अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ द्वितीयाध्यायस्य प्रथमं ब्राह्मणम् ॥ (४)

न बाध्यजव्यपेक्षं हि ज्ञानं बाधकमिष्यते ।।
तयोर्मिथो विरो­धि­त्वा­त्स­म्य­ग्ज्ञानं तमोपनुत् ।। २५८ ।।

आत्मानं यो यथा वेत्ति सम्यग्वा यदि वाऽन्यथा ।।
यथादर्शनमेवासौ फलमाप्नोति मानवः ।। २५९ ।।

इति ब्रह्म तमित्यादेः संक्षेपार्थः समीरितः ।।
संस­र­त्य­न्य­था­ज्ञा­ना­त्स­म्य­ग्ज्ञा­ना­द्वि­मु­च्यते ।। २६० ।।

अपो­दि­त­त्वा­द्ब्र­ह्मा­दि­द­र्श­न­स्येति किं पुनः ।।
द्रष्ट­व्य­मि­त्यतो वक्ति त्विदं ब्रह्मेति नः श्रुतिः ।। २६१ ।।

प्रत्यक्त्वेन य आभाति प्रत्य­ग्बु­द्धि­प्र­मा­णकः ।।
ताव­न्मा­त्रै­क­या­थात्म्यं ब्रह्मेत्युक्तं प्रतीयताम् ।। २६२ ।।

एवं श्रोतव्य आत्माऽयं समाप्तः श्रवणे विधिः ।।
अथ मन्तव्य इत्यस्य प्रपञ्चः पर उच्यते ।। २६३ ।।

नाम­रू­पा­दि­सं­भिन्नं जगदेतत्कथं पुनः ।।
आत्मैव सर्वमित्येवं द्रष्टुं शक्यमिहाञ्जसा ।। २६४ ।।

अव्या­वृ­त्त­वि­सं­वा­दि­प्र­त्य­ग्धी­व्या­प्ति­का­र­णात् ।।
एत­द्वि­रु­द्ध­बु­द्धी­ना­मे­व­मेव हि शक्यते ।। २६५ ।।

व्यभिचारिषु बोधेषु यो बोधोऽ­व्य­भि­चा­र­वान् ।।
तत्प्र­मा­णा­र्पितो मेयो ग्रहीतुं शक्यतेऽञ्जसा ।। २६६ ।।

यथा दुन्दु­भि­श­ब्द­त्व­सा­मा­न्या­दु­त्थि­ता­न्पृ­थक् ।।
नाऽऽदातुं शक्नु­या­त्क­श्चि­द्वि­शे­षा­न­सि­को­श­वत् ।। २६७ ।।

तद्व­दा­त्मा­ति­रे­केण नाऽऽत्मीयार्थो मनागपि ।।
यतः समीक्षितुं शक्यस्तेनासौ रज्जुसर्पवत् ।। २६८ ।।

विशेषैरन्वयो नापि सामा­न्या­न्व­य­व­त्क्व­चित् ।।
सामा­न्य­स्या­वि­शे­ष­त्वा­न्नातः सामान्यधीग्रहः ।। २६९ ।।

विशेषैरन्वयो नो चेदि­भा­खु­व्य­क्ति­व­न्मिथः ।।
खण्ड­व­त्स्वा­द्वि­शे­षादौ यत्सा­मा­न्य­मि­ती­रि­तम् ।। २७० ।।

द्विष्ठ­त्वा­द­न्व­य­स्यौपि व्याप्य­व्या­प­क­यो­र्मिथः ।।
व्यतिरेकमतो मुक्त्वा मिथो व्याप्तिर्न सिध्यति ।। २७१ ।।

प्रत्य­ग्बो­धा­नि­र­स्तोऽर्थः प्रत्यग्वन्न हि सिध्यति ।।
न चाभा­व­मु­खोऽ­नात्मा नान्वयेनाप्यतो दृशि ।। २७२ ।।

प्रत्य­ङ्भा­त्रै­क­रू­प­त्वा­दात्मा नानात्मतां स्वतः ।।
सहते नापि चानात्मा स्वार्थादन्यत्र सिध्यति ।। २७३ ।।

अनात्मवस्तुनः प्रत्य­क्प्र­त्य­क्त्वा­न्ना­ति­रि­च्यते ।।
पराङ्नान्वेति चाऽऽत्मानं व्यति­रे­का­त्म­क­त्वतः ।। २७४ ।।

दुन्दु­भ्य­न्वि­त­श­ब्दस्य सर्व­त्रा­व्य­भि­चा­रतः ।।
पुंस्प्र­य­त्ना­दि­ल­ब्धा­त्म­व्य­भि­चा­रि­र­वा­त्मसु ।। २७५ ।।

उच्च­नी­चा­दि­भे­देषु मिथः स व्यभिचारिषु ।।
दुन्दु­भि­ध्व­नि­रे­वैकः सर्व­त्रा­व्य­भि­चा­र­वान् ।। २७६ ।।

दुन्दु­भि­ध्व­नि­सा­मा­न्य­व्य­ति­रे­केण तेन ते ।।
निरात्मका न शक्यन्ते तद्विशेषाः समीक्षितुम् ।। २७७ ।।

दुन्दु­भि­ध्व­नि­रि­त्ये­त­त्कुतो लब्धं विशेषणम् ।।
दुन्दु­बे­र्ग­ह­णे­नेति लब्ध­मे­त­द्वि­शे­ष­णम् ।। २७८ ।।

दुन्दुभेस्तु रवा एत इत्येवं ग्रहणे सति ।।
गृही­ता­स्त­द्वि­शेषाः स्युस्तेषां तादा­त्म्य­का­र­णात् ।। २७९ ।।

भेर्या­घा­त­ग्र­हा­द्वाऽपि तद्विशेषग्रहो भवेत् ।।
वीरा­दि­र­स­सं­युक्तो दुन्दुभ्याघात उच्यते ।। २८० ।।

उपलब्धोऽस्ति सन्कुम्भो लम्बोष्ठो देशकालवान् ।।
पूर्व­पू­र्वा­ति­रे­केण नोत्त­रोऽ­र्थोऽ­नु­भू­यते ।। २८१ ।।

एवं चिद­न्व­या­त्स­र्व­स्त­द­ध्यस्तः समीक्ष्यते ।।
सामान्यं वा विशेषो वा चिदसंबोधहेतुतः ।। २८२ ।।

प्रत्यग्रूपस्य संसिद्धौ प्रतीचोऽन्यन्न कारणम् ।।
अना­त्म­व­त्त­द­प्या­त्म­वि­शे­ष­ण­तया भवेत् ।। २८३ ।।

कर्तृत्वकञ्चुको यद्व­दा­त्माऽ­ना­त्मा­न­मी­क्षते ।।
कूट­स्थ­दृ­ष्टि­मा­त्र­त्वान्न तथाऽऽ­त्मा­न­मी­क्षते ।। २८४ ।।

संहतो गम्यतेऽनात्मा प्रत्यक्षेण यथा सदा ।।
गम्य­तेऽ­सं­ह­त­स्त­द्व­दात्मा प्रत्य­ग्धि­याऽऽ­त्मना ।। २८५ ।।

दार्ष्टा­न्ति­का­र्था­सं­भि­त्ते­रे­के­नैव कृतार्थतः ।।
दृष्टान्तेन बहूनां तु किम­र्थो­क्ति­रि­ती­र्यते ।। २८६ ।।

महासामान्य एक­स्मि­न्वि­शे­षा­णा­म­शे­षतः ।।
विलयः स्यात्कथं नाम व्यावृ­त्ता­न्व­य­रू­पि­णाम् ।। २८७ ।।

महा­सा­मा­न्य­दृ­ष्टान्तो दौन्दुभो रव उच्यते ।।
सामा­न्ये­त­र­रू­पस्य दुन्दुभ्याघात इष्यते ।। २८८ ।।

बाह्यानिति तथा­चो­क्ति­र्वि­शे­षाणां तु केवलम् ।।
इत्यु­क्ता­र्थ­प्र­सि­द्ध्य­र्थ­मि­त्यु­दा­ह­र­ण­त्र­यम् ।। २८९ ।।

अन्व­य­व्य­ति­रे­का­भ्या­म­भा­व­व­पु­षाऽ­थवा ।।
सद्धी­ग­म्या­द्धि­रु­ग्वस्तु न मानेनावसीयते ।। २९० ।।

षष्ठ्य­र्था­सं­भ­वोऽतः स्याद्वि­ती­या­सं­भ­वा­त्सतः ।।
यथा सति तथा विद्या­त्प्र­ती­च्य­न­न्य­मा­नके ।। २९१ ।।

सामा­न्य­भे­द­रू­पाणां विशेषाणामशेषतः ।।
महासामान्य एकत्र भूयसां स्याद्यथा तथा ।। २९२ ।।

मिथो­भि­न्न­प­दा­र्थानां नाम­रू­प­क्रि­या­त्मभिः ।।
स्थूला­द्य­न­भि­सं­बन्धे कार्य­का­र­ण­रू­पि­णाम् ।। २९३ ।।

सूक्ष्म­ता­व्या­पिते ज्ञेये भूम्या­दे­रु­त्त­रो­त्तम् ।।
प्रत्य­गा­त्मा­व­सा­नेषु पूर्व­पू­र्व­प्र­हा­णतः ।। २९४ ।।

नामादीनि च तत्त्वानि प्राणान्तानि तथाऽऽत्मनि ।।
पूर्व­पू­र्व­प्र­हा­णेन यान्त्यस्तं केवलाद्वये ।। २९५ ।।

दृष्टा­न्त­त्रि­तयं तावत्स्थितिकाल उदाहृतम् ।।
महा­सा­मा­न्य­व­त्प्र­त्य­क्स­र्वा­ना­त्मा­प्ययः स्वतः ।। २९६ ।।

स्थितिकाले यथैकात्म्यं शक्यते ज्ञातुमञ्जसा ।।
यथो­क्त­न्या­य­त­स्त­द्व­दु­त्प­त्ता­वपि शक्यते ।। २९७ ।।

धूमा­र्चि­र्वि­स्फु­लि­ङ्गादि यथापूर्वे विभागतः ।।
अग्निरेव न धूमादिभेदः कश्चन लक्ष्यते ।। २९८ ।।

प्राण­लो­का­दि­र­प्ये­व­म­नात्मा प्राग्विभागतः ।।
अपू­र्वा­न­प­रा­न्त­प्र­त्य­गा­त्मैव केवलः ।। २९९ ।।

एकजातौ हि भिन्नानां शब्दानां शब्द एव तु ।।
दृष्टमैक्यं न भिन्नानां भिन्नजातौ तथेति चेत् ।। ३०० ।।

धूमा­दि­भे­द­भि­न्नानां यथैकत्वं विभावसौ ।।
नाम­रू­पा­दि­भि­न्ना­ना­मै­कात्म्यं तद्वदात्मनि ।। ३०१ ।।

बोधाविशेषादथवा भेद एव न विद्यते ।।
कार्य­का­र­ण­यो­स्त­त्त्व­मु­भ­यो­र­वि­ल­क्ष­णम् ।। ३०२ ।।

स्वार्थ­सा­ध­न­य­त्ना­दी­न­न­पे­क्ष्यो­त्सृ­जे्द्यथा ।।
धूमा­दी­न्हु­त­भु­क्त­द्व­त्प्रा­णा­दी­न्प्र­त्य­गी­श्वरः ।। ३०३ ।।

श्रोतव्यः श्रुतिवाक्येभ्य इत्य­त्राऽऽ­श­ङ्क्यते यतः ।।
प्रयत्नानन्तरः शब्दोऽनित्यः कुम्भा­दि­व­द्भ­वेत् ।। ३०४ ।।

