बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥संबंधभाष्यवार्तिकम् ॥ (४)
आध्यात्मिकपरिच्छेदव्यावृत्तिर्यत्समाश्रयात् ।।
स मृत्युर्मृत्युशब्देन फलभूतोऽत्र भण्यते ।। २ ।।
या त्वश्वमेधगत्युक्तिः सोपलक्षणसिद्धये ।।
कर्मज्ञानान्तराणां स्यान्नाश्चमेधगृहीतये ।। ३ ।।
अल्पीयःफलसंप्राप्तिरल्पीयोज्ञानकर्मतः।।
अल्पत्वमभिभूतेः स्यात्तयोरासुरपाप्मभिः ।। ४ ।।
कुतस्तस्याभिभूतस्य रागाद्यासुरपाप्मभिः ।।
उद्भूतिः कर्मणोऽत्यर्थं ज्ञानस्य च निगद्यताम् ।। ५ ।।
मृत्युं साक्षादवाप्नोति ज्ञानयुक्तेन कर्मणा ।।
इत्येतद्बहुशोऽश्रावि पूर्वग्रन्थेषु चाऽऽगमैः ।। ६ ।।
तज्ज्ञानोत्पत्तिविघ्नाय ध्वस्तिकृज्ज्ञानलब्धये ।।
उद्गीथदेवतावाप्त्यै प्रारब्धेहोत्तरा श्रुतिः ।। ७ ।।
ननु मृत्योरतिक्रान्तेरूद्गीथज्ञानकर्मणोः ।।
फलस्य संश्रवान्नातो मृत्युप्राप्तिस्तयोः फलम् ।। ८ ।।
नाग्न्यादिदेवतात्मत्वतत्फलावगमाच्छ्रुतेः ।।
स्वाभाविकासङ्गमृत्योरतिक्रान्तिः पृथक्फलम् ।। ९ ।।
कोऽसौ स्वाभाविकः पाप्मा तस्योद्भ्यूतिस्तथा कुतः ।।
तस्मान्निवृ्त्तिः केन स्यात्कथं वेत्येतदुच्यते ।। १० ।।
यथोक्तार्थप्रसिद्ध्यर्थं श्रुतिरारव्यायिकात्मिका ।।
द्वया हेत्येवमाद्येयं प्रचक्राम परीक्षितुम् ।। ११ ।।
प्राजापत्यं पदं यो यो ह्यधिकारी परीप्सति ।।
तन्निर्धार्यानया श्रुत्या पदमाप्नोत्युपासनात् ।। १२ ।।
पूर्वजन्मनि यद्वृत्तं वर्तमानप्रजापतेः ।।
तदवद्योतको हेति निपातोऽत्र प्रयुज्यते ।। १३ ।।
भविष्यद्वृत्तिमाश्रित्य यजमानः प्रजापतिः ।।
इहाभीधीयतेऽन्यस्तु न कश्चित्सप्रयोजनः ।। १४ ।।
ज्ञानकर्मोपदेशो हि नरं प्रत्येव सर्वथा ।।
सर्वः श्रौतो यतस्तस्मात्स एवेहाभिधीयते ।। १५ ।।
तत्कर्मज्ञानजत्वाच्च तत्प्राणाः शुद्ध्यशुद्धिजाः ।।
प्राजापत्या इहोच्यन्ते वागाद्युक्तेश्च लिङ्गतः ।। १६ ।।
उद्गीथोपास्तिसंबन्धाद्दूया हेत्यादिकस्य च ।।
उपास्यार्थविशुद्ध्यार्था प्रवृत्ताऽऽख्यायिका ततः ।। १७ ।।
अभ्यारोहजपस्येह प्राण एवास्तु देवता ।।
कस्माद्वागादयो नेति तत्परीक्षाऽत ईर्यते ।। १८ ।।
अन्वयव्यतिरेकाभ्यां प्राणप्राधान्यसिद्धये ।।
प्रवृत्ताऽऽख्यायिका यत्नाद्वागादीन्द्रियनिन्दया ।। १९ ।।
शास्रस्वभावजज्ञानकर्मसंस्कारहेतुतः ।।
देवासुरत्वं प्राणानां निरुद्धोपाधिकारणात् ।। २० ।।
सहस्रादिर्यथा भेदः प्राणस्यैकस्य शब्द्यते ।।
भूयोधिकारभेदेन वागादीनां तथा भिदा ।। २१ ।।
सहजं सर्वभूतानां वृत्तमासुरमिष्यते ।।
यत्नाधेयं यतो दैवं ज्यायांसः स्युस्ततोऽसुराः ।। २२ ।।
इह वागादयः शब्दा देवतार्थाभिधायकाः ।।
मर्त्यत्वान्न तु गृह्यन्ते करणस्थानगोचराः ।। २३ ।।
देवतैकात्म्यमेवेह दैवज्ञानक्रियाफलम् ।।
अध्यात्मादिपरिच्छेद आसुरत्वान्न गृह्यते ।। २४ ।।
हिंसाभिप्रवणं चेतः प्रायेण श्रेयसामपि ।।
भूयांसोऽतोऽसुरा देवाः कनीयांसोऽतियत्नजाः ।। २५ ।।
धर्माधर्मैकसाध्यत्वाह्ब्रह्मादेः स्थावरावधेः।।
अस्पर्धन्त ततोऽन्योन्यं दैतेेयां विबुधैः सह ।। २६ ।।
आसुरेभ्योऽधिकारेभ्यो व्युत्थाप्येह प्रजापतिम् ।।
दैवीर्भूमीर्नयामैनमिति देवचिकीर्पितम् ।। २७ ।।
दैवेभ्य एनमाच्छिद्य कामक्रोधादिसाधनाः ।।
आनयामाऽऽसुरीर्भूमीरिति दैतेयनिश्चितिः ।। २८ ।।
यत्रायत्रसमुत्थाभ्यां वृत्तिभ्यां देवदानवाः ।।
दैव्यासुरीभ्यामन्योन्यमस्पर्धन्त विरोधतः ।। २९ ।।
भूयो बलेन ते देवा आसुरेण निराश्रयाः ।।
अर्द्यमाना न शरणं लेभिरेऽल्पत्वकारणात् ।। ३० ।।
अनीक्षमाणास्ते शर्म संभूयोचुः परस्परम् ।।
क्रियतामविचारेण हन्तेत्यनुमतौ पदम् ।। ३१ ।।
अस्मज्जिगीषूनसुराञ्जित्वोद्गात्रात्मसंश्रयात् ।।
अतिलङ्घ्याऽऽसुरं भावं देवतात्मानमाप्नुमः ।। ३२ ।।
उद्गीथदेवतावाप्तिर्ज्ञानकर्ममुच्चयात् ।।
अभ्यारोहजपः कर्म ज्ञानं त्विह परीक्ष्यते ।। ३३ ।।
विधिशेषार्थवादत्वान्नेदं ज्ञाननिरूपणम् ।।
इति चेन्नैतदेवं स्यादेवं वेदेति तद्विधेः ।। ३४ ।।
उद्गीथविधिशेषश्चेदुद्गीथप्रकृतौ श्रवात् ।।
नातत्प्रकरणान्न्याय्यमितोऽन्यत्र च तद्विधेः ।। ३५ ।।
विद्याप्रकरणत्वाच्च नेहोद्गीथो विधीयते ।।
जपस्य चाप्यनित्यत्वात्स्यादेवांवित्प्रयोज्यता ।। ३६ ।।
उदारफलवद्यस्मादपि ज्ञानमिह श्रुतम् ।।
तद्धैतदित्यतो ज्ञानं फलवत्त्वाद्विधित्सितम् ।। ३७ ।।
शुद्ध्यशुद्धयुक्तितश्चेह प्राणोपासा विवक्षिता ।।
वागादिनिन्दया मुख्यप्राणोपासा न चेदिह ।। ३८ ।।
विधित्सिताऽथ तन्निन्दा स्तुतिश्चानस्य किंफला ।।
अतोऽर्थवादाद्धि विधिर्लिङ्गादत्रानुमीयते ।। ३९ ।।
प्राणस्वरूपापत्तिश्च यतोपासाफलं श्रुतम् ।।
उपासनमतोऽनस्य विधित्सितमितीक्ष्यताम् ।। ४० ।।
उपासनमसोः काममस्तु सूक्तोपपत्तितः ।।
शुद्ध्यादिगुणवत्ता तु न मानादुपपद्यते ।। ४१ ।।
गुणवत्ताऽप्यसोरस्तु यथाऽस्योपासनं तथा ।।
प्रामाणिक्युभयत्रापि प्राप्तिर्यस्मादिहेक्ष्यते ।। ४२ ।।
ननु स्तुत्यर्थतैवास्य शुद्ध्यादेरवगम्यते ।।
उपासाविधिशेषत्वादर्थवादोऽत ईक्ष्यताम् ।। ४३ ।।
प्रामाणिकोऽभिसंबन्धो यस्मात्प्राणस्य गम्यते ।।
किंबलं समुपाश्रित्य शुद्ध्यादेरर्थवादता ।। ४४ ।।
नहि मानं विहायेह साध्यसाधननिश्चितौ ।।
चक्षुरन्यत्प्रपश्यामो यद्बलात्स्यादयं मृषा ।। ४५ ।।
आसन्यत्वादयोऽन्यस्य न च योषाग्निवद्यतः ।।
तेषां प्रत्यक्षतः सिद्धेरतः शुद्ध्यादिमानसुः ।। ४६ ।।
अक्षाद्यविषया ये तु गुणा आगमतो मताः ।।
मानाविरोधात्केनैषां शुद्ध्यादीनां मृषार्थता ।। ४७ ।।
श्रोत्रादिवत्प्रमाणानामसाधारणमेयता ।।
तन्मेयप्रथने मानं न किंचिदनुभूतितः ।। ४८ ।।
परमार्थातिरेकाद्वाऽभेदाद्वा परमार्थतः ।।
वस्तुनः स्यान्मृषात्मत्वं नैवमप्युपपद्यते ।। ४९ ।।
लभते व्यतिरेकं चेत्परमार्थात्ततोऽपरम् ।।
स्वमहिम्नैव तत्सिद्धेः किमिव स्यान्मृषार्थता ।। ५० ।।
परमार्थात्मकत्वे तु न किंचिद्वितथं क्वचित् ।।
असत्यस्याप्यसत्यत्वं परमार्थसादात्मना ।। ५१ ।।
सत्यासत्यविभागोऽयमविभागात्मवस्तुनि।।
प्रत्यगज्ञानहेतूत्थस्तद्वोधादेव तद्धतिः ।। ५२ ।।
स्वाभासफलकारूढस्तदज्ञानजभूमिषु ।।
तत्स्थोऽपि तदसंबद्ध ईश्वराद्यात्मतां गतः ।। ५३ ।।
तदज्ञानं तदुत्थं च जगत्कृत्स्रं तदात्मकम् ।।
यतोऽतस्तदनूद्याऽऽह ह्यात्मैवेति श्रुतिः स्फुटम् ।। ५४ ।।
ऐकात्म्यमेव मानानां सर्वेषां मेयमिष्यते ।।
यथा तथा प्रवक्ष्याम उदर्केऽप्युपपत्तिभिः ।। ५५ ।।
मिथ्येतिप्रत्ययोत्पत्तिस्तथा कारणदोषतः ।।
बाध्यज्ञानस्य हेतुः स्यान्नातोऽन्यद्वाध्यकारणम् ।। ५६ ।।
न चेहोभयमप्यस्ति कुतो मिथ्येति भण्यते ।।
मितेर्मेये समाप्तत्वान्मिथ्यात्वं न मितेर्भवेत् ।। ५७ ।।
तस्मादविपरीतार्थज्ञानाच्छ्रेयो ह्यावाप्यते ।।
विपरीतार्थतायास्तु न हेतुर्जगतीक्ष्यते ।। ५८ ।।
वस्तुनिष्ठैव मा यस्मान्न तदज्ञानजाश्रया ।।
तस्मात्तन्मोहविध्वस्तौ ध्वस्तिः स्यान्मोहजस्य च ।। ५९ ।।
न चैवं सति मानानां द्व्यर्थता स्यात्कथंचन ।।
यथाभूतार्थबोधित्वमेवमेत्र मितेर्भवेत् ।। ६० ।।
