अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥संबंधभाष्यवार्तिकम् ॥ (७)

नर्ते विभागं संबन्धः प्रती­चाऽ­ना­त्म­नोऽस्ति हि ।।
प्रत्य­ग­र्थोऽ­वि­भा­गात्मा नातः संगच्छते द्वयम् ।। ९७४ ।।

अतो दुःस्थि­त­सि­द्ध्ये­त­त्प­रा­ग्व­स्त्व­न्त­रा­त्मनि ।।
ताव­न्मा­त्रै­क­या­था­त्म्या­द्बु­द्ध्यादे रज्जुसर्पवत् ।। ९७५ ।।

पराक्तयैष ज्ञातोऽपि प्रत्य­ग्या­था­त्म्य­हे­तुतः ।।
अनात्माऽज्ञात एव स्याच्छु­क्ति­का­रू­प्य­बो­ध­वत् ।। ९७६ ।।

निर्धारणे वा षष्ठीयं ज्ञेया­र्थ­स्या­व­धा­र­णात् ।।
प्रतीचो ह्यन­धि­ग­ता­न्ना­न्योऽ­न­धि­गतो यतः ।। ९७७ ।।

ज्ञातोऽपि तद्व­दे­वा­स्मा­न्नाऽऽ­त्मनो विद्यते परः ।।
प्रत्य­ग­ज्ञा­न­हे­तु­त्वा­त्त­द­न्य­स्येह वस्तुनः ।। ९७८ ।।

अनात्मनोऽस्य सर्वस्य व्याकृ­ता­व्या­कृ­ता­त्मनः ।।
यस्मादात्मा परं तत्त्वं पदनीयमतो भवेत् ।। ९७९ ।।

खण्डादौ गोत्व­व­द्य­स्मा­त्प्र­त्य­ग्दृ­ष्ट्याऽ­न्त­रा­त्मनि ।।
समीक्ष्यते हिरुङ्गनापि तेना­सा­वा­त्म­त­त्त्वकः ।। ९८० ।।

ज्ञेय आत्मैव नानात्मा पदनीयत्वकारणात् ।।
नन्वन्यज्ञाने नान्यस्य कचि­द­स्त्य­व­बु­द्धता ।। ९८१ ।।

सत्यमेवं भवे­दे­त­द्य­द्या­त्माऽ­प्यन्य इष्यते ।।
आत्माऽसावन्य इति च नानुन्मत्तस्य गीरियम् ।। ९८२ ।।

अनेनेति तृती­ये­य­मि­त्थं­भू­ता­र्थ­ल­क्षण ।।
इदं­धी­श­ब्द­ग­म्यस्य प्रत्य­ङ्भा­त्र­स­त­त्त्वतः ।। ९८३ ।।

घटो नास्तीति कोऽन्व­स्मा­न्मा­ना­दर्थः प्रतीयते ।।
संवि­त्ता­व­द­शे­षेभ्यः प्रमा­णे­भ्योऽ­व­सी­यते ।। ९८४ ।।

न संविदः पृथक्त्वेन नापि संविदि तद्धिया ।।
अना­त्म­व­स्तू­त्प्रक्ष्यं स्याद्यथा संविदियं स्वतः ।। ९८५ ।।

उपलब्धोऽस्ति सन्कुम्भो लम्बोष्ठो देशकालवान् ।।
पूर्व­पू­र्वा­ति­रे­केण नोत्त­रा­र्थोऽ­नु­भू­यते ।। ९८६ ।।

कर्त्रा­दि­व्या­पृतेः पूर्वं संवि­त्स्वा­त्म­न्य­व­स्थितेः ।।
अवि­भा­गा­द­ना­ख्येया तदुद्भूत्य फलायते ।। ९८७ ।।

अक्रियेऽपि यथा व्योम्नि द्युत्प­त्ति­स्थि­ति­हा­निभिः ।।
जगन्ननर्ति मय्येवं सद­स­द्वि­श्व­रू­प­भृत् ।। ९८८ ।।

नञ्घ­टा­र्था­व­प­ह्नुत्य संवि­त्स­द्रू­प­मा­त्रया ।।
अवगत्यात्मना सत्त्वं सर्व­दृ­क्स्या­द­वि­क्रियः ।। ९८९ ।।

दिग्वि­भा­गोऽ­वि­भा­गेऽपि व्योम्नि यद्व­त्प्र­क­ल्पितः ।।
प्रध्व­स्ता­शे­ष­भे­देऽपि मयि भिन्नधियस्तथा ।। ९९० ।।

कथं पुन­र­बो­धो­त्थ­क्लृ­प्तो­पा­येन नत्परम् ।।
गम्यते सत्यमित्यस्य परिहृत्यै परं वचः ।। ९९१ ।।

पर­मा­र्था­त्म­नाऽ­सत्यं पदं तदपि बोधकम् ।।
स्वार्थ­स्यै­व­मु­पा­य­त्व­म­स­त्य­स्याऽऽ­त्म­नी­क्ष्य­ताम् ।। ९९२ ।।

उपायसत्यतां मुक्त्वा नान्या­दृ­श्यु­प­यु­ज्यते ।।
सत्यताऽत्र ह्युपा­या­ना­मु­पेये किं तयेष्यते ।। ९९३ ।।

गवादिखुरिबिम्वो वा पद­मि­त्यु­प­दि­श्यते ।।
अन­न्वि­ता­र्थ­सि­द्ध्यर्थं दृष्टान्तोऽयं तथा सति ।। ९९४ ।।

गवा­दि­बो­ध­नि­र्वृत्तिः पद­त­ज्ज्ञा­न­हे­तुतः ।।
अन­न्वि­त­प­द­ज्ञा­न­गो­पि­ण्डै­का­व­सा­यिनी ।। ९९५ ।।

यथैवं नाम­रू­पा­दि­प्र­प­ञ्चो­पा­य­हे­तुतः ।।
अप्रपञ्चात्मके भूम्नि प्रत्यग्बोधः प्रजायते ।। ९९६ ।।

प्रमा­ण­भू­मा­वै­कात्म्यं विरोधान्न प्रतीयते ।।
तमो­न्व­या­प्र­मे­य­त्वा­त्त­द­भा­वेऽपि नेक्ष्यते ।। ९९७ ।।

न हि वस्त्वा­त्म­नै­वाऽऽ­त्म­मो­हा­द्यु­च्छि­त्तये कचित् ।।
प्रमाणनिरपेक्षं सद्वस्त्वलं स्वप्रसिद्धये ।। ९९८ ।।

संसारानवतारः स्यान्मा­न­वै­फ­ल्य­मेव च ।।
इत्येतस्येह चोद्यस्य परिहाराय चोत्तरम् ।। ९९९ ।।

यथा गवात्मना साक्षाद्गां विन्दे­द्गो­प­दा­नुगः ।।
प्रत्य­क्चै­त­न्य­सृ­त्यैवं विन्देत्तत्परमं पदम् ।। १००० ।।

प्रत्यक्तया यदाभाति ह्याग­मा­पा­यि­सा­क्षितः ।।
देहे­न्द्रि­य­म­नो­धीषु चैत­न्या­भा­स­रू­प­कम् ।। १००१ ।।

जडेष्वेकमनेकेषु कूटस्थं क्षणभङ्गिषु ।।
अनात्मसु तथा चाऽऽत्मा संह­ते­ष्व­प्य­सं­हतः ।। १००२ ।।

तस्या­वा­क्या­र्थ­रू­पस्य पद­मे­त­त्प्र­च­क्षते ।।
पद्यतेऽनेन तद्य­स्मा­त्ते­नेदं पदमुच्यते ।। १००३ ।।

स्वमहिम्नैव चेत्सि­ध्ये­दु­पायः परमार्थवत् ।।
स्वतः सिद्धेर्न मिथ्यात्वं तस्य स्यात्प­र­मा­र्थ­वत् ।। १००४ ।।

पर­मा­र्था­द­भि­न्न­श्चे­न्नि­त­रा­म­मृ­षा­त्मता ।।
इत्यादि पूर्वमुक्तं यदनुसंधेयमत्र तत् ।। १००५ ।।

न सामान्यं विशेषो वा यथै­का­त्म्येऽ­व­ग­म्यते ।।
उक्त­म­प्यु­त्त­र­त्रै­त­द­सं­तो­षा­त्प्र­व­क्ष्यते ।। १००६ ।।

प्रत्यगात्मनि विज्ञाते नाज्ञा­त­म­व­शि­ष्यते ।।
अनेन ह्येत­दि­त्युक्त्या तत्पू­र्व­मु­प­व­र्णि­तम् ।। १००७ ।।

निःशे­ष­पु­रु­षा­र्था­प्ति­र्दुः­ख­हा­निस्तु तत्फलम् ।।
यथा हेत्युच्यते श्रुत्या साध­ना­भि­न्न­मा­त्मनः ।। १००८ ।।

ननु प्रतीचि विदिते तदन्यद्विदितं भवेत् ।।
ज्ञानार्थे प्रकृते कस्मा­ल्ला­भा­र्थे­नो­प­सं­हृतिः ।। १००९ ।।

ज्ञान­ला­भा­र्थ­यो­र्य­स्मा­दे­का­र्थत्वं विवक्षितम् ।।
अवि­द्या­ध्वं­स­मा­त्र­त्वा­त्ते­ना­त्रा­स्त्व­वि­रु­द्धता ।। १०१० ।।

नित्य­ल­ब्धै­क­रू­पस्य नाला­भोऽ­ज्ञा­न­तोऽ­न्यतः ।।
यथैवं तस्य लाभोऽपि तज्ज्ञा­ना­न्ना­न्यतो भवेत् ।। १०११ ।।

आत्मता ब्रह्मणो लाभो ब्रह्म­ताऽ­प्या­त्मनः फलम् ।।
व्याव­र्त्य­भे­दा­त्त­द्भि­त्ते­रेकं वस्तु द्विरुच्यते ।। १०१२ ।।

ब्रह्मता नाऽऽत्म­नोऽ­न्यत्र नाऽऽत्मता ब्रह्मणोऽन्यतः ।।
यत एवमतोऽभेदो ज्ञान­ला­भा­र्थ­यो­रिह ।। १०१३ ।।

लब्धृ­ल­ब्ध­व्य­यो­र्भेदो यत्रा­वि­द्यो­त्थ­भू­मिषु ।।
फलभेदः क्रिया­भे­दा­त्तत्र भिन्नार्थता तयोः । १०१४ ।।

आप्ता­शे­ष­पु­म­र्थोऽपि प्रत्य­ग्या­था­त्म्य­मो­हतः ।।
असर्वज्ञो भवेदात्मा तथाऽनाप्तार्थ एव च ।। १०१५ ।।

तत्राऽऽत्मा लब्धाऽ­वि­द्वा­न्स्या­ल्ल­ब्धव्यं च क्रियाफलम् ।।
उत्प­त्त्या­द्य­न्त­रायं सत्का­र­को­पा­त्ति­पू­र्व­कम् ।। १०१६ ।।

तादृ­ग्ल­ब्धोऽ­प्य­लब्धः स्याद­वि­द्या­मा­त्र­हे­तुतः ।।
आद्य­न्त­यो­र­भा­वाच्च स्वप्न­पु­त्रा­दि­ला­भ­वत् ।। १०१७ ।।

विपरीतस्वभावोऽत आत्मलाभः स्वतः सदा ।।
अज्ञा­न­हे­तो­र­न्या­दृक्स च ज्ञाना­न्नि­व­र्तते ।। १०१८ ।।

आरभ्य सर्वं वेदेति ज्ञाना­र्थे­नो­प­सं­हृ­तिम् ।।
अतोऽ­नु­वि­न्दे­दि­त्याह लाभार्थेनैव तत्फले ।। १०१९ ।।

अप्रख्यातो यथैवाऽऽत्मा व्याकृते ख्यातिमेयिवान् ।।
एवं तदवबोधान्ना ख्याति­मे­त्य­वि­न­श्व­रीम् ।। १०२० ।।

संह­ति­श्च­क्षु­रा­दीनां श्लोकशब्देन भण्यते ।।
यथाऽऽत्मा संहतिं प्रापद्व्याकृतः करणादिभिः ।। १०२१ ।।

एवं विद्वानवाप्नोति पुत्रा­मा­त्या­दि­सं­ह­तिम् ।।
उक्त­ज्ञा­न­प्र­वृ­त्त्य­र्थ­म­र्थ­वा­दोऽ­य­मि­ष्यते ।। १०२२ ।।

निरेषणानां नेदृग्धि संसारं प्रजिहासताम् ।।
फलं युक्तं प्रवृ­त्त्य­ङ्ग­म­र्थ­वादो भवेदतः ।। १०२३ ।।

कीर्ति चैका­त्म्य­वि­ज्ञानं श्लोकं चैका­त्म्य­सं­ग­तिम् ।।
यथो­क्त­व­स्तु­वे­द्ये­त­त्फ­ल­मा­प्नो­त्य­भी­प्सि­तम् ।। १०२४ ।।

अव्या­कृ­त­व्या­क­रणं प्रत्य­ग्द­र्श­न­सि­द्धये ।।
तद­न्त­रा­य­स्त­त्स­क्ति­स्त­न्नि­वृत्तौ परा श्रुतिः ।। १०२५ ।।

शब्दा­दि­ब­डि­शा­कृ­ष्ट­चे­तसः प्रत्यगीक्षणे ।।
न सामर्थ्यं यतस्तेभ्यो व्यावृत्त्यर्थं परा श्रुतिः ।। १०२६ ।।

हेत्वन्तरोपदेशो वा पदनीयत्व आत्मनः ।।
तदेतदितिशास्रेण भण्यते तद्वुभुत्सवे ।। १०२७ ।।

सांख्य­मु­क्ति­नि­वृ­त्त्य­र्थ­म­थ­वाऽ­स्तू­त्तरा श्रुतिः ।।
प्रेयो­गि­राऽऽ­त्मनो यस्मा­न्नि­ष्ठाऽऽ­न­न्दस्य भण्यते ।। १०२८ ।।

