बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ द्वितीयाध्यायस्य प्रथमं ब्राह्मणम् ॥ (१)
तद्धेदमित्यविज्ञातप्रत्यक्तत्त्वादिदं जगत् ।।
रज्ज्वां सर्पादिवज्जातं नामरूपक्रियात्मकम् ।। १ ।।
अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता ।।
सर्पधारादिभिर्भावैस्तद्वदात्मा विकल्पितः ।। २ ।।
अनर्थहेतुरज्ञानं, तदुत्थं चाखिलं जगत् ।।
प्रतीचोऽनर्थ, इत्यस्माद्भीतोऽत्यर्थं मुमुक्षति ।। ३ ।।
पुरुषार्थोऽखिलानर्थप्रध्वस्तिः प्रत्यगात्मनः ।।
सम्यक्तत्त्वपरिज्ञानं पुरुषार्थस्य कारणम् ।। ४ ।।
निरस्ताशेषानर्थाप्तकृत्स्नाह्लादसतत्त्वकः ।।
स्वतो यतोऽयं संसारी तेनाज्ञो विपरीतदृक् ।। ५ ।।
मोहमात्रान्तरायत्वात्पुरुषार्थस्य नापरम् ।।
अविद्याध्वंसिनो बोधात्किंचित्साधनमिष्यते ।। ६ ।।
आत्मेत्येवेति विद्यायाः सूत्रमित्युदितं पुरा ।।
उपोद्धातस्तथा तस्य प्रागुक्तः सप्रयोजनः ।। ७ ।।
प्रतीचि साक्षाद्विज्ञाते ज्ञेयं सर्वं समाप्यते ।।
निःशेषतस्तमोध्वस्तेः पुमर्थश्च समाप्यते ।। ८ ।।
यत एवमतः पश्येदात्मन्यात्मानमद्वयम् ।।
आत्मैको ब्रह्मविद्याया विषयः श्रुतितो मतः ।। ९ ।।
अथ योऽन्यामिति तथाऽविद्यां चानूद्य नश्वरीम् ।।
आऽध्यायावसितेः कार्यं तस्या व्याख्यातमञ्जसा ।। १० ।।
अध्यात्ममधिभूतं च तथा चैवाधिदैवतम् ।।
भूतं भवद्भविष्यं च साध्यं साधनमेव च ।।
जनिमत्सर्वमेवेदमविद्यायाः समुत्थितम् ।। ११ ।।
संक्षिप्य चाप्युपन्यस्तमध्यायान्ते च तत्पुनः ।। १२ ।।
त्रयं वा इदमित्येवं रूपं नाम च कर्म च ।।
त्रयस्यापि च संक्षेपो लिङ्गदेहात्मसंहतिः ।। १३ ।।
त्रैलोक्यात्मशरीर्येष विश्वरूपः प्रजापतिः ।।
अन्तर्णीताखिलानन्तदेवतः प्राणविग्रहः ।। १४ ।।
अविज्ञातात्मतत्त्वः संस्तदध्यस्ताभिमानवान् ।।
पराक्प्रवृत्तेर्विरातो विद्याया विषयस्त्वयम् ।। १५ ।।
साक्षात्कृतात्मभावोऽयमेवंलक्षणवस्तुनि ।।
श्रुत्योपस्थाप्यते गार्ग्यो ब्रह्मविद्याभिधित्सया ।। १६ ।।
अकृत्स्नब्रह्मवेदित्वाद्दृप्तोऽसावल्पकस्ततः ।।
न हि पूर्णपरिज्ञानः कश्चिद्दृप्यति निर्द्वयः ।। १७ ।।
समाप्ताशेषविज्ञेयपुरुषार्थस्तथा परः ।।
अजातशत्रुरैकात्म्याद्गार्ग्याचार्यः प्रकल्पते ।। १८ ।।
व्याख्यातायामविद्यायां तदुच्छित्तावथाधुना ।।
आत्मेत्येवेति सूत्रस्य व्याख्या प्रस्तूयते स्फुटा ।। १९ ।।
श्रुत्या गार्ग्याद्युपन्यासशिष्याचार्यस्वरूपया ।।
सुखावबोधसिद्ध्यर्थमियमाख्यायिकोदिता ।। २० ।।
अन्ये त्वत्राभिसंबन्धमेवं व्याचक्षते बुधाः ।।
स एष इत्युपन्यस्तो विज्ञानात्मा हि यः पुरा ।। २१ ।।
गार्ग्यकाश्येतिहासेन वक्ष्यते तस्य निर्णयः ।।
कर्त्र्यो भोक्त्र्यश्च देेहेऽस्मिन्देवता एव नापरः ।।
श्रुतिर्गार्ग्यात्मना सेयं पूर्वपक्षमभाषत ।। २२ ।।
आत्मनोऽस्तित्वकर्तृत्वभोक्तृत्वप्रतिपत्तये ।। २३ ।।
श्रुत्या सिद्धान्तसिद्ध्यर्थं काश्यरूपं प्रकल्पितम् ।।
निष्फलत्वात्स चायुक्तः प्रकृतानभिसंगतेः ।। २४ ।।
देवतास्तित्वपक्षेऽपि किमस्तित्वादि नेष्यते ।।
देहाद्भिन्नस्य विज्ञातुरिष्टं चेन्निष्फलः श्रमः ।। २५ ।।
अज्ञातैकात्म्ययाथात्म्यो यदा त्विह विवक्ष्यते ।।
अविद्याकार्यनिष्ठः सञ्श्रुत्या गार्ग्यशरीरया ।। २६ ।।
पूर्वपक्षितयाऽशेषदुःखहेतूपशान्तये ।।
पूर्वपक्षनिदानच्छित्काश्यः सिद्धान्तवाद्यपि ।। २७ ।।
श्रुत्येहोत्थाप्यतेऽशेषवेदान्तार्थावबुद्धये ।।
सर्वोऽप्येष तदा यत्नः फलवान्स्यान्न चान्यथा ।। २८ ।।
श्रद्धाचारादिविध्यर्था यदि वाऽऽख्यायिका त्वियम् ।।
यथोक्तदर्शनाप्तार्थो नान्यदस्तीति भावितः ।।
अतोऽतिदृप्तोऽविज्ञातदर्पकारणघस्मरः ।। २९ ।।
श्रद्धालुं वित्तसंपन्नं श्रेयोर्थिनमुपेत्य तु ।।
ब्रह्म तेऽहं ब्रवाणीति गार्ग्यः काश्यमभाषत ।। ३० ।।
न जातो न भविष्योऽस्ति शत्रुरैकात्म्यदर्शनात् ।।
अजातशत्रुः काश्योऽतो गार्ग्यबुद्धिविरुद्धधीः ।। ३१ ।।
ब्रह्म यस्मात्परं नास्ति न च वस्त्वन्तरं यतः ।।
ब्रवाण्युपास्यं तत्तेऽहं सर्वापध्वस्तिकारणम् ।। ३२ ।।
नापृष्ट इति नन्वेतद्विरुद्धमकरोदृषिः ।।
यद्ब्रह्म ते ब्रवाणीति ह्यपृष्टः काश्यमब्रवीत् ।। ३३ ।।
दर्पादिदर्शनान्नूनं वेत्त्यकृत्स्नात्मदर्शनम् ।।
कृत्स्नत्वार्थमतोऽप्राक्षीत्काश्यं प्रज्ञासमन्वितम् ।। ३४ ।।
श्रद्धालुरधिकारी यो जिज्ञासुर्विनयान्वितः ।।
अपृष्टेनापि वक्तव्या तस्मै विद्या विपश्चिता ।। ३५ ।।
धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा ।।
तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे ।। ३६ ।।
धर्मार्थौ यत्र च स्यातां शुश्रूपा वाऽपि तद्विधा ।।
वक्तव्या तत्र विद्येति निषेधादेव लिङ्ग्यते ।। ३७ ।।
नष्टाश्वदग्धरथवन्न्यायं चाऽऽश्रित्य भूमिपम् ।।
प्राह मानुषवित्ताढ्यं दैववित्तसमन्वितम् ।। ३८ ।।
वित्तद्वयेन संपन्नो यतोऽधिक्रियते नरः ।।
सर्वकर्मस्वतोऽवादीद्वालाकिः काश्यमन्तिकात् ।। ३९ ।।
ब्रह्म तुभ्यं ब्रवाणीतिवाङ्भात्रव्यापृतावहम् ।।
गोसहस्रं ददाम्यद्य विनाऽप्यैकात्म्यनिर्णयात् ।। ४० ।।
गोसहस्रप्रदानस्य निमित्तं श्रुतिरभ्यधात् ।।
जनको जनक इति नामाभ्यासोक्तितः स्फुटम् ।। ४१ ।।
शुश्रूषुं जनकं सर्वे जना दित्सन्तमेव च ।।
विवक्षवोऽभिधावन्ति तमुद्दिश्य जिघृक्षवः ।। ४२ ।।
मौग्धीं प्रसिद्धिमुल्लङ्घ्य गार्ग्योऽयं मामुपागतः।।।।
नूनं दित्सुं च शुश्रूषुं संभावयति मामपि ।। ४३ ।।
आदित्यचक्षुर्बुद्धिस्थश्चेतनः सर्वगो ध्रुवः ।।
एतमेव सदोपासे ब्रह्मेति रविमध्यगम् ।। ४४ ।।
तथा ब्रुवाणं तं गार्ग्यं काश्यो मा मेत्यथोचिवान् ।।
केवलो मतिसंवादो भवदुक्तॆर्ममाभवत् ।। ४५ ।।
न त्वपूर्वार्थविज्ञानं प्रतिज्ञातं यथा त्वया ।।
मा वोचोऽतो यतो वेग्नि विनाऽपि वचनात्तव ।। ४६ ।।
निषेधाभ्यासो मा मेति ज्ञातब्रह्मप्रवादिनः ।।