इत्यस्य परिहारार्थं निःश्वा­सो­दा­हृ­ति­स्त्वि­यम् ।।
अप्रयत्नोत्थितो वेदो नित्यः स्याद्व्यो­म­व­त्स्वतः ।। ३०५ ।।

अबु­द्धि­पू­र्व­क­त्वाच्च यथा­व­स्त्व­नु­रो­ध्यपि ।।
बुद्धि­व­न्ना­प्र­मा­णत्वं वेद­स्ये­हो­प­प­द्यते ।। ३०६ ।।

सर्वथा यदनेनोक्तं तच्छ्रद्धेयं बुभूषता ।।
भानु­प्र­का­श­व­च्छब्दो नित्योऽयं न तु कृत्रिमः ।। ३०७ ।।

पर एवाऽऽ­त्म­नाऽऽ­त्मानं प्रतिपाद्य नरं श्रुतिः ।।
कार्य­का­र­ण­व­त्पीत्वा स्वात्म­नै­वा­व­ति­ष्ठते ।। ३०८ ।।

वेदा­मा­त्व­प्र­सक्तौ वा सर्व­मा­त्मे­ति­वा­क्यतः ।।
वेदा­मा­त्वा­प­नु­त्त्यर्थं स यथेत्यागमः परः ।। ३०९ ।।

तदयुक्तं पुमर्थस्य तदुक्त्यैव समाप्ततः ।।
सर्वो­पा­योऽ­नु­पायः स्यादुपेयावसितौ यतः ।। ३१० ।।

स्वोपे­या­र्थ­प्र­सिद्धौ च नोपायानामुपायता ।।
न चोत्स­र्गा­प­वा­दोऽपि साक्षा­द्वे­द­ग्र­ह­श्र­वात् ।। ३११ ।।

बालो­न्म­त्तो­क्ति­व­च्चाहं वक्तुं दूषणमादरात् ।।
जिह्रेमि बहुशोऽत्रोक्तौ तस्मा­दे­वो­प­र­म्यते ।। ३१२ ।।

ऋग्वे­दा­दि­गि­रो­च्यन्ते ऋग्य­जुः­सा­म­ल­क्षणाः ।।
अथ­र्वा­ङ्गि­र­स­स्त­द्व­न्मन्राः स्युर्ब्रा­ह्म­णो­द्धृताः ।। ३१३ ।।

इति­हा­सा­दि­सं­भे­द­भिन्नं ब्राह्मणमेव तु ।।
ग्राह्यमत्र प्रसिद्धस्तु नेति­हा­सा­दि­रि­ष्यते ।। ३१४ ।।

अभि­धे­या­र्थ­ज­न्मापि ह्यभि­धा­सं­भ­वो­क्तितः ।।
द्रष्टव्यं नाभिधानं स्यादभिधेयमृते क्वचित् ।। ३१५ ।।

मत्र­ब्रा­ह्म­ण­यो­र्वे­द­ना­म­धे­य­त्व­का­र­णात् ।।
ऋग्वेदादिगिरा तस्मा­न्म­न्त्र­ब्रा­ह्म­ण­यो­र्ग्रहः ।। ३१६ ।।

यथा­सि­द्ध­मि­ति­हा­स­पु­रा­णा­द्यपि गृह्यते ।।
लोक­प्र­सि­द्धि­मु­ल्लङ्घ्य यतोऽ­न्या­य्योऽ­न्य­था­ग्रहः ।। ३१७ ।।

इति­हा­स­पु­रा­णाभ्यां वेदं समुपबृंहयेत् ।।
इत्या­दि­म­नु­नाऽ­प्युक्तं कथं तत्त्यागमर्हति ।। ३१८ ।।

इति­हा­स­पु­रा­णा­दे­र्वे­द­मू­ल­त्व­का­र­णात् ।।
प्रामाण्यं नान्यथा तस्य प्रामा­ण्य­मु­प­प­द्यते ।। ३१९ ।।

प्रत्य­क्ष­वे­द­व­च­न­वि­रुद्धं तेषु यद्वचः ।।
बुद्ध­वा­क्या­दि­व­त्ता­दृ­क्त्याज्यं श्रुतिविरोधतः ।। ३२० ।।

न चेश्वरातिरेकेण कश्चि­त्स्र­ष्टाऽ­भ्यु­पे­यते ।।
इति­हा­स­पु­रा­णा­दे­स्त­द­न्य­स्येह कार्यतः ।। ३२१ ।।

कारणत्वं प्रमाणेन यस्य साक्षा­द्वि­नि­श्चि­तम् ।।
अपि तत्का­र्य­क­र्तृत्वे तदे­वा­भ्यु­प­ग­म्यते ।। ३२२ ।।

बीज­मे­वा­ङ्कु­रा­दीनां यथा कारणमिष्यते ।।
अङ्कु­रा­द्या­त्मना तद्वद्बीजमेव तु कारणम् ।। ३२३ ।।

आद्यन्तयोर्यतो बीजं प्रत्य­क्षे­णा­व­सी­यते ।।
तस्मा­त्त­न्म­ध्य­का­र्येषु बीजमेवास्तु कारणम् ।। ३२४ ।।

न च वेदोक्तितो वेदः श्रद्धेयार्थ इहेष्यते ।।
किंत्व­मा­न­त्व­हे­तूनां वेद­वा­क्ये­ष्व­सं­भ­वात् ।। ३२५ ।।

प्रामाण्यं वेदवाक्यानां न च माना­न्त­रा­श्र­यात् ।।
अक्षादेरपि मानत्वं यथोक्तादेव कारणात् ।। ३२६ ।।

प्रज्ञा­न­व्य­ति­रे­केण यथैव स्थितिसर्गयोः ।।
वस्त्वन्तरं न संभाव्यं प्रलयेऽपि तथोच्यते ।। ३२७ ।।

विभि­न्न­ना­म­रू­पाणां सरितां सागरो यथा ।।
अभिन्ननामरूपैकः प्रलयोऽयनमेकता ।। ३२८ ।।

स्पर्शा­दि­ज्ञा­न­भे­दानां त्वगाद्येकायनं तथा ।।
स्वान्ते त्वगा­द­य­स्त­द्व­द्बुद्धौ च मनसस्तथा ।। ३२९ ।।

कर्मक्षयात्तथा बुद्धिः कारणत्वेन तिष्ठति ।।
एष साधा­र­ण­स्ता­व­त्प्र­ल­योऽ­बु­द्धि­पू­र्वकः ।। ३३० ।।

प्रत्य­ग्या­था­त्म्य­वि­ज्ञा­ना­द्व­स्तु­वृ­त्ता­नु­रो­धतः ।।
प्रल­योऽ­ज्ञा­न­वि­ध्वं­सा­द्य­स्त्वसौ बुद्धिपूर्वकः ।। ३३१ ।।

अब्धिरेकायनं यद्वत्सर्वासां सरितां तथा ।।
त्वगगोचराणां स्पर्शानां त्वगेवैकायनं परम् ।। ३३२ ।।

स्पर्शशब्देन विष­य­स्त्व­ग्ग्रा­ह्योऽ­त्रा­भि­धी­यते ।।
तथा गन्धादिशब्देन घ्राणादिविषयो मतः ।। ३३३ ।।

गन्धादिसंहतिः पृथ्वी रसान्तानां तथा जलम् ।।
तेजस्त्रयाणां वायुस्तु द्वयोरेकात्मकं नभः ।। ३३४ ।।

एवं लक्षणतः पञ्च भूतान्येतानि निर्दिशेत् ।।
मूर्ता­मू­र्ता­वि­ष्क­रणं गुणा­वि­ष्कृ­ति­रि­ष्यते ।। ३३५ ।।

संह­तो­क्त­वि­शे­षाणां भूतानां कारणात्मता ।।
तत्र स्पर्शग्रहेणैव वायोरंशोऽत्र गृह्यते ।। ३३६ ।।

तेजसस्तु तृती­यां­श­श्च­तु­र्थोऽपां तथा भुवः ।।
पञ्च­म­स्त­द्गु­णै­र्भे­द­स्तथा स्पर्शे समीक्ष्यताम् ।। ३३७ ।।

गन्धादिषु तथा योज्यो भेदोऽयं गुणभेदतः ।।
पृथिव्यंशस्य बाहु­ल्या­त्क­र्कशः स्पर्श उच्यते ।। ३३८ ।।

शीतश्च पिच्छिलश्चापां बाहु­ल्या­त्स्पर्श इष्यते ।।
भूय­स्त्वा­त्ते­ज­स­श्चोष्णः सुकुमारस्तथा मरुत् ।। ३३९ ।।

बाहुल्यादिति विज्ञेयो यथो­क्त­गु­ण­सं­श्र­यात् ।।
ध्वस्ता­शे­ष­वि­का­रस्य ब्रह्म­णोऽ­वि­द्य­याऽऽ­त्मनः ।। ३४० ।।

स एष परिणामः स्यात्ते­जो­ब­न्ना­द्यु­प­क्रमः ।।
स्वर्श­ना­द्या­त्म­नाऽ­त्यन्तं परं काठिन्यमागतः ।। ३४१ ।।

उद्भू­त­स्प­र्श­वि­ज्ञा­न­स्त्वचा तस्य समागमात् ।।
स्पर्श­भे­द­प­रि­ज्ञानं ततोऽभिव्यज्यते दृशेः ।। ३४२ ।।

स्पर्शा­दि­भे­द­वि­ज्ञानं स्यादचेतनमेव तु ।।
स्पर्शा­दि­व­त्प­रा­र्थ­त्वा­त्स्वार्थं तन्न तु साक्षिवत् ।। ३४३ ।।

अतीव कठिनं ज्ञानं त्वचातोऽस्य समागमात् ।।
मनसा तस्य संयोगे ततः स्वच्छैव धीर्भवेत् ।। ३४४ ।।

ततोऽपि सूक्ष्मं विज्ञानं बुद्धिसंयोगजं भवेत् ।।
याव­द्रु­धि­र­सं­व्याप्तिः शरीरे तावदेव तु ।। ३४५ ।।

बुद्धेः सामा­न्य­वृ­त्त्येह व्याप्ति­रा­दे­ह­सं­क्ष­यात् ।।
चैत­न्या­भा­स­व­त्प्र­णस्तां वृत्तिं व्याप्य तिष्ठति ।। ३४६ ।।

अका­र्य­का­र­ण­स्त्वात्मा तमपह्नुत्य तिष्ठति ।।
कण्टकादिसमायोगे शरीरे विक्रिया यदा ।। ३४७ ।।

तदाऽधर्मादितो दुःखं विक्रि­या­तोऽ­भि­जा­यते ।।
देहैकदेशगं दुःखं विशिनष्टि स्वदेशगाम् ।। ३४८ ।।

धियं तद्दे­श­दुः­खि­त्वा­द्दुः­खित्वं जायते धियः ।।
तस्यावच्छित्तये वृत्ति­र्दुः­ख­भू­त्यैव जायते ।। ३४९ ।।

भोक्तृ­भो­ग्या­भि­सं­ब­न्ध­स्त­न्नि­मि­त्तोऽ­य­मा­त्मनः ।।
बुद्धेः सेय­म­हं­वृ­त्ति­र्दुः­खा­व­च्छे­दिनी सती ।। ३५० ।।

परिच्छिनत्ति बोद्धारं बोद्धाऽ­प्या­भा­स­मा­त्मनः ।।
न बहिर्विक्रियां मुक्त्वा देहेऽ­हं­वृ­त्ति­सं­भवः ।। ३५१ ।।

