अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ द्वितीयाध्यायस्य प्रथमं ब्राह्मणम् ॥ (१)

तद्धे­द­मि­त्य­वि­ज्ञा­त­प्र­त्य­क्त­त्त्वा­दिदं जगत् ।।
रज्ज्वां सर्पादिवज्जातं नाम­रू­प­क्रि­या­त्म­कम् ।। १ ।।

अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता ।।
सर्प­धा­रा­दि­भि­र्भा­वै­स्त­द्व­दात्मा विकल्पितः ।। २ ।।

अन­र्थ­हे­तु­र­ज्ञानं, तदुत्थं चाखिलं जगत् ।।
प्रतीचोऽनर्थ, इत्य­स्मा­द्भी­तोऽ­त्यर्थं मुमुक्षति ।। ३ ।।

पुरु­षा­र्थोऽ­खि­ला­न­र्थ­प्र­ध्वस्तिः प्रत्यगात्मनः ।।
सम्य­क्त­त्त्व­प­रि­ज्ञानं पुरुषार्थस्य कारणम् ।। ४ ।।

निर­स्ता­शे­षा­न­र्था­प्त­कृ­त्स्ना­ह्ला­द­स­त­त्त्वकः ।।
स्वतो यतोऽयं संसारी तेनाज्ञो विपरीतदृक् ।। ५ ।।

मोह­मा­त्रा­न्त­रा­य­त्वा­त्पु­रु­षा­र्थस्य नापरम् ।।
अविद्याध्वंसिनो बोधा­त्किं­चि­त्सा­ध­न­मि­ष्यते ।। ६ ।।

आत्मेत्येवेति विद्यायाः सूत्रमित्युदितं पुरा ।।
उपोद्धातस्तथा तस्य प्रागुक्तः सप्रयोजनः ।। ७ ।।

प्रतीचि साक्षा­द्वि­ज्ञाते ज्ञेयं सर्वं समाप्यते ।।
निःशे­ष­त­स्त­मो­ध्वस्तेः पुमर्थश्च समाप्यते ।। ८ ।।

यत एवमतः पश्ये­दा­त्म­न्या­त्मा­न­म­द्व­यम् ।।
आत्मैको ब्रह्मविद्याया विषयः श्रुतितो मतः ।। ९ ।।

अथ योऽन्यामिति तथाऽविद्यां चानूद्य नश्वरीम् ।।
आऽध्यायावसितेः कार्यं तस्या व्याख्यातमञ्जसा ।। १० ।।

अध्यात्ममधिभूतं च तथा चैवाधिदैवतम् ।।
भूतं भवद्भविष्यं च साध्यं साधनमेव च ।।
जनि­म­त्स­र्व­मे­वे­द­म­वि­द्यायाः समुत्थितम् ।। ११ ।।

संक्षिप्य चाप्यु­प­न्य­स्त­म­ध्या­यान्ते च तत्पुनः ।। १२ ।।
त्रयं वा इदमित्येवं रूपं नाम च कर्म च ।।
त्रयस्यापि च संक्षेपो लिङ्ग­दे­हा­त्म­सं­हतिः ।। १३ ।।

त्रैलो­क्या­त्म­श­री­र्येष विश्वरूपः प्रजापतिः ।।
अन्त­र्णी­ता­खि­ला­न­न्त­दे­वतः प्राणविग्रहः ।। १४ ।।

अवि­ज्ञा­ता­त्म­तत्त्वः संस्त­द­ध्य­स्ता­भि­मा­न­वान् ।।
परा­क्प्र­वृ­त्ते­र्वि­रातो विद्याया विषयस्त्वयम् ।। १५ ।।

साक्षा­त्कृ­ता­त्म­भा­वोऽ­य­मे­वं­ल­क्ष­ण­व­स्तुनि ।।
श्रुत्यो­प­स्था­प्यते गार्ग्यो ब्रह्म­वि­द्या­भि­धि­त्सया ।। १६ ।।

अकृ­त्स्न­ब्र­ह्म­वे­दि­त्वा­द्दृ­प्तोऽ­सा­व­ल्प­क­स्ततः ।।
न हि पूर्णपरिज्ञानः कश्चिद्दृप्यति निर्द्वयः ।। १७ ।।

समा­प्ता­शे­ष­वि­ज्ञे­य­पु­रु­षा­र्थ­स्तथा परः ।।
अजा­त­श­त्रु­रै­का­त्म्या­द्गा­र्ग्या­चार्यः प्रकल्पते ।। १८ ।।

व्याख्या­ता­या­म­वि­द्यायां तदु­च्छि­त्ता­व­था­धुना ।।
आत्मेत्येवेति सूत्रस्य व्याख्या प्रस्तूयते स्फुटा ।। १९ ।।

श्रुत्या गार्ग्या­द्यु­प­न्या­स­शि­ष्या­चा­र्य­स्व­रू­पया ।।
सुखा­व­बो­ध­सि­द्ध्य­र्थ­मि­य­मा­ख्या­यि­को­दिता ।। २० ।।

अन्ये त्वत्रा­भि­सं­ब­न्ध­मेवं व्याचक्षते बुधाः ।।
स एष इत्युपन्यस्तो विज्ञानात्मा हि यः पुरा ।। २१ ।।

गार्ग्य­का­श्ये­ति­हा­सेन वक्ष्यते तस्य निर्णयः ।।
कर्त्र्यो भोक्त्र्यश्च देेहेऽ­स्मि­न्दे­वता एव नापरः ।।
श्रुति­र्गा­र्ग्या­त्मना सेयं पूर्वपक्षमभाषत ।। २२ ।।

आत्म­नोऽ­स्ति­त्व­क­र्तृ­त्व­भो­क्तृ­त्व­प्र­ति­प­त्तये ।। २३ ।।
श्रुत्या सिद्धा­न्त­सि­द्ध्यर्थं काश्यरूपं प्रकल्पितम् ।।
निष्फलत्वात्स चायुक्तः प्रकृ­ता­न­भि­सं­गतेः ।। २४ ।।

देव­ता­स्ति­त्व­प­क्षेऽपि किमस्तित्वादि नेष्यते ।।
देहाद्भिन्नस्य विज्ञातुरिष्टं चेन्निष्फलः श्रमः ।। २५ ।।

अज्ञा­तै­का­त्म्य­या­थात्म्यो यदा त्विह विवक्ष्यते ।।
अवि­द्या­का­र्य­निष्ठः सञ्श्रुत्या गार्ग्यशरीरया ।। २६ ।।

पूर्व­प­क्षि­त­याऽ­शे­ष­दुः­ख­हे­तू­प­शा­न्तये ।।
पूर्व­प­क्ष­नि­दा­न­च्छि­त्काश्यः सिद्धा­न्त­वा­द्यपि ।। २७ ।।

श्रुत्ये­हो­त्था­प्य­तेऽ­शे­ष­वे­दा­न्ता­र्था­व­बु­द्धये ।।
सर्वोऽप्येष तदा यत्नः फलवान्स्यान्न चान्यथा ।। २८ ।।

श्रद्धा­चा­रा­दि­वि­ध्यर्था यदि वाऽऽख्यायिका त्वियम् ।।
यथो­क्त­द­र्श­ना­प्तार्थो नान्यदस्तीति भावितः ।।
अतोऽ­ति­दृ­प्तोऽ­वि­ज्ञा­त­द­र्प­का­र­ण­घ­स्मरः ।। २९ ।।

श्रद्धालुं वित्तसंपन्नं श्रेयो­र्थि­न­मु­पेत्य तु ।।
ब्रह्म तेऽहं ब्रवाणीति गार्ग्यः काश्यमभाषत ।। ३० ।।

न जातो न भविष्योऽस्ति शत्रु­रै­का­त्म्य­द­र्श­नात् ।।
अजातशत्रुः काश्योऽतो गार्ग्य­बु­द्धि­वि­रु­द्धधीः ।। ३१ ।।

ब्रह्म यस्मात्परं नास्ति न च वस्त्वन्तरं यतः ।।
ब्रवाण्युपास्यं तत्तेऽहं सर्वा­प­ध्व­स्ति­का­र­णम् ।। ३२ ।।

नापृष्ट इति नन्वे­त­द्वि­रु­द्ध­म­क­रो­दृषिः ।।
यद्ब्रह्म ते ब्रवाणीति ह्यपृष्टः काश्यमब्रवीत् ।। ३३ ।।

दर्पा­दि­द­र्श­ना­न्नूनं वेत्त्य­कृ­त्स्ना­त्म­द­र्श­नम् ।।
कृत्स्न­त्वा­र्थ­म­तोऽ­प्रा­क्षी­त्काश्यं प्रज्ञा­स­म­न्वि­तम् ।। ३४ ।।

श्रद्धा­लु­र­धि­कारी यो जिज्ञा­सु­र्वि­न­या­न्वितः ।।
अपृष्टेनापि वक्तव्या तस्मै विद्या विपश्चिता ।। ३५ ।।

धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा ।।
तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे ।। ३६ ।।

धर्मार्थौ यत्र च स्यातां शुश्रूपा वाऽपि तद्विधा ।।
वक्तव्या तत्र विद्येति निषेधादेव लिङ्ग्यते ।। ३७ ।।

नष्टा­श्व­द­ग्ध­र­थ­व­न्न्यायं चाऽऽश्रित्य भूमिपम् ।।
प्राह मानुषवित्ताढ्यं दैव­वि­त्त­स­म­न्वि­तम् ।। ३८ ।।

वित्तद्वयेन संपन्नो यतोऽधिक्रियते नरः ।।
सर्व­क­र्म­स्व­तोऽ­वा­दी­द्वा­लाकिः काश्यमन्तिकात् ।। ३९ ।।

ब्रह्म तुभ्यं ब्रवा­णी­ति­वा­ङ्भा­त्र­व्या­पृ­ता­व­हम् ।।
गोसहस्रं ददाम्यद्य विनाऽ­प्यै­का­त्म्य­नि­र्ण­यात् ।। ४० ।।

गोस­ह­स्र­प्र­दा­नस्य निमित्तं श्रुतिरभ्यधात् ।।
जनको जनक इति नामा­भ्या­सो­क्तितः स्फुटम् ।। ४१ ।।

शुश्रूषुं जनकं सर्वे जना दित्सन्तमेव च ।।
विव­क्ष­वोऽ­भि­धा­वन्ति तमुद्दिश्य जिघृक्षवः ।। ४२ ।।

मौग्धीं प्रसि­द्धि­मु­ल्लङ्घ्य गार्ग्योऽयं मामुपागतः।।।।
नूनं दित्सुं च शुश्रूषुं संभावयति मामपि ।। ४३ ।।

आदि­त्य­च­क्षु­र्बु­द्धि­स्थ­श्चे­तनः सर्वगो ध्रुवः ।।
एतमेव सदोपासे ब्रह्मेति रविमध्यगम् ।। ४४ ।।

तथा ब्रुवाणं तं गार्ग्यं काश्यो मा मेत्यथोचिवान् ।।
केवलो मतिसंवादो भव­दु­क्तॆ­र्म­मा­भ­वत् ।। ४५ ।।

न त्वपू­र्वा­र्थ­वि­ज्ञानं प्रतिज्ञातं यथा त्वया ।।
मा वोचोऽतो यतो वेग्नि विनाऽपि वचनात्तव ।। ४६ ।।

निषेधाभ्यासो मा मेति ज्ञात­ब्र­ह्म­प्र­वा­दिनः ।।
आबा­धि­त­धि­याऽ­भ्यस्तो गार्ग्य­स्या­नु­क्ति­का­र­णात् ।। ४७ ।।

