अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥संबंधभाष्यवार्तिकम् ॥ (४)

आध्या­त्मि­क­प­रि­च्छे­द­व्या­वृ­त्ति­र्य­त्स­मा­श्र­यात् ।।
स मृत्यु­र्मृ­त्यु­श­ब्देन फलभूतोऽत्र भण्यते ।। २ ।।

या त्वश्व­मे­ध­ग­त्युक्तिः सोपलक्षणसिद्धये ।।
कर्म­ज्ञा­ना­न्त­राणां स्यान्ना­श्च­मे­ध­गृ­ही­तये ।। ३ ।।

अल्पी­यः­फ­ल­सं­प्रा­प्ति­र­ल्पी­यो­ज्ञा­न­क­र्मतः।।
अल्पत्वमभिभूतेः स्यात्त­यो­रा­सु­र­पा­प्मभिः ।। ४ ।।

कुत­स्त­स्या­भि­भू­तस्य रागा­द्या­सु­र­पा­प्मभिः ।।
उद्भूतिः कर्मणोऽत्यर्थं ज्ञानस्य च निगद्यताम् ।। ५ ।।

मृत्युं साक्षादवाप्नोति ज्ञानयुक्तेन कर्मणा ।।
इत्ये­त­द्ब­हु­शोऽ­श्रावि पूर्वग्रन्थेषु चाऽऽगमैः ।। ६ ।।

तज्ज्ञा­नो­त्प­त्ति­वि­घ्नाय ध्वस्ति­कृ­ज्ज्ञा­न­ल­ब्धये ।।
उद्गी­थ­दे­व­ता­वाप्त्यै प्रार­ब्धे­हो­त्तरा श्रुतिः ।। ७ ।।

ननु मृत्यो­र­ति­क्रा­न्ते­रू­द्गी­थ­ज्ञा­न­क­र्मणोः ।।
फलस्य संश्रवान्नातो मृत्यु­प्रा­प्ति­स्तयोः फलम् ।। ८ ।।

नाग्न्या­दि­दे­व­ता­त्म­त्व­त­त्फ­ला­व­ग­मा­च्छ्रुतेः ।।
स्वाभा­वि­का­स­ङ्ग­मृ­त्यो­र­ति­क्रान्तिः पृथक्फलम् ।। ९ ।।

कोऽसौ स्वाभाविकः पाप्मा तस्यो­द्भ्यू­ति­स्तथा कुतः ।।
तस्मा­न्निवृ्त्तिः केन स्यात्कथं वेत्येतदुच्यते ।। १० ।।

यथो­क्ता­र्थ­प्र­सि­द्ध्यर्थं श्रुति­रा­र­व्या­यि­का­त्मिका ।।
द्वया हेत्येवमाद्येयं प्रचक्राम परीक्षितुम् ।। ११ ।।

प्राजापत्यं पदं यो यो ह्यधिकारी परीप्सति ।।
तन्नि­र्धा­र्या­नया श्रुत्या पद­मा­प्नो­त्यु­पा­स­नात् ।। १२ ।।

पूर्वजन्मनि यद्वृत्तं वर्त­मा­न­प्र­जा­पतेः ।।
तदवद्योतको हेति निपातोऽत्र प्रयुज्यते ।। १३ ।।

भवि­ष्य­द्वृ­त्ति­मा­श्रित्य यजमानः प्रजापतिः ।।
इहा­भी­धी­य­तेऽ­न्यस्तु न कश्चि­त्स­प्र­यो­जनः ।। १४ ।।

ज्ञानकर्मोपदेशो हि नरं प्रत्येव सर्वथा ।।
सर्वः श्रौतो यतस्तस्मात्स एवेहाभिधीयते ।। १५ ।।

तत्क­र्म­ज्ञा­न­ज­त्वाच्च तत्प्राणाः शुद्ध्य­शु­द्धिजाः ।।
प्राजापत्या इहोच्यन्ते वागाद्युक्तेश्च लिङ्गतः ।। १६ ।।

उद्गी­थो­पा­स्ति­सं­ब­न्धा­द्दूया हेत्यादिकस्य च ।।
उपा­स्या­र्थ­वि­शु­द्ध्यार्था प्रवृ­त्ताऽऽ­ख्या­यिका ततः ।। १७ ।।

अभ्यारोहजपस्येह प्राण एवास्तु देवता ।।
कस्माद्वागादयो नेति तत्परीक्षाऽत ईर्यते ।। १८ ।।

अन्व­य­व्य­ति­रे­काभ्यां प्राण­प्रा­धा­न्य­सि­द्धये ।।
प्रवृ­त्ताऽऽ­ख्या­यिका यत्ना­द्वा­गा­दी­न्द्रि­य­नि­न्दया ।। १९ ।।

शास्र­स्व­भा­व­ज­ज्ञा­न­क­र्म­सं­स्का­र­हे­तुतः ।।
देवासुरत्वं प्राणानां निरु­द्धो­पा­धि­का­र­णात् ।। २० ।।

सहस्रादिर्यथा भेदः प्राणस्यैकस्य शब्द्यते ।।
भूयोधिकारभेदेन वागादीनां तथा भिदा ।। २१ ।।

सहजं सर्वभूतानां वृत्त­मा­सु­र­मि­ष्यते ।।
यत्नाधेयं यतो दैवं ज्यायांसः स्युस्ततोऽसुराः ।। २२ ।।

इह वागादयः शब्दा देव­ता­र्था­भि­धा­यकाः ।।
मर्त्यत्वान्न तु गृह्यन्ते करणस्थानगोचराः ।। २३ ।।

देव­तै­का­त्म्य­मे­वेह दैव­ज्ञा­न­क्रि­या­फ­लम् ।।
अध्या­त्मा­दि­प­रि­च्छेद आसुरत्वान्न गृह्यते ।। २४ ।।

हिंसाभिप्रवणं चेतः प्रायेण श्रेयसामपि ।।
भूयांसोऽतोऽसुरा देवाः कनी­यां­सोऽ­ति­य­त्नजाः ।। २५ ।।

धर्मा­ध­र्मै­क­सा­ध्य­त्वा­ह्ब्र­ह्मादेः स्थावरावधेः।।
अस्पर्धन्त ततोऽन्योन्यं दैतेेयां विबुधैः सह ।। २६ ।।

आसु­रे­भ्योऽ­धि­का­रेभ्यो व्युत्थाप्येह प्रजापतिम् ।।
दैवी­र्भू­मी­र्न­या­मै­न­मिति देवचिकीर्पितम् ।। २७ ।।

दैवेभ्य एनमाच्छिद्य काम­क्रो­धा­दि­सा­धनाः ।।
आन­या­माऽऽ­सु­री­र्भू­मी­रिति दैतेयनिश्चितिः ।। २८ ।।

यत्रा­य­त्र­स­मु­त्थाभ्यां वृत्तिभ्यां देवदानवाः ।।
दैव्या­सु­री­भ्या­म­न्यो­न्य­म­स्प­र्धन्त विरोधतः ।। २९ ।।

भूयो बलेन ते देवा आसुरेण निराश्रयाः ।।
अर्द्यमाना न शरणं लेभि­रेऽ­ल्प­त्व­का­र­णात् ।। ३० ।।

अनीक्षमाणास्ते शर्म संभूयोचुः परस्परम् ।।
क्रियतामविचारेण हन्तेत्यनुमतौ पदम् ।। ३१ ।।

अस्म­ज्जि­गी­षू­न­सु­रा­ञ्जि­त्वो­द्गा­त्रा­त्म­सं­श्र­यात् ।।
अति­ल­ङ्घ्याऽऽ­सुरं भावं देव­ता­त्मा­न­मा­प्नुमः ।। ३२ ।।

उद्गी­थ­दे­व­ता­वा­प्ति­र्ज्ञा­न­क­र्म­मु­च्च­यात् ।।
अभ्यारोहजपः कर्म ज्ञानं त्विह परीक्ष्यते ।। ३३ ।।

विधि­शे­षा­र्थ­वा­द­त्वा­न्नेदं ज्ञाननिरूपणम् ।।
इति चेन्नैतदेवं स्यादेवं वेदेति तद्विधेः ।। ३४ ।।

उद्गी­थ­वि­धि­शे­ष­श्चे­दु­द्गी­थ­प्र­कृतौ श्रवात् ।।
नात­त्प्र­क­र­णा­न्न्या­य्य­मि­तोऽ­न्यत्र च तद्विधेः ।। ३५ ।।

विद्या­प्र­क­र­ण­त्वाच्च नेहोद्गीथो विधीयते ।।
जपस्य चाप्य­नि­त्य­त्वा­त्स्या­दे­वां­वि­त्प्र­यो­ज्यता ।। ३६ ।।

उदा­र­फ­ल­व­द्य­स्मा­दपि ज्ञानमिह श्रुतम् ।।
तद्धैतदित्यतो ज्ञानं फल­व­त्त्वा­द्वि­धि­त्सि­तम् ।। ३७ ।।

शुद्ध्य­शु­द्ध­यु­क्ति­त­श्चेह प्राणोपासा विवक्षिता ।।
वागादिनिन्दया मुख्यप्राणोपासा न चेदिह ।। ३८ ।।

विधित्सिताऽथ तन्निन्दा स्तुतिश्चानस्य किंफला ।।
अतोऽर्थवादाद्धि विधि­र्लि­ङ्गा­द­त्रा­नु­मी­यते ।। ३९ ।।

प्राण­स्व­रू­पा­प­त्तिश्च यतोपासाफलं श्रुतम् ।।
उपासनमतोऽनस्य विधि­त्सि­त­मि­ती­क्ष्य­ताम् ।। ४० ।।

उपासनमसोः काममस्तु सूक्तोपपत्तितः ।।
शुद्ध्या­दि­गु­ण­वत्ता तु न मानादुपपद्यते ।। ४१ ।।

गुण­व­त्ताऽ­प्य­सो­रस्तु यथाऽस्योपासनं तथा ।।
प्रामा­णि­क्यु­भ­य­त्रापि प्राप्ति­र्य­स्मा­दि­हे­क्ष्यते ।। ४२ ।।

ननु स्तुत्य­र्थ­तै­वास्य शुद्ध्या­दे­र­व­ग­म्यते ।।
उपा­सा­वि­धि­शे­ष­त्वा­द­र्थ­वा­दोऽत ईक्ष्यताम् ।। ४३ ।।

प्रामा­णि­कोऽ­भि­सं­बन्धो यस्मात्प्राणस्य गम्यते ।।
किंबलं समुपाश्रित्य शुद्ध्या­दे­र­र्थ­वा­दता ।। ४४ ।।

नहि मानं विहायेह साध्य­सा­ध­न­नि­श्चितौ ।।
चक्षु­र­न्य­त्प्र­प­श्यामो यद्बलात्स्यादयं मृषा ।। ४५ ।।

आस­न्य­त्वा­द­योऽ­न्यस्य न च योषाग्निवद्यतः ।।
तेषां प्रत्यक्षतः सिद्धेरतः शुद्ध्या­दि­मा­नसुः ।। ४६ ।।

अक्षाद्यविषया ये तु गुणा आगमतो मताः ।।
माना­वि­रो­धा­त्के­नैषां शुद्ध्यादीनां मृषार्थता ।। ४७ ।।

श्रोत्रा­दि­व­त्प्र­मा­णा­ना­म­सा­धा­र­ण­मे­यता ।।
तन्मेयप्रथने मानं न किंचिदनुभूतितः ।। ४८ ।।

पर­मा­र्था­ति­रे­का­द्वाऽ­भे­दाद्वा परमार्थतः ।।
वस्तुनः स्यान्मृ­षा­त्मत्वं नैवमप्युपपद्यते ।। ४९ ।।

लभते व्यतिरेकं चेत्प­र­मा­र्था­त्त­तोऽ­प­रम् ।।
स्वमहिम्नैव तत्सिद्धेः किमिव स्यान्मृषार्थता ।। ५० ।।

पर­मा­र्था­त्म­कत्वे तु न किंचिद्वितथं क्वचित् ।।
अस­त्य­स्या­प्य­स­त्यत्वं पर­मा­र्थ­सा­दा­त्मना ।। ५१ ।।

सत्या­स­त्य­वि­भा­गोऽ­य­म­वि­भा­गा­त्म­व­स्तुनि।।
प्रत्य­ग­ज्ञा­न­हे­तू­त्थ­स्त­द्वो­धा­देव तद्धतिः ।। ५२ ।।

स्वाभा­स­फ­ल­का­रू­ढ­स्त­द­ज्ञा­न­ज­भू­मिषु ।।
तत्स्थोऽपि तदसंबद्ध ईश्व­रा­द्या­त्मतां गतः ।। ५३ ।।

तदज्ञानं तदुत्थं च जगत्कृत्स्रं तदात्मकम् ।।
यतोऽ­त­स्त­द­नू­द्याऽऽह ह्यात्मैवेति श्रुतिः स्फुटम् ।। ५४ ।।

ऐकात्म्यमेव मानानां सर्वेषां मेयमिष्यते ।।
यथा तथा प्रवक्ष्याम उद­र्केऽ­प्यु­प­प­त्तिभिः ।। ५५ ।।

मिथ्ये­ति­प्र­त्य­यो­त्प­त्ति­स्तथा कारणदोषतः ।।
बाध्यज्ञानस्य हेतुः स्यान्ना­तोऽ­न्य­द्वा­ध्य­का­र­णम् ।। ५६ ।।

न चेहोभयमप्यस्ति कुतो मिथ्येति भण्यते ।।
मितेर्मेये समा­प्त­त्वा­न्मि­थ्यात्वं न मितेर्भवेत् ।। ५७ ।।