आबाधितधियाऽभ्यस्तो गार्ग्यस्यानुक्तिकारणात् ।। ४७ ।।
सुप्रसिद्धं यदस्माकं त्वच्छासनमृतेऽपि तत् ।।
नापेक्षते भवद्वाक्यं सिद्ध्यर्थं प्राक्प्रसिद्धितः ।। ४८ ।।
तदुपासां न वेद्मीति मा च शङ्कां कृथा यतः ।।
उपासनं च वेद्म्यस्य गुणं तत्फलमेव च ।। ४९ ।।
अतीत्य सर्वभूतानि प्राधान्येन स्थितो यतः ।। ५० ।।
अतिष्ठा इति नामास्य तेनाऽऽदित्यात्मनोऽभवत् ।।
चक्षुरुद्दीप्तिमत्त्वाच्च राजेत्येषोऽभिधीयते ।। ५१ ।।
स य एतं यथोद्दिष्टमुपास्तेऽहर्निशं नरः ।।
यथोपासनमेवास्य फलं भवति नान्यथा ।। ५२ ।।
मतिसंवाददोषेण काश्येनोत्सारिते रवौ ।।
गार्ग्यो ब्रह्मान्तरं राज्ञे प्रवक्तुमुपचक्रमे ।। ५३ ।।
चन्द्रे मनसि बुद्धौ च ब्रह्मोपासेऽहमद्वयम् ।।
भानुमण्डलतो यस्माद्द्विगुण चन्द्रमण्डलम् ।।
बृहन्निति ततश्चन्द्रः प्रमाणेनाभिधीयते ।। ५४ ।।
अम्भोऽतिपाण्डरं वासो यस्माच्चन्द्राभिमानिनः।।
तस्मात्पाण्डरवासाः स्यात्सोमः सौम्यत्वकारणात् ।। ५५ ।।
ज्योत्स्नया राजतेऽत्यर्थं सोमो ब्राह्मणराजतः ।।
सोमो राजेत्येतो वक्ति तदुपासविधित्सया ।। ५६ ।।
तुल्याभिधानधर्मत्वाल्लता सोमोऽपि गृह्यते ।।
उभयोर्देवतैकत्वादुपास्यं तेन तद्द्वयम् ।। ५७ ।।
एषैका देवता विभ्वी प्रत्येकार्थावसायिनी ।।
भोक्त्री कर्त्री च सर्वत्र तस्या भोज्यमतोऽपरम् ।। ५८ ।।
ब्रह्मैषा सर्वसंव्याप्तेरात्मेत्येतामुपास्महे ।।
व्याख्या तुल्यैव विज्ञेया सर्ववाक्येषु पूर्ववत् ।। ५९ ।।
गुणो यत्र हि यः पुंसो नाम्ना संभाव्यतेऽत्र तु ।।
फलं तदेव तस्य स्यात्सर्ववाक्येषु निर्णयः ।। ६० ।।
भानुचन्द्रमसोस्तेजो जलदैरभिभूयते ।।
विद्युत्तत्राप्यतितरां तेजस्वी तेन विद्युति ।। ६१ ।।
खण्डशो न यथा मूर्तं खं पूर्णं चाप्रवर्तनात् ।।
अप्रवर्त्यक्रियावत्स्युर्व्योम्नि सर्वाः प्रवृत्तयः ।। ६२ ।।
जिष्णुः स्याज्जयशीलत्वाज्जीयते न परैर्यतः ।।
अपराजिष्णुरित्येवं तस्मादेवाभिधीयते ।। ६३ ।।
अन्यतो मातृतो जाता अन्यतस्त्या उदाहृताः ।।
अप्यन्यतस्त्यजायी स्यात्सापत्नभ्रातृमर्दनः ।। ६४ ।।
जिष्णुरिन्द्रगुणोपास्तेर्वैकुण्ठगुणतः परः।।।।
सेनाऽपराजितेत्यस्मात्सपत्नानां पराजयः ।। ६५ ।।
अभ्याहितमपि जगत्सहतेऽग्निर्यतस्ततः ।।
भस्मसात्करणादुक्तो विषासहिरितीश्वरैः ।। ६६ ।।
अप्सु रेतसि बुद्धौ च पुरुषं ब्रह्म चेतनम् ।।
उपास एतमित्युक्तः काश्यः प्रत्याह पूर्ववत् ।। ६७ ।।
प्रतिबिम्बोदयः कार्यं प्रतिरूपं यतस्ततः ।।
प्रतिरूप उपास्योऽप्सु फलमप्यस्य तादृशम् ।। ६८ ।।
अन्वर्थे प्रतिशब्दोऽयं फलस्य पुरुषार्थतः ।।
प्रातिलोम्येन तु ज्ञेयो ह्यनर्थः स्यात्तथा सति ।। ६९ ।।
श्रुतिस्मृतिसदाचारान्प्रति यः सततोद्यतः ।।
प्रतिश्रुत्यादिरूपत्वात्प्रतिरूपस्ततोऽस्तु सः ।। ७० ।।
रोचिप्णूपनिपत्कान्तमादर्शाक्षादिबुद्धिषु ।।
उपास इत्यभिहिते काश्यः प्रत्याह पूर्ववत् ।। ७१ ।।
यत्रोपास्यबहुत्वं स्यात्फलं तत्र प्रजास्वपि ।।
शतह्रदादर्शाद्यर्था बहवस्ते प्रसिद्धितः ।। ७२ ।।
फलं यद्गुणकं यत्र तद्गुणं स्यादुपासनम् ।।
फलानुमानतस्तत्र न फलं ह्यनुपासितम् ।। ७३ ।।
गच्छन्तमनु यः शब्दो बहिर्वच्छूयतेऽध्वनि ।।
अध्यात्मं दैहिके शब्दे बुद्धौ चेति विनिर्दिशेत् ।। ७४ ।।
पुंसोऽभिधावतस्तूर्णं देहदेशैः समाहतः ।।
प्राणो वृत्तिविशेषेण बहिर्वत्कुरुते ध्वनिम् ।। ७५ ।।
वृत्तिक्षेपादसुरयमायुषश्च तदाश्रितेः ।।
शतायुरेव भवति म्रियते नापमृत्युना ।। ७६ ।।
दिक्षु द्वितीयोऽनपगः सद्वितीयः सदैव सः ।।
दुःसंभाव्या हि पूर्वा दिङ्भुक्त्वाऽऽशां पश्चिमां जनैः ।। ७७ ।।
साधुभृत्यपरीवारः सर्वदोपासको भवेत् ।।
पुत्रादिगणसंतानस्थैर्यमेव सदा भवेत् ।। ७८ ।।
छायामये तथाऽज्ञाने बुद्धौ चैकैव देवता ।।
मृत्युकालात्पुरा नास्य व्याधिरप्युपसर्पति ।। ७९ ।।
विराडात्मनि देहे च बुद्धावित्यादि पूर्ववत् ।।
आत्मन्वीति च वश्यात्मा प्रजा चापि शमान्विता ।। ८० ।।
व्यस्तानां पूर्वमुद्देशः समस्तानां त्विहोदितः ।।
विवक्षावसितिर्गार्गी तथा सत्युपपद्यते ।। ८१ ।।
प्रत्याख्यातोपदेशः सन्संवादेन पुनः पुनः ।।
ब्रह्मान्यदन्यदवददात्मन्वीत्यन्तमादरात् ।। ८२ ।।
विशेषाणामनन्तत्वात्समस्तं ब्रह्म सोऽवदत् ।।
तस्मिन्नपि निषिद्धेऽथ तूष्णीं गार्ग्यो बभूव ह ।। ८३ ।।
यत्कृत्स्नं ब्रह्म पूर्वोक्तं तदेवेदमविद्यया ।।
एकधाऽनेकधा मूढैः कल्प्यते रज्जुसर्पवत् ।। ८४ ।।
अवाक्शिरस्कमालोक्य नृपो गार्ग्यमनुत्तरम् ।।
एतावदिति तं प्राह शेपाशङ्कानिवृत्तये ।। ८५ ।।
निगृह्यमाणयोगे च प्लुतिमत्र विनिर्दिशेत् ।।
ब्रह्म ब्रवाणीत्यात्थ त्वमेतावद्ब्रह्म तच्च ते ।। ८६ ।।
अज्ञाते जगदज्ञातं ज्ञाते ज्ञातं च यत्र तत् ।।
तदेव ब्रह्म पूर्णत्वान्न त्वदुक्तमकृत्स्नतः ।। ८७ ।।
अव्यावृ्त्ताननुगतस्वतः सिद्धात्मवस्तुनि ।।
मुख्यार्थो ब्रह्मशब्दः स्यान्न त्वदुक्तेऽतथात्वतः ।। ८८ ।।
यस्मादेवमतो गार्ग्यमेतावद्धीतिवादिनम् ।।
नृपो नैतावतेत्याह ब्रह्मत्वासंभवं स्फुटम् ।। ८९ ।।
अज्ञातब्रह्मतत्त्वस्य दुःसंभाव्यमिदं वचः ।।
नैतावतेति ब्रह्मातः काश्यो वेत्तीति लिङ्ग्यते ।। ९० ।।
गार्ग्योऽनुमाय राज्ञोऽथ प्रावीण्यं ब्रह्मवेदने ।।
उपायानीत्युवाचेमं परब्रह्मावबुद्धये ।। ९१ ।।
परं ब्रह्म विजिज्ञासुरुपेतोऽस्म्यहमादरात् ।।
अनुशाधि यथातत्त्वमित्येवंवादिनं नृपः ।। ९२ ।।
क्षत्र्रियं ब्राह्मणो जात्या यदुपेयादनापदि ।।
प्रतिलोममिदं वृत्तं धर्मशास्रैर्निषिद्धतः ।। ९३ ।।
योगक्षेमफलार्थाय गमनं न निपिध्यते ।।
ब्रह्म मे वक्ष्यतीत्यर्थं निषिद्धं नृपसर्पणम् ।। ९४ ।।
अतोऽनुपेतमेव त्वां करविन्यस्तबिल्ववत् ।।
ब्रह्म विज्ञापयिष्यामि यज्ज्ञाने सर्वविद्भवेत् ।। ९५ ।।
इत्युक्त्वा तमथो पाणौ गृहीत्वोत्थितवान्नृपः ।।