सुप्रसिद्धं यदस्माकं त्वच्छा­स­न­मृ­तेऽपि तत् ।।
नापेक्षते भवद्वाक्यं सिद्ध्यर्थं प्राक्प्र­सि­द्धितः ।। ४८ ।।

तदुपासां न वेद्मीति मा च शङ्कां कृथा यतः ।।
उपासनं च वेद्म्यस्य गुणं तत्फलमेव च ।। ४९ ।।
अतीत्य सर्वभूतानि प्राधान्येन स्थितो यतः ।। ५० ।।

अतिष्ठा इति नामास्य तेनाऽऽ­दि­त्या­त्म­नोऽ­भ­वत् ।।
चक्षु­रु­द्दी­प्ति­म­त्त्वाच्च राजे­त्ये­षोऽ­भि­धी­यते ।। ५१ ।।

स य एतं यथो­द्दि­ष्ट­मु­पा­स्तेऽ­ह­र्निशं नरः ।।
यथोपासनमेवास्य फलं भवति नान्यथा ।। ५२ ।।

मतिसंवाददोषेण काश्ये­नो­त्सा­रिते रवौ ।।
गार्ग्यो ब्रह्मान्तरं राज्ञे प्रव­क्तु­मु­प­च­क्रमे ।। ५३ ।।

चन्द्रे मनसि बुद्धौ च ब्रह्मो­पा­सेऽ­ह­म­द्व­यम् ।।
भानुमण्डलतो यस्माद्द्विगुण चन्द्रमण्डलम् ।।
बृहन्निति ततश्चन्द्रः प्रमा­णे­ना­भि­धी­यते ।। ५४ ।।

अम्भोऽतिपाण्डरं वासो यस्मा­च्च­न्द्रा­भि­मा­निनः।।
तस्मा­त्पा­ण्ड­र­वासाः स्यात्सोमः सौम्यत्वकारणात् ।। ५५ ।।

ज्योत्स्नया राजतेऽत्यर्थं सोमो ब्राह्मणराजतः ।।
सोमो राजेत्येतो वक्ति तदुपासविधित्सया ।। ५६ ।।

तुल्या­भि­धा­न­ध­र्म­त्वा­ल्लता सोमोऽपि गृह्यते ।।
उभ­यो­र्दे­व­तै­क­त्वा­दु­पास्यं तेन तद्द्वयम् ।। ५७ ।।

एषैका देवता विभ्वी प्रत्ये­का­र्था­व­सा­यिनी ।।
भोक्त्री कर्त्री च सर्वत्र तस्या भोज्यमतोऽपरम् ।। ५८ ।।

ब्रह्मैषा सर्व­सं­व्या­प्ते­रा­त्मे­त्ये­ता­मु­पा­स्महे ।।
व्याख्या तुल्यैव विज्ञेया सर्ववाक्येषु पूर्ववत् ।। ५९ ।।

गुणो यत्र हि यः पुंसो नाम्ना संभाव्यतेऽत्र तु ।।
फलं तदेव तस्य स्यात्स­र्व­वा­क्येषु निर्णयः ।। ६० ।।

भानु­च­न्द्र­म­सो­स्तेजो जलदैरभिभूयते ।।
विद्यु­त्त­त्रा­प्य­ति­तरां तेजस्वी तेन विद्युति ।। ६१ ।।

खण्डशो न यथा मूर्तं खं पूर्णं चाप्रवर्तनात् ।।
अप्र­व­र्त्य­क्रि­या­व­त्स्यु­र्व्योम्नि सर्वाः प्रवृत्तयः ।। ६२ ।।

जिष्णुः स्याज्ज­य­शी­ल­त्वा­ज्जी­यते न परैर्यतः ।।
अप­रा­जि­ष्णु­रि­त्येवं तस्मा­दे­वा­भि­धी­यते ।। ६३ ।।

अन्यतो मातृतो जाता अन्यतस्त्या उदाहृताः ।।
अप्य­न्य­त­स्त्य­जायी स्यात्सा­प­त्न­भ्रा­तृ­म­र्दनः ।। ६४ ।।

जिष्णु­रि­न्द्र­गु­णो­पा­स्ते­र्वै­कु­ण्ठ­गु­णतः परः।।।।
सेनाऽ­प­रा­जि­ते­त्य­स्मा­त्स­प­त्नानां पराजयः ।। ६५ ।।

अभ्याहितमपि जग­त्स­ह­तेऽ­ग्नि­र्य­त­स्ततः ।।
भस्म­सा­त्क­र­णा­दुक्तो विषा­स­हि­रि­ती­श्वरैः ।। ६६ ।।

अप्सु रेतसि बुद्धौ च पुरुषं ब्रह्म चेतनम् ।।
उपास एतमित्युक्तः काश्यः प्रत्याह पूर्ववत् ।। ६७ ।।

प्रतिबिम्बोदयः कार्यं प्रतिरूपं यतस्ततः ।।
प्रतिरूप उपास्योऽप्सु फलमप्यस्य तादृशम् ।। ६८ ।।

अन्वर्थे प्रतिशब्दोऽयं फलस्य पुरुषार्थतः ।।
प्रातिलोम्येन तु ज्ञेयो ह्यनर्थः स्यात्तथा सति ।। ६९ ।।

श्रुति­स्मृ­ति­स­दा­चा­रा­न्प्रति यः सततोद्यतः ।।
प्रति­श्रु­त्या­दि­रू­प­त्वा­त्प्र­ति­रू­प­स्त­तोऽस्तु सः ।। ७० ।।

रोचि­प्णू­प­नि­प­त्का­न्त­मा­द­र्शा­क्षा­दि­बु­द्धिषु ।।
उपास इत्यभिहिते काश्यः प्रत्याह पूर्ववत् ।। ७१ ।।

यत्रो­पा­स्य­ब­हुत्वं स्यात्फलं तत्र प्रजास्वपि ।।
शत­ह्र­दा­द­र्शा­द्यर्था बहवस्ते प्रसिद्धितः ।। ७२ ।।

फलं यद्गुणकं यत्र तद्गुणं स्यादुपासनम् ।।
फलानुमानतस्तत्र न फलं ह्यनुपासितम् ।। ७३ ।।

गच्छन्तमनु यः शब्दो बहि­र्व­च्छू­य­तेऽ­ध्वनि ।।
अध्यात्मं दैहिके शब्दे बुद्धौ चेति विनिर्दिशेत् ।। ७४ ।।

पुंसोऽ­भि­धा­व­त­स्तूर्णं देहदेशैः समाहतः ।।
प्राणो वृत्तिविशेषेण बहिर्वत्कुरुते ध्वनिम् ।। ७५ ।।

वृत्ति­क्षे­पा­द­सु­र­य­मा­यु­षश्च तदाश्रितेः ।।
शतायुरेव भवति म्रियते नापमृत्युना ।। ७६ ।।

दिक्षु द्वितीयोऽनपगः सद्वितीयः सदैव सः ।।
दुःसंभाव्या हि पूर्वा दिङ्भु­क्त्वाऽऽशां पश्चिमां जनैः ।। ७७ ।।

साधु­भृ­त्य­प­री­वारः सर्वदोपासको भवेत् ।।
पुत्रा­दि­ग­ण­सं­ता­न­स्थै­र्य­मेव सदा भवेत् ।। ७८ ।।

छायामये तथाऽज्ञाने बुद्धौ चैकैव देवता ।।
मृत्यु­का­ला­त्पुरा नास्य व्याधि­र­प्यु­प­स­र्पति ।। ७९ ।।

विराडात्मनि देहे च बुद्धावित्यादि पूर्ववत् ।।
आत्मन्वीति च वश्यात्मा प्रजा चापि शमान्विता ।। ८० ।।

व्यस्तानां पूर्वमुद्देशः समस्तानां त्विहोदितः ।।
विव­क्षा­व­सि­ति­र्गार्गी तथा सत्युपपद्यते ।। ८१ ।।

प्रत्या­ख्या­तो­प­देशः सन्संवादेन पुनः पुनः ।।
ब्रह्मा­न्य­द­न्य­द­व­द­दा­त्म­न्वी­त्य­न्त­मा­द­रात् ।। ८२ ।।

विशे­षा­णा­म­न­न्त­त्वा­त्स­मस्तं ब्रह्म सोऽवदत् ।।
तस्मिन्नपि निषिद्धेऽथ तूष्णीं गार्ग्यो बभूव ह ।। ८३ ।।

यत्कृत्स्नं ब्रह्म पूर्वोक्तं तदेवेदमविद्यया ।।
एकधाऽनेकधा मूढैः कल्प्यते रज्जुसर्पवत् ।। ८४ ।।

अवा­क्शि­र­स्क­मा­लोक्य नृपो गार्ग्य­म­नु­त्त­रम् ।।
एतावदिति तं प्राह शेपा­श­ङ्का­नि­वृ­त्तये ।। ८५ ।।

निगृह्यमाणयोगे च प्लुतिमत्र विनिर्दिशेत् ।।
ब्रह्म ब्रवाणीत्यात्थ त्वमे­ता­व­द्ब्रह्म तच्च ते ।। ८६ ।।

अज्ञाते जगदज्ञातं ज्ञाते ज्ञातं च यत्र तत् ।।
तदेव ब्रह्म पूर्णत्वान्न त्वदु­क्त­म­कृ­त्स्नतः ।। ८७ ।।

अव्या­वृ्त्ता­न­नु­ग­त­स्वतः सिद्धा­त्म­व­स्तुनि ।।
मुख्यार्थो ब्रह्मशब्दः स्यान्न त्वदु­क्तेऽ­त­था­त्वतः ।। ८८ ।।

यस्मादेवमतो गार्ग्य­मे­ता­व­द्धी­ति­वा­दि­नम् ।।
नृपो नैतावतेत्याह ब्रह्मत्वासंभवं स्फुटम् ।। ८९ ।।

अज्ञा­त­ब्र­ह्म­त­त्त्वस्य दुःसंभाव्यमिदं वचः ।।
नैतावतेति ब्रह्मातः काश्यो वेत्तीति लिङ्ग्यते ।। ९० ।।

गार्ग्योऽनुमाय राज्ञोऽथ प्रावीण्यं ब्रह्मवेदने ।।
उपा­या­नी­त्यु­वा­चेमं पर­ब्र­ह्मा­व­बु­द्धये ।। ९१ ।।

परं ब्रह्म विजि­ज्ञा­सु­रु­पे­तोऽ­स्म्य­ह­मा­द­रात् ।।
अनुशाधि यथा­त­त्त्व­मि­त्ये­वं­वा­दिनं नृपः ।। ९२ ।।

क्षत्र्रियं ब्राह्मणो जात्या यदुपेयादनापदि ।।
प्रतिलोममिदं वृत्तं धर्म­शा­स्रै­र्नि­षि­द्धतः ।। ९३ ।।

योग­क्षे­म­फ­ला­र्थाय गमनं न निपिध्यते ।।
ब्रह्म मे वक्ष्यतीत्यर्थं निषिद्धं नृपसर्पणम् ।। ९४ ।।

अतोऽनुपेतमेव त्वां कर­वि­न्य­स्त­बि­ल्व­वत् ।।
ब्रह्म विज्ञापयिष्यामि यज्ज्ञाने सर्वविद्भवेत् ।। ९५ ।।

इत्युक्त्वा तमथो पाणौ गृही­त्वो­त्थि­त­वा­न्नृपः ।।
आजग्मतुश्च तौ सुप्तं नरं कार्यविवक्षया ।। ९६ ।।

गार्ग्यो­क्त­ब्र­ह्मा­भो­क्तृत्वं तथाऽ­मी­फा­म­ना­त्म­ताम् ।।
बाला­के­र्बो­ध­यि­ष्या­मी­त्यतः सुप्तमगान्नृपः ।। ९७ ।।