ईश्वरादिविकल्पानां प्रत्यग्वस्त्वविकल्पितम् ।।
विषयो, न मृषाबुद्धिः परमार्थे विना यतः ।। ६१ ।।
यावत्किंचिन्मितेः प्राप्तं न तन्मिथ्या मितत्वतः ।।
मिथ्येति ग्राहयच्छास्रमनर्थार्थं यतो भवेत् ।। ६२ ।।
नाम्नि ब्रह्मेति दृष्टं चेन्न भेदप्रतिपत्तितः ।।
प्रतिमावद्धि नामादौ ज्ञाते ब्रह्मेति धीरियम् ।। ६३ ।।
यथा निर्ज्ञातभेदे हि विष्णुधीरुपलान्मनि ।।
विधीयते तथा नाम्नि ब्रह्मबुद्धिविंधीयते ।। ६४ ।।
अज्ञातरज्जुतत्त्वाो हि रज्जुं सर्पधियेक्षते ।।
नामादौ तु यतो नैवं तस्मादसदिदं वचः ।। ६५ ।।
ब्रह्म नैवेह वस्त्वस्ति, दृष्टिरेवेति चेन्मतम् ।।
नर्गादिषु सतामेव सत्सु दृष्टिसमन्वयात् ।। ६६ ।।
गौणस्य मुख्यापेक्षत्वान्मुख्यं ब्रह्म विना न सत् ।।
गौणं ब्रह्म यथा गौणो वह्निर्मुख्याग्निपूर्वकः ।। ६७ ।।
न चासद्विषया काचिद्वुद्धिर्जगति वीक्ष्यते ।।
सर्वार्थव्यभिचारेऽपि संविदव्यभिचारिणी ।। ६८ ।।
न चापीहाऽऽगमाभासोऽचोदनालक्षणत्वतः ।।
क्रियार्थैरविशिष्टत्वाद्विद्यार्थोक्तेः परात्मनि ।। ६९ ।।
ज्योतिष्टोमादिका यद्वद्विशिष्टानेकसाधना ।।
एवंक्रमप्रयुक्ताङ्गा तथा चैवंफला क्रिया ।। ७० ।।
अन्यप्रमाणाविषया वाक्यादेवावगम्यते ।।
यथा तथेहापूर्वादिवस्तूक्तेरेव गम्यते ।। ७१ ।।
न च वाक्याद्विपर्यस्ता यदि वा संशयात्मिका ।।
बुद्धिरुत्पद्यतेऽस्माकं यथाभूतार्थबोधिनः ।। ७२ ।।
कार्याभावादयुक्तं चेन्नोक्तिर्बुद्धेस्तथार्थतः ।।
भावनार्थस्य नैवेह भाव्यर्थत्वात्तथार्थता ।।
किंतु मानार्पितत्वात्सा यथा भूतार्थतेप्यते ।। ७३ ।।
नापि तद्धिषणायाश्च कार्यत्वात्स्यात्तथार्थता ।।
प्रमाणाभिजनादेव यथाभूतार्थता धियः ।। ७४ ।।
अन्योन्याश्रयतादोषः कार्यप्रामाण्यवादिनः ।। ७५ ।।
प्रमाणाधिगतौ सत्यां पुंसो मेयानुरोधतः ।।
अनुष्ठेयोऽननुष्ठेय इति पश्चान्मतिर्भवेत् ।। ७६ ।।
एकरूपं यतो मानं विरुद्धानेकरूपिणाम् ।।
भानुवद्बोधकं दृष्टं नातोऽनुष्ठेयतो मितिः ।। ७७ ।।
नन्ववाक्यप्रमाणत्वमननुष्ठानतो भवेत् ।।
पदानां संहतिर्यस्मान्न दृष्टेह क्रियां विना ।। ७८ ।।
पदार्थत्वे च तत्सिद्धिर्लिङ्गप्रत्यक्षसंश्रयात् ।।
आगमैकप्रमाणत्वान्ना पदार्थत्वमिष्यते ।। ७९ ।।
अस्यस्मीत्यभ्युपेतत्वान्नैवमप्युपपद्यते ।।
अस्ति मेरुर्यथा वर्णचतुष्टयविशेषणः ।। ८० ।।
अकार्येऽपि हि मेर्वादावस्ति मेरुरिति श्रुतेः ।।
सम्यग्धीर्जायते यद्वत्तथा तत्त्वमसीत्यतः ।। ८१ ।।
मेर्वादिज्ञानवच्चेत्स्यान्निष्फलत्वादमानता ।।
नैवं तत्फरलसाक्षात्त्वाज्ज्ञानोद्भूतेरनन्तरम् ।। ८२ ।।
भिद्यते हृदयग्नन्थिर्ब्रह्माप्येतीति च श्रुतेः ।।
न चार्थवादतैतस्यां जुह्रामिव फलश्रुतेः ।। ५३ ।।
निषिद्धानिष्टसंबन्धो वाक्यादेवानगम्यते ।।
न चानुष्ठेयता तस्य मनागप्युपपद्यते ।। ८४ ।।
निषेधसंस्कृतधियो निषिद्धविषये न च ।।
पलाण्ड्वादावकरणादन्या धीर्जायते श्रुतेः ।। ८५ ।।
यथा निषेधवाक्येभ्यो नान्याऽकरणतो मतिः ।।
तत्त्वमस्यादिवाक्येभ्यस्तद्वदेवेति निश्चयः ।। ८६ ।।
मृगतोये प्रवत्तस्य तृडार्तस्योषरेक्षणात् ।।
तमोध्वस्तौ निवृत्तिः स्यात्तथाऽऽत्मज्ञानतोऽपि नः ।। ८७ ।।
तस्मान्निषेधशास्रस्य यथा भूतार्थनिष्ठता ।।
पुंव्यापारस्य गन्धोऽपि न तत्रास्तीति निश्चयः ।। ८८ ।।
आत्मयाथात्म्यविज्ञाननिष्ठता तद्वदीक्ष्यताम् ।।
तत्त्वमस्यादिवाक्यानां नानुष्ठानं मनागपि ।। ८९ ।।
कलञ्जभक्षणस्येव ननु न श्रौतकर्मणः ।।
अज्ञानहेत्वनर्थार्थकारिता गम्यते मितेः ।। ९० ।।
नैवमज्ञानहेतुत्वानर्थार्थत्वेन तुल्यता ।।
कलञ्जभक्षणेनातस्तन्निवृत्तौ निवर्तते ।। ९१ ।।
शास्रमात्रनिमित्तत्वान्नित्यानां नैवमिप्यते ।।
मिथ्याज्ञानादिहेतुत्वं काम्यानामिव चेन्मतम् ।। ९२ ।।
नाविद्यारागद्वेपादिदोषवृष्टस्य तद्विधेः।।
स्वर्गादिकामिनो यद्वदग्निहोत्रविधिस्तथा ।। ९३ ।।
मोहकामादिदुष्टस्य नित्यं कर्म विधीयते ।।
न स्वतः काम्यनित्यत्वविवेकोऽस्तीह कर्मणः ।। ९४ ।।
कर्तृस्थेन हि स्वर्गादिकामदोषेण काम्यता ।।
अतो नान्येन काम्यत्वं कर्मणः स्यात्कथंचन ।। ९५ ।।
आविरिञ्चाद्विरक्तस्य तद्विविक्तात्मकामिनः ।।
मोक्षे पुंसोऽधिकारः स्यान्न कामापहृतात्मनः ।। ९६ ।।
पराचः कामानित्येवं कामानित्यपरं तथा ।।
योऽकाम इति तद्वच्च श्रुतिः कामनिषेधनी ।। ९७ ।।
अविद्याया न चोच्छित्तौ ज्ञानादन्यदपेक्ष्यते ।।
ज्ञानोत्पत्तौ न चैवान्यच्छमादिभ्यो ह्यपेक्ष्यते ।। ९८ ।।
शमाद्युत्पत्तये नान्यद्बुद्धिशुद्धेरपेक्ष्यते ।।
बुद्धिशुद्धौ च नित्यादिकर्मभ्यो नान्यदिष्यते ।। ९९ ।।
आत्माज्ञानैकहेतुत्वाद्वाह्मनः कायकर्मणाम् ।।
आत्मज्ञानेन तद्बाधात्कर्मापेक्षा कुतो भवेत् ।। १०० ।।
यदज्ञानात्प्रवृत्तिर्या तज्ज्ञानात्सा कुतो भवेत् ।।
प्रत्यग्ज्ञानोद्भवे तस्मात्समाप्तिः सर्वकर्मणाम् ।। १०१ ।।
न चोच्छिन्नात्ममोहस्य सदैवाऽऽत्मधियः स्थितेः ।।
प्रतीच्यवसरोऽस्तीह वाङ्मनःकायकर्मणाम् ।। १०२ ।।
कर्मणोऽवसरश्चेत्स्यात्त्वद्भिक्षावसरो यथा ।।
नाऽऽत्मवस्तुनिमित्तत्वात्सम्यग्बुद्धेः सदा स्थितेः ।। १०३ ।।
न वस्त्ववसरापेक्षं स्वतःसिद्धत्वकारणात् ।।
क्रियैवावसरापेक्षा तस्याः कारकतन्रतः ।। १०४ ।।
सम्यग्ज्ञानशिरिवप्लुष्टं कुतोऽज्ञानं पुनर्भवेत् ।।
शुद्धदोषोद्भवत्वाच्च न तु कर्मैवमिष्यते ।। १०५ ।।
क्षुधादिदोषहेत्वेव त्वस्मद्भुज्यादि नो मतम् ।।
नियतानेकहेतुत्वान्नातो भुजिसमा क्रिया ।। १०६ ।।
दोषहेतावपि तथा कालादिनियमस्तथा ।।
भवद्भिक्षाटनादौ सादिति चेन्नैतदेव तु ।। १०७ ।।
नैवायं नियमोऽस्माकं परिसंख्या हि सा यतः ।।
क्रियाप्रयोक्त्री नाप्येषा, तस्माद्विषममुच्यते ।। १०८ ।।
नातोऽपवादकृत्सा स्यादैकात्म्यज्ञानजन्मनः ।।
सर्वकर्माधिकाराणां निषेधायाऽऽत्मधीभवः ।। १०९ ।।
निषेधविधिवत्तस्मात्प्रत्यग्याथात्म्यधीविधिः ।।
प्रत्यह्मोहैकहेतुत्वाद्वाड्मनःकायकर्मणाम् ।। ११० ।।
तस्माद्वस्त्वेकनिष्ठस्य प्रामाण्यं वचसो ध्रुवम् ।।
प्रतिषेधविधेर्यद्वदुभयोरविशेषतः ।। १११ ।।
स्वाभाविकैकदोषांत्यां व्यवहार इहाऽऽसुरः ।।
शास्रैकहेतुर्दैवः स्यात्तयोः स्पर्धा विरोधतः ।। ११२ ।।
प्राकृतासङ्गविज्ञानकार्ये ह्यधिकृतिः स्वतः ।।
सुरद्विषां सुराणां तु शास्रोत्थज्ञानदीपितः ।।
कर्मज्ञानाधिकारः स्यात्संग्रामस्तद्विरोधतः ।। ११३ ।।
उत्कर्षो मानुषाद्वर्ध्वं पुंसः केवलधर्मतः ।।
अधोभावस्त्वधर्मात्स्याद्द्वाभ्यां मानुष्यसंभवः ।। ११४ ।।
आग्रजस्थाणुपर्यन्तशरीरग्रहणान्यतः ।।
लोकेष्विति श्रुतिर्वक्ति विरोधस्तन्निबन्धनः ।। ११५ ।।
अधोलोकफलेष्वेव प्राकृतज्ञानकर्मसु ।।
यत्नादासञ्जनीयोऽयं पितेत्यसुरनिश्चयः ।। ११६ ।।
प्राकृतासङ्गतो मुक्त्वा पिताऽयं दैवसाधनैः ।।
उत्कृष्टव्यो यथाशक्ति विबुधानां चिकीर्षितम् ।। ११७ ।।
नरप्रजापतितनावेवं देवासुरा मिथः ।।
स्वस्वभावानुरोधेन तेऽस्पर्धन्त स्ववृत्तिभिः ।। ११८ ।।
यदोद्भवति शास्रोत्था दैवी वृत्तिस्तदाऽऽसुरी।.
