बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥संबंधभाष्यवार्तिकम् ॥ (८)
अनन्यापेक्षि प्रत्यक्त्वमहंरूपेण लक्ष्यते ।।
line २ miss ।। १४२८ ।।
निवर्त्यभेदाद्भिन्नोऽर्थोऽमानित्वादेर्यथा तथा ।।
ब्रह्माहमर्थयोर्ज्ञेयस्तयोरैकार्थ्यहेतुतः ।। १४२९ ।।
अनात्माब्रह्मताहेतौ प्रत्यग्ध्वान्ते निवर्तिते ।।
पदार्थ एक एव स्याद्ब्रह्माहंपदयोः परः ।। १४३० ।।
भेदसंसर्गनाशार्थो नात उक्तेरिहेष्यते ।।
अहंब्रह्मश्रुतेः साक्षात्तादात्म्यमिह गम्यते ।। १४३१ ।।
कर्तुर्ज्ञातुर्हि या दृष्टिः साऽविद्योत्थार्थलेहिनी ।।
तत्प्रत्यगात्मदृष्ट्या तां प्रत्याख्यायाश्नुतेऽद्वयम् ।। १४३२ ।।
अस्मीतीहत्यनिर्देशाद्विद्याकालैव मुक्तता ।।
सिद्धाऽतोऽसौ न साध्या स्यादग्निहोत्रादिकार्यवत् ।। १४३३ ।।
प्रत्यग्याथात्म्यविज्ञानमात्रव्युत्पत्तिसिद्धये ।।
तस्मादिति श्रुतिर्वक्ति ह्युत्पत्त्यादिनिवृत्तये ।। १४३४ ।।
अविद्यातज्जनिर्मुक्तौ ब्रह्म ब्रह्माभवत्स्वतः ।।
सर्वः कृत्स्नस्तथा पूर्णः शब्दाः पर्यायवाचकाः ।। १४३५ ।।
आत्माविद्यासमुत्थानामात्मयाथात्म्यमात्रतः ।।
कर्मवत्काङ्क्षते ज्ञानं विशिष्टं नाघिकारिणम् ।। १४३६ ।।
देवादीनामतो यो यो यथोक्तेनैव वर्त्मना ।।
line २ miss ।। १४३६ ।।
प्रत्यग्बोधातिरेकेण साधनान्तरनिह्नुतौ ।।
एवेत्यवधृतिर्ज्ञेया ज्ञानादेव ततो भवेत् ।। १४३८ ।।
आत्मयाथात्म्यविज्ञानाद्यदन्यत्साधनान्तरम् ।।
ज्ञानाभावोऽथवा सर्वमविद्यैवेति निश्चितिः ।। १४३९ ।।
मनुष्या यदमन्यन्य साध्वेवातस्तदीरितम् ।।
न कश्चिदपि दोषोऽत्र पूर्वोक्तोऽतः प्रसज्यते ।। १४४० ।।
प्रत्यक्तयैव संबन्धादात्मनोऽनात्मवस्तुना ।।
विशिष्टेनाविशिष्टस्य क्लृप्तेनाकल्पितात्मनः ।। १४४१ ।।
यतोऽतो लोकबुद्ध्यैव देवादीनामितीर्यते ।।
तुल्यो देवादिसंबन्धो ब्रह्मणो मशकादिभिः ।। १४४२ ।।
अन्तरेणाधिकारं चेन्नाऽऽत्मबोधस्य संभवः ।।
न जन्मान्तरसंस्काराद्वामदेवस्य तद्भवेत् ।। १४४३ ।।
श्रुत्युक्तार्थस्य वा स्थेम्ने मन्त्रोदाहृतिरिष्यते ।।
प्रमाणान्तरसंवादात्पुंसां विश्वासधीर्यतः ।। १४४४ ।।
अव्यावृत्ताननुगतं तद्धैतत्प्रत्यगात्मनि ।।
तद्दर्शनादृषिः साक्षात्पश्यन्सर्वं प्रपन्नवान् ।। १४४५ ।।
सूक्तादिज्ञापनार्थाय ह्यहं मनुरितीरणम् ।।
ऐकात्म्यं सर्वभूतेषु प्रतीचोऽसौ ददर्श ह ।। १४४६ ।।
तत्पश्यन्नित्यनेनात्र ब्रह्मविद्या प्रदर्श्यते ।।
अहमासं मनुरिति विद्यायाः फलमुच्यते ।। १४४७ ।।
पश्यन्प्रतिपेद इति प्रयोगादवसीयते ।।
विद्याकालैव कृत्स्नाप्तिरिति तन्मोहहानतः ।। १४४८ ।।
बह्मप्राप्त्यन्तरायस्य प्रत्यक्संमोहमात्रतः ।।
प्रत्यग्विज्ञानतो ध्वस्तेस्तत्प्राप्तिर्नान्यसाधना ।। १४४९ ।।
अविद्याध्वंसमात्रेण पुमर्थस्य समाप्तितः ।।
तावताऽवसितेर्विद्या स्वार्थैवेति विनिश्चयः ।। १४५० ।।
सकृदात्मप्रसूत्यैव निरुणद्ध्यखिलं भवम् ।।
ध्वान्तमात्रनिरासेन न ततोऽन्याऽन्यथा मतिः ।। १४५१ ।।
देशकालाद्यसंबन्धाद्देशादेर्मोहकार्यतः ।।
नानुत्पन्नमदग्धं वा ज्ञानमज्ञानमस्त्यतः ।। १४५२ ।।
नाबाधित्वेह बाध्यार्थं बाधको बाधकात्मताम् ।।
लभते मेययाथात्म्यहेतुमात्रव्यपेक्षतः ।। १४५३ ।।
यतोऽतोऽविद्यातज्जानां बाधितत्वात्प्रबोधतः ।।
सकृदेव च मायोगान्नोर्ध्वं तच्चोदनेष्यते ।। १४५४ ।।
सम्यग्ज्ञानशिखिप्लुष्टमोहतत्कार्यरूपिणः ।।
सकृन्निवृत्तेर्बाध्यस्य किं कार्यमवशिष्यते ।। १४५५ ।।
ध्वान्तादिघस्मरे प्रत्यक्तैतन्यात्मैकनिष्ठिते ।।
प्रत्यर्थिनि स्थितेऽनात्मधियां स्यात्सत्यता कुतः ।। १४५६ ।।
अज्ञातमिथ्याविज्ञाततत्त्वमात्रावलम्बिना ।।
ज्ञानेन किं न विज्ञातं वद किं वा न वाधितम् ।। १४५७ ।।
सर्वापत्तिरियं युक्ता देवादीनां महात्मनाम् ।।
अस्मदादेस्तमस्वित्वान्न संभाव्येति चेन्न तत् ।। १४५८ ।।
एतर्ह्यपि तु तद्ब्रह्म यो यः साक्षादबुध्यत ।।
स एव तदभूद्यस्मान्नातोऽभिजनकारणम् ।। १४५९ ।।
अप्येतर्हि यथान्यायं यो वेदाऽऽत्मानमद्वयम् ।।
स इदं सर्वमात्मैव भवत्यज्ञानहानतः ।। १४६० ।।
न हीहोत्कृष्टसत्त्वेषु देवादिषु परात्मनः ।।
नापि चात्यन्तमूढेषु विशेषः कश्चिदीक्ष्यते ।। १४६१ ।।
प्रत्यक्तत्त्वधियो वाऽस्ति स्वतोबुद्धैकताऽऽत्मनः ।।
श्रेयांसि वहुविघ्नानीत्याशङ्क्यैतदथोच्यते ।। १४६२ ।।
तस्य ज्ञातात्मतत्त्वस्य प्रध्वस्ततमसो यतेः ।।
इन्द्रादयोऽपि नैवालं कैवल्याप्तिनिवारणे ।। १४६३ ।।
देवाद्यैश्वर्यविषयव्यतिक्रान्तत्वहेतुतः ।।
कैवल्याभूत्या उद्युक्ता ईश्वरा अपि नेशते ।। १४६४ ।।
ईशेशितव्यसंबन्धः प्रत्यगज्ञानहेतुजः ।।
सम्यग्ज्ञानात्तमोध्वस्तवीश्वराणामपीश्वरः ।। १४६५ ।।
ईश्वराणामनैश्वर्यं कस्मद्ब्रह्मविदीति चेत् ।।
आत्मा ह्येषामितीत्याह तद्धेतुप्रतिपत्तये ।। १४६६ ।।
भोज्यत्वेन जगत्कृत्स्नं कर्मविद्याविसाधनैः ।।
उपात्तं तदभुक्त्वा तु कैवल्यं लभते न चेत् ।। १४६७ ।।
इत्याशङ्कापनुत्त्यर्थं परो ग्रन्थोऽवतार्यते ।।
कैवल्यावाप्तिविघ्नाय नालं देवा अपीश्वराः ।। १४६८ ।।
अविद्याविषये यस्मात्तेषामधिकृतिः स्मृता ।।
न तु प्लुष्टात्मयाथात्म्यविज्ञानतमसामसौ ।। १४६९ ।।
ब्रह्मविद्याफलप्राप्तौ विघ्नं कुर्वन्ति देवताः ।।
इत्यत्र किनिमित्तेयमाशङ्केत्यभिधीयते ।। १४७० ।।
युक्ताऽऽशङ्का यतो मर्त्य देवान्प्रत्यृणिनः श्रुतेः ।।
पशुलोत्ववाक्याच्च पारतन्त्र्याच्च कर्मिणः ।। १४७१ ।।
ब्रह्मवित्त्वे च पारार्थ्यं देवादीन्प्रति हीयते ।।
तस्य ब्रह्मतमोहेतोस्तन्निवृत्तौ निवर्तते ।। १४७२ ।।
अप्रियारिष्टिवाक्याभ्यामयमर्थोऽवसीयते ।।
तस्माद्विद्याफलावाप्तौ विघ्नं कुर्वन्ति देवताः ।। १४७३ ।।
नन्वेवं तर्ह्यविश्रम्भो ह्यदृष्टफलसंपदि ।।
प्राप्तोऽभ्युदयमोक्षार्थसाधनव्यापृताविह ।। १४७४ ।।
तथेश्वरोऽपि नो विघ्नं कुर्वन्केन निषिध्यते ।।
कालमन्रौषधादीनामचिन्त्या शक्तिरिष्यते ।। १४७५ ।।
कर्ममन्त्रौषधितपःकालादीनां च विद्यते ।।
महती शक्तिरित्यत्र युक्तमाशङ्कितुं फले ।। १४७६ ।।
देवादयः स्वतन्त्रत्वात्फलप्राप्तिविघातयोः ।।
सर्वं कु्युरनाश्वासस्तस्मात्प्राप्नोति कर्मसु ।। १४७७ ।।
नैवं सर्वपदार्थानां नियतादानकारणात् ।।
जगद्वैचित्र्यदृष्टेश्च स्वभावे तदसंभवात् ।। १४७८ ।।
सुखादिफलदं कर्मेत्यस्मिन्पक्षे व्यवस्थिते ।।
श्रुतिन्यायादिसंसिद्धेर्नातो विघ्नकृतः सुराः ।। १४७९ ।।
कर्मणैव स्वसिद्ध्यर्थं तेषां क्रोडीकृतत्वतः ।।
नाऽऽत्मानं लभते कर्म देवेशाद्यनपेक्षि सत् ।। १४८० ।।
फलादानेऽनुलोमत्वान्नामी स्युर्विघ्नकारिणः ।।
यथा कर्म तथेशादि कर्मापेक्ष्यैव सिध्यति ।। १४८१ ।।
सर्वं सर्वमपेक्ष्यैव संहतत्वात्प्रसिध्यति ।।
प्रधानगुणभावश्च क्वचित्कस्यचिदिष्यते ।। १४८२ ।।
विघ्नकार्येऽपि चाप्येते नानपेक्ष्य प्रकुर्वते ।।
तत्सामर्थ्याप्रणोद्यत्वात्सर्वेपां सर्वकर्मसु ।। १४८३ ।।
गुणप्रधानभावश्च देवकालेश्वरादिषु ।।
कर्मस्वनियतो दृष्टो नान्यथा चोपपद्यते ।। १४८४ ।।