देवतानामभिः काश्यो गत्वा सुप्तं यथोदितैः ।।
आमन्त्रयां तदा चक्रे बृह­न्नि­त्ये­व­मा­दिभिः ।। ९८ ।।

संबोध्यमानोऽपि तथा सुप्तो नैवोदबुध्यत ।।
यतोऽतो गार्ग्याभिमतो न भोक्तो­त्य­व­ग­म्यते ।। ९९ ।।

जाग्रत्कालं परित्यज्य सुप्तं किमिति जग्मतुः ।।
स्पष्टता सर्वभावानां जाग्रत्काले हि लक्ष्यते ।। १०० ।।

प्राणानां देवतानां च पुरुषस्य च संकरात् ।।
बोधे न शक्यते कर्तुं विवेको भोक्तृभोज्ययोः ।। १०१ ।।

भोक्तृत्वमेव पुंसोऽस्ति भोज्यत्वं न मनागपि ।।
काश्या­भि­प्रा­य­तोऽ­नस्य भोज्यतैव न भोक्तृता ।। १०२ ।।

संकी­र्ण­त्वा­द­शक्यः स्यात्प्रबोधे भोक्तृभोज्ययोः ।।
कर्तुं विवेकोऽतो यातः सुप्तं पुरुषमादरात् ।। १०३ ।।

तस्माद्यद्यपि सांनिध्यं प्राणादीनां प्रजागरे ।।
संकी­र्ण­त्वा­न्मि­थ­स्तेषां दुःशकं तद्विवेचनम् ।। १०४ ।।

आत्मनः प्रोषितत्वात्तु भोगोऽस्मै न प्रयुज्यते ।।
उदासतेऽखिलाः सुप्ते देवताः करणैः सह ।। १०५ ।।

जाग्र­द्भो­ग­प्र­यु­क्तस्य कर्मणः प्रक्षयात्तदा ।।
शेरते करणान्यस्य सह भोक्त्राऽऽत्मना ऽऽत्मनि ।। १०६ ।।

प्राण एकस्तु जागर्ति भोक्ता यो गार्ग्यसंमतः ।।
प्राणेन रक्षन्निति च तथोदर्के प्रवक्ष्यते ।। १०७ ।।

प्राणाग्नय इति स्पष्टं तथाऽ­न­स्त­मि­त­श्रुतेः ।।
अश्रान्तः प्राण एवातो जागर्त्यत्र दिवानिशम् ।। १०८ ।।

यथा जाग्रदवस्थायां भोक्ता प्राणः पुराऽभवत् ।।
स्वप्नेऽप्येष तथैवाऽऽस्ते बोद्धा चेद्बुध्यतामयम् ।। १०९ ।।

प्रण­स्ये­न्दो­स्तथा चापां त्र्यन्ना­त्मा­वि­ष्कृतौ यतः ।।
ऐक्यमुक्तमतः प्राणो बोध्यते चन्द्रनामभिः ।। ११० ।।

बृह­न्नि­त्ये­व­मा­दीनि सन्तु चेहोपलक्षणम् ।।
अनु­क्त­दे­व­ता­नाम्नां साम­र्थ्या­त्त­द्ग्र­होऽ­थवा ।। १११ ।।

यदि भोक्ता भवेत्प्राणो जाग्र­द्व­च्छ­ब्द­मा­ग­तम् ।।
अश्रोष्यत्स न चेद्भोक्ता नाश्रो­ष्य­दु­प­ला­दि­वत् ।। ११२ ।।

ननु सुप्तेऽपि पुंस्य­स्मि­न्बो­धितः सन्स्वनामभिः ।।
भोक्तैव भोत्स्यते शब्दं न त्वभोक्ता परो जडः ।। ११३ ।।
नैवातोऽपि विवेकः स्यादुत्थितः कोऽनयोर्द्वयोः ।। ११४ ।।

नैवं गार्गीयपक्षस्य विशेषावधृतेः सदा ।।
अजा­त­श­त्र्व­भि­प्रे­त­ब्र­ह्मणः प्राक्प्रमाणतः ।। ११५ ।।

योऽनस्तमित एकोऽत्र वागा­द्य­स्त­म­येऽ­मृतः ।।
इन्द्रोऽ­स­प­त्नोऽ­ब्दे­हश्च नामरूपसमावृतः ।। ११६ ।।

अध्या­त्मा­द्य­खिलं विश्वं संव्याप्य समवस्थितः ।।
ओतं प्रोतं जग­द्य­स्मि­न्न­र­ना­भि­नि­द­र्श­नात् ।। ११७ ।।

कुर्वाणस्तुमुलं शब्दं स्वव्या­पा­र­म­शे­षतः ।।
कुर्वाण एव स्वप्नेऽपि प्राण आस्ते प्रबोधवत् ।। ११८ ।।

न च भोक्त्रन्तरं प्राणा­द्गा­गॆ­र्ये­णे­हा­भ्यु­पे­यते ।।
तत्काले भिन्नकाले वा प्राणादन्यस्य भोज्यतः ।। ११९ ।।

तस्मादवश्यं बोद्धव्यं बोध्यं साक्षा­दु­प­स्थि­तम् ।।
प्राणेन बोद्धृ­रू­प­त्वा­द्दाह्यं दग्धा यथा दहेत् ।। १२० ।।

न चासौ बोध्यमानोऽपि प्रत्यबुध्यत नाम तत् ।।
प्राणोऽभोक्ता ततः सिद्धः स्वना­मा­प्र­ति­बो­ध­नात् ।। १२१ ।।

स्वाख्या­वि­शे­प­सं­ब­न्धा­ग्र­ह­णा­च्चेन्न बुद्धवान् ।।
अग्र­हा­सं­भ­वा­न्नैवं सर्वज्ञा देवता यतः ।। १२२ ।।

त्वत्प­क्षेऽ­प्य­ग्रहो दोष­स्तु­ल्य­श्चे­दिति चोद्यते ।।
नैवं कृत्स्ना­भि­मा­नि­त्वा­दे­क­दे­शा­न­हं­कृतेः ।। १२३ ।।

अङ्गु­ल्या­द्य­भि­धा­नोक्तौ न हि तद्वा­न्प्र­बु­ध्यते ।।
कृत्स्न­दे­हा­भि­मा­न्येवं नैक­दे­हा­भि­मा­न­भुक् ।। १२४ ।।

प्राणस्य तु समा­प्त­त्वा­त्स­म­स्त­व्य­स्त­व­स्तुषु ।।
नाऽऽत्म­व­त्स्या­द­सं­बो­ध­स्तस्य सर्वाभिमानतः ।। १२५ ।।

बोधाबोधौ चितेर्न स्तः कूट­स्थ­ज्ञ­प्ति­मा­त्रतः ।।
परायत्तप्रबोधो ना ह्यप्पा­त्रो­त्था­द्र­वे­रिव ।। १२६ ।।

स्वसं­ज्ञ­याऽ­प्य­सं­बोधो यथा दृष्टस्तदात्मनः ।।
भोक्तृत्वे सत्यपि तथा प्राणेऽ­प्य­प्र­ति­बो­ध­नम् ।। १२७ ।।

सुप्ता­सु­प्त­त्व­सं­भे­द­वि­शे­ष­न्या­य­सं­भ­वात् ।।
नैव सुप्तग्रहो युक्तो न त्वसुप्तस्य युज्यते ।। १२८ ।।

श्रोत्रा­दे­र्गु­ण­भू­त­त्वा­त्प्र­धानं प्रति सर्वदा ।।
तस्मिञ्जाग्रति जागर्ति सुप्ते स्वपिति तद्वशात् ।। १२९ ।।

नेन्द्रियाणां भवेत्स्वापो यदि प्राणप्रधानता ।।
नामात्याः शेरते यस्माद्राज्ञि स्वामिनि जाग्रति ।। १३० ।।

अप्र­सि­द्धा­र्थ­सं­ज्ञा­भि­रु­क्ते­श्चॆ­द­प्र­बो­ध­नम् ।।
देव­ता­त्म­नि­षे­धा­र्थ­प­र­त्वा­त्त­द्ग्र­होऽ­र्थ­वान् ।। १३१ ।।

प्राण­स्या­भो­क्तृ­ता­सिद्धिः स्वना­मा­ग्र­ह­णा­दपि ।।
देव­ता­प्र­ति­षे­धार्थं बोध्यते चन्द्रनामभिः ।। १३२ ।।

स्मृति­ज्ञा­ने­ष­णा­दीनां संधा­ना­नु­प­प­त्तितः ।।
कर­णा­ना­म­भो­क्तृत्वं देहा­शा­ना­मि­वे­ष्यते ।। १३३ ।।

अचै­त­न्या­त्त­थो­क्तस्य कुतो भोक्तृत्वसंभवः ।।
चिदन्यस्य च भोज्य­त्वा­न्ना­न्य­स्या­तोऽस्ति भोक्तृता ।। १३४ ।।

दण्डा­पू­पि­क­नी­त्यैव करणानामभोक्तृता ।।
न च प्राणातिरेकेण देव­ताऽ­न्यो­प­प­द्यते ।। १३५ ।।

ननु तद्व्यतिरेकेण प्रागा­दि­त्या­दि­री­रितः ।।
देवताविषयो भेदः स कथं विनिवार्यते ।। १३६ ।।

नैवं तस्य समस्तस्य प्राण एकत्वहेतुतः ।।
अर­ना­भ्या­दि­दृ­ष्टा­न्ता­द्वा­यु­प्रा­धा­न्य­त­स्तथा ।। १३७ ।।

संघात एव भोक्ताऽस्तु तस्य प्रत्यक्षसंगतेः ।।
न तु तद्व्य­ति­रि­क्तस्य भोक्तृता मित्यसंभवात् ।। १३८ ।।

नाचेतनस्य भोक्तृत्वं कथंचिदवकल्पते ।।
चिदन्यस्य च भोग्य­त्वा­त्क­म्ब­लौ­द­न­तो­य­वत् ।। १३९ ।।

न चापि चिद्विशिष्टत्वं प्रत्य­क्षे­णो­प­ल­भ्यते ।।
चित्सं­ब­न्धो­प­ल­ब्ध्यर्थं तज्ज्ञाता कः प्रकल्प्यते ।। १४० ।।

नेह चिद्व्यतिरेकेण स्वार्थं किंचिदपीष्यते ।।
नापि स्वार्थातिरेकेण प्रमा­ण­फ­ल­भा­ग्भ­वेत् ।। १४१ ।।

न ह्यचित्कं प्रमेयं सच्चि­न्मि­त्किं­चि­द­पी­क्ष्यते ।।
न चानुभूतिः प्रात्य­क्ष्य­म­न्य­तोऽ­पे­क्षते जडात् ।। १४२ ।।

देहा­त्प्र­त्य­क्ष­नि­प्पत्तौ न च प्रत्य­क्ष­मि­ष्यते ।।
लिङ्गस्य चाप्र­मा­ण­त्वा­त्कुतः प्रत्यक्षमानिता ।। १४३ ।।

तथाऽ­र्था­न्त­र­सं­बन्धे प्रत्यक्षे देहनिष्ठिते ।।
अनु­सं­धा­न­सं­सिद्धौ न किंचि­न्मा­न­मि­ष्यते ।। १४४ ।।

वाग­भि­व्या­हृ­ति­श्चेयं लिङ्गा­प्रा­मा­ण्य­वा­दिनः ।।
आप्र­त्य­क्ष्या­त्प­र­ज्ञ­प्ति­सं­गतेः स्यादनर्थिका ।। १४५ ।।

स्वात्म­दृ­ष्ट्य­नु­रो­धेऽपि मौढ्यमेव प्रसज्यते ।।
व्युत्पत्तेः साधुलोकस्य न कश्चिदपि दित्सति ।। १४६ ।।

