत्प­न्न­त्वा­द­न­र्थकः ।। ३९ ।।

उपमृद्गाति चेत्का­र्य­म­था­सिद्धं स्वकारणम् ।।
तत्कारणं कथं तत्स्यान्न चेत्त­स्मा­त्प्र­जा­यते ।। ४० ।।

उपमर्दोऽपि कार्यत्वात्किं न हन्या­त्स्व­का­र­णम् ।।
हन्तर्यसति हानो­क्ति­र्ल­क्ष्यते शिशुवक्तृका ।। ४१ ।।

नंष्ट्टतत्रो विनाशोऽपि गन्तृतन्त्र गतिर्यथा ।।
नास्तीह कश्चि­द्धा­त्वर्थो यः स्वहेतुं विनाशयेत् ।। ४२ ।।

निर्हे­तु­ना­श­सं­व्या­प्तेर्न स्यात्कु­म्भ­ज­नि­र्मृदः ।।
न वीजा­द­ग्नि­सं­व्या­प्ता­द­ङ­कु­रो­द्भू­ति­री­क्ष्यते ।। ४३ ।।

घटादेः कारणं पिण्ड इति नाभ्युपगम्यते ।।
मृदेव कारणं यस्मा­त्पि­ण्डा­दे­र­व­ग­म्यते ।। ४४ ।।

यदेव कारणं मानैरिह साक्षा­द्वि­नि­श्चि­तम् ।।
तदे­वो­त्त­र­का­र्येषु, न कार्यं कारणं मितेः ।। ४५ ।।

विनाशोऽतिशयः कश्चिद्यदि पिण्डादिवन्मतः ।।
प्रत्य­क्षा­त्त­द्द्वयं सत्स्यान्नो चेदस्तु ध्रुवो घटः ।। ४६ ।।

क्रिया वा तत्फलं वा स्याद्व­स्त्व­न्त­र­म­थापि वा ।।
नाशोऽथ वा न किंचि­त्स्या­त्सत्त्वं नैवमपोद्यते ।। ४७ ।।

क्रियाऽप्यस्ति फलं चास्ति तद्व­द्व­स्त्व­न्तरं च सत् ।।
अथ नाशोऽपि नैवास्ति तं विना सदिदं जगत् ।। ४८ ।।

सन्नेव नाशोऽ­पी­ष्ट­श्चे­त्स­त्सता न विरुध्यते ।।
ऐकात्म्येऽपि विरोधश्चेन्नाशो नाशेऽपि शङ्क्यते ।। ४९ ।।

पिण्डादिना विनाऽपीदं मृदादेः केवलादपि ।।
घटा­द्यु­त्प­द्य­मानं तु कार्यं दृष्टमतो ध्रुवम् ।। ५० ।।

मृदाद्येव ततो ग्राह्यं कारणं ह्यन्वयान्मृदः ।।
कार्यमेव तु पिण्डादि तस्य कार्ये­ष्व­न­न्न­यात् ।। ५१ ।।

विरु­द्धा­ने­क­का­र्याणां युगपज्जन्म नेष्यते ।।
एक­स्मा­त्का­र­णा­त्त­स्मा­त्पि­ण्डा­भावे घटोद्बवः ।। ५२ ।।

पिण्डा­दि­व्य­ति­रे­केण कारणानुपलब्धितः ।।
असत्त्वं चेन्मृदादेः स्यान्न मानानुपपत्तितः ।। ५३ ।।

पिण्डा­दि­व्य­ति­रे­केण यदि मानं भवेत्ततः ।।
मृदादि कारणं लब्धं न मानं स्यान्मृदा विना ।। ५४ ।।

पिण्डा­दि­व्य­ति­रे­केण पिण्डादाविव चेत्प्रमा ।।
सिद्धं कारणमेवं स्यान्न मा मेयं विना यतः ।। ५५ ।।

असाधारणरूपेषु व्यावृ­त्ते­ष्वि­त­रे­त­रम् ।।
बहुष्वेकं यदाभाति प्रत्यक्षं कारणं तु तत् ।। ५६ ।।

सादृ­श्या­द­न्व­य­भ्र­न्ति­स्त­न्नि­वृ­त्ता­व­पीति चेत् ।।
नैवं पिण्ड­स्थ­दृ­ष्टानां घटादावपि दर्शनात् ।। ५७ ।।

प्रत्य­भि­ज्ञा­य­मा­नेऽर्थे तदेवेदमिति ध्रुवे ।।
लिङ्ग­मा­भा­स­ता­मेति प्रत्य­क्षा­र्थ­वि­रु­द्ध­मित् ।। ५८ ।।

विरु­द्धा­व्य­भि­चा­रित्वं न च प्रत्य­क्ष­लि­ङ्गयोः ।।
प्रत्य­क्षा­पा­श्र­या­न्नित्यं नानपेक्षं तदक्षवत् ।। ५९ ।।

विरु­द्धा­व्य­भि­चा­रित्वं समानबलयोर्यतः ।।
दृष्टं सर्वत्र लोकेऽस्मिन्न तु सिंहशृगालयोः ।। ६० ।।

क्षणिकत्वे च भावानां प्रत्य­भि­ज्ञा­द्य­सं­भवः ।।
न ह्यन्यदृष्टं वस्त्वन्यैः प्रत्यभिज्ञायते क्वचित् ।। ६१ ।।

क्षणिकं चेदिदं सर्वं प्रत्य­भि­ज्ञा­प्र­मा­ण­कम् ।।
अन्य­त­द्बु­द्ध्य­पे­क्षत्वं तद्बुद्धेर्वः प्रसज्यते ।। ६२ ।।