व्येति यस्मात्ततोऽशेषं देवानां स जयः स्मृतः ।। ११९ ।।
आसुरी तु यदा सेना कामक्रोधपुरःसरा ।।
जायते ह्यजयस्तेषामसुराणां जयस्तु सः ।। १२० ।।
स्वाभाविकत्वादासुर्या भूयस्या सेनयाऽर्दिताः।।
न शर्म लेभिरे देवाः स्वात्मत्राणासमीक्षणात् ।। १२१ ।।
स्वभूमेश्चाव्यमानानां सुराणामसुरैस्तदा ।।
प्रादुरासीन्मतिः साध्वी दैतेयभयनाशिनी ।। १२२ ।।
उद्गीयं समुपाश्रित्य ज्योतिष्टोमक्रताविह ।।
तिरस्कृत्याऽऽसुरं दैवं भावं यामोऽधुना वयम् ।। १२३ ।।
कर्तृत्वादीह यत्सिद्धं वागादिद्वारमीक्ष्यते ।।
आत्मनस्तदविद्योत्थं निरविद्ये निषेधतः ।। १२४ ।।
लौकिको वैदिकः सर्वो व्यवहारश्च वक्ष्यते ।।
अन्नत्रयाधिकारे हि मनआदावनात्मनि ।। १२५ ।।
भूतेहानुविधायित्वात्क्षेत्रज्ञस्य तमस्विनः ।।
कूटस्थात्मातिरेकेण रूपमन्यन्न लक्ष्यते ।। १२६ ।।
एवं ताः संप्रधार्योचुरुद्गीथं साधनं परम् ।।
तत्परीक्षां प्रयत्नेन चक्रुः संभूय देवताः ।। १२७ ।।
वाचं संभावयामासुरियं ह्युद्गीथकर्मणि ।।
अत्यर्थे व्यापृता दृष्टा वाचमूचुस्ततः सुराः ।। १२८ ।।
त्वं न उद्गीय उद्गानं त्वत्प्रधानं भवत्विदम् ।।
उद्गीथ इति चोद्गानं कर्मैवेहाभिधीयते ।। १२९ ।।
स्तोत्रेणास्याभिसंबन्धाद्भक्तिमात्रं न तु क्वचित् ।।
वागभिमानिनी चेह वाक्शब्देनाग्निरुच्यते ।। १३० ।।
विषयोऽध्येषणाया हि चेतनावान्यतो मतः ।।
उपासिक्रियया योगो देवताया इहेष्यते ।। १३१ ।।
अतोऽपि देवतैवेह वाक्शब्देनाभिधीयते ।।
तद्भूतेः पुरुषार्थत्वाद्देवता हीश्वरा परा ।। १३२ ।।
सैवातः प्रतिपत्तव्या सर्वासु ध्यानभूमिषु ।।
न त्विह प्रतिपत्तव्याः करणस्थानगोचराः ।। १३३ ।।
पारार्थ्याचेतनत्वाभ्यां मर्त्यत्वाच्चापि कारणात् ।। १३४ ।।
एवं वागादयः शब्दा देवतार्थाभिधायिनः ।।
सर्वत्र प्रतिपत्तव्या यत्रोपासा विवक्षिता ।। १३५ ।।
जपमन्राभिधेयेयं वागित्येवं विनिश्चिताः ।।
उपासांचक्रिरे देवा एषैवोद्गीथदेवता ।। १३६ ।।
देवाभ्युदय उद्गानं देवेभ्योऽर्थाय वागियम् ।।
यथाशक्त्युदगायत्तं यो भोगो वाङ्निबन्धनः ।। १३७ ।।
येन भोगेन वाग्देवांश्चक्षुरादीनहर्निशम् ।।
साक्षादवति तं भोगमुदगायदशेषतः ।। १३८ ।।
पवमानेषु सोद्गात्री याजमानं यथाविधि ।।
फलमुद्गाय शेषेषु ह्युदगायदथाऽऽत्मने ।। १३९ ।।
स्तोत्रेषु परिशिष्टेषु वागागायदथाऽऽत्मने ।।
यत्कल्याणं वदत्येषा ह्यात्मने तदचीक्लपत् ।। १४० ।।
यथाशास्रं यथायोगं वर्णदोषविवर्जितम् ।।
वर्णोच्चारणसामर्थ्यं ममैवास्तु तदीदृशम् ।। १४१ ।।
कल्याणवदनोत्थं यत्कृत्स्नं देवेभ्य एव तत् ।।
फलं वदनमात्रं तु वाच एव न दैविकम् ।। १४२ ।।
तमस्युत्सार्यमाणे तु वाचोद्गात्रा सुरद्विषाम् ।।
स्वाधिकाराच्च्याव्यमानास्ते विदुर्देवहृद्गतम् ।। १४३ ।।
अनेन वाचोद्गात्रा नो बलं ध्वान्तं तु देवताः ।।
ज्योतिषा स्वेन निर्जित्य यास्यन्त्यग्न्यादिरूपताम् ।। १४४ ।।
महन्नो भयमायातमिति बुबुधिरेऽसुराः ।।
कर्मण्यनुचिते तेषां प्रहीणमनसां तदा ।।
वदनादावभिष्वङ्ग आत्मसंभावनादभूत् ।। १४५ ।।
यत्कल्याणमिति च्छिद्राद्विदुः सुरचिकीर्षितम् ।।
अनेन वै न उद्गात्रा वाचाऽत्येष्यन्ति स्वं वपुः ।। १४६ ।।
इति ज्ञात्वा ह्यभिद्रुत्य स्वैरासङ्गशरोर्मिभिः ।।
विविधुस्तानथोद्गातृंस्ते विद्धास्तत्यजुः क्रियाः ।। १४७ ।।
नानादन्यस्य सामर्थ्यं विद्यतेऽसुरनाशने ।। १४८ ।।
अनेनाप्रतिरूपेण वचसा कार्यशायिना ।।
पाप्मादिदोषसंपर्कः कारणस्थोऽनुमीयते ।। १४९ ।।
व्युत्थायाऽऽख्यायिकारूपाच्छ्रुतिः स्ववपुषाऽधुना ।।
आचष्टे कारणे वृत्तं कार्यगेणासुरात्मना ।। १५० ।।
दृष्टेनाप्रतिरूपेण कार्यगेणानुमीयते ।।
कारणे पाप्मवेधोऽभूद्यो वाचि प्राक्प्रजापतेः ।। १५१ ।।
स यो वाच्यसुरैः क्षिप्तः पाप्मा कार्ये स दृश्यते ।।
प्रमाविरोधि यद्वाक्यं तत्तत्कार्यसमाश्रयम् ।। १५२ ।।
स एव स इति ह्युक्तिः कार्यकारणसंस्थयोः ।।
प्रजासु साक्षाद्यः पाप्मा यश्च तत्कारणाश्रयः ।। १५३ ।।
घ्राणं चक्षुस्तथा श्रोत्रं मनश्चैवमनुक्रमानु ।।
वत्रुर्देवा यथा वाणीं विद्धाः सर्वे तथाऽसुरैः ।। १५४ ।।
कर्मेन्द्रियाणां सर्वेषां वागेवात्रोपलक्षणम् ।।
चक्षुःश्रोत्रे धीन्द्रियाणां मनो बुद्धेस्तथैव च ।। १५५ ।।
कृत्स्रं जगदनादाय नैकस्यापीष्यते क्रिया ।।
प्राणस्य किमु वक्तव्यं कृत्स्नाध्यात्मेन्द्रियग्रह ।। १५६ ।।
यद्यपीदं जगत्कृत्स्नं गृह्यते संहतत्वतः ।।
तथाऽपि चोदितोऽत्रार्थ उपास्यो नाऽऽगतोऽर्थतः ।। १५७ ।।
कल्याणेतररूपेण परिशिष्टेष्वपीक्ष्यते ।।
विभाग आसुरो वेधस्तेन तेप्वनुमीयते ।। १५८ ।।
अतस्तदर्थमाहेयमेवम्विति पुनः श्रुतिः ।।
यथा वागादयो विद्धास्तद्वज्ज्ञेयास्त्वगादयः ।। १५९ ।।
सिद्धान्वागादिदृष्टान्तान्पुरस्कृत्यात उच्यते ।।
एवम्वित्युक्तशेषाणां पाप्मविद्धत्वसिद्धये ।। १६० ।।
अविध्यन्निति योऽर्थोऽस्य तद्व्याख्यानाय यत्यते ।।
स्वैः स्वैस्तानिन्द्रियासङ्गैः पाप्मभिस्त उपासृजन् ।। १६१ ।।
यत्संसर्गे पुरा चक्रुरविध्यंस्तदिहोच्यते ।।
या विद्धा देवतास्तासां प्रक्रियासंहृतिः पृथक् ।। १६२ ।।
आसङ्गपाप्मभिर्विद्धा यस्माद्वागादयोऽसुरैः ।।
वर्जनीयास्ततस्ताः स्युर्नोपास्याः श्रेय ईप्सुभिः ।। १६३ ।।
एवं निराशाः पूर्वासु देवतास्वसुरार्दनात् ।।
पारिशेष्यादथाऽऽजग्मुर्मध्यमं प्राणमादरात् ।। १६४ ।।
अथेत्यनन्तरोक्तिः स्यात्तथाऽभिनयवृत्तये ।।
इममित्यप्रसिद्धत्वात्प्राणस्येह त्वगादिवत् ।। १६५ ।।
अस्ति यस्मादसुर्नित्यमासन्योऽयमतो मतः ।।
वागादिभ्यो विभागार्थं विशेषणमसोरिदम् ।। १६६ ।।
जपमन्राभिधेयोऽत्र पारिशेष्यात्प्रतीयताम् ।।
उद्गीथदेवता प्राण इत्यभूत्सुरनिश्चयः ।। १६७ ।।
मत्र्रप्रयोगे सर्वेषां संनिधौ तत्प्रकाशितम् ।।
भारमुत्सहते वो़ढुं योऽनो यामस्तमाश्रयम् ।। १६८ ।।
परीक्षमाणास्ते त्राणं यथोक्ताख्यानवर्त्मना ।।
क्रमेणाऽऽसेदुरासन्यं प्राणं पाप्मपराभावत् ।। १६९ ।।
श्रेयोर्थिनां मनुष्याणामुपास्यप्रतिपत्तये ।।
इयमारव्यायिका चक्षुर्नान्यथोपास्यनिश्चितिः ।। १७० ।।
यः प्राणे भोग इति न पूर्ववद्भण्यतेऽत्र किम् ।।
वागादीनामिव यतो नासोर्भोगो विशिष्यते ।। १७१ ।।
अकृत्स्नभोगतो युक्तं वागादिषु विशेषणम् ।।
सर्वस्यैवासुभोगत्वात्किं कुतोऽत्र विशिष्यते ।। १७२ ।।
अभिसंधिरविव्यत्सन्नित्यभूत्सुरविद्विषाम् ।।
अनिष्ठितकि्रयारम्भोऽविव्यत्सन्निति भण्यते ।। १७३ ।।
विव्यत्सोद्देशमात्रेण प्राणो हन्ता सुरद्विषाम् ।।
इत्यर्थप्रतिपत्त्यर्थमीदृग्दृष्टान्त उच्यते ।। १७४ ।।
बिभित्सायै यथा वेगाल्लोष्टः क्षिप्तोऽश्मनोऽन्तिकात् ।।
नश्येत्स्ववेगाच्छतधा ह्यारवणाश्मसमागमात् ।। १७५ ।।
