बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥संबंधभाष्यवार्तिकम् ॥ (९)
अल्पीयःपापहानिश्च नापि शब्दात्प्रतीयते ।।
न स पाप्मन इत्यस्मादश्रुता न च गृह्यते ।। ३५ ।।
सर्वाद्यान्नगृहीतौ तु हेतुर्गमक इष्यते ।।
असाधारणकारित्वं तस्य साधारणात्मनः ।। ३६ ।।
सर्वप्राणभृदन्नस्य तस्माद्ग्रहणमिष्यते ।।
उक्तयुक्तिबलादत्र नान्यस्येति विनिश्चितिः ।। ३७ ।।
पापानिर्मोकहेतूक्तिर्मिश्रमित्यभिधीयते ।।
सर्वार्थस्य हि पापाय यतोऽसाधारणीक्रिया ।। ३८ ।।
प्रक्षेपोऽग्नौ हुतं विद्यात्तत्पूर्वं बलिकर्म च ।।
प्रहुतं चेह विज्ञेयं ते देवेभ्यो ददौ पिता ।। ३९ ।।
देवेभ्योऽन्ने यतः प्रत्ते हुतप्रहुतलक्षणे ।।
तानुद्दिश्य ततोऽद्यापि जुह्वति प्र च जुह्वति ।। ४० ।।
यतः सूत्रपदे द्वित्वमविशेषेण चोदितम् ।।
श्रौतस्मार्तविभागेन तत एतद्विकल्पितम् ।। ४१ ।।
स्मार्तान्नानन्तरोक्तत्वात्स्मार्तत्वं स्याद्दूयोस्तयोः ।।
अग्निहोत्राभिसंबन्धात्स्यातां वा श्रुतिचोदिते ।। ४२ ।।
मन्त्रे द्वित्वाविशिष्टत्वाद्धुतप्रहुतलक्षणे ।।
श्रुत्याऽतस्ते विकल्प्येते श्रौते स्मार्ते हि तुल्यवत् ।। ४३ ।।
दर्शश्च पौर्ममासश्च देवान्ने ते यतः श्रेते ।।
प्रायस्ताभ्यां न कामाय यष्टव्यमिति गम्यते ।। ४४ ।।
नेहेष्टयो निषिध्यन्ते देवप्राधान्यसिद्धये ।।
ताच्छीलिकोकञ्श्रवणात्तच्छीलत्वं निवार्यते ।। ४५ ।।
प्रसक्तान्यपि नोच्यन्ते त्रीण्यन्नान्यत्र कारणात् ।।
तेषां फलत्वादुक्तेभ्यः साधनेभ्योऽन्यता यतः ।। ४६ ।।
सौकर्यप्रतिपत्तेश्च भूयोविषयतस्तथा ।।
साधनैकसजातित्वादानन्तर्यमकारणम् ।। ४७ ।।
पयोऽन्नमेव प्रायेण मनुष्याः पशुभिः सह ।।
युञ्जते पय एवाग्ने तेषामन्नमतोऽस्तु तत् ।। ४८ ।।
भुञ्जते पय एवाग्रे क्रमेणान्यत्तृणादि हि ।।
अतोऽनुमीयते पित्रा तेभ्यः प्रत्तं पयः पुरा ।। ४९ ।।
पशवः पय एवाग्रे भुञ्जते नापरं ततः ।।
कथमेतद्विजानीम इत्येतदभिधीयते ।। ५० ।।
यत एवमतो लोके कुमारं जातमग्रतः ।।
तातरूपव्यवहितं लेहयन्ति घृतं जनाः ।। ५१ ।।
तस्यानु तदभावे वा पाययन्ति स्तनं शिशुम् ।।
पशुष्वपि तथा जातं वत्सं कश्चित्प्रपृच्छति ।। ५२ ।।
कियांस्ते वयसा वत्स इत्याचष्टे वयो यथा ।।
अतृणाद इति तृणं नाद्यप्यत्ति मनागपि ।। ५३ ।।
वर्तते पयसैवासावद्यापीत्यवसीयते ।।
प्राण्यप्राणि जगत्सर्वं तस्मिन्नेव प्रतिष्ठितम् ।। ५४ ।।
पयसीदं जगन्मग्नमित्येतद्गम्यते कुतः ।।
प्रसिद्धेर्गम्यते न्यायाद्यतोऽसावभिधीयते ।। ५५ ।।
आहुतिः पय एव स्यादज्यं वा पय एव वा ।।
पय एवाऽऽहुतिः सर्वमित्येतच्च श्रुतेर्मितेः ।। ५६ ।।
अथैषाऽऽज्याहुतिर्यज्ञे यद्धविः सर्वरूपकम् ।।
पशुश्चाप्याज्यमेवैतत्करोतीत्यपि चाऽऽगमः ।। ५७ ।।
आज्याभिघारसंस्कारात्सर्वमेव पयो हविः ।।
पयस्येव जगत्कृत्स्नमग्निहोत्रे प्रतिष्ठितम् ।। ५८ ।।
ते वा एते इति तथा परिणामोऽखिलं जगत् ।।
अग्निहोत्राहुतेः साक्षाच्छ्रुतावेव समीरितम् ।। ५९ ।।
अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते ।।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ।। ६० ।।
पयोद्रव्याहुतेश्चैतत्परिणामोऽखिलं जगत् ।।
एतच्च श्रुतितः सिद्धं विश्वमाहुतिकारणम् ।। ६१ ।।
यथोक्तदर्शनस्तुत्यै दर्शनान्तरकुत्सनम् ।।
तस्मिन्सर्वमिति ह्यस्य दर्शनस्य विधित्सया ।। ६२ ।।
पयसैवाग्निहोत्रं हि जुहत्संवत्सरं द्विजः ।।
जयत्येव पुनर्मृत्युं न भूयो मृतिभाग्भवेत् ।। ६३ ।।
संवत्सरे प्रयोगाणामग्निहोत्रे हि संख्यया ।।
षष्ट्युत्तराणि त्रीण्येव शतानीति विनिश्चितम् ।। ६४ ।।
क्षपाहान्यपि तावन्ति संख्ययेह भवन्ति हि ।।
शतानि सप्त संख्याताः प्रयोगार्धाश्च विंशतिः ।। ६५ ।।
याजुष्मत्योऽपि तावत्य इष्टकाः स्युः प्रजापतेः ।।
संवत्सराग्नेश्चित्यस्य पुंसो ना़ड्यस्तथैव च ।। ६६ ।।
संपदैवाऽऽहुतीर्विद्वान्संपाद्याग्नेस्तथेष्टकाः ।।
संवत्सरमवाप्नोति स्वनाडीसंख्यया नरः ।। ६७ ।।
पुमान्संवत्सरोऽग्निश्च नाड्यहोरात्रयाजुषैः ।।
संपदैते समाः सर्वे तस्मात्संवत्सरश्रुतिः ।। ६८ ।।
संवत्सरात्मसंपत्त्या कालात्मानं समश्नुते ।।
इत्येवंदृष्टयो धीरा यदाहुरसदेव तत् ।। ६९ ।।
पयस्यन्तर्हितं विश्वं पश्यन्नेवं पयो नरः ।।
एकयैव स आहुत्या जगदात्मानमश्नुते ।। ७० ।।
तत्रैवं सति को मूढो द्राघीयांसं प्रतीक्षते ।।
संवन्सरावधिं कालं सकृदाहुतिसाधने ।। ७१ ।।
पयो द्रव्यं यथातत्त्वदर्शी चेच्छ्रद्दयाऽन्वितः ।।
यदैवाहर्जुहोतीत्थं हन्ति मृत्युं तदैव सः ।। ७२ ।।
एकयैव स आहुत्या देवेभ्योऽन्नं ह्यशेपतः ।।
प्रयच्छति यतो नातः प्रयोगान्तरमीक्ष्यते ।। ७३ ।।
हुतमेवं जगत्कृत्स्नं नातोऽन्यदवशिष्यते ।।
यथोक्तदर्शनात्तस्मात्सर्वाप्त्या मृत्युजिद्भवेत् ।। ७४ ।।
उक्तवद्धृदि संभाव्य वक्ष्यमाणान्यपि श्रुतिः ।।
अन्नानि कस्मादित्याह प्रश्नवाक्यविवक्षया ।। ७५ ।।
अद्यमानान्यथान्नानि यथोक्तान्यत्तृभिः सदा ।।
कस्मात्क्षयं न संयान्ति यवपूर्णकुसूलवत् ।। ७६ ।।
प्रश्नस्य कस्मात्तानीति श्रुत्यैवाऽऽचार्यभूतया ।।
पुरुषो वा इति गिरा हेतुरुक्तोऽक्षये परः ।। ७७ ।।
अद्यते चेत्सदैवान्नं जन्यते न तु तत्ततः ।।
यथोक्तः स्यादयं दोषो न तु तन्नेह जन्यते ।। ७८ ।।
अन्नाक्षयत्वहेतुत्वात्पुरुषोऽक्षितिरुच्यते ।।
स हि धीहाप्रबन्धेन सर्वदाऽन्नं करोत्यतः ।। ७९ ।।
क्रियाबुद्धिप्रबन्धेन यतो भोक्ताऽष्यहर्निशम् ।।
तदन्नं जनयत्येव तस्मादन्नं न हीयते ।। ८० ।।
भोगदस्यैव भोगेन सृज्यमानत्वहेतुतः ।।
अन्नाक्षयो भवेदेवंं तयोरव्यतिरेकतः ।। ८१ ।।
सुखदुःखादिसंवित्तिः फलं पूर्वस्य कर्मणः ।।
रागद्वेषक्रिया तत्र स्यात्फलान्तरसिद्धये ।। ८२ ।।
रागादिपूर्वकं कर्म जायते फलवद्यतः ।।
रागादिरहितं तत्तु निष्फलं सुप्तवागिव ।। ८३ ।।
को हेतुरक्षयत्वे स्यादिति पृष्टमथाधुना ।।
तद्विदः फलसिद्ध्यर्थे भूयः प्रश्नोऽयमुच्यते ।।
अक्षितित्वं कथं पुंस इत्येतच्चाधुनोच्यते ।। ८४ ।।
स हीदमन्नं कुरुते तत्तत्कालप्रसूतया ।।
धिया धिया हि पुरुषः कर्मभिश्चान्नमात्मनः ।। ८५ ।।
भुज्यमानान्यपि ततो न क्षीयन्ते प्रबन्धतः ।। ८६ ।।
यथैव पुरुषोऽन्नानां भोक्ताऽत्यन्तं तथैव सः ।।
कर्ताऽप्यत्यन्तमेव स्यादन्योन्याव्यतिरेकतः ।। ८७ ।।
एवं प्रबन्धरूपेण साध्यसाधनलक्षणम् ।।
अविद्यापटसंवीतचेतंसां स्थास्न्विवेक्षते ।। ८८ ।।
एतच्च भण्यते श्रुत्या पुंसो वैराग्यसिद्धये ।।
संसारादविरक्तस्य मुक्तीच्छा नेह कस्य चित् ।। ८९ ।।
फलहेत्वोर्मिथोऽत्यन्तं सर्वदाऽव्यतिरेकतः ।।
सम्यग्ज्ञानादृते नास्ति तद्धेतूच्छित्तिकारणम् ।। ९० ।।
त्यक्त्वाऽन्यत्सकलं तस्मात्सम्यग्ज्ञानस्य लब्धये ।।
मनोवाक्तनुचेष्टाभिर्महान्तं यत्नमाचरेत् ।। ९१ ।।
