अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥संबंधभाष्यवार्तिकम् ॥ (५)

प्रजा­प­ते­रा­वि­र­भू­त्कुत एकत्वदंर्शनम् ।।
शास्रा­चा­र्या­दि­त­द्धे­तो­र­स­त्त्वा­त्त­द­सं­भवः ।। ७१ ।।

अन्यानपेक्षं तदभूदिति चेन्नैवमिष्यते ।।
अस्मदादेरपि तथा प्रसङ्गः स्यान्न चेक्ष्यते ।। ७२ ।।

मतं जन्मा­न्त­रा­भ्या­स­सं­स्का­रो­त्थ­मिदं यदि ।।
नैर­र्थ­क्य­प्र­सक्तिः स्यात्स­म्य­ग्ज्ञा­नस्य सर्वतः ।। ७३ ।।

दग्धा­शे­षा­न्त­रा­यस्य विराजोऽपि महत्तमः ।।
नाधा­क्षी­दा­त्म­विद्या नः काऽऽशाऽ­वि­द्या­प­नु­त्तये ।। ७४ ।।

अन्त्य एव तमोघाती प्रत्य­य­श्चे­न्मतं यदि ।।
स्यादनैकान्तिको हेतु­र­न्या­न्त्ये­ष्व­स­मी­क्ष­णात् ।। ७५ ।।

नान्त्योऽ­वि­द्या­प­नु­द्बोध इति सर्वत्र गम्यताम् ।।
ऐका­त्म्य­व­स्तु­बो­धि­त्वा­दु­पा­न्त्य­प्र­त्ययो यथा ।। ७६ ।।

स्याद्वा सत्सा­ध­नो­त्प­त्ते­र्लो­क­व­ज्ज्ञा­न­मा­त्मनः ।।
यथेह कार्यकरणैः पुण्य­क­र्मो­द्भ­वै­र्नृ­णाम् ।। ७७ ।।

प्रज्ञा मेधा स्मृतिः स्थैर्ये ज्ञानादाववसीयते ।।
वैशारद्यं तथैव स्याद्विराजोऽपि महाधियः ।। ७८ ।।

ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः ।।
ऐश्वर्यं चैव धर्मश्च सहसिद्धमिति स्मृतिः ।। ७९ ।।

सहैव सिद्धं चेज्ज्ञानं भीतिहेतोरसंभवः ।।
ध्वान्ता­प­ध्वं­सि­र­विणा न तमः सह जायते ।। ८० ।।

नैव­म­न्यो­प­दे­शा­र्थ­प्र­ति­षे­ध­प­र­त्वतः ।।
सह­सि­द्ध­गि­र­स्त­स्मा­न्नैष दोषः प्रसज्यते ।। ८१ ।।

श्रद्धा­ता­त्प­र्य­शु­श्रू­षा­प्र­णि­पा­तादि साधनम् ।।
विद्या­ज­न्मै­क­हे­तूनां वैफल्यं चेन्न तद्यतः ।। ८२ ।।

गुण­व­द्दो­ष­व­द्रू­प­वि­क­ल्पि­त­स­मु­च्चि­तम् ।।
विद्या­ज­न्मै­क­हे­तु­त्वा­ल्लो­क­व­त्स्या­त्स­म­ञ्ज­सम् ।। ८३ ।।

रूपा­दि­ज्ञा­न­सं­भूतौ तद्धेतूनामनेकधा ।।
विकल्पो दृश्यते लोके तथेहापीति निश्चितिः ।। ८४ ।।

गुण­व­द्दो­ष­वत्त्वं च तथैव च समुच्चयः ।।
प्रबो­धो­त्प­त्ति­हे­तूनां दृष्टो बोधादिकार्यकृत् ।। ८५ ।।

वृषदंशादयो रात्रौ नेत्रगोचरसंगति -
मात्रेण रूपं वीक्षन्ते नापेक्षन्ते ततोऽपरम् ।। ८६ ।।

अती­ता­ना­ग­ता­द्य­र्थ­ज्ञा­नो­त्पत्तौ च हेतुताम् ।।
योगिनां मन एव स्यादस्माकं सर्व एव तु ।। ८७ ।।

दोष­व­द्गु­ण­व­त्त्वेन विकल्पोऽनेकधा पुनः ।।
मातृ­मा­न­प्र­मे­याणां गुणा­व­द्दो­ष­व­त्त्वतः ।। ८८ ।।

नातिक्रान्तभवे त्वासी­ह्ब्र­ह्म­विद्या प्रजापतेः ।।
इत्ये­त­द्ग­म्य­तेऽ­वि­द्या­भ­या­र­त्या­दि­म­त्त्वतः ।। ८९ ।।

विद्यायां चेन्न मोक्षोऽ­भू­त्क­स्याऽऽशा नो वृथा भवेत् ।।
मोक्षे भय­श्रु­ते­र्ना­र्थ­स्तत्र को मोह इत्यतः ।। ९० ।।

एकाकिनो विराजो वाऽवि­द्या­सं­वी­त­चे­तसः ।।
पूर्व­ज­न्मो­त्थ­सं­स्का­रा­द्भ­य­मा­वि­र­भू­दिह ।। ९१ ।।

भयप्रध्वंसिनं हेतु­मी­क्षां­च­क्रेऽथ जातभीः।।
मत्तो यन्नान्यदस्तीति ह्यथ कस्मा­द्वि­भे­म्य­हम् ।। ९२ ।।

एक एवाहमस्मीह द्वितीयाद्धि भयोत्थितिः ।।
द्वितीयो न मदन्योऽस्ति कस्माद्धोतोयं मम ।। ९३ ।।

तत एव विरा­डै­क्य­वि­ज्ञा­ना­देव तद्भयम् ।।
वीयाय न पर­ज्ञा­ना­द­तोऽ­र­ति­र­पी­ष्यते ।। ९४ ।।

एका­क्य­स्मी­ति­वि­ज्ञा­ना­त्र्रै­लो­क्या­त्मै­क­गो­च­रात् ।।
अगाद्भयं यतोऽ­तोऽ­भू­द­र­ति­स्तस्य कामिनः ।। ९५ ।।

सम्य­ग्वि­ज्ञा­न­वि­ध्व­स्ता­व­वि­द्यायाः कुतोऽरतिः ।।
ध्वस्ता­न्ध्य­स्यापि सा चेत्स्या­द­नि­र्मोक्षः प्रसज्यते ।। ९६ ।।

नावि­द्या­घा­ति­वि­ज्ञा­ना­द्भ­य­ध्व­स्ति­र­भू­द्विभोः ।।
अर­त्यु­द्भू­ति­लि­ङ्गेन ह्यय­म­र्थोऽ­व­सी­यते ।। ९७ ।।

न चेहा­व­स­रोऽ­स्त्यस्य सम्यग्ज्ञानस्य कश्चन ।।
पिण्डसृष्टौ प्रवृत्तायां नाक­स्मा­ज्ज्ञा­नगीः शुभा ।। ९८ ।।

प्रक्रियानुचितं वस्तु सुसाध्वपि समीरितम् ।।
अकालकुसुमानीव नैव प्रीतिकरं सताम् ।। ९९ ।।

मिथु­ना­र­ति­मो­हादेः प्रत्य­ग्या­था­त्म्य­वे­दिनः ।।
आगमैस्तु निषि­द्ध­त्वा­त्कु­त­स्त­स्येह संभवः ।। १०० ।।

आत्मक्रीड आत्म­र­ति­क्रि­या­वा­निति चाऽऽगमः ।।
तथाऽऽत्ममिथुन इति यस्त्वा­त्म­र­ति­रि­त्यपि ।। १०१ ।।

कार्य­का­र­ण­सं­बन्धः साविद्यस्यैव युक्तिमान् ।।
अपू­र्वा­न­प­रा­द्यु­क्तेर्न ध्वस्तान्ध्यस्य युज्यते ।। १०२ ।।

अप्यु­त्प­न्ना­त्म­बो­धा­ना­म­धि­का­रा­स­मा­प्तितः ।।
अरत्यादि यथा दृष्टं तथैव स्यात्प्रजापतेः ।। १०३ ।।

अप्र­वि­ष्ट­स्व­भा­वस्य सशब्देन परिग्रहात् ।।
स एष इत्यत्र वाक्ये नैवाऽऽ­क­स्मि­क­श­ब्द­नम् ।। १०४ ।।

असं­तो­षा­क्ष­मा­हे­तो­श्चे­तसो याऽनवस्थितिः ।।
सा विध्व­स्ता­त्म­मो­ह­स्या­प्य­रतिः संबभूव ह ।। १०५ ।।

यतोऽ­र­ति­ग्र­ह­ग्र­स्त­धि­ष­णोऽ­भू­त्प्र­जा­पतिः ।।
एकाकी तेन तत्सृष्टावेको न रमते नरः ।। १०६ ।।

श्रौत्वाऽनया प्रसिद्ध्या तु कार्यलिङ्गेश्च कारणम् ।।
सदाऽनुमिन्वते सांख्यास्तथा चान्येऽपि वादिनः ।। १०७ ।।

अरत्यपनुनुत्सुः सन्स द्वितीयं यथारूचि ।।
विरा­डै­च्छ­दृ­तेऽ­विद्यां नेच्छे­श­स्यो­प­प­द्यते ।। १०८ ।।

सोऽर­त्य­ति­ग्र­हा­वि­ष्ट­स्त­द­प­ध्व­स्तये विराट् ।।
संस­क्त­जा­या­पुं­मानो यावां­स्ता­वा­न्व­भूव ह ।। १०९ ।।

स्रीपुमांसौ परिष्वक्तौ यावन्मानौ बभूवतुः ।।
स ताव­त्प­रि­मा­णोऽ­भू­द्यो­गेन परमेश्वरः ।। ११० ।।

इच्छा­मा­त्र­म­र­त्युत्थं पुंस्य­ल­ब्ध­स्थिति स्रियम् ।।
प्रयुङ्के योग्य­त­स्त­स्या­स्त­द­ल­ब्ध्वाऽ­रतिः प्रभोः ।। १११ ।।

उपस्थिते च मनसि तस्य योषिदभूत्क्रतोः ।।
सत्यसंकल्पहेतोः स स्रीसक्त इव चाभवत् ।। ११२ ।।

मिथुनद्वारिका याऽस्य सृष्टिः सैवैधुनोच्यते ।।
यतोऽसाविममेवाथ द्विधाऽऽ­त्मा­न­म­पा­त­यत् ।। ११३ ।।

इम­मे­वे­त्य­व­धृ­तेर्न विराजो द्विधाऽभिधा ।।
यः स्रीपुं­स्प­रि­मा­णोऽ­भूत्स एवातो द्विधाकृतः ।। ११४ ।।

पातनादेव निर्वृत्तेः पतिपत्न्यौ जगत्यपि ।।
योषि­द्वि­द­ल­व­द्भाति पुंसः शुक्त्या­दि­भा­ग­वत् ।। ११५ ।।

स्त्याकाङ्क्षो हि तु भागोऽयं पुमाकाशस्ततः स्रिया ।।
सम्यगापूर्यते व्योम शुक्ति­सं­पु­ट­व­द्ध्रु­वम् ।। ११६ ।।

विरा­ज­म­मृ­ज­द्ब्रह्मा सोऽसृजत्पुरुषं विराट् ।।
पुरुषं तं मनुं विद्धि यस्येयं मानवी प्रजा ।। ११७ ।।

तां स्रियं मैथुनेनाथ मनुः समभवत्तदा ।।
स्वक­र्म­भि­र्नि­युक्तः संस्तथा चोत्पाद्य कर्मभिः ।। ११८ ।।

भूरि­जा­त्य­भि­सं­बन्धो जन्य­क­र्म­व­शा­त्स्रियाः ।।
मनोश्चैवं सम­र्जे­द­मा­पि­पी­लि­क­मा­त्मनः ।। ११९ ।।

द्वंद्वयुक्तं जग­त्य­स्मि­न्या­व­त्किं­चि­त्स­मी­क्ष्यते ।।
तद­स्रा­क्षी­न्मनुः सर्वे स्रीपुं­द्वं­द्व­प्र­यो­गतः ।। १२० ।।

मनोः सशतरूपस्य पिण्ड­सृ­ष्टि­रि­हो­दिता ।।
सोमा­ग्नी­न्द्रा­दिका याऽपि साऽप्यु­क्त­व­द­पे­क्ष्यसः ।। १२१ ।।

जग­त्सृ­ष्ट्वाऽऽ­त्मनः साक्षा­ज्ज्ञा­न­क­र्मा­दि­सा­धनः ।।
अवेत्सृष्टं जगत्स्रष्टा ह्यहं वावाखिलं जगत् ।। १२२ ।।

अहं वाव जगत्सृष्टं यतोऽसृक्ष्यहमेव तत् ।।
सृष्टिनामा मनुर्जात एतस्मादेव कारणात् ।। १२३ ।।

यथा मनुरिदं सृष्ट­म­ह­म­स्मी­त्य­बु­ध्यत ।।
एवमन्योऽपि यो वेद सृष्टि­कृ­त्स्या­द­सा­वपि ।। १२४ ।।

मृष्टानामथ भूता­ना­म­ग्न्या­दि­प्र­मुखा इमाः ।।
अनु­ग्र­ही­त्री­र्व­क्ष्या­मी­त्यतः प्रववृते श्रुतिः ।। १२५ ।।

भेदा­द­धि­कृ­ते­रे­षा­म­ग्न्या­दी­ना­म­ने­कधा ।।
भेदो वर्णेष सर्वेष ब्रह्म­क्ष­त्र्रा­दि­ल­क्षणः ।। १२६ ।।