अप्रधृष्यं तथा प्राणमृत्वा नेशुः सहस्रधा ।।
दैत्यास्तन्नाशतो देवा देवा एवाभवन्सदा ।। १७६ ।।
अत एव मनुष्यत्वहेतवोऽप्यसुराः समम् ।।
विनेशुर्विष्वग्गतयो लोष्टः क्षिप्तो यथाऽश्मनि ।। १७७ ।।
प्राणस्वभावसंपत्तेः प्राणवद्देवता अपि ।।
देवा एवाभवन्दैत्यकृत्स्नपाप्मविनाशतः ।। १७८ ।।
वागादीन्द्रियसंघातो यजमानो यथा पुरा ।।
प्राणात्मभावाद्धत्वाऽऽगो वैराजं रूपमाप्तवान् ।। १७९ ।।
तथा यस्तमुपासीत यथोक्तारव्यानवर्त्मना ।।
विराजैवाऽऽत्मना हत्वा पापं भवति सोऽचिरात् ।। १८० ।।
जीवाविष्ट उपास्योऽत्र देवताविग्रहः सदा ।।
प्राणो हिरण्यगर्भात्मा यावत्तदभिमानता ।। १८१ ।।
भावनोपचयाद्धत्वा परिच्छेदं स्वमासुरम् ।।
देवतान्मानमेत्याशु सदा तद्भावभावितः ।। १८२ ।।
तत्तमोमात्रविध्वंसान्नतु प्राणादिराप्यते ।।
कार्यत्वात्कारणं मुक्त्वा न हि तत्कार्यसंभवः ।। १८३ ।।
देवो भूत्वेह देवोऽसौ भावनोपचयाद्भवेत् ।।
पुंव्यापारोद्भवत्वं नः श्रुत्याऽपि प्रतिपादितम् ।। १८४ ।।
ब्रह्मैवाप्येति ब्रह्मैव प्रागप्यासीद्यतोऽद्वयम् ।।
तन्मोहमात्रविध्वंसादित्यपि श्रुतिशासनम् ।। १८५ ।।
स्वतःसिद्धौ तदन्येषां श्रुतिकोपः प्रसज्यते ।।
अतोऽन्यदार्ते तद्वच्चाप्येकमेवेति च श्रुतिः ।। १८६ ।।
नाव्याकृतादेः संसिद्धौ परमात्मातिरेकतः ।।
ब्रह्मवन्मानमस्तीह तथा निर्मोक्षताऽऽपतेत् ।। १८७ ।।
अथाऽऽत्माविद्याऽव्यक्तादिरूपेण प्रथते तदा ।।
तन्निवृत्तौ निवृत्तिः स्यान्निवृत्तिः केवलात्मता ।। १८८ ।।
प्राणस्येव पराभूतो द्विषन्पाप्माऽऽसुरोऽखिलः ।।
उपासीनस्य तं प्राणं कृत्स्नो नश्येत्तथाऽऽसुरः ।।
द्विषंश्चाप्यद्वषञ्छत्रुरासुरादन्य इष्यते ।। १८९ ।।
नित्यविघ्नकृदेवैष प्राणाप्तावासुरो मतः ।।
अतो विशेष्यते श्रुत्या द्विषन्भ्रातृव्यरूपया ।। १९० ।।
उक्तासुरपराभूतौ नान्योऽरिरवशिष्यते ।।
य एवं वेदेति विधिः फलोक्तेरर्थवादतः ।। १९१ ।।
अानुषङ्गिफलोक्त्या वा तदुपासा विमुक्तये ।।
आत्मविद्याधिकारेऽस्मिंस्तदुपासाविधानतः ।। १९२ ।।
आत्मविद्योपकारित्वं तस्माद्वाक्याच्च गम्यते ।। १९३ ।।
अथायास्याङ्गिरोदूर्भिर्विशिष्टमसुकर्मकम् ।।
उपासनं विधास्यामीत्यारब्धैषोत्तरा श्रुतिः ।। १९४ ।।
अनुवादाद्विधिर्ज्यायाननुवादे वृथा श्रमः ।।
पुरुषार्थाभिसंबन्धादतो विधिरिहाऽऽश्रितः ।। १९५ ।।
श्रूयते फलसंवन्धो यासूपासासु तास्विह ।।
दध्नेन्द्रियादिवज्ज्ञेयो विधिर्गुणसमाश्रयः ।। १९६ ।।
प्रधानफलसंबन्धो यत्र तु स्याच्छ्रुतेर्मुखात् ।।
विशिष्टः स विधिर्ज्ञेयो यथाऽऽग्नेयादयस्तथा ।। १९७ ।।
अवाप्ताग्न्यादिरूपास्ते प्राणालिङ्गनसंश्रयात् ।।
कृतोपकारं स्मृत्वोचुः प्राणा वागादयस्तदा ।। १९८ ।।
अनन्ताग्न्यादिभावेन यो नः सञ्जितवानसुः ।।
क्व न्वसौ वर्तते ह्यात्मा योऽस्मच्छत्रुविनाशकृत् ।। १९९ ।।
वितर्कयन्तस्ते प्राणा उक्त्वैवं प्रत्यगात्मसु ।।
कुर्वाणमुपकारं तं ददृशुः प्रागिवाऽऽदरात् ।। २०० ।।
लोकेऽपि हि विचार्यार्थमथ संविदते जनाः ।।
यथा वागादयस्तद्वद्विजव्रुः प्राणमात्मनि ।। २०१ ।।
सामान्योक्तावास्य इति तद्विशेषणमुच्यते ।।
अन्तरित्यन्यथा मा भूत्प्रसङ्गः प्राणनिश्चितौ ।। २०२ ।।
त्वगादयोऽपि सन्त्यास्ये यतोऽतस्तद्विशेषणम् ।।
विशिनष्टि ततः प्राणमास्यान्तर्विलचारिणम् ।। २०३ ।।
आस्यपर्यन्तशायीनि त्वगादीनि न मध्यतः ।।
प्राणस्तु मध्य आस्यस्य तस्मादन्तर्विशेषणम् ।। २०४ ।।
सर्वेन्द्रियाणामथवा प्राण आत्मेति कथ्यते ।।
अयमास्येऽन्तरित्येवमरनाभिनिदर्शनात् ।। २०५ ।।
अयमास्येऽन्तरित्येवं प्राणं दृष्ट्वा यतः पुरा ।।
व्याजहरुरमरास्तस्मात्प्राण आयास्यसंज्ञितः ।। २०६ ।।
अङ्गानां करणानां च रसः सारो यतस्ततः ।।
प्राण आङ्गिरसः प्रोक्तस्तद्विद्भिस्तद्गुणाश्रयात् ।। २०७ ।।
कथमाङ्गिरसः प्राण इत्यस्य प्रतिपत्तये ।।
अन्वयव्यतिरेकाभ्यामुपरिष्टात्प्रवक्ष्यते ।। २०८ ।।
तथाऽन्यांऽपि गुणोऽनस्य दूरिति प्रतिपाद्यते ।।
उदारफलसिद्ध्यर्थं सा वा एषेत्यतः श्रुतिः ।। २०९ ।।
उपास्तिक्रमसिद्ध्यर्थं क्रमभङ्गोऽयमिष्यते ।।
यतोऽतोऽङ्गिरसं त्यक्त्वा दूरित्येवाभिधीयते ।। २१० ।।
विशिष्टोपास्तिरेवेयं प्रधानफलकीर्तनात् ।।
नायं गुणविधिर्ज्ञेयस्तत्फलस्याश्रुतत्वतः ।। २११ ।।
क्रियायां गुणभूतोऽर्थो देवतेत्युपदिश्यते ।।
अस्त्युपासिक्रियायोगो देवताऽतोऽन उच्यते ।। २१२ ।।
दूरमेवंविदः पाप्मा कथमध्यवसीयते ।।
एवंवित्त्वविरोधित्वाद्दूरं पाप्मा भवेदतः ।। २१३ ।।
विषयेन्द्रियसंबन्धजो हि पाप्माऽऽसुरो यतः ।।
श्रौतानन्तादहंमानात्परिच्छिन्नो विरुध्यते ।। २१४ ।।
चक्षुरादिपरिच्छेदः प्राकृतज्ञानहेतुतः ।।
युक्तोऽध्यात्मैकरूपस्य बाधः शास्राभिमानतः ।। २१५ ।।
परिस्पन्दात्मिका वृत्तिः श्रोत्रादिष्वपि विद्यते ।।
प्राणस्याथेन्द्रियाणां तु शब्दाद्यर्थावलेहिनी ।। २१६ ।।
शब्दादिग्राहिणी वृत्तिः स्वैरासङ्गात्मपाप्मभिः ।।
दूषिता न परिस्पन्दो दूरं मृत्युरसोस्ततः ।। २१७ ।।
मृत्युर्दूरं यथा प्राणात्तदात्मत्वात्तथाऽऽसुरः ।।
तद्विदश्च भवेन्मृत्युर्दूरमित्युपदिश्यते ।। २१८ ।।
दिशामन्त इह ग्राह्मो मध्यदेशोपलक्षितः ।।
अनन्ताकाशदेशत्वान्नाञ्जसाऽन्तो दिशां यतः ।। २१९ ।।
श्रुतिस्मृतिसदाचारसंस्कृताशयवज्जनम् ।।
अवधीकृत्यान्तत्वोक्तेर्नतु दोपो मनागपि ।। २२० ।।
मध्यदेशावधिस्तस्माद्दिगन्त इति गृह्यते ।।
प्रात्यन्तिकजनोद्देशः पापीयोजनसंश्रयात् ।।
वर्ज्यतेऽत्रः प्रयत्नेन तद्विद्भिरधुनातनैः ।। २२१ ।।
तेषु प्रत्यन्तदेशेषु तन्निवासिषु चाऽऽसुरान् ।।
यतो विन्यदधात्प्रणस्तस्मात्तद्वर्जयेद्द्वयम् ।। २२२ ।।
जनो विशिष्टो देशेन देशो जनविशेषितः ।।
पाप्मोपस्पृष्टमुभयं शिष्टास्तद्वर्जन्त्यतः ।। २२३ ।।
समाहारोऽथवा भेदो नेदित्येतत्पदं भवेत् ।।
अनीप्सितानिवृत्तिः स्यात्समाहारेऽविवक्षिते ।। २२४ ।।
इत्थं न चेदहं कुर्यां प्रतिषेधश्रुतीरितम् ।।
अन्ववायानि पाप्मानं प्रतिषेधातिलङ्घनात् ।। २२५ ।।
इति भेदविवक्षायां व्यारव्या कार्या पदद्वये ।।
माङर्थस्तु तथाऽभेदे व्याख्येयः प्रतिषेधकृत् ।। २२६ ।।
सामान्यविपयश्चायं निषेधो नानविद्गतः ।।
वलवन्प्रक्रियातो हि वाक्यं सामान्यमात्रगम् ।। २२७ ।।
आसुरेणावरुद्धास्तान्वागादीन्हतपाप्मनः ।।
देवत्वं प्रापयत्प्राणः कथमित्येतदुच्यते ।। २२८ ।।
ज्ञानतोऽज्ञानहानिः स्याद्देवत्वं भावनाबलात् ।।
आनन्तर्ये क्रियाद्वित्वादथशब्दो भवेद्ध्रुवम् ।। २२९ ।।
मृत्युमत्यवहत्प्राणः सामान्योक्तेर्विशेषतः ।।
विशिष्टदेवतावाप्तिर्वागादीनां प्रपञ्च्यते ।। २३० ।।
नेदीयसी यतोऽन्येभ्यो वागेवोद्गीथकर्मणि ।।
प्राणस्य तेन सोद्गातुः प्रथमेत्यभिधीयते ।। २३१ ।।