अध­र्मा­दि­भ­या­भा­वा­द्ध­न्यु­रे­न­म­श­ङ्किताः ।।
आदद्युश्च बला­द्वि­त्त­मे­त­द्व्यु­त्प­त्तितः फलम् ।। १४७ ।।

आपेषणे विशेषस्य दृष्ट­त्वा­द्दे­ह­सं­हतिः ।।
न भोक्त्री सुख­दुः­खा­दि­फ­लानां स्यात्कदाचन ।। १४८ ।।

यदि संघातमात्रस्य भोक्तृत्वमिह कल्प्यते ।।
संघा­त­स्या­वि­शि­ष्ट­त्वा­न्ना­ति­शी­ति­र्भ­वे­त्सदा ।। १४९ ।।

ईष­त्सं­स्पृ­ष्ट­मा­त्रस्य बला­च्चाऽऽ­पे­ष­णा­त्तथा ।।
देहा­दि­भि­न्न­जा­तीयो भोक्ता यस्य च वादिनः ।। १५० ।।

धर्मा­दि­हे­तु­सं­ब­न्ध­ब­हु­त्व­त्स्या­त्स­म­ञ्ज­सम् ।।
पेष­णा­पे­ष­ण­कृ­त­वे­द­नायां भवेद्भिदा ।। १५१ ।।

सुख­दुः­खा­दि­हे­तू­ना­मु­त्त­मा­ध­म­म­ध्यतः ।।
तत्प्र­बो­ध­वि­शे­षोऽयं युक्त एव भवेत्तदा ।। १५२ ।।

अस्ति चायं विशेषोऽत्र यत्सं­स्प­र्श­न­मा­त्रतः ।।
अबुध्यमानः संसुप्त आपिष्याऽऽपिष्य बोधितः ।। १५३ ।।

अत आपे­ष­णा­द्योऽ­सा­वु­त्थितः करणैःसह ।।
राजेव सचिवैः सार्धं स भोक्तेहेति गम्यताम् ।। १५४ ।।

मृतकल्पमिमं देहं स्वचि­त्ता­वे­श­य­न्निव ।।
ज्वलन्निव समुत्तस्थौ यः स भोक्तेति गम्यताम् ।। १५५ ।।

क्रोध­ह­र्ष­भ­यो­द्वे­ग­ज्ञा­न­ध­र्मौ­र्वि­शे­ष­यन् ।।
शरीरं यः समुत्तस्थौ स भोक्ते­त्य­व­सी­य­ताम् ।। १५६ ।।

अपि प्राणस्य पारार्थ्यं संह­त­त्वा­द्गृ­हा­दि­वत् ।।
ततश्च भोग्यरूपस्य भोक्तृत्वं नोपपद्यते ।। १५७ ।।

देहस्यान्तर्गतः प्राणः स्थूणा­व­द्दे­ह­भृ­त्सदा ।।
संहन्यते शरीरेण यथा वायुस्तथैव सः ।। १५८ ।।

यत एवमतः प्राणो गृहा­दि­व­दि­हे­ष्यते ।।
देहाच्च देहधर्मेभ्यो विध­र्मा­त्माऽ­व­भु­क्ततः ।। १५९ ।।

स्वात्मां­शां­शि­स­जा­ती­य­वि­वि­क्ति­फ­ल­स­द्म­वत् ।।
संहतत्वात्तथा प्राणोऽ­सं­ह­ता­त्मो­प­भो­ग­कृत् ।। १६० ।।

स्वज­न्मो­प­च­य­ग्ला­नि­ना­शा­ख्या­कृ­ति­ज­न्मदि -
ग्धर्मा­न­पे­क्ष­सं­ल­ब्ध­स­त्त्वा­दि­स्वा­र्थ­रू­पकः ।। १६१ ।।

तद्गो­च­रै­क­सं­द्र­ष्टृ­वि­ज्ञा­त्रर्थं समीक्ष्य हि ।।
प्राणस्य तद्गुणानां च तथार्थत्वं प्रतीयताम् ।। १६२ ।।

ननु वेदा­न्त­सि­द्धान्ते न वस्त्व­न्त­र­मि­ष्यते ।।
सांख्य­रा­द्धा­न्त­व­त्किं­चि­त्प्र­त्य­गा­त्मै­क­व­स्तुनः ।। १६३ ।।

ऐका­त्म्या­वि­द्यया सर्वं प्रतीचि परिकल्पितम् ।।
प्राणा­द्य­ना­त्म­जातं यद्रूपं नाम च कर्म च ।। १६४ ।।

कल्पिताकल्पितं सर्वं यदाऽऽ­त्मै­वा­भ्यु­पे­यते ।।
अन्व­य­व्य­ति­रे­को­क्ति­स्त­दै­क्या­न्नेह युज्यते ।। १६५ ।।

नान्वयो व्यतिरेको वा कल्पि­त­स्या­नृ­त­त्वतः ।।
अकल्पितस्य चैकत्वान्नितरां न प्रसिध्यति ।। १६६ ।।

पुंव्यु­त्प­त्ति­प्र­धा­न­त्वा­द­न्व­या­दे­र­दो­षता ।।
न त्वन्वयादिनैवेह वस्तुतत्त्वस्य संस्थितिः ।। १६७ ।।

अवि­द्या­क­ल्पि­तेऽ­प्य­स्मि­न्ना­त्म­प्र­त्य­य­मा­न­भाक् ।।
भोक्तेह गम्यते लोके न त्वना­त्म­मि­ति­प्रमः ।। १६८ ।।

अतोऽनूद्य यथा­सि­द्ध­म­न्व­य­व्य­ति­रे­कतः ।।
भोक्तृ­भो­ग्य­वि­वे­केन श्रुत्यै­कात्म्यं प्रबोध्यते ।। १६९ ।।

चिदन्वयो हि सर्वत्र तत्कार्येषु समीक्ष्यते ।।
व्यति­रे­कोऽ­प्य­प­ह्नुत्या कार्यस्येह प्रसिध्यति ।। १७० ।।

ऐकात्म्यसिद्धौ दोषः स्यात्त­त्सि­द्धिश्च न वास्तवी ।।
प्रामाणिकी हि तत्सिद्धिरतो नासौ विरुध्यते ।। १७१ ।।

न चापि मान­व्या­पा­र­व्य­पे­क्षै­का­त्म्य­नि­श्चितौ ।।
तत्फलस्य समा­प्त­त्वा­द­पेक्षा निष्फला यतः ।। १७२ ।।

यावत्त्वागमतः साक्षान्न वेत्त्या­त्मा­न­म­द्व­यम् ।।
अन्व­या­द्या­त्म­बो­धार्थं तावत्तत्केन वार्यते ।। १७३ ।।

अज्ञानं च तदुत्थं च ह्यात्मै­वा­ज्ञा­त­त­त्त्वकः ।।
तत्त­त्त्व­बो­धा­त्त­द्बाधः सर्प­र­ज्ज्वा­दि­बा­ध­वत् ।। १७४ ।।

क्लृप्तानामपि रज्ज्वादौ कल्पि­ता­न्त­र­सं­श्र­यात् ।।
क्लृप्ता­न्त­रा­प­नुत्तिः स्याद्यथा तद्वि­दि­हाऽऽ­त्मनि ।। १७५ ।।

प्रत्य­ङ्मा­नै­क­मे­योऽतो भोक्ता भोग्यं ततोऽपरम् ।।
भोग्यानां व्यभिचारेऽपि भोक्तै­कोऽ­व्य­भि­चा­र­वान्न ।। १७६ ।।

बृह­न्नि­त्या­दिभिः प्राणो बोध्यमानोऽपि यत्नतः ।।
नैवान्वबुध्यत यदा चक्रे यत्नान्तरं तदा ।। १७७ ।।

पाणिनाऽऽपिफ्य वहुशः सुप्तं काश्योऽ­प्य­बो­ध­यत् ।।
आपे­षो­द्भू­त­सं­क्षो­भ­स्त­तोऽसौ प्रत्यबुध्यत ।। १७८ ।।

कारणानामिदं वृत्तं यन्नि­मि­त्ता­न्त­रा­श्र­यात् ।।
स्वात्म­का­र्य­स­मु­द्भू­ति­र­म्ब­रा­द­भ्र­भू­ति­वत् ।। १७९ ।।

आपे­षा­ल्ली­न­बु­द्ध्या­दि­स­मु­त्पत्तौ परात्मनः ।।
घटा­का­श­व­दु­त्प­त्ति­र्ना­ञ्ज­सैव सदा दृशेः ।। १८० ।।

तस्मा­द­प्र­ति­बो­धेन प्राणोऽभोक्तेति गम्यताम् ।।
पुंसस्तु प्रतिबोधेन भोक्तृ­तै­वा­व­सी­यते ।। १८१ ।।

अदाहकानां दग्धृत्वं यथा दाहकसंगतेः ।।
योक्तृ­सं­यो­ग­त­स्त­द्व­द्भो­क्तृत्वं देवतात्मनः ।। १८२ ।।

देहे­न्द्रि­य­म­नो­धीभ्यो विवि­च्याऽऽ­त्मा­न­मे­क­लम् ।।
भोक्तारं दर्शयित्वाऽथ राजा गार्ग्यमपृच्छत ।। १८३ ।।

आपेषणेन बुबुधे यः प्राणा­दि­वि­ल­क्षणः ।।
क्वाभूदयं पुरा बोधा­त्कु­त­श्चाऽऽ­ग­त­वा­न्पु­मान् ।। १८४ ।।

अन्तःकरणसंबन्धे विज्ञानमिति कर्तरि ।।
प्रत्ययः करणार्थः स्यात्क्रियायां भावसाधनः ।। १८५ ।।

प्रमे­या­र्थ­वि­व­क्षायां शब्दः स्यात्कर्मसाधनः ।।
यथो­क्ता­ना­म­स­द्भा­वा­त्प्रा­यार्थः प्रत्यगात्मनि ।। १८६ ।।

स्वाभा­स­व­द­वि­द्यो­त्थ­बु­द्ध्या­दि­व्या­प्ति­वि­भ्र­मात् ।।
तदा­त्म­त्वा­भि­मा­नि­त्वा­द्वि­ज्ञा­न­म­य­ताऽऽ­त्मनः ।। १८७ ।।

साक्षि­त्वे­नो­प­ल­भ्य­त्वा­त्सा­क्ष्य­बु­द्ध्या­दि­सं­श्र­यात् ।।
अकारकफलत्वेन तेन प्राया­र्थ­ते­ष्यते ।। १८८ ।।

यतो विज्ञानमानी सन्सर्वं वस्त्ववगच्छति ।।
विज्ञानमयता तस्मा­त्प्र­ती­चोऽ­बो­ध­का­र­णात् ।। १८९ ।।

विज्ञानेन विशिष्टं वा यस्मान्मेयं प्रपद्यते ।।
प्रायार्थत्वं प्रती­चोऽ­त­स्त­द­भि­न्न­ग्र­हा­द्भ­वेत् ।। १९० ।।

विज्ञानमय इत्युक्त्वा पृथि­व्या­दि­म­यो­क्तितः ।।
षड्वि­का­र­नि­षे­धाच्च प्रायार्थत्वं समञ्जसम् ।। १९१ ।।

अनात्मनो यतोऽ­शे­षा­न्क­ल्पि­त­त्वा­द­क­ल्पितः ।।
पूरयन्पुरुपः प्रत्य­क्स­र्पा­दी­न्न­शना यथा ।। १९२ ।।

व्युत्प­त्ति­रि­य­मे­वात्र तात्पर्यस्य समीक्षणात् ।।
स वा इति ह्युपक्रम्य नैने­ने­त्या­दि­नि­र्ण­यात् ।। १९३ ।।