तस्मा­द­वि­प­री­ता­र्थ­ज्ञा­ना­च्छ्रेयो ह्यावाप्यते ।।
विप­री­ता­र्थ­ता­यास्तु न हेतु­र्ज­ग­ती­क्ष्यते ।। ५८ ।।

वस्तुनिष्ठैव मा यस्मान्न तदज्ञानजाश्रया ।।
तस्मा­त्त­न्मो­ह­वि­ध्वस्तौ ध्वस्तिः स्यान्मोहजस्य च ।। ५९ ।।

न चैवं सति मानानां द्व्यर्थता स्यात्कथंचन ।।
यथा­भू­ता­र्थ­बो­धि­त्व­मे­व­मेत्र मितेर्भवेत् ।। ६० ।।

ईश्व­रा­दि­वि­क­ल्पानां प्रत्य­ग्व­स्त्व­वि­क­ल्पि­तम् ।।
विषयो, न मृषाबुद्धिः परमार्थे विना यतः ।। ६१ ।।

याव­त्किं­चि­न्मितेः प्राप्तं न तन्मिथ्या मितत्वतः ।।
मिथ्येति ग्राह­य­च्छा­स्र­म­न­र्थार्थं यतो भवेत् ।। ६२ ।।

नाम्नि ब्रह्मेति दृष्टं चेन्न भेदप्रतिपत्तितः ।।
प्रतिमावद्धि नामादौ ज्ञाते ब्रह्मेति धीरियम् ।। ६३ ।।

यथा निर्ज्ञातभेदे हि विष्णु­धी­रु­प­ला­न्मनि ।।
विधीयते तथा नाम्नि ब्रह्म­बु­द्धि­विं­धी­यते ।। ६४ ।।

अज्ञा­त­र­ज्जु­तत्त्वाो हि रज्जुं सर्पधियेक्षते ।।
नामादौ तु यतो नैवं तस्मादसदिदं वचः ।। ६५ ।।

ब्रह्म नैवेह वस्त्वस्ति, दृष्टिरेवेति चेन्मतम् ।।
नर्गादिषु सतामेव सत्सु दृष्टिसमन्वयात् ।। ६६ ।।

गौणस्य मुख्या­पे­क्ष­त्वा­न्मुख्यं ब्रह्म विना न सत् ।।
गौणं ब्रह्म यथा गौणो वह्नि­र्मु­ख्या­ग्नि­पू­र्वकः ।। ६७ ।।

न चासद्विषया काचि­द्वु­द्धि­र्ज­गति वीक्ष्यते ।।
सर्वा­र्थ­व्य­भि­चा­रेऽपि संवि­द­व्य­भि­चा­रिणी ।। ६८ ।।

न चापी­हाऽऽ­ग­मा­भा­सोऽ­चो­द­ना­ल­क्ष­ण­त्वतः ।।
क्रिया­र्थै­र­वि­शि­ष्ट­त्वा­द्वि­द्या­र्थोक्तेः परात्मनि ।। ६९ ।।

ज्योति­ष्टो­मा­दिका यद्व­द्वि­शि­ष्टा­ने­क­सा­धना ।।
एवं­क्र­म­प्र­यु­क्ताङ्गा तथा चैवंफला क्रिया ।। ७० ।।

अन्य­प्र­मा­णा­वि­षया वाक्या­दे­वा­व­ग­म्यते ।।
यथा तथे­हा­पू­र्वा­दि­व­स्तू­क्ते­रेव गम्यते ।। ७१ ।।

न च वाक्या­द्वि­प­र्यस्ता यदि वा संशयात्मिका ।।
बुद्धि­रु­त्प­द्य­तेऽ­स्माकं यथा­भू­ता­र्थ­बो­धिनः ।। ७२ ।।

कार्या­भा­वा­द­युक्तं चेन्नो­क्ति­र्बु­द्धे­स्त­था­र्थतः ।।
भावनार्थस्य नैवेह भाव्य­र्थ­त्वा­त्त­था­र्थता ।।

किंतु माना­र्पि­त­त्वात्सा यथा भूतार्थतेप्यते ।। ७३ ।।
नापि तद्धिषणायाश्च कार्य­त्वा­त्स्या­त्त­था­र्थता ।।

प्रमाणाभिजनादेव यथाभूतार्थता धियः ।। ७४ ।।
अन्यो­न्या­श्र­य­ता­दोषः कार्य­प्रा­मा­ण्य­वा­दिनः ।। ७५ ।।

प्रमाणाधिगतौ सत्यां पुंसो मेयानुरोधतः ।।
अनु­ष्ठे­योऽ­न­नु­ष्ठेय इति पश्चा­न्म­ति­र्भ­वेत् ।। ७६ ।।

एकरूपं यतो मानं विरु­द्धा­ने­क­रू­पि­णाम् ।।
भानुवद्बोधकं दृष्टं नातोऽनुष्ठेयतो मितिः ।। ७७ ।।

नन्व­वा­क्य­प्र­मा­ण­त्व­म­न­नु­ष्ठा­नतो भवेत् ।।
पदानां संहतिर्यस्मान्न दृष्टेह क्रियां विना ।। ७८ ।।

पदार्थत्वे च तत्सि­द्धि­र्लि­ङ्ग­प्र­त्य­क्ष­सं­श्र­यात् ।।
आग­मै­क­प्र­मा­ण­त्वान्ना पदा­र्थ­त्व­मि­ष्यते ।। ७९ ।।

अस्य­स्मी­त्य­भ्यु­पे­त­त्वा­न्नै­व­म­प्यु­प­प­द्यते ।।
अस्ति मेरुर्यथा वर्ण­च­तु­ष्ट­य­वि­शे­षणः ।। ८० ।।

अकार्येऽपि हि मेर्वादावस्ति मेरुरिति श्रुतेः ।।
सम्यग्धीर्जायते यद्वत्तथा तत्त्वमसीत्यतः ।। ८१ ।।

मेर्वा­दि­ज्ञा­न­व­च्चे­त्स्या­न्नि­ष्फ­ल­त्वा­द­मा­नता ।।
नैवं तत्फ­र­ल­सा­क्षा­त्त्वा­ज्ज्ञा­नो­द्भू­ते­र­न­न्त­रम् ।। ८२ ।।

भिद्यते हृद­य­ग्न­न्थि­र्ब्र­ह्मा­प्ये­तीति च श्रुतेः ।।
न चार्थ­वा­द­तै­तस्यां जुह्रामिव फलश्रुतेः ।। ५३ ।।

निषि­द्धा­नि­ष्ट­सं­बन्धो वाक्या­दे­वा­न­ग­म्यते ।।
न चानुष्ठेयता तस्य मनागप्युपपद्यते ।। ८४ ।।

निषे­ध­सं­स्कृ­त­धियो निषिद्धविषये न च ।।
पला­ण्ड्वा­दा­व­क­र­णा­दन्या धीर्जायते श्रुतेः ।। ८५ ।।

यथा निषेधवाक्येभ्यो नान्याऽकरणतो मतिः ।।
तत्त्व­म­स्या­दि­वा­क्ये­भ्य­स्त­द्व­दे­वेति निश्चयः ।। ८६ ।।

मृगतोये प्रवत्तस्य तृडा­र्त­स्यो­ष­रे­क्ष­णात् ।।
तमोध्वस्तौ निवृत्तिः स्यात्त­थाऽऽ­त्म­ज्ञा­न­तोऽपि नः ।। ८७ ।।

तस्मा­न्नि­षे­ध­शा­स्रस्य यथा भूतार्थनिष्ठता ।।
पुंव्यापारस्य गन्धोऽपि न तत्रास्तीति निश्चयः ।। ८८ ।।

आत्म­या­था­त्म्य­वि­ज्ञा­न­नि­ष्ठता तद्वदीक्ष्यताम् ।।
तत्त्व­म­स्या­दि­वा­क्यानां नानुष्ठानं मनागपि ।। ८९ ।।

कलञ्जभक्षणस्येव ननु न श्रौतकर्मणः ।।
अज्ञा­न­हे­त्व­न­र्था­र्थ­का­रिता गम्यते मितेः ।। ९० ।।

नैव­म­ज्ञा­न­हे­तु­त्वा­न­र्था­र्थ­त्वेन तुल्यता ।।
कल­ञ्ज­भ­क्ष­णे­ना­त­स्त­न्नि­वृत्तौ निवर्तते ।। ९१ ।।

शास्र­मा­त्र­नि­मि­त्त­त्वा­न्नि­त्यानां नैवमिप्यते ।।
मिथ्या­ज्ञा­ना­दि­हे­तुत्वं काम्यानामिव चेन्मतम् ।। ९२ ।।

नावि­द्या­रा­ग­द्वे­पा­दि­दो­ष­वृ­ष्टस्य तद्विधेः।।
स्वर्गादिकामिनो यद्व­द­ग्नि­हो­त्र­वि­धि­स्तथा ।। ९३ ।।

मोह­का­मा­दि­दु­ष्टस्य नित्यं कर्म विधीयते ।।
न स्वतः काम्य­नि­त्य­त्व­वि­वे­कोऽ­स्तीह कर्मणः ।। ९४ ।।

कर्तृस्थेन हि स्वर्गा­दि­का­म­दो­षेण काम्यता ।।
अतो नान्येन काम्यत्वं कर्मणः स्यात्कथंचन ।। ९५ ।।

आवि­रि­ञ्चा­द्वि­र­क्तस्य तद्वि­वि­क्ता­त्म­का­मिनः ।।
मोक्षे पुंसोऽधिकारः स्यान्न कामापहृतात्मनः ।। ९६ ।।

पराचः कामानित्येवं कामानित्यपरं तथा ।।
योऽकाम इति तद्वच्च श्रुतिः कामनिषेधनी ।। ९७ ।।

अविद्याया न चोच्छित्तौ ज्ञाना­द­न्य­द­पे­क्ष्यते ।।
ज्ञानोत्पत्तौ न चैवा­न्य­च्छ­मा­दिभ्यो ह्यपेक्ष्यते ।। ९८ ।।

शमाद्युत्पत्तये नान्य­द्बु­द्धि­शु­द्धे­र­पे­क्ष्यते ।।
बुद्धिशुद्धौ च नित्या­दि­क­र्मभ्यो नान्यदिष्यते ।। ९९ ।।

आत्मा­ज्ञा­नै­क­हे­तु­त्वा­द्वा­ह्मनः कायकर्मणाम् ।।
आत्मज्ञानेन तद्बा­धा­त्क­र्मा­पेक्षा कुतो भवेत् ।। १०० ।।

यद­ज्ञा­ना­त्प्र­वृ­त्तिर्या तज्ज्ञानात्सा कुतो भवेत् ।।
प्रत्य­ग्ज्ञा­नो­द्भवे तस्मात्समाप्तिः सर्वकर्मणाम् ।। १०१ ।।

न चोच्छि­न्ना­त्म­मो­हस्य सदैवाऽऽत्मधियः स्थितेः ।।
प्रती­च्य­व­स­रोऽ­स्तीह वाङ्म­नः­का­य­क­र्म­णाम् ।। १०२ ।।

कर्म­णोऽ­व­स­र­श्चे­त्स्या­त्त्व­द्भि­क्षा­व­सरो यथा ।।
नाऽऽत्म­व­स्तु­नि­मि­त्त­त्वा­त्स­म्य­ग्बुद्धेः सदा स्थितेः ।। १०३ ।।

न वस्त्व­व­स­रा­पेक्षं स्वतः­सि­द्ध­त्व­का­र­णात् ।।
क्रियै­वा­व­स­रा­पेक्षा तस्याः कारकतन्रतः ।। १०४ ।।

सम्य­ग्ज्ञा­न­शि­रि­व­प्लुष्टं कुतोऽज्ञानं पुनर्भवेत् ।।
शुद्ध­दो­षो­द्भ­व­त्वाच्च न तु कर्मैवमिष्यते ।। १०५ ।।

क्षुधा­दि­दो­ष­हे­त्वेव त्वस्म­द्भु­ज्यादि नो मतम् ।।
निय­ता­ने­क­हे­तु­त्वा­न्नातो भुजिसमा क्रिया ।। १०६ ।।

दोषहेतावपि तथा कालादिनियमस्तथा ।।
भवद्भिक्षाटनादौ सादिति चेन्नैतदेव तु ।। १०७ ।।

नैवायं नियमोऽस्माकं परिसंख्या हि सा यतः ।।
क्रिया­प्र­योक्त्री नाप्येषा, तस्मा­द्वि­ष­म­मु­च्यते ।। १०८ ।।

नातोऽपवादकृत्सा स्यादै­का­त्म्य­ज्ञा­न­ज­न्मनः ।।
सर्व­क­र्मा­धि­का­राणां निषे­धा­याऽऽ­त्म­धी­भवः ।। १०९ ।।

निषे­ध­वि­धि­व­त्त­स्मा­त्प्र­त्य­ग्या­था­त्म्य­धी­विधिः ।।
प्रत्य­ह्मो­है­क­हे­तु­त्वा­द्वा­ड्म­नः­का­य­क­र्म­णाम् ।। ११० ।।

तस्मा­द्व­स्त्वे­क­नि­ष्ठस्य प्रामाण्यं वचसो ध्रुवम् ।।
प्रति­षे­ध­वि­धे­र्य­द्व­दु­भ­यो­र­वि­शे­षतः ।। १११ ।।

स्वाभा­वि­कै­क­दो­षांत्यां व्यवहार इहाऽऽसुरः ।।
शास्रै­क­हे­तु­र्दैवः स्यात्तयोः स्पर्धा विरोधतः ।। ११२ ।।

प्राकृ­ता­स­ङ्ग­वि­ज्ञा­न­कार्ये ह्यधिकृतिः स्वतः ।।
सुरद्विषां सुराणां तु शास्रो­त्थ­ज्ञा­न­दी­पितः ।।
कर्म­ज्ञा­ना­धि­कारः स्यात्सं­ग्रा­म­स्त­द्वि­रो­धतः ।। ११३ ।।