वागाद्यग्न्याद्यवाप्त्यैवं पाप्मनोऽपास्य सर्वतः ।।
वैराजं पदमेत्येवं यजमानः सुभावितः ।। २३२ ।।
कल्याणासङ्गसंबन्धाद्वागाद्यधर्मकारणम् ।।
त्यक्त्वाऽनं मुख्यमात्मानमाश्रयेन्मृत्युवर्जितम् ।। २३३ ।।
वागाद्यैः पञ्चभिर्युक्तं विराजं साधिभौतिकम् ।।
हित्वाऽध्यात्मपरिच्छेदं ततस्तं प्रतिपद्यते ।। २३४ ।।
साधिभूताधिदैवं च नामरूपक्रियात्मकः ।।
सूत्रं प्राणोऽङ्गिराः सत्यमृक्सामेत्यन उच्यते ।। २३५ ।।
तमेकं सर्वभूतेषु ज्ञानकर्मफलाश्रयम् ।।
आस्वभावात्मविज्ञानादुपास्ते यः स तं व्रजेत् ।। २३६ ।।
उक्तमभ्युदयार्थे यद्वागादीनामथाधुना ।।
आगानमवशिष्टेषु स्तोत्रेषूद्गातुरुच्यते ।। २३७ ।।
सामान्यभोज्यविषयस्त्वन्नशब्दो यतस्ततः ।।
आद्यमित्युच्यते तस्य विशेषणतया वचः ।। २३८ ।।
यत आदाविदं वृ्त्तमन्नागानमनात्मनि ।।
तस्मात्तत्कार्यभूतासु प्रजास्वद्यापि दृश्यते ।। २३९ ।।
यद्धि किंचेति सर्वार्थमेवेत्यत्रावधारणम् ।।
प्राणेनैव तु तत्सर्वं लोकोऽन्नं ह्यत्ति सर्वदा ।। २४० ।।
अन्नोपकारः सर्वेषामविशिष्टः समीक्ष्यते ।। २४१ ।।
अथावधारणं कस्मादनेनैवेति भण्यते ।।
प्राणद्वारक एवैषामुपकारो न तु स्वतः ।। २४२ ।।
कथं तद्दूारकस्तेषामुपकार इतीर्यते ।।
ननु दूरिति हि प्राण उक्तो वागादिवत्कथम् ।।
आत्मार्थान्नाद्यसंगीतेर्विद्धो नाऽऽसुरपाप्मभिः ।। २४३ ।।
स्थितिमात्राभिसंबन्धान्नायं दोष इहेष्यते ।। २४४ ।।
असावन्नं स्थितं यस्माद्देहं प्राणानवत्यतः ।।
यत्नाच्छ्रुतिरतो वक्ति त्विहान्नं प्रतितिष्ठति ।। २४५ ।।
स्थितिमात्रं ह्यसोरन्नं यद्वासङ्गो न शङ्क्यते ।।
भर्ता श्रेष्ठः पुरो गन्ता ह्यन्नादोऽधिपतिस्तथा ।।
इत्यादिगुणविध्यर्थं परो ग्रन्थोऽवतार्यते ।। २४६ ।।
अयं गुणविधिर्ज्ञेयः प्रत्येकं तत्फलश्रुतेः ।। २४७ ।।
जग्धमन्नं यतो देहलिङ्गभावेन याति नः ।।
परिणामं व्रजत्तस्मादेतावदिति भण्यते ।। २४८ ।।
त्वयैषाऽऽत्मार्थमागीते त्वय्येवान्नमतोऽखिलम् ।।
वयं चान्नमृते स्थातुं नालं क्षणमपीश्चर ।। २४९ ।।
सतर्प्यातः स्वमात्मानमन्नेनास्मानपीश्वर ।।
आभाजयस्व क्षुधितांश्छान्दसत्वाण्णिचोऽश्रवः ।। २५० ।।
मामृतेऽन्नं न वः शक्तं पोष्टुं क्षणमपि क्वचित् ।।
अन्नार्थिनोऽतो मां सर्वेऽप्यभिसंविशताऽऽशुवै ।। २५१ ।।
तेनैता देवताः सर्वास्तृप्यन्त्यन्नेन सर्वशः ।।
इत्यर्थस्य कुतः सिद्धिरिति चेदुच्यते यतः ।। २५२ ।।
त्रिधा जग्धं भवत्यन्नं परिणामविशेषतः ।।
स्थवीयान्मध्यमोऽणीयानित्येवं कालतोऽग्नितः ।। २५३ ।।
स्थवीयान्यात्यधोभागो रसादिक्रमशोऽपरः ।।
स्थूलं ह्युपचिनोतीमं कुड्यं मृत्स्नेव सर्वदा ।। २५४ ।।
यस्त्वणीयान्नसः सूक्ष्मः स ऊर्गमृतमुच्यते ।।
नाडीः सूक्ष्माः प्रविश्यासौ देवताः प्रीणयत्यथ ।। २५५ ।।
स्वाम्यर्थ एव चोत्तम्भस्तृप्तिरापूर उच्यते ।।
ततस्तु या सुखोद्भूतिर्विज्ञानात्मन एव मा ।। २५६ ।।
ता एता देवताः सप्तदश ज्ञानक्रियात्मिकाः ।।
सोऽयं सप्तदशग्रामो भोक्तुः करणलक्षणः ।। २५७ ।।
बुद्धीन्द्रियाणि पञ्चैव तथा कर्मेन्द्रियाण्यपि ।।
वायवः पञ्च बुद्धिश्च मनः सप्तदशं विदुः ।। २५८ ।।
अपास्ताध्यात्मरूपाणां देवतानां समाश्रयाः ।।
भूतपञ्चकमेवेदं साधारण्याद्भवेत्सदा ।। २५९ ।।
पयोम्भोवदिदं लिङ्गं नानारूपैः समन्वितम् ।।
आविर्भावतिरोभावैः कारणात्मनि वर्तते ।। २६० ।।
कूटस्थबोधतन्मोहचिदाभासैकमात्रया ।।
जाग्रत्स्वप्नावयं पीत्वा ह्यास्ते प्राणात्मनां प्रभुः ।। २३१ ।।
अपास्ताशेषबाह्यार्थस्तज्जवासनयाऽञ्चितः ।।
अध्वस्तप्रत्यगज्ञानो विरिञ्चः पर उच्यते ।। २६२ ।।
जाग्रत्काले विसेषेण स्थित्वा हृदयसद्मनि।।
द्वासप्ततिसहस्राणि नाडीर्व्याप्यावतिष्ठते ।। २६३ ।।
स एष परमात्मैव स्वात्ममोहसहायवान् ।।
प्राणात्मना करोत्येष पश्यत्यग्न्यात्मना तथा ।। २६४ ।।
इन्द्राग्नी ताविमावुक्तौ प्राण इन्द्रस्तयोर्मतः ।।
प्रकाशकत्वाद्वागग्निरेवमेकः प्रजापतिः ।। २६५ ।।
अत्र्राद्यभेदतो द्वौ वा यदि वाऽध्यर्ध उच्यते ।।
यदि वाऽयं यत्रस्रिशद्द्वासप्ततिरथापि वा ।। २६६ ।।
अनन्तभेदभिन्नो वा एक एवान उच्यते ।।
सर्वोऽप्येष विकल्पश्च पुनरेकैकशस्तथा ।। २६७ ।।
देवासुरादिभेदेन जातिरूपक्रियागुणैः ।।
एकैकोऽनन्ततां याति पुनरेकात्मतामतः ।। २६८ ।।
समस्तव्यस्ततैवेह प्रत्यगज्ञानभूमिका ।।
न त्वपास्तसमस्तान्धअये नेति नेति परात्मनि ।। २३९ ।।
सर्वेणैव विकल्पेन यथोक्तेनावतिष्ठते ।।
यथाधिकारं सर्वत्र परो जगति सर्वथा ।। २७० ।।
न हि कृत्स्नमनादाय जगदेतन्मनागपि ।।
क्रियायै कारकं किंचित्तस्मात्सर्वात्मनेहते ।। २७१ ।।
कारणात्मा जगत्कृत्स्नं श्रौतदर्शनसाधनः ।।
यतः प्रागकरोत्कर्म तत्कार्येऽपि तथा ततः ।। २७२ ।।
एकापूर्वप्रयुक्तत्वात्समस्तव्यस्तरूपिणाम् ।।
सर्वः सर्वमुपादाय सर्वत्रातः प्रवर्तते ।। २७३ ।।
अध्यात्माद्यधिभूताधिदैवतं सर्वदाऽखिलम् ।।
सर्वं सर्वक्रियाः कुर्यादेकापूर्वप्रयुक्तितः ।। २७४ ।।
यतः प्रजापतिः पूर्वमेतस्मिन्दर्शने स्थितः ।।
यज्ञेन कर्मणाऽस्राक्षीज्जगदेतच्चराचरम् ।। २७५ ।।
नाड्योऽस्य रश्मयोऽनन्ता हृदयं मण्डलं रवेः ।।
अहोरात्राणि तावच्च शतसंवत्सरायुषः ।। २७६ ।।
एतया संपदा पूर्वं यजमानेन तद्विदा ।।
अग्नयोऽर्काश्चिता आसन्षद्व त्रिंशत्सहस्रशः ।। २७७ ।।
एकैकस्मिन्परिस्पन्द एवं सर्वाऽपि देवता ।।
एका चानेकरूपा च ह्यध्यात्मादिविभागतः ।। २७८ ।।
विभ्वी सर्वगताऽनन्ता समाप्ता च प्रतिक्रियम् ।।
प्रतिद्रव्यफलं कृत्स्ना खण्डादौ गोत्ववत्स्थिता ।। २७९ ।।
एष प्रजापतेरुक्तो महिमा तद्वदेव तु ।।
यजमानोऽपि तादात्म्यात्तथैव भवति ध्रुवम् ।। २८० ।।
गुणोपास्तिफलोक्त्यर्थमेवं हेति श्रुतिः परा।।
यथोक्तार्थमुपासीनं प्रति प्रववृतेऽधुना ।। २८१ ।।
वागादयोऽभिसंविष्टा जीवनार्थमनं यथा ।।
ज्ञातयोऽभिविशन्त्येवं तद्विदं जीवनार्थिनः ।। २८२ ।।
भर्ता च संनिविष्टानां श्रेष्ठश्च गुणतो भवेत् ।।
यथोक्तगुणवैफल्यं पुर एता न चेद्भवेत् ।। २८३ ।।
सर्वमेतद्वृथैव स्यान्न चेद्दीप्ताग्निमान्भवेत् ।।
अन्नाद इत्यतो वक्ति साफल्यप्रतिपत्तये ।। २८४ ।।
द्विषत्सु स्वेषु च न चेदाधिपत्यं तथाऽपि च ।।
प्रोक्तवैफल्यमाशङ्क्य ह्याहाधिपतितां फलम् ।। २८५ ।।
प्राण आत्मेत्युपासीनो यथोक्तं फलमश्नुते ।।
तज्ज्ञातयोऽपि फलिनो यथा वागादयस्तथा ।। २८६ ।।
प्राणसंस्पर्धिनो यद्वद्विनेशुरसुरास्तथा ।।
प्राणविद्विद्विषः सर्वे नालं भार्येभ्य एव च ।। २८७ ।।
उद्बुभूषति यो द्वेषात्स्वेषु प्राणविदं प्रति ।।
प्रतिस्पर्धी न सोऽलं स्याद्भरणाय कथंचन ।। २८८ ।।
नासौ श्रेष्ठः पुरोगन्ता नान्नादोऽसुरवद्भवेत् ।।
न च ज्ञातिष्वधिपतिः स्पर्धमानोऽनवेदिना ।। २८९ ।।