अनु­ग्रा­ह­क­दे­वानां सर्गोऽयं प्रस्तुतो महान् ।।
तत्रा­ग्ने­रु­दि­तो­त्प­त्तिर्न त्विन्द्रा­दे­रि­हो­त्यते ।। १२७ ।।

अविद्याधिकृतौ तेषां सृष्टिरूर्ध्वे प्रवक्ष्यते ।।
कर्मा­धि­कृ­ति­सं­ब­न्ध­प्र­ति­प­त्त्य­र्थ­मेव तु ।। १२८ ।।

तं सर्ग­मु­क्त­व­त्स­र्व­म­पे­क्ष्ये­हो­प­सं­हृतिः ।।
अवि­द्व­द्दे­व­ता­भि­त्ति­प्र­ति­षे­धाय सांप्रतम् ।। १२९ ।।

गुणो­त्प­त्ति­क्रि­या­रू­प­स्तु­ति­ना­मा­द्यु­पा­धिभिः ।।
विभित्सन्ति स्वतोऽभिन्नां देवतां मूढदृष्टयः ।। १३० ।।

यदिदं कर्मिणः प्राहु कर्मभूमावमेधसः ।।
अमुमग्निममुं सोमं यजेति यजिसंश्रवात् ।। १३१ ।।

यजेति लिङ्गा­न्नि­न्दैषा कार्मिणामेव गम्यते ।।
न तु विध्वस्तमोहानां प्रत्य­ङ्भा­त्रै­क­शा­यि­नाम् ।। १३२ ।।

यस्त्वा­त्म­र­ति­रेव स्यादा­त्म­तृ­प्तश्च मानवः ।।
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ।। १३३ ।।

उत्प­न्नै­का­त्म्य­या­था­त्म्य­भा­स्व­द्वि­ज्ञा­न­भा­स्कर -
संप्लु­ष्टा­वि­द्या­ब­हु­ल­त­मसां कर्मनिह्नुतिम् ।। १३४ ।।

सर्व­क­र्मा­धि­का­राणां निषेधं प्रत्यपीपदत् ।।
पुराणः शाश्चतो विष्णुः प्रपन्नाय किरीटिने ।। १३५ ।।

मिथो भिन्नं यदाहुस्त एकैकं देवमध्वरे ।।
तद­स­त्प्र­ति­प­त्तव्यं यतोऽभिन्नैव देवता ।। १३६ ।।

भेदग्राहि न नो मानं घटादावपि विद्यते ।।
किमु निःशे­ष­भि­न्ना­र्थ­व्या­पि­न्या­त्म­न्यसौ मयि ।। १३७ ।।

नाभा­वा­रा­दि­व­द्वि­श्च­म­ध्या­त्मा­दि­वि­भा­ग­वत् ।।
ओतप्रोतात्मना तस्थौ विरा­ट्मू­त्रा­दि­व­स्तुषु ।। १३८ ।।

विविधाऽस्यै व सा सृष्टिरिता हेतुसमीरणम् ।।
कारणं न विहायेह कार्यमन्यत्र वर्तते ।। १३९ ।।

यत एवमतो देवाः सर्वेऽपि स्युः प्रजापतिः ।।
तस्यां तस्यामधिकृतौ तत्तद्रूपं प्रपद्यते ।। १४० ।।

एक एव तु विश्वात्मा मायया मोहयञ्जगत् ।।
एकतां बहुतामेति कुम्भ­व­न्म­णि­सं­श्र­य़ात् ।। १४१ ।।

अभिन्न एव भूतात्मा प्रति­भू­त­स­मा­प्तितः ।।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।। १४२ ।।

अत्र विप्रतिपद्यन्ते तद­न्या­त्म­नि­षे­धिनः ।।
हिरण्यगर्भ एवाऽऽत्मा यः परात्मेति गीयते ।। १४३ ।।

संसार्येवेह स इति तथाऽन्येऽपि प्रचक्षते ।।
पक्षयोरनयोः श्रेयान्कः पक्ष इति चिन्त्यते ।। १४४ ।।

विरिञ्च एव तु परो मन्त्र­ब्रा­ह्म­ण­वा­क्यतः ।।
इन्द्र­मि­त्या­दि­म­न्त्रो­क्ति­रेष ब्रह्मेति च श्रुतिः ।। १४५ ।।

एतमेके वदन्त्यग्निं योऽसा­वि­ति­स्मृ­ते­रपि ।।
संसार्येव स विज्ञेयः श्रुति­म­न्त्र­स्मृ­ती­र­णात् ।। १४६ ।।

पाप्म­दा­हा­र­ति­भी­ति­म­र्त्य­त्वा­दि­श्रु­ते­र्मितेः ।।
हिरण्यगर्भमिति च स्मार्तान्यपि वचांसि नः ।। १४७ ।।

ब्रह्मा विश्वसृजो धर्म इति कर्मफलात्मता ।।
स्मृत्याऽ­प्य­भाणि बहुशः कस्य संसारिरूपता ।। १४८ ।।

मिथो­वि­रु­द्ध­वा­दि­त्वा­द्दू­यो­रा­ग­म­यो­रपि ।।
अप्रा­मा­ण्य­प्र­स­क्ति­श्चेन्न क्लृप्त्य­न्त­र­सं­श्र­यात् ।। १४९ ।।

प्रत्य­ग­ज्ञा­न­जाऽ­ने­क­वि­वि­धो­पा­धि­सं­गतेः ।।
विरु­द्धा­र्थ­त्व­व­चसां स्यादेकत्रापि संभवः ।। १५० ।।

अपा­स्ता­वि­द्या­त­ज्ज­त्वा­द­स्थू­द्यु­क्ति­गो­चरः ।।
स्वाभा­सा­वि­द्यो­पाधिः सन्सा­क्ष्य­न्त­र्या­मितां व्रजेत् ।। १५१ ।।

तथा हिरण्यगर्भत्वं बुद्ध्युपाधिः स एव तु ।।
तमः­स­त्त्व­र­जो­यो­गा­द्याति क्षेत्रज्ञतामजः ।। १५२ ।।

अभि­न्न­बु­द्ध्याऽ­भि­न्नत्वं भिन्नधीभिश्च भिन्नताम् ।।
एति चित्स्व­त­मो­हे­तोर्म किंचिदपि दुःस्थितम् ।। १५३ ।।

अश­ना­या­व­दु­त्प­त्ते­रु­त्पन्नाः प्राणिनोऽखिलाः ।।
अत्ता­रोऽ­तोऽ­न्न­वि­र­हा­न्नालं स्थानाय संहताः ।। १५४ ।।

तस्मा­त्सो­मा­न्न­सृ­ष्ट्यर्थं परो ग्रन्थोऽ­व­ता­र्यते ।।
यत्किंचेदं जग­त्य­स्मि­न्नार्द्रं वस्तूपलक्ष्यते ।।
रेत­स­स्त­त्स­स­र्जेश उत्प­न्न­स्थि­त­येऽ­श­नम् ।। १५५ ।।

जगत्कारणरूपिण्य आपो रेतोभिधा इह ।।
सोम एवे­त्य­व­धृ­ते­र­ग्नी­षो­म­व्य­व­स्थितिः ।। १५६ ।।

नाना­क्रि­या­भि­सं­ब­न्धा­दग्निः सोमश्च गम्यताम् ।। १५७ ।।
सोम एवेति तं विद्या­द्य­द्य­ग्नि­रपि हूयते ।।
सोमोऽ­प्य­ग्नि­रिति ज्ञेयो यदि तत्रापि हूयते ।। १५८ ।।

द्वेधा भिन्नं जग­त्स­र्व­म­न्न­म­न्नाद एव च ।।
अन्नं चराचरं कृत्स्नमन्नादः प्राण उच्यते ।। १५९ ।।

फला­भि­धि­त्स­ये­दानीं देवसृष्टिविदः श्रुतिः ।।
प्रवर्ततेऽथ सैषेति तत्स्तु­ति­स्ता­व­दु­च्यते ।। १६० ।।

अनु­ग्रा­ह­क­दे­वानां या सृष्टिरुदिता पुरा ।।
अति­सृ­ष्टि­र­नु­ग्रा­ह्य­सृष्टेः सा स्यात्प्रजापतेः ।। १६१ ।।

अश्रे­यो­भ्योऽ­नु­ग्रा­ह्येभ्यः ससर्ज श्रेयसः सुरान् ।।
यतोऽ­ति­सृ­ष्टि­स्ते­नेयं यैषे­हा­ग्न्या­दि­री­रिता ।। १६२ ।।

मर्त्यो वा यजमानः सन्न­स्रा­क्षी­द­मृ­ता­न्सु­रान् ।।
अतिसृष्टिरतः प्रोक्ता साऽतिसाध्वीति निश्चिता ।। १६३ ।।

प्रजा­प­ति­रि­वै­तस्यां सृष्टौ स्यात्स­र्ग­कृ­न्नरः ।।
यथो­क्त­सृ­ष्टि­विद्यः स्यात्त­स्यै­त­त्फ­ल­मी­रि­तम् ।। १६४ ।।

अवि­द्या­प­ट­सं­वी­त­च­क्षु­षा­मि­य­देव तु ।।
वैदिकं साधनं ज्ञेयं ज्ञान­क­र्म­स्व­भा­व­कम् ।। १६५ ।।

कर्त्रा­दि­का­र­का­पेक्षं विरि­ञ्चा­न्त­फ­ल­प्र­दम् ।।
व्याकृतं तदशेषेण श्रुत्या व्याख्यायि यत्पुरा ।। १६६ ।।

अथैतस्य यथोक्तस्य साध्यसाधनरूपिणः ।।
जगतो व्याकृ­त­स्या­भू­द्बी­जा­व­स्थाऽ­वि­न­श्चरी ।।
तन्नि­र्दि­दि­क्षया यत्ना­त्प्र­वृ­त्तैषा परा श्रुतिः ।। १६७ ।।

संसृत्यनर्थस्य यतो निदानं सैव नापरम् ।।
यतो मूल­म­न­र्था­ना­मा­त्मा­ज्ञानं जगत्यपि ।। १६८ ।।

तद्ध्वंसादेव निःशे­ष­पु­म­र्था­प्ति­रतो भवेत् ।।
जिहा­सि­त­स्या­न­र्थस्य हेतुः स्यात्सशरीरता ।। १६९ ।।

न वै सशरीरस्येति श्रुते­र­ध्य­व­सी­यते ।।
धर्माधर्मौ च देहस्य योनि­रि­त्या­ग­मा­श्र­यात् ।। १७० ।।

विहितं प्रतिषिद्धं च कर्म मूलं तयोरपि ।।
न ह्यक्रियस्य संबन्धो धर्मोणास्तीतरेण वा ।। १७१ ।।

नाकारकस्य जगति क्रियया संगतिस्तथा ।। १७२ ।।
तद्भा­व­भा­व­हे­तु­त्वा­त्का­र­क­त्वस्य कारणम् ।।
रागद्वेषौ, न तौ मुक्त्वा जग­त्य­न्य­त्प्र­व­र्त­कम् ।। १७३ ।।

स यथाकाम इत्युक्त्वा क्रत्वादेः प्रसवं श्रुतिः ।।
कामाभावे च तद्धानिं योऽकामश्चेति चावदत् ।। १७४ ।।

साध्वसाध्विति चाध्यासौ मूलं विद्या तयोरपि ।।
रागद्वेषौ यतो दृष्टौ नैवर्ते साध्वसाधुनी ।। १७५ ।।

अन्तरेण प्रमेयार्थं नापि ते साध्वसाधुनी ।।
साध्वसाध्विति वा ज्ञानं ज्ञातमेयस्य जायते ।। १७६ ।।

प्रमा­तृ­त्वा­दि­सं­बन्धो नास­दा­त्म­क­व­स्तुनि ।।
नञ्घ­टा­द्य­र्थ­वि­ज्ञानं सत्येव जगतीष्यते ।। १७७ ।।

प्रत्य­ग्या­था­त्म्य­सं­मो­ह­मृते सत्त्वं न कुत्रचित् ।।
प्रत्य­ग्या­था­त्म्य­सं­बुद्धौ न सत्त­न्ना­स­दु­च्यते ।। १७८ ।।

असाधारणमज्ञानं प्रतीच्येव यतः स्थितम् ।।
एत­त्प्र­मे­य­मे­वातः प्रमाणं नान्यदिष्यते ।। १७९ ।।

एवं प्रमे­य­सि­द्ध्यर्थं प्रवृ­त्तै­षो­त्तरा श्रुतिः ।।
क्रिया­का­र­क­रू­पेऽ­स्मि­न्व्य­व­हारे तमोन्वयात् ।।
अक्रियाकारकं वस्तु पारोक्ष्यान्नैव लभ्यते ।। १८० ।।

तद्ध्यदृष्टं सदज्ञानकार्यं स्रगिव पन्नगम् ।।
सर्वं बिभर्त्यसक्तं सदसक्तमिति च स्मृतेः ।। १८१ ।।

अपू­र्वा­द्या­त्मकं वस्तु यत्र साक्षा­त्प्र­सि­ध्यति ।।
तत्का­र्त्स्न्या­ल्ल­भ्यते तत्र व्यवहारो न मोहजः ।। १८२ ।।
यथा­सि­द्धा­नु­वा­देन पूर्वं नो ह्यभ्य­धा­त्स्फु­टम् ।। १८३ ।।

पदानीह तदर्थांश्च प्रसिद्धानेव लोकतः ।।
आदाय कर्मशास्रं तन्नि­षे­ध­वि­धि­वो­ध­कृत् ।। १८४ ।।

इतः परं वस्तु­त­त्त्व­प­री­क्ष­ण­कृ­त­क्षणा ।।
श्रुतिः प्रवृ­त्ताऽ­त­स्ता­व­त्प्र­मे­योऽ­र्थोऽत्र चिन्त्यते ।। १८५ ।।