स्वस्थे­न्द्रि­य­म­नो­बु­द्धे­र्नै­वा­ह­मिति वीक्ष्यते ।।
पुत्राभिमानजे त्वस्मिन्न देहांशविशिष्टता ।। ३५२ ।।

तत्तद्वस्तु समुद्दिश्य दुःखित्वं तत्र मानिनः ।।
अज्ञा­ना­द­भि­मा­नोऽयं बुद्ध्यादौ विषयावधौ ।। ३५३ ।।

न तु निःस­ङ्ग­कू­ट­स्थ­प्र­तीचः स्यादहंमतिः ।।
न कार्यप्रलयो दृष्टो यस्मादन्यत्र कारणात् ।। ३५४ ।।

त्वगा­र­म्भ­क­सा­मान्यं त्वग्गि­राऽ­तोऽत्र गृह्यते ।।
कार्य­त्वा­न्ने­न्द्रि­ये­ष्वेव विषयप्रलयो भवेत् ।। ३५५ ।।

न मृदोऽन्यत्र कुम्भादेः शरावे प्रलयो यतः ।।
तस्मात्त्वगादयः शब्दा­स्त्व­गा­द्या­र­म्भ­का­भिधाः ।। ३५६ ।।

सर्वत्र प्रतिपत्तव्या नान्यत्र प्रलयो यतः ।।
गन्धशब्देन कृत्स्नाऽपि पृथिवी परिगृह्यते ।। ३५७ ।।

यदि वा परभागोऽस्या गन्ध­स्या­ने­क­भे­दतः ।।
गन्धो गुरुः क्षितिप्रायो ह्लादी शीतोऽप्प्रधानतः ।। ३५८ ।।

तेजोभूयस्तया तीक्ष्णो लघु­र्वा­यु­प्र­धा­नतः ।।
शान्तोऽथ विशदो व्यापी स्याद्व्यो­म्नोऽथ प्रधानतः ।। ३५९ ।।

पार्थि­वा­प्यां­श­यो­स्तेजः परि­क्ले­दा­त्त­थाऽ­धमः ।।
दुर्गन्धो जायते गन्धः पापकर्मप्रबोधतः ।। ३६० ।।

समांशपरिणामे तु सुरभिर्जायते शुभः ।।
पुण्य­क­र्म­प्र­युक्तः सञ्ज­न्तो­रा­स­ङ्ग­कृ­त्तथा ।। ३६१ ।।

रसरूपरवेष्वेवं यथोक्तं प्रतिपादयेत् ।।
प्रधानगुणभावेन गुणानां भूरिरूपता ।। ३६२ ।।

असा­धा­र­ण­ग­न्धा­दि­ग्रा­ह­क­त्वा­नु­मा­नतः ।।
ग्राह्य­भू­त­प्र­धा­नत्वं घ्राणादिष्वपि निर्दिशेत् ।। ३६३ ।।

स्वग्रा­ह्या­र्थ­स­जा­ती­य­मि­न्द्रियं स्यात्प्रदीपवत् ।।
रूप­स्यै­वा­व­भा­सि­त्वान्न चेत्स्या­च्छ्रो­त्र­रू­प­वत् ।। ३६४ ।।

न चेदर्थसजातीयं सर्वार्थग्रहणं भवेत् ।।
एकै­क­स्ये­न्द्रि­य­स्तेह, मनो­बु­द्ध्यो­र्यथा तथा ।। ३६५ ।।

सर्व­भू­ता­त्म­क­त्वात्तु सर्वार्थग्रहणं तयोः ।।
मनोबुद्ध्योरिति ज्ञेयमन्यथा तदसंभवात् ।। ३६६ ।।

त्वगा­दि­ज्ञा­न­श­क्तीनां बुद्धिः सामान्यमुच्यते ।।
प्राण एव क्रिया­श­क्ति­सा­मान्यं तद्वदुच्यते ।। ३६७ ।।

शब्दा­दि­भो­ग­सि­द्ध्यर्थे श्रोत्राद्या ज्ञानशक्तयः ।।
तद्व­त्क­र्मो­प­भो­गार्थं वागाद्याः कर्मशक्तयः ।। ३६८ ।।

यथो­क्त­श­क्ति­वि­क्षेपो मनो­बु­द्धि­पु­रः­सरः ।।
संक­ल्पा­ध्य­व­सा­याभ्यां तयोर्भेदोऽपि च द्विधा ।। ३६९ ।।

योग्यो­न्द्रि­यस्य या यस्य ततोऽन्यत्रापि लक्षिता ।।
वृत्तिस्तस्यैव सा ज्ञेया न स्वभावविपर्ययः ।। ३७० ।।

एवं ज्ञान­क्रि­या­श­क्ति­वि­क्षे­पा­ज्ज­ग­दा­त्मनः ।।
करणायतनत्वाय देहा­वि­र्भू­ति­रा­त्मनः ।। ३७१ ।।

एवं च सति यद्य­स्मा­त्का­र्य­मा­वि­र­भू­त्पुरा ।।
तत्तु तत्रैव विलयं कार्यमेति स्वकारणे ।। ३७२ ।।

मूलकारण एवैषां विलयो भवेत् ।।
तत्का­र­ण­त्वा­त्का­र्याणां न तु कार्यान्तरे लयः ।। ३७३ ।।

पिण्डादिष्वेव प्रात्य­क्ष्या­द्द­टा­दीनां लयादियम् ।।
भ्रान्तिः पूर्वेषु कार्येषु लयोऽयमिति मोहतः ।। ३७४ ।।

एवं त्वगादिवाच्यासु स्पर्शादीनां यथायथम् ।।
स्पर्शा­दि­मा­त्रासु लयस्तासामपि लयस्तथा ।। ३७५ ।।

मनोविषयसामान्ये तस्यापि प्रलयो धियः ।।
स्वगो­च­रै­क­सा­मान्ये सरितां सागरे यथा ।। ३७६ ।।

बुद्धे­र्वि­ष­य­वि­ज्ञा­न­सा­मा­न्य­मपि चाऽऽत्मनि ।।
पर­स्मि­ल्ल़­य­वि­क्षे­प­र­हि­तेऽ­प­रि­णा­मिनि ।। ३७७ ।।

वद­ना­दि­स्व­सा­मा­न्य­वि­ष­येषु तथा लयः ।।
कर्मे­न्द्रि­याणां सर्वेषां तत्सामान्येषु पञ्चसु ।। ३७८ ।।

परिस्पन्दः प्रकाशश्च ज्ञानशक्तिषु विद्यते ।।
केवलस्तु परिस्पन्दः कर्मशक्तिषु निष्प्रभः ।। ३७९ ।।

सर्वोऽप्येष परिस्पन्दो बुद्धी­न्द्रि­य­स­मा­श्रयः ।।
प्राणात्मक इति ज्ञेयो हन्तास्यैवेति च श्रुतेः ।। ३८० ।।

पड्वी­श­श­ङ्कु­दृ­ष्टा­न्ता­त्प्रा­ण­स्यैव तु शक्तयः ।।
कर्मेन्द्रियाणि सर्वाणि तथा बुद्धी­न्द्रि­या­ण्यपि ।। ३८१ ।।

आपीतकरणग्रामे पुंसि स्वात्म­न्य­व­स्थिते ।।
तथा प्राणाग्नयः शुद्धा जाग्रतीति श्रुतेर्वचः ।। ३८२ ।।

सहैव कर्मशक्त्याऽतो ज्ञान­श­क्ति­र्वि­ली­यते ।।
प्राणात्मनि श्रुतिश्चाऽऽह कस्मिन्निति च सादरा ।। ३८३ ।।

साधारणोऽयं विलयः समा­ना­न्तोऽ­भि­धी­यते ।।
स्वहे­तु­मा­त्र­सं­स­र्गा­न्ना­य­मा­त्य­न्तिको लयः ।। ३८४ ।।

ज्ञान­श­क्ति­क्रि­या­श­क्ति­वि­भु­त्वा­त्प­र­म­क्ष­रम् ।।
व्युह्याऽऽ­त्मानं जगत्त्वेन स्वात्मन्येव समूहति ।। ३८५ ।।

निरुह्येति तथा श्रुत्या कार­णा­त्माऽ­भि­धी­यते ।।
अत्यक्रामदिति त्वस्य निर्बी­जा­व­स्थ­तो­च्यते ।। ३८६ ।।

यत एव­म­तोऽ­शे­ष­ज्ञा­न­श­क्ति­ल­या­त्प­रम् ।।
सर्व­का­र्यो­प­सं­हारी प्राण एकोऽवतिष्ठते ।। ३८७ ।।

प्राणोऽपाने तथाऽपानो व्यानात्मनि विलीयते ।।
व्यानोऽ­प्यु­दा­न­म­प्येति ह्युदानोऽपि समानगः ।। ३८८ ।।

कारणात्मैव जगतः समा­नो­क्त्याऽ­भि­धी­यते ।।
सर्वसाधारणः सोऽयं प्राकृतः प्रलयो मतः ।। ३८९ ।।

प्रज्ञा­न­घ­न­ताऽ­प्यस्य न बुद्धि­प्र­ज्ञ­यो­च्यते ।।
प्रत्य­क्प्र­ज्ञो­त्थि­ता­भा­स­सं­ब­न्धा­त्प्राज्ञ उच्यते ।। ३९० ।।

यन्निमित्तं प्रमाणानि प्रामाण्यमिह बिभ्रति ।।
तद­वि­ज्ञा­त­या­था­त्म्य­मे­त­त्का­र­ण­मु­च्यते ।। ३९१ ।।

यस्मिञ्ज्ञाते भवेज्ज्ञातं जगदेतच्चराचरम् ।।
अज्ञाते च तथाऽज्ञातमेतदेव तदुच्यते ।। ३९२ ।।

नन्विह प्रलयः श्रुत्या विषयस्यैव भण्यते ।।
करणस्य तु नैवो­क्त­स्त­त्क­स्मा­दिति भण्यते ।। ३९३ ।।

स्वगोचरसजातीयं करणं मन्यते श्रुतिः ।।
विषयस्य लयो­क्त्याऽ­न्तः­क­र­ण­प्र­ल­यो­क्तता ।। ३९४ ।।

एवं मन्तव्य आत्माऽयं तर्कतः प्राग्यथोदितः ।।
दुन्दु­भ्या­द्यु­क्त­दृ­ष्टा­न्त­न्या­य­म­र्गेण यत्नतः ।। ३९५ ।।

आत्म­सा­मा­न्य­सं­भू­ति­ल­य­हे­तु­स­मा­श्र­यात् ।।
आत्मैव सर्वमित्येष प्रतिज्ञार्थः समर्थितः ।। ३९६ ।।

स्वाभाविकोऽयं प्रलय इति पौराणिका जगुः ।।
बुद्धिपूर्वस्तु विलयः सम्य­ग्ज्ञा­नै­क­पू­र्वकः ।। ३९७ ।।

शक्ति­मा­त्रा­त्मना स्थानं कार्याणां यत्स्वकारणे ।।
इत्य­ना­त्य­न्ति­क­लयो भूयो­ज­न्म­कृ­त­क्षणः ।। ३९८ ।।

अती­ता­ना­ग­ते­ह­त्य­ज­न्म­ना­शा­दि­हे­तु­नुत् ।।
यस्तु धीपूर्वको ध्वंसस्तदर्थेयं परा श्रुतिः ।। ३९९ ।।

यथो­क्त­व­स्तु­सि­द्ध्यर्थं दृष्टा­न्तोऽ­य­मि­हो­च्यते ।।
यथा सैन्ध­व­खि­ल्योऽस्तः स्वयोनावुदधाविह ।। ४०० ।।