पुत्रात्प्रेय इदं तत्त्वं वित्ता­त्प्रि­य­तरं तथा ।।
पुत्रो वित्तं च लोकेऽपि प्रसिद्धं प्रियरूपतः ।। १०२९ ।।

ईयसुंस्तमवर्थे स्यात्पु­त्रा­दीनां बहुत्वतः ।।
छान्द­स­त्वा­त्प्रि­य­त­म­स्त­थाऽऽत्मा संभवत्यपि ।। १०३० ।।

वित्तात्पुत्रः प्रियः पुत्रात्पिण्डः पिण्डा­त्त­थे­न्द्रि­यम् ।।
इन्द्रियेभ्यः प्रियः प्राण आत्मा प्रियतमस्ततः ।। १०३१ ।।

वित्तं द्विविधमप्यत्र वित्तशब्देन गृह्यते ।।
देवलोकः फलं यस्मा­द्दे­व­स्यापि न तत्पदम् ।। १०३२ ।।

प्रीति­सा­ध­न­हे­तु­त्वा­त्प्रा­णादौ प्रीतिरिष्यते ।।
बन्ध­की­प्री­ति­व­न्मुख्या नैवानात्मसु युज्यते ।। १०३३ ।।

व्याध्या­द्यु­प­प्लुतो यस्माद्वक्ति निर्विण्णमानसः ।।
अद्यैव मरणं श्रेयो मम दुःखा­र्दि­ता­त्मनः ।। १०३४ ।।

प्रतीचि निर्निमित्तैव सर्वा­व­स्था­स्व­पी­ष्यते ।।
प्रीति­र­ग्न्यु­ष्ण­व­त्त­स्मा­दात्मा प्रेयामननात्मनः ।। १०३५ ।।

त्रैगु­ण्या­त्स­र्व­भा­वानां मोह­दुः­ख­सु­खा­त्मता ।।
स्वत एव त्वनध्यस्ता ह्येवं केचित्प्रचक्षते ।। १०३६ ।।

तत्तु नैवं यतः सत्त्वं मोहा­दि­त्र­य­कृ­द्धियः ।।
भानूदयं प्रप­श्या­म­श्चो­र­दृ­ग्रो­गि­दि­ग्दृ­शाम् ।। १०३७ ।।

समं त्रयं त्रिषु भवेन्त्रैगुण्यं चेद्रवौ मतम् ।।
गुणा­न्त­रा­धि­का­रोऽपि न च भानूदये मतः ।। १०३८ ।।

प्रमा­णै­र्गृ­ह्यते प्रीति­र्व्य­भि­चा­रि­ण्य­ना­त्मसु ।।
रज्ज्वां सर्पादिवन्नैवं प्रत्यगात्मनि सेक्ष्यते ।। १०३९ ।।

आत्मैव प्रिय इत्यत्र हेतुः स्पष्टोऽभिधीयते ।।
श्रुत्याऽ­न्त­र­त­रो­क्त्येह तद्धे­तु­श्चाऽऽ­त्म­तो­च्यते ।। १०४० ।।

यथाऽन्तरतमः प्रत्य­क्त­थो­दर्के प्रवक्ष्यते ।।
वाच­क्न­व्य­क्ष­रा­न्तेन ग्रन्थेन प्रत्यगात्मनः ।। १०४१ ।।

प्रत्य­क्ताऽ­न्या­न­पेक्षा हि तद­न्य­त्त­द­पे­क्षया ।।
यतोऽन्तरतमः प्रत्य­ङ्त्क­स्मा­दे­वा­व­ग­म्यते ।। १०४२ ।।

यस्य त्वष्टा­स्व­व­स्थासु प्रत्यक्त्वं सममिष्यते ।।
तस्यान्तरतम इति दुर्घटं वचनं भवेत् ।। १०४३ ।।

अन्यू­ना­धि­क­रू­पासु त्वष्टा­व­स्था­स्वि­हाऽऽ­त्मनः ।।
कं विशेषं समश्रित्य ह्यात्माऽ­न्त­र­तमो मतः ।। १०४४ ।।

भाक्तैवानात्मसु प्रीति­र्य­स्मा­त्त­स्मा­द­ना­त्मनः ।।
व्युत्थाप्य निखिलां प्रीतिं प्रतीच्येव निवेशयेत् ।। १०४५ ।।

एवं व्यवस्थितौ सत्यां युक्ति­ले­शोऽ­भि­धी­यते ।।
पुत्रादि प्रियमात्मेति द्वयो­र्वि­व­द­मा­नथोः ।। १०४६ ।।

आत्म­नोऽ­न्य­त्प्रि­य­मिति यो ब्रूते मोहसंप्लुतः ।।
ब्रुवाणं तं प्रति ब्रूयादिति श्रुत्यनुशासनम् ।। १०४७ ।।

यस्ते प्रियतयाऽभीष्टः सोऽचि­रा­द्दुः­ख­कृ­द्भ­वेत् ।।
यतो नङ्क्ष्यति स क्षिप्रं नश्यं­श्चा­सु­ख­कृ­त्प्रियः ।। १०४८ ।।

यथो­क्त­स्या­वि­सं­वादं तत्तथैवेति च श्रुतिः ।।
आत्मैव प्रिय इत्येवं प्रतिज्ञां प्रत्यभाषत ।। १०४९ ।।

यस्मादेवमतो हित्वा प्राणा­दी­न­प्रि­या­त्मनः ।।
सर्वा­न्त­र­त­मा­त्मा­न­मु­पा­सीत प्रियं सदा ।। १०५० ।।

स य आत्मा­न­मि­त्युक्त्या प्राप्त­दो­ष­नि­रा­क्रिया ।।
प्रमायुक्त्वं मर्त्य­त्वा­त्प्रा­णा­देर्न तु वार्यते ।। १०५१ ।।

व्यावृ­त्त­स­र्व­वा­ह्या­र्थ­प्री­ते­स्त­न्मु­क्ति­का­मिनः ।।
न हास्येति गिरा नातो मुमुक्षोः फलकीर्तनम् ।। १०५२ ।।

अावि­रि­ञ्चा­द्वि­र­क्त­श्चे­त्कु­म्भी­पा­का­दि­वेह यः ।।
आप्ता­शे­ष­क्रि­या­कार्यो मुक्तौ स विनियुज्यते ।। १०५३ ।।

परीक्ष्य लोकानित्यादि तथा नैगमिकं वचः ।।
त्यज धर्ममधर्मं चेत्येवमादि स्मृतेरपि ।। १०५४ ।।

आत्मा­वि­द्या­प­नु­त्त्यर्थं प्रार­ब्धो­प­नि­ष­त्परा ।।
आत्मेत्युपक्रमं यच्च तत्सूत्रं प्रागुदाहृतम् ।। १०५५ ।।

तद्धे­द­मि­त्य­ने­नास्याः प्रमेयोऽर्थो निरूपितः ।।
अकृत्स्नवचसा तद्व­त्प्र­मा­भा­सोऽ­प्य­पो­दितः ।। १०५६ ।।

आत्मैवैकोऽत्र द्रष्टव्यः कृत्स्न­त्वा­न्नाऽऽ­त्म­नोऽ­परः ।।
अकृत्स्न एव ताव­त्स्या­त्त­दन्यो यावदीक्ष्यते ।। १०५७ ।।

कोऽहं कस्य कुतो वेति कः कथं वा भवेदिति ।।
प्रयोजकमतेरेष विध्य­र्थोऽ­त्रा­व­ग­म्यते ।। १०५८ ।।

उत्प­त्ति­स्थि­ति­वि­ध्वंसाः कार्याणां स्युः कुतो न्विति ।।
अन्व­य­व्य­ति­रे­काख्यो व्यापारोऽत्र विधीयते ।। १०५९ ।।

तपसा तत्परं ब्रह्म विद्धीति वचनादतः ।।
अन्व­य­व्य­ति­रे­काख्यो व्यापारोऽत्र तपो मतम् ।। १०६० ।।

यतो वा इत्यतो वाक्यान्न तदन्यत्तपो भवेत् ।।
लक्षणोक्तेर्य आत्मेति सोऽन्वे­ष्ट­व्य­इति श्रुतेः ।। १०६१ ।।

त्यक्ता­प्रि­य­प­रा­गर्थो ह्यमा­नि­त्वा­दि­सा­धनः ।।
प्रिया­त्मा­न­मु­पा­सीत शक्र­व­द्ब्र­ह्म­च­र्य­वान् ।। १०६२ ।।

आत्मेत्यनेन वाक्येन ब्रह्म­वि­द्यो­प­सू­त्रिता ।।
यद­र्थो­प­नि­ष­त्कृत्स्ना वृ्त्तिस्तस्या भविष्यति ।। १०६३ ।।

आत्मेत्येकमिदं सूत्रं कण्डिकाद्वयमेव वा ।।
अध्यायो वा सम­स्तोऽ­य­म­ध्या­य­द्व­य­मेव वा ।। १०६४ ।।

अव्या­कृ­त­व्या­क­र­ण­प्र­भृ­ती­न्य­परे विदुः ।।
पञ्चैव किल सूत्राणि तथाऽपीष्टं न बाध्यते ।। १०६५ ।।

अव्याकृतं स एषेह तथाऽऽत्मैवेति चापरः ।।
पदनीयं तथा प्रेयः पदार्थाः पञ्च सूत्रिताः ।। १०६६ ।।

यथोक्तानां च सूत्राणामा शास्रस्य समापनात् ।।
वृत्तिः स्यादुत्तरो ग्रन्थस्तत्र तेषां समन्वयात् ।। १०६७ ।।

व्याचि­ख्या­सु­र­थे­दानीं सूत्रा­र्था­ञ्श्रु­ति­र­ञ्जसा ।।
प्रयो­ज­ना­भि­धि­त्साया उपोद्धाते प्रवर्तते ।। १०६८ ।।

वक्ष्यमाणवचो वस्तु तच्छ­ब्दे­ना­भि­धी­यते ।।
व्रह्म जिज्ञासवो विप्रा आहु­र्य­द्गु­रु­सं­निधौ ।। १०६९ ।।

विज्ञा­ता­शे­ष­वे­दा­न्त­स­र्वस्वं ब्रह्मणि स्थितम् ।।
उपसद्य गुरुं न्यायादाहुः केचिन्मुमुक्षवः ।। १०७० ।।

यज्ञा­द्या­हि­त­सं­स्कारा अपा­स्ता­शे­ष­सा­धनाः ।।
सांसा­रि­क­पु­म­र्थेभ्यो विरक्ताः शुद्धबुद्धयः ।। १०७१ ।।

त्यक्त्वा कर्माणि निःसङ्गाः कर्मणां चरितार्थतः ।।
ब्रह्म­वि­द्या­प्ल­वे­नेमं संसाराब्धिं तितीर्षवः ।। १०७२ ।।

आ विरि­ञ्चा­त्पु­म­र्था­ना­म­कृ­त्स्न­त्वा­दि­दो­षतः ।।
वितृ­षोऽ­शे­ष­त­द्दो­ष­ध्व­स्ति­श्रेयः परीप्सवः ।। १०७३ ।।

साक्षेपमाहुः श्रेयांसं गुरुं प्राप्य निरेषणाः ।।
गुरुद्वारैव विद्येह श्रेयःप्राप्तौ क्षमा यतः ।। १०७४ ।।

किमा­हु­रि­त्य­पे­क्षा­या­मिदं तदभिधीयते ।।
मन्यन्त इत्यनेनैव य़च्छब्दो याति संगतिम् ।। १०७५ ।।

अव्या­वृ­त्ता­न­नु­गतं वस्तु ब्रह्मगिरोच्यते ।।
मुख्यार्थो ब्रह्म­श­ब्दोऽ­य­मेवं सत्युपपद्यते ।। १०७६ ।।

तद्यया वेद्यते बुद्ध्या तदसाधारणात्मना ।।
ब्रह्मविद्येति तां साक्षाच्छेमुषीं प्रतिजानते ।। १०७७ ।।

सर्वं कृत्स्नं भविष्यामो मन्यन्ते ब्रह्मविद्यया ।।
यन्मनुष्या वयं तत्र विरो­ध­म­नु­यु­ष्द­महे ।। १०७८ ।।

कृत्स्नमेव यतः प्रोक्तं वस्तु यत्पारमार्थिकम् ।।
तत्प्र­मा­ण­वि­श­द्ध्यर्थं चोदयन्ति मुमुक्षवः ।। १०७९ ।।

ब्रह्मविद्यैव कृत्स्नाप्तौ यस्मा­त्सा­ध­न­मु­च्यते ।।
तत्प्राौ तत्तमोमात्रं व्यवधानमतो भवेत् ।। १०८० ।।

द्योतिकैव यतो विद्या न त्वसौ कारकं ततः ।।
उत्प­त्त्या­दि­क्रि­या­कार्यं तस्माच्चेह न शङ्क्यते ।। १०८१ ।।

सिद्धेऽर्थे द्योतको दीपो न तु कार्ये यतस्ततः ।।
सर्वात्मभावः सर्वेषां सिद्धः प्रागपि बोधतः ।। १०८२ ।।

अतोऽकृत्स्रा वयं मोहा­त्कृ­त्स्ना­त्मा­नोऽपि वस्तुतः ।।
निहत्य विद्ययाऽविद्यां यामः कार्त्स्न्यं स्वतोगतम् ।। १०८३ ।।

अधि­का­र­वि­नि­श्चित्यै मनुष्या इति गीरियम् ।।
मनुष्याणां हि निःशे­ष­त्र­य्य­र्थेऽ­धि­कृ­ति­र्यतः ।। १०८४ ।।

दृष्टार्थतो वा विद्याया मनुष्यग्रहणं कृतम् ।।
ताव­न्मा­त्रोऽ­धि­का­र्यत्र नाग्नि­हो­त्रा­धि­का­रि­वत् ।। १०८५ ।।

प्रत्यबुध्यत यो यस्तदिति चोर्ध्वं प्रवक्ष्यति ।।
नातः कर्माधिकार्यत्र दृष्टा­र्थ­त्वा­द­पे­क्ष्यते ।। १०८६ ।।

