बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥संबंधभाष्यवार्तिकम् ॥ (७)
नर्ते विभागं संबन्धः प्रतीचाऽनात्मनोऽस्ति हि ।।
प्रत्यगर्थोऽविभागात्मा नातः संगच्छते द्वयम् ।। ९७४ ।।
अतो दुःस्थितसिद्ध्येतत्पराग्वस्त्वन्तरात्मनि ।।
तावन्मात्रैकयाथात्म्याद्बुद्ध्यादे रज्जुसर्पवत् ।। ९७५ ।।
पराक्तयैष ज्ञातोऽपि प्रत्यग्याथात्म्यहेतुतः ।।
अनात्माऽज्ञात एव स्याच्छुक्तिकारूप्यबोधवत् ।। ९७६ ।।
निर्धारणे वा षष्ठीयं ज्ञेयार्थस्यावधारणात् ।।
प्रतीचो ह्यनधिगतान्नान्योऽनधिगतो यतः ।। ९७७ ।।
ज्ञातोऽपि तद्वदेवास्मान्नाऽऽत्मनो विद्यते परः ।।
प्रत्यगज्ञानहेतुत्वात्तदन्यस्येह वस्तुनः ।। ९७८ ।।
अनात्मनोऽस्य सर्वस्य व्याकृताव्याकृतात्मनः ।।
यस्मादात्मा परं तत्त्वं पदनीयमतो भवेत् ।। ९७९ ।।
खण्डादौ गोत्ववद्यस्मात्प्रत्यग्दृष्ट्याऽन्तरात्मनि ।।
समीक्ष्यते हिरुङ्गनापि तेनासावात्मतत्त्वकः ।। ९८० ।।
ज्ञेय आत्मैव नानात्मा पदनीयत्वकारणात् ।।
नन्वन्यज्ञाने नान्यस्य कचिदस्त्यवबुद्धता ।। ९८१ ।।
सत्यमेवं भवेदेतद्यद्यात्माऽप्यन्य इष्यते ।।
आत्माऽसावन्य इति च नानुन्मत्तस्य गीरियम् ।। ९८२ ।।
अनेनेति तृतीयेयमित्थंभूतार्थलक्षण ।।
इदंधीशब्दगम्यस्य प्रत्यङ्भात्रसतत्त्वतः ।। ९८३ ।।
घटो नास्तीति कोऽन्वस्मान्मानादर्थः प्रतीयते ।।
संवित्तावदशेषेभ्यः प्रमाणेभ्योऽवसीयते ।। ९८४ ।।
न संविदः पृथक्त्वेन नापि संविदि तद्धिया ।।
अनात्मवस्तूत्प्रक्ष्यं स्याद्यथा संविदियं स्वतः ।। ९८५ ।।
उपलब्धोऽस्ति सन्कुम्भो लम्बोष्ठो देशकालवान् ।।
पूर्वपूर्वातिरेकेण नोत्तरार्थोऽनुभूयते ।। ९८६ ।।
कर्त्रादिव्यापृतेः पूर्वं संवित्स्वात्मन्यवस्थितेः ।।
अविभागादनाख्येया तदुद्भूत्य फलायते ।। ९८७ ।।
अक्रियेऽपि यथा व्योम्नि द्युत्पत्तिस्थितिहानिभिः ।।
जगन्ननर्ति मय्येवं सदसद्विश्वरूपभृत् ।। ९८८ ।।
नञ्घटार्थावपह्नुत्य संवित्सद्रूपमात्रया ।।
अवगत्यात्मना सत्त्वं सर्वदृक्स्यादविक्रियः ।। ९८९ ।।
दिग्विभागोऽविभागेऽपि व्योम्नि यद्वत्प्रकल्पितः ।।
प्रध्वस्ताशेषभेदेऽपि मयि भिन्नधियस्तथा ।। ९९० ।।
कथं पुनरबोधोत्थक्लृप्तोपायेन नत्परम् ।।
गम्यते सत्यमित्यस्य परिहृत्यै परं वचः ।। ९९१ ।।
परमार्थात्मनाऽसत्यं पदं तदपि बोधकम् ।।
स्वार्थस्यैवमुपायत्वमसत्यस्याऽऽत्मनीक्ष्यताम् ।। ९९२ ।।
उपायसत्यतां मुक्त्वा नान्यादृश्युपयुज्यते ।।
सत्यताऽत्र ह्युपायानामुपेये किं तयेष्यते ।। ९९३ ।।
गवादिखुरिबिम्वो वा पदमित्युपदिश्यते ।।
अनन्वितार्थसिद्ध्यर्थं दृष्टान्तोऽयं तथा सति ।। ९९४ ।।
गवादिबोधनिर्वृत्तिः पदतज्ज्ञानहेतुतः ।।
अनन्वितपदज्ञानगोपिण्डैकावसायिनी ।। ९९५ ।।
यथैवं नामरूपादिप्रपञ्चोपायहेतुतः ।।
अप्रपञ्चात्मके भूम्नि प्रत्यग्बोधः प्रजायते ।। ९९६ ।।
प्रमाणभूमावैकात्म्यं विरोधान्न प्रतीयते ।।
तमोन्वयाप्रमेयत्वात्तदभावेऽपि नेक्ष्यते ।। ९९७ ।।
न हि वस्त्वात्मनैवाऽऽत्ममोहाद्युच्छित्तये कचित् ।।
प्रमाणनिरपेक्षं सद्वस्त्वलं स्वप्रसिद्धये ।। ९९८ ।।
संसारानवतारः स्यान्मानवैफल्यमेव च ।।
इत्येतस्येह चोद्यस्य परिहाराय चोत्तरम् ।। ९९९ ।।
यथा गवात्मना साक्षाद्गां विन्देद्गोपदानुगः ।।
प्रत्यक्चैतन्यसृत्यैवं विन्देत्तत्परमं पदम् ।। १००० ।।
प्रत्यक्तया यदाभाति ह्यागमापायिसाक्षितः ।।
देहेन्द्रियमनोधीषु चैतन्याभासरूपकम् ।। १००१ ।।
जडेष्वेकमनेकेषु कूटस्थं क्षणभङ्गिषु ।।
अनात्मसु तथा चाऽऽत्मा संहतेष्वप्यसंहतः ।। १००२ ।।
तस्यावाक्यार्थरूपस्य पदमेतत्प्रचक्षते ।।
पद्यतेऽनेन तद्यस्मात्तेनेदं पदमुच्यते ।। १००३ ।।
स्वमहिम्नैव चेत्सिध्येदुपायः परमार्थवत् ।।
स्वतः सिद्धेर्न मिथ्यात्वं तस्य स्यात्परमार्थवत् ।। १००४ ।।
परमार्थादभिन्नश्चेन्नितराममृषात्मता ।।
इत्यादि पूर्वमुक्तं यदनुसंधेयमत्र तत् ।। १००५ ।।
न सामान्यं विशेषो वा यथैकात्म्येऽवगम्यते ।।
उक्तमप्युत्तरत्रैतदसंतोषात्प्रवक्ष्यते ।। १००६ ।।
प्रत्यगात्मनि विज्ञाते नाज्ञातमवशिष्यते ।।
अनेन ह्येतदित्युक्त्या तत्पूर्वमुपवर्णितम् ।। १००७ ।।
निःशेषपुरुषार्थाप्तिर्दुःखहानिस्तु तत्फलम् ।।
यथा हेत्युच्यते श्रुत्या साधनाभिन्नमात्मनः ।। १००८ ।।
ननु प्रतीचि विदिते तदन्यद्विदितं भवेत् ।।
ज्ञानार्थे प्रकृते कस्माल्लाभार्थेनोपसंहृतिः ।। १००९ ।।
ज्ञानलाभार्थयोर्यस्मादेकार्थत्वं विवक्षितम् ।।
अविद्याध्वंसमात्रत्वात्तेनात्रास्त्वविरुद्धता ।। १०१० ।।
नित्यलब्धैकरूपस्य नालाभोऽज्ञानतोऽन्यतः ।।
यथैवं तस्य लाभोऽपि तज्ज्ञानान्नान्यतो भवेत् ।। १०११ ।।
आत्मता ब्रह्मणो लाभो ब्रह्मताऽप्यात्मनः फलम् ।।
व्यावर्त्यभेदात्तद्भित्तेरेकं वस्तु द्विरुच्यते ।। १०१२ ।।
ब्रह्मता नाऽऽत्मनोऽन्यत्र नाऽऽत्मता ब्रह्मणोऽन्यतः ।।
यत एवमतोऽभेदो ज्ञानलाभार्थयोरिह ।। १०१३ ।।
लब्धृलब्धव्ययोर्भेदो यत्राविद्योत्थभूमिषु ।।
फलभेदः क्रियाभेदात्तत्र भिन्नार्थता तयोः । १०१४ ।।
आप्ताशेषपुमर्थोऽपि प्रत्यग्याथात्म्यमोहतः ।।
असर्वज्ञो भवेदात्मा तथाऽनाप्तार्थ एव च ।। १०१५ ।।
तत्राऽऽत्मा लब्धाऽविद्वान्स्याल्लब्धव्यं च क्रियाफलम् ।।
उत्पत्त्याद्यन्तरायं सत्कारकोपात्तिपूर्वकम् ।। १०१६ ।।
तादृग्लब्धोऽप्यलब्धः स्यादविद्यामात्रहेतुतः ।।
आद्यन्तयोरभावाच्च स्वप्नपुत्रादिलाभवत् ।। १०१७ ।।
विपरीतस्वभावोऽत आत्मलाभः स्वतः सदा ।।
अज्ञानहेतोरन्यादृक्स च ज्ञानान्निवर्तते ।। १०१८ ।।
आरभ्य सर्वं वेदेति ज्ञानार्थेनोपसंहृतिम् ।।
अतोऽनुविन्देदित्याह लाभार्थेनैव तत्फले ।। १०१९ ।।
अप्रख्यातो यथैवाऽऽत्मा व्याकृते ख्यातिमेयिवान् ।।
एवं तदवबोधान्ना ख्यातिमेत्यविनश्वरीम् ।। १०२० ।।
संहतिश्चक्षुरादीनां श्लोकशब्देन भण्यते ।।
यथाऽऽत्मा संहतिं प्रापद्व्याकृतः करणादिभिः ।। १०२१ ।।
एवं विद्वानवाप्नोति पुत्रामात्यादिसंहतिम् ।।
उक्तज्ञानप्रवृत्त्यर्थमर्थवादोऽयमिष्यते ।। १०२२ ।।
निरेषणानां नेदृग्धि संसारं प्रजिहासताम् ।।
फलं युक्तं प्रवृत्त्यङ्गमर्थवादो भवेदतः ।। १०२३ ।।
कीर्ति चैकात्म्यविज्ञानं श्लोकं चैकात्म्यसंगतिम् ।।
यथोक्तवस्तुवेद्येतत्फलमाप्नोत्यभीप्सितम् ।। १०२४ ।।
अव्याकृतव्याकरणं प्रत्यग्दर्शनसिद्धये ।।
तदन्तरायस्तत्सक्तिस्तन्निवृत्तौ परा श्रुतिः ।। १०२५ ।।
शब्दादिबडिशाकृष्टचेतसः प्रत्यगीक्षणे ।।
न सामर्थ्यं यतस्तेभ्यो व्यावृत्त्यर्थं परा श्रुतिः ।। १०२६ ।।
हेत्वन्तरोपदेशो वा पदनीयत्व आत्मनः ।।
तदेतदितिशास्रेण भण्यते तद्वुभुत्सवे ।। १०२७ ।।
सांख्यमुक्तिनिवृत्त्यर्थमथवाऽस्तूत्तरा श्रुतिः ।।
प्रेयोगिराऽऽत्मनो यस्मान्निष्ठाऽऽनन्दस्य भण्यते ।। १०२८ ।।
पुत्रात्प्रेय इदं तत्त्वं वित्तात्प्रियतरं तथा ।।
पुत्रो वित्तं च लोकेऽपि प्रसिद्धं प्रियरूपतः ।। १०२९ ।।
ईयसुंस्तमवर्थे स्यात्पुत्रादीनां बहुत्वतः ।।