कठिनोदकविलयमनु खिल्यो विलीयते ।।
विलीनस्याद्भ्य उद्धत्य ग्रहणाय न कश्चन ।। ४०१ ।।

निपुणोऽपि नरः शक्तः खिल्यरूपेण पूर्ववत् ।।
साम­द्र­रू­पा­न्ना­न्येन ग्रहीतुं कश्चन क्षमः ।। ४०२ ।।

आददीत समुद्राम्भस्तं जिघृक्षुर्यतो यतः ।।
ततस्ततस्तल्लवणं वेत्ति खिल्यं न कुत्रचित् ।। ४०३ ।।

सामुद्रमम्भः खिल्यत्वं याति भानुविपाकतः ।।
सिन्धोरायातः स यत­स्त­स्मा­त्सै­न्धव उच्यते ।। ४०४ ।।

असं­भि­न्न­स्वा­व­यवः खिल्यः सोऽथ निगद्यते ।।
सोऽयं सैन्ध­व­खि­ल्योऽस्तो यथैवेह महोदधौ ।। ४०५ ।।

तेजो विरोधिनीं प्राप्य प्रकृतिं विजहात्यथ ।।
तेजो­वि­यो­गा­त्का­ठिन्यं ध्वस्ती भवति तद्धनम् ।। ४०६ ।।

काठि­न्य­का­र­ण­ध्वस्तौ खिल्यस्येह महोदधौ ।।
कठि­नो­द­क­वि­ध्वं­स­मनु खिल्यो विलीयते ।। ४०७ ।।

यदेवाकृत्रिमं रूपं तदे­वा­स्या­व­शि­ष्यते ।।
तेजो­व­य­व­सं­ब­न्ध­स­मुत्थं विनिवर्तते ।। ४०८ ।।

तेज­आ­द्य­भि­सं­बन्धः कारणं खिल्यरूपिणः ।।
तद्भा­व­भा­व­त­स्तस्य तद्ध्वस्तौ ध्वंसतस्तथा ।। ४०९ ।।

एवं वा अर इत्यस्य कार्यकारणरूपतः ।।
प्रतीचो वास्तवं वृत्तं विरुद्धमभिधीयते ।। ४१० ।।

अव्या­वृ­त्ता­न­नु­ग­त­ब्र­ह्म­त्व­प्र­ति­प­त्तये ।।
महदित्यभिधानं स्यात्कौ­ट­स्थ्यार्थं च भूतगीः ।। ४११ ।।

वास्तवं वृत्तमाश्रित्य प्रतीचः प्राक्प्रबोधतः ।।
स्वतःसिद्धस्य विज्ञप्त्यै महदित्यादि भण्यते ।। ४१२ ।।

कारणस्य निषे­धो­क्ति­र­न­न्त­मिति यद्वचः ।।
अपारमिति कार्यस्य, पारः कार्यस्य कारणम् ।। ४१३ ।।

कारणस्य तथा कार्य­म­न्तोऽ­नादेः प्रसिद्धितः ।।
जात्य­न्त­र­नि­षे­धाय विज्ञानघनगीरपि ।। ४१४ ।।

क्षेत्र­ज्ञा­का­श­यो­रेवं कार्यकारणसंगतिः ।।
अब्धि­स्था­नी­य­मै­कात्म्यं प्राप्यो­क्ते­र्वि­नि­व­र्तते ।। ४१५ ।।

कार्य­का­र­ण­वि­ध्वस्तौ ब्रह्मै­का­त्म्य­प्र­बो­धतः ।।
न विशे­षा­त्म­ला­भोऽस्ति खिल्यस्येव महोदधौ ।। ४१६ ।।

तेजः­सं­ब­न्ध­मा­साद्य यथाऽम्भः खिल्यतामगात् ।।
तथै­वा­ज्ञा­न­भू­तेभ्यः परः क्षेत्रज्ञतां ययौ ।। ४१७ ।।

कार्यात्माऽपचयं गच्छन्यत्र निष्ठां निगच्छति ।।
तानि भूतान्यविद्येते प्राहु­स्त्र­य्य­न्त­नि­ष्ठिताः ।। ४१८ ।।

परः कारणकार्येभ्य आत्मा पूर्णत्वकारणात् ।।
एते­भ्योऽ­वि­द्या­भू­तेभ्यः कार्य­का­र­ण­ता­म­गात् ।। ४१९ ।।

यतोऽविद्यैव तद्धे­तु­स्त­दु­च्छि­त्ता­वतो न सन् ।।
कार्य­का­र­ण­भे­दोऽयं ब्रह्मा­स्मी­ति­प्र­बो­धतः ।। ४२० ।।

तस्मि­न्ध्व­स्तेऽथ संबो­धा­त्के­व­लै­का­त्म्य­शे­षतः ।।
विेशेषसंज्ञा नास्त्यस्य पूर्ण­प्र­ज्ञ­प्ति­मा­त्रतः ।। ४२१ ।।

अवि­चा­रि­त­सि­द्धीनि यान्य­वि­द्ये­त्य­वा­दि­षम् ।।
एतेभ्यो हेतुभूतेभ्यो भूते­भ्योऽ­का­र्य­का­रणः ।। ४२२ ।।

कार्य­का­र­ण­व­द्रूपं समुत्थायेति शब्द्यते ।।
अवि­द्या­सं­ग­ते­रस्य जाय­तेऽ­ने­क­रू­प­वान् ।। ४२३ ।।

चेतनाचेतनाभास आत्मा­ना­त्म­त्व­ल­क्षणः ।।
कार्यकारणरूपेण मिथोपेक्षाश्रयं तमः ।। ४२४ ।।

कार्यकारणतां यात आत्माऽप्येवं तमोवशात् ।।
स्वाभा­सै­र्ब­हु­ता­मेति मनो­बु­द्ध्या­द्यु­पा­धिभिः ।। ४२५ ।।

तमोहेतु समुत्थानं न वेद्मी­त्य­ग्र­हा­त्म­कम् ।।
मिथ्याज्ञानं तमः कुर्वदीदृगेव करोति तत् ।। ४२६ ।।

अवि­द्या­का­र्य­बु­द्धि­स्थ­प्र­त्य­गा­भा­स­रू­प­वत् ।।
बोद्धे­त्या­दि­स­मु­त्थानं भण्यते परमात्मनः ।। ४२७ ।।

श्रोता स्प्रष्टेतिरूपः स्यात्त­थै­वे­न्द्रि­य­वृ­त्तिभिः ।।
दुःखी गौरो द्विजश्चेति शरीरोत्थानतः परः ।। ४२८ ।।

धनी गोमान्दरिद्रो वा धना­द्य­र्था­त्म­सं­गतेः ।।
अतद्वानपि संमो­हा­द्य­थो­क्ता­त्म­क­ता­म­गात् ।। ४२९ ।।

प्रत्य­ग्या­था­त्म्य­मो­होत्था विरिञ्चोपक्रमा मृषा ।।
क्षेत्र­क्षे­त्र­ज्ञ­भे­देन ह्या स्थाणो­रु­त्थि­ति­र्दृशेः ।। ४३० ।।

यथावस्तु यदा बोधो वेदा­न्तो­क्ति­श्रु­ते­र्भ­वेत् ।।
तदा नश्यन्ति भूतानि येभ्यः क्षेत्रज्ञतां गतः ।। ४३१ ।।

स्वरू­प­ला­भ­मा­त्रेण सम्यग्बोधोऽखिलं तमः ।।
यतो हन्ति ततो नासावभ्यासं प्रति वीक्षते ।। ४३२ ।।

व्यङ्ग्ये­ष्व­र्थेषु नाऽऽवृत्त्या व्यञ्जको हन्ति तत्तमः ।।
व्यञ्जकस्य स्वभावोऽयं न प्रयोगमपेक्षते ।। ४३३ ।।

मोहतत्कार्यनीडो यस्त­स्या­ज्ञा­न­स­म­न्व­यात् ।।
प्रत्यगात्माऽपि तद्ब्रह्म परोक्षमभवन्मृपा ।। ४३४ ।।

तद्व­द­द्व­य­त­त्त्वोऽपि तदसंबोधहेतुतः ।।
आत्मा संसारितां यातो यथा कार्प्ण्यं वियत्तथा ।। ४३५ ।।

आत्मनो ब्रह्मता यस्मा­द्ब्र­ह्म­णोऽ­प्या­त्मता स्वतः ।।
तमो­मा­त्रा­न्त­रा­य­त्वा­त्त­द्ध्व­स्त्रा­वेव साऽऽप्यते ।। ४३६ ।।

सर्व­मा­त्मे­ति­स­म्य­ग्धी­ज­न्म­नै­वा­खिलं तमः ।।
ध्वंसमेति ततः संज्ञा नावि­द्यो­त्थाऽ­व­शि­ष्यते ।। ४३७ ।।

सदो­त्प­न्नाऽऽ­त्मनि मिति­रु­त्पा­द्याऽ­का­र­णा­दिधीः ।।
कारणादिधियः पूर्वं प्रतीचि ब्रह्मधीस्ततः ।। ४३८ ।।

अपा­स्ता­शे­ष­भे­दस्य यद्रूपं भेदवद्गतम् ।।
तज्ज्ञानेनैव तज्ज्ञातं तदन्यानवशेषतः ।। ४३९ ।।

अहेतुफलरूपेण प्रतीचा तद्विलक्षणम् ।।
कार्य­का­र­ण­व­ज्जग्ध्वा द्रष्टै­वै­कोऽ­व­शि­ष्यते ।। ४४० ।।

प्रत्य­ङ्भा­त्रे­क्ष­णा­दा­त्म­मो­ह­त­ज्ज­नि­रा­कृतेः ।।
असं­भ­वा­द्द्वि­ती­यस्य स्याम­पू­र्वा­दि­मा­न­हम् ।। ४४१ ।।

व्यपे­त­त­म­स­स्त­त्त्व­मा­ग­मा­पा­य­सा­क्षिणः ।।
ज्ञानेन गम्यते साक्षा­त्ता­व­न्मा­त्रा­नु­रो­धिना ।। ४४२ ।।

दृष्टि­मा­त्रा­त्म­या­था­त्म्या­त्का­र्य­का­र­ण­व­स्तुनः ।।
नाज्ञातं किंचिदप्यस्ति नानपास्त्रं तमोऽप्यतः ।। ४४३ ।।

क्षेत्र­ज्ञे­श्व­र­भे­देन संज्ञा नैवेह विद्यते ।।
तद्धेतौ तमसि ध्वस्ते कुतः संज्ञाऽ­नि­मि­त्ततः ।। ४४४ ।।

संज्ञा प्रेत्याऽऽत्मनो नास्ती­त्ये­त­च्छ्रुत्वा त्वचूचुदत् ।।
शङ्कमानाऽऽत्मनो नाशं मैत्रेयी पतिमादरात् ।। ४४५ ।।

विज्ञा­नै­क­घ­नोक्त्या च निःसंज्ञवचसा तथा ।।
उक्त्यो­र्मि­थो­वि­रु­द्ध­त्वा­दात्मा मोमुह्यते मम ।। ४४६ ।।

अविरुद्धं सुविस्पष्टं मया तुभ्यं प्रभाषितम् ।।
स्वापराधात्तु मद्वाक्यं विरुद्धार्थं त्वमीक्षसे ।। ४४७ ।।

विज्ञा­नै­क­घ­नो­क्त्याऽहं कृत्स्नै­कात्म्यं तवाब्रुवम् ।।
संज्ञानाशेन चावि­द्या­हे­तू­त्था­प­ह्नुतिं तथा ।। ४४८

