अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥संबंधभाष्यवार्तिकम् ॥ (८)

अनन्यापेक्षि प्रत्य­क्त्व­म­हं­रू­पेण लक्ष्यते ।।
line २ miss ।। १४२८ ।।

निव­र्त्य­भे­दा­द्भि­न्नोऽ­र्थोऽ­मा­नि­त्वा­दे­र्यथा तथा ।।
ब्रह्मा­ह­म­र्थ­यो­र्ज्ञे­य­स्त­यो­रै­का­र्थ्य­हे­तुतः ।। १४२९ ।।

अना­त्मा­ब्र­ह्म­ता­हेतौ प्रत्य­ग्ध्वान्ते निवर्तिते ।।
पदार्थ एक एव स्याद्ब्र­ह्मा­हं­प­दयोः परः ।। १४३० ।।

भेद­सं­स­र्ग­ना­शार्थो नात उक्तेरिहेष्यते ।।
अहं­ब्र­ह्म­श्रुतेः साक्षा­त्ता­दा­त्म्य­मिह गम्यते ।। १४३१ ।।

कर्तु­र्ज्ञा­तुर्हि या दृष्टिः साऽवि­द्यो­त्था­र्थ­ले­हिनी ।।
तत्प्र­त्य­गा­त्म­दृष्ट्या तां प्रत्या­ख्या­या­श्नु­तेऽ­द्व­यम् ।। १४३२ ।।

अस्मी­ती­ह­त्य­नि­र्दे­शा­द्वि­द्या­का­लैव मुक्तता ।।
सिद्धाऽतोऽसौ न साध्या स्याद­ग्नि­हो­त्रा­दि­का­र्य­वत् ।। १४३३ ।।

प्रत्य­ग्या­था­त्म्य­वि­ज्ञा­न­मा­त्र­व्यु­त्प­त्ति­सि­द्धये ।।
तस्मादिति श्रुतिर्वक्ति ह्युत्प­त्त्या­दि­नि­वृ­त्तये ।। १४३४ ।।

अवि­द्या­त­ज्ज­नि­र्मुक्तौ ब्रह्म ब्रह्मा­भ­व­त्स्वतः ।।
सर्वः कृत्स्नस्तथा पूर्णः शब्दाः पर्यायवाचकाः ।। १४३५ ।।

आत्मा­वि­द्या­स­मु­त्था­ना­मा­त्म­या­था­त्म्य­मा­त्रतः ।।
कर्म­व­त्का­ङ्क्षते ज्ञानं विशिष्टं नाघिकारिणम् ।। १४३६ ।।

देवादीनामतो यो यो यथोक्तेनैव वर्त्मना ।।
line २ miss ।। १४३६ ।।

प्रत्य­ग्बो­धा­ति­रे­केण साध­ना­न्त­र­नि­ह्नुतौ ।।
एवे­त्य­व­धृ­ति­र्ज्ञेया ज्ञानादेव ततो भवेत् ।। १४३८ ।।

आत्म­या­था­त्म्य­वि­ज्ञा­ना­द्य­द­न्य­त्सा­ध­ना­न्त­रम् ।।
ज्ञानाभावोऽथवा सर्वमविद्यैवेति निश्चितिः ।। १४३९ ।।

मनुष्या यदमन्यन्य साध्वे­वा­त­स्त­दी­रि­तम् ।।
न कश्चिदपि दोषोऽत्र पूर्वोक्तोऽतः प्रसज्यते ।। १४४० ।।

प्रत्यक्तयैव संब­न्धा­दा­त्म­नोऽ­ना­त्म­व­स्तुना ।।
विशि­ष्टे­ना­वि­शि­ष्टस्य क्लृप्ते­ना­क­ल्पि­ता­त्मनः ।। १४४१ ।।

यतोऽतो लोकबुद्ध्यैव देवा­दी­ना­मि­ती­र्यते ।।
तुल्यो देवादिसंबन्धो ब्रह्मणो मशकादिभिः ।। १४४२ ।।

अन्तरेणाधिकारं चेन्नाऽऽ­त्म­बो­धस्य संभवः ।।
न जन्मा­न्त­र­सं­स्का­रा­द्वा­म­दे­वस्य तद्भवेत् ।। १४४३ ।।

श्रुत्यु­क्ता­र्थस्य वा स्थेम्ने मन्त्रो­दा­हृ­ति­रि­ष्यते ।।
प्रमा­णा­न्त­र­सं­वा­दा­त्पुंसां विश्वासधीर्यतः ।। १४४४ ।।

अव्या­वृ­त्ता­न­नु­गतं तद्धै­त­त्प्र­त्य­गा­त्मनि ।।
तद्दर्शनादृषिः साक्षा­त्प­श्य­न्सर्वं प्रपन्नवान् ।। १४४५ ।।

सूक्ता­दि­ज्ञा­प­ना­र्थाय ह्यहं मनुरितीरणम् ।।
ऐकात्म्यं सर्वभूतेषु प्रतीचोऽसौ ददर्श ह ।। १४४६ ।।

तत्प­श्य­न्नि­त्य­ने­नात्र ब्रह्मविद्या प्रदर्श्यते ।।
अहमासं मनुरिति विद्यायाः फलमुच्यते ।। १४४७ ।।

पश्यन्प्रतिपेद इति प्रयोगादवसीयते ।।
विद्याकालैव कृत्स्ना­प्ति­रिति तन्मोहहानतः ।। १४४८ ।।

बह्म­प्रा­प्त्य­न्त­रा­यस्य प्रत्य­क्सं­मो­ह­मा­त्रतः ।।
प्रत्य­ग्वि­ज्ञा­नतो ध्वस्ते­स्त­त्प्रा­प्ति­र्ना­न्य­सा­धना ।। १४४९ ।।

अवि­द्या­ध्वं­स­मा­त्रेण पुमर्थस्य समाप्तितः ।।
ताव­ताऽ­व­सि­ते­र्विद्या स्वार्थैवेति विनिश्चयः ।। १४५० ।।

सकृ­दा­त्म­प्र­सू­त्यैव निरुणद्ध्यखिलं भवम् ।।
ध्वान्त­मा­त्र­नि­रा­सेन न ततोऽन्याऽन्यथा मतिः ।। १४५१ ।।

देश­का­ला­द्य­सं­ब­न्धा­द्दे­शा­दे­र्मो­ह­का­र्यतः ।।
नानु­त्प­न्न­म­दग्धं वा ज्ञान­म­ज्ञा­न­म­स्त्यतः ।। १४५२ ।।

नाबाधित्वेह बाध्यार्थं बाधको बाधकात्मताम् ।।
लभते मेय­या­था­त्म्य­हे­तु­मा­त्र­व्य­पे­क्षतः ।। १४५३ ।।

यतोऽ­तोऽ­वि­द्या­त­ज्जानां बाधि­त­त्वा­त्प्र­बो­धतः ।।
सकृदेव च मायो­गा­न्नोर्ध्वं तच्चोदनेष्यते ।। १४५४ ।।

सम्य­ग्ज्ञा­न­शि­खि­प्लु­ष्ट­मो­ह­त­त्का­र्य­रू­पिणः ।।
सकृ­न्नि­वृ­त्ते­र्बा­ध्यस्य किं कार्यमवशिष्यते ।। १४५५ ।।

ध्वान्ता­दि­घ­स्मरे प्रत्य­क्तै­त­न्या­त्मै­क­नि­ष्ठिते ।।
प्रत्यर्थिनि स्थितेऽ­ना­त्म­धियां स्यात्सत्यता कुतः ।। १४५६ ।।

अज्ञा­त­मि­थ्या­वि­ज्ञा­त­त­त्त्व­मा­त्रा­व­ल­म्बिना ।।
ज्ञानेन किं न विज्ञातं वद किं वा न वाधितम् ।। १४५७ ।।

सर्वापत्तिरियं युक्ता देवादीनां महात्मनाम् ।।
अस्म­दा­दे­स्त­म­स्वि­त्वान्न संभाव्येति चेन्न तत् ।। १४५८ ।।

एतर्ह्यपि तु तद्ब्रह्म यो यः साक्षादबुध्यत ।।
स एव तद­भू­द्य­स्मा­न्ना­तोऽ­भि­ज­न­का­र­णम् ।। १४५९ ।।

अप्येतर्हि यथान्यायं यो वेदाऽऽ­त्मा­न­म­द्व­यम् ।।
स इदं सर्वमात्मैव भवत्यज्ञानहानतः ।। १४६० ।।

न हीहो­त्कृ­ष्ट­स­त्त्वेषु देवादिषु परात्मनः ।।
नापि चात्यन्तमूढेषु विशेषः कश्चिदीक्ष्यते ।। १४६१ ।।

प्रत्य­क्त­त्त्व­धियो वाऽस्ति स्वतो­बु­द्धै­क­ताऽऽ­त्मनः ।।
श्रेयांसि वहु­वि­घ्ना­नी­त्या­श­ङ्क्यै­त­द­थो­च्यते ।। १४६२ ।।

तस्य ज्ञाता­त्म­त­त्त्वस्य प्रध्वस्ततमसो यतेः ।।
इन्द्रादयोऽपि नैवालं कैव­ल्या­प्ति­नि­वा­रणे ।। १४६३ ।।

देवा­द्यै­श्व­र्य­वि­ष­य­व्य­ति­क्रा­न्त­त्व­हे­तुतः ।।
कैवल्याभूत्या उद्युक्ता ईश्वरा अपि नेशते ।। १४६४ ।।

ईशे­शि­त­व्य­सं­बन्धः प्रत्य­ग­ज्ञा­न­हे­तुजः ।।
सम्य­ग्ज्ञा­ना­त्त­मो­ध्व­स्त­वी­श्व­रा­णा­म­पी­श्वरः ।। १४६५ ।।

ईश्व­रा­णा­म­नै­श्वर्यं कस्म­द्ब्र­ह्म­वि­दीति चेत् ।।
आत्मा ह्येषामितीत्याह तद्धे­तु­प्र­ति­प­त्तये ।। १४६६ ।।

भोज्यत्वेन जगत्कृत्स्नं कर्म­वि­द्या­वि­सा­धनैः ।।
उपात्तं तदभुक्त्वा तु कैवल्यं लभते न चेत् ।। १४६७ ।।

इत्या­श­ङ्का­प­नु­त्त्यर्थं परो ग्रन्थोऽ­व­ता­र्यते ।।
कैव­ल्या­वा­प्ति­वि­घ्नाय नालं देवा अपीश्वराः ।। १४६८ ।।

अविद्याविषये यस्मा­त्ते­षा­म­धि­कृतिः स्मृता ।।
न तु प्लुष्टा­त्म­या­था­त्म्य­वि­ज्ञा­न­त­म­सा­मसौ ।। १४६९ ।।

ब्रह्म­वि­द्या­फ­ल­प्राप्तौ विघ्नं कुर्वन्ति देवताः ।।
इत्यत्र किनि­मि­त्ते­य­मा­श­ङ्के­त्य­भि­धी­यते ।। १४७० ।।

युक्ताऽऽशङ्का यतो मर्त्य देवा­न्प्र­त्यृ­णिनः श्रुतेः ।।
पशु­लो­त्व­वा­क्याच्च पारतन्त्र्याच्च कर्मिणः ।। १४७१ ।।

ब्रह्मवित्त्वे च पारार्थ्यं देवादीन्प्रति हीयते ।।
तस्य ब्रह्म­त­मो­हे­तो­स्त­न्नि­वृत्तौ निवर्तते ।। १४७२ ।।

अप्रि­या­रि­ष्टि­वा­क्या­भ्या­म­य­म­र्थोऽ­व­सी­यते ।।
तस्मा­द्वि­द्या­फ­ला­वाप्तौ विघ्नं कुर्वन्ति देवताः ।। १४७३ ।।

नन्वेवं तर्ह्यविश्रम्भो ह्यदृष्टफलसंपदि ।।
प्राप्तोऽ­भ्यु­द­य­मो­क्षा­र्थ­सा­ध­न­व्या­पृ­ता­विह ।। १४७४ ।।

तथेश्वरोऽपि नो विघ्नं कुर्वन्केन निषिध्यते ।।
काल­म­न्रौ­ष­धा­दी­ना­म­चिन्त्या शक्तिरिष्यते ।। १४७५ ।।

कर्म­म­न्त्रौ­ष­धि­त­पः­का­ला­दीनां च विद्यते ।।
महती शक्तिरित्यत्र युक्तमाशङ्कितुं फले ।। १४७६ ।।

देवादयः स्वत­न्त्र­त्वा­त्फ­ल­प्रा­प्ति­वि­घा­तयोः ।।
सर्वं कु्युर­ना­श्वा­स­स्त­स्मा­त्प्रा­प्नोति कर्मसु ।। १४७७ ।।

नैवं सर्वपदार्थानां नियतादानकारणात् ।।
जग­द्वै­चि­त्र्य­दृ­ष्टेश्च स्वभावे तदसंभवात् ।। १४७८ ।।

सुखादिफलदं कर्मे­त्य­स्मि­न्पक्षे व्यवस्थिते ।।
श्रुति­न्या­या­दि­सं­सि­द्धे­र्नातो विघ्नकृतः सुराः ।। १४७९ ।।

कर्मणैव स्वसिद्ध्यर्थं तेषां क्रोडीकृतत्वतः ।।
नाऽऽत्मानं लभते कर्म देवे­शा­द्य­न­पेक्षि सत् ।। १४८० ।।

फला­दा­नेऽ­नु­लो­म­त्वा­न्नामी स्युर्वि­घ्न­का­रिणः ।।
यथा कर्म तथेशादि कर्मापेक्ष्यैव सिध्यति ।। १४८१ ।।

सर्वं सर्वमपेक्ष्यैव संह­त­त्वा­त्प्र­सि­ध्यति ।।
प्रधानगुणभावश्च क्वचि­त्क­स्य­चि­दि­ष्यते ।। १४८२ ।।