सोऽग्रास्याङ्गिरसः प्रोक्तस्तत्रायास्यो यथा तथा ।।
निर्णीतः प्रागथेदानीमाङ्गिरस्त्वविनिर्णयः ।। २९० ।।
पूर्वोक्तस्यानुवादोऽयं सोऽयास्येत्याद्युपक्रमः ।।
श्रुत्याऽऽङ्गिरस्त्वसिद्ध्यर्थमुच्यते न्यायपूर्वकम् ।। २९१ ।।
सिद्धोऽङ्गानां रसः प्राणः प्राणोऽङ्गानां रसः कथम् ।।
हीति हेतावतः प्राह तद्व्याख्यानाय चोत्तरः ।। २९२ ।।
यस्मात्कस्माच्चिदङ्गाद्धि प्राण उत्क्रामतीह नुः ।।
नीरसं मत्तदेवाङ्गमाशु शुष्यति तत्र च ।। २९३ ।।
यत एवमिदं दृष्टमन्वयव्यतिरेकः ।।
तस्मादाङ्गिरसः प्राणो ज्ञेय आत्मेति पण्डितैः ।। २९४ ।।
कार्यस्य रूपभूतस्य कर्मणः करणस्य च ।।
न केवलं प्राण आत्मा नाम्नोऽप्यात्मेति भण्यते ।। २९५ ।।
एवं सर्वात्मकत्वेन स्तुवन्प्राणं प्रयत्नतः ।।
आदरं कुरुते शास्रमुपास्यत्वाय देहिनाम् ।। २९६ ।।
बृहस्पत्यादिभिर्धर्मैरसोरन्यदुपासनम् ।।
विशिष्टमभिधित्स्वाह शास्रं पूर्ववदेव च ।। २९७ ।।
वाग्व्यापृततमा दृष्टा यत उद्गीथकर्मणि ।।
देवता सैव न प्राण इत्याशङ्क्येदमुच्यते ।। २९८ ।।
कौष्ठ्याग्निप्रेरितो वायुर्नानास्थानसमाहतः ।।
वर्णतामेति येनातः प्राण एव बृहस्पतिः ।। २९९ ।।
यजुर्ब्रह्मेति श्रवणादन्ते साम्नो ग्रहादपि ।।
ऋग्यजुःसामनिर्देशः क्रमेणेति प्रतीयते ।। ३०० ।।
सेति वाचोऽभिधानं स्यादमः प्राणाभिधा तथा ।।
सामोभयं समुदितं गुणप्राधान्यरूपतः ।। ३०१ ।।
एकार्थवृत्तिता यस्मात्तेनैकवचनं कृतम् ।।
शब्दयोः सामयोस्तस्मात्प्राणः सामाभिधीयते ।। ३०२ ।।
इतरस्यापि सामत्वं प्राणनिर्वर्त्यतो मतम् ।।
प्राण एव ततः साम युक्तो वागुपसर्जनः ।। ३०३ ।।
निःशेषभूतसाम्याद्वा साम प्राणोऽभिधीयते ।।
प्रत्यगज्ञानहेतुत्वात्तज्जस्यऽऽनन्त्यमुच्यते ।। ३०४ ।।
अतिसूक्ष्मशरीरा हि पुत्तिका प्लषिरुच्यते ।।
पुत्तिकादिशरीरेण समः प्राणस्तदाश्रयात् ।। ३०५ ।।
मशकेभविराइदेहैः समः प्राणो यथोदितः ।।
तथा हैरण्यगर्भेण लिङ्गात्मा सम एव तु ।। ३०६ ।।
वाय्वात्मनि समाप्तत्वात्करणानामशेषतः ।।
सर्वदेहसमत्वं स्यात्प्राणिकर्मानुरूपतः ।। ३०७ ।।
प्रतिप्राणिपरिच्छेदो ज्ञानकर्मानुरोधतः ।।
धर्माधर्मानपेक्षः सन्नानन्त्येनावतिष्ठते ।। ३०८ ।।
साम्न आप्नोति सायुज्यमैकात्म्यं प्राणरूपताम् ।।
समानलोकताऽनेन सालोक्यमिति शब्द्यते ।। ३०९ ।।
विकल्पासंश्रवाद्विद्वानश्नुतेऽतः फलद्वयम् ।।
वैचित्र्याद्भावनादेर्वा त्रिविधं फलमुच्यते ।। ३१० ।।
भूयोल्पीयः फलत्वं चेत्तुल्यसाधनयोर्न तत् ।।
योगैश्वर्यात्समा सिद्धिः कालादेरीश्वराद्यतः ।। ३११ ।।
एकमेव जगद्वीजमीशाभिप्रायहेतुतः ।।
भूरिनानाप्रभेदेन प्रत्यात्मं व्यवतिष्ठते ।। ३१२ ।।
कुर्यान्मेरावणुधियमणौ मेरुधियं तथा ।।
सर्वत्राप्रतिधात्येव प्रत्यगज्ञो महेश्वरः ।। ३१३ ।।
अतत्त्वज्ञस्य तमसो रज्ज्वज्ञानोरगादिवत् ।।
अष्टावस्थाप्रभेदेन मिथ्याज्ञानं प्रजायते ।। ३१४ ।।
प्रत्यगज्ञानविध्वस्तौ रज्ज्वज्ञानहताविव ।।
तत्कल्पितनिवृत्तिः स्यादष्टावस्थस्य बोधतः ।। ३१५ ।।
अनात्मवस्तु सकलं प्रत्यगज्ञांनहेतुजम् ।।
यथा तथोत्तरत्रापि युक्तिभिश्चाभिधास्यते ।। ३१६ ।।
औद्गात्रमेव चोद्गीथो भक्तिर्वा काचिदिष्यताम् ।।
प्रसिद्धेरिति चेन्मैवमुद्गीथो ह्यसुरेव तु ।। ३१७ ।।
उपसर्ग उदित्येप स चात्यन्तक्रियाश्रितः ।।
संयोज्य क्रिययाऽतस्तं व्याचष्टे श्रुतिरञ्जसा ।। ३१८ ।।
उत्तब्धं विधृतं यस्मात्प्राणेन जगदित्वरम् ।।
उत्प्राणोऽतः प्रसिद्धस्तु गुणादुद्गीथ उच्यते ।। ३१९ ।।
अनया गीयते यस्माद्गीथा वाक्तेन भण्यते ।।
उच्च गीथा च तद्योगादुद्गीथ इति शब्द्यते ।। ३२० ।।
उद्गाता नैमिषीयाणामयास्योपासनादभूत् ।।
अयास्यनामा सोऽगायद्वाचा प्राणप्रधानया ।। ३२१ ।।
बृहस्पत्यादिभिर्धर्मैरुपास्यानमनो भवेत् ।।
भावनोत्कर्षतोऽतोऽयं विचारस्तं प्रतीष्यते ।। ३२२ ।।
हृदयेनाभिसंबन्धाद्देवताऽत्र प्रजापतिः ।।
Line २ miss ।। ३२३ ।।
वागीश्वरत्वादिन्द्रो वा यदि वा वर्णदेवता ।।
पदवाक्यस्वरस्थाननादादिविषयाऽपि वा ।। ३२४ ।।
एवं विप्रतिपन्नेपु नानावादिषु निश्चितः।।
प्राणप्रधानया वाचा ह्ययास्योऽगायदित्यतः ।।
ब्रह्मदत्तश्चकारोच्चैः शपथं वादिनः प्रति ।। ३२५ ।।
यदितोऽनप्रधानाया वाचो ह्यन्येन केनचित् ।।
देवान्तरेण सोऽगायदयास्यः प्राणविग्रहः ।। ३२६ ।।
सर्वप्रमाणभूतोऽभूदुद्गाता सत्रिणां पुरा ।।
विसंवादस्त्वभूत्तेषामुद्दिश्योद्गीथदेवताम् ।। ३२७ ।।
उद्गाता नैमिषीयाणां मदभ्युपगताद्यदि ।।
प्राणवाग्द्वयतोऽन्येन देवेनासौ प्रयत्नवान् ।। ३२८ ।।
उदगायत्तदा सोमो भक्ष्यमाणः शिरो मम ।।
मिथ्याभिवादिनः साक्षाद्विपातयतु सत्वरः ।। ३२९ ।।
श्रुतिः समर्थयामास वाचेति शपथक्रियाम् ।।
शपथस्यापि मानत्वमस्मादेव तु कारणात् ।। ३३० ।।
वाचः प्राणस्य च यत उद्गीथे व्यापृतिः स्फुटा ।।
प्राधान्येन तदन्येषां न तथा लक्ष्यते सदा ।। ३३१ ।।
आकृत्यर्थाभिसंबन्धादभिधानस्य न श्रुतेः ।।
ब्रह्मदत्ताभिसंबन्धादनित्यत्वं प्रसज्यते ।। ३३२ ।।
उद्गीथदेवतामेवं परीक्ष्याथाधुना श्रुतिः ।।
स्वादिधर्माभिसंबन्धं प्रचक्राम प्रभाषितम् ।। ३३३ ।।
याजमानमिदं ज्ञानं स्वादेः प्राग्यत्समीरितम् ।।
पञ्चमाद्युक्तिदृष्ट्याऽस्य ह्येकवाक्यत्वहेतुतः ।। ३३४ ।।
स्वसुवर्णप्रतिष्ठाधीरुद्गातुरिति गम्यते ।।
ऋत्विङ्नामाभिसंबन्धान्न त्वसौ यजमानगा ।। ३३५ ।।
एष एवंविदुद्गातेत्यमुतो लिङ्गतो भवेत् ।।
उद्गातुरपि विज्ञानं दृष्टार्थत्वाच्च कारणात् ।। ३३६ ।।
कर्त्राश्रितं स्वं विज्ञेयं माधुर्यादीह सामनि ।।
यतस्तद्धनवत्तस्मात्स्वरार्थं यत्नमाचरेत् ।। ३३७ ।।
धनवन्तं यथा यत्नाद्दिदृक्षन्तीह संघशः ।।
तथा यत्नात्समीक्षन्ते स्वरसंपत्समन्वितम् ।। ३३८ ।।
बाह्यवित्तेन संबन्धमुक्त्वाऽथान्तर्धनात्मना ।।
संबन्धं वक्तुकामेयं प्रचक्रामोत्तरा श्रुतिः ।। ३३९ ।।
बाह्योऽस्य धर्मः सौस्वर्यं सौवर्ण्यं त्वान्तरं धनम् ।।
तदन्तरतमोऽनस्य प्रतिष्ठागुण उच्यते ।। ३४० ।।
जिह्वामूलीयकादीनि ह्यष्टौ स्थानानि वागिह ।।
गानप्रतिष्ठाहेतुत्वाद्धीति हेतुवचस्तथा ।। ३४१ ।।
अन्नप्रतिष्ठमागानमेक आहुर्विपाश्चितः ।।
अनिषेधाद्दूयोरेका प्रतिष्ठेहावसीयताम् ।। ३४२ ।।
अन्नस्य परिणामेऽनः स्थितो गीतित्वमेति हि ।।
अनप्रतिष्ठा देहोऽतः श्रुत्येह प्रतिपाद्यते ।। ३४३ ।।
उपासनं विकल्पेन वागन्नास्व्यप्रतिष्ठयोः ।।
वाक्प्रतिष्ठमुपासीत यदि वाऽन्नप्रतिष्ठितम् ।। ३४४ ।।
यदर्थमतियत्नेन महिमाऽनस्य कीर्तितः ।।
अभ्यारोहजपः सोऽथ प्राप्तावसर उच्यते ।। ३४५ ।।
यथोक्तज्ञानवत्तायामिदं कर्म विधित्स्यते ।।
कार्त्स्न्येन तस्य चोक्तत्वादतस्तदभिधीयते ।। ३४६ ।।