छान्दसत्वात्प्रियतमस्तथाऽऽत्मा संभवत्यपि ।। १०३० ।।
वित्तात्पुत्रः प्रियः पुत्रात्पिण्डः पिण्डात्तथेन्द्रियम् ।।
इन्द्रियेभ्यः प्रियः प्राण आत्मा प्रियतमस्ततः ।। १०३१ ।।
वित्तं द्विविधमप्यत्र वित्तशब्देन गृह्यते ।।
देवलोकः फलं यस्माद्देवस्यापि न तत्पदम् ।। १०३२ ।।
प्रीतिसाधनहेतुत्वात्प्राणादौ प्रीतिरिष्यते ।।
बन्धकीप्रीतिवन्मुख्या नैवानात्मसु युज्यते ।। १०३३ ।।
व्याध्याद्युपप्लुतो यस्माद्वक्ति निर्विण्णमानसः ।।
अद्यैव मरणं श्रेयो मम दुःखार्दितात्मनः ।। १०३४ ।।
प्रतीचि निर्निमित्तैव सर्वावस्थास्वपीष्यते ।।
प्रीतिरग्न्युष्णवत्तस्मादात्मा प्रेयामननात्मनः ।। १०३५ ।।
त्रैगुण्यात्सर्वभावानां मोहदुःखसुखात्मता ।।
स्वत एव त्वनध्यस्ता ह्येवं केचित्प्रचक्षते ।। १०३६ ।।
तत्तु नैवं यतः सत्त्वं मोहादित्रयकृद्धियः ।।
भानूदयं प्रपश्यामश्चोरदृग्रोगिदिग्दृशाम् ।। १०३७ ।।
समं त्रयं त्रिषु भवेन्त्रैगुण्यं चेद्रवौ मतम् ।।
गुणान्तराधिकारोऽपि न च भानूदये मतः ।। १०३८ ।।
प्रमाणैर्गृह्यते प्रीतिर्व्यभिचारिण्यनात्मसु ।।
रज्ज्वां सर्पादिवन्नैवं प्रत्यगात्मनि सेक्ष्यते ।। १०३९ ।।
आत्मैव प्रिय इत्यत्र हेतुः स्पष्टोऽभिधीयते ।।
श्रुत्याऽन्तरतरोक्त्येह तद्धेतुश्चाऽऽत्मतोच्यते ।। १०४० ।।
यथाऽन्तरतमः प्रत्यक्तथोदर्के प्रवक्ष्यते ।।
वाचक्नव्यक्षरान्तेन ग्रन्थेन प्रत्यगात्मनः ।। १०४१ ।।
प्रत्यक्ताऽन्यानपेक्षा हि तदन्यत्तदपेक्षया ।।
यतोऽन्तरतमः प्रत्यङ्त्कस्मादेवावगम्यते ।। १०४२ ।।
यस्य त्वष्टास्ववस्थासु प्रत्यक्त्वं सममिष्यते ।।
तस्यान्तरतम इति दुर्घटं वचनं भवेत् ।। १०४३ ।।
अन्यूनाधिकरूपासु त्वष्टावस्थास्विहाऽऽत्मनः ।।
कं विशेषं समश्रित्य ह्यात्माऽन्तरतमो मतः ।। १०४४ ।।
भाक्तैवानात्मसु प्रीतिर्यस्मात्तस्मादनात्मनः ।।
व्युत्थाप्य निखिलां प्रीतिं प्रतीच्येव निवेशयेत् ।। १०४५ ।।
एवं व्यवस्थितौ सत्यां युक्तिलेशोऽभिधीयते ।।
पुत्रादि प्रियमात्मेति द्वयोर्विवदमानथोः ।। १०४६ ।।
आत्मनोऽन्यत्प्रियमिति यो ब्रूते मोहसंप्लुतः ।।
ब्रुवाणं तं प्रति ब्रूयादिति श्रुत्यनुशासनम् ।। १०४७ ।।
यस्ते प्रियतयाऽभीष्टः सोऽचिराद्दुःखकृद्भवेत् ।।
यतो नङ्क्ष्यति स क्षिप्रं नश्यंश्चासुखकृत्प्रियः ।। १०४८ ।।
यथोक्तस्याविसंवादं तत्तथैवेति च श्रुतिः ।।
आत्मैव प्रिय इत्येवं प्रतिज्ञां प्रत्यभाषत ।। १०४९ ।।
यस्मादेवमतो हित्वा प्राणादीनप्रियात्मनः ।।
सर्वान्तरतमात्मानमुपासीत प्रियं सदा ।। १०५० ।।
स य आत्मानमित्युक्त्या प्राप्तदोषनिराक्रिया ।।
प्रमायुक्त्वं मर्त्यत्वात्प्राणादेर्न तु वार्यते ।। १०५१ ।।
व्यावृत्तसर्ववाह्यार्थप्रीतेस्तन्मुक्तिकामिनः ।।
न हास्येति गिरा नातो मुमुक्षोः फलकीर्तनम् ।। १०५२ ।।
अाविरिञ्चाद्विरक्तश्चेत्कुम्भीपाकादिवेह यः ।।
आप्ताशेषक्रियाकार्यो मुक्तौ स विनियुज्यते ।। १०५३ ।।
परीक्ष्य लोकानित्यादि तथा नैगमिकं वचः ।।
त्यज धर्ममधर्मं चेत्येवमादि स्मृतेरपि ।। १०५४ ।।
आत्माविद्यापनुत्त्यर्थं प्रारब्धोपनिषत्परा ।।
आत्मेत्युपक्रमं यच्च तत्सूत्रं प्रागुदाहृतम् ।। १०५५ ।।
तद्धेदमित्यनेनास्याः प्रमेयोऽर्थो निरूपितः ।।
अकृत्स्नवचसा तद्वत्प्रमाभासोऽप्यपोदितः ।। १०५६ ।।
आत्मैवैकोऽत्र द्रष्टव्यः कृत्स्नत्वान्नाऽऽत्मनोऽपरः ।।
अकृत्स्न एव तावत्स्यात्तदन्यो यावदीक्ष्यते ।। १०५७ ।।
कोऽहं कस्य कुतो वेति कः कथं वा भवेदिति ।।
प्रयोजकमतेरेष विध्यर्थोऽत्रावगम्यते ।। १०५८ ।।
उत्पत्तिस्थितिविध्वंसाः कार्याणां स्युः कुतो न्विति ।।
अन्वयव्यतिरेकाख्यो व्यापारोऽत्र विधीयते ।। १०५९ ।।
तपसा तत्परं ब्रह्म विद्धीति वचनादतः ।।
अन्वयव्यतिरेकाख्यो व्यापारोऽत्र तपो मतम् ।। १०६० ।।
यतो वा इत्यतो वाक्यान्न तदन्यत्तपो भवेत् ।।
लक्षणोक्तेर्य आत्मेति सोऽन्वेष्टव्यइति श्रुतेः ।। १०६१ ।।
त्यक्ताप्रियपरागर्थो ह्यमानित्वादिसाधनः ।।
प्रियात्मानमुपासीत शक्रवद्ब्रह्मचर्यवान् ।। १०६२ ।।
आत्मेत्यनेन वाक्येन ब्रह्मविद्योपसूत्रिता ।।
यदर्थोपनिषत्कृत्स्ना वृ्त्तिस्तस्या भविष्यति ।। १०६३ ।।
आत्मेत्येकमिदं सूत्रं कण्डिकाद्वयमेव वा ।।
अध्यायो वा समस्तोऽयमध्यायद्वयमेव वा ।। १०६४ ।।
अव्याकृतव्याकरणप्रभृतीन्यपरे विदुः ।।
पञ्चैव किल सूत्राणि तथाऽपीष्टं न बाध्यते ।। १०६५ ।।
अव्याकृतं स एषेह तथाऽऽत्मैवेति चापरः ।।
पदनीयं तथा प्रेयः पदार्थाः पञ्च सूत्रिताः ।। १०६६ ।।
यथोक्तानां च सूत्राणामा शास्रस्य समापनात् ।।
वृत्तिः स्यादुत्तरो ग्रन्थस्तत्र तेषां समन्वयात् ।। १०६७ ।।
व्याचिख्यासुरथेदानीं सूत्रार्थाञ्श्रुतिरञ्जसा ।।
प्रयोजनाभिधित्साया उपोद्धाते प्रवर्तते ।। १०६८ ।।
वक्ष्यमाणवचो वस्तु तच्छब्देनाभिधीयते ।।
व्रह्म जिज्ञासवो विप्रा आहुर्यद्गुरुसंनिधौ ।। १०६९ ।।
विज्ञाताशेषवेदान्तसर्वस्वं ब्रह्मणि स्थितम् ।।
उपसद्य गुरुं न्यायादाहुः केचिन्मुमुक्षवः ।। १०७० ।।
यज्ञाद्याहितसंस्कारा अपास्ताशेषसाधनाः ।।
सांसारिकपुमर्थेभ्यो विरक्ताः शुद्धबुद्धयः ।। १०७१ ।।
त्यक्त्वा कर्माणि निःसङ्गाः कर्मणां चरितार्थतः ।।
ब्रह्मविद्याप्लवेनेमं संसाराब्धिं तितीर्षवः ।। १०७२ ।।
आ विरिञ्चात्पुमर्थानामकृत्स्नत्वादिदोषतः ।।
वितृषोऽशेषतद्दोषध्वस्तिश्रेयः परीप्सवः ।। १०७३ ।।
साक्षेपमाहुः श्रेयांसं गुरुं प्राप्य निरेषणाः ।।
गुरुद्वारैव विद्येह श्रेयःप्राप्तौ क्षमा यतः ।। १०७४ ।।
किमाहुरित्यपेक्षायामिदं तदभिधीयते ।।
मन्यन्त इत्यनेनैव य़च्छब्दो याति संगतिम् ।। १०७५ ।।
अव्यावृत्ताननुगतं वस्तु ब्रह्मगिरोच्यते ।।
मुख्यार्थो ब्रह्मशब्दोऽयमेवं सत्युपपद्यते ।। १०७६ ।।
तद्यया वेद्यते बुद्ध्या तदसाधारणात्मना ।।
ब्रह्मविद्येति तां साक्षाच्छेमुषीं प्रतिजानते ।। १०७७ ।।
सर्वं कृत्स्नं भविष्यामो मन्यन्ते ब्रह्मविद्यया ।।
यन्मनुष्या वयं तत्र विरोधमनुयुष्दमहे ।। १०७८ ।।
कृत्स्नमेव यतः प्रोक्तं वस्तु यत्पारमार्थिकम् ।।
तत्प्रमाणविशद्ध्यर्थं चोदयन्ति मुमुक्षवः ।। १०७९ ।।
ब्रह्मविद्यैव कृत्स्नाप्तौ यस्मात्साधनमुच्यते ।।
तत्प्राौ तत्तमोमात्रं व्यवधानमतो भवेत् ।। १०८० ।।
द्योतिकैव यतो विद्या न त्वसौ कारकं ततः ।।
उत्पत्त्यादिक्रियाकार्यं तस्माच्चेह न शङ्क्यते ।। १०८१ ।।
सिद्धेऽर्थे द्योतको दीपो न तु कार्ये यतस्ततः ।।
सर्वात्मभावः सर्वेषां सिद्धः प्रागपि बोधतः ।। १०८२ ।।
अतोऽकृत्स्रा वयं मोहात्कृत्स्नात्मानोऽपि वस्तुतः ।।
निहत्य विद्ययाऽविद्यां यामः कार्त्स्न्यं स्वतोगतम् ।। १०८३ ।।
अधिकारविनिश्चित्यै मनुष्या इति गीरियम् ।।
मनुष्याणां हि निःशेषत्रय्यर्थेऽधिकृतिर्यतः ।। १०८४ ।।
दृष्टार्थतो वा विद्याया मनुष्यग्रहणं कृतम् ।।
तावन्मात्रोऽधिकार्यत्र नाग्निहोत्राधिकारिवत् ।। १०८५ ।।
प्रत्यबुध्यत यो यस्तदिति चोर्ध्वं प्रवक्ष्यति ।।