उत्कर्षो मानुषाद्वर्ध्वं पुंसः केवलधर्मतः ।।
अधो­भा­व­स्त्व­ध­र्मा­त्स्या­द्द्वाभ्यां मानुष्यसंभवः ।। ११४ ।।

आग्र­ज­स्था­णु­प­र्य­न्त­श­री­र­ग्र­ह­णा­न्यतः ।।
लोकेष्विति श्रुतिर्वक्ति विरो­ध­स्त­न्नि­ब­न्धनः ।। ११५ ।।

अधोलोकफलेष्वेव प्राकृ­त­ज्ञा­न­क­र्मसु ।।
यत्ना­दा­स­ञ्ज­नी­योऽयं पिते­त्य­सु­र­नि­श्चयः ।। ११६ ।।

प्राकृतासङ्गतो मुक्त्वा पिताऽयं दैवसाधनैः ।।
उत्कृष्टव्यो यथाशक्ति विबुधानां चिकीर्षितम् ।। ११७ ।।

नर­प्र­जा­प­ति­त­ना­वेवं देवासुरा मिथः ।।
स्वस्व­भा­वा­नु­रो­धेन तेऽस्पर्धन्त स्ववृत्तिभिः ।। ११८ ।।

यदोद्भवति शास्रोत्था दैवी वृत्ति­स्त­दाऽऽ­सुरी।.
व्येति यस्मात्ततोऽशेषं देवानां स जयः स्मृतः ।। ११९ ।।

आसुरी तु यदा सेना कामक्रोधपुरःसरा ।।
जायते ह्यज­य­स्ते­षा­म­सु­राणां जयस्तु सः ।। १२० ।।

स्वाभा­वि­क­त्वा­दा­सुर्या भूयस्या सेनयाऽर्दिताः।।
न शर्म लेभिरे देवाः स्वात्म­त्रा­णा­स­मी­क्ष­णात् ।। १२१ ।।

स्वभू­मे­श्चा­व्य­मा­नानां सुरा­णा­म­सु­रै­स्तदा ।।
प्रादु­रा­सी­न्मतिः साध्वी दैतेयभयनाशिनी ।। १२२ ।।

उद्गीयं समुपाश्रित्य ज्योति­ष्टो­म­क्र­ता­विह ।।
तिर­स्कृ­त्याऽऽ­सुरं दैवं भावं यामोऽधुना वयम् ।। १२३ ।।

कर्तृत्वादीह यत्सिद्धं वागा­दि­द्वा­र­मी­क्ष्यते ।।
आत्म­न­स्त­द­वि­द्योत्थं निरविद्ये निषेधतः ।। १२४ ।।

लौकिको वैदिकः सर्वो व्यवहारश्च वक्ष्यते ।।
अन्नत्रयाधिकारे हि मनआदावनात्मनि ।। १२५ ।।

भूते­हा­नु­वि­धा­यि­त्वा­त्क्षे­त्र­ज्ञस्य तमस्विनः ।।
कूट­स्था­त्मा­ति­रे­केण रूपमन्यन्न लक्ष्यते ।। १२६ ।।

एवं ताः संप्र­धा­र्यो­चु­रु­द्गीथं साधनं परम् ।।
तत्परीक्षां प्रयत्नेन चक्रुः संभूय देवताः ।। १२७ ।।

वाचं संभावयामासुरियं ह्युद्गीथकर्मणि ।।
अत्यर्थे व्यापृता दृष्टा वाचमूचुस्ततः सुराः ।। १२८ ।।

त्वं न उद्गीय उद्गानं त्वत्प्रधानं भवत्विदम् ।।
उद्गीथ इति चोद्गानं कर्मै­वे­हा­भि­धी­यते ।। १२९ ।।

स्तोत्रे­णा­स्या­भि­सं­ब­न्धा­द्भ­क्ति­मात्रं न तु क्वचित् ।।
वागभिमानिनी चेह वाक्श­ब्दे­ना­ग्नि­रु­च्यते ।। १३० ।।

विषयोऽध्येषणाया हि चेतनावान्यतो मतः ।।
उपासिक्रियया योगो देवताया इहेष्यते ।। १३१ ।।

अतोऽपि देवतैवेह वाक्श­ब्दे­ना­भि­धी­यते ।।
तद्भूतेः पुरु­षा­र्थ­त्वा­द्दे­वता हीश्वरा परा ।। १३२ ।।

सैवातः प्रतिपत्तव्या सर्वासु ध्यानभूमिषु ।।
न त्विह प्रतिपत्तव्याः करणस्थानगोचराः ।। १३३ ।।
पारा­र्थ्या­चे­त­न­त्वाभ्यां मर्त्य­त्वा­च्चापि कारणात् ।। १३४ ।।

एवं वागादयः शब्दा देव­ता­र्था­भि­धा­यिनः ।।
सर्वत्र प्रतिपत्तव्या यत्रोपासा विवक्षिता ।। १३५ ।।

जपमन्राभिधेयेयं वागित्येवं विनिश्चिताः ।।
उपासांचक्रिरे देवा एषैवोद्गीथदेवता ।। १३६ ।।

देवाभ्युदय उद्गानं देवेभ्योऽर्थाय वागियम् ।।
यथा­श­क्त्यु­द­गा­यत्तं यो भोगो वाङ्निबन्धनः ।। १३७ ।।

येन भोगेन वाग्दे­वां­श्च­क्षु­रा­दी­न­ह­र्नि­शम् ।।
साक्षादवति तं भोगमुदगायदशेषतः ।। १३८ ।।

पवमानेषु सोद्गात्री याजमानं यथाविधि ।।
फलमुद्गाय शेषेषु ह्युद­गा­य­द­थाऽऽ­त्मने ।। १३९ ।।

स्तोत्रेषु परिशिष्टेषु वागा­गा­य­द­थाऽऽ­त्मने ।।
यत्कल्याणं वदत्येषा ह्यात्मने तदचीक्लपत् ।। १४० ।।

यथाशास्रं यथायोगं वर्ण­दो­ष­वि­व­र्जि­तम् ।।
वर्णो­च्चा­र­ण­सा­मर्थ्यं ममैवास्तु तदीदृशम् ।। १४१ ।।

कल्याणवदनोत्थं यत्कृत्स्नं देवेभ्य एव तत् ।।
फलं वदनमात्रं तु वाच एव न दैविकम् ।। १४२ ।।

तम­स्यु­त्सा­र्य­माणे तु वाचोद्गात्रा सुरद्विषाम् ।।
स्वाधि­का­रा­च्च्या­व्य­मा­नास्ते विदु­र्दे­व­हृ­द्ग­तम् ।। १४३ ।।

अनेन वाचोद्गात्रा नो बलं ध्वान्तं तु देवताः ।।
ज्योतिषा स्वेन निर्जित्य यास्य­न्त्य­ग्न्या­दि­रू­प­ताम् ।। १४४ ।।

महन्नो भयमायातमिति बुबुधिरेऽसुराः ।।
कर्मण्यनुचिते तेषां प्रहीणमनसां तदा ।।
वदनादावभिष्वङ्ग आत्म­सं­भा­व­ना­द­भूत् ।। १४५ ।।

यत्कल्याणमिति च्छिद्राद्विदुः सुरचिकीर्षितम् ।।
अनेन वै न उद्गात्रा वाचाऽ­त्ये­ष्यन्ति स्वं वपुः ।। १४६ ।।

इति ज्ञात्वा ह्यभिद्रुत्य स्वैरा­स­ङ्ग­श­रो­र्मिभिः ।।
विवि­धु­स्ता­न­थो­द्गा­तृंस्ते विद्धास्तत्यजुः क्रियाः ।। १४७ ।।
नानादन्यस्य सामर्थ्यं विद्य­तेऽ­सु­र­ना­शने ।। १४८ ।।

अनेनाप्रतिरूपेण वचसा कार्यशायिना ।।
पाप्मा­दि­दो­ष­सं­पर्कः कार­ण­स्थोऽ­नु­मी­यते ।। १४९ ।।

व्युत्था­याऽऽ­ख्या­यि­का­रू­पा­च्छ्रुतिः स्ववपुषाऽधुना ।।
आचष्टे कारणे वृत्तं कार्य­गे­णा­सु­रा­त्मना ।। १५० ।।

दृष्टे­ना­प्र­ति­रू­पेण कार्य­गे­णा­नु­मी­यते ।।
कारणे पाप्म­वे­धोऽ­भूद्यो वाचि प्राक्प्रजापतेः ।। १५१ ।।

स यो वाच्यसुरैः क्षिप्तः पाप्मा कार्ये स दृश्यते ।।
प्रमाविरोधि यद्वाक्यं तत्त­त्का­र्य­स­मा­श्र­यम् ।। १५२ ।।

स एव स इति ह्युक्तिः कार्य­का­र­ण­सं­स्थयोः ।।
प्रजासु साक्षाद्यः पाप्मा यश्च तत्कारणाश्रयः ।। १५३ ।।

घ्राणं चक्षुस्तथा श्रोत्रं मन­श्चै­व­म­नु­क्र­मानु ।।
वत्रुर्देवा यथा वाणीं विद्धाः सर्वे तथाऽसुरैः ।। १५४ ।।

कर्मे­न्द्रि­याणां सर्वेषां वागे­वा­त्रो­प­ल­क्ष­णम् ।।
चक्षुःश्रोत्रे धीन्द्रियाणां मनो बुद्धेस्तथैव च ।। १५५ ।।

कृत्स्रं जगदनादाय नैकस्यापीष्यते क्रिया ।।
प्राणस्य किमु वक्तव्यं कृत्स्ना­ध्या­त्मे­न्द्रि­य­ग्रह ।। १५६ ।।

यद्यपीदं जगत्कृत्स्नं गृह्यते संहतत्वतः ।।
तथाऽपि चोदितोऽत्रार्थ उपास्यो नाऽऽगतोऽर्थतः ।। १५७ ।।

कल्याणेतररूपेण परि­शि­ष्टे­ष्व­पी­क्ष्यते ।।
विभाग आसुरो वेधस्तेन तेप्वनुमीयते ।। १५८ ।।

अत­स्त­द­र्थ­मा­हे­य­मे­व­म्विति पुनः श्रुतिः ।।
यथा वागादयो विद्धा­स्त­द्व­ज्ज्ञे­या­स्त्व­गा­दयः ।। १५९ ।।

सिद्धा­न्वा­गा­दि­दृ­ष्टा­न्ता­न्पु­र­स्कृ­त्यात उच्यते ।।
एव­म्वि­त्यु­क्त­शे­षाणां पाप्म­वि­द्ध­त्व­सि­द्धये ।। १६० ।।

अविध्यन्निति योऽर्थोऽस्य तद्व्याख्यानाय यत्यते ।।
स्वैः स्वैस्ता­नि­न्द्रि­या­सङ्गैः पाप्मभिस्त उपासृजन् ।। १६१ ।।

यत्संसर्गे पुरा चक्रु­र­वि­ध्यं­स्त­दि­हो­च्यते ।।
या विद्धा देवतास्तासां प्रक्रि­या­सं­हृतिः पृथक् ।। १६२ ।।

आस­ङ्ग­पा­प्म­भि­र्विद्धा यस्मा­द्वा­गा­द­योऽ­सुरैः ।।
वर्ज­नी­या­स्त­तस्ताः स्युर्नोपास्याः श्रेय ईप्सुभिः ।। १६३ ।।

एवं निराशाः पूर्वासु देव­ता­स्व­सु­रा­र्द­नात् ।।
पारि­शे­ष्या­द­थाऽऽ­ज­ग्मु­र्म­ध्यमं प्राणमादरात् ।। १६४ ।।

अथे­त्य­न­न्त­रोक्तिः स्यात्त­थाऽ­भि­न­य­वृ­त्तये ।।
इम­मि­त्य­प्र­सि­द्ध­त्वा­त्प्रा­ण­स्येह त्वगादिवत् ।। १६५ ।।

अस्ति यस्मा­द­सु­र्नि­त्य­मा­स­न्योऽ­य­मतो मतः ।।
वागादिभ्यो विभागार्थं विशेषणमसोरिदम् ।। १६६ ।।

जप­म­न्रा­भि­धे­योऽत्र पारि­शे­ष्या­त्प्र­ती­य­ताम् ।।
उद्गीथदेवता प्राण इत्य­भू­त्सु­र­नि­श्चयः ।। १६७ ।।

मत्र्रप्रयोगे सर्वेषां संनिधौ तत्प्रकाशितम् ।।
भारमुत्सहते वो़ढुं योऽनो यामस्तमाश्रयम् ।। १६८ ।।

परीक्षमाणास्ते त्राणं यथो­क्ता­ख्या­न­व­र्त्मना ।।
क्रमे­णाऽऽ­से­दु­रा­सन्यं प्राणं पाप्मपराभावत् ।। १६९ ।।

श्रेयोर्थिनां मनु­ष्या­णा­मु­पा­स्य­प्र­ति­प­त्तये ।।
इयमारव्यायिका चक्षु­र्ना­न्य­थो­पा­स्य­नि­श्चितिः ।। १७० ।।

यः प्राणे भोग इति न पूर्व­व­द्भ­ण्य­तेऽत्र किम्‌ ।।
वागादीनामिव यतो नासोर्भोगो विशिष्यते ।। १७१ ।।

अकृत्स्नभोगतो युक्तं वागादिषु विशेषणम् ।।
सर्व­स्यै­वा­सु­भो­ग­त्वात्किं कुतोऽत्र विशिष्यते ।। १७२ ।।