एवं विद्वत्प्रयोज्यत्वादत एव न सूत्रितम् ।।
नित्यकर्मेव सूत्रेषु तेन विद्वत्प्रयोज्यता ।। ३४७ ।।
उद्गीथलिङ्गसंयोगाद्गानमात्रेऽस्य शक्तितः ।।
नियमोऽस्यैवकारेण पवमानेषु कथ्यते ।। ३४८ ।।
ततोऽपि कालसंकोचं स वा इत्यादिनाऽनदत् ।।
प्रस्तोता प्रस्तुयाद्यत्र तदैतानि जपेदिति ।। ३४९ ।।
एतानीति च निर्देशाद्यजूंषीत्यवगम्यते ।।
श्रुतावेव च दृष्टत्वात्स्वरः शातपथो जपे ।। ३५० ।।
जपकर्माभिधा चेयमभ्यारोह इतीष्यते ।।
योगिकी चाभिधा ज्ञेया क्रियायोगस्य संभवात् ।। ३५१ ।।
हित्वाऽध्यात्मपरिच्छेदं दैवं वीजमतः परम् ।।
अभ्यारोहत्यनेनातो ह्यभ्यारोहो जपः स्मृतः ।। ३५२ ।।
तिरोहितार्थरूपत्वान्मन्त्राणां न नृधीगतिः ।।
मन्त्रार्थं स्वयमेवातो व्याचष्टे श्रुतिरञ्जसा ।। ३५३ ।।
पूर्वं पदार्थान्व्याख्याय पश्चाद्वाक्यार्थमव्रवीत् ।।
फलं पश्चाद्यथोक्तस्येत्येष व्याख्याक्रमः श्रुतेः ।। ३५४ ।।
यत्स्यात्स्वाभाविकं ज्ञानं यच्च कर्म स्वभावजम् ।।
तदधःपातहेतुत्वान्मन्त्रेऽसदिति भण्यते ।। ३५५ ।।
सद्देवभावहेतुत्वाच्छास्रीये ज्ञानकर्मणी ।।
सत्पदेनाभिधीयेते मन्त्रेऽस्मिन्प्राग्यथोदिते ।। ३५६ ।।
असन्मृत्युस्तयोर्ज्ञेयः पूर्वयोर्मृत्युहेतुतः ।।
अमृतं मृत्युघातित्वाच्छास्रीये ज्ञानकर्मणी ।। ३५७ ।।
आसुरज्ञानकर्मभ्यां मां व्युत्थाप्याथ तज्जितेः ।।
गमयाऽऽशु ततो दैवे शास्रीये ज्ञानकर्मणी ।। ३५८ ।।
मन्त्रार्थे यत्नमाहाथ ह्यमृतं मामिति श्रुतिः ।।
द्वितीयमन्त्रानूक्तिः स्यात्तमसो मेत्युदीरणम् ।। ३५९ ।।
आपेक्षिकत्वान्मृत्युः स्याच्छास्रीये ज्ञानकर्मणी ।।
स्वार्थं फलमपेक्ष्यैते परार्थत्वात्तमो मते ।। ३६० ।।
साधनात्तमसो मां त्वं ज्योतिः साध्यं नायमृतम् ।।
फलाप्त्यैव तमोध्वंसादमृतं मेत्यतोऽवदत् ।। ३६१ ।।
पूर्वयोर्मन्त्रयोर्योऽर्थो विस्तरेणोदितः पुनः ।।
मन्त्रेण स तृतीयेन संक्षेपेणाभिधीयते ।। ३६२ ।।
प्रसङ्गमुत्तरे मन्त्रे पूर्वयोरिव वीक्ष्य हि ।।
तिरोहितार्थतामाह नात्रेत्यादिवचः श्रुतिः ।। ३६३ ।।
यथाप्रार्थितमागाय याजमानं फलं परम् ।।
त्रिष्वेव पवमानेषु यथा वागादिभिः पुरा ।। ३६४ ।।
अथ यानीतराणीति ह्युद्गाताऽन्नाद्यमात्मने ।।
आगायेद्वचनात्कर्तुः कामयोगोऽपि गम्यते ।। ३६५ ।।
कस्मादात्मन आगायेदिति हेतुरिहोच्यते ।।
यस्मात्स एष एवंविदुद्गाताऽतोऽन एव सः ।। ३६६ ।।
अतोऽलमात्मने कामानागातुं स्वामिने तथा ।।
यस्मादीश्वर उद्गाता कामावाप्तावतः शुभम् ।। ३६७ ।।
तस्मात्तेषु वरं कामं यजमानो यथारुचि ।।
नवसूद्गीयमानेषु तं वृणीताविचारयन् ।। ३६८ ।।
प्रयोगानुगमे चैतद्दर्शनं येन चोद्यते ।। ३६९ ।।
तस्मात्स्याद्देवतावाप्तिर्ज्ञानकर्मसमुच्चयात् ।।
तस्मान्न काचिदाशङ्का कर्मिणं प्रति विद्यते ।। ३७० ।।
कर्महीनेऽपि विदुषि स्यान्न वेत्यतिशङ्क्यते ।।
तदाशङ्कापनुत्त्यर्थं तद्धैतदिति हि श्रुतिः ।। ३७१ ।।
इहैव देवभूतत्वादाशङ्का किंनिबन्धना ।।
जपकर्मानवोधाभ्यां लोकप्राप्तौ हि शङ्क्यते ।।
ज्ञानादेव भवेन्नेति तद्धैतदिति हि श्रुतिः ।। ३७२ ।।
जीवतो देवभूतस्य भावनोपचयात्कुतः ।।
देवाराप्तौ भवेच्छङ्का मनुष्यस्य तदाप्तिवत् ।। ३७३ ।।
कर्मिणोऽपि हि देवाप्तिर्ज्ञानादेव न कर्मणः ।।
समुच्चयात्तु तत्प्राप्तावागमादेव निश्चितिः ।। ३७४ ।।
तद्धैतत्प्राणविज्ञानं यथाव्याख्यातरूपकम् ।।
भवेल्लोकजिदेवेह कर्मशून्यमपि ध्रुवम् ।। ३७५ ।।
न हैवालोक्यतायै नुरस्याऽऽशाऽपीह विद्यते ।।
इहैव लोकभूतत्वादप्राप्तेऽर्थे हि शङ्क्यते ।। ३७६ ।।
इहैवाऽऽसुरभावस्य प्राणोऽस्मीत्यभिमानतः ।।
प्रध्वस्तत्वात्कुतः शङ्का तन्मूलासंभवाद्भवेत् ।। ३७७ ।।
इदमत्र विचिन्त्य स्याज्ज्ञानकर्मसमुच्चयात् ।।
देवभावः किमुद्गातुर्यजमानस्य वाऽथ किम् ।। ३७८ ।।
न समुच्चय उद्गातुः कर्माभावादिहेष्यते ।।
परकर्मप्रवेशात्स्यादुद्गाता न स्वकर्मणि ।। ३७९ ।।
क्रियायोगाच्च तन्नाम्नो ज्ञानाभ्यासोऽपि दुर्लभः ।।
साक्षात्कृतिश्च संतत्या संततिश्च न विद्यते ।। ३८० ।।
न च धीजन्ममात्रेण परमात्मप्रबोधवत् ।।
संभाव्यो देवभावोऽस्य देवो भूत्वेति च श्रुतेः ।। ३८१ ।।
उद्गतुर्विदुषो नापि परकीयेन कर्मणा ।।
समुच्चयप्रसिद्धिः स्यात्तयोर्भिन्नाश्रयत्वतः ।। ३८२ ।।
यजमानस्य कर्मास्ति ज्ञानं तूद्गातृसंश्रयम् ।।
समुच्चयोऽतस्तस्यापि भिन्नाधिष्ठानतो न च ।। ३८३ ।।
मतं तद्याजमानं स्याज्ज्ञानं यत्प्रागुदीरितम् ।।
स्वयमेव कृतार्थत्वात्काऽपेक्षाऽस्यर्त्विजं प्रति ।। ३८४ ।।
कर्मण्युद्गात्रपेक्षावज्ज्ञानेऽपीति मतं यदि ।।
उद्गातुरपि तत्तुल्यं नोद्गातर्ते क्रियां यतः ।। ३८५ ।।
याजमानं यथा कर्म ह्याश्रित्य फलवद्भवेत् ।।
अन्नाद्यागानमुद्गातुस्तज्ज्ञानं तद्वदाश्रितम् ।। ३८६ ।।
समुच्चयाच्चेदुभयोरुद्गातृयजमानयोः ।।
देवभावः किमर्थेयं तद्धैतदिति हि श्रुतिः ।। ३८७ ।।
सर्वाश्रमाणां तर्हीदं सामान्येनाभिधीयते ।।
तद्धैतदिति सिद्धत्वादुद्गातृयजमानयोः ।। ३८८ ।।
देवभावेन विज्ञानं संस्करोत्येव तद्धियम् ।।
परार्थमपि सत्कस्मादनपेक्षं न सिद्धये ।। ३८९ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयं ब्राह्मणम्
ज्ञानकर्मफलं चैतत्कर्मकाण्डप्रचोदितम् ।।
आत्मैवेत्यादिशास्रेण सृष्ट्यादौ कर्तृतोच्यते ।। १ ।।
जगदुत्पत्तिसंहारस्थित्यादौ जगदात्मनः ।।
क्रियाधीफलभूतस्य स्वातन्त्र्यमुपवर्ण्यते ।। २ ।।
स्तुत्याऽनया च वेदोक्तक्रियाज्ञानस्तुतिर्भवेत् ।।
कृता विवक्षितं त्वत्र सर्वमप्येतदीरितम् ।। ३ ।।
वैदिकं साधनं ज्ञेयं ज्ञानकर्मात्मकं पुरा ।।
महानर्थफलायैव न मोक्षायेति निश्चितिः ।। ४ ।।
वैदिकं साधनं सर्वमविद्योत्थत्वकारणात् ।।
तीव्रानर्थफलायेति ब्रह्मविद्याधिकारतः ।।
विवक्षितोऽर्थो यत्नेन तद्वैराग्यविधित्सया ।। ५ ।।
यतोऽविरक्तः संसारान्नाऽऽत्मज्ञानाय कल्पते ।।
तदेतदात्मतत्त्वं हि पदनीयमितीरणात् ।। ६ ।।
पुत्रादिभ्यस्तथा प्रेयानिति वक्ष्यति सादरम् ।। ७ ।।
वेदोक्तं निखिलं पुंसः सत्त्वशुद्धिफलं स्मृतम् ।।
कर्म ध्यानादिकं यत्नाच्छ्रेयोर्थिभिरनुष्ठितम् ।। ८ ।।
सम्यक्संशुद्धधिषणः संसारं वेत्ति तत्त्वतः ।।
दृष्टसंसारतत्त्वश्च वैराग्यं संसृतेर्व्रजेत् ।। ९ ।।
आविरिञ्चाद्विरक्तो हि संसारान्निविवृत्सति ।।
न चोक्तज्ञानकर्मभ्यः सा निवृत्तिः प्रसिध्यति ।। १० ।।
वाह्मनःकायकर्मभ्यस्तत्साध्यकटुकत्वतः ।।
व्युत्थायानर्थनिःसारसाधनान्यनुमार्गति ।। ११ ।।
नित्यान्यपि च कर्माणि तत्संस्कारफलाश्रयात् ।।
परित्यजति सर्वाणि कृत्स्नसंसारदोषदृक् ।। १२ ।।
संसारवह्निजं दुःखं संभावयति ना परम् ।।
भूयो दुःखं किमन्यत्स्यान्नित्यानुष्ठानहानितः ।। १३ ।।