यदैकस्य प्रधानत्वं तदाऽन्यस्याप्रधानता ।।
एवं नृत्यज्जगन्नित्यमतद्वृत्याऽऽत्मनि स्थितम् ।। १४८५ ।।
गुणप्रधानभावश्च पदार्थानामनन्ततः ।।
क्षेपीयस्त्वाच्च कालस्य दुर्ज्ञेयो मतिविभ्रमात् ।। १४८६ ।।
कर्मैव कारणं केचित्फलप्राप्तौ प्रचक्षते ।।
दैवमेकेऽपरे कालं स्वभाव इति चापरे ।। १४८७ ।।
श्रुतयः स्मृतिवादाश्च कर्मप्राधान्यमेव तु ।।
अङ्गीकृत्य प्रदृश्यन्ते प्रवृत्ताः सर्व एव हि ।। १४८८ ।।
पुण्यः पुण्येन भवति पापः पापेन कर्मणा ।।
वचांस्येवं सुवहुशो लक्ष्यन्ते शास्रभूमिषु ।। १४८९ ।।
यद्यप्येषां स्वविषये प्राधान्यं कस्यचित्कचित् ।।
अप्राधान्यं तदन्येषां तथाऽपि तु न कर्मणाम् ।।
फलप्राप्तावहेतुत्वं शास्रन्यायावधारणात् ।। १४९० ।।
कर्मणः फलसंप्राप्तिरप्राप्तिश्चेह येक्ष्यते ।।
साद्गुण्यविगुणत्वाभ्यां सा स्यात्कर्मण एव च ।। १४९१ ।।
विघ्नं कुर्वन्ति नो देवा विद्योत्थफलसंगतौ ।।
उक्तं यदपनुत्त्यर्थं तत्र प्रतिविधीयते ।। १४९२ ।।
अविद्याहानमात्रत्वात्कैवल्याप्तफलात्मनः ।।
तत्प्राप्तेर्ज्ञानकालत्वान्नालं विघ्नाय दवताः ।। १४९३ ।।
चक्षुरूपाभिसंबन्धसमकाला यथेष्यते ।।
रूपाभिव्यक्तिरेवं स्यादविद्याध्वस्तिरात्मनः ।। १४९४ ।।
यथास्थितात्मयाथात्म्यज्ञानजन्मातिरेकतः ।।
न तत्तमोनिवृत्तिः स्यात्तदुत्थस्य च वस्तुनः ।। १४९५ ।।
सर्पात्मना गृहीतामां न दण्डादीक्ष्यते स्रजि ।।
प्रतीच्येकतनुग्राह्ये तदन्यन्न तथेक्ष्यते ।। १४९६ ।।
अन्योन्यव्यभिचारित्वमज्ञानेऽपि ह्यनात्मनाम् ।।
किमु विध्वस्तनिःशेषघनाज्ञानेऽन्तरात्मनि ।। १४९७ ।।
रूप्याभज्ञानवेलायां शुक्तिकाधीर्न बाधते ।।
तदसूतेरिह त्वात्मन्यादिमध्यान्तबाधधीः ।। १४९८ ।।
निर्निमित्तं प्रमात्रादेः प्रत्यग्रूपमनात्मनः ।।
सनिमित्तं पराग्रूपमात्मनो मोहहेतुतः ।। १४९९ ।।
एक आत्मेति विज्ञाने दोषोऽप्यप्रतिबन्धकः ।।
मूढात्मनामपि ह्येतन्न विसंवादमृच्छति ।। १५०० ।।
मिथ्यासंशयविज्ञानमनात्मानं प्रतीष्यते ।।
प्रत्यगात्मनि तद्यस्मात्सम्यग्ज्ञानान्न भिद्यते ।। १५०१ ।।
अज्ञानं चेच्चिदाकारं संशयादिषु का कथा ।।
प्रमित्सिते प्रतीच्यस्मान्न दोषो नापि बाधकम् ।। १५०२ ।।
महिमानो यदाऽमी स्युरविद्याया न वस्तुनः ।। १५०३ ।।
काला देवादयस्तस्यां ध्वस्तायां तद्विनाशतः ।।
देवेश्वरादयः के स्युर्विघ्नं वा कस्य कुर्वते ।। १५०४ ।।
यत्र त्वस्येति श्रुत्यैव सर्वमेतत्स्फुटीकृतम् ।।
इहापि हेतुसंसिद्ध्यै तत्स्पष्टमभिधीयते ।। १५०५ ।।
यतो विघ्नकृतामात्मा प्रत्यग्याथात्म्यविद्भवेत् ।।
तद्गोचरातिवर्तित्वं विद्याकाले तमोहतेः ।। १५०६ ।।
आत्माऽमीषां तदा ब्रह्म देवादीनां भवेद्वशी ।।
कालाद्यन्तरितं यत्स्यात्प्राप्त्युत्पत्त्यादिलक्षणम् ।। १५०७ ।।
अनात्मैव फलं तत्र देवानामीशता भवेत् ।।
अपि ज्ञातात्मतत्त्वानामभावाज्ज्ञानसंततेः ।। १५०८ ।।
अन्त्योऽविद्यापनुद्वोधो रागादिप्रत्ययोत्थितेः ।।
इति चेन्नैतदेवं स्यादाद्येऽनैकान्तिकत्वतः ।। १५०९ ।।
नान्त्याऽविद्यापनुद्वुद्धिरात्मैकविषयत्वतः ।।
आद्यात्मबुद्धिवद्धेतोरनैकान्तिकतेक्ष्यते ।। १५१० ।।
अनैकान्तिकता हेतोस्तद्वत्संततिवादिनः ।।
न चाभ्यासात्प्रमाणानि कुर्वन्त्यर्थावबोधनम् ।। १५११ ।।
संबन्धमात्राभिव्यक्तेर्व्यञ्जकत्वात्प्रदीपवत् ।।
भोजनादौ न च सति ज्ञानसंततिरिष्यते ।। १५१२ ।।
तदन्तरायबाहुल्यात्सुषुप्तादौ च नेष्यते ।।
प्रत्यक्प्रमेयपूर्वैव सर्वासां नो यतो धियाम् ।।
सूतिराम्रेडन तस्मात्सिद्धमात्मधियः सदा ।। १५१३ ।।
ज्ञानस्य वस्तुतऩ्त्रत्वान्न कर्त्रनुविधायिता ।।
शीतोष्णाज्ञानवत्तस्मान्नेष्यते ज्ञानसंततिः ।। १५१४ ।।
भोजनादिनिरोधेन संततिश्चेत्समर्थ्यते ।।
उक्ता परिहृतिस्तत्र न भूयोऽपि व्यपेक्षते ।। १५१५ ।।
क्षुत्पिपासापरिम्लानचेतस्त्वान्नितरां न सा ।।
भोजनादिनिरोधेन न च तस्याः प्रमेक्ष्यते ।। १५१६ ।।
संतत्यारम्भकधियामियत्तानवधारणात् ।।
शास्रार्थानिश्चयो दोषः स चानिष्टः प्रसज्यते ।। १५१७ ।।
मतं संततिमात्रत्वे निश्चितिः स्यात्तथाऽपि च ।।
अनैकान्तिकता हेतोराद्यसंततिवद्भवेत् ।। १५१८ ।।
समानविषयत्वेऽपि नाऽऽद्याऽविद्यां निहन्ति चेत् ।।
ज्ञानसंततिरन्त्या नः सेत्स्यतीयत्र का प्रमा ।। १५१९ ।।
मरणेऽपि न विश्चासो हिक्किकावशवर्तिनः ।।
ज्ञानसंततिनिष्पत्तौ तमोमात्रसमाप्तितः ।। १५२० ।।
कर्मच्छिद्रेषु कुर्वन्ति येऽपि सम्यग्धियं बलात् ।।
नूनं ते नासिकाग्रेण वीक्षन्ते सूर्यमण्डलम् ।। १५२१ ।।
वस्तुतन्त्रं, न हि ज्ञानं नृतन्त्रं लोकवह्निवत् ।।
अनन्यज्ञातृकत्वाच्च प्रत्यग्ज्ञानस्य सर्वदा ।। १५२२ ।।
न चानिवर्तकं ज्ञानं प्रत्यङ्भोहस्य युज्यते ।।
स्वानुभूतिविरुद्धत्वादग्निदाहादिबोधवत् ।। १५२३ ।।
सर्ववेदान्तवाक्यानामेतावन्मात्रनिष्ठतः ।।
न चार्थवादता तेषामन्याशेषत्वकारणात् ।। १५२४ ।।
अहंधीविषयत्वाच्चेत्तेषां स्यादर्थवादता ।।
नाोक्तत्वात्परिहारस्य न चाहंगम्यताऽऽत्मनः ।। १५२५ ।।
अहंबुद्ध्येक्ष्यते प्रत्यक्प्रतीचा चाप्यहंमतिः ।।
अन्योन्याश्रयता दोषः स्यादहंवृत्तिवीक्षणे ।। १५२६ ।।
यत एवमतो यो नः प्रत्यक्संमोहहानिकृत् ।।
अाद्योऽन्त्यः संततो वाऽसौ बोधो मुक्तिफलः स्मृतः ।। १५२७ ।।
यत्तूक्तं ज्ञाततत्त्वानामपि रागादिदर्शनात् ।।
नाविद्याहानिकृज्ज्ञानमत्र प्रतिविधीयते ।। १५२८ ।।
आरब्धफलशेषैकहेतुत्वाद्देहसंस्तितेः ।।
रागादिप्रत्ययोद्भूतिरिषुचक्रादिवेगवत् ।। १५२९ ।।
तस्य वृत्तफलत्वान्नो ज्ञानं स्यात्तन्निवृत्तिकृत् ।।
अतीतत्वाच्च तद्धान्यै नालमात्मावबोधनम् ।। १५३० ।।
यत्तु स्वात्माश्रयं कर्म ह्यनारब्धफलं भवेत् ।।
उत्पित्स्वनागतं कृत्स्नं ज्ञानं हन्ति तदेव नः ।। १५३१ ।।
अनारब्धफलं कर्म न त्वारब्धफलं यदि ।।
निरुणद्ध्यात्मविज्ञानं तदाऽनिष्टं प्रसज्यते ।। १५३२ ।।
प्रारब्धात्मफलं नो चेत्कर्म ज्ञानं निवर्तयेत् ।।
अनारब्धफलं हन्तीत्यत्रापि स्यान्न निश्चितिः ।। १५३३ ।।
न चेदारब्धकार्येषु ज्ञानस्वातन्त्र्यामिष्यते ।।
अनारब्धेषु नितरां पुंसोऽपि स्याद्यथेष्टता ।। १५३४ ।।
न च तेषु निरुद्धेषु किंचिन्नः स्यात्प्रयोजनम् ।।
प्राङ्भृतेर्मुक्त्यसंसिद्धेरबीजत्वाच्च संसृतेः ।। १५३५ ।।
सर्वसंहारकाले च निरोधोऽभूदशेषतः ।।
तावानपि न पर्याप्तो निरोधो मुक्तये, कथम् ।। १५३६ ।।
अल्पीयोहःसमभ्यस्तो निरोधोऽलं विमुक्तये ।।
भावनोपचयान्नापि मुक्तिः स्याद्भङ्गरत्वतः ।। १५३७ ।।
दुःख्यस्मीत्यपि चेद्ध्वस्ता कोटकल्पोपबृंहिता ।।
अल्पीयोभ्यासजा साध्वी भावनेत्यत्र का प्रमा ।। १५३८ ।।
शास्रार्थस्य समाप्तेश्च मुक्तिः स्यात्तावता मितेः ।।
रागादयः सन्तु कामं न तद्भावोऽपराध्यति ।। १५३९ ।।
आगमाद्वेद चेद्ब्रह्म ब्रह्मैव भवतीति हि ।।
फलावस्थस्य च सतः कुतो रागादिसंप्लुतिः ।। १५४० ।।
न च ब्रह्मपरिज्ञानहुताशाप्लुष्टमण्वपि ।।
संभाव्यते ब्रह्मधियः सर्वान्त्यत्वैकहेतुतः ।। १५४१ ।।