पुंसोऽक्षितित्वं यो वेद तस्येदं फलमुच्यतचे ।।
सोऽन्नमत्ति प्रतीकेन वृत्त्वाऽन्नं मुख्ययाऽत्ति सः ।। ९२ ।।
नैवंविद्गुणतामेति ह्यन्नं प्रति कदाचन ।।
प्रधानभूतः सन्भुङ्ले सर्वदाऽन्नं स कामतः ।। ९३ ।।
अपि देवान्स संयाति तथोर्जं चोपजीवति ।।
प्रशंसैषा यथोक्तस्य विज्ञानस्येति निश्चितिः ।। ९४ ।।
अन्नत्रयं यदुत्कृष्टं तस्यायं निर्णयोऽधुना ।।
शरीरकार्यसंस्थस्य वर्ण्यतेऽध्यात्मरूपकम् ।। ९५ ।।
प्रयोगसमवायित्वं पूर्वेष्वन्नेषु वर्णितम् ।।
भोक्तारश्चापि ये तेषां तेऽपि श्रुत्योपवर्णिताः ।। ९६ ।।
प्रयोगसमवायित्वात्पूर्वेषां कर्मणां सताम् ।।
मनआदित्रयं कार्यं तादर्थ्येनोत्तरा श्रुतिः ।। ९७ ।।
उत्पाद्य त्रीण्यथान्नानि मेधया तपसा पिता ।।
मनो वाचं तथा प्राणमात्मार्थे तानि चाकरोत् ।। ९८ ।।
मनसोऽस्तित्वसिद्ध्यर्थं श्रुत्योपन्यस्यतेऽनुमा ।।
सतश्च तस्य कामादिरूपाण्यपि च वक्ष्यति ।। ९९ ।।
अविद्याधिकृतावस्यां धर्मधर्म्यादिसंगतिः ।।
अविद्याकार्यसंस्थैव न त्वसौ प्रत्यगात्मनः ।। १०० ।।
इत्येतत्प्रतिपत्त्यर्थं परो ग्रन्थोऽनतार्यते ।।
मा भूत्कामादिधर्मित्वमात्मनीति प्रयत्यते ।। १०१ ।।
पृष्टो जरद्गवं यान्तमद्राक्षीस्त्वमितीतरः ।।
ततोऽन्यत्रमना आसं नातोऽद्राक्षं त्वदीरितम् ।। १०२ ।।
विषयान्तरसंबद्धं मनो दृष्टं घटादिवत् ।।
आत्मैकसाक्षिकं तच्च ह्युक्तार्थापत्तिसंश्रयात् ।। १०३ ।।
अस्त्यात्मा चित्स्वभावोऽत्र चक्षुश्चाविकलं तथा ।।
सप्रकाशं गवाश्वं च न च पश्यति चेतनः ।। १०४ ।।
अतोऽनुमीयतेऽस्त्यन्यद्यस्मिन्नसति नेक्षते ।।
द्रष्ट्रादि संहतं सर्वं यस्मिंश्च सति वीक्षते ।। १०५ ।।
यत्तदस्ति मनस्तत्स्यात्प्रसिद्ध्या चास्ति तन्मनः ।।
अभूयन्मम मनोऽन्यत्र यतो नाद्राक्षमित्यतः ।। १०६ ।।
सदप्यात्मादिकं सर्वं दर्शनादावकारणम् ।।
मनसैव यतो द्रष्टा गवादीह प्रपश्यति ।। १०७ ।।
निःशेषप्रत्याधारधर्म्यस्तित्वं प्रसाध्य हि ।।
कामादिधर्मसिद्ध्यर्थं काम इत्याद्यथोच्यते ।। १०८ ।।
साधनान्येव मनसो वुद्धिकर्मेन्द्रियाण्यपि ।।
सहैवाऽऽयतनैः सर्वैः प्राधान्यं मनसस्ततः ।। १०९ ।।
विषयाभिलाषः कामः स्यान्न विशेषेऽस्ति कारणम् ।।
इन्द्रियालोचितार्थस्य स्यात्संकल्पोऽवधारणम् ।। ११० ।।
अनिश्चयात्मिका वृत्तिर्विचिकित्सेत्युदाहृता ।।
आस्तिक्यबुद्धिः श्रद्धा स्यादश्रद्धा तद्विरोधिनी ।। १११ ।।
धृतिश्रद्धे विना न स्युः कामाद्याः कारणादृते ।।
यतोऽकामादयोऽप्यत्र ह्युक्ता एवार्थतो मताः ।। ११२ ।।
धारणं च धृतिर्ज्ञेया बुद्ध्योपात्तस्य वस्तुनः ।।
विपर्ययोऽधृतिस्तस्या, ह्रीर्लज्जेत्यभिधीयते ।। ११३ ।।
विज्ञानं निश्चितं धीः स्याद्भयं भीरभिधीयते ।।
एतत्सर्वं मनो ज्ञेयमिति तादात्म्यमुच्यते ।। ११४ ।।
बुद्धेश्च मनसश्चैक्यं विवक्षित्वोपसंहृतिः ।।
इन्द्रियाण्यपि सर्वाणि स्वान्तस्यैव तु वृत्तयः ।। ११५ ।।
यतः स्वकार्यनिर्देशः स्वान्तस्य स्पर्शनेन्द्रिये ।।
मन एव ततो ज्ञेयं शरीरेन्द्रियसंहतिः ।। ११६ ।।
पुंसो भोगप्रसिद्ध्यर्थं वैचित्र्यं धीर्निगच्छति ।।
देहेन्द्रियाद्यवस्थाभिरतो धीः सर्वमेव तु ।। ११७ ।।
जिघ्रन्ती भवति घ्राणं पश्यन्ती चक्षुरुच्यते ।।
शृण्वती भवति श्रोत्रमिति व्यासोऽप्यभाषत ।। ११८ ।।
शुक्लं कृष्णमणु स्थूलमिति धीः कर्मणो वशात् ।।
द्वैताधिकारमापन्ना वैश्वरूप्यं निगच्छति ।। ११९ ।।
प्रत्यक्किद्देशभेदेन न हि शुक्लादिवस्तुनः ।।
सत्ता संभाव्यतेऽन्यत्र प्रत्यग्वद्ग्राह्यवस्तुनः ।। १२० ।।
नातः शुक्लादिवस्त्वस्ति बुद्धिरेव क्रियावशात् ।।
शुक्लादिरूपतामेति पुरुषार्थप्रसिद्धये ।। १२१ ।।
धीर्विपर्ययरूपेयं यतः शुक्लादिरूपिणी ।।
मन एवेत्यतः प्राज्ञाः सर्वरूपं प्रचक्षते ।। १२२ ।।
आत्मार्थेनैव स्त्यत्वं कृत्स्नात्मीयस्य वस्तुनः ।।
तस्य तन्मात्रयाश्वात्म्यादिति पूर्वमवादिषम् ।। १२३ ।।
अपि सर्वाणीन्द्रियाणि मन एव यतस्ततः ।।
पृष्ठतोऽपि नरः स्पृष्टो मनसैव प्रपद्यते ।। १२४ ।।
पराङ्भुख उपस्पृष्टः पाणेः स्पर्शोऽयमीदृशः ।।
इति स्पर्शविशेषं ना मनसैव प्रपद्यते ।। १२५ ।।
त्वचोपस्पृष्टिमात्रेण स्पर्शमात्रं प्रपद्यते ।।
स्पर्शनादिविशेषं तु मनसैव प्रपद्यते ।। १२६ ।।
मनसैव यतोऽशेषकरणस्वार्थधीभवः ।।
सर्वं हि मन एवेति श्रुतिराह वचस्ततः ।। १२७ ।।
मनस्तावत्सुनिर्णीतं शरीरं चेन्द्रियाणि च ।।
तदनन्तरतो वाचो व्याख्या प्रस्तूयतेऽधुना ।। १२८ ।।
यः कश्चेत्यविशेषोक्तिर्नादवर्णपदोक्तिभिः ।।
संयोगोत्थो वियोगोत्थो यश्चापि प्रत्ययात्मकः ।। १२९ ।।
वागेव स इति ज्ञेयः कुतो यस्मादियं सदा ।।
समानयोने रूपस्य वाक्प्रमाऽतोऽवबोधिका ।। १३० ।।
वागेव प्रत्ययादौ स्यादित्येतद्गम्यते कुतः ।।
स्वाभिधेयावबोधस्य ह्या समाप्तेरियं यतः ।। १३१ ।।
यतोऽत्यर्थं प्रवृत्ता वाग्घटबोधे प्रदीपवत् ।।
अर्थावबोधनं कार्यं वाचो नान्यदितोऽपरम् ।। १३२ ।।
शब्दोच्चारणशक्तं हि ननु वागिन्द्रियं मतम् ।।
कथं तद्विषयः शब्दो वागित्यत्राभिधीयते ।। १३३ ।।
सत्यमन्यत्र तद्ग्रह्यं तस्य तत्रैव योग्यतः ।।
इह त्वन्नत्रयस्यैव सर्वात्मत्वं विवक्षितम् ।। १३४ ।।
मनोऽन्तःपाति निखिलं रूपं यद्वद्विवक्ष्यते ।।
तस्य प्रकाशकस्तद्वत्सर्वः शब्दो विवक्ष्यते ।। १३५ ।।
प्रकाशस्यैव सर्वस्य शब्दत्वप्रतिपत्तये ।।
एषा हि नेत्यतो वक्ति वागिन्द्रियनिवृत्तये ।। १३६ ।।
रूपात्मकं यथा चक्षू रूपस्यैव प्रकाशकम् ।।
वाक्च शब्दात्मिका तद्वच्छब्दस्यैवास्तु दीपिका ।। १३७ ।।
इति चोद्यं समाशङ्क्य परिहारं प्रचक्षते ।।
एषा हि नेति केचित्तु नेयं दीपादिवन्मता ।। १३८ ।।
श्रोत्रादिकरणग्राह्यं सर्वं तद्रूषमुच्यते ।।
तस्य प्रकाशिकैवेयं न प्रकाश्या प्रदीपवत् ।। १३९ ।।
प्रकाश्यमेव चात्यन्तं मनो रूपं यथा तथा ।।
प्रकाशिकैव चात्यन्तं वाग्रपस्येति निश्चितिः ।। १४० ।।
प्रकाश्यमेव रूपं स्यात्प्रकाशो वाक्तथैव च ।।
विद्यादेतत्समासेन लक्षणं रूपसंज्ञयोः ।। १४१ ।।
नामापि गृह्यमाणं सद्रूपं भवति शौक्ल्यवत् ।।
रूपं च बोधयत्तद्वन्नामपक्षेऽवतिष्ठते ।। १४२ ।।
एवं वाङ्भनसे सम्यग्व्याख्याय प्रविभागशः ।।
तयोर्विधरणः प्राणस्त्वनिरुक्तोऽथ भण्यते ।। १४३ ।।
अन इत्यविशिष्टस्य वायोर्ग्रहणमिष्यते ।।
स एव प्रादिसंबन्धाद्विशेषार्थो भवेदसुः ।। १४४ ।।
उत्सर्गो मुखनासाभ्यां पिण्डस्य प्रणतिस्तथा ।।
प्राणो नाम मरुद्वृत्तिरपानस्त्वधुनोच्यते ।। १४५ ।।
अवाग्वायोरपश्वासो देहस्यावाग्गतिस्तथा ।।
अपान एष कथितो व्यानः सांप्रतमुच्यते ।। १४६ ।।
वीर्यवत्कर्महेतुत्वं व्याप्य देहे च वर्तनम् ।।
व्यानवृत्तिरियं प्रोक्ता ह्युदानाख्याऽपि कीर्त्यते ।। १४७ ।।
योद्यमादिक्रियाहेतुस्तथाऽभ्युदयकर्मकृत् ।।