नातः कर्माधिकार्यत्र दृष्टार्थत्वादपेक्ष्यते ।। १०८६ ।।
कर्मभ्य इव च ज्ञानात्फलप्राप्तिं सुनिश्चिताम् ।।
मन्यन्त उभयत्रापि श्रुतिमानाविशेषतः ।। १०८७ ।।
यन्मन्यन्ते नरास्तत्र विरुद्धमिव लक्ष्यते ।।
यतोऽतश्चोदयामोऽत्र यथा विप्रतिषिद्धता ।। १०८८ ।।
किमु तद्ब्रह्म यद्वेद्यं यज्ज्ञानात्सर्वताऽऽप्यते ।।
किंचापि तदवेदन्यद्यज्ज्ञानात्कृत्स्नतामगात् ।। १०८९ ।।
ब्रह्माकृत्स्रं मतं तच्चेदुक्तदोषानिराकृतेः ।।
अऩुपास्यं भवेत्तादृक्प्राणादिवदसंशयम् ।। १०९० ।।
कल्पना नापि गौण्यत्र मुख्यार्थे सति युज्यते ।।
न ह्यालभन्ते बाहीकं मुख्ये गवि सति कचित् ।। १०९१ ।।
मुख्यं ब्रह्म न चेदस्ति गौणं स्यात्तद्विना कुतः ।।
मुख्यमग्निं विना गौणं न लोकोऽप्यवगच्छति ।। १०९२ ।।
अकृत्स्नज्ञानतो नापि पुरुषोर्थोऽवगम्यते ।।
ब्रह्माज्ञानसमुत्थत्वान्मिथ्याज्ञानत्वकारणात् ।। १०९३ ।।
मेयमानादिसंभित्तिर्यदि नामेह लभ्यते ।।
अयथावस्तुरूपत्वात्स्वप्नमेयादिवत्तु सा ।। १०९४ ।।
अकृत्स्नस्य च ब्रह्मत्वं विरुद्धं भानुशैत्यवत् ।।
तस्मादकृत्स्नं ब्रह्मेति न मानेनोपपद्यते ।। १०९५ ।।
ब्रह्मास्तु तर्हि तत्कृत्स्नमुक्तदोषासमन्वयात् ।।
मुख्यार्थलाभतश्चापि तस्य च प्रकृतत्वतः ।। १०९६ ।।
न कृत्स्नमिति तद्गाह्यं तत्प्रमाणाद्यसंभवात् ।।
तदन्यवस्तुसद्भावे तद्ब्रह्मत्वं विहन्यते ।। १०९७ ।।
न च मानानपेक्षस्य सिद्धिरभ्युपगम्यते ।।
मानादियत्नानर्थक्यप्रसक्तिः स्यात्तथा सति ।। १०९८ ।।
सदानुदितालुप्तैकज्ञप्तिमात्रसतत्त्वकम् ।।
यद्यपीष्टं तथाऽपीदं नाऽऽत्ममोहापनोदकृत् ।। १०९९ ।।
न हि मानमनाश्रित्य वस्त्वात्माज्ञानहानिकृत् ।।
स्रक्स्थाण्वादादृष्टत्वादुक्तदोषोऽपि चाऽऽपतेत् ।। ११०० ।।
मानाद्यनभ्युपेतौ हि न किंचिद्वस्तु सिध्यति ।।
तदभ्युपेतौ ब्रह्मत्वं व्यावृत्तेर्न प्रसिध्यति ।। ११०१ ।।
यथाकथंचिच्छब्दार्थो यदि नामाभ्युपेयते ।।
तथाऽपि दोषवद्ब्रह्म यथा तदधुनोच्यते ।। ११०२ ।।
कृत्स्नं वा यदि वाऽकृत्स्नं यथेच्छसि तथाऽस्तु तत् ।।
ब्रह्मत्वं किं स्वतस्तस्य किंवा तत्परातो मतम् ।। ११०३ ।।
यदि तावत्स्वतस्तत्स्याद्ब्रह्मविद्या निरर्थिका ।।
न ह्युष्णत्वं हुताशस्य परतः कुर्वते बुधाः ।। ११०४ ।।
ज्ञानमूर्तेर्न चाज्ञानमागन्तु सहजं तथा ।।
भानौ तमोवत्तेनेदृग्ब्रह्म नैवोपपद्यते ।। ११०५ ।।
शास्राद्यारम्भानर्थक्यदोषश्चापि प्रसज्यते ।।
स्वानुभूतिविरोधोऽपि ब्रह्मत्वं चेद्भवेत्स्वतः ।। ११०६ ।।
योषाग्निवच्चेच्छास्रं स्याद्वृष्टिमात्रविधायकम् ।।
तथा सत्यविरोधः स्याद्भिन्नाधिकरणत्वतः ।। ११०७ ।।
सदसीति क्रियानिष्ठं प्रत्यक्षाद्यर्थनिष्ठितम् ।।
विरोधः कोऽनयोरत्र मिथोर्थासंस्पृशोः सतोः ।। ११०८ ।।
नैतदेवं यतो वाक्यं वस्तुनिष्ठं पुरोदितम् ।।
विरोध एव तेन स्यादेकाधिकरणत्वतः ।। ११०९ ।।
अशक्या ब्रह्मदृष्टिश्च कर्तुं ब्रह्माप्रसिद्धितः ।।
लोकसिद्धौ तु योषाग्नी तद्दृष्टिः सुकरेष्यते ।। १११० ।।
अथाग्निवच्चेत्तद्ब्रह्म सिद्धं मानान्तरान्मतम् ।।
तावतैव कृतार्थत्वात्किमन्यत्प्रार्थ्यते श्रुतेः ।। ११११ ।।
तद्दृष्टावेन निःशेषपुरुषार्थसमाप्तितः ।।
फलान्तराय तद्दृष्टिर्न च स्यादग्निदृष्टिवत् ।। १११२ ।।
परतोऽपि च कृत्स्नत्वे ब्रह्मत्वं दुःस्थासिद्धिकम् ।।
क्रियातो ज्ञानतो वा तद्यदि वोभयसंश्रयात् ।। १११३ ।।
न ब्रह्मता क्रियातः स्यादुत्पत्त्यादिसमन्वयात् ।।
न स्यादाद्यन्तवद्ब्रह्म ह्यपूर्वाजादिशास्रतः ।। १११४ ।।
अपवादश्च बहुशः कर्मकार्यस्य दृश्यते ।।
मुमुक्षुत्वस्य तद्धेतोः कर्मकार्यं न तत्ततः ।। १११५ ।।
अथ ज्ञानात्तदभवत्कृत्स्नं ब्रह्मेति चेन्मतम् ।।
अन्यानन्यप्रमेयत्वे तथाऽपीष्टं न सिध्यति ।। १११६ ।।
क्रियाविरोधः प्राप्नोति यद्यनन्यस्य मेयता ।।
श्रुत्यन्तरविरोधश्च प्रत्यग्दृष्टौ प्रसज्यते ।। १११७ ।।
तथाच ज्ञानसाध्यत्वं ब्रह्मणः संप्रसज्यते ।।
अन्यानन्यप्रमेयेऽपि दोषोऽयं दुर्निवारणः ।। १११८ ।।
बुद्ध्वाऽथान्यत्तदभवत्तदन्यत्किमबुध्यत ।।
तदप्यन्यत्पुराऽज्ञासीदनवस्था प्रसज्यते ।। १११९ ।।
निर्निमित्तस्य कृत्स्नत्वेऽप्यस्मदादेस्तथा न किम् ।।
पक्षपातः श्रुतेर्नापि प्रामाण्यादुपपद्यते ।। ११२० ।।
समुच्चयनिषेधश्च युक्तिभिर्वक्ष्यते स्फुटम् ।।
प्रधानगुणभावोऽपि विरोधान्न तयोर्भवेत् ।। ११२१ ।।
इत्यादिबहुदोषत्वाद्दुःसंभाव्यं प्रमाणतः ।।
विद्ययैवाऽऽप्नुमः कार्त्स्न्यमित्यादि यदुदीरितम् ।। ११२२ ।।
न कश्चिदापि दोषोऽत्र यथैतदुपपत्स्यते ।।
अन्यथा कल्प्यमानेऽस्मिन्नुक्तदोषपरंपरा ।। ११२३ ।।
एवं तावदुपोद्धातो व्याख्यातोऽत्र समासतः ।।
भगवत्पादभाष्येऽस्मिन्नन्यदीयोऽपि वर्ण्यते ।। ११२४ ।।
तदतद्ब्रह्मविद्याया आरम्भे फलमुच्यते ।।
तत्प्रवृत्त्यङ्गतायै च तत्फलस्य प्रकीर्तनम् ।। ११२५ ।।
वक्ष्यमाण उपोद्धातो ब्रह्मविद्या ततः परम् ।।
ततोऽप्यूर्ध्वं फलोक्तिश्चेत्तच्छब्देनोच्यते कथम् ।। ११२६ ।।
अनन्तरेण संबन्धसामर्थ्ये सत्यमानतः ।।
दवीयसाऽभिसंबन्धस्तच्छब्दस्योच्यते कुतः ।। ११२७ ।।
द्वैतैकत्वात्मकं साक्षाद्ब्रह्मविद्योदयात्पुरा ।।
समाप्य तत्फलं कृत्स्नं जातकौतूहलाः परे ।। ११२८ ।।
आहुरेवं द्विजाः केचिद्विरक्ताः पूर्वभूमितः ।।
संभाव्यते ब्रह्मविद्भिर्यत्तदर्थबुभुत्सवः ।। ११२९ ।।
द्वैतैकत्वधिया नैव पूर्वया फल्गुकार्यया ।।
संभाव्यते सर्वभूतिर्यतः सा ब्रह्मविद्यया ।। ११३० ।।
द्वैतैकत्वमतिर्यद्वत्स्वानुरूपफलाप्तये ।।
अलं सर्वमतिस्तद्वत्सर्वभावफलाप्तये ।। ११३१ ।।
ब्रह्मबुद्द्या भविष्यामः कृत्स्नं ब्रह्मेति तद्विदः ।।
यन्मन्यन्तेऽथ तद्ब्रह्म किमवेदिति पृच्छ्यते ।। ११३२ ।।
किमवेदिति यः प्रश्नः स किं स्यात्कर्तृकर्मणोः ।।
विद्यायाः पृच्छयते कर्ता कर्म वेह विवक्षितम् ।। ११३३ ।।
ब्रह्मणा चेत्कृता विद्या निष्फलेयं प्रसज्यते ।।
ब्रह्मविद्योदयाद्यस्मादभूद्ब्रह्म पुराऽपि तत् ।। ११३४ ।।
तस्मात्कर्मैव विद्यायाः पिपृच्छिषितमत्र तु ।।
प्रमेयोपाश्रयादेव यतः प्रामाण्यमुच्यते ।। ११३५ ।।
वस्तुनिष्ठत्वतोऽदोषः कर्तर्यपि विवक्षिते ।। ११३६ ।।
सर्वं ब्रह्माभवद्यस्माद्विज्ञानात्तदिहोच्यते ।।
ब्रह्मविद्येति सर्वाप्तावसाधारणकारणम् ।। ११३७ ।।
सर्वैकत्ववबोधोऽयं ब्रह्मविद्यागिरोच्यते ।।
द्वैतस्याद्वैतयाथात्म्यात्क्लृप्तसर्पादितत्त्ववत् ।। ११३८ ।।
सर्वैकत्वं परं ब्रह्म परमात्मेति यं विदः ।।
तन्मोहजानां सर्वेषां स तत्त्वं परमार्थतः ।। ११३९ ।।
तदज्ञानैकहेतुत्वात्तेनैव परमात्मना ।।
तदन्यान्यात्मवन्ति स्युः सर्पादीनि स्रजा यथा ।। ११४० ।।
उक्तात्मच्युतदृष्टीनां तदबोधैकहेतुतः ।।
आब्रह्मस्थाणुभेदोऽयं नामरूपक्रियात्मकः ।।
अविद्याकृत एवायं न यथावस्तुधीकृतः ।। ११४१ ।।
तमोघ्न्यैव ततो ब्रह्म प्राप्यते ब्रह्मविद्यया ।। ११४२ ।।