संसा­रा­ख्य­म­हा­व्याधेः किं मूलमिति चिन्त्यते ।।
तद्ध्वस्तये चिकित्सेयं तदा फलवती भवेत् ।। १८६ ।।

ऊर्ध्वमूल इति तथा मन्त्रवर्णोऽपि विद्यते ।।
गीतास्वपि तथै­वै­त­दू­र्ध्व­मू­ल­मि­ती­र­णम् ।। १८७ ।।

अशेषानर्थमूलस्य प्रत्य­ग­ज्ञा­न­रू­पिणः ।।
ध्वस्तौ ध्वस्ति­र­न­र्थानां पुमर्थश्च समाप्यते ।। १८८ ।।

निर­स्ता­ति­श­या­न­न्द­रू­पता प्रत्यगात्मनः ।।
अथैष यो वै भूमेति श्रुत्यैव प्रतिपाद्यते ।। १८९ ।।

स्वत आन­न्द­या­था­त्म्या­त्कुतो दुःखेन संप्लुतिः ।।
तथाऽपि निह्नुते शास्रं न लिप्यत इतीरणात् ।। १९० ।।

अज्ञा­ता­त्मै­क­सं­सि­द्ध­बी­जा­व­स्थ­मिदं जगत् ।।
तदि­त्य­ने­ना­भ्य­धायि परो­क्षा­र्था­भि­धा­यिना ।। १९१ ।।

अव्याकृतस्य जगतो भूतकालाभिसंगतेः ।।
सुखावबुद्धये हेति निपातोऽत्र प्रयुज्यते ।। १९२ ।।

नामरूपादिविकृतं पराह्भानैकगोचरः ।।
सह­स्र­भे­द­व­त्सा­क्षा­दि­दमा जगदुच्यते ।। १९३ ।।

सामा­ना­धि­क­र­ण्यस्य तदिदंपदयोः श्रुतेः ।।
कार्य­का­र­ण­यो­र्नि­त्य­म­भे­दोऽ­ध्य­व­सी­यते ।। १९४ ।।

न क्रिया­का­र्य­वि­रहे कारणं सिध्यति क्वचित् ।।
निष्क्रियं कारणं चेत्स्या­त्त­द्व­न्नित्यं फलोत्थितिः ।। १९५ ।।

तयोश्च युगपद्भावे न स्यात्का­र­ण­नि­श्चितिः ।।
क्रिया­न्त­र­प्र­स­क्तेश्च तत्का­र्य­त्वेऽ­न­व­स्थितिः ।। १९६ ।।

कार्यं चाक्रियमाणं सन्न कार्यत्वं समश्नुते ।।
अकर्तृकं चेत्कार्यं स्यात्कारणं कार्यतां व्रजेत् ।। १९७ ।।

कार­ण­त्वा­न्स­द­न्यस्य कार्यत्वाच्च सतस्तथा ।।
अन्यो­न्या­व्य­ति­रे­काच्च कुतो नाशादिसंभवः ।। १९८ ।।

क्रिया वा तत्फलं वा स्यात्कारकं वा न किंचन ।।
निरन्वयोऽयं नाशः स्यादे­षा­म­न्य­त­मोऽपि न ।। १९९ ।।

क्रियायाः फलरूपेण ध्वस्ति­र्ना­व­स्थि­ते­र्भ­वेत् ।।
तेन तेन विशेषेण कारणं प्रथते सदा ।। २०० ।।

यता जन्मा­दि­क­र्तृ­त्वा­द्वीजं नैव विनश्यति ।।
नाशेऽपि तस्य नंष्ट्वत्वान्न नंष्टुः स्याद्विनाशिता ।। २०१ ।।

एवं चेन्न सतो नाशो नोत्प­त्ति­र­स­त­स्तथा ।।
अव्या­कृ­ता­भि­धा­नाच्च कार्यस्य स्यात्कदाचन ।। २०२ ।।

तत्त्व­बो­धा­ति­रे­केण न नाशोऽन्यो यथा तथा ।।
मह­ताऽ­ति­प्र­य­त्नेन ह्युदर्केऽपि प्रवक्ष्यते ।। २०३ ।।

नाम­रू­पा­द्य­भि­व्यक्तेः प्राक्तनः काल उच्यते ।।
तर्हीति ह्यन­भि­व्य­क्त­म­व्या­कृ­त­गि­रो­च्यते ।। २०४ ।।

अवि­द्या­क­र्म­सं­स्का­रा­स्ते­जो­प्क्ष्मा­सू­त्र­सं­श्रयाः ।।
खे लीना­स्त्व­स्ति­ता­मात्रा अव्यक्ताख्याः सहाऽऽत्मना ।। २०५ ।।

कार्यकारणभेदेन प्रपञ्चो यः पुरोदितः ।।
यश्चोर्ध्वं वक्ष्यते तस्मा­त्प­र­स्ता­दे­त­दु­च्यते ।। २०६ ।।

प्रथते वैश्वरूपेण यतोऽविद्यैव सर्वथा ।।
अवि­द्या­मा­त्र­या­था­त्म्या­द­त­स्त­द्धे­द­मु­च्यते ।। २०७ ।।

मा भूद्व्याकृतधीः पुंसां नाम­रू­पा­त्म­व­स्तुनि ।।
ऐका­त्म्य­व्य­क्ति­तोऽ­न्यत्र तस्मादेवेति गीरियम् ।। २०८ ।।

सामा­ना­धि­क­र­ण्यो­क्ति­र्व्य­क्त­स्या­व्य­क्त­सि­द्धये ।।
न हि कार्त्स्न्य­म­भि­व्य­क्ते­र्व्य­क्त­स्या­का­र्त्स्न्य­द­र्श­नात् ।। २०९ ।।

प्रमा­त्रा­दि­नि­षे­धेन श्रुत्याऽ­व्या­कृ­त­मु­च्यते ।।
तद्वि­त्ति­सा­ध­ना­भा­वा­त्कथं तदवगम्यते ।। २१० ।।

विधू­ता­शे­ष­सं­ब­न्ध­म­न­न्या­नु­भ­वा­त्म­कम् ।।
कूट­स्थ­सं­वि­न्मा­त्रैकं ब्रह्मा­स्मी­ति­स्व­भा­व­कम् ।। २११ ।।

अति­रो­हि­त­सं­वित्कं सदा­न­स्त­मि­तो­दि­तम् ।।
निःसा­मा­न्य­वि­शेषं तत्प्र­त्य­गा­त्मै­क­नि­ष्ठि­तम् ।। २१२ ।।

स्वतोऽवबुद्धं तद्य­स्मा­न्नि­र­वि­द्य­मतः सदा ।।
संग­ति­र्नि­र­वि­द्यस्य नावि­द्या­हे­तु­जै­र्मलैः ।। २१३ ।।

एवं­स्व­भा­व­म­प्ये­त­द­वि­ज्ञातं स्वभावतः ।।
तमो­वृ­त्त­म­पे­क्ष्यै­तन्न तु यद्वास्तवं स्वतः ।। २१४ ।।

स्वानु­भू­त्य­नु­सा­रेण यथो­क्तोऽ­र्थोऽ­व­सी­य­ताम् ।।
मान­हे­त्व­ति­व­र्ति­त्वा­न्नेह मात्रादिसंभवः ।। २१५ ।।

तस्मि­न्न­प­ह­त­ध्वा­न्तेऽ­प्य­विद्या स्वानुभूतितः ।।
स्वानुभूतिर्न वेद्मीति प्रागै­का­त्म्य­प्र­बो­धतः ।। २१६ ।।

ज्ञाता­त्म­तत्त्वो जानाति त्रिकालं तदसंभवम् ।।
अन्यतः संगतिः सेय­म­वि­चा­रि­त­सि­द्धिका ।। २१७ ।।

स्वभा­व­व्य­ति­रे­काभ्यां ध्वान्त­सि­द्धे­र­सं­भ­वात् ।।
न चेत्प्रमाणतः सिद्धि­र­स्या­व्या­कृ­त­रू­पिणः ।।
न चैका­त्म्य­स्व­भा­वेन कुत­स्त­न्मा­न­गो­चरः ।। २१८ ।।

तद्धे­द­मि­त्य­ने­नो­क्ति­र्व्या­कृ­ता­व्या­कृ­ता­त्मनोः ।।
प्रमा­ण­यो­ग्य­तै­वोक्ता न त्वैका­त्म्य­मि­ता­त्मता ।। २१९ ।।

अव्या­कृ­त­म­वि­ज्ञातं प्रमाणाविषयं मतम् ।।
प्रमा­णा­न­भि­सं­बद्धं प्रमाणाच्चेति साहसम् ।। २२० ।।

अवि­ज्ञा­ता­र्थ­ग­न्तृणि प्रमा­णा­नी­ति­वा­दि­नाम् ।।
सर्वे­षा­म­भ्यु­पे­तोऽर्थः कुतोऽसाविति चिन्त्यते ।। २२१ ।।

ज्ञातो वाऽर्थोऽ­थ­वाऽ­ज्ञात उभयं वा न चोभयम् ।।
प्रमाणानां प्रमेयः स्यात्स­र्व­मे­त­द्वि­चा­र्यते ।। २२२ ।।

मेय­मा­न­त्व­सं­भित्तौ न पश्यामोऽत्र साधनम् ।।
ज्ञात­स्या­व्य­ति­रे­कि­त्वा­द­ज्ञा­त­स्या­प्य­मा­नतः ।। २२३ ।।

जगत्यर्थो हि यः कश्चिज्ज्ञात एव स बुद्धिवत् ।।
मानादेव स विज्ञात इत्ये­त­त्स्या­त्कु­तोऽ­मितेः ।। २२४ ।।

माना­ति­रे­का­सं­सि­द्धे­र्मेय एव तथा न किम् ।।
न हि दीपान्तराद्दीपो भारूपत्वं प्रपद्यते ।। २२५ ।।

ज्ञात­रू­पा­ति­रे­केण नान्यद्रूपं समीक्ष्यते ।।
एवं चेन्मानतो मेयो विज्ञात इति का प्रमा ।। २२६ ।।

न चापर उपायोऽस्ति मेय­स­द्भा­व­सि­द्धि­कृत् ।।
माने­भ्य­स्त­त्फ­ला­सू­ते­र­न्ध­का­र­प्र­नृ­त्त­वत् ।। २२७ ।।

स्वत एव प्रसि­द्ध­श्चे­त्प्र­मे­योऽ­र्थ­स्त­थाऽपि न ।।
अन­न्या­य­त्त­सं­सि­द्धे­र्मे­यत्वं किंनिबन्धनम् ।। २२८ ।।

निःसाधनो न साध्योऽस्ति नासाध्यं साधनं क्वचित् ।।
तुल्यशक्तिमतां नापि मिथोपेक्षाऽस्ति कुत्रचित् ।। २२९ ।।

नासिद्धयोः स्वतोऽपेक्षा सिद्धयोश्चापि नेष्यते ।।
नापे­क्ष्या­पे­क्ष­कत्वं हि लोकेऽप्यतिशयं विना ।। २३० ।।

नापि सिद्धः स्वतोऽसिद्धं नृशृ­ङ्ग­व­द­पे­क्षते ।।
तथाऽसिद्धः स्वतः सिद्धं नात्य­न्ता­भा­व­रू­पतः ।। २३१ ।।

अपेक्षते चेत्सिद्धोऽसौ नासि­द्धोऽ­पे­क्षितुं क्षमः ।।
येनातोऽज्ञानतः सिद्धिं स्वतः­सि­द्धोऽ­प्य­पे­क्षते ।। २३२ ।।

विश्वेश्वरोऽपि प्राहै­त­त्प्र­प­न्नाय किरीटिने ।।
भावा­भा­व­त्व­म­ज्ञा­ना­द­त­द्व­त्येव कल्पिम् ।। २३३ ।।

नासतो विद्यते भावो नाभावो विद्यते सतः ।।
उभयोरपि दृष्टोऽ­न्त­स्त्व­न­यो­स्त­त्त्व­द­र्शिभिः ।। २३४ ।।

ज्ञेयं यत्त­त्प्र­व­क्ष्यामि यज्ज्ञा­त्वाऽ­मृ­त­म­श्नुते ।।
तथा न जायत इति विध्व­स्ता­शे­ष­क­ल्प­नम् ।। २३५ ।।

वासुदेवः सर्वमिति प्रत्य­क्ष­श्रु­ति­पू­र्व­कम् ।।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ।। २३६ ।।

सत्य­ज्ञा­ना­दि­रू­पस्य प्रत्यगात्मन एव च ।।
कारणत्वं सुविस्पष्टं श्रुतौ हि बहुशः श्रुतम् ।। २३७ ।।

अज्ञा­ता­त्मा­ति­रे­केण ब्रुवतः कारणं तथा ।।
सम्यग्ज्ञानान्न मुक्तिः स्यान्न ज्ञानं वस्तुनुत्कचित् ।। २३८ ।।

कर्मभ्योऽपि न मुक्तिः स्यात्कर्मापि न हि वस्तुनुत् ।।
तस्या­नि­त्य­फ­लो­त्पत्तौ प्रभ­वि­ष्णु­त्व­का­र­णात् ।। २३९ ।।

कूर्म­लो­मा­दि­व­च्चे­त्स्या­द­बु­द्धत्वं तथाऽपि वः ।।
स्वतः सर्वज्ञतैव स्यान्न वस्त्व­ज्ञा­त­मस्ति हि ।। २४० ।।