विघ्नकार्येऽपि चाप्येते नानपेक्ष्य प्रकुर्वते ।।
तत्सा­म­र्थ्या­प्र­णो­द्य­त्वा­त्स­र्वेपां सर्वकर्मसु ।। १४८३ ।।

गुणप्रधानभावश्च देव­का­ले­श्व­रा­दिषु ।।
कर्मस्वनियतो दृष्टो नान्यथा चोपपद्यते ।। १४८४ ।।

यदैकस्य प्रधानत्वं तदाऽ­न्य­स्या­प्र­धा­नता ।।
एवं नृत्य­ज्ज­ग­न्नि­त्य­म­त­द्वृ­त्याऽऽ­त्मनि स्थितम् ।। १४८५ ।।

गुणप्रधानभावश्च पदा­र्था­ना­म­न­न्ततः ।।
क्षेपी­य­स्त्वाच्च कालस्य दुर्ज्ञेयो मतिविभ्रमात् ।। १४८६ ।।

कर्मैव कारणं केचि­त्फ­ल­प्राप्तौ प्रचक्षते ।।
दैवमेकेऽपरे कालं स्वभाव इति चापरे ।। १४८७ ।।

श्रुतयः स्मृतिवादाश्च कर्म­प्रा­धा­न्य­मेव तु ।।
अङ्गीकृत्य प्रदृश्यन्ते प्रवृत्ताः सर्व एव हि ।। १४८८ ।।

पुण्यः पुण्येन भवति पापः पापेन कर्मणा ।।
वचांस्येवं सुवहुशो लक्ष्यन्ते शास्रभूमिषु ।। १४८९ ।।

यद्यप्येषां स्वविषये प्राधान्यं कस्यचित्कचित् ।।
अप्राधान्यं तदन्येषां तथाऽपि तु न कर्मणाम् ।।
फल­प्रा­प्ता­व­हे­तुत्वं शास्र­न्या­या­व­धा­र­णात् ।। १४९० ।।

कर्मणः फल­सं­प्रा­प्ति­र­प्रा­प्ति­श्चेह येक्ष्यते ।।
साद्गु­ण्य­वि­गु­ण­त्वाभ्यां सा स्यात्कर्मण एव च ।। १४९१ ।।

विघ्नं कुर्वन्ति नो देवा विद्यो­त्थ­फ­ल­सं­गतौ ।।
उक्तं यदपनुत्त्यर्थं तत्र प्रतिविधीयते ।। १४९२ ।।

अवि­द्या­हा­न­मा­त्र­त्वा­त्कै­व­ल्या­प्त­फ­ला­त्मनः ।।
तत्प्रा­प्ते­र्ज्ञा­न­का­ल­त्वा­न्नालं विघ्नाय दवताः ।। १४९३ ।।

चक्षु­रू­पा­भि­सं­ब­न्ध­स­म­काला यथेष्यते ।।
रूपा­भि­व्य­क्ति­रेवं स्याद­वि­द्या­ध्व­स्ति­रा­त्मनः ।। १४९४ ।।

यथा­स्थि­ता­त्म­या­था­त्म्य­ज्ञा­न­ज­न्मा­ति­रे­कतः ।।
न तत्तमोनिवृत्तिः स्यात्तदुत्थस्य च वस्तुनः ।। १४९५ ।।

सर्पात्मना गृहीतामां न दण्डादीक्ष्यते स्रजि ।।
प्रती­च्ये­क­त­नु­ग्राह्ये तदन्यन्न तथेक्ष्यते ।। १४९६ ।।

अन्यो­न्य­व्य­भि­चा­रि­त्व­म­ज्ञा­नेऽपि ह्यनात्मनाम् ।।
किमु विध्व­स्त­निः­शे­ष­घ­ना­ज्ञा­नेऽ­न्त­रा­त्मनि ।। १४९७ ।।

रूप्या­भ­ज्ञा­न­वे­लायां शुक्तिकाधीर्न बाधते ।।
तदसूतेरिह त्वात्म­न्या­दि­म­ध्या­न्त­बा­धधीः ।। १४९८ ।।

निर्निमित्तं प्रमात्रादेः प्रत्य­ग्रू­प­म­ना­त्मनः ।।
सनिमित्तं पराग्रूपमात्मनो मोहहेतुतः ।। १४९९ ।।

एक आत्मेति विज्ञाने दोषोऽ­प्य­प्र­ति­ब­न्धकः ।।
मूढात्मनामपि ह्येतन्न विसंवादमृच्छति ।। १५०० ।।

मिथ्या­सं­श­य­वि­ज्ञा­न­म­ना­त्मानं प्रतीष्यते ।।
प्रत्यगात्मनि तद्य­स्मा­त्स­म्य­ग्ज्ञा­नान्न भिद्यते ।। १५०१ ।।

अज्ञानं चेच्चिदाकारं संशयादिषु का कथा ।।
प्रमित्सिते प्रतीच्यस्मान्न दोषो नापि बाधकम् ।। १५०२ ।।

महिमानो यदाऽमी स्युरविद्याया न वस्तुनः ।। १५०३ ।।
काला देवादयस्तस्यां ध्वस्तायां तद्विनाशतः ।।
देवेश्वरादयः के स्युर्विघ्नं वा कस्य कुर्वते ।। १५०४ ।।

यत्र त्वस्येति श्रुत्यैव सर्व­मे­त­त्स्फु­टी­कृ­तम् ।।
इहापि हेतुसंसिद्ध्यै तत्स्प­ष्ट­म­भि­धी­यते ।। १५०५ ।।

यतो विघ्नकृतामात्मा प्रत्य­ग्या­था­त्म्य­वि­द्भ­वेत् ।।
तद्गो­च­रा­ति­व­र्तित्वं विद्याकाले तमोहतेः ।। १५०६ ।।

आत्माऽमीषां तदा ब्रह्म देवादीनां भवेद्वशी ।।
कालाद्यन्तरितं यत्स्या­त्प्रा­प्त्यु­त्प­त्त्या­दि­ल­क्ष­णम् ।। १५०७ ।।

अनात्मैव फलं तत्र देवानामीशता भवेत् ।।
अपि ज्ञाता­त्म­त­त्त्वा­ना­म­भा­वा­ज्ज्ञा­न­सं­ततेः ।। १५०८ ।।

अन्त्योऽ­वि­द्या­प­नु­द्वोधो रागा­दि­प्र­त्य­यो­त्थितेः ।।
इति चेन्नैतदेवं स्यादा­द्येऽ­नै­का­न्ति­क­त्वतः ।। १५०९ ।।

नान्त्याऽ­वि­द्या­प­नु­द्वु­द्धि­रा­त्मै­क­वि­ष­य­त्वतः ।।
आद्या­त्म­बु­द्धि­व­द्धे­तो­र­नै­का­न्ति­क­ते­क्ष्यते ।। १५१० ।।

अनैकान्तिकता हेतो­स्त­द्व­त्सं­त­ति­वा­दिनः ।।
न चाभ्या­सा­त्प्र­मा­णानि कुर्व­न्त्य­र्था­व­बो­ध­नम् ।। १५११ ।।

संब­न्ध­मा­त्रा­भि­व्य­क्ते­र्व्य­ञ्ज­क­त्वा­त्प्र­दी­प­वत् ।।
भोजनादौ न च सति ज्ञान­सं­त­ति­रि­ष्यते ।। १५१२ ।।

तद­न्त­रा­य­बा­हु­ल्या­त्सु­षु­प्तादौ च नेष्यते ।।
प्रत्य­क्प्र­मे­य­पू­र्वैव सर्वासां नो यतो धियाम् ।।
सूतिराम्रेडन तस्मा­त्सि­द्ध­मा­त्म­धियः सदा ।। १५१३ ।।

ज्ञानस्य वस्तु­त­ऩ्त्र­त्वान्न कर्त्र­नु­वि­धा­यिता ।।
शीतो­ष्णा­ज्ञा­न­व­त्त­स्मा­न्ने­ष्यते ज्ञानसंततिः ।। १५१४ ।।

भोजनादिनिरोधेन संत­ति­श्चे­त्स­म­र्थ्यते ।।
उक्ता परिहृतिस्तत्र न भूयोऽपि व्यपेक्षते ।। १५१५ ।।

क्षुत्पि­पा­सा­प­रि­म्ला­न­चे­त­स्त्वा­न्नि­तरां न सा ।।
भोजनादिनिरोधेन न च तस्याः प्रमेक्ष्यते ।। १५१६ ।।

संत­त्या­र­म्भ­क­धि­या­मि­य­त्ता­न­व­धा­र­णात् ।।
शास्रा­र्था­नि­श्चयो दोषः स चानिष्टः प्रसज्यते ।। १५१७ ।।

मतं संततिमात्रत्वे निश्चितिः स्यात्तथाऽपि च ।।
अनैकान्तिकता हेतो­रा­द्य­सं­त­ति­व­द्भ­वेत् ।। १५१८ ।।

समानविषयत्वेऽपि नाऽऽद्याऽ­विद्यां निहन्ति चेत् ।।
ज्ञान­सं­त­ति­रन्त्या नः सेत्स्यतीयत्र का प्रमा ।। १५१९ ।।

मरणेऽपि न विश्चासो हिक्कि­का­व­श­व­र्तिनः ।।
ज्ञान­सं­त­ति­नि­ष्पत्तौ तमो­मा­त्र­स­मा­प्तितः ।। १५२० ।।

कर्मच्छिद्रेषु कुर्वन्ति येऽपि सम्यग्धियं बलात् ।।
नूनं ते नासिकाग्रेण वीक्षन्ते सूर्यमण्डलम् ।। १५२१ ।।

वस्तुतन्त्रं, न हि ज्ञानं नृतन्त्रं लोकवह्निवत् ।।
अन­न्य­ज्ञा­तृ­क­त्वाच्च प्रत्य­ग्ज्ञा­नस्य सर्वदा ।। १५२२ ।।

न चानिवर्तकं ज्ञानं प्रत्यङ्भोहस्य युज्यते ।।
स्वानु­भू­ति­वि­रु­द्ध­त्वा­द­ग्नि­दा­हा­दि­बो­ध­वत् ।। १५२३ ।।

सर्व­वे­दा­न्त­वा­क्या­ना­मे­ता­व­न्मा­त्र­नि­ष्ठतः ।।
न चार्थवादता तेषा­म­न्या­शे­ष­त्व­का­र­णात् ।। १५२४ ।।

अहं­धी­वि­ष­य­त्वा­च्चे­त्तेषां स्यादर्थवादता ।।
नाोक्त­त्वा­त्प­रि­हा­रस्य न चाहं­ग­म्य­ताऽऽ­त्मनः ।। १५२५ ।।

अहं­बु­द्ध्ये­क्ष्यते प्रत्यक्प्रतीचा चाप्यहंमतिः ।।
अन्योन्याश्रयता दोषः स्याद­हं­वृ­त्ति­वी­क्षणे ।। १५२६ ।।

यत एवमतो यो नः प्रत्य­क्सं­मो­ह­हा­नि­कृत् ।।
अाद्योऽन्त्यः संततो वाऽसौ बोधो मुक्तिफलः स्मृतः ।। १५२७ ।।

यत्तूक्तं ज्ञात­त­त्त्वा­ना­मपि रागादिदर्शनात् ।।
नावि­द्या­हा­नि­कृ­ज्ज्ञा­न­मत्र प्रतिविधीयते ।। १५२८ ।।

आर­ब्ध­फ­ल­शे­षै­क­हे­तु­त्वा­द्दे­ह­सं­स्तितेः ।।
रागा­दि­प्र­त्य­यो­द्भू­ति­रि­षु­च­क्रा­दि­वे­ग­वत् ।। १५२९ ।।

तस्य वृत्तफलत्वान्नो ज्ञानं स्यात्त­न्नि­वृ­त्ति­कृत् ।।
अतीतत्वाच्च तद्धान्यै नाल­मा­त्मा­व­बो­ध­नम् ।। १५३० ।।

यत्तु स्वात्माश्रयं कर्म ह्यनारब्धफलं भवेत् ।।
उत्पित्स्वनागतं कृत्स्नं ज्ञानं हन्ति तदेव नः ।। १५३१ ।।

अनारब्धफलं कर्म न त्वारब्धफलं यदि ।।
निरु­ण­द्ध्या­त्म­वि­ज्ञानं तदाऽनिष्टं प्रसज्यते ।। १५३२ ।।

प्रारब्धात्मफलं नो चेत्कर्म ज्ञानं निवर्तयेत् ।।
अनारब्धफलं हन्तीत्यत्रापि स्यान्न निश्चितिः ।। १५३३ ।।

न चेदा­र­ब्ध­का­र्येषु ज्ञान­स्वा­त­न्त्र्या­मि­ष्यते ।।
अनारब्धेषु नितरां पुंसोऽपि स्याद्यथेष्टता ।। १५३४ ।।

न च तेषु निरुद्धेषु किंचिन्नः स्यात्प्रयोजनम् ।।
प्राङ्भृ­ते­र्मु­क्त्य­सं­सि­द्धे­र­बी­ज­त्वाच्च संसृतेः ।। १५३५ ।।

सर्वसंहारकाले च निरोधोऽभूदशेषतः ।।
तावानपि न पर्याप्तो निरोधो मुक्तये, कथम् ।। १५३६ ।।

अल्पी­यो­हः­स­म­भ्यस्तो निरोधोऽलं विमुक्तये ।।
भावनोपचयान्नापि मुक्तिः स्याद्भ­ङ्ग­र­त्वतः ।। १५३७ ।।

दुःख्यस्मीत्यपि चेद्ध्वस्ता कोट­क­ल्पो­प­बृं­हिता ।।
अल्पीयोभ्यासजा साध्वी भावनेत्यत्र का प्रमा ।। १५३८ ।।

शास्रार्थस्य समाप्तेश्च मुक्तिः स्यात्तावता मितेः ।।
रागादयः सन्तु कामं न तद्भा­वोऽ­प­रा­ध्यति ।। १५३९ ।।