यथोक्ततत्त्वकान्येव रज्ज्वां तत्क्लृप्तवस्तुवत् ।।
सूत्रं विराड्देवता च यावत्किंचिच्च वस्त्विह ।। ११४३ ।।
ब्रह्मैवेदं यथा सर्वं विद्यया तदबोधजम् ।।
अविद्यया तथाऽकृत्स्नं ब्रह्म सूत्रादिरूपकम् ।। ११४४ ।।
भावनाज्ञानकर्माणि साधनानीति यद्यपि ।।
तत्सतत्त्वमविद्यैव यतोऽतः सैव कारणम् ।। ११४५ ।।
न हि साधनसापेक्षं वस्तु स्यात्पारमार्थिकम् ।।
परमार्थं न वस्त्वस्ति यत्परायत्तसिद्धिकम् ।। ११४६ ।।
मोहोत्याः पृथगात्मानः साधनायत्तसिद्धिकाः ।।
सूत्रादयस्तृणान्ताः स्युरन्योन्यव्यभिचारिणः ।। ११४७ ।।
सर्वेऽप्येते यथादृष्टि ह्येकैकस्य तमस्विनः ।।
सूत्रादयोऽनुभूयन्ते यथाकर्म यथाश्रुतम् ।। ११४८ ।।
अविद्यैव यतोऽमीषां प्रागभाषो न तत्परम् ।।
भावनाज्ञानकर्मभ्यो जन्मैषां तेन नान्यतः ।। ११४९ ।।
यथैता दर्शनावस्थाः कार्यमासां तथाविधम् ।।
उत्पाद्यमाप्यं संस्कार्यं विकार्यं च क्रियावशात् ।। ११५० ।।
पिण्डात्माऽहमितीक्षाणः पिण्डमेव प्रपद्यते ।।
दैवं विराजं सूत्रं च मृतः सन्प्रतिपद्यते ।। ११५१ ।।
संस्कारोपचयाद्यद्वद्देवो भूत्वैति देवताम् ।।
संस्कारापचयाद्ध्वंसस्तथा तासां न संशयः ।। ११५२ ।।
ब्रह्मणोऽन्यद्यतो वस्तु ब्रह्मैव परमार्थतः ।।
तदबोधात्तदन्यत्तद्बोधाद्ब्रह्मैव तत्त्वतः ।। ११५३ ।।
सूत्रादिदर्शनानां स्यात्सूत्राद्येव यथा फलम् ।।
परात्मदर्शनस्यापि तद्भावः स्यात्तथा फलम् ।। ११५४ ।।
ब्रह्मभावोऽत्र नित्यः स्यात्कारणाद्यनपेक्षतः ।।
अनित्यमितरत्सर्वं यदविद्याविजृम्भितम् ।।। ११५५ ।।
अनित्यं दर्शनं ज्ञेयं नित्यस्यापि परात्मनः ।।
मोहमात्रान्तरायत्वात्कादाचित्कं हि दर्शनम् ।। ११५६ ।।
अहमेव परं ब्रह्मेत्यस्यार्थस्याप्रबुद्धता ।।
अविद्येति वयं ब्रुमो येह नास्ति सदाऽऽत्मनि ।। ११५७ ।।
परात्मनि तु संबोधो नित्यः स्याच्छशिशीतवत् ।।
तदन्यात्मस्वनित्योऽसौ सोहसंवीतबुद्धिषु ।। ११५८ ।।
तत्रैवं सति योऽकार्त्स्न्यमित्वा ब्रह्माप्रबोधतः ।।
सर्वात्मविद्ययाऽविद्यां हत्वा ब्रह्माभवत्पुमान् ।। ११५९ ।।
पुराऽपि चाऽऽत्मसंबोधाद्ब्रह्मैवायं स्वतो ह्यभूत् ।।
यतोऽतस्तत्त्वसंबोधाद्ब्रह्म ब्रह्म प्रपद्यते ।। ११६० ।।
प्रत्यग्याथात्म्यसंबोधात्तदन्यत्रैव या मतिः ।।
परार्था सा मतिर्ज्ञेया बाह्यकर्मव्यपाश्रया ।। ११६१ ।।
अहं ब्रह्मेति यज्ज्ञानं स्वार्थमेव तदिष्यते ।।
सर्वप्रयोगवीजात्मध्वान्तोच्छेदित्वहेतुतः ।। ११६२ ।।
निःशेषपुरुषार्थानां ज्ञेयानां चापि कृत्स्नतः ।।
प्रत्यक्तत्त्वपरिज्ञानसमुत्पत्तौ समाप्तितः ।। ११६३ ।।
भर्तृप्रपञ्चप्रस्थानमेवमेतद्यथोदितम् ।।
इतोऽन्यत्रापि तद्भाष्यं गमयेदेवमेव तु ।। ११६४ ।।
ब्रह्मभाविरवं श्रुत्वा ये तु व्याचक्षतेऽन्यथा ।।
तानुद्दिश्य विचारोऽयं प्रारब्धो गुरुभिः स्फुटः ।। ११६५ ।।
यथोक्तसूत्रव्याख्यायां प्रयोजनविवक्षया ।।
उपोद्धातोक्तदोषाणां परिहाराय यत्यते ।। ११६६ ।।
ब्रह्मविद्योपदेशस्य विषयश्चावधार्यते ।।
साक्षाद्ब्रह्माथवा ब्रह्म यदि वोभयरूपकम् ।। ११६७ ।।
समाशङ्कितनिःशेषदोषनागन्धितं स्फुटम् ।।
श्रुतिः प्रतिवचः प्राह दोषमूलनिरासकृत् ।। ११६८ ।।
ब्रह्मेति ब्रह्मशब्दोऽयं मुख्यब्रह्मार्थवाचकः ।।
अपूर्वादिश्रुतेर्ज्ञेयो ब्रह्मत्वं न ततोऽन्यथा ।। ११६९ ।।
अविचारितसंसिद्धिप्रत्यगज्ञानकारणात् ।।
अब्रह्मेव तदाभाति मोहसंवीतचेतसः ।। ११७० ।।
प्रत्यक्संबोधविध्वस्तप्रत्यङ्भोहः परात्मनः ।।
संभावयति संबोधान्नान्यद्वस्त्वन्तरं यथा ।। ११७१ ।।
एवमेव महामोहसंवीतधिषणः पुमान् ।।
ब्रह्मैवापि स्वतो मोहान्न तत्संभावयत्यपि ।। ११७२ ।।
बुद्धतत्त्वस्य लोकोऽयं जडोन्मत्तपिशाचवत् ।।
बुद्धतत्त्वोऽपि लोकस्य जडोन्मत्तपिशाचवत् ।। ११७३ ।।
यदि नामास्ति संभेदः साक्षात्कल्पितसर्पयोः ।।
भीतं प्रत्यविशिष्टोऽसौ वास्तवत्वादनादृतः ।। ११७४ ।।
प्रत्यक्तत्त्वं तमोमात्रव्यवधानादिहोच्यते ।।
ब्रह्मभावीति न पुनर्वस्तुतत्त्वव्यपेक्षया ।। ११७५ ।।
इदंधीशब्दगम्यं यद्ब्रह्मरूपाद्विशिष्यते ।।
ब्रह्मैव तदुपाधीहेदंशब्देनाभिधीयते ।। ११७६ ।।
योऽसावविद्योत्सङ्गस्थः प्राक्प्रविष्ट इतीरितः ।।
स्वाभासान्तः सं संमोहान्नामरूपात्मकोऽभवत् ।। ११७७ ।।
अव्याकृतादिपिण्डान्तं पर एव त्वविद्यया ।।
तदात्मत्वं समापेदे न त्वसौ परमार्थतः ।। ११७८ ।।
प्रागात्मबोधात्पिण्डादौ याऽऽत्मेत्यासीन्मतिर्दृढा ।।
सा तत्तत्त्वमसंप्राप्य सिद्धा स्रगाहिबोधवत् ।। ११७९ ।।
अविद्याकल्पितांस्तस्मादन्वयव्यतिरेकतः ।।
विधूयानात्मनोऽशेषांस्तत्प्रत्यग्रूपमैक्षत ।। ११८० ।।
प्रत्यग्याथात्म्यविद्याग्निसंप्लुष्टाशेषतत्तमः ।।
ब्रह्मैवाऽऽत्मानमेवेति प्रत्यबुध्यत वाक्यतः ।। ११८१ ।।
न हि प्लुष्टाखिलाविद्यः प्रतीच्यन्यन्मनागपि ।।
प्रत्यग्दृष्ट्येक्षतेऽन्यस्य तदविद्यैकहेतुतः ।। ११८२ ।।
अद्वैतविषयं च्चेदमेकं ब्रह्मेति भण्यते ।।
समस्तव्यस्तता यस्मान्नेह प्रत्यग्धियेक्ष्यते ।। ११८३ ।।
मिथ्याभिमानात्संपत्तिरविद्योत्थासु भूमिषु ।।
यत्र वा अन्यदित्येवं श्रुतिश्चाषि जगौ तथा ।। ११८४ ।।
निरविद्य इहाद्वैते भेदहेतोरसंभवात् ।।
स्वत एवाभिसंपत्तिर्यत्र त्वस्येतिशास्रतः ।। ११८५ ।।
तस्मात्तदिति विद्यायाः पूर्णता फलमुच्यते ।।
तदन्यस्य त्वकृत्स्नत्वाज्जिहासाविषयत्वतः ।। ११८६ ।।
यदिदंशब्दनिर्दिष्टं पूर्णाविद्यैकहेतुजम् ।।
अहं ब्रह्मेति तद्ध्वंसात्पूर्णमेवाभवत्स्वतः ।। ११८७ ।।
भर्तृप्रपञ्चभाष्यस्य प्रचारोऽयं प्रदर्शितः ।।
श्रुत्यक्षरानुसारेण तथाऽनुभववर्त्मना ।। ११८८ ।।
ब्रह्मेतिब्रह्मशब्देन द्वैतैकत्वात्मकं किल ।।
भण्यते न परं ब्रह्म तस्य विद्यानपेक्षतः ।। ११८९ ।।
परस्य ब्रह्मता यस्मादनन्यायत्तसिद्धिका ।।
स्वत एव तु तत्सिद्धेर्नातस्तदभिधीयते ।। ११९० ।।
तथा कालानवच्छित्तेरासीदिति न तत्प्रति ।।
घटते कालसंबन्धो विरिञ्चे तूपपद्यते ।। ११९१ ।।
ननु तस्यापि विज्ञानं नोपदेशव्यपेक्षया ।।
जन्मनैवास्य तत्सिद्धेर्न युक्ता ब्रह्मगीरियम् ।। ११९२ ।।
आसीदिति च निर्देशस्तस्मिन्नपि न युज्यते ।।
विरिञ्चस्य त्रिकालत्वादासीदस्ति भविष्यति ।। ११९३ ।।
यत एवमसंतोषात्पक्षान्तरसमाश्रयः ।।
मनुष्याधिकृतेर्वेति क्रियते पूर्वपक्षिणा ।। ११९४ ।।
मनुष्याः प्रकृताः पूर्वं ते च निःश्रेयसार्थिनः ।।
ब्रह्मणो नत्वनर्थित्वात्तथा चाप्रकृतत्वतः ।। ११९५ ।।
ऋष्यादिवचसा चापि ब्रह्मविद्याऽविशेषतः ।।
सर्वार्थैव समुद्दिष्टा नाग्रजन्मैकगोचरा ।। ११९६ ।।
जन्मनैव तु तत्सिद्धेर्नोपदेशव्यपेक्षता ।।
ज्ञानमप्रतिघं यस्य वैराग्यं चेति च स्मृतेः ।। ११९७ ।।
द्वैतैकत्वात्मकब्रह्मविद्याकर्मैकसाधनः ।। ११९८ ।।
अपरब्रह्मतापन्नो भोज्याद्व्यावृत्तमानसः ।।
निःशेषप्राप्त्या चोच्छिन्नकामकर्मादिबन्धनः ।। ११९९ ।।
परब्रह्मपरिज्ञानभावनोपचयात्परः ।।
ब्रह्मभावी नरोऽतोऽत्र ब्रह्मशब्देन भण्यते ।। १२०० ।।