न च माना­त्प्र­सिद्धिः स्यात्कू­र्म­लो­मा­दि­व­स्तुनः ।। २४१ ।।
ज्ञाता­र्थ­व्य­ति­रे­केण मानानां मानता यतः ।।
मेया­र्था­प­ह्नु­तिश्च स्यान्ना­ज्ञा­त­मिति जल्पतः ।। २४२ ।।

ततश्च वेद­सि­द्धा­न्त­सं­त्यागः कारणादृते ।।
न भिद्यते प्रमेयोऽर्थो मानाद्येषां च वादिनाम् ।।
तेषां दुःश­क­म­त्य­न्त­म­बु­द्धा­र्था­व­बो­ध­नम् ।। २४३ ।।

ज्ञान­मे­य­प्र­भे­देऽपि मानस्य स्वार्थरूपिणः ।।
बोद्ध­रा­द्धा­न्त­सक्तिः स्यात्स्वा­र्थस्य क्षणिकत्वतः ।। २४४ ।।

स्वार्थं प्रत्येव संसिद्धेः परार्थस्येह वस्तुनः ।।
स्वप्ना­दि­व­द­ना­त्मार्थो मृषा स्यात्क्ष­णि­कोऽपि वा ।। २४५ ।।

न च सौग­त­सि­द्धा­न्त­स्त­त्सिद्धौ मित्यभावतः ।।
मेय­मा­नै­क­तोऽ­भा­वा­द­ज्ञा­त­त्वस्य तत्क्षणे ।। २४६ ।।

अथा­भ्यु­पे­य­तेऽ­ज्ञातः प्रमे­या­व्य­ति­रे­कतः ।।
एकत्रापि प्रमा­ण­त्व­प्र­सि­द्ध्यर्थं क्षणात्मनि ।। २४७ ।।

मानात्मकेऽपि मेयेऽर्थे यद्य­बु­द्ध­त्व­मि­ष्यते ।।
अज्ञा­त­त्वा­प­नु­न्मा­ना­त्कि­म­न्य­दिति कथ्यताम् ।। २४८ ।।

स्वतो वा परतो वेदमज्ञातत्वं भवद्भवेत् ।।
स्वत­श्चे­त्त­त्त­मो­व­त्स्या­ज्ज्ञा­तत्वं रज्जुसर्पवत् ।। २४९ ।।

अथा­न्य­त­स्त­द­ज्ञातं किंरूपं वस्त्वि­ती­र्य­ताम् ।।
मानादवगतं तच्चे­न्मै­व­म­व्य­ति­रे­कतः ।। २५० ।।

अन्व­य­व्य­ति­रे­काभ्यां यथोक्तोऽर्थः प्रसिध्यति ।।
ताभ्यां विना कुतोऽज्ञायि त्वेवं रूपमितीर्यताम् ।। २५१ ।।

न चेह वास्तवं रूपं तदध्यासेन बाध्यते ।
रज्जुसर्पधिया लोके न रज्जु­रि­ति­धी­हुतिः ।। २५२ ।।

स्वसं­वि­त्ति­त्व­मात्रे च न तमःसंभवः क्वचित् ।।
तथाऽभ्युपगमे तस्य नापनुत्तिः कुतश्चन ।। २५३ ।।

दुर्वलानां विरुद्धानां बल­व­द्भि­र­पा­क्रिया ।।
विरुद्धैरेव दृष्टा सा तदैकात्म्ये कथं भवेत् ।। २५४ ।।

बाध्य­बा­ध­क­यो­र्योगः स्वश­क्त्य­न­प­हा­रतः ।।
योऽन्यथा संगतिं ब्रूते चर्म­व­द्वे­ष्ट­येत्स खम् ।। २५५ ।।

न च जा़ड्यातिरेकेण ह्यविद्या काचिदिष्यते ।।
अविद्यां गमयित्वेति श्रुति­तोऽ­प्य­व­सी­य­ताम् ।। २५६ ।।

अज्ञातं न यथा माना­न्मि­थ्या­धी­सं­शयौ तथा ।।
न्यायः पुरोदितः सर्वो यस्मादस्ति तयोरपि ।। २५७ ।।

अपि सर्व­प्र­मा­णा­ना­म­ज्ञा­त­त्वा­दि­सि­द्धये ।।
नेक्ष्य­तेऽ­न्य­तमं मानं स्वतःसिद्धं न चापि तत् ।। २५८ ।।

न तावदिह संभाव्यं प्रत्यक्षं, तदसंभवात ।।
विष­ये­न्द्रि­य­सं­ब­न्ध­वि­र­हा­त्त­द­सं­भवः ।। २५९ ।।

न च दुःखा­दि­धी­व­त्स्या­ज्ज्ञा­त­स्यै­वा­नु­भू­तितः ।।
प्रत्य­क्षा­र्थ­व­दे­वैषा मिथ्या­धी­र­नु­भू­यते ।। २६० ।।

प्रत्यक्षादिफलं ज्ञानं कथं तस्य प्रमेयता ।।
माफलं न च मेयस्थं क्रिया­फ­ल­व­दि­ष्यते ।। २६१ ।।

अपि मानाभिसंबन्धो मेयार्थेनैव युक्तिमान् ।।
माफलस्य तु मात्रैव ह्यतोऽन्यत्र वृथा श्रमः ।। २६२ ।।

माफलस्य तु मेयत्वे प्राप्नो­ती­हा­न­व­स्थितिः ।।
प्रमा­फ­ला­भि­सं­बन्धः किंमान इति कथ्यताम् ।। २६३ ।।

इहापि चानवस्थेति नानुमाऽतोऽत्र युज्यते ।।
न च रागादिसंसिद्धौ मानव्यापार ईक्ष्यते ।। २६४ ।।

रागादेर्नापि चाभावो भावा­त्त­द­नु­भू­तितः ।।
न च कश्चित्फले भेदो मेयमानप्रमातृषु ।। २६५ ।।

मानकार्यं फलं चेत्स्यान्न स्यात्त­न्मा­तृ­मा­नयोः ।।
तदभावे च माभा­वा­त्कु­त­स्त­त्स्या­त्प्रमां विना ।। २६६ ।।

प्रमा­त्रा­दे­र­भावे च नाप्यभावः प्रमेष्यते ।।
सुषुप्ते, मातृ­पू­र्व­त्वा­त्स­र्व­मा­व्या­पृ­ते­रिह ।। २६७ ।।

न प्रत्य­क्षा­नु­मा­ना­भ्या­म­तोऽ­र्था­प­त्ति­तोऽपि न ।।
न हि दृष्टं श्रुतं वर्ते साऽर्थापत्तिः प्रसिध्यनि ।। २६८ ।।

सादृ­श्या­सं­भ­वा­च्चेह नोपमानस्य संभवः ।।
मिथ्या­ज्ञा­ना­दि­सं­सिद्धौ न चाभावोऽपि शङ्क्यते ।। २६९ ।।

अत्य­न्ता­पू­र्व­दृ­ष्टेऽर्थे प्राङ्ना­द्रा­क्ष­मिमं नगम् ।।
प्रत्यभिज्ञायते साक्षा­दृ­ष्ट­पूर्वो यथा तथा ।। २७० ।।

न च मात्रा­दि­स­द्भा­व­स्त­स्या­त्य­न्त­म­दृ­ष्टतः ।।
न प्रमाणान्न चाभा­वा­त्प्र­त्य­भि­ज्ञात इष्यते ।। २७१ ।।

तस्मा­त्प्र­मा­प्र­मा­भा­सा­प्र­मा­णा­ना­म­शे­षतः ।।
स्वार्था­न­न्य­प्र­मा­णा­त्स्या­त्प्र­सि­द्धि­स्त­म­स­स्तथा ।। २७२ ।।

आन्तरं मेयमाश्रित्य स्वतः­सि­द्ध­म­न­न्य­मम् ।।
भावा­भा­वा­दि­म­द्विश्वं सर्व­मे­त­त्प्र­सि­ध्यति ।। २७३ ।।

मेया­र्था­न­भि­सं­ब­न्धान्न यथावस्तुधीरियम् ।।
ज्ञात­त्वा­त्त­द­भा­वोऽपि, प्रत्य­क्ष्या­न्ने­ष्यते स्मृतिः ।। २७४ ।।

इदं रजतमित्येवंरूपं वस्तु न कुत्रचित् ।।
न न्नुक्तौ रजतज्ञानं नेदंता रजतेऽस्ति नः ।। २७५ ।।

तदन्यत्र द्वया­भा­वा­त्सा­क्ष्या­दा­वपि नेष्यते ।।
न चेहा­र्था­व­बो­धोऽस्ति मिथ्या­ज्ञा­न­त्व­का­र­णात् ।। २७६ ।।

मिथ्या­ज्ञा­ना­दि­सं­सिद्धौ क उपाय इतीर्यताम् ।।
सम्यग्धीतोऽथ तत्सिद्धिर्न, तस्या मेयसंगतेः ।। २७७ ।।

मेयप्रमामृते कार्यं मानानां नान्यदिष्यते ।।
न च सत्त्वा­दि­मा­त्रेण रूप्या­दि­मि­ति­सं­भदः ।। २७८ ।।

तस्या­सा­धा­र­णा­त्मो­त्थ­वि­ज्ञा­न­वि­ष­य­त्वतः ।।
तस्मा­द्र­ज­त­सं­स्का­र­सं­स्कृ­ता­त्स्वा­न्ततः स्मृतिः ।। २७९ ।।

प्रथ­तेऽ­वि­कृ­ता­त्मै­क­नि­त्य­दृष्टेः परात्मनः ।। २८० ।।
ज्ञान­ज्ञा­त्र­ति­रे­केण तमस्यपि न विद्यते ।।
मेयं वस्तु ततोऽज्ञानं प्रत्यक्षं सप्रमातृकम् ।। २८१ ।।

न हि संविदनारूढः प्रमात्रादिः प्रसिध्यति ।।
संवि­न्मा­त्रै­क­या­था­त्प्र­मा­त्रा­दे­र­ना­त्मनः ।। २८२ ।।

ज्ञातोऽ­य­म­र्थोऽ­ज्ञातो वा धीरियं कर्तृसंश्रया ।।
स्मृतिः, सा न यथावस्तु, नेता­सा­व­प्र­मो­दिता ।। २८३ ।।

न हि वस्त्व­नु­रो­ध्ये­त­ज्ज्ञा­ता­ज्ञा­त­त्व­ल­क्ष­णम् ।।
रूपं वस्त्व­प­रि­ज्ञा­न­स­मुत्थं ज्ञातृसंश्रयम् ।। २८४ ।।

ज्ञाता­ज्ञा­त­वि­भा­गोऽतः स्वतः­सि­द्धा­त्म­मा­तृकः ।।
संविदा ज्ञात­ता­सि­द्धि­र्मि­ते­रपि न मात्मना ।। २८५ ।।

वस्त्वज्ञातं समुद्धिश्य तत्प्रमित्सन्ति मानिनः ।।
ज्ञात­त्व­का­र्य­त­श्चातः सिद्धं तत्फलतोऽथवा ।। २८६ ।।

यतोऽ­ज्ञा­त­त्व­सं­सि­द्ध­र्ज्ञा­त­त्व­स्यापि चाञ्जसा ।।
तत एव च मानत्वं संविदर्ते न तत्र्रयम् ।। २८७ ।।

षष्ठ­गो­च­र­व­न्ने­द­म­ज्ञा­तत्वं, समीक्ष्यते ।।
न च प्रत्य­क्ष­व­स्तिद्धं, स्वानु­भू­ति­स­मा­श्र­यात् ।। २८८ ।।

प्रमा­त्रा­दि­वि­वि­क्ता­र्थ­म­नु­भू­यो­त्थि­त­स्ततः ।।
नावेदिपमिति प्राह स्वानु­भू­त्य­नु­सा­रतः ।। २८९ ।।

प्रमा­त्रा­द्यु­त्थितेः पूर्वं चिद­न्या­न­न्व­या­त्तमो -
विशेषणा चिदेवैका स्वानुभूत्यैव गम्यते ।। २९० ।।

आसीदिदं तमो­भू­त­म­प्र­ज्ञा­त­म­ल­क्ष­णम् ।।
अप्र­त­र्क्य­म­वि­ज्ञे­य­मि­त्ये­त­त्स्वा­नु­भू­तितः ।। २९१ ।।

प्रथते यः स्वयं साक्षा­द­ज्ञा­त­त्वा­दि­भू­मिषु ।।
स प्रमेयः स्वयंज्योतिः प्राक्प्र­सिद्धेः प्रमातृतः ।। २९२ ।।

एष एवानवगतः स्वतोऽ­व­ग­त­त­त्त्वकः ।।
एता­व­न्मा­त्र­सं­व्या­प्ते­र­ज्ञा­नादेः पुरा मितेः ।। २९३ ।।

यथेह घटविज्ञाने घटाकारोऽनुभूयते ।।
ज्ञातृ­त­त्सा­क्षिणौ चैवं नाज्ञाने साक्षिणोऽपरम् ।। २९४ ।।

अज्ञातत्वं न मानेभ्यो ज्ञातत्वं तत्कृतं यतः ।।
तैरप्यज्ञातता चेत्स्या­त्काऽ­ति­शी­ति­र्मि­ते­र्भ­वेत् ।। २९५ ।।

स्वानुभूत्यैव संसि­द्धे­र्ना­ज्ञातः खरशृङ्गवत् ।।
संवि­त्ते­र­प्य­सं­बो­धा­त्स्या­त्त­न्मा­न­व्य­पे­क्षिता ।। २९६ ।।

प्रत्य­क्ष­कु­म्भ­व­त्सा­क्षा­त्सु­षु­प्तेऽ­न­न्य­बो­ध­गम् ।।
आत्मा ह्यात्मा­न­मै­का­त्म्या­दा­त्मना वेत्त्यकारकः ।। २९७ ।।