अभि­सं­धि­र­वि­व्य­त्स­न्नि­त्य­भू­त्सु­र­वि­द्वि­षाम् ।।
अनि­ष्ठि­त­कि्र­या­र­म्भोऽ­वि­व्य­त्स­न्निति भण्यते ।। १७३ ।।

विव्य­त्सो­द्दे­श­मा­त्रेण प्राणो हन्ता सुरद्विषाम् ।।
इत्य­र्थ­प्र­ति­प­त्त्य­र्थ­मी­दृ­ग्दृ­ष्टान्त उच्यते ।। १७४ ।।

बिभित्सायै यथा वेगाल्लोष्टः क्षिप्तोऽ­श्म­नोऽ­न्ति­कात् ।।
नश्ये­त्स्व­वे­गा­च्छ­तधा ह्यार­व­णा­श्म­स­मा­ग­मात् ।। १७५ ।।

अप्रधृष्यं तथा प्राणमृत्वा नेशुः सहस्रधा ।।
दैत्या­स्त­न्ना­शतो देवा देवा एवाभवन्सदा ।। १७६ ।।

अत एव मनु­ष्य­त्व­हे­त­वोऽ­प्य­सुराः समम् ।।
विने­शु­र्वि­ष्व­ग्ग­तयो लोष्टः क्षिप्तो यथाऽश्मनि ।। १७७ ।।

प्राण­स्व­भा­व­सं­पत्तेः प्राणवद्देवता अपि ।।
देवा एवा­भ­व­न्दै­त्य­कृ­त्स्न­पा­प्म­वि­ना­शतः ।। १७८ ।।

वागा­दी­न्द्रि­य­सं­घातो यजमानो यथा पुरा ।।
प्राणा­त्म­भा­वा­द्ध­त्वाऽऽगो वैराजं रूपमाप्तवान् ।। १७९ ।।

तथा यस्तमुपासीत यथो­क्ता­र­व्या­न­व­र्त्मना ।।
विराजैवाऽऽत्मना हत्वा पापं भवति सोऽचिरात् ।। १८० ।।

जीवाविष्ट उपास्योऽत्र देवताविग्रहः सदा ।।
प्राणो हिरण्यगर्भात्मा यावत्तदभिमानता ।। १८१ ।।

भाव­नो­प­च­या­द्धत्वा परिच्छेदं स्वमासुरम् ।।
देव­ता­न्मा­न­मे­त्याशु सदा तद्भावभावितः ।। १८२ ।।

तत्त­मो­मा­त्र­वि­ध्वं­सा­न्नतु प्राणादिराप्यते ।।
कार्य­त्वा­त्का­रणं मुक्त्वा न हि तत्कार्यसंभवः ।। १८३ ।।

देवो भूत्वेह देवोऽसौ भाव­नो­प­च­या­द्भ­वेत् ।।
पुंव्या­पा­रो­द्भ­वत्वं नः श्रुत्याऽपि प्रतिपादितम् ।। १८४ ।।

ब्रह्मैवाप्येति ब्रह्मैव प्राग­प्या­सी­द्य­तोऽ­द्व­यम् ।।
तन्मो­ह­मा­त्र­वि­ध्वं­सा­दि­त्यपि श्रुतिशासनम् ।। १८५ ।।

स्वतःसिद्धौ तदन्येषां श्रुतिकोपः प्रसज्यते ।।
अतोऽन्यदार्ते तद्व­च्चा­प्ये­क­मे­वेति च श्रुतिः ।। १८६ ।।

नाव्याकृतादेः संसिद्धौ परमात्मातिरेकतः ।।
ब्रह्म­व­न्मा­न­म­स्तीह तथा निर्मो­क्ष­ताऽऽ­प­तेत् ।। १८७ ।।

अथाऽऽ­त्मा­वि­द्याऽ­व्य­क्ता­दि­रू­पेण प्रथते तदा ।।
तन्निवृत्तौ निवृत्तिः स्यान्निवृत्तिः केवलात्मता ।। १८८ ।।

प्राणस्येव पराभूतो द्विष­न्पा­प्माऽऽ­सु­रोऽ­खिलः ।।
उपासीनस्य तं प्राणं कृत्स्नो नश्ये­त्त­थाऽऽ­सुरः ।।
द्विषं­श्चा­प्य­द्व­ष­ञ्छ­त्रु­रा­सु­रा­दन्य इष्यते ।। १८९ ।।

नित्य­वि­घ्न­कृ­दे­वैष प्राणा­प्ता­वा­सुरो मतः ।।
अतो विशेष्यते श्रुत्या द्विष­न्भ्रा­तृ­व्य­रू­पया ।। १९० ।।

उक्तासुरपराभूतौ नान्योऽ­रि­र­व­शि­ष्यते ।।
य एवं वेदेति विधिः फलो­क्ते­र­र्थ­वा­दतः ।। १९१ ।।

अानु­ष­ङ्गि­फ­लोक्त्या वा तदुपासा विमुक्तये ।।
आत्म­वि­द्या­धि­का­रेऽ­स्मिं­स्त­दु­पा­सा­वि­धा­नतः ।। १९२ ।।
आत्म­वि­द्यो­प­का­रित्वं तस्मा­द्वा­क्याच्च गम्यते ।। १९३ ।।

अथा­या­स्या­ङ्गि­रो­दू­र्भि­र्वि­शि­ष्ट­म­सु­क­र्म­कम् ।।
उपासनं विधा­स्या­मी­त्या­र­ब्धै­षो­त्तरा श्रुतिः ।। १९४ ।।

अनु­वा­दा­द्वि­धि­र्ज्या­या­न­नु­वादे वृथा श्रमः ।।
पुरु­षा­र्था­भि­सं­ब­न्धा­दतो विधि­रि­हाऽऽ­श्रितः ।। १९५ ।।

श्रूयते फलसंवन्धो यासूपासासु तास्विह ।।
दध्ने­न्द्रि­या­दि­व­ज्ज्ञेयो विधि­र्गु­ण­स­मा­श्रयः ।। १९६ ।।

प्रधानफलसंबन्धो यत्र तु स्याच्छ्रु­ते­र्मु­खात् ।।
विशिष्टः स विधिर्ज्ञेयो यथाऽऽ­ग्ने­या­द­य­स्तथा ।। १९७ ।।

अवा­प्ता­ग्न्या­दि­रू­पास्ते प्राणा­लि­ङ्ग­न­सं­श्र­यात् ।।
कृतोपकारं स्मृत्वोचुः प्राणा वागादयस्तदा ।। १९८ ।।

अन­न्ता­ग्न्या­दि­भा­वेन यो नः सञ्जितवानसुः ।।
क्व न्वसौ वर्तते ह्यात्मा योऽस्म­च्छ­त्रु­वि­ना­श­कृत् ।। १९९ ।।

वितर्कयन्तस्ते प्राणा उक्त्वैवं प्रत्यगात्मसु ।।
कुर्वाणमुपकारं तं ददृशुः प्रागिवाऽऽदरात् ।। २०० ।।

लोकेऽपि हि विचार्यार्थमथ संविदते जनाः ।।
यथा वागा­द­य­स्त­द्व­द्वि­जव्रुः प्राणमात्मनि ।। २०१ ।।

सामा­न्यो­क्ता­वास्य इति तद्वि­शे­ष­ण­मु­च्यते ।।
अन्तरित्यन्यथा मा भूत्प्रसङ्गः प्राणनिश्चितौ ।। २०२ ।।

त्वगादयोऽपि सन्त्यास्ये यतोऽ­त­स्त­द्वि­शे­ष­णम् ।।
विशिनष्टि ततः प्राण­मा­स्या­न्त­र्वि­ल­चा­रि­णम् ।। २०३ ।।

आस्य­प­र्य­न्त­शा­यीनि त्वगादीनि न मध्यतः ।।
प्राणस्तु मध्य आस्यस्य तस्मा­द­न्त­र्वि­शे­ष­णम् ।। २०४ ।।

सर्वे­न्द्रि­या­णा­म­थवा प्राण आत्मेति कथ्यते ।।
अय­मा­स्येऽ­न्त­रि­त्ये­व­म­र­ना­भि­नि­द­र्श­नात् ।। २०५ ।।

अय­मा­स्येऽ­न्त­रि­त्येवं प्राणं दृष्ट्वा यतः पुरा ।।
व्याज­ह­रु­र­म­रा­स्त­स्मा­त्प्राण आयास्यसंज्ञितः ।। २०६ ।।

अङ्गानां करणानां च रसः सारो यतस्ततः ।।
प्राण आङ्गिरसः प्रोक्त­स्त­द्वि­द्भि­स्त­द्गु­णा­श्र­यात् ।। २०७ ।।

कथमाङ्गिरसः प्राण इत्यस्य प्रतिपत्तये ।।
अन्व­य­व्य­ति­रे­का­भ्या­मु­प­रि­ष्टा­त्प्र­व­क्ष्यते ।। २०८ ।।

तथाऽन्यांऽपि गुणोऽनस्य दूरिति प्रतिपाद्यते ।।
उदा­र­फ­ल­सि­द्ध्यर्थं सा वा एषेत्यतः श्रुतिः ।। २०९ ।।

उपा­स्ति­क्र­म­सि­द्ध्यर्थं क्रम­भ­ङ्गोऽ­य­मि­ष्यते ।।
यतोऽतोऽङ्गिरसं त्यक्त्वा दूरि­त्ये­वा­भि­धी­यते ।। २१० ।।

विशि­ष्टो­पा­स्ति­रे­वेयं प्रधा­न­फ­ल­की­र्त­नात् ।।
नायं गुण­वि­धि­र्ज्ञे­य­स्त­त्फ­ल­स्या­श्रु­त­त्वतः ।। २११ ।।

क्रियायां गुणभूतोऽर्थो देव­ते­त्यु­प­दि­श्यते ।।
अस्त्यु­पा­सि­क्रि­या­योगो देवताऽतोऽन उच्यते ।। २१२ ।।

दूरमेवंविदः पाप्मा कथमध्यवसीयते ।।
एवं­वि­त्त्व­वि­रो­धि­त्वा­द्दूरं पाप्मा भवेदतः ।। २१३ ।।

विष­ये­न्द्रि­य­सं­ब­न्धजो हि पाप्माऽऽसुरो यतः ।।
श्रौता­न­न्ता­द­हं­मा­ना­त्प­रि­च्छिन्नो विरुध्यते ।। २१४ ।।

चक्षु­रा­दि­प­रि­च्छेदः प्राकृ­त­ज्ञा­न­हे­तुतः ।।
युक्तोऽ­ध्या­त्मै­क­रू­पस्य बाधः शास्राभिमानतः ।। २१५ ।।

परि­स्प­न्दा­त्मिका वृत्तिः श्रोत्रादिष्वपि विद्यते ।।
प्राण­स्या­थे­न्द्रि­याणां तु शब्दा­द्य­र्था­व­ले­हिनी ।। २१६ ।।

शब्दादिग्राहिणी वृत्तिः स्वैरा­स­ङ्गा­त्म­पा­प्मभिः ।।
दूषिता न परिस्पन्दो दूरं मृत्युरसोस्ततः ।। २१७ ।।

मृत्युर्दूरं यथा प्राणा­त्त­दा­त्म­त्वा­त्त­थाऽऽ­सुरः ।।
तद्विदश्च भवे­न्मृ­त्यु­र्दू­र­मि­त्यु­प­दि­श्यते ।। २१८ ।।

दिशामन्त इह ग्राह्मो मध्य­दे­शो­प­ल­क्षितः ।।
अन­न्ता­का­श­दे­श­त्वा­न्ना­ञ्ज­साऽन्तो दिशां यतः ।। २१९ ।।

श्रुति­स्मृ­ति­स­दा­चा­र­सं­स्कृ­ता­श­य­व­ज्ज­नम् ।।
अव­धी­कृ­त्या­न्त­त्वो­क्ते­र्नतु दोपो मनागपि ।। २२० ।।

मध्य­दे­शा­व­धि­स्त­स्मा­द्दि­गन्त इति गृह्यते ।।
प्रात्य­न्ति­क­ज­नो­द्देशः पापी­यो­ज­न­सं­श्र­यात् ।।
वर्ज्यतेऽत्रः प्रयत्नेन तद्वि­द्भि­र­धु­ना­तनैः ।। २२१ ।।

तेषु प्रत्यन्तदेशेषु तन्निवासिषु चाऽऽसुरान् ।।
यतो विन्य­द­धा­त्प्र­ण­स्त­स्मा­त्त­द्व­र्ज­ये­द्द्व­यम् ।। २२२ ।।

जनो विशिष्टो देशेन देशो जनविशेषितः ।।
पाप्मो­प­स्पृ­ष्ट­मु­भयं शिष्टा­स्त­द्व­र्ज­न्त्यतः ।। २२३ ।।

समाहारोऽथवा भेदो नेदित्येतत्पदं भवेत् ।।
अनी­प्सि­ता­नि­वृत्तिः स्यात्स­मा­हा­रेऽ­वि­व­क्षिते ।। २२४ ।।

इत्थं न चेदहं कुर्यां प्रति­षे­ध­श्रु­ती­रि­तम् ।।
अन्ववायानि पाप्मानं प्रति­षे­धा­ति­ल­ङ्घ­नात् ।। २२५ ।।

इति भेदविवक्षायां व्यारव्या कार्या पदद्वये ।।
माङर्थस्तु तथाऽभेदे व्याख्येयः प्रतिषेधकृत् ।। २२६ ।।

सामा­न्य­वि­प­य­श्चायं निषेधो नानविद्गतः ।।
वल­व­न्प्र­क्रि­यातो हि वाक्यं सामान्यमात्रगम् ।। २२७ ।।

आसु­रे­णा­व­रु­द्धा­स्ता­न्वा­गा­दी­न्ह­त­पा­प्मनः ।।
देवत्वं प्रापयत्प्राणः कथ­मि­त्ये­त­दु­च्यते ।। २२८ ।।