उत्कर्षहेतुर्देहे तु वृत्तिः सोदानसंज्ञिता ।। १४८ ।।
समाहरति वृत्तीर्यो हृद्देशे कीलवत्स्थितः ।।
स समान इति ज्ञेयः सर्वकार्योपसंहृतिः ।। १४९ ।।
यस्यैता वृत्तयः प्रोक्ता वृ्त्तिमान्सोऽन उच्यते ।।
संपूर्यावस्थितो देहं शाकल्पप्रश्ननिष्ठितः ।। १५० ।।
प्राणशब्दः पुरा प्रोक्तो वृत्तिमात्राभिधायकः ।।
अन्ते वृत्तिमदर्थः स्यात्सर्वं प्राण इतीरणात् ।। १५१ ।।
नाम रूपं तथा कर्म संहतं सत्र्रिदण्डवत् ।।
मिथः संकीर्णवृत्तिस्थं देह आत्मेति चोच्यते ।। १५२ ।।
एतावानेव संघातो देहः प्राणादिरूपकः ।।
वाङ्ययोऽथ प्राणमयस्तथैव च मनोमयः ।। १५३ ।।
नामात्र वाङ्भयं सर्वं रूपं सर्वं मनोमयम् ।।
तद्वत्प्राणमयं कर्म देहस्यास्यैष संग्रहः ।। १५४ ।।
अन्नत्रयविभागोऽयमध्यात्म उपवर्णितः ।।
अथाधिभूतविषये विभागस्तस्य कीर्त्यते ।। १५५ ।।
भूर्लोकं जानतर्ग्वेदं देवा माता च वागियम् ।।
अधिभूत इह प्रोक्ता विज्ञातं यच्च सा च वाक् ।। १५६ ।।
अन्तरिक्षं यजुर्वेदः पितरश्च पिता तथा ।।
इह यच्च विजिज्ञास्यं तन्मनोऽत्राऽऽधिभौतिकम् ।। १५७ ।।
द्युलोकः सामवेदश्च मनुष्याः प्रजया सह ।।
यच्च किंचिदविज्ञातं प्राणोऽसावाधिभौतिकः ।। १५८ ।।
यत्किंचिदिह विज्ञातं तद्वाग्रूपं प्रचक्षते ।।
मनोरूपं विजिज्ञास्यं प्राणस्याज्ञातमेव तु ।। १५९ ।।
भूर्लोकादिषु सर्वेषु मनोवाक्प्राणलक्षणम् ।।
यथासंभवमायोज्यमेकैकस्मिंस्त्रयं त्रयम् ।। १६० ।।
अधिभूते यतोऽशक्या वक्तुं वागादिविस्तृतिः ।।
यत्किंचेत्युपसंहारं लक्षणोक्त्या ततोऽकरोत् ।। १६१ ।।
लक्षणेनैव संसिद्ध आधिभोतिकसंग्रहे ।।
त्रय इत्यादिकोक्तिस्तु नियमार्थेति निश्चयः ।। १६२ ।।
व्याख्याने प्रस्तुते त्वस्मिन्नविद्यायाः समन्ततः ।।
कार्यकारणरूपेण तस्या एषोपसंहृतिः ।। १६३ ।।
प्राणात्मना तदज्ञातं ब्रह्म कारणमुच्यते ।।
नामात्मना तु तन्मानं मनोरूपं च मीयते ।। १६४ ।।
यतोऽविद्यैव सर्वेयं मनोवाक्प्राणलक्षणा ।।
अतस्तचत्तत्त्वसंबोधात्ता जग्ध्वाऽमृतमश्नुते ।। १६५ ।।
विज्ञातादन्यदेवैतदविज्ञातात्तथा पृथक् ।।
ब्रह्मैतदुभयं जग्ध्वा पूर्णमेवावशिष्यते ।। १६६ ।।
विज्ञातादिविदं भोगैर्वागाद्या देवता नरम् ।।
षिज्ञातादिस्वरूपेण तमवन्ति पृथक्पृथक् ।। १६७ ।।
वागादयस्तावदुक्ताः संक्षेपेणाऽऽधिभौतिकाः ।।
तेषामेवाधिदैवेऽथ व्याख्या प्रस्तूयतेऽधुना ।। १६८ ।।
अध्यात्ममधिभूतं च यस्या रूपं पुरोदितम् ।।
अधिदैवविवक्षायां तस्या वाच इदं वपुः ।। १६९ ।।
अध्यात्ममधिभूतं च व्याख्याता याऽत्र वाक्पुरा ।।
वाचा सर्वाधिदैविक्या संव्याप्ता साऽविभागतः ।। १७० ।।
तामसं कठिनं चोर्वी शरीरं वाच उच्यते ।।
अग्नेः प्रकाशरूपस्य साऽऽधारत्वेन संस्थिता ।। १७१ ।।
अग्निस्तु सात्त्विकं रूपमाधेयत्वेन स क्षितौ ।।
वर्तते तामसे रूपे दैव्येवं द्विविधा हि वाक् ।। १७२ ।।
अद्यात्ममधिभूतं च वागेकैवाऽऽधिदैविकी ।।
सामान्यव्यक्तिभेदेन ह्येकाऽनेका च सोच्यते ।। १७३ ।।
इत्येवं केचिदिच्छन्ति तथाऽन्यादृगपीष्यते ।।
तत्रैवं सति वाग्रूपे एवंव्याख्यातरूपके ।। १७४ ।।
यावत्येषा च वागुक्ता तस्या इत्येवमादिना ।।
अध्यात्मादिपरिच्छिन्न या वाक्सा तावती मता ।। १७५ ।।
वागध्यात्मेऽधिभूते च तावत्येषाऽऽधिदैविकी ।।
तेन तेन विशेषेण देवतैव यतो भवेत् ।। १७६ ।।
एकैकत्राधिकारेऽग्निः स एव व्यवतिष्ठते ।।
पृथिव्यग्निस्वरूपेण क्वचिद्वागात्मना भवेत् ।। १७७ ।।
यथोदितमिदं योज्यं मनःप्राणात्मनोरपि ।।
दैव्यां वाचि यदुद्दिष्टं तुल्यव्याख्यानहेतुतः ।। १७८ ।।
अध्यात्ममधिभूतं च प्रजा गीर्मनसोर्यथा ।।
अधिदैवेऽपि तद्वाच्यमित्यर्थः पर आगमः ।। १७९ ।।
मनसश्चन्द्रभावो हि सर्वत्र श्रूयते स्फुटः ।।
तस्याऽऽदित्येन संबन्धः कस्मादत्राभिधीयते ।। १८० ।।
विवक्षितत्वादैक्यस्य मनोबुद्ध्योरतः श्रुतिः ।।
आदित्येनैव संधत्ते मनश्चन्द्रमसा न तु ।। १८१ ।।
प्रसवाधिकृतेश्चात्र सावित्रः प्रसवस्ततः ।।
सवित्रैवाभिसंबन्धो मनसस्तेन शस्यते ।। १८२ ।।
अनुग्रहव्यपेक्षायां मनसश्चन्द्रमा भवेत् ।।
अधिदैवं तथाऽऽदित्यश्चक्षुषो देवता मता ।। १८३ ।।
अग्निरेव यतः सर्वप्रकाशो जगतीष्यते ।।
रूपाणां प्रविभागश्च त्वष्टृषाकनिबन्धनः ।। १८४ ।।
तयोर्गीर्मनसोरेवं प्रकाशप्रसवात्मनोः ।।
प्राग्यथोक्तात्मनोर्योगात्प्राणोऽभूदन्तरिक्षगः ।। १८५ ।।
प्राणोऽभवद्यथाऽध्यात्मे प्रजा वाक्स्वान्तयोस्तथा ।।
प्राणस्यैवाधिदैवेऽपि प्रसवोऽयमिहोच्यते ।। १८६ ।।
नान्नत्रयं व्यपेक्ष्येह जन्म प्राणस्य कथ्यते ।।
किंतु पाङ्त्कक्रियापेक्षं प्राणजन्माभिधीयते ।। १८७ ।।
स यथाऽऽध्यात्मिके देहे प्राणस्तद्वत्प्रजापतेः ।।
अन्तरिक्षगतः प्राणः स एष परमेश्वरः ।। १८८ ।।
यतोऽसपत्नस्तेनायमिन्द्र इत्यभिधीयते ।।
ननु वाङ्भनसे सतोऽस्य तत्कुतोऽस्यासपत्नता ।। १८९ ।।
नैवं वाङ्भनसे यस्मात्प्राणवृत्त्यैव जीवतः।।
यदनेनान्नमत्तीति तस्मादेत इतीरणात् ।। १९० ।।
प्राणस्यैव यतो वृत्ती उक्ते वाङ्भनसे अपि ।।
प्राणस्यातोऽद्वितीयत्वं ततश्चेन्द्रत्वमेव च ।। १९१ ।।
न सपत्नो भवत्यस्य योऽसपत्नं विवेद हि ।।
असपत्नमुपासीनः ससपत्नः कुतो भवेत् ।। १९२ ।।
उक्ता पाङ्लानुरोधेन वाङ्भनःप्राणसंश्रया ।।
अन्नत्रयविभागेन प्रक्रिया त्वधुनोच्यते ।। १९३ ।।
अध्यात्ममधिभूतं च तथा चैवाधिदैवतम् ।।
उक्ता वागादयः सर्व समा एवेति गृह्यताम् ।। १९४ ।।
साम्यं केन प्रकारेणेत्यनन्ता इत्यतोऽवदत् ।। १९५ ।।
नन्वध्यात्मेऽधिभूते च परिच्छिन्नाः पुरोदिताः ।।
वागादयस्त्विह कथमनन्ता इत्युदीरणम् ।। १९६ ।।
नैतदेवं यतोऽनन्ताः सर्वे भावा यथोदिताः ।।
वाचा सर्वाधिदैविक्या लोकादेरप्यनन्तता ।। १९७ ।।
अधिकारपरिच्छेदे सर्वं यस्मात्समाप्यते ।।
नासंहतायाः कर्तृत्वं देवतायाः स्वतोऽपरैः ।। १९८ ।।
स्वाधिकारविनिष्पत्तौ देवता देवतागणम् ।।
सर्वमेवाऽऽत्मसात्कृत्वा तत्तत्कार्यं करोति हि ।। १९९ ।।
आभूतसंप्लवस्थानमानन्त्यं चेह गृह्यते ।।
कर्मकार्यस्य हि सतो मुख्यानन्त्यं न युक्तिमत् ।। २०० ।।
एवं सतीह योऽनन्तानुपास्ते सततोद्यतः ।।
सोऽनन्तमेव वागादिलोकमाप्नोति मानवः ।। २०१ ।।
उपास्तेऽन्तवतो यस्तु सोऽन्तवन्तमवाप्नुते ।।
लोकं यतस्ततोऽनन्तमेत्यनन्तात्मभावनात् ।। २०२ ।।
अधिकारो द्वयोरत्र प्रकृतः पाङ्त्ककर्मणः ।।
प्रक्रियाऽन्नत्रयस्यापि विभागः प्रकृतस्तथा ।। २०३ ।।
तत्राधिदैवमुक्तानि त्रीण्यन्नानि विभागशः ।।
सोपासनानि पाङ्त्कस्य वक्तव्यमवशिष्यते ।। २०४ ।।
अधिदैवे त्रयं तूक्तं मनोवाक्प्राणलक्षणम् ।।
पाङ्त्कस्य कर्मणः कार्यं नोक्तं वित्तं च कर्म च ।। २०५ ।।
पाङ्त्कस्य कर्मणः कार्यं न तावदवगम्यते ।।
पाङ्त्कत्वसिद्धये यावन्नोच्येते वित्तकर्मणी ।। २०६ ।।