भविप्यद्वत्त्या लोकेऽपि प्रयोगो दृश्यते यथा ।।
ओदनं पचतीत्यादि तथेहापि भविष्यति ।। १२०१ ।।
गृहस्थो भार्यं विन्देत शास्रे चापि समीक्ष्यते ।।
एवं व्याचक्षते केचिद्गम्भीरन्यायवादिनः ।। १२०२ ।।
सर्वापत्तेनित्यत्वदोषासक्तेर्न तत्तथा ।।
साधनायत्तलब्धात्मा न लोकेऽस्त्यविनश्वर ।। १२०३ ।।
अथाविद्योत्थाकृत्स्नत्वनिवृत्तिं चेदिहेच्छसि ।।
कल्पनेयं तृथैव स्याद्ब्रह्मभावीति या कृता ।। १२०४ ।।
यतः प्रागपि तद्वोधात्सर्वो जन्तुः स्वभावतः ।।
ब्रह्मत्वादाप्ततद्भावो नित्यमेव न साधनात् ।। १२०५ ।।
केवलं तत्तमोमात्रव्यवधानैकहेतुतः ।।
संभावयत्यकृत्स्नत्वं प्रत्यगात्मनि मूढधीः ।। १२०६ ।।
यदविद्यैकहेतु स्यादब्रह्मत्वं न तु स्वतः ।।
तद्यथावस्तुसंबोधान्मूलनाशात्प्रणश्यति ।। १२०७ ।।
एवं चेत्स्यादभिप्रायः किमर्थं निष्प्रयोजनम् ।।
मुख्यार्थं संपरित्यज्य पुंसि ब्रह्मेति कल्पनम् ।। १२०८ ।।
श्रुतार्थहानिरेवं स्यादश्रुतस्य च कल्पना ।।
अपन्यायो तृथा च स्यात्पुमर्थासंभवादिह ।। १२०९ ।।
अविद्योत्थातिरेकेण स्वत एवेति चेन्मतम् ।।
अब्रह्मत्वं न तद्धानिरुपायासंभवात्कचित् ।। १२१० ।।
अभिव्यञ्जकमेवेष्टं प्रमाणं न तु कारकम् ।।
नापोढ्री नापि कर्त्रीयं विद्याऽतो वस्तुनः कचित् ।। १२११ ।।
स्वप्रमेयाखिलाज्ञानध्वंसिनीति समीक्ष्यते ।।
विद्या लोके तथेहापि तद्ध्वंसिन्येव गृह्यताम् ।। १२१२ ।।
सदानुदितानस्तमितभास्वद्विज्ञानमात्रतः ।।
तद्विरुद्धतनुर्मोहः कुतो ब्रह्मणि चेन्मतम् ।। १२१३ ।।
नानुभूत्यैव तत्सिद्धेर्ज्ञातकुम्भानुभूतिवत् ।।
न वेद्मीत्यनुभूतिर्हि सर्वेषामात्मसाक्षिका ।। १२१४ ।।
अव्याकृताधिकारे च यदुक्तं प्राक्समासतः ।।
ब्रह्मण्यविद्यसंसिद्ध्यै स्मर्तव्यं तदिहाखिलम् ।। १२१५ ।।
विद्याविधानाच्चाविद्य ब्रह्मण्यस्तीति गम्यताम् ।।
विद्याविधानं विज्ञाते पिष्टपेषणवद्यतः ।। १२१६ ।।
अज्ञानमेव मिथ्याधीः प्रमेयानभिसंगतेः ।।
रूप्याध्यारोपणं तस्मादुदाहारि गरीयसा ।। १२१७ ।।
अस्त्वविद्या परे भूम्नि यथोक्तन्यायगौरवात् ।।
न तु ब्रह्मैव तां कुर्यात्सर्वज्ञं प्रत्यगात्मनि ।। १२१८ ।।
न हि धीपूर्वकारी सन्निःशेषानर्थदायिनीम् ।।
प्रतीच्यविद्यां विसृजेद्याऽन्यत्रापि न काम्यते ।। १२१९ ।।
यद्यविद्या भवेत्कार्यमस्त्वेतद्यदिहोदितम् ।।
अकार्यत्वात्त्वविद्यायास्त्वदुक्तं तुषकण्डनम् ।। १२२० ।।
अथोपचारात्कार्यत्वमविद्याविषयत्वतः ।।
तथाऽपि नापराधो नस्तदन्यासंभवादिह ।। १२२१ ।।
न हि ब्रह्मातिरेकेण ब्रह्माविद्याकृदिष्यते ।।
न ह्यन्योऽतोऽस्ति द्रष्टेति तथाच श्रुतिशासनम् ।। १२२२ ।।
क्रिया वा कारकं वेह सदसद्वेह यन्मतम् ।।
अप्रज्ञातात्मयाथात्म्यं ब्रह्मैव तदितीक्ष्यताम् ।। १२२३ ।।
पुरुष एवेदं सर्वमात्मैवेदमिति श्रुतिः।।
नानुभूतेः प्रमाणाद्वा तदन्यद्वस्तु लभ्यते ।। १२२४ ।।
ननु शास्रोपदेशोऽयमेवं सत्यफलो भवेत् ।।
नासौ ब्रह्मणि साफल्यं नाप्यन्यस्मिन्समश्नुते ।। १२२५ ।।
उपदेशानपेक्षत्वाद्ब्रह्मत्वस्य परात्मनः ।।
असंभवात्ततोऽन्यस्य ह्युपदेशोऽफलो भवेत् ।। १२२६ ।।
ब्रह्माकर्त्रपि संबोधात्प्रागभूत्तदसंसृति ।।
अविद्यातज्जसंबन्धात्कर्तृत्वेऽपि न दोषभाक् ।। १२२७ ।।
प्रागज्ञातं तदैकात्म्यं यथैवानुभवान्मतम् ।।
ब्रह्मास्मीत्यपि संबोधस्तथैवानुभावश्रयात् ।। १२२८ ।।
प्रमेयाधिगमं कुर्वत्प्रमाणमफलं यदि ।।
कान्यत्र फलवत्तत्स्यान्नातोऽन्यत्स्यान्मितेः फलम् ।। १२२९ ।।
सोत्प्रासमिव चाऽऽहातो बाढमित्येवमादिना ।।
अस्त्वेषोऽवगते दोष इतोऽन्यः कीदृशो गुणः ।। १२३० ।।
अथावगमवैयर्थ्यं भवता परिचोद्यते ।।
तत्रापि चानवगमध्वस्तिः प्रतिवचो भवेत् ।। १२३१ ।।
ऐकात्म्ये तन्निवृत्तिश्चेदसंभाव्येति चोद्यते ।।
लब्धैकात्म्येन नैवेयं निवृत्तिः काम्यते श्रुुतेः ।। १२३२ ।।
अप्रसिद्धे त्वथैकात्म्ये निवृत्तिरिह चोद्यते ।।
तथा दृष्टविरोधो वः प्राप्नुवन्न निवार्यते ।। १२३३ ।।
सर्वस्यानुपपन्नत्वं सिद्धं दृष्टबलाश्रयात् ।।
दृष्टस्यानुपपन्नत्वं किमाश्रित्याभिधीयते ।। १२३४ ।।
उक्तानि तावद्भूयांसि दूषणानि विभागशः ।।
अब्रह्मविषये क्लृप्ते ब्रह्मभावी पुमानिति ।। १२३५ ।।
भूयोऽप्यस्यैव दार्ढ्यार्थं पूर्वपक्षाय यत्यते ।।
वाक्यार्थाभाससंजातभ्रान्त्युच्छित्त्यै प्रयत्नतः ।। १२३६ ।।
पुण्यः पुण्येन भवति पापः पापेन कर्मणा ।।
संसारिणं समुद्दिश्य श्रुतिरेतदुदाहरत् ।। १२३७ ।।
तथैष हीति विस्पष्टं संसार्येवाभिधीयते ।।
तस्माद्विलक्षणस्तद्वदीश्चरोऽप्यभिधीयते ।।
स एष नेति नेतीति य आत्मेत्यादिना तथा ।। १२३८ ।।
तथाऽक्षपादकाणादतर्कशास्रेषु यत्नतः ।।
उपपत्तिशतैरीशः साध्यते वादिभिः पृथक् ।। १२३९ ।।
दुःखापनयनार्थित्वप्रवृत्तेर्दर्शनादपि ।।
अत्यन्तभेदो विज्ञेयः संसारीश्वरयोरतः ।। १२४० ।।
तं विदित्वैतमेवेति कर्मकर्तृविभागतः ।।
क्षेत्रज्ञेश्वरयोरुक्तेर्मृगव्याधादिभेदवत् ।। १२४१ ।।
मुमुक्षोर्गतिमार्गस्य देशभेदोपदेशतः ।।
भेदेऽसति गतिः केयं गन्तृगन्तव्ययोर्भवेत् ।। १२४२ ।।
दक्षिणोत्तरमार्गोक्तिस्तथा सति विरुध्यते ।।
गन्तव्यदेशाभावाच्च गतिर्नैवोपपद्यते ।। १२४३ ।।
तथाऽभ्युदयकैवल्यसाधनानां विधानतः ।।
न हीश्वरस्य कैवल्यं साधनायत्तमिष्यते ।। १२४४ ।।
ब्रह्मभावी ततो नेशः किंतु तद्व्यतिरेकभाक् ।।
संसार्येवाभिधीयेत यथोक्तन्यायगौरवात् ।। १२४५ ।।
नैवं ब्रह्मोपदेशार्थशास्रानर्थक्यसक्तितः ।।
संसारिविद्ययैवास्य पुरुषार्थसमाप्तितः ।। १२४६ ।।
न च ब्रह्मोपदेशस्य सर्वभावातिरेकतः ।।
शक्यं फलान्तरं वक्तुं येनासावर्थवान्भवेत् ।। १२४७ ।।
पुमर्थसाधनेऽन्यस्मिन्न चासौ विनियुज्यते ।।
सन्रवत्तेन तच्छास्रं स्यादनर्थकमेव तु ।। १२४८ ।।
मतं दुःखिन एवासौ संपदर्थं विधीयते ।।
ब्रह्मास्मीत्यविनिर्ज्ञाते कथं ब्रह्मणि सा भवेत् ।। १२४९ ।।
तस्मिंस्तु शास्राद्विज्ञाते शक्यते कर्तुमञ्जसा ।।
ब्रह्मसंपदतः शास्रं तादर्थ्यादर्थवद्भवेत् ।। १२५० ।।
ननु ब्रह्म यदि ज्ञातं तावतैव कृतार्थता ।।
न चेत्तत्संपदा किं स्याद्येन तामनुरुध्यते ।। १२५१ ।।
नैवं ब्रह्मावबोधस्य पारार्थ्येन फलत्वतः ।।
सर्वमेव यतो ज्ञानं परार्थं फलवन्मतम् ।। १२५२ ।।
उक्तत्वात्परिहारस्य नैवमेतद्भवेदिह ।।
ब्रह्मज्ञानात्तदन्यत्र परार्थं ज्ञानमिष्यते ।। १२५३ ।।
सर्वत्रैव हि विज्ञानं संस्कारत्वेन गम्यते ।।
पराङ्गं चाऽऽत्मविज्ञानादन्यत्रेत्यवधारणात् ।। १२५४ ।।
सामानाधिकरण्येम तथा ब्रह्मात्मशब्दयोः ।।
श्रुतौ श्रुतेर्न संपत्स्यात्संपद्येष न हि क्रमः ।। १२५५ ।।
आत्मा ब्रह्मेत्येवमादौ सामानाधिकरण्यगीः ।।
अन्यस्यान्यत्र संपत्स्यादद्वये सा कथं भवेत् ।। १२५६ ।।
द्रष्टव्यस्याऽऽत्मनस्तद्वदैकात्म्यं श्रुतिरब्रवीत् ।।
ब्रह्मादि सर्वमात्मेेति संपन्नातोऽत्र युज्यते ।। १२५७ ।।
तदापत्तिश्रुतेश्चेयं संपन्नेहोपपद्यते ।।
