अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥संबंधभाष्यवार्तिकम् ॥ (९)

अल्पी­यः­पा­प­हा­निश्च नापि शब्दात्प्रतीयते ।।
न स पाप्मन इत्यस्मादश्रुता न च गृह्यते ।। ३५ ।।

सर्वा­द्या­न्न­गृ­हीतौ तु हेतुर्गमक इष्यते ।।
असाधारणकारित्वं तस्य साधारणात्मनः ।। ३६ ।।

सर्व­प्रा­ण­भृ­द­न्नस्य तस्मा­द्ग्र­ह­ण­मि­ष्यते ।।
उक्त­यु­क्ति­ब­ला­दत्र नान्यस्येति विनिश्चितिः ।। ३७ ।।

पापा­नि­र्मो­क­हे­तू­क्ति­र्मि­श्र­मि­त्य­भि­धी­यते ।।
सर्वार्थस्य हि पापाय यतोऽ­सा­धा­र­णी­क्रिया ।। ३८ ।।

प्रक्षेपोऽग्नौ हुतं विद्या­त्त­त्पूर्वं बलिकर्म च ।।
प्रहुतं चेह विज्ञेयं ते देवेभ्यो ददौ पिता ।। ३९ ।।

देवेभ्योऽन्ने यतः प्रत्ते हुतप्रहुतलक्षणे ।।
तानुद्दिश्य ततोऽद्यापि जुह्वति प्र च जुह्वति ।। ४० ।।

यतः सूत्रपदे द्वित्वमविशेषेण चोदितम् ।।
श्रौत­स्मा­र्त­वि­भा­गेन तत एतद्विकल्पितम् ।। ४१ ।।

स्मार्ता­न्ना­न­न्त­रो­क्त­त्वा­त्स्मा­र्तत्वं स्याद्दू­यो­स्तयोः ।।
अग्नि­हो­त्रा­भि­सं­ब­न्धा­त्स्यातां वा श्रुतिचोदिते ।। ४२ ।।

मन्त्रे द्वित्वा­वि­शि­ष्ट­त्वा­द्धु­त­प्र­हु­त­ल­क्षणे ।।
श्रुत्याऽतस्ते विकल्प्येते श्रौते स्मार्ते हि तुल्यवत् ।। ४३ ।।

दर्शश्च पौर्ममासश्च देवान्ने ते यतः श्रेते ।।
प्रायस्ताभ्यां न कामाय यष्टव्यमिति गम्यते ।। ४४ ।।

नेहेष्टयो निषिध्यन्ते देव­प्रा­धा­न्य­सि­द्धये ।।
ताच्छी­लि­को­क­ञ्श्र­व­णा­त्त­च्छी­लत्वं निवार्यते ।। ४५ ।।

प्रसक्तान्यपि नोच्यन्ते त्रीण्य­न्ना­न्यत्र कारणात् ।।
तेषां फल­त्वा­दु­क्तेभ्यः साधनेभ्योऽन्यता यतः ।। ४६ ।।

सौक­र्य­प्र­ति­प­त्तेश्च भूयोविषयतस्तथा ।।
साध­नै­क­स­जा­ति­त्वा­दा­न­न्त­र्य­म­का­र­णम् ।। ४७ ।।

पयोऽन्नमेव प्रायेण मनुष्याः पशुभिः सह ।।
युञ्जते पय एवाग्ने तेषा­म­न्न­म­तोऽस्तु तत् ।। ४८ ।।

भुञ्जते पय एवाग्रे क्रमे­णा­न्य­त्तृ­णादि हि ।।
अतोऽनुमीयते पित्रा तेभ्यः प्रत्तं पयः पुरा ।। ४९ ।।

पशवः पय एवाग्रे भुञ्जते नापरं ततः ।।
कथमेतद्विजानीम इत्येतदभिधीयते ।। ५० ।।

यत एवमतो लोके कुमारं जातमग्रतः ।।
तातरूपव्यवहितं लेहयन्ति घृतं जनाः ।। ५१ ।।

तस्यानु तदभावे वा पाययन्ति स्तनं शिशुम् ।।
पशुष्वपि तथा जातं वत्सं कश्चि­त्प्र­पृ­च्छति ।। ५२ ।।

कियांस्ते वयसा वत्स इत्याचष्टे वयो यथा ।।
अतृणाद इति तृणं नाद्यप्यत्ति मनागपि ।। ५३ ।।

वर्तते पय­सै­वा­सा­व­द्या­पी­त्य­व­सी­यते ।।
प्राण्यप्राणि जगत्सर्वं तस्मिन्नेव प्रतिष्ठितम् ।। ५४ ।।

पयसीदं जग­न्म­ग्न­मि­त्ये­त­द्ग­म्यते कुतः ।।
प्रसि­द्धे­र्ग­म्यते न्याया­द्य­तोऽ­सा­व­भि­धी­यते ।। ५५ ।।

आहुतिः पय एव स्यादज्यं वा पय एव वा ।।
पय एवाऽऽहुतिः सर्वमित्येतच्च श्रुतेर्मितेः ।। ५६ ।।

अथै­षाऽऽ­ज्या­हु­ति­र्यज्ञे यद्धविः सर्वरूपकम् ।।
पशु­श्चा­प्या­ज्य­मे­वै­त­त्क­रो­ती­त्यपि चाऽऽगमः ।। ५७ ।।

आज्या­भि­घा­र­सं­स्का­रा­त्स­र्व­मेव पयो हविः ।।
पयस्येव जग­त्कृ­त्स्न­म­ग्नि­होत्रे प्रतिष्ठितम् ।। ५८ ।।

ते वा एते इति तथा परिणामोऽखिलं जगत् ।।
अग्नि­हो­त्रा­हुतेः साक्षा­च्छ्रु­ता­वेव समीरितम् ।। ५९ ।।

अग्नौ प्रास्ताऽऽहुतिः सम्य­गा­दि­त्य­मु­प­ति­ष्ठते ।।
आदित्याज्जायते वृष्टि­र्वृ­ष्टे­रन्नं ततः प्रजाः ।। ६० ।।

पयो­द्र­व्या­हु­ते­श्चै­त­त्प­रि­णा­मोऽ­खिलं जगत् ।।
एतच्च श्रुतितः सिद्धं विश्व­मा­हु­ति­का­र­णम् ।। ६१ ।।

यथो­क्त­द­र्श­न­स्तुत्यै दर्श­ना­न्त­र­कु­त्स­नम् ।।
तस्मिन्सर्वमिति ह्यस्य दर्शनस्य विधित्सया ।। ६२ ।।

पय­सै­वा­ग्नि­होत्रं हि जुहत्संवत्सरं द्विजः ।।
जयत्येव पुनर्मृत्युं न भूयो मृतिभाग्भवेत् ।। ६३ ।।

संवत्सरे प्रयो­गा­णा­म­ग्नि­होत्रे हि संख्यया ।।
षष्ट्युत्तराणि त्रीण्येव शतानीति विनिश्चितम् ।। ६४ ।।

क्षपाहान्यपि तावन्ति संख्ययेह भवन्ति हि ।।
शतानि सप्त संख्याताः प्रयोगार्धाश्च विंशतिः ।। ६५ ।।

याजुष्मत्योऽपि तावत्य इष्टकाः स्युः प्रजापतेः ।।
संव­त्स­रा­ग्ने­श्चि­त्यस्य पुंसो ना़ड्यस्तथैव च ।। ६६ ।।

संप­दै­वाऽऽ­हु­ती­र्वि­द्वा­न्सं­पा­द्या­ग्ने­स्त­थे­ष्टकाः ।।
संव­त्स­र­म­वा­प्नोति स्वनाडीसंख्यया नरः ।। ६७ ।।

पुमा­न्सं­व­त्स­रोऽ­ग्निश्च नाड्य­हो­रा­त्र­या­जुषैः ।।
संपदैते समाः सर्वे तस्मा­त्सं­व­त्स­र­श्रुतिः ।। ६८ ।।

संव­त्स­रा­त्म­सं­पत्त्या कालात्मानं समश्नुते ।।
इत्येवंदृष्टयो धीरा यदाहुरसदेव तत् ।। ६९ ।।

पयस्यन्तर्हितं विश्वं पश्यन्नेवं पयो नरः ।।
एकयैव स आहुत्या जग­दा­त्मा­न­म­श्नुते ।। ७० ।।

तत्रैवं सति को मूढो द्राघीयांसं प्रतीक्षते ।।
संवन्सरावधिं कालं सकृदाहुतिसाधने ।। ७१ ।।

पयो द्रव्यं यथातत्त्वदर्शी चेच्छ्र­द्द­याऽ­न्वितः ।।
यदै­वा­ह­र्जु­हो­तीत्थं हन्ति मृत्युं तदैव सः ।। ७२ ।।

एकयैव स आहुत्या देवेभ्योऽन्नं ह्यशेपतः ।।
प्रयच्छति यतो नातः प्रयो­गा­न्त­र­मी­क्ष्यते ।। ७३ ।।

हुतमेवं जगत्कृत्स्नं नातोऽ­न्य­द­व­शि­ष्यते ।।
यथो­क्त­द­र्श­ना­त्त­स्मा­त्स­र्वाप्त्या मृत्युजिद्भवेत् ।। ७४ ।।

उक्तवद्धृदि संभाव्य वक्ष्यमाणान्यपि श्रुतिः ।।
अन्नानि कस्मादित्याह प्रश्न­वा­क्य­वि­व­क्षया ।। ७५ ।।

अद्य­मा­ना­न्य­था­न्नानि यथो­क्ता­न्य­त्तृभिः सदा ।।
कस्मात्क्षयं न संयान्ति यवपूर्णकुसूलवत् ।। ७६ ।।

प्रश्नस्य कस्मात्तानीति श्रुत्यै­वाऽऽ­चा­र्य­भू­तया ।।
पुरुषो वा इति गिरा हेतु­रु­क्तोऽ­क्षये परः ।। ७७ ।।

अद्यते चेत्सदैवान्नं जन्यते न तु तत्ततः ।।
यथोक्तः स्यादयं दोषो न तु तन्नेह जन्यते ।। ७८ ।।

अन्ना­क्ष­य­त्व­हे­तु­त्वा­त्पु­रु­षोऽ­क्षि­ति­रु­च्यते ।।
स हि धीहाप्रबन्धेन सर्वदाऽन्नं करोत्यतः ।। ७९ ।।

क्रिया­बु­द्धि­प्र­ब­न्धेन यतो भोक्ताऽ­ष्य­ह­र्नि­शम् ।।
तदन्नं जनयत्येव तस्मादन्नं न हीयते ।। ८० ।।

भोगदस्यैव भोगेन सृज्य­मा­न­त्व­हे­तुतः ।।
अन्नाक्षयो भवेदेवंं तयोरव्यतिरेकतः ।। ८१ ।।

सुख­दुः­खा­दि­सं­वित्तिः फलं पूर्वस्य कर्मणः ।।
रागद्वेषक्रिया तत्र स्यात्फ­ला­न्त­र­सि­द्धये ।। ८२ ।।

रागादिपूर्वकं कर्म जायते फलवद्यतः ।।
रागादिरहितं तत्तु निष्फलं सुप्तवागिव ।। ८३ ।।

को हेतुरक्षयत्वे स्यादिति पृष्टमथाधुना ।।
तद्विदः फलसिद्ध्यर्थे भूयः प्रश्नोऽ­य­मु­च्यते ।।
अक्षितित्वं कथं पुंस इत्ये­त­च्चा­धु­नो­च्यते ।। ८४ ।।

स हीदमन्नं कुरुते तत्त­त्का­ल­प्र­सू­तया ।।
धिया धिया हि पुरुषः कर्म­भि­श्चा­न्न­मा­त्मनः ।। ८५ ।।

भुज्यमानान्यपि ततो न क्षीयन्ते प्रबन्धतः ।। ८६ ।।
यथैव पुरुषोऽन्नानां भोक्ताऽत्यन्तं तथैव सः ।।
कर्ताऽ­प्य­त्य­न्त­मेव स्याद­न्यो­न्या­व्य­ति­रे­कतः ।। ८७ ।।

एवं प्रबन्धरूपेण साध्य­सा­ध­न­ल­क्ष­णम् ।।
अवि­द्या­प­ट­सं­वी­त­चे­तंसां स्थास्न्वि­वे­क्षते ।। ८८ ।।

एतच्च भण्यते श्रुत्या पुंसो वैराग्यसिद्धये ।।
संसा­रा­द­वि­र­क्तस्य मुक्तीच्छा नेह कस्य चित् ।। ८९ ।।

फल­हे­त्वो­र्मि­थोऽ­त्यन्तं सर्व­दाऽ­व्य­ति­रे­कतः ।।
सम्य­ग्ज्ञा­ना­दृते नास्ति तद्धे­तू­च्छि­त्ति­का­र­णम् ।। ९० ।।

त्यक्त्वाऽ­न्य­त्स­कलं तस्मा­त्स­म्य­ग्ज्ञा­नस्य लब्धये ।।
मनो­वा­क्त­नु­चे­ष्टा­भि­र्म­हान्तं यत्नमाचरेत् ।। ९१ ।।