कर्मभ्य इव च ज्ञाना­त्फ­ल­प्राप्तिं सुनिश्चिताम् ।।
मन्यन्त उभयत्रापि श्रुति­मा­ना­वि­शे­षतः ।। १०८७ ।।

यन्मन्यन्ते नरास्तत्र विरुद्धमिव लक्ष्यते ।।
यतोऽ­त­श्चो­द­या­मोऽत्र यथा विप्रतिषिद्धता ।। १०८८ ।।

किमु तद्ब्रह्म यद्वेद्यं यज्ज्ञा­ना­त्स­र्व­ताऽऽ­प्यते ।।
किंचापि तद­वे­द­न्य­द्य­ज्ज्ञा­ना­त्कृ­त्स्न­ता­म­गात् ।। १०८९ ।।

ब्रह्माकृत्स्रं मतं तच्चे­दु­क्त­दो­षा­नि­रा­कृतेः ।।
अऩुपास्यं भवे­त्ता­दृ­क्प्रा­णा­दि­व­द­सं­श­यम् ।। १०९० ।।

कल्पना नापि गौण्यत्र मुख्यार्थे सति युज्यते ।।
न ह्यालभन्ते बाहीकं मुख्ये गवि सति कचित् ।। १०९१ ।।

मुख्यं ब्रह्म न चेदस्ति गौणं स्यात्तद्विना कुतः ।।
मुख्यमग्निं विना गौणं न लोकोऽप्यवगच्छति ।। १०९२ ।।

अकृत्स्नज्ञानतो नापि पुरु­षो­र्थोऽ­व­ग­म्यते ।।
ब्रह्मा­ज्ञा­न­स­मु­त्थ­त्वा­न्मि­थ्या­ज्ञा­न­त्व­का­र­णात् ।। १०९३ ।।

मेय­मा­ना­दि­सं­भि­त्ति­र्यदि नामेह लभ्यते ।।
अय­था­व­स्तु­रू­प­त्वा­त्स्व­प्न­मे­या­दि­वत्तु सा ।। १०९४ ।।

अकृत्स्नस्य च ब्रह्मत्वं विरुद्धं भानुशैत्यवत् ।।
तस्मादकृत्स्नं ब्रह्मेति न मानेनोपपद्यते ।। १०९५ ।।

ब्रह्मास्तु तर्हि तत्कृ­त्स्न­मु­क्त­दो­षा­स­म­न्व­यात् ।।
मुख्या­र्थ­ला­भ­त­श्चापि तस्य च प्रकृतत्वतः ।। १०९६ ।।

न कृत्स्नमिति तद्गाह्यं तत्प्र­मा­णा­द्य­सं­भ­वात् ।।
तद­न्य­व­स्तु­स­द्भावे तद्ब्रह्मत्वं विहन्यते ।। १०९७ ।।

न च मानानपेक्षस्य सिद्धि­र­भ्यु­प­ग­म्यते ।।
माना­दि­य­त्ना­न­र्थ­क्य­प्र­सक्तिः स्यात्तथा सति ।। १०९८ ।।

सदा­नु­दि­ता­लु­प्तै­क­ज्ञ­प्ति­मा­त्र­स­त­त्त्व­कम् ।।
यद्यपीष्टं तथाऽपीदं नाऽऽत्म­मो­हा­प­नो­द­कृत् ।। १०९९ ।।

न हि मानमनाश्रित्य वस्त्वा­त्मा­ज्ञा­न­हा­नि­कृत् ।।
स्रक्स्था­ण्वा­दा­दृ­ष्ट­त्वा­दु­क्त­दो­षोऽपि चाऽऽपतेत् ।। ११०० ।।

माना­द्य­न­भ्यु­पेतौ हि न किंचिद्वस्तु सिध्यति ।।
तदभ्युपेतौ ब्रह्मत्वं व्यावृत्तेर्न प्रसिध्यति ।। ११०१ ।।

यथा­क­थं­चि­च्छ­ब्दार्थो यदि नामाभ्युपेयते ।।
तथाऽपि दोषवद्ब्रह्म यथा तदधुनोच्यते ।। ११०२ ।।

कृत्स्नं वा यदि वाऽकृत्स्नं यथेच्छसि तथाऽस्तु तत् ।।
ब्रह्मत्वं किं स्वतस्तस्य किंवा तत्परातो मतम् ।। ११०३ ।।

यदि ताव­त्स्व­त­स्त­त्स्या­द्ब्र­ह्म­विद्या निरर्थिका ।।
न ह्युष्णत्वं हुताशस्य परतः कुर्वते बुधाः ।। ११०४ ।।

ज्ञानमूर्तेर्न चाज्ञानमागन्तु सहजं तथा ।।
भानौ तमो­व­त्ते­ने­दृ­ग्ब्रह्म नैवोपपद्यते ।। ११०५ ।।

शास्रा­द्या­र­म्भा­न­र्थ­क्य­दो­ष­श्चापि प्रसज्यते ।।
स्वानु­भू­ति­वि­रो­धोऽपि ब्रह्मत्वं चेद्भवेत्स्वतः ।। ११०६ ।।

योषा­ग्नि­व­च्चे­च्छास्रं स्याद्वृ­ष्टि­मा­त्र­वि­धा­य­कम् ।।
तथा सत्यविरोधः स्याद्भि­न्ना­धि­क­र­ण­त्वतः ।। ११०७ ।।

सदसीति क्रियानिष्ठं प्रत्य­क्षा­द्य­र्थ­नि­ष्ठि­तम् ।।
विरोधः कोऽनयोरत्र मिथो­र्था­सं­स्पृशोः सतोः ।। ११०८ ।।

नैतदेवं यतो वाक्यं वस्तुनिष्ठं पुरोदितम् ।।
विरोध एव तेन स्यादे­का­धि­क­र­ण­त्वतः ।। ११०९ ।।

अशक्या ब्रह्मदृष्टिश्च कर्तुं ब्रह्मा­प्र­सि­द्धितः ।।
लोकसिद्धौ तु योषाग्नी तद्दृष्टिः सुकरेष्यते ।। १११० ।।

अथा­ग्नि­व­च्चे­त्त­द्ब्रह्म सिद्धं मानान्तरान्मतम् ।।
तावतैव कृता­र्थ­त्वा­त्कि­म­न्य­त्प्रा­र्थ्यते श्रुतेः ।। ११११ ।।

तद्दृष्टावेन निःशे­ष­पु­रु­षा­र्थ­स­मा­प्तितः ।।
फलान्तराय तद्दृष्टिर्न च स्याद­ग्नि­दृ­ष्टि­वत् ।। १११२ ।।

परतोऽपि च कृत्स्नत्वे ब्रह्मत्वं दुःस्था­सि­द्धि­कम् ।।
क्रियातो ज्ञानतो वा तद्यदि वोभयसंश्रयात् ।। १११३ ।।

न ब्रह्मता क्रियातः स्यादु­त्प­त्त्या­दि­स­म­न्व­यात् ।।
न स्यादा­द्य­न्त­व­द्ब्रह्म ह्यपू­र्वा­जा­दि­शा­स्रतः ।। १११४ ।।

अपवादश्च बहुशः कर्मकार्यस्य दृश्यते ।।
मुमुक्षुत्वस्य तद्धेतोः कर्मकार्यं न तत्ततः ।। १११५ ।।

अथ ज्ञाना­त्त­द­भ­व­त्कृत्स्नं ब्रह्मेति चेन्मतम् ।।
अन्या­न­न्य­प्र­मे­यत्वे तथाऽपीष्टं न सिध्यति ।। १११६ ।।

क्रियाविरोधः प्राप्नोति यद्यनन्यस्य मेयता ।।
श्रुत्य­न्त­र­वि­रो­धश्च प्रत्यग्दृष्टौ प्रसज्यते ।। १११७ ।।

तथाच ज्ञानसाध्यत्वं ब्रह्मणः संप्रसज्यते ।।
अन्या­न­न्य­प्र­मे­येऽपि दोषोऽयं दुर्निवारणः ।। १११८ ।।

बुद्ध्वाऽ­था­न्य­त्त­द­भ­व­त्त­द­न्य­त्कि­म­बु­ध्यत ।।
तद­प्य­न्य­त्पु­राऽ­ज्ञा­सी­द­न­वस्था प्रसज्यते ।। १११९ ।।

निर्निमित्तस्य कृत्स्न­त्वेऽ­प्य­स्म­दा­दे­स्तथा न किम् ।।
पक्षपातः श्रुतेर्नापि प्रामा­ण्या­दु­प­प­द्यते ।। ११२० ।।

समुच्चयनिषेधश्च युक्ति­भि­र्व­क्ष्यते स्फुटम् ।।
प्रधा­न­गु­ण­भा­वोऽपि विरोधान्न तयोर्भवेत् ।। ११२१ ।।

इत्या­दि­ब­हु­दो­ष­त्वा­द्दुः­सं­भाव्यं प्रमाणतः ।।
विद्य­यै­वाऽऽ­प्नुमः कार्त्स्न्य­मि­त्यादि यदुदीरितम् ।। ११२२ ।।

न कश्चिदापि दोषोऽत्र यथैतदुपपत्स्यते ।।
अन्यथा कल्प्य­मा­नेऽ­स्मि­न्नु­क्त­दो­ष­प­रं­परा ।। ११२३ ।।

एवं तावदुपोद्धातो व्याख्यातोऽत्र समासतः ।।
भग­व­त्पा­द­भा­ष्येऽ­स्मि­न्न­न्य­दी­योऽपि वर्ण्यते ।। ११२४ ।।

तद­त­द्ब्र­ह्म­वि­द्याया आरम्भे फलमुच्यते ।।
तत्प्र­वृ­त्त्य­ङ्ग­तायै च तत्फलस्य प्रकीर्तनम् ।। ११२५ ।।

वक्ष्यमाण उपोद्धातो ब्रह्मविद्या ततः परम् ।।
ततोऽप्यूर्ध्वं फलो­क्ति­श्चे­त्त­च्छ­ब्दे­नो­च्यते कथम् ।। ११२६ ।।

अनन्तरेण संबन्धसामर्थ्ये सत्यमानतः ।।
दवी­य­साऽ­भि­सं­ब­न्ध­स्त­च्छ­ब्द­स्यो­च्यते कुतः ।। ११२७ ।।

द्वैतै­क­त्वा­त्मकं साक्षा­द्ब्र­ह्म­वि­द्यो­द­या­त्पुरा ।।
समाप्य तत्फलं कृत्स्नं जातकौतूहलाः परे ।। ११२८ ।।

आहुरेवं द्विजाः केचिद्विरक्ताः पूर्वभूमितः ।।
संभाव्यते ब्रह्म­वि­द्भि­र्य­त्त­द­र्थ­बु­भु­त्सवः ।। ११२९ ।।

द्वैतैकत्वधिया नैव पूर्वया फल्गुकार्यया ।।
संभाव्यते सर्वभूतिर्यतः सा ब्रह्मविद्यया ।। ११३० ।।

द्वैतै­क­त्व­म­ति­र्य­द्व­त्स्वा­नु­रू­प­फ­ला­प्तये ।।
अलं सर्व­म­ति­स्त­द्व­त्स­र्व­भा­व­फ­ला­प्तये ।। ११३१ ।।

ब्रह्मबुद्द्या भविष्यामः कृत्स्नं ब्रह्मेति तद्विदः ।।
यन्मन्यन्तेऽथ तद्ब्रह्म किमवेदिति पृच्छ्यते ।। ११३२ ।।

किमवेदिति यः प्रश्नः स किं स्यात्क­र्तृ­क­र्मणोः ।।
विद्यायाः पृच्छयते कर्ता कर्म वेह विवक्षितम् ।। ११३३ ।।

ब्रह्मणा चेत्कृता विद्या निष्फलेयं प्रसज्यते ।।
ब्रह्म­वि­द्यो­द­या­द्य­स्मा­द­भू­द्ब्रह्म पुराऽपि तत् ।। ११३४ ।।

तस्मात्कर्मैव विद्यायाः पिपृच्छिषितमत्र तु ।।
प्रमे­यो­पा­श्र­या­देव यतः प्रामा­ण्य­मु­च्यते ।। ११३५ ।।

वस्तु­नि­ष्ठ­त्व­तोऽ­दोषः कर्तर्यपि विवक्षिते ।। ११३६ ।।
सर्वं ब्रह्मा­भ­व­द्य­स्मा­द्वि­ज्ञा­ना­त्त­दि­हो­च्यते ।।
ब्रह्मविद्येति सर्वा­प्ता­व­सा­धा­र­ण­का­र­णम् ।। ११३७ ।।

सर्वै­क­त्व­व­बो­धोऽयं ब्रह्म­वि­द्या­गि­रो­च्यते ।।
द्वैत­स्या­द्वै­त­या­था­त्म्या­त्क्लृ­प्त­स­र्पा­दि­त­त्त्व­वत् ।। ११३८ ।।

सर्वैकत्वं परं ब्रह्म परमात्मेति यं विदः ।।
तन्मोहजानां सर्वेषां स तत्त्वं परमार्थतः ।। ११३९ ।।

तद­ज्ञा­नै­क­हे­तु­त्वा­त्ते­नैव परमात्मना ।।
तद­न्या­न्या­त्म­वन्ति स्युः सर्पादीनि स्रजा यथा ।। ११४० ।।

उक्ता­त्म­च्यु­त­दृ­ष्टीनां तदबोधैकहेतुतः ।।
आब्र­ह्म­स्था­णु­भे­दोऽयं नाम­रू­प­क्रि­या­त्मकः ।।
अविद्याकृत एवायं न यथावस्तुधीकृतः ।। ११४१ ।।

तमोघ्न्यैव ततो ब्रह्म प्राप्यते ब्रह्मविद्यया ।। ११४२ ।।
यथो­क्त­त­त्त्व­का­न्येव रज्ज्वां तत्क्लृ­प्त­व­स्तु­वत् ।।
सूत्रं विराड्देवता च यावत्किंचिच्च वस्त्विह ।। ११४३ ।।

ब्रह्मैवेदं यथा सर्वं विद्यया तदबोधजम् ।।
अविद्यया तथाऽकृत्स्नं ब्रह्म सूत्रादिरूपकम् ।। ११४४ ।।