पराक्प्रवणया दृष्ट्या धीस्थो ज्ञोऽज्ञा­न­मा­त्मनि ।।
व्योम­का­र्ष्ण्या­दि­व­त्तज्जं संभावयति न स्वतः ।। २९८ ।।

नैवाज्ञानं मृषाज्ञानं संश­य­ज्ञा­न­मी­क्ष्यते ।।
प्रत्यक्प्रवणया दृष्ट्या जाग्र­त्स्व­प्न­सु­षु­प्तिषु ।। २९९ ।।

न सुषु­प्त­ग­वि­ज्ञानं नाज्ञासिषमिति स्मृतिः ।।
काला­द्य­व्य­व­धा­न­त्वान्न ह्यात्म­स्थ­म­ती­त­भाक् ।। ३०० ।।

न भूत­का­ल­स्पृ­क्प्र­त्यङ्न चाऽऽगा­मि­स्पृ­गी­क्ष्यते ।।
स्वार्थदेशः परार्थोऽर्थो विकल्पस्तेन स स्मृतः ।। ३०१ ।।

न हि प्रत्य­क्ष­वि­ज्ञा­ना­द­ती­तत्वं समीक्ष्यते ।।
न चानागतता मेये मिथ्याज्ञानमतो भवेत् ।। ३०२ ।।

यत्तत्त्वकं स्याद्यद्वस्तु न तत्तदतिवर्तते ।।
नाज्ञातरज्जुजः सर्पो रज्जु­मु­ल्ल­ङ्घध्य वर्तते ।। ३०३ ।।

तस्मा­त्ति­सृ­ष्व­व­स्थासु ह्याग­मा­पा­यि­नी­ष्वजः ।।
स्वतोऽलुप्तदृशा यस्मा­दा­त्माऽऽ­त्मानं सदेक्षते ।। ३०४ ।।

देहान्तरेष्वपि तथा ह्यन्यो­न्य­व्य­भि­चा­रतः ।।
प्रत्यक्प्रत्यय एवैकः सर्व­त्रा­व्य­भि­चा­र­वान् ।। ३०५ ।।

चैतन्यमात्ररूपं सत्प्र­थ­तेऽ­ज्ञा­न­मा­त्मनि ।।
प्रत्य­क्कू­ट­स्था­नि­ष्ठ­त्वा­त्त­द्वाध्यं कारणेतरम् ।। ३०६ ।।

नैवं तत्स्या­त्स्व­का­र्येषु, तेषां ताद्रूप्यहेतुतः ।।
जडस्वभावतो नान्यद्रूपं कार्येषु गम्यते ।। ३०७ ।।

एवं चेत्कोऽ­न­यो­र्भेदः कार्य­का­र­ण­यो­र्मितेः ।।
अन्व­य­व्य­ति­रे­काभ्यां न जाड्यमतिवर्तते ।। ३०८ ।।

कार्य­का­र­ण­रू­पा­भ्या­म­त­द्व­त्त­त्त्विका ततः ।।
आत्माविद्यैव सर्वत्र प्रथते स्वात्मसाक्षिका ।। ३०९ ।।

नैवाऽऽत्मना स्वभावेन स्वात्मानं लभते जडः ।।
यतोऽतः स्वार्थदेशः स स्वार्थ­श्चा­न­न्य­सि­द्धिकः ।। ३१० ।।

स्वतोबुद्धे कुतोऽविद्या तामृते संसृतिः कुतः ।।
इति­बु­द्धा­त्म­त­त्त्वस्य गीरियं न तमस्विनः ।। ३११ ।।

यथो­च्छि­न्ना­त्म­मो­हस्य निह्नोतुरपि निह्नुतिः।।
एवं प्रागा­त्म­सं­बो­धा­द­द्व­यै­का­त्म्य­नि­ह्रुतिः ।। ३१२ ।।

काको­लू­का­नि­शे­वायं संसा­रोऽ­ज्ञा­त्म­वे­दिनोः ।।
या निशा सर्व­भू­ता­ना­मि­त्य­वो­च­त्स्वयं हरि ।। ३१३ ।।

तस्मान्न वास्तवं रूपं तद्ध्वा­न्ता­द्य­प­नो­द­कृत् ।।
तस्मिन्सत्येव मोहा­दि­व्यु­त्पत्तेः प्रागभूद्यतः ।। ३१४ ।।

प्रमा­णा­रू­ढ­मे­वै­त­द्ध­न्त्य­वि­द्या­द्य­शे­षतः ।।
ब्रह्मविद्भिरतो यत्ना­त्प्र­मा­ण­मिह संश्रितम् ।। ३१५ ।।

उताविद्वानिति तथा प्रश्नपूर्वं स्वयं श्रुतिः ।।
निर्णेनेक्ति स्फुटं वस्तु यथोक्तेनैव वर्त्मना ।। ३१६ ।।

आत्मा­सा­धा­र­णा­र्थो­त्थ­रू­प­मा­त्र­स­मा­श्र­यात् ।।
तन्मानमपि मानत्वं लभते, न तु केवलम् ।। ३१७ ।।

ताव­न्मा­त्रै­क­या­था­त्म्य­प्र­त्य­गा­त्म­त्व­का­र­णात् ।।
पराक्ष्विव न भेदोऽत्र मात्रादेः प्रत्यगात्मनि ।। ३१८ ।।

वचि­दा­भा­स­व­न्मो­ह­पृ­ष्ठे­नै­वैति कर्तृताम् ।।
टस्थोऽपि स्वतः प्रत्य­ङ्नाऽऽ­त्म­वृ­त्त­व्य­पे­क्षया ।। ३१९ ।।

सर्व­धी­वि­क्रि­या­सा­क्षि­ण्येवं सिद्धे स्वतो दृशौ ।।
कार्यं येऽनुभवं प्राहुर्वाच्यं तैः कार्यसाधनम् ।। ३२० ।।

न जायतेऽज इत्यादि विज्ञानघन इत्यपि ।।
कृत्स्न­पुं­वि­क्रि­यो­त्सारि वाक्यं कस्मा­दु­पे­क्ष्यते ।। ३२१ ।।

प्रमा­त्रा­द्यु­त्थितेः पूर्वं कारकं दुर्लभं मितेः ।।
तद­भा­वा­त्क्रि­या­भा­व­स्ता­मृते कार्यता कुतः ।। ३२२ ।।

एतच्चानुभवादेव भव­ताऽ­प्य­भ्यु­पे­यते ।।
कार­क­व्या­पृ­ति­स्तत्र निपुणेनापि नेक्ष्यते ।। ३२३ ।।

अकुर्वत्कारणं चेत्स्या­त्त­द्व­त्कार्यं सदा भवेत् ।।
कार्ये­त­रा­न­व­सितिः संभूतौ युगपत्तयोः ।। ३२४ ।।

विरु­द्धा­ने­क­का­र्या­णा­मे­क­स्मा­देव कारणात् ।।
अकुर्वतः प्रसक्तिः स्याद­कु­र्व­त्त्वा­वि­शे­षतः ।। ३२५ ।।

अथ कुर्वदभीष्टं तत्तत्कार्यं तर्हि भण्यताम् ।।
अकार्यं कारकमिति सुप्तो­न्म­त्त­प्र­भा­षि­तम् ।। ३२६ ।।

मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् ।।
इति श्रीमत्सुरेशस्य वाक्यमेवं समञ्जसम् ।। ३२७ ।।

प्रमेये च क्रियायां च प्रमाणेऽथ प्रमातरि ।।
तच्छ­क्त्यु­पा­धि­हे­तु­त्वा­ज्जा­य­मा­नेव चिद्ध्रुवा ।। ३२८ ।।

यथा सद्व्यतिरेकेण न किंचिद्वस्तु सिध्यति ।।
तद्वदव्यतिरेकेण घटा­भा­वा­द्य­सं­भ­वात् ।। ३२९ ।।

न हि सद्व्यतिरेकेण त्वसद्वस्त्वपि सिध्यति ।।
तस्यापि सद­पे­क्ष­त्वा­त्कि­म­न्य­त्स्या­त्सता विना ।। ३३० ।।

यथैवं संवि­द­र्तेऽ­स­न्नैति संभावनामपि ।।
सदप्यभावरूपं वा तद्वदव्यतिरेकतः ।। ३३१ ।।

अविद्या वाऽथ तत्कार्यं नाभे­दा­न्ना­ति­रे­कतः ।।
सिद्धायते यतोऽतः स्याद­वि­चा­रि­त­सि­द्धि­कम् ।। ३३२ ।।

नीलोत्पलदलाभं खं द्विरे­फो­द­र­व­त्तमः ।।
अवि­चा­रि­त­मि­द्ध्येवं तमस्तज्जं च वीक्ष्यताम् ।। ३३३ ।।

स्वमहिम्ना न संसि­ध्ये­त्स्व­तोऽ­न­व­ग­ता­त्म­कम् ।।
भावाभावौ न वस्त्वेति प्रत्याख्यातं यदात्मना ।। ३३४ ।।

तस्मादजायमानैव जायमानेव लक्ष्यते ।।
अनू­भू­ति­स्त­द­ज्ञा­न­हे­तू­त्था­ना­त्म­ज­न्मना ।। ३३५ ।।

तद्विनाशेऽषि तत्सा­क्ष्या­द्वि­न­श्य­न्तीव लक्ष्यते ।।
यतोऽतः कार्यतां तस्या नेश्वरोऽपि प्रसाधयेत् ।। ३३६ ।।

स्वात्म­सा­क्षि­कतां मुक्त्वा भावा­भा­वा­त्म­व­स्तुनः ।।
यतोऽसिद्धिरतः प्रत्य­ङ्नि­र­स्ता­खि­ल­वि­क्रियः ।। ३३७ ।।

कार्यं सर्वं यतो दृष्टं प्राग­भा­व­पु­रः­स­रम् ।।
तस्यापि संवि­त्सा­क्षि­त्वा­त्प्रा­ग­भावो न संविदः ।। ३३८ ।।

प्रमा­त्रा­द्य­ति­रे­केण ह्वसं­वि­दि­त­रू­प­कम् ।।
मेयं सिद्धमिहैवैतन्न वेदादन्यतः क्वचित् ।। ३३९ ।।

वस्तु­वृ­त्त­म­पे­क्ष्यै­तन्न स्वतः परतस्तमः ।।
तज्जं वा तत्तमोऽपेक्ष्य ह्यव्या­कृ­त­गि­रो­च्यते ।। ३४० ।।

चिदाभासं तमो ज्ञेयं, नाज्ञा­सि­ष­मि­ती­क्ष­णात् ।।
जग­ज्ज­नि­स्थि­ति­लया एवंभूते परात्मनि ।। ३४१ ।।

तमःप्रधानः क्षेत्राणां चित्प्र­धा­न­श्चि­दा­त्म­नाम् ।।
परः कारणतामेति भाव­ना­ज्ञा­न­क­र्मभिः ।। ३४२ ।।

यावत्कार्यगतं किंचिद्भावनादि समीक्ष्यते ।।
तमसा बीजभूतं तद्व्यज्यते संस्कृतेः पुनः ।। ३४३ ।।

तमो नियामकं यस्मा­त्स्व­का­र्याणां तदन्वयात् ।।
ऊर्ध्वं व्यक्तेः पुरा, चैव तदेवातो नियामकम् ।। ३४४ ।।

नियम्यं कार्यमापेक्ष्य नियन्तैष तमोवधिः ।।
तेष्वेव चित्स्वभावः सन्साक्षितां प्रतिपद्यते ।। ३४५ ।।

निगीर्णं सज्जलूकादि दुष्टं देशं यथाऽऽश्रयेत् ।।
भाव­ना­ज्ञा­न­क­र्माणि तथा यान्ति तमस्विनम् ।। ३४६ ।।

उत्प­त्ति­स्थि­ति­ना­शेषु कारणं नातिवर्तते ।।
कार्यं सर्वं यथा लोके तथे­हा­प्य­व­सी­य­ताम् ।। ३४७ ।।

कार्येष्वपि च सर्वेषु कर्तुत्वं यत्समीक्ष्यते ।।
अस्यैव तद्विजानीयादतः सर्वकृदुच्यते ।। ३४८ ।।

तत्तेज ऐक्षत इति तेजोदेहं सदेव तु ।।
उत्त­रो­त्त­र­का­र्याणां श्रुत्या स्रष्ट्ट­त­यो­च्यते ।। ३४९ ।।

तथा संव­र्ग­वि­द्या­या­म­प्राणः प्राणतां गतः ।।
अध्यात्ममधिदैवं च प्राण­वा­यु­त­यो­दितः ।। ३५० ।।

नामो­प­क्र­म­मा­शा­न्त­म­र­ना­भि­नि­द­र्श­नात् ।।
ओतप्रोतं जगत्सर्वं प्राण एवोपदिश्यते ।। ३५१ ।।

तथै­वाऽऽ­का­श­श­ब्देन तत्र तत्रैष एव तु ।।
तदेतत्सत्यमिति च सबीजः पर उच्यते ।। ३५२ ।।

प्राणो ह्येष सर्वभूतैरिति चाऽऽथर्वणे वचः ।।
प्राणबन्धनं सोम्येति सर्वकारणमुच्यते ।। ३५३ ।।

एष स्वकार्यं संश्रित्य नाना­भे­दा­न्प्र­प­द्यते ।।
स्वोत्सृ­ष्ट­तो­य­धा­रा­द्यै­र्वै­श्व­रूप्यं रविर्यथा ।। ३५४ ।।

प्राण­भू­ता­दि­ज­न्मैव जन्माऽऽत्मन इहोष्यते ।।
वियतोऽजन्मनो जन्म यथा कुम्भादिजन्मना ।। ३५५ ।।

एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।।
नाव्याकृतं परा­द­न्य­दा­ग­मा­द­व­ग­म्यते ।। ३५६ ।।

स्वकार्याण्येव संश्रित्य मृदसाधारणा यथा ।।
सामा­न्य­रू­प­ता­मेति स्वकार्यैः कारणं तथा ।। २५७ ।।

तदे­त­न्नि­त्य­म­ज्ञानं तज्ज­का­ला­द्य­ना­प्लुतेः ।।
सर्व­का­ला­नु­व­र्त्येव लोके नित्यमितीर्यते ।। ३५८ ।।

नित्य­स्या­नु­च्छि­त्ति­रिति चोद्यस्यापि न संभवः ।।
नित्या­ज्ञा­न­स­मु­च्छित्तौ यतः प्रामा­ण्य­मा­श्रि­तम् ।। ३५९ ।।

प्रमा­न्त­रै­र­वि­ज्ञातं प्रमेयं वस्तु भण्यते ।।
तत्त­त्त्व­मा­त्रगं तत्स्थ­ध्वा­न्त­नु­न्मा­न­मु­च्यते ।। ३६० ।।

आगन्तु चेदि­हा­ज्ञा­न­म­नि­र्मोक्षः प्रसज्यते ।।
पुरेवानागतं भूयो नैष्यतीत्यत्र का प्रमा ।। ३६१ ।।

कार्यकारणरूपेण द्वयो­र­व्य­ति­रे­कतः ।।
गुणप्रधानरूपेण कार्य­का­र­ण­गी­रि­यम् ।। ३६२ ।।

न कारणं विना कार्यं न कार्यं कारणं विना ।।
अन्यो­न्या­पे­क्षतः सिद्धे­र्वि­नाऽ­न्योन्यं न तद्वूयम् ।। ३६३ ।।

भाव­ना­ज्ञा­न­क­र्मादि कार्योत्पत्तेः प्रयोजकम् ।।
तद्भूतौ तद­भि­व्य­क्ते­स्त­त्स्वा­पेऽ­व्या­कृ­ता­त्मता ।। ३६४ ।।

स्वक­र्तु­रु­प­भो­गार्थं कर्मा­व्या­कृ­त­रू­प­कम् ।।
व्यक्तीभूतं प्रयुङ्के क्ष्माब­ग्न्यन्तं साधनत्रयम् ।। ३६५ ।।

वाय्वाकाशौ समाश्रित्य पूर्वेषां साधनात्मता ।।
त्रया­णा­म­प्य­त­स्तानि वाय्वाकाशौ प्रयुञ्जते ।। ३६६ ।।

प्रयो­ज­क­प्र­यो­ज्यत्वं कर्म­सा­ध­न­यो­र्भ­वेत् ।।
स्वस्वा­मि­भो­ग­सि­द्ध्य­र्थ­मेवं व्याकृततेष्यते ।। ३६७ ।।

व्यक्ति­र्नि­य­त­का­लैष जग­तोऽ­व्य­क्ता­रू­पिणः ।।
अन्तर्यामिकृता चैषा नान्यः संभाव्यते प्रभोः ।। ३६८ ।।

वायोरिव प्रवृत्तिः स्यात्तथा चैवोपसंहृतिः ।।
निर्नि­मि­त्ता­त्त­थै­वे­शा­ज्ज­ग­ज्ज­न्म­स्थि­ति­क्षयाः ।। ३६९ ।।

न प्रयोज्यो यदा भोगः स्वाम्यर्थः कर्मणस्तदा।।
हित्वा कर्माखिला व्यक्ती­र­वि­शे­षा­त्मतां व्रजेत् ।। ३७० ।।

अस्य द्वैते­न्द्र­जा­लस्य यदुपादानकारणम् ।।
अज्ञानं तदुपाश्रित्य ब्रह्म कारणमुत्यते ।। ३७१ ।।

अज्ञा­न­मा­त्रो­पा­धि­त्वा­द­वि­द्या­मु­पि­ता­त्मभिः ।।
कौट­स्थ्या­न्नि­र्द्व­योऽ­प्यात्मा साक्षी­त्य­ध्य­स्यते जडैः ।। ३७२ ।।

ज्योतिषामपि तज्ज्यो­ति­र­स­द्धी­प­रि­मो­ष­णात् ।।
तमो­रू­पा­मि­वाऽऽ­भाति भानु­र्न­क्तं­दृ­शा­मिव ।। ३७३ ।।

मोहतत्कार्यनीडं यत्कू­ट­स्था­भा­स­रू­प­कम् ।।
ज्ञानं तदविनाभूतः परः साक्षीति भण्यते ।। ३७४ ।।

इदं तत्सर्ववेदेषु यथा­भू­ता­र्थ­वि­त्तये ।।
सदे­वे­त्या­दि­भि­र्वाक्यैः कारणं ब्रह्म गीयते ।। ३७५ ।।

सर्वज्ञः सर्वशक्तिश्च सर्वात्मा सर्वगो ध्रुवः ।।
जग­ज्ज­नि­स्थि­ति­ध्वं­स­हे­तु­रेष सदेश्चरः ।। ३७६ ।।

यः पृथि­व्या­मि­ती­शोऽ­सा­व­न्त­र्यामी जगद्गुरुः ।।
हरिर्ब्रह्या पिनाकीति बहुधैकोऽपि गीयते ।। ३७७ ।।

कूटस्थस्य न साक्षित्वं द्विती­या­सं­ग­ते­र्भ­वेत् ।।
नाशिनोऽपि न साक्षित्वं नाशे­ना­व्य­ति­रे­कतः ।। ३७८ ।।

अज्ञानमात्रहेतौ तु सर्व­मे­त­त्स­म­ञ्ज­सम् ।।
कर्तृ­त्वा­द्य­न्य­था­ज्ञा­न­हे­तु­त्वा­दा­त्म­रू­पिणः ।। ३७९ ।।

प्रत्यग्रूपस्य स्थास्रु­त्वा­ज्ज्ञा­तु­र्मो­हेन चान्वयात् ।।
कूटस्थस्यापि साक्षि­त्व­मा­ग­मा­पा­यिनं प्रति ।। ३८० ।।

आत्मा­त्म­व­त्त्व­सं­बन्ध आत्मा­त्मा­ज्ञा­न­यो­र्मतः ।।
परोऽविवेको भूता­ना­मा­त्माा­वि­द्येति कथ्यते ।। ३८१ ।।

ईशादिविषयान्तं यत्त­द­वि­द्या­वि­जृ­म्भि­तम् ।।
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।।
इति वेद­शि­रः­सू­क्ति­स्तथा चोद्घुष्यते स्फुटा ।। ३८२ ।।

दैवी ह्येषा गुणमयी मम मायेति च स्मृतिः ।।
वैष्णवी खल्वियं मायेत्यपि लोकेऽपि गीयते ।। ३८३ ।।

मानान्तरानधिगतं मेयं तावन्निरूपितम् ।।
स्वानु­भू­त्य­नु­सा­रेण प्रत्य­ड्म­त्र­स­त­त्त्व­कम् ।। ३८४ ।।

एतन्निदानमधुना मिथ्याज्ञानं निरूप्यते ।।
यतो बिभ्यति भूतानि संसा­रा­न­र्थ­ल­क्ष­णात् ।। ३८५ ।।

यदेव नित्यमज्ञानं मिथ्याज्ञानं तदेव तु ।।
कारणेतररूपेण तयोरव्यभिचारतः ।। ३८६ ।।

हेत्व­न्त­रा­न­पेक्षं सत्त­द­व्या­कृ­त­रू­प­कम् ।।
व्यक्ततां स्वयमेवैति, निमित्तं नास्त्यसंहृतम् ।। ३८७ ।।

सुषु­प्ता­दु­त्थिती राज्ञः स्वयमेव यथा तथा ।।
जग्धा­शे­ष­ज­ग­न्मू­र्ते­र­व्य­क्ता­द्व्या­कृ­ति­र्मुहुः ।। ३८८ ।।

अनिश्चिता यथा रज्जुरिति न्यायोपबृंहितम् ।।
स्फुटार्थं गौडपादीयं वचोऽर्थेऽत्रैव गीयते ।। ३८९ ।।

तदिदं नाम­रू­पा­भ्या­म­ना­म­क­म­रू­प­कम् ।।
एवं व्याक्रि­य­ता­ज्ञा­न­हे­तु­मा­त्र­व्य­पा­श्र­यात् ।। ३९० ।।

अभि­धा­ना­कृ­ति­र्ना­म­श­ब्दे­ने­हा­भि­धी­यते ।।
अभि­धे­या­कृ­ति­स्त­द्व­द्रू­प­मि­त्यु­प­दि­श्यते ।। ३९१ ।।

एवं द्वाभ्यां प्रकाराभ्यामीशो व्याकृतजन्मनाम् ।।
व्यवहाराय पर्याप्तो न त्वव्यक्तात्मना यतः ।। ३९२ ।।

नाम्नः सामान्यमात्रस्य त्वसाविति समीरषम् ।।
विशेषनाम्ना संयोज्य देव­द­त्ता­दि­नो­त्यते ।। ३९३ ।।

तदूद्रूपस्य सामान्यं रूप­मि­त्यु­प­दि­श्यते ।।
तदुपात्तविशेषं सच्छु­क्ल­कृ­ष्णा­दि­नो­च्यते ।। ३९४ ।।

एवे­त्य­व­धृ­ता­वे­त­दा­त्म­वृ­त्त­व्य­पे­क्षया ।।
आत्मा­वि­द्या­स­मु­त्था­भ्या­मेव व्याक्रियते परः ।। ३९५ ।।

न तु विध्व­स्त­निः­शे­ष­प्र­त्य­ग­ज्ञा­न­त­द्भव -
सामा­न्य­भे­दै­का­त्म्या­ख्य­त­द­न­न्य­प्र­मा­त्मना ।। ३९६ ।।

आदावव्याकृतं तत्त्वं नाम­रू­प­क्रि­या­त्मना ।।
स्वयं तद्व्या­कृ­ति­म­गा­द्य­थै­तर्हि तथैव तत् ।। ३९७ ।।

नाम­रू­पा­भ्या­मे­वेति न समुच्चयनिश्चितौ ।।
सम­स्त­व्य­स्त­रू­पाभ्यां लोकेऽपि व्याकृतिर्यतः ।। ३९८ ।।

जातितो बधिरस्येह व्यक्तिः स्याद्रू­प­मा­त्रजा ।।
जात्यन्धादेश्च नाम्नैव तथा चोभयथाऽप्यसौ ।। ३९९ ।।

अज्ञा­ता­त्मै­क­हे­तूनां मिथो­पे­क्षा­त्मनां श्रुतौ ।।
नेयत्ताऽस्तीह तत्त्वा­ना­मा­न­न्त्यान्न क्रमस्तथा ।। ४०० ।।

प्रक्रियानियमो नापि पुंव्यु­त्प­त्ति­प्र­धा­नतः ।।
प्रति­श्रु­ति­वि­गी­तिश्च प्रक्रियाणां समीक्ष्यते ।। ४०१ ।।

यया यया भवेत्पुंसां व्युत्पत्तिः प्रत्यगात्मनि।।
सा सैव प्रक्रियेह स्यात्साध्वी सा चानवस्थिता ।। ४०२ ।।

उद्भू­ति­स्थि­ति­हा­नीनां न कचित्संभवो यथा ।।
मुख्यां वृत्तिं समाश्रित्य तथोदर्केऽपि वक्ष्यते ।। ४०३ ।।

न जायते जन्यते वा नापि हन्ति न हन्यते ।।
तमः­सं­वृ­त­दृ­ष्टीनां पाड्वि­का­रा­दि­वी­क्ष­णम् ।। ४०४ ।।

यदर्थं सर्वशास्राणां प्रवृ­त्ति­र­ति­वि­स्तरा ।।
आत्म­ज्ञा­ना­व­ता­रार्थः सर्व­शा­स्र­स­मु­द्यमः ।। ४०५ ।।

विरोधः सर्वशास्राणां स्वाभि­धे­य­व्य­पे­क्षया ।।
निवृ­त्त्य­र्थेऽ­वि­रो­धि­त्वा­दत एतत्समीरितम् ।। ४०६ ।।

स्वत एव यतः पुंसां प्रवृत्तिः स्वार्थ­सि­द्धये।।
तत्रानुवादि शास्रं स्यान्नि­वृ­त्ता­वेव तन्मिति ।। ४०७ ।।

अपि वात्स्या­य­ना­दीनां शास्रा­णा­मु­क्त­हे­तुतः ।।
प्रामा­ण्य­म­वि­रुद्धं स्यादै­का­त्म्य­ज्ञा­न­ज­न्मने ।। ४०८ ।।

प्रवर्तमानः पुरुषः शास्रो­द्दी­पि­त­व­र्त्मना ।।
प्रवृत्तिविषयं दुष्टं दृष्ट्वाऽतो विनिवर्तते ।। ४०९ ।।

अनि­त्य­दुः­ख­शू­न्यत्वं पदार्थानां ब्रुवन्स्फुटम् ।।
बुद्धोऽपि रागापुच्छित्तौ यतते नाऽऽत्मनिहुतौ ।। ४१० ।।

त्याग एव हि सर्वेषां मोक्ष­सा­ध­न­मु­त्त­मम् ।।
त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम् ।। ४११ ।।

एकवाक्यत्वतो यद्वा ऐका­त्म्य­ज्ञा­न­ज­न्मने ।।
वेदशास्रस्य कृत्स्नस्य तथा पूर्वमवादिषम् ।। ४१२ ।।