पुंसोऽ­क्षि­तित्वं यो वेद तस्येदं फलमुच्यतचे ।।
सोऽन्नमत्ति प्रतीकेन वृत्त्वाऽन्नं मुख्ययाऽत्ति सः ।। ९२ ।।

नैवं­वि­द्गु­ण­ता­मेति ह्यन्नं प्रति कदाचन ।।
प्रधानभूतः सन्भुङ्ले सर्वदाऽन्नं स कामतः ।। ९३ ।।

अपि देवान्स संयाति तथोर्जं चोपजीवति ।।
प्रशंसैषा यथोक्तस्य विज्ञानस्येति निश्चितिः ।। ९४ ।।

अन्नत्रयं यदुत्कृष्टं तस्यायं निर्णयोऽधुना ।।
शरी­र­का­र्य­सं­स्थस्य वर्ण्य­तेऽ­ध्या­त्म­रू­प­कम् ।। ९५ ।।

प्रयो­ग­स­म­वा­यित्वं पूर्वेष्वन्नेषु वर्णितम् ।।
भोक्तारश्चापि ये तेषां तेऽपि श्रुत्यो­प­व­र्णिताः ।। ९६ ।।

प्रयो­ग­स­म­वा­यि­त्वा­त्पू­र्वेषां कर्मणां सताम् ।।
मनआदित्रयं कार्यं ताद­र्थ्ये­नो­त्तरा श्रुतिः ।। ९७ ।।

उत्पाद्य त्रीण्यथान्नानि मेधया तपसा पिता ।।
मनो वाचं तथा प्राणमात्मार्थे तानि चाकरोत् ।। ९८ ।।

मन­सोऽ­स्ति­त्व­सि­द्ध्यर्थं श्रुत्यो­प­न्य­स्य­तेऽ­नुमा ।।
सतश्च तस्य कामादिरूपाण्यपि च वक्ष्यति ।। ९९ ।।

अवि­द्या­धि­कृ­ता­वस्यां धर्म­ध­र्म्या­दि­सं­गतिः ।।
अवि­द्या­का­र्य­सं­स्थैव न त्वसौ प्रत्यगात्मनः ।। १०० ।।

इत्ये­त­त्प्र­ति­प­त्त्यर्थं परो ग्रन्थोऽ­न­ता­र्यते ।।
मा भूत्का­मा­दि­ध­र्मि­त्व­मा­त्म­नीति प्रयत्यते ।। १०१ ।।

पृष्टो जरद्गवं यान्त­म­द्रा­क्षी­स्त्व­मि­ती­तरः ।।
ततोऽन्यत्रमना आसं नातोऽद्राक्षं त्वदीरितम् ।। १०२ ।।

विष­या­न्त­र­सं­बद्धं मनो दृष्टं घटादिवत् ।।
आत्मैकसाक्षिकं तच्च ह्युक्ता­र्था­प­त्ति­सं­श्र­यात् ।। १०३ ।।

अस्त्यात्मा चित्स्वभावोऽत्र चक्षुश्चाविकलं तथा ।।
सप्रकाशं गवाश्वं च न च पश्यति चेतनः ।। १०४ ।।

अतोऽ­नु­मी­य­तेऽ­स्त्य­न्य­द्य­स्मि­न्न­सति नेक्षते ।।
द्रष्ट्रादि संहतं सर्वं यस्मिंश्च सति वीक्षते ।। १०५ ।।

यत्तदस्ति मन­स्त­त्स्या­त्प्र­सिद्ध्या चास्ति तन्मनः ।।
अभूयन्मम मनोऽन्यत्र यतो नाद्रा­क्ष­मि­त्यतः ।। १०६ ।।

सदप्यात्मादिकं सर्वं दर्शनादावकारणम् ।।
मनसैव यतो द्रष्टा गवादीह प्रपश्यति ।। १०७ ।।

निःशे­ष­प्र­त्या­धा­र­ध­र्म्य­स्तित्वं प्रसाध्य हि ।।
कामा­दि­ध­र्म­सि­द्ध्यर्थं काम इत्याद्यथोच्यते ।। १०८ ।।

साधनान्येव मनसो वुद्धि­क­र्मे­न्द्रि­या­ण्यपि ।।
सहैवाऽऽयतनैः सर्वैः प्राधान्यं मनसस्ततः ।। १०९ ।।

विषयाभिलाषः कामः स्यान्न विशेषेऽस्ति कारणम् ।।
इन्द्रि­या­लो­चि­ता­र्थस्य स्यात्सं­क­ल्पोऽ­व­धा­र­णम् ।। ११० ।।

अनिश्चयात्मिका वृत्ति­र्वि­चि­कि­त्से­त्यु­दा­हृता ।।
आस्तिक्यबुद्धिः श्रद्धा स्यादश्रद्धा तद्विरोधिनी ।। १११ ।।

धृतिश्रद्धे विना न स्युः कामाद्याः कारणादृते ।।
यतोऽ­का­मा­द­योऽ­प्यत्र ह्युक्ता एवार्थतो मताः ।। ११२ ।।

धारणं च धृतिर्ज्ञेया बुद्ध्यो­पा­त्तस्य वस्तुनः ।।
विप­र्य­योऽ­धृ­ति­स्तस्या, ह्रीर्ल­ज्जे­त्य­भि­धी­यते ।। ११३ ।।

विज्ञानं निश्चितं धीः स्याद्भयं भीरभिधीयते ।।
एतत्सर्वं मनो ज्ञेयमिति तादा­त्म्य­मु­च्यते ।। ११४ ।।

बुद्धेश्च मनसश्चैक्यं विव­क्षि­त्वो­प­सं­हृतिः ।।
इन्द्रियाण्यपि सर्वाणि स्वान्तस्यैव तु वृत्तयः ।। ११५ ।।

यतः स्वका­र्य­नि­र्देशः स्वान्तस्य स्पर्श­ने­न्द्रिये ।।
मन एव ततो ज्ञेयं शरी­रे­न्द्रि­य­सं­हतिः ।। ११६ ।।

पुंसो भोग­प्र­सि­द्ध्यर्थं वैचित्र्यं धीर्निगच्छति ।।
देहे­न्द्रि­या­द्य­व­स्था­भि­रतो धीः सर्वमेव तु ।। ११७ ।।

जिघ्रन्ती भवति घ्राणं पश्यन्ती चक्षुरुच्यते ।।
शृण्वती भवति श्रोत्रमिति व्यासोऽप्यभाषत ।। ११८ ।।

शुक्लं कृष्णमणु स्थूलमिति धीः कर्मणो वशात् ।।
द्वैता­धि­का­र­मा­पन्ना वैश्वरूप्यं निगच्छति ।। ११९ ।।

प्रत्य­क्कि­द्दे­श­भे­देन न हि शुक्लादिवस्तुनः ।।
सत्ता संभा­व्य­तेऽ­न्यत्र प्रत्य­ग्व­द्ग्रा­ह्य­व­स्तुनः ।। १२० ।।

नातः शुक्ला­दि­व­स्त्वस्ति बुद्धिरेव क्रियावशात् ।।
शुक्ला­दि­रू­प­ता­मेति पुरु­षा­र्थ­प्र­सि­द्धये ।। १२१ ।।

धीर्वि­प­र्य­य­रू­पेयं यतः शुक्लादिरूपिणी ।।
मन एवेत्यतः प्राज्ञाः सर्वरूपं प्रचक्षते ।। १२२ ।।

आत्मार्थेनैव स्त्यत्वं कृत्स्ना­त्मी­यस्य वस्तुनः ।।
तस्य तन्मा­त्र­या­श्वा­त्म्या­दिति पूर्वमवादिषम् ।। १२३ ।।

अपि सर्वा­णी­न्द्रि­याणि मन एव यतस्ततः ।।
पृष्ठतोऽपि नरः स्पृष्टो मनसैव प्रपद्यते ।। १२४ ।।

पराङ्भुख उपस्पृष्टः पाणेः स्पर्शोऽयमीदृशः ।।
इति स्पर्शविशेषं ना मनसैव प्रपद्यते ।। १२५ ।।

त्वचो­प­स्पृ­ष्टि­मा­त्रेण स्पर्शमात्रं प्रपद्यते ।।
स्पर्श­ना­दि­वि­शेषं तु मनसैव प्रपद्यते ।। १२६ ।।

मनसैव यतोऽ­शे­ष­क­र­ण­स्वा­र्थ­धी­भवः ।।
सर्वं हि मन एवेति श्रुतिराह वचस्ततः ।। १२७ ।।

मन­स्ता­व­त्सु­नि­र्णीतं शरीरं चेन्द्रियाणि च ।।
तदनन्तरतो वाचो व्याख्या प्रस्तूयतेऽधुना ।। १२८ ।।

यः कश्चे­त्य­वि­शे­षो­क्ति­र्ना­द­व­र्ण­प­दो­क्तिभिः ।।
संयोगोत्थो वियोगोत्थो यश्चापि प्रत्ययात्मकः ।। १२९ ।।

वागेव स इति ज्ञेयः कुतो यस्मादियं सदा ।।
समानयोने रूपस्य वाक्प्र­माऽ­तोऽ­व­बो­धिका ।। १३० ।।

वागेव प्रत्ययादौ स्यादि­त्ये­त­द्ग­म्यते कुतः ।।
स्वाभि­धे­या­व­बो­धस्य ह्या समाप्तेरियं यतः ।। १३१ ।।

यतोऽत्यर्थं प्रवृत्ता वाग्घटबोधे प्रदीपवत् ।।
अर्थावबोधनं कार्यं वाचो नान्यदितोऽपरम् ।। १३२ ।।

शब्दो­च्चा­र­ण­शक्तं हि ननु वागिन्द्रियं मतम् ।।
कथं तद्विषयः शब्दो वागि­त्य­त्रा­भि­धी­यते ।। १३३ ।।

सत्यमन्यत्र तद्ग्रह्यं तस्य तत्रैव योग्यतः ।।
इह त्वन्नत्रयस्यैव सर्वात्मत्वं विवक्षितम् ।। १३४ ।।

मनोऽन्तःपाति निखिलं रूपं यद्व­द्वि­व­क्ष्यते ।।
तस्य प्रका­श­क­स्त­द्व­त्सर्वः शब्दो विवक्ष्यते ।। १३५ ।।

प्रकाशस्यैव सर्वस्य शब्द­त्व­प्र­ति­प­त्तये ।।
एषा हि नेत्यतो वक्ति वागि­न्द्रि­य­नि­वृ­त्तये ।। १३६ ।।

रूपात्मकं यथा चक्षू रूपस्यैव प्रकाशकम् ।।
वाक्च शब्दात्मिका तद्व­च्छ­ब्द­स्यै­वास्तु दीपिका ।। १३७ ।।

इति चोद्यं समाशङ्क्य परिहारं प्रचक्षते ।।
एषा हि नेति केचित्तु नेयं दीपादिवन्मता ।। १३८ ।।

श्रोत्रा­दि­क­र­ण­ग्राह्यं सर्वं तद्रूषमुच्यते ।।
तस्य प्रकाशिकैवेयं न प्रकाश्या प्रदीपवत् ।। १३९ ।।

प्रकाश्यमेव चात्यन्तं मनो रूपं यथा तथा ।।
प्रकाशिकैव चात्यन्तं वाग्रपस्येति निश्चितिः ।। १४० ।।

प्रकाश्यमेव रूपं स्यात्प्रकाशो वाक्तथैव च ।।
विद्या­दे­त­त्स­मा­सेन लक्षणं रूपसंज्ञयोः ।। १४१ ।।

नामापि गृह्यमाणं सद्रूपं भवति शौक्ल्यवत् ।।
रूपं च बोध­य­त्त­द्व­न्ना­म­प­क्षेऽ­व­ति­ष्ठते ।। १४२ ।।

एवं वाङ्भनसे सम्यग्व्याख्याय प्रविभागशः ।।
तयोर्विधरणः प्राण­स्त्व­नि­रु­क्तोऽथ भण्यते ।। १४३ ।।

अन इत्यविशिष्टस्य वायो­र्ग्र­ह­ण­मि­ष्यते ।।
स एव प्रादि­सं­ब­न्धा­द्वि­शे­षार्थो भवेदसुः ।। १४४ ।।

उत्सर्गो मुखनासाभ्यां पिण्डस्य प्रणतिस्तथा ।।
प्राणो नाम मरु­द्वृ­त्ति­र­पा­न­स्त्व­धु­नो­च्यते ।। १४५ ।।

अवा­ग्वा­यो­र­प­श्वासो देह­स्या­वा­ग्ग­ति­स्तथा ।।
अपान एष कथितो व्यानः सांप्रतमुच्यते ।। १४६ ।।

वीर्य­व­त्क­र्म­हे­तुत्वं व्याप्य देहे च वर्तनम् ।।
व्यानवृत्तिरियं प्रोक्ता ह्युदानाख्याऽपि कीर्त्यते ।। १४७ ।।

योद्य­मा­दि­क्रि­या­हे­तु­स्त­थाऽ­भ्यु­द­य­क­र्म­कृत् ।।
उत्क­र्ष­हे­तु­र्देहे तु वृत्तिः सोदानसंज्ञिता ।। १४८ ।।