इयं ताव­त्प­दा­र्थोक्तिः संब­न्धो­क्ति­र­था­धुना ।।
प्रश्नस्य क्वैष इत्यादेः किम­र्थोऽ­य­मु­प­क्रमः ।। १९४ ।।

चोद्यैकमूलां प्रश्नोक्तिं केचि­द्व्या­च­क्ष­तेऽ­परे ।।
याथा­त्म्य­प्र­ति­प­त्त्य­र्थ­मु­त्थि­तस्य प्रचक्षते ।। १९५ ।।

पुंसोऽस्य ज्ञस्वभावत्वे कारणेष्वपि सत्सु च ।।
कादा­चि­त्कोऽ­व­बो­धोऽस्य कुत इत्युच्यतां यथा ।। १९६ ।।

विहायैतच्छरीरं वा गतो देशान्तरं पुमान् ।।
विनष्टो वा कुतो भूयो देह­मा­गा­दि­ती­र्य­ताम् ।। १९७ ।।

प्रष्ट­व्य­मे­त­द्ग­र्ग्येण शिष्यत्वान्न त्वचूचुदत् ।।
नैवोदास्ते तथाऽपीनो बोधा­भ्यु­प­ग­मा­त्स्व­यम् ।। १९८ ।।

अर्थिनेऽर्थं प्रतिज्ञाय नासंपाद्य निवर्तते ।।
यथार्थितं सत्पुरुष इति सत्पुरुषव्रतम् ।। १९९ ।।

कूट­स्थोऽ­स्या­व­बो­ध­श्चे­त्का­दा­चित्कं कुतो भवेत् ।।
मतोऽ­व­बो­धोऽ­नि­त्य­श्चे­त्का­दा­चित्कं तदाऽर्थवत् ।। २०० ।।

देहा­दि­ष्व­भि­मा­नोऽस्य कादाचित्कः सहेतुकः ।।
आग­मा­पा­यि­सा­क्षित्वं नित्य­मे­वा­नि­मि­त्ततः ।। २०१ ।।

इदमेव यतो वृत्तं कारणापेक्षिणां सताम् ।।
अभूत्वा भवनं तस्मा­त्का­दा­चित्कं न दोषभाक् ।। २०२ ।।

प्रतीच्येव यतश्चाभूदागाच्च प्रत्यगात्मनः ।।
प्रश्ना­र्थ­प्र­ति­कू­ल­त्वा­त्प्र­त्यु­क्ते­र्ने­दृ­ग­र्थता ।। २०३ ।।

गत्यादिसाधनानां च देह एव स्थितेः कुतः ।।
देशान्तरगतिः पुंसो नापि नाशोऽस्य युक्तिमान् ।। २०४ ।।

साक्षा­द्ब्र­ह्मा­व­बो­धस्य प्रति­ज्ञा­त­त्व­का­र­णात् ।।
भोक्तृ­भो­क्त­व्य­यो­स्तत्त्वं वक्तुं युक्तमतोऽञ्जसा ।। २०५ ।।

कर्मादिहेतुजं रूपमतत्त्वं तदनन्वयात् ।।
अनिमित्तं स्वतस्तस्य सर्व­दाऽ­व्य­भि­चा­रतः ।। २०६ ।।

अका­र­क­क्रि­या­कार्यं रूपं प्राक्प्र­ति­बो­धतः ।।
बुबोधयिषितं भोक्तु­र­स्म­द्गो­च­र­व­र्तिनः ।। २०७ ।।

यतोऽस्य न पुरा बोधात्कर्मादेः कार्यमण्वपि ।।
प्रतीचो गृह्यते मानादतोऽयं तत्स्वभावकः ।। २०८ ।।

काभूदेष पुरा बोधा­त्कु­त­श्चा­य­मु­पा­गतः ।।
आचक्ष्वैतद्वयं गार्ग्य स्थिता­वा­ग­म­नेऽ­व­धिम् ।। २०९ ।।

अभू­त्प्र­ती­चोऽ­न्य­त्रा­य­म­न्य­स्मा­च्चा­य­मा­गतः ।।
यदि चेत्कारकत्वं स्यान्नो चेद्धान्तिरियं भवेत् ।। २१० ।।

यत्र वा अन्यदित्येवं यत्र त्वस्येति चापरम् ।।
अविद्याविद्ययोः कार्यं तथाच श्रुतिरब्रवीत् ।। २११ ।।

वक्तुं प्रष्टुं च बालाकिर्न यतो जज्ञिवांस्ततः ।।
प्रश्नयोः स्वयमेवार्थं काश्यो वक्तुं प्रचक्रमे ।। २१२ ।।

पृष्टेनापि न विज्ञातं भवता तदिदं मया ।।
उच्यमानं यथा तत्त्वं सम्यक्त्वं श्रोतुमर्हसि ।। २१३ ।।

यत्रैष एत­त्सु­प्तोऽ­भू­त्स्व­ना­मा­म­न्त्र­ण­ध्व­निम् ।।
नाश्रौ­षी­द्य­न्नि­मित्तं ज्ञस्त­न्नि­मि­त्ति­मिदं शृणु ।। २१४ ।।

त्रैविध्यं लक्ष्यते यस्मा­द्बु­द्ध्या­दि­प्रा­ण­भू­मिषु ।।
तदेषामिति षष्ठीयं श्रुत्या तस्मा­त्प्र­यु­ज्यते ।। २१५ ।।

प्रत्य­क्चि­द­व­भा­सश्च कारणानुगमोऽपरः ।।
तथाच करणात्मानो बाह्य­गो­च­र­र­ञ्जिताः ।। २१६ ।।

बुद्ध्यादेः कृत्स्नकार्यस्य पुंस्क­र्मो­द्भू­ति­हे­तुतः ।।
बुद्ध्या­द्यु­त्क्षे­प­सं­हारौ तस्मा­त्क­र्म­नि­ब­न्धनौ ।। २१७ ।।

स्वात्मावभासतो भोक्ता कर्ता त्वज्ञानहेतुतः ।।
द्वयाविविक्तो हि परो भोक्ता कर्तेति चोच्यते ।। २१८ ।।

जाग्र­त्फ­ल­प्र­यो­गस्य यदा कर्म प्रहीयते ।।
व्युत्था­न­हे­त्व­स­द्भा­वा­त्त­दाऽ­कर्ता सुषुप्सति ।। २१९ ।।

भोक्तृप्रयुक्तं कर्तृत्वं कर्त्रा कर्म प्रयुज्यते ।।
कर्मप्रयुक्तो भोगश्च ततः संस्कारसंभवः ।। २२० ।।

सुखु­दुः­खा­दि­सं­स्का­र­सं­स्कृ­तोऽयं जडः पुमान् ।।
राग­द्वे­षा­दि­नाऽऽ­क्षि­प्त­स्ततो भूयः प्रवर्तते ।। २२१ ।।

अन्योन्यं कार्यता चैषां कारणत्वं तथैव च ।।
तेना­नु­च्छ­न्न­सं­स्कार आत्माऽयं प्राक्प्रबोधतः ।। २२२ ।।

अवि­द्या­ना­भि­सं­बन्धो मिथ्या­धी­च­क्र­सं­स्थितः ।।
आब्र­ह्माऽऽ­स्था­ण्वयं योनी­र्ब­म्भ्र­मी­त्य­निशं परः ।। २२३ ।।

जाग्र­त्क­र्म­क्षये सोऽय­मा­दा­या­शे­ष­भा­वनाः ।।
असं­बु­द्धा­त्म­को­द्भू­त­म­नो­बु­द्ध्या­दि­रू­पिणा ।। २२४ ।।

आधिस्वभावजेनेति कर्ताऽऽदानस्य भण्यते ।।
प्रत्य­क्चि­द­व­भा­सान्तः कर्ता क्षेत्रज्ञ उच्यते ।। २२५ ।।

आदीयमानं विज्ञानं सामर्थ्यं विषयोन्मुखम् ।।
वागादीनामिह ग्राह्यं प्राणानां विषयाञ्जनम् ।। २२६ ।।

शक्तयः करणान्यत्र गृह्यन्ते कारणात्मना ।।
परमात्मा ग्रहीताऽत्र स्वाभा­सा­भि­न्न­वि­ग्रहः ।। २२७ ।।

तथा संवर्गविद्यायां प्राण­वा­य्वा­त्मना श्रुतिः ।।
वाग­ग्न्या­द्यु­प­सं­हारं वक्ति नान्येन कारणात् ।। २२८ ।।

नामाद्याशावसानं च प्राणे सर्वं प्रतिष्ठितम् ।।
प्राण­ब­न्ध­न­वा­क्याच्च सूक्त­मे­त­द्य­थो­दि­तम् ।। २२९ ।।

आवि­र्भू­त­स्व­का­र्यस्य संसर्गः कारणात्मना।।।।
वागाद्यादानमत्र स्याद्बु­द्बु­दानां यथाऽम्भसा ।। २३० ।।

सहार्थे वा तृतीयेयं विज्ञानेनेति या श्रुता ।।
सह प्रमातृज्ञानेन वागा­दे­रु­प­सं­हृतिः ।। २३१ ।।

यदि वाऽस्तु तृती­ये­य­मि­त्थं­भू­ता­र्थ­वा­चिनी ।।
प्रत्य­ग्ज्ञा­न­स्व­भा­वेन कार्य­का­र­ण­सं­हृतिः ।। २३२ ।।

अन­न्य­बो­ध­प्र­त्यक्षो य एष इति भण्यते ।।
तस्य संप्र­ति­प­त्त्य­र्थ­म­न्त­र्हृ­द­य­की­र्त­नम् ।। २३३ ।।

परा­क्प्र­मे­य­भू­मिभ्यो व्युत्थाप्य मन आदरात् ।।
प्रत्यक्प्रवणया दृष्ट्या पश्याऽऽत्मानं त्वमञ्जसा ।। २३४ ।।

आत्मबुद्धिरियं पुंसां लक्ष्य­तेऽ­व्य­भि­चा­रिणी ।।
व्यभि­चा­रि­णी­ष्व­ना­त्मो­त्थ­बु­द्धिषु प्रत्यगात्मनि ।। २३५ ।।

बुद्धात्मनोऽपि सा बाह्य­प­दा­र्थ­ज्ञा­न­वि­भ्र­मात् ।।
संकी­र्य­मा­णे­वाऽऽ­भाति तमसोपहतात्मनाम् ।। २३६ ।।

जग्धे कार्ये च निःशेषे कारणे चाऽऽत्मविद्यया ।।
अपू­र्वा­द्या­त्म­नाऽऽ­त्माऽ­य­मा­त्म­न्ये­वा­व­सी­य­ताम् ।। २३७ ।।

आदा­या­का­श­श­ब्दा­भ्या­मै­कात्म्यं प्रतिपाद्यते ।।
क्षेत्र­ज्ञे­श्व­रयोः साक्षा­च्छ्रु­त्ये­हा­ज्ञा­न­हा­नतः ।। २३८ ।।

तात्स्थ्या­द्धृ­द­य­श­ब्देन बुद्धि­र­त्रा­भि­धी­यते ।।
ऐका­त्म्य­प्र­ति­प­त्त्यर्थं क्षेत्र­ज्ञ­प­र­मा­त्मनोः ।। २३९ ।।

घटाकाशो महाकाश इत्युक्तौ खैकधीर्यथा ।।
तथेहापि कथं नाम प्रत्यग्धीः स्यादितीर्यते ।। २४० ।।

बुद्धेरन्तः प्रतीचोऽन्यो नार्थः संभाव्यते यतः ।।
तस्मा­दा­का­श­श­ब्देन प्रत्य­गा­त्माऽ­भि­धी­यते ।। २४१ ।।