भाव­ना­ज्ञा­न­क­र्माणि साधनानीति यद्यपि ।।
तत्स­त­त्त्व­म­वि­द्यैव यतोऽतः सैव कारणम् ।। ११४५ ।।

न हि साधनसापेक्षं वस्तु स्यात्पा­र­मा­र्थि­कम् ।।
परमार्थं न वस्त्वस्ति यत्प­रा­य­त्त­सि­द्धि­कम् ।। ११४६ ।।

मोहोत्याः पृथगात्मानः साध­ना­य­त्त­सि­द्धिकाः ।।
सूत्रा­द­य­स्तृ­णान्ताः स्युर­न्यो­न्य­व्य­भि­चा­रिणः ।। ११४७ ।।

सर्वेऽप्येते यथादृष्टि ह्येकैकस्य तमस्विनः ।।
सूत्रा­द­योऽ­नु­भू­यन्ते यथाकर्म यथाश्रुतम् ।। ११४८ ।।

अविद्यैव यतोऽमीषां प्रागभाषो न तत्परम् ।।
भाव­ना­ज्ञा­न­क­र्मभ्यो जन्मैषां तेन नान्यतः ।। ११४९ ।।

यथैता दर्शनावस्थाः कार्यमासां तथाविधम् ।।
उत्पाद्यमाप्यं संस्कार्यं विकार्यं च क्रियावशात् ।। ११५० ।।

पिण्डा­त्माऽ­ह­मि­ती­क्षाणः पिण्डमेव प्रपद्यते ।।
दैवं विराजं सूत्रं च मृतः सन्प्रतिपद्यते ।। ११५१ ।।

संस्का­रो­प­च­या­द्य­द्व­द्देवो भूत्वैति देवताम् ।।
संस्का­रा­प­च­या­द्ध्वं­स­स्तथा तासां न संशयः ।। ११५२ ।।

ब्रह्म­णोऽ­न्य­द्यतो वस्तु ब्रह्मैव परमार्थतः ।।
तद­बो­धा­त्त­द­न्य­त्त­द्बो­धा­द्ब्र­ह्मैव तत्त्वतः ।। ११५३ ।।

सूत्रा­दि­द­र्श­नानां स्यात्सू­त्रा­द्येव यथा फलम् ।।
परा­त्म­द­र्श­न­स्यापि तद्भावः स्यात्तथा फलम् ।। ११५४ ।।

ब्रह्मभावोऽत्र नित्यः स्यात्का­र­णा­द्य­न­पे­क्षतः ।।
अनि­त्य­मि­त­र­त्सर्वं यद­वि­द्या­वि­जृ­म्भि­तम् ।।। ११५५ ।।

अनित्यं दर्शनं ज्ञेयं नित्यस्यापि परात्मनः ।।
मोह­मा­त्रा­न्त­रा­य­त्वा­त्का­दा­चित्कं हि दर्शनम् ।। ११५६ ।।

अहमेव परं ब्रह्मे­त्य­स्या­र्थ­स्या­प्र­बु­द्धता ।।
अविद्येति वयं ब्रुमो येह नास्ति सदाऽऽत्मनि ।। ११५७ ।।

परात्मनि तु संबोधो नित्यः स्याच्छशिशीतवत् ।।
तद­न्या­त्म­स्व­नि­त्योऽसौ सोह­सं­वी­त­बु­द्धिषु ।। ११५८ ।।

तत्रैवं सति योऽका­र्त्स्न्य­मित्वा ब्रह्माप्रबोधतः ।।
सर्वा­त्म­वि­द्य­याऽ­विद्यां हत्वा ब्रह्मा­भ­व­त्पु­मान् ।। ११५९ ।।

पुराऽपि चाऽऽत्म­सं­बो­धा­द्ब्र­ह्मै­वायं स्वतो ह्यभूत् ।।
यतोऽ­त­स्त­त्त्व­सं­बो­धा­द्ब्रह्म ब्रह्म प्रपद्यते ।। ११६० ।।

प्रत्य­ग्या­था­त्म्य­सं­बो­धा­त्त­द­न्य­त्रैव या मतिः ।।
परार्था सा मतिर्ज्ञेया बाह्य­क­र्म­व्य­पा­श्रया ।। ११६१ ।।

अहं ब्रह्मेति यज्ज्ञानं स्वार्थमेव तदिष्यते ।।
सर्व­प्र­यो­ग­वी­जा­त्म­ध्वा­न्तो­च्छे­दि­त्व­हे­तुतः ।। ११६२ ।।

निःशे­ष­पु­रु­षा­र्थानां ज्ञेयानां चापि कृत्स्नतः ।।
प्रत्य­क्त­त्त्व­प­रि­ज्ञा­न­स­मु­त्पत्तौ समाप्तितः ।। ११६३ ।।

भर्तृ­प्र­प­ञ्च­प्र­स्था­न­मे­व­मे­त­द्य­थो­दि­तम् ।।
इतोऽन्यत्रापि तद्भाष्यं गमयेदेवमेव तु ।। ११६४ ।।

ब्रह्मभाविरवं श्रुत्वा ये तु व्याच­क्ष­तेऽ­न्यथा ।।
तानुद्दिश्य विचारोऽयं प्रारब्धो गुरुभिः स्फुटः ।। ११६५ ।।

यथो­क्त­सू­त्र­व्या­ख्यायां प्रयोजनविवक्षया ।।
उपो­द्धा­तो­क्त­दो­षाणां परिहाराय यत्यते ।। ११६६ ।।

ब्रह्म­वि­द्यो­प­दे­शस्य विष­य­श्चा­व­धा­र्यते ।।
साक्षा­द्ब्र­ह्मा­थवा ब्रह्म यदि वोभयरूपकम् ।। ११६७ ।।

समा­श­ङ्कि­त­निः­शे­ष­दो­ष­ना­ग­न्धितं स्फुटम् ।।
श्रुतिः प्रतिवचः प्राह दोषमूलनिरासकृत् ।। ११६८ ।।

ब्रह्मेति ब्रह्मशब्दोऽयं मुख्य­ब्र­ह्मा­र्थ­वा­चकः ।।
अपू­र्वा­दि­श्रु­ते­र्ज्ञेयो ब्रह्मत्वं न ततोऽन्यथा ।। ११६९ ।।

अवि­चा­रि­त­सं­सि­द्धि­प्र­त्य­ग­ज्ञा­न­का­र­णात् ।।
अब्रह्मेव तदाभाति मोहसंवीतचेतसः ।। ११७० ।।

प्रत्य­क्सं­बो­ध­वि­ध्व­स्त­प्र­त्य­ङ्भोहः परात्मनः ।।
संभावयति संबो­धा­न्ना­न्य­द्व­स्त्व­न्तरं यथा ।। ११७१ ।।

एवमेव महा­मो­ह­सं­वी­त­धि­षणः पुमान् ।।
ब्रह्मैवापि स्वतो मोहान्न तत्संभावयत्यपि ।। ११७२ ।।

बुद्धतत्त्वस्य लोकोऽयं जडो­न्म­त्त­पि­शा­च­वत् ।।
बुद्धतत्त्वोऽपि लोकस्य जडो­न्म­त्त­पि­शा­च­वत् ।। ११७३ ।।

यदि नामास्ति संभेदः साक्षा­त्क­ल्पि­त­स­र्पयोः ।।
भीतं प्रत्य­वि­शि­ष्टोऽसौ वास्त­व­त्वा­द­ना­दृतः ।। ११७४ ।।

प्रत्यक्तत्त्वं तमो­मा­त्र­व्य­व­धा­ना­दि­हो­च्यते ।।
ब्रह्मभावीति न पुन­र्व­स्तु­त­त्त्व­व्य­पे­क्षया ।। ११७५ ।।

इदंधीशब्दगम्यं यद्ब्र­ह्म­रू­पा­द्वि­शि­ष्यते ।।
ब्रह्मैव तदु­पा­धी­हे­दं­श­ब्दे­ना­भि­धी­यते ।। ११७६ ।।

योऽसा­व­वि­द्यो­त्स­ङ्गस्थः प्राक्प्रविष्ट इतीरितः ।।
स्वाभासान्तः सं संमो­हा­न्ना­म­रू­पा­त्म­कोऽ­भ­वत् ।। ११७७ ।।

अव्या­कृ­ता­दि­पि­ण्डान्तं पर एव त्वविद्यया ।।
तदात्मत्वं समापेदे न त्वसौ परमार्थतः ।। ११७८ ।।

प्रागा­त्म­बो­धा­त्पि­ण्डादौ याऽऽत्मे­त्या­सी­न्म­ति­र्दृढा ।।
सा तत्त­त्त्व­म­सं­प्राप्य सिद्धा स्रगाहिबोधवत् ।। ११७९ ।।

अवि­द्या­क­ल्पि­तां­स्त­स्मा­द­न्व­य­व्य­ति­रे­कतः ।।
विधू­या­ना­त्म­नोऽ­शे­षां­स्त­त्प्र­त्य­ग्रू­प­मै­क्षत ।। ११८० ।।

प्रत्य­ग्या­था­त्म्य­वि­द्या­ग्नि­सं­प्लु­ष्टा­शे­ष­त­त्तमः ।।
ब्रह्मै­वाऽऽ­त्मा­न­मे­वेति प्रत्यबुध्यत वाक्यतः ।। ११८१ ।।

न हि प्लुष्टा­खि­ला­विद्यः प्रती­च्य­न्य­न्म­ना­गपि ।।
प्रत्य­ग्दृ­ष्ट्ये­क्ष­तेऽ­न्यस्य तदविद्यैकहेतुतः ।। ११८२ ।।

अद्वैतविषयं च्चेदमेकं ब्रह्मेति भण्यते ।।
समस्तव्यस्तता यस्मान्नेह प्रत्य­ग्धि­ये­क्ष्यते ।। ११८३ ।।

मिथ्या­भि­मा­ना­त्सं­प­त्ति­र­वि­द्यो­त्थासु भूमिषु ।।
यत्र वा अन्यदित्येवं श्रुतिश्चाषि जगौ तथा ।। ११८४ ।।

निरविद्य इहाद्वैते भेदहेतोरसंभवात् ।।
स्वत एवा­भि­सं­प­त्ति­र्यत्र त्वस्ये­ति­शा­स्रतः ।। ११८५ ।।

तस्मात्तदिति विद्यायाः पूर्णता फलमुच्यते ।।
तदन्यस्य त्वकृ­त्स्न­त्वा­ज्जि­हा­सा­वि­ष­य­त्वतः ।। ११८६ ।।

यदि­दं­श­ब्द­नि­र्दिष्टं पूर्णा­वि­द्यै­क­हे­तु­जम् ।।
अहं ब्रह्मेति तद्ध्वं­सा­त्पू­र्ण­मे­वा­भ­व­त्स्वतः ।। ११८७ ।।

भर्तृ­प्र­प­ञ्च­भा­ष्यस्य प्रचारोऽयं प्रदर्शितः ।।
श्रुत्य­क्ष­रा­नु­सा­रेण तथाऽ­नु­भ­व­व­र्त्मना ।। ११८८ ।।

ब्रह्मे­ति­ब्र­ह्म­श­ब्देन द्वैतै­क­त्वा­त्मकं किल ।।
भण्यते न परं ब्रह्म तस्य विद्यानपेक्षतः ।। ११८९ ।।

परस्य ब्रह्मता यस्मा­द­न­न्या­य­त्त­सि­द्धिका ।।
स्वत एव तु तत्सि­द्धे­र्ना­त­स्त­द­भि­धी­यते ।। ११९० ।।

तथा काला­न­व­च्छि­त्ते­रा­सी­दिति न तत्प्रति ।।
घटते कालसंबन्धो विरिञ्चे तूपपद्यते ।। ११९१ ।।

ननु तस्यापि विज्ञानं नोप­दे­श­व्य­पे­क्षया ।।
जन्मनैवास्य तत्सिद्धेर्न युक्ता ब्रह्मगीरियम् ।। ११९२ ।।

आसीदिति च निर्दे­श­स्त­स्मि­न्नपि न युज्यते ।।
विरिञ्चस्य त्रिका­ल­त्वा­दा­सी­दस्ति भविष्यति ।। ११९३ ।।

यत एव­म­सं­तो­षा­त्प­क्षा­न्त­र­स­मा­श्रयः ।।
मनु­ष्या­धि­कृ­ते­र्वेति क्रियते पूर्वपक्षिणा ।। ११९४ ।।

मनुष्याः प्रकृताः पूर्वं ते च निःश्रे­य­सा­र्थिनः ।।
ब्रह्मणो नत्व­न­र्थि­त्वा­त्तथा चाप्रकृतत्वतः ।। ११९५ ।।

ऋष्यादिवचसा चापि ब्रह्म­वि­द्याऽ­वि­शे­षतः ।।
सर्वार्थैव समुद्दिष्टा नाग्र­ज­न्मै­क­गो­चरा ।। ११९६ ।।

जन्मनैव तु तत्सि­द्धे­र्नो­प­दे­श­व्य­पे­क्षता ।।
ज्ञानमप्रतिघं यस्य वैराग्यं चेति च स्मृतेः ।। ११९७ ।।

द्वैतै­क­त्वा­त्म­क­ब्र­ह्म­वि­द्या­क­र्मै­क­सा­धनः ।। ११९८ ।।
अप­र­ब्र­ह्म­ता­पन्नो भोज्या­द्व्या­वृ­त्त­मा­नसः ।।

निःशे­ष­प्राप्त्या चोच्छि­न्न­का­म­क­र्मा­दि­ब­न्धनः ।। ११९९ ।।
पर­ब्र­ह्म­प­रि­ज्ञा­न­भा­व­नो­प­च­या­त्परः ।।
ब्रह्मभावी नरोऽतोऽत्र ब्रह्मशब्देन भण्यते ।। १२०० ।।

भविप्यद्वत्त्या लोकेऽपि प्रयोगो दृश्यते यथा ।।
ओदनं पचतीत्यादि तथेहापि भविष्यति ।। १२०१ ।।