आजग्मतुश्च तौ सुप्तं नरं कार्यविवक्षया ।। ९६ ।।
गार्ग्योक्तब्रह्माभोक्तृत्वं तथाऽमीफामनात्मताम् ।।
बालाकेर्बोधयिष्यामीत्यतः सुप्तमगान्नृपः ।। ९७ ।।
देवतानामभिः काश्यो गत्वा सुप्तं यथोदितैः ।।
आमन्त्रयां तदा चक्रे बृहन्नित्येवमादिभिः ।। ९८ ।।
संबोध्यमानोऽपि तथा सुप्तो नैवोदबुध्यत ।।
यतोऽतो गार्ग्याभिमतो न भोक्तोत्यवगम्यते ।। ९९ ।।
जाग्रत्कालं परित्यज्य सुप्तं किमिति जग्मतुः ।।
स्पष्टता सर्वभावानां जाग्रत्काले हि लक्ष्यते ।। १०० ।।
प्राणानां देवतानां च पुरुषस्य च संकरात् ।।
बोधे न शक्यते कर्तुं विवेको भोक्तृभोज्ययोः ।। १०१ ।।
भोक्तृत्वमेव पुंसोऽस्ति भोज्यत्वं न मनागपि ।।
काश्याभिप्रायतोऽनस्य भोज्यतैव न भोक्तृता ।। १०२ ।।
संकीर्णत्वादशक्यः स्यात्प्रबोधे भोक्तृभोज्ययोः ।।
कर्तुं विवेकोऽतो यातः सुप्तं पुरुषमादरात् ।। १०३ ।।
तस्माद्यद्यपि सांनिध्यं प्राणादीनां प्रजागरे ।।
संकीर्णत्वान्मिथस्तेषां दुःशकं तद्विवेचनम् ।। १०४ ।।
आत्मनः प्रोषितत्वात्तु भोगोऽस्मै न प्रयुज्यते ।।
उदासतेऽखिलाः सुप्ते देवताः करणैः सह ।। १०५ ।।
जाग्रद्भोगप्रयुक्तस्य कर्मणः प्रक्षयात्तदा ।।
शेरते करणान्यस्य सह भोक्त्राऽऽत्मना ऽऽत्मनि ।। १०६ ।।
प्राण एकस्तु जागर्ति भोक्ता यो गार्ग्यसंमतः ।।
प्राणेन रक्षन्निति च तथोदर्के प्रवक्ष्यते ।। १०७ ।।
प्राणाग्नय इति स्पष्टं तथाऽनस्तमितश्रुतेः ।।
अश्रान्तः प्राण एवातो जागर्त्यत्र दिवानिशम् ।। १०८ ।।
यथा जाग्रदवस्थायां भोक्ता प्राणः पुराऽभवत् ।।
स्वप्नेऽप्येष तथैवाऽऽस्ते बोद्धा चेद्बुध्यतामयम् ।। १०९ ।।
प्रणस्येन्दोस्तथा चापां त्र्यन्नात्माविष्कृतौ यतः ।।
ऐक्यमुक्तमतः प्राणो बोध्यते चन्द्रनामभिः ।। ११० ।।
बृहन्नित्येवमादीनि सन्तु चेहोपलक्षणम् ।।
अनुक्तदेवतानाम्नां सामर्थ्यात्तद्ग्रहोऽथवा ।। १११ ।।
यदि भोक्ता भवेत्प्राणो जाग्रद्वच्छब्दमागतम् ।।
अश्रोष्यत्स न चेद्भोक्ता नाश्रोष्यदुपलादिवत् ।। ११२ ।।
ननु सुप्तेऽपि पुंस्यस्मिन्बोधितः सन्स्वनामभिः ।।
भोक्तैव भोत्स्यते शब्दं न त्वभोक्ता परो जडः ।। ११३ ।।
नैवातोऽपि विवेकः स्यादुत्थितः कोऽनयोर्द्वयोः ।। ११४ ।।
नैवं गार्गीयपक्षस्य विशेषावधृतेः सदा ।।
अजातशत्र्वभिप्रेतब्रह्मणः प्राक्प्रमाणतः ।। ११५ ।।
योऽनस्तमित एकोऽत्र वागाद्यस्तमयेऽमृतः ।।
इन्द्रोऽसपत्नोऽब्देहश्च नामरूपसमावृतः ।। ११६ ।।
अध्यात्माद्यखिलं विश्वं संव्याप्य समवस्थितः ।।
ओतं प्रोतं जगद्यस्मिन्नरनाभिनिदर्शनात् ।। ११७ ।।
कुर्वाणस्तुमुलं शब्दं स्वव्यापारमशेषतः ।।
कुर्वाण एव स्वप्नेऽपि प्राण आस्ते प्रबोधवत् ।। ११८ ।।
न च भोक्त्रन्तरं प्राणाद्गागॆर्येणेहाभ्युपेयते ।।
तत्काले भिन्नकाले वा प्राणादन्यस्य भोज्यतः ।। ११९ ।।
तस्मादवश्यं बोद्धव्यं बोध्यं साक्षादुपस्थितम् ।।
प्राणेन बोद्धृरूपत्वाद्दाह्यं दग्धा यथा दहेत् ।। १२० ।।
न चासौ बोध्यमानोऽपि प्रत्यबुध्यत नाम तत् ।।
प्राणोऽभोक्ता ततः सिद्धः स्वनामाप्रतिबोधनात् ।। १२१ ।।
स्वाख्याविशेपसंबन्धाग्रहणाच्चेन्न बुद्धवान् ।।
अग्रहासंभवान्नैवं सर्वज्ञा देवता यतः ।। १२२ ।।
त्वत्पक्षेऽप्यग्रहो दोषस्तुल्यश्चेदिति चोद्यते ।।
नैवं कृत्स्नाभिमानित्वादेकदेशानहंकृतेः ।। १२३ ।।
अङ्गुल्याद्यभिधानोक्तौ न हि तद्वान्प्रबुध्यते ।।
कृत्स्नदेहाभिमान्येवं नैकदेहाभिमानभुक् ।। १२४ ।।
प्राणस्य तु समाप्तत्वात्समस्तव्यस्तवस्तुषु ।।
नाऽऽत्मवत्स्यादसंबोधस्तस्य सर्वाभिमानतः ।। १२५ ।।
बोधाबोधौ चितेर्न स्तः कूटस्थज्ञप्तिमात्रतः ।।
परायत्तप्रबोधो ना ह्यप्पात्रोत्थाद्रवेरिव ।। १२६ ।।
स्वसंज्ञयाऽप्यसंबोधो यथा दृष्टस्तदात्मनः ।।
भोक्तृत्वे सत्यपि तथा प्राणेऽप्यप्रतिबोधनम् ।। १२७ ।।
सुप्तासुप्तत्वसंभेदविशेषन्यायसंभवात् ।।
नैव सुप्तग्रहो युक्तो न त्वसुप्तस्य युज्यते ।। १२८ ।।
श्रोत्रादेर्गुणभूतत्वात्प्रधानं प्रति सर्वदा ।।
तस्मिञ्जाग्रति जागर्ति सुप्ते स्वपिति तद्वशात् ।। १२९ ।।
नेन्द्रियाणां भवेत्स्वापो यदि प्राणप्रधानता ।।
नामात्याः शेरते यस्माद्राज्ञि स्वामिनि जाग्रति ।। १३० ।।
अप्रसिद्धार्थसंज्ञाभिरुक्तेश्चॆदप्रबोधनम् ।।
देवतात्मनिषेधार्थपरत्वात्तद्ग्रहोऽर्थवान् ।। १३१ ।।
प्राणस्याभोक्तृतासिद्धिः स्वनामाग्रहणादपि ।।
देवताप्रतिषेधार्थं बोध्यते चन्द्रनामभिः ।। १३२ ।।
स्मृतिज्ञानेषणादीनां संधानानुपपत्तितः ।।
करणानामभोक्तृत्वं देहाशानामिवेष्यते ।। १३३ ।।
अचैतन्यात्तथोक्तस्य कुतो भोक्तृत्वसंभवः ।।
चिदन्यस्य च भोज्यत्वान्नान्यस्यातोऽस्ति भोक्तृता ।। १३४ ।।
दण्डापूपिकनीत्यैव करणानामभोक्तृता ।।
न च प्राणातिरेकेण देवताऽन्योपपद्यते ।। १३५ ।।
ननु तद्व्यतिरेकेण प्रागादित्यादिरीरितः ।।
देवताविषयो भेदः स कथं विनिवार्यते ।। १३६ ।।
नैवं तस्य समस्तस्य प्राण एकत्वहेतुतः ।।
अरनाभ्यादिदृष्टान्ताद्वायुप्राधान्यतस्तथा ।। १३७ ।।
संघात एव भोक्ताऽस्तु तस्य प्रत्यक्षसंगतेः ।।
न तु तद्व्यतिरिक्तस्य भोक्तृता मित्यसंभवात् ।। १३८ ।।
नाचेतनस्य भोक्तृत्वं कथंचिदवकल्पते ।।
चिदन्यस्य च भोग्यत्वात्कम्बलौदनतोयवत् ।। १३९ ।।
न चापि चिद्विशिष्टत्वं प्रत्यक्षेणोपलभ्यते ।।
चित्संबन्धोपलब्ध्यर्थं तज्ज्ञाता कः प्रकल्प्यते ।। १४० ।।
नेह चिद्व्यतिरेकेण स्वार्थं किंचिदपीष्यते ।।
नापि स्वार्थातिरेकेण प्रमाणफलभाग्भवेत् ।। १४१ ।।
न ह्यचित्कं प्रमेयं सच्चिन्मित्किंचिदपीक्ष्यते ।।
न चानुभूतिः प्रात्यक्ष्यमन्यतोऽपेक्षते जडात् ।। १४२ ।।
देहात्प्रत्यक्षनिप्पत्तौ न च प्रत्यक्षमिष्यते ।।
लिङ्गस्य चाप्रमाणत्वात्कुतः प्रत्यक्षमानिता ।। १४३ ।।
तथाऽर्थान्तरसंबन्धे प्रत्यक्षे देहनिष्ठिते ।।
अनुसंधानसंसिद्धौ न किंचिन्मानमिष्यते ।। १४४ ।।