समाहरति वृत्तीर्यो हृद्देशे कीलवत्स्थितः ।।
स समान इति ज्ञेयः सर्व­का­र्यो­प­सं­हृतिः ।। १४९ ।।

यस्यैता वृत्तयः प्रोक्ता वृ्त्तिमान्सोऽन उच्यते ।।
संपूर्यावस्थितो देहं शाक­ल्प­प्र­श्न­नि­ष्ठितः ।। १५० ।।

प्राणशब्दः पुरा प्रोक्तो वृत्ति­मा­त्रा­भि­धा­यकः ।।
अन्ते वृत्तिमदर्थः स्यात्सर्वं प्राण इतीरणात् ।। १५१ ।।

नाम रूपं तथा कर्म संहतं सत्र्रिदण्डवत् ।।
मिथः संकी­र्ण­वृ­त्तिस्थं देह आत्मेति चोच्यते ।। १५२ ।।

एतावानेव संघातो देहः प्राणादिरूपकः ।।
वाङ्ययोऽथ प्राणमयस्तथैव च मनोमयः ।। १५३ ।।

नामात्र वाङ्भयं सर्वं रूपं सर्वं मनोमयम् ।।
तद्वत्प्राणमयं कर्म देहस्यास्यैष संग्रहः ।। १५४ ।।

अन्न­त्र­य­वि­भा­गोऽ­य­म­ध्यात्म उपवर्णितः ।।
अथाधिभूतविषये विभागस्तस्य कीर्त्यते ।। १५५ ।।

भूर्लोकं जानतर्ग्वेदं देवा माता च वागियम् ।।
अधिभूत इह प्रोक्ता विज्ञातं यच्च सा च वाक् ।। १५६ ।।

अन्तरिक्षं यजुर्वेदः पितरश्च पिता तथा ।।
इह यच्च विजिज्ञास्यं तन्म­नोऽ­त्राऽऽ­धि­भौ­ति­कम् ।। १५७ ।।

द्युलोकः सामवेदश्च मनुष्याः प्रजया सह ।।
यच्च किंचिदविज्ञातं प्राणोऽ­सा­वा­धि­भौ­तिकः ।। १५८ ।।

यत्किंचिदिह विज्ञातं तद्वाग्रूपं प्रचक्षते ।।
मनोरूपं विजिज्ञास्यं प्राण­स्या­ज्ञा­त­मेव तु ।। १५९ ।।

भूर्लोकादिषु सर्वेषु मनो­वा­क्प्रा­ण­ल­क्ष­णम् ।।
यथा­सं­भ­व­मा­यो­ज्य­मे­कै­क­स्मिं­स्त्रयं त्रयम् ।। १६० ।।

अधिभूते यतोऽशक्या वक्तुं वागादिविस्तृतिः ।।
यत्किं­चे­त्यु­प­सं­हारं लक्षणोक्त्या ततोऽकरोत् ।। १६१ ।।

लक्षणेनैव संसिद्ध आधिभोतिकसंग्रहे ।।
त्रय इत्या­दि­को­क्तिस्तु नियमार्थेति निश्चयः ।। १६२ ।।

व्याख्याने प्रस्तुते त्वस्मि­न्न­वि­द्यायाः समन्ततः ।।
कार्यकारणरूपेण तस्या एषोपसंहृतिः ।। १६३ ।।

प्राणात्मना तदज्ञातं ब्रह्म कारणमुच्यते ।।
नामात्मना तु तन्मानं मनोरूपं च मीयते ।। १६४ ।।

यतोऽविद्यैव सर्वेयं मनो­वा­क्प्रा­ण­ल­क्षणा ।।
अत­स्त­च­त्त­त्त्व­सं­बो­धात्ता जग्ध्वाऽ­मृ­त­म­श्नुते ।। १६५ ।।

विज्ञा­ता­द­न्य­दे­वै­त­द­वि­ज्ञा­ता­त्तथा पृथक् ।।
ब्रह्मैतदुभयं जग्ध्वा पूर्ण­मे­वा­व­शि­ष्यते ।। १६६ ।।

विज्ञातादिविदं भोगैर्वागाद्या देवता नरम् ।।
षिज्ञा­ता­दि­स्व­रू­पेण तमवन्ति पृथक्पृथक् ।। १६७ ।।

वागा­द­य­स्ता­व­दुक्ताः संक्षे­पे­णाऽऽ­धि­भौ­तिकाः ।।
तेषा­मे­वा­धि­दै­वेऽथ व्याख्या प्रस्तूयतेऽधुना ।। १६८ ।।

अध्यात्ममधिभूतं च यस्या रूपं पुरोदितम् ।।
अधि­दै­व­वि­व­क्षायां तस्या वाच इदं वपुः ।। १६९ ।।

अध्यात्ममधिभूतं च व्याख्याता याऽत्र वाक्पुरा ।।
वाचा सर्वाधिदैविक्या संव्याप्ता साऽविभागतः ।। १७० ।।

तामसं कठिनं चोर्वी शरीरं वाच उच्यते ।।
अग्नेः प्रकाशरूपस्य साऽऽधारत्वेन संस्थिता ।। १७१ ।।

अग्निस्तु सात्त्विकं रूपमाधेयत्वेन स क्षितौ ।।
वर्तते तामसे रूपे दैव्येवं द्विविधा हि वाक् ।। १७२ ।।

अद्यात्ममधिभूतं च वागे­कै­वाऽऽ­धि­दै­विकी ।।
सामा­न्य­व्य­क्ति­भे­देन ह्येकाऽनेका च सोच्यते ।। १७३ ।।

इत्येवं केचिदिच्छन्ति तथाऽ­न्या­दृ­ग­पी­ष्यते ।।
तत्रैवं सति वाग्रूपे एवं­व्या­ख्या­त­रू­पके ।। १७४ ।।

यावत्येषा च वागुक्ता तस्या इत्येवमादिना ।।
अध्या­त्मा­दि­प­रि­च्छिन्न या वाक्सा तावती मता ।। १७५ ।।

वाग­ध्या­त्मेऽ­धि­भूते च ताव­त्ये­षाऽऽ­धि­दै­विकी ।।
तेन तेन विशेषेण देवतैव यतो भवेत् ।। १७६ ।।

एकै­क­त्रा­धि­का­रेऽग्निः स एव व्यवतिष्ठते ।।
पृथि­व्य­ग्नि­स्व­रू­पेण क्वचि­द्वा­गा­त्मना भवेत् ।। १७७ ।।

यथोदितमिदं योज्यं मनः­प्रा­णा­त्म­नो­रपि ।।
दैव्यां वाचि यदुद्दिष्टं तुल्य­व्या­ख्या­न­हे­तुतः ।। १७८ ।।

अध्यात्ममधिभूतं च प्रजा गीर्मनसोर्यथा ।।
अधिदैवेऽपि तद्वा­च्य­मि­त्यर्थः पर आगमः ।। १७९ ।।

मनसश्चन्द्रभावो हि सर्वत्र श्रूयते स्फुटः ।।
तस्याऽऽदित्येन संबन्धः कस्मा­द­त्रा­भि­धी­यते ।। १८० ।।

विव­क्षि­त­त्वा­दै­क्यस्य मनोबुद्ध्योरतः श्रुतिः ।।
आदित्येनैव संधत्ते मनश्चन्द्रमसा न तु ।। १८१ ।।

प्रस­वा­धि­कृ­ते­श्चात्र सावित्रः प्रसवस्ततः ।।
सवि­त्रै­वा­भि­सं­बन्धो मनसस्तेन शस्यते ।। १८२ ।।

अनु­ग्र­ह­व्य­पे­क्षायां मनसश्चन्द्रमा भवेत् ।।
अधिदैवं तथाऽऽ­दि­त्य­श्च­क्षुषो देवता मता ।। १८३ ।।

अग्निरेव यतः सर्वप्रकाशो जगतीष्यते ।।
रूपाणां प्रविभागश्च त्वष्टृ­षा­क­नि­ब­न्धनः ।। १८४ ।।

तयो­र्गी­र्म­न­सो­रेवं प्रका­श­प्र­स­वा­त्मनोः ।।
प्राग्य­थो­क्ता­त्म­नो­र्यो­गा­त्प्रा­णोऽ­भू­द­न्त­रि­क्षगः ।। १८५ ।।

प्राणोऽ­भ­व­द्य­थाऽ­ध्यात्मे प्रजा वाक्स्वा­न्त­यो­स्तथा ।।
प्राण­स्यै­वा­धि­दै­वेऽपि प्रस­वोऽ­य­मि­हो­च्यते ।। १८६ ।।

नान्नत्रयं व्यपेक्ष्येह जन्म प्राणस्य कथ्यते ।।
किंतु पाङ्त्क­क्रि­या­पेक्षं प्राण­ज­न्मा­भि­धी­यते ।। १८७ ।।

स यथाऽऽध्यात्मिके देहे प्राण­स्त­द्व­त्प्र­जा­पतेः ।।
अन्तरिक्षगतः प्राणः स एष परमेश्वरः ।। १८८ ।।

यतोऽ­स­प­त्न­स्ते­ना­य­मिन्द्र इत्यभिधीयते ।।
ननु वाङ्भनसे सतोऽस्य तत्कु­तोऽ­स्या­स­प­त्नता ।। १८९ ।।

नैवं वाङ्भनसे यस्मा­त्प्रा­ण­वृ­त्त्यैव जीवतः।।
यद­ने­ना­न्न­म­त्तीति तस्मादेत इतीरणात् ।। १९० ।।

प्राणस्यैव यतो वृत्ती उक्ते वाङ्भनसे अपि ।।
प्राण­स्या­तोऽ­द्वि­ती­यत्वं तत­श्चे­न्द्र­त्व­मेव च ।। १९१ ।।

न सपत्नो भवत्यस्य योऽसपत्नं विवेद हि ।।
असपत्नमुपासीनः ससपत्नः कुतो भवेत् ।। १९२ ।।

उक्ता पाङ्लानुरोधेन वाङ्भ­नः­प्रा­ण­सं­श्रया ।।
अन्नत्रयविभागेन प्रक्रिया त्वधुनोच्यते ।। १९३ ।।

अध्यात्ममधिभूतं च तथा चैवाधिदैवतम् ।।
उक्ता वागादयः सर्व समा एवेति गृह्यताम् ।। १९४ ।।

साम्यं केन प्रका­रे­णे­त्य­नन्ता इत्यतोऽवदत् ।। १९५ ।।
नन्व­ध्या­त्मेऽ­धि­भूते च परिच्छिन्नाः पुरोदिताः ।।
वागादयस्त्विह कथमनन्ता इत्युदीरणम् ।। १९६ ।।

नैतदेवं यतोऽनन्ताः सर्वे भावा यथोदिताः ।।
वाचा सर्वाधिदैविक्या लोका­दे­र­प्य­न­न्तता ।। १९७ ।।

अधिकारपरिच्छेदे सर्वं यस्मात्समाप्यते ।।
नासंहतायाः कर्तृत्वं देवतायाः स्वतोऽपरैः ।। १९८ ।।

स्वाधि­का­र­वि­नि­ष्पत्तौ देवता देवतागणम् ।।
सर्व­मे­वाऽऽ­त्म­सा­त्कृत्वा तत्तत्कार्यं करोति हि ।। १९९ ।।

आभू­त­सं­प्ल­व­स्था­न­मा­नन्त्यं चेह गृह्यते ।।
कर्मकार्यस्य हि सतो मुख्यानन्त्यं न युक्तिमत् ।। २०० ।।

एवं सतीह योऽन­न्ता­नु­पास्ते सततोद्यतः ।।
सोऽनन्तमेव वागा­दि­लो­क­मा­प्नोति मानवः ।। २०१ ।।

उपास्तेऽन्तवतो यस्तु सोऽन्त­व­न्त­म­वा­प्नुते ।।
लोकं यत­स्त­तोऽ­न­न्त­मे­त्य­न­न्ता­त्म­भा­व­नात् ।। २०२ ।।

अधिकारो द्वयोरत्र प्रकृतः पाङ्त्ककर्मणः ।।
प्रक्रि­याऽ­न्न­त्र­य­स्यापि विभागः प्रकृतस्तथा ।। २०३ ।।

तत्रा­धि­दै­व­मु­क्तानि त्रीण्यन्नानि विभागशः ।।
सोपासनानि पाङ्त्कस्य वक्त­व्य­म­व­शि­ष्यते ।। २०४ ।।

अधिदैवे त्रयं तूक्तं मनो­वा­क्प्रा­ण­ल­क्ष­णम् ।।
पाङ्त्कस्य कर्मणः कार्यं नोक्तं वित्तं च कर्म च ।। २०५ ।।

पाङ्त्कस्य कर्मणः कार्यं न तावदवगम्यते ।।
पाङ्त्क­त्व­सि­द्धये यावन्नोच्येते वित्तकर्मणी ।। २०६ ।।

लोककालात्मको देवो विराट्संज्ञः प्रजापतिः ।।
तस्या­धि­लो­क­मा­त्मोक्तो योऽय­म­न्न­त्र­या­त्मकः ।। २०७ ।।

अधिकालं तु योऽस्याऽऽत्मा सोऽयं चन्द्रमसोच्यते ।।
पक्ष­मा­स­र्तु­व­र्षादेः स कर्ता कर्मणोऽनिशम् ।। २०८ ।।