ज्ञान­तोऽ­ज्ञा­न­हानिः स्याद्देवत्वं भावनाबलात् ।।
आनन्तर्ये क्रिया­द्वि­त्वा­द­थ­शब्दो भवेद्ध्रुवम् ।। २२९ ।।

मृत्यु­म­त्य­व­ह­त्प्राणः सामा­न्यो­क्ते­र्वि­शे­षतः ।।
विशि­ष्ट­दे­व­ता­वा­प्ति­र्वा­गा­दीनां प्रपञ्च्यते ।। २३० ।।

नेदीयसी यतोऽन्येभ्यो वागे­वो­द्गी­थ­क­र्मणि ।।
प्राणस्य तेन सोद्गातुः प्रथ­मे­त्य­भि­धी­यते ।। २३१ ।।

वागा­द्य­ग्न्या­द्य­वा­प्त्यैवं पाप्मनोऽपास्य सर्वतः ।।
वैराजं पदमेत्येवं यजमानः सुभावितः ।। २३२ ।।

कल्या­णा­स­ङ्ग­सं­ब­न्धा­द्वा­गा­द्य­ध­र्म­का­र­णम् ।।
त्यक्त्वाऽनं मुख्य­मा­त्मा­न­मा­श्र­ये­न्मृ­त्यु­व­र्जि­तम् ।। २३३ ।।

वागाद्यैः पञ्चभिर्युक्तं विराजं साधिभौतिकम् ।।
हित्वाऽ­ध्या­त्म­प­रि­च्छेदं ततस्तं प्रतिपद्यते ।। २३४ ।।

साधिभूताधिदैवं च नाम­रू­प­क्रि­या­त्मकः ।।
सूत्रं प्राणोऽङ्गिराः सत्य­मृ­क्सा­मे­त्यन उच्यते ।। २३५ ।।

तमेकं सर्वभूतेषु ज्ञान­क­र्म­फ­ला­श्र­यम् ।।
आस्व­भा­वा­त्म­वि­ज्ञा­ना­दु­पास्ते यः स तं व्रजेत् ।। २३६ ।।

उक्त­म­भ्यु­द­यार्थे यद्वा­गा­दी­ना­म­था­धुना ।।
आगानमवशिष्टेषु स्तोत्रे­षू­द्गा­तु­रु­च्यते ।। २३७ ।।

सामा­न्य­भो­ज्य­वि­ष­य­स्त्व­न्न­शब्दो यतस्ततः ।।
आद्यमित्युच्यते तस्य विशेषणतया वचः ।। २३८ ।।

यत आदाविदं वृ्त्तम­न्ना­गा­न­म­ना­त्मनि ।।
तस्मा­त्त­त्का­र्य­भू­तासु प्रजास्वद्यापि दृश्यते ।। २३९ ।।

यद्धि किंचेति सर्वा­र्थ­मे­वे­त्य­त्रा­व­धा­र­णम् ।।
प्राणेनैव तु तत्सर्वं लोकोऽन्नं ह्यत्ति सर्वदा ।। २४० ।।
अन्नोपकारः सर्वे­षा­म­वि­शिष्टः समीक्ष्यते ।। २४१ ।।

अथावधारणं कस्मादनेनैवेति भण्यते ।।
प्राणद्वारक एवैषामुपकारो न तु स्वतः ।। २४२ ।।

कथं तद्दूा­र­क­स्ते­षा­मु­प­कार इतीर्यते ।।
ननु दूरिति हि प्राण उक्तो वागादिवत्कथम् ।।
आत्मा­र्था­न्ना­द्य­सं­गी­ते­र्विद्धो नाऽऽसुरपाप्मभिः ।। २४३ ।।

स्थिति­मा­त्रा­भि­सं­ब­न्धा­न्नायं दोष इहेष्यते ।। २४४ ।।
असावन्नं स्थितं यस्माद्देहं प्राणानवत्यतः ।।
यत्ना­च्छ्रु­ति­रतो वक्ति त्विहान्नं प्रतितिष्ठति ।। २४५ ।।

स्थितिमात्रं ह्यसोरन्नं यद्वासङ्गो न शङ्क्यते ।।
भर्ता श्रेष्ठः पुरो गन्ता ह्यन्ना­दोऽ­धि­प­ति­स्तथा ।।
इत्या­दि­गु­ण­वि­ध्यर्थं परो ग्रन्थोऽ­व­ता­र्यते ।। २४६ ।।

अयं गुणविधिर्ज्ञेयः प्रत्येकं तत्फलश्रुतेः ।। २४७ ।।
जग्धमन्नं यतो देहलिङ्गभावेन याति नः ।।
परिणामं व्रज­त्त­स्मा­दे­ता­व­दिति भण्यते ।। २४८ ।।

त्वयै­षाऽऽ­त्मा­र्थ­मा­गीते त्वय्ये­वा­न्न­म­तोऽ­खि­लम् ।।
वयं चान्नमृते स्थातुं नालं क्षणमपीश्चर ।। २४९ ।।

सतर्प्यातः स्वमा­त्मा­न­म­न्ने­ना­स्मा­न­पी­श्वर ।।
आभाजयस्व क्षुधि­तां­श्छा­न्द­स­त्वा­ण्णि­चोऽ­श्रवः ।। २५० ।।

मामृतेऽन्नं न वः शक्तं पोष्टुं क्षणमपि क्वचित् ।।
अन्नार्थिनोऽतो मां सर्वेऽ­प्य­भि­सं­वि­श­ताऽऽ­शुवै ।। २५१ ।।

तेनैता देवताः सर्वा­स्तृ­प्य­न्त्य­न्नेन सर्वशः ।।
इत्यर्थस्य कुतः सिद्धिरिति चेदुच्यते यतः ।। २५२ ।।

त्रिधा जग्धं भवत्यन्नं परिणामविशेषतः ।।
स्थवी­या­न्म­ध्य­मोऽ­णी­या­नि­त्येवं कालतोऽग्नितः ।। २५३ ।।

स्थवी­या­न्या­त्य­धो­भागो रसादिक्रमशोऽपरः ।।
स्थूलं ह्युपचिनोतीमं कुड्यं मृत्स्नेव सर्वदा ।। २५४ ।।

यस्त्वणीयान्नसः सूक्ष्मः स ऊर्गमृतमुच्यते ।।
नाडीः सूक्ष्माः प्रविश्यासौ देवताः प्रीणयत्यथ ।। २५५ ।।

स्वाम्यर्थ एव चोत्त­म्भ­स्तृ­प्ति­रा­पूर उच्यते ।।
ततस्तु या सुखो­द्भू­ति­र्वि­ज्ञा­ना­त्मन एव मा ।। २५६ ।।

ता एता देवताः सप्तदश ज्ञान­क्रि­या­त्मिकाः ।।
सोऽयं सप्तदशग्रामो भोक्तुः करणलक्षणः ।। २५७ ।।

बुद्धी­न्द्रि­याणि पञ्चैव तथा कर्मे­न्द्रि­या­ण्यपि ।।
वायवः पञ्च बुद्धिश्च मनः सप्तदशं विदुः ।। २५८ ।।

अपा­स्ता­ध्या­त्म­रू­पाणां देवतानां समाश्रयाः ।।
भूतपञ्चकमेवेदं साधा­र­ण्या­द्भ­वे­त्सदा ।। २५९ ।।

पयोम्भोवदिदं लिङ्गं नानारूपैः समन्वितम् ।।
आवि­र्भा­व­ति­रो­भावैः कारणात्मनि वर्तते ।। २६० ।।

कूट­स्थ­बो­ध­त­न्मो­ह­चि­दा­भा­सै­क­मा­त्रया ।।
जाग्र­त्स्व­प्ना­वयं पीत्वा ह्यास्ते प्राणात्मनां प्रभुः ।। २३१ ।।

अपा­स्ता­शे­ष­बा­ह्या­र्थ­स्त­ज्ज­वा­स­न­याऽ­ञ्चितः ।।
अध्व­स्त­प्र­त्य­ग­ज्ञानो विरिञ्चः पर उच्यते ।। २६२ ।।

जाग्रत्काले विसेषेण स्थित्वा हृदयसद्मनि।।
द्वास­प्त­ति­स­ह­स्राणि नाडी­र्व्या­प्या­व­ति­ष्ठते ।। २६३ ।।

स एष परमात्मैव स्वात्म­मो­ह­स­हा­य­वान् ।।
प्राणात्मना करोत्येष पश्य­त्य­ग्न्या­त्मना तथा ।। २६४ ।।

इन्द्राग्नी ताविमावुक्तौ प्राण इन्द्र­स्त­यो­र्मतः ।।
प्रका­श­क­त्वा­द्वा­ग­ग्नि­रे­व­मेकः प्रजापतिः ।। २६५ ।।

अत्र्राद्यभेदतो द्वौ वा यदि वाऽध्यर्ध उच्यते ।।
यदि वाऽयं यत्र­स्रि­श­द्द्वा­स­प्त­ति­र­थापि वा ।। २६६ ।।

अनन्तभेदभिन्नो वा एक एवान उच्यते ।।
सर्वोऽप्येष विकल्पश्च पुनरेकैकशस्तथा ।। २६७ ।।

देवासुरादिभेदेन जाति­रू­प­क्रि­या­गुणैः ।।
एकैकोऽनन्ततां याति पुनरेकात्मतामतः ।। २६८ ।।

सम­स्त­व्य­स्त­तै­वेह प्रत्य­ग­ज्ञा­न­भू­मिका ।।
न त्वपा­स्त­स­म­स्ता­न्ध­अये नेति नेति परात्मनि ।। २३९ ।।

सर्वेणैव विकल्पेन यथो­क्ते­ना­व­ति­ष्ठते ।।
यथाधिकारं सर्वत्र परो जगति सर्वथा ।। २७० ।।

न हि कृत्स्नमनादाय जगदेतन्मनागपि ।।
क्रियायै कारकं किंचि­त्त­स्मा­त्स­र्वा­त्म­ने­हते ।। २७१ ।।

कारणात्मा जगत्कृत्स्नं श्रौतदर्शनसाधनः ।।
यतः प्रागकरोत्कर्म तत्कार्येऽपि तथा ततः ।। २७२ ।।

एका­पू­र्व­प्र­यु­क्त­त्वा­त्स­म­स्त­व्य­स्त­रू­पि­णाम् ।।
सर्वः सर्वमुपादाय सर्वत्रातः प्रवर्तते ।। २७३ ।।

अध्या­त्मा­द्य­धि­भू­ता­धि­दै­वतं सर्वदाऽखिलम् ।।
सर्वं सर्वक्रियाः कुर्या­दे­का­पू­र्व­प्र­यु­क्तितः ।। २७४ ।।

यतः प्रजापतिः पूर्व­मे­त­स्मि­न्द­र्शने स्थितः ।।
यज्ञेन कर्म­णाऽ­स्रा­क्षी­ज्ज­ग­दे­त­च्च­रा­च­रम् ।। २७५ ।।

नाड्योऽस्य रश्मयोऽनन्ता हृदयं मण्डलं रवेः ।।
अहोरात्राणि तावच्च शतसंवत्सरायुषः ।। २७६ ।।

एतया संपदा पूर्वं यजमानेन तद्विदा ।।
अग्न­योऽ­र्का­श्चिता आसन्षद्व त्रिंशत्सहस्रशः ।। २७७ ।।

एकै­क­स्मि­न्प­रि­स्पन्द एवं सर्वाऽपि देवता ।।
एका चानेकरूपा च ह्यध्या­त्मा­दि­वि­भा­गतः ।। २७८ ।।

विभ्वी सर्वगताऽनन्ता समाप्ता च प्रतिक्रियम् ।।
प्रतिद्रव्यफलं कृत्स्ना खण्डादौ गोत्ववत्स्थिता ।। २७९ ।।

एष प्रजापतेरुक्तो महिमा तद्वदेव तु ।।
यजमानोऽपि तादा­त्म्या­त्त­थैव भवति ध्रुवम् ।। २८० ।।

गुणो­पा­स्ति­फ­लो­क्त्य­र्थ­मेवं हेति श्रुतिः परा।।
यथो­क्ता­र्थ­मु­पा­सीनं प्रति प्रववृतेऽधुना ।। २८१ ।।

वागा­द­योऽ­भि­सं­विष्टा जीवनार्थमनं यथा ।।
ज्ञात­योऽ­भि­वि­श­न्त्येवं तद्विदं जीवनार्थिनः ।। २८२ ।।

भर्ता च संनिविष्टानां श्रेष्ठश्च गुणतो भवेत् ।।
यथो­क्त­गु­ण­वै­फल्यं पुर एता न चेद्भवेत् ।। २८३ ।।

सर्वमेतद्वृथैव स्यान्न चेद्दी­प्ता­ग्नि­मा­न्भ­वेत् ।।
अन्नाद इत्यतो वक्ति साफ­ल्य­प्र­ति­प­त्तये ।। २८४ ।।

द्विषत्सु स्वेषु च न चेदाधिपत्यं तथाऽपि च ।।
प्रोक्त­वै­फ­ल्य­मा­शङ्क्य ह्याहाधिपतितां फलम् ।। २८५ ।।

प्राण आत्मेत्युपासीनो यथोक्तं फलमश्नुते ।।
तज्ज्ञातयोऽपि फलिनो यथा वागादयस्तथा ।। २८६ ।।

प्राण­सं­स्प­र्धिनो यद्व­द्वि­ने­शु­र­सु­रा­स्तथा ।।
प्राण­वि­द्वि­द्विषः सर्वे नालं भार्येभ्य एव च ।। २८७ ।।