वागभिव्याहृतिश्चेयं लिङ्गाप्रामाण्यवादिनः ।।
आप्रत्यक्ष्यात्परज्ञप्तिसंगतेः स्यादनर्थिका ।। १४५ ।।
स्वात्मदृष्ट्यनुरोधेऽपि मौढ्यमेव प्रसज्यते ।।
व्युत्पत्तेः साधुलोकस्य न कश्चिदपि दित्सति ।। १४६ ।।
अधर्मादिभयाभावाद्धन्युरेनमशङ्किताः ।।
आदद्युश्च बलाद्वित्तमेतद्व्युत्पत्तितः फलम् ।। १४७ ।।
आपेषणे विशेषस्य दृष्टत्वाद्देहसंहतिः ।।
न भोक्त्री सुखदुःखादिफलानां स्यात्कदाचन ।। १४८ ।।
यदि संघातमात्रस्य भोक्तृत्वमिह कल्प्यते ।।
संघातस्याविशिष्टत्वान्नातिशीतिर्भवेत्सदा ।। १४९ ।।
ईषत्संस्पृष्टमात्रस्य बलाच्चाऽऽपेषणात्तथा ।।
देहादिभिन्नजातीयो भोक्ता यस्य च वादिनः ।। १५० ।।
धर्मादिहेतुसंबन्धबहुत्वत्स्यात्समञ्जसम् ।।
पेषणापेषणकृतवेदनायां भवेद्भिदा ।। १५१ ।।
सुखदुःखादिहेतूनामुत्तमाधममध्यतः ।।
तत्प्रबोधविशेषोऽयं युक्त एव भवेत्तदा ।। १५२ ।।
अस्ति चायं विशेषोऽत्र यत्संस्पर्शनमात्रतः ।।
अबुध्यमानः संसुप्त आपिष्याऽऽपिष्य बोधितः ।। १५३ ।।
अत आपेषणाद्योऽसावुत्थितः करणैःसह ।।
राजेव सचिवैः सार्धं स भोक्तेहेति गम्यताम् ।। १५४ ।।
मृतकल्पमिमं देहं स्वचित्तावेशयन्निव ।।
ज्वलन्निव समुत्तस्थौ यः स भोक्तेति गम्यताम् ।। १५५ ।।
क्रोधहर्षभयोद्वेगज्ञानधर्मौर्विशेषयन् ।।
शरीरं यः समुत्तस्थौ स भोक्तेत्यवसीयताम् ।। १५६ ।।
अपि प्राणस्य पारार्थ्यं संहतत्वाद्गृहादिवत् ।।
ततश्च भोग्यरूपस्य भोक्तृत्वं नोपपद्यते ।। १५७ ।।
देहस्यान्तर्गतः प्राणः स्थूणावद्देहभृत्सदा ।।
संहन्यते शरीरेण यथा वायुस्तथैव सः ।। १५८ ।।
यत एवमतः प्राणो गृहादिवदिहेष्यते ।।
देहाच्च देहधर्मेभ्यो विधर्मात्माऽवभुक्ततः ।। १५९ ।।
स्वात्मांशांशिसजातीयविविक्तिफलसद्मवत् ।।
संहतत्वात्तथा प्राणोऽसंहतात्मोपभोगकृत् ।। १६० ।।
स्वजन्मोपचयग्लानिनाशाख्याकृतिजन्मदि -
ग्धर्मानपेक्षसंलब्धसत्त्वादिस्वार्थरूपकः ।। १६१ ।।
तद्गोचरैकसंद्रष्टृविज्ञात्रर्थं समीक्ष्य हि ।।
प्राणस्य तद्गुणानां च तथार्थत्वं प्रतीयताम् ।। १६२ ।।
ननु वेदान्तसिद्धान्ते न वस्त्वन्तरमिष्यते ।।
सांख्यराद्धान्तवत्किंचित्प्रत्यगात्मैकवस्तुनः ।। १६३ ।।
ऐकात्म्याविद्यया सर्वं प्रतीचि परिकल्पितम् ।।
प्राणाद्यनात्मजातं यद्रूपं नाम च कर्म च ।। १६४ ।।
कल्पिताकल्पितं सर्वं यदाऽऽत्मैवाभ्युपेयते ।।
अन्वयव्यतिरेकोक्तिस्तदैक्यान्नेह युज्यते ।। १६५ ।।
नान्वयो व्यतिरेको वा कल्पितस्यानृतत्वतः ।।
अकल्पितस्य चैकत्वान्नितरां न प्रसिध्यति ।। १६६ ।।
पुंव्युत्पत्तिप्रधानत्वादन्वयादेरदोषता ।।
न त्वन्वयादिनैवेह वस्तुतत्त्वस्य संस्थितिः ।। १६७ ।।
अविद्याकल्पितेऽप्यस्मिन्नात्मप्रत्ययमानभाक् ।।
भोक्तेह गम्यते लोके न त्वनात्ममितिप्रमः ।। १६८ ।।
अतोऽनूद्य यथासिद्धमन्वयव्यतिरेकतः ।।
भोक्तृभोग्यविवेकेन श्रुत्यैकात्म्यं प्रबोध्यते ।। १६९ ।।
चिदन्वयो हि सर्वत्र तत्कार्येषु समीक्ष्यते ।।
व्यतिरेकोऽप्यपह्नुत्या कार्यस्येह प्रसिध्यति ।। १७० ।।
ऐकात्म्यसिद्धौ दोषः स्यात्तत्सिद्धिश्च न वास्तवी ।।
प्रामाणिकी हि तत्सिद्धिरतो नासौ विरुध्यते ।। १७१ ।।
न चापि मानव्यापारव्यपेक्षैकात्म्यनिश्चितौ ।।
तत्फलस्य समाप्तत्वादपेक्षा निष्फला यतः ।। १७२ ।।
यावत्त्वागमतः साक्षान्न वेत्त्यात्मानमद्वयम् ।।
अन्वयाद्यात्मबोधार्थं तावत्तत्केन वार्यते ।। १७३ ।।
अज्ञानं च तदुत्थं च ह्यात्मैवाज्ञाततत्त्वकः ।।
तत्तत्त्वबोधात्तद्बाधः सर्परज्ज्वादिबाधवत् ।। १७४ ।।
क्लृप्तानामपि रज्ज्वादौ कल्पितान्तरसंश्रयात् ।।
क्लृप्तान्तरापनुत्तिः स्याद्यथा तद्विदिहाऽऽत्मनि ।। १७५ ।।
प्रत्यङ्मानैकमेयोऽतो भोक्ता भोग्यं ततोऽपरम् ।।
भोग्यानां व्यभिचारेऽपि भोक्तैकोऽव्यभिचारवान्न ।। १७६ ।।
बृहन्नित्यादिभिः प्राणो बोध्यमानोऽपि यत्नतः ।।
नैवान्वबुध्यत यदा चक्रे यत्नान्तरं तदा ।। १७७ ।।
पाणिनाऽऽपिफ्य वहुशः सुप्तं काश्योऽप्यबोधयत् ।।
आपेषोद्भूतसंक्षोभस्ततोऽसौ प्रत्यबुध्यत ।। १७८ ।।
कारणानामिदं वृत्तं यन्निमित्तान्तराश्रयात् ।।
स्वात्मकार्यसमुद्भूतिरम्बरादभ्रभूतिवत् ।। १७९ ।।
आपेषाल्लीनबुद्ध्यादिसमुत्पत्तौ परात्मनः ।।
घटाकाशवदुत्पत्तिर्नाञ्जसैव सदा दृशेः ।। १८० ।।
तस्मादप्रतिबोधेन प्राणोऽभोक्तेति गम्यताम् ।।
पुंसस्तु प्रतिबोधेन भोक्तृतैवावसीयते ।। १८१ ।।
अदाहकानां दग्धृत्वं यथा दाहकसंगतेः ।।
योक्तृसंयोगतस्तद्वद्भोक्तृत्वं देवतात्मनः ।। १८२ ।।
देहेन्द्रियमनोधीभ्यो विविच्याऽऽत्मानमेकलम् ।।
भोक्तारं दर्शयित्वाऽथ राजा गार्ग्यमपृच्छत ।। १८३ ।।
आपेषणेन बुबुधे यः प्राणादिविलक्षणः ।।
क्वाभूदयं पुरा बोधात्कुतश्चाऽऽगतवान्पुमान् ।। १८४ ।।
अन्तःकरणसंबन्धे विज्ञानमिति कर्तरि ।।
प्रत्ययः करणार्थः स्यात्क्रियायां भावसाधनः ।। १८५ ।।
प्रमेयार्थविवक्षायां शब्दः स्यात्कर्मसाधनः ।।
यथोक्तानामसद्भावात्प्रायार्थः प्रत्यगात्मनि ।। १८६ ।।
स्वाभासवदविद्योत्थबुद्ध्यादिव्याप्तिविभ्रमात् ।।
तदात्मत्वाभिमानित्वाद्विज्ञानमयताऽऽत्मनः ।। १८७ ।।
साक्षित्वेनोपलभ्यत्वात्साक्ष्यबुद्ध्यादिसंश्रयात् ।।
अकारकफलत्वेन तेन प्रायार्थतेष्यते ।। १८८ ।।
यतो विज्ञानमानी सन्सर्वं वस्त्ववगच्छति ।।
विज्ञानमयता तस्मात्प्रतीचोऽबोधकारणात् ।। १८९ ।।
विज्ञानेन विशिष्टं वा यस्मान्मेयं प्रपद्यते ।।
प्रायार्थत्वं प्रतीचोऽतस्तदभिन्नग्रहाद्भवेत् ।। १९० ।।
विज्ञानमय इत्युक्त्वा पृथिव्यादिमयोक्तितः ।।
षड्विकारनिषेधाच्च प्रायार्थत्वं समञ्जसम् ।। १९१ ।।
अनात्मनो यतोऽशेषान्कल्पितत्वादकल्पितः ।।
पूरयन्पुरुपः प्रत्यक्सर्पादीन्नशना यथा ।। १९२ ।।
व्युत्पत्तिरियमेवात्र तात्पर्यस्य समीक्षणात् ।।
स वा इति ह्युपक्रम्य नैनेनेत्यादिनिर्णयात् ।। १९३ ।।