हानि­वृ­द्धि­स्व­भा­वेन वित्तं चाप्यत्र लक्ष्यते ।।
कला­का­ष्ठा­ल­वा­द्यात्मा विश्वं विपरिणामयन् ।।
प्राण­पि­ण्डा­त्मकः काल आ महा­प्र­ल­या­त्स्थितः ।। २०९ ।।

यैकाऽवशिष्यते तस्य कला पक्षक्षये तथा ।।
प्रविश्य प्राणभृत्सर्वं पक्षतो जायते पुनः ।। २१० ।।

रात्रौ यस्मात्स एतस्यां प्रविश्याऽऽस्ते प्रजापतिः ।।
प्रामभृन्निखिलं तस्माद्धिंसां तस्यां परित्यजेत् ।। २११ ।।

कलाभिरस्तः कृत्ताभिः कृकलास इति स्मृतः ।।
हिसां न कुर्यात्तस्यापि किंन्व­ना­र­ब्ध­हिं­स­नम् ।। २१२ ।।

सामि­प्र­मा­पि­त­स्यापि रात्रौ तस्यां विवर्जयेत् ।।
प्राणभृद्धिंसनं यत्ना­त्किं­न्व­ना­र­ब्ध­पी़­ड­नम् ।। २१३ ।।

कृकलासे प्रसिद्धा या हिंसा प्राणभृतां स्वतः ।।
तामप्यत्र न कुर्वीत किमु वक्तव्यमन्यतः ।। २१४ ।।

एतस्या एव पूजायै देवताया निषेधनम् ।।
प्राण­भृ­द्धिं­स­न­स्येह नान्यदस्य प्रयोजनम् ।। २१५ ।।

स्मृतावपि निषिद्धेयं हिसा पर्वसु कर्मिणाम् ।।
विशि­ष्ट­फ­लं­स­गत्या इहोक्तिः सत्यवद्भवेत् ।। २१६ ।।

केव­ल­ज्ञा­न­मा­त्रेण मा भूत्र्र्य­न्ना­त्मकं फलम् ।।
परा­त्म­ज्ञा­न­व­त्त­स्मा­त्त­स्यो­पा­स­न­मु­च्यते ।। २१७ ।।

वित्तमेव कला मे स्युः कल्पयित्वा ध्रुवां स्वयम् ।।
इत्युपासीत यः सोऽथ कलात्मानं प्रपद्यते ।। २१८ ।।

यथोक्तगुणकं विद्वानुपासीत प्रजापतिम् ।।
आरो­प्याऽऽ­त्म­श­री­रेऽ­स्मिं­स्त­त्सा­ध­र्म्येण संततम् ।। २१९ ।।

वित्तमेव कलास्तस्य तद्धान्युपचयौ क्रिया ।।
ध्रुवाऽस्य देह एवायं जीव­न्स्या­त्षो­डशी कला ।। २२० ।।

सोऽकामयत जायेति साधनान्येव नः श्रुतिः ।।
अब्रवीन्न तु तत्साध्यं तदुक्त्यर्थं परा श्रुतिः ।। २२१ ।।

साधनोक्त्यैव तत्साध्यं यदि नामावसीयते ।।
विशि­ष्ट­फ­ल­सं­बन्धो न तथाऽपि प्रतीयते ।। २२२ ।।

पुत्रा­दि­सा­ध­नानां स्यादु­त्प­त्त्या­दि­स­म­न्व­यात् ।।
साध्यं लोक­त्र­य­म­त­स्त्रयो वावेति च श्रुतिः ।। २२३ ।।

त्रय एव यतो लोकाः साध्याः पुत्रादिसाधनैः ।।
तन्मुमुक्षुरतो मुक्त्यै त्यजेत्सर्वैषणा ययिः ।। २२४ ।।

अन्य­थै­वा­भि­सं­बन्धं केचिदत्र प्रचक्षते ।।
ज्ञानादेव पुम­र्थ­प्ते­र्नि­ष्फले सुतकर्मणी ।। २२५ ।।

निःशे­ष­फ­ल­सं­प्रा­प्ते­र्द­र्श­ना­देव केवलात् ।।
सुतादिना न तर्ह्यर्थ्यो नापि स्यात्प­ङ्त्क­क­र्मणा ।। २२६ ।।

तयो­रि­हा­र्थ­व­त्त्वाय त्रयो वावेति भण्यते ।।
परी­क्ष्यै­त­त्प­रि­ग्राह्यं न तु निर्युक्तिकं बुधैः ।। २२७ ।।

स्वफ­लेऽ­न्या­न­पे­क्षाणां साधनानां समुच्चयः ।।
न युक्तो­नि­र­पे­क्ष­त्वा­द्ग­म­ने­क्ष­ण­यो­रिव ।। २२८ ।।

अन्यापेक्षाणि चेद्दद्युः कर्मैकत्वं तदा भवेत् ।।
समुच्चितिर्न चैकस्य रुद्रेणापि समर्थ्यते ।। २२९ ।।

तन्तु­वी­र­ण­मृ­द्दा­रु­सा­ध­नानां पृथक्त्वतः ।।
पटा­दि­का­र्य­नि­ष्पत्तौ न तेषां स्यात्समुच्चयः ।। २३० ।।

तुरीवेमशलाकादेः स्वका­र्येऽ­न्यो­न्य­सं­हतेः ।।
समु­च्चि­ति­र­यु­क्तेयं तदाऽ­प्ये­क­त्व­हे­तुतः ।। २३१ ।।

लोकत्रयस्य संप्रा­प्ति­र्वि­द्य­यै­वेति चेन्मतम् ।।
तस्याः सर्वा­प्ति­हे­तु­त्वा­न्नै­त­देवं पृथक्त्वतः ।। २३२ ।।

प्रत्येकं भिन्नसाध्यं हि पुत्रा­क­र्मा­दि­सा­ध­नम् ।।
एकाकिन्या न तत्साध्यं विद्ययैवेति निश्चितिः ।। २३३ ।।

पुत्रेणैवेत्यतो वक्ति साध­ना­न्त­र­नि­ह्नु­तिम् ।।
ज्योतषेत्यत्र संचोद्य परिहारं प्रचक्षते ।। २३४ ।।

प्राप्त्य­ति­क्र­म­सं­भि­त्ते­र्वि­ष­य­प्र­वि­भा­गतः ।। २३५ ।।
नैतदेवं यतो नेह पुत्रो­त्प­त्त्य­ति­रे­कतः ।।
ाध­ना­न्त­र­ज­य्योऽयं लोकोऽतश्चोदितं न सत् ।। २३६ ।।

ज्योतिष्टोमेन संप्रा­प्ति­र्भो­गा­यैव तु तत्कृतः।।
सुते­ना­ति­क्र­मोऽ­प्राप्तेः प्राप्तो निर्विषयस्ततः ।। २३७ ।।

यद्येवं तर्हि संत्याज्यं ज्योतिषेति वचः श्रुतम् ।।
मैवं मनुष्यलोकस्य यत­स्त­त्राऽऽ­प्ति­रि­ष्यते ।। २३८ ।।

प्राप्तस्य ज्योतिषा तस्य पुत्रेणातिक्रमो जयः ।।
इति निर्युक्तिकं कैश्चि­द्व्या­ख्यानं यत्नतः कृतम् ।। २३९ ।।

जय्य एव सुतेनायं लोक इत्यवधार्यते ।।
ज्योतिषाऽपि स चेज्जेयो जीयतां न निषिध्यते ।। २४० ।।

नरलोकः सुतेनायं जय्य एवेति भण्यते ।।
एवे­त्य­यो­गा­व­च्छित्तौ नान्य­यो­ग­व्य­पे­क्षया ।। २४१ ।।

अतिक्रमो जया­र्थ­श्चे­त्सा­म­र्थ्या­देव सिद्धितः ।।
पितृ­लो­का­द्य­सं­प्रा­प्ते­स्त­त्रा­ति­क्र­म­गी­र्वृथा ।। २४२ ।।

नापुत्रस्येति निःशेषलोकाप्तौ साधनं सुतः ।।
श्रूयते मन्दपालादि तथा चात्र निदर्शनम् ।। २४३ ।।

श्रुतं साध्यं समुल्लङ्ध्य नातोऽ­न्या­त्का­मजं फलम् ।।
प्रत्य­ग्वि­वि­दि­षाऽ­न्यत्र कर्मणां श्रूयते फलम् ।। २४४ ।।

किंच भुक्त्वाऽ­थ­वाऽ­भुक्त्वा ज्योतिष्टोमफलं नरः ।।
अतिक्रामेदिमं लोकं नोभयत्रापि युज्यते ।। २४५ ।।

भुक्त्वाऽ­ति­ल­ङ्घनं तावद्विनाऽपि सुतजन्मना ।।
निःशे­ष­क­र्म­का­र्याणां भोगेनैव समाप्तितः ।। २४६ ।।

पर­ब्र­ह्मा­त्म­वि­ज्ञा­न­ज­न्म­नाऽपि हि कर्मणाम् ।।
नाभुक्त्वा फलमाप्नोति निर्वतिं परमां नरः ।। २४७ ।।

नैर­र्थ­क्य­प्र­स­क्तिश्च ज्योति­ष्टो­मा­दि­क­र्मणः ।।
न चेद्भुक्तं फलं तस्य तदभावेऽपि चात्ययः ।। २४८ ।।

चन्द्र­लो­का­दि­सं­प्राप्तिः श्रूयते कर्मणः फलम् ।।
पुण्यलोका भवन्तीति तथाच श्रुतितः स्फुटम् ।। २४९ ।।

सुत­ज­न्मा­दि­भि­श्चे­त्स्या­त्स­र्व­क­र्म­फ­ला­त्ययः ।।
पर­ब्र­ह्मै­क­वि­ज्ञानं निष्फलं वः प्रसज्यते ।। २५० ।।

अनुच्छित्तिश्च भोगेन स्पष्टं श्रुतिवचः श्रुतम् ।।
धिया धियेति वाक्येन भोगादेव क्रियोत्थितेः ।। २५१ ।।

कर्मणा पितृ­लो­का­प्ति­र्ना­श्रु­ते­र­न्य­सा­धना ।।
कर्मै­वो­पा­स्ति­रूपं यत्त­द्वि­द्ये­त्यत्र भण्यते ।। २५२ ।।

देव­लो­का­प्ति­सं­ब­न्धा­द्दे­व­ता­वि­ष­यैव सा ।।
विद्या न तु निर­स्ता­न्य­प्र­त्य­ङ्मा­त्रै­क­गो­चरा ।। २५३ ।।

मनुते यन्न मनसा मनो येन मतं सदा ।।
तदेव विद्धि ब्रह्मेति न त्विदं यदुपासते ।। २५४ ।।

उपासिक्रियया व्याप्ति­र­ब्र­ह्म­त्वस्य लक्षणम् ।।
इति श्रुत्यैव निर्दिष्टं नोपास्यं ब्रह्म तेन नः ।। २५५ ।।

विद्यया देवलोकाप्तिः श्रुतत्वादेव कारणात् ।।
नैव­का­रा­भि­सं­ब­न्धा­दे­वे­त्यत्र न संगतिः ।। २५६ ।।

भूयःफला यतो विद्या पूर्वाभ्यां तेन सादराः ।।
विद्यामेव प्रशंसन्ति न तथा पुत्रकर्मणी ।। २५७ ।।

लोकानां श्रेष्ठ इति च न चेदा­प्ति­र्वि­व­क्षिता ।।
सर्वलोकेष्विदं वाक्यमत्यये दुर्घटं भवेत् ।। २५८ ।।

अत्य­य­श्चे­द­भि­प्रेतः पुत्रो­त्प­त्त्या­दि­भि­स्रिभिः ।।
अपास्तर्णोऽथ स कथं कर्मस्वेष नियुज्यते ।। २५९ ।।

ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।।
इति पूर्वाश्रमे वासो ध्वस्तर्णस्य निषिध्यते ।। २६० ।।

यथाऽ­न­पा­कृ­त­र्णस्य मोक्षेच्छा वार्यते तथा ।।
अनधीत्य द्विजो वेदा­नि­त्या­दि­व­च­ना­न्मनोः ।। २६१ ।।

इष्ट्वेति च तथा क्त्वान्त­श्र­व­णा­त्पू­र्व­का­लता ।।
नीत्वा समाप्तिं कर्माणि फलवन्त्यफलानि च ।। २६२ ।।

शुद्धधीः प्रव्र­जे­त्प­श्चा­द्वि­रक्तः कर्मणां फलात् ।।
इत्य­नु­क्र­म­सं­न्यासे संप्र­त्ति­रु­प­दि­श्यते ।। २६३ ।।
योऽनुक्रमेणेति तथा श्रुतौ स्पष्टमिदं वचः ।। २६४ ।।

अन­नु­क्र­म­सं­न्यासे न संप्र­त्ति­क्रि­ये­ष्यते ।।
पुत्रे सत्येव सा यस्मा­न्ना­स्त्यसौ ब्रह्मचारिणः ।। २६५ ।।

यद्यपुत्र इति वचः संभवे सति युक्तिमत्।।
निर­स्त­दा­र­सं­बन्धे न तु स्याद्ब्र­ह्म­चा­रिणि ।। २६६ ।।