विशेषसंज्ञा याऽस्या­भू­द्वि­ज्ञा­ना­त्मा­दि­ल­क्षणा ।।
सम्य­ग्धी­ध्व­स्त­मो­हस्य सा कृत्स्ना विनिवर्तते ।। ४४९ ।।

यत्त्वपारमनन्तं च वास्तवं ज्ञानमात्मनः ।।
कूटस्थं तत्स्वतः सिद्धे­स्त­त्क­स्मा­द्वि­नि­व­र्तते ।। ४५० ।।

इतीममर्थं भार्यायै याज्ञ­व­ल्क्योऽ­भ्य­भा­षत ।। ४५१ ।।
कार्य­का­र­ण­ना­शेऽपि स्वतः­सि­द्ध­म­न­न्य­मम् ।।
यद्वस्तु तदलं स्वात्म­सं­वित्त्यै निरपेक्षतः ।। ४५२ ।।

यत्रा­ज्ञा­ता­त्म­त­त्त्वा­त्माऽ­वि­द्या­सं­वी­त­शे­मुषिः ।।
तत्र मिथ्या­ग्र­ह­ग्रस्तो द्रष्टृ­दृ­श्या­दि­भे­दधीः ।। ४५३ ।।

यत्रा­ज्ञा­ता­त्म­या­था­त्म्य­स्त­त्त­मो­पि­हि­ते­क्षणः ।।
तत्रा­वि­द्यो­त्थ­बु­द्ध्या­दि­गु­ण­भू­ता­त्म­वि­न्नरः ।। ४५४ ।।

अवि­द्या­मा­त्र­शे­षत्वं जगतः प्रागवादिपम् ।।
नर्तेऽविद्यां कार्यमिदं हीति हेतावतः पदम् ।। ४५५ ।।

सतोऽभिव्यञ्जकं मानं स्वभावोऽयं मितेर्भवेत् ।।
अविद्यायाः स्वाभावोऽयं यदसत्करणं मृषा ।। ४५६ ।।

उक्त­हे­त्व­र्थ­दी­प्ये­त­द्धीति तस्य निपाततः ।।
द्वीतं द्विधेतमेकं सत्तद्भावो द्वैतमुच्यते ।। ४५७ ।।

उपमार्थ इवे­त्ये­त­द्भ­व­तीति क्रियापदम् ।।
तत्रै­वा­वि­द्या­व­स्थायां संज्ञेयं युज्यते मृषा ।। ४५८ ।।

ननु द्वैत­मि­वे­त्ये­त­दु­प­मानं कथं भवेत् ।।
द्वैतं वस्तु न चेदस्ति सर्व­स्यै­का­त्म्य­मा­त्रतः ।। ४५९ ।।

नैष दोषो यतो दृष्ट एकस्मिन्नपि वस्तुनि ।।
उपमेयोपमाभावो दिग्धीरिव विहायसि ।। ४६० ।।

राम­रा­व­ण­यो­र्युद्धं रामरावणयोरिव ।।
यथा प्रसिद्धो जगति तथैवेहापि गम्यताम् ।। ४६१ ।।

अद्वै­ता­त्प­र­मा­र्थाद्वा माया­द्वै­त­म­पी­ष्यते ।।
तेनो­प­मा­र्थ­सं­सि­द्धे­र्यथा स्वप्ने­न्द्र­जा­लयोः ।। ४६२ ।।

मिथ्येव भाति सत्योऽपीत्यपि लोकेऽभिधीयते ।।
मिथ्याभावो न नास्तीति वक्तुं कश्चिदपि क्षमः ।। ४६३ ।।

सम­स्त­व्य­स्त­ता­रूपं यो वक्तीहाऽऽत्मनः श्रुतेः ।।
तत्पक्षस्य निषेधोऽयं यत्र हीत्यादिनोच्यते ।। ४६४ ।।

तस्या­म­वि­द्या­व­स्थायां स्वप्नावस्थां गतो यथा ।।
घ्रातेतरः सन्नितरं गन्धं घ्राणेन जिघ्रति ।। ४६५ ।।

घ्रातृ­घ्रे­या­भि­सं­ब­न्धा­द्ध्रा­णा­द्या­हृ­ति­रि­ष्यते ।।
जिघ्रतीत्यपि निर्देशः क्रिया­त­त्फ­ल­यो­र्भ­वेत् ।। ४६६ ।।

उत्तरेष्वपि वाक्येषु योजनेयं यथोदिता ।।
प्रत्य­ग­ज्ञा­न­मा­त्रोत्यं ग्राहकाद्यत्र भण्यते ।। ४६७ ।।

क्रिया­का­र­क­सं­ज्ञाया विषयोऽयं समीरितः ।।
अतोऽ­वि­द्या­स­मु­च्छि­त्ता­वियं संज्ञा निवर्तते ।। ४६८ ।।

विज्ञानघन इत्यु­क्ते­र्वि­ष­योऽ­य­म­थो­च्यते ।।
यत्र वा इति वाक्येन ध्वस्ताविद्ये विपश्चिति ।। ४६९ ।।
यत्र त्वस्याऽऽ­त्म­नोऽ­ज्ञस्य शास्त्रा­चा­र्य­प्र­सा­दतः ।। ४७० ।।

प्रत्य­ग्या­या­त्म्य­वि­ज्ञा­न­भा­स्व­द्भा­स्क­र­दी­घिति -
संप्लु­ष्ट­नि­खि­ला­विद्ये तत्र कः केन किं वद ।।
जिघ्रे­दै­का­त्म्य­मा­त्रेण सर्व­स्या­स्याऽऽ­त्म­मा­त्रतः ।। ४७१ ।।

षष्ठ­गो­च­र­व­त्सर्वं कार्य­का­र­ण­व­ज्ज­गत् ।।
ध्वस्ता­त्मा­न्ध्यस्य विदुषः सम्यग्ज्ञानोदये भवेत् ।। ४७२ ।।

अव्या­वृ­त्ता­न­नु­ग­त­म­ति­हेतु सदैकलम् ।।
विज्ञा­न­घ­न­मा­न­न्द­मै­कात्म्यं व्यवतिष्ठते ।। ४७३ ।।

ग्राह­का­दि­वि­भा­गोऽत्र नास्ति तद्धेत्वसंभवात् ।।
चिन्मात्रस्य स्वतः सिद्धे­र्वि­ज्ञा­न­घ­न­गी­रतः ।। ४७४ ।।

आत्मा­वि­द्या­म­ना­श्रित्य कारकत्वं न लभ्यते ।।
कारकं चानपाश्रित्य न क्रियेह प्रसिध्यति ।। ४७५ ।।

अन्तरेण क्रियां तद्वत्पलं नैव प्रसिध्यति ।।
कारकाद्यात्मना सेयमविधैव प्रकाशते ।। ४७६ ।।

यत एव­म­तोऽ­वि­द्या­स­मु­च्छि­त्ता­विदं जगत् ।।
व्याकृ­ता­व्या­कृतं कृत्स्न­मा­त्म­ता­मेति बोधतः ।। ४७७ ।।

भूयोऽपि लभते संज्ञां लीनं सत्कारणात्मनि ।।
जगदेतद्यथा तद्व­न्ना­वि­द्या­वि­लये भवेत् ।। ४७८ ।।

ज्ञानोत्पत्तौ न संज्ञाऽ­स्ती­त्यास्तां तावदिहाऽऽत्मनः ।।
अपि सत्यामविद्यायां न संज्ञाऽ­स्त्या­त्म­नी­दृशी ।। ४७९ ।।

ग्राहकादि जगत्सर्वं येन कूटस्थसाक्षिणा ।।
लोकः सर्वो विजानाति जानीयात्केन तं वद ।। ४८० ।।

अचेतने जग­त्य­स्मि­न्सा­क्ष्ये­वै­कोऽत्र चेतनः ।।
ग्राहकादिर्न तत्रापि साक्षि­सि­द्धा­व­पे­क्ष्यते ।। ४८१ ।।

संज्ञेयं किमु विध्व­स्त­सं­सा­रा­न­र्थ­का­रणे ।।
उदि­तै­का­त्म्य­या­था­त्म्य­स­म्य­ग्ज्ञा­न­दि­वा­करे ।। ४८२ ।।

बोद्धारमपि चापेक्ष्य न संज्ञा प्रत्यगात्मनि ।।
बोद्धृ­त­ज्ज्ञा­न­वि­प­यैर्न बोद्धा गृह्यते यतः ।। ४८३ ।।

अवि­चा­रि­त­सं­सिद्धिः प्रमा­त्रा­दि­स्व­ल­क्षणा ।।
संज्ञेयं प्रथते मोहान्नत्वसौ वस्तुनिश्चितौ ।। ४८४ ।।

यत एवमतः सिद्धं दर्शनं प्रत्यगात्मनः ।।
श्रुत्यादिसाधनं साक्षा­त्स­र्व­मा­त्मे­त्यु­दी­रि­तम् ।। ४८५ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके द्विती­या­ध्या­यस्य चतुर्थं ब्राह्मणम्

नमोऽ­सा­धा­र­ण­ज्ञा­तृ­ज्ञा­न­ज्ञे­या­त्म­बो­धिने ।।
जग्धा­शे­ष­म­हा­वि­द्या­त­ज्जा­ना­र्थाय विष्णवे ।। १ ।।

प्रत्य­ग्ध्वा­न्त­स­मु­च्छेदि ज्ञान­मै­का­त्म्य­नि­ष्ठि­तम् ।।
संन्याससाधनं प्रोक्त­म­मृ­त­त्वै­क­सा­ध­नम् ।। २ ।।

हेतवोऽपि च तत्सिद्धौ श्रव­णा­दि­पु­रः­सराः ।।
उक्ता यथावत्तत्रैव श्रोतव्यः श्रुतिवाक्यतः ।। ३ ।।

मन्तव्यो हेतुभिः सूक्ष्मै­रु­क्त­दृ­ष्टा­न्त­बो­धितैः ।।
चित्सा­मा­न्य­चि­दु­त्प­त्ति­चि­दे­क­प्र­ल­या­त्मभिः ।। ४ ।।

आशङ्क्य हेत्वसिद्धत्वं मधु­ब्रा­ह्म­ण­मु­च्यते ।।
कुतोऽ­सि­द्ध­त्व­मिति चेच्छुणु तद्गदतो मम ।। ५ ।।

निःसा­मा­न्य­वि­शे­ष­त्वा­च्चि­त्सा­मान्यं कथं भवेत् ।।
चिदु­त्प­त्ति­ल­या­सिद्धिः सांख्या­दी­न्प्रति वादिनः ।। ६ ।।

ऐका­त्म्य­व­स्तु­ता­त्पर्यं हेत्वा­दि­च्छ­द्म­नो­च्यते ।।
वेदे यतो न हेत्वादि लोक­व­त्स्या­द्वि­व­क्षि­तम् ।। ७ ।।

चित्तत्त्वं सद­वि­द्या­व­त्का­र­णत्वं निगच्छति ।।
चित्सा­मा­न्या­द्यतः सिद्धं प्राग­प्ये­त­त्प्र­सा­धि­तम् ।। ८ ।।

अभ्यु­पे­त्या­प्य­सि­द्धत्वं तत्सि­द्ध­त्वा­भि­धि­त्सया ।।
मधु­ब्रा­ह्म­ण­मा­र­ब्ध­मि­य­मि­त्या­द्य­थो­त्त­रम् ।। ९ ।।

प्रतिदेहं लयो­त्प­त्ति­श्रु­ते­र्ह्या­त्मनि शङ्क्यते ।।
भेदोऽ­त­स्त­न्नि­वृ­त्त्यर्थं मधु­त्वे­नै­क­तो­च्यते ।। १० ।।