इदं क्षणि­क­मि­त्ये­त­त्क्ष­णि­कत्वे न सिध्यति ।।
इदं­क्ष­णि­क­ता­बु­द्ध्यो­र्भि­न्ना­धि­क­र­ण­त्वतः ।। ६३ ।।

अज्ञातं ज्ञायते यस्य तथाऽजातं च जायते ।।
प्रत्य­भि­ज्ञा­मृते तस्य प्रतिज्ञार्थो न सिध्यति ।। ६४ ।।

अनवस्था च दुर्वारा ह्यविश्चासश्च जायते ।।
मृपा­त्वा­त्स­र्व­बु­द्धीनां न क्वचि­न्नि­श्चि­ति­र्भ­वेत् ।। ६५ ।।

संब­न्धा­नु­प­प­त्तिश्च तदि­दं­ज्ञा­न­यो­र्ध्रु­वम् ।।
संब­न्ध­क­र्त­र्य­सति न च सादृ­श्य­सं­श्र­यात् ।। ६६ ।।

ध्वंसिनोरिव सादृश्यं स्थायिनोरपि नेष्यते ।।
ग्राहकेऽसति तद्भिन्ने बुद्धीनां चैकरूपतः ।। ६७ ।।

नाश­भे­द­वि­रु­द्धा­र्थ­प्र­मेये च व्यवस्थिते ।।
प्रत्यर्थिनि हि प्रत्यक्षे तद्विरुद्धः कुतोऽमितेः ।। ६८ ।।

अनु­त्प­न्नो­त्पि­त्सू­त्प­न्नोऽ­नष्टो नाशादिकृत्तथा ।।
एव­म­ष्ट­क्ष­णा­वस्थो भावोऽवश्यं त्वयेष्यते ।। ६९ ।।

अन्यो­न्या­वि­ष­यत्वे तु कुतः सादृश्यधीरियम् ।।
सदृशार्थे विनैवेयं क्लृप्ता सादृश्यधीर्यदि ।। ७० ।।

मृगा­म्बु­धी­व­न्मि­थ्यात्वं स्यादेवं तदिदांधियोः ।।
असद्विषयतैवेह सर्वासमपि चेद्धियाम् ।। ७१ ।।

नैवं बुद्धेरपि तथा ह्यसद्विषयता भवेत् ।।
अस्त्वेवं सर्ववुद्धीनां मृषात्वमिति चेन्मतम्स।। ७२ ।।

नैवं स्यात्स­र्व­बु­द्धीनां मृषात्वे मित्यसंभवात् ।।
कारणस्यास्तिता तस्मात्सिद्धा कार्यो­द्भ­वा­त्पुरा ।। ७३ ।।

कार्यस्यापि यथाऽस्तित्वं तथेदानीं प्रपञ्चयते ।।
सत्त्वपूर्वमिदं कार्यं तमो­न्त­स्थ­घ­टा­दि­वत् ।।
तस्या­भि­व्य­क्ति­ध­र्म­त्वा­द­न्यथा स्यान्नृ­शृ­ङ्ग­वत् ।। ७४ ।।

सत्यामपि च सामग्र्यां वन्ध्या­पु­त्रा­द्य­स­त्त्वतः ।।
विज्ञा­ना­ल­म्व­नत्वं नो न कदा­चि­त्प्र­प­द्यते ।। ७५ ।।

सर्वं सदेव चेदि­ष्ट­मु­प­ल­भ्येत ते सदा ।।
सामग्र्यां घटवत्सत्यां सर्वं सद्वादिनो ध्रुवम् ।। ७६ ।।

न विद्यमानमात्रेण ह्यभि­व्य­क्ति­र­पी­ष्यते ।।
सदेव वस्त्वभिव्यक्तं तथाऽव्यक्तं च लक्ष्यते ।। ७७ ।।

अङ्गी­क­र्त­व्य­मे­तच्च भव­द्भि­र­वि­श­ङ्कितैः ।।
न चेद्वः सर्वसिद्धान्तो नश्ये­त्सै­क­त­कू­प­वत् ।। ७८ ।।

प्रमा­ण­व्य­ति­रे­केण प्रमेयोऽर्थो भवन्भवेत् ।।
मानादव्यतिरेके हि मानमेयौ न सिध्यतः ।। ७९ ।।

कारणस्यापि नास्तित्वं कार्यासत्त्वे प्रसज्यते ।।
न हि कार्य­म­ना­श्रित्यं कारणं जगतीक्ष्यते ।। ८० ।।

सत्तामात्रेण किं कार्यं सम­वा­य्या­दि­का­र­णम् ।।
साधयेद्व्यापृतं वेदं तथाऽपीष्टं न सिध्यति ।। ८१ ।।

सत्तामात्रेण चेत्कु­र्या­त्का­र­ण­त्रि­तयं तदा ।।
कार्यो­त्प­त्ति­स्थि­ति­लयाः प्राप्नु­यु­र्यु­ग­प­त्सदा ।। ८२ ।।

अविशेषाच्च सत्तायाः सर्वतः सर्वसंभवः ।।
सर्व एव न संसि­ध्ये­द्व्य­व­हा­रश्च लौकिकः ।। ८३ ।।

त्रीण्येव कारणानीति निष्फ­लाऽ­व­धृ­ति­र्भ­वेत् ।।
यथा त्रयं तथा सर्वं सत्तया किं न कारणम् ।। ८४ ।।

संभूय कार्यं कुर्या­च्चे­त्का­र­ण­त्रि­तयं तदा ।।
मेलनस्यापि कार्यत्वात्कथं तत्स्यात्रयं विना ।। ८५ ।।