ब्रह्म­च­र्या­दे­वे­त्या­दि­वा­क्यानि शतशः श्रुतौ ।।
श्रूयन्ते तु ऋणवचो विरो­धा­त्स्या­द­प­स्मृतिः ।। २६७ ।।

वेदा­ह­मि­ति­म­न्त्रो­क्ते­स्त­मे­वे­त्य­व­धा­र­णात् ।।
निषेधान्नान्य इत्युक्तेर्न मुक्तिः सुतजन्मतः ।। २६८ ।।

न तत्र दक्षिणा यन्ति विद्ययैव तदाप्यते ।।
इति न्याय्यं श्रुतेर्वाक्यं कस्मा­न्नाऽऽ­द्रि­य­तेऽ­ञ्जसा ।। २६९ ।।

संन्या­स­मे­वो­प­क्रम्य संप्रत्तिः श्रूयते श्रुतौ ।।
यथाऽन्यत्र तथेहापि कस्मा­न्ना­भ्यु­प­ग­म्यते ।। २७० ।।

सर्व­क­र्म­नि­वृ­त्तिर्हि जीवतोऽत्र विधीयते ।।
एकमेव व्रतमिति संन्यासिन्येव युक्तिमत् ।। २७१ ।।

लब्ध­त्र्य­न्ना­त्म­क­फलो भाव­ना­ज्ञा­न­क­र्मभिः ।।
संन्य­स्त­शे­ष­कर्मा सन्बो­ध्य­तेऽ­जा­त­श­त्रुणा ।। २७२ ।।

नाम­रू­प­क्रि­या­देहः सर्वोऽ­स्मी­त्य­भि­मा­न­वान् ।।
अत­त्त्व­ज्ञोऽ­धि­का­र्यत्र विद्याया उपवर्ण्यते ।। २७३ ।।

अयं लोकश्च पुत्रेण यादृशेन च जीयते ।।
तादृ­क्पु­त्रोऽत्र वक्तव्य इत्यारब्धोत्तरा श्रुतिः ।। २७४ ।।

पुत्र­क­र्म­प­र­ज्ञा­न­नृ­पि­त्र­म­र­लो­कतः ।।
व्याख्यातो नियमोऽन्योन्यं फलसाधनसंगतेः ।। २७५ ।।

पुत्र­क­र्मा­र्थ­मा­त्र­त्वान्न पृथ­क्सा­ध­ना­न्त­रम् ।।
जाया मानुषवित्तं च कर्मै­का­र्थ­त्व­का­र­णात् ।। २७६ ।।

स्वरू­प­ला­भ­मा­त्रेण साधनत्वं निगच्छतः।।
कर्मज्ञाने सुतस्तस्य साधनत्वं व्रजेत्कथम् ।। २७७ ।।

इत्ये­व­म­भि­सं­वन्धो वक्तु­र्भा­ष्य­कृतः स्फुटः ।।
अस्म­दु­क्ता­वि­रो­धीति तेन नेहातियत्यते ।। २७८ ।।

पुत्र­श्चे­द­नु­शिष्टः स्याल्लो­क­स्ते­नैव जीयते ।।
नान्येन कर्मणाऽत्रार्थो नृलोकजयसिद्धये ।। २७९ ।।

पुत्र­स्यै­वा­व­धृ­तस्य एवकारो भवेदयम् ।।
पितृ­दे­व­लो­क­सं­प्राप्तिः श्रुतेहान्यैश्च साधनैः ।। २८० ।।

व्याख्या­न­मि­द­मे­वात्र विदोषं दोषवत्परम् ।।
इदमेव ततो ग्राह्यं न तु यद्दोषवन्मतम् ।। २८१ ।।

अथा­न­न्त­र­मे­वो­क्ता­त्क­र्मो­पा­स­न­चे­ष्टि­तात् ।।
अत­स्त­त्फ­ल­नि­ष्पत्तेः संप्रत्तिः संविधीयते ।। २८२ ।।

यतो मनुष्यलोकोऽयं विशिष्टसुतसाधनः ।।
तस्मा­त्सं­प्र­त्ति­क­र्मेह वक्तव्यं तत्फलार्थिने ।। २८३ ।।

विदुषैव तु कर्तव्या संप्र­त्ति­र्ना­वि­प­श्चिता ।।
यतोऽतः सूत्रिता नेयं सूत्र­कृ­द्भि­र­नि­त्यतः ।। २८४ ।।

संप्रत्तिरिति नामै­त­दा­त्म­सं­स्का­र­क­र्मणः ।।
प्रति­प­त्ति­क्रिया वा स्यादा­तु­र­न्या­स­द­र्श­नाम् ।। २८५ ।।

प्रैष्यन्निति च कालोऽस्य कर्मणोऽत्र विधीयते ।।
जात­का­दि­प­रि­ज्ञा­ना­ज्ज्ञातुं कालोऽपि शक्यते ।। २८६ ।।

मुमूर्षुश्च पिता पुत्र­म­थाऽऽ­हू­या­नु­म­न्त्र­येत् ।।
त्वं ब्रह्मे­त्या­दि­भि­र्वाक्यैः सोऽपि प्रत्याह बोधितः ।। २८७ ।।

कर्मभ्यः प्रव्रजिप्यन्वा प्रैष्य­न्नि­त्य­भि­धी­यते ।।
धातू­प­स­र्ग­यो­र्मु­ख्य­स्त­थाऽ­र्थोऽ­प्या­श्रितो भवेत् ।। २८८ ।।

अहं ब्रह्मोति पितरं पूर्व­मे­वो­प­शि­क्षितः ।।
प्रतिवक्तुं न शक्तः स्यान्न चेत्प्रा­क्शि­क्षितो भवेत् ।। २८९ ।।

पुत्रा­नु­म­न्त्र­ण­स्यार्थं व्याचष्टे स्वयमेव नः ।।
श्रुति­स्ति­रो­हि­ता­र्थ­त्वा­न्म­न्त्रा­णा­मि­त्य­तोऽ­व­दत् ।। २९० ।।

अनूक्तं यदधीतं स्याद्य­च्चा­ध्ये­त­व्य­मि­ष्यते ।।
यच्चानधीतं तस्योक्तौ ब्रह्मे­त्य­त्रै­कता भवेत् ।। २९१ ।।

त्वं ब्रह्मेतीह वाक्यार्थो ह्ययमत्र विवक्षितः ।।
अध्ये­त­व्या­र्थ­नि­प्प­त्ति­स्त्व­नि­ष्पत्त्या मया कृता ।। २९२ ।।

यावन्मत्कर्तृकं क्रिंचिन्मानेन प्रतिपाद्यते ।।
त्वत्कर्तृकं तदस्त्वत्र पितुरेवं विवक्षितम् ।। २९३ ।।

लोकोक्त्यैव हि यज्ञानां तत्फलत्वाहहे सति ।।
नित्य­य­ज्ञ­गृ­ही­त्यर्थं के च यज्ञा इतीरणम् ।। २९४ ।।

ब्रह्मे­त्या­दि­प­दा­र्थोऽ­य­मु­क्त­स्ता­व­त्स­मा­सतः ।।
त्वं ब्रह्मेति तु वाक्यार्थः श्रुत्येदानीं विभाव्यते ।। २९५ ।।

एतावदेव कर्तव्यं गृहि­णे­हा­धि­का­रिणा ।।
वेदा यज्ञाश्च लोकाश्च नातोऽ­न्योऽ­र्थोऽ­व­शि­ष्यते ।। २९६ ।।

यथो­क्ता­र्थ­चि­कीर्षुः संस्त­न्म­य­स्त­त्क्रतुः स्वतः ।।
इतोऽ­धि­का­र­ब­न्धा­न्माऽ­भु­न­ज­त्पा­ल­ये­दिति ।। २९७ ।।

चेतस्याधाय वाक्यार्थमिममाह पिता सुतम् ।।
त्वंब्र­ह्मे­त्या­दि­वा­क्यानां नातोऽन्योऽर्थो विवक्षितः ।। २९८ ।।

यत उक्तं चिकीर्पुः सन्ननुशिष्टश्च तादृशः ।।
अतो लोकहितार्थं तं पुत्र­मा­हु­र्म­नी­षिणः ।। २९९ ।।

अऩुशिष्टो यतः पुत्रः पित्रैवैति समर्थताम् ।।
अनुशिष्टमतो लोक्यं पुत्र­मा­हु­र्वि­प­श्चितः ।। ३०० ।।

पितरश्चात एवैनमनुशासति सत्सुतम् ।।
अनुशिष्टेन पुत्रेण लोक्यं स्यामिति यत्नतः ।। ३०१ ।।

संक्रा­मि­ता­त्म­भा­रोऽपि नाग्निहोत्रं परित्यजेत् ।।
इत्ये­त­त्क­र्म­रा­गोक्तं निष्प्रमाणं न गृह्यते ।। ३०२ ।।

संप्र­त्ति­लि­ङ्गा­त्सं­न्या­स­वि­धि­रत्र विवक्षितः ।।
निःशे­पो­प­नि­ष­न्मा­न­मेकं ज्ञानमितीष्यते ।। ३०३ ।।

त्र्यन्ना­त्म­भा­व­सं­प्रा­प्ते­र्जी­व­तैव कृतत्वतः ।।
साधनानां फला­न्त­त्वा­त्सं­न्यासः किं निवार्यते ।। ३०४ ।।

याव­ज्जी­व­श्रु­ती­प्रा­प्तेर्न चेत्तत्याग इष्यते ।।
प्रयो­गा­व­सि­ते­र्नैव जरिणोऽधिकृतिर्न च ।। ३०५ ।।

प्रात­र्दे­शा­व­सा­न­त्वा­दा­ग्नि­हो­त्रा­दि­क­र्मणः ।।
नित्यानामपि संन्यासः कर्मणां स्यात्तदैव तु ।। ३०६ ।।

संक्रा­मि­ता­त्म­भा­रस्य त्वं ब्रह्मेति वचोऽर्थवत् ।।
तदा स्यात्स­र्व­क­र्माणि यदि संन्यस्य तिष्ठति ।। ३०७ ।।

सर्वा­त्म­का­र्य­नि­च­य­पु­त्र­सं­क्रा­मि­त­त्वतः ।।
न चेत्तित्यक्षितं सर्वं प्रति­प्र­स­व­गी­र्भ­वेत् ।। ३०८ ।।

कौषीतकिश्रुतौ तद्व­द्गृ­ह­स्थ­स्यैव जीवतः ।।
संन्यासः श्रूयते स्पष्टः पुत्रैश्वर्ये सुखं वसेत् ।। ३०९ ।।

संन्यस्य सर्वकर्माणि सर्व­दो­षा­न­पा­नु­दन् ।।
इत्यादि मनुनाऽप्युक्तं तद्विरुद्धं च भण्यते ।। ३१० ।।

उपा­स्ति­फ­ल­मे­वास्य पितु­र्य­द्व­दि­हो­च्यते ।।
प्रतिप्रसूयते कस्मा­न्ना­ग्नि­हो­त्रा­दिकं तथा ।। ३११ ।।

एक­मे­वे­त्य­व­धृ­ते­र्युक्तं प्राणव्रतं पितुः ।।
सेस्का­र­क­त्वा­त्त­स्यैव न तदन्यदिहेष्यते ।। ३१२ ।।

म्रियते स यदै­वं­वि­त्पु­त्र­सं­क्रा­मि­त­क्रतुः ।।
क्रत्व­ञ्जि­तै­स्तदै प्राणैः सह पुत्रं विशत्ययम् ।। ३१३ ।।

प्रागा­त्म­क्र­तु­सं­क्रा­न्ते­र­भू­द्या­दृ­क्क्रतुः पिता ।।
स तादृ­क्क्र­तु­वि­म्वोऽस्य संक्रान्तः स्वसुते पितुः ।। ३१४ ।।

जलार्कस्येव संक्रान्तिः स्वाभा­स­भ्र­म­का­र­णात् ।।
परो­पा­धि­नि­मि­त्तैव कौट­स्थ्या­त्प्र­त्य­गा­त्मनः ।। ३१५ ।।

क्रत्वञ्जितधियो यद्व­त्स्वा­त्म­दे­हस्य साक्षिता ।।
तद्व­त्पु­त्रा­दि­दे­हेपु मोहा­न्ना­ना­त्म­वि­भ्रमः ।। ३१६ ।।

स्वाधि­का­र­सु­ता­वे­शा­त्पि­तै­वाऽऽ­वि­श­ती­त्यतः ।।
स्वयं निरधिकारस्तु दैव­प्रा­णोऽ­व­ति­ष्ठते ।। ३१७ ।।

आध्यात्मिकेन देहेन न्यून­का­र्य­स­मा­प्तये ।।
पिता पुत्रेण कुर्वाण आस्ते तत्फलभुक्स्वयम् ।। ३१८ ।।

दैवसाधनसंपन्नः पुत्र एवावतिष्ठते ।।
पिता तु तत्फलात्मैव न तु साधनरूपभृत् ।। ३१९ ।।

नाकारि कार्यं यत्पित्रा स्वाधीत्यदि प्रमादतः ।।
तत्पू­र­णा­त्पि­तु­स्रा­णा­त्पुत्र इत्यभिधीयते ।। ३२० ।।