ब्रह्मैव भवतीत्यादितदापत्तिवचांस्यपि ।। १२५८ ।।
वचनात्स्यात्तदापत्तिः संपत्तेरिति चेन्मतम् ।।
नैवं प्रत्ययमात्रत्वात्संपत्तेर्न तदिप्यते ।। १२५९ ।।
तमोमात्रान्तरायत्वादाप्तम्याप्यते न तत् ।।
न च संपत्तमोहन्त्री मिथ्याज्ञानात्मकत्वतः ।। १२६० ।।
तमोध्वंसातिरेकेण सम्यग्ज्ञानस्य नापरम् ।।
फलमण्वपि संभाव्यं ज्ञानस्याकारकत्वतः ।। १२६१ ।।
वस्तुनः शक्तिकृन्नापि वचनं ज्ञापकत्वतः ।।
ज्ञापकानि हि शास्राणि कारकाणि न कुत्रचित् ।। १२६२ ।।
अभीष्टपुरुषार्थस्य बाधश्चैवं प्रसज्यते ।।
निःशेषपुरुषार्थाप्तिकारि ब्रह्मावबोधनम् ।। १२६३ ।।
तादृक्षं संपदो न स्यान्न च दुःख्यात्मबोधतः ।।
निःशेषपुरुषार्थाप्तिस्तद्बुद्धेरनृतन्रतः ।। १२६४ ।।
अपूर्वाद्यर्थ एवैकः प्राधान्येन विवक्षितः ।।
काण्डद्वयेऽपि नैतस्मादन्योऽर्थः कश्चिदीक्ष्यते ।। १२६५ ।।
एतावदर इत्यन्त उपसंहारदर्शनात् ।।
न चोपक्रमसंहारविरुद्धोक्तिः प्रशस्यते ।। १२६६ ।।
तत्रैवं सति संसारी यद्यन्यो ब्रह्मणो भवेत् ।।
इष्टस्यार्थस्य बाधः स्यान्न च ध्वान्तनिराकृतिः ।। १२६७ ।।
आरम्भेऽवसितौ शास्रं परस्परविरोधतः ।।
समञ्जसं न क्लृप्तं स्यात्संभवेऽप्यविरोधिनः ।। १२६८ ।।
समाख्यानुपपत्तिश्च ब्रह्मणोऽन्यस्य वेदनात् ।।
नापि रूढिस्तदन्यस्मिन्नश्वकर्णादिवद्भवेत् ।। १२६९ ।।
आत्मेति वेत्तुरन्यश्चेन्न ब्रह्माहमिति श्रुतेः ।।
प्रतीचो ब्रह्मवत्प्रत्यग्ब्रह्मणोऽपि विशेषणम् ।। १२७० ।।
ब्रह्मता न मदन्यत्र कौटस्थ्यान्मन नाशिषु ।।
ब्रह्मणो नान्यतः प्रत्यक्साक्षात्त्वाद्ब्रह्मवस्तुनः ।। १२७१ ।।
अव्यावृत्ताननुगतेर्मुख्यार्थश्च तथा सति ।।
ब्रह्मविद्येति सिद्धः स्याद्व्यपदेशो न चान्यथा ।। १२७२ ।।
भिन्नाभिन्नत्वगीर्याऽपि साऽपि दुःस्थितसिद्धिका ।।
विरुद्धधर्मसंबन्धो न प्रतीच्यस्त्यधर्मणि ।। १२७३ ।।
धर्मधर्म्यभिसंबन्धा गृह्यन्तेऽनात्मवस्तुषु ।।
प्रत्यक्षादिप्रमाणेन नामीषामात्मनि ग्रहः ।। १२७४ ।।
आत्मानात्मनिमित्तेऽपि व्यपदेशोऽपि दुर्घटः ।।
विकल्पतो वा तत्सिद्धिर्ब्रह्मसंसारिणोर्भवेत् ।। १२७५ ।।
न चार्धवैशसं युक्तं तत्त्वज्ञाने विवक्षिते ।।
संशयो हि तथा श्रोतुः स्यादनिश्चितवाक्यतः ।। १२७६ ।।
निश्चितं फलवज्ज्ञानं यस्य स्यादिति शास्रतः ।।
न तु संशयितं यस्मात्संशयात्मा विनश्यति ।। १२७७ ।।
परमात्मन्ययुक्ता चेत्साधकत्वादिकल्पना ।।
शास्रोपालम्भतो नैवं शास्रीयेयं प्रकल्पना ।। १२७८ ।।
अक्षमा भवतः केयं साधकत्वप्रकल्पने ।।
किं न पश्यसि संसारं तत्रैवाज्ञानकल्पितम् ।। १२७९ ।।
अनात्मवस्तु यत्किंचित्तद्ब्रह्मानवबोधतः ।।
ब्रह्मण्येव समध्यस्तं शुक्तिकारजतादिवत् ।। १२८० ।।
यस्मादेवमतोऽशेषसंसारानर्थकल्पना ।।
निदानबहुलाज्ञानसमुच्छित्त्यै परा श्रुतिः ।। १२८१ ।।
ब्रह्मेतिब्रह्मशब्देन कृत्स्नं वस्त्वभिधीयते ।।
प्रकृतस्याऽऽत्मकार्त्स्न्यस्य वैशब्दः स्मृतये मतः ।। १२८२ ।।
प्रकृतार्थोपरोधाच्च मुख्यब्रह्मार्थलाभतः ।।
यथोक्तदोषाभावाच्च ब्रह्म कृत्स्नमिहास्त्वतः ।। १२८३ ।।
ननु मानादिविरहादकृत्स्नमपि नेष्यते ।।
कुतः कार्त्सन्यं यतः सर्वं मानादेव प्रसिध्यति ।। १२८४ ।।
अभ्युपेतौ च मानादेस्तस्य कार्त्स्न्यं विहन्यते ।।
न हि ब्रह्मातिरिक्तेऽर्थे सति संभाव्यतेऽजडैः ।। १२८५ ।।
भिन्नाभिन्नत्ववादेऽपि ब्रह्माभिन्नात्मना भवेत् ।।
व्यावृत्तेर्न तु भिन्नेषु ब्रह्मता स्याद्वटादिवत् ।। १२८६ ।।
वस्त्वन्तराभ्युपगमः प्रत्यक्कार्त्स्न्यविघातकृत् ।।
न तु मानाभ्युपगमो मितेस्तदवसानतः ।। १२८७ ।।
वस्त्वन्तरस्य सद्भावः सिद्धे कार्त्स्न्ये विरुध्यते ।।
मानाद्यपेक्षा सिद्धस्य नानुन्मत्तेन चोद्यते ।। १२८८ ।।
न चापि वास्तवी सिद्धिः प्रमात्रादिविरोधिनी ।।
सत्यामेव यतस्तस्यां संसारानर्थविभ्रमः ।। १२८९ ।।
वास्तव्या अपि संसिद्धेः स्वमहिम्नैव नेष्यते ।।
प्रमाणविरहात्सिद्धिरेतच्च स्वानुभूतितः ।। १२९० ।।
मेयकार्त्स्न्याविरोधित्वान्न मितेः शङ्क्यते भिदा ।।
मेयस्वरूपावसितेर्नान्या मानस्य मानता ।। १२९१ ।।
न हि मेयप्रतिस्पर्धि तन्मानं मेयबोधितः ।।
मानप्रसादात्सिद्धं सत्स्पर्धते मितिबाधितैः ।। १२९२ ।।
न हि वस्त्वनपाश्रित्य मानत्वं लभ्यते मितेः ।।
वास्तव्या अपि संसिद्धेर्न सिद्धिः स्याप्रमां विना ।। १२९३ ।।
स्वप्रमेयार्पणं मुक्त्वा मानत्वेऽन्यन्न कारणम् ।।
अर्पितेन विरोधश्चेदस्तु कामं न दुष्यति ।। १२९४ ।।
प्राग्ज्ञानाज्ज्ञानकाले च मानं मेयोऽप्यपेक्षते ।।
प्रमाणकार्ये निर्वत्ते नान्यत्किंचिदपेक्षते ।। १२९५ ।।
अज्ञातोऽर्थः प्रमेयः स्याज्ज्ञाते कोऽतिशयो मितेः ।।
अज्ञाते न विरोधोऽस्ति ज्ञाते चान्यानपेक्षतः ।। १२९६ ।।
मेयासाधारणात्मोत्थज्ञानस्यैव प्रमाणतः ।।
तस्य वस्त्वनुरोधित्वादभेदादविरोधिता ।। १२९७ ।।
पश्येदात्मानमित्यत्र नियोज्यो विषयाद्धिरुक् ।।
न लभ्यते यतो नात ऐकात्म्ये स्याद्विरुद्धता ।। १२९८ ।।
ब्रह्मश्रुतेश्च मुख्योऽर्थः प्रतीचोऽन्यत्र दुर्लभः ।।
यथाकथंचिदित्येतदतौ नैवाभ्युपेयते ।। १२९९ ।।
स्वत एवाऽऽत्मनः कार्त्स्न्यान्न कार्त्स्न्यं साधनाश्रयात् ।।
साधनायासतः प्राक्व ब्रह्मैवाऽऽसीदितीरितम् ।। १३०० ।।
आसीदित्यपि यः शब्दः स तन्मोहाद्यपेक्षया ।।
वस्तुवृत्तमपेक्ष्यैतन्नासीदस्ति भविष्यति ।। १३०१ ।।
सदानुदितालुप्तैकज्ञानमूर्तिरिति त्वया ।।
कुतोऽज्ञायि विना मानान्मानं नाज्ञाततां विना ।। १३०२ ।।
एकं ब्रह्म सदा बुद्धं यथा मानानुभूतितः ।।
व्युत्पत्तेः प्रागविज्ञातं तथैवानुभवाश्रयात् ।। १३०३ ।।
व्युत्पत्तिफलमाश्रित्य तमोसंभव उच्यते ।।
व्युत्पत्तेः प्राक्तमस्वित्वं तत्साक्षित्वेऽपि गम्यते ।। १३०४ ।।
स्वसत्तयाऽऽत्मनो मोहं न यतो वस्तु हन्त्यतः ।।
शास्रानारम्भदोषोऽपि नैवैस्मान्प्रति ढौकते ।। १३०५ ।।
अनादेरपि बाधश्चेत्तमसो नाभ्युपेयते ।।
प्रमाणानां प्रमाणात्वं न क्वचिद्वः प्रसिध्यति ।। १३०६ ।।
अऩुभूतेस्तदज्ञातं सिद्धं ब्रह्म पुरा मितेः ।।
अपास्ताज्ञानतत्कार्यं तत्तु मानात्प्रसिध्यति ।। १३०७ ।।
पूर्वोक्त्यैवोत्तरेषां च दोषाणां परिहारतः ।।
परिहारान्तरं तस्मान्न वाच्यं तत्प्रसिद्धितः ।। १३०८ ।।
प्रतीचोऽर्थस्य ज्ञेयत्वादनवस्था च नेष्यते ।।
अकारकस्य कौटस्थ्याद्विरोधो नाऽऽत्मदर्शने ।। १३०९ ।।
घटादिमेयसाधर्म्ये निषेधोऽपि श्रुतीरितः ।।
यथोक्तावगमत्वं तु न कथंचिन्निवार्यते ।। १३१० ।।
तस्मान्न कश्चिदप्यत्र कार्त्स्न्यत्मावगमे भवेत् ।।
दोषोऽतः सांप्रतं भाष्यग्रन्थं व्याचक्ष्महे स्फुटम् ।। १३११ ।।
यत्स्रष्टृ ब्रह्म पूर्वोक्तं स्वात्ममोहैकवर्त्मना ।।
कार्यं चैतन्यविम्बेन प्रविष्टं जलचन्द्रवत् ।। १३१२ ।।
ब्रह्मेतिब्रह्मशब्देन तदेवात्राभिधीयते ।।
तस्य योऽतिशयः प्रोक्तो व्याकृताव्याकृतात्मकः ।।
इदमित्युच्यते ब्रह्म तदुपाधिस्वभावकम् ।। १३१३ ।।
वैशब्दोऽवधृतौ ज्ञेयो ब्रह्मैव न तदन्यथा ।।