कारणत्रितये नाथ एकैकस्य प्रसिध्यति ।।
तस्य तस्य तथैवेति साऽनवस्था प्रसज्यते ।। ८६ ।।

वस्तुनः सदसत्त्वाय ह्यभि­व्य­क्त्ये­क­हे­तुतः ।।
ऐश्वर्यं न प्रमाणस्य सत्त्वं वस्तुबलाद्यतः ।। ८७ ।।

द्वैवि­ध्या­दा­वृतेः कार्यं नेक्षते तेन संवृतम् ।।
लब्धात्मकस्य कुड्यादि, प्राक्सूतेः कारणावृतिः ।। ८८ ।।

मृदा­त्म­नो­प­सं­श्लिष्टं कार्यं कारणतामितम् ।।
कारणत्वाद्धि तत्स्थं तत्तदृते कराणं कथम् ।। ८९ ।।

यदि कारणसंस्थं सत्तन्निमित्तं च कारणम् ।।
व्यव­धा­ना­न्त­रा­भा­वा­त्कि­मर्थं नोपलभ्यते ।। ९० ।।

कार्यान्तरेण संस्था­ना­न्मृ­दा­दे­र्नो­प­ल­भ्यते ।।
सदा­त्म­नो­प­ल­ब्धिस्तु न कदाचन हीयते ।। ९१ ।।

नष्टो­त्प­न्न­स­द­भा­व­श­ब्द­प्त­त्य­य­भे­दधीः ।।
अभि­व्य­क्ति­ति­रो­भू­ति­द्वै­वि­ध्या­पे­क्ष­यैव तु ।। ९२ ।।

कुड्याद्यावरणं दृष्टं भिन्नदेशं सदाऽऽवृतात् ।।
कुम्भा­द्य­भि­न्न­दे­शस्थं पिण्डाद्यावरणं कथम् ।। ९३ ।।

नैवं पयो­घृ­ता­दी­ना­मे­क­दे­श­त्व­द­र्श­नात् ।। ९४ ।।
अनावरणता चेत्स्या­त्क­पा­ला­दे­र्घ­टा­त्मनि ।।

अन्तर्भावान्न साध्वे­त­द्वि­भ­क्तानां भवेद्यतः ।। ९५ ।।
आवृतत्वमथ मतं भङ्ग एव प्रसज्यते ।।
यत्नो न तु घटोत्पत्तौ नैवमप्युपपद्यते ।। ९६ ।।

न हि लोकेऽस्ति नियसो र्घटा­भि­व्य­क्ति­हे­तुकः ।।
अनेकसाधना यस्मा­द­भि­व्य­क्ति­रि­हे­क्ष्यते ।। ९७ ।।

दीपेनान्यो, मथा चान्यस्तथा चक्रादिना परः ।।
अभिव्यक्तिं प्रयात्यर्थः पुरा सन्नेव सर्वदा ।। ९८ ।।

तमोविनाशनायैव प्रदीपोऽपीति चेन्मतम् ।।
नष्टे तमसि कुम्भोऽपि स्वय­मे­वो­प­ल­भ्य़ते ।। ९९ ।।

किमेवं भवतः सिद्धं यदि नाम तमोहनुतिः ।।
सदेव व्यज्यते सर्वमिति नैवापनुद्यते ।। १०० ।।

अज्ञा­त­त्वा­प­मा­र्ष्ट्य­र्थ­मु­पा­दि­त्सन्ति मानिनः ।।
मानानि, मान­सं­ब­न्धा­द­ज्ञा­तत्वं च नश्यति ।। १०१ ।।

यतः सति क्रियाभेदे किं पूर्वमिति चोदना ।।
क्रियाभेदे न च न्याय्यं ध्वान्तनाशः क्रियाफलम् ।। १०२ ।।

ज्ञातु­र्ज्ञा­ना­भि­नि­ष्प­त्ति­र्नि­ष्पन्नं मेयमेति सत् ।।
मेयाभिसंगतं तच्च मेयाभत्वं प्रपद्यते ।। १०३ ।।

व्यवधानं तमो यस्मा­द्ध­टोऽ­य­मिति संविदः ।।
प्रकाशवद्धटं चर्ते कुतस्तत्तममो हनुतिः ।। १०४ ।।

प्रमा­ण­व्या­पृ­ते­र्ज्ञा­तोऽ­ज्ञा­तोऽ­ज्ञा­त­त्व­हा­नि­कृत् ।।
घटोऽवगत इत्येतत्ततः संपद्यते फलम् ।। १०५ ।।

यद्यावरणभङ्गाय यत्नः स्याद्धटवित्तये ।।
कार्यान्तरं भवे­द्भ­ङ्गा­त्ते­ना­प्या­वृ­तता घटे ।। १०६ ।।

व्यवधानान्तरं तस्मा­द­न्य­द­प्या­प­ते­त्तदा ।।
अतो नियत एवात्र व्यापारः फलवान्भवेत् ।। १०७ ।।

अती­तै­ष्य­द्ध­ट­ज्ञानं सद्धटालम्बनं भवेत् ।।
घटज्ञानत्वतः साक्षा­दि­ह­त्य­घ­ट­बो­ध­वत् ।। १०८ ।।

अती­तोऽ­ना­ग­तोऽ­र्थोऽ­स­न्यदि वाऽभ्युपगम्यते ।।
अतीतानागतज्ञानं मिथ्येशस्य प्रसज्यते ।। १०९ ।।