सम्यग्ज्ञानविरुद्धा धीर्न चैकात्म्यं विजानतः ।।
उत्पद्यते निर्विषया विषयाशयहानतः ।। १५४२ ।।
लोकेऽनिर्ज्ञाततत्त्वस्य मिथ्याधीरुपजायते ।।
प्रध्वस्ततत्त्वतमसः कुतः स्यात्कारणादृते ।। १५४३ ।।
सम्यग्ज्ञानेऽपि चेत्सा स्यादविश्रम्भः प्रसज्यते ।।
एवं सत्यप्रमाणत्वं मितेश्चापि प्रसज्यते ।। १५४४ ।।
सम्यङ्भिथ्याधियोर्यस्माद्विशेषो नोपलभ्यते ।।
व्यवहारस्य लोपोऽतः सर्वस्य स्यादसंशयः ।। १५४५ ।।
सम्यग्ज्ञानसमुत्पात्तिसमनन्तरमेव च ।।
शरीरपातः कस्मान्नेत्येतच्चाप्यपहस्तितम् ।। १५४६ ।।
पूर्वोक्तेनैव न्यायेन वक्तव्यं नावशिष्यते ।।
ज्ञानोत्पत्तावतो ध्वस्तिः सर्वेषामपि कर्मणाम् ।। १५४७ ।।
यथैधांसि समिद्धोऽग्निर्भस्मासात्कुरुतेऽर्जुन ।।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ।। १५४८ ।।
सर्वदृष्टान्तसारूप्यप्रसक्तौ तन्निपेघकृत् ।।
तावदेव चिरं तस्येत्यपवादः श्रुतीरितः ।। १५४९ ।।
नेत्रबन्धविनिर्मोकादुपदेशः स्मृतिं प्रति ।। १५५० ।।
ततस्तदर्शग्रहणमनुष्ठानं ततः परम् ।।
स भूरिगत्युपचयाद्ग्रामाद्ग्रामान्तरं व्रजेत् ।। १५५१ ।।
सम्यग्ज्ञातोपदेशार्थः स्वयं च प्रतिभानवान् ।।
द्राघीयसा स कालेन गन्धारान्प्रतिपद्यते ।। १५५२ ।।
यथैवमेवेहापि स्याद्य इहाऽऽचार्यवान्नरः ।।
निःशेषदृष्टान्तोक्त्यर्थप्रसक्तिविनिवृत्तये ।।
पवादं श्रुतिरियं तस्य त्विति जगाद नः ।। १५५३ ।।
प्रत्यग्याथात्म्यविज्ञानजन्मनो नातिरेकभाक् ।।
प्रत्यङ्भोहभिनहनध्वंसश्चाप्यन्यथामतेः ।। १५५५ ।।
तस्माद्याथात्म्यविज्ञानसमुत्पत्तेः पुरैव तु ।।
आत्माज्ञानं सकार्यं स्यात्तस्य बाध्यत्वकारणात् ।। १५५६ ।।
यस्मिन्प्राप्ते यद्भवति तत्तस्मात्स्यात्कथं पुरा ।।
अन्त्यं तस्मात्परिज्ञानं सर्वबाध्यस्य बाधकम् ।। १५५७ ।।
ऋणिनोऽप्यस्य देवाद्या नेशते ब्रह्मवेदिनः ।।
इत्युक्तं किंनिमित्तं चेत्तत्र प्रतिविधीयते ।। १५५८ ।।
न विज्ञानात्मयाथात्म्यं प्रत्यृणित्वं भवेद्यतः ।।
अविद्याविषयं तत्स्यात्तस्य कर्तृत्वकारणात् ।। १५५९ ।।
यत्र वा अन्यदित्यादि तथाच श्रुतिशासनम् ।।
ध्वस्ताविद्यस्य तन्न स्यात्तस्यैकात्म्यस्वभावतः ।। १५६० ।।
न चेहाविदुषोऽपि स्यादृणित्वं हेत्वसंभवात् ।।
न किंचिन्नः सुरैः प्रत्तमृणित्वं येन नो भवेत् ।। १५६१ ।।
वचनादिति चेन्नैवं तदुक्तेरर्थवादतः ।।
अवदानविधेः शेषो ह्यर्थवादो हि तद्वचः ।। १५६२ ।।
विद्वांसं प्रति नेशाना यदि देवादयो मताः ।।
तस्मिन्विषय ऐश्वर्यं तेषां स्यात्सोऽधुनोच्यते ।। १५६३ ।।
प्रामाण्यं कर्मकाण्डस्य यस्मिन्विषय इष्यते ।।
अविद्याविषयः साक्षादथ योऽन्यामितीर्यते ।। १५६४ ।।
सम्यग्ज्ञानसमुत्पत्तौ कर्मकार्यसमाप्तितः ।।
नापेक्षा कर्मकाण्डे स्यात्तत्प्रामाण्यकृतार्थतः ।। १५६५ ।।
प्रकृतैकात्म्यविद्याया व्युत्थानायाथगीरियम् ।।
न हि संगच्छते विद्याविद्यायोगं विरोधतः ।। १५६६ ।।
प्रतीच्यनन्य एकस्मिन्नविद्यापिहितेक्षणः ।।
अनन्योऽप्यात्मनो भिन्नामुपास्ते देवतां नरः ।। १५६७ ।।
अन्योऽसाविति वाक्येन व्याख्योपासापदस्य तु ।।
भेददर्शनमेवात उपास्त इति भण्यते ।। १५६८ ।।
किं मूलं भिन्नदृष्टेः स्यादिति श्रुत्या तदुच्यते ।।
न स वेदेत्यविद्येयं नामरूपप्रपञ्चकृत् ।। १५६९ ।।
आत्माविद्याग्रहग्रस्तः संहसस्तज्जवस्तुभिः ।।
स एष पशुतामेति देवादीनां स्वकर्मभिः ।। १५७० ।।
वहूपकारकृद्यद्वद्गवादिर्लौकिकः पशुः।।
देवादीनां तथाऽविद्वान्पशुः स्यादुपकारकृत ।। १५७१ ।।
एकैकस्वामिको लोके गवादिः पशुरिष्यते ।।
ततोऽप्यतिशयः पुंसां सर्वलोकोपकारिता ।। १५७२ ।।
एकैकक्रियया लोक एकैकस्वामिकः पशुः ।।
अनेकैः संहतश्चैवं कदाचिदुपकारकः ।। १५७३ ।।
भूरिक्रियावांस्तु नरस्तथाऽनेकेश्वरोऽवशः ।।
एकैको निखिलं विश्वं विभर्त्यज्ञो दिवानिशम् ।। १५७४ ।।
अस्यैवार्थस्य दृष्टान्तो यथा हेत्यभिधीयते ।।
यत एवमतो युक्तं देवोदेर्भृशमप्रियम् ।। १५७५ ।।
अपि भूरिपशोः पुंस एकस्मिन्नपि तस्करैः ।।
ह्रियमाणे पशौ तीव्रं दुःखं समुपजायते ।।
किमु सर्वस्वहरणे वक्तव्यं दुःखकारणम् ।। १५७६ ।।
सर्वस्वतुल्ये नृपशौ ब्रह्मधीपरिमोषिणा ।। १५७७ ।।
ह्रियमाणे महद्दुःखं तस्मादेषां तदप्रियम् ।।
यद्यथोक्तं परं ब्रह्म मनुष्या विद्युरञ्जसा ।। १५७८ ।।
सर्वाधिकारहेत्वग्निब्रह्मज्ञानस्य जन्मनि ।।
अव्यावृत्ताननुगतात्प्रतीचोऽन्यन्न शिष्यते ।। १५७९ ।।
नावशिष्यत एतस्मात्तदविद्योत्थमण्वपि ।।
प्रध्वस्तत्वादविद्याया ब्रह्मात्मज्ञानवह्निना ।। १५८० ।।
क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः ।।
न चैतदिष्टं देवानां मर्त्यैरुपरि वर्तनम् ।। १५८१ ।।
तस्मान्मुमुक्षुर्देवादीन्सम्यगाराध्य कर्मभिः ।।
उन्मुक्तबन्धनस्तैः सन्नापित्सेज्ज्ञानमात्मनः ।। १५८२ ।।
तद्विपक्षस्तु यो बालो बलादेव मुमुक्षति ।।
स्वर्गादेरपि विभ्रष्टो नरकं स निगच्छति ।। १५८३ ।।
प्रमादिनो वहिश्चित्ताः पिशुनाः कलहोत्सुकाः ।।
संन्यासिनोऽपि दृश्यन्ते देवसंदूषिताशयाः ।। १५८४ ।।
न कर्मणामनारम्भान्नैप्कर्म्यं पुरुषोऽश्नुते ।।
न च संन्यसनादेव सिद्धिं समधिगच्छति ।। १५८५ ।।
कषायं पाचयित्वा तु श्रेणीस्थानेषु च त्रिषु ।।
प्रव्रजेच्च परं स्थानं पारिव्राज्यमनुत्तमम् ।। १५८६ ।।
भावितैः करणैश्चायं बहुसंसारयोनिषु ।।
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ।। १५८७ ।।
तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः ।।
त्रिष्वाश्रमेषु कोऽन्वर्थो भवेत्परमभीप्सतः ।। १५८८ ।।
इत्येवं भगवद्व्यासवचांस्यत्र सहस्रशः ।।
श्रूयन्ते न्यायदृब्धानि तस्मात्तान्यादराच्छयेत् ।। १५८९ ।।
शास्रार्थः सूत्रितस्तावदात्मेत्येवेति यत्नतः ।।
उक्तश्च तस्य सूत्रस्य संबन्धः सप्रयोजनः ।। १५९० ।।
संसारानर्थहेतुत्वमविद्यायाश्च वर्णितम् ।।
योऽन्यामित्यादिवाक्येन तत्कार्यमपि सूत्रितम् ।। १५९१ ।।
विद्यावत्सह कार्येण ह्यविद्याऽपीह सूत्रिता ।।
सामर्थ्याद्विस्तरस्तस्या आऽध्यायान्तादिहोच्यते ।। १५९२ ।।
यथोक्तात्मानभिज्ञो योऽविद्याकार्याभिमानवान् ।।
पशुवद्देवताः पाति स जुहोत्यादिकर्मभिः ।। १५९३ ।।
आऽध्यायावसितेस्तस्मादविद्याया विभूतयः ।।
वक्ष्यन्ते विस्तरेणातः परो ग्रन्थोऽवतार्यते ।। १५९४ ।।
अस्यैवार्थस्य सिद्ध्यर्थमग्निसर्गादनन्तरम् ।।
इन्द्रादिसर्गः प्राङ्नोक्तो मोहकार्यविवक्षया ।। १५९५ ।।
परिपूरणाय सृष्टेस्तु ह्यग्निसर्गः पुरोदितः ।।
यत एवमतोऽविद्याकार्योऽनर्थोऽखिलो भवेत् ।। १५९६ ।।
इन्द्रादिसर्गस्तत्रैव तच्छेषत्वात्समीक्ष्यताम् ।।
अविद्याकार्यसिद्ध्यर्थमिह त्वस्य प्रपञ्चनम् ।। १५९७ ।।
स्रष्टृ यज्जगतः पूर्वमात्मैवेत्यभिशब्दितम् ।।
तदग्न्याद्यभिमान्यत्र ब्रह्मेति व्यपदिश्यते ।। १५९८ ।।
ब्रह्मैकजात्यवच्छिन्नं यस्मादग्रे व्यवर्तत ।।
नानेकजातिमद्धेतुकर्मणेऽलं ततो भवेत् ।। १५९९ ।।
चातुर्वर्ण्यप्रसाध्यं सन्नैकजातिप्रसाधनम् ।।