प्राणादीनां यतो जन्म वक्ष्यते प्रत्यगात्मनः ।।
तस्मा­च्चाऽऽ­का­श­श­ब्देन ब्रह्मै­वा­त्रा­भि­धी­यते ।। २४२ ।।

अथाऽऽकाशो ह वै नाम सता सोम्येति च श्रुतिः ।।
ब्रह्मा­का­शा­त्परो नान्य आकाश इह गृह्यते ।। २४३ ।।

स्वतो­व­ग­म­रू­पेऽ­स्मि­न्कू­टस्थे कारणात्मना ।।
कार्त्स्न्ये­ना­व­सि­ति­र्भोक्तुः शेत इत्यभिधीयते ।। २४४ ।।

दृष्टान्तश्च कुमारादि तथाच घटतेऽञ्जसा ।।
प्रत्य­क्चै­त­न्य­मा­त्र­त्वान्न तु निद्रेह युज्यते ।। २४५ ।।

देहा­द्य­ध्य­क्षतां हित्वा यदाऽयं वर्तते तदा ।।
स्वात्म­न्ये­वाऽऽस्त इत्ये­त­त्कु­त­श्चे­त्स्व­पि­ती­त्यतः ।। २४६ ।।

इतश्च प्रत्यगात्मस्थो नान्यत्रागादयं पुमान् ।।
सुषुप्ते स्वपि­ती­त्यु­क्ते­स्त­दे­त­द­भि­धी­यते ।। २४७ ।।

अन्ये व्याचक्षते बुद्धि­वि­ज्ञा­ने­नेति विस्मिताः ।।
वागा­दि­ज्ञा­न­मा­दाय हृत्खे शेते य उत्थितः ।। २४८ ।।

सुषु­प्सु­र्म­न­सै­वाऽऽत्मा मनस्येव समूहति ।।
प्राणा­न्स्व­श­क्तिभिः साकं मनोऽप्यात्मनि लीयते ।। २४९ ।।

विशी­र्ण­क­र­ण­ग्रामो बुद्धिभावनया युतः ।।
हृद्या­का­शा­त्प्र­सृ­त्याऽऽत्मा नाडीभिः स्वप्नमश्नुते ।। २५० ।।

मनो­वा­गा­दि­वि­ज्ञा­न­वि­ग्रहः करणाख्यया ।।
विजानातीति कर्तृस्थे पर­स्मि­न्भा­व­सा­धनः ।। २५१ ।।

प्रका­श­वृ­त्तिर्या ज्ञस्य सा हृद्धर्मानुगा सती ।।
उद्गच्छति यत­स्त­स्मा­द्धृ­द्वि­शेषे लयं विदुः ।। २५२ ।।

स्वगोचरोन्मुखं ज्ञानं वागादीनामशेषतः ।।
आदाय भावनाबुद्ध्या शेते ज्ञो हृदयाम्बरे ।। २५३ ।।

भाव­ना­रू­प­वि­ज्ञा­न­म­भि­व्यक्तं यदा हृदि ।।
क्षेत्र­ज्ञ­स्या­र्थ­व­द्भाति शेते हृदीत्यतो वचः ।। २५४ ।।

एवं श्रुतिरियं कैश्चि­द्व्या­ख्या­ताऽ­ति­प्र­य­त्नतः ।।
परीक्ष्यैतद्वयं ग्राह्यं स्वयमेव परीक्षकैः ।। २५५ ।।

सह भावनया बुद्धेः श्रुत­त्वा­दु­प­सं­हृतेः ।।
न स्यात्त­थो­प­सं­हा­र­स्ते­नेयं कल्पना मुधा ।। २५६ ।।

स्वगो­च­रे­षू­त्सृ­ष्टानि यदा गृह्णात्ययं स्वयम् ।।
वागादीनि तदैवैनं स्वपितीति प्रचक्षते ।। २५७ ।।

समा­ख्या­सं­श्र­या­त्त­स्मा­द­भू­त्प्रा­क्प्र­त्य­गा­त्मनि ।।
व्यभिचारोऽपि चेन्नाम्नि ततो युक्तिरपीर्यते ।। २५८ ।।

वागादिप्रकृतौ प्राणशब्दो घ्राणेऽवगम्यते ।।
मुख्य­स्या­नु­प­सं­हा­रान्न तद्वाचक इष्यते ।। २५९ ।।

वास­ना­मा­त्र­हे­तुश्च स्वप्ने कर्मे­न्द्रि­या­श्रयः ।।
सर्वे­न्द्रि­याणां लीना­त्व­द्व्या­पारो न प्रबोधवत् ।। २६० ।।

वागा­द्यु­पा­धि­सं­बन्धे संसा­रि­त्व­मि­वे­क्ष्यते ।।
ते तूपसंहृताः सर्वेऽ­सं­सा­रि­त्व­मतो दृशेः ।। २६१ ।।

ननु स्वप्नेऽपि जाग्र­द्व­त्प्र­त्य­क्ष­मु­प­ल­भ्यते ।।
सर्वे­न्द्रि­य­वि­यो­गेऽपि सुखि­दुः­खि­त्व­मा­त्मनः ।। २६२ ।।

मैवं मृषा­त्वा­त्स्व­प्नो­त्थ­सु­ख­दुः­खा­दि­ल­क्षण -
संसारस्येत्यतो वक्ति श्रुतिस्तस्य मृषार्थताम् ।। २६३ ।।

नास्य स्वापः प्रबोधो वा कुतः स्वप्नस्य संभवः ।।
प्रत्यक्स्वभाव एवास्य जाग्र­त्स्व­प्न­सु­षु­प्तयः ।। २६४ ।।

सुप्तः प्रबुद्ध इत्येवं स्वप्नं पश्यति चेति यः ।।
विकल्प एष भूता­ना­म­वि­द्या­रा­त्रि­शा­यि­नाम् ।। २६५ ।।

मायामात्रमिदं सर्वं जग­त्स्था­व­र­ज­ङ्ग­मम् ।।
सर्पादेरिव रज्ज्वा­दि­स्त­त्त्व­म­स्य­परं पदम् ।। २६६ ।।

चित्त­सं­मो­ह­मा­त्रे­स्मि­ल्लो­कोऽयं परिखिद्यते ।।
दिङ्मो­हा­कु­ल­वि­ज्ञानो नष्टमार्ग इवाध्वगः ।। २६७ ।।

अस्मिन्नर्थे जगादेमौ श्लोकौ यदुकुलोद्वहः ।।
पुराणः शाश्वतो विष्णुः प्रपन्नाय किरीटिने ।। २६८ ।।

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।।
माय­याऽ­प­हृ­त­ज्ञाना आसुरं भावमाश्रिताः ।। २६९ ।।

दैवी ह्येषा गुणमयी मम माया दुरत्यया ।।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।। २७० ।।

आत्मैवेदं जगत्सर्वं सत्या­पू­र्वा­दि­ल­क्ष­णम् ।।
वेत्ति यस्तत्त्वतो वाक्या­त्त­स्यै­वेह कृतार्थता ।। २७१ ।।

प्रत्य­क्त­मो­व­सा­य्येव परा­ग्ज्ञा­न­म­शे­षतः ।।
प्रत्य­गा­त्म­न्य­वि­द्येति त्ववि­द्या­प­रि­क­ल्पना ।। २७२ ।।

स्वार्थं प्रत्येव विज्ञेयाः सद­स­त्त्वा­दि­क­ल्पनाः ।।
जाग्र­त्स्व­प्ना­वतः सिद्धौ स्वार्थं प्रत्येव न स्वतः ।। २७३ ।।

वागा­दि­सा­ध्य­सं­दृष्टेः स्वप्नो बोधसमो यदि ।।
अव­स्था­त्रि­त­य­स्यास्य कुतः सिद्धि­रि­ती­र्य­ताम् ।। २७४ ।।

आदायेति च क्त्वान्तोक्तेः पूर्वा­क­लै­क­क­र्मणः ।।
स्वप्न एव तु संसि­द्धि­रा­दा­वन्ते ह्यसंभवात् ।। २७५ ।।

इति भूता­र्थ­सं­बो­ध­ज्ञा­नो­न्मी­लि­त­च­क्षु­षाम् ।।
नास्ति व्याधिर्जरा नास्ति नास्ति देशपरिभ्रमः ।। २७६ ।।

नास्ति रोगो न संतापो नास्ति कामादिसंप्लुतिः ।।
न स्युर्ह­र्ष­भ­यो­द्वे­ग­हा­नो­प­च­य­मृ­त्यवः ।। २७७ ।।

न शोको नारतिः काचिन्न कर्तृत्वं न कार्यता ।।
न ज्ञेयं नापि च ज्ञाता तदभावोऽपि नेष्यते ।। २७८ ।।

इति क्षरा­र्थ­सं­ब­न्ध­ज्ञा­नेऽ­स्मि­ल्लो़­क­च­क्षुषा ।।
विक­ल्प­हे­त्व­वि­द्यायाः प्रत्य­ग्या­था­त्म­नि­ष्ठितः ।।
सम्य­ग्बो­धा­ग्निना ध्वस्तौ विकल्पो नावशिष्यते ।। २७९ ।।

विजि­ज्ञा­प­यि­षु­र्गा­र्ग्य­मि­म­म­र्थ­मतो नृपः ।।
स यत्रे­त्या­दि­का­माह परा­मु­क्ति­प­रं­प­राम् ।। २८० ।।

स्वप्ने भव­त्वा­त्स्व­प्नेति जाग्र­त्स्वा­पा­द्वि­वे­च­नम् ।।
मिथ्या­त्व­प्र­ति­प­त्त्यर्थं स्वप्नस्य क्रियते स्फुटम् ।। २८१ ।।

निशायां संप्रवृत्तायां संहृताक्षस्य निद्रया ।।
जाग्र­त्क­र्म­ण्यु­प­क्षीणे स्वप्नभोग उपस्थिते ।। २८२ ।।

बोधावस्था तिरोनीय देहा­द्या­श्र­य­ल­क्ष­णाम् ।।
कर्मो­द्भा­वि­त­सं­स्का­र­स्तत्र स्वप्नरिरंसया ।। २८३ ।।

अवस्थां प्रययावन्यां माया­वी­वाऽऽ­त्म­मा­यया ।।
उच्चा­व­चा­न्ब­हू­न­र्था­न्सोऽ­सृ­ज­त्सृ­ज­तेऽ­नृ­तान् ।। २८४ ।।

अवि­द्या­का­म­क­र्मा­दि­सा­धनैः समुपार्जितान् ।।
बोधे साधारणा येऽस्य स्वप्ने तेऽन­न्य­द्र­ष्टृकाः ।। २८५ ।।

लोकाः कर्मफलानीति तेषां मिथ्या­त्व­मु­च्यते ।।
उतेवेत्यादिना स्पष्ट­मै­का­त्म्य­प्र­ति­प­त्तये ।। २८६ ।।

ननु बोधे यथा लोका­स्त­त्का­ला­व्य­भि­चा­रिणः ।।
स्वप्नेऽपि स्वप्न­का­ल­स्था­स्त­द्व­त्स­न्त्विति भण्यते ।। २८७ ।।

ननु जाग्र­त्स्थ­लो­कानां मिथ्यात्वं प्राक्प्र­प­ञ्चि­तम् ।।
अवि­द्या­मा­त्र­हे­तुत्वं पाणि­पे­ष­प्र­बो­ध­नात् ।। २८८ ।।

तथाच सति दृष्टान्तो भवतो नोपपद्यते ।।
मिथ्या­त्म­क­त्वा­त्स­र्वस्य नैतदेवं कुतो यतः ।। २८९ ।।

विवे­क­मा­त्र­सि­द्ध्यर्थो भोक्तृ­भो­ग्य­प­दा­र्थयोः ।।
पाणिपेषादिको ग्रन्थः शुद्धिस्तत्र विवक्ष्यते ।। २९० ।।