प्रत्यक्षं नापि चेशस्य केन­चि­त्प्र­ति­ह­न्यते ।।
अप­वि­द्धा­ति­शी­त्येव तज्ज्ञानं केन हन्यते ।। ११० ।।

घटसत्त्वे पुरो­त्प­त्ते­र­नुमा च प्रदर्शिता ।।
तस्मात्सदेव कार्यं स्यात्प्र­गु­त्प­त्ते­रपि त्रुवम् ।। १११ ।।

एष्यद्धटनिषेधे च विरोधोऽपि प्रसज्यते ।।
भविप्याति न भाव्यर्थो वर्तमाननिषेधवत् ।। ११२ ।।

गृह्यमाणो घटो नासन्निति यद्वद्विरुध्यते ।।
अती­तै­ष्य­न्मि­त­घ­ट­प्र­ति­षे­ध­स्त­था­विधः ।। ११३ ।।

प्राग­भा­वा­द­योऽ­भावाः सन्तः स्युरतिरेकिणः ।।
व्यप­दे­शा­द्ध­टे­नै­षा­म­न्यो­न्या­भा­व­व­द्ध्रु­वम् ।। ११४ ।।

एवं च सति संबन्धो न भावाभावयोर्मिथः ।।
विरो­धा­द्भा­व­यो­र्य­द्व­दे­क­त्वा­न्ना­प्य­भा­वयोः ।। ११५ ।।

असतश्च न संब­न्धोऽ­का­र­क­त्वा­त्क­थं­चन ।।
संबन्धश्च क्रिया­त्म­त्वान्न सिध्येत्कारकं विना ।। ११६ ।।

प्रागभावो घटस्येति घटं एवोच्यते यदि ।।
घट एव घटस्येति व्यपदेशो न युज्यते ।। ११७ ।।

न चासत्त्वं घटस्यैवं, प्रागभावो घटो न च ।।
अवध्यवधिमद्भेदे प्रागभावोऽपि सिध्यति ।। ११८ ।।

अथ प्रकल्प्य संबन्धं घट­स्ये­त्य­भि­धी­यते ।।
क्लृप्तस्यैव ह्यभावस्य व्यपदेशः प्रसज्यते ।। ११९ ।।

अर्था­न्त­र­म­भा­व­श्चे­दुक्तं संस्मर्तुमर्हसि ।।
शश­शृ­ङ्गा­दि­क­ल्पस्य घटस्य स न युज्यते ।। १२० ।।

स्वहे­तु­स­त्ता­सं­बन्धः संबन्धस्य सदाश्रयात् ।।
अथा­स्त्व­यु­त­सि­द्धानां नास­तोऽ­यु­त­सि­द्धता ।। १२१ ।।

न भावाभावयोर्योगो नापि चायमभावयोः ।।
सतोरेव यतो योगः सिद्ध कार्यमतः सदा ।। १२२ ।।

द्वैतै­क­त्वा­त्मकं रूपं वैराजं कार्यमात्मनः ।।
समुद्र एव ह्यस्येति विरा­ट्का­र­ण­म­ब्र­वीत् ।। १२३ ।।

संभूय कार्यभूतानि भूतयोनिं यतो विभुम् ।।
जन्म­स्थि­ति­ल­या­न्यान्ति समुद्रस्तेन विश्वकृत् ।। १२४ ।।

तत्समुद्रं परं ब्रह्म संवि­न्मा­त्र­स­त­त्त्व­कम् ।।
अवि­ज्ञा­ता­त्म­या­थात्म्यं हेतुत्वेनेह शब्द्यते ।। १२५ ।।

इदं जगदुपादानं सर्व­श­क्त्य­ज­म­व्य­यम् ।।
स्वात्मै­का­ज्ञा­न­वृ­त्तेन ग्रसिष्णु प्रभविष्णु च ।। १२६ ।।

स्वाभा­स­व­र्त्म­नै­वै­त­त्स्वा­त्मा­ज्ञा­न­ज­भू­मिषु ।।
इतं बहुत्वमेकं सद्वि­य­द्य­द्व­द्ध­टा­दिषु ।। १२७ ।।

अकारणं सद­ज्ञा­ना­त्का­र­णत्वं यथैत्यजम् ।।
सर्वकारकतामेवं क्रिया­त­त्फ­ल­ता­मपि ।। १२८ ।।

साध्यसाधनता तस्मा­द­ज्ञा­नै­क­व्य­पा­श्र­याम् ।।
उच्चैरनूद्य तत्तत्त्वं वेदान्ताः प्रत्यपीपदन् ।। १२९ ।।

अकारणमकार्ये सत्का­र्य­का­र­ण­ता­म­गात् ।।
मोहादेव ततः शास्रं तदुच्छित्तौ प्रवर्तते ।। १३० ।।

अपीताशेषसंसारं शुद्ध­सं­स्का­र­सं­श्र­यम् ।।
अव्याकृतमिदं ब्रह्म­ह्य­न्त­र्या­मीति चोच्यते ।। १३१ ।।

अज्ञा­ना­नु­प­म­र्देन व्याकृ­ति­र्याऽस्य जायते ।।
स्वप्न­वि­ज्ञा­न­व­न्नासौ सत्य­मे­य­व्य­पा­श्रया ।। १३२ ।।

सम्य­ग्ज्ञा­न­स­मु­त्पत्तौ हेतुत्वं तु निगच्छति ।।
निद्रं हत्वा यतः स्वप्नज्ञानादपि विबुध्यते ।। १३३ ।।

उपे­य­प्र­ति­प­त्त्यैव प्रमाणानां प्रमाणता ।।
वस्तुस्थित्या न सत्यत्वमिति पूर्वमवादिषम् ।। १३४ ।।