इयं तावत्पदार्थोक्तिः संबन्धोक्तिरथाधुना ।।
प्रश्नस्य क्वैष इत्यादेः किमर्थोऽयमुपक्रमः ।। १९४ ।।
चोद्यैकमूलां प्रश्नोक्तिं केचिद्व्याचक्षतेऽपरे ।।
याथात्म्यप्रतिपत्त्यर्थमुत्थितस्य प्रचक्षते ।। १९५ ।।
पुंसोऽस्य ज्ञस्वभावत्वे कारणेष्वपि सत्सु च ।।
कादाचित्कोऽवबोधोऽस्य कुत इत्युच्यतां यथा ।। १९६ ।।
विहायैतच्छरीरं वा गतो देशान्तरं पुमान् ।।
विनष्टो वा कुतो भूयो देहमागादितीर्यताम् ।। १९७ ।।
प्रष्टव्यमेतद्गर्ग्येण शिष्यत्वान्न त्वचूचुदत् ।।
नैवोदास्ते तथाऽपीनो बोधाभ्युपगमात्स्वयम् ।। १९८ ।।
अर्थिनेऽर्थं प्रतिज्ञाय नासंपाद्य निवर्तते ।।
यथार्थितं सत्पुरुष इति सत्पुरुषव्रतम् ।। १९९ ।।
कूटस्थोऽस्यावबोधश्चेत्कादाचित्कं कुतो भवेत् ।।
मतोऽवबोधोऽनित्यश्चेत्कादाचित्कं तदाऽर्थवत् ।। २०० ।।
देहादिष्वभिमानोऽस्य कादाचित्कः सहेतुकः ।।
आगमापायिसाक्षित्वं नित्यमेवानिमित्ततः ।। २०१ ।।
इदमेव यतो वृत्तं कारणापेक्षिणां सताम् ।।
अभूत्वा भवनं तस्मात्कादाचित्कं न दोषभाक् ।। २०२ ।।
प्रतीच्येव यतश्चाभूदागाच्च प्रत्यगात्मनः ।।
प्रश्नार्थप्रतिकूलत्वात्प्रत्युक्तेर्नेदृगर्थता ।। २०३ ।।
गत्यादिसाधनानां च देह एव स्थितेः कुतः ।।
देशान्तरगतिः पुंसो नापि नाशोऽस्य युक्तिमान् ।। २०४ ।।
साक्षाद्ब्रह्मावबोधस्य प्रतिज्ञातत्वकारणात् ।।
भोक्तृभोक्तव्ययोस्तत्त्वं वक्तुं युक्तमतोऽञ्जसा ।। २०५ ।।
कर्मादिहेतुजं रूपमतत्त्वं तदनन्वयात् ।।
अनिमित्तं स्वतस्तस्य सर्वदाऽव्यभिचारतः ।। २०६ ।।
अकारकक्रियाकार्यं रूपं प्राक्प्रतिबोधतः ।।
बुबोधयिषितं भोक्तुरस्मद्गोचरवर्तिनः ।। २०७ ।।
यतोऽस्य न पुरा बोधात्कर्मादेः कार्यमण्वपि ।।
प्रतीचो गृह्यते मानादतोऽयं तत्स्वभावकः ।। २०८ ।।
काभूदेष पुरा बोधात्कुतश्चायमुपागतः ।।
आचक्ष्वैतद्वयं गार्ग्य स्थितावागमनेऽवधिम् ।। २०९ ।।
अभूत्प्रतीचोऽन्यत्रायमन्यस्माच्चायमागतः ।।
यदि चेत्कारकत्वं स्यान्नो चेद्धान्तिरियं भवेत् ।। २१० ।।
यत्र वा अन्यदित्येवं यत्र त्वस्येति चापरम् ।।
अविद्याविद्ययोः कार्यं तथाच श्रुतिरब्रवीत् ।। २११ ।।
वक्तुं प्रष्टुं च बालाकिर्न यतो जज्ञिवांस्ततः ।।
प्रश्नयोः स्वयमेवार्थं काश्यो वक्तुं प्रचक्रमे ।। २१२ ।।
पृष्टेनापि न विज्ञातं भवता तदिदं मया ।।
उच्यमानं यथा तत्त्वं सम्यक्त्वं श्रोतुमर्हसि ।। २१३ ।।
यत्रैष एतत्सुप्तोऽभूत्स्वनामामन्त्रणध्वनिम् ।।
नाश्रौषीद्यन्निमित्तं ज्ञस्तन्निमित्तिमिदं शृणु ।। २१४ ।।
त्रैविध्यं लक्ष्यते यस्माद्बुद्ध्यादिप्राणभूमिषु ।।
तदेषामिति षष्ठीयं श्रुत्या तस्मात्प्रयुज्यते ।। २१५ ।।
प्रत्यक्चिदवभासश्च कारणानुगमोऽपरः ।।
तथाच करणात्मानो बाह्यगोचररञ्जिताः ।। २१६ ।।
बुद्ध्यादेः कृत्स्नकार्यस्य पुंस्कर्मोद्भूतिहेतुतः ।।
बुद्ध्याद्युत्क्षेपसंहारौ तस्मात्कर्मनिबन्धनौ ।। २१७ ।।
स्वात्मावभासतो भोक्ता कर्ता त्वज्ञानहेतुतः ।।
द्वयाविविक्तो हि परो भोक्ता कर्तेति चोच्यते ।। २१८ ।।
जाग्रत्फलप्रयोगस्य यदा कर्म प्रहीयते ।।
व्युत्थानहेत्वसद्भावात्तदाऽकर्ता सुषुप्सति ।। २१९ ।।
भोक्तृप्रयुक्तं कर्तृत्वं कर्त्रा कर्म प्रयुज्यते ।।
कर्मप्रयुक्तो भोगश्च ततः संस्कारसंभवः ।। २२० ।।
सुखुदुःखादिसंस्कारसंस्कृतोऽयं जडः पुमान् ।।
रागद्वेषादिनाऽऽक्षिप्तस्ततो भूयः प्रवर्तते ।। २२१ ।।
अन्योन्यं कार्यता चैषां कारणत्वं तथैव च ।।
तेनानुच्छन्नसंस्कार आत्माऽयं प्राक्प्रबोधतः ।। २२२ ।।
अविद्यानाभिसंबन्धो मिथ्याधीचक्रसंस्थितः ।।
आब्रह्माऽऽस्थाण्वयं योनीर्बम्भ्रमीत्यनिशं परः ।। २२३ ।।
जाग्रत्कर्मक्षये सोऽयमादायाशेषभावनाः ।।
असंबुद्धात्मकोद्भूतमनोबुद्ध्यादिरूपिणा ।। २२४ ।।
आधिस्वभावजेनेति कर्ताऽऽदानस्य भण्यते ।।
प्रत्यक्चिदवभासान्तः कर्ता क्षेत्रज्ञ उच्यते ।। २२५ ।।
आदीयमानं विज्ञानं सामर्थ्यं विषयोन्मुखम् ।।
वागादीनामिह ग्राह्यं प्राणानां विषयाञ्जनम् ।। २२६ ।।
शक्तयः करणान्यत्र गृह्यन्ते कारणात्मना ।।
परमात्मा ग्रहीताऽत्र स्वाभासाभिन्नविग्रहः ।। २२७ ।।
तथा संवर्गविद्यायां प्राणवाय्वात्मना श्रुतिः ।।
वागग्न्याद्युपसंहारं वक्ति नान्येन कारणात् ।। २२८ ।।
नामाद्याशावसानं च प्राणे सर्वं प्रतिष्ठितम् ।।
प्राणबन्धनवाक्याच्च सूक्तमेतद्यथोदितम् ।। २२९ ।।
आविर्भूतस्वकार्यस्य संसर्गः कारणात्मना।।।।
वागाद्यादानमत्र स्याद्बुद्बुदानां यथाऽम्भसा ।। २३० ।।
सहार्थे वा तृतीयेयं विज्ञानेनेति या श्रुता ।।
सह प्रमातृज्ञानेन वागादेरुपसंहृतिः ।। २३१ ।।
यदि वाऽस्तु तृतीयेयमित्थंभूतार्थवाचिनी ।।
प्रत्यग्ज्ञानस्वभावेन कार्यकारणसंहृतिः ।। २३२ ।।
अनन्यबोधप्रत्यक्षो य एष इति भण्यते ।।
तस्य संप्रतिपत्त्यर्थमन्तर्हृदयकीर्तनम् ।। २३३ ।।
पराक्प्रमेयभूमिभ्यो व्युत्थाप्य मन आदरात् ।।
प्रत्यक्प्रवणया दृष्ट्या पश्याऽऽत्मानं त्वमञ्जसा ।। २३४ ।।
आत्मबुद्धिरियं पुंसां लक्ष्यतेऽव्यभिचारिणी ।।
व्यभिचारिणीष्वनात्मोत्थबुद्धिषु प्रत्यगात्मनि ।। २३५ ।।
बुद्धात्मनोऽपि सा बाह्यपदार्थज्ञानविभ्रमात् ।।
संकीर्यमाणेवाऽऽभाति तमसोपहतात्मनाम् ।। २३६ ।।
जग्धे कार्ये च निःशेषे कारणे चाऽऽत्मविद्यया ।।
अपूर्वाद्यात्मनाऽऽत्माऽयमात्मन्येवावसीयताम् ।। २३७ ।।
आदायाकाशशब्दाभ्यामैकात्म्यं प्रतिपाद्यते ।।
क्षेत्रज्ञेश्वरयोः साक्षाच्छ्रुत्येहाज्ञानहानतः ।। २३८ ।।
तात्स्थ्याद्धृदयशब्देन बुद्धिरत्राभिधीयते ।।
ऐकात्म्यप्रतिपत्त्यर्थं क्षेत्रज्ञपरमात्मनोः ।। २३९ ।।
घटाकाशो महाकाश इत्युक्तौ खैकधीर्यथा ।।
तथेहापि कथं नाम प्रत्यग्धीः स्यादितीर्यते ।। २४० ।।
बुद्धेरन्तः प्रतीचोऽन्यो नार्थः संभाव्यते यतः ।।
तस्मादाकाशशब्देन प्रत्यगात्माऽभिधीयते ।। २४१ ।।
प्राणादीनां यतो जन्म वक्ष्यते प्रत्यगात्मनः ।।