कर्मालं सिद्धये लोके शिबिकोद्वहनं यथा ।। १६०० ।।
गृहीतिरभिषिक्तानामिन्द्रादीनां श्रुतौ श्रुता ।।
श्रेयोरूपप्रसिद्ध्यर्थं क्षत्र्रस्येत्यवगम्यते ।। १६०१ ।।
धर्मान्तैः सहितैर्यस्मात्कर्म सिध्यति नान्यथा ।।
तेन तेन विना शक्तमतस्तत्तदचीक्लृपत् ।। १६०२ ।।
ब्रह्मासृजद्यतः क्षत्र्रमात्मनोऽप्यतिवीर्यवत् ।।
बलवत्क्षत्र्रतस्तस्मान्नान्यद्भूतमिहेष्यते ।। १६०३ ।।
तस्माच्च ब्राह्मणोऽधस्ताद्राजसूये महाक्रतौ ।।
आसन्दीस्थमुपास्ते त्वं राजन्ब्रह्मेति संभ्रमात् ।। १६०४ ।।
ब्रह्मेति श्रावितो राज्ञा ब्रह्मा प्रत्याह तं नृपम् ।।
त्वमेव राजन्ब्रह्मेति क्षत्र्रे तद्यश आत्मनः ।। १६०५ ।।
दधाति भास्वद्ब्रह्माख्यं यस्मिन्सर्वं प्रतिष्ठितम् ।।
क्षत्रस्य योनिर्ब्रह्मेदं क्षत्र्रं ह्याविरभूत्ततः ।। १६०६ ।।
यतोऽतो यद्यपि क्षत्र्रं ब्राह्मण्यं प्रतिपद्यते ।। १६०७ ।।
परमत्वं तथाऽप्यन्ते राजसूयक्रतोः पुनः ।।
उपनिश्रयति ब्रह्म गुणभावेन पूर्ववत् ।। १६०८ ।।
ब्रह्मैव चान्ततः क्षत्र्रमुपनिश्रयतीत्यतः ।।
क्रतुकालैव ब्रह्माप्तिःक्षत्र्रस्येत्यवसीयते ।। १६०९ ।।
स्वां योनिमिति हेतूक्तिः कार्यं कारणसंश्रयम् ।।
न हि कारणतोऽन्यत्र वृ्त्तिः कार्यात्मनः कचित् ।।
ब्रह्मैककारणो राजा तस्माद्ब्रह्मैव संश्रितः ।। १६१० ।।
यस्तु बाहुबलोन्मत्तः स्वां योनिं ब्राह्मणं नृपः ।।
वाङ्भात्रेणापि सक्रोधो हिनस्तीह प्रमादतः ।। १६११ ।।
ब्रह्मोपमर्दनात्पापः प्रागपि क्रूरकर्मकृत् ।।
ततोऽपि पापात्पापीयान्स स्याद्ब्रह्मापवादतः ।। १६१२ ।।
उत्तमाभिजनोपेतं भूर्युदारगुणं द्विजम् ।।
यथा श्रेयांसं हिंसित्वा पापीयान्स्यात्तथैव सः ।। १६१३ ।।
सृष्ट्वाऽपि चतुरो वर्णान्व्यवस्थाकारणं विना ।।
कर्मणे नैव पर्याप्तं ब्रह्माभूत्पूर्ववत्ततः ।। १६१४ ।।
ब्रह्मक्षत्र्रादिरूपाणि यतोऽतीत्यासृजत्प्रभुः ।।
श्रेयोरूपस्ततो धर्मः सर्वानप्यनुशास्त्यसौ ।। १६१५ ।।
तदेतत्सृष्टं धर्माख्यं क्षत्र्रस्याधिपतेरपि ।।
प्रशास्तृ तद्भयाद्यस्मात्क्षत्र्रं भीतं प्रवर्तते ।। १६१६ ।।
क्षत्र्रस्यापि यतो धर्मः साक्षादधिपतिस्ततः ।।
धर्मादन्यन्महद्भूतं न भूतं न भविष्यति ।। १६१७ ।।
श्रेयोरूपप्रसिद्ध्यर्थं प्रसिद्धिरुपवर्ण्यते ।।
अथो इत्यादिना धर्मविशिष्टत्वावबुद्धये ।। १६१८ ।।
आशंसते बलीयांसमबलीयानपि स्वयम् ।।
धर्मं बलं समाश्रित्य जेतुं लोके तथा यथा ।। १६१९ ।।
राज्ञा बलेनाल्पबलो बलीयांसं कुटुम्बिनम् ।।
जेतुमाशंसते तस्माद्धर्मः स्याद्वलवत्तमः ।। १६२० ।।
बलीयसाऽपि राज्ञेह स्पर्धमानोऽबलोऽपि सन् ।।
जेतुमुत्सहते भूपं धर्मात्मकबलाश्रयात् ।। १६२१ ।।
एतदेव यतो ज्यायो रूपं धर्मोत्युदाहृतम् ।।
रूपान्तरेभ्यः सर्वेभ्यस्तद्धि सत्यात्मकं यतः ।। १६२२ ।।
तस्यास्य धर्मरूपस्य कार्यकारणतां मिथः ।।
यो वै स धर्म इत्युक्त्या वक्तुं प्रववृते श्रुतिः ।। १६२३ ।।
प्रयोगलक्षणो योऽयं श्रुतिस्मृत्युदितो मतः ।।
स धर्म इति विज्ञेयः सत्यं शास्रार्थलक्षणम् ।। १६२४ ।।
अक्षरानुगतोऽप्यर्थो यदि संशय्यते तदा ।।
नित्यप्रयोगरूपोत्थविज्ञानात्तद्विनिश्चितिः ।। १६२५ ।।
प्रयोगेऽपि च संशीतौ वाक्यार्थज्ञानसंश्रयात् ।।
निर्णुदेत्संशयं प्राज्ञ एवमन्योन्यहेतुता ।। १६२६ ।।
यथा प्रयोगमुल्लङ्ध्य व्याख्यातुं शक्नुयात्सुधीः ।।
यथाशास्रं तथोल्लङ्घ्य कर्तुं शक्नोत्यथापरः ।। १६२७ ।।
अतथ्यान्यपि तथ्यानि दर्शयन्तीह वादिनः ।।
समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ।। १६२८ ।।
शास्त्रार्थस्तत्प्रयोगश्च यदा त्वन्योन्यसंश्रयात् ।।
प्रवर्तते तदा कर्तुर्न प्रमादो मनागपि ।। १६२९ ।।
नायं धर्म इति ज्ञेयो योऽयं सृष्टाविहेरितः ।।
क्षत्र्रादिनियमाशक्तेस्तस्याचैतन्यरूपतः ।। १६३० ।।
देवता तु ह्यधिष्ठात्री धर्मोऽस्मीत्याभिमानिनी ।।
सैवेह सृज्यते धात्रा नियमार्थप्रसिद्धये ।। १६३१ ।।
धर्मस्यैव तु रूपेण देवता रूपिणी मता ।।
तन्नाम्ना नामवत्येवं देवतान्तरयोजना ।। १६३२ ।।
एकैव देवता तस्मान्नामरूपाद्युपाधिभिः ।।
आभाति बहुरूपेव तत्पराधीनचेतसाम् ।। १६३३ ।।
यथोक्तार्थोपसंहार उत्तरार्थविवक्षया ।।
ब्राह्मणस्य पुराऽनुक्तेस्तदुक्त्यर्था परा श्रुतिः ।। १६३४ ।।
दैववर्णविभागस्य मनुष्येष्वपि भण्यते ।।
विनियोगो यथोक्तोऽयं वर्णानां प्रविभागशः ।। १६३५ ।।
क्षत्र्रदीनां पुरोक्तात्वादनुक्तेर्ब्राह्मणस्य च ।।
को न्वेषु ब्राह्मण इति चोदिते स्यात्परा श्रुतिः ।। १६३६ ।।
देवतायाः समाख्यातो विभागो वर्णसंश्रयः ।।
तत्पूर्वको मनुष्येषु विभागस्त्वधुनोच्यते ।। १६३७ ।।
यदग्निनाऽभवह्व्रह्म देवेष्वविकृतं नृषु ।।
ब्राह्मणेन तदेवाभूह्व्रह्मैवैविकृतात्मना ।। १६३८ ।।
या जातिर्व्राह्मणत्वाख्या साऽग्निरेवेति निश्चितिः ।।
जातिरूपेण सा स्थित्वा जातिमेव नियच्छति ।। १६३९ ।।
आग्नेयो ब्राह्मणश्चातस्तत्संबन्धाच्छ्रुतौ श्रुतः ।।
अनुग्रहनियन्तृत्वे ब्राह्मणस्याग्नितो यतः ।। १६४० ।।
नियम्यमानो दैवेन क्षत्र्रियेण मनुष्यगः ।।
इक्ष्वाक्वादिरभूत्पूर्वः क्षत्र्रियस्तद्वदुत्तरः ।। १६४१ ।।
ब्रह्मैवाविकृतं यस्मात्पूर्वयोर्विकृतिं पुनः ।।
क्षत्र्रियादौ समापेदे तेनाग्निब्राह्मणाश्रयात् ।। १६४२ ।।
कामितार्थस्य संसिद्धिः कर्मिणां कामिनामिह ।।
स्थित्वाऽग्नौ ब्राह्मणे चेह लोकमीप्सन्ति कर्मिणः ।। १६४३ ।।
कर्मकार्यश्च लोकोऽत्र ज्ञेयोऽग्न्यादिसमाश्रयात् ।।
प्रत्यग्याथात्म्यधीमात्रात्परलोकाप्तिरिष्यते ।। १६४४ ।।
अजातशत्रुजनकसुलभादिनिदर्शनात् ।।
अविद्योत्थाधिकाराच्च लोकोक्तिर्न परात्मनि ।। १६४५ ।।
अव्याकृतव्याकरणात्स्वाभिप्रायाच्च नेष्यते ।।
अव्याकृतव्याकरणरूपाभ्यां छाद्यते परः ।। १६४६ ।।
आविष्कृतिस्तान्निषेधादन्यदेवेति च श्रुतेः ।। १६४७ ।।
उत्तरत्र स्वशब्देन लोकस्य च विशेषणात् ।।
कर्मणां फलमेवात्र लोकशब्देन भण्यते ।। १६४८ ।।
लोकशब्देन संप्राप्तं कर्मकार्यमपेक्ष्य हि ।।
स्वगिराऽनात्मनो लोकाद्विशिनष्ट्यात्मरूपकम् ।। १६४९ ।।
स्वत्वेनाव्यभिचारित्वाद्व्यभिचारादनात्मनः ।।
कर्मकार्यनिवृत्त्यर्थमर्थवत्स्याद्विशेषणम् ।। १६५० ।।
त्रयाणामपि वर्णानां श्रुतौ संन्यासदर्शनात् ।।
ब्राह्मणस्यैव संन्यास इति श्रुत्या विरुध्यते ।। १६५१ ।।
लिङ्गं च न्यायरहितं प्रामाण्याय न कल्पते ।।
ब्राह्मणोक्तिबलात्तस्मात्कामितोऽर्थो न सिध्यति ।। १६५२ ।।
उपलक्षणं वा तद्ग्राह्यं ब्राह्मणग्रहणं श्रुतौ ।।
ब्राह्मणस्य प्रधनात्वाद्युक्तं तदुपलक्षणम् ।। १६५३ ।।
ब्राह्मणत्वात्मलाभोऽपि यः स्यात्क्षत्र्रियवैश्ययोः ।।
स्वमहिम्ना तयोर्नासावग्निब्राह्मणसंश्रयात् ।। १६५४ ।।
ब्राह्मणं न ह्यनाश्रित्य राजसूयादिहेतुकः ।।
ब्राह्मणत्वाभिसंबन्धः प्राधान्यं तेन पूर्वयोः ।। १६५५ ।।
वर्णान्तरगतापेक्षा नाग्निब्रह्मणयोस्तथा ।।
ब्राह्मणः स्वमहिम्नैव पुरुषार्थं समश्र्नुते ।। १६५६ ।।