अनिर्ज्ञातात्मतत्त्वं सदब्रह्मैवावभाति तत् ।। १३१४ ।।
यदिदंशब्दधीगम्यं सम्यग्ज्ञानोदयात्पुरा ।।
अपि ब्रह्मैव त्कृत्स्नं तन्मोहादतथेक्ष्यते ।। १३१५ ।।
रज्जुवत्तवदिज्ञानात्सर्पदण्डादिनेक्ष्यते ।।
ब्रह्मेदंमात्रश्रवणात्कुतोऽग्र इति भण्यते ।। १३१६ ।।
सूत्रान्तजगतो व्यक्तेः प्राक्तनः काल उच्यते ।।
यद्वै तदिति तच्चापि स्पष्टमूर्ध्वं प्रवक्ष्यते ।। १३१७ ।।
नाविद्यासंगतिस्तत्र तदकार्यत्वहेतुतः ।।
तमोजस्यापि कार्यस्य न प्रतीच्यस्त्यकारणात् ।। १३१८ ।।
प्रत्यक्तयाऽऽत्मसंबन्धान्मोहादेश्चिन्निभात्मता ।।
आचिच्छेषादतो नासौ मृषा स्याद्धर्मकार्यवत् ।। १३१९ ।।
प्रत्यग्याथात्म्यसंबोधान्नान्यो हेतुः समीक्ष्यते ।।
निरन्वयविनाशाय योऽलं संसाररूपिणः ।। १३२० ।।
कौटस्थ्यासंगतो नास्य मोहतत्कार्यसंगतिः ।।
स्वतः सेद्धुमशक्तत्वान्मोहादेरात्मसंगतिः ।। १३२१ ।।
कार्ष्ण्येनेव वियद्योगः खवृत्तापेक्षया त्वसन् ।।
आत्मनैवं तमोयोगो नाऽऽत्मवृत्तानुरोधतः ।। १३२२ ।।
अन्यतः संगतिः सेयमविचारितसिद्धिका ।।
अविज्ञातचिदुत्सङ्गसंस्थैवेयं न वस्तुनि ।। १३२३ ।।
अविद्याद्वारिकाऽप्यस्य संगतिर्नाञ्जसेष्यते ।।
निरात्मकपरार्थत्वहेतुभ्यां शुक्तिरूप्यवत् ।। १३२४ ।।
प्रत्यग्रूपातिरेकेण नान्यद्रूपमनात्मनः ।।
वादिभिर्युक्तिभिः शक्यं कचित्साधयितुं सदा ।। १३२५ ।।
कूटस्थादितमोन्तेन नित्यमव्यतिरेकतः ।।
बुद्ध्यादेर्विषयान्तस्य नित्यमेतदतो जगत् ।। १३२६ ।।
अतोऽविद्यामहानिद्रासंवीतमनसामसौ ।।
जन्मादिविक्रियाषट्कं स्वप्नदर्शनविभ्रमः ।। १३२७ ।।
यथा व्याख्यातबाह्यार्थप्रधानोऽसंहतोऽप्रमः ।।
सर्वप्रमाणभाक्तद्वत्प्रमाणाभासभगपि ।। १३२८ ।।
अविचारितसंसिद्धि तमोवत्स्यात्तदुद्भवम् ।।
कृत्स्नं जगदतो मोहध्वस्तौ ध्वस्तं भवेच्चितिः ।। १३२९ ।।
भिन्नमातृप्रमाणादौ कार्यकारणवस्तुनि ।।
अभिन्नमातृमानादिरात्मैवैकोऽद्वयः स्वतः ।। १३३० ।।
न देशकालावस्थादावपेक्षाऽस्त्यात्मनः स्वतः ।।
अनन्यापेक्षसंसिद्धेर्देशादेस्तदपेक्षतः ।। १३३१ ।।
देशकालनिमित्तादिव्यपेक्षं वस्तु यद्भवेत् ।।
तदेव तदपेक्षं स्यान्न तु देशादिसिद्धिदम् ।। १३३२ ।।
प्रमात्राद्युत्थइतेरग्ने ब्रह्मैवाऽऽसीद्यथोदितम् ।।
यतस्ततो न साध्यं तज्ज्ञानकर्मादिसाधनैः ।। १३३३ ।।
ब्रह्मापि तत्स्वतः साक्षात्तदबोधैकहेतुतः ।।
इदंरूपं समापेदे रशनेवाहिरूपताम् ।। १३३४ ।।
अविद्याफलकारूढं तदेवंरूपकं परम् ।।
ब्रह्म विद्याधिकारित्वं द्वैविध्यात्प्रतिपद्यते ।। १३३५ ।।
स्वतो मुक्तं यतस्तस्माद्ब्रह्म विद्यां तदर्हति ।।
संसारित्वमविद्यातो मुमुक्षुत्वं ततो भवेत् ।। १३३६ ।।
अध्यात्ममधिभूतं च तथा चैवाधिदैवतम् ।।
परं तदभिमानेद्धं तच्छब्देनाभिधीयते ।। १३३७ ।।
हिरण्यगर्भतां नीत्वा कृत्स्नमध्यात्मरूपकम् ।।
तस्मै हिरण्यगर्भाय ब्रूयाद्विद्यां तमस्विने ।। १३३८ ।।
एवं निःशेषसंसारप्रत्याख्यानेन निर्वृतिम् ।।
सर्वाविद्यापनिह्नुत्या विद्यया प्रतिपद्यते ।। १३३९ ।।
आत्मानात्मात्मकं विश्वं प्रत्यक्षादिप्रमाणकम् ।।
आत्मानमेव तदवेन्निष्ठां कार्त्स्न्यात्मनः पराम् ।। १३४० ।।
अविचारितसंसिद्धि सर्वानर्थैककारणम् ।।
प्रत्यङ्यात्रैकसाक्षित्वात्तमस्तत्प्रत्यगात्मनि ।। १३४१ ।।
प्रतीच्येव यतोऽज्ञानमतस्तत्तत्त्वविद्यया ।।
सकार्ये तमसि ध्वस्त आत्मैवैकोऽवशिष्यते ।। १३४२ ।।
विरक्तः सर्वसंसारान्निविवृत्सुः स्वतस्ततः ।।
संसारानलसंतप्तस्तद्विरुद्धं परीप्सति ।। १३४३ ।।
तस्याकृत्स्नापवादेन कृत्स्नैकात्म्यावबुद्धये ।। १३४४ ।।
अन्वयव्यतिरेकाख्यो व्यापारो विहितः पुरा ।।
आत्मेत्येवेति विधिना पराक्प्रत्यग्विवेककृत् ।। १३४५ ।।
ऐकात्म्यं वीक्ष्यते तेन त्यक्त्वा सर्वाननात्मनः ।।
कृत्स्नमेव यतो वस्तु तदन्यत्तदबोधजम् ।। १३४६ ।।
कृत्स्नं पश्येदिति ततो वाक्यं वस्तुनि वर्तते ।।
प्रविष्टोऽकृत्स्नरूपत्वात्संसारानर्थचोदितः ।।
आत्मेत्यनेन कृत्स्नात्मदर्शनाय नियुज्यते ।। १३४७ ।।
कृत्स्न आत्मेत्यतो वाक्यात्तथारूपं दिदृक्षति ।।
अन्योन्यार्थसमाप्तित्वान्न भेदोऽत्र पदार्थयोः ।। १३४८ ।।
अकृत्स्नानात्मनः सर्वान्कृत्स्नांश्चानात्मनस्तथा ।।
अन्वयव्यतिरेकाभ्यां तथा कृत्स्नाननात्मनः ।। १३४९ ।।
निर्माल्यवत्परित्यज्य चैतन्याभासवर्त्मना ।।
अनुनीयाऽऽत्मनाऽऽत्मानं कृत्स्नात्मानं प्रपश्यति ।। १३५० ।।
उक्तदोषापनुत्त्यर्थं प्रत्युक्तिर्गौरवी त्वियम् ।।
ब्रह्म वा इदमित्यादिर्नातो दोषोऽत्र कश्चन ।। १३५१ ।।
प्रमेेयं यत्पुरा पृष्टं तद्ब्रह्म किमवेदिति ।।
सर्वं चाप्यभवद्यस्माज्ज्ञानं ज्ञेयं च भण्यते ।। १३५२ ।।
तद्ब्रह्माऽऽत्मानमेवावेन्मेयं मानं च भण्यते ।।
आत्मा मेयस्तथा मानमात्मप्रत्यय एव तु ।। १३५६ ।।
नाऽऽत्मज्ञानाद्यतोऽज्ञानं विद्यतेऽनात्मनस्ततः ।।
नाऽऽत्मयाथात्म्यविज्ञानाज्ज्ञानमन्यदनात्मनः ।। १३५४ ।।
प्रमात्रादिविभागेन यज्ज्ञानं प्रथते कचित् ।।
तज्जन्मनः पुरोवार्थो न तेन ज्ञायतेऽञ्जसा ।। १३५५ ।।
तमोमात्रावसायित्वान्न यथावस्तु तत्ततः ।।
प्रत्यग्वस्त्वात्मकत्वेऽपि चित्रमज्ञानचेष्टितम् ।। १३५६ ।।
यत्प्रसादात्तमःसिद्धिस्तत्स्वसाक्ष्यप्यपह्नते ।।
तमोऽप्यनुभावादेव प्राक्तद्व्युत्पत्तिजन्मनः ।। १३५७ ।।
प्राक्प्रवृत्तेः प्रमाणानामज्ञातं यदिहोदितम् ।।
अक्षादि तत्तमोबाधान्न मानं रज्जुसर्पवत् ।। १३५८ ।।
न पश्यन्तीत्यतः प्राह बोद्धृत्वादिसमन्वयम् ।।
न हि मोहैकनिष्ठेन तद्धीनं वस्तु मीयते ।। १३५९ ।।
आत्मानं विरहय्यान्यो नालमात्मावबुद्धये ।।
असाधारणतन्मातृमानमेयात्मकत्वतः ।। १३६० ।।
असाधारणमात्रादि प्रत्यग्वस्तु यतस्ततः ।।
नियोगोऽपीह नाऽऽयाति भिन्नकर्त्रादिगो ह्यसौ ।। १३६१ ।।
सर्वमज्ञातमेव स्याद्यस्मिन्नज्ञात आत्मनि ।।
ज्ञाते ज्ञातं च तत्कार्त्स्न्यात्तावत्त्वात्सर्ववस्तुनः ।। १३६२ ।।
युक्त्या निरूप्यमाणस्य ह्यात्मा तत्त्वमनात्मनः ।।
प्रत्याख्यातः स चेत्तेन कानात्मा सिध्यतां ततः ।। १३६३ ।।
अनात्मतत्त्वमन्वेति ह्यात्माऽसङ्गोऽगुणोऽद्वयः ।।
असिध्यन्स स्वतःसिद्धौ सिद्धिं कान्ग्रत्र लप्स्यते ।। १३६४ ।।
सर्ववादिविरोधेऽपि संवादोऽनुभवे यथा ।।
वादिनामविसंवादस्तथाऽज्ञानेऽप्यसंशयः ।। १३६५ ।।
तद्वद्वाधोऽप्यबोधस्य बोधेनाभ्युपगम्यते ।।
एतावतैव पर्याप्तमस्मद्राद्धान्तसिद्धये ।। १३६६ ।।
अस्मद्राद्धान्तसंसिद्धौ नान्यद्राद्धान्तसिद्धता ।।
तत्सिद्धावस्य संसिद्धिर्न कथंचिन्निवार्यते ।। १३६७ ।।
अज्ञानं संशयज्ञानं मिथ्याज्ञानमिति त्रिकम् ।।
अज्ञानं कारणं तत्र कार्यत्वं परिशिष्टयोः ।। १३६८ ।।
कूटस्थज्ञानमात्रत्वान्न तमोऽस्य स्वभावतः ।।
नाप्यागन्तु तथाऽज्ञानं हिरुक्सिद्धेरसंभवात् ।। १३६९ ।।
अविद्यातज्जकार्याणामात्मना संगतिस्ततः ।।
आत्मात्मवत्त्वरूपा स्यान्न तु सोभयकर्मजा ।। १३७० ।।