तस्माच्चाऽऽकाशशब्देन ब्रह्मैवात्राभिधीयते ।। २४२ ।।
अथाऽऽकाशो ह वै नाम सता सोम्येति च श्रुतिः ।।
ब्रह्माकाशात्परो नान्य आकाश इह गृह्यते ।। २४३ ।।
स्वतोवगमरूपेऽस्मिन्कूटस्थे कारणात्मना ।।
कार्त्स्न्येनावसितिर्भोक्तुः शेत इत्यभिधीयते ।। २४४ ।।
दृष्टान्तश्च कुमारादि तथाच घटतेऽञ्जसा ।।
प्रत्यक्चैतन्यमात्रत्वान्न तु निद्रेह युज्यते ।। २४५ ।।
देहाद्यध्यक्षतां हित्वा यदाऽयं वर्तते तदा ।।
स्वात्मन्येवाऽऽस्त इत्येतत्कुतश्चेत्स्वपितीत्यतः ।। २४६ ।।
इतश्च प्रत्यगात्मस्थो नान्यत्रागादयं पुमान् ।।
सुषुप्ते स्वपितीत्युक्तेस्तदेतदभिधीयते ।। २४७ ।।
अन्ये व्याचक्षते बुद्धिविज्ञानेनेति विस्मिताः ।।
वागादिज्ञानमादाय हृत्खे शेते य उत्थितः ।। २४८ ।।
सुषुप्सुर्मनसैवाऽऽत्मा मनस्येव समूहति ।।
प्राणान्स्वशक्तिभिः साकं मनोऽप्यात्मनि लीयते ।। २४९ ।।
विशीर्णकरणग्रामो बुद्धिभावनया युतः ।।
हृद्याकाशात्प्रसृत्याऽऽत्मा नाडीभिः स्वप्नमश्नुते ।। २५० ।।
मनोवागादिविज्ञानविग्रहः करणाख्यया ।।
विजानातीति कर्तृस्थे परस्मिन्भावसाधनः ।। २५१ ।।
प्रकाशवृत्तिर्या ज्ञस्य सा हृद्धर्मानुगा सती ।।
उद्गच्छति यतस्तस्माद्धृद्विशेषे लयं विदुः ।। २५२ ।।
स्वगोचरोन्मुखं ज्ञानं वागादीनामशेषतः ।।
आदाय भावनाबुद्ध्या शेते ज्ञो हृदयाम्बरे ।। २५३ ।।
भावनारूपविज्ञानमभिव्यक्तं यदा हृदि ।।
क्षेत्रज्ञस्यार्थवद्भाति शेते हृदीत्यतो वचः ।। २५४ ।।
एवं श्रुतिरियं कैश्चिद्व्याख्याताऽतिप्रयत्नतः ।।
परीक्ष्यैतद्वयं ग्राह्यं स्वयमेव परीक्षकैः ।। २५५ ।।
सह भावनया बुद्धेः श्रुतत्वादुपसंहृतेः ।।
न स्यात्तथोपसंहारस्तेनेयं कल्पना मुधा ।। २५६ ।।
स्वगोचरेषूत्सृष्टानि यदा गृह्णात्ययं स्वयम् ।।
वागादीनि तदैवैनं स्वपितीति प्रचक्षते ।। २५७ ।।
समाख्यासंश्रयात्तस्मादभूत्प्राक्प्रत्यगात्मनि ।।
व्यभिचारोऽपि चेन्नाम्नि ततो युक्तिरपीर्यते ।। २५८ ।।
वागादिप्रकृतौ प्राणशब्दो घ्राणेऽवगम्यते ।।
मुख्यस्यानुपसंहारान्न तद्वाचक इष्यते ।। २५९ ।।
वासनामात्रहेतुश्च स्वप्ने कर्मेन्द्रियाश्रयः ।।
सर्वेन्द्रियाणां लीनात्वद्व्यापारो न प्रबोधवत् ।। २६० ।।
वागाद्युपाधिसंबन्धे संसारित्वमिवेक्ष्यते ।।
ते तूपसंहृताः सर्वेऽसंसारित्वमतो दृशेः ।। २६१ ।।
ननु स्वप्नेऽपि जाग्रद्वत्प्रत्यक्षमुपलभ्यते ।।
सर्वेन्द्रियवियोगेऽपि सुखिदुःखित्वमात्मनः ।। २६२ ।।
मैवं मृषात्वात्स्वप्नोत्थसुखदुःखादिलक्षण -
संसारस्येत्यतो वक्ति श्रुतिस्तस्य मृषार्थताम् ।। २६३ ।।
नास्य स्वापः प्रबोधो वा कुतः स्वप्नस्य संभवः ।।
प्रत्यक्स्वभाव एवास्य जाग्रत्स्वप्नसुषुप्तयः ।। २६४ ।।
सुप्तः प्रबुद्ध इत्येवं स्वप्नं पश्यति चेति यः ।।
विकल्प एष भूतानामविद्यारात्रिशायिनाम् ।। २६५ ।।
मायामात्रमिदं सर्वं जगत्स्थावरजङ्गमम् ।।
सर्पादेरिव रज्ज्वादिस्तत्त्वमस्यपरं पदम् ।। २६६ ।।
चित्तसंमोहमात्रेस्मिल्लोकोऽयं परिखिद्यते ।।
दिङ्मोहाकुलविज्ञानो नष्टमार्ग इवाध्वगः ।। २६७ ।।
अस्मिन्नर्थे जगादेमौ श्लोकौ यदुकुलोद्वहः ।।
पुराणः शाश्वतो विष्णुः प्रपन्नाय किरीटिने ।। २६८ ।।
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।।
माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः ।। २६९ ।।
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।। २७० ।।
आत्मैवेदं जगत्सर्वं सत्यापूर्वादिलक्षणम् ।।
वेत्ति यस्तत्त्वतो वाक्यात्तस्यैवेह कृतार्थता ।। २७१ ।।
प्रत्यक्तमोवसाय्येव पराग्ज्ञानमशेषतः ।।
प्रत्यगात्मन्यविद्येति त्वविद्यापरिकल्पना ।। २७२ ।।
स्वार्थं प्रत्येव विज्ञेयाः सदसत्त्वादिकल्पनाः ।।
जाग्रत्स्वप्नावतः सिद्धौ स्वार्थं प्रत्येव न स्वतः ।। २७३ ।।
वागादिसाध्यसंदृष्टेः स्वप्नो बोधसमो यदि ।।
अवस्थात्रितयस्यास्य कुतः सिद्धिरितीर्यताम् ।। २७४ ।।
आदायेति च क्त्वान्तोक्तेः पूर्वाकलैककर्मणः ।।
स्वप्न एव तु संसिद्धिरादावन्ते ह्यसंभवात् ।। २७५ ।।
इति भूतार्थसंबोधज्ञानोन्मीलितचक्षुषाम् ।।
नास्ति व्याधिर्जरा नास्ति नास्ति देशपरिभ्रमः ।। २७६ ।।
नास्ति रोगो न संतापो नास्ति कामादिसंप्लुतिः ।।
न स्युर्हर्षभयोद्वेगहानोपचयमृत्यवः ।। २७७ ।।
न शोको नारतिः काचिन्न कर्तृत्वं न कार्यता ।।
न ज्ञेयं नापि च ज्ञाता तदभावोऽपि नेष्यते ।। २७८ ।।
इति क्षरार्थसंबन्धज्ञानेऽस्मिल्लो़कचक्षुषा ।।
विकल्पहेत्वविद्यायाः प्रत्यग्याथात्मनिष्ठितः ।।
सम्यग्बोधाग्निना ध्वस्तौ विकल्पो नावशिष्यते ।। २७९ ।।
विजिज्ञापयिषुर्गार्ग्यमिममर्थमतो नृपः ।।
स यत्रेत्यादिकामाह परामुक्तिपरंपराम् ।। २८० ।।
स्वप्ने भवत्वात्स्वप्नेति जाग्रत्स्वापाद्विवेचनम् ।।
मिथ्यात्वप्रतिपत्त्यर्थं स्वप्नस्य क्रियते स्फुटम् ।। २८१ ।।
निशायां संप्रवृत्तायां संहृताक्षस्य निद्रया ।।
जाग्रत्कर्मण्युपक्षीणे स्वप्नभोग उपस्थिते ।। २८२ ।।
बोधावस्था तिरोनीय देहाद्याश्रयलक्षणाम् ।।
कर्मोद्भावितसंस्कारस्तत्र स्वप्नरिरंसया ।। २८३ ।।
अवस्थां प्रययावन्यां मायावीवाऽऽत्ममायया ।।
उच्चावचान्बहूनर्थान्सोऽसृजत्सृजतेऽनृतान् ।। २८४ ।।
अविद्याकामकर्मादिसाधनैः समुपार्जितान् ।।
बोधे साधारणा येऽस्य स्वप्ने तेऽनन्यद्रष्टृकाः ।। २८५ ।।
लोकाः कर्मफलानीति तेषां मिथ्यात्वमुच्यते ।।
उतेवेत्यादिना स्पष्टमैकात्म्यप्रतिपत्तये ।। २८६ ।।
ननु बोधे यथा लोकास्तत्कालाव्यभिचारिणः ।।
स्वप्नेऽपि स्वप्नकालस्थास्तद्वत्सन्त्विति भण्यते ।। २८७ ।।
ननु जाग्रत्स्थलोकानां मिथ्यात्वं प्राक्प्रपञ्चितम् ।।
अविद्यामात्रहेतुत्वं पाणिपेषप्रबोधनात् ।। २८८ ।।
तथाच सति दृष्टान्तो भवतो नोपपद्यते ।।
मिथ्यात्मकत्वात्सर्वस्य नैतदेवं कुतो यतः ।। २८९ ।।