प्रमाणानि च शास्राणि तत्प्रामाण्यं न चान्यतः ।।
अज्ञा­ता­त्मा­व­बो­धि­त्वा­त्तथा पूर्वमवादिषम् ।। ४१३।।

यस्मिं­श्चा­वि­द्य­या­ध्यासः संसा­रा­न­र्थ­ल­क्षणः ।।
स्वाभाविक्या कृतो मिथ्या शुक्त्यादौ रजतादिवत् ।। ४१४ ।।

ननु सामा­न्य­वि­ज्ञा­न­वि­शे­षा­ज्ञा­न­सं­श्र­यात् ।।
जात­रू­प्य­स्मृ­ते­र्लोके मिथ्याज्ञानं प्रसिध्यति ।। ४१५ ।।

यत्राध्यासो यदध्यस्तं भेदसिद्धौ तयोर्मृषा ।।
ज्ञानं जगति संसिद्धं सा चैका­त्म्येऽ­ति­दु­र्लभा ।। ४१६ ।।

सम­स्त­व्य­स्त­मै­कात्म्यं येपां चापास्तभेदकम् ।।
चोद्यमेतत्समानं स्यादुभयोरपि पक्षयोः ।। ४१७ ।।

न नः परि­हृ­ते­ना­र्थ­श्चो­द्ये­ना­नेन कश्चन ।।
प्रत्य­ङ्भो­है­क­हे­तु­त्वा­त्स­र्वा­न­र्थ­मृ­षा­मतेः ।। ४१८ ।।

अज्ञानमेव वाध्यं नो मानस्येह यतस्ततः ।।
तच्चो­द्य­प­रि­हा­रोऽतः क्रियते नाफलत्वतः ।। ४१९ ।।

मिथ्या­ज्ञा­ना­ति­रे­केण नान्य­द­ज्ञा­न­मि­ष्यते ।।
येषां तान्प्रति चोद्यं स्यान्न त्वज्ञा­ता­त्म­वा­दि­नाम् ।। ४२० ।।

नन्व­ज्ञा­न­म­व­स्तु­त्वा­त्कथं संसारकारणम् ।।
मिथ्याज्ञानस्य वस्तु­त्वा­त्त­दे­वा­स्त्विह कारणम् ।। ४२१ ।।

तथाच युक्ति­म­द्य­त्ना­न्म­ह­द्भि­रपि भाषितम् ।।
अप्रामाण्यं पुनस्रेधेत्यत एतत्सुसंस्थितम् ।। ४२२ ।।

किं भोः सदपि मानेन वस्तु साक्षा­न्नि­र­स्यते ।।
तस्मिन्निरस्ते किं शेषं यस्मिन्मानस्य मानता ।। ४२३ ।।

व्यञ्ज­क­त्वा­त्प्र­मा­णानां मेया­भि­व्य­क्ति­तोऽ­प­रम् ।।
कार्यान्तरं न संभाव्यं नितरां वस्त्वपाक्रिया ।। ४२४ ।।

मिथ्याज्ञानं कथं वस्तु न हि मिथ्येति वस्तु सत् ।।
मिथ्या तद्वस्तु चेत्यु­क्ति­र्म­ह­ता­मेव शोभते ।। ४२५ ।।

स्वतोऽपि यदि सा वस्तु रज्ज्वां सर्पादिका मतिः ।।
रज्ज्वात्मना तथाऽ­पी­य­म­व­स्त्वे­वात्र वाध्यते ।। ४२६ ।।

मिथ्याज्ञानस्य कार्यत्वाक्तिं तत्का­र­ण­मु­च्य­ताम् ।।
अकारणं सत्कार्यं चेडिम्भकैरपि हस्यते ।। ४२७ ।।

रागादिकारणं चेत्स्या­त्कार्यंं सत्कारणं कथम् ।।
अवस्त्वपि च वस्त्वेव वस्तु­रू­पा­त्त­द­न्यतः ।। ४२८ ।।

उपा­त्त­मे­य­रू­पत्वं मानानां सत्यतोच्यते ।।
तद्वलेनैव मेयस्थं घ्नन्ति मोहादि नान्यतः ।। ४२९ ।।

तद्विपर्ययतो मिथ्या सर्वं मोहादि भण्यते ।।
वस्त्वसाधारणं रूपं मोहादेर्न प्रमीयते ।। ४३० ।।

न च वस्तु सतत्त्वं तद्वाधात्तस्य प्रमाणतः ।।
मेयप्रबोधनं मुक्त्वा न मितेः सत्यताऽन्यतः ।। ४३१ ।।

कारकाणां हि सत्यत्वं स्वका­र्या­पे­क्ष­ये­ष्यते ।।
इतोऽन्यथा तत्सत्यत्वं निष्फलं न च लभ्यते ।। ४३२ ।।

यद्वस्तु स्वात्मनैवास्ति तत्परार्थं न बोधवत् ।।
पारार्थ्येनैव सद्यच्च तत्प­र­स्मा­द्धि­रुङ्न सत् ।। ४३३ ।।

सर्व­म­न्या­न­पेक्षं सदीक्ष्यमाणं स्वमात्रया ।।
स्वात्म­रू­पा­त्पृ­थ­ग्रपं न वस्तू­त्प्रे­क्ष्य­तेऽ­ण्वपि ।। ४३४ ।।

आत्मनैव स्वभावेन वस्त्वात्मानं विभर्ति हि ।।
नाऽऽत्मनो विद्यतेऽपेक्षा वस्तु­नोऽ­न्य­स­मा­श्रया ।। ४३५ ।।

तस्मा­द­वि­द्या­सं­भूतं नानात्वं प्रत्यगात्मनि ।।
ब्रह्मास्मीति हि तद्ध्वंसान्न कचिद्भेदधीर्यतः ।। ४३६ ।।

मित्यु­त्प­त्ता­व­नु­त्प­त्ति­र्वि­रो­धा­द्बा­ध्यते यतः ।।
तद्बाधे नाप्य­पे­क्षाऽस्ति मिथ्याधीबाधनं प्रति ।। ४३७ ।।

मिथ्याधियोऽपि बाध्य­त्व­म­ज्ञा­नै­क­स­म­न्व­यात् ।।
मूलध्वस्तौ हतं तच्चे­न्मि­थ्याधीः किं करोति नः ।। ४३८ ।।

मेय­रू­पा­नु­रो­धित्वं मिथ्या­सं­श­य­यो­र्यदि ।।
सम्य­ग्ज्ञा­ना­त्त­यो­र्भेदो गम्यतां केन हेतुना ।। ४३९ ।।

अज्ञानं संशयत्वान्नो मिथ्या­ज्ञा­ना­त्त­थैव च ।।
तयो­स्त­त्त्व­वि­व­क्षा­या­म­ज्ञानं तत्त्वमुच्यते ।। ४४० ।।

अज्ञात एव यद्यत्र ज्ञाते तस्मिन्न तद्भवेत् ।।
सर्व­त्रा­सि­द्धि­रू­प­त्वा­न्मि­थ्या­ज्ञा­न­मिदं मतम् ।। ४४१ ।।

मिथ्याज्ञानस्य वस्तुत्वं येनैव स्यात्सदात्मना ।।
अज्ञानस्यापि तेनैव सत्यत्वं केन वार्यते ।। ४४२ ।।

रज्जुसर्पो यथा रज्ज्वा सात्मकः प्राग्विवेकतः ।।
अवस्तु सन्नपि ह्येष इति पूज्यैरपीरितम् ।। ४४३ ।।

स्वतस्तु सत्यता साक्षा­न्नो­भ­यो­रपि विद्यते ।।
अवि­चा­रि­त­सि­द्धि­त्वान्न स्वतः परतोऽपि ते ।। ४४४ ।।

तदे­वा­नु­प्र­वि­श्येति तत्त्वं यत्पारमार्थिकम् ।।
सच्च त्यच्चादिकां भित्तिं मोहात्प्रापदिति श्रुतिः ।। ४४५ ।।

न चापि त्रयसद्भावे मिथ्याज्ञानं जगत्यपि ।।
मोह­मा­त्र­प्र­यु­क्त­त्वान्न सामा­न्या­त्स्मृ­तेश्च तत् ।। ४४६ ।।

सामा­न्या­न्त­र­नि­र्मुक्तं तथाऽसाधारणैरपि ।।
असा­मा­न्य­त्व­मे­वैति शौक्ल्य­म­न्या­न­पे­क्षतः ।। ४४७ ।।

न चेदं स्मरणाज्जातं नापि सामान्यहेतुजम् ।।
शुक्लस्य गृह्य­मा­ण­त्वा­त्पु­रो­दे­शा­व­ल­म्बिनः ।। ४४८ ।।

एवं प्रत्यक्ष एत­स्मि­ञ्शु­क्ति­को­द­र­व­र्तिनि ।।
तद्वि­रु­द्ध­म­भू­ज्ज्ञानं रजताभमबोधजम् ।। ४४९ ।।

अप्रत्यक्षं मतं येषां ज्ञानं तान्प्रति भण्यते ।।
इदं रज­त­मि­त्ये­त­ज्ज्ञानं शुक्तौ कुतोऽन्वभूत् ।। ४५० ।।

विशि­ष्टा­कृ­ति­दे­शे­हा­का­ल­धर्मं प्रतीयते ।।
शुक्तिकाज्ञानतो नर्ते वस्त्वी­दृ­क्सा­ध्य­तेऽ­न्यतः ।। ४५१ ।।

असा­धा­र­ण­ध­र्मोत्थो न साधारणकारणः ।।
रजतं शुक्ति­के­त्या­दि­व्य­प­दे­शोऽ­प्र­सि­द्धितः ।। ४५२ ।।

न चेह राजता धर्माः कुतो ज्ञानं तदाकृति ।।
न ह्याका­र­म­ना­लिङ्ग्य ज्ञान­मा­का­र­व­त्क्व­चित् ।। ४५३ ।।

शुक्ति­का­नु­वि­धा­यि­त्वा­न्नेदं स्मर्त­व्य­सं­श्र­यम् ।।
अना­लि­ङ्गि­त­बा­ह्यार्था बुद्धावेव स्मृतिर्यतः ।। ४५४ ।।

धर्मादिहेतुकं येऽपि परिणामं प्रचक्षते ।।
सम्यग्ज्ञानेऽपि तुल्य­त्वा­द­ना­श्वा­स­स्तथा सति ।। ४५५ ।।

भूत­का­लो­प­ल­ब्धोऽर्थः स्मृते­श्चे­द्गो­चरो मतः ।।
नासौ भूता­त्म­नाऽ­ज्ञायि भूत­ज्ञा­न­म­ना­श्र­यम् ।। ४५६ ।।

स्वोत्प­त्ति­व्य­ति­रे­केण ज्ञानकालोऽपि नेष्यते ।।
अगत्वरं सद्विज्ञानं भूतार्थं ढौकते कथम् ।। ४५७ ।।

अवि­लु­प्ता­र्थ­वि­ज्ञानो यद्या­त्माऽ­भ्यु­प­ग­म्यते ।।
सर्वेषां सर्व­बि­ज्ञा­ना­त्स­र्व­ज्ञत्वं भवेद्ध्रुवम् ।। ४५८ ।।

आश्रि­ता­श्र­य­सं­बन्धः कार्यकारणयोः स्मृतः ।।
वर्तमानात्मगं ज्ञानमतीतार्थं स्पृशेत्कथम् ।। ४५९ ।।

सम्यग्ज्ञानेऽपि चास्त्ये­त­त्र्रयं यद्भवतेरितम् ।।
प्रत्यभिज्ञाय तदिदमज्ञातं वस्त्ववैति हि ।। ४६० ।।

तथा सति मृषाज्ञानं सर्वत्रैव प्रसज्यते ।।
मुक्त्वैकं प्रत्यगात्मानं, न तत्रास्ति त्रयं यतः ।। ४६१ ।।

यस्मिन्सत्येव यत्कार्यं न भवेदेव चासति ।।
तत्स्वकार्ये स्वत­न्त्र­त्घा­दु­च्यते कारणं बुधैः ।। ४६२ ।।

स्वत आका­र­व­त्किं­चि­त्प­र­त­श्चापि दृश्यते ।।
शुक्ति­मृ­त्स्फ­टि­का­द्येवं ज्ञातं किं नाभ्युपेयते ।। ४६३ ।।

नापि व्यभि­च­रे­ज्ज्ञानं यदि स्मर्त­व्य­पृ­ष्ठ­गम् ।।
साक्षा­द्व­स्त्वे­क­नि­ष्ठ­त्वा­द्य­थेयं शुक्तिकामतिः ।। ४६४ ।।

न च प्रत्य­क्ष­वि­ज्ञा­ना­त्स्मृ­ते­र्भेदं लभेमहि ।।
प्रध्वंसात्तस्य चार्थस्य नातोऽ­र्थ­स्प­र्शिनी स्मृतिः ।। ४६५ ।।

किं त्वेतदिति जिज्ञा­सो­र्नि­षि­द्धेऽ­प्य­न्य­था­ग्रहे ।।
तावतो व्यव­धा­न­त्वा­द्गु­भुत्सा च न युज्यते ।। ४६६ ।।

शुक्तिकेयमिति ह्युक्ते यथार्थं प्रतिपद्यते ।।
रज­ता­द्य­न्य­था­ज्ञा­न­प्र­ति­षे­धा­दृ­तेऽपि हि ।। ४६७ ।।

नीलोत्पलदलाभं खं सामा­न्ये­त­र­व­र्जि­तम् ।।
न पश्ये­यु­स्र­या­स­त्त्वान्न हि तच्चाक्षुषं यतः ।। ४६८ ।।