उद्बुभूषति यो द्वेषात्स्वेषु प्राणविदं प्रति ।।
प्रतिस्पर्धी न सोऽलं स्याद्भरणाय कथंचन ।। २८८ ।।

नासौ श्रेष्ठः पुरोगन्ता नान्ना­दोऽ­सु­र­व­द्भ­वेत् ।।
न च ज्ञातिष्वधिपतिः स्पर्ध­मा­नोऽ­न­वे­दिना ।। २८९ ।।

सोऽग्रा­स्या­ङ्गि­रसः प्रोक्त­स्त­त्रा­यास्यो यथा तथा ।।
निर्णीतः प्राग­थे­दा­नी­मा­ङ्गि­र­स्त्व­वि­नि­र्णयः ।। २९० ।।

पूर्वो­क्त­स्या­नु­वा­दोऽयं सोऽया­स्ये­त्या­द्यु­प­क्रमः ।।
श्रुत्याऽऽ­ङ्गि­र­स्त्व­सि­द्ध्य­र्थ­मु­च्यते न्यायपूर्वकम् ।। २९१ ।।

सिद्धोऽङ्गानां रसः प्राणः प्राणोऽङ्गानां रसः कथम् ।।
हीति हेतावतः प्राह तद्व्याख्यानाय चोत्तरः ।। २९२ ।।

यस्मा­त्क­स्मा­च्चि­द­ङ्गाद्धि प्राण उत्क्रामतीह नुः ।।
नीरसं मत्तदेवाङ्गमाशु शुष्यति तत्र च ।। २९३ ।।

यत एवमिदं दृष्ट­म­न्व­य­व्य­ति­रेकः ।।
तस्मादाङ्गिरसः प्राणो ज्ञेय आत्मेति पण्डितैः ।। २९४ ।।

कार्यस्य रूपभूतस्य कर्मणः करणस्य च ।।
न केवलं प्राण आत्मा नाम्नोऽ­प्या­त्मेति भण्यते ।। २९५ ।।

एवं सर्वात्मकत्वेन स्तुवन्प्राणं प्रयत्नतः ।।
आदरं कुरुते शास्र­मु­पा­स्य­त्वाय देहिनाम् ।। २९६ ।।

बृह­स्प­त्या­दि­भि­र्ध­र्मै­र­सो­र­न्य­दु­पा­स­नम् ।।
विशि­ष्ट­म­भि­धि­त्स्वाह शास्रं पूर्ववदेव च ।। २९७ ।।

वाग्व्यापृततमा दृष्टा यत उद्गीथकर्मणि ।।
देवता सैव न प्राण इत्या­श­ङ्क्ये­द­मु­च्यते ।। २९८ ।।

कौष्ठ्या­ग्नि­प्रे­रितो वायु­र्ना­ना­स्था­न­स­मा­हतः ।।
वर्णतामेति येनातः प्राण एव बृहस्पतिः ।। २९९ ।।

यजुर्ब्रह्मेति श्रवणादन्ते साम्नो ग्रहादपि ।।
ऋग्य­जुः­सा­म­नि­र्देशः क्रमेणेति प्रतीयते ।। ३०० ।।

सेति वाचोऽभिधानं स्यादमः प्राणाभिधा तथा ।।
सामोभयं समुदितं गुण­प्रा­धा­न्य­रू­पतः ।। ३०१ ।।

एकार्थवृत्तिता यस्मा­त्ते­नै­क­व­चनं कृतम् ।।
शब्दयोः साम­यो­स्त­स्मा­त्प्राणः सामाभिधीयते ।। ३०२ ।।

इतरस्यापि सामत्वं प्राण­नि­र्व­र्त्यतो मतम् ।।
प्राण एव ततः साम युक्तो वागुपसर्जनः ।। ३०३ ।।

निःशे­ष­भू­त­सा­म्याद्वा साम प्राणोऽभिधीयते ।।
प्रत्य­ग­ज्ञा­न­हे­तु­त्वा­त्त­ज्ज­स्यऽऽ­न­न्त्य­मु­च्यते ।। ३०४ ।।

अतिसूक्ष्मशरीरा हि पुत्तिका प्लषिरुच्यते ।।
पुत्ति­का­दि­श­री­रेण समः प्राण­स्त­दा­श्र­यात् ।। ३०५ ।।

मशकेभविराइदेहैः समः प्राणो यथोदितः ।।
तथा हैरण्यगर्भेण लिङ्गात्मा सम एव तु ।। ३०६ ।।

वाय्वात्मनि समा­प्त­त्वा­त्क­र­णा­ना­म­शे­षतः ।।
सर्वदेहसमत्वं स्यात्प्रा­णि­क­र्मा­नु­रू­पतः ।। ३०७ ।।

प्रति­प्रा­णि­प­रि­च्छेदो ज्ञान­क­र्मा­नु­रो­धतः ।।
धर्मा­ध­र्मा­न­पेक्षः सन्ना­न­न्त्ये­ना­व­ति­ष्ठते ।। ३०८ ।।

साम्न आप्नोति सायु­ज्य­मै­कात्म्यं प्राणरूपताम् ।।
समानलोकताऽनेन सालोक्यमिति शब्द्यते ।। ३०९ ।।

विक­ल्पा­सं­श्र­वा­द्वि­द्वा­न­श्नु­तेऽतः फलद्वयम् ।।
वैचि­त्र्या­द्भा­व­ना­देर्वा त्रिविधं फलमुच्यते ।। ३१० ।।

भूयोल्पीयः फलत्वं चेत्तु­ल्य­सा­ध­न­योर्न तत् ।।
योगै­श्व­र्या­त्समा सिद्धिः काला­दे­री­श्व­रा­द्यतः ।। ३११ ।।

एकमेव जग­द्वी­ज­मी­शा­भि­प्रा­य­हे­तुतः ।।
भूरि­ना­ना­प्र­भे­देन प्रत्यात्मं व्यवतिष्ठते ।। ३१२ ।।

कुर्या­न्मे­रा­व­णु­धि­य­मणौ मेरुधियं तथा ।।
सर्व­त्रा­प्र­ति­धा­त्येव प्रत्यगज्ञो महेश्वरः ।। ३१३ ।।

अतत्त्वज्ञस्य तमसो रज्ज्व­ज्ञा­नो­र­गा­दि­वत् ।।
अष्टा­व­स्था­प्र­भे­देन मिथ्याज्ञानं प्रजायते ।। ३१४ ।।

प्रत्य­ग­ज्ञा­न­वि­ध्वस्तौ रज्ज्व­ज्ञा­न­ह­ता­विव ।।
तत्क­ल्पि­त­नि­वृत्तिः स्याद­ष्टा­व­स्थस्य बोधतः ।। ३१५ ।।

अनात्मवस्तु सकलं प्रत्य­ग­ज्ञां­न­हे­तु­जम् ।।
यथा तथोत्तरत्रापि युक्ति­भि­श्चा­भि­धा­स्यते ।। ३१६ ।।

औद्गात्रमेव चोद्गीथो भक्तिर्वा काचिदिष्यताम् ।।
प्रसिद्धेरिति चेन्मैवमुद्गीथो ह्यसुरेव तु ।। ३१७ ।।

उपसर्ग उदित्येप स चात्य­न्त­क्रि­या­श्रितः ।।
संयोज्य क्रिययाऽतस्तं व्याचष्टे श्रुतिरञ्जसा ।। ३१८ ।।

उत्तब्धं विधृतं यस्मात्प्राणेन जगदित्वरम् ।।
उत्प्राणोऽतः प्रसिद्धस्तु गुणादुद्गीथ उच्यते ।। ३१९ ।।

अनया गीयते यस्माद्गीथा वाक्तेन भण्यते ।।
उच्च गीथा च तद्योगादुद्गीथ इति शब्द्यते ।। ३२० ।।

उद्गाता नैमि­षी­या­णा­म­या­स्यो­पा­स­ना­द­भूत् ।।
अयास्यनामा सोऽगायद्वाचा प्राणप्रधानया ।। ३२१ ।।

बृह­स्प­त्या­दि­भि­र्ध­र्मै­रु­पा­स्या­न­मनो भवेत् ।।
भाव­नो­त्क­र्ष­तोऽ­तोऽयं विचारस्तं प्रतीष्यते ।। ३२२ ।।

हृद­ये­ना­भि­सं­ब­न्धा­द्दे­व­ताऽत्र प्रजापतिः ।।
Line २ miss ।। ३२३ ।।

वागी­श्व­र­त्वा­दिन्द्रो वा यदि वा वर्णदेवता ।।
पद­वा­क्य­स्व­र­स्था­न­ना­दा­दि­वि­ष­याऽपि वा ।। ३२४ ।।

एवं विप्रतिपन्नेपु नानावादिषु निश्चितः।।
प्राणप्रधानया वाचा ह्यया­स्योऽ­गा­य­दि­त्यतः ।।
ब्रह्म­द­त्त­श्च­का­रोच्चैः शपथं वादिनः प्रति ।। ३२५ ।।

यदि­तोऽ­न­प्र­धा­नाया वाचो ह्यन्येन केनचित् ।।
देवान्तरेण सोऽगायदयास्यः प्राणविग्रहः ।। ३२६ ।।

सर्व­प्र­मा­ण­भू­तोऽ­भू­दु­द्गाता सत्रिणां पुरा ।।
विसं­वा­द­स्त्व­भू­त्ते­षा­मु­द्दि­श्यो­द्गी­थ­दे­व­ताम् ।। ३२७ ।।

उद्गाता नैमिषीयाणां मदभ्युपगताद्यदि ।।
प्राण­वा­ग्द्व­य­तोऽ­न्येन देवेनासौ प्रयत्नवान् ।। ३२८ ।।

उदगायत्तदा सोमो भक्ष्यमाणः शिरो मम ।।
मिथ्याभिवादिनः साक्षा­द्वि­पा­त­यतु सत्वरः ।। ३२९ ।।

श्रुतिः समर्थयामास वाचेति शपथक्रियाम् ।।
शपथस्यापि मानत्वमस्मादेव तु कारणात् ।। ३३० ।।

वाचः प्राणस्य च यत उद्गीथे व्यापृतिः स्फुटा ।।
प्राधान्येन तदन्येषां न तथा लक्ष्यते सदा ।। ३३१ ।।

आकृ­त्य­र्था­भि­सं­ब­न्धा­द­भि­धा­नस्य न श्रुतेः ।।
ब्रह्म­द­त्ता­भि­सं­ब­न्धा­द­नि­त्यत्वं प्रसज्यते ।। ३३२ ।।

उद्गीथदेवतामेवं परीक्ष्याथाधुना श्रुतिः ।।
स्वादि­ध­र्मा­भि­सं­बन्धं प्रचक्राम प्रभाषितम् ।। ३३३ ।।

याजमानमिदं ज्ञानं स्वादेः प्राग्य­त्स­मी­रि­तम् ।।
पञ्च­मा­द्यु­क्ति­दृ­ष्ट्याऽस्य ह्येक­वा­क्य­त्व­हे­तुतः ।। ३३४ ।।

स्वसु­व­र्ण­प्र­ति­ष्ठा­धी­रु­द्गा­तु­रिति गम्यते ।।
ऋत्वि­ङ्ना­मा­भि­सं­ब­न्धान्न त्वसौ यजमानगा ।। ३३५ ।।

एष एवं­वि­दु­द्गा­ते­त्य­मुतो लिङ्गतो भवेत् ।।
उद्गातुरपि विज्ञानं दृष्टा­र्थ­त्वाच्च कारणात् ।। ३३६ ।।

कर्त्राश्रितं स्वं विज्ञेयं माधुर्यादीह सामनि ।।
यत­स्त­द्ध­न­व­त्त­स्मा­त्स्व­रार्थं यत्नमाचरेत् ।। ३३७ ।।

धनवन्तं यथा यत्ना­द्दि­दृ­क्ष­न्तीह संघशः ।।
तथा यत्ना­त्स­मी­क्षन्ते स्वर­सं­प­त्स­म­न्वि­तम् ।। ३३८ ।।

बाह्यवित्तेन संब­न्ध­मु­क्त्वाऽ­था­न्त­र्ध­ना­त्मना ।।
संबन्धं वक्तुकामेयं प्रचक्रामोत्तरा श्रुतिः ।। ३३९ ।।

बाह्योऽस्य धर्मः सौस्वर्यं सौवर्ण्यं त्वान्तरं धनम् ।।
तदन्तरतमोऽनस्य प्रतिष्ठागुण उच्यते ।। ३४० ।।

जिह्वा­मू­ली­य­का­दीनि ह्यष्टौ स्थानानि वागिह ।।
गान­प्र­ति­ष्ठा­हे­तु­त्वा­द्धीति हेतुवचस्तथा ।। ३४१ ।।

अन्न­प्र­ति­ष्ठ­मा­गा­न­मेक आहुर्विपाश्चितः ।।
अनि­षे­धा­द्दू­यो­रेका प्रति­ष्ठे­हा­व­सी­य­ताम् ।। ३४२ ।।

अन्नस्य परिणामेऽनः स्थितो गीतित्वमेति हि ।।
अनप्रतिष्ठा देहोऽतः श्रुत्येह प्रतिपाद्यते ।। ३४३ ।।

उपासनं विकल्पेन वाग­न्ना­स्व्य­प्र­ति­ष्ठयोः ।।
वाक्प्र­ति­ष्ठ­मु­पा­सीत यदि वाऽन्न­प्र­ति­ष्ठि­तम् ।। ३४४ ।।

यदर्थमतियत्नेन महिमाऽनस्य कीर्तितः ।।
अभ्यारोहजपः सोऽथ प्राप्तावसर उच्यते ।। ३४५ ।।