नामरूपादिना येयमविद्या प्रथतेऽसती ।।
माया तस्याः परं सौक्ष्म्वं मृत्युनैवेति भण्यते ।। १३५ ।।

मृत्युर्वै तम इत्येवमाप एवेदमित्यपि ।।
अविद्या प्रथते मौली व्यक्ता­व्य­क्ता­त्म­नाऽ­नि­शम् ।। १३६ ।।

एतेभ्योऽसौ समुत्थाय स्वाभा­सा­ना­त्म­ज­न्मना ।।
याति क्षेत्र­ज्ञ­ता­मीशः कूटलस्थोऽपि ह्यविद्यया ।। १३७ ।।

आपो ह्यणुतराः सत्यमसृजन्तेति हि श्रुतिः ।।
क्रिया­वि­ज्ञा­न­श­क्त्यात्मा सोऽपि ब्रह्मासृजत्परः ।। १३८ ।।

विराड्व्रह्माथ ससृजे मनुं देवं प्रजापतिम् ।।
मनु­र्दे­वा­न्म­नु­ष्यांश्च स्थास्नु कृत्स्नं चरिष्णु च ।। १३९ ।।

साध्य­सा­ध­न­व­त्कृ­त्स्न­का­र्य­रू­प­वि­व­क्षया ।।
श्रुतिः प्रववृते सेयं नैवेहेतीह यत्नतः ।। १४० ।।

अश­ना­या­पि­पा­साभ्यां मृत्याो रूपं प्रचक्षते ।।
प्राणस्य तत्र संव­र्गा­द्वा­गा­द­ध्या­त्म­दै­वयोः ।। १४१ ।।

एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।।
स्वं वायु­र्ज्यो­ति­रा­पश्च पृथ्वी विश्वस्य धारिणी ।। १४२ ।।

सृष्टिमेतां समुद्दिश्य तन्मनोऽकुरुतेति या ।।
श्रुतिः प्रवृत्ता निर्वक्तुं यावदव्याकृतं परा ।। १४३ ।।

यद्वा विराजमुद्दिश्य संक­ल्प­म­क­रो­न्मनः।।
आत्मन्वी स्यामिति तथा साकूतः सृष्टिकारणः ।। १४४ ।।

स्वविभूतीक्षणं सृष्टौ विभो­र­र्च­न­मु­च्यते ।।
आपोऽजायन्त इति च सर्व­भू­तो­प­ल­क्ष­णम् ।। १४५ ।।

विद्यो­त्प­त्ति­प्र­धा­न­त्वा­त्सृ­ष्टिर्वा न विवक्ष्यते ।।
तथाच प्रतिवेदान्तं सृष्टि­र्ना­ना­वि­धे­क्ष्यते ।। १४६ ।।

अर्चतो मे यतो जज्ञे कमम्भः सुखकृत्ततः ।।
अर्काभिधोऽथ संवृत्तः प्राणो मृत्युः प्रजापतिः ।। १४७ ।।

उपासनमतोऽस्यापि नाग्नेरेवेति निश्चितिः ।।
अर्क­ना­मा­भि­सं­बन्धो नोपासनमृते यतः ।। १४८ ।।

यदि वाऽग्नेरिदं नाम तस्य प्रकरणित्वतः ।।
आपो वा अर्क इति तु चित्यनामार्थमेव तत् ।। १४९ ।।

शर असीदिति गिरा शक्त्यवस्था विवक्ष्यते ।।
सा पृथिव्यभवच्चेति विराजो जन्मशब्दनम् ।। १५० ।।

तपोऽप्सु तप्यमानासु ह्यण्डं जज्ञे हिरण्मयम् ।।
इति श्रुति­र्ज­गा­दार्थं यथैवेह प्रपञ्चयते ।। १५१ ।।

एवं व्यष्टि­स­म­ष्ट्यात्मा वैराजं देहमात्मनः ।।
प्राची­क्लृ­प­द­थे­दानीं सृष्टिस्तस्य विवक्ष्यते ।। १५२ ।।

श्रान्तस्येति तु देहस्य कर्मा­यो­ग्य­त्व­मु­च्यते ।।
श्रम­हे­तु­र­त­स्ता­प­स्त­प्त­स्ये­त्य­भि­श­ब्द्यते ।। १५३ ।।

भास्वज्ज्ञानं भवेत्तेजो रसः प्राणो विवक्षितः ।।
क्रिया­वि­ज्ञा­न­श­क्ति­त्वा­त्प्र­कृ­तस्य प्रजापतेः ।। १५४ ।।

अनवच्छिन्नवपुषः पिण्डा­व­च्छे­द­हे­तुतः ।।
रवस्य कुम्भा­दि­ने­वा­सो­र्नि­र­व­र्तत शब्दनम् ।। १५५ ।।

नाम­रू­पा­दि­म­द्दे­ह­सं­ब­न्धा­त्त­द्वि­ध­र्मकः ।।
अरूपोऽपि हि सूत्रात्मां लक्ष्यते रूपवानिव ।। १५६ ।।

सूक्ष्म­स्थू­ल­श­री­राभ्यां चिदा­भा­भ्या­म­वि­द्यया ।।
संवृतः परमेशोऽपि त्रैलो­क्या­त्मा­ग्नि­रू­च्यते ।। १५७ ।।

अशरीरं शरी­रे­ष्व­न­व­स्थे­ष्व­व­स्थि­तम् ।।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ।। १५८ ।।