उप­का­र्यो­प­का­रि­त्व­भिन्नं यज्जगदीक्ष्यते ।।
उप­का­र्यो­प­का­रि­त्वा­त्त­त्स्या­दे­का­त्म­त­त्त्व­कम् ।। ११ ।।

प्रति­ज्ञा­या­थ­वै­कात्म्यं हेतू­नु­क्त्वो­क्त­सि­द्धये ।।
निगमायोत्तरो ग्रन्थः प्रतिज्ञाया विवक्षितः ।। १२ ।।

प्रति­ज्ञा­ता­र्थ­सि­द्ध्यर्थं हेतूनुक्त्वा पृथग्विधान् ।।
हेतोर्निगमनं पश्चा­त्क्रि­य­तेऽ­थो­त्त­रो­क्तिभिः ।। १३ ।।

निदि­ध्या­स­न­सि­द्ध्यर्थं केचि­द्व्या­च­क्षते परम् ।।
मधु­ब्रा­ह्म­ण­मे­तत्तु न युक्तं प्रतिभाति नः ।। १४ ।।

श्रुत आगमतो योऽर्थ­स्त­र्के­णापि समर्थितः ।।
स एवार्थस्तु निष्णातो निदि­ध्या­स­न­मु­च्यते ।। १५ ।।

शास्त्रा­चा­र्या­नु­भ­व­नै­र्हे­तु­भिश्च समर्थितः ।।
ईदृ­गै­का­त्म्य­सं­बोधो निदि­ध्या­स­न­मु­च्यते ।। १६ ।।

निदि­ध्या­स­न­सि­द्ध्यर्थो यत्नोऽ­तोऽ­य­म­न­र्थकः ।।
प्रत्य­ग्या­था­त्म्य­सं­बो­ध­मा­त्र­त्वा­देव हेतुतः ।। १७ ।।

क्रिया­फ­लो­प­भो­गार्थं सर्वैरेव स्वकर्मभिः ।।
जन्तुभिः पृथिवी सृष्टा मधु तेषां ततो मही ।। १८ ।।

पृथि­व्याऽ­प्या­त्म­भो­गार्थं सृष्टाः सर्वेऽपि जन्तवः ।।
पृथिव्या अपि कार्यत्वान्मधु तेऽपि भवन्त्यतः ।। १९ ।।

पार्थिवानि शरीराणि सर्वेषां देहिनां यतः ।।
पृथिव्या तानि सृष्टानि पृथि­व्य­न्व­य­द­र्श­नात् ।। २० ।।

भूतानां च पृथिव्याश्च मिथः­का­र्य­त्व­हे­तुतः ।।
योग्य­भो­क्तृ­त्व­सं­ब­न्ध­स्त­स्मा­त्सिद्धः परस्परम् ।। २१ ।।

भोग्यता प्रथमान्तेन पृथि­व्या­दे­रि­हो­च्यते ।।
कर्तृता भोक्तृता चैषां षष्ठ्य­न्ते­ना­भि­धी­यते ।। २२ ।।

अचे­त­नां­श­प्रा­धा­न्या­त्का­र्य­का­र­ण­तो­च्यते ।।
भोक्तृ­भो­ग्या­भि­सं­ब­न्ध­श्चे­त­ना­चे­त­ना­त्मनोः ।। २३ ।।

सर्वेषामपि भूतानां कार्यकारणसंगतेः ।।
सर्व­भू­ता­त्म­कत्वं स्याद्यथा सर्वात्मनस्तथा ।। २४ ।।

संहृत्य स्थूलमाधारं भूतानां च क्षितेस्तथा ।।
तदा­धे­यो­प­सं­हृत्यै यश्चायमिति शब्द्यते ।। २५ ।।

अस्यां पृथिव्यां यश्चासौ भास्व­द्वि­ज्ञा­न­वि­ग्रहः ।।
अमृतो नित्य एवातो न नाशी स्थूलदेहवत् ।। २६ ।।

स चापि मधु सर्वेषां भूतानां तानि तस्य च ।।
मधु सर्वाणि भूतानि यथा पूर्वमवादिषम् ।। २७ ।।

सहा­ध्या­त्मा­धि­दैवं हि साधिभूतमिदं जगत् ।।
एकैकस्याऽऽत्मनः कृत्स्नं भोग्य­त्वे­ना­व­ति­ष्ठते ।। २८ ।।

सर्वः सर्वस्य कार्यं स्यात्सर्वः सर्वस्य भोजकः ।।
एवं सति भवेत्सिद्धं यथा पूर्वं प्रपञ्चितम् ।। २९ ।।

अध्यात्मं यश्च शारीरः पार्थि­वां­श­स­मा­श्रयः ।।
स चापि मधु सर्वेषां सर्वभूतानि तस्य च ।। ३० ।।

कार्यकारणरूपेण भोज्य­भो­क्तृ­त­यो­दि­तम् ।।
चतुष्टयं पृथिव्यादि तस्य तत्त्वमथोच्यते ।। ३१ ।।

चतुष्टयविभागेन स्वार्थोऽ­प्यात्मा विभज्यते ।।
अविभागोऽपि ताद­र्थ्या­द्भो­क्ताऽतः सोऽत्र गृह्यते ।। ३२ ।।

प्रत्यक्तया यः प्रथते चतुष्टयविलक्षणः ।।
प्रात्य­क्ष्या­त्सोऽ­य­मि­त्येवं प्रत्य­क्सा­क्ष्य­भि­धी­यते ।। ३३ ।।

अयमेव स इत्युक्त्वा सामानाधिकरण्यतः ।।
प्रत्य­ङ्भा­त्रै­क­या­थात्म्यं चतुर्धोक्तस्य बोध्यते ।। ३४ ।।

पृथिव्यादिषु यः पूर्वं व्याख्या­तोऽ­न्त­र­बा­ह्यतः ।।
आत्मैव स इति ज्ञेय­स्त­द­बो­ध­प्र­सू­तितः ।। ३५ ।।

अयमित्यस्य शेषः स्याद्योऽ­य­मि­त्या­दिकः परः ।।
एवे­त्य­व­धृ­तो­वे­त­त्सं­स­र्ग­प्र­ति­षे­ध­कृत् ।। ३६ ।।

तत्त्वं चतुष्टयस्यास्य प्रत्यगात्मैव केवलः ।।
अव्या­वृ­त्ता­न­नु­ग­त­ध्व­स्ता­वि­द्या­त­दु­द्भवः ।। ३७ ।।

प्रकृ­ता­त्मा­भि­धानं वा स इत्येतत्पदं भवेत् ।।
अयमित्युच्यते साक्षा­त्सं­नि­क­र्षा­च्च­तु­ष्ट­यम् ।। ३८ ।।

स एवायमिति ज्ञेयो यो द्रष्ट­व्य­त­यो­दितः ।।
यच्चामृतं स्वभार्यायै याज्ञवल्क्येन भाषितम् ।। ३९ ।।

ब्रह्मेति ध्वस्तसंभेदं यन्नेतीति पुरोदितम् ।।
सर्वं समभवत्कृस्नं यद्या­था­त्म्या­व­बो­धतः ।। ४० ।।

पृथिवीं पार्थिवं चांशं शरीरं साधिदैवतम् ।।
जानी­या­त्स­र्व­मा­त्मेति नेति नेत्युपलक्षणम् ।। ४१ ।।

उत्तरेष्वपि वाक्येषु यथोक्तेनैव वर्त्मना ।।
इममेव तु वाक्यार्थं व्याच­क्षी­ता­वि­चा­र­यन् ।। ४२ ।।

पृथिव्यादीनि भूतानि तदंशाश्च समीरिताः ।।
हिर­ण्य­ग­र्भ­लि­ङ्गां­शा­स्तथा पूर्वो­क्त­मू­र्तयः ।। ४३ ।।

यथोक्ता येन सर्वेऽपि प्रयुक्ताः स्वात्मकर्मभिः ।।
उपकुर्वन्ति नः सर्वान्स धर्म इति संज्ञितः ।। ४४ ।।

तस्य कार्यं द्विधेहोक्तं सामा­न्या­त्म­वि­शे­षतः ।।
पृथिव्यादीह सामान्यं विशेषः पिण्डमात्रकम् ।। ४५ ।।

तत्कार्यस्येह प्रात्य­क्ष्या­त्त­द­भे­दो­प­चा­रतः ।।
प्रत्यक्षवदयं धर्म­स्त­स्मा­दे­वा­भि­धी­यते ।। ४६ ।।

साधारणः पृथिव्यादिकारी धर्मोऽभिधीयते ।।
यश्चायमिति वाक्येन तथाऽसाधारणाभिधा ।। ४७ ।।

यश्चा­य­म­ध्या­त्म­मिति योऽयं सद्देहकृन्मतः ।।
साधा­र­ण­वि­शे­षात्मा यदपूर्वं तदुच्यते ।। ४८ ।।

प्राजा­प­त्य­म­पूर्वं यत्स­र्व­भू­त­प्र­यो­ज­कम् ।।
अध्यात्मं पिण्डकृद्यच्च सोऽयं धर्माभिधोदितः ।। ४९ ।।

तथैवाऽऽचाररूपेण प्रत्यक्षेण यदीक्ष्यते ।।
स एव धर्मः सत्यं स्याद्य­द्व्य­व­स्था­प्र­यो­ज­कम् ।। ५० ।।

साधा­र­ण­वि­शे­षाभ्यां धर्मवत्तदपि द्विधा ।।
साधा­र­ण­वि­शे­षा­र्थ­व्य­व­स्था­का­र­ण­त्वतः ।। ५१ ।।

धर्म­स­त्य­प्र­यु­क्तोऽयं लिङ्ग­पि­ण्ड­स्व­ल­क्षणः ।।
विरा­ड्ढि­र­ण्य­ग­र्भश्च सर्व­जा­ति­स­म­न्वितः ।। ५२ ।।

मनु­ष्य­जा­ते­र्ग्र­हणं सर्व­जा­त्यु­प­ल­क्ष­णम् ।।
इदं मानुषमित्येवं व्याख्या तस्यास्तु पूर्ववत् ।। ५३ ।।

पृथिवी शारीर इत्येवं खण्डशो यः पुरोदितः ।।
विरा­ड्ढि­र­ण्य­ग­र्भ­श्चे­त्य­य­मा­त्मेति तद्वचः ।। ५४ ।।

हिर­ण्य­ग­र्भ­भे­दानां भूतानां च पृथक्पृथक् ।।
उक्तं मधुत्वं येना­त­स्त­त्सा­म­स्त्य­म­थो­च्यते ।। ५५ ।।

अयमात्मेति निर्देशो विराजः प्रथमो मतः ।।
सप्तम्यन्तेन तत्प्र­त्य­ङ्लि­ङ्गा­त्माऽ­तोऽ­भि­धी­यते ।। ५६ ।।

कार्यात्मा कारणात्मा च यदर्थौ भवतः सदा ।।
यश्चा­य­मा­त्मे­त्य­त्रोक्तो विज्ञानात्मेति यं विदुः ।। ५७ ।।

यस्मिन्नात्मनि विध्व­स्त­व्या­कृ­ता­व्या­कृ­ता­त्मके ।।
खिल्य­दृ­ष्टा­न्त­व­चसा विज्ञानात्मा प्रवेशितः ।। ५८ ।।

ब्रह्म­वि­द्या­ह­त­ध्वान्ते तस्मिन्ब्रह्मणि निष्ठिते ।।
तम­स्त­दु­त्थ­का­र्या­णा­म­त्य­न्ता­सं­भ­वा­दतः ।। ५९ ।।