तस्मा­त्कृ­त­क­दृ­ष्टा­न्त­मु­पा­दा­याऽऽ­त्म­नोऽ­ञ्जसा ।।
आध्या­त्मि­का­दि­ले­पानां विशुद्धिरिह भण्यते ।। २९१ ।।

किंचि­त्सा­मा­न्य­मा­श्रित्य जामित्वं प्रतिपद्यते ।।
न्यायः सर्वोऽपि येनातो नैतत्साधु प्रचोदितम् ।। २९२ ।।

महाराजादयो नास्य स्वप्ना­नु­भ­व­गो­चराः ।।
आत्मभूता इति ज्ञेया­स्त­द्भे­दे­नो­प­ल­म्भ­नात् ।। २९३ ।।

पर्य­ङ्क­श­यि­ता­द्राज्ञः प्रत्य­क्षा­दि­प्र­मा­ण­कात् ।।
बहिः समीक्ष्यते राजा स्वप्न­दृ­ग्भि­र्वनं गतः ।। २९४ ।।

स्वानु­भू­त्य­नु­रो­धेन राज्ञो राजाऽमृषा गृहे ।।
स्वप्ने प्रवद्धस्य सतो मृषा स्याद्व­न­मा­श्रितः ।। २९५ ।।

जाग्रद्दृष्टं मृषा स्वप्ने सज्जागरे मृषा ।।
अन्यो­न्य­व्य­भि­चा­रि­त्वा­त्स्व­प्न­जा­ग्र­त्प­दा­र्थयोः ।। २९६ ।।

अहः क्षपायां च कुतः, संहृताक्षस्य चेक्षणम् ।।
मृतानां जीवनं तद्वद्वृद्धानां यौवनं कुतः ।। २९७ ।।

न चक्षु­रा­दि­दृ­ष्टी­ना­म­न्त­र्दे­ह­स­मी­क्ष­णम् ।।
हिम­व­त्प्र­भृ­तीनां च कुतोऽन्तः संभवो हृदि ।। २९८ ।।

नापि देहा­द्वि­नि­ष्क्रम्य पर्व­ता­दी­न्स­मी­क्षते ।।
देहं विना कथ­म­गा­द्ग­ति­सा­ध­न­व­र्जितः ।। २९९ ।।

अन्तरेणापि देहा­दीं­स्त­त्कार्यं चेत्करोत्ययम् ।।
व्यर्थं देहा­द्यु­पा­दा­न­मस्य प्राप्नो­त्य­सं­श­यम् ।। ३०० ।।

ननु पर्यङ्क आसीनो गच्छञ्शिविकया वनम् ।।
वेश्मतो बहिरात्मानं द्रक्ष्यतीति न तद्यतः ।। ३०१ ।।

अमा­त्या­दी­न्य­थाऽऽ­दाय स्वात्म­भो­ग­प्र­सि­द्धये ।।
नृपः स्वदेशमध्यस्थो यथेष्टं परिवर्तते ।। ३०२ ।।

स्वदे­ह­रा­ष्ट्र­सं­स्थोऽयं जाग्र­द्भा­व­नि­रू­पिणः ।।
प्राणानात्मा तथाऽऽदाय स्वप्नान्पश्यति कामतः ।। ३०३ ।।

असत्योपाधिभिः सोऽयं कूट­स्था­स­ङ्ग­वि­ग्रहः ।।
अविद्यारोपितमलो विद्ययाऽऽत्मा विशोध्यते ।। ३०४ ।।

निःसङ्गस्य ससङ्गेन कूटस्थस्य विनाशिना ।।
आत्मनोऽनात्मना योगो वास्तवो नोपपद्यते ।। ३०५ ।।

कूट­स्था­द­त्ता­नुज्ञं सत्प्र­त्या­ख्यातं सहान्वयम् ।।
कारकाद्यन्यतो मोहा­न्नाऽऽ­त्मानं प्रति ढौकते ।। ३०६ ।।

ननु कामवशादस्य त्वयोक्तं परिवर्तनम् ।।
द्रष्टृ­दृ­श्या­दि­भा­वश्च कथं शुद्धस्तथा सति ।। ३०७ ।।

मैवं स्वतोऽ­व­बु­द्ध­त्वा­त्कु­तोऽ­ज्ञा­नेन संगतिः ।।
अज्ञानसंगतिं मुक्त्वा न स्यात्तज्जेन संगतिः ।। ३०८ ।।

एवं यस्मात्स्वतः शुद्धो द्विती­या­सं­ग­ते­र­यम् ।।
आत्मा­त­स्मा­त्स्वतो मुक्तः कूट­स्थ­ज्ञा­प्ति­मा­त्रतः ।। ३०९ ।।

न यथा श्रोत्रविज्ञानं रूपेणैति समागमम् ।।
संसारेण तथैवाऽऽत्मा कौटस्थ्यान्नैति संगतिम् ।। ३१० ।।

इत्य­र्थ­स्या­व­बो­धार्थं परो ग्रन्थोऽ­व­ता­र्यते ।। ३११ ।।
विशुद्धिं व्यतिरेकं च स्वप्न­जा­ग्र­द­व­स्थयोः ।।
उक्त्वाऽऽ­त्म­नोऽ­द्व­यत्वं च सुषुप्ते चाधुनोच्यते ।। ३१२ ।।

न वेदेत्या त्मनः श्रुत्या कर्तृत्वं प्रतिषिध्यते ।।
पश्यन्नपि यतः प्राज्ञो कौटस्थ्यान्न प्रपश्यति ।। ३१३ ।।

अथ यो वेदेति तथा ज्ञातृ­सा­क्षि­त्व­मा­त्मनः ।।
प्रती­चोऽ­का­र­कत्वं नः सर्वत्र प्रतिपाद्यते ।। ३१४ ।।

क्वचि­त्प्र­मा­तृ­वि­त्साक्षी कचि­त्प्र­त्य­य­वि­त्परः ।।
क्वचि­द्बा­ह्या­र्थ­वि­च्चाऽऽत्मा तत्कर्तृत्वं निषिध्यते ।। ३१५ ।।

परप्रयुक्तं वेत्तृत्वं यदस्य प्रत्यगात्मनः ।।
संब­न्ध­ज­त्वा­त्त­स्यातः कस्ये­त्य­त्रा­भि­धी­यते ।। ३१६ ।।

कर्मो­त्थ­त्वा­त्प्र­मा­त्रा­दे­स्त­त्क्षये क्षयवत्त्वतः ।।
षष्ठीयं कर्मणि न्याय्या द्वया­भा­व­वि­व­क्षया ।। ३१७ ।।

अप्यर्थे चन­श­ब्दोऽ­य­म­भा­व­स्यापि वारकः ।।
शेषशेषितिरोभावे सुषुप्तिरिह भण्यते ।। ३१८ ।।

अथ केन क्रमेणायं सुषुप्तं प्रतिपद्यते ।।
इति क्रमविधानार्थं हिता नामेति भण्यते ।। ३१९ ।।

आ नाभितस्तथा कण्ठाद्धृदयं मध्यतः स्थितम् ।।
सनालं पद्मकोशाभं पञ्च­च्छि­द्र­म­धो­मु­खम् ।। ३२० ।।

स्वप्नाश्रयाणि हृन्मध्ये नीलाद्याभानि देहिनः ।।
स्थानानि सुर­म­र्त्या­दि­जु­ष्टा­न्यस्य भवन्त्युत ।। ३२१ ।।

बिलानि सुपयश्चैता जाग्र­द्व­त्प्र­त्य­यो­द्भवाः ।।
एकोत्तरं नाडिशतं विष्वक्ताभ्यो विनिर्गतम् ।। ३२२ ।।

प्रतीन्द्रियं दश दश निर्गता विषयोन्मुखाः ।।
ना़ड्यः कर्मा­दि­हे­तूत्थाः स्वप्ना­दि­फ­ल­भु­क्तये ।। ३२३ ।।

वहन्त्यम्भो यथा नद्यो नाड्यः कर्मफलं तथा ।।
अनन्तैकोर्ध्वगा नाडी तया गच्छन्विमुच्यते ।। ३२४ ।।

एकैकस्याः पुनर्नाड्याः सूक्ष्मभेदाः प्रकीर्तिताः ।।
द्वास­प्त­ति­स­ह­स्रैस्ते संख्याता योगचिन्तकैः ।। ३२५ ।।

कद­म्ब­कु­सु­मो­द्भू­त­के­सरा इव सर्वतः ।।
प्रसृता हृदयान्नाड्यो याभिर्व्याप्तं शरीरकम् ।। ३२६ ।।

हितं फलं प्रयच्छन्ति यस्मा­त्त­स्मा­द्धिताः स्मृताः ।।
हृदयात्ता विनिप्क्रान्ता यथाऽ­र्का­द्र­श्म­य­स्तथा ।। ३२७ ।।

पुरीतदभिधानेन हृद्वे­ष्ट­न­मि­हो­च्यते ।।
तत्तूपलक्षणं विद्या­द्दे­ह­व्या­प्ति­वि­व­क्षया ।। ३२८ ।।

स्वप्न­क­र्म­स­मु­द्भूता वासना या हृदि स्थिताः ।।
नाडीभिस्ता वितत्याऽऽत्मा स्वप्नान्पश्यति कामतः ।। ३२९ ।।

स्वाप्ना­न्भो­गा­न­शे­षेण भुक्त्वा स्वप्न­क्रि­या­क्षये ।।
ताभि­रे­वो­प­सं­हृत्य प्राज्ञो याति सुषुप्तताम् ।। ३३० ।।

जाग्र­त्स्व­प्न­क्रि­यो­द्भू­ता­न्भुक्त्वा भोगानशेषतः ।।
इन्द्रि­या­ण्यु­प­सं­हृत्य शेते नाडीभिरात्मनि ।। ३३१ ।।

सामान्यप्रज्ञया देहं संव्या­प्या­न्त­र्बहिः श्रमात् ।।
श्येनवत्परमं स्थान­मा­त्माऽ­भ्येति सुषुप्तताम् ।। ३३२ ।।

धियोऽ­न्तः­क­र­ण­स्येह स्थानं हृदयमिष्यते ।।
तत्रेन्द्रियाणि सर्वाणि बुद्धितन्त्राणि सर्वदा ।। ३३३ ।।

यत एवमतस्तानि नाडीभिः कर्मणो वशात् ।। ३३४ ।।
प्रसारयति धीर्वृ­त्ती­र्म­त्स्य­जा­ल­क­व­द्बहिः ।।
प्रसा­र्याऽऽ­य­त­न­स्थानि तानि धीरधितिष्ठति ।। ३३५ ।।

जाग्रत्काले ततो ज्ञोऽय­म­भि­व्य­क्त­वि­शे­षधीः ।।
व्याप्नोति निष्क्रियः सर्वान्भानुर्दश दिशो यथा ।। ३३६ ।।

ता एवे­न्द्रि­य­वृत्तीः स्वाश्चै­त­न्य­ख­चिता यदा ।।
संयच्छति प्रतीच्यात्मा स्वपितीति तदोच्यते ।। ३३७ ।।

बुद्ध्यु­पा­ध्य­नु­रो­धेन प्रतीचः प्रभवाप्ययौ ।।
विक्षे­प­ल­य­ही­नस्तु स्वतः कुम्भखवत्परः ।। ३३८ ।।

ताभिः प्रत्य­व­सृ­प्याऽऽत्मा वृत्ती­र्ना­डी­भि­रा­न­यन् ।।
तप्तायोवच्छरीरं स्वं व्याप्य शेते स्व आत्मनि ।। ३३९ ।।