विरा­ड­दे­हा­व­न­द्धोऽ­सु­र­ध्या­त्मा­द्या­धिगः रववत् ।।
व्यष्टितामेति तद्धीनः समष्टित्वेन तिष्ठति ।। १५९ ।।

उर्व्या­मु­त्पा­दि­तायां तु श्रमा­त्ता­पा­त्प्र­जा­पतेः ।।
निर­व­र्त­ते­वा­स्याऽऽत्सा परि­च्छे­दा­भि­मा­नतः ।। १६० ।।

स्थूल­दे­ह­प­रि­च्छिन्नः स एवाऽऽद्यः प्रजापतिः ।।
अग्निरेष यत­स्त­स्मा­दु­पा­स्योऽयं प्रयत्नतः ।। १६१ ।।

स वै शरीरी प्रथमः स वै पुरुष उच्यते ।।
आदिकर्ता स भूतानां ब्रह्माऽग्रे समवर्तत ।। १६२ ।।

अनुपारल्यतनुः सोऽयंं व्यव­हा­र­प्र­सि­द्धये ।।
आत्मानं व्यभ­ज­त्स्थू­लै­स्रिधा वाय्व­ग्नि­भा­नुभिः ।। १६३ ।।

स्वरू­पा­नु­प­म­र्देन स विरा­ड्दे­व­ता­त्मभिः ।।
उपा­स­ना­दि­सि­द्ध्य­र्थ­मा­त्मानं व्यभजत्स्वयम् ।। १६४ ।।

मूलात्मैव त्रिधाऽऽ­त्मा­न­म­भि­नत्स प्रजापतिः ।।
इत्यस्य प्रतिपत्त्यर्थे स एष इति भण्यते ।। १६५ ।।

तस्य प्रथ­म­ज­स्या­गे­र्वि­रा­जोऽ­र्कस्य वाजिवत् ।।
दर्शनस्य विधानार्थं तस्य प्राचीति कीर्त्यते ।। १६६ ।।

यस्मा­त्का­र­ण­मु­लङ्ध्य कार्यं नान्यत्र वर्तते ।।
अप्सु कारणभूतासु तस्मादग्निः प्रतिष्ठितः ।। १६७ ।।

अप्प्र­ति­ष्ठा­गुणं देवमुपास्ते योऽनिशं नरः ।।
यत्र क्व चैति तत्रासौ प्रतिष्ठां लभते शूभाम् ।। १६८ ।।

योऽबा­दि­प­रि­पा­ठ्यैवं विरा­ज­म­सृ­ज­त्स्व­यम् ।।
कीदृ­ग्व्या­पा­र­सं­युक्तः सोऽस्राक्षीदिति भण्यते ।। १६९ ।।

अत्तृ­स­र्गोऽ­थ­वोक्तः प्राग­न्न­स­र्गोऽ­धु­नो­च्यते ।।
अशनायावतो यस्मा­न्ना­स्त्य­न्न­वि­र­हा­त्स्थितिः ।। १७० ।।

त्रेधा व्यभ­ज­दा­त्मा­न­मि­त्ये­तद्वा प्रदर्श्यते ।।
अग्निप्राणौ पुरैवोक्तावथ संवत्सरोद्भवः ।। १७१ ।।

मनसा ज्ञान­नि­र्दे­श­स्रयी वागिति भण्यते ।।
सर्गक्रमं स वेदोक्तं ज्ञाने­नाऽऽ­लो­च­य­त्प्रभुः ।। १७२ ।।

ज्ञाने­ना­प्र­ति­घे­नासौ वेदोक्तां सृष्टिपद्धतिम् ।।
सम­न्वा­लो­च­य­च्छभुः सिसृ­क्षु­र्वि­विधं जगत् ।। १७३ ।।

आलो­च्या­लो­च­क­योर्हि योगो मिथुनमुच्यते ।।
प्रसिद्धं मिथुनं चात्र न कथंचन युज्यते ।। १७४ ।।

अन­न्त­रा­ग्नि­सं­ब­न्ध­प्र­स­ङ्ग­वि­नि­वृ­त्तये ।।
अशनायेति हि प्राह मूलकारणसंगतिम् ।। १७५ ।।

जगतः प्रक्रियाबीजं यदवैषीत्पुरा गृही।।
द्वैतै­क­त्वा­त्मकं ज्ञानं कर्म च ज्ञानसंभृतम् ।।
भावना च तयोरेतत्रयं रेतोऽभिधीयते ।। १७६ ।।

सृष्ट्या­लो­च­न­हे­त्वे­त­त्सृ­ष्टा­वा­वि­र­भू­द्विभोः ।।
तद्भावभाब्यपः सृष्ट्वा रेतोबीजेन स प्रभुः ।। १७७ ।।

सर्वलोकैकबीजेन गर्भ्यर्ण्डन बभूव ह ।।
अप एव ससर्जाऽऽदौ तासु वीर्यमवासृजत् ।। १७८ ।।

तदण्डमभवद्धैमं सह­स्रां­शु­स­म­प्र­भम् ।।
इत्येवं मनुनाऽप्युक्तः श्रौतोऽयं सर्गविस्तरः ।। १७९ ।।

आपो ह वा इति तथा ह्ययमेव क्रमः श्रुतौ ।।
ज्ञान­क­र्मा­दि­वी­जस्य गर्भ एवं प्रजापतेः ।। १८० ।।

स संवत्सरोऽभवदिति परि­मा­णोऽ­य­मु­च्यते ।।
अश­ना­या­दि­म­त्त्वात्स स्वभावबलचोदितः ।। १८१ ।।