विवेकमात्रसिद्ध्यर्थो भोक्तृभोग्यपदार्थयोः ।।
पाणिपेषादिको ग्रन्थः शुद्धिस्तत्र विवक्ष्यते ।। २९० ।।
तस्मात्कृतकदृष्टान्तमुपादायाऽऽत्मनोऽञ्जसा ।।
आध्यात्मिकादिलेपानां विशुद्धिरिह भण्यते ।। २९१ ।।
किंचित्सामान्यमाश्रित्य जामित्वं प्रतिपद्यते ।।
न्यायः सर्वोऽपि येनातो नैतत्साधु प्रचोदितम् ।। २९२ ।।
महाराजादयो नास्य स्वप्नानुभवगोचराः ।।
आत्मभूता इति ज्ञेयास्तद्भेदेनोपलम्भनात् ।। २९३ ।।
पर्यङ्कशयिताद्राज्ञः प्रत्यक्षादिप्रमाणकात् ।।
बहिः समीक्ष्यते राजा स्वप्नदृग्भिर्वनं गतः ।। २९४ ।।
स्वानुभूत्यनुरोधेन राज्ञो राजाऽमृषा गृहे ।।
स्वप्ने प्रवद्धस्य सतो मृषा स्याद्वनमाश्रितः ।। २९५ ।।
जाग्रद्दृष्टं मृषा स्वप्ने सज्जागरे मृषा ।।
अन्योन्यव्यभिचारित्वात्स्वप्नजाग्रत्पदार्थयोः ।। २९६ ।।
अहः क्षपायां च कुतः, संहृताक्षस्य चेक्षणम् ।।
मृतानां जीवनं तद्वद्वृद्धानां यौवनं कुतः ।। २९७ ।।
न चक्षुरादिदृष्टीनामन्तर्देहसमीक्षणम् ।।
हिमवत्प्रभृतीनां च कुतोऽन्तः संभवो हृदि ।। २९८ ।।
नापि देहाद्विनिष्क्रम्य पर्वतादीन्समीक्षते ।।
देहं विना कथमगाद्गतिसाधनवर्जितः ।। २९९ ।।
अन्तरेणापि देहादींस्तत्कार्यं चेत्करोत्ययम् ।।
व्यर्थं देहाद्युपादानमस्य प्राप्नोत्यसंशयम् ।। ३०० ।।
ननु पर्यङ्क आसीनो गच्छञ्शिविकया वनम् ।।
वेश्मतो बहिरात्मानं द्रक्ष्यतीति न तद्यतः ।। ३०१ ।।
अमात्यादीन्यथाऽऽदाय स्वात्मभोगप्रसिद्धये ।।
नृपः स्वदेशमध्यस्थो यथेष्टं परिवर्तते ।। ३०२ ।।
स्वदेहराष्ट्रसंस्थोऽयं जाग्रद्भावनिरूपिणः ।।
प्राणानात्मा तथाऽऽदाय स्वप्नान्पश्यति कामतः ।। ३०३ ।।
असत्योपाधिभिः सोऽयं कूटस्थासङ्गविग्रहः ।।
अविद्यारोपितमलो विद्ययाऽऽत्मा विशोध्यते ।। ३०४ ।।
निःसङ्गस्य ससङ्गेन कूटस्थस्य विनाशिना ।।
आत्मनोऽनात्मना योगो वास्तवो नोपपद्यते ।। ३०५ ।।
कूटस्थादत्तानुज्ञं सत्प्रत्याख्यातं सहान्वयम् ।।
कारकाद्यन्यतो मोहान्नाऽऽत्मानं प्रति ढौकते ।। ३०६ ।।
ननु कामवशादस्य त्वयोक्तं परिवर्तनम् ।।
द्रष्टृदृश्यादिभावश्च कथं शुद्धस्तथा सति ।। ३०७ ।।
मैवं स्वतोऽवबुद्धत्वात्कुतोऽज्ञानेन संगतिः ।।
अज्ञानसंगतिं मुक्त्वा न स्यात्तज्जेन संगतिः ।। ३०८ ।।
एवं यस्मात्स्वतः शुद्धो द्वितीयासंगतेरयम् ।।
आत्मातस्मात्स्वतो मुक्तः कूटस्थज्ञाप्तिमात्रतः ।। ३०९ ।।
न यथा श्रोत्रविज्ञानं रूपेणैति समागमम् ।।
संसारेण तथैवाऽऽत्मा कौटस्थ्यान्नैति संगतिम् ।। ३१० ।।
इत्यर्थस्यावबोधार्थं परो ग्रन्थोऽवतार्यते ।। ३११ ।।
विशुद्धिं व्यतिरेकं च स्वप्नजाग्रदवस्थयोः ।।
उक्त्वाऽऽत्मनोऽद्वयत्वं च सुषुप्ते चाधुनोच्यते ।। ३१२ ।।
न वेदेत्या त्मनः श्रुत्या कर्तृत्वं प्रतिषिध्यते ।।
पश्यन्नपि यतः प्राज्ञो कौटस्थ्यान्न प्रपश्यति ।। ३१३ ।।
अथ यो वेदेति तथा ज्ञातृसाक्षित्वमात्मनः ।।
प्रतीचोऽकारकत्वं नः सर्वत्र प्रतिपाद्यते ।। ३१४ ।।
क्वचित्प्रमातृवित्साक्षी कचित्प्रत्ययवित्परः ।।
क्वचिद्बाह्यार्थविच्चाऽऽत्मा तत्कर्तृत्वं निषिध्यते ।। ३१५ ।।
परप्रयुक्तं वेत्तृत्वं यदस्य प्रत्यगात्मनः ।।
संबन्धजत्वात्तस्यातः कस्येत्यत्राभिधीयते ।। ३१६ ।।
कर्मोत्थत्वात्प्रमात्रादेस्तत्क्षये क्षयवत्त्वतः ।।
षष्ठीयं कर्मणि न्याय्या द्वयाभावविवक्षया ।। ३१७ ।।
अप्यर्थे चनशब्दोऽयमभावस्यापि वारकः ।।
शेषशेषितिरोभावे सुषुप्तिरिह भण्यते ।। ३१८ ।।
अथ केन क्रमेणायं सुषुप्तं प्रतिपद्यते ।।
इति क्रमविधानार्थं हिता नामेति भण्यते ।। ३१९ ।।
आ नाभितस्तथा कण्ठाद्धृदयं मध्यतः स्थितम् ।।
सनालं पद्मकोशाभं पञ्चच्छिद्रमधोमुखम् ।। ३२० ।।
स्वप्नाश्रयाणि हृन्मध्ये नीलाद्याभानि देहिनः ।।
स्थानानि सुरमर्त्यादिजुष्टान्यस्य भवन्त्युत ।। ३२१ ।।
बिलानि सुपयश्चैता जाग्रद्वत्प्रत्ययोद्भवाः ।।
एकोत्तरं नाडिशतं विष्वक्ताभ्यो विनिर्गतम् ।। ३२२ ।।
प्रतीन्द्रियं दश दश निर्गता विषयोन्मुखाः ।।
ना़ड्यः कर्मादिहेतूत्थाः स्वप्नादिफलभुक्तये ।। ३२३ ।।
वहन्त्यम्भो यथा नद्यो नाड्यः कर्मफलं तथा ।।
अनन्तैकोर्ध्वगा नाडी तया गच्छन्विमुच्यते ।। ३२४ ।।
एकैकस्याः पुनर्नाड्याः सूक्ष्मभेदाः प्रकीर्तिताः ।।
द्वासप्ततिसहस्रैस्ते संख्याता योगचिन्तकैः ।। ३२५ ।।
कदम्बकुसुमोद्भूतकेसरा इव सर्वतः ।।
प्रसृता हृदयान्नाड्यो याभिर्व्याप्तं शरीरकम् ।। ३२६ ।।
हितं फलं प्रयच्छन्ति यस्मात्तस्माद्धिताः स्मृताः ।।
हृदयात्ता विनिप्क्रान्ता यथाऽर्काद्रश्मयस्तथा ।। ३२७ ।।
पुरीतदभिधानेन हृद्वेष्टनमिहोच्यते ।।
तत्तूपलक्षणं विद्याद्देहव्याप्तिविवक्षया ।। ३२८ ।।
स्वप्नकर्मसमुद्भूता वासना या हृदि स्थिताः ।।
नाडीभिस्ता वितत्याऽऽत्मा स्वप्नान्पश्यति कामतः ।। ३२९ ।।
स्वाप्नान्भोगानशेषेण भुक्त्वा स्वप्नक्रियाक्षये ।।
ताभिरेवोपसंहृत्य प्राज्ञो याति सुषुप्तताम् ।। ३३० ।।
जाग्रत्स्वप्नक्रियोद्भूतान्भुक्त्वा भोगानशेषतः ।।
इन्द्रियाण्युपसंहृत्य शेते नाडीभिरात्मनि ।। ३३१ ।।
सामान्यप्रज्ञया देहं संव्याप्यान्तर्बहिः श्रमात् ।।
श्येनवत्परमं स्थानमात्माऽभ्येति सुषुप्तताम् ।। ३३२ ।।
धियोऽन्तःकरणस्येह स्थानं हृदयमिष्यते ।।
तत्रेन्द्रियाणि सर्वाणि बुद्धितन्त्राणि सर्वदा ।। ३३३ ।।
यत एवमतस्तानि नाडीभिः कर्मणो वशात् ।। ३३४ ।।
प्रसारयति धीर्वृत्तीर्मत्स्यजालकवद्बहिः ।।
प्रसार्याऽऽयतनस्थानि तानि धीरधितिष्ठति ।। ३३५ ।।
जाग्रत्काले ततो ज्ञोऽयमभिव्यक्तविशेषधीः ।।
व्याप्नोति निष्क्रियः सर्वान्भानुर्दश दिशो यथा ।। ३३६ ।।
ता एवेन्द्रियवृत्तीः स्वाश्चैतन्यखचिता यदा ।।
संयच्छति प्रतीच्यात्मा स्वपितीति तदोच्यते ।। ३३७ ।।
बुद्ध्युपाध्यनुरोधेन प्रतीचः प्रभवाप्ययौ ।।
विक्षेपलयहीनस्तु स्वतः कुम्भखवत्परः ।। ३३८ ।।
ताभिः प्रत्यवसृप्याऽऽत्मा वृत्तीर्नाडीभिरानयन् ।।