दिग्वि­भा­गा­दि­व­द्व्योम प्राग्यानं च रवौ तथा ।।
स्वप्ने नाना­प्र­प­ञ्चाढ्यं मिथ्याज्ञानमृते त्रयात् ।। ४६९ ।।

यत एवमतो ग्राह्यं शुक्ति­का­ज्ञा­न­मेव तु ।।
रज­ता­द्य­न्य­था­ज्ञा­न­का­रणं युक्तिगौरवात् ।। ४७० ।।

कर्म­ज्ञा­ना­दि­हे­तु­त्वा­न्नि­य­मस्य यथा तव ।।
सामा­न्या­द्य­वि­शे­षेऽपि निय­मोऽ­प्ये­व­मि­ष्य­ताम् ।। ४७१ ।।

भूरि­सा­मा­न्य­वि­ज्ञा­ना­च्छौ­क्ल्य­मेध करोति किम् ।।
सद­प्य­न्य­दु­दास्ते किं स्वाश्रयग्रहणं प्रति ।। ४७२ ।।

अने­का­र्था­भि­सं­ब­न्धा­च्छौ­क्ल्यस्य रजते च कः ।।
पक्षपातो विना हेतुं बलाकाज्ञानकृन्न किम् ।। ४७३ ।।

स्वाका­र­मा­त्र­नि­ष्प­त्ते­र्नालं कार्यान्तराय हि ।।
सामान्यं वा विशेषो वा नातः स्याद्राजती स्मृतिः ।। ४७४ ।।

न ह्यसंनिहितं बोद्धुर्वस्तु बुद्धौ करोति हि ।।
ज्ञान­मा­का­र­व­ल्लोके सर्वा­का­र­प­स­क्तितः ।। ४७५ ।।

पदा­र्था­न्त­र­स­द्भा­व­म­पे­क्ष्या­न्यस्य वस्तुनः ।।
यस्य सिद्धिर्मृषा तत्स्या­द्र­ज्जु­स­र्प­द्वि­च­न्द्र­वत् ।। ४७६ ।।

प्रमात्रादीह यत्किं­चि­त्प्र­त्य­ग­ज्ञा­न­हे­तु­जम् ।।
अन्यो­न्या­पे­क्ष­सि­द्धि­त्वा­न्मिथ्या तदपि पूर्ववत् ।। ४७७ ।।

आत्म­न्य­ध्या­स­रू­पोऽयं संसारः प्रतिपादितः ।।
अध्यासश्च विना हेतुं न लोक उपपद्यते ।। ४७८ ।।

तस्मा­द्धे­तू­प­दे­शाय यः कारणमितीर्यते ।।
यस्मि­न्न­वि­द्य­ये­त्येवं ननु कारणमीरितम् ।। ४७९ ।।

प्रधा­न­वा­द­मा­शङ्क्य यस्माद्भूयोऽपि भण्यते ।।
अज्ञात आत्मा जगतः कारणं न गुणत्रयम् ।। ४८० ।।

श्रुतितो युक्तितश्चापि स्वयमेव प्रवक्ष्यति ।।
उदर्क इममेवार्थं नातोऽन्यत्कारणं ततः ।।। ४८१ ।।

यदात्मके नामरूपे इत्यज्ञानात्मता तयोः ।।
भण्य­तेऽ­तोऽ­प्र­मा­णत्वं शुक्ति­का­र­ज­ता­दि­वत् ।। ४८२ ।।

न कार­णा­ति­व­र्त्यस्ति कार्यं जगति कुत्र चित् ।।
स्वका­र­णा­वि­शि­ष्टत्वे सलि­ला­दि­ति­हे­तुगीः ।। ४८३ ।।

वस्तुवृत्तं न पर्याप्तं तद­ज्ञा­ना­प­नु­त्तये ।।
अनुपात्तप्रमाणं सदि­त्य­र्थ­प्र­ति­प­त्तये ।। ४८४ ।।

स्वतो बुद्धमिदं यस्मादतः शुद्धमसद्दूयम् ।।
द्विती­य­सं­ग­ति­र्य­स्मा­ल्लो­केऽ­शुद्धेः प्रयोजिका ।। ४८५ ।।

यथोक्ततत्त्वे नाविद्यामृते स्याहूयसंगतिः ।।
अतोऽ­शु­द्घि­नि­षे­धो­क्ति­स्त­द­वि­द्या­नि­षे­धतः ।। ४८६ ।।

ईश्व­रा­व्या­कृ­त­प्रा­ण­वि­रा­ङ्भू­ते­न्द्रि­या­दि­कम् ।।
नाविद्योपाश्रयं मुक्त्वा संभाव्यं प्रत्यगात्मनि ।। ४८७ ।।

प्रत्य­ग्या­था­त्म्य­दृष्ट्या तन्निपुणोऽपि न वीक्षते ।।
न च प्रत्यग्धियं मुक्त्वा परा­ग्बु­द्धि­र्मि­ति­र्भ­वेत् ।। ४८८ ।।

पराञ्चि खानीत्येतच्च साटोपमभिधीयते ।।
प्रत्य­ड्भा­नै­क­मे­यत्वं वेदा­न्ते­ष्वा­त्म­व­स्तुनः ।। ४८९ ।।

इतो विरुद्धमानत्वं स्वतो­पा­स्त­द्व­या­त्मनः ।।
शक्यं वैश्वा­न­र­व­रा­त्प्र­वक्तुं, न तु मानतः ।। ४९० ।।

नित्यशुद्धश्च बुद्धश्च यस्मादात्मा परः स्वतः ।।
मुक्त­श्चा­तोऽ­व­से­योऽसौ सद्वे­दा­न्तो­क्ति­मा­निना ।। ४९१ ।।

एवं­भू­तोऽ­प्य­सं­बु­द्ध­स्वा­त्म­तत्त्वो महेश्चरः ।।
आपेदे कारणात्मत्वं नामरूपादिसर्जने ।। ४९२ ।।

स एष इत्यनेनापि सुवि­रु­द्धा­त्मतां ब्रुवन् ।।
विरु­द्ध­ब­स्तु­सं­सृष्टि ब्रूतेऽ­ज्ञा­नै­क­का­र­णम् ।। ४९३ ।।

व्याकुर्वन्निति वाक्येन स्वतो ज्ञोऽपि तमोन्वयात् ।।
ब्रह्मा­दि­स्त­म्ब­प­र्यन्तं कार्यं प्राविशदुच्यते ।। ४९४ ।।

स्वानु­भू­त्य­नु­रो­धेन योऽज्ञातार्थः पुरोदितः ।।
प्रकृ­ता­र्था­व­ले­हि­त्वा­त्स­र्व­नाम्ना स उच्यते ।। ४९५ ।।

परामृश्य स इत्ये­व­म­व्या­कृ­त­स­त­त्त्व­कम् ।।
तथारूपः स्वकार्यस्थः प्रात्य­क्ष्या­देष उच्यते ।। ४९६ ।।

विरु­द्ध­रू­प­यो­रेवं निर्द्व­य­द्व­य­रू­षतः ।।
स एष इति निर्देशः कथं स्यात्कृ­ष्ण­स­र्प­वत् ।। ४९७ ।।

कारणान्नान्यतः कार्यं तथा कार्याच्च कारणम् ।।
इत्यु­क्त­न्या­य­हे­तु­त्वान्न विरोधोऽत्र कश्चन ।। ४९८ ।।

अज्ञा­त­व­स्तु­त­त्त्वस्य दुष्करं नास्ति किंचन ।।
नीलीकृतं नभः पश्येच्चक्षुषा नीलवस्त्रवत् ।। ४९९ ।।

योग्या­यो­ग्य­व्य­पे­क्षेयं मानव्यवहृतौ भवेत् ।।
कल्प­ना­मा­त्र­नि­ष्प­त्ते­र्ना­पे­क्षाऽ­ज्ञा­न­भू­मिषु ।। ५०० ।।

इत्यु­क्त­प्र­ति­प­त्त्यर्थं हेतु­रे­षोऽ­भि­धी­यते ।।
प्रविष्ट इत्यनेनात्र स्वाभा­सै­क­त­मो­न्व­यात् ।। ५०१ ।।

ब्रह्मा­दा­वि­त्य­ने­नापि जनि­म­त्स­र्व­मु­च्यते ।।
कृत्स्न­सं­सा­र­ध­र्मार्थे देहेष्विति च भण्यते ।। ५०२ ।।

ब्रह्मा­दि­स्त­म्ब­प­र्यन्तं देहेष्विति तथोच्यते ।।
क्रिया­फ­ला­भि­सं­बन्धो देहेष्वेवेति नाऽऽत्मनि ।। ५०३ ।।

प्रत्य­ङ्भो­ह­म­रु­द्बु­द्धि­च­क्षु­र्दे­हा­दि­रू­पि­णाम् ।।
प्रवि­ष्ट­व­च­सै­कात्म्यं गुण­प्रा­धा­न्य­मु­च्यते ।। ५०४ ।।

न ढौकते पराचीनं प्रत्य­क्त्वा­स­ङ्गतः परः ।।
नेहाज्ञानमनादाय ह्यात्माऽ­ना­त्मा­न­मी­क्षते ।। ५०५ ।।

स्थाण्व­ज्ञा­न­म­ना­दाय न चोरादीक्षणं यथा ।।
आत्मा­ज्ञा­न­म­ना­दाय तद्व­न्ना­ना­त्म­वी­क्ष­णम् ।। ५०६ ।।

येनान्वितोऽयं संसारी सुषुप्ते कर्मणः क्षयात् ।।
तत्स्वा­भा­व्या­व­शेषः स्यात्त­त्का­र्य­त्वा­द्ध­टा­दि­वत् ।। ५०७ ।।

स्वात्मा­भा­स­प्र­वेशो यः प्रत्य­ड्भो­ह­नि­ब­न्धनः ।।
तज्जेष्वपि स एव स्यान्म­रु­द्बु­द्ध्या­दि­रू­पिषु ।। ५०८ ।।

पयो­म्भो­व­त्सू­त्र­रूपं क्रिया­वि­ज्ञा­न­श­क्ति­मत् ।।
कर्तृस्थभावकं स्थास्रु चलं कर्मस्थभावकम् ।। ५०९ ।।

बुद्ध्या­त्म­नोऽ­भि­नि­र्व­त्ति­र्व्य­व­सा­या­त्म­न­स्ततः ।।
हिरण्यगर्भं यं प्राहुरुपादानं जगद्धियाम् ।। ५१० ।।

वैराजं स्थानमासाद्य क्ष्मादि­दे­श­वि­भा­ग­वान् ।।
देवताकरणो देव एष एवोच्यते विराट् ।। ५११ ।।

तथा च मन्त्रवर्णोऽत्र ह्यग्नि­र्मू­र्धेति दृश्यते ।।
तदुपादानमात्राः स्युर्देवताः स्वाभिमानजाः ।। ५१२ ।।

आधिभौतिकभूतानां तथै­वा­ध्या­त्म­रू­पि­णाम् ।।
पूर्वोक्तानां परिच्छेदो ह्यवि­द्या­का­म­क­र्मभिः ।। ५१३ ।।

सूत्रा­दि­स्था­णु­प­र्यन्तं जग­त्सृ­ष्ट्वाऽऽ­त्म­मा­यया ।।
स्वाभा­सै­क­स­हा­यात्मा तदेव प्राविशद्धरिः ।। ५१४ ।।

ननु व्याक्रि­य­ते­त्युक्तं स्वयमेव जगत्पुरा ।।
कर्म­क­र्त्रु­क्ति­तोऽ­क­स्मा­त्कथं कर्ताऽभिधीयते ।। ५१५ ।।

परात्मनः प्रवेशोऽपि न्यायं संगच्छते न च ।।
नेहासौ प्रकृतो यस्मादतो नासौ प्रवेशभाक् ।। ५१६ ।।

नैष दोषः परस्यापि ह्यव्य­क्त­ज­ग­दा­त्मना ।।
विव­क्षि­त­त्वा­दा­क्षि­प्त­नि­य­न्त्रा­द्य­भि­धी­यते ।। ५१७ ।।

इदंशब्दाभिधानेन ह्येका­धि­क­र­ण­श्र­वात् ।।
अव्या­कृ­त­प­द­स्यातो यथो­क्तोऽ­र्थोऽत्र युज्यते ।। ५१८ ।।

इदं जगा­न्नि­य­न्त्रा­दि­वि­भि­न्ना­ने­क­रू­प­वत् ।।
यथाऽधुना निश्चिनुमः प्राग­प्ये­त­द­भू­त्तथा ।। ५१९ ।।

नाम­रू­पा­द्य­भि­व्यक्तेः प्राग्व्य­क्ता­प­ह्न­वेऽ­प्य­भूत् ।।
अव्यक्ताध्यक्ष एकाकी व्यक्तं यत्साक्षिकं जगत् ।। ५२० ।।

जग­ज्ज­नि­स्थि­ति­ध्वं­स­नृ­त्त­सा­क्ष्य­ति­रे­कतः ।।
शिष्टस्येह प्रवे­श्य­त्वा­त्पर एवाऽऽविशेदतः ।। ५२१ ।।

विवक्षातश्च शब्दानां प्रयोगो जगतीक्ष्यते ।।
यथा ग्रामा­दि­श­ब्दानां तथे­हा­प्य­व­सी­य­ताम् ।। ५२२ ।।

निवासश्च निवासी च तथा चोभयमुच्यते ।।
ग्रामशब्देन लोकेऽ­स्मिं­स्त­थे­हापि जगद्गिरा ।। ५२३ ।।

कचिदात्मैव निर्दे­श्योऽ­ना­त्मैव कचिदुच्यते ।।
तथोभयविवक्षाऽपि व्याकृ­ता­व्या­कृ­तो­क्तितः ।। ५२४ ।।