अग्निब्राह्मणयोर्हेतुः प्राधान्ये भण्यते स्फुटः ।।
एताभ्यामेव रूपाभ्यां यतो ब्रह्माभवत्स्वयम् ।। १६५७ ।।
अग्निब्राह्मणयोर्यस्माद्ब्रह्म साक्षादभूत्पुरा ।।
विट्क्षत्र्रयोर्व्यवहितं प्राधान्यं तेन पूर्वयोः ।। १६५८ ।।
ब्रह्मेति जातिरेवात्र ग्राह्या न तु पराक्षरम् ।।
तत्कारणत्वात्सर्वस्य हेतूक्तिस्तत्र दुर्घटा ।। १६५९ ।।
सर्वेषां प्रत्यगात्मत्वात्पक्षपातोऽपि नेष्यते ।।
अग्निब्राह्मणयोर्विष्णोस्तावन्मात्रसमाप्तितः ।। १६६० ।।
ब्रह्मैवेदं विश्वमिति साक्षादाम्नायशासनम् ।।
विद्याविनयसंपन्न इति च स्मृतिशासनम् ।। १६६१ ।।
क्षत्र्रादाविव तुल्याग्निविप्रयोर्विकृतिर्दृशेः ।।
तेजोबन्नादिभूतानां तुल्या सत्कारणात्मता ।। १६६२ ।।
अग्निब्राह्मणरूपेण ब्रह्म साक्षाद्व्यवस्थितम् ।।
तत्प्राप्तौ हेतुताऽग्न्यादेरिति निर्ह्रीकवागियम् ।। १६६३ ।।
वर्णाश्रमादिसर्गोऽयं कर्मार्थो ब्रह्मणः स्मृतः ।।
धर्माख्यं कर्म च ज्ञेयं स्वाधिकारनियन्तृतः ।। १६६४ ।।
तेनैव कर्मणा मुक्तिं प्राप्स्यामः शाश्वतीं वयम् ।।
अज्ञात्वैव परं तत्त्वमेवं प्राप्ते परा श्रुतिः ।। १६६५ ।।
नियन्ता चाभिमन्ता च ब्राह्मणत्वस्य हव्यवाट् ।।
कर्मैवाग्नेर्नियन्तृ स्यात्कर्मणो देवता तथा ।। १६६६ ।।
स्यादेतदग्निरेवैनं ब्रह्मभावाय वक्ष्यति ।।
अदृष्टात्मतत्त्वमपि तच्च नैवोपपद्यते ।। १६६७ ।।
व्याचक्षते परं ग्रन्थमेवंसंबन्धपूर्वकम् ।।
न कश्चित्फलभेदोऽत्र तस्मादुभयथाऽपि सन् ।। १६६८ ।।
न कर्मणा भवेन्मुक्तिर्नापि चाग्निसमाश्रयात् ।।
ज्ञानादेव तु कैवल्यमज्ञानादेव नास्ति तत् ।। १६६९ ।।
आशङ्कितनिवृत्त्यर्थमथेत्यत्र प्रयुज्यते ।।
ह वा इति प्रसिद्ध्यर्थं मुक्तिर्न ज्ञानतोऽन्यतः ।। १६७० ।।
कर्म कृत्स्नं समाप्यापि तत्त्वज्ञानाद्बहिष्कृतः ।।
लभते निर्वृतिं नैव ज्ञानादेव हि सा यतः ।। १६७१ ।।
अस्वैः पिण्डादिभिर्योग आ विरिञ्चादविद्यया ।।
प्रतीचस्तद्व्युदासार्थं स्वं लोकमिति शब्द्यते ।। १६७२ ।।
अज्ञानिनः स्यान्मरणं संसर्गः कारणात्मनि ।।
ज्ञानाद्ध्वान्तनिवृत्तिस्तु मरणं स्याद्विपश्चिताम् ।। १६७३ ।।
मृत्योर्मृत्य्वपरिज्ञानादज्ञस्य मरणं तमः ।।
अविद्वन्मृतिसिद्ध्यर्थमस्माल्लोकादितीर्यते ।। १६७४ ।।
अज्ञात्वैव परं देवमागमापायरूपिणः ।।
अस्वभूताद्देहलोकान्म्रियते योऽवशो नरः ।। १६७५ ।।
अज्ञाततत्त्वः स परो न भुनक्ति ह्यतद्विदम् ।।
कैवल्यफलदानेन प्रत्यगात्माऽपि सन्परः ।। १६७६ ।।
तद्दृष्टिमात्रतः सिद्धेर्नान्यतस्तदवाप्यते ।।
मोहमात्रान्तरायत्वात्तत्कर्मालं न मुक्तये ।। १६७७ ।।
वेदस्य ग्रहणं यद्वन्न स्यादध्ययनादृते ।।
कृप्यादि वाऽन्यदकृतं, कर्म नालं फलाय च ।। १६७८ ।।
भूरि कर्म करिष्यामि तत्फलानन्त्यसिद्धये ।।
कर्मणोऽचिन्त्यशक्तित्वान्नैवमप्युपपद्यते ।। १६७९ ।।
अप्रज्ञातात्मतत्त्वः सन्यदि नाम दिवानिशम् ।।
कल्पकोटिसहस्राणि कुर्यात्कर्म महच्छुभम् ।। १६८० ।।
तदप्यस्य तथाभूतमन्तवत्त्वात्प्रतिक्षणम् ।।
विध्वंसमेत्यपचयात्कोष्ठागारादिवद्ध्रुवम् ।। १६८१ ।।
कृतस्य हि क्षयोऽवश्यमकृतस्याक्षयात्मता ।।
प्रसिद्धाऽतीव जगति श्रुत्यैवं तेन भण्यते ।। १६८२ ।।
उक्तदोषापनुत्तिः स्यात्कथमस्येति चोदिते ।।
आत्मानमिति निर्वक्ति श्रुतिः परिहृतिं पराम् ।। १६८३ ।।
निःशेषानात्मसंदृष्टिनिराकरणसिद्धये ।।
एवेत्यवधृतिर्ज्ञेया प्रत्यङ्भात्रेक्षणाय तु ।। १६८४ ।।
प्रत्यङ्भात्रदृशः पुंसो न न्याय्यः स्यात्समुच्चयः ।।
ब्रह्मात्मनि समाप्तस्य न तदन्यार्थशेषता ।। १६८५ ।।
क्षयः कर्मफलस्योक्तः कृतकत्वसमन्वयात् ।।
न क्षयो ज्ञानकार्यस्य कृतकत्वाद्यसंभवात् ।। १६८६ ।।
प्रत्यङ्भात्रैकयाथात्म्यात्क्षेत्रक्षेत्रज्ञवस्तुनः ।।
तस्मिञ्ज्ञातेऽखिलं ज्ञातं सर्वाज्ञाननिराकृतेः ।। १६८७ ।।
सर्वसाधनसाध्यं च सुखं यच्चाप्यभीप्सितम् ।।
सर्वानन्दैकहेतुत्वाद्ब्रह्माप्तौ प्राप्तमेव तत् ।। १६८८ ।।
यद्यत्कामयते कामी कर्मभूमाववस्थितः ।।
अस्मादेवाऽऽत्मविज्ञानात्तत्तत्सुखमुपाश्नुते ।। १६८९ ।।
सहस्रदशभागर्द्ध्या सुखानन्त्यं परात्मनः ।।
वक्ष्यते सर्वसौख्याप्तिस्तस्मिन्दृष्टे परात्मनि ।। १६९० ।।
अन्तर्भावः परानन्दे सुखानामाविरिञ्चतः ।।
अस्माद्ध्येवेति वाक्येन सर्वेषां नः प्रबोध्यते ।। १६९१ ।।
स्थितेऽप्येवं प्रमाणांर्थे केचिद्व्याचक्षतेऽन्यथा ।।
प्रमान्तरविरुद्धार्थमिमं ग्रन्थं यथोदतम् ।। १६९२ ।।
न कर्म कारणं मुक्तेः क्षयिष्णुत्वसमन्वयात् ।।
कर्मस्वेव नियच्छन्ति देवताश्च न मुक्तिदा ।। १६९३ ।।
कर्माधिकृतिहेतुत्वादग्न्यादेर्देवतात्मनः ।।
नाप्युत्थायेह कर्मभ्यो ब्रह्म ज्ञातुं क्षमो नरः ।। १६९४ ।।
प्रत्यगात्माऽप्यसंदृष्टो मुक्त्या नैवोपतिष्ठते ।।
देवताज्ञाकरत्वेन ब्रह्मविद्या विरुध्यते ।। १६९५ ।।
कर्मिणः कर्मशेषत्वं स्वाराज्यं ब्रह्मवेदने ।।
नातः समुच्चयान्मुक्तिर्नापि स्यात्सा विकल्पतः ।। १६९६ ।।
सति ज्ञाने तदुभ्यं तत्तु नैवोपपद्यते ।।
ऋणानि चानपाकृत्य कर्म त्युक्तुं न लभ्यते ।। १६९७ ।।
ऋणानि त्रीण्यपाकृत्येत्येवं च स्मृतिशासनम् ।।
एवं न कर्मतो मोक्षः कर्मणः क्षयवत्त्वतः ।।
ज्ञानाभावान्न विज्ञानान्नोभाभ्यां तदसंभवात् ।। १६९९ ।।
वीक्ष्यापन्नस्य तस्यैव सामर्थ्यं ज्ञानकर्मणोः ।।
उद्विभावयिषुः साक्षात्प्रवृ्त्तौषा परा श्रुतिः ।। १७०० ।।
लोकमात्मानमेवेममुपासीताऽऽत्मविद्यया ।।
इति स्यादर्थवत्त्वाय समाधिर्ज्ञानकर्मणोः ।। १७०१ ।।
द्वैतेकत्वात्मिकावस्था विरिञ्चाख्या परात्मनः ।।
विज्ञानकर्माभिव्यङ्ग्य द्वैतत्वात्सा क्षयात्मिका ।। १७०२ ।।
अवस्था याऽनभिव्यक्ता तस्यैव परमात्मनः ।।
अविशेषात्मिका साऽस्य कारणत्वात्त्वनश्वरी ।। १७०३ ।।
तत्रैवं सति लोकेऽस्मिन्द्वैताद्वैतात्मसंस्थितौ ।।
द्वैतावस्थामुपास्ते यस्तस्यासौ क्षीयते ध्रुवम् ।।
द्वैतत्वाद्यः पुनर्धीमान्कर्मावस्थां यथोदिताम् ।। १७०४ ।।
अव्यक्तावस्थामापाद्य सदोपस्ते परात्मना ।।
न क्षीयते कर्म तस्याद्वैतत्वादेव कारणात् ।। १७०५ ।।
ब्रह्मोपास्तिर्भवेदेवं कर्म चानुष्ठितं भवेत् ।। १७०६ ।।
व्यक्तं ससाधनं कर्म ब्रह्मभावेन पश्यतः ।।
न क्षीयते कर्म तस्य सदैकात्म्यावसानतः ।। १७०७ ।।
हिरण्यगर्भविज्ञानकर्मणोः प्रथमः किल ।। १७०८ ।।
समुच्चयस्ततोऽन्योऽयमव्यक्तब्रह्मविद्यया ।।
व्यक्तसूत्रात्मविद्यायाः परोऽप्येष समुच्चयः ।। १७०९ ।।
द्वयोर्यथोक्तयोर्मध्ये कतरोऽयं समुच्चयः ।।
प्रथमोऽथ द्वितीयो वा न न्यायोऽस्त्युभयोरपि ।। १७१० ।।
प्रथमश्चेत्त्वयैवोक्तं क्षीयेते कामकर्मणी ।।
निःशेषभोगभुक्तत्वात्कृत्स्नप्राप्त्या द्वयात्मनः ।। १७११ ।।
विशीर्यते ततः कार्यं कृत्स्नं च कारणं तथा ।।
ततः क्षेत्रज्ञरूपस्य सर्वभोज्यातिलङ्घिनः ।। १७१२ ।।
केवलाज्ञानमात्रेण व्यवधानं परात्मनः ।।
अप्राप्य परमात्मानमन्तराले व्यवस्थितिः ।। १७१३ ।।
इह त्वक्षितिरेवोक्ता भवता ज्ञानकर्मणोः ।।