लोककालात्मको देवो विराट्संज्ञः प्रजापतिः ।।
तस्याधिलोकमात्मोक्तो योऽयमन्नत्रयात्मकः ।। २०७ ।।
अधिकालं तु योऽस्याऽऽत्मा सोऽयं चन्द्रमसोच्यते ।।
पक्षमासर्तुवर्षादेः स कर्ता कर्मणोऽनिशम् ।। २०८ ।।
हानिवृद्धिस्वभावेन वित्तं चाप्यत्र लक्ष्यते ।।
कलाकाष्ठालवाद्यात्मा विश्वं विपरिणामयन् ।।
प्राणपिण्डात्मकः काल आ महाप्रलयात्स्थितः ।। २०९ ।।
यैकाऽवशिष्यते तस्य कला पक्षक्षये तथा ।।
प्रविश्य प्राणभृत्सर्वं पक्षतो जायते पुनः ।। २१० ।।
रात्रौ यस्मात्स एतस्यां प्रविश्याऽऽस्ते प्रजापतिः ।।
प्रामभृन्निखिलं तस्माद्धिंसां तस्यां परित्यजेत् ।। २११ ।।
कलाभिरस्तः कृत्ताभिः कृकलास इति स्मृतः ।।
हिसां न कुर्यात्तस्यापि किंन्वनारब्धहिंसनम् ।। २१२ ।।
सामिप्रमापितस्यापि रात्रौ तस्यां विवर्जयेत् ।।
प्राणभृद्धिंसनं यत्नात्किंन्वनारब्धपी़डनम् ।। २१३ ।।
कृकलासे प्रसिद्धा या हिंसा प्राणभृतां स्वतः ।।
तामप्यत्र न कुर्वीत किमु वक्तव्यमन्यतः ।। २१४ ।।
एतस्या एव पूजायै देवताया निषेधनम् ।।
प्राणभृद्धिंसनस्येह नान्यदस्य प्रयोजनम् ।। २१५ ।।
स्मृतावपि निषिद्धेयं हिसा पर्वसु कर्मिणाम् ।।
विशिष्टफलंसगत्या इहोक्तिः सत्यवद्भवेत् ।। २१६ ।।
केवलज्ञानमात्रेण मा भूत्र्र्यन्नात्मकं फलम् ।।
परात्मज्ञानवत्तस्मात्तस्योपासनमुच्यते ।। २१७ ।।
वित्तमेव कला मे स्युः कल्पयित्वा ध्रुवां स्वयम् ।।
इत्युपासीत यः सोऽथ कलात्मानं प्रपद्यते ।। २१८ ।।
यथोक्तगुणकं विद्वानुपासीत प्रजापतिम् ।।
आरोप्याऽऽत्मशरीरेऽस्मिंस्तत्साधर्म्येण संततम् ।। २१९ ।।
वित्तमेव कलास्तस्य तद्धान्युपचयौ क्रिया ।।
ध्रुवाऽस्य देह एवायं जीवन्स्यात्षोडशी कला ।। २२० ।।
सोऽकामयत जायेति साधनान्येव नः श्रुतिः ।।
अब्रवीन्न तु तत्साध्यं तदुक्त्यर्थं परा श्रुतिः ।। २२१ ।।
साधनोक्त्यैव तत्साध्यं यदि नामावसीयते ।।
विशिष्टफलसंबन्धो न तथाऽपि प्रतीयते ।। २२२ ।।
पुत्रादिसाधनानां स्यादुत्पत्त्यादिसमन्वयात् ।।
साध्यं लोकत्रयमतस्त्रयो वावेति च श्रुतिः ।। २२३ ।।
त्रय एव यतो लोकाः साध्याः पुत्रादिसाधनैः ।।
तन्मुमुक्षुरतो मुक्त्यै त्यजेत्सर्वैषणा ययिः ।। २२४ ।।
अन्यथैवाभिसंबन्धं केचिदत्र प्रचक्षते ।।
ज्ञानादेव पुमर्थप्तेर्निष्फले सुतकर्मणी ।। २२५ ।।
निःशेषफलसंप्राप्तेर्दर्शनादेव केवलात् ।।
सुतादिना न तर्ह्यर्थ्यो नापि स्यात्पङ्त्ककर्मणा ।। २२६ ।।
तयोरिहार्थवत्त्वाय त्रयो वावेति भण्यते ।।
परीक्ष्यैतत्परिग्राह्यं न तु निर्युक्तिकं बुधैः ।। २२७ ।।
स्वफलेऽन्यानपेक्षाणां साधनानां समुच्चयः ।।
न युक्तोनिरपेक्षत्वाद्गमनेक्षणयोरिव ।। २२८ ।।
अन्यापेक्षाणि चेद्दद्युः कर्मैकत्वं तदा भवेत् ।।
समुच्चितिर्न चैकस्य रुद्रेणापि समर्थ्यते ।। २२९ ।।
तन्तुवीरणमृद्दारुसाधनानां पृथक्त्वतः ।।
पटादिकार्यनिष्पत्तौ न तेषां स्यात्समुच्चयः ।। २३० ।।
तुरीवेमशलाकादेः स्वकार्येऽन्योन्यसंहतेः ।।
समुच्चितिरयुक्तेयं तदाऽप्येकत्वहेतुतः ।। २३१ ।।
लोकत्रयस्य संप्राप्तिर्विद्ययैवेति चेन्मतम् ।।
तस्याः सर्वाप्तिहेतुत्वान्नैतदेवं पृथक्त्वतः ।। २३२ ।।
प्रत्येकं भिन्नसाध्यं हि पुत्राकर्मादिसाधनम् ।।
एकाकिन्या न तत्साध्यं विद्ययैवेति निश्चितिः ।। २३३ ।।
पुत्रेणैवेत्यतो वक्ति साधनान्तरनिह्नुतिम् ।।
ज्योतषेत्यत्र संचोद्य परिहारं प्रचक्षते ।। २३४ ।।
प्राप्त्यतिक्रमसंभित्तेर्विषयप्रविभागतः ।। २३५ ।।
नैतदेवं यतो नेह पुत्रोत्पत्त्यतिरेकतः ।।
ाधनान्तरजय्योऽयं लोकोऽतश्चोदितं न सत् ।। २३६ ।।
ज्योतिष्टोमेन संप्राप्तिर्भोगायैव तु तत्कृतः।।
सुतेनातिक्रमोऽप्राप्तेः प्राप्तो निर्विषयस्ततः ।। २३७ ।।
यद्येवं तर्हि संत्याज्यं ज्योतिषेति वचः श्रुतम् ।।
मैवं मनुष्यलोकस्य यतस्तत्राऽऽप्तिरिष्यते ।। २३८ ।।
प्राप्तस्य ज्योतिषा तस्य पुत्रेणातिक्रमो जयः ।।
इति निर्युक्तिकं कैश्चिद्व्याख्यानं यत्नतः कृतम् ।। २३९ ।।
जय्य एव सुतेनायं लोक इत्यवधार्यते ।।
ज्योतिषाऽपि स चेज्जेयो जीयतां न निषिध्यते ।। २४० ।।
नरलोकः सुतेनायं जय्य एवेति भण्यते ।।
एवेत्ययोगावच्छित्तौ नान्ययोगव्यपेक्षया ।। २४१ ।।
अतिक्रमो जयार्थश्चेत्सामर्थ्यादेव सिद्धितः ।।
पितृलोकाद्यसंप्राप्तेस्तत्रातिक्रमगीर्वृथा ।। २४२ ।।
नापुत्रस्येति निःशेषलोकाप्तौ साधनं सुतः ।।
श्रूयते मन्दपालादि तथा चात्र निदर्शनम् ।। २४३ ।।
श्रुतं साध्यं समुल्लङ्ध्य नातोऽन्यात्कामजं फलम् ।।
प्रत्यग्विविदिषाऽन्यत्र कर्मणां श्रूयते फलम् ।। २४४ ।।
किंच भुक्त्वाऽथवाऽभुक्त्वा ज्योतिष्टोमफलं नरः ।।
अतिक्रामेदिमं लोकं नोभयत्रापि युज्यते ।। २४५ ।।
भुक्त्वाऽतिलङ्घनं तावद्विनाऽपि सुतजन्मना ।।
निःशेषकर्मकार्याणां भोगेनैव समाप्तितः ।। २४६ ।।
परब्रह्मात्मविज्ञानजन्मनाऽपि हि कर्मणाम् ।।
नाभुक्त्वा फलमाप्नोति निर्वतिं परमां नरः ।। २४७ ।।
नैरर्थक्यप्रसक्तिश्च ज्योतिष्टोमादिकर्मणः ।।
न चेद्भुक्तं फलं तस्य तदभावेऽपि चात्ययः ।। २४८ ।।
चन्द्रलोकादिसंप्राप्तिः श्रूयते कर्मणः फलम् ।।
पुण्यलोका भवन्तीति तथाच श्रुतितः स्फुटम् ।। २४९ ।।
सुतजन्मादिभिश्चेत्स्यात्सर्वकर्मफलात्ययः ।।
परब्रह्मैकविज्ञानं निष्फलं वः प्रसज्यते ।। २५० ।।
अनुच्छित्तिश्च भोगेन स्पष्टं श्रुतिवचः श्रुतम् ।।
धिया धियेति वाक्येन भोगादेव क्रियोत्थितेः ।। २५१ ।।
कर्मणा पितृलोकाप्तिर्नाश्रुतेरन्यसाधना ।।
कर्मैवोपास्तिरूपं यत्तद्विद्येत्यत्र भण्यते ।। २५२ ।।
देवलोकाप्तिसंबन्धाद्देवताविषयैव सा ।।
विद्या न तु निरस्तान्यप्रत्यङ्मात्रैकगोचरा ।। २५३ ।।
मनुते यन्न मनसा मनो येन मतं सदा ।।
तदेव विद्धि ब्रह्मेति न त्विदं यदुपासते ।। २५४ ।।
उपासिक्रियया व्याप्तिरब्रह्मत्वस्य लक्षणम् ।।
इति श्रुत्यैव निर्दिष्टं नोपास्यं ब्रह्म तेन नः ।। २५५ ।।
विद्यया देवलोकाप्तिः श्रुतत्वादेव कारणात् ।।
नैवकाराभिसंबन्धादेवेत्यत्र न संगतिः ।। २५६ ।।
भूयःफला यतो विद्या पूर्वाभ्यां तेन सादराः ।।
विद्यामेव प्रशंसन्ति न तथा पुत्रकर्मणी ।। २५७ ।।
लोकानां श्रेष्ठ इति च न चेदाप्तिर्विवक्षिता ।।
सर्वलोकेष्विदं वाक्यमत्यये दुर्घटं भवेत् ।। २५८ ।।
अत्ययश्चेदभिप्रेतः पुत्रोत्पत्त्यादिभिस्रिभिः ।।
अपास्तर्णोऽथ स कथं कर्मस्वेष नियुज्यते ।। २५९ ।।
ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।।
इति पूर्वाश्रमे वासो ध्वस्तर्णस्य निषिध्यते ।। २६० ।।
यथाऽनपाकृतर्णस्य मोक्षेच्छा वार्यते तथा ।।
अनधीत्य द्विजो वेदानित्यादिवचनान्मनोः ।। २६१ ।।
इष्ट्वेति च तथा क्त्वान्तश्रवणात्पूर्वकालता ।।
नीत्वा समाप्तिं कर्माणि फलवन्त्यफलानि च ।। २६२ ।।
शुद्धधीः प्रव्रजेत्पश्चाद्विरक्तः कर्मणां फलात् ।।