संपू­र्ण­स्वा­त्म­का­र्योऽयं पिता दैवात्मना स्थितः ।।
पितुः सामिकृतं कार्यं पूरयन्वर्तते सुतः ।। ३२१ ।।

मृतेरुच्छिद्यते लोकः साध­नो­च्छि­त्ति­हे­तुतः ।।
पितुरित्यपि नाऽऽशङ्का कार्या यस्मात्स एव तु ।।

पुत्रेणैव शरीरेण कुर्वन्नास्ते नवं नवम् ।। ३२२ ।।
पुत्रेणैवेत्यतो वक्ति नित्या­धि­कृ­ति­सि­द्धये ।।
जयतीमं पिता लोकमेवंभूतेन सूनुना ।। ३२३ ।।

न त्वात्म­ला­भ­मा­त्रेण जयः स्याज्ज्ञा­न­क­र्म­वत् ।।
पुत्रा­धि­का­र­नु­त्त्य­र्थ­म­थ­शब्दः प्रयुज्यते ।। ३२४ ।।

कृतसंप्रत्तिकं दैवाः प्राणा वागादयः समम् ।।
पितरं संवि­श्न्त्युक्ताः सदा­त­द्भा­व­भा­वि­तम् ।। ३२५ ।।

पृथिव्यै चैनमित्यादि तद्व्याचष्टे यथा तथा ।।
हेत्वर्थो वाऽथशब्दोऽयं यस्मा­त्सं­क्रा­मि­त­क्रतुः ।। ३२६ ।।

तद्वियोगादतो दैवा आविशन्ति यथोदिताः ।। ३२७ ।।
श्रुतिस्था या हि वाक्तस्याः पञ्चमीयं परा भवेत् ।।
ततो लब्धात्मलाभायाः प्रथमा जन्महेतुतः ।। ३२८ ।।

वाचं संश्रुत्य वाक्यस्थां चिनुते भावनामयीम् ।।
उपादानमतः श्रौती स्याद्वाणी भावनात्मनः ।। ३२९ ।।

न हि वस्तु स्वतः­सि­द्ध­म­न्य­त्स्या­त्प­र­मा­त्मनः ।।
सदेवेत्यादिकं शास्रं बाधितं स्यात्तथा सति ।। ३३० ।।

धिया धियेति कार्यत्वं कृत्स्नस्य जगतः स्वयम् ।।
श्रुत्यैव स्पष्टमाख्यातं नातोऽ­भि­व्य­क्ति­रि­ष्यते ।। ३३१ ।।

आर्तश्रुतेश्च प्राणादि वाचारम्भणशस्रतः ।।
नाऽऽत्म­व­त्स्या­त्स्व­तः­सि­द्ध­मु­त्प­त्त्या­दि­श्रु­ते­स्तथा ।। ३३२ ।।

कर्तृभिः क्रियते तस्मा­द्भा­व­ना­ज्ञा­न­क­र्मभिः ।।
त्र्यन्ना­त्म­क­मिदं विश्व नातोऽ­भि­व्य­क्ति­रि­ष्यते ।। ३३३ ।।

ब्रह्मैवेदं तथाऽऽत्मैव पुरुषश्चेति चाऽऽगमः ।।
एवं सत्यर्थवान्नः स्यादन्यथा स्यादनर्थकः ।। ३३४ ।।

पुत्र­क­र्मा­प­र­ज्ञा­न­सा­ध­ना­न्य­परे जगुः ।।
मनु­ष्य­लो­क­पि­त्र­म­र­लो­केभ्यः स्युर्निवृत्तये ।। ३३५ ।।

एवं मोक्षार्थतां तेषां पुत्रादीनां प्रचक्षते ।।
लोक­व्या­वृ­त्ति­मा­र्गेण श्रुतिस्तेषां निषेधकृत् ।। ३३६ ।।

काम्यमेवाखिलं पाङ्त्कं कर्मेत्येवं प्रकृत्य तु ।।
पुत्रादीनां स्वसा­ध्या­र्थ­वि­नि­यो­गो­प­सं­हृतेः ।। ३३७ ।।

संसारफलतैवातः पुत्रा­दे­र्ग­म्यते श्रुतेः ।।
अवि­द्व­द्वि­ष­यै­वात ऋण­श्रु­ति­र­पी­ष्यते ।। ३३८ ।।

प्रजया किं करिष्याम इत्येवं च प्रवक्ष्यति ।।
नातो विदितवेद्यस्य कथां­चि­त्स्या­दृ­ण­श्रुतिः ।। ३३९ ।।

व्यावृ­त्त्य­र्थानि नैतानि पुत्रादीनि यथा तथा ।।
पृथिव्यै चैनमित्याद्या स्वयं निर्वक्ति नः श्रुतिः ।। ३४० ।।

न च त्र्यन्ना­त्म­सं­प्राप्तिः कैवल्यमिति युज्यते ।।
तस्या मेधा­त­पो­ज­त्वा­त्पौ­नः­पु­न्येन तच्छ्रुतेः ।। ३४१ ।।

तथा क्षय­श्रु­ते­स्तस्य यद्धै­त­दि­ति­वा­क्यतः ।।
पृथिवी शरीरमित्युक्तेः शरीरित्वं प्रजापतेः ।। ३४२ ।।
नाम­रू­प­क्रि­या­त्वेन मोह­का­र्यो­प­सं­हृतेः ।। ३४३ ।।

कस्य­चि­न्मु­क्त­येऽलं स्यात्क­स्य­चि­त्र्य­न्न­वि­त्तये ।।
सकृच्छ्रुतं वचोऽशक्तं विधातु द्वयमञ्जसा ।। ३४४ ।।

भूर्यर्थता प्रकाशादेः प्रत्यक्षादेव कारणात् ।।
न त्वागमैकगम्येषु तथात्वमवसीयते ।। ३४५ ।।

श्वेतोऽसौ धाव­ती­त्या­दे­र­ने­को­क्ति­त्व­का­र­णात् ।।
अनेकार्थावसायः स्यान्न त्वेवमिह युज्यते ।। ३४६ ।।

निःशे­ष­भू­ता­त्मैकः सन्नधिदैवात्मना स्थितः ।।
भूत­पा­पै­र­सं­कीर्णो दैवं सुखमुपाश्नुते ।। ३४७ ।।

सर्व­भू­ता­त्मा­भू­तोऽसौ सर्वा­न­न्य­त्व­द­र्शनः ।।
जग­दु­त्प­त्ति­सं­हारैः क्रीडन्निव विचेष्टते ।। ३४८ ।।

वाक्च सा सर्वभूतानां श्रोत्रं त्वग्रसनं मनः ।।
घ्राणपादादयः सर्वे सर्वो­पा­दा­न­का­र­णात् ।। ३४९ ।।

ज्ञानं सप्रतिघं यद्वत्कार्यं वाऽस्मासु दृश्यते ।।
नैवमीशस्य सर्वत्र पूर्वोक्तादेव कारणात् ।। ३५० ।।

किंच सर्वाणि भूतानि तमवन्ति यथाबलम् ।।
इममर्थं श्रुतिर्वक्ति दृष्टान्तेन प्रयत्नतः ।। ३५१ ।।

पूर्व­ज­न्मा­भि­नि­र्वृत्तां यथैवावन्ति देवताम् ।।
तथैवैवंभ्रवेदं भोगैः सर्वभूतानि सर्वदा ।। ३५२ ।।

सर्व­भू­ता­त्म­ता­प­त्ति­र्य­द्ये­वं­विद इष्यते ।।
संग­ति­र्भो­ति­कैर्न स्यात्तस्य दुःखादिभिः कथम् ।। ३५३ ।।

नाप­रि­च्छि­न्न­बु­द्धि­त्वा­त्तस्य दुःखा­द्यु­प­प्लुतिः ।।
कुक्षि­स्था­क्रि­मि­दुः­खैर्नो न मनागपि संगतिः ।। ३५४ ।।

अस्मा­दा­द्य­भि­मा­नित्वे तस्या­स्म­द्दुः­ख­सं­गतिः ।।
तस्य कृत्स्ना­भि­मा­नि­त्वा­न्ना­स्म­न्मा­त्रा­भि­मा­नता ।। ३५५ ।।

ईश्वरत्वाच्च तस्या­स्म­द्दुः­खैर्न स्यात्समगमः ।।
अस्माकं दुःख­सं­प्रा­प्ति­र­नै­श्व­र्य­कृ­तैव तु ।। ३५६ ।।

इत्यादि हृदये कृत्वा न्यायं श्रुतिरुदाहरत् ।।
यदु किंचेति विस्पषृं प्रजा­दुः­ख­नि­षे­ध­कृत् ।। ३५७ ।।

यच्छोचन्ति प्रजाः सर्वा दुःखै­रा­ध्या­त्मि­का­दिभिः।।
आसामेवाऽऽत्मभिः साकं तद्दुः­ख­मु­प­यु­ज्यते ।। ३५८ ।।

यथोक्तन्यायतो दुःखं न सार्धं देवतात्मना ।।
कृतनाशस्तथाच स्याद­कृ­ता­भ्या­ग­म­स्तथा ।। ३५९ ।।

पुण्यमेव कृतं यस्मा­त्पु­ण्य­मे­वा­मु­मे­त्यतः ।।
पापस्याकरणादेव नैति पापं कदाचन ।। ३६० ।।

अग्निं न ढौकते शैत्य­म­ग्नि­व­स्तु­स्व­भा­वतः ।।
पाप्मानो देवतां तद्व­द्दे­व­ता­त्म­स्व­भा­वतः ।। ३६१ ।।

सर्व एव समाः प्राणा इत्युक्तेः साम्यनिश्चितौ ।।
उपासने विकल्पेन प्राप्ते मीमांस्यते व्रतम् ।। ३६२ ।।

दैव­वा­गा­दि­सं­प­त्ति­र्मृ­तस्य त्र्यन्नदर्शिनः ।।
जीवता किं व्रतं धार्यमिति मीमास्यतेऽधुना ।। ३६३ ।।

सता­त्म­क­र्य­सं­न्या­सा­त्प्राप्ते नैष्कर्म्यरूपके ।।
प्राण­व्र­ता­वि­धा­नार्थे परो ग्रन्थोऽ­व­ता­र्यते ।। ३६४ ।।

बहूक्त्यैव तु सर्वेषां सिद्धं पूर्वमुपासनम् ।।
स यो हैतानिति ततो नेदं पूर्वमपेक्षते ।। ३६५ ।।

वाक्स्वान्तयोः स्वरू­पो­क्ति­र्वृ­थैव स्यात्पुरोदिता ।।
तयोरुपासनं नो चेत्प्रा­ण­व­त्स्या­द्वि­व­क्षि­तम् ।। ३६६ ।।

मृत्युना श्रमरूपेण ग्रस्ता वागादयो यतः ।।
म्लोचन्त्यपि च श्राम्यन्ति तेन भग्नव्रताः स्मृताः ।। ३६७ ।।

तद्रूपो मध्यमो वायुः श्रमा­स्त­म­य­व­र्जितः ।।
यतोऽ­भ­ग्न­व्र­त­स्त­स्मा­त्त­स्यैव व्रतमाश्रयेत् ।। ३६८ ।।

प्राणे म्लोचन्ति वायौ च वागा­द्य­ग्न्या­दयो यतः ।।
प्राणस्यैव व्रतं धार्यमतो नान्यस्य कस्यचित् ।। ३६९ ।।

प्राणै­का­लि­ङ्ग­ना­त्प्राणा यथा तन्नामरुपिणः ।।
आस­न्प्रा­ण­वि­द­प्येवं प्राणा­त्मो­पा­स­ना­द्भ­वेत् ।। ३७० ।।

सर्वेन्द्रियेषु यावा­न्स्या­त्प­रि­स्पन्दः क्रियात्मसु ।।
प्राणस्यैव स विज्ञेयस्तेषां त्वर्थप्रकाशनम् ।। ३७१ ।।

यथा वागा­द­य­स्त­द्व­द­धि­दै­वेऽपि योजयेत् ।।
अग्न्यादिषु परिस्पन्दो वायोरेवेति निश्चयः ।। ३७२ ।।

वागाद्यनुग्रहः सिद्ध­स्त्व­ग्न्यादेः कर्म केवलम् ।।
सर्वे­न्द्रि­या­णा­मा­त्मैव प्राणः सर्गो लयस्तथा ।। ३७३ ।।

प्राण­रू­पा­भि­धा­नाभ्यां ख्याता वागादयो यथा ।।
प्राण­वि­त्सं­ज्ञया ख्यातिं याति विद्वत्कुलं तथा ।। ३७४ ।।

यश्चापि प्राण­वि­त्स्पर्धी स्पर्धामनु स मृत्युवत् ।।
शोहमित्वा मृतिं याति द्विप्या­न्ना­तोऽ­न­वे­दि­नम् ।। ३७५ ।।

ब्राह्म­णो­क्ता­र्थ­दा­र्ढ्याय श्लोको मन्त्रोऽ­नु­की­र्त्यते ।।
यतश्चोदेति सूर्योऽसौ यत्र चास्तं निगच्छति ।। ३७६ ।।