गृहस्थो भार्यं विन्देत शास्रे चापि समीक्ष्यते ।।
एवं व्याचक्षते केचि­द्ग­म्भी­र­न्या­य­वा­दिनः ।। १२०२ ।।

सर्वा­प­त्ते­नि­त्य­त्व­दो­षा­स­क्तेर्न तत्तथा ।।
साध­ना­य­त्त­ल­ब्धात्मा न लोकेऽ­स्त्य­वि­न­श्वर ।। १२०३ ।।

अथा­वि­द्यो­त्था­कृ­त्स्न­त्व­नि­वृत्तिं चेदिहेच्छसि ।।
कल्पनेयं तृथैव स्याद्ब्र­ह्म­भा­वीति या कृता ।। १२०४ ।।

यतः प्रागपि तद्वोधात्सर्वो जन्तुः स्वभावतः ।।
ब्रह्म­त्वा­दा­प्त­त­द्भावो नित्यमेव न साधनात् ।। १२०५ ।।

केवलं तत्त­मो­मा­त्र­व्य­व­धा­नै­क­हे­तुतः ।।
संभा­व­य­त्य­कृ­त्स्नत्वं प्रत्यगात्मनि मूढधीः ।। १२०६ ।।

यदविद्यैकहेतु स्यादब्रह्मत्वं न तु स्वतः ।।
तद्य­था­व­स्तु­सं­बो­धा­न्मू­ल­ना­शा­त्प्र­ण­श्यति ।। १२०७ ।।

एवं चेत्स्या­द­भि­प्रायः किमर्थं निष्प्रयोजनम् ।।
मुख्यार्थं संपरित्यज्य पुंसि ब्रह्मेति कल्पनम् ।। १२०८ ।।

श्रुता­र्थ­हा­नि­रेवं स्यादश्रुतस्य च कल्पना ।।
अपन्यायो तृथा च स्यात्पु­म­र्था­सं­भ­वा­दिह ।। १२०९ ।।

अवि­द्यो­त्था­ति­रे­केण स्वत एवेति चेन्मतम् ।।
अब्रह्मत्वं न तद्धा­नि­रु­पा­या­सं­भ­वा­त्क­चित् ।। १२१० ।।

अभि­व्य­ञ्ज­क­मे­वेष्टं प्रमाणं न तु कारकम् ।।
नापोढ्री नापि कर्त्रीयं विद्याऽतो वस्तुनः कचित् ।। १२११ ।।

स्वप्र­मे­या­खि­ला­ज्ञा­न­ध्वं­सि­नीति समीक्ष्यते ।।
विद्या लोके तथेहापि तद्ध्वंसिन्येव गृह्यताम् ।। १२१२ ।।

सदा­नु­दि­ता­न­स्त­मि­त­भा­स्व­द्वि­ज्ञा­न­मा­त्रतः ।।
तद्वि­रु­द्ध­त­नु­र्मोहः कुतो ब्रह्मणि चेन्मतम् ।। १२१३ ।।

नानुभूत्यैव तत्सि­द्धे­र्ज्ञा­त­कु­म्भा­नु­भू­ति­वत् ।।
न वेद्मी­त्य­नु­भू­तिर्हि सर्वे­षा­मा­त्म­सा­क्षिका ।। १२१४ ।।

अव्याकृताधिकारे च यदुक्तं प्राक्समासतः ।।
ब्रह्म­ण्य­वि­द्य­सं­सिद्ध्यै स्मर्तव्यं तदिहाखिलम् ।। १२१५ ।।

विद्या­वि­धा­ना­च्चा­विद्य ब्रह्मण्यस्तीति गम्यताम् ।।
विद्याविधानं विज्ञाते पिष्टपेषणवद्यतः ।। १२१६ ।।

अज्ञानमेव मिथ्याधीः प्रमे­या­न­भि­सं­गतेः ।।
रूप्याध्यारोपणं तस्मादुदाहारि गरीयसा ।। १२१७ ।।

अस्त्वविद्या परे भूम्नि यथो­क्त­न्या­य­गौ­र­वात् ।।
न तु ब्रह्मैव तां कुर्या­त्स­र्वज्ञं प्रत्यगात्मनि ।। १२१८ ।।

न हि धीपूर्वकारी सन्निः­शे­षा­न­र्थ­दा­यि­नीम् ।।
प्रतीच्यविद्यां विसृ­जे­द्याऽ­न्य­त्रापि न काम्यते ।। १२१९ ।।

यद्यविद्या भवे­त्का­र्य­म­स्त्वे­त­द्य­दि­हो­दि­तम् ।।
अका­र्य­त्वा­त्त्व­वि­द्या­या­स्त्व­दुक्तं तुषकण्डनम् ।। १२२० ।।

अथो­प­चा­रा­त्का­र्य­त्व­म­वि­द्या­वि­ष­य­त्वतः ।।
तथाऽपि नापराधो नस्त­द­न्या­सं­भ­वा­दिह ।। १२२१ ।।

न हि ब्रह्मातिरेकेण ब्रह्मा­वि­द्या­कृ­दि­ष्यते ।।
न ह्यन्योऽतोऽस्ति द्रष्टेति तथाच श्रुतिशासनम् ।। १२२२ ।।

क्रिया वा कारकं वेह सदसद्वेह यन्मतम् ।।
अप्र­ज्ञा­ता­त्म­या­थात्म्यं ब्रह्मैव तदितीक्ष्यताम् ।। १२२३ ।।

पुरुष एवेदं सर्व­मा­त्मै­वे­द­मिति श्रुतिः।।
नानुभूतेः प्रमाणाद्वा तदन्यद्वस्तु लभ्यते ।। १२२४ ।।

ननु शास्रो­प­दे­शोऽ­य­मेवं सत्यफलो भवेत् ।।
नासौ ब्रह्मणि साफल्यं नाप्य­न्य­स्मि­न्स­म­श्नुते ।। १२२५ ।।

उप­दे­शा­न­पे­क्ष­त्वा­द्ब्र­ह्म­त्वस्य परात्मनः ।।
असं­भ­वा­त्त­तोऽ­न्यस्य ह्युपदेशोऽफलो भवेत् ।। १२२६ ।।

ब्रह्माकर्त्रपि संबो­धा­त्प्रा­ग­भू­त्त­द­सं­सृति ।।
अवि­द्या­त­ज्ज­सं­ब­न्धा­त्क­र्तृ­त्वेऽपि न दोषभाक् ।। १२२७ ।।

प्रागज्ञातं तदैकात्म्यं यथै­वा­नु­भ­वा­न्म­तम् ।।
ब्रह्मा­स्मी­त्यपि संबो­ध­स्त­थै­वा­नु­भा­व­श्र­यात् ।। १२२८ ।।

प्रमेयाधिगमं कुर्व­त्प्र­मा­ण­म­फलं यदि ।।
कान्यत्र फल­व­त्त­त्स्या­न्ना­तोऽ­न्य­त्स्या­न्मितेः फलम् ।। १२२९ ।।

सोत्प्रासमिव चाऽऽहातो बाढ­मि­त्ये­व­मा­दिना ।।
अस्त्वेषोऽवगते दोष इतोऽन्यः कीदृशो गुणः ।। १२३० ।।

अथावगमवैयर्थ्यं भवता परिचोद्यते ।।
तत्रापि चानवगमध्वस्तिः प्रतिवचो भवेत् ।। १२३१ ।।

ऐकात्म्ये तन्नि­वृ­त्ति­श्चे­द­सं­भा­व्येति चोद्यते ।।
लब्धैकात्म्येन नैवेयं निवृत्तिः काम्यते श्रुुतेः ।। १२३२ ।।

अप्रसिद्धे त्वथैकात्म्ये निवृत्तिरिह चोद्यते ।।
तथा दृष्टविरोधो वः प्राप्नुवन्न निवार्यते ।। १२३३ ।।

सर्व­स्या­नु­प­प­न्नत्वं सिद्धं दृष्टबलाश्रयात् ।।
दृष्ट­स्या­नु­प­प­न्नत्वं किमा­श्रि­त्या­भि­धी­यते ।। १२३४ ।।

उक्तानि तावद्भूयांसि दूषणानि विभागशः ।।
अब्रह्मविषये क्लृप्ते ब्रह्मभावी पुमानिति ।। १२३५ ।।

भूयोऽप्यस्यैव दार्ढ्यार्थं पूर्वपक्षाय यत्यते ।।
वाक्या­र्था­भा­स­सं­जा­त­भ्रा­न्त्यु­च्छित्त्यै प्रयत्नतः ।। १२३६ ।।

पुण्यः पुण्येन भवति पापः पापेन कर्मणा ।।
संसारिणं समुद्दिश्य श्रुति­रे­त­दु­दा­ह­रत् ।। १२३७ ।।

तथैष हीति विस्पष्टं संसा­र्ये­वा­भि­धी­यते ।।
तस्मा­द्वि­ल­क्ष­ण­स्त­द्व­दी­श्च­रोऽ­प्य­भि­धी­यते ।।
स एष नेति नेतीति य आत्मेत्यादिना तथा ।। १२३८ ।।

तथाऽ­क्ष­पा­द­का­णा­द­त­र्क­शा­स्रेषु यत्नतः ।।
उपपत्तिशतैरीशः साध्यते वादिभिः पृथक् ।। १२३९ ।।

दुःखा­प­न­य­ना­र्थि­त्व­प्र­वृ­त्ते­र्द­र्श­ना­दपि ।।
अत्यन्तभेदो विज्ञेयः संसारीश्वरयोरतः ।। १२४० ।।

तं विदित्वैतमेवेति कर्म­क­र्तृ­वि­भा­गतः ।।
क्षेत्र­ज्ञे­श्व­र­यो­रु­क्ते­र्मृ­ग­व्या­धा­दि­भे­द­वत् ।। १२४१ ।।

मुमु­क्षो­र्ग­ति­मा­र्गस्य देशभेदोपदेशतः ।।
भेदेऽसति गतिः केयं गन्तृ­ग­न्त­व्य­यो­र्भ­वेत् ।। १२४२ ।।

दक्षि­णो­त्त­र­मा­र्गो­क्ति­स्तथा सति विरुध्यते ।।
गन्त­व्य­दे­शा­भा­वाच्च गति­र्नै­वो­प­प­द्यते ।। १२४३ ।।

तथाऽ­भ्यु­द­य­कै­व­ल्य­सा­ध­नानां विधानतः ।।
न हीश्वरस्य कैवल्यं साध­ना­य­त्त­मि­ष्यते ।। १२४४ ।।

ब्रह्मभावी ततो नेशः किंतु तद्व्यतिरेकभाक् ।।
संसा­र्ये­वा­भि­धी­येत यथो­क्त­न्या­य­गौ­र­वात् ।। १२४५ ।।

नैवं ब्रह्मो­प­दे­शा­र्थ­शा­स्रा­न­र्थ­क्य­स­क्तितः ।।
संसा­रि­वि­द्य­यै­वास्य पुरु­षा­र्थ­स­मा­प्तितः ।। १२४६ ।।

न च ब्रह्मोपदेशस्य सर्वभावातिरेकतः ।।
शक्यं फलान्तरं वक्तुं येना­सा­व­र्थ­वा­न्भ­वेत् ।। १२४७ ।।

पुम­र्थ­सा­ध­नेऽ­न्य­स्मिन्न चासौ विनियुज्यते ।।
सन्रवत्तेन तच्छास्रं स्यादनर्थकमेव तु ।। १२४८ ।।

मतं दुःखिन एवासौ संपदर्थं विधीयते ।।
ब्रह्मा­स्मी­त्य­वि­नि­र्ज्ञाते कथं ब्रह्मणि सा भवेत् ।। १२४९ ।।

तस्मिंस्तु शास्रा­द्वि­ज्ञाते शक्यते कर्तुमञ्जसा ।।
ब्रह्मसंपदतः शास्रं ताद­र्थ्या­द­र्थ­व­द्भ­वेत् ।। १२५० ।।

ननु ब्रह्म यदि ज्ञातं तावतैव कृतार्थता ।।
न चेत्तत्संपदा किं स्याद्येन तामनुरुध्यते ।। १२५१ ।।

नैवं ब्रह्मावबोधस्य पारार्थ्येन फलत्वतः ।।
सर्वमेव यतो ज्ञानं परार्थं फलवन्मतम् ।। १२५२ ।।

उक्त­त्वा­त्प­रि­हा­रस्य नैवमेतद्भवेदिह ।।
ब्रह्म­ज्ञा­ना­त्त­द­न्यत्र परार्थं ज्ञानमिष्यते ।। १२५३ ।।

सर्वत्रैव हि विज्ञानं संस्कारत्वेन गम्यते ।।
पराङ्गं चाऽऽत्म­वि­ज्ञा­ना­द­न्य­त्रे­त्य­व­धा­र­णात् ।। १२५४ ।।

सामानाधिकरण्येम तथा ब्रह्मा­त्म­श­ब्दयोः ।।
श्रुतौ श्रुतेर्न संप­त्स्या­त्सं­प­द्येष न हि क्रमः ।। १२५५ ।।

आत्मा ब्रह्मे­त्ये­व­मादौ सामा­ना­धि­क­र­ण्यगीः ।।
अन्यस्यान्यत्र संपत्स्यादद्वये सा कथं भवेत् ।। १२५६ ।।

द्रष्ट­व्य­स्याऽऽ­त्म­न­स्त­द्व­दै­कात्म्यं श्रुतिरब्रवीत् ।।
ब्रह्मादि सर्वमात्मेेति संपन्नातोऽत्र युज्यते ।। १२५७ ।।

तदा­प­त्ति­श्रु­ते­श्चेयं संप­न्ने­हो­प­प­द्यते ।।
ब्रह्मैव भव­ती­त्या­दि­त­दा­प­त्ति­व­चां­स्यपि ।। १२५८ ।।

वच­ना­त्स्या­त्त­दा­पत्तिः संपत्तेरिति चेन्मतम् ।।
नैवं प्रत्य­य­मा­त्र­त्वा­त्सं­प­त्तेर्न तदिप्यते ।। १२५९ ।।