इत्यनुक्रमसंन्यासे संप्रत्तिरुपदिश्यते ।। २६३ ।।
योऽनुक्रमेणेति तथा श्रुतौ स्पष्टमिदं वचः ।। २६४ ।।
अननुक्रमसंन्यासे न संप्रत्तिक्रियेष्यते ।।
पुत्रे सत्येव सा यस्मान्नास्त्यसौ ब्रह्मचारिणः ।। २६५ ।।
यद्यपुत्र इति वचः संभवे सति युक्तिमत्।।
निरस्तदारसंबन्धे न तु स्याद्ब्रह्मचारिणि ।। २६६ ।।
ब्रह्मचर्यादेवेत्यादिवाक्यानि शतशः श्रुतौ ।।
श्रूयन्ते तु ऋणवचो विरोधात्स्यादपस्मृतिः ।। २६७ ।।
वेदाहमितिमन्त्रोक्तेस्तमेवेत्यवधारणात् ।।
निषेधान्नान्य इत्युक्तेर्न मुक्तिः सुतजन्मतः ।। २६८ ।।
न तत्र दक्षिणा यन्ति विद्ययैव तदाप्यते ।।
इति न्याय्यं श्रुतेर्वाक्यं कस्मान्नाऽऽद्रियतेऽञ्जसा ।। २६९ ।।
संन्यासमेवोपक्रम्य संप्रत्तिः श्रूयते श्रुतौ ।।
यथाऽन्यत्र तथेहापि कस्मान्नाभ्युपगम्यते ।। २७० ।।
सर्वकर्मनिवृत्तिर्हि जीवतोऽत्र विधीयते ।।
एकमेव व्रतमिति संन्यासिन्येव युक्तिमत् ।। २७१ ।।
लब्धत्र्यन्नात्मकफलो भावनाज्ञानकर्मभिः ।।
संन्यस्तशेषकर्मा सन्बोध्यतेऽजातशत्रुणा ।। २७२ ।।
नामरूपक्रियादेहः सर्वोऽस्मीत्यभिमानवान् ।।
अतत्त्वज्ञोऽधिकार्यत्र विद्याया उपवर्ण्यते ।। २७३ ।।
अयं लोकश्च पुत्रेण यादृशेन च जीयते ।।
तादृक्पुत्रोऽत्र वक्तव्य इत्यारब्धोत्तरा श्रुतिः ।। २७४ ।।
पुत्रकर्मपरज्ञाननृपित्रमरलोकतः ।।
व्याख्यातो नियमोऽन्योन्यं फलसाधनसंगतेः ।। २७५ ।।
पुत्रकर्मार्थमात्रत्वान्न पृथक्साधनान्तरम् ।।
जाया मानुषवित्तं च कर्मैकार्थत्वकारणात् ।। २७६ ।।
स्वरूपलाभमात्रेण साधनत्वं निगच्छतः।।
कर्मज्ञाने सुतस्तस्य साधनत्वं व्रजेत्कथम् ।। २७७ ।।
इत्येवमभिसंवन्धो वक्तुर्भाष्यकृतः स्फुटः ।।
अस्मदुक्ताविरोधीति तेन नेहातियत्यते ।। २७८ ।।
पुत्रश्चेदनुशिष्टः स्याल्लोकस्तेनैव जीयते ।।
नान्येन कर्मणाऽत्रार्थो नृलोकजयसिद्धये ।। २७९ ।।
पुत्रस्यैवावधृतस्य एवकारो भवेदयम् ।।
पितृदेवलोकसंप्राप्तिः श्रुतेहान्यैश्च साधनैः ।। २८० ।।
व्याख्यानमिदमेवात्र विदोषं दोषवत्परम् ।।
इदमेव ततो ग्राह्यं न तु यद्दोषवन्मतम् ।। २८१ ।।
अथानन्तरमेवोक्तात्कर्मोपासनचेष्टितात् ।।
अतस्तत्फलनिष्पत्तेः संप्रत्तिः संविधीयते ।। २८२ ।।
यतो मनुष्यलोकोऽयं विशिष्टसुतसाधनः ।।
तस्मात्संप्रत्तिकर्मेह वक्तव्यं तत्फलार्थिने ।। २८३ ।।
विदुषैव तु कर्तव्या संप्रत्तिर्नाविपश्चिता ।।
यतोऽतः सूत्रिता नेयं सूत्रकृद्भिरनित्यतः ।। २८४ ।।
संप्रत्तिरिति नामैतदात्मसंस्कारकर्मणः ।।
प्रतिपत्तिक्रिया वा स्यादातुरन्यासदर्शनाम् ।। २८५ ।।
प्रैष्यन्निति च कालोऽस्य कर्मणोऽत्र विधीयते ।।
जातकादिपरिज्ञानाज्ज्ञातुं कालोऽपि शक्यते ।। २८६ ।।
मुमूर्षुश्च पिता पुत्रमथाऽऽहूयानुमन्त्रयेत् ।।
त्वं ब्रह्मेत्यादिभिर्वाक्यैः सोऽपि प्रत्याह बोधितः ।। २८७ ।।
कर्मभ्यः प्रव्रजिप्यन्वा प्रैष्यन्नित्यभिधीयते ।।
धातूपसर्गयोर्मुख्यस्तथाऽर्थोऽप्याश्रितो भवेत् ।। २८८ ।।
अहं ब्रह्मोति पितरं पूर्वमेवोपशिक्षितः ।।
प्रतिवक्तुं न शक्तः स्यान्न चेत्प्राक्शिक्षितो भवेत् ।। २८९ ।।
पुत्रानुमन्त्रणस्यार्थं व्याचष्टे स्वयमेव नः ।।
श्रुतिस्तिरोहितार्थत्वान्मन्त्राणामित्यतोऽवदत् ।। २९० ।।
अनूक्तं यदधीतं स्याद्यच्चाध्येतव्यमिष्यते ।।
यच्चानधीतं तस्योक्तौ ब्रह्मेत्यत्रैकता भवेत् ।। २९१ ।।
त्वं ब्रह्मेतीह वाक्यार्थो ह्ययमत्र विवक्षितः ।।
अध्येतव्यार्थनिप्पत्तिस्त्वनिष्पत्त्या मया कृता ।। २९२ ।।
यावन्मत्कर्तृकं क्रिंचिन्मानेन प्रतिपाद्यते ।।
त्वत्कर्तृकं तदस्त्वत्र पितुरेवं विवक्षितम् ।। २९३ ।।
लोकोक्त्यैव हि यज्ञानां तत्फलत्वाहहे सति ।।
नित्ययज्ञगृहीत्यर्थं के च यज्ञा इतीरणम् ।। २९४ ।।
ब्रह्मेत्यादिपदार्थोऽयमुक्तस्तावत्समासतः ।।
त्वं ब्रह्मेति तु वाक्यार्थः श्रुत्येदानीं विभाव्यते ।। २९५ ।।
एतावदेव कर्तव्यं गृहिणेहाधिकारिणा ।।
वेदा यज्ञाश्च लोकाश्च नातोऽन्योऽर्थोऽवशिष्यते ।। २९६ ।।
यथोक्तार्थचिकीर्षुः संस्तन्मयस्तत्क्रतुः स्वतः ।।
इतोऽधिकारबन्धान्माऽभुनजत्पालयेदिति ।। २९७ ।।
चेतस्याधाय वाक्यार्थमिममाह पिता सुतम् ।।
त्वंब्रह्मेत्यादिवाक्यानां नातोऽन्योऽर्थो विवक्षितः ।। २९८ ।।
यत उक्तं चिकीर्पुः सन्ननुशिष्टश्च तादृशः ।।
अतो लोकहितार्थं तं पुत्रमाहुर्मनीषिणः ।। २९९ ।।
अऩुशिष्टो यतः पुत्रः पित्रैवैति समर्थताम् ।।
अनुशिष्टमतो लोक्यं पुत्रमाहुर्विपश्चितः ।। ३०० ।।
पितरश्चात एवैनमनुशासति सत्सुतम् ।।
अनुशिष्टेन पुत्रेण लोक्यं स्यामिति यत्नतः ।। ३०१ ।।
संक्रामितात्मभारोऽपि नाग्निहोत्रं परित्यजेत् ।।
इत्येतत्कर्मरागोक्तं निष्प्रमाणं न गृह्यते ।। ३०२ ।।
संप्रत्तिलिङ्गात्संन्यासविधिरत्र विवक्षितः ।।
निःशेपोपनिषन्मानमेकं ज्ञानमितीष्यते ।। ३०३ ।।
त्र्यन्नात्मभावसंप्राप्तेर्जीवतैव कृतत्वतः ।।
साधनानां फलान्तत्वात्संन्यासः किं निवार्यते ।। ३०४ ।।
यावज्जीवश्रुतीप्राप्तेर्न चेत्तत्याग इष्यते ।।
प्रयोगावसितेर्नैव जरिणोऽधिकृतिर्न च ।। ३०५ ।।
प्रातर्देशावसानत्वादाग्निहोत्रादिकर्मणः ।।
नित्यानामपि संन्यासः कर्मणां स्यात्तदैव तु ।। ३०६ ।।
संक्रामितात्मभारस्य त्वं ब्रह्मेति वचोऽर्थवत् ।।
तदा स्यात्सर्वकर्माणि यदि संन्यस्य तिष्ठति ।। ३०७ ।।
सर्वात्मकार्यनिचयपुत्रसंक्रामितत्वतः ।।
न चेत्तित्यक्षितं सर्वं प्रतिप्रसवगीर्भवेत् ।। ३०८ ।।
कौषीतकिश्रुतौ तद्वद्गृहस्थस्यैव जीवतः ।।
संन्यासः श्रूयते स्पष्टः पुत्रैश्वर्ये सुखं वसेत् ।। ३०९ ।।
संन्यस्य सर्वकर्माणि सर्वदोषानपानुदन् ।।
इत्यादि मनुनाऽप्युक्तं तद्विरुद्धं च भण्यते ।। ३१० ।।
उपास्तिफलमेवास्य पितुर्यद्वदिहोच्यते ।।
प्रतिप्रसूयते कस्मान्नाग्निहोत्रादिकं तथा ।। ३११ ।।
एकमेवेत्यवधृतेर्युक्तं प्राणव्रतं पितुः ।।
सेस्कारकत्वात्तस्यैव न तदन्यदिहेष्यते ।। ३१२ ।।
म्रियते स यदैवंवित्पुत्रसंक्रामितक्रतुः ।।
क्रत्वञ्जितैस्तदै प्राणैः सह पुत्रं विशत्ययम् ।। ३१३ ।।
प्रागात्मक्रतुसंक्रान्तेरभूद्यादृक्क्रतुः पिता ।।
स तादृक्क्रतुविम्वोऽस्य संक्रान्तः स्वसुते पितुः ।। ३१४ ।।
जलार्कस्येव संक्रान्तिः स्वाभासभ्रमकारणात् ।।
परोपाधिनिमित्तैव कौटस्थ्यात्प्रत्यगात्मनः ।। ३१५ ।।
क्रत्वञ्जितधियो यद्वत्स्वात्मदेहस्य साक्षिता ।।
तद्वत्पुत्रादिदेहेपु मोहान्नानात्मविभ्रमः ।। ३१६ ।।
स्वाधिकारसुतावेशात्पितैवाऽऽविशतीत्यतः ।।
स्वयं निरधिकारस्तु दैवप्राणोऽवतिष्ठते ।। ३१७ ।।
आध्यात्मिकेन देहेन न्यूनकार्यसमाप्तये ।।
पिता पुत्रेण कुर्वाण आस्ते तत्फलभुक्स्वयम् ।। ३१८ ।।
दैवसाधनसंपन्नः पुत्र एवावतिष्ठते ।।
पिता तु तत्फलात्मैव न तु साधनरूपभृत् ।। ३१९ ।।