सृष्ठ्वाऽऽद्यं घस्मरः पुत्र तम­भि­व्या­द­दा­त्क्षुधा ।।
भिनत्ति सर्वमर्यादां नान्व­या­द्य­प्य­पे­क्षते ।। १८२ ।।
अस्य दग्धोदरस्यार्थे को न कुर्या­द­सां­प्र­तम् ।। १८३ ।।

अन्न एव यतो वृत्ति­र­त्तु­र­न्नाद एव च ।।
अन्नस्य युक्त­मे­वा­त­स्त­म­भि­व्या­द­दा­दिति ।। १८४ ।।

जन्मा­न्त­र­स­म­भ्य­स्त­वि­द्या­क­र्मा­दि­हे­तुतः ।।
जन्य­क­र्म­प्र­युक्तः सञ्शि­ञु­र्भा­णि­त्य­था­क­रोत् ।। १८५ ।।

यथोक्तहेतुवशगः स्वभा­व­प्र­हि­तोऽ­प्यसुः ।।
कुमा­रो­त्थ­र­व­त्रस्तः स्वभावं चिच्छिदे भयात् ।। १८६ ।।

अत्यन्तमपि शूराणां स्वस्व­भा­वै­क­हे­तुतः ।।
तित्ति­रा­दि­स­मु­त्पाते वेपथुर्जायते भयात् ।। १८७ ।।

एवं स शिशु­सं­रा­व­सं­ल­ब्धा­लो­च­न­क्षणः ।।
ऐक्षतेह न कामार्तः कश्चिदालोचने क्षमः ।। १८८ ।।

मन्य­ति­श्चा­भि­पू­र्वोऽयं हिसार्थः स्यात्प्र­सि­द्धितः ।।
यदी­म­म­भि­हिं­सिप्ये कनीयोऽन्नं भवेद्ध्रुवम् ।। १८९ ।।

कारणादल्पमेव स्यात्त­द्व्या­प्ते­र­दि­ति­र्यतः ।।
अन्नमल्पं ततोऽ­प्य­ल्पा­त्क­नी­योऽन्नं भवेदतः ।। १९० ।।

लोकेऽपीदं सुप्र­सि­द्ध­मा­ङ्ग­ना­बा­ल­प­ण्डि­तम् ।।
जग्ध­निः­शे­ष­वी­जस्य तत्फलं नाऽऽप्यतेऽण्वणि १९१ ।।

कुमा­र­व­क्त्रो­द्न­तया वाच­र्गा­दी­न्स­सर्ज सः ।।
पश्वादींश्च कुमारेण ह्यात्म­नाऽ­जी­ज­न­ज्ज­मत् ।। १९२ ।।

स्रष्ट्रत्रोः कार्य­भ­क्ष्या­भ्या­म­न्यो­न्या­व्य­ति­रे­कतः।।
स्रष्ट्टत्वात्स सृजत्येव रवाद्यतेऽन्नं सदाऽऽद्यतः।। १९३ ।।

सर्वमत्ति यतः सृष्टं तस्मा­द­दि­ति­रु­च्यते ।।
नाम­ज्ञ­स्त­मु­पा­सीनः सर्व­स्या­त्ताऽ­दि­ति­र्भ­वेत् ।। १९४ ।।

सर्वात्तृत्वेन सिद्धेऽर्थे सर्वान्नोक्तिः किमीर्यते ।।
अन्नमेव भवेदन्नं नान्नमत्रस्य कुत्रचित् ।। १९५ ।।

प्राणा­त्माऽ­त्तैव सोऽव­श्य­मु­पा­स­न­व­ला­द्भ­वेत् ।।
य एवमभिधानज्ञ उपासीतादितिं सदा ।। १९६ ।।

अश्वा­श्व­मे­ध­ना­म्नोऽथ कारणप्रतिपत्तये ।।
सोऽकामयत इत्यादिः परो ग्रन्थोऽ­व­ता­र्यते ।। १९७ ।।

यज्ञेन भूयसा यक्ष्य इत्येवं स प्रजापतिः ।।
अश्वमेधो भवे­द्भू­या­न्भू­यो­द­क्षि­णको हि सः ।। १९८ ।।

यजेय भूयोऽ­पी­त्ये­व­म­का­म­यत भावितः।।
क्रत्वा­त्मे­त्य­भि­मा­नेद्धः पूर्व­ज­न्म­न्य­भू­त्प्रभुः ।। १९९ ।।

पूर्व­ज­न्मा­भि­नि­र्वृ­त्त­प्र­यो­गा­पे­क्ष­यो­च्यते ।।
भूयो यजेयेति वचः सदा तद्भावभावनात् ।। २०० ।।

क्रत्वा­त्मै­वा­भि­सं­पन्नो द्वैतै­क­त्वा­त्मकः प्रभुः ।।
इह तत्फलतां यातो भूयोवाग्युज्यते ततः ।। २०१ ।।

कारणप्रवणं सर्वं कार्यं दृष्टं जगत्यपि ।।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ।। २०२ ।।

यशो­वी­र्यै­क­हे­तु­त्वा­त्प्राणा यश इहेष्यताम् ।।
यशः प्रकाशरूपेण वीर्यं तद्बलहेतुतः ।। २०३ ।।

उदक्रामद्यशो वीर्यं विराजः श्रमकर्शितात् ।।
लिङ्गात्मेह यशो वीर्यमुभयं हि तदुद्भवम् ।। २०४ ।।

पूर्व­देे­हेऽ­भि­ष­ङ्गोऽ­भू­द­प­वि­द्ध­त­नो­रपि ।।
सङ्गत्यागो ह्यसंभाव्यो विनै­का­त्म्या­व­वो­ध­नात् ।। २०५ ।।