न हास्य क्षीयते कर्मेत्यस्माद्ध्येवेति चोक्तितः ।। १७१४ ।।
पूर्वोत्तरोक्तवचसोर्व्याहतिर्वः प्रसज्यते ।।
अथ द्वितीयोऽभिमतो न तथाऽप्युपपद्यते ।।। १७१५ ।।
फलं त्वयैव व्याख्यातं द्वितीयस्याः समुच्चितेः ।। १७१६ ।।
द्वैतैकत्वधिया मृत्युं कामकर्मस्वलक्षणम् ।।
तीर्त्वाऽऽत्मविद्यया विद्वानमृतत्वं समश्नुते ।। १७१७ ।।
न हास्य क्षीयते कर्म यद्यत्कामयतेऽक्षरात् ।।
तत्तत्सृजत इत्युक्त्योः पूर्वोत्तरविरुद्धता ।। १७१८ ।।
कामकर्मक्षये यस्मादमृतत्वं फलं श्रुतम् ।।
यदा सर्वे प्रमुच्युन्त इत्येवं बहुशः श्रुतौ ।। १७१९ ।।
कथमेति स कैवल्यमक्षितौ कामकर्मणोः ।।
कैवल्यावाप्तौ च कथं तयोरक्षितिरुय्यते ।। १७२० ।।
इतश्च व्याहतिः स्पष्टा ब्रह्मविद्या विरुध्यते ।।
देवताज्ञाकरत्वेनेत्युक्तं यत्प्रणिधानतः ।। १७२१ ।।
ससाधनमिदं कर्म ब्रह्मभावेन पश्यतः ।।
तदेव ब्रह्मविज्ञानं कथं नेह विरुध्यते ।। १७२२ ।।
पृर्वं कृत्वाऽथ तत्कर्म पश्चाद्ब्रह्मात्मनेक्षते ।।
व्युत्थाय कर्मणः कॉत्स्नान्मोक्षाशसेति चेन्मतम् ।। १७२३ ।।
एवं समर्थ्यमानेऽपि न मुक्तिः कर्मणो भवेत् ।।
व्युत्थितस्यैव कर्मभ्यो मुक्त्यभ्युपगमत्वतः ।। १७२४ ।।
अथ गार्दृस्थ्य एवायं कर्मकाले विभिन्नधीः ।।
कर्म कृत्वाऽथ तच्छान्तौ कर्म ब्रह्मेति वेत्स्यति ।। १७२५ ।।
एवं समादधानस्य कामितोऽर्थो न सिध्यति ।।
पराधीनमृतेर्जुन्तोर्मुक्तिः स्यात्पाक्षिकी यतः ।। १७२६ ।।
भेदं पश्यन्यदि मृतो बद्ध एव भवेन्नरः ।।
कर्म ब्रह्मेति संपश्यन्मृतश्चेद्ब्रह्मसाद्भवेत् ।। १७२७ ।।
भेददृष्टेर्बलीयसत्वात्तस्याः स्वाभाविकत्वतः ।।
इच्छातश्चापि भाव्यत्वात्तदाऽपि स्यान्न निर्वृतिः ।। १७२८ ।।
कुर्वाण एव चेत्कर्म कर्म ब्रह्मेति पश्यति ।।
देवताज्ञाकरत्वेन ब्रह्मविद्या विहन्यते ।। १७२९ ।।
इत्युक्तिर्वो विरुध्येत पूर्वोत्तरविघाततः ।।
अपास्तदेवतात्यक्तद्रव्यं कर्मापि दुर्घटम् ।। १७३० ।।
त्यक्तद्रव्यादिसंभेददृष्ट्यैव नियतत्वतः ।।
यागादिकर्मणस्तस्मादसमीचीनमुच्यते ।। १७३१ ।।
ससाधनमिदं कर्म ब्रह्मैवेति समीक्षणम् ।।
ईदृङ्न लोके वेदेऽपि प्रसिद्धं कर्म कुत्रचित् ।। १७३२ ।।
आत्मानमित्यतो वाक्यात्कर्मेदृक्चेत्प्रसेत्स्यति ।।
वाक्यभेदप्रसङ्गत्वान्नैवमप्युपपद्यते ।। १७३३ ।।
एवंविधस्य कर्मत्वमुपास्तिं चाऽऽत्मनस्तथा ।।
उभयं विदधद्वाक्यं भिद्येतैव न संशयः ।। १७३४ ।।
ब्रह्मार्पणमिति वचो यथोक्तेनैव वर्त्मना ।।
निर्धारितार्थं जानीयात्स्फुटन्यायसमाश्रयात् ।। १७३५ ।।
पूर्वाभ्यामन्य एवायं तृतीयश्चेत्समुच्चयः ।।
श्रुतौ स्मृतौ वा लोके वा सिद्धश्चेदस्तु नान्यथा ।। १७३६ ।।
तस्मादसदिदं गीतमात्मानमिति यद्वचः ।।
तत्समुच्चयसिद्ध्यर्थमित्येतच्चोक्तयुक्तितः ।। १७३७ ।।
कार्यलिङ्गसमुच्छित्तिः फलं नाऽऽद्यसमुच्चितेः ।।
युक्त्या कल्पयितुं शक्यं श्रुतिवाक्यविरोधतः ।। १७३८ ।।
द्वैतैकत्वात्मविज्ञानकर्मानुष्ठायिनः पितुः ।।
पुत्रे न्यस्तात्मभारस्य मरणात्परतः फलम् ।। १७३९ ।।
पृथिव्यै चैनमित्यादि त्र्यन्नात्मावाप्तिलक्षणम् ।।
श्रूयते स्पष्टवचनं देहादेर्नाशनं कुतः ।। १७४० ।।
न चाप्यतिक्रमार्थत्वं जय्य इत्यस्य युक्तिमत् ।।
तस्याऽऽविशतिवाक्येन विरोधादेव कारणात् ।। १७४१ ।।
मतं त्र्यन्नात्मसंप्राप्तेरूर्ध्वं भोगस्य भुक्तितः ।।
सामर्थ्यात्कल्प्यते कार्यं प्राणानां नाशनं पितुः ।। १७४२ ।।
नैवं स्याद्ब्रह्मबोधस्य निष्फलत्वप्रसङ्गतः ।।
विद्याफलस्य संप्राप्तेः प्रागपि ब्रह्मबोधतः ।। १७४३ ।।
संसारानर्थनाशो हि विद्यायाः प्रार्थ्यते फलम् ।।
विद्यामृतेऽपि तच्चेत्स्याद्ध्रुवं विद्या निरर्थिका ।। १७४४ ।।
ध्वान्तनाशोऽथ विद्याायाः कार्यं चेदभिधीयते ।।
सर्वानर्थस्य नष्टत्वात्किमन्यत्स्यात्तमोहुतेः ।। १७४५ ।।
उत्खातदन्तोरगवदविद्या किं करिष्यति ।।
विद्यमानाऽपि विध्वस्ततीव्रानर्थपरंपरा ।। १७४६ ।।
कामकर्मादिविध्वस्तौ नाविद्याऽनर्थभुक्तये ।।
प्रतीचोऽलमृते कार्यं कारणं न हि कारणम् ।। १७४७ ।।
विद्यमाना पुनः कामं कर्म चापि प्रवर्तयेत् ।।
अविद्येति मतं चेत्स्यान्नैवमप्युपपद्यते ।। १७४८ ।।
अविद्या विद्यमाना चेच्छक्तोत्पादयितुं बलात् ।।
नाशकद्रक्षितुं नाशात्कथं ते कामकर्मणी ।। १७४९ ।।
अथ कारणसंसर्गो नाशशब्देन भण्यते ।।
सर्वान्प्रत्यविशिष्टत्वात्फलं तन्न समुच्चितेः ।। १७५० ।।
तस्मात्संघातविध्वंसो निर्युक्तिक इहोच्यते ।।
अथ सत्यपि संमोहे संघातश्चेद्विशीर्यते ।। १७५१ ।।
देहहेत्वन्तराभावाद्भूयोऽपि विफलैव धीः ।।
आनर्थक्यं ब्रह्मधियो न च युक्तं कथंचन ।।
निःशेषोपनिषत्काण्डनैरर्थक्यप्रसङ्गतः ।। १७५२ ।।
अपि च ध्वस्तनिःशेषकार्यप्राणादिसाधनः ।।
श्रवाणादि कथं कुर्याद्ब्रह्मविद्योपलब्धये ।। १७५३ ।।
वैराग्यातिशयार्थत्वाद्गौणं चेन्नाशनं मतम् ।।
स्वव्याख्यानविरोधित्वान्नैवमप्युपपद्यते ।। १७५४ ।।
अत्रैव संनिमज्जन्ति प्राणाः सर्वे स्वकारणे ।।
मृतः शेते स आध्मातो जीवतैतद्विरुध्यते ।। १७५५ ।।
फलं चैतत्त्वयैवोक्तं प्रथमायाः समुच्चितेः ।।
तस्मान्न जीवतो वाच्यं गौणं विशरणं त्वया ।। १७५६ ।।
अत्रैवेति फलं चोक्त्वा प्रथमायाः समुच्चितेः ।।
व्युत्थितस्याखिलाद्भोज्यान्नाममात्रावशेषिणः ।। १७५७ ।।
परमात्मापरिज्ञानमात्रयाऽनाप्तनिर्द्वयः ।।
ब्रह्मविद्याऽत आरब्धा ब्रह्माविद्यानिवृत्तये ।। १७५८ ।।
एतत्त्वदीयं व्याख्यानं तद्विरुद्धमिदं वचः ।।
संघातस्य विशरणं जीवतश्चेति दुःस्थितम् ।। १७५९ ।।
निषिद्धषड्विकारस्य श्रुत्यैव परमात्मनः ।।
अविद्या तद्विकारश्च न युक्तस्तूषरादिवत् ।। १७६० ।।
हिरण्यगर्भद्वारैव मुक्तिरित्यपि यद्वचः ।।
तस्यापि दुषणं ज्ञेयं यथोक्तान्यायवर्त्मना ।। १७६१ ।।
हिरण्यगर्भवद्यस्मात्क्रिम्यादेरपि संगतिः ।।
ब्रह्मात्मलक्षणाऽसाध्वी तेनेयं कल्पना कृता ।। १७६२ ।।
संसारिताऽविशिष्टैव मोक्षादर्वाक्षु भूमिषु ।।
ब्रह्मा विश्वसृजो धर्म इत्यादिवचनान्मनोः ।। १७६३ ।।
विद्यां चेत्यादिमन्रोऽपि न समुच्चयबोधकः ।।
परस्परविरोधित्वान्न सहावस्थितिस्तयोः ।। १७६४ ।।
कत्वायोगात्पूर्वकालत्वमविद्यायाः प्रतीयते ।।
स्वाभाविकं कर्म मृत्युर्विद्या शास्रीयमुच्यते ।। १७६५ ।।
मृत्युः स्वाभाविकं ज्ञानं शास्रीयं संभवस्तथा ।।
शास्रीयेणेतरत्तीर्त्वा विद्ययाऽमृतमश्नुते ।। १७६६ ।।
नाविरतो दुश्चरितादिति चाऽऽगमिकं वचः ।।
तपसा कल्मषं हन्ति विद्ययाऽमृतमश्नुते ।। १७६७ ।।
तस्मात्समुच्चयाशेह कार्या नाक्षरसंश्रयात् ।।
अप्रमाणं ब्रुवाणस्तु नास्माभिर्विनिवार्यते ।। १७६८ ।।
तस्माद्व्युत्थाय कर्मभ्यः प्रत्यक्प्रवणबुद्धयः ।।
प्रत्यग्याथात्म्यविज्ञानान्निर्वान्तीत्येष निश्चयः ।। १७६९ ।।
अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः ।।
शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ।। १७७० ।।
न चेह लोकशब्देन कश्चिदन्योऽभिधीयते ।।