योऽसावविद्यया देही संसा­री­वा­प्य­भू­त्पुरा ।।
सोऽयं साक्षात्परं ब्रह्म विद्यया वर्ततेऽधुना ।। ६० ।।

ध्वस्ता­ज्ञा­न­त­दु­त्थोत्यं संवि­न्मा­त्र­स­त­त्त्वकः ।।
अनन्तापार आत्मैव स्वमहिम्नि व्यवस्थितः ।। ६१ ।।

अपू­र्वा­न­प­रा­म­ध्य­प्र­त्य­ग्या­था­त्म्य­वि­त्तये ।।
स वा इत्यादिको ग्रन्थः सदृ­ष्टा­न्तोऽ­भि­धी­यते ।। ६२ ।।

ब्रह्मा­स्मी­ति­प­रि­ज्ञा­न­ध्व­स्त­ध्वा­न्त­त्व­का­र­णात् ।।
राजेति राज­ना­द्भा­स्व­द­वि­लु­प्ता­त्म­द­र्श­नात् ।। ६३ ।।

तथाऽधिपतिशब्देन स्वात­न्त्र्य­म­भि­धी­यते ।।
स्वार्थः प्रत्य­क्त­द­र्थ­त्वा­त्स­हे­तो­र्ज­ग­दा­त्मनः ।। ६४ ।।

प्रत्य­ग्वि­ज्ञ­प्ति­मा­त्रेण समाप्तिं जगदात्मनः ।।
आविश्चिकीर्षुः साक्षा­न्न­स्त­द्य­थेति परा श्रुतिः ।। ६५ ।।

चक्रनाभौ यथा प्रोता­श्च­क्र­नेमौ च बाह्यतः ।।
अराः प्राणा­द­य­स्त­द्व­दोताः प्रोताः परात्मनि ।। ६६ ।।

व्याच­क्ष­तेऽ­न्य­थै­वेमं दृष्टान्तं केचिदात्मनः ।।
सम­स्ता­दि­प्र­ति­ज्ञा­र्थ­सि­द्धये ब्रह्मवादिनः ।। ६७ ।।

एकीकृत्य स्वमा­त्मा­न­म­क्षरे परमात्मनि ।।
चक्र­ना­भि­व­दा­त्मानं कल्पयित्वा विचक्षणः ।। ६८ ।।

शरीरं नेमि­व­च्चै­त­द्दे­व­ता­द्य­र­व­ज्ज­गत् ।।
कल्पयित्वा निदि­ध्या­से­त्त­द्भा­वा­वि­ष्टधीः सदा ।। ६९ ।।

अनेन ध्यानमार्गेण ध्यायमानस्य सर्वदा ।।
तप्तलोहवदेकत्वं भव­त्या­वृ­त्ति­दु­र्ल­भम् ।। ७० ।।

एता­म­व­स्था­मा­पन्नो ध्यातृ­त्वा­द्वि­नि­व­र्तते ।।
अवि­द्या­ति­मि­रा­न्धानां ध्येय­त्व­म­धि­ग­च्छति ।। ७१ ।।

निश्चि­त्या­चि­न्त्य­मे­तद्यो योगिनां निलयं परम् ।।
यं प्राप्य न निवर्तन्ते निर्वाणं परमं गताः ।। ७२ ।।

प्रत्येकं प्राणिनां ह्येत­द्ब्र­ह्म­च­क्र­म­व­स्थि­तम् ।।
असंवोधात्तु तैः सर्वैः प्राणि­भि­र्ना­नु­भू­यते ।। ७३ ।।

वैश्वा­न­र­व­रा­त्के­चि­देवं व्याचक्षते स्फुटम् ।।
अक्ष­रा­न­न्व­या­त्त्याज्या व्याख्येयं साध्वपीदृशी ।। ७४ ।।

सामर्थ्यादपि संप्राप्तो न चेदक्षरपूर्वकः ।।
तादृङ्नोपास्य एवेति प्राहु­रा­ग­म­वे­दिनः ।। ७५ ।।

प्रमा­ण­व­न्त्य­दृ­ष्टानि कल्प्यानि सुबहून्यपि ।।
अदृष्टशतभागोऽपि न कल्प्यो निप्प्रमाणकः ।। ७६ ।।

यथो­क्त­च­क्र­वि­न्यासो न श्रुतोऽ­क्ष­र­पू­र्वकः ।।
न चाप्युपासनपदं कृत्स्नेऽपि ब्राह्मणे श्रुतम् ।। ७७ ।।

नाभि­ने­मि­द्व­य­स्थाने दृष्टान्तत्वेन संमते ।।
दार्ष्टा­न्ति­को­क्ता­वा­त्मैव यतः साक्षादिह श्रुतः ।। ७८ ।।

समर्पितत्वं प्राणादेः श्रूयते प्रत्यगात्मनि ।।
भूतेषु देव­ता­दे­स्त­द­श्रुतं गृह्यते कथम् ।। ७९ ।।

बहि­र­न्त­र्वि­भा­गोऽस्य कार्यकारणता तथा ।।
तदेतदिति वाक्येन प्रतीचोऽत्रैव वार्यते ।। ८० ।।

अथ योऽन्यामिति तथा भेद­दृ­ष्टि­नि­रा­कृतेः ।।
उपा­स्यो­पा­स­न­वि­धिर्न सम्यगिति मे मतिः ।। ८१ ।।

अज्ञा­न­मा­त्र­व्य­व­धे­र्ब्र­ह्मै­का­त्म्य­फ­लस्य च ।।
ब्रह्म­वि­द्या­ति­रे­केण तत्प्राप्तौ नापरा क्रिया ।। ८२ ।।

यद्वा­चाऽ­न­भ्यु­दितं मनुते मनसा न यत् ।।
तदेव ब्रह्म विद्धि त्वं न त्विदं यदुपासते ।। ८३ ।।

उपासिक्रियया व्याप्ति­र­ब्र­ह्म­त्वस्य लक्षणम् ।।
श्रुत्याऽकारि यतस्तादृक्कथं ब्रह्मे­त्यु­पा­स्यते ।। ८४ ।।

दृश्यते त्वग्यया बुद्ध्या मनसैवेति यद्वचः ।।
तदा­त्म­वि­द्या­वि­ध्यर्थं नोपासनविधायकम् ।। ८५ ।।

रज­स्त­मो­नु­वि­द्धेन यतो न ब्रह्म राम्यते ।।
शुद्धचेतस्तया तस्मा­द्वि­द्या­द्ब्र­ह्मा­न्त­रा­त्मनि ।। ८६ ।।

यद्वाऽ­ना­त्मा­भि­सं­ब­न्धा­त्पू­र्व­मै­का­त्म्य­नि­ष्ठिता ।।
सर्वप्राणभृतां बुद्धिरित्यर्थो वचसो भवेत् ।। ८७ ।।

एषोऽर्थो वचसस्तस्य न तूपा­सा­वि­धि­र्भ­वेत् ।।
प्रध्वस्तभेद ऐकात्म्ये नोपासनविधिर्यतः ।। ८८ ।।

चक्र­क्लृ­प्ति­र­तोऽ­साध्वी श्रुत्या­दि­मि­ति­बा­ह्यतः ।।
तदे­त­दि­ति­वा­क्यार्थो ग्राह्योऽतः संभवान्मितेः ।। ८९ ।।

तदाहुरिति वाक्येन ब्रह्म­वि­द्या­प्र­यो­ज­नम् ।।
साक्षेपं प्रागुपन्यस्तं तस्यायं निर्णयः कृतः ।। ९० ।।

आत्मेत्येवेति सूत्रस्य व्याख्येयं सम्यगात्मनः ।।
पञ्च­भि­र्ब्र­ह्मणैः श्रुत्याऽकारि कृत्स्ना­त्म­बु­द्धये ।। ९१ ।।

समाप्ता ब्रह्मविद्येयं कैव­ल्या­वा­प्त­येऽ­खिला ।।
याम­वो­च­त्स्व­भा­र्यायै याज्ञ­व­ल्क्योऽ­ति­वि­स्त­रात् ।। ९२ ।।

यथो­क्त­ब्र­ह्म­वि­द्याया इत आरभ्य भण्यते ।।
आख्यायिकेयं स्तुत्यर्था प्रवृ­त्त्य­ङ्ग­तया परा ।। ९३ ।।

आख्यायिकार्थं मन्त्राभ्यां व्याचष्टे श्रुतिरादरात् ।।
श्रुति­म­न्त्र­स्तुतो ह्यर्थ आदेयत्वं निगच्छति ।। ९४ ।।

अवा­प्त­पु­रु­षा­र्थोऽपि याम­र­क्ष­च्छ­ची­पतिः ।।
प्रत्यग्विद्यैव तेन स्यादु­दा­र­फ­ल­सा­ध­नम् ।। ९५ ।।

महता च यतोऽ­श्वि­भ्या­मा­या­से­ना­र्जिता पुरा ।।
ब्रह्मविद्या ततो नास्य मुक्तौ स्यात्साधनं परम् ।। ९६ ।।

निःशे­ष­पु­रु­षा­र्थानां कैवल्योत्तमता यथा ।।
साधनानामपि तथा तद्वि­द्यो­त्त­म­सा­ध­नम् ।। ९७ ।।

अश्व्या­थ­र्व­ण­यो­र्वृत्तं ब्रह्म­वि­द्या­प्ति­का­र­णात् ।।
यत्प्रा­गा­वि­ष्कृ­ति­स्तस्य मन्त्राभ्यां क्रियतेऽञ्जसा ।। ९८ ।।

अश्विम्यां प्रार्थि­तोऽ­थर्वा मधुविद्यामिमां किल ।।
ताव­थ­र्वाऽ­ब्र­वी­दि­न्द्र­श्छि­न्द्यान्मे ब्रुवतः शिरः ।। ९९ ।।

अतो भयादिमां विद्यां युवाभ्यां न ब्रवीम्यहम् ।।
तमूचतुः पुरै­वाऽऽ­वा­मि­न्द्र­च्छे­द­नतः शिरः ।। १०० ।।

छित्त्वा तवाश्व्यं संधाय शिरः श्रोष्यावहे ततः ।।
ब्रूह्य­तोऽ­श्व्येन शिरसा मधुविद्यां विमुक्तये ।। १०१ ।।

एव­म­स्त्वि­त्य­नु­ज्ञाते छित्वा तस्याथ तच्छिरः ।।
समधत्तां शिरोऽश्वस्य तेन विद्यामुवाच सः ।। १०२ ।।

पुनश्छिन्नेऽथ शिरसि तेने­न्द्रे­णा­श्वि­ना­वपि ।।
समधत्तां शिरस्तस्य विद्यां स्वशिरसाऽथ सः ।। १०३ ।।

शेषा­म­वो­च­द­श्वि­भ्या­मृ­ता­य­न्ना­त्मनो वचः ।।
यत एव­म­त­स्त­स्मा­त्सत्यं रक्ष्यं प्रयत्नतः ।। १०४ ।।

इदं वै तन्मधु प्रोक्तं यत्त­त्प्र­क­र­णा­न्तरे ।।
दध्यङ् ह वा आभ्यामिति श्रूयते ब्राह्मणोक्तितः ।। १०५ ।।

मधु­ब्रा­ह्म­ण­मे­त­त्त­द्य­त्प्रा­गु­क्त­म­भू­त्स्फु­टम् ।।
दध्य­ङ्ङा­थ­र्व­णोऽ­श्विभ्यां यदु­वा­चाऽऽ­त्म­बो­ध­नम् ।। १०६ ।।

अश्व्या­थ­र्व­ण­यो­रे­त­त्कर्म पश्य­न्नृ­चाऽ­ब्र­वीत् ।।
ऋपि­रा­र्षे­य­दृ­ष्ट्यैव तदेतदभिधीयते ।। १०७ ।।