तमो­मा­त्रा­न्त­रा­य­त्वा­दा­प्त­म्या­प्यते न तत् ।।
न च संपत्तमोहन्त्री मिथ्या­ज्ञा­ना­त्म­क­त्वतः ।। १२६० ।।

तमो­ध्वं­सा­ति­रे­केण सम्यग्ज्ञानस्य नापरम् ।।
फलमण्वपि संभाव्यं ज्ञान­स्या­का­र­क­त्वतः ।। १२६१ ।।

वस्तुनः शक्तिकृन्नापि वचनं ज्ञापकत्वतः ।।
ज्ञापकानि हि शास्राणि कारकाणि न कुत्रचित् ।। १२६२ ।।

अभी­ष्ट­पु­रु­षा­र्थस्य बाधश्चैवं प्रसज्यते ।।
निःशे­ष­पु­रु­षा­र्था­प्ति­कारि ब्रह्मावबोधनम् ।। १२६३ ।।

तादृक्षं संपदो न स्यान्न च दुःख्यात्मबोधतः ।।
निःशे­ष­पु­रु­षा­र्था­प्ति­स्त­द्बु­द्धे­र­नृ­त­न्रतः ।। १२६४ ।।

अपूर्वाद्यर्थ एवैकः प्राधान्येन विवक्षितः ।।
काण्डद्वयेऽपि नैत­स्मा­द­न्योऽर्थः कश्चिदीक्ष्यते ।। १२६५ ।।

एतावदर इत्यन्त उपसंहारदर्शनात् ।।
न चोप­क्र­म­सं­हा­र­वि­रु­द्धोक्तिः प्रशस्यते ।। १२६६ ।।

तत्रैवं सति संसारी यद्यन्यो ब्रह्मणो भवेत् ।।
इष्टस्यार्थस्य बाधः स्यान्न च ध्वान्त­नि­रा­कृतिः ।। १२६७ ।।

आरम्भेऽवसितौ शास्रं परस्परविरोधतः ।।
समञ्जसं न क्लृप्तं स्यात्सं­भ­वेऽ­प्य­वि­रो­धिनः ।। १२६८ ।।

समा­ख्या­नु­प­प­त्तिश्च ब्रह्मणोऽन्यस्य वेदनात् ।।
नापि रूढि­स्त­द­न्य­स्मि­न्न­श्व­क­र्णा­दि­व­द्भ­वेत् ।। १२६९ ।।

आत्मेति वेत्तु­र­न्य­श्चेन्न ब्रह्माहमिति श्रुतेः ।।
प्रतीचो ब्रह्म­व­त्प्र­त्य­ग्ब्र­ह्म­णोऽपि विशेषणम् ।। १२७० ।।

ब्रह्मता न मदन्यत्र कौटस्थ्यान्मन नाशिषु ।।
ब्रह्मणो नान्यतः प्रत्य­क्सा­क्षा­त्त्वा­द्ब्र­ह्म­व­स्तुनः ।। १२७१ ।।

अव्या­वृ­त्ता­न­नु­ग­ते­र्मु­ख्या­र्थश्च तथा सति ।।
ब्रह्मविद्येति सिद्धः स्याद्व्यपदेशो न चान्यथा ।। १२७२ ।।

भिन्ना­भि­न्न­त्व­गी­र्याऽपि साऽपि दुःस्थि­त­सि­द्धिका ।।
विरु­द्ध­ध­र्म­सं­बन्धो न प्रती­च्य­स्त्य­ध­र्मणि ।। १२७३ ।।

धर्म­ध­र्म्य­भि­सं­बन्धा गृह्य­न्तेऽ­ना­त्म­व­स्तुषु ।।
प्रत्य­क्षा­दि­प्र­मा­णेन नामीषामात्मनि ग्रहः ।। १२७४ ।।

आत्मा­ना­त्म­नि­मि­त्तेऽपि व्यपदेशोऽपि दुर्घटः ।।
विकल्पतो वा तत्सि­द्धि­र्ब्र­ह्म­सं­सा­रि­णो­र्भ­वेत् ।। १२७५ ।।

न चार्धवैशसं युक्तं तत्त्वज्ञाने विवक्षिते ।।
संशयो हि तथा श्रोतुः स्याद­नि­श्चि­त­वा­क्यतः ।। १२७६ ।।

निश्चितं फलवज्ज्ञानं यस्य स्यादिति शास्रतः ।।
न तु संशयितं यस्मा­त्सं­श­यात्मा विनश्यति ।। १२७७ ।।

पर­मा­त्म­न्य­युक्ता चेत्सा­ध­क­त्वा­दि­क­ल्पना ।।
शास्रोपालम्भतो नैवं शास्रीयेयं प्रकल्पना ।। १२७८ ।।

अक्षमा भवतः केयं साध­क­त्व­प्र­क­ल्पने ।।
किं न पश्यसि संसारं तत्रै­वा­ज्ञा­न­क­ल्पि­तम् ।। १२७९ ।।

अनात्मवस्तु यत्किं­चि­त्त­द्ब्र­ह्मा­न­व­बो­धतः ।।
ब्रह्मण्येव समध्यस्तं शुक्ति­का­र­ज­ता­दि­वत् ।। १२८० ।।

यस्मा­दे­व­म­तोऽ­शे­ष­सं­सा­रा­न­र्थ­क­ल्पना ।।
निदा­न­ब­हु­ला­ज्ञा­न­स­मु­च्छित्त्यै परा श्रुतिः ।। १२८१ ।।

ब्रह्मे­ति­ब्र­ह्म­श­ब्देन कृत्स्नं वस्त्वभिधीयते ।।
प्रकृ­त­स्याऽऽ­त्म­का­र्त्स्न्यस्य वैशब्दः स्मृतये मतः ।। १२८२ ।।

प्रकृ­ता­र्थो­प­रो­धाच्च मुख्य­ब्र­ह्मा­र्थ­ला­भतः ।।
यथो­क्त­दो­षा­भा­वाच्च ब्रह्म कृत्स्न­मि­हा­स्त्वतः ।। १२८३ ।।

ननु माना­दि­वि­र­हा­द­कृ­त्स्न­मपि नेष्यते ।।
कुतः कार्त्सन्यं यतः सर्वं मानादेव प्रसिध्यति ।। १२८४ ।।

अभ्युपेतौ च मानादेस्तस्य कार्त्स्न्यं विहन्यते ।।
न हि ब्रह्मा­ति­रि­क्तेऽर्थे सति संभाव्यतेऽजडैः ।। १२८५ ।।

भिन्ना­भि­न्न­त्व­वा­देऽपि ब्रह्मा­भि­न्ना­त्मना भवेत् ।।
व्यावृत्तेर्न तु भिन्नेषु ब्रह्मता स्याद्वटादिवत् ।। १२८६ ।।

वस्त्व­न्त­रा­भ्यु­प­गमः प्रत्य­क्का­र्त्स्न्य­वि­घा­त­कृत् ।।
न तु मानाभ्युपगमो मितेस्तदवसानतः ।। १२८७ ।।

वस्त्वन्तरस्य सद्भावः सिद्धे कार्त्स्न्ये विरुध्यते ।।
मानाद्यपेक्षा सिद्धस्य नानुन्मत्तेन चोद्यते ।। १२८८ ।।

न चापि वास्तवी सिद्धिः प्रमा­त्रा­दि­वि­रो­धिनी ।।
सत्यामेव यतस्तस्यां संसा­रा­न­र्थ­वि­भ्रमः ।। १२८९ ।।

वास्तव्या अपि संसिद्धेः स्वमहिम्नैव नेष्यते ।।
प्रमा­ण­वि­र­हा­त्सि­द्धि­रे­तच्च स्वानुभूतितः ।। १२९० ।।

मेय­का­र्त्स्न्या­वि­रो­धि­त्वान्न मितेः शङ्क्यते भिदा ।।
मेय­स्व­रू­पा­व­सि­ते­र्नान्या मानस्य मानता ।। १२९१ ।।

न हि मेयप्रतिस्पर्धि तन्मानं मेयबोधितः ।।
मान­प्र­सा­दा­त्सिद्धं सत्स्पर्धते मितिबाधितैः ।। १२९२ ।।

न हि वस्त्व­न­पा­श्रित्य मानत्वं लभ्यते मितेः ।।
वास्तव्या अपि संसिद्धेर्न सिद्धिः स्याप्रमां विना ।। १२९३ ।।

स्वप्रमेयार्पणं मुक्त्वा मानत्वेऽन्यन्न कारणम् ।।
अर्पितेन विरोधश्चेदस्तु कामं न दुष्यति ।। १२९४ ।।

प्राग्ज्ञा­ना­ज्ज्ञा­न­काले च मानं मेयोऽप्यपेक्षते ।।
प्रमाणकार्ये निर्वत्ते नान्य­त्किं­चि­द­पे­क्षते ।। १२९५ ।।

अज्ञातोऽर्थः प्रमेयः स्याज्ज्ञाते कोऽतिशयो मितेः ।।
अज्ञाते न विरोधोऽस्ति ज्ञाते चान्यानपेक्षतः ।। १२९६ ।।

मेया­सा­धा­र­णा­त्मो­त्थ­ज्ञा­न­स्यैव प्रमाणतः ।।
तस्य वस्त्व­नु­रो­धि­त्वा­द­भे­दा­द­वि­रो­धिता ।। १२९७ ।।

पश्ये­दा­त्मा­न­मि­त्यत्र नियोज्यो विषयाद्धिरुक् ।।
न लभ्यते यतो नात ऐकात्म्ये स्याद्विरुद्धता ।। १२९८ ।।

ब्रह्मश्रुतेश्च मुख्योऽर्थः प्रतीचोऽन्यत्र दुर्लभः ।।
यथा­क­थं­चि­दि­त्ये­त­दतौ नैवाभ्युपेयते ।। १२९९ ।।

स्वत एवाऽऽत्मनः कार्त्स्न्यान्न कार्त्स्न्यं साधनाश्रयात् ।।
साधनायासतः प्राक्व ब्रह्मै­वाऽऽ­सी­दि­ती­रि­तम् ।। १३०० ।।

आसीदित्यपि यः शब्दः स तन्मो­हा­द्य­पे­क्षया ।।
वस्तु­वृ­त्त­म­पे­क्ष्यै­त­न्ना­सी­दस्ति भविष्यति ।। १३०१ ।।

सदा­नु­दि­ता­लु­प्तै­क­ज्ञा­न­मू­र्ति­रिति त्वया ।।
कुतोऽज्ञायि विना मानान्मानं नाज्ञाततां विना ।। १३०२ ।।

एकं ब्रह्म सदा बुद्धं यथा मानानुभूतितः ।।
व्युत्पत्तेः प्रागविज्ञातं तथै­वा­नु­भ­वा­श्र­यात् ।। १३०३ ।।

व्युत्प­त्ति­फ­ल­मा­श्रित्य तमोसंभव उच्यते ।।
व्युत्पत्तेः प्राक्त­म­स्वित्वं तत्सा­क्षि­त्वेऽपि गम्यते ।। १३०४ ।।

स्वस­त्त­याऽऽ­त्मनो मोहं न यतो वस्तु हन्त्यतः ।।
शास्रा­ना­र­म्भ­दो­षोऽपि नैवैस्मान्प्रति ढौकते ।। १३०५ ।।

अनादेरपि बाधश्चेत्तमसो नाभ्युपेयते ।।
प्रमाणानां प्रमाणात्वं न क्वचिद्वः प्रसिध्यति ।। १३०६ ।।

अऩु­भू­ते­स्त­द­ज्ञातं सिद्धं ब्रह्म पुरा मितेः ।।
अपा­स्ता­ज्ञा­न­त­त्कार्यं तत्तु माना­त्प्र­सि­ध्यति ।। १३०७ ।।

पूर्वो­क्त्यै­वो­त्त­रेषां च दोषाणां परिहारतः ।।
परिहारान्तरं तस्मान्न वाच्यं तत्प्रसिद्धितः ।। १३०८ ।।

प्रतीचोऽर्थस्य ज्ञेय­त्वा­द­न­वस्था च नेष्यते ।।
अकारकस्य कौट­स्थ्या­द्वि­रोधो नाऽऽत्मदर्शने ।। १३०९ ।।

घटा­दि­मे­य­सा­धर्म्ये निषेधोऽपि श्रुतीरितः ।।
यथोक्तावगमत्वं तु न कथं­चि­न्नि­वा­र्यते ।। १३१० ।।

तस्मान्न कश्चिदप्यत्र कार्त्स्न्य­त्मा­व­गमे भवेत् ।।
दोषोऽतः सांप्रतं भाष्यग्रन्थं व्याचक्ष्महे स्फुटम् ।। १३११ ।।

यत्स्रष्टृ ब्रह्म पूर्वोक्तं स्वात्म­मो­है­क­व­र्त्मना ।।
कार्यं चैतन्यविम्बेन प्रविष्टं जलचन्द्रवत् ।। १३१२ ।।

ब्रह्मे­ति­ब्र­ह्म­श­ब्देन तदे­वा­त्रा­भि­धी­यते ।।
तस्य योऽतिशयः प्रोक्तो व्याकृ­ता­व्या­कृ­ता­त्मकः ।।
इदमित्युच्यते ब्रह्म तदु­पा­धि­स्व­भा­व­कम् ।। १३१३ ।।

वैशब्दोऽवधृतौ ज्ञेयो ब्रह्मैव न तदन्यथा ।।
अनि­र्ज्ञा­ता­त्म­तत्त्वं सद­ब्र­ह्मै­वा­व­भाति तत् ।। १३१४ ।।

यदि­दं­श­ब्द­धी­गम्यं सम्य­ग्ज्ञा­नो­द­या­त्पुरा ।।
अपि ब्रह्मैव त्कृत्स्नं तन्मो­हा­द­त­थे­क्ष्यते ।। १३१५ ।।

रज्जु­व­त्त­व­दि­ज्ञा­ना­त्स­र्प­द­ण्डा­दि­ने­क्ष्यते ।।
ब्रह्मे­दं­मा­त्र­श्र­व­णा­त्कु­तोऽग्र इति भण्यते ।। १३१६ ।।