नाकारि कार्यं यत्पित्रा स्वाधीत्यदि प्रमादतः ।।
तत्पूरणात्पितुस्राणात्पुत्र इत्यभिधीयते ।। ३२० ।।
संपूर्णस्वात्मकार्योऽयं पिता दैवात्मना स्थितः ।।
पितुः सामिकृतं कार्यं पूरयन्वर्तते सुतः ।। ३२१ ।।
मृतेरुच्छिद्यते लोकः साधनोच्छित्तिहेतुतः ।।
पितुरित्यपि नाऽऽशङ्का कार्या यस्मात्स एव तु ।।
पुत्रेणैव शरीरेण कुर्वन्नास्ते नवं नवम् ।। ३२२ ।।
पुत्रेणैवेत्यतो वक्ति नित्याधिकृतिसिद्धये ।।
जयतीमं पिता लोकमेवंभूतेन सूनुना ।। ३२३ ।।
न त्वात्मलाभमात्रेण जयः स्याज्ज्ञानकर्मवत् ।।
पुत्राधिकारनुत्त्यर्थमथशब्दः प्रयुज्यते ।। ३२४ ।।
कृतसंप्रत्तिकं दैवाः प्राणा वागादयः समम् ।।
पितरं संविश्न्त्युक्ताः सदातद्भावभावितम् ।। ३२५ ।।
पृथिव्यै चैनमित्यादि तद्व्याचष्टे यथा तथा ।।
हेत्वर्थो वाऽथशब्दोऽयं यस्मात्संक्रामितक्रतुः ।। ३२६ ।।
तद्वियोगादतो दैवा आविशन्ति यथोदिताः ।। ३२७ ।।
श्रुतिस्था या हि वाक्तस्याः पञ्चमीयं परा भवेत् ।।
ततो लब्धात्मलाभायाः प्रथमा जन्महेतुतः ।। ३२८ ।।
वाचं संश्रुत्य वाक्यस्थां चिनुते भावनामयीम् ।।
उपादानमतः श्रौती स्याद्वाणी भावनात्मनः ।। ३२९ ।।
न हि वस्तु स्वतःसिद्धमन्यत्स्यात्परमात्मनः ।।
सदेवेत्यादिकं शास्रं बाधितं स्यात्तथा सति ।। ३३० ।।
धिया धियेति कार्यत्वं कृत्स्नस्य जगतः स्वयम् ।।
श्रुत्यैव स्पष्टमाख्यातं नातोऽभिव्यक्तिरिष्यते ।। ३३१ ।।
आर्तश्रुतेश्च प्राणादि वाचारम्भणशस्रतः ।।
नाऽऽत्मवत्स्यात्स्वतःसिद्धमुत्पत्त्यादिश्रुतेस्तथा ।। ३३२ ।।
कर्तृभिः क्रियते तस्माद्भावनाज्ञानकर्मभिः ।।
त्र्यन्नात्मकमिदं विश्व नातोऽभिव्यक्तिरिष्यते ।। ३३३ ।।
ब्रह्मैवेदं तथाऽऽत्मैव पुरुषश्चेति चाऽऽगमः ।।
एवं सत्यर्थवान्नः स्यादन्यथा स्यादनर्थकः ।। ३३४ ।।
पुत्रकर्मापरज्ञानसाधनान्यपरे जगुः ।।
मनुष्यलोकपित्रमरलोकेभ्यः स्युर्निवृत्तये ।। ३३५ ।।
एवं मोक्षार्थतां तेषां पुत्रादीनां प्रचक्षते ।।
लोकव्यावृत्तिमार्गेण श्रुतिस्तेषां निषेधकृत् ।। ३३६ ।।
काम्यमेवाखिलं पाङ्त्कं कर्मेत्येवं प्रकृत्य तु ।।
पुत्रादीनां स्वसाध्यार्थविनियोगोपसंहृतेः ।। ३३७ ।।
संसारफलतैवातः पुत्रादेर्गम्यते श्रुतेः ।।
अविद्वद्विषयैवात ऋणश्रुतिरपीष्यते ।। ३३८ ।।
प्रजया किं करिष्याम इत्येवं च प्रवक्ष्यति ।।
नातो विदितवेद्यस्य कथांचित्स्यादृणश्रुतिः ।। ३३९ ।।
व्यावृत्त्यर्थानि नैतानि पुत्रादीनि यथा तथा ।।
पृथिव्यै चैनमित्याद्या स्वयं निर्वक्ति नः श्रुतिः ।। ३४० ।।
न च त्र्यन्नात्मसंप्राप्तिः कैवल्यमिति युज्यते ।।
तस्या मेधातपोजत्वात्पौनःपुन्येन तच्छ्रुतेः ।। ३४१ ।।
तथा क्षयश्रुतेस्तस्य यद्धैतदितिवाक्यतः ।।
पृथिवी शरीरमित्युक्तेः शरीरित्वं प्रजापतेः ।। ३४२ ।।
नामरूपक्रियात्वेन मोहकार्योपसंहृतेः ।। ३४३ ।।
कस्यचिन्मुक्तयेऽलं स्यात्कस्यचित्र्यन्नवित्तये ।।
सकृच्छ्रुतं वचोऽशक्तं विधातु द्वयमञ्जसा ।। ३४४ ।।
भूर्यर्थता प्रकाशादेः प्रत्यक्षादेव कारणात् ।।
न त्वागमैकगम्येषु तथात्वमवसीयते ।। ३४५ ।।
श्वेतोऽसौ धावतीत्यादेरनेकोक्तित्वकारणात् ।।
अनेकार्थावसायः स्यान्न त्वेवमिह युज्यते ।। ३४६ ।।
निःशेषभूतात्मैकः सन्नधिदैवात्मना स्थितः ।।
भूतपापैरसंकीर्णो दैवं सुखमुपाश्नुते ।। ३४७ ।।
सर्वभूतात्माभूतोऽसौ सर्वानन्यत्वदर्शनः ।।
जगदुत्पत्तिसंहारैः क्रीडन्निव विचेष्टते ।। ३४८ ।।
वाक्च सा सर्वभूतानां श्रोत्रं त्वग्रसनं मनः ।।
घ्राणपादादयः सर्वे सर्वोपादानकारणात् ।। ३४९ ।।
ज्ञानं सप्रतिघं यद्वत्कार्यं वाऽस्मासु दृश्यते ।।
नैवमीशस्य सर्वत्र पूर्वोक्तादेव कारणात् ।। ३५० ।।
किंच सर्वाणि भूतानि तमवन्ति यथाबलम् ।।
इममर्थं श्रुतिर्वक्ति दृष्टान्तेन प्रयत्नतः ।। ३५१ ।।
पूर्वजन्माभिनिर्वृत्तां यथैवावन्ति देवताम् ।।
तथैवैवंभ्रवेदं भोगैः सर्वभूतानि सर्वदा ।। ३५२ ।।
सर्वभूतात्मतापत्तिर्यद्येवंविद इष्यते ।।
संगतिर्भोतिकैर्न स्यात्तस्य दुःखादिभिः कथम् ।। ३५३ ।।
नापरिच्छिन्नबुद्धित्वात्तस्य दुःखाद्युपप्लुतिः ।।
कुक्षिस्थाक्रिमिदुःखैर्नो न मनागपि संगतिः ।। ३५४ ।।
अस्मादाद्यभिमानित्वे तस्यास्मद्दुःखसंगतिः ।।
तस्य कृत्स्नाभिमानित्वान्नास्मन्मात्राभिमानता ।। ३५५ ।।
ईश्वरत्वाच्च तस्यास्मद्दुःखैर्न स्यात्समगमः ।।
अस्माकं दुःखसंप्राप्तिरनैश्वर्यकृतैव तु ।। ३५६ ।।
इत्यादि हृदये कृत्वा न्यायं श्रुतिरुदाहरत् ।।
यदु किंचेति विस्पषृं प्रजादुःखनिषेधकृत् ।। ३५७ ।।
यच्छोचन्ति प्रजाः सर्वा दुःखैराध्यात्मिकादिभिः।।
आसामेवाऽऽत्मभिः साकं तद्दुःखमुपयुज्यते ।। ३५८ ।।
यथोक्तन्यायतो दुःखं न सार्धं देवतात्मना ।।
कृतनाशस्तथाच स्यादकृताभ्यागमस्तथा ।। ३५९ ।।
पुण्यमेव कृतं यस्मात्पुण्यमेवामुमेत्यतः ।।
पापस्याकरणादेव नैति पापं कदाचन ।। ३६० ।।
अग्निं न ढौकते शैत्यमग्निवस्तुस्वभावतः ।।
पाप्मानो देवतां तद्वद्देवतात्मस्वभावतः ।। ३६१ ।।
सर्व एव समाः प्राणा इत्युक्तेः साम्यनिश्चितौ ।।
उपासने विकल्पेन प्राप्ते मीमांस्यते व्रतम् ।। ३६२ ।।
दैववागादिसंपत्तिर्मृतस्य त्र्यन्नदर्शिनः ।।
जीवता किं व्रतं धार्यमिति मीमास्यतेऽधुना ।। ३६३ ।।
सतात्मकर्यसंन्यासात्प्राप्ते नैष्कर्म्यरूपके ।।
प्राणव्रताविधानार्थे परो ग्रन्थोऽवतार्यते ।। ३६४ ।।
बहूक्त्यैव तु सर्वेषां सिद्धं पूर्वमुपासनम् ।।
स यो हैतानिति ततो नेदं पूर्वमपेक्षते ।। ३६५ ।।
वाक्स्वान्तयोः स्वरूपोक्तिर्वृथैव स्यात्पुरोदिता ।।
तयोरुपासनं नो चेत्प्राणवत्स्याद्विवक्षितम् ।। ३६६ ।।
मृत्युना श्रमरूपेण ग्रस्ता वागादयो यतः ।।
म्लोचन्त्यपि च श्राम्यन्ति तेन भग्नव्रताः स्मृताः ।। ३६७ ।।
तद्रूपो मध्यमो वायुः श्रमास्तमयवर्जितः ।।
यतोऽभग्नव्रतस्तस्मात्तस्यैव व्रतमाश्रयेत् ।। ३६८ ।।
प्राणे म्लोचन्ति वायौ च वागाद्यग्न्यादयो यतः ।।
प्राणस्यैव व्रतं धार्यमतो नान्यस्य कस्यचित् ।। ३६९ ।।
प्राणैकालिङ्गनात्प्राणा यथा तन्नामरुपिणः ।।
आसन्प्राणविदप्येवं प्राणात्मोपासनाद्भवेत् ।। ३७० ।।
सर्वेन्द्रियेषु यावान्स्यात्परिस्पन्दः क्रियात्मसु ।।
प्राणस्यैव स विज्ञेयस्तेषां त्वर्थप्रकाशनम् ।। ३७१ ।।
यथा वागादयस्तद्वदधिदैवेऽपि योजयेत् ।।
अग्न्यादिषु परिस्पन्दो वायोरेवेति निश्चयः ।। ३७२ ।।
वागाद्यनुग्रहः सिद्धस्त्वग्न्यादेः कर्म केवलम् ।।
सर्वेन्द्रियाणामात्मैव प्राणः सर्गो लयस्तथा ।। ३७३ ।।
प्राणरूपाभिधानाभ्यां ख्याता वागादयो यथा ।।
प्राणवित्संज्ञया ख्यातिं याति विद्वत्कुलं तथा ।। ३७४ ।।
यश्चापि प्राणवित्स्पर्धी स्पर्धामनु स मृत्युवत् ।।
शोहमित्वा मृतिं याति द्विप्यान्नातोऽनवेदिनम् ।। ३७५ ।।
ब्राह्मणोक्तार्थदार्ढ्याय श्लोको मन्त्रोऽनुकीर्त्यते ।।