प्रश्नरूपमिदं वाक्यं यतः प्रत्यु­क्ति­रु­च्यते ।।
प्राणादित्यदिना भानोरुदयास्तमयौ कथम् ।। ३७७ ।।

यदा वै पुरुषः शेते प्राणमप्येति वाक्तदा ।।
चक्षुः श्रोत्रं मनस्तद्वज्जायते तत एव च ।। ३७८ ।।

अधिदैवतमप्येवं वायो­र­ग्न्या­दि­सं­भवः ।।
अप्ययश्च यथाऽध्यात्मं श्रेया­न्प्र­ण­स्त­तोऽ­न्यतः ।। ३७९ ।।

आत्मैव प्राणशब्दः स्यात्प्रा­ण­ब­न्ध­न­वा­क्यतः ।।
अस­दे­वे­द­मि­त्यु­क्ते­रा­त्मनो भानुसंभवः ।। ३८० ।।

यत एव समु­त्प­त्ति­स्त­त्रैव प्रलयोऽपि च ।।
मृदो जातस्य कुम्भस्य न लयो वीरणादिषु ।। ३८१ ।।

वागा­दि­ग­ण­धा­रि­त्वा­द्धर्मं वायुव्रतं विदुः ।।
चक्रिरे दध्रिरे धर्मं धारणं प्रकृतं यतः ।। ३८२ ।।

अद्यापि क्रियते तैस्त­त्क­र्ता­र­श्चापि तत्सुराः ।।
अध्रियन्त यममुर्हि तस्मिन्काले पराजिताः ।।
धर्मव्रतं तदेवाद्य ब्रिभ्र­त्य­ग्न्या­दयः शुभम् ।। ३८३ ।।

अभग्नं मृत्युना यस्मा­त्प्रा­ण­स्यैव व्रतं ततः ।।
एकमेव व्रतं प्राणं चरेदा मरणात्सदा ।। ३८४ ।।

प्राण्या­द­पा­न्या­त्प्रा­णात्मा ह्युक्त्या­दि­ष्वपि कर्मसु ।।
अन्तर्भावो यतोऽमीषां श्रोत्रा­दी­न्द्रि­य­क­र्म­णाम् ।। ३८५ ।।
प्राणकर्मणि तेनैतदेकमेव व्रतं चरेत् ।। ३८६ ।।

प्राणापानात्मकं यस्माद्व्रतं प्राणैककर्तृकम् ।।
प्राण्या­द­पा­न्याच्च ततो नित्यमा मरणाद्बुधः ।। ३८७ ।।

प्राणात्मनैव वागा­दि­व्र­ता­न्यापि चरेत्सदा ।।
वागा­द्या­स­ङ्ग­व­त्तन्मां पाप्मा मा प्रापदासुरः ।। ३८८ ।।

इत्येवमभिसंधिः सन्वि­द्वा­न्प्रा­ण­व्रतं चरेत् ।।
प्राणव्रतं चेदारब्धं चिकी­र्षे­त्त­त्स­मा­प­नम् ।। ३८९ ।।

अभ्य­स्ते­नाऽऽ­मृ­ते­र्य­स्मा­त्सा­यु­ज्यादि समश्नुते ।।
त्र्यन्ना­त्म­दे­व­ता­यास्तु तस्मादेवं विधीयते ।। ३९० ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके प्रथमाध्यायस्य पञ्चमं सप्ता­न्न­ब्रा­ह्म­णम्

तद्धे­द­मि­त्य­वि­द्याया उक्तं कार्यमशेषतः ।।
उक्तार्थस्यैव संक्षेपस्रयं वा इत्यथोच्यते ।। १ ।।

अज्ञा­तै­का­त्म्य­कार्यं तद्य­दे­त­द­भि­श­ब्दि­तम् ।।
न तु विध्व­स्त­सं­मो­ह­प्र­त्य­ङ्भा­त्र­स­त­त्त्व­गम् ।। २ ।।

एवमुक्ते विर­क्तोऽ­स्मा­न्मु­मुक्षुः श्रद्धयाऽन्विनः ।।
ब्रह्म­ज्ञा­नेऽ­धि­कारी स्यात्कथं नामेति भण्यते ।। ३ ।।

अवि­द्यो­त्थ­पु­म­र्थेभ्यो विमुखीभूतमानसः ।।
आत्म­त­त्त्व­वि­जि­ज्ञा­सु­स्त­द्व­या­वृत्तो भवेन्नरः ।। ४ ।।

बाह्या­र्थ­ब­द्ध­धि­षणः प्रत्य­ग्या­था­त्म्य­वि­त्तये ।।
नालं विरोधात्पुरुषः परा­ञ्ची­त्या­ग­मो­क्तितः ।। ५ ।।

अवि­द्या­मा­त्र­हे­तुत्वं न त्वैका­त्म्या­नु­सा­रिता ।।
यथोक्तवस्तुनः कस्मा­दि­त्ये­त­त्प्र­ति­पा­द्यते ।। ६ ।।

अज्ञातादात्मनः साक्षा­द­भि­व्यक्तिः पुरोदिता ।।
अहेतुफलरूपस्य नाम­रू­प­क्रि­या­त्मभिः ।। ७ ।।

नामा­द्या­त्म­क­तै­वास्य ब्रह्मादेः स्थावरावधेः ।।
न तु वस्त्वन्तरं तत्स्याद्यथा तदिह वर्ण्यते ।। ८ ।।

कार­ण­त्व­स­मा­न­त्व­स्वा­त्म­ला­भ­त्व­हे­तुभिः ।।
नामा­द्या­त्म­क­तै­तस्य प्रपञ्चस्य प्रसाध्यते ।। ९ ।।

अनेकभेदसंभिन्नं यदेतद्व्याकृतं जगत् ।।
नाम­रू­प­क्रि­या­त­त्त्व­मे­त­त्सर्वं प्रतीयताम् ।। १० ।।

त्रयं वा इदमित्येवं प्रति­ज्ञा­र्थ­मिदं वचः ।।
हेतूक्तिरुत्तरो ग्रन्थ­स्ते­षा­मि­त्या­दि­नो­च्यते ।। ११ ।।

वागित्यनेन शब्देन नादमात्रं विवक्ष्यते ।।
अप­जु­ह्नू­षि­त­त्वात्तु नादोत्थस्य विकारतः ।। १२ ।।

एषां नाम­वि­का­रा­णा­मुक्यं नादस्तदुत्थितेः ।।
सर्वनाम्नामतो नाद उक्थ­मि­त्य­भि­धी­यते ।। १३ ।।

तथा सामान्यतो वाचो विशेषाणां तदात्मता ।।
न हि निष्कृष्य सामा­न्या­द्वि­शेषः कश्चिदीक्ष्यते ।। १४ ।।

आत्मत्वाच्च तथा वाचो नाऽऽत्मी­योऽ­न्योऽ­व­शि­ष्यते ।।
कार्त्स्ये­नै­वा­भि­सं­ब­न्धा­दा­त्मी­य­स्येह वस्तुतः ।। १५ ।।

कार्यकारणगो भेदः प्राप्तो लोके य ईक्ष्यते ।।
अवि­चा­रि­त­सं­सिद्धः सोऽयं श्रुत्या निषिध्यते ।। १६ ।।

एवं सति प्रमा­ण­त्व­म­पू­र्वा­र्था­व­बो­ध­नात् ।।
अन्य­थाऽ­तोऽ­नु­वादः स्याच्छ्रु­ते­र्ज्ञा­ता­र्थ­बो­ध­नात् ।। १७ ।।

चक्षुषो विष­य­श्च­क्षुः­श­ब्दे­ने­हा­भि­धी­यते ।।
रूपाणामिति संब­न्धा­द्रू­पा­त्म­त्वा­त्त­थैव च ।। १८ ।।

यद्यद्धि रूप्यते किंचि­च्छ­ब्द­स्प­र्शा­दिकं धिया ।।
तत्तद्रूपमिति ज्ञेयं तैजसत्वाविशेषतः ।। १९ ।।

त्वाष्ट्रमेव हि सर्वत्र तेजो रूपादिलक्षणम् ।।
तस्मा­द्वि­ष­य­सा­मान्यं चक्षुःशब्देन भण्यते ।। २० ।।

हेतु­त­ज्जा­वि­भा­गेन कार्यकारणहेतुतः ।।
वाचा­र­म्भ­ण­शा­स्राच्च विका­रा­नृ­त­तो­च्यते ।। २१ ।।

अन्तर्भावश्च सामान्ये विशे­षा­णा­म­थो­च्यते ।।
सामा­न्य­मे­त­त्स­र्वेपां विशेषाणां समं हि तैः ।। २२ ।।

न विशेषो न सामान्यं भेद­तोऽ­भे­द­तोऽस्ति नः ।।
तथा रूपविशेषाणां रूप­मा­त्र­आ­त्म­क­त्वातः ।।
स्रग्व­त्स­र्पा­दि­का­न्य­द्व­द्रूपं सर्वं बिभर्ति हि ।। २३ ।।

उक्तं समा­स­त­स्ता­व­दे­कत्वं नामरूपयोः ।।
कर्मणोऽपि तथैकत्वमधुना प्रतिपाद्यते ।। २४ ।।

वाक्च­क्षुः­श­ब्दतो यद्वद्गृह्यते विषयस्तयोः ।।
आत्मनो विष­य­स्त­द्व­दा­त्म­श­ब्देन गृह्यते ।। २५ ।।

सर्वे­न्द्रि­य­प­रि­स्पन्दो व्यज्यते नः शरीरके ।।
शरी­र­वि­ष­य­स्त­स्मा­दा­त्मे­त्य­त्रा­भि­धी­यते ।। २६ ।।

आत्मैव त्वस्य कर्मेति तथैवाभिहितं पुरा ।।
अतोऽत्र कर्मसामान्यं गृह्यते देहसंश्रितम् ।। २७ ।।

नाम रुपं तथा कर्म यदे­त­त्र्र­य­मी­रि­तम् ।।
एकमेव भवत्येतत्र्रयं सद्देहमात्रकम् ।। २८ ।।

विकर्तृत्वेन कर्मात्र नाम­रू­पा­त्म­नो­र्भ­वेत् ।।
कर्मणः साधनत्वेन नामरूपे व्यवस्थिते ।। २९ ।।

रूपमेव प्रतिष्ठा स्यात्सर्वदा नामकर्मणोः ।।
न हि रूपमनाश्रित्य विद्येते नामकर्मणी ।। ३० ।।

प्राण एऴ प्रतिष्ठैवं सदा स्यान्नामरूपयोः ।।
प्राणै­का­त्म्या­श्र­या­द्य­स्मा­दा­त्म­लाभः सदा तयोः ।। ३१ ।।

तद्व­द्वा­गा­श्र­यत्वं च तयोः स्याद्रू­प­क­र्मणोः ।।
वाचा प्रकाश्यमाने ते प्रयुज्येते यतः सदा ।। ३२ ।।

आश्र­या­श्र­यि­भा­वेन नाम­रू­प­क्रि­या­त्म­नाम् ।।
एकार्थानां सतां तेषां संहतिः स्याच्छरीरके ।। ३३ ।।

एकः सन्नेष आत्माऽपि त्रय­मे­त­त्प्र­प­द्यते ।।
नाम­रू­प­क्रि­या­भिन्नो देहोऽयं गृह्यते यतः ।। ३४ ।।

एत­न्म­योऽ­य­मा­त्मेति तथा पूर्वं प्रपञ्चितम् ।।
एतावद्व्याकृतं सर्वं यदेतत्संहतं त्रिभिः ।। ३५ ।।

तदेतत्खलु वैराजं नाम­रू­प­क्रि­या­त्म­कम् ।।
नाम­रू­पा­त्म­स­त्त्येन च्छन्नं प्राणामृतं तु तत् ।। ३६ ।।

प्राणशब्देन लिङ्गात्मा भण्यते करणात्मकः।।
पिण्डस्य मरप्मे नैत­न्म्रि­य­तेऽ­तोऽ­मृतं मतम् ।। ३७ ।।

पृथि­व्य­ब­ग्नि­भू­तानि सत्संज्ञान्यत्र लक्षयेत् ।।
त्यत्संज्ञके तु विज्ञेये वाय्वाकाशे महात्मभिः ।। ३८ ।।

सच्च त्यच्चेति तत्सत्त्यं पञ्चभूतात्मकं विदुः ।।
करणायतनं स्थूलं वैराजं यत्प्रचक्षते ।। ३९ ।।

अस्या­प्य­न्त­र्गतः प्राणो विज्ञानात्मेति यं विदुः ।।
आ संसारात्स्थितः स्थास्नुः परिणामात्मकः सदा ।। ४० ।।

यथाकर्म यथा­ज्ञा­न­मु­पा­दत्ते शरीरकम् ।।
प्लुष्यादिना समोऽतोऽयं श्रुता­व­प्य­भि­धी­यते ।। ४१ ।।

उपा­त्ता­शे­ष­भू­तोऽयं यथो­क्तो­पा­त्त­दे­वतः ।।
कृत्स्ना­वि­द्यो­त्थ­मानी च प्रत्य­ग­ज्ञा­न­का­र­णात् ।। ४२ ।।