मुक्तेर्बिभ्यत इत्यादि तथाच श्रुतिशासनम् ।।
तन्मूला च स्मृतिः साक्षाद्वेदानित्यादिका स्फुटा ।। १४ ।।
अविज्ञातं परं तत्त्वं जनिमत्कारणं श्रुतौ ।।
आन्त्यात्कार्यात्तदेव स्यात्सर्वकार्यविशेषणम् ।। १५ ।।
तेन तेनाऽऽत्मकार्येण स्वात्माभासतमोवधिः ।।
विशिष्टः समृजे विष्णुस्तेजोबन्नादि मायया ।। १६ ।।
अविद्ययाऽस्य स्रष्ट्वत्वं कूटस्थस्यापि सर्वदा ।।
यथावस्तुधियः सूतेः प्राङ्नित्यं तेन तन्मतम् ।। १७ ।।
ज्ञानकर्मादितन्त्रं सत्सूवं जज्ञे ततो विभोः ।।
ज्ञानक्रियाशक्तिमद्यद्यत्रेदं जगदाहितम् ।। १८ ।।
विराडपि ततो जातस्रैलोक्यात्मकदेहवान् ।।
यथोक्तज्ञानकर्मभ्यां मनोर्जन्म ततोऽपि च ।। १९ ।।
या महाप्रलयात्सृष्टिः सा विरिञ्चस्य वक्ष्यते ।।
आन्तरप्रलयाद्या तु विराजोऽधीयमुच्यते ।। २० ।।
स वै शरीरी प्रथमः स वै पुरुष उच्यते ।।
आदिकर्ता स भूतानां ब्रह्माऽग्ने समवर्तत ।। २१ ।।
प्रत्यग्भूतः परार्थेभ्यो योऽनन्यानुभवं प्रति ।।
प्रथते स इहाऽऽत्मेति जगत्यस्मिन्निगद्यते ।। २२ ।।
आत्माभासैकसंसिद्धेस्तदज्ञानसमुद्भवम् ।।
आत्मैव भण्यते मोहात्तदात्माव्यतिरेकतः ।। २३ ।।
एवेत्यवधृतावेतदात्मीयार्थनिषेधकृत् ।।
मन्वादि जन्मनः पूर्वमात्मैवेदमभूज्जगत् ।। २४ ।।
अध्यात्मादिविभागे स्यादात्मात्मीयादिभेदधीः ।।
तस्मिन्नसति सा न स्यादपेक्षाविरहाद्विभोः ।। २५ ।।
मिथोपास्तव्यपेक्षं हि नामरूपादिमज्जगत् ।।
प्रत्यह्मात्रप्रमाणं स्यात्पराङेवैति चित्रताम् ।। २६ ।।
अपामार्गलतेवायं विरुद्धफलदो भवः ।।
प्रत्यग्दृशां विमोक्षाय संसाराय पराग्दृशाम् ।। २७ ।।
व्याकृताव्याकृतं विश्वं प्रत्यक्प्रत्ययमात्रकम् ।।
मोहोत्थाहमितिज्ञानाद्भयारत्यादिमद्भवेत् ।। २८ ।।
अहंममेतिविज्ञानं विद्यया ध्वंमितं यदा ।।
तदाऽद्वये दृशौ दृष्टे न भयादि तमोहतेः ।। २९ ।।
इदं धीनामगम्यं यच्चित्रं सत्प्रथते हिरुक् ।।
मन्वादि सृष्टेस्तत्पूर्वमात्मैवाभूदिदं जगत् ।। ३० ।।
एतावद्वास्तवं वृत्तं मोहोत्थं भण्यतेऽधुना ।।
कोशपञ्चकतां यातः प्रत्यगज्ञानतो यतः ।। ३१ ।।
स एष परमोऽप्यात्मा कामाविद्याद्युपप्लवात् ।।
संवृत्तः पुरुषाकार इत्यनुक्रोशतीव नः ।। ३२ ।।
आनन्दाद्यन्नपर्यन्तान्कारणेतररूपिणः ।।
पुरुषादिप्रकारांस्तान्प्रत्यक्तत्त्वानलक्षयत् ।।
पुरुषविध इत्युक्त्या ह्यूर्ध्वं चैवं प्रवक्ष्यते ।। ३३ ।।
वाह्मनःप्राणकोशांस्रीन्विराडन्नमयः स्वयम् ।।
तद्धेदमिति चाऽऽनन्दो नैवेहेति तथोच्यते ।। ३४ ।।
अग्निर्मूर्धेति च तथा मन्त्रेणापि प्रकाशितः ।।
सामानाधिकरण्यं च तद्धेदमिति युक्तिमत् ।। ३५ ।।
पृथिव्याद्यक्षरान्तश्च प्रश्नो वाचक्नवस्तथा ।। ३६ ।।
प्रत्यग्दृष्ट्यनुविद्धाहंप्रत्ययैकप्रमाणकः ।।
सोऽनुवीक्ष्याऽऽत्ममोहोत्थदृष्ट्याऽविद्योत्थरूपकम् ।। ३७ ।।
यदभ्यस्तं पुराऽस्याभूदहमेवेदमित्यदः ।।
दर्शनं तदपेक्ष्यायमनुशब्दः प्रयुज्यते ।। ३८ ।।
अहमेवेदमस्मीति दर्शनं यत्सुभावितम् ।।
तत्फलं यत्तदन्वीक्ष्य नाऽऽत्मनोऽन्यद्ददर्श सः ।। ३९ ।।
तस्मादर्थान्तरासूतेरेकपिण्डात्ममात्रतः ।।
नापश्यदपरं किंचित्सोऽहमित्यभ्यधादथ ।। ४० ।।
त्रैलोक्यात्मकदेहात्मा नापश्यदपरं पृथक् ।।
भिन्नार्थानभिसंवन्धात्प्रतीच्येवास्य धीरभूत् ।। ४१ ।।
सशब्दं दर्शनं यादृक्प्रागभ्यस्तं तथैव सः ।।
व्याजहार फलावस्थो ह्यहमित्यात्मवाचकम् ।। ४२ ।।
उपासनार्थं नामास्य तस्योपनिषदित्यतः ।।
अतोऽहमित्यनेनैव ह्यात्मनाऽऽत्मानमभ्यधात् ।। ४३ ।।
अहमित्यभ्यधादग्रे यस्मादात्मानमात्मना ।।
अहंनामाभवत्तस्माद्विराडेष प्रजापतिः ।। ४४ ।।
तत्कार्यगेण लिङ्गेन ज्ञापयन्कारणाभिधाम् ।।
तस्मादपीति वक्त्येतां प्रसिद्धिं लोकसाक्षिकीम् ।। ४५ ।।
यथोक्तमहिमः कस्मात्संवृत्तः पुरुषो विराट् ।।
इतिहेतूपदेशाय स यदित्यादि भण्यते ।। ४६ ।।
मिथो जिगीषतां पुंसां ज्ञानकर्मादिसाधनैः ।।
पुरा देवात्मतां योऽगात्प्लुष्टास्तेनेतरे जिताः ।। ४७ ।।
वैराजपदसंप्रेप्सोर्यजमानमहाजनात् ।।
एनांस्यौषद्यतोऽग्रेऽतः संवृत्तः पुरुषाभिधः ।। ४८ ।।
औषत्स्वान्पाप्मनः पूर्वं ज्ञानाद्यतिशयाग्निना ।।
वैराजपदलिप्सुभ्यस्तेनासौ पुरुषाभिधः ।। ४९ ।।
यथोक्तोपासनफलं वक्ष्यामीत्युत्तरं वचः ।।
ओषतीत्यादिकं ज्ञेयं वेदोपासीत यः सदा ।। ५० ।।
योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।।
सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्वभौ ।। ५१ ।।
पुरुषोऽस्मीत्युपास्त्यर्थं पुरुषार्थोऽयमुच्यते ।।
ओषतीत्युक्तितः साक्षाद्गुणोपास्तिफलश्रवात् ।। ५२ ।।
अभिष्टुतं प्रयत्नेन फलं यज्ज्ञानकर्मणोः ।।
एवंमहिममप्येतत्संसारं नात्यवर्तत ।। ५३ ।।
प्रत्यग्याथात्म्यविज्ञानविरहादन्यसाधनः ।।
यावत्किंचित्फलं नादः सर्वानर्थनिवृत्तये ।। ५४ ।।
निरस्तातिशयं कर्म ज्ञानं चाऽऽप्यापि बालवत् ।।
यतोऽबिभेदविद्यावानतोऽसावस्मदादिवत् ।। ५५ ।।
न ह्यविद्यामनादाय वस्तुयाथात्म्यसंश्रयात् ।।
कश्चिद्बिभेत्यबिभेच्च तेनाविद्वान्प्रजापतिः ।। ५६ ।।
प्रत्यग्याथात्म्यविद्यैव निःशेषपुरुषार्थकृत् ।।
इत्येतत्प्रतिपत्त्यर्थं विराट्स्थानस्य कुत्सनम् ।। ५७ ।।
यतोऽविभेद्विराद्पूर्वमेकाक्यस्मीति मूढवत् ।।
तस्मात्तत्कार्यभूतोऽज्ञ एकाक्यद्य बिभेति ना ।। ५८ ।।
एवं भयाभिभूतः स ईक्षांचक्रेऽथ लोकवत् ।।
भयाहेतु यथातत्त्वदर्शनं कृतवान्विभुः ।। ५९ ।।
स्रजीव कल्पिताहिर्ना तत्र्रासादाकुलेन्द्रियः ।।
आलोचयेद्यथातत्त्वं भीध्वस्तौ तद्वदीश्वरः ।। ६० ।।
आलोचयन्यथातत्त्वमपास्तध्वान्ततद्भवम् ।।
अनन्यानुभवं साक्षाद्ददर्शैकात्म्यमात्मनि ।। ६१ ।।
प्रत्यग्याथात्म्यविज्ञानशिखिप्लुष्टमहत्तमाः ।।
आप्ताशेषपुमर्थोऽथ सोऽमन्यत ततो विराट् ।। ६२ ।।
देहेन्द्रियमनोबुद्धिभावाभावादिसाक्षिणम् ।।
प्रत्यञ्चं मदिति प्राह तदृष्ट्या नेक्षते द्वयम् ।। ६३ ।।
प्रतीच्येव यदेहाऽऽत्मा प्रत्यगात्मानमीक्षते ।।
अन्वयव्यतिरेकाभ्यां ब्रह्मस्मीति तदेक्षते ।। ६४ ।।
प्रत्यग्दृष्ट्या तदज्ञानतज्जं नैवेक्षते स्वतः ।।
ब्रह्मप्रतीचोरैकात्म्यात्तदूरीकृत्य गर्जति ।। ६५ ।।
प्रत्यक्तां मदिति प्राह त्वन्यन्नास्तीति चैकताम् ।।
कस्मादिति च हेतूक्तिर्भीत्याचिक्षिप्सया परम् ।। ६६ ।।
प्रत्यक्ता ब्रह्मणो यस्माद्ब्रह्मता चाऽऽत्मनः स्वतः ।।
एवं सति कुतो मे भीरिति विद्वांस्रपायते ।। ६७ ।।
ब्रह्मविद्यामृते नान्यद्भयहेतुविनाशकृत् ।।
संभाव्यमिति नः प्राह तत एवेति च श्रुतिः ।। ६८ ।।
प्रत्यगज्ञानमेवैकं भीतिहेतुर्भवेद्यदि ।।
तत एवेति वचनं तदेवं स्यात्समञ्जसम् ।। ६९ ।।
कस्माद्ध्यभेष्यदिति च पूर्वोक्तार्थसमर्थनम् ।।
श्रुत्याऽकारि कुतो भीतिर्ध्वस्ताज्ञानतदुद्भवे ।। ७० ।।