यथो­क्त­ज्ञा­न­व­त्ता­या­मिदं कर्म विधित्स्यते ।।
कार्त्स्न्येन तस्य चोक्त­त्वा­द­त­स्त­द­भि­धी­यते ।। ३४६ ।।

एवं विद्व­त्प्र­यो­ज्य­त्वा­दत एव न सूत्रितम् ।।
नित्यकर्मेव सूत्रेषु तेन विद्व­त्प्र­यो­ज्यता ।। ३४७ ।।

उद्गी­थ­लि­ङ्ग­सं­यो­गा­द्गा­न­मा­त्रेऽस्य शक्तितः ।।
निय­मोऽ­स्यै­व­का­रेण पवमानेषु कथ्यते ।। ३४८ ।।

ततोऽपि कालसंकोचं स वा इत्यादिनाऽनदत् ।।
प्रस्तोता प्रस्तुयाद्यत्र तदैतानि जपेदिति ।। ३४९ ।।

एतानीति च निर्दे­शा­द्य­जूं­षी­त्य­व­ग­म्यते ।।
श्रुतावेव च दृष्ट­त्वा­त्स्वरः शातपथो जपे ।। ३५० ।।

जपकर्माभिधा चेयमभ्यारोह इतीष्यते ।।
योगिकी चाभिधा ज्ञेया क्रियायोगस्य संभवात् ।। ३५१ ।।

हित्वाऽ­ध्या­त्म­प­रि­च्छेदं दैवं वीजमतः परम् ।।
अभ्या­रो­ह­त्य­ने­नातो ह्यभ्यारोहो जपः स्मृतः ।। ३५२ ।।

तिरो­हि­ता­र्थ­रू­प­त्वा­न्म­न्त्राणां न नृधीगतिः ।।
मन्त्रार्थं स्वयमेवातो व्याचष्टे श्रुतिरञ्जसा ।। ३५३ ।।

पूर्वं पदा­र्था­न्व्या­ख्याय पश्चा­द्वा­क्या­र्थ­म­व्र­वीत् ।।
फलं पश्चा­द्य­थो­क्त­स्ये­त्येष व्याख्याक्रमः श्रुतेः ।। ३५४ ।।

यत्स्या­त्स्वा­भा­विकं ज्ञानं यच्च कर्म स्वभावजम् ।।
तद­धः­पा­त­हे­तु­त्वा­न्म­न्त्रेऽ­स­दिति भण्यते ।। ३५५ ।।

सद्दे­व­भा­व­हे­तु­त्वा­च्छा­स्रीये ज्ञानकर्मणी ।।
सत्प­दे­ना­भि­धी­येते मन्त्रेऽ­स्मि­न्प्रा­ग्य­थो­दिते ।। ३५६ ।।

अस­न्मृ­त्यु­स्त­यो­र्ज्ञेयः पूर्व­यो­र्मृ­त्यु­हे­तुतः ।।
अमृतं मृत्यु­घा­ति­त्वा­च्छा­स्रीये ज्ञानकर्मणी ।। ३५७ ।।

आसु­र­ज्ञा­न­क­र्मभ्यां मां व्युत्थाप्याथ तज्जितेः ।।
गमयाऽऽशु ततो दैवे शास्रीये ज्ञानकर्मणी ।। ३५८ ।।

मन्त्रार्थे यत्नमाहाथ ह्यमृतं मामिति श्रुतिः ।।
द्विती­य­म­न्त्रा­नूक्तिः स्यात्तमसो मेत्युदीरणम् ।। ३५९ ।।

आपे­क्षि­क­त्वा­न्मृत्युः स्याच्छास्रीये ज्ञानकर्मणी ।।
स्वार्थं फलमपेक्ष्यैते परार्थत्वात्तमो मते ।। ३६० ।।

साधनात्तमसो मां त्वं ज्योतिः साध्यं नायमृतम् ।।
फलाप्त्यैव तमोध्वंसादमृतं मेत्यतोऽवदत् ।। ३६१ ।।

पूर्व­यो­र्म­न्त्र­यो­र्योऽर्थो विस्तरेणोदितः पुनः ।।
मन्त्रेण स तृतीयेन संक्षे­पे­णा­भि­धी­यते ।। ३६२ ।।

प्रसङ्गमुत्तरे मन्त्रे पूर्वयोरिव वीक्ष्य हि ।।
तिरो­हि­ता­र्थ­ता­माह नात्रेत्यादिवचः श्रुतिः ।। ३६३ ।।

यथा­प्रा­र्थि­त­मा­गाय याजमानं फलं परम् ।।
त्रिष्वेव पवमानेषु यथा वागादिभिः पुरा ।। ३६४ ।।

अथ यानीतराणीति ह्युद्गा­ताऽ­न्ना­द्य­मा­त्मने ।।
आगा­ये­द्व­च­ना­त्कर्तुः कामयोगोऽपि गम्यते ।। ३६५ ।।

कस्मादात्मन आगायेदिति हेतुरिहोच्यते ।।
यस्मात्स एष एवं­वि­दु­द्गा­ताऽ­तोऽन एव सः ।। ३६६ ।।

अतोऽलमात्मने कामानागातुं स्वामिने तथा ।।
यस्मादीश्वर उद्गाता कामावाप्तावतः शुभम् ।। ३६७ ।।

तस्मात्तेषु वरं कामं यजमानो यथारुचि ।।
नवसूद्गीयमानेषु तं वृणीताविचारयन् ।। ३६८ ।।
प्रयोगानुगमे चैतद्दर्शनं येन चोद्यते ।। ३६९ ।।

तस्मा­त्स्या­द्दे­व­ता­वा­प्ति­र्ज्ञा­न­क­र्म­स­मु­च्च­यात् ।।
तस्मान्न काचिदाशङ्का कर्मिणं प्रति विद्यते ।। ३७० ।।

कर्महीनेऽपि विदुषि स्यान्न वेत्यतिशङ्क्यते ।।
तदा­श­ङ्का­प­नु­त्त्यर्थं तद्धैतदिति हि श्रुतिः ।। ३७१ ।।

इहैव देव­भू­त­त्वा­दा­शङ्का किंनिबन्धना ।।
जप­क­र्मा­न­वो­धाभ्यां लोकप्राप्तौ हि शङ्क्यते ।।
ज्ञानादेव भवेन्नेति तद्धैतदिति हि श्रुतिः ।। ३७२ ।।

जीवतो देवभूतस्य भावनोपचयात्कुतः ।।
देवाराप्तौ भवेच्छङ्का मनुष्यस्य तदाप्तिवत् ।। ३७३ ।।

कर्मिणोऽपि हि देवा­प्ति­र्ज्ञा­ना­देव न कर्मणः ।।
समुच्चयात्तु तत्प्रा­प्ता­वा­ग­मा­देव निश्चितिः ।। ३७४ ।।

तद्धै­त­त्प्रा­ण­वि­ज्ञानं यथा­व्या­ख्या­त­रू­प­कम् ।।
भवेल्लोकजिदेवेह कर्मशून्यमपि ध्रुवम् ।। ३७५ ।।

न हैवालोक्यतायै नुरस्याऽऽशाऽपीह विद्यते ।।
इहैव लोक­भू­त­त्वा­द­प्रा­प्तेऽर्थे हि शङ्क्यते ।। ३७६ ।।

इहै­वाऽऽ­सु­र­भा­वस्य प्राणोऽ­स्मी­त्य­भि­मा­नतः ।।
प्रध्व­स्त­त्वा­त्कुतः शङ्का तन्मू­ला­सं­भ­वा­द्भ­वेत् ।। ३७७ ।।

इदमत्र विचिन्त्य स्याज्ज्ञा­न­क­र्म­स­मु­च्च­यात् ।।
देवभावः किमु­द्गा­तु­र्य­ज­मा­नस्य वाऽथ किम् ।। ३७८ ।।

न समुच्चय उद्गातुः कर्मा­भा­वा­दि­हे­ष्यते ।।
पर­क­र्म­प्र­वे­शा­त्स्या­दु­द्गाता न स्वकर्मणि ।। ३७९ ।।

क्रियायोगाच्च तन्नाम्नो ज्ञानाभ्यासोऽपि दुर्लभः ।।
साक्षात्कृतिश्च संतत्या संततिश्च न विद्यते ।। ३८० ।।

न च धीजन्ममात्रेण पर­मा­त्म­प्र­बो­ध­वत् ।।
संभाव्यो देवभावोऽस्य देवो भूत्वेति च श्रुतेः ।। ३८१ ।।

उद्गतुर्विदुषो नापि परकीयेन कर्मणा ।।
समु­च्च­य­प्र­सिद्धिः स्यात्त­यो­र्भि­न्ना­श्र­य­त्वतः ।। ३८२ ।।

यजमानस्य कर्मास्ति ज्ञानं तूद्गा­तृ­सं­श्र­यम् ।।
समु­च्च­योऽ­त­स्त­स्यापि भिन्नाधिष्ठानतो न च ।। ३८३ ।।

मतं तद्याजमानं स्याज्ज्ञानं यत्प्रा­गु­दी­रि­तम् ।।
स्वयमेव कृता­र्थ­त्वा­त्काऽ­पे­क्षाऽ­स्य­र्त्विजं प्रति ।। ३८४ ।।

कर्म­ण्यु­द्गा­त्र­पे­क्षा­व­ज्ज्ञा­नेऽ­पीति मतं यदि ।।
उद्गातुरपि तत्तुल्यं नोद्गातर्ते क्रियां यतः ।। ३८५ ।।

याजमानं यथा कर्म ह्याश्रित्य फलवद्भवेत् ।।
अन्ना­द्या­गा­न­मु­द्गा­तु­स्त­ज्ज्ञानं तद्वदाश्रितम् ।। ३८६ ।।

समु­च्च­या­च्चे­दु­भ­यो­रु­द्गा­तृ­य­ज­मा­नयोः ।।
देवभावः किमर्थेयं तद्धैतदिति हि श्रुतिः ।। ३८७ ।।

सर्वाश्रमाणां तर्हीदं सामा­न्ये­ना­भि­धी­यते ।।
तद्धैतदिति सिद्ध­त्वा­दु­द्गा­तृ­य­ज­मा­नयोः ।। ३८८ ।।

देवभावेन विज्ञानं संस्करोत्येव तद्धियम् ।।
परार्थमपि सत्क­स्मा­द­न­पेक्षं न सिद्धये ।। ३८९ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके तृतीयं ब्राह्मणम्

ज्ञानकर्मफलं चैत­त्क­र्म­का­ण्ड­प्र­चो­दि­तम् ।।
आत्मै­वे­त्या­दि­शा­स्रेण सृष्ट्यादौ कर्तृतोच्यते ।। १ ।।

जग­दु­त्प­त्ति­सं­हा­र­स्थि­त्यादौ जगदात्मनः ।।
क्रिया­धी­फ­ल­भू­तस्य स्वात­न्त्र्य­मु­प­व­र्ण्यते ।। २ ।।

स्तुत्याऽनया च वेदो­क्त­क्रि­या­ज्ञा­न­स्तु­ति­र्भ­वेत् ।।
कृता विवक्षितं त्वत्र सर्व­म­प्ये­त­दी­रि­तम् ।। ३ ।।

वैदिकं साधनं ज्ञेयं ज्ञानकर्मात्मकं पुरा ।।
महानर्थफलायैव न मोक्षायेति निश्चितिः ।। ४ ।।

वैदिकं साधनं सर्व­म­वि­द्यो­त्थ­त्व­का­र­णात् ।।
तीव्रा­न­र्थ­फ­ला­येति ब्रह्म­वि­द्या­धि­का­रतः ।।
विवक्षितोऽर्थो यत्नेन तद्वै­रा­ग्य­वि­धि­त्सया ।। ५ ।।

यतोऽविरक्तः संसा­रा­न्नाऽऽ­त्म­ज्ञा­नाय कल्पते ।।
तदे­त­दा­त्म­तत्त्वं हि पदनीयमितीरणात् ।। ६ ।।

पुत्रा­दि­भ्य­स्तथा प्रेयानिति वक्ष्यति सादरम् ।। ७ ।।
वेदोक्तं निखिलं पुंसः सत्त्वशुद्धिफलं स्मृतम् ।।
कर्म ध्यानादिकं यत्ना­च्छ्रे­यो­र्थि­भि­र­नु­ष्ठि­तम् ।। ८ ।।

सम्य­क्सं­शु­द्ध­धि­षणः संसारं वेत्ति तत्त्वतः ।।
दृष्ट­सं­सा­र­त­त्त्वश्च वैराग्यं संसृतेर्व्रजेत् ।। ९ ।।

आवि­रि­ञ्चा­द्वि­रक्तो हि संसा­रा­न्नि­वि­वृ­त्सति ।।
न चोक्त­ज्ञा­न­क­र्मभ्यः सा निवृत्तिः प्रसिध्यति ।। १० ।।

वाह्म­नः­का­य­क­र्म­भ्य­स्त­त्सा­ध्य­क­टु­क­त्वतः ।।
व्युत्था­या­न­र्थ­निः­सा­र­सा­ध­ना­न्य­नु­मा­र्गति ।। ११ ।।

नित्यान्यपि च कर्माणि तत्सं­स्का­र­फ­ला­श्र­यात् ।।
परित्यजति सर्वाणि कृत्स्न­सं­सा­र­दो­ष­दृक् ।। १२ ।।

संसारवह्निजं दुःखं संभावयति ना परम् ।।
भूयो दुःखं किम­न्य­त्स्या­न्नि­त्या­नु­ष्ठा­न­हा­नितः ।। १३ ।।

मुक्तेर्बिभ्यत इत्यादि तथाच श्रुतिशासनम् ।।
तन्मूला च स्मृतिः साक्षा­द्वे­दा­नि­त्या­दिका स्फुटा ।। १४ ।।