सूत्रान्तजगतो व्यक्तेः प्राक्तनः काल उच्यते ।।
यद्वै तदिति तच्चापि स्पष्टमूर्ध्वं प्रवक्ष्यते ।। १३१७ ।।

नावि­द्या­सं­ग­ति­स्तत्र तद­का­र्य­त्व­हे­तुतः ।।
तमोजस्यापि कार्यस्य न प्रती­च्य­स्त्य­का­र­णात् ।। १३१८ ।।

प्रत्य­क्त­याऽऽ­त्म­सं­ब­न्धा­न्मो­हा­दे­श्चि­न्नि­भा­त्मता ।।
आचिच्छेषादतो नासौ मृषा स्याद्ध­र्म­का­र्य­वत् ।। १३१९ ।।

प्रत्य­ग्या­था­त्म्य­सं­बो­धा­न्नान्यो हेतुः समीक्ष्यते ।।
निरन्वयविनाशाय योऽलं संसाररूपिणः ।। १३२० ।।

कौटस्थ्यासंगतो नास्य मोह­त­त्का­र्य­सं­गतिः ।।
स्वतः सेद्धु­म­श­क्त­त्वा­न्मो­हा­दे­रा­त्म­सं­गतिः ।। १३२१ ।।

कार्ष्ण्येनेव वियद्योगः खवृत्तापेक्षया त्वसन् ।।
आत्मनैवं तमोयोगो नाऽऽत्म­वृ­त्ता­नु­रो­धतः ।। १३२२ ।।

अन्यतः संगतिः सेय­म­वि­चा­रि­त­सि­द्धिका ।।
अवि­ज्ञा­त­चि­दु­त्स­ङ्ग­सं­स्थै­वेयं न वस्तुनि ।। १३२३ ।।

अवि­द्या­द्वा­रि­काऽ­प्यस्य संग­ति­र्ना­ञ्ज­से­ष्यते ।।
निरा­त्म­क­प­रा­र्थ­त्व­हे­तुभ्यां शुक्तिरूप्यवत् ।। १३२४ ।।

प्रत्य­ग्रू­पा­ति­रे­केण नान्य­द्रू­प­म­ना­त्मनः ।।
वादि­भि­र्यु­क्तिभिः शक्यं कचित्साधयितुं सदा ।। १३२५ ।।

कूट­स्था­दि­त­मो­न्तेन नित्य­म­व्य­ति­रे­कतः ।।
बुद्ध्या­दे­र्वि­ष­या­न्तस्य नित्यमेतदतो जगत् ।। १३२६ ।।

अतोऽ­वि­द्या­म­हा­नि­द्रा­सं­वी­त­म­न­सा­मसौ ।।
जन्मा­दि­वि­क्रि­या­षट्कं स्वप्न­द­र्श­न­वि­भ्रमः ।। १३२७ ।।

यथा व्याख्या­त­बा­ह्या­र्थ­प्र­धा­नोऽ­सं­ह­तोऽ­प्रमः ।।
सर्व­प्र­मा­ण­भा­क्त­द्व­त्प्र­मा­णा­भा­स­भ­गपि ।। १३२८ ।।

अवि­चा­रि­त­सं­सिद्धि तमो­व­त्स्या­त्त­दु­द्भ­वम् ।।
कृत्स्नं जगदतो मोहध्वस्तौ ध्वस्तं भवेच्चितिः ।। १३२९ ।।

भिन्न­मा­तृ­प्र­मा­णादौ कार्य­का­र­ण­व­स्तुनि ।।
अभि­न्न­मा­तृ­मा­ना­दि­रा­त्मै­वै­कोऽ­द्वयः स्वतः ।। १३३० ।।

न देश­का­ला­व­स्था­दा­व­पे­क्षाऽ­स्त्या­त्मनः स्वतः ।।
अन­न्या­पे­क्ष­सं­सि­द्धे­र्दे­शा­दे­स्त­द­पे­क्षतः ।। १३३१ ।।

देश­का­ल­नि­मि­त्ता­दि­व्य­पेक्षं वस्तु यद्भवेत् ।।
तदेव तदपेक्षं स्यान्न तु देशादिसिद्धिदम् ।। १३३२ ।।

प्रमा­त्रा­द्यु­त्थ­इ­ते­रग्ने ब्रह्मै­वाऽऽ­सी­द्य­थो­दि­तम् ।।
यतस्ततो न साध्यं तज्ज्ञा­न­क­र्मा­दि­सा­धनैः ।। १३३३ ।।

ब्रह्मापि तत्स्वतः साक्षा­त्त­द­बो­धै­क­हे­तुतः ।।
इदंरूपं समापेदे रशनेवाहिरूपताम् ।। १३३४ ।।

अविद्याफलकारूढं तदेवंरूपकं परम् ।।
ब्रह्म विद्या­धि­का­रित्वं द्वैवि­ध्या­त्प्र­ति­प­द्यते ।। १३३५ ।।

स्वतो मुक्तं यत­स्त­स्मा­द्ब्रह्म विद्यां तदर्हति ।।
संसा­रि­त्व­म­वि­द्यातो मुमुक्षुत्वं ततो भवेत् ।। १३३६ ।।

अध्यात्ममधिभूतं च तथा चैवाधिदैवतम् ।।
परं तदभिमानेद्धं तच्छ­ब्दे­ना­भि­धी­यते ।। १३३७ ।।

हिरण्यगर्भतां नीत्वा कृत्स्न­म­ध्या­त्म­रू­प­कम् ।।
तस्मै हिरण्यगर्भाय ब्रूयाद्विद्यां तमस्विने ।। १३३८ ।।

एवं निःशे­ष­सं­सा­र­प्र­त्या­ख्या­नेन निर्वृतिम् ।।
सर्वा­वि­द्या­प­नि­ह्नुत्या विद्यया प्रतिपद्यते ।। १३३९ ।।

आत्मा­ना­त्मा­त्मकं विश्वं प्रत्य­क्षा­दि­प्र­मा­ण­कम् ।।
आत्मानमेव तदवेन्निष्ठां कार्त्स्न्या­त्मनः पराम् ।। १३४० ।।

अवि­चा­रि­त­सं­सिद्धि सर्वा­न­र्थै­क­का­र­णम् ।।
प्रत्य­ङ्या­त्रै­क­सा­क्षि­त्वा­त्त­म­स्त­त्प्र­त्य­गा­त्मनि ।। १३४१ ।।

प्रतीच्येव यतोऽ­ज्ञा­न­म­त­स्त­त्त­त्त्व­वि­द्यया ।।
सकार्ये तमसि ध्वस्त आत्मै­वै­कोऽ­व­शि­ष्यते ।। १३४२ ।।

विरक्तः सर्व­सं­सा­रा­न्नि­वि­वृत्सुः स्वतस्ततः ।।
संसा­रा­न­ल­सं­त­प्त­स्त­द्वि­रुद्धं परीप्सति ।। १३४३ ।।

तस्या­कृ­त्स्ना­प­वा­देन कृत्स्नै­का­त्म्या­व­बु­द्धये ।। १३४४ ।।
अन्व­य­व्य­ति­रे­काख्यो व्यापारो विहितः पुरा ।।
आत्मेत्येवेति विधिना परा­क्प्र­त्य­ग्वि­वे­क­कृत् ।। १३४५ ।।

ऐकात्म्यं वीक्ष्यते तेन त्यक्त्वा सर्वाननात्मनः ।।
कृत्स्नमेव यतो वस्तु तदन्यत्तदबोधजम् ।। १३४६ ।।

कृत्स्नं पश्येदिति ततो वाक्यं वस्तुनि वर्तते ।।
प्रवि­ष्टोऽ­कृ­त्स्न­रू­प­त्वा­त्सं­सा­रा­न­र्थ­चो­दितः ।।
आत्मेत्यनेन कृत्स्ना­त्म­द­र्श­नाय नियुज्यते ।। १३४७ ।।

कृत्स्न आत्मेत्यतो वाक्यात्तथारूपं दिदृक्षति ।।
अन्यो­न्या­र्थ­स­मा­प्ति­त्वान्न भेदोऽत्र पदार्थयोः ।। १३४८ ।।

अकृ­त्स्ना­ना­त्मनः सर्वा­न्कृ­त्स्नां­श्चा­ना­त्म­न­स्तथा ।।
अन्व­य­व्य­ति­रे­काभ्यां तथा कृत्स्ना­न­ना­त्मनः ।। १३४९ ।।

निर्मा­ल्य­व­त्प­रि­त्यज्य चैत­न्या­भा­स­व­र्त्मना ।।
अनु­नी­याऽऽ­त्म­नाऽऽ­त्मानं कृत्स्नात्मानं प्रपश्यति ।। १३५० ।।

उक्त­दो­षा­प­नु­त्त्यर्थं प्रत्यु­क्ति­र्गौ­रवी त्वियम् ।।
ब्रह्म वा इद­मि­त्या­दि­र्नातो दोषोऽत्र कश्चन ।। १३५१ ।।

प्रमेेयं यत्पुरा पृष्टं तद्ब्रह्म किमवेदिति ।।
सर्वं चाप्य­भ­व­द्य­स्मा­ज्ज्ञानं ज्ञेयं च भण्यते ।। १३५२ ।।

तद्ब्र­ह्माऽऽ­त्मा­न­मे­वा­वे­न्मेयं मानं च भण्यते ।।
आत्मा मेयस्तथा मानमात्मप्रत्यय एव तु ।। १३५६ ।।

नाऽऽत्म­ज्ञा­ना­द्य­तोऽ­ज्ञानं विद्य­तेऽ­ना­त्म­न­स्ततः ।।
नाऽऽत्म­या­था­त्म्य­वि­ज्ञा­ना­ज्ज्ञा­न­म­न्य­द­ना­त्मनः ।। १३५४ ।।

प्रमा­त्रा­दि­वि­भा­गेन यज्ज्ञानं प्रथते कचित् ।।
तज्जन्मनः पुरोवार्थो न तेन ज्ञायतेऽञ्जसा ।। १३५५ ।।

तमो­मा­त्रा­व­सा­यि­त्वान्न यथावस्तु तत्ततः ।।
प्रत्य­ग्व­स्त्वा­त्म­क­त्वेऽपि चित्र­म­ज्ञा­न­चे­ष्टि­तम् ।। १३५६ ।।

यत्प्र­सा­दा­त्त­मः­सि­द्धि­स्त­त्स्व­सा­क्ष्य­प्य­प­ह्नते ।।
तमोऽ­प्य­नु­भा­वा­देव प्राक्त­द्व्यु­त्प­त्ति­ज­न्मनः ।। १३५७ ।।

प्राक्प्र­वृत्तेः प्रमा­णा­ना­म­ज्ञातं यदिहोदितम् ।।
अक्षादि तत्तमोबाधान्न मानं रज्जुसर्पवत् ।। १३५८ ।।

न पश्यन्तीत्यतः प्राह बोद्धृ­त्वा­दि­स­म­न्व­यम् ।।
न हि मोहैकनिष्ठेन तद्धीनं वस्तु मीयते ।। १३५९ ।।

आत्मानं विरहय्यान्यो नाल­मा­त्मा­व­बु­द्धये ।।
असा­धा­र­ण­त­न्मा­तृ­मा­न­मे­या­त्म­क­त्वतः ।। १३६० ।।

असाधारणमात्रादि प्रत्यग्वस्तु यतस्ततः ।।
नियोगोऽपीह नाऽऽयाति भिन्न­क­र्त्रा­दिगो ह्यसौ ।। १३६१ ।।

सर्वमज्ञातमेव स्याद्य­स्मि­न्न­ज्ञात आत्मनि ।।
ज्ञाते ज्ञातं च तत्का­र्त्स्न्या­त्ता­व­त्त्वा­त्स­र्व­व­स्तुनः ।। १३६२ ।।

युक्त्या निरूप्यमाणस्य ह्यात्मा तत्त्वमनात्मनः ।।
प्रत्याख्यातः स चेत्तेन कानात्मा सिध्यतां ततः ।। १३६३ ।।

अना­त्म­त­त्त्व­म­न्वेति ह्यात्माऽ­स­ङ्गोऽ­गु­णोऽ­द्वयः ।।
असिध्यन्स स्वतःसिद्धौ सिद्धिं कान्ग्रत्र लप्स्यते ।। १३६४ ।।

सर्व­वा­दि­वि­रो­धेऽपि संवादोऽनुभवे यथा ।।
वादि­ना­म­वि­सं­वा­द­स्त­थाऽ­ज्ञा­नेऽ­प्य­सं­शयः ।। १३६५ ।।

तद्व­द्वा­धोऽ­प्य­बो­धस्य बोधे­ना­भ्यु­प­ग­म्यते ।।
एतावतैव पर्या­प्त­म­स्म­द्रा­द्धा­न्त­सि­द्धये ।। १३६६ ।।

अस्म­द्रा­द्धा­न्त­सं­सिद्धौ नान्य­द्रा­द्धा­न्त­सि­द्धता ।।
तत्सिद्धावस्य संसिद्धिर्न कथं­चि­न्नि­वा­र्यते ।। १३६७ ।।

अज्ञानं संशयज्ञानं मिथ्याज्ञानमिति त्रिकम् ।।
अज्ञानं कारणं तत्र कार्यत्वं परिशिष्टयोः ।। १३६८ ।।

कूट­स्थ­ज्ञा­न­मा­त्र­त्वान्न तमोऽस्य स्वभावतः ।।
नाप्यागन्तु तथाऽज्ञानं हिरु­क्सि­द्धे­र­सं­भ­वात् ।। १३६९ ।।

अवि­द्या­त­ज्ज­का­र्या­णा­मा­त्मना संगतिस्ततः ।।
आत्मा­त्म­व­त्त्व­रूपा स्यान्न तु सोभयकर्मजा ।। १३७० ।।

एकमेव हि सद्वस्तु यद्वे­दा­न्त­प्र­मा­ण­कम् ।।
ताव­न्मा­त्रै­क­नि­ष्ठ­त्वा­दा­त्म­ज्ञानं सदास्पदम् ।। १३७१ ।।