जातदेहाभिषङ्गः सस्ता­दा­त्म्य­प्र­ति­पि­त्सया ।।
मेध्यमित्यादिकं कामं सोऽकामयत कामुकः ।। २०६ ।।

अप­वि­द्ध­य­शो­वीर्ये शरीरं कवियोगतः ।।
यतोऽ­श्व­य­द­तोऽ­श्वोऽसुः संवृत्तः स प्रजापतिः ।। २०७ ।।

व्यपे­त­स­द्य­शो­वी­र्य­म­मेध्यं मेध्यतामगात् ।।
तत्प्र­वे­शा­द्य­तोऽ­तोऽ­य­म­श्च­मे­धोऽ­भ­व­त्प्रभुः।। २०८ ।।

अश्वा­श्व­मे­धा­वेवं च प्राजा­प­त्या­त्म­नाऽ­ञ्जसा ।।
अभिष्टुतौ कथं नाम भवेतामिति भण्यते ।। २०९ ।।

काल­लो­का­दि­व­पु­ष­स्त्व­श्च­स्या­ग्नेश्च सांप्रतम् ।।
समस्योपासनं वाच्यमित्यर्थो ग्रन्थ उत्तरः ।। २१० ।।

विधा­य­क­प­दा­भा­वा­द­सं­गानं परस्परम् ।।
पदानामिति मा प्राप­दि­त्य­र्थेयं परा श्रुतिः ।। २११ ।।

एष एवं यथा­त­त्त्व­म­श्व­मेधं विवेद यः ।।
वक्ष्यमाणेन रूपेण वेद विद्यादतस्तथा ।। २१२ ।।

आत्मानमश्वं संकल्प्य काल­लो­का­दि­ध­र्मि­णम् ।।
तथाविधशरीरः सन्स­र्व­लो­क­पि­ता­महः ।। २१३ ।।

यजेयमश्वमेधेन भूयोऽ­पी­त्य­भ्य­म­न्यत ।।
भूर्लो­का­द्या­त्मकं सोऽश्वमात्मानं निरवग्रहम् ।। २१४ ।।

यावदब्द मुमोचाश्वं स्वच्छन्दं मुक्तबन्धनम् ।।
ततः संव­त्स­रा­दूर्ध्वं तं चाप्या­ल­भ­ताऽऽ­त्मने ।। २१५ ।।

स्वात्मा­व­य­व­भू­ताभ्यो देवताभ्यो यथायथम् ।।
ग्राम्या­र­ण्या­न्प­शू­न्प्रा­दा­द­न्याभ्यः स प्रजापतिः ।। २१६ ।।

यतोऽ­क­रो­द्वि­रा­डेवं तस्मादेवेह याज्ञिकाः ।।
प्रोक्षितं सर्वदेवत्यं प्राजापत्यं तुरंगमम् ।। २१७ ।।

आलभन्ते यत­स्त­स्मा­द्य­था­व्या­ख्या­त­त­त्त्व­वित् ।।
कुर्यादेवं यथोक्तार्थं मृत्यु­त्व­प्र­ति­पि­त्सया ।। २१८ ।।

कर्मो­पा­स­न­मु­क्त्वाऽथ तत्फ­लो­प­दि­दि­क्षया ।।
एष वा इति यत्नेन ह्याजगामोत्तरा श्रुतिः ।। २१९ ।।

दर्श­ना­द्य­भि­नि­र्वृत्तो यस्त्वेवं हयसाधनः ।।
प्रत्यक्षं फलरूपेण स एष इति दर्श्यते ।। २२० ।।

अश्व­मे­ध­क्रि­या­पू­र्व­प­रि­णा­मै­क­व­र्त्मना ।।
अश्वमेधो रविः साक्षादुषा इत्यादिनोदितः ।। २२१ ।।

तस्य संवत्सर आत्मा तस्याऽऽ­दि­त्यै­क­हे­तुतः ।।
तस्य क्रत्वा­त्म­न­श्चित्यो योऽङ्गभूतः पुरोदितः ।। २२२ ।।

फलात्मकः स एवैष पार्थिवोऽग्निः प्रदर्श्यते ।।
आत्मान एते तस्यापि त्रयो लोका यथोदिता ।। २२३ ।।

क्रतु­त­त्सा­ध­ना­त्मा­ना­वा­दि­त्याग्नाी यथोदितौ ।।
निर्वृ­त्ता­त्मा­धि­कारौ तावेकैवासौ भवेदसुः ।। २२४ ।।

अशनायावती योक्ता मृत्युः सर्वान्नघस्मरा ।।
सैवाऽऽत्मा विदुषः साक्षादात्मा स्यादजरोऽमरः ।। २२५ ।।

नैनमाध्यात्मिको मृत्यु­स्त­न्मृ­त्यु­त्वा­द­वा­प्नु­यात् ।।
सकृ­न्मृ­त्वाऽ­सु­दे­हेन मुच्यते सर्वबन्धनात् ।। २२६ ।।

अग्न्या­दि­भे­द­भि­न्नानां देवतानामशेषतः ।।
आत्माऽभिन्नो भवत्येष यथो­क्तो­पा­स­ना­दुधः ।। २२७ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके द्विती­य­म­श्व­मे­ध­ब्रा­ह्म­णम्

शास्रो­क्त­ज्ञा­न­यु­क्तानां कर्मणां ज्ञानतस्तथा।।
सर्वत्र वेद­शा­स्रेऽ­स्मि­न्मृ­त्यु­भावः फलं श्रुतम् ।। १ ।।