हैरण्यगर्भे तत्त्वज्ञो वैराजे च शरीरके ।।
आब­द्धा­त्मा­भि­मा­नोऽयं गार्ग्योऽ­वि­द्या­स­म­न्वितः ।। ४३ ।।

कृत्स्न­सं­सा­र­मा­न्येष सर्वोऽस्मीति व्यवस्थितः ।।
ब्रह्मो­प­दे­श­वि­षयः श्रुत्यै­वो­त्था­प्यते जडः ।। ४४ ।।

नाम­रू­पा­भि­मा­नाभ्यां मर्त्या­भ्या­म­मृतः स्वयम् ।।
प्राणः करणसंघातश्छन्नः संवेष्टितः सदा ।। ४५ ।।

संप्र­दा­य­वि­द­स्त्वत्र नाना­त्वै­क­त्व­वा­दिनः ।।
भिन्ना­भि­न्ना­त्मकं ब्रह्म नाम­रू­पा­दि­व­ज्जगुः ।। ४६ ।।

त्रयं सदेकमेव स्यादेकं सत्तद्यथा त्रयम् ।।
अनेनैवानुमानेन विद्या­द्ब्र­ह्मापि तादृशम् ।। ४७ ।।

दृगा­दि­श­क्त्य­ने­क­त्वेऽ­प्ये­क­मेव परं विदुः ।।
शक्ति­श­क्ति­म­तो­रै­क्या­द­द्वै­त­मिति भण्यते ।। ४८ ।।

सास्नादिषु यथा गोत्वमभेदेन व्यवस्थिम् ।।
मिथः साम्नादयो भिन्ना गोत्वा­भि­न्ना­स्त­थाऽपि ते ।। ४९ ।।

भिन्ना­भि­न्ना­त्मना यद्व­त्स्थू­ले­ष्व­र्थेषु दृश्यते ।।
सूक्ष्मेष्वपि तथा विद्या­द­नु­मा­न­ब­ला­द्बुधः ।। ५० ।।

परपक्षे न दृष्टान्तः कश्चि­द­प्यु­प­ल­भ्यते ।।
भिन्ना­भि­न्ना­त्मकं तस्मात्सर्वं वस्त्विति निश्चयः ।। ५१ ।।

अनु­मा­नै­क­सि­द्ध­त्वा­द्भि­न्ना­भि­न्ना­त्म­व­स्तुनः ।।
आगमेनात्र किं कार्यं लिङ्ग­सि­द्धा­नु­वा­दिना ।। ५२ ।।

न चाऽऽगमस्य तात्प­र्य­मे­वं­भू­तेस्ति वस्तुनि ।।
अस्थूलं नेति नेतीति ज्ञाता­ज्ञा­त­हु­ते­स्तथा ।। ५३ ।।

विशे­षा­त्म­नि­षे­धाय तथा सामान्यरूपिणः ।।
क्षुरविश्वंभरौ श्रुत्या दृष्टान्तौ प्रतिपादितौ ।। ५४ ।।

अन्त्या विशेषा दृष्टान्तः परपक्षेऽपि विद्यते ।।
त्वत्पक्ष एव दृष्टान्तो यथा नास्ति तथोच्यते ।। ५५ ।।

निःसामान्या विशेषाः स्युर्गोता तेभ्यो न चेद्धिरुक् ।।
अथ व्यावर्तते तेभ्यो गोत्वं ते खण्डवद्भवेत् ।। ५६ ।।

व्यावृत्तं यदि भिन्ने­भ्य­स्त्व­याऽ­भि­न्न­गि­रो­च्यते ।।
व्यावृत्तं न विशेषश्चेत्यहो विद्या­वि­चे­ष्टि­तम् ।। ५७ ।।

अव्यावृत्तं विशेषेभ्यस्त्वथ सामान्यमुच्यते ।।
सामान्यस्य विशे­ष­त्वा­द्वि­शेषा एव केवलाः ।। ५८ ।।

ऩ ह्याभिन्नधिया गोत्वं विशेषेषु प्रतीयते ।।
विशे­ष­मा­त्र­नि­ष्ठ­त्वा­द्भि­न्ना­भिन्नं किमुच्यते ।। ५९ ।।

अभेदः किं तयोर्योगः किं वैका­त्म्य­म­भि­न्नता ।।
नाभेदो मेषयोर्योगे यथा भिन्नौ तथा युतौ ।। ६० ।।

व्यामिश्रं यदि वा शुद्धं गोत्वं भेदेषु गम्यते ।।
नोभ­य­त्र­प्य­भि­न्न­त्व­म­सा­धा­र­ण्य­सं­स्थितेः ।। ६१ ।।

भेदेषु चोपयुक्तं तद्गोत्वं यद्वा पृथक्स्थितम् ।।
सामान्यं वा विशेषो वा कोऽन­यो­र­भि­धी­य­ताम् ।। ६२ ।।

उपयुक्तं विशे­ष­त्वा­दि­त­र­स्या­प्य­न­न्व­यात् ।।
भिन्ना­भि­न्ना­त्मतां नैति द्वैरू­प्या­सं­भ­वा­त्तयोः ।। ६३ ।।

वस्तुवृत्तं न सामान्यं न विशेषस्तथैव च ।।
अपेक्षामात्रतः सिद्धे­र्व्योम्नि कार्ष्ण्यो­दि­वृ­त्त­वत् ।। ६४ ।।

प्रत्य­भि­ज्ञा­न­तोऽ­भेदः खण्ड­मु­ण्ड­स्थ­गो­त्वयोः ।।
एका­धि­क­र­ण­ज्ञा­ना­त्ख­ण्डा­द्यै­स्त­द्वि­भि­न्नता ।। ६५ ।।

भिन्ना­धि­क­र­ण­ज्ञा­ना­न्नै­व­म­प्य­भिदा तयोः ।।
सामा­न्येऽ­भि­न्न­धी­र्य­स्मा­द्भि­न्ने­ष्वेव तु भिन्नधीः ।। ६६ ।।

प्रत्य­क्षे­णा­नु­पा­त्त­त्वान्न स्मृति­स्त­दि­ती­क्ष­णम् ।।
न हि प्रत्य­क्ष­तोऽ­प्राप्तं स्मर्यते वस्तु किंचन ।। ६७ ।।

सामा­ना­धि­क­र­ण्यस्य विभि­न्ना­र्थ­व्य­पा­श्र­यात् ।।
अभेदधीः कथं तत्र विशे­ष­ण­वि­शे­ष्ययोः ।। ६८ ।।

अभिन्नवचसा भिन्न­प्र­ति­षे­धोऽ­भि­धी­यते ।।
प्राप्तस्य भिन्नरूपस्य शून्यताऽतः प्रसज्यते ।। ६९ ।।

वचो भेदनिषेधं चेन्न कुर्या­द्भे­द­वा­क्य­वत् ।।
भिन्ना­भि­न्ना­त्म­ता­प­क्ष­हा­नि­रेवं प्रसज्यते ।। ७० ।।

तक्र­कौ­ण्डि­न्य­न्न्व­यायो न चेहाप्यवसीयते ।।
उत्स­र्गा­न­व­का­श­त्वा­च्छू­न्य­तै­वात् आपतेत् ।। ७१ ।।

भिन्नौ जातिगुणौ द्रव्या­त्स्वा­नु­भू­त्य­नु­रो­धतः ।।
तद्वि­रो­ध­द­भि­न्नत्वं कथं मानात्प्रतीयते ।। ७२ ।।

अभिन्नं सद्विभिन्नत्वं न कथं­चि­त्प्र­प­द्यते ।।
स्वाश्र­या­त्वा­द­भि­न्नस्य कुतोऽस्य स्यात्पराश्रयः ।। ७३ ।।

अन्यानपेक्षं यद्यस्य वृत्तं तत्पारमार्थिकम् ।।
अन्यापेक्षं यतोऽन्यत्वं तेन तद्व्यो­म­का­र्ष्ण्य­वत् ।। ७४ ।।

गोत्व­स­त्त्व­प्र­मे­य­त्व­व­स्तु­त्वा­दीनि भिन्नवत् ।।
समान्यानीह खण्डादौ तेना­न्यो­न्य­वि­रु­द्धता ।। ७५ ।।

यदेकं तन्न नानेति नाना नैकमिति प्रमा।।
योऽनु­भू­ति­वि­रो­ध्यर्थः स कथं स्थाप्यते बलात् ।। ७६ ।।

भेदाः सामान्यतां यान्ति सामान्यं भेदतां यदिः ।।
लोक­प्र­सि­द्धि­वाधः स्यात्स चापि स्यादनर्थकः ।। ७७ ।।

सामान्यं च विशेषश्च द्रव्यतन्रौ मतौ यदि ।।
असा­मा­न्य­वि­शे­षा­त्म­द्र­व्य­व­त्प्रा­प्नु­तश्च तौ ।। ७८ ।।

गुणतन्त्रं यदा द्रव्यं प्रसि­द्धे­र्बा­धनं तदा ।।
एक­स्या­ने­क­ता­प­त्ति­र्द्र­व्य­स्यापि प्रसज्यते ।। ७९ ।।

द्रव्ये­णै­वा­भि­सं­ब­न्धा­द्गु­णानां न परस्परम् ।।
अन्यो­न्या­न­भि­सं­ब­न्धान्न विशेषस्तथेतरत् ।। ८० ।।

सामान्येतरतो भिन्नं द्रव्यं चेद्भवतो मतम् ।।
तन्निषेधेन तत्सिद्धेः कथं स्यात्तदभिन्नता ।। ८१ ।।

अथाभिन्नं मतं ताभ्यां द्रव्य­स्या­प­ह्न­व­स्ततः ।।
न विशेषो न सामा­न्य­म­न्यो­न्या­सं­ग­ते­र्भ­वेत् ।। ८२ ।।

भिन्ना­भे­दा­द­भि­न्नस्य भेदः स्यात्पि­ण्ड­व­द्ध्रु­वम् ।।
पिण्डश्च सर्व­ग­स्त­द्व­द्गो­त्वा­भे­दा­त्प्र­सज्य ते ।। ८३ ।।

अन्यो­न्या­व्य­ति­रे­कि­त्वा­दै­कात्म्यं प्राप्नु­या­त्तयोः ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वार्ति के प्रथमाध्यायस्य पञ्चमं सप्ता­न्न­ब्रा­ह्म­णम् ।। ५ ।।

ततः प्रत्यक्षबाधः स्यात्तद्भेदो हि तदाश्रयः ।। ८४ ।।
व्यस्ता­भे­दा­त्स­म­स्तोऽर्थो व्यस्तवन्न मनागपि ।।
सम­स्ता­क­र­व­ज्ज्ञानं कुर्या­त्प्र­त्य­क्ष­बा­धतः ।। ८५ ।।

व्यस्ताभेदेऽपि चेत्कु­र्या­त्स­म­स्त­धि­षणां बलात् ।।
व्यस्ता­त्म­नाऽ­स­म­स्तोऽपि कुर्या­त्प्लु­षि­धियं गिरिः ।। ८६ ।।

असाधारणरूपेण भेदो जगति निश्चितः ।।
साधारण्यं तयो­र्मा­ना­त्स­म­स्त­व्य­स्तयोः कुतः ।। ८७ ।।

सर्वाभेदाच्च सर्वस्य रज्ज्वां सर्पादिबुद्धयः ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वार्ति के प्रथमाध्यायस्य पञ्चमं सप्ता­न्न­ब्रा­ह्म­णम् ।। ५ ।।

रज्जुबुद्धिवदेव स्युस्त­द्धी­श्चा­प्य­हि­बु­द्धि­वत् ।। ८८ ।।
निषे­ध­वि­धि­हे­तूनां सर्वेषां सर्ववस्तुषु।।
समा­प्ते­र­धि­का­रा­णा­म­प्र­वृत्तिः प्रसज्यते ।। ८९ ।।

अभा­व­मा­न­क्लृ­प्त्यर्थो यश्चाऽऽयासः कृतो महान् ।।
निष्फलः सोऽभिसंवृत्तो भिन्ना­भ­इ­न्ना­व्य­व­स्थितौ ।। ९० ।।

स्ववि­शे­षा­नु­रो­धित्वं सामान्यानां मतं यदि ।।
सम­स्त­व्य­स्त­ता­प­क्ष­स्तदा कुप्यति कल्पितः ।। ९१ ।।

न चापि सर्व­सा­मा­न्य­वि­शे­षा­र्था­व­बु­द्धये ।।
कश्चि­द­प्य­धि­का­र्यस्ति कृत्स्नेऽपि जगतीदृशः ।। ९२ ।।

न वेदार्थो न चापी­दृ­क्त­र्के­णा­प्यु­प­प­द्यते ।।
भिन्ना­भि­न्ने­क्षणं सर्वं यथो­क्त­न्या­य­व­र्त्मना ।। ९३ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके प्रथमाध्यायस्य षष्ठं ब्राह्मणम्
चत्वार्येव सहस्राणि श्लोकानां द्वे शते तथा ।
श्लोकाः पञ्चदशान्ये च तृतीयस्यैष संग्रहः ।।
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीसु­रे­श्व­रा­चा­र्य­वि­र­चिते बृह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके प्रथमोऽध्यायः