एकमेव हि सद्वस्तु यद्वेदान्तप्रमाणकम् ।।
तावन्मात्रैकनिष्ठत्वादात्मज्ञानं सदास्पदम् ।। १३७१ ।।
सर्वबादिविरोधेऽपि यत्सिद्धान्तबलाश्रयम् ।।
साधनं दूषणं सर्वं न तन्निहनुतिरिष्यते ।। १३७२ ।।
साधनं दूषणं सर्वं यस्य पादव्यपाश्रयात् ।।
सिद्धायते तीर्थदृशां कुतः स्यात्तस्य निहनुतिः ।। १३७३ ।।
अभावो येन भावेन भाव्यतेऽस्ति न नास्ति सः ।।
तम्य भावम्य सद्भावो वद केन निवार्यते ।। १३७४ ।।
व्यभिचारि न यत्रास्ति प्रमाणं सर्ववादिनाम् ।।
स्वमहिम्ना च यत्सिद्धं तदपह्नूयते कथम् ।। १३७५ ।।
तस्यैवाव्यभिचारित्वात्सर्वेषु व्यभिचारिषु ।।
तदेवैकं प्रमाणं नः सर्ववाद्यविरोधि यत् ।। १३७६ ।।
देहादावात्मबुद्धिर्नो न कदाचिद्विहन्यते ।।
जाग्रत्स्वप्नसुषुप्तेषु शुक्तिकारजतादिवत् ।। १३७७ ।।
देहान्तात्कर्तुरन्यो यो बुद्ध्यन्ताद्ब्रोद्धरेव च ।।
प्राणान्तात्करणाच्चान्यः प्रत्यग्दृष्ट्या य ईक्ष्यते ।। १३७८ ।।
अदेहतोऽजरोऽमृत्युरस्वान्तोऽमोहशोकवान् ।।
अबुभुक्षोऽपिपासश्च प्राणकारणवर्जनात् ।। १३७९ ।।
अहीनो हीयते योऽसौ तथाऽनागत एति यः ।।
जानीयात्तमनात्मानं जाग्रत्स्वप्नसुषुप्तिषु ।। १३८० ।।
न हीयते हीयमान आगच्छति न चैति यः ।।
आगमापायसाक्षित्वादात्मा सोऽनुभवाश्रयात् ।। १३८१ ।।
नाविद्यामनुपादाय प्रत्यक्कारकतां व्रजेत् ।।
नाकारकः क्रियां कर्तुमलं जगति वीक्ष्यते ।। १३८२ ।।
द्गष्टुर्दृष्ट्या न चानाप्तोऽनात्मा कश्चित्प्रसिध्यति ।।
मिथ्याज्ञानमतोऽनात्मा ह्यात्माज्ञानसमुत्थितेः ।। १३८३ ।।
नाविद्यामनुपादाय जाग्रत्स्वप्नसुषुप्तिषु ।।
अनात्मानं विजानाति तज्जज्ञात्राद्यनन्वयात् ।। १३८४ ।।
न च ज्ञात्रनुरोधिन्या दृष्ट्याऽज्ञानासमन्वितम् ।।
आत्माऽऽत्मानमलं द्नष्टुं रूपं श्रोत्रधिया यथा ।। १३८५ ।।
उत्सार्यानात्मनः सर्वानन्वयव्यतिरेकतः ।।
प्रत्यक्प्रधानया दृष्ट्या पश्येदात्मानमद्वयम् ।। १३८६ ।।
त्वं ब्रह्मेति गुरोर्वाक्यात्तन्निविष्टपदार्थयोः ।।
उक्तान्वयादिनोत्पन्निविवेकः सन्नबुध्यत ।। १३८७ ।।
तद्ब्रह्माऽऽत्मानमेवावेद्यदनात्मेत्युभूत्पुरा ।।
अविद्यया विद्यया तु ब्रह्माऽऽत्मैवाभवत्स्वतः ।। १३८८ ।।
एवेत्यवधृतौ ज्ञेयं ब्रह्मात्मार्थविशेषणम् ।।
आत्मैव ब्रह्म वेज्ञेयं ब्रह्मैवाऽऽत्मेति संभवात् ।। १६८९ ।।
ब्रह्मता नाऽऽत्मनोऽन्यत्र नाऽऽत्मता ब्रह्मणोऽन्यतः ।।
तद्याथात्म्याप्रबोधात्तु तयोरेष विपर्ययः ।। १३९० ।।
आत्माऽपि साक्षात्तद्ब्रह्म परोक्षं तदबोधतः ।।
ब्रह्मैव तद्वदात्माऽपि सद्वितीयवदीक्ष्यते ।। १३९१ ।।
वाक्योत्थसम्यग्विज्ञानप्रध्वस्ततमसो यतेः ।।
विभागहेतोरुच्चित्तेः सर्वमात्मैव शिष्यते ।। १३९२ ।।
विज्ञातारमरे केन विजानीयादिति श्रुतेः ।।
ननु विप्रतिषिद्धार्थं तदात्मानमितीर्यते ।। १३९३ ।।
दृष्टेर्द्रष्टेति विज्ञानान्नात्र विप्रतिषिद्धता ।।
प्रत्यग्बुद्धिः प्रमात्रादौ सर्वत्रैवोपजायते ।। १३९४ ।।
युष्मदस्मद्विभागाभ्यां यावद्वस्त्विह मीयते ।।
तेन तेन विशेषेण प्रत्यगर्थः प्रतीयते ।। १३९५ ।।
प्रत्यगर्थमनालिङ्ग्य न पराग्वर्ति जायते ।।
विज्ञानं तेन तत्पूर्वं सर्वमन्यत्प्रतीयते ।। १३९६ ।।
आब्रह्मास्थाणुु चान्वक्षं सर्वेषु व्यभिचारिषु ।।
प्रत्ययोऽव्यभिचार्येकश्चैतन्यप्रतिबिम्बितः ।। १३९७ ।।
न च विप्रतिपद्यन्ते वादिनोऽनुभवात्मनि ।।
तत्र चेत्स्याद्विसंवादः केनान्येन चिकित्स्यते ।। १३९८ ।।
अन्योऽपि योऽत्रः कल्प्यः स्यात्सोऽप्यस्मान्नैव भिद्यते ।।
सर्वभेदात्मरूपत्वात्कः सन्स्यादात्मना विना ।। १३९९ ।।
प्रत्यगात्मनि विश्वस्य ततोऽनात्मनि तद्वशात् ।।
अविद्वदङ्गनाबालं बिश्वसित्यनपेक्षतः ।। १४०० ।।
आत्मनैवाऽऽत्मविज्ञानं ज्ञेयज्ञात्रादिवर्जितम् ।।
स्वयमेव फलात्मत्वात्फलं चास्मान्न भिद्यते ।। १४०१ ।।
प्रमाणव्यवहारोऽयं सर्वेषामपि वादिनाम् ।।
स्वतोऽनुभवनिष्ठः स्यान्न चेत्षष्ठेन्द्रियार्थवत् ।। १४०२ ।।
चैतन्यमात्ररूपोऽयं सदानस्तमितोदितः ।।
अविद्यामस्पृशन्नास्ते निष्क्रियोऽकारकोऽफलः ।। १४०३ ।।
स्वतोऽसङ्गस्वभावत्वात्खचरादि वियद्यथा ।।
नाविद्या नापि तत्कार्यं प्रत्यक्स्थमपि ढौकते ।। १४०४ ।।
स्वतः सेद्धुमशक्तत्वात्खमृते वायुवत्सदा ।।
प्रत्याख्यातस्वभावोऽपि सिध्यतीवाग्रहो दृशौ ।। १४०५ ।।
युतिं साधारणात्मा हि यात्यसाधारणात्मभिः ।।
अनन्यवृत्तितो नाऽऽत्मा संसर्गं प्रैत्यनात्मभिः ।। १४०६ ।।
विभज्यमानोऽन्येभ्यो हि विशेषोऽपि प्रसिध्यति ।।
line २ miss ।। १४०७ ।।
भेदसंसर्गहीनत्वात्पदवाक्यार्थताऽऽत्मनः ।।
दुःसंभाव्याऽत आत्माऽयमात्मनैवानुभूयते ।। १४०८ ।।
यादृगस्य द्वये तत्त्वमात्मनैवानुभूयते ।।
निषिद्धाशेषभेदस्य तावदेवाऽऽत्मसाक्षिकम् ।। १४०९ ।।
अपास्ताशेषतमसो यत्तत्त्वं प्रत्यगात्मनः ।।
तदवच्छित्तये नालं प्रत्यग्बोधादृतेऽन्यधीः ।। १४१० ।।
प्रत्यङ्भात्रेक्षणादात्ममोहतज्जनिराकृतेः ।।
असंभवाद्द्वीतीयस्य स्यामपूर्वादिमानहम् ।। १४११ ।।
व्यपेततमस्तत्त्वमागमापासाक्षिणः ।।
ज्ञानेन गम्यते साक्षात्तावन्मात्रानुरोधिना ।। १४१२ ।।
कालादिप्रविभक्तं सद्यद्ब्रह्माभूदविद्यया ।।
तत्प्रत्यक्तत्त्वसंबोधाद्ध्वस्ते ध्वान्तेऽन्तरात्मनि ।।
आत्मानमेव तद्ब्रह्म ब्रह्मैवाऽऽत्मेत्यवेच्छ्रुतेः ।। १४१३ ।।
अब्रह्मानात्मताहेतौ प्रत्यग्ध्वान्ते निवर्तिते ।।
व्यावृत्त्यनुगमाभावात्सर्वं तदभवत्ततः ।। १४१४ ।।
व्यावृत्त्यनुगमौ यस्माद्द्वितीये सति वस्तुनि ।।
दृष्टिमात्रात्मवस्तुत्वात्कार्यकारणवस्तुनः ।। १४१५ ।।
नाज्ञातं किंचिदप्यस्ति नानपास्तं तमोऽप्यतः ।।
सामानाधिकरण्यार्थमस्मीत्येतत्पदं भवेत् ।। १४१६ ।।
ब्रह्माहंपदयोरर्थौ यौ तयोः संगतिर्मिथः ।।
अहमर्थो विशेष्योऽत्र तत्प्राधान्यप्रसिद्धितः ।। १४१७ ।।
तद्याथात्म्यप्रसिद्ध्यर्थं ब्रह्मार्थस्तु विशेषणम् ।। १४१८ ।।
विशेषणानां संबन्धो विशेष्येण विशेषणैः ।।
विशेष्यस्यापि संबन्धः स्वातन्त्र्यपारतन्त्र्यतः ।। १४१९ ।।
विशेषणविशेष्याणां साकल्येनैव संगतिः ।।
उपात्तान्योन्यरूपाणां विशेषणविशेष्यता ।। १४२० ।।
उपात्तद्रव्यकाण्येव विशिंषन्त्युत्पलादिकम् ।।
द्रव्यं विशेषणान्येति तथोपात्तविशेषणम् ।। १४२१ ।।
नायःशलाकाकल्पानां विशेषणविशेष्यता ।।
परस्परानपेक्षत्वाद्धिमवद्विन्ध्ययोरिव ।। १४२२ ।।
एकदा निर्विभागेन कार्त्स्न्यसंगातिकारणात् ।।
सामर्थ्यात्स्वविरुद्धानां न विशेष्येऽस्ति संभवः ।। १४२३ ।।
परस्पराविरोधेन विशिंषन्त्यात्मसंश्रयम् ।।
विशेषणानि येनातस्तद्विरुद्धं न ढौकते ।। १४२४ ।।
विशेषणयुतिः शाब्दी तद्विरुद्धनिराकृतिः ।।
मोहमात्रेण तत्प्राप्तेः सामार्थ्यात्स्यान्न शब्दतः ।। १४२५ ।।
एकैकरूपासंसर्गबोधमात्रस्वभावतः ।।
विशेषणानां संप्राप्तिर्नाऽऽञ्जसी प्रत्यगात्मनि ।। १४२६ ।।
विशेषणानां संबन्धो यतो न प्रत्यागात्मनि ।।
लक्ष्यलक्षणता तस्मात्प्रतीच्यध्यवसीयते ।। १४२७ ।।