तप्तायोवच्छरीरं स्वं व्याप्य शेते स्व आत्मनि ।। ३३९ ।।
स्वहेतुमात्रया स्थानमिन्द्रियाणां न कार्यतः ।।
यतोऽतश्चिन्निभेनैव व्याप्तिः स्यात्कारणात्मना ।। ३४० ।।
सुषुप्तौ न शरीरेण संगतिः प्रत्यगात्मनः ।।
नापि बुद्ध्यादिभिः साक्षात्तत्स्थानासंगतेर्भवेत् ।। ३४१ ।।
तीर्णो हीति तथाचैतदुत्तरत्राभिधास्यते ।।
सुषुप्तेऽत्र पिता चेति सर्वसंबन्धवारणम् ।। ३४२ ।।
सर्वसंसारदुःखौघव्यतीतेयं पराऽऽत्मनः ।।
अवस्थेत्यत्र दृष्टान्तः स यथेत्यभिधीयते ।। ३४३ ।।
स्तनंधयो यथा वालो रागद्वेषविवर्जितः ।।
तदभावाद्विकुर्वन्ति चेतो न विशयाः सदा ।। ३४४ ।।
अप्ररूढेन्द्रियत्वाच्च रागद्वेषाद्यसंप्लुतिः ।।
मृदुकण्टकवत्तद्धीर्नालं वेद्धं स्वगोचरान् ।। ३४५ ।।
सर्वत्राव्याहताज्ञश्च विधेयप्रकृतित्वतः ।।
राजा वाऽतिसुखी लोके प्ररूढेन्द्रियवानपि ।। ३४६ ।।
विज्ञाताशेषतत्त्वो वा ब्राह्मणः कृतकृत्यतः ।।
आनन्दस्य परां काष्ठामतिघ्नीमेत्य निर्वृतः ।। ३४७ ।।
बालादित्रयमप्येतदेको दृष्टान्त इष्यते ।।
बालमौढ्यमदान्धत्वनिवृत्त्यर्थं तथोच्यते ।। ३४८ ।।
बालस्य निर्विवेकत्वात्सविवेकः क्षितीश्वरः ।।
तन्मदान्ध्यनिषेधार्थं महाब्राह्मण उच्यते ।। ३४९ ।।
अतीत्य दुःखहेतून्या हन्ति दुःखान्यशेषतः ।।
आनन्दस्य परा निष्ठा तेनातिघ्नीति भण्यते ।। ३५० ।।
निर्विकारात्मनां यस्माद्बालादीनां स्व आत्मनि ।।
अतीव जायते ह्रादो दृष्टान्तः स विवक्षितः ।। ३५१ ।।
परसंबन्धमेत्यात्मा कार्यकारणरूपिभिः ।।
ऐकात्म्यलक्षणं साक्षाच्छेत इत्यभिधीयते ।। ३५२ ।।
अत्यन्तसंनिकृष्टानामपि भिन्नात्मनां मितेः ।।
लोचनस्थाञ्जनादीनां न दृष्टिपथतेष्यते ।। ३५३ ।।
किमु प्रध्वस्तनिःशेषभेदहेताविहाऽऽत्मनि ।।
ग्राह्यग्राहकसंबन्धः सर्वभेदापनोदिनि ।। ३५४ ।।
स्वस्थावस्थैव यैतेषां प्रसिद्धा जगतीक्ष्यते ।।
दृष्टान्तत्वेन स्वापस्य सैव साक्षाद्विवक्ष्यते ।। ३५५ ।।
दार्ष्टान्तिकत्वेन यतः सुषुप्तोऽत्र विवक्षितः ।।
नापि बालादिस्वापस्य विशेषः कश्चिदीक्ष्यते ।। ३५६ ।।
अव्याहतमतिर्बालः सर्वातिशयवर्जिताम् ।।
आनंदस्य परां निष्ठामतिघ्नीं प्रतिपद्यते ।। ३५७ ।।
यावद्यावत्प्ररूढत्वं रागादेर्जायते शिशोः ।।
तावत्तावत्प्ररूढत्वं दुःखस्याप्यभिजायते ।। ३५८ ।।
यथैव तत्तनुत्वं च यावद्यावदिहाऽऽत्मनः ।।
दुःखस्यापि तनुत्वं स्यात्तावत्तावत्सुखात्मनः ।। ३५९ ।।
उत्तरोत्तरवृद्ध्याऽतो दुःखहेतुक्षयाच्छ्रुतौ ।।
सहस्रदशभागेन निष्ठाऽऽनन्दस्य भण्यते ।। ३६० ।।
अव्यावृत्ताननुगतप्रत्यङ्मात्रसमाप्तितः ।।
भूम्न्येव तु परा निष्ठाऽऽनन्दस्येति श्रुतेर्वचः ।। ३६१ ।।
आनन्दः स्वयमेवाऽऽत्मा भेदसंसर्गवर्जितः ।।
दुःखहेतुविनिर्मुक्तावतिघ्नीमेत्यतः स्वतः ।। ३६२ ।।
गार्ग्यं काश्यो यदप्राक्षीत्काभूदेष तदेति तत् ।।
सप्रपञ्चं यथावच्च सर्वमुक्तमशेषतः ।। ३६३ ।।
अनेन च यथोक्तेन पाणिपेषोत्थितस्य हि ।।
मोहोत्थाशेषकार्येभ्यो विशुद्धिं श्रुतिरब्रवीत् ।। ३६४ ।।
कुत आगादिति त्वस्य प्रश्नार्थाविश्चिकीर्षया ।।
सुषुप्ताज्जाग्रदापत्तिर्यथा तदधुनोच्यते ।। ३६५ ।।
नन्वस्थाद्यो हि यत्रेह स तस्मादन्यतो व्रजन् ।।
वेश्मतो ग्रामतो वाऽसौ तत एव व्रजेद्ध्रुवम् ।। ३६६ ।।
तस्मात्सामर्थ्यतः सिद्ध उत्तरप्रश्ननिर्णयः ।।
तन्निर्णयार्थमारम्भो न कार्यो जामिदोषतः ।। ३६७ ।।
न निमित्ताद्यर्थताऽपि पञ्चम्या उपपद्यते ।।
ऊर्णनाभ्यग्निदृष्टान्ते न निमित्तादि गम्यते ।। ३६८ ।।
प्रत्युक्तौ न निमित्तादि यदि साक्षात्समीक्ष्यते ।।
अपादानार्थतैवास्तु दोषस्यान्यत्र दर्शनात् ।। ३६९ ।।
नन्वत्रापि समो दोषो वाक्यस्य पुनरुक्तता ।।
नैवं यतोऽखिलध्वान्तकार्यध्वंसो विवक्षितः ।। ३७० ।।
अव्यावृत्ताननुगतं पूर्णं ब्रह्म विवक्षितम् ।।
प्रत्यङ्मात्रैकयाथात्म्यं न दोषो जामिता ततः ।। ३७१ ।।
विषयौ द्वावुपन्यस्तौ विद्याविद्यात्मनोरिह ।।
आत्मेत्येवेति विद्याया विषयः प्रागुदाहृतः ।। ३७२ ।।
अविद्याविषयस्तावत्संसारानर्थ ईरितः ।।
क्रियाकारकभेदेन नामरूपक्रियात्मकः ।। ३७३ ।।
तत्राविद्योद्भवं कार्यं यावत्किंचिद्विवक्षितम् ।।
तत्प्रत्यपादि निखिलं पूर्वं श्रुत्यैव यत्नतः ।। ३७४ ।।
अविद्याप्रतिपक्षाया विद्याया विषयोऽधुना ।।
प्रवक्तव्योऽतस्तद्योग्यौ प्रश्नौ द्वौ समुदाहृतौ ।। ३७५ ।।
हेतुस्वरूपकार्याणि विरोधीनि परस्परम् ।।
अविद्याविद्ययोर्यस्मात्तद्योग्यप्रश्नगीरतः ।। ३७६ ।।
कारकव्यवहारोऽयमविद्याविषयः सदा ।।
आधाराधेययोर्भित्तौ तयोः कारकतेष्यते ।। ३७७ ।।
तद्वद्गच्छति यो यस्माद्भेदे सत्येव याति सः ।।
इत्यविद्याव्यवस्थेयं विद्यायास्तद्विपर्ययः ।। ३७८ ।।
क्रियाकारकभेदाद्या लोकतः शेमुषी त्वभूत् ।।
यथास्थितात्मयाथात्म्यसम्यग्ज्ञानेन बाध्यते ।। ३७९ ।।
नान्योऽयमात्माऽन्यत्राभून्नान्योऽन्यस्मात्तथैति च ।।
इति निःशेषतन्मोहकार्यध्वंसो विवक्षितः ।। ३८० ।।
अभेदव्यतिरेकाभ्यां वस्त्वन्तरमिहाऽऽत्मनः ।।
श्रुत्या निषिध्यते साक्षाद्भेदहेतोर्निषेधतः ।। ३८१ ।।
ननु प्राणादिभिः सद्भिः कथं निर्भेदताऽऽत्मनः ।।
नाऽऽत्मन्येव तदध्यासाच्छुक्तिकारजतादिवत् ।। ३८२ ।।
कथं तदिति दृष्टान्त ऊर्णनाभ्यादिरुच्यते ।।
वास्तवं वृत्तमापेक्ष्य न त्वियं सृष्टिरात्मनः ।। ३८३ ।।
नासतो जन्मना योगः सतः सत्त्वान्न चेष्यते ।।
कूटस्थे विक्रिया नास्ति तस्मादज्ञानतो जनिः ।। ३८४ ।।
पुंस्प्रबोधप्रसिद्ध्यर्थं सृष्टिव्याजोऽयमुच्यते ।।
कौटस्थ्यात्त्वात्मनः सृष्टिर्न कथंचन युज्यते ।। ३८५ ।।
निःशेषवेदसिद्धान्तविद्वद्भिरपि भाषितम् ।।
गौडाचार्यैरिदं वस्तु यथाऽस्माभिः प्रपञ्चितम् ।। ३८६ ।।
मृल्लोहविस्फुल्लिङ्गाद्यैः सृष्टिर्या चोदिताऽन्यथा ।।
उपायः सोऽवताराय नास्ति भेदः कथंचन ।। ३८७ ।।