यतश्चोदेति सूर्योऽसौ यत्र चास्तं निगच्छति ।। ३७६ ।।
प्रश्नरूपमिदं वाक्यं यतः प्रत्युक्तिरुच्यते ।।
प्राणादित्यदिना भानोरुदयास्तमयौ कथम् ।। ३७७ ।।
यदा वै पुरुषः शेते प्राणमप्येति वाक्तदा ।।
चक्षुः श्रोत्रं मनस्तद्वज्जायते तत एव च ।। ३७८ ।।
अधिदैवतमप्येवं वायोरग्न्यादिसंभवः ।।
अप्ययश्च यथाऽध्यात्मं श्रेयान्प्रणस्ततोऽन्यतः ।। ३७९ ।।
आत्मैव प्राणशब्दः स्यात्प्राणबन्धनवाक्यतः ।।
असदेवेदमित्युक्तेरात्मनो भानुसंभवः ।। ३८० ।।
यत एव समुत्पत्तिस्तत्रैव प्रलयोऽपि च ।।
मृदो जातस्य कुम्भस्य न लयो वीरणादिषु ।। ३८१ ।।
वागादिगणधारित्वाद्धर्मं वायुव्रतं विदुः ।।
चक्रिरे दध्रिरे धर्मं धारणं प्रकृतं यतः ।। ३८२ ।।
अद्यापि क्रियते तैस्तत्कर्तारश्चापि तत्सुराः ।।
अध्रियन्त यममुर्हि तस्मिन्काले पराजिताः ।।
धर्मव्रतं तदेवाद्य ब्रिभ्रत्यग्न्यादयः शुभम् ।। ३८३ ।।
अभग्नं मृत्युना यस्मात्प्राणस्यैव व्रतं ततः ।।
एकमेव व्रतं प्राणं चरेदा मरणात्सदा ।। ३८४ ।।
प्राण्यादपान्यात्प्राणात्मा ह्युक्त्यादिष्वपि कर्मसु ।।
अन्तर्भावो यतोऽमीषां श्रोत्रादीन्द्रियकर्मणाम् ।। ३८५ ।।
प्राणकर्मणि तेनैतदेकमेव व्रतं चरेत् ।। ३८६ ।।
प्राणापानात्मकं यस्माद्व्रतं प्राणैककर्तृकम् ।।
प्राण्यादपान्याच्च ततो नित्यमा मरणाद्बुधः ।। ३८७ ।।
प्राणात्मनैव वागादिव्रतान्यापि चरेत्सदा ।।
वागाद्यासङ्गवत्तन्मां पाप्मा मा प्रापदासुरः ।। ३८८ ।।
इत्येवमभिसंधिः सन्विद्वान्प्राणव्रतं चरेत् ।।
प्राणव्रतं चेदारब्धं चिकीर्षेत्तत्समापनम् ।। ३८९ ।।
अभ्यस्तेनाऽऽमृतेर्यस्मात्सायुज्यादि समश्नुते ।।
त्र्यन्नात्मदेवतायास्तु तस्मादेवं विधीयते ।। ३९० ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके प्रथमाध्यायस्य पञ्चमं सप्तान्नब्राह्मणम्
तद्धेदमित्यविद्याया उक्तं कार्यमशेषतः ।।
उक्तार्थस्यैव संक्षेपस्रयं वा इत्यथोच्यते ।। १ ।।
अज्ञातैकात्म्यकार्यं तद्यदेतदभिशब्दितम् ।।
न तु विध्वस्तसंमोहप्रत्यङ्भात्रसतत्त्वगम् ।। २ ।।
एवमुक्ते विरक्तोऽस्मान्मुमुक्षुः श्रद्धयाऽन्विनः ।।
ब्रह्मज्ञानेऽधिकारी स्यात्कथं नामेति भण्यते ।। ३ ।।
अविद्योत्थपुमर्थेभ्यो विमुखीभूतमानसः ।।
आत्मतत्त्वविजिज्ञासुस्तद्वयावृत्तो भवेन्नरः ।। ४ ।।
बाह्यार्थबद्धधिषणः प्रत्यग्याथात्म्यवित्तये ।।
नालं विरोधात्पुरुषः पराञ्चीत्यागमोक्तितः ।। ५ ।।
अविद्यामात्रहेतुत्वं न त्वैकात्म्यानुसारिता ।।
यथोक्तवस्तुनः कस्मादित्येतत्प्रतिपाद्यते ।। ६ ।।
अज्ञातादात्मनः साक्षादभिव्यक्तिः पुरोदिता ।।
अहेतुफलरूपस्य नामरूपक्रियात्मभिः ।। ७ ।।
नामाद्यात्मकतैवास्य ब्रह्मादेः स्थावरावधेः ।।
न तु वस्त्वन्तरं तत्स्याद्यथा तदिह वर्ण्यते ।। ८ ।।
कारणत्वसमानत्वस्वात्मलाभत्वहेतुभिः ।।
नामाद्यात्मकतैतस्य प्रपञ्चस्य प्रसाध्यते ।। ९ ।।
अनेकभेदसंभिन्नं यदेतद्व्याकृतं जगत् ।।
नामरूपक्रियातत्त्वमेतत्सर्वं प्रतीयताम् ।। १० ।।
त्रयं वा इदमित्येवं प्रतिज्ञार्थमिदं वचः ।।
हेतूक्तिरुत्तरो ग्रन्थस्तेषामित्यादिनोच्यते ।। ११ ।।
वागित्यनेन शब्देन नादमात्रं विवक्ष्यते ।।
अपजुह्नूषितत्वात्तु नादोत्थस्य विकारतः ।। १२ ।।
एषां नामविकाराणामुक्यं नादस्तदुत्थितेः ।।
सर्वनाम्नामतो नाद उक्थमित्यभिधीयते ।। १३ ।।
तथा सामान्यतो वाचो विशेषाणां तदात्मता ।।
न हि निष्कृष्य सामान्याद्विशेषः कश्चिदीक्ष्यते ।। १४ ।।
आत्मत्वाच्च तथा वाचो नाऽऽत्मीयोऽन्योऽवशिष्यते ।।
कार्त्स्येनैवाभिसंबन्धादात्मीयस्येह वस्तुतः ।। १५ ।।
कार्यकारणगो भेदः प्राप्तो लोके य ईक्ष्यते ।।
अविचारितसंसिद्धः सोऽयं श्रुत्या निषिध्यते ।। १६ ।।
एवं सति प्रमाणत्वमपूर्वार्थावबोधनात् ।।
अन्यथाऽतोऽनुवादः स्याच्छ्रुतेर्ज्ञातार्थबोधनात् ।। १७ ।।
चक्षुषो विषयश्चक्षुःशब्देनेहाभिधीयते ।।
रूपाणामिति संबन्धाद्रूपात्मत्वात्तथैव च ।। १८ ।।
यद्यद्धि रूप्यते किंचिच्छब्दस्पर्शादिकं धिया ।।
तत्तद्रूपमिति ज्ञेयं तैजसत्वाविशेषतः ।। १९ ।।
त्वाष्ट्रमेव हि सर्वत्र तेजो रूपादिलक्षणम् ।।
तस्माद्विषयसामान्यं चक्षुःशब्देन भण्यते ।। २० ।।
हेतुतज्जाविभागेन कार्यकारणहेतुतः ।।
वाचारम्भणशास्राच्च विकारानृततोच्यते ।। २१ ।।
अन्तर्भावश्च सामान्ये विशेषाणामथोच्यते ।।
सामान्यमेतत्सर्वेपां विशेषाणां समं हि तैः ।। २२ ।।
न विशेषो न सामान्यं भेदतोऽभेदतोऽस्ति नः ।।
तथा रूपविशेषाणां रूपमात्रआत्मकत्वातः ।।
स्रग्वत्सर्पादिकान्यद्वद्रूपं सर्वं बिभर्ति हि ।। २३ ।।
उक्तं समासतस्तावदेकत्वं नामरूपयोः ।।
कर्मणोऽपि तथैकत्वमधुना प्रतिपाद्यते ।। २४ ।।
वाक्चक्षुःशब्दतो यद्वद्गृह्यते विषयस्तयोः ।।
आत्मनो विषयस्तद्वदात्मशब्देन गृह्यते ।। २५ ।।
सर्वेन्द्रियपरिस्पन्दो व्यज्यते नः शरीरके ।।
शरीरविषयस्तस्मादात्मेत्यत्राभिधीयते ।। २६ ।।
आत्मैव त्वस्य कर्मेति तथैवाभिहितं पुरा ।।
अतोऽत्र कर्मसामान्यं गृह्यते देहसंश्रितम् ।। २७ ।।
नाम रुपं तथा कर्म यदेतत्र्रयमीरितम् ।।
एकमेव भवत्येतत्र्रयं सद्देहमात्रकम् ।। २८ ।।
विकर्तृत्वेन कर्मात्र नामरूपात्मनोर्भवेत् ।।
कर्मणः साधनत्वेन नामरूपे व्यवस्थिते ।। २९ ।।
रूपमेव प्रतिष्ठा स्यात्सर्वदा नामकर्मणोः ।।
न हि रूपमनाश्रित्य विद्येते नामकर्मणी ।। ३० ।।
प्राण एऴ प्रतिष्ठैवं सदा स्यान्नामरूपयोः ।।
प्राणैकात्म्याश्रयाद्यस्मादात्मलाभः सदा तयोः ।। ३१ ।।
तद्वद्वागाश्रयत्वं च तयोः स्याद्रूपकर्मणोः ।।
वाचा प्रकाश्यमाने ते प्रयुज्येते यतः सदा ।। ३२ ।।
आश्रयाश्रयिभावेन नामरूपक्रियात्मनाम् ।।
एकार्थानां सतां तेषां संहतिः स्याच्छरीरके ।। ३३ ।।
एकः सन्नेष आत्माऽपि त्रयमेतत्प्रपद्यते ।।
नामरूपक्रियाभिन्नो देहोऽयं गृह्यते यतः ।। ३४ ।।
एतन्मयोऽयमात्मेति तथा पूर्वं प्रपञ्चितम् ।।
एतावद्व्याकृतं सर्वं यदेतत्संहतं त्रिभिः ।। ३५ ।।
तदेतत्खलु वैराजं नामरूपक्रियात्मकम् ।।
नामरूपात्मसत्त्येन च्छन्नं प्राणामृतं तु तत् ।। ३६ ।।
प्राणशब्देन लिङ्गात्मा भण्यते करणात्मकः।।
पिण्डस्य मरप्मे नैतन्म्रियतेऽतोऽमृतं मतम् ।। ३७ ।।
पृथिव्यबग्निभूतानि सत्संज्ञान्यत्र लक्षयेत् ।।
त्यत्संज्ञके तु विज्ञेये वाय्वाकाशे महात्मभिः ।। ३८ ।।
सच्च त्यच्चेति तत्सत्त्यं पञ्चभूतात्मकं विदुः ।।
करणायतनं स्थूलं वैराजं यत्प्रचक्षते ।। ३९ ।।
अस्याप्यन्तर्गतः प्राणो विज्ञानात्मेति यं विदुः ।।
आ संसारात्स्थितः स्थास्नुः परिणामात्मकः सदा ।। ४० ।।
यथाकर्म यथाज्ञानमुपादत्ते शरीरकम् ।।
प्लुष्यादिना समोऽतोऽयं श्रुतावप्यभिधीयते ।। ४१ ।।
उपात्ताशेषभूतोऽयं यथोक्तोपात्तदेवतः ।।
कृत्स्नाविद्योत्थमानी च प्रत्यगज्ञानकारणात् ।। ४२ ।।