सर्व­बा­दि­वि­रो­धेऽपि यत्सि­द्धा­न्त­ब­ला­श्र­यम् ।।
साधनं दूषणं सर्वं न तन्नि­ह­नु­ति­रि­ष्यते ।। १३७२ ।।

साधनं दूषणं सर्वं यस्य पादव्यपाश्रयात् ।।
सिद्धायते तीर्थदृशां कुतः स्यात्तस्य निहनुतिः ।। १३७३ ।।

अभावो येन भावेन भाव्यतेऽस्ति न नास्ति सः ।।
तम्य भावम्य सद्भावो वद केन निवार्यते ।। १३७४ ।।

व्यभिचारि न यत्रास्ति प्रमाणं सर्ववादिनाम् ।।
स्वमहिम्ना च यत्सिद्धं तदपह्नूयते कथम् ।। १३७५ ।।

तस्यै­वा­व्य­भि­चा­रि­त्वा­त्स­र्वेषु व्यभिचारिषु ।।
तदेवैकं प्रमाणं नः सर्ववाद्यविरोधि यत् ।। १३७६ ।।

देहा­दा­वा­त्म­बु­द्धिर्नो न कदाचिद्विहन्यते ।।
जाग्र­त्स्व­प्न­सु­षु­प्तेषु शुक्ति­का­र­ज­ता­दि­वत् ।। १३७७ ।।

देहा­न्ता­त्क­र्तु­रन्यो यो बुद्ध्य­न्ता­द्ब्रो­द्ध­रेव च ।।
प्राणा­न्ता­त्क­र­णा­च्चान्यः प्रत्य­ग्दृष्ट्या य ईक्ष्यते ।। १३७८ ।।

अदे­ह­तोऽ­ज­रोऽ­मृ­त्यु­र­स्वा­न्तोऽ­मो­ह­शो­क­वान् ।।
अबु­भु­क्षोऽ­पि­पा­सश्च प्राण­का­र­ण­व­र्ज­नात् ।। १३७९ ।।

अहीनो हीयते योऽसौ तथाऽनागत एति यः ।।
जानी­या­त्त­म­ना­त्मानं जाग्र­त्स्व­प्न­सु­षु­प्तिषु ।। १३८० ।।

न हीयते हीयमान आगच्छति न चैति यः ।।
आग­मा­पा­य­सा­क्षि­त्वा­दात्मा सोऽनुभवाश्रयात् ।। १३८१ ।।

नावि­द्या­म­नु­पा­दाय प्रत्यक्कारकतां व्रजेत् ।।
नाकारकः क्रियां कर्तुमलं जगति वीक्ष्यते ।। १३८२ ।।

द्गष्टु­र्दृष्ट्या न चानाप्तोऽनात्मा कश्चि­त्प्र­सि­ध्यति ।।
मिथ्या­ज्ञा­न­म­तोऽ­नात्मा ह्यात्मा­ज्ञा­न­स­मु­त्थितेः ।। १३८३ ।।

नावि­द्या­म­नु­पा­दाय जाग्र­त्स्व­प्न­सु­षु­प्तिषु ।।
अनात्मानं विजानाति तज्ज­ज्ञा­त्रा­द्य­न­न्व­यात् ।। १३८४ ।।

न च ज्ञात्र­नु­रो­धिन्या दृष्ट्याऽ­ज्ञा­ना­स­म­न्वि­तम् ।।
आत्माऽऽत्मानमलं द्नष्टुं रूपं श्रोत्रधिया यथा ।। १३८५ ।।

उत्सा­र्या­ना­त्मनः सर्वा­न­न्व­य­व्य­ति­रे­कतः ।।
प्रत्य­क्प्र­धा­नया दृष्ट्या पश्ये­दा­त्मा­न­म­द्व­यम् ।। १३८६ ।।

त्वं ब्रह्मेति गुरो­र्वा­क्या­त्त­न्नि­वि­ष्ट­प­दा­र्थयोः ।।
उक्ता­न्व­या­दि­नो­त्प­न्नि­वि­वेकः सन्नबुध्यत ।। १३८७ ।।

तद्ब्र­ह्माऽऽ­त्मा­न­मे­वा­वे­द्य­द­ना­त्मे­त्यु­भू­त्पुरा ।।
अविद्यया विद्यया तु ब्रह्माऽऽ­त्मै­वा­भ­व­त्स्वतः ।। १३८८ ।।

एवेत्यवधृतौ ज्ञेयं ब्रह्मा­त्मा­र्थ­वि­शे­ष­णम् ।।
आत्मैव ब्रह्म वेज्ञेयं ब्रह्मै­वाऽऽ­त्मेति संभवात् ।। १६८९ ।।

ब्रह्मता नाऽऽत्म­नोऽ­न्यत्र नाऽऽत्मता ब्रह्मणोऽन्यतः ।।
तद्या­था­त्म्या­प्र­बो­धात्तु तयोरेष विपर्ययः ।। १३९० ।।

आत्माऽपि साक्षा­त्त­द्ब्रह्म परोक्षं तदबोधतः ।।
ब्रह्मैव तद्वदात्माऽपि सद्वि­ती­य­व­दी­क्ष्यते ।। १३९१ ।।

वाक्यो­त्थ­स­म्य­ग्वि­ज्ञा­न­प्र­ध्व­स्त­त­मसो यतेः ।।
विभा­ग­हे­तो­रु­च्चित्तेः सर्वमात्मैव शिष्यते ।। १३९२ ।।

विज्ञातारमरे केन विजानीयादिति श्रुतेः ।।
ननु विप्र­ति­षि­द्धार्थं तदा­त्मा­न­मि­ती­र्यते ।। १३९३ ।।

दृष्टे­र्द्र­ष्टेति विज्ञानान्नात्र विप्रतिषिद्धता ।।
प्रत्यग्बुद्धिः प्रमात्रादौ सर्व­त्रै­वो­प­जा­यते ।। १३९४ ।।

युष्म­द­स्म­द्वि­भा­गाभ्यां यावद्वस्त्विह मीयते ।।
तेन तेन विशेषेण प्रत्यगर्थः प्रतीयते ।। १३९५ ।।

प्रत्य­ग­र्थ­म­ना­लिङ्ग्य न पराग्वर्ति जायते ।।
विज्ञानं तेन तत्पूर्वं सर्व­म­न्य­त्प्र­ती­यते ।। १३९६ ।।

आब्रह्मास्थाणुु चान्वक्षं सर्वेषु व्यभिचारिषु ।।
प्रत्य­योऽ­व्य­भि­चा­र्ये­क­श्चै­त­न्य­प्र­ति­बि­म्बितः ।। १३९७ ।।

न च विप्रतिपद्यन्ते वादि­नोऽ­नु­भ­वा­त्मनि ।।
तत्र चेत्स्या­द्वि­सं­वादः केनान्येन चिकित्स्यते ।। १३९८ ।।

अन्योऽपि योऽत्रः कल्प्यः स्यात्सोऽ­प्य­स्मा­न्नैव भिद्यते ।।
सर्व­भे­दा­त्म­रू­प­त्वात्कः सन्स्यादात्मना विना ।। १३९९ ।।

प्रत्यगात्मनि विश्वस्य ततोऽनात्मनि तद्वशात् ।।
अवि­द्व­द­ङ्ग­ना­बालं बिश्व­सि­त्य­न­पे­क्षतः ।। १४०० ।।

आत्म­नै­वाऽऽ­त्म­वि­ज्ञानं ज्ञेय­ज्ञा­त्रा­दि­व­र्जि­तम् ।।
स्वयमेव फलात्मत्वात्फलं चास्मान्न भिद्यते ।। १४०१ ।।

प्रमा­ण­व्य­व­हा­रोऽयं सर्वेषामपि वादिनाम् ।।
स्वतोऽ­नु­भ­व­निष्ठः स्यान्न चेत्ष­ष्ठे­न्द्रि­या­र्थ­वत् ।। १४०२ ।।

चैत­न्य­मा­त्र­रू­पोऽयं सदानस्तमितोदितः ।।
अवि­द्या­म­स्पृ­श­न्नास्ते निष्क्रि­योऽ­का­र­कोऽ­फलः ।। १४०३ ।।

स्वतोऽ­स­ङ्ग­स्व­भा­व­त्वा­त्ख­च­रादि वियद्यथा ।।
नाविद्या नापि तत्कार्यं प्रत्यक्स्थमपि ढौकते ।। १४०४ ।।

स्वतः सेद्धु­म­श­क्त­त्वा­त्ख­मृते वायुवत्सदा ।।
प्रत्या­ख्या­त­स्व­भा­वोऽपि सिध्यतीवाग्रहो दृशौ ।। १४०५ ।।

युतिं साधारणात्मा हि यात्य­सा­धा­र­णा­त्मभिः ।।
अनन्यवृत्तितो नाऽऽत्मा संसर्गं प्रैत्यनात्मभिः ।। १४०६ ।।

विभ­ज्य­मा­नोऽ­न्येभ्यो हि विशेषोऽपि प्रसिध्यति ।।
line २ miss ।। १४०७ ।।

भेद­सं­स­र्ग­ही­न­त्वा­त्प­द­वा­क्या­र्थ­ताऽऽ­त्मनः ।।
दुःसंभाव्याऽत आत्माऽ­य­मा­त्म­नै­वा­नु­भू­यते ।। १४०८ ।।

यादृगस्य द्वये तत्त्व­मा­त्म­नै­वा­नु­भू­यते ।।
निषि­द्धा­शे­ष­भे­दस्य ताव­दे­वाऽऽ­त्म­सा­क्षि­कम् ।। १४०९ ।।

अपास्ताशेषतमसो यत्तत्त्वं प्रत्यगात्मनः ।।
तदवच्छित्तये नालं प्रत्य­ग्बो­धा­दृ­तेऽ­न्यधीः ।। १४१० ।।

प्रत्य­ङ्भा­त्रे­क्ष­णा­दा­त्म­मो­ह­त­ज्ज­नि­रा­कृतेः ।।
असं­भ­वा­द्द्वी­ती­यस्य स्याम­पू­र्वा­दि­मा­न­हम् ।। १४११ ।।

व्यपे­त­त­म­स्त­त्त्व­मा­ग­मा­पा­सा­क्षिणः ।।
ज्ञानेन गम्यते साक्षा­त्ता­व­न्मा­त्रा­नु­रो­धिना ।। १४१२ ।।

काला­दि­प्र­वि­भक्तं सद्य­द्ब्र­ह्मा­भू­द­वि­द्यया ।।
तत्प्र­त्य­क्त­त्त्व­सं­बो­धा­द्ध्वस्ते ध्वान्तेऽ­न्त­रा­त्मनि ।।
आत्मानमेव तद्ब्रह्म ब्रह्मै­वाऽऽ­त्मे­त्य­वे­च्छ्रुतेः ।। १४१३ ।।

अब्र­ह्मा­ना­त्म­ता­हेतौ प्रत्य­ग्ध्वान्ते निवर्तिते ।।
व्यावृ­त्त्य­नु­ग­मा­भा­वा­त्सर्वं तदभवत्ततः ।। १४१४ ।।

व्यावृ­त्त्य­नु­गमौ यस्माद्द्वितीये सति वस्तुनि ।।
दृष्टि­मा­त्रा­त्म­व­स्तु­त्वा­त्का­र्य­का­र­ण­व­स्तुनः ।। १४१५ ।।

नाज्ञातं किंचिदप्यस्ति नानपास्तं तमोऽप्यतः ।।
सामा­ना­धि­क­र­ण्या­र्थ­म­स्मी­त्ये­त­त्पदं भवेत् ।। १४१६ ।।

ब्रह्मा­हं­प­द­यो­रर्थौ यौ तयोः संगतिर्मिथः ।।
अहमर्थो विशेष्योऽत्र तत्प्रा­धा­न्य­प्र­सि­द्धितः ।। १४१७ ।।

तद्या­था­त्म्य­प्र­सि­द्ध्यर्थं ब्रह्मार्थस्तु विशेषणम् ।। १४१८ ।।
विशेषणानां संबन्धो विशेष्येण विशेषणैः ।।
विशेष्यस्यापि संबन्धः स्वात­न्त्र्य­पा­र­त­न्त्र्यतः ।। १४१९ ।।

विशे­ष­ण­वि­शे­ष्याणां साकल्येनैव संगतिः ।।
उपा­त्ता­न्यो­न्य­रू­पाणां विशेषणविशेष्यता ।। १४२० ।।

उपा­त्त­द्र­व्य­का­ण्येव विशिं­ष­न्त्यु­त्प­ला­दि­कम् ।।
द्रव्यं विशेषणान्येति तथो­पा­त्त­वि­शे­ष­णम् ।। १४२१ ।।

नायः­श­ला­का­क­ल्पानां विशेषणविशेष्यता ।।
पर­स्प­रा­न­पे­क्ष­त्वा­द्धि­म­व­द्वि­न्ध्य­यो­रिव ।। १४२२ ।।

एकदा निर्विभागेन कार्त्स्न्य­सं­गा­ति­का­र­णात् ।।
साम­र्थ्या­त्स्व­वि­रु­द्धानां न विशेष्येऽस्ति संभवः ।। १४२३ ।।

परस्पराविरोधेन विशिं­ष­न्त्या­त्म­सं­श्र­यम् ।।
विशेषणानि येना­त­स्त­द्वि­रुद्धं न ढौकते ।। १४२४ ।।

विशेषणयुतिः शाब्दी तद्वि­रु­द्ध­नि­रा­कृतिः ।।
मोहमात्रेण तत्प्राप्तेः सामा­र्थ्या­त्स्यान्न शब्दतः ।। १४२५ ।।

एकै­क­रू­पा­सं­स­र्ग­बो­ध­मा­त्र­स्व­भा­वतः ।।
विशेषणानां संप्रा­प्ति­र्नाऽऽ­ञ्जसी प्रत्यगात्मनि ।। १४२६ ।।

विशेषणानां संबन्धो यतो न प्रत्यागात्मनि ।।
लक्ष्यलक्षणता तस्मा­त्प्र­ती­च्य­ध्य­व­सी­यते ।। १४२७ ।।