परात्मनः स्वशब्देन विशेषणसमन्वयात् ।। १७७१ ।।
आत्मानमेवेति तथा चाऽऽत्मशब्दो विशेषणम् ।।
लोकस्य ग्रहणं तस्मान्न कर्मसमवायिनः ।। १७७२ ।।
विद्याप्रकरणे चोर्ध्वमात्मनैव विशेषणात् ।।
येषां नो ह्ययमात्मेति कार्यलोकनिवृत्तये ।। १७७३ ।।
अस्माद्ध्येवेति लिङ्गाच्चेल्लोकोऽन्यः स्यात्परात्मनः ।।
स्वलोकस्यार्थवादत्वान्नैवमप्युपपद्यते ।। १७७४ ।।
साधनान्तरसंभाव्यं यावत्संभाव्यते फलम् ।।
कृत्स्नं तदात्मनो लोकात्सिद्धमस्येति नूयते ।। १७७५ ।।
योऽकाम इति वाक्येन ह्यमेवार्थ उच्यते ।।
सर्वं कर्माखिलमिति स्मृतेरपि शुभं वचः ।। १७७६ ।।
यद्यकृत्स्रोऽपरिज्ञानाज्ज्ञानात्कार्त्स्न्यं समश्र्नुते ।।
आत्मशब्दप्रयोगोऽयं तदा लोके समञ्जसः ।। १७७७ ।।
अन्यथाऽव्याकृतावस्थाल्लोकादिति वदेच्छ्रुतिः ।।
ब्रह्मलोकनिरासार्थं वचः स्यात्सविशेषणम् ।। १७७८ ।।
नान्यस्मिन्प्रकृतेऽन्योऽर्थो विरहय्य विशेषणम् ।।
ग्रहीतुं सुधिया शक्यो वैश्वानरवरादृते ।। १७७९ ।।
उक्तेन वचसा तावत्स्वाराज्यं विदुषोऽवदत् ।।
कथं नूपकरोत्यज्ञो देवादीनिति भण्यते ।। १७८० ।।
वर्णाश्रमाभिमानी सन्नतत्त्वज्ञः पराङ्भतिः ।।
कानेषोऽवति पशुवत्कर्मभिः कैश्च सर्वदा ।। १७८१ ।।
सर्वेश्वरेशिता तावत्पूर्वश्रुत्योपवर्णिता ।।
यथा त्वज्ञस्य पारार्थ्यं तथेदानीं प्रपञ्चयते ।। १७८२ ।।
अज्ञातात्मा ह्यविद्योत्थसंघातो देहलिङ्गवान् ।।
आत्मलोकाभिधानाभ्यां देहान्तोऽत्राभिधीयते ।। १७८३ ।।
यागादिकार्यं देवादेर्देहलिङ्गद्वयादृते ।।
नान्यथा युज्यते यस्मादतस्तद्वानिहोच्यते ।। १७८४ ।।
कर्मणाऽनार्जितो यस्मान्न कश्चिदुपकारकृत् ।।
गृही देवादिभिस्तस्मादार्जितोऽभूत्स्वकर्मभिः ।। १७८५ ।।
देवादयोऽपि गृहिणा तद्वदेव स्वकर्मभिः ।।
आर्जिता एव विज्ञेयास्तन्निमित्तफलेक्षणात् ।। १७८६ ।।
कर्त्रेह यत्कृतं कार्यं तद्भोगायावकल्पते ।।
अकृताभ्यागमो यस्मात्कृतनाशश्च नेष्यते ।। १७८७ ।।
कर्तुत्वं चास्याविद्यातो न स्वतः कर्तृताऽऽत्मनः ।।
कर्तेव भोक्ताऽप्यज्ञःस्याद्विद्यायां द्वयमप्यसत् ।। १७८८ ।।
अभुक्तस्याप्युपात्तस्य ह्यविद्यापिहितात्मनाम् ।।
आत्मयाथात्म्यविज्ञानात्कर्मणोऽतः क्षयो भवेत् ।। १७८९ ।।
सर्वं सर्वस्य कार्यं स्यात्सर्वं सर्वस्य कारणम् ।।
असंहतं मिथो नालं जडं वस्तु प्रवर्तितुम् ।। १७९० ।।
सर्वः सर्वस्य भोक्तैव चित्प्राधान्यविवक्षया ।।
बाह्योपरक्तबुद्धीनां भोगश्चिदवसानता ।। १७९१ ।।
मधुब्राह्मणविद्यायामिदमेव प्रवक्ष्यते ।।
वस्त्वैकात्म्यप्रसिद्ध्यर्थं प्राधान्येनातियत्नतः ।। १७९२ ।।
एवं सत्ययमात्मेति संहतो जगदात्मना ।।
लोको भोज्यः पशुर्ज्ञेयो देवादेरुषकारकः ।। १७९३ ।।
देवादिभिरुपात्तोऽयमित्येतद्गम्यते कुतः ।।
अस्यार्थस्य प्रसिद्ध्यर्थं स यदित्यादि भण्यते ।। १७९४ ।।
यो देवता समुद्दिश्य द्रव्यत्यागः स उच्यते ।।
याग आसेचनाधिक्याद्धोमाख्यः स्यात्स एव तु ।। १७९५ ।।
लोकत्वस्य विधेयत्वाद्यज्जुहोतीत्यनूद्यते ।।
नानूक्तिं केचिदिच्छन्ति देवाद्यार्जितसिद्धये ।। १७९६ ।।
नावश्यकार्यता चैषां सिद्धाऽतोऽन्यत्र मानतः ।।
नित्यत्वाद्धेतुवचनं न युक्त्याऽतोऽवगम्यते ।। १७९७ ।।
यच्चाप्यहरहर्वेदमनुब्रूते प्रयत्नवान् ।।
ऋषीणां तेन लोकोऽयं गृहस्थो भोज्य उच्यते ।। १७९८ ।।
उत्तरेष्वपि वाक्येषु समाना योजनेक्ष्यताम् ।।
अक्षराणां न तत्रास्ति वस्तु किंचित्तिरोहितम् ।। १७९९ ।।
यस्मात्सर्वाणि भूतानि सर्वदोषकरोत्ययम् ।।
अविनाशमतस्तानि तस्येच्छन्त्यात्मदेहवत् ।। १८०० ।।
स्वकर्मार्जितसंभोगदायित्वेऽस्ति न कश्चन ।।
देवादीनां विशेषोऽत्र गृहस्थस्वात्मदेहयोः ।। १८०१ ।।
ब्रह्मविद्याहुताशेन विनाशोऽस्याप्यकर्तुता ।।
अयं नाशो महानस्य ह्यन्यः शक्याश्चिकित्सितुम् ।। १८०२ ।।
अतः श्रुतिवचो न्याय्यं तस्मादेषामितीरितम् ।।
मा भूत्सर्वस्वहानिर्नो ब्रह्मयाथात्म्यविद्यया ।। १८०३ ।।
अवश्यमृणवत्कृत्यं यावज्जीवादिवाक्यतः ।।
यथोक्तं विदितं वेदे तथा स्मृतिवचःसु च ।। १८०४ ।।
अवदानविधौ तच्च विशेषेण विचारितम् ।।
ऋणं हेत्यर्थवादेषु तस्मात्कुर्याद्यथोदितम् ।। १८०५ ।।
प्रवृत्तौ च निवृत्तौ च यथोक्तस्याधिकारिणः ।।
स्वातन्त्र्ये सति संसारसृतौ कस्मात्प्रवर्तते ।। १८०६ ।।
न तु विध्वस्तनिःशेषसंसारानर्थवर्त्मनि ।।
निवृत्तिलक्षणे वाच्यं केनायं प्रेर्यतेवशः ।। १८०७ ।।
रक्षन्ति ननु देवास्तं, न विशिष्टाधिकारिणम् ।।
तेऽपि रक्षन्ति यत्नेन न च सामान्यमानुषम् ।। १८०८ ।।
अन्यथा कृतनाशः स्यादकृताभ्यागमस्तथा ।।
सामान्यनररक्षायां तस्मादेतदनुत्तरम् ।। १८०९ ।।
नाप्यविद्येति वक्तव्यं तस्या ध्वान्तैकमात्रतः ।।
मिथ्याधीमात्रहेतुत्वात्प्रेरकत्वं न युक्तिमत् ।। १८१० ।।
अनर्थपरिपाकत्वमपि जानन्प्रवर्तते ।।
पारतन्त्र्यमृते दृष्टा प्रवृत्तिर्नेदृशी कचित् ।। १८११ ।।
तस्माच्छ्रेयोर्थिनः पुंसः प्रेरकोऽनिष्टकर्मणि ।।
वक्तव्यस्तन्निरासार्थमित्यर्था स्यात्परा श्रुतिः ।। १८१२ ।।
प्राप्ताशेषपुमर्थोऽयं स्वत एवेह मानवः ।।
निरस्ताशेषानर्थश्च तन्मोहाद्विपरीतधीः ।। १८१३ ।।
अनाप्तपुरुषार्थोऽयं निःशेषानर्थसंकुलः ।।
इत्यकामयतानाप्तान्पुमर्थान्साधनैर्जडः ।। १८१४ ।।
जिहासति तथाऽनर्थानविद्वानात्मनि श्रितान् ।।
अविद्योद्भूतकामः सन्नथो खल्विति च श्रुतिः।। १८१५ ।।
अकामतः क्रिया काचिदृश्यते नेह कस्यचित् ।।
यद्यद्धि कुरुते किंचित्तत्तत्कामस्य चेष्टितम् ।। १८१६ ।।
काम एष क्रोध एष इत्यादिवचनं स्मृतेः ।।
प्रवर्तको नापरोऽतः कामादित्यवसीयते ।। १८१७ ।।
प्राग्दाराद्यभिसंबन्धादेकाक्येव पुमानभूत् ।।
ऊर्ध्वं दारादिसंबन्धात्पुत्रपोत्रादिसंयुतेः ।। १८१८ ।।
विस्तारितकुटुम्बं तं कस्मैचित्कश्चिदन्तिके ।।
व्याचष्टे कामसंभूतं पुत्रपौत्रादिविस्तरम् ।। १८१९ ।।
प्राग्दारोद्वहनात्कृत्स्नं कुटुम्बं यत्प्रपश्यसि ।।
आत्मैवैकः पुमानासीन्नाऽऽसीत्पुत्रादि किंचन ।। १८२० ।।
आत्मप्रत्ययनिर्ग्राह्यं केवलं प्रागभूदिदम् ।।
पुत्रपौत्रादिसंभिन्नं कुटुम्बं यत्प्रपश्यसि ।। १८२१ ।।
कामाद्यशेषबीजात्माऽप्रज्ञातात्मैकतत्त्वकः ।।
सोऽतिग्रहग्रहाविष्टो विपरीतार्थनिश्चयः ।। १८२२ ।।
स्वतः कृत्स्नोऽप्यसंबोधादकृत्स्नो विपरीतधीः ।।
तृष्णया प्रहितो बालः सोऽकामयत मानवः ।। १८२३ ।।
कर्माधिकारहेतुर्मे जाया स्यात्कर्मसाधनम् ।।
पूर्वपूर्वस्य हेतुत्वमथशब्दैरिहोच्यते ।। १८२४ ।।
अथ प्रजात्मना तस्यां जायेय स्थास्नुकर्मणे ।।
स पुत्रेणैवेति वचस्तथा च श्रूयते स्फुटम् ।। १८२५ ।।
दैवमानुषवित्तेन संपन्नोऽहमथोत्तरम् ।।
कर्म कुर्यां यथाप्राप्तं दृष्टादृष्टार्थसिद्धये ।। १८२६ ।।
एतावानेव कामोऽस्य नातोऽन्योऽर्थोऽवशिष्यते ।।
साध्यसाधनरूपे हि द्वे एवात्रैषणे यतः ।। १८२७ ।।
एषणे एव चाप्येते साध्यसाधनकल्पिते ।।
पुमर्थस्यानवसितेरैकात्म्यस्याप्रसिद्धितः ।। १८२८ ।।
कर्मसाधनरूपत्वाज्जायादेर्न पुमर्थता ।।