आगमाद्वेद चेद्ब्रह्म ब्रह्मैव भवतीति हि ।।
फलावस्थस्य च सतः कुतो रागादिसंप्लुतिः ।। १५४० ।।

न च ब्रह्म­प­रि­ज्ञा­न­हु­ता­शा­प्लु­ष्ट­म­ण्वपि ।।
संभाव्यते ब्रह्मधियः सर्वा­न्त्य­त्वै­क­हे­तुतः ।। १५४१ ।।

सम्य­ग्ज्ञा­न­वि­रुद्धा धीर्न चैकात्म्यं विजानतः ।।
उत्पद्यते निर्विषया विषयाशयहानतः ।। १५४२ ।।

लोकेऽ­नि­र्ज्ञा­त­त­त्त्वस्य मिथ्या­धी­रु­प­जा­यते ।।
प्रध्व­स्त­त­त्त्व­त­मसः कुतः स्यात्कारणादृते ।। १५४३ ।।

सम्यग्ज्ञानेऽपि चेत्सा स्यादविश्रम्भः प्रसज्यते ।।
एवं सत्यप्रमाणत्वं मितेश्चापि प्रसज्यते ।। १५४४ ।।

सम्य­ङ्भि­थ्या­धि­यो­र्य­स्मा­द्वि­शेषो नोपलभ्यते ।।
व्यवहारस्य लोपोऽतः सर्वस्य स्यादसंशयः ।। १५४५ ।।

सम्य­ग्ज्ञा­न­स­मु­त्पा­त्ति­स­म­न­न्त­र­मेव च ।।
शरीरपातः कस्मा­न्ने­त्ये­त­च्चा­प्य­प­ह­स्ति­तम् ।। १५४६ ।।

पूर्वोक्तेनैव न्यायेन वक्तव्यं नावशिष्यते ।।
ज्ञानो­त्प­त्ता­वतो ध्वस्तिः सर्वेषामपि कर्मणाम् ।। १५४७ ।।

यथैधांसि समि­द्धोऽ­ग्नि­र्भ­स्मा­सा­त्कु­रु­तेऽ­र्जुन ।।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ।। १५४८ ।।

सर्व­दृ­ष्टा­न्त­सा­रू­प्य­प्र­सक्तौ तन्निपेघकृत् ।।
तावदेव चिरं तस्येत्यपवादः श्रुतीरितः ।। १५४९ ।।

नेत्र­ब­न्ध­वि­नि­र्मो­का­दु­प­देशः स्मृतिं प्रति ।। १५५० ।।
तत­स्त­द­र्श­ग्र­ह­ण­म­नु­ष्ठानं ततः परम् ।।
स भूरि­ग­त्यु­प­च­या­द्ग्रा­मा­द्ग्रा­मा­न्तरं व्रजेत् ।। १५५१ ।।

सम्य­ग्ज्ञा­तो­प­दे­शार्थः स्वयं च प्रतिभानवान् ।।
द्राघीयसा स कालेन गन्धा­रा­न्प्र­ति­प­द्यते ।। १५५२ ।।

यथैवमेवेहापि स्याद्य इहाऽऽ­चा­र्य­वा­न्नरः ।।
निःशे­ष­दृ­ष्टा­न्तो­क्त्य­र्थ­प्र­स­क्ति­वि­नि­वृ­त्तये ।।
पवादं श्रुतिरियं तस्य त्विति जगाद नः ।। १५५३ ।।

प्रत्य­ग्या­था­त्म्य­वि­ज्ञा­न­ज­न्मनो नातिरेकभाक् ।।
प्रत्य­ङ्भो­ह­भि­न­ह­न­ध्वं­स­श्चा­प्य­न्य­था­मतेः ।। १५५५ ।।

तस्मा­द्या­था­त्म्य­वि­ज्ञा­न­स­मु­त्पत्तेः पुरैव तु ।।
आत्माज्ञानं सकार्यं स्यात्तस्य बाध्यत्वकारणात् ।। १५५६ ।।

यस्मिन्प्राप्ते यद्भवति तत्त­स्मा­त्स्या­त्कथं पुरा ।।
अन्त्यं तस्मा­त्प­रि­ज्ञानं सर्वबाध्यस्य बाधकम् ।। १५५७ ।।

ऋणिनोऽप्यस्य देवाद्या नेशते ब्रह्मवेदिनः ।।
इत्युक्तं किंनिमित्तं चेत्तत्र प्रतिविधीयते ।। १५५८ ।।

न विज्ञा­ना­त्म­या­थात्म्यं प्रत्यृणित्वं भवेद्यतः ।।
अविद्याविषयं तत्स्यात्तस्य कर्तृत्वकारणात् ।। १५५९ ।।

यत्र वा अन्यदित्यादि तथाच श्रुतिशासनम् ।।
ध्वस्ताविद्यस्य तन्न स्यात्त­स्यै­का­त्म्य­स्व­भा­वतः ।। १५६० ।।

न चेहाविदुषोऽपि स्यादृणित्वं हेत्वसंभवात् ।।
न किंचिन्नः सुरैः प्रत्तमृणित्वं येन नो भवेत् ।। १५६१ ।।

वचनादिति चेन्नैवं तदु­क्ते­र­र्थ­वा­दतः ।।
अवदानविधेः शेषो ह्यर्थवादो हि तद्वचः ।। १५६२ ।।

विद्वांसं प्रति नेशाना यदि देवादयो मताः ।।
तस्मिन्विषय ऐश्वर्यं तेषां स्यात्सोऽ­धु­नो­च्यते ।। १५६३ ।।

प्रामाण्यं कर्मकाण्डस्य यस्मिन्विषय इष्यते ।।
अविद्याविषयः साक्षादथ योऽन्या­मि­ती­र्यते ।। १५६४ ।।

सम्य­ग्ज्ञा­न­स­मु­त्पत्तौ कर्म­का­र्य­स­मा­प्तितः ।।
नापेक्षा कर्मकाण्डे स्यात्त­त्प्रा­मा­ण्य­कृ­ता­र्थतः ।। १५६५ ।।

प्रकृ­तै­का­त्म्य­वि­द्याया व्युत्था­ना­या­थ­गी­रि­यम् ।।
न हि संगच्छते विद्या­वि­द्या­योगं विरोधतः ।। १५६६ ।।

प्रतीच्यनन्य एक­स्मि­न्न­वि­द्या­पि­हि­ते­क्षणः ।।
अन­न्योऽ­प्या­त्मनो भिन्नामुपास्ते देवतां नरः ।। १५६७ ।।

अन्योऽसाविति वाक्येन व्याख्यो­पा­सा­प­दस्य तु ।।
भेददर्शनमेवात उपास्त इति भण्यते ।। १५६८ ।।

किं मूलं भिन्नदृष्टेः स्यादिति श्रुत्या तदुच्यते ।।
न स वेदेत्यविद्येयं नाम­रू­प­प्र­प­ञ्च­कृत् ।। १५६९ ।।

आत्मा­वि­द्या­ग्र­ह­ग्रस्तः संह­स­स्त­ज्ज­व­स्तुभिः ।।
स एष पशुतामेति देवादीनां स्वकर्मभिः ।। १५७० ।।

वहू­प­का­र­कृ­द्य­द्व­द्ग­वा­दि­र्लौ­किकः पशुः।।
देवादीनां तथाऽ­वि­द्वा­न्पशुः स्यादुपकारकृत ।। १५७१ ।।

एकैकस्वामिको लोके गवादिः पशुरिष्यते ।।
ततोऽप्यतिशयः पुंसां सर्वलोकोपकारिता ।। १५७२ ।।

एकैकक्रियया लोक एकैकस्वामिकः पशुः ।।
अनेकैः संहतश्चैवं कदाचिदुपकारकः ।। १५७३ ।।

भूरि­क्रि­या­वांस्तु नर­स्त­थाऽ­ने­के­श्व­रोऽ­वशः ।।
एकैको निखिलं विश्वं विभर्त्यज्ञो दिवानिशम् ।। १५७४ ।।

अस्यैवार्थस्य दृष्टान्तो यथा हेत्यभिधीयते ।।
यत एवमतो युक्तं देवो­दे­र्भृ­श­म­प्रि­यम् ।। १५७५ ।।

अपि भूरिपशोः पुंस एकस्मिन्नपि तस्करैः ।।
ह्रियमाणे पशौ तीव्रं दुःखं समुपजायते ।।
किमु सर्वस्वहरणे वक्तव्यं दुःखकारणम् ।। १५७६ ।।

सर्वस्वतुल्ये नृपशौ ब्रह्म­धी­प­रि­मो­षिणा ।। १५७७ ।।
ह्रियमाणे महद्दुःखं तस्मादेषां तदप्रियम् ।।
यद्यथोक्तं परं ब्रह्म मनुष्या विद्युरञ्जसा ।। १५७८ ।।

सर्वा­धि­का­र­हे­त्व­ग्नि­ब्र­ह्म­ज्ञा­नस्य जन्मनि ।।
अव्या­वृ­त्ता­न­नु­ग­ता­त्प्र­ती­चोऽ­न्यन्न शिष्यते ।। १५७९ ।।

नावशिष्यत एत­स्मा­त्त­द­वि­द्यो­त्थ­म­ण्वपि ।।
प्रध्व­स्त­त्वा­द­वि­द्याया ब्रह्मा­त्म­ज्ञा­न­व­ह्निना ।। १५८० ।।

क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः ।।
न चैतदिष्टं देवानां मर्त्यैरुपरि वर्तनम् ।। १५८१ ।।

तस्मा­न्मु­मु­क्षु­र्दे­वा­दी­न्स­म्य­गा­राध्य कर्मभिः ।।
उन्मु­क्त­ब­न्ध­नस्तैः सन्ना­पि­त्से­ज्ज्ञा­न­मा­त्मनः ।। १५८२ ।।

तद्विपक्षस्तु यो बालो बलादेव मुमुक्षति ।।
स्वर्गादेरपि विभ्रष्टो नरकं स निगच्छति ।। १५८३ ।।

प्रमादिनो वहिश्चित्ताः पिशुनाः कलहोत्सुकाः ।।
संन्यासिनोऽपि दृश्यन्ते देवसंदूषिताशयाः ।। १५८४ ।।

न कर्म­णा­म­ना­र­म्भा­न्नै­प्कर्म्यं पुरुषोऽश्नुते ।।
न च संन्यसनादेव सिद्धिं समधिगच्छति ।। १५८५ ।।

कषायं पाचयित्वा तु श्रेणीस्थानेषु च त्रिषु ।।
प्रव्रजेच्च परं स्थानं पारि­व्रा­ज्य­म­नु­त्त­मम् ।। १५८६ ।।

भावितैः करणैश्चायं बहुसंसारयोनिषु ।।
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ।। १५८७ ।।

तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः ।।
त्रिष्वाश्रमेषु कोऽन्वर्थो भवेत्परमभीप्सतः ।। १५८८ ।।

इत्येवं भग­व­द्व्या­स­व­चां­स्यत्र सहस्रशः ।।
श्रूयन्ते न्यायदृब्धानि तस्मा­त्ता­न्या­द­रा­च्छ­येत् ।। १५८९ ।।

शास्रार्थः सूत्रि­त­स्ता­व­दा­त्मे­त्ये­वेति यत्नतः ।।
उक्तश्च तस्य सूत्रस्य संबन्धः सप्रयोजनः ।। १५९० ।।

संसा­रा­न­र्थ­हे­तु­त्व­म­वि­द्या­याश्च वर्णितम् ।।
योऽन्या­मि­त्या­दि­वा­क्येन तत्कार्यमपि सूत्रितम् ।। १५९१ ।।

विद्यावत्सह कार्येण ह्यविद्याऽपीह सूत्रिता ।।
साम­र्थ्या­द्वि­स्त­र­स्तस्या आऽध्या­या­न्ता­दि­हो­च्यते ।। १५९२ ।।

यथो­क्ता­त्मा­न­भिज्ञो योऽवि­द्या­का­र्या­भि­मा­न­वान् ।।
पशुवद्देवताः पाति स जुहो­त्या­दि­क­र्मभिः ।। १५९३ ।।

आऽध्या­या­व­सि­ते­स्त­स्मा­द­वि­द्याया विभूतयः ।।
वक्ष्यन्ते विस्तरेणातः परो ग्रन्थोऽ­व­ता­र्यते ।। १५९४ ।।

अस्यैवार्थस्य सिद्ध्य­र्थ­म­ग्नि­स­र्गा­द­न­न्त­रम् ।।
इन्द्रादिसर्गः प्राङ्नोक्तो मोह­का­र्य­वि­व­क्षया ।। १५९५ ।।

परिपूरणाय सृष्टेस्तु ह्यग्निसर्गः पुरोदितः ।।
यत एव­म­तोऽ­वि­द्या­का­र्योऽ­न­र्थोऽ­खिलो भवेत् ।। १५९६ ।।

इन्द्रा­दि­स­र्ग­स्त­त्रैव तच्छे­ष­त्वा­त्स­मी­क्ष्य­ताम् ।।
अवि­द्या­का­र्य­सि­द्ध्य­र्थ­मिह त्वस्य प्रपञ्चनम् ।। १५९७ ।।

स्रष्टृ यज्जगतः पूर्व­मा­त्मै­वे­त्य­भि­श­ब्दि­तम् ।।
तद­ग्न्या­द्य­भि­मा­न्यत्र ब्रह्मेति व्यपदिश्यते ।। १५९८ ।।

ब्रह्मै­क­जा­त्य­व­च्छिन्नं यस्मादग्रे व्यवर्तत ।।
नाने­क­जा­ति­म­द्धे­तु­क­र्म­णेऽलं ततो भवेत् ।। १५९९ ।।

चातु­र्व­र्ण्य­प्र­साध्यं सन्नै­क­जा­ति­प्र­सा­ध­नम् ।।
कर्मालं सिद्धये लोके शिबिकोद्वहनं यथा ।। १६०० ।।

गृही­ति­र­भि­षि­क्ता­ना­मि­न्द्रा­दीनां श्रुतौ श्रुता ।।
श्रेयो­रू­प­प्र­सि­द्ध्यर्थं क्षत्र्र­स्ये­त्य­व­ग­म्यते ।। १६०१ ।।

धर्मान्तैः सहि­तै­र्य­स्मा­त्कर्म सिध्यति नान्यथा ।।
तेन तेन विना शक्त­म­त­स्त­त्त­द­ची­क्लृ­पत् ।। १६०२ ।।

ब्रह्मासृजद्यतः क्षत्र्र­मा­त्म­नोऽ­प्य­ति­वी­र्य­वत् ।।
बल­व­त्क्ष­त्र्र­त­स्त­स्मा­न्ना­न्य­द्भू­त­मि­हे­ष्यते ।। १६०३ ।।

तस्माच्च ब्राह्म­णोऽ­ध­स्ता­द्रा­ज­सूये महाक्रतौ ।।
आस­न्दी­स्थ­मु­पास्ते त्वं राजन्ब्रह्मेति संभ्रमात् ।। १६०४ ।।

ब्रह्मेति श्रावितो राज्ञा ब्रह्मा प्रत्याह तं नृपम् ।।
त्वमेव राजन्ब्रह्मेति क्षत्र्रे तद्यश आत्मनः ।। १६०५ ।।

दधाति भास्व­द्ब्र­ह्माख्यं यस्मिन्सर्वं प्रतिष्ठितम् ।।
क्षत्रस्य योनिर्ब्रह्मेदं क्षत्र्रं ह्याविरभूत्ततः ।। १६०६ ।।

यतोऽतो यद्यपि क्षत्र्रं ब्राह्मण्यं प्रतिपद्यते ।। १६०७ ।।
परमत्वं तथाऽप्यन्ते राजसूयक्रतोः पुनः ।।
उपनिश्रयति ब्रह्म गुणभावेन पूर्ववत् ।। १६०८ ।।

ब्रह्मैव चान्ततः क्षत्र्र­मु­प­नि­श्र­य­ती­त्यतः ।।
क्रतुकालैव ब्रह्मा­प्तिः­क्ष­त्र्र­स्ये­त्य­व­सी­यते ।। १६०९ ।।

स्वां योनिमिति हेतूक्तिः कार्यं कारणसंश्रयम् ।।
न हि कारणतोऽन्यत्र वृ्त्तिः कार्यात्मनः कचित् ।।
ब्रह्मैककारणो राजा तस्माद्ब्रह्मैव संश्रितः ।। १६१० ।।

यस्तु बाहुबलोन्मत्तः स्वां योनिं ब्राह्मणं नृपः ।।
वाङ्भात्रेणापि सक्रोधो हिनस्तीह प्रमादतः ।। १६११ ।।

ब्रह्मो­प­म­र्द­ना­त्पापः प्रागपि क्रूरकर्मकृत् ।।
ततोऽपि पापात्पापीयान्स स्याद्ब्र­ह्मा­प­वा­दतः ।। १६१२ ।।

उत्तमाभिजनोपेतं भूर्युदारगुणं द्विजम् ।।
यथा श्रेयांसं हिंसित्वा पापी­या­न्स्या­त्त­थैव सः ।। १६१३ ।।

सृष्ट्वाऽपि चतुरो वर्णा­न्व्य­व­स्था­का­रणं विना ।।
कर्मणे नैव पर्याप्तं ब्रह्मा­भू­त्पू­र्व­व­त्ततः ।। १६१४ ।।

ब्रह्म­क्ष­त्र्रा­दि­रू­पाणि यतोऽ­ती­त्या­सृ­ज­त्प्रभुः ।।
श्रेयोरूपस्ततो धर्मः सर्वा­न­प्य­नु­शा­स्त्यसौ ।। १६१५ ।।

तदेतत्सृष्टं धर्माख्यं क्षत्र्र­स्या­धि­प­ते­रपि ।।
प्रशास्तृ तद्भ­या­द्य­स्मा­त्क्षत्र्रं भीतं प्रवर्तते ।। १६१६ ।।

क्षत्र्रस्यापि यतो धर्मः साक्षा­द­धि­प­ति­स्ततः ।।
धर्मा­द­न्य­न्म­ह­द्भूतं न भूतं न भविष्यति ।। १६१७ ।।

श्रेयो­रू­प­प्र­सि­द्ध्यर्थं प्रसि­द्धि­रु­प­व­र्ण्यते ।।
अथो इत्यादिना धर्म­वि­शि­ष्ट­त्वा­व­बु­द्धये ।। १६१८ ।।

आशंसते बली­यां­स­म­ब­ली­या­नपि स्वयम् ।।
धर्मं बलं समाश्रित्य जेतुं लोके तथा यथा ।। १६१९ ।।

राज्ञा बलेनाल्पबलो बलीयांसं कुटुम्बिनम् ।।
जेतुमाशंसते तस्माद्धर्मः स्याद्वलवत्तमः ।। १६२० ।।

बलीयसाऽपि राज्ञेह स्पर्ध­मा­नोऽ­ब­लोऽपि सन् ।।
जेतुमुत्सहते भूपं धर्मा­त्म­क­ब­ला­श्र­यात् ।। १६२१ ।।

एतदेव यतो ज्यायो रूपं धर्मो­त्यु­दा­हृ­तम् ।।
रूपान्तरेभ्यः सर्वेभ्यस्तद्धि सत्यात्मकं यतः ।। १६२२ ।।

तस्यास्य धर्मरूपस्य कार्यकारणतां मिथः ।।
यो वै स धर्म इत्युक्त्या वक्तुं प्रववृते श्रुतिः ।। १६२३ ।।

प्रयोगलक्षणो योऽयं श्रुति­स्मृ­त्यु­दितो मतः ।।
स धर्म इति विज्ञेयः सत्यं शास्रा­र्थ­ल­क्ष­णम् ।। १६२४ ।।

अक्ष­रा­नु­ग­तोऽ­प्यर्थो यदि संशय्यते तदा ।।
नित्य­प्र­यो­ग­रू­पो­त्थ­वि­ज्ञा­ना­त्त­द्वि­नि­श्चितिः ।। १६२५ ।।

प्रयोगेऽपि च संशीतौ वाक्या­र्थ­ज्ञा­न­सं­श्र­यात् ।।
निर्णुदेत्संशयं प्राज्ञ एव­म­न्यो­न्य­हे­तुता ।। १६२६ ।।

यथा प्रयो­ग­मु­ल्लङ्ध्य व्याख्यातुं शक्नुयात्सुधीः ।।
यथाशास्रं तथोल्लङ्घ्य कर्तुं शक्नोत्यथापरः ।। १६२७ ।।

अतथ्यान्यपि तथ्यानि दर्शयन्तीह वादिनः ।।
समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ।। १६२८ ।।

शास्त्रा­र्थ­स्त­त्प्र­यो­गश्च यदा त्वन्यो­न्य­सं­श्र­यात् ।।
प्रवर्तते तदा कर्तुर्न प्रमादो मनागपि ।। १६२९ ।।

नायं धर्म इति ज्ञेयो योऽयं सृष्टाविहेरितः ।।
क्षत्र्रा­दि­नि­य­मा­श­क्ते­स्त­स्या­चै­त­न्य­रू­पतः ।। १६३० ।।

देवता तु ह्यधिष्ठात्री धर्मोऽ­स्मी­त्या­भि­मा­निनी ।।
सैवेह सृज्यते धात्रा निय­मा­र्थ­प्र­सि­द्धये ।। १६३१ ।।

धर्मस्यैव तु रूपेण देवता रूपिणी मता ।।
तन्नाम्ना नामवत्येवं देवतान्तरयोजना ।। १६३२ ।।

एकैव देवता तस्मा­न्ना­म­रू­पा­द्यु­पा­धिभिः ।।
आभाति बहुरूपेव तत्प­रा­धी­न­चे­त­साम् ।। १६३३ ।।

यथो­क्ता­र्थो­प­सं­हार उत्त­रा­र्थ­वि­व­क्षया ।।
ब्राह्मणस्य पुराऽ­नु­क्ते­स्त­दु­क्त्यर्था परा श्रुतिः ।। १६३४ ।।

दैववर्णविभागस्य मनुष्येष्वपि भण्यते ।।
विनियोगो यथोक्तोऽयं वर्णानां प्रविभागशः ।। १६३५ ।।

क्षत्र्रदीनां पुरो­क्ता­त्वा­द­नु­क्ते­र्ब्रा­ह्म­णस्य च ।।
को न्वेषु ब्राह्मण इति चोदिते स्यात्परा श्रुतिः ।। १६३६ ।।

देवतायाः समाख्यातो विभागो वर्णसंश्रयः ।।
तत्पूर्वको मनुष्येषु विभा­ग­स्त्व­धु­नो­च्यते ।। १६३७ ।।

यद­ग्नि­नाऽ­भ­व­ह्व्रह्म देवेष्वविकृतं नृषु ।।
ब्राह्मणेन तदे­वा­भू­ह्व्र­ह्मै­वै­वि­कृ­ता­त्मना ।। १६३८ ।।

या जाति­र्व्रा­ह्म­ण­त्वाख्या साऽग्निरेवेति निश्चितिः ।।
जातिरूपेण सा स्थित्वा जातिमेव नियच्छति ।। १६३९ ।।

आग्नेयो ब्राह्म­ण­श्चा­त­स्त­त्सं­ब­न्धा­च्छ्रुतौ श्रुतः ।।
अनु­ग्र­ह­नि­य­न्तृत्वे ब्राह्म­ण­स्या­ग्नितो यतः ।। १६४० ।।

नियम्यमानो दैवेन क्षत्र्रियेण मनुष्यगः ।।
इक्ष्वा­क्वा­दि­र­भू­त्पूर्वः क्षत्र्रि­य­स्त­द्व­दु­त्तरः ।। १६४१ ।।

ब्रह्मैवाविकृतं यस्मा­त्पू­र्व­यो­र्वि­कृतिं पुनः ।।
क्षत्र्रियादौ समापेदे तेना­ग्नि­ब्रा­ह्म­णा­श्र­यात् ।। १६४२ ।।

कामितार्थस्य संसिद्धिः कर्मिणां कामिनामिह ।।
स्थित्वाऽग्नौ ब्राह्मणे चेह लोकमीप्सन्ति कर्मिणः ।। १६४३ ।।

कर्मकार्यश्च लोकोऽत्र ज्ञेयोऽ­ग्न्या­दि­स­मा­श्र­यात् ।।
प्रत्य­ग्या­था­त्म्य­धी­मा­त्रा­त्प­र­लो­का­प्ति­रि­ष्यते ।। १६४४ ।।

अजा­त­श­त्रु­ज­न­क­सु­ल­भा­दि­नि­द­र्श­नात् ।।
अवि­द्यो­त्था­धि­का­राच्च लोकोक्तिर्न परात्मनि ।। १६४५ ।।

अव्या­कृ­त­व्या­क­र­णा­त्स्वा­भि­प्रा­याच्च नेष्यते ।।
अव्या­कृ­त­व्या­क­र­ण­रू­पाभ्यां छाद्यते परः ।। १६४६ ।।

आवि­ष्कृ­ति­स्ता­न्नि­षे­धा­द­न्य­दे­वेति च श्रुतेः ।। १६४७ ।।
उत्तरत्र स्वशब्देन लोकस्य च विशेषणात् ।।
कर्मणां फलमेवात्र लोकशब्देन भण्यते ।। १६४८ ।।

लोकशब्देन संप्राप्तं कर्म­का­र्य­म­पेक्ष्य हि ।।
स्वगिराऽनात्मनो लोका­द्वि­शि­न­ष्ट्या­त्म­रू­प­कम् ।। १६४९ ।।

स्वत्वे­ना­व्य­भि­चा­रि­त्वा­द्व्य­भि­चा­रा­द­ना­त्मनः ।।
कर्म­का­र्य­नि­वृ­त्त्य­र्थ­म­र्थ­व­त्स्या­द्वि­शे­ष­णम् ।। १६५० ।।

त्रयाणामपि वर्णानां श्रुतौ संन्यासदर्शनात् ।।
ब्राह्मणस्यैव संन्यास इति श्रुत्या विरुध्यते ।। १६५१ ।।

लिङ्गं च न्यायरहितं प्रामाण्याय न कल्पते ।।
ब्राह्म­णो­क्ति­ब­ला­त्त­स्मा­त्का­मि­तोऽर्थो न सिध्यति ।। १६५२ ।।

उपलक्षणं वा तद्ग्राह्यं ब्राह्मणग्रहणं श्रुतौ ।।
ब्राह्मणस्य प्रध­ना­त्वा­द्युक्तं तदुपलक्षणम् ।। १६५३ ।।

ब्राह्म­ण­त्वा­त्म­ला­भोऽपि यः स्यात्क्ष­त्र्रि­य­वै­श्ययोः ।।
स्वमहिम्ना तयो­र्ना­सा­व­ग्नि­ब्रा­ह्म­ण­सं­श्र­यात् ।। १६५४ ।।

ब्राह्मणं न ह्यनाश्रित्य राजसूयादिहेतुकः ।।
ब्राह्म­ण­त्वा­भि­सं­बन्धः प्राधान्यं तेन पूर्वयोः ।। १६५५ ।।

वर्णा­न्त­र­ग­ता­पेक्षा नाग्नि­ब्र­ह्म­ण­यो­स्तथा ।।
ब्राह्मणः स्वमहिम्नैव पुरुषार्थं समश्र्नुते ।। १६५६ ।।

अग्नि­ब्रा­ह्म­ण­यो­र्हेतुः प्राधान्ये भण्यते स्फुटः ।।
एताभ्यामेव रूपाभ्यां यतो ब्रह्मा­भ­व­त्स्व­यम् ।। १६५७ ।।

अग्नि­ब्रा­ह्म­ण­यो­र्य­स्मा­द्ब्रह्म साक्षादभूत्पुरा ।।
विट्क्ष­त्र्र­यो­र्व्य­व­हितं प्राधान्यं तेन पूर्वयोः ।। १६५८ ।।

ब्रह्मेति जातिरेवात्र ग्राह्या न तु पराक्षरम् ।।
तत्का­र­ण­त्वा­त्स­र्वस्य हेतूक्तिस्तत्र दुर्घटा ।। १६५९ ।।

सर्वेषां प्रत्य­गा­त्म­त्वा­त्प­क्ष­पा­तोऽपि नेष्यते ।।
अग्नि­ब्रा­ह्म­ण­यो­र्वि­ष्णो­स्ता­व­न्मा­त्र­स­मा­प्तितः ।। १६६० ।।

ब्रह्मैवेदं विश्वमिति साक्षा­दा­म्ना­य­शा­स­नम् ।।
विद्या­वि­न­य­सं­पन्न इति च स्मृतिशासनम् ।। १६६१ ।।

क्षत्र्रादाविव तुल्या­ग्नि­वि­प्र­यो­र्वि­कृ­ति­र्दृशेः ।।
तेजो­ब­न्ना­दि­भू­तानां तुल्या सत्कारणात्मता ।। १६६२ ।।

अग्नि­ब्रा­ह्म­ण­रू­पेण ब्रह्म साक्षा­द्व्य­व­स्थि­तम् ।।
तत्प्राप्तौ हेतु­ताऽ­ग्न्या­दे­रिति निर्ह्री­क­वा­गि­यम् ।। १६६३ ।।

वर्णा­श्र­मा­दि­स­र्गोऽयं कर्मार्थो ब्रह्मणः स्मृतः ।।
धर्माख्यं कर्म च ज्ञेयं स्वाधि­का­र­नि­य­न्तृतः ।। १६६४ ।।

तेनैव कर्मणा मुक्तिं प्राप्स्यामः शाश्वतीं वयम् ।।
अज्ञात्वैव परं तत्त्वमेवं प्राप्ते परा श्रुतिः ।। १६६५ ।।

नियन्ता चाभिमन्ता च ब्राह्मणत्वस्य हव्यवाट् ।।
कर्मै­वा­ग्ने­र्नि­यन्तृ स्यात्कर्मणो देवता तथा ।। १६६६ ।।

स्यादे­त­द­ग्नि­रे­वैनं ब्रह्मभावाय वक्ष्यति ।।
अदृ­ष्टा­त्म­त­त्त्व­मपि तच्च नैवोपपद्यते ।। १६६७ ।।

व्याचक्षते परं ग्रन्थ­मे­वं­सं­ब­न्ध­पू­र्व­कम् ।।
न कश्चि­त्फ­ल­भे­दोऽत्र तस्मादुभयथाऽपि सन् ।। १६६८ ।।

न कर्मणा भवे­न्मु­क्ति­र्नापि चाग्नि­स­मा­श्र­यात् ।।
ज्ञानादेव तु कैव­ल्य­म­ज्ञा­ना­देव नास्ति तत् ।। १६६९ ।।

आश­ङ्कि­त­नि­वृ­त्त्य­र्थ­म­थे­त्यत्र प्रयुज्यते ।।
ह वा इति प्रसिद्ध्यर्थं मुक्तिर्न ज्ञानतोऽन्यतः ।। १६७० ।।

कर्म कृत्स्नं समाप्यापि तत्त्व­ज्ञा­ना­द्ब­हि­ष्कृतः ।।
लभते निर्वृतिं नैव ज्ञानादेव हि सा यतः ।। १६७१ ।।

अस्वैः पिण्डादिभिर्योग आ विरि­ञ्चा­द­वि­द्यया ।।
प्रती­च­स्त­द्व्यु­दा­सार्थं स्वं लोकमिति शब्द्यते ।। १६७२ ।।

अज्ञानिनः स्यान्मरणं संसर्गः कारणात्मनि ।।
ज्ञाना­द्ध्वा­न्त­नि­वृ­त्तिस्तु मरणं स्याद्वि­प­श्चि­ताम् ।। १६७३ ।।

मृत्यो­र्मृ­त्य्व­प­रि­ज्ञा­ना­द­ज्ञस्य मरणं तमः ।।
अवि­द्व­न्मृ­ति­सि­द्ध्य­र्थ­म­स्मा­ल्लो­का­दि­ती­र्यते ।। १६७४ ।।

अज्ञात्वैव परं देव­मा­ग­मा­पा­य­रू­पिणः ।।
अस्व­भू­ता­द्दे­ह­लो­का­न्म्रि­यते योऽवशो नरः ।। १६७५ ।।

अज्ञाततत्त्वः स परो न भुनक्ति ह्यतद्विदम् ।।
कैवल्यफलदानेन प्रत्यगात्माऽपि सन्परः ।। १६७६ ।।

तद्दृ­ष्टि­मा­त्रतः सिद्धे­र्ना­न्य­त­स्त­द­वा­प्यते ।।
मोह­मा­त्रा­न्त­रा­य­त्वा­त्त­त्क­र्मालं न मुक्तये ।। १६७७ ।।

वेदस्य ग्रहणं यद्वन्न स्यादध्ययनादृते ।।
कृप्यादि वाऽन्यदकृतं, कर्म नालं फलाय च ।। १६७८ ।।

भूरि कर्म करिष्यामि तत्फ­ला­न­न्त्य­सि­द्धये ।।
कर्म­णोऽ­चि­न्त्य­श­क्ति­त्वा­न्नै­व­म­प्यु­प­प­द्यते ।। १६७९ ।।

अप्र­ज्ञा­ता­त्म­तत्त्वः सन्यदि नाम दिवानिशम् ।।
कल्प­को­टि­स­ह­स्राणि कुर्यात्कर्म महच्छुभम् ।। १६८० ।।

तदप्यस्य तथा­भू­त­म­न्त­व­त्त्वा­त्प्र­ति­क्ष­णम् ।।
विध्वं­स­मे­त्य­प­च­या­त्को­ष्ठा­गा­रा­दि­व­द्ध्रु­वम् ।। १६८१ ।।

कृतस्य हि क्षयोऽ­व­श्य­म­कृ­त­स्या­क्ष­या­त्मता ।।
प्रसिद्धाऽतीव जगति श्रुत्यैवं तेन भण्यते ।। १६८२ ।।

उक्त­दो­षा­प­नुत्तिः स्यात्कथमस्येति चोदिते ।।
आत्मानमिति निर्वक्ति श्रुतिः परिहृतिं पराम् ।। १६८३ ।।

निःशे­षा­ना­त्म­सं­दृ­ष्टि­नि­रा­क­र­ण­सि­द्धये ।।
एवे­त्य­व­धृ­ति­र्ज्ञेया प्रत्य­ङ्भा­त्रे­क्ष­णाय तु ।। १६८४ ।।

प्रत्य­ङ्भा­त्र­दृशः पुंसो न न्याय्यः स्यात्समुच्चयः ।।
ब्रह्मात्मनि समाप्तस्य न तदन्यार्थशेषता ।। १६८५ ।।

क्षयः कर्मफलस्योक्तः कृत­क­त्व­स­म­न्व­यात् ।।
न क्षयो ज्ञानकार्यस्य कृत­क­त्वा­द्य­सं­भ­वात् ।। १६८६ ।।

प्रत्य­ङ्भा­त्रै­क­या­था­त्म्या­त्क्षे­त्र­क्षे­त्र­ज्ञ­व­स्तुनः ।।
तस्मि­ञ्ज्ञा­तेऽ­खिलं ज्ञातं सर्वा­ज्ञा­न­नि­रा­कृतेः ।। १६८७ ।।

सर्वसाधनसाध्यं च सुखं यच्चा­प्य­भी­प्सि­तम् ।।
सर्वा­न­न्दै­क­हे­तु­त्वा­द्ब्र­ह्माप्तौ प्राप्तमेव तत् ।। १६८८ ।।

यद्यत्कामयते कामी कर्म­भू­मा­व­व­स्थितः ।।
अस्मा­दे­वाऽऽ­त्म­वि­ज्ञा­ना­त्त­त्त­त्सु­ख­मु­पा­श्नुते ।। १६८९ ।।

सह­स्र­द­श­भा­गर्द्ध्या सुखानन्त्यं परात्मनः ।।
वक्ष्यते सर्व­सौ­ख्या­प्ति­स्त­स्मि­न्दृष्टे परात्मनि ।। १६९० ।।

अन्तर्भावः परानन्दे सुखा­ना­मा­वि­रि­ञ्चतः ।।
अस्माद्ध्येवेति वाक्येन सर्वेषां नः प्रबोध्यते ।। १६९१ ।।

स्थितेऽप्येवं प्रमाणांर्थे केचि­द्व्या­च­क्ष­तेऽ­न्यथा ।।
प्रमा­न्त­र­वि­रु­द्धा­र्थ­मिमं ग्रन्थं यथोदतम् ।। १६९२ ।।

न कर्म कारणं मुक्तेः क्षयि­ष्णु­त्व­स­म­न्व­यात् ।।
कर्मस्वेव नियच्छन्ति देवताश्च न मुक्तिदा ।। १६९३ ।।

कर्मा­धि­कृ­ति­हे­तु­त्वा­द­ग्न्या­दे­र्दे­व­ता­त्मनः ।।
नाप्युत्थायेह कर्मभ्यो ब्रह्म ज्ञातुं क्षमो नरः ।। १६९४ ।।

प्रत्य­गा­त्माऽ­प्य­सं­दृष्टो मुक्त्या नैवोपतिष्ठते ।।
देव­ता­ज्ञा­क­र­त्वेन ब्रह्मविद्या विरुध्यते ।। १६९५ ।।

कर्मिणः कर्मशेषत्वं स्वाराज्यं ब्रह्मवेदने ।।
नातः समु­च्च­या­न्मु­क्ति­र्नापि स्यात्सा विकल्पतः ।। १६९६ ।।

सति ज्ञाने तदुभ्यं तत्तु नैवोपपद्यते ।।
ऋणानि चानपाकृत्य कर्म त्युक्तुं न लभ्यते ।। १६९७ ।।

ऋणानि त्रीण्य­पा­कृ­त्ये­त्येवं च स्मृतिशासनम् ।।
एवं न कर्मतो मोक्षः कर्मणः क्षयवत्त्वतः ।।
ज्ञानाभावान्न विज्ञा­ना­न्नो­भाभ्यां तदसंभवात् ।। १६९९ ।।

वीक्ष्यापन्नस्य तस्यैव सामर्थ्यं ज्ञानकर्मणोः ।।
उद्विभावयिषुः साक्षा­त्प्र­वृ्त्तौषा परा श्रुतिः ।। १७०० ।।

लोक­मा­त्मा­न­मे­वे­म­मु­पा­सी­ताऽऽ­त्म­वि­द्यया ।।
इति स्याद­र्थ­व­त्त्वाय समा­धि­र्ज्ञा­न­क­र्मणोः ।। १७०१ ।।

द्वैते­क­त्वा­त्मि­का­वस्था विरिञ्चाख्या परात्मनः ।।
विज्ञा­न­क­र्मा­भि­व्यङ्ग्य द्वैतत्वात्सा क्षयात्मिका ।। १७०२ ।।

अवस्था याऽनभिव्यक्ता तस्यैव परमात्मनः ।।
अविशेषात्मिका साऽस्य कार­ण­त्वा­त्त्व­न­श्वरी ।। १७०३ ।।

तत्रैवं सति लोकेऽ­स्मि­न्द्वै­ता­द्वै­ता­त्म­सं­स्थितौ ।।
द्वैता­व­स्था­मु­पास्ते यस्तस्यासौ क्षीयते ध्रुवम् ।।
द्वैतत्वाद्यः पुन­र्धी­मा­न्क­र्मा­वस्थां यथोदिताम् ।। १७०४ ।।

अव्य­क्ता­व­स्था­मा­पाद्य सदोपस्ते परात्मना ।।
न क्षीयते कर्म तस्या­द्वै­त­त्वा­देव कारणात् ।। १७०५ ।।

ब्रह्मो­पा­स्ति­र्भ­वे­देवं कर्म चानुष्ठितं भवेत् ।। १७०६ ।।
व्यक्तं ससाधनं कर्म ब्रह्मभावेन पश्यतः ।।
न क्षीयते कर्म तस्य सदै­का­त्म्या­व­सा­नतः ।। १७०७ ।।

हिर­ण्य­ग­र्भ­वि­ज्ञा­न­क­र्मणोः प्रथमः किल ।। १७०८ ।।
समु­च्च­य­स्त­तोऽ­न्योऽ­य­म­व्य­क्त­ब्र­ह्म­वि­द्यया ।।
व्यक्त­सू­त्रा­त्म­वि­द्यायाः परोऽप्येष समुच्चयः ।। १७०९ ।।

द्वयो­र्य­थो­क्त­यो­र्मध्ये कतरोऽयं समुच्चयः ।।
प्रथमोऽथ द्वितीयो वा न न्यायोऽ­स्त्यु­भ­यो­रपि ।। १७१० ।।

प्रथ­म­श्चे­त्त्व­यै­वोक्तं क्षीयेते कामकर्मणी ।।
निःशे­ष­भो­ग­भु­क्त­त्वा­त्कृ­त्स्न­प्राप्त्या द्वयात्मनः ।। १७११ ।।

विशीर्यते ततः कार्यं कृत्स्नं च कारणं तथा ।।
ततः क्षेत्र­ज्ञ­रू­पस्य सर्व­भो­ज्या­ति­ल­ङ्घिनः ।। १७१२ ।।

केव­ला­ज्ञा­न­मा­त्रेण व्यवधानं परात्मनः ।।
अप्राप्य पर­मा­त्मा­न­म­न्त­राले व्यवस्थितिः ।। १७१३ ।।

इह त्वक्षि­ति­रे­वोक्ता भवता ज्ञानकर्मणोः ।।
न हास्य क्षीयते कर्मे­त्य­स्मा­द्ध्ये­वेति चोक्तितः ।। १७१४ ।।

पूर्वो­त्त­रो­क्त­व­च­सो­र्व्या­ह­तिर्वः प्रसज्यते ।।
अथ द्वितीयोऽभिमतो न तथाऽप्युपपद्यते ।।। १७१५ ।।

फलं त्वयैव व्याख्यातं द्वितीयस्याः समुच्चितेः ।। १७१६ ।।
द्वैतैकत्वधिया मृत्युं काम­क­र्म­स्व­ल­क्ष­णम् ।।
तीर्त्वाऽऽ­त्म­वि­द्यया विद्वानमृतत्वं समश्नुते ।। १७१७ ।।

न हास्य क्षीयते कर्म यद्य­त्का­म­य­तेऽ­क्ष­रात् ।।
तत्तत्सृजत इत्युक्त्योः पूर्वो­त्त­र­वि­रु­द्धता ।। १७१८ ।।

कामकर्मक्षये यस्मादमृतत्वं फलं श्रुतम् ।।
यदा सर्वे प्रमुच्युन्त इत्येवं बहुशः श्रुतौ ।। १७१९ ।।

कथमेति स कैवल्यमक्षितौ कामकर्मणोः ।।
कैवल्यावाप्तौ च कथं तयो­र­क्षि­ति­रु­य्यते ।। १७२० ।।

इतश्च व्याहतिः स्पष्टा ब्रह्मविद्या विरुध्यते ।।
देव­ता­ज्ञा­क­र­त्वे­ने­त्युक्तं यत्प्रणिधानतः ।। १७२१ ।।

ससाधनमिदं कर्म ब्रह्मभावेन पश्यतः ।।
तदेव ब्रह्मविज्ञानं कथं नेह विरुध्यते ।। १७२२ ।।

पृर्वं कृत्वाऽथ तत्कर्म पश्चा­द्ब्र­ह्मा­त्म­ने­क्षते ।।
व्युत्थाय कर्मणः कॉत्स्ना­न्मो­क्षा­श­सेति चेन्मतम् ।। १७२३ ।।

एवं समर्थ्यमानेऽपि न मुक्तिः कर्मणो भवेत् ।।
व्युत्थितस्यैव कर्मभ्यो मुक्त्य­भ्यु­प­ग­म­त्वतः ।। १७२४ ।।

अथ गार्दृस्थ्य एवायं कर्मकाले विभिन्नधीः ।।
कर्म कृत्वाऽथ तच्छान्तौ कर्म ब्रह्मेति वेत्स्यति ।। १७२५ ।।

एवं समादधानस्य कामितोऽर्थो न सिध्यति ।।
परा­धी­न­मृ­ते­र्जु­न्तो­र्मुक्तिः स्यात्पाक्षिकी यतः ।। १७२६ ।।

भेदं पश्यन्यदि मृतो बद्ध एव भवेन्नरः ।।
कर्म ब्रह्मेति संप­श्य­न्मृ­त­श्चे­द्ब्र­ह्म­सा­द्भ­वेत् ।। १७२७ ।।

भेद­दृ­ष्टे­र्ब­ली­य­स­त्वा­त्तस्याः स्वाभाविकत्वतः ।।
इच्छातश्चापि भाव्य­त्वा­त्त­दाऽपि स्यान्न निर्वृतिः ।। १७२८ ।।

कुर्वाण एव चेत्कर्म कर्म ब्रह्मेति पश्यति ।।
देव­ता­ज्ञा­क­र­त्वेन ब्रह्मविद्या विहन्यते ।। १७२९ ।।

इत्युक्तिर्वो विरुध्येत पूर्वो­त्त­र­वि­घा­ततः ।।
अपा­स्त­दे­व­ता­त्य­क्त­द्रव्यं कर्मापि दुर्घटम् ।। १७३० ।।

त्यक्त­द्र­व्या­दि­सं­भे­द­दृ­ष्ट्यैव नियतत्वतः ।।
यागा­दि­क­र्म­ण­स्त­स्मा­द­स­मी­ची­न­मु­च्यते ।। १७३१ ।।

ससाधनमिदं कर्म ब्रह्मैवेति समीक्षणम् ।।
ईदृङ्न लोके वेदेऽपि प्रसिद्धं कर्म कुत्रचित् ।। १७३२ ।।

आत्मानमित्यतो वाक्या­त्क­र्मे­दृ­क्चे­त्प्र­से­त्स्यति ।।
वाक्य­भे­द­प्र­स­ङ्ग­त्वा­न्नै­व­म­प्यु­प­प­द्यते ।। १७३३ ।।

एवंविधस्य कर्म­त्व­मु­पास्तिं चाऽऽत्मनस्तथा ।।
उभयं विदधद्वाक्यं भिद्येतैव न संशयः ।। १७३४ ।।

ब्रह्मार्पणमिति वचो यथोक्तेनैव वर्त्मना ।।
निर्धारितार्थं जानी­या­त्स्फु­ट­न्या­य­स­मा­श्र­यात् ।। १७३५ ।।

पूर्वाभ्यामन्य एवायं तृती­य­श्चे­त्स­मु­च्चयः ।।
श्रुतौ स्मृतौ वा लोके वा सिद्धश्चेदस्तु नान्यथा ।। १७३६ ।।

तस्मादसदिदं गीतमात्मानमिति यद्वचः ।।
तत्स­मु­च्च­य­सि­द्ध्य­र्थ­मि­त्ये­त­च्चो­क्त­यु­क्तितः ।। १७३७ ।।

कार्य­लि­ङ्ग­स­मु­च्छित्तिः फलं नाऽऽद्य­स­मु­च्चितेः ।।
युक्त्या कल्पयितुं शक्यं श्रुति­वा­क्य­वि­रो­धतः ।। १७३८ ।।

द्वैतै­क­त्वा­त्म­वि­ज्ञा­न­क­र्मा­नु­ष्ठा­यिनः पितुः ।।
पुत्रे न्यस्ता­त्म­भा­रस्य मरणात्परतः फलम् ।। १७३९ ।।

पृथिव्यै चैनमित्यादि त्र्यन्ना­त्मा­वा­प्ति­ल­क्ष­णम् ।।
श्रूयते स्पष्टवचनं देहादेर्नाशनं कुतः ।। १७४० ।।

न चाप्य­ति­क्र­मा­र्थत्वं जय्य इत्यस्य युक्तिमत् ।।
तस्याऽऽ­वि­श­ति­वा­क्येन विरोधादेव कारणात् ।। १७४१ ।।

मतं त्र्यन्ना­त्म­सं­प्रा­प्ते­रूर्ध्वं भोगस्य भुक्तितः ।।
साम­र्थ्या­त्क­ल्प्यते कार्यं प्राणानां नाशनं पितुः ।। १७४२ ।।

नैवं स्याद्ब्र­ह्म­बो­धस्य निष्फ­ल­त्व­प्र­स­ङ्गतः ।।
विद्याफलस्य संप्राप्तेः प्रागपि ब्रह्मबोधतः ।। १७४३ ।।

संसारानर्थनाशो हि विद्यायाः प्रार्थ्यते फलम् ।।
विद्यामृतेऽपि तच्चे­त्स्या­द्ध्रुवं विद्या निरर्थिका ।। १७४४ ।।

ध्वान्तनाशोऽथ विद्याायाः कार्यं चेदभिधीयते ।।
सर्वानर्थस्य नष्ट­त्वा­त्कि­म­न्य­त्स्या­त्त­मो­हुतेः ।। १७४५ ।।

उत्खा­त­द­न्तो­र­ग­व­द­विद्या किं करिष्यति ।।
विद्यमानाऽपि विध्व­स्त­ती­व्रा­न­र्थ­प­रं­परा ।। १७४६ ।।

काम­क­र्मा­दि­वि­ध्वस्तौ नावि­द्याऽ­न­र्थ­भु­क्तये ।।
प्रतीचोऽलमृते कार्यं कारणं न हि कारणम् ।। १७४७ ।।

विद्यमाना पुनः कामं कर्म चापि प्रवर्तयेत् ।।
अविद्येति मतं चेत्स्या­न्नै­व­म­प्यु­प­प­द्यते ।। १७४८ ।।

अविद्या विद्यमाना चेच्छ­क्तो­त्पा­द­यितुं बलात् ।।
नाशकद्रक्षितुं नाशात्कथं ते कामकर्मणी ।। १७४९ ।।

अथ कारणसंसर्गो नाशशब्देन भण्यते ।।
सर्वा­न्प्र­त्य­वि­शि­ष्ट­त्वा­त्फलं तन्न समुच्चितेः ।। १७५० ।।

तस्मा­त्सं­घा­त­वि­ध्वंसो निर्युक्तिक इहोच्यते ।।
अथ सत्यपि संमोहे संघा­त­श्चे­द्वि­शी­र्यते ।। १७५१ ।।

देह­हे­त्व­न्त­रा­भा­वा­द्भू­योऽपि विफलैव धीः ।।
आनर्थक्यं ब्रह्मधियो न च युक्तं कथंचन ।।

निःशे­षो­प­नि­ष­त्का­ण्ड­नै­र­र्थ­क्य­प्र­स­ङ्गतः ।। १७५२ ।।
अपि च ध्वस्त­निः­शे­ष­का­र्य­प्रा­णा­दि­सा­धनः ।।

श्रवाणादि कथं कुर्या­द्ब्र­ह्म­वि­द्यो­प­ल­ब्धये ।। १७५३ ।।
वैरा­ग्या­ति­श­या­र्थ­त्वा­द्गौणं चेन्नाशनं मतम् ।।

स्वव्या­ख्या­न­वि­रो­धि­त्वा­न्नै­व­म­प्यु­प­प­द्यते ।। १७५४ ।।
अत्रैव संनिमज्जन्ति प्राणाः सर्वे स्वकारणे ।।

मृतः शेते स आध्मातो जीव­तै­त­द्वि­रु­ध्यते ।। १७५५ ।।
फलं चैत­त्त्व­यै­वोक्तं प्रथमायाः समुच्चितेः ।।

तस्मान्न जीवतो वाच्यं गौणं विशरणं त्वया ।। १७५६ ।।
अत्रैवेति फलं चोक्त्वा प्रथमायाः समुच्चितेः ।।

व्युत्थि­त­स्या­खि­ला­द्भो­ज्या­न्ना­म­मा­त्रा­व­शे­षिणः ।। १७५७ ।।
पर­मा­त्मा­प­रि­ज्ञा­न­मा­त्र­याऽ­ना­प्त­नि­र्द्वयः ।।

ब्रह्मविद्याऽत आरब्धा ब्रह्मा­वि­द्या­नि­वृ­त्तये ।। १७५८ ।।
एतत्त्वदीयं व्याख्यानं तद्विरुद्धमिदं वचः ।।
संघातस्य विशरणं जीवतश्चेति दुःस्थितम् ।। १७५९ ।।

निषि­द्ध­ष­ड्वि­का­रस्य श्रुत्यैव परमात्मनः ।।
अविद्या तद्विकारश्च न युक्त­स्तू­ष­रा­दि­वत् ।। १७६० ।।

हिर­ण्य­ग­र्भ­द्वा­रैव मुक्तिरित्यपि यद्वचः ।।
तस्यापि दुषणं ज्ञेयं यथो­क्ता­न्या­य­व­र्त्मना ।। १७६१ ।।

हिर­ण्य­ग­र्भ­व­द्य­स्मा­त्क्रि­म्या­दे­रपि संगतिः ।।
ब्रह्मा­त्म­ल­क्ष­णाऽ­साध्वी तेनेयं कल्पना कृता ।। १७६२ ।।

संसा­रि­ताऽ­वि­शि­ष्टैव मोक्षादर्वाक्षु भूमिषु ।।
ब्रह्मा विश्वसृजो धर्म इत्या­दि­व­च­ना­न्मनोः ।। १७६३ ।।

विद्यां चेत्या­दि­म­न्रोऽपि न समुच्चयबोधकः ।।
पर­स्प­र­वि­रो­धि­त्वान्न सहा­व­स्थि­ति­स्तयोः ।। १७६४ ।।

कत्वा­यो­गा­त्पू­र्व­का­ल­त्व­म­वि­द्यायाः प्रतीयते ।।
स्वाभाविकं कर्म मृत्युर्विद्या शास्रीयमुच्यते ।। १७६५ ।।

मृत्युः स्वाभाविकं ज्ञानं शास्रीयं संभवस्तथा ।।
शास्री­ये­णे­त­र­त्तीर्त्वा विद्य­याऽ­मृ­त­म­श्नुते ।। १७६६ ।।

नाविरतो दुश्चरितादिति चाऽऽगमिकं वचः ।।
तपसा कल्मषं हन्ति विद्य­याऽ­मृ­त­म­श्नुते ।। १७६७ ।।

तस्मा­त्स­मु­च्च­या­शेह कार्या नाक्षरसंश्रयात् ।।
अप्रमाणं ब्रुवाणस्तु नास्मा­भि­र्वि­नि­वा­र्यते ।। १७६८ ।।

तस्मा­द्व्यु­त्थाय कर्मभ्यः प्रत्य­क्प्र­व­ण­बु­द्धयः ।।
प्रत्य­ग्या­था­त्म्य­वि­ज्ञा­ना­न्नि­र्वा­न्ती­त्येष निश्चयः ।। १७६९ ।।

अपु­ण्य­पु­ण्यो­प­रमे यं पुनर्भवनिर्भयाः ।।
शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ।। १७७० ।।

न चेह लोकशब्देन कश्चि­द­न्योऽ­भि­धी­यते ।।
परात्मनः स्वशब्देन विशेषणसमन्वयात् ।। १७७१ ।।

आत्मानमेवेति तथा चाऽऽत्मशब्दो विशेषणम् ।।
लोकस्य ग्रहणं तस्मान्न कर्मसमवायिनः ।। १७७२ ।।

विद्याप्रकरणे चोर्ध्वमात्मनैव विशेषणात् ।।
येषां नो ह्ययमात्मेति कार्य­लो­क­नि­वृ­त्तये ।। १७७३ ।।

अस्माद्ध्येवेति लिङ्गा­च्चे­ल्लो­कोऽन्यः स्यात्परात्मनः ।।
स्वलो­क­स्या­र्थ­वा­द­त्वा­न्नै­व­म­प्यु­प­प­द्यते ।। १७७४ ।।

साध­ना­न्त­र­सं­भाव्यं यावत्संभाव्यते फलम् ।।
कृत्स्नं तदात्मनो लोका­त्सि­द्ध­म­स्येति नूयते ।। १७७५ ।।

योऽकाम इति वाक्येन ह्यमेवार्थ उच्यते ।।
सर्वं कर्माखिलमिति स्मृतेरपि शुभं वचः ।। १७७६ ।।

यद्य­कृ­त्स्रोऽ­प­रि­ज्ञा­ना­ज्ज्ञा­ना­त्कार्त्स्न्यं समश्र्नुते ।।
आत्म­श­ब्द­प्र­यो­गोऽयं तदा लोके समञ्जसः ।। १७७७ ।।

अन्य­थाऽ­व्या­कृ­ता­व­स्था­ल्लो­का­दिति वदेच्छ्रुतिः ।।
ब्रह्म­लो­क­नि­रा­सार्थं वचः स्यात्सविशेषणम् ।। १७७८ ।।

नान्य­स्मि­न्प्र­कृ­तेऽ­न्योऽर्थो विरहय्य विशेषणम् ।।
ग्रहीतुं सुधिया शक्यो वैश्वानरवरादृते ।। १७७९ ।।

उक्तेन वचसा तावत्स्वाराज्यं विदुषोऽवदत् ।।
कथं नूपकरोत्यज्ञो देवादीनिति भण्यते ।। १७८० ।।

वर्णा­श्र­मा­भि­मानी सन्नतत्त्वज्ञः पराङ्भतिः ।।
कानेषोऽवति पशुवत्कर्मभिः कैश्च सर्वदा ।। १७८१ ।।

सर्वेश्वरेशिता ताव­त्पू­र्व­श्रु­त्यो­प­व­र्णिता ।।
यथा त्वज्ञस्य पारार्थ्यं तथेदानीं प्रपञ्चयते ।। १७८२ ।।

अज्ञातात्मा ह्यवि­द्यो­त्थ­सं­घातो देहलिङ्गवान् ।।
आत्म­लो­का­भि­धा­नाभ्यां देहा­न्तोऽ­त्रा­भि­धी­यते ।। १७८३ ।।

यागादिकार्यं देवा­दे­र्दे­ह­लि­ङ्ग­द्व­या­दृते ।।
नान्यथा युज्यते यस्मा­द­त­स्त­द्वा­नि­हो­च्यते ।। १७८४ ।।

कर्मणाऽनार्जितो यस्मान्न कश्चिदुपकारकृत् ।।
गृही देवा­दि­भि­स्त­स्मा­दा­र्जि­तोऽ­भू­त्स्व­क­र्मभिः ।। १७८५ ।।

देवादयोऽपि गृहिणा तद्वदेव स्वकर्मभिः ।।
आर्जिता एव विज्ञे­या­स्त­न्नि­मि­त्त­फ­ले­क्ष­णात् ।। १७८६ ।।

कर्त्रेह यत्कृतं कार्यं तद्भो­गा­या­व­क­ल्पते ।।
अकृताभ्यागमो यस्मा­त्कृ­त­ना­शश्च नेष्यते ।। १७८७ ।।

कर्तुत्वं चास्याविद्यातो न स्वतः कर्तृताऽऽत्मनः ।।
कर्तेव भोक्ताऽ­प्य­ज्ञः­स्या­द्वि­द्यायां द्वयमप्यसत् ।। १७८८ ।।

अभु­क्त­स्या­प्यु­पा­त्तस्य ह्यवि­द्या­पि­हि­ता­त्म­नाम् ।।
आत्म­या­था­त्म्य­वि­ज्ञा­ना­त्क­र्म­णोऽतः क्षयो भवेत् ।। १७८९ ।।

सर्वं सर्वस्य कार्यं स्यात्सर्वं सर्वस्य कारणम् ।।
असंहतं मिथो नालं जडं वस्तु प्रवर्तितुम् ।। १७९० ।।

सर्वः सर्वस्य भोक्तैव चित्प्रा­धा­न्य­वि­व­क्षया ।।
बाह्यो­प­र­क्त­बु­द्धीनां भोगश्चिदवसानता ।। १७९१ ।।

मधु­ब्रा­ह्म­ण­वि­द्या­या­मि­द­मेव प्रवक्ष्यते ।।
वस्त्वै­का­त्म्य­प्र­सि­द्ध्यर्थं प्राधा­न्ये­ना­ति­य­त्नतः ।। १७९२ ।।

एवं सत्ययमात्मेति संहतो जगदात्मना ।।
लोको भोज्यः पशुर्ज्ञेयो देवादेरुषकारकः ।। १७९३ ।।

देवा­दि­भि­रु­पा­त्तोऽ­य­मि­त्ये­त­द्ग­म्यते कुतः ।।
अस्यार्थस्य प्रसिद्ध्यर्थं स यदित्यादि भण्यते ।। १७९४ ।।

यो देवता समुद्दिश्य द्रव्यत्यागः स उच्यते ।।
याग आसे­च­ना­धि­क्या­द्धो­माख्यः स्यात्स एव तु ।। १७९५ ।।

लोकत्वस्य विधे­य­त्वा­द्य­ज्जु­हो­ती­त्य­नू­द्यते ।।
नानूक्तिं केचिदिच्छन्ति देवा­द्या­र्जि­त­सि­द्धये ।। १७९६ ।।

नावश्यकार्यता चैषां सिद्धाऽ­तोऽ­न्यत्र मानतः ।।
नित्य­त्वा­द्धे­तु­व­चनं न युक्त्याऽ­तोऽ­व­ग­म्यते ।। १७९७ ।।

यच्चा­प्य­ह­र­ह­र्वे­द­म­नु­ब्रूते प्रयत्नवान् ।।
ऋषीणां तेन लोकोऽयं गृहस्थो भोज्य उच्यते ।। १७९८ ।।

उत्तरेष्वपि वाक्येषु समाना योजनेक्ष्यताम् ।।
अक्षराणां न तत्रास्ति वस्तु किंचि­त्ति­रो­हि­तम् ।। १७९९ ।।

यस्मात्सर्वाणि भूतानि सर्व­दो­ष­क­रो­त्य­यम् ।।
अविनाशमतस्तानि तस्ये­च्छ­न्त्या­त्म­दे­ह­वत् ।। १८०० ।।

स्वक­र्मा­र्जि­त­सं­भो­ग­दा­यि­त्वेऽस्ति न कश्चन ।।
देवादीनां विशेषोऽत्र गृह­स्थ­स्वा­त्म­दे­हयोः ।। १८०१ ।।

ब्रह्म­वि­द्या­हु­ता­शेन विना­शोऽ­स्या­प्य­क­र्तुता ।।
अयं नाशो महानस्य ह्यन्यः शक्या­श्चि­कि­त्सि­तुम् ।। १८०२ ।।

अतः श्रुतिवचो न्याय्यं तस्मा­दे­षा­मि­ती­रि­तम् ।।
मा भूत्स­र्व­स्व­हा­निर्नो ब्रह्म­या­था­त्म्य­वि­द्यया ।। १८०३ ।।

अव­श्य­मृ­ण­व­त्कृत्यं याव­ज्जी­वा­दि­वा­क्यतः ।।
यथोक्तं विदितं वेदे तथा स्मृतिवचःसु च ।। १८०४ ।।

अवदानविधौ तच्च विशेषेण विचारितम् ।।
ऋणं हेत्यर्थवादेषु तस्मा­त्कु­र्या­द्य­थो­दि­तम् ।। १८०५ ।।

प्रवृत्तौ च निवृत्तौ च यथो­क्त­स्या­धि­का­रिणः ।।
स्वातन्त्र्ये सति संसारसृतौ कस्मा­त्प्र­व­र्तते ।। १८०६ ।।

न तु विध्व­स्त­निः­शे­ष­सं­सा­रा­न­र्थ­व­र्त्मनि ।।
निवृत्तिलक्षणे वाच्यं केनायं प्रेर्यतेवशः ।। १८०७ ।।

रक्षन्ति ननु देवास्तं, न विशि­ष्टा­धि­का­रि­णम् ।।
तेऽपि रक्षन्ति यत्नेन न च सामान्यमानुषम् ।। १८०८ ।।

अन्यथा कृतनाशः स्याद­कृ­ता­भ्या­ग­म­स्तथा ।।
सामा­न्य­न­र­र­क्षायां तस्मा­दे­त­द­नु­त्त­रम् ।। १८०९ ।।

नाप्यविद्येति वक्तव्यं तस्या ध्वान्तै­क­मा­त्रतः ।।
मिथ्या­धी­मा­त्र­हे­तु­त्वा­त्प्रे­र­कत्वं न युक्तिमत् ।। १८१० ।।

अन­र्थ­प­रि­पा­क­त्व­मपि जानन्प्रवर्तते ।।
पारतन्त्र्यमृते दृष्टा प्रवृ­त्ति­र्ने­दृशी कचित् ।। १८११ ।।

तस्मा­च्छ्रे­यो­र्थिनः पुंसः प्रेर­कोऽ­नि­ष्ट­क­र्मणि ।।
वक्त­व्य­स्त­न्नि­रा­सा­र्थ­मि­त्यर्था स्यात्परा श्रुतिः ।। १८१२ ।।

प्राप्ता­शे­ष­पु­म­र्थोऽयं स्वत एवेह मानवः ।।
निर­स्ता­शे­षा­न­र्थश्च तन्मो­हा­द्वि­प­री­तधीः ।। १८१३ ।।

अना­प्त­पु­रु­षा­र्थोऽयं निःशे­षा­न­र्थ­सं­कुलः ।।
इत्य­का­म­य­ता­ना­प्ता­न्पु­म­र्था­न्सा­ध­नै­र्जडः ।। १८१४ ।।

जिहासति तथाऽ­न­र्था­न­वि­द्वा­ना­त्मनि श्रितान् ।।
अवि­द्यो­द्भू­त­कामः सन्नथो खल्विति च श्रुतिः।। १८१५ ।।

अकामतः क्रिया काचिदृश्यते नेह कस्यचित् ।।
यद्यद्धि कुरुते किंचि­त्त­त्त­त्का­मस्य चेष्टितम् ।। १८१६ ।।

काम एष क्रोध एष इत्यादिवचनं स्मृतेः ।।
प्रवर्तको नापरोऽतः कामादित्यवसीयते ।। १८१७ ।।

प्राग्दा­रा­द्य­भि­सं­ब­न्धा­दे­का­क्येव पुमानभूत् ।।
ऊर्ध्वं दारा­दि­सं­ब­न्धा­त्पु­त्र­पो­त्रा­दि­सं­युतेः ।। १८१८ ।।

विस्ता­रि­त­कु­टुम्बं तं कस्मै­चि­त्क­श्चि­द­न्तिके ।।
व्याचष्टे कामसंभूतं पुत्र­पौ­त्रा­दि­वि­स्त­रम् ।। १८१९ ।।

प्राग्दा­रो­द्व­ह­ना­त्कृत्स्नं कुटुम्बं यत्प्रपश्यसि ।।
आत्मैवैकः पुमा­ना­सी­न्नाऽऽ­सी­त्पु­त्रादि किंचन ।। १८२० ।।

आत्म­प्र­त्य­य­नि­र्ग्राह्यं केवलं प्रागभूदिदम् ।।
पुत्र­पौ­त्रा­दि­सं­भिन्नं कुटुम्बं यत्प्रपश्यसि ।। १८२१ ।।

कामा­द्य­शे­ष­बी­जा­त्माऽ­प्र­ज्ञा­ता­त्मै­क­त­त्त्वकः ।।
सोऽति­ग्र­ह­ग्र­हा­विष्टो विप­री­ता­र्थ­नि­श्चयः ।। १८२२ ।।

स्वतः कृत्स्नोऽ­प्य­सं­बो­धा­द­कृत्स्नो विपरीतधीः ।।
तृष्णया प्रहितो बालः सोऽकामयत मानवः ।। १८२३ ।।

कर्मा­धि­का­र­हे­तुर्मे जाया स्यात्क­र्म­सा­ध­नम् ।।
पूर्वपूर्वस्य हेतु­त्व­म­थ­श­ब्दै­रि­हो­च्यते ।। १८२४ ।।

अथ प्रजात्मना तस्यां जायेय स्थास्नुकर्मणे ।।
स पुत्रेणैवेति वचस्तथा च श्रूयते स्फुटम् ।। १८२५ ।।

दैवमानुषवित्तेन संप­न्नोऽ­ह­म­थो­त्त­रम् ।।
कर्म कुर्यां यथाप्राप्तं दृष्टा­दृ­ष्टा­र्थ­सि­द्धये ।। १८२६ ।।

एतावानेव कामोऽस्य नातोऽ­न्योऽ­र्थोऽ­व­शि­ष्यते ।।
साध्यसाधनरूपे हि द्वे एवात्रैषणे यतः ।। १८२७ ।।

एषणे एव चाप्येते साध्य­सा­ध­न­क­ल्पिते ।।
पुम­र्थ­स्या­न­व­सि­ते­रै­का­त्म्य­स्या­प्र­सि­द्धितः ।। १८२८ ।।

कर्म­सा­ध­न­रू­प­त्वा­ज्जा­या­देर्न पुमर्थता ।।
लोक­त्र­या­सं­गृ­ही­ते­रे­ता­वा­निति दुर्घटम् ।। १८२९ ।।

न लोकत्रयसाध्यस्य साध­नै­क­व्य­पा­श्र­यात् ।।
आक्षिप्तसाध्यं साध्य­त्वा­दि­त­र­त्क­र्म­सा­ध­नम् ।। १८३० ।।

लोकत्रयफलं यस्मा­दु­त्प­त्त्या­द्या­त्मकं मतम् ।।
कर्मानाक्षिप्य नाऽऽत्मानं तच्चापि लभते स्वतः ।। १८३१ ।।

समाप्तिः कर्मणो नापि लोकत्रयफलादृते ।।
अन्तर्णीतफलं तस्मादिह साधनमुच्यते ।। १८३२ ।।

एषणैकैव तेने­य­मु­त्त­र­त्रा­भि­धा­स्यते ।। १८३३ ।।
अर्था­त्सा­ध्या­भि­धानं स्यात्सा­ध­ना­भि­हितौ, यथा ।।
भोजनेऽभिहिते पुंसो ह्यर्था­त्तृप्तिः ।। प्रतीयते ।। १८३४ ।।

साध्यसाधनरूपे द्वे एषणे काम उच्यते ।।
अय­था­व­स्तु­रू­प­त्वा­दा­त्मा­ज्ञा­नै­क­हे­तुके ।। १८३५ ।।

विश्वासोऽतोऽत्र विदुषा न कार्यः स्वप्नलाभवत् ।।
व्युत्था­यै­वै­ष­णा­भ्योऽतः प्रत्यग्ज्ञानं समाश्रयेत् ।। १८३६ ।।

इच्छन्नपि यतो नातो भूयो विन्देदतोऽधिकम् ।।
तस्मा­द­वि­द्या­भू­मिष्ठः कृत्स्न एतावता भेवत् ।। १८३७ ।।

एकैकमपि जाया­दे­र्या­व­न्नाऽऽ­प्नोति पूरुषः ।।
अकृ­त्स्न­स्ता­व­द­स्मीति जङः संभावयत्ययम् ।। १८३८ ।।

यावदेेते यथोद्दिष्टा आप्ताः स्युः कामपूर्वकाः ।।
कृतस्नोऽस्मीति तदाऽऽत्मानं संभावयति मानवः ।। १८३९ ।।

आत्म­जा­या­प्र­जा­वि­त्त­वि­द्याभिः पञ्चभिः कृतम् ।।
कर्म पाङ्त्क भवेदेवं पाङ्लेन च्छन्दसा मितम् ।। १८४० ।।

वाह्यस्य कर्म­ण­स्ता­व­दा­त्माद्यैः पाङ्त्कतोदिता ।।
तेष्वसत्स्वथ पाङ्त्क­त्व­मु­च्य­तेऽ­ध्या­त्म­क­र्मणः ।। १८४१ ।।

वाह्या­ध्या­त्मि­क­भे­देन कर्मै­त­दु­भ­या­त्म­कम् ।।
पाङ्लं यथा तद्भवति तथैतदभिधीयते ।। १८४२ ।।

अध्यात्मं मन एवाऽऽत्मा तदा­य­त्त­त्व­का­र­णात् ।।
वाग्जा­या­दि­प्र­वृ­त्तीनां यजमानवदेव तत् ।। १८४३ ।।

वाक्व जायेति विज्ञेया तदधीनत्वकारणात् ।।
यद्ध्यायतीह मनसा वाचा वक्ति तदेव हि ।। १८४४ ।।

संप्रधार्य मनो वाचा मन्त्र­लौ­कि­क­रू­पया ।।
अथ प्रस्प­न्द­तेऽ­त्यर्थं सा क्रिया प्राण उच्यते ।। १८४५ ।।

आगमार्थं विनिश्चित्य मनसाऽथ प्रवर्तते ।।
प्राणः प्रजेति तां चेष्टां प्राहुर्वेदविदो जनाः ।। १८४६ ।।

द्विधै­वाऽऽ­ध्या­त्मिकं वित्तं कार्य­भे­दा­त्प्र­च­क्षते ।।
दैव­मा­नु­ष­ताऽ­प्यस्य साधनत्वोपचारतः ।। १८४७ ।।

परीक्ष्य चक्षुषा यस्माल्लभते गोधनादिकम् ।।
चक्षुः स्यान्मानुषं वित्तं यथाऽऽ­यु­र्घृ­त­मु­च्यते ।। १८४८ ।।

दैवभावाप्तितो दैवं ज्ञानं वित्तमिहोच्यते ।।
तत्सा­ध­न­त्वा­च्छो­त्रस्य श्रोत्र­मा­ध्या­त्मिकं धनम् ।। १८४९ ।।

बाह्य­वा­गा­दि­चेष्टा च या चान्तःकरणाश्रया ।।
देहेऽभिव्यज्यते यस्मादात्मा कर्म ततो भवेत् ।। १८५० ।।

संमितः संख्यया पादैः पाङ्त्कस्य च्छन्दसो यतः ।।
पाङ्को यज्ञस्ततः सद्भिः सर्वदा समुदाहृतः ।। १८५१ ।।

तत्का­र्य­त्वा­त्पशुः पाङ्लो यच्च किंचिच्चराचरम् ।।
तच्चापि पञ्चभूतोत्थं विद्या­त्पा­ङ्त्क­म­शे­षतः ।। १८५२ ।।

पाङ्त्क­क­र्मा­त्मको यज्ञो यज्ञकार्यमिदं जगत् ।।
एतद्याथात्म्यतो ज्ञात्वा तदे­वाऽऽ­प्नो­त्य­शे­षतः ।। १८५३ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके प्रथमाध्यायस्य चतुर्थं ब्राह्मणम्

अथ योऽन्यामिति ग्रन्था­दा­र­भ्यो­रु­प्र­य­त्नतः ।।
अविद्यायाः समाम्नाता आ समा­प्ते­र्वि­भू­तयः ।। १ ।।

अध्यायस्यात्र चावि­द्वा­न्व­र्णा­द्या­त्मा­भि­मा­न­वान् ।।
धर्मेण नियतात्मा सञ्जु­हो­त्या­दि­स्व­क­र्मभिः ।। २ ।।

देवा­दि­क्रि­मि­प­र्यन्तं बिभर्ति जगदव्ययम् ।।
एवमेव जगद्योनिरेकैकः कर्मकृन्नरः ।। ३ ।।

कृतस्नेन जगता यद्व­त्क­र्म­कृ­त्स­मु­पा­र्जितः ।।
यथो­क्त­क­र्म­भि­स्तेन जग­त्त­द्व­दु­पा­र्जि­तम् ।। ४ ।।

स्वदेहवद्यतो भुङ्क एकैकोऽनवशेषतः ।।
साधारणानि वस्तूनि तथाऽ­सा­धा­र­णा­न्यपि ।। ५ ।।

स्वक­र्म­णाऽ­नु­पा­त्तस्य न च भोगोऽत्र दृश्यते ।।
एकै­के­नो­प­का­रि­त्वा­त्त­स्मा­ज्ज­ग­दु­षा­र्जि­तम् ।। ६ ।।

स्वभावतोऽखिलं कर्म धर्मा­ध­र्मा­दि­ल­क्ष­णम् ।।
साधा­र­ण­वि­शे­षा­त्म­फ­ल­मा­र­भते द्विधा ।। ७ ।।

गुणप्रधानभावेन साधारणविशेषतः ।।
सूत्रादेः कर्मणः कार्यं क्रिम्य­न्त­स्या­भि­जा­यते ।। ८ ।।

द्रव्या­दि­द­र्श­ना­धीनं फलं सर्वस्य कर्मणः ।।
साधा­र­णा­दि­सं­भे­द­भिन्नं तेन क्रियाफलम् ।। ९ ।।

क्वचि­त्सा­धा­र­णा­त्मैव तथाऽसाधारणं क्वचित् ।।
क्वचिच्चोभयथा कार्यं द्रव्या­दी­क्ष­ण­चि­त्रतः ।। १० ।।

समा­स­व्या­स­त­स्त­स्मा­द्य­थो­क्त­ज्ञा­न­क­र्मभिः ।।
एकैकेन जग­त्कृ­त्स्न­मु­पात्तं भोगसिद्धये ।। ११ ।।

सर्वः सर्वस्य कर्ता च कार्यं चापि यथा तथा ।।
मधु­वि­द्या­प्र­स­ङ्गेन विस्प­ष्ट­म­भि­धा­स्यते ।। १२ ।।

यदजीजनत्फलं कर्ता स्वक­र्म­ज्ञा­न­सा­धनः ।।
सप्ता­न्न­प्र­वि­भा­गेन तद्विभज्य प्रदर्श्यते ।। १३ ।।

त्रीण्यन्नानि फलं कर्तु­श्च­त्वा­र्य­न्नानि यानि तु ।।
प्रयो­ग­स­म­वा­यि­त्वा­त्तानि स्युः कर्मसाधनम् ।। १४ ।।

विज्ञानात्मा पिता तावन्न मनो न प्रजापतिः ।।
अवि­शि­ष्टा­धि­का­रि­त्वान्न विज्ञा­ना­त्म­नोऽ­परः ।। १५ ।।

सिसृ­क्षि­त­त्वा­न्म­न­स­स्तथा त्र्यन्नात्मनः प्रभोः ।।
साधारणात्मनः स्रष्टा नातः क्षेत्र­ज्ञ­तोऽ­परः ।। १६ ।।

ग्रन्था­र्थ­धा­र­णा­श­क्ति­र्मेधा यद्यपि भण्यते ।।
तथाऽपि ज्ञानमेवेह साध­न­त्वा­द्वि­व­क्षि­तम् ।। १७ ।।

शास्री­य­लौ­कि­क­ज्ञा­ना­वि­शे­ष­ग्र­ह­सि­द्धये ।।
सामा­न्य­ज्ञा­न­ग्र­हणं मेध­ये­त्य­भि­धि­त्सि­तम् ।। १८ ।।

तपःशब्देन कृच्छ्रादि यदि नामाभिधीयते ।।
तथाऽपि कर्मग्रहणं सप्ता­न्नो­द्भू­ति­हे­तुतः ।। १९ ।।

धिया धियेति लिङ्गाच्च गृह्येते ज्ञानकर्मणी ।।
मेधातपोगिरा नान्ये ग्राह्ये त्रदफलत्वतः ।। २० ।।

पाङ्लं हि प्रकृतं कर्म वेदेति ज्ञानमेव च ।।
विहाय नातः प्रकृतं युक्तोऽ­प्र­कृ­त­सं­ग्रहः ।। २१ ।।

मेधातषोतिरेकेण नान्य­त्स्या­त्सा­धनं यतः ।।
प्रसिद्धत्वादतो हीति व्याचष्टे श्रुतिरञ्जसा ।। २२ ।।

अस्य भोक्तृसमूहस्य साधा­र­ण­म­ची­क्लृ­पत् ।।
एकमन्नं पिता सृष्ट्वा तच्चेदं यदिहाद्यते ।। २३ ।।

यदिदं प्राणि­भि­र्नि­त्य­म­द्य­तेऽ­ह­र­ह­स्तृषा ।।
साधारणमिदं युक्तं सर्व­भू­त­स्थि­ते­स्ततः ।। २४ ।।

स य एत­दु­पा­स्तेऽ­न्न­म­सा­धा­र­ण­रू­पतः ।।
पाप्मनो नैव स द्रष्टा व्यावर्तत इहाऽऽतुरः ।। २५ ।।

उपासनं च तात्पर्यमिह श्रुत्याऽ­भि­धी­यते ।।
मोघमन्नमिति तथा मन्त्रे ताच्छी­ल्य­नि­न्द­नम् ।। २६ ।।

वैश्वदेवं हि नामै­त­द्य­द­न्न­मु­प­सा­ध्यते ।।
नालमेतद्धि सर्वेषां पाप्मनां विनिवृत्तये ।। २७ ।।

इत्येवं केचिदिच्छन्ति तत्तु युक्त्या न युज्यते ।।
अनू­क्ते­र्य­दि­द­मिति सिद्धोऽ­र्थोऽ­नू­द्यते यतः ।। २८ ।।

प्रात्यक्ष्यं न च तस्यास्ति शास्र­मा­त्र­प्र­मा­णतः ।।
यथा सर्वा­त्तृ­व­क्त्रा­न्त­स्थस्य प्रत्यक्षता तथा ।। २९ ।।

प्रतिप्राणि ममेदं स्यादभिलाषश्च दृश्यते ।।
सर्व­प्रा­ण्यं­श­मि­श्रत्वं ततोऽ­स्मि­न्न­व­सी­यते ।। ३० ।।

नाऽऽत्मार्थं पाचयेदन्नमिति चापि स्मृतेर्वचः ।।
तैर्द­त्ता­न­प्र­दा­यैभ्यो यो भुङ्ले स्तेन एव सः ।।
अन्नादे भ्रूणहा मार्ष्टीत्यादीह वचनं स्मृतेः ।। ३१ ।।

तस्यापि चान्तः­पा­ति­त्वा­त्स­र्वा­द्य­स्यैव युक्तिमान् ।।
ग्रहस्तस्य गृहीतौ तु नास्या­न्तः­पा­तिता तथा ।। ३२ ।।

असृ­ष्टा­वि­नि­यो­गत्वे प्राप्नु­त­स्त­द्ग्रहे सति ।।
सर्व­प्रा­णि­भि­रा­द्यस्य तच्चानिष्टं प्रसज्यते ।। ३३ ।।

अव्यावृत्तिश्च पाप्मभ्यो वैश्व­दे­वा­न्न­सं­ग्रहे ।।
न न्याय्यं वचनं तस्य शास्र­मा­त्र­व्य­पा­श्र­यात् ।। ३४ ।।