अविज्ञातं परं तत्त्वं जनिमत्कारणं श्रुतौ ।।
आन्त्या­त्का­र्या­त्त­देव स्यात्स­र्व­का­र्य­वि­शे­ष­णम् ।। १५ ।।

तेन तेनाऽऽ­त्म­का­र्येण स्वात्मा­भा­स­त­मो­वधिः ।।
विशिष्टः समृजे विष्णु­स्ते­जो­ब­न्नादि मायया ।। १६ ।।

अविद्ययाऽस्य स्रष्ट्वत्वं कूटस्थस्यापि सर्वदा ।।
यथावस्तुधियः सूतेः प्राङ्नित्यं तेन तन्मतम् ।। १७ ।।

ज्ञान­क­र्मा­दि­तन्त्रं सत्सूवं जज्ञे ततो विभोः ।।
ज्ञान­क्रि­या­श­क्ति­म­द्य­द्य­त्रेदं जगदाहितम् ।। १८ ।।

विराडपि ततो जात­स्रै­लो­क्या­त्म­क­दे­ह­वान् ।।
यथो­क्त­ज्ञा­न­क­र्मभ्यां मनोर्जन्म ततोऽपि च ।। १९ ।।

या महा­प्र­ल­या­त्सृष्टिः सा विरिञ्चस्य वक्ष्यते ।।
आन्तरप्रलयाद्या तु विरा­जोऽ­धी­य­मु­च्यते ।। २० ।।

स वै शरीरी प्रथमः स वै पुरुष उच्यते ।।
आदिकर्ता स भूतानां ब्रह्माऽग्ने समवर्तत ।। २१ ।।

प्रत्यग्भूतः परार्थेभ्यो योऽनन्यानुभवं प्रति ।।
प्रथते स इहाऽऽत्मेति जग­त्य­स्मि­न्नि­ग­द्यते ।। २२ ।।

आत्मा­भा­सै­क­सं­सि­द्धे­स्त­द­ज्ञा­न­स­मु­द्भ­वम् ।।
आत्मैव भण्यते मोहा­त्त­दा­त्मा­व्य­ति­रे­कतः ।। २३ ।।

एवे­त्य­व­धृ­ता­वे­त­दा­त्मी­या­र्थ­नि­षे­ध­कृत् ।।
मन्वादि जन्मनः पूर्व­मा­त्मै­वे­द­म­भू­ज्ज­गत् ।। २४ ।।

अध्या­त्मा­दि­वि­भागे स्यादा­त्मा­त्मी­या­दि­भे­दधीः ।।
तस्मिन्नसति सा न स्याद­पे­क्षा­वि­र­हा­द्विभोः ।। २५ ।।

मिथो­पा­स्त­व्य­पेक्षं हि नाम­रू­पा­दि­म­ज्ज­गत् ।।
प्रत्य­ह्मा­त्र­प्र­माणं स्यात्पराङेवैति चित्रताम् ।। २६ ।।

अपामार्गलतेवायं विरुद्धफलदो भवः ।।
प्रत्यग्दृशां विमोक्षाय संसाराय पराग्दृशाम् ।। २७ ।।

व्याकृ­ता­व्या­कृतं विश्वं प्रत्य­क्प्र­त्य­य­मा­त्र­कम् ।।
मोहो­त्था­ह­मि­ति­ज्ञा­ना­द्भ­या­र­त्या­दि­म­द्भ­वेत् ।। २८ ।।

अहं­म­मे­ति­वि­ज्ञानं विद्यया ध्वंमितं यदा ।।
तदाऽद्वये दृशौ दृष्टे न भयादि तमोहतेः ।। २९ ।।

इदं धीनामगम्यं यच्चित्रं सत्प्रथते हिरुक् ।।
मन्वादि सृष्टे­स्त­त्पू­र्व­मा­त्मै­वा­भू­दिदं जगत् ।। ३० ।।

एतावद्वास्तवं वृत्तं मोहोत्थं भण्यतेऽधुना ।।
कोशपञ्चकतां यातः प्रत्यगज्ञानतो यतः ।। ३१ ।।

स एष परमोऽप्यात्मा कामा­वि­द्या­द्यु­प­प्ल­वात् ।।
संवृत्तः पुरुषाकार इत्यनुक्रोशतीव नः ।। ३२ ।।

आन­न्दा­द्य­न्न­प­र्य­न्ता­न्का­र­णे­त­र­रू­पिणः ।।
पुरु­षा­दि­प्र­का­रां­स्ता­न्प्र­त्य­क्त­त्त्वा­न­ल­क्ष­यत् ।।
पुरुषविध इत्युक्त्या ह्यूर्ध्वं चैवं प्रवक्ष्यते ।। ३३ ।।

वाह्म­नः­प्रा­ण­को­शां­स्री­न्वि­रा­ड­न्न­मयः स्वयम् ।।
तद्धेदमिति चाऽऽनन्दो नैवेहेति तथोच्यते ।। ३४ ।।

अग्निर्मूर्धेति च तथा मन्त्रेणापि प्रकाशितः ।।
सामानाधिकरण्यं च तद्धेदमिति युक्तिमत् ।। ३५ ।।

पृथि­व्या­द्य­क्ष­रा­न्तश्च प्रश्नो वाचक्नवस्तथा ।। ३६ ।।
प्रत्य­ग्दृ­ष्ट्य­नु­वि­द्धा­हं­प्र­त्य­यै­क­प्र­मा­णकः ।।
सोऽनु­वी­क्ष्याऽऽ­त्म­मो­हो­त्थ­दृ­ष्ट्याऽ­वि­द्यो­त्थ­रू­प­कम् ।। ३७ ।।

यदभ्यस्तं पुराऽ­स्या­भू­द­ह­मे­वे­द­मि­त्यदः ।।
दर्शनं तद­पे­क्ष्या­य­म­नु­शब्दः प्रयुज्यते ।। ३८ ।।

अहमेवेदमस्मीति दर्शनं यत्सुभावितम् ।।
तत्फलं यत्तदन्वीक्ष्य नाऽऽत्म­नोऽ­न्य­द्द­दर्श सः ।। ३९ ।।

तस्मा­द­र्था­न्त­रा­सू­ते­रे­क­पि­ण्डा­त्म­मा­त्रतः ।।
नापश्यदपरं किंचि­त्सोऽ­ह­मि­त्य­भ्य­धा­दथ ।। ४० ।।

त्रैलो­क्या­त्म­क­दे­हात्मा नापश्यदपरं पृथक् ।।
भिन्ना­र्था­न­भि­सं­व­न्धा­त्प्र­ती­च्ये­वास्य धीरभूत् ।। ४१ ।।

सशब्दं दर्शनं यादृ­क्प्रा­ग­भ्यस्तं तथैव सः ।।
व्याजहार फलावस्थो ह्यह­मि­त्या­त्म­वा­च­कम् ।। ४२ ।।

उपासनार्थं नामास्य तस्यो­प­नि­ष­दि­त्यतः ।।
अतोऽहमित्यनेनैव ह्यात्म­नाऽऽ­त्मा­न­म­भ्य­धात् ।। ४३ ।।

अह­मि­त्य­भ्य­धा­दग्रे यस्मा­दा­त्मा­न­मा­त्मना ।।
अहं­ना­मा­भ­व­त्त­स्मा­द्वि­रा­डेष प्रजापतिः ।। ४४ ।।

तत्कार्यगेण लिङ्गेन ज्ञाप­य­न्का­र­णा­भि­धाम् ।।
तस्मादपीति वक्त्येतां प्रसिद्धिं लोकसाक्षिकीम् ।। ४५ ।।

यथोक्तमहिमः कस्मात्संवृत्तः पुरुषो विराट् ।।
इतिहेतूपदेशाय स यदित्यादि भण्यते ।। ४६ ।।

मिथो जिगीषतां पुंसां ज्ञान­क­र्मा­दि­सा­धनैः ।।
पुरा देवात्मतां योऽगा­त्प्लु­ष्टा­स्ते­ने­तरे जिताः ।। ४७ ।।

वैरा­ज­प­द­सं­प्रे­प्सो­र्य­ज­मा­न­म­हा­ज­नात् ।।
एनां­स्यौ­ष­द्य­तोऽ­ग्रेऽतः संवृत्तः पुरुषाभिधः ।। ४८ ।।

औष­त्स्वा­न्पा­प्मनः पूर्वं ज्ञाना­द्य­ति­श­या­ग्निना ।।
वैरा­ज­प­द­लि­प्सु­भ्य­स्ते­नासौ पुरुषाभिधः ।। ४९ ।।

यथोक्तोपासनफलं वक्ष्या­मी­त्यु­त्तरं वचः ।।
ओषतीत्यादिकं ज्ञेयं वेदोपासीत यः सदा ।। ५० ।।

योऽसा­व­ती­न्द्रि­योऽ­ग्राह्यः सूक्ष्मोऽ­व्यक्तः सनातनः ।।
सर्व­भू­त­म­योऽ­चिन्त्यः स एव स्वयमुद्वभौ ।। ५१ ।।

पुरु­षोऽ­स्मी­त्यु­पा­स्त्यर्थं पुरु­षा­र्थोऽ­य­मु­च्यते ।।
ओषतीत्युक्तितः साक्षा­द्गु­णो­पा­स्ति­फ­ल­श्र­वात् ।। ५२ ।।

अभिष्टुतं प्रयत्नेन फलं यज्ज्ञानकर्मणोः ।।
एवं­म­हि­म­म­प्ये­त­त्सं­सारं नात्यवर्तत ।। ५३ ।।

प्रत्य­ग्या­था­त्म्य­वि­ज्ञा­न­वि­र­हा­द­न्य­सा­धनः ।।
यावत्किंचित्फलं नादः सर्वा­न­र्थ­नि­वृ­त्तये ।। ५४ ।।

निरस्तातिशयं कर्म ज्ञानं चाऽऽप्यापि बालवत् ।।
यतोऽ­बि­भे­द­वि­द्या­वा­न­तोऽ­सा­व­स्म­दा­दि­वत् ।। ५५ ।।

न ह्यविद्यामनादाय वस्तु­या­था­त्म्य­सं­श्र­यात् ।।
कश्चि­द्बि­भे­त्य­बि­भेच्च तेना­वि­द्वा­न्प्र­जा­पतिः ।। ५६ ।।

प्रत्य­ग्या­था­त्म्य­वि­द्यैव निःशे­ष­पु­रु­षा­र्थ­कृत् ।।
इत्ये­त­त्प्र­ति­प­त्त्यर्थं विराट्स्थानस्य कुत्सनम् ।। ५७ ।।

यतोऽ­वि­भे­द्वि­रा­द्पू­र्व­मे­का­क्य­स्मीति मूढवत् ।।
तस्मा­त्त­त्का­र्य­भू­तोऽज्ञ एकाक्यद्य बिभेति ना ।। ५८ ।।

एवं भयाभिभूतः स ईक्षांचक्रेऽथ लोकवत् ।।
भयाहेतु यथातत्त्वदर्शनं कृतवान्विभुः ।। ५९ ।।

स्रजीव कल्पिताहिर्ना तत्र्रा­सा­दा­कु­ले­न्द्रियः ।।
आलो­च­ये­द्य­था­तत्त्वं भीध्वस्तौ तद्वदीश्वरः ।। ६० ।।

आलो­च­य­न्य­था­त­त्त्व­म­पा­स्त­ध्वा­न्त­त­द्भ­वम् ।।
अनन्यानुभवं साक्षा­द्द­द­र्शै­का­त्म्य­मा­त्मनि ।। ६१ ।।

प्रत्य­ग्या­था­त्म्य­वि­ज्ञा­न­शि­खि­प्लु­ष्ट­म­ह­त्तमाः ।।
आप्ता­शे­ष­पु­म­र्थोऽथ सोऽमन्यत ततो विराट् ।। ६२ ।।

देहे­न्द्रि­य­म­नो­बु­द्धि­भा­वा­भा­वा­दि­सा­क्षि­णम् ।।
प्रत्यञ्चं मदिति प्राह तदृष्ट्या नेक्षते द्वयम् ।। ६३ ।।

प्रतीच्येव यदेहाऽऽत्मा प्रत्य­गा­त्मा­न­मी­क्षते ।।
अन्व­य­व्य­ति­रे­काभ्यां ब्रह्मस्मीति तदेक्षते ।। ६४ ।।

प्रत्य­ग्दृष्ट्या तदज्ञानतज्जं नैवेक्षते स्वतः ।।
ब्रह्म­प्र­ती­चो­रै­का­त्म्या­त्त­दू­री­कृत्य गर्जति ।। ६५ ।।

प्रत्यक्तां मदिति प्राह त्वन्य­न्ना­स्तीति चैकताम् ।।
कस्मादिति च हेतू­क्ति­र्भी­त्या­चि­क्षि­प्सया परम् ।। ६६ ।।

प्रत्यक्ता ब्रह्मणो यस्माद्ब्रह्मता चाऽऽत्मनः स्वतः ।।
एवं सति कुतो मे भीरिति विद्वांस्रपायते ।। ६७ ।।

ब्रह्म­वि­द्या­मृते नान्य­द्भ­य­हे­तु­वि­ना­श­कृत् ।।
संभाव्यमिति नः प्राह तत एवेति च श्रुतिः ।। ६८ ।।

प्रत्य­ग­ज्ञा­न­मे­वैकं भीति­हे­तु­र्भ­वे­द्यदि ।।
तत एवेति वचनं तदेवं स्यात्समञ्जसम् ।। ६९ ।।

कस्मा­द्ध्य­भे­ष्य­दिति च पूर्वो­क्ता­र्थ­स­म­र्थ­नम् ।।
श्रुत्याऽकारि कुतो भीति­र्ध्व­स्ता­ज्ञा­न­त­दु­द्भवे ।। ७० ।।