लोकत्रयासंगृहीतेरेतावानिति दुर्घटम् ।। १८२९ ।।
न लोकत्रयसाध्यस्य साधनैकव्यपाश्रयात् ।।
आक्षिप्तसाध्यं साध्यत्वादितरत्कर्मसाधनम् ।। १८३० ।।
लोकत्रयफलं यस्मादुत्पत्त्याद्यात्मकं मतम् ।।
कर्मानाक्षिप्य नाऽऽत्मानं तच्चापि लभते स्वतः ।। १८३१ ।।
समाप्तिः कर्मणो नापि लोकत्रयफलादृते ।।
अन्तर्णीतफलं तस्मादिह साधनमुच्यते ।। १८३२ ।।
एषणैकैव तेनेयमुत्तरत्राभिधास्यते ।। १८३३ ।।
अर्थात्साध्याभिधानं स्यात्साधनाभिहितौ, यथा ।।
भोजनेऽभिहिते पुंसो ह्यर्थात्तृप्तिः ।। प्रतीयते ।। १८३४ ।।
साध्यसाधनरूपे द्वे एषणे काम उच्यते ।।
अयथावस्तुरूपत्वादात्माज्ञानैकहेतुके ।। १८३५ ।।
विश्वासोऽतोऽत्र विदुषा न कार्यः स्वप्नलाभवत् ।।
व्युत्थायैवैषणाभ्योऽतः प्रत्यग्ज्ञानं समाश्रयेत् ।। १८३६ ।।
इच्छन्नपि यतो नातो भूयो विन्देदतोऽधिकम् ।।
तस्मादविद्याभूमिष्ठः कृत्स्न एतावता भेवत् ।। १८३७ ।।
एकैकमपि जायादेर्यावन्नाऽऽप्नोति पूरुषः ।।
अकृत्स्नस्तावदस्मीति जङः संभावयत्ययम् ।। १८३८ ।।
यावदेेते यथोद्दिष्टा आप्ताः स्युः कामपूर्वकाः ।।
कृतस्नोऽस्मीति तदाऽऽत्मानं संभावयति मानवः ।। १८३९ ।।
आत्मजायाप्रजावित्तविद्याभिः पञ्चभिः कृतम् ।।
कर्म पाङ्त्क भवेदेवं पाङ्लेन च्छन्दसा मितम् ।। १८४० ।।
वाह्यस्य कर्मणस्तावदात्माद्यैः पाङ्त्कतोदिता ।।
तेष्वसत्स्वथ पाङ्त्कत्वमुच्यतेऽध्यात्मकर्मणः ।। १८४१ ।।
वाह्याध्यात्मिकभेदेन कर्मैतदुभयात्मकम् ।।
पाङ्लं यथा तद्भवति तथैतदभिधीयते ।। १८४२ ।।
अध्यात्मं मन एवाऽऽत्मा तदायत्तत्वकारणात् ।।
वाग्जायादिप्रवृत्तीनां यजमानवदेव तत् ।। १८४३ ।।
वाक्व जायेति विज्ञेया तदधीनत्वकारणात् ।।
यद्ध्यायतीह मनसा वाचा वक्ति तदेव हि ।। १८४४ ।।
संप्रधार्य मनो वाचा मन्त्रलौकिकरूपया ।।
अथ प्रस्पन्दतेऽत्यर्थं सा क्रिया प्राण उच्यते ।। १८४५ ।।
आगमार्थं विनिश्चित्य मनसाऽथ प्रवर्तते ।।
प्राणः प्रजेति तां चेष्टां प्राहुर्वेदविदो जनाः ।। १८४६ ।।
द्विधैवाऽऽध्यात्मिकं वित्तं कार्यभेदात्प्रचक्षते ।।
दैवमानुषताऽप्यस्य साधनत्वोपचारतः ।। १८४७ ।।
परीक्ष्य चक्षुषा यस्माल्लभते गोधनादिकम् ।।
चक्षुः स्यान्मानुषं वित्तं यथाऽऽयुर्घृतमुच्यते ।। १८४८ ।।
दैवभावाप्तितो दैवं ज्ञानं वित्तमिहोच्यते ।।
तत्साधनत्वाच्छोत्रस्य श्रोत्रमाध्यात्मिकं धनम् ।। १८४९ ।।
बाह्यवागादिचेष्टा च या चान्तःकरणाश्रया ।।
देहेऽभिव्यज्यते यस्मादात्मा कर्म ततो भवेत् ।। १८५० ।।
संमितः संख्यया पादैः पाङ्त्कस्य च्छन्दसो यतः ।।
पाङ्को यज्ञस्ततः सद्भिः सर्वदा समुदाहृतः ।। १८५१ ।।
तत्कार्यत्वात्पशुः पाङ्लो यच्च किंचिच्चराचरम् ।।
तच्चापि पञ्चभूतोत्थं विद्यात्पाङ्त्कमशेषतः ।। १८५२ ।।
पाङ्त्ककर्मात्मको यज्ञो यज्ञकार्यमिदं जगत् ।।
एतद्याथात्म्यतो ज्ञात्वा तदेवाऽऽप्नोत्यशेषतः ।। १८५३ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके प्रथमाध्यायस्य चतुर्थं ब्राह्मणम्
अथ योऽन्यामिति ग्रन्थादारभ्योरुप्रयत्नतः ।।
अविद्यायाः समाम्नाता आ समाप्तेर्विभूतयः ।। १ ।।
अध्यायस्यात्र चाविद्वान्वर्णाद्यात्माभिमानवान् ।।
धर्मेण नियतात्मा सञ्जुहोत्यादिस्वकर्मभिः ।। २ ।।
देवादिक्रिमिपर्यन्तं बिभर्ति जगदव्ययम् ।।
एवमेव जगद्योनिरेकैकः कर्मकृन्नरः ।। ३ ।।
कृतस्नेन जगता यद्वत्कर्मकृत्समुपार्जितः ।।
यथोक्तकर्मभिस्तेन जगत्तद्वदुपार्जितम् ।। ४ ।।
स्वदेहवद्यतो भुङ्क एकैकोऽनवशेषतः ।।
साधारणानि वस्तूनि तथाऽसाधारणान्यपि ।। ५ ।।
स्वकर्मणाऽनुपात्तस्य न च भोगोऽत्र दृश्यते ।।
एकैकेनोपकारित्वात्तस्माज्जगदुषार्जितम् ।। ६ ।।
स्वभावतोऽखिलं कर्म धर्माधर्मादिलक्षणम् ।।
साधारणविशेषात्मफलमारभते द्विधा ।। ७ ।।
गुणप्रधानभावेन साधारणविशेषतः ।।
सूत्रादेः कर्मणः कार्यं क्रिम्यन्तस्याभिजायते ।। ८ ।।
द्रव्यादिदर्शनाधीनं फलं सर्वस्य कर्मणः ।।
साधारणादिसंभेदभिन्नं तेन क्रियाफलम् ।। ९ ।।
क्वचित्साधारणात्मैव तथाऽसाधारणं क्वचित् ।।
क्वचिच्चोभयथा कार्यं द्रव्यादीक्षणचित्रतः ।। १० ।।
समासव्यासतस्तस्माद्यथोक्तज्ञानकर्मभिः ।।
एकैकेन जगत्कृत्स्नमुपात्तं भोगसिद्धये ।। ११ ।।
सर्वः सर्वस्य कर्ता च कार्यं चापि यथा तथा ।।
मधुविद्याप्रसङ्गेन विस्पष्टमभिधास्यते ।। १२ ।।
यदजीजनत्फलं कर्ता स्वकर्मज्ञानसाधनः ।।
सप्तान्नप्रविभागेन तद्विभज्य प्रदर्श्यते ।। १३ ।।
त्रीण्यन्नानि फलं कर्तुश्चत्वार्यन्नानि यानि तु ।।
प्रयोगसमवायित्वात्तानि स्युः कर्मसाधनम् ।। १४ ।।
विज्ञानात्मा पिता तावन्न मनो न प्रजापतिः ।।
अविशिष्टाधिकारित्वान्न विज्ञानात्मनोऽपरः ।। १५ ।।
सिसृक्षितत्वान्मनसस्तथा त्र्यन्नात्मनः प्रभोः ।।
साधारणात्मनः स्रष्टा नातः क्षेत्रज्ञतोऽपरः ।। १६ ।।
ग्रन्थार्थधारणाशक्तिर्मेधा यद्यपि भण्यते ।।
तथाऽपि ज्ञानमेवेह साधनत्वाद्विवक्षितम् ।। १७ ।।
शास्रीयलौकिकज्ञानाविशेषग्रहसिद्धये ।।
सामान्यज्ञानग्रहणं मेधयेत्यभिधित्सितम् ।। १८ ।।
तपःशब्देन कृच्छ्रादि यदि नामाभिधीयते ।।
तथाऽपि कर्मग्रहणं सप्तान्नोद्भूतिहेतुतः ।। १९ ।।
धिया धियेति लिङ्गाच्च गृह्येते ज्ञानकर्मणी ।।
मेधातपोगिरा नान्ये ग्राह्ये त्रदफलत्वतः ।। २० ।।
पाङ्लं हि प्रकृतं कर्म वेदेति ज्ञानमेव च ।।
विहाय नातः प्रकृतं युक्तोऽप्रकृतसंग्रहः ।। २१ ।।
मेधातषोतिरेकेण नान्यत्स्यात्साधनं यतः ।।
प्रसिद्धत्वादतो हीति व्याचष्टे श्रुतिरञ्जसा ।। २२ ।।
अस्य भोक्तृसमूहस्य साधारणमचीक्लृपत् ।।
एकमन्नं पिता सृष्ट्वा तच्चेदं यदिहाद्यते ।। २३ ।।
यदिदं प्राणिभिर्नित्यमद्यतेऽहरहस्तृषा ।।
साधारणमिदं युक्तं सर्वभूतस्थितेस्ततः ।। २४ ।।
स य एतदुपास्तेऽन्नमसाधारणरूपतः ।।
पाप्मनो नैव स द्रष्टा व्यावर्तत इहाऽऽतुरः ।। २५ ।।
उपासनं च तात्पर्यमिह श्रुत्याऽभिधीयते ।।
मोघमन्नमिति तथा मन्त्रे ताच्छील्यनिन्दनम् ।। २६ ।।
वैश्वदेवं हि नामैतद्यदन्नमुपसाध्यते ।।
नालमेतद्धि सर्वेषां पाप्मनां विनिवृत्तये ।। २७ ।।
इत्येवं केचिदिच्छन्ति तत्तु युक्त्या न युज्यते ।।
अनूक्तेर्यदिदमिति सिद्धोऽर्थोऽनूद्यते यतः ।। २८ ।।
प्रात्यक्ष्यं न च तस्यास्ति शास्रमात्रप्रमाणतः ।।
यथा सर्वात्तृवक्त्रान्तस्थस्य प्रत्यक्षता तथा ।। २९ ।।
प्रतिप्राणि ममेदं स्यादभिलाषश्च दृश्यते ।।
सर्वप्राण्यंशमिश्रत्वं ततोऽस्मिन्नवसीयते ।। ३० ।।
नाऽऽत्मार्थं पाचयेदन्नमिति चापि स्मृतेर्वचः ।।
तैर्दत्तानप्रदायैभ्यो यो भुङ्ले स्तेन एव सः ।।
अन्नादे भ्रूणहा मार्ष्टीत्यादीह वचनं स्मृतेः ।। ३१ ।।
तस्यापि चान्तःपातित्वात्सर्वाद्यस्यैव युक्तिमान् ।।
ग्रहस्तस्य गृहीतौ तु नास्यान्तःपातिता तथा ।। ३२ ।।
असृष्टाविनियोगत्वे प्राप्नुतस्तद्ग्रहे सति ।।
सर्वप्राणिभिराद्यस्य तच्चानिष्टं प्रसज्यते ।। ३३ ।।
अव्यावृत्तिश्च पाप्मभ्यो वैश्वदेवान्नसंग्रहे ।।
न न्याय्यं वचनं तस्य शास्रमात्रव्यपाश्रयात् ।। ३४ ।।