आविप्करोमि तत्कर्म युवयोरद्य हे नरौ ।।
लाभाय सनये क्रूरे चक्र­थु­र्य­द्र­ह­स्यगौ ।। १०८ ।।

वृष्टेरागमनं यद्व­त्स्त­न­यित्नुः प्रबोधयेत् ।।
रहस्यं युवयोः कर्म तद्व­दा­वि­प्क­रो­म्य­हम् ।। १०९ ।।

अश्वस्य शिरसा वां यद­वो­च­न्म­ध्व­सा­वृषिः ।।
दधीचोऽशव्यं शिरश्छित्वा निकृत्यास्य शिरोऽश्विनौ ।। ११० ।।

संधत्तां सोऽश्वशिरसा युवाभ्यां मध्वथाब्रवीत् ।।
ऋता­य­न्स­त्य­मा­त्मानं कर्तु­मि­च्छ­न्न­सा­वृषिः ।। १११ ।।

प्राण­सं­श­य­मा­प­न्न­स्त­स्मा­च्चै­वा­व­सी­यते ।।
आत्मनो मरणेनापि सत्यं रक्ष्यं प्रयत्नतः ।। ११२ ।।

आदित्यविषयं त्वाष्ट्रं मध्ववोचदथर्वणः ।।
हे दस्रावपि कक्ष्यं यत्प्र­त्य­ग्या­था­त्म्य­द­र्श­नम् ।। ११३ ।।

उपक्षयकरौ व्याधेर्दस्रौ स्याता­म­तोऽ­श्विनौ ।।
न केवलं त्वाष्ट्रमेव कक्ष्य­म­प्य­ब्र­वी­न्मधु ।। ११४ ।।

प्रव­र्ग्या­ध्या­यो­रेवं त्वाष्ट्र­ज्ञा­नो­प­सं­हृ­तिम् ।।
मन्त्रद्वयेन कृत्वाऽथ कक्ष्य­ज्ञा­नो­प­सं­हृतिः ।। ११५ ।।

क्रिय­तेऽ­ध्या­य­यो­रेवं मधुकाण्डं समाप्यते ।।
श्रुति­म­त्रो­प­दि­ष्टोऽर्थो यस्मादाद्रियते ततः ।। ११६ ।।

पुरश्चक्रे शरीराणि द्विपदः पक्षिमानुषान् ।।
चतुष्पदोऽथ पशयः पुरश्चक्रे स्वमायया ।। ११७ ।।

पुरो भुक्तशरीरात्स पक्षी लिङ्गमिहोच्यते ।।
पुरो नवशरीराणि प्रावि­श­ज्ज­ल­च­न्द्र­वत् ।। ११८ ।।

कस्मात्पुरुष इति चेत्पुरुषार्थं श्रुतिः स्वयम् ।।
स वा इत्या­दि­नाऽऽ­चष्टे सर्वै­का­त्म्या­व­बु­द्धये ।। ११९ ।।

पुरुषोऽयं भवेदात्मा यतः शेते स पूरुषु ।।
सर्वासु तेन लोकेऽ­स्मि­न्पु­रु­षोऽ­य­मि­ती­र्यते ।। १२० ।।

परि­च्छे­द­प्र­स­ङ्ग­श्चे­न्मैवं यस्मादिदं जगत् ।।
नैनेनानावृतं किंचि­न्ना­व्याप्तं ह्योततन्तुवत् ।। १२१ ।।

नासंवृतं तथा किंचि­त्प्रो­त­त­न्तु­व­दा­त्मना ।।
पूर्ण­त्वा­त्पु­रुपः सोऽयं ब्रह्मैकं पुरुषस्ततः ।। १२२ ।।

यस्मात्परं नापरमस्ति किंचि­द्य­स्मा­न्ना­णीयो न ज्यायोऽस्ति कश्चित् ।।
वृक्ष इव स्तब्धो दिवि तिष्ठ­त्ये­क-स्ते­नेदं पूर्णं पुरुषेण सर्वम् ।। १२३ ।।

आवृतं ज्ञप्तिमात्रेण सर्वमात्मीकृतं जगत् ।।
संवृतं प्रतिषिद्धं तद्यदनात्मेव लक्ष्यते ।। १२४ ।।

तन्नास्ति कारणं कार्यं यन्ना­ने­नाऽऽ­त्म­सा­त्कृ­तम् ।।
तन्नास्ति कारणं कार्यं यन्ना­ने­नाऽऽ­त्मना ह्नुतम् ।। १२५ ।।

रूपं रूपं प्रति ह्येष प्रतिरूपो बभूव ह ।।
देहं देहं प्रविष्टः संस्त­द्दे­हा­का­र­ता­म­गात् ।। १२६ ।।

मायाभिः प्रत्य­ग­ज्ञा­नै­र्यदि वाऽनृतबुद्धिभिः ।।
गम्यते पुरु­रू­पोऽ­ज्ञै­रे­कोऽपि जलसूर्यवत् ।। १२७ ।।

प्रत्य­ग्या­था­त्म्य­बो­धार्थं रूपं मायामयं विभोः ।।
शास्त्रा­चा­र्या­दिना नर्ते ज्ञातुं वस्त्विह शक्यते ।। १२८ ।।

कुतोऽस्य बहुरूपत्वमिति हेतुरिहोच्यते ।।
युक्ता ह्यस्येति वचसा मिथ्या­ज्ञा­नै­क­हे­तुतः ।। १२९ ।।

स्रज­स्त­त्त्वा­प­रि­ज्ञा­ना­द्युक्ता दण्डादयो यथा ।।
प्रत्य­क्त­त्त्वा­प­रि­ज्ञा­ना­दा­त्मनो हरयस्तथा ।। १३० ।।

इन्द्रियाण्येव हरयो हर­णा­द्वि­ष­या­न्प्रति ।।
दश तानि सहस्राणि शतानि प्राणिभेदतः ।। १३१ ।।

नान्यो हेतु­र­वि­ज्ञा­ना­दि­न्द्रि­या­दे­रि­हाऽऽ­त्मनि ।।
यतोऽयमेव हरयो यावत्संख्या तदाश्रया ।। १३२ ।।

अय­मे­वे­न्द्रि­य­त्वेन देहत्वेन च कल्पितः ।।
तथा शत­स­ह­स्रा­दि­सं­ख्या­भे­देन चाप्ययम् ।। १३३ ।।

नाम­रू­प­क्रि­या­भे­दै­र्यथा पूर्वमवादिषम् ।।
अयमेव तथाऽरूपः कल्पि­तोऽ­वि­द्य­याऽ­द्वयः ।। १३४ ।।

तदेतत्कल्पितं सर्वं सहेतु फलवज्जगत् ।।
प्रत्य­गा­त्मा­त्मकं भास्व­त्प्र­ज्ञा­न­घ­न­त­त्त्व­कम् ।। १३५ ।।

निःशे­षो­प­नि­ष­त्सा­र­स्त­दे­त­दिति सांप्रतम् ।।
उक्त्याऽऽ­वि­ष्क्रि­यते साक्षा­त्क­र­वि­न्य­स्त­बि­ल्व­वत् ।। १३६ ।।

अज्ञातं संशयज्ञातं मिथ्याज्ञातमिदं जगत् ।।
तदे­त­दि­त्य­नू­द्यै­त­त्त­त्त­त्त्व­म­व­बो­ध्यते ।। १३७ ।।

ब्रह्मेति वास्तवं वृत्तं ताव­द­स्या­व­बो­ध्यते ।।
ज्ञानात्पुराऽपि ब्रह्मैव नातो ज्ञानफलं भवेत् ।। १३८ ।।

अपूर्वमिति कार्य­त्व­नि­षे­धा­या­भि­धी­यते ।।
कारणत्वनिषेधाय तथाऽनपरगीरियम् ।। १३९ ।।

अनन्तरमिति तयोरन्ध्रस्य प्रतिषेधनम् ।।
कार्य­का­र­ण­यो­र्बा­ह्य­म­बा­ह्य­मिति वार्यते ।। १४० ।।

सत्ता वाऽनन्तरगिरा ब्रह्मणः प्रतिषिध्यते ।।
विशे­षोऽ­बा­ह्य­श­ब्देन ततो वाक्यार्थरूपकम् ।। १४१ ।।

नाऽऽत्म­नोऽ­न्यत्र संभा­व्य­म­पू­र्वादि यदीरितम् ।।
ब्रह्माऽऽ­त्मै­वे­त्यतो वक्ति श्रुति­रै­का­त्म्य­सि­द्धये ।। १४२ ।।

पारो­क्ष्य­प्र­ति­षे­धार्थ ब्रह्माऽऽ­त्मै­वेति भण्यते ।।
ब्रह्मै­वाऽऽ­त्मेति च तथा संसा­रि­त्व­नि­वृ­त्तये ।। १४३ ।।

भिन्नं ब्रह्मा­प­रि­ज्ञा­ना­त्सं­सा­रित्वं तथाऽऽत्मनः ।।
तत्त्व­ज्ञा­ना­त्त­मो­ध्वस्तौ नेती­त्या­त्माऽ­व­शि­ष्यते ।। १४४ ।।

सर्वोऽनुभव एवायमतः सर्वानुभूः परः ।।
कार्त्स्न्या­त्सर्वो भवेदेष चिन्मा­त्र­त्वा­त्त­थाऽ­नुभूः ।। १४५ ।।

इती­त्यु­क्त­प­रा­मर्शो वेदाज्ञा चानुशासनम् ।।
कर्त­व्य­मे­त­द्वि­ज्ञा­न­मिति वेदानुशासनम् ।। १४६ ।।

अस्यातिलङ्घने दोषः संसा­रा­न­र्थ­सं­गतिः ।।
कुर्वतश्च महाल्ला़भ आत्मनः कृतकृत्यता ।। १४७ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके द्विती­या­ध्या­यस्य पञ्चमं ब्राह्मणम्

स्तुत्यर्थं ब्रह्मविद्याया ब्रह्मविद्वंश उच्यते ।।
जपोऽयं ब्रह्म­वि­ज्ञा­न­ज­न्मने चोद्यते श्रुतौ ।। १ ।।

पुंम­त्यू­हो­त्थि­ता­श­ङ्का­नि­वृ­त्त्यर्थं यथोदितम् ।।
ब्रह्मज्ञानस्य वा वंशो यत्ना­च्छ्रु­त्याऽ­य­मु­च्यते ।। २ ।।

यस्यानुशासनं तस्य स्वयंभोः प्रतिपत्तये ।।
पौतिमाष्यादिको ग्रन्थः श्रुत्याऽथ प्रतिपाद्यते ।। ३ ।।

अग्रात्प्रभृति वंशोऽ­य­मा­वे­द­ब्र­ह्म­मू­लतः ।।
भिन्न­हे­तु­नि­षे­धार्थं स्वयंभु ब्रह्म शब्द्यते ।। ४ ।।

यस्मा­द­प­र­त­न्त्रोऽयं वेदात्मा ब्रह्म भण्यते ।।
मनो­वा­क्क­र्म­भि­स्त­स्मा­द्भक्त्या तस्मै नमः सदा ।। ५ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके द्विती­या­ध्या­यस्य षष्ठं ब्राह्मणम्
शतानि दश पञ्चैव श्लोकाः सप्तदशापरे ।।
श्लोकसंख्याऽत्र विज्ञेया चतु­र्था­ध्या­य­वा­र्तिके ।।
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीसु­रे­श्व­रा­चा­र्य­वि­र­चिते बृह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके द्वितीयोऽध्यायः