स्वहेतुमात्रया स्थान­मि­न्द्रि­याणां न कार्यतः ।।
यतोऽ­त­श्चि­न्नि­भे­नैव व्याप्तिः स्यात्का­र­णा­त्मना ।। ३४० ।।

सुषुप्तौ न शरीरेण संगतिः प्रत्यगात्मनः ।।
नापि बुद्ध्यादिभिः साक्षा­त्त­त्स्था­ना­सं­ग­ते­र्भ­वेत् ।। ३४१ ।।

तीर्णो हीति तथा­चै­त­दु­त्त­र­त्रा­भि­धा­स्यते ।।
सुषुप्तेऽत्र पिता चेति सर्व­सं­ब­न्ध­वा­र­णम् ।। ३४२ ।।

सर्व­सं­सा­र­दुः­खौ­घ­व्य­ती­तेयं पराऽऽत्मनः ।।
अवस्थेत्यत्र दृष्टान्तः स यथेत्यभिधीयते ।। ३४३ ।।

स्तनंधयो यथा वालो राग­द्वे­ष­वि­व­र्जितः ।।
तद­भा­वा­द्वि­कु­र्वन्ति चेतो न विशयाः सदा ।। ३४४ ।।

अप्र­रू­ढे­न्द्रि­य­त्वाच्च राग­द्वे­षा­द्य­सं­प्लुतिः ।।
मृदु­क­ण्ट­क­व­त्त­द्धी­र्नालं वेद्धं स्वगोचरान् ।। ३४५ ।।

सर्व­त्रा­व्या­ह­ता­ज्ञश्च विधे­य­प्र­कृ­ति­त्वतः ।।
राजा वाऽतिसुखी लोके प्ररू­ढे­न्द्रि­य­वा­नपि ।। ३४६ ।।

विज्ञा­ता­शे­ष­तत्त्वो वा ब्राह्मणः कृतकृत्यतः ।।
आनन्दस्य परां काष्ठा­म­ति­घ्नी­मेत्य निर्वृतः ।। ३४७ ।।

बाला­दि­त्र­य­म­प्ये­त­देको दृष्टान्त इष्यते ।।
बाल­मौ­ढ्य­म­दा­न्ध­त्व­नि­वृ­त्त्यर्थं तथोच्यते ।। ३४८ ।।

बालस्य निर्वि­वे­क­त्वा­त्स­वि­वेकः क्षितीश्वरः ।।
तन्म­दा­न्ध्य­नि­षे­धार्थं महाब्राह्मण उच्यते ।। ३४९ ।।

अतीत्य दुःखहेतून्या हन्ति दुःखान्यशेषतः ।।
आनन्दस्य परा निष्ठा तेनातिघ्नीति भण्यते ।। ३५० ।।

निर्वि­का­रा­त्मनां यस्मा­द्बा­ला­दीनां स्व आत्मनि ।।
अतीव जायते ह्रादो दृष्टान्तः स विवक्षितः ।। ३५१ ।।

पर­सं­ब­न्ध­मे­त्यात्मा कार्य­का­र­ण­रू­पिभिः ।।
ऐकात्म्यलक्षणं साक्षाच्छेत इत्यभिधीयते ।। ३५२ ।।

अत्य­न्त­सं­नि­कृ­ष्टा­ना­मपि भिन्नात्मनां मितेः ।।
लोच­न­स्था­ञ्ज­ना­दीनां न दृष्टिपथतेष्यते ।। ३५३ ।।

किमु प्रध्व­स्त­निः­शे­ष­भे­द­हे­ता­वि­हाऽऽ­त्मनि ।।
ग्राह्य­ग्रा­ह­क­सं­बन्धः सर्वभेदापनोदिनि ।। ३५४ ।।

स्वस्थावस्थैव यैतेषां प्रसिद्धा जगतीक्ष्यते ।।
दृष्टान्तत्वेन स्वापस्य सैव साक्षा­द्वि­व­क्ष्यते ।। ३५५ ।।

दार्ष्टा­न्ति­क­त्वेन यतः सुषुप्तोऽत्र विवक्षितः ।।
नापि बालादिस्वापस्य विशेषः कश्चिदीक्ष्यते ।। ३५६ ।।

अव्या­ह­त­म­ति­र्बालः सर्वा­ति­श­य­व­र्जि­ताम् ।।
आनंदस्य परां निष्ठामतिघ्नीं प्रतिपद्यते ।। ३५७ ।।

याव­द्या­व­त्प्र­रू­ढत्वं रागादेर्जायते शिशोः ।।
ताव­त्ता­व­त्प्र­रू­ढत्वं दुःख­स्या­प्य­भि­जा­यते ।। ३५८ ।।

यथैव तत्तनुत्वं च याव­द्या­व­दि­हाऽऽ­त्मनः ।।
दुःखस्यापि तनुत्वं स्यात्ता­व­त्ता­व­त्सु­खा­त्मनः ।। ३५९ ।।

उत्त­रो­त्त­र­वृ­द्ध्याऽतो दुःख­हे­तु­क्ष­या­च्छ्रुतौ ।।
सहस्रदशभागेन निष्ठाऽऽनन्दस्य भण्यते ।। ३६० ।।

अव्या­वृ­त्ता­न­नु­ग­त­प्र­त्य­ङ्मा­त्र­स­मा­प्तितः ।।
भूम्न्येव तु परा निष्ठाऽऽ­न­न्द­स्येति श्रुतेर्वचः ।। ३६१ ।।

आनन्दः स्वयमेवाऽऽत्मा भेद­सं­स­र्ग­व­र्जितः ।।
दुःख­हे­तु­वि­नि­र्मु­क्ता­व­ति­घ्नी­मे­त्यतः स्वतः ।। ३६२ ।।

गार्ग्यं काश्यो यद­प्रा­क्षी­त्का­भू­देष तदेति तत् ।।
सप्रपञ्चं यथावच्च सर्वमुक्तमशेषतः ।। ३६३ ।।

अनेन च यथोक्तेन पाणि­पे­षो­त्थि­तस्य हि ।।
मोहो­त्था­शे­ष­का­र्येभ्यो विशुद्धिं श्रुतिरब्रवीत् ।। ३६४ ।।

कुत आगादिति त्वस्य प्रश्ना­र्था­वि­श्चि­की­र्षया ।।
सुषु­प्ता­ज्जा­ग्र­दा­प­त्ति­र्यथा तदधुनोच्यते ।। ३६५ ।।

नन्वस्थाद्यो हि यत्रेह स तस्मादन्यतो व्रजन् ।।
वेश्मतो ग्रामतो वाऽसौ तत एव व्रजेद्ध्रुवम् ।। ३६६ ।।

तस्मा­त्सा­म­र्थ्यतः सिद्ध उत्त­र­प्र­श्न­नि­र्णयः ।।
तन्नि­र्ण­या­र्थ­मा­रम्भो न कार्यो जामिदोषतः ।। ३६७ ।।

न निमि­त्ता­द्य­र्थ­ताऽपि पञ्चम्या उपपद्यते ।।
ऊर्ण­ना­भ्य­ग्नि­दृ­ष्टान्ते न निमित्तादि गम्यते ।। ३६८ ।।

प्रत्युक्तौ न निमित्तादि यदि साक्षा­त्स­मी­क्ष्यते ।।
अपा­दा­ना­र्थ­तै­वास्तु दोषस्यान्यत्र दर्शनात् ।। ३६९ ।।

नन्वत्रापि समो दोषो वाक्यस्य पुनरुक्तता ।।
नैवं यतोऽ­खि­ल­ध्वा­न्त­का­र्य­ध्वंसो विवक्षितः ।। ३७० ।।

अव्या­वृ­त्ता­न­नु­गतं पूर्णं ब्रह्म विवक्षितम् ।।
प्रत्य­ङ्मा­त्रै­क­या­थात्म्यं न दोषो जामिता ततः ।। ३७१ ।।

विषयौ द्वावुपन्यस्तौ विद्या­वि­द्या­त्म­नो­रिह ।।
आत्मेत्येवेति विद्याया विषयः प्रागुदाहृतः ।। ३७२ ।।

अवि­द्या­वि­ष­य­स्ता­व­त्सं­सा­रा­नर्थ ईरितः ।।
क्रियाकारकभेदेन नाम­रू­प­क्रि­या­त्मकः ।। ३७३ ।।

तत्रा­वि­द्यो­द्भवं कार्यं याव­त्किं­चि­द्वि­व­क्षि­तम् ।।
तत्प्रत्यपादि निखिलं पूर्वं श्रुत्यैव यत्नतः ।। ३७४ ।।

अवि­द्या­प्र­ति­प­क्षाया विद्याया विषयोऽधुना ।।
प्रव­क्त­व्योऽ­त­स्त­द्योग्यौ प्रश्नौ द्वौ समुदाहृतौ ।। ३७५ ।।

हेतु­स्व­रू­प­का­र्याणि विरोधीनि परस्परम् ।।
अवि­द्या­वि­द्य­यो­र्य­स्मा­त्त­द्यो­ग्य­प्र­श्न­गी­रतः ।। ३७६ ।।

कार­क­व्य­व­हा­रोऽ­य­म­वि­द्या­वि­षयः सदा ।।
आधा­रा­धे­य­यो­र्भित्तौ तयोः कारकतेष्यते ।। ३७७ ।।

तद्वद्गच्छति यो यस्माद्भेदे सत्येव याति सः ।।
इत्य­वि­द्या­व्य­व­स्थेयं विद्या­या­स्त­द्वि­प­र्ययः ।। ३७८ ।।

क्रिया­का­र­क­भे­दाद्या लोकतः शेमुषी त्वभूत् ।।
यथा­स्थि­ता­त्म­या­था­त्म्य­स­म्य­ग्ज्ञा­नेन बाध्यते ।। ३७९ ।।

नान्योऽ­य­मा­त्माऽ­न्य­त्रा­भू­न्ना­न्योऽ­न्य­स्मा­त्त­थैति च ।।
इति निःशे­ष­त­न्मो­ह­का­र्य­ध्वंसो विवक्षितः ।। ३८० ।।

अभे­द­व्य­ति­रे­काभ्यां वस्त्व­न्त­र­मि­हाऽऽ­त्मनः ।।
श्रुत्या निषिध्यते साक्षा­द्भे­द­हे­तो­र्नि­षे­धतः ।। ३८१ ।।

ननु प्राणादिभिः सद्भिः कथं निर्भे­द­ताऽऽ­त्मनः ।।
नाऽऽत्मन्येव तद­ध्या­सा­च्छु­क्ति­का­र­ज­ता­दि­वत् ।। ३८२ ।।

कथं तदिति दृष्टान्त ऊर्ण­ना­भ्या­दि­रु­च्यते ।।
वास्तवं वृत्तमापेक्ष्य न त्वियं सृष्टिरात्मनः ।। ३८३ ।।

नासतो जन्मना योगः सतः सत्त्वान्न चेष्यते ।।
कूटस्थे विक्रिया नास्ति तस्मादज्ञानतो जनिः ।। ३८४ ।।

पुंस्प्र­बो­ध­प्र­सि­द्ध्यर्थं सृष्टि­व्या­जोऽ­य­मु­च्यते ।।
कौट­स्थ्या­त्त्वा­त्मनः सृष्टिर्न कथंचन युज्यते ।। ३८५ ।।

निःशे­ष­वे­द­सि­द्धा­न्त­वि­द्व­द्भि­रपि भाषितम् ।।
गौडाचार्यैरिदं वस्तु यथाऽस्माभिः प्रपञ्चितम् ।। ३८६ ।।

मृल्लो­ह­वि­स्फु­ल्लि­ङ्गाद्यैः सृष्टिर्या चोदिताऽन्यथा ।।
उपायः सोऽवताराय नास्ति भेदः कथंचन ।। ३८७ ।।