हैरण्यगर्भे तत्त्वज्ञो वैराजे च शरीरके ।।
आबद्धात्माभिमानोऽयं गार्ग्योऽविद्यासमन्वितः ।। ४३ ।।
कृत्स्नसंसारमान्येष सर्वोऽस्मीति व्यवस्थितः ।।
ब्रह्मोपदेशविषयः श्रुत्यैवोत्थाप्यते जडः ।। ४४ ।।
नामरूपाभिमानाभ्यां मर्त्याभ्याममृतः स्वयम् ।।
प्राणः करणसंघातश्छन्नः संवेष्टितः सदा ।। ४५ ।।
संप्रदायविदस्त्वत्र नानात्वैकत्ववादिनः ।।
भिन्नाभिन्नात्मकं ब्रह्म नामरूपादिवज्जगुः ।। ४६ ।।
त्रयं सदेकमेव स्यादेकं सत्तद्यथा त्रयम् ।।
अनेनैवानुमानेन विद्याद्ब्रह्मापि तादृशम् ।। ४७ ।।
दृगादिशक्त्यनेकत्वेऽप्येकमेव परं विदुः ।।
शक्तिशक्तिमतोरैक्यादद्वैतमिति भण्यते ।। ४८ ।।
सास्नादिषु यथा गोत्वमभेदेन व्यवस्थिम् ।।
मिथः साम्नादयो भिन्ना गोत्वाभिन्नास्तथाऽपि ते ।। ४९ ।।
भिन्नाभिन्नात्मना यद्वत्स्थूलेष्वर्थेषु दृश्यते ।।
सूक्ष्मेष्वपि तथा विद्यादनुमानबलाद्बुधः ।। ५० ।।
परपक्षे न दृष्टान्तः कश्चिदप्युपलभ्यते ।।
भिन्नाभिन्नात्मकं तस्मात्सर्वं वस्त्विति निश्चयः ।। ५१ ।।
अनुमानैकसिद्धत्वाद्भिन्नाभिन्नात्मवस्तुनः ।।
आगमेनात्र किं कार्यं लिङ्गसिद्धानुवादिना ।। ५२ ।।
न चाऽऽगमस्य तात्पर्यमेवंभूतेस्ति वस्तुनि ।।
अस्थूलं नेति नेतीति ज्ञाताज्ञातहुतेस्तथा ।। ५३ ।।
विशेषात्मनिषेधाय तथा सामान्यरूपिणः ।।
क्षुरविश्वंभरौ श्रुत्या दृष्टान्तौ प्रतिपादितौ ।। ५४ ।।
अन्त्या विशेषा दृष्टान्तः परपक्षेऽपि विद्यते ।।
त्वत्पक्ष एव दृष्टान्तो यथा नास्ति तथोच्यते ।। ५५ ।।
निःसामान्या विशेषाः स्युर्गोता तेभ्यो न चेद्धिरुक् ।।
अथ व्यावर्तते तेभ्यो गोत्वं ते खण्डवद्भवेत् ।। ५६ ।।
व्यावृत्तं यदि भिन्नेभ्यस्त्वयाऽभिन्नगिरोच्यते ।।
व्यावृत्तं न विशेषश्चेत्यहो विद्याविचेष्टितम् ।। ५७ ।।
अव्यावृत्तं विशेषेभ्यस्त्वथ सामान्यमुच्यते ।।
सामान्यस्य विशेषत्वाद्विशेषा एव केवलाः ।। ५८ ।।
ऩ ह्याभिन्नधिया गोत्वं विशेषेषु प्रतीयते ।।
विशेषमात्रनिष्ठत्वाद्भिन्नाभिन्नं किमुच्यते ।। ५९ ।।
अभेदः किं तयोर्योगः किं वैकात्म्यमभिन्नता ।।
नाभेदो मेषयोर्योगे यथा भिन्नौ तथा युतौ ।। ६० ।।
व्यामिश्रं यदि वा शुद्धं गोत्वं भेदेषु गम्यते ।।
नोभयत्रप्यभिन्नत्वमसाधारण्यसंस्थितेः ।। ६१ ।।
भेदेषु चोपयुक्तं तद्गोत्वं यद्वा पृथक्स्थितम् ।।
सामान्यं वा विशेषो वा कोऽनयोरभिधीयताम् ।। ६२ ।।
उपयुक्तं विशेषत्वादितरस्याप्यनन्वयात् ।।
भिन्नाभिन्नात्मतां नैति द्वैरूप्यासंभवात्तयोः ।। ६३ ।।
वस्तुवृत्तं न सामान्यं न विशेषस्तथैव च ।।
अपेक्षामात्रतः सिद्धेर्व्योम्नि कार्ष्ण्योदिवृत्तवत् ।। ६४ ।।
प्रत्यभिज्ञानतोऽभेदः खण्डमुण्डस्थगोत्वयोः ।।
एकाधिकरणज्ञानात्खण्डाद्यैस्तद्विभिन्नता ।। ६५ ।।
भिन्नाधिकरणज्ञानान्नैवमप्यभिदा तयोः ।।
सामान्येऽभिन्नधीर्यस्माद्भिन्नेष्वेव तु भिन्नधीः ।। ६६ ।।
प्रत्यक्षेणानुपात्तत्वान्न स्मृतिस्तदितीक्षणम् ।।
न हि प्रत्यक्षतोऽप्राप्तं स्मर्यते वस्तु किंचन ।। ६७ ।।
सामानाधिकरण्यस्य विभिन्नार्थव्यपाश्रयात् ।।
अभेदधीः कथं तत्र विशेषणविशेष्ययोः ।। ६८ ।।
अभिन्नवचसा भिन्नप्रतिषेधोऽभिधीयते ।।
प्राप्तस्य भिन्नरूपस्य शून्यताऽतः प्रसज्यते ।। ६९ ।।
वचो भेदनिषेधं चेन्न कुर्याद्भेदवाक्यवत् ।।
भिन्नाभिन्नात्मतापक्षहानिरेवं प्रसज्यते ।। ७० ।।
तक्रकौण्डिन्यन्न्वयायो न चेहाप्यवसीयते ।।
उत्सर्गानवकाशत्वाच्छून्यतैवात् आपतेत् ।। ७१ ।।
भिन्नौ जातिगुणौ द्रव्यात्स्वानुभूत्यनुरोधतः ।।
तद्विरोधदभिन्नत्वं कथं मानात्प्रतीयते ।। ७२ ।।
अभिन्नं सद्विभिन्नत्वं न कथंचित्प्रपद्यते ।।
स्वाश्रयात्वादभिन्नस्य कुतोऽस्य स्यात्पराश्रयः ।। ७३ ।।
अन्यानपेक्षं यद्यस्य वृत्तं तत्पारमार्थिकम् ।।
अन्यापेक्षं यतोऽन्यत्वं तेन तद्व्योमकार्ष्ण्यवत् ।। ७४ ।।
गोत्वसत्त्वप्रमेयत्ववस्तुत्वादीनि भिन्नवत् ।।
समान्यानीह खण्डादौ तेनान्योन्यविरुद्धता ।। ७५ ।।
यदेकं तन्न नानेति नाना नैकमिति प्रमा।।
योऽनुभूतिविरोध्यर्थः स कथं स्थाप्यते बलात् ।। ७६ ।।
भेदाः सामान्यतां यान्ति सामान्यं भेदतां यदिः ।।
लोकप्रसिद्धिवाधः स्यात्स चापि स्यादनर्थकः ।। ७७ ।।
सामान्यं च विशेषश्च द्रव्यतन्रौ मतौ यदि ।।
असामान्यविशेषात्मद्रव्यवत्प्राप्नुतश्च तौ ।। ७८ ।।
गुणतन्त्रं यदा द्रव्यं प्रसिद्धेर्बाधनं तदा ।।
एकस्यानेकतापत्तिर्द्रव्यस्यापि प्रसज्यते ।। ७९ ।।
द्रव्येणैवाभिसंबन्धाद्गुणानां न परस्परम् ।।
अन्योन्यानभिसंबन्धान्न विशेषस्तथेतरत् ।। ८० ।।
सामान्येतरतो भिन्नं द्रव्यं चेद्भवतो मतम् ।।
तन्निषेधेन तत्सिद्धेः कथं स्यात्तदभिन्नता ।। ८१ ।।
अथाभिन्नं मतं ताभ्यां द्रव्यस्यापह्नवस्ततः ।।
न विशेषो न सामान्यमन्योन्यासंगतेर्भवेत् ।। ८२ ।।
भिन्नाभेदादभिन्नस्य भेदः स्यात्पिण्डवद्ध्रुवम् ।।
पिण्डश्च सर्वगस्तद्वद्गोत्वाभेदात्प्रसज्य ते ।। ८३ ।।
अन्योन्याव्यतिरेकित्वादैकात्म्यं प्राप्नुयात्तयोः ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्ति के प्रथमाध्यायस्य पञ्चमं सप्तान्नब्राह्मणम् ।। ५ ।।
ततः प्रत्यक्षबाधः स्यात्तद्भेदो हि तदाश्रयः ।। ८४ ।।
व्यस्ताभेदात्समस्तोऽर्थो व्यस्तवन्न मनागपि ।।
समस्ताकरवज्ज्ञानं कुर्यात्प्रत्यक्षबाधतः ।। ८५ ।।
व्यस्ताभेदेऽपि चेत्कुर्यात्समस्तधिषणां बलात् ।।
व्यस्तात्मनाऽसमस्तोऽपि कुर्यात्प्लुषिधियं गिरिः ।। ८६ ।।
असाधारणरूपेण भेदो जगति निश्चितः ।।
साधारण्यं तयोर्मानात्समस्तव्यस्तयोः कुतः ।। ८७ ।।
सर्वाभेदाच्च सर्वस्य रज्ज्वां सर्पादिबुद्धयः ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्ति के प्रथमाध्यायस्य पञ्चमं सप्तान्नब्राह्मणम् ।। ५ ।।
रज्जुबुद्धिवदेव स्युस्तद्धीश्चाप्यहिबुद्धिवत् ।। ८८ ।।
निषेधविधिहेतूनां सर्वेषां सर्ववस्तुषु।।
समाप्तेरधिकाराणामप्रवृत्तिः प्रसज्यते ।। ८९ ।।
अभावमानक्लृप्त्यर्थो यश्चाऽऽयासः कृतो महान् ।।
निष्फलः सोऽभिसंवृत्तो भिन्नाभइन्नाव्यवस्थितौ ।। ९० ।।
स्वविशेषानुरोधित्वं सामान्यानां मतं यदि ।।
समस्तव्यस्ततापक्षस्तदा कुप्यति कल्पितः ।। ९१ ।।
न चापि सर्वसामान्यविशेषार्थावबुद्धये ।।
कश्चिदप्यधिकार्यस्ति कृत्स्नेऽपि जगतीदृशः ।। ९२ ।।
न वेदार्थो न चापीदृक्तर्केणाप्युपपद्यते ।।
भिन्नाभिन्नेक्षणं सर्वं यथोक्तन्यायवर्त्मना ।। ९३ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके प्रथमाध्यायस्य षष्ठं ब्राह्मणम्
चत्वार्येव सहस्राणि श्लोकानां द्वे शते तथा ।
श्लोकाः पञ्चदशान्ये च तृतीयस्यैष संग्रहः ।।
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीसुरेश्वराचार्यविरचिते बृहदारण्यकोपनिषद्भाष्यवार्तिके प